०८ निक्षेप-काण्डम्

इदानीं निक्षेपाख्यं विवादपदम् उच्यते । अत्र नारदः ।

स्वद्रव्यं यत्र विस्रम्भान् निक्षिपत्यविशङ्कितः ।

निक्षेपो नाम तत् प्रोक्तं व्यवहारपदं बुधैः ॥

अन्यद्रव्यव्यवहितं द्रव्यम् अव्याहृतं च यत् ।

निक्षिप्यते परगृहे तद् औपनिधिकं स्मृतम् ॥

याज्ञवल्क्यः ।

भाजनस्थम् अनाज्ञाय हस्ते न्यस्य यद् अर्प्यते ।

द्रव्यं तद् औपनिधिकं प्रतिदेयं तथैव तत् ॥

उपनिधिर् अपि निक्षेपभेद एव । सव्रूपं सङ्ख्यां चानावेद्य करण्डकादिनिहितं मुद्रितं निक्षिप्तम् उपनिधिः । तत् तथैव देयम् । स्वरूपसङ्ख्याम् आवेद्यार्पितं निक्षेपः । बृहस्पतिः ।

अनाख्यातं व्यवहितम् अस्ङ्ख्यातम् अदर्शितम् ।

मुद्राङ्कितं च यद् दत्तं तद् औपनिधिकं स्मृतम् ॥

कात्यायनः ।

यच् च प्रोक्षितनिक्षिप्तं यच् चान्वाहितवाचितम् ।

अन्यप्रत्यर्पितं चैव सो ऽर्थस् तूपनिधिः स्मृतः ॥

मनुः ।

कुलजे वृत्तसम्पन्ने धर्मज्ञं सत्यवादिनि ।

महापक्षे धनिन्य् आर्ये निक्षेपं निक्षिपेद् बुधः ॥

बृहस्पतिः ।

ज्ञानं गृहं गृहस्थं च तत्फलं विभवं गुणान् ।

सत्यं शौचं बन्धुजनं निरीक्ष्य स्थापयेन् निधिम् ॥

मनुः ।

यो यथा निक्षिपेद् धस्ते यम् अर्थं यस्य मानवः ।

स तथैव गृहीतव्यो यथा दायस् तथा ग्रहः ॥

स्वयम् एव तु यो दद्यात् मृतस्य प्रत्यन्तरे ।

न स राज्ञाभियोक्तव्यो न निक्षेप्तुश् च बन्धुभिः ॥

मिथो दायः कृतो येन गृहीतो मिथ एव वा ।

मिथ एव प्रदातव्यो यथा दायस् तथा ग्रहः ॥

असाक्षिमन् निक्षिप्तम् असाक्षिकम् एव प्रतिदापयेत्, ससाक्षिकं ससाक्षिकम् एवेति ।

साक्ष्यभावे प्रणिधिभिर् वयोरूपसमन्वितैः ।

अपदेशैस् तु सन्न्यस्य हिरण्यं तस्य तत्त्वतः ॥

याच्यः इति शेषः । याज्ञवल्क्यः ।

न दाप्यो ऽपहृतं तत् तु राजदैविकतस्करैः ।

भ्रेषश् चेन् मार्गिते ऽदत्ते दाप्यो दण्डं च तत्समम् ॥

राजदैविकतस्करैः भ्रेशश् चेत् न दाप्यः । भ्रेषाभावे स्वामिना मार्गिते याचिते यदि न ददाति तदा तत्समं दण्डं तच् च दाप्य इति । कात्यायनः ।

उपेक्षणाद् विरोधाद् वा निक्षिप्तस्य विनाशने ।

निक्षेप्त्रे तत् प्रदेयं स्यात् न दैवाद् राजतस् तथा ॥

षट्त्रिंशन्मते ।

परोपनिहितं द्रव्यं संरक्षेत् स्वादरं स्ववत् ।

नष्टे दैवेन राज्ञा वा तद् अदेयं यमो ऽब्रवीत् ॥

भोक्तारं प्रत्य् आह ।

आजीवन् स्वेच्छया दण्ड्यो दाप्यस् तं चापि सोदयम् ।

याचितान्वाहितन्यासनिक्षेपादिष्व् अयं विधिः ॥ इति ।

याचितान्वाहितयोः स्वरूपं कात्यायन आह ।

यच् च स्वकार्यसिद्ध्यर्थं प्रतिदेयं यथा तथा ।

याचित्वा प्रगृहीतं तु तद् याचितकम् उच्यते ॥

अनुमार्गेण कार्येषु अमुष्य वचनान् मया ।

देयं त्वयेति यद् दत्तं तद् अन्वाहितम् उच्यते ॥

न्यासस्वरूपम् आह बृहस्पतिः ।

राजचोरादिकभयाद् दायादानां च वञ्चनात् ।

स्थाप्यते ऽन्यगृहे द्रव्यम् न्यासस् तु परिकीर्तितम् ॥

आदिग्रहणात् सुवर्णकारहस्ते कटकाद्याभरणनिर्माणाय न्यस्तस्य सुवर्णस्य तथा धनवतो विश्वासार्थं सुवर्णकारेण प्रतिदत्तस्यापि ग्रहणम् । तथा च नारदः ।

निक्षेपहरणे दण्डं तत् प्रयत्नेन पालयेत् ।

इति ।

एष एव विधिर् दृष्टो याचितान्वाहितादिषु ।

शिल्पिषूपनिधौ न्यासे प्रतिन्यासे तथैव च ॥

उपनिधेः यः प्रतिदानविधिः स एव याचितादिषु वेदितव्यः । एषु विषयेषु वृद्धिप्रमाणं चाह कात्यायनः ।

निक्षेपं वृद्धिशेषं च क्रयं विक्रयम् एव च ।

याच्यमानं न चेत् दद्यात् वर्धते पञ्चकं शतम् ॥

आजीवन् स्वेच्छया दण्ड्य इति दण्डविधानं श्रीमन्तं प्रत्युच्यते न निर्धनम् । तस्य सोदयदानम् एव । तथा च कात्यायनः ।

भक्षितं सोदयं दाप्यः समं दाप्य उपेक्षितम् ।

किञ्चिन् न्यूनं प्रदाप्यः स्यात् द्रव्यम् अज्ञाननाशितम् ॥

उपेक्षया नाशे समं दाप्यः । अज्ञाननाशे चतुर्थांशन्यूनम् इति ब्रह्मवित्प्रवरः । बृहस्पतिः ।

देवराजोपघातेन यदि तन्नाशम् आप्नुयात् ।

गृहीतद्रव्यसहितं तत्र दोषो न विद्यते ॥

कात्यायनः ।

निक्षिप्तं यस्य यत् किञ्चित् तत् प्रयत्नेन पालयेत् ।

देवराजकृते नाशे गृहीतं दात्य्म् अर्हति ॥

मनुः ।

चोरैर् हृतं जले नष्टम् अग्निना दग्धम् एव च ।

न दद्याद् यदि तस्मात् स न संहरति किञ्चन ॥

बृहस्पतिः ।

भेदेनोपेक्षया न्यासं ग्रहीता यदि नाशयेत् ।

याच्यमानो न दद्याद् वा दाप्यं तत् सोदयं भवेत् ॥

न्यासद्रव्येण यत् किञ्चित् साधयेत् कार्यम् आत्मनः ।

दण्ड्यः स राज्ञा भवति दाप्यं तच् चापि सोदयम् ॥

कात्यायनः ।

यैश् च संस्क्रियते न्यासो दिवसैः परिकीर्तितैः ।

तदूर्ध्वं स्थापयेच् छिल्पी दाप्यो दैवहतो ऽपि तम् ॥

निक्षेपादिरक्षणे ग्रहीतुर् अंशम् आह । नारदः ।

दैवतस्करराजाग्निव्यसने समुपस्थिते ।

यत् तत् स्वशक्त्या संरक्षेत् तस्यांशो दशमः स्मृतः ॥

कात्यायनः ।

चोरतः सलिलाद् अग्नेः धनं यत् स्वयम् आहरेत् ।

तस्यांशो दशमो दयः सर्वद्रव्येष्व् अयं विधिः ॥

बृहस्पतिः ।

ददतो यद् भवेत् पुणयं हेमरूप्याम्बरादिकम् ।

तत् स्यात् पालयतो ऽन्यस्य तथा च शरणागतम् ॥

भर्तृद्रोहे यथा नार्याः पुंसः पुत्रसुहृद्वधे ।

दोषो भवेत् तथा न्यासे भक्षितोपेक्षिते नृणाम् ॥

मनुः ।

उपाधिभिः स यः कश्चित् परद्रव्यं हरेन् नरः ।

ससहायः स हन्तव्यः प्रकाशं विविधैर् वधैः ॥

नीचविषयम् इदम् । विष्णुः- “निक्षेपापहारी वृद्धिसहितं धनं राज्ञा दाप्यः” । तत्समं दण्डं च कात्यायनः ।

यो याचितकम् आदाय न दद्यात् प्रतियाचितः ।

स निगृह्य बलाद् दाप्यो दण्ड्यश् च न ददाति यः ॥

वृद्धिप्रकारं स एवाह ।

क्रयमूल्यं करार्थं च निक्षेपापह्नवे तथा ।

चक्रवृद्ध्या विवर्धेत यावत् पञ्चगुणं भवेत् ॥

त्रिपक्षात् परतो ऽर्थं स्यात् त्रिमासात् त्रिगुणं भवेत् ।

अत ऊर्ध्वं विवर्धेत चक्रवृद्धिव्यवस्थया ॥

बृहस्पतिः ।

रहो दत्ते निधौ यत्र विसंवादः प्रजायते ।

विभावकं तत्र दिव्यम् उभयोर् अपि च स्मृतम् ॥

इति श्रीमद्वरदराजीये निक्षेपकाण्डं समाप्तम्