०३ व्यवहार-मातृका-काण्डम्

व्यवहारमातृकायाम् अभियोगस्वरूपम् आह याज्ञवल्क्यः ।

प्रत्यर्थिनो ऽग्रतो लेख्यं यथावेदितम् अर्थिना ।

समामासतदर्धाहर्नामजात्यादिचिह्नितम् ॥

अर्थः प्रयोजनम् । सिसाधयिषितं यस्यास्ति सो ऽर्थी । तस्य प्रतिपक्षतया व्यवस्थितः प्रत्यर्थी । तस्य अग्रतः सन्निधौ लेख्यं लेखनीयम् । अर्थिना यथावेदितं पूर्वं सम्बन्धप्रवेशनकाले यथालेखितं तथा लेख्यम् । अन्यथा चेत् “अन्यवादी क्रियाद्वेषी” इति पराजयप्रसङ्गात् । ननु यथावेदितस्य पूर्वम् एव सम्बन्धप्रवेशनकाले लिखितत्वात् पुनर् लेखनम् अनर्थकम्, इत्य् अत्राह “समामास” इति। नानार्थकं पुनर् लेखनं पूर्वं वादिना कालादिविशेषणविधुरं साध्यमात्रम् आवेदितम् । उदाहरणम् तु – अमुको हिरण्यादिकं मत्तो गृहीत्वा इदादीं प्रार्थ्यमानो ऽपि न ददातीति । तद् अधुना प्रत्यर्थिनो ऽग्रत समामासादिकालविशेषचिह्नितं शुद्धे (शुद्धं?) पत्रे पुनर् लेखनीयम् इति विशेषः । आदिग्रहणेन द्रव्यसङ्ख्याप्रमाणादीनां ग्रहणम् । तथा चोक्तं बृहस्पतिना ।

देशकालविहीनश् च द्रव्यसङ्ख्याविवर्जितः ।

साध्यप्रमाणहीनश् च पक्षो ऽनादेय इष्यते ॥

तथा च प्रजापतिः ।

प्रत्यर्थिनो ऽग्रतः स्थित्वा वादिपक्षं प्रवर्तयेत् ।

निरवद्यं सप्रतिज्ञं प्रमाणागमसंयुतम् ॥

द्रव्यसङ्ख्योदयं पीडां क्षमालिङ्गं च लेखयेत् ।

अत्र विशेषम् आह कात्यायनः ।

देशः कालस् तथा स्थानं सन्निवेशस् तथैव च ।

जातिसञ्ज्ञाधिवासश् च प्रमाणं क्षेत्रनाम च ॥

पितृपैतामहं चैव पूर्वराजानुकीर्तनम् ।

स्थावरेषु विवादेषु दशैतानि निवेशयेत् ॥

तद् अयम् अर्थः — देशो मध्यदेशादिः । स्थानं वाराणस्यादि । सन्निवेशः तत्रैव पूर्वादिदिग्विभागपरिच्छन्नः सम्यङ्निवेशितो गृहक्षेत्रादिः । जातिः अर्थिप्रत्यर्थिनोः ब्राह्मणत्वादिः । सञ्ज्ञा देवदत्तादिः । अधिवासः समीपदेशः । प्रमाणं निवर्तनादिपरिमाणम् । क्षेत्रनाम शालिक्षेत्रं क्रमुकक्षेत्रं कृष्णभूमिः पाण्डुभूमिर् इति । पितुः पितामहस्य च नामार्थिप्रत्यर्थिनोः । पूर्वेषां त्रयाणां राज्ञां नामकीर्तनं चेति । समामासादीनां यस्मिन् व्यवहारे यावद् उपयुज्यते तत्र तावल् लेखनीयम् इति तात्पर्यार्थः । तथा च कात्यायनः ।

वलां प्रदेशं विषयं स्थानं जात्याकृती वयः ।

साध्यप्रमाणं द्रष्टव्यं सङ्ख्या नाम तथात्मनः ॥

क्षमालिङ्गानि वाक्यानि पक्षं सङ्कीर्त्य कल्पयेत् ॥

नान्यद् इति व्यवस्था । यस्य विशेषणस्य यत्र दृष्ट उपयोगः तद्विशेषणं तत्र विवक्षणीयम्, नान्यद् इति व्यवस्था, तत्र,

आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा ।

इति वचनात्, तत्रैव कालविशेषणस्योपयोगः । देशादेः स्थावरव्यवहार एवोपयोगः । सामन्तैर् नियन्तव्यत्वात् । तेन साध्यसिद्धिम् इच्छतामुकेनामुके काले ऽमुकं द्रव्यम् इयत्सङ्ख्याक्कम् अमुकया वृद्ध्या मत्तो गृहीतं प्रार्थनाकाले दास्यामीति । प्रार्थितम् अधुना न प्रयच्छतीत्य् अभियोगो वक्तव्यः । अन्यथा केनापि किम् अपि गृहीतम् इत्य् उच्यमाने न कश्चिन् न्यायः प्रवर्तते । अनेकेषां युगपत् कार्यसन्निपाते क्रमम् आह प्रजापतिः ।

अर्थानर्थाव् उभौ बुद्ध्वा धर्माधर्मौ च केवलौ ।

वर्णक्रमेण सर्वाणि पश्येत् कार्याणि कार्यिणाम् ॥

अत्र विशेषम् आह नारदः ।

यस्य वाप्य् अधिका पीडा कार्यं वाप्य् अधिकं भवेत् ।

तस्यार्थवादो दातव्यो नयः पूर्वं निवेदयेत् ॥

अर्थवादो ऽभियोगवाद इत्य् अर्थः । बृहस्पतिः ।

अहम्पूर्विकया तावद् अर्थिप्रत्यर्थिनोर् यदा ।

वादो वर्णानुपूर्व्येण ग्राह्यः पीडाम् अवेक्ष्य वा ॥

स्मृत्यन्तरे ।

यद् यद् अगुरुतरं कार्यं न तत् पूर्वं विशोधयेत् ।

वर्णक्रमेण वा पश्येत् गुणयोगेन वा पुनः ॥

देवराजकृतो दोषः तस्मिन् काले यदा भवेत् ।

अवधित्यागमात्रेण न भवेत् स पराजितः ॥

अभियोक्तुर् असमर्थत्वे तस्य शिक्षार्थं कालदानं कर्तव्यम् इति कात्यायनः ।

अभियोक्ताप्रगल्भत्वात् वक्तुं नोत्सहते यदि ।

तस्य कालः प्रदातव्यः कार्यशक्त्यनुरोधतः ॥

श्वो लेखनं वा लभते त्र्यहं सप्ताहम् एव वा ।

मतिर् उत्पद्यते यावत् विवादे वक्तुम् इच्छतः ॥

तथा च स्मृत्यन्तरे ।

भूमौ हि लेखयेत् तावत् यावद् अर्थो न निश्चितः ।

ऊनाधिकं तु संशोध्य पश्चात् पत्रे निवेशयेत् ॥

एतद् उक्तं भवति । आवेदनकाले रागादिना न्यूनाधिकं वा आवेदितं फलकादौ लिखितम्, तथापि भाषाकाले क्रोधाद्युपशमनात् प्रतिवादिसन्निधौ विवक्षितम् उपादाय हेयं त्यक्त्वा शुद्धं पत्रे लेखयेद् इति । ननूक्तस्यान्यथाकरणे अव्यवस्था स्यात् । नाव्यवस्था, नारदेन व्यवस्था उक्तत्वात् । तथा हि ।

भाषाया उत्तरं यावत् प्रत्यर्थी न निवेशयेत् ।

अर्थी तु लेखयेत् तावद् यावद् वस्तु विवक्षितम् ॥

तथा,

शोधयेत् पूर्ववादं तु यावन् नोत्तरदर्शनम् ।

अवष्टब्धस्योत्तरेण निवृत्तं शोधनं भवेत् ॥

उत्तरोक्तौ तु “दुष्टस्य पक्षस्य निवृत्तिर् एव शोधनम्” इति वचनाद् उत्तरोत्तरकालम् उक्तस्य अन्यथा करणं न सम्भवतीति नाव्यवस्थाप्रसङ्गः । तस्य दुष्टस्य पक्षस्य शोधनम् अकृत्वोत्तरोक्तौ,

रागाल् लोभाद् भयाद् वापि स्मृत्यपेतादिकारिणः ।

इत्य् उक्तरीत्या सभ्याः पृथक् पृथक् दण्ड्याः । व्यवहारदर्शनं पुनः प्रतिज्ञान्तरपूर्वकं कर्तव्यम् एव ।

अनेकपदसङ्कीर्णः पूर्वपक्षो न सिद्ध्यति ।

इति यदीदं वचनं तत् साधनभेदप्रतिपत्तिविषयम् । उदाहरणम् – कस्मिंश्चित् काले सुवर्णम् अनेनापहृतं शपथेन साधयामि । कदाचिद् रजतम् अप्य् अपहृतं साक्षिभिः साधयामि । कदाचिद् वर्तुलवृद्ध्यर्थं मत्तो गृहीतं याच्यमानं न ददाति, तल् लेख्येन साधयामि । इत्य् एवम् उक्ते साधनभेदात् क्रमेण निरणयो वर्णनीयः, न युगपत् । तथात्वे ऽष्टादशपदानां सङ्करः स्यात् । अतो यथाभियोक्तृपुरुषभेदे क्रियाभेदः । एवं हेतुभेदे ऽपि क्रियाभेदः । अतो भिन्नसाधनानेकपदसङ्कीर्णः पूर्वपक्षो युगपन् न सिद्ध्यतीति क्रियाभेदात् कालभेदेन व्यवहारो युज्यते । यत्र त्व् अनेकपदानाम् अप्य् एकसाधनेन साध्यता तत्र साध्यभेदाद् अनेकप्रतिज्ञा युक्तेत्य् आह ।

बहुप्रतिज्ञं यत् कार्यं व्यवहारे सुनिश्चितम् ।

कामं तद् अपि गृह्णीयात् राजा तत्त्वबुभुत्सया ॥

सुनिश्चितम् एकेन साधनेन साधयितुं योग्यतया निश्चितम् इत्य् अर्थः । तत्राभियोगो द्विप्रकार इत्य् आह नारदः ।

अभियोगस् तु विज्ञेयः शङ्का तत्त्वाभियोगतः ।

उभयत्र कारणम् आह ।

शङ्कासतां तु संसर्गात् तत्त्वं होढादिदर्शनात् ।

दुष्टैः संसर्गात् शङ्का भवति । होढा लोप्तृचिह्नम् इति नष्टैकदेशद्रव्यम् इति यावत् । अपहृतद्रव्यैकदेशस्य दर्शनान् निश्चय इति । उभयत्रोदाहरणं तु – चोरैः संसर्गान् मदीयं द्रव्यम् अनेनापहृतम् इति शङ्का भवतीति शङ्काभियोगः । स चैकरूप एव । नष्टद्रव्यसैकदेशदर्शनात् तत्त्वाभियोगः, निश्चयाभियोग इत्य् अर्थः । स च विधिप्रतिषेधरूपेण द्विविध इत्य् आह कात्यायनः ।

न्याय्यं वा नेच्छते कर्तुम् अन्याय्यं वा करोत्य् अयम् ।

न लेखयति यस् त्व् एवं तस्य पक्षो न सिद्ध्यति ॥ इति ।

“न्याय्यं न करोति” “अन्यय्यं वा करोति” इति तत्त्वाभियोगो द्विविधः । उदाहरणं तु – काले दास्यामीत्य् उक्त्वा वृद्ध्यर्थं मत्तो हिरण्यादिकं गृहीत्वा काले प्राप्ते याच्यमानो न ददाति, न्यायं न करोतीत्य् अभियोगः । मदीयं हिरण्यादिकम् अयं बलास् अपरतीति अन्यायं करोतीति, अन्यायाभियोगः । अस्यैव द्विविधस्य अभियोगस्य ऋणादिसाध्यभेदेनाष्टादशधा भेदम् आह बृहस्पतिः ।

द्विपदो व्यवहारः स्याद् धनहिंसासमुद्भवः ।

द्विसप्तको ऽर्थमूलस् तु हिंसामूलश् चतुर्विधः ॥

तथा च कात्यायनः ।

द्वे पदे (भेदे) साध्यभेदात् तु पदाष्टादशतां गते ।

अष्टादशक्रियाभेदात् भिन्नान्य् अत्र सहस्रशः ॥

वादिप्रतिवादिपुरुषाणां क्रियाभेदात् सहस्रशो बहुश इत्य् अर्थः । अथ तान्य् अष्टादशपदान्य् आह नारदः ।

ऋणादानं ह्य् उपनिधिः सम्भूयोत्थानम् एव च ।

दत्तस्य पुनर् आदानम् अशुश्रूषाभ्युपेत्य च ॥

वेतनस्यानपाकर्म तथैवास्वामिविक्रयः ।

विक्रीयासम्प्रदानं च क्रीत्वानुशय एव च ॥

समयस्यानपाकर्म विवादः क्षेत्रजस् तथा ।

स्त्रीपुंसयोश् च सम्बन्धो दायभागो ऽथ साहसम् ॥

वाक्पारुष्यं तथैवोक्तं दण्डपारुष्यम् एव च ।

द्यूतं प्रकीर्णकं चैवेत्य् अष्टादश पदं स्मृतम् ॥

एवं पूर्वपक्षे ऽभिहिते उत्तरं व्यवहारमातृकायां याज्ञवल्क्य आह ।

श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसन्निधौ ।

श्रुतः अनुभूतः प्रत्यक्षेणैव येन भाषिते ऽर्थःन परवचनात् तस्य उत्तरं लेखनीयम्, पूर्वावेदकस्यार्थिनः सन्निधाने । कात्यायनः ।

यदा त्व् एवंविधः पक्षः कल्पितः पूर्ववादिना ।

दद्यात् तत्पक्षसम्बन्धं प्रतिवादी तदोत्तरम् ॥

पक्षसम्बन्धम् उत्तरकालं कृत्स्नपक्षार्थनिराकरणसमर्थम् उत्तरं दद्याद् इति नारदः ।

पक्षस्य व्यापकं सारम् असन्दिग्धम् अनाकुलम् ।

अव्याख्यागम्यम् इत्य् एवम् उत्तरं तद्विदो विदुः ॥

शालीनत्वाद् भयाद् वापि प्रत्यर्थिस्मृतिविभ्रमात् ।

कालं प्रार्थयते यत्र तत्रेमं लब्धुम् अर्हति ॥

एकाहं वा त्र्यहं वापि पञ्च सप्ताहम् एव वा ।

मासं मासत्रयं वर्षं लभते शक्त्यपेक्षया ॥

समातीते दिनं देयं त्रिरात्रं तु षडब्दके ।

द्व्यब्दे त्रिरात्रम् एव स्यात् सप्ताहं द्वादशाब्दिके ॥

पञ्चाहं नववर्षे स्यात् दशाहं विंशतौ भवेत् ।

मासार्धं पञ्चविंशत्या मासं त्रिंशत्समास्व् अपि ॥

त्रिपक्षं परतो देयं विवादं वदतां नृणाम् ।

कालं शक्तिं विदित्वा तु कार्याणां च बलाबलम् ॥

अल्पं वा बहु वा कालं दद्यात् प्रत्यर्थिने प्रभुः ।

किं बहुना ।

सद्यः कृत्येषु कार्येषु सद्य एव विवादयेत् ।

काले ऽतीतेषु वा कालं दद्यात् प्रत्यर्थिने नृपः ॥

अत्र प्रजापतिः ।

दिनम् एकम् अथ द्वे वा त्रीणि वा पञ्च सप्त वा ।

कालस् त्व् ऋणादौ दाप्यः स्यात् त्रिपक्षाद् अपि (वधिकः) स्मृतः ॥

कात्यायनः ।

संवत्सरं वामनको जडो व्याधिप्रपीडितः ।

दिगन्तराद् गच्छति चेद् यस् तु स्वकृतिनिर्णयः ॥

यदा पुनः काले दत्ते देवकृतं राजकृतं वा विलम्बनं भवति, तदान्यः कालो देयः ।

दत्ते ऽपि काले देयः स्यात् पुनः कार्यस्य गौरवात् ।

हारीतः ।

कृते कार्ये विवादे तु सद्यो ऽनन्तरम् उत्तरम् ।

अपरत्रागते काले कालः काले ऽपि दीयते ॥

अथ सद्यो विवादम् आह बृअहस्पतिः ।

धेनाव् अनडुहि क्षेत्रे स्त्रीषु प्रजनने तथा ।

न्यासे याचितके दत्ते तथैव क्रयविक्रये ॥

कन्याया दूषणे स्तेये कलहे साहसेषु च ।

उपधौ कूटसाक्ष्ये च सद्य एव विवादयेत् ॥

याज्ञवल्क्यः ।

साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियाः ।

विवादयेत् सद्य एव कालो ऽन्यत्रेच्छया स्मृतः ॥

अत्रोत्तरं कात्यायनः ।

मिथ्यासम्पतिपत्त्या वा प्रत्यवस्कन्दनेन वा ।

प्राङ्न्यायविधिसिद्ध्या वाप्य् उत्तरं स्याच् चतुर्विधम् ॥

उदाहरणं तु — मत्तो हिरण्यादिकं गृहीतम् इत्य् अभियोगे कृते, उत्तरवादिना न गृहीतम् इत्य् एकम् । सत्यं गृहीतं दास्यामीत्य् अपरम् । गृहीत्वा दत्तम् इत्य् अन्यत् । अस्मिन् विवादे मया पूर्वम् एव विजित इति । एवं चतुर्विधम् उत्तरं सम्भवति । न पुनः गृहीत्वा न प्रयच्छामीत्य् उत्तरं सम्भवति । तत्र न गृहीतम् इत्य् उत्तरे इत्य् उत्तरे पूर्ववादिना ग्रहणं साध्यम् । सत्यं गृहीतं दास्यामीत्य् उत्तरे न क्रियायाः प्रयोजनम् इति, सम्प्रतिपत्तेः । गृहीत्वा दत्तम् इत्य् उत्तरे ग्रहणस्याभ्युपगतत्वाद् उत्तरवादिना प्रतिदानं साध्यम् । अस्मिन् विवादे मया पूर्वम् एव जित इत्य् उक्ते, जयो जयपत्रेण व्यवहारदर्शिभिर् वा भावयितव्यः । तथा च वृद्धवसिष्ठः ।

सत्यानृते कारणं च प्राङ्न्यायश् चोत्तरं पृथक् ।

साध्यस्य सत्यवचनं प्रतिपत्तिर् उदाहृता ॥

कारणं स्याद् अवस्कन्दो मिथ्या स्यात् सत्यनिह्णुतिः ।

आचारेणावसन्नो ऽपि पुनर् लेखयते यदि ।

सो ऽभिधेयो जितः पूर्वं प्राङ्न्यायस् तु स उच्यते ॥

तत्रोत्तरोक्तिक्रमं कात्यायन आह ।

तथ्ये तथ्यं प्रयुञ्जीत मिथ्या मिथ्या (?) च लेखयेत् ।

कारणं कारणोपेते प्राङ्न्याये तु जयं तथा ॥ इति ।

तत्र साधनप्रकारम् आह हारीतः ।

प्राङ्न्याये कारणोक्तौ च प्रत्यर्थी निर्दिशेत् क्रियाम् ।

मिथ्योकौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत् ॥

तथा च नारदः ।

मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादिनि ।

प्राङ्न्यायविधिसिद्धौ तु जयपत्रक्रिया भवेत् ॥

तत्र मिथ्याचातुर्विध्ये हारीतः ।

मिथ्यैतन् नाभिजानामि तदा तत्र न सन्निधिः ।

अजातश् चास्मि तत्काल इति मिथ्या चतुर्विधा ॥

सर्वथा यथा कथञ्चिद् अभियोगाभावे मिथ्या भवतीत्य् ऐकार्थ्यम् एवेति कात्यायनः ।

श्रुत्वा भाषार्थम् अन्यस् तु यदा तं प्रतिषेधति ।

अर्थतः शब्दतो वापि मिथ्या तज् ज्ञेयम् उत्तरम् ॥

अन्यैर् अप्य् एवम् एव सङ्क्षिप्य मिथ्यालक्षणम् उक्तम् ।

अभियुक्तो ऽभियोगस्य यदि कुर्याद् अपह्नवम् ।

मिथ्या तत् तु विजानीयाद् उत्तरं व्यवहारतः ॥

मनुः ।

अर्थिना लिखितो यो ऽर्थः प्रत्यर्थी यदि तं तथा ।

प्रपद्य कारणं ब्रूयात् प्रत्यवस्कन्दनं हि तत् ॥

एतद् एवाधार्यम् इति कैश्चिद् उच्यते । वृद्धकात्यायनः ।

व्यपेता तु क्रिया यत्र ह्य् अभ्युक्तेन कीर्तिता ।

आधार्यं तद् विजानीयात् पूर्वपक्षस्य नान्यथा ॥

व्यपेता तु क्रिया यत्र यदा न्यग्भाव एव वा ।

हारीतः ।

आचारेणावसन्नो ऽपि पुनर् लेखयते यदि ।

सो ऽभिधेयो जितः पूर्वं प्राङ्न्यायस् तु स उच्यते ॥

तत्र कारणोत्तरं द्विविधम्, शुद्धं मिथ्यासहचरितं च । तत्र शुद्धय्सोदाहरणम् – सुवर्णशतं मदीयम् अनेन गृहीतम् इत्य् उक्ते सत्यं गृहीतम्, तत् प्रतिदत्तम् इति । एतद् एव प्रत्यवस्कन्दनम् इत्य् उच्यते । असाध्यत्वेनान्यग्भावात् । असाध्यत्वं चाभ्युपगमात् । तथा यैर् एव विशेषणैर् युक्तो वादिनार्थो लिखितः, तैर् एव युक्तम् अभ्युपगम्य प्रतिवादी यदि कारणम् आह तद् आदार्यम् इत्य् उच्यते । उदाहरणं तु – रूपकशतम् अनेन गृहीतम्, न दत्तं च, तद् धिरण्यादिक्रयार्थम् इत्य् आधार्य गृहीतं न दत्तम् इत्य् अस्यार्थस्याभ्युपगमाद् एवासाध्यत्वेन न्यग्भावात् । तत्र मिथ्यासहचरितस्योदाहरणम् – यथा शृङ्गिणी कृष्णा मदीया गौर् अस्मद्गृहे जाता, अमुकस्मिन् काले नष्टा, सा चैतस्य गृहे दृष्टा इत्य् उक्ते, उत्तरवादी त्व् आह – मिथ्यैतत्, स मम गृहे जातैव, त्वत्प्रदर्शितकालात् प्राग् अपि मद्गृहे स्थितैवेत्य् उक्ते न शूद्धमिथ्या, कारणोपन्यासात् । नापि शुद्धकारणम्, पक्षाद्युपगमाभावात्, “वादिना लिखितो यो ऽर्थः” इति मनुना शुद्धकारणलक्षणाभिधानात् । न चानुत्तरम्, व्यापकत्वेन पक्षनिराकरणसमर्थत्वात् । तद् एतन् मिथ्यासहचरितं कारणम् ।

प्राङ्न्यायस् तु त्रिविधः । ऐन्द्रस्थाने जितस्य प्राङ्न्यायविधिसिद्धौ जयपत्रेणाहं भावयामीत्य् एकः, कुलव्यवहारे च जयपत्राभावात्, “कुल्याः कुलविवादेषु विज्ञेयास् ते ऽपि साक्षिणः” इति वचनात् । तैर् एव व्यवहारदर्शिभिः भावयामीत्य् द्वितीयः,

राज्ञा धर्मासनस्थेन यच् छ्रुतं तत्त्वदर्शिना ।

नान्यः साक्षी भवेत् तत्र मुक्त्वा राजानम् ईश्वरम् ॥

इति वचनात्, साक्ष्यभावात् । राज्ञा भावयामीति तृतीयः ।

तत्र “श्रुतार्थस्योत्तरं लेख्यम्” इत्य् एकवचनश्रवणात्, बहूनां हेतूनां सङ्करो निरस्तः । उदाहरणम् – मदीयं हिरण्यं रूपकं रत्नानि वासांसि चानेन गृहीतानीत्य् उक्ते, सत्यं हिरण्यं गृहीतम्, दास्यामि, रूपकं च प्रदत्तम्, वासांसि न गृहीतानि । हिरण्यादिरत्नानि गृहीतानि क्रयार्थम् इत्य् उक्त, अवश्यं मिथ्याकारणयोर् उभयत्र क्रिया भवति, तच् च न सम्भवति, एकस्मिन् विवादे उभयोः साध्याभावात् । एतत् सर्वं कात्यायन आह ।

पक्षैकदेशे यत् सत्यम् एकदेशे च कारणम् ।

मिथ्या चैवैकदेशे च सङ्करात् तद् अनुत्तरम् ॥

इत्य् उक्त्वा, तत्रैव तेनैवोक्तम् ।

न चैकस्मिन् विवादे तु क्रिया स्याड् वादिनोर् द्वयोः ।

न चार्थसिद्धिर् उभयोर् न चैकत्र क्रियाद्वयम् ॥

तत्र सङ्करोकाव् एवं कर्तव्यम् इति हारीतः ।

मिथ्योत्तरं कारणं च स्याताम् एकत्र चेद् उभे ।

सत्यं वापि सहान्येन तत्र ग्राह्यं किम् उत्तरम् ॥

इत्य् उक्त्वोक्तम् ।

यत् प्रभूतार्थविषयं यत्र वा स्यात् क्रियाफलम् ।

उत्तरं तत्र विज्ञेयम् असङ्कीर्णम् अतो ऽन्यथा ॥

एवम् उत्तरं तत्रासङ्कीर्णं भवति । अतो ऽन्यथा सङ्कीर्णं वादभेदापादकं भवतीत्य् अर्थः । उदाहरणम् – असौ मत्तः सुवर्णशतम् एकं च रजतं गृहीत्वा याच्यमानो न प्रयच्छतीत्य् अभियोगे, सुवर्णशतं न गृहीतम्, रजतम् एकं प्रतिदत्तम् इत्य् अभिहिते न वादभेदः । मिथ्यांशे पूर्ववादिनः क्रिया प्राप्ता प्रभूतविषयेति, पूर्ववाद्य् एव तत्साधनाद् एव रजतप्रतिदानाभावम् अपि साधयेद् इति न वादभेदप्रसङ्गः । क्रियाफलस्योदाहरणम् – मत्तो ऽसाव् एकं सुवर्णं गृहीत्वा याच्यमानो न केवलं न ददाति, किं तु मच्छिरसि ताडितवान् इत्य् अभियोगे, न शिरसि ताडितम्, सुवर्णं च प्रतिदत्तम् इत्य् उत्तरे ऽभिहिते ऽपि, न वादभेदः । पूर्ववादिनः क्रियाया दण्डगुरुत्वापादकत्वात्, पूर्ववाद्य् एव शिरसि ताडनं सुवर्णप्रतिदानाभावं च साधयेत् । उदाहरणं तु – असौ मत्तः सुवर्णद्वयं गृहीत्वा याच्यमानो न प्रयच्छति इत्य् अभियोगे, एकं न गृहीतम् एकं गृहीतम्, तच् च प्रतिदत्तं चेत्य् उत्तरे, दण्डार्थयोः साम्यात् वादभेदः । यत्र पुनर् एकस्मिन्न् एव साध्ये, मिथ्याकारणे भवतः । उदाहरणम् – शृङ्गिणी गौर् मदीया अमुकस्मिन् मासि नष्टा, सास्य गृहे दृश्यमाना प्रार्थ्यमान न दीयत इत्य् अभियोगे, उत्तरवादी तु, न त्वदीया सा गौर् इति प्रैषिध्य, मदीयैव सा इत्य् आत्मसम्बन्धं प्रतिज्ञाय कारणम् अभिहितवान्, सा गौर् ममैव, त्वदुक्तकालात् प्राग् अपि मद्गृहे स्थितेति । एवं मिथ्याकारणसङ्करे उत्तरे, उत्तरम् एव कारणं ग्राह्यम्,

मिथ्याकारणयोर् वापि ग्राह्यं कारणम् उत्तरम् ।

इति वचनात् । न च “अभाववादिनि क्रियाकारणे प्रतिवादिनि” इति वचनात् । ननु “मिथ्या क्रिया पूर्ववादे” इतीदम् अपि वचनम् एव । सत्यम्, तच्छुद्धं मिथ्याभिप्रायेण । ननु “कारणे प्रतिवादिनि” इति किम् इति शुद्धकारणाभिप्रायेण न भवति । मैवम् । “प्रतिवादिनि” इत्य् अनेन सङ्करोत्तरे मिथ्यानिराकरणमात्रम् अत्रोच्यते । “मिथ्याक्रिया पूर्ववादे” इत्य् अनेन यस्यासाध्यम् अस्ति असौ साधयेद् इत्य् उच्यते । कारणोत्तरे पुनर् उत्तरवादिन एव साध्यम्, “कारणात् पूर्वपक्षो ऽपि ह्य् उत्तरत्वं प्रपद्यते” इति वचनात् । तेन “मिथ्योत्तरे पूर्ववादिनि” इत्यनेन “कारणोत्तरे उत्तरवादिनि” इत्य् अस्यार्थस्य सिद्धत्वात्, “कारणे प्रतिवादिनि” इत्य् अनेन मिथ्यानिराकरणम् एवोच्यत इति सुष्टूक्तम् । अथ उत्तराभासानां लक्षणम् आह कात्यायनः ।

सन्दिघम् अन्यत् प्रकृताद् अत्यल्पम् अतिभूरि च ।

पक्षैकदेशव्याप्यं यत् तच् च नैवोत्तरे भवेत् ॥

तथा च हारीतः ।

व्यत्यस्तपदम् अव्यापि निगूढार्थम् अथाकुलम् ।

व्याख्यागम्यम् असारं च नोत्तरं शस्यते बुधैः ॥

उदाहरणानि —

सन्दिग्धम् यथा – सुवर्णशतम् अनेन गृहीतम् इत्य् उक्ते, सत्यं गृहीतम्, सुवर्णशतं माषशतं वेति प्रकृताद् अन्यथा सुवर्णस्य शताभियोगे वस्त्रशतं धारयामीति । अत्यल्पं यथा – सुवर्णशताभियोगे पञ्चाशतं धारयामीति । अतिभूरि यथा – शताभियोगे सहस्रं धारयामीति । पक्षैकदेशव्यापि यथा – हिरण्यवस्त्राभियोगे हिरण्यं धारयामीति । व्यस्तपदं यथा – ऋणादानाभियोगे पदान्तरेणोत्तरम् । यथा सुवर्णशताभियोगे अनेनाहं ताडित इति । अव्यापि यथा – देशस्थानादिविशेषणाव्यापीत्य् अर्थः । यथा मध्यदेशे वाराणस्याम् उत्तरस्यां दिशि शालिक्षेत्रम् अपहृतम् इत्य् उक्ते क्षेत्रं नापहृतम् इति । निगूढार्थं यथा – सुवर्णशताभियोगे किम् अहम् एव धारयामीति । अर्थी प्राड्विवाकः सभ्यो वान्यो वान्यस्मै धारयति, सूचयतीति निगूढार्थम् । आकुलं पूर्वापरविरुद्धं यथा – शताभियोगे सत्यं गृहीतं न धारयामीति । व्याख्यागम्यं यथा – दुःश्लिष्टविभक्तसमासाध्याहाराभिधानेन व्याख्यागम्यम् । अदेशभाषाभिधानेन वा यथा – सुवर्णशतविषये पित्रर्णाभियोगे गृहीतं वचनात् सुवर्णानां पितुर् जानामीति । अत्र गृहीतशतस्य पितुर् वचनात्, सुवर्णानां शतं गृहीतम् इति न जानामीति व्याख्यागम्यत्वम् । असारं यथा – तच् च विरुद्धं सुवर्णशतं वृद्ध्या गृहीतम्, वृद्धिर् एव दत्ता न मूल्यम् इत्य् अभियोगे, सत्यं वृद्धिर् दत्ता न मूल्यं गृहीतम् इति । कात्यायनः ।

उन्मत्तमत्तनिर्धूतमहापातकदूषिताः ।

जडान्धवृद्धा स्त्रीबाला विज्ञेयास् तु निरुत्तराः ॥

अत्र बृहस्पतिः ।

पूर्वपक्षे यथार्थं तु न दद्याद् उत्तरं तु यः ।

प्रत्यर्थी दापनीयः स्यात् सामादिभिर् उपक्रमैः ॥

सामादिलक्षणं तथा ।

प्रियपूर्वं वचः साम भेदस् तु भयदर्शनम् ।

अर्थापकर्षणं दण्डस् ताडनं बन्धनं तथा ॥

उपायैश् चोद्यमानस् तु न दद्याद् उत्तरं तु यः ।

अतिक्रान्तं सप्तरात्रे जितो ऽसौ दण्डम् अर्हति ॥

मोहाद् वा यदि वा शाठ्याद् यन् नोक्तं पूर्ववादिना ।

उत्तरान्तर्गतं वापि तद् ग्राह्यम् उभयोर् अपि ॥

कात्यायनः ।

स्वभावाल् लिखिते वाक्ये प्रारब्धे कार्यनिर्णये ।

अनुक्तं तत्र यो ब्रूयात् तदर्थात् स तु हीयते ॥

इदं परस्त्रीभूम्यृणादानव्यतिरिक्तविषयम्, तत्र अर्थहान्यभावात् । सूत्रस्थानीयां व्यवहारमातृकां निगमयति याज्ञवल्क्यः ।

ततो ऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम् ।

तत्सिद्धौ सिद्धिम् आप्नोति विपरीतम् अतो ऽन्यथा ॥

चतुष्पाद् व्यवहारो ऽयं विवादेषूपदर्शितः ।

ततः तस्माद् उत्तरकाराद् अनन्तरम्, अर्थी लेखयेत् साध्यवान् । सद्यः एव नाभियोगोत्तरप्रतीक्षा कर्तव्या । साध्यते ऽनेनेति साधनं प्रमाणम् । ततस् तस्य प्रतिज्ञातार्थसिद्धौ जयपत्रलक्षणप्राप्तिः सिद्धिशब्देनोच्यते । विपरीतं पराजयः । अन्यथा तस्यासिद्धौ । अतः सद्य एवार्थी प्रतिज्ञातार्थस्य साधनं लेखयेद् इति । अत्रार्थिग्रहणेन यस्य साध्यम् अस्ति तस्य प्रतिग्रहः । तथा च सति प्राङ्न्याये कारणोक्तौ प्रत्यर्थी वार्थी जातः तस्यैव साध्ययोगेन पूर्ववादित्वात् । तथा च कात्यायनः ।

कारणात् पूर्वपक्षो ऽपि ह्य् उत्तरत्वं प्रपद्यते ।

अतः क्रिया सदा प्रोक्तो पूर्वपक्षप्रसाधिनी ॥

साध्यवादिनः क्रियेत्य् अर्थः । बृहस्पतिः ।

प्राङ्न्याये कारणोक्तौ च प्रत्यर्थी निर्दिशेत् क्रियाम् ।

मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत् ॥

तत्र कारणस्य साध्यत्वात् तन्निर्देशस्य प्रतिज्ञात्वम् अस्ति । अतः प्रतिवादिनो ऽपि तस्मिन् अर्थे साधनं युज्यत एव । तथा चोक्तं नारदेन ।

सारस् तु व्यवहाराणां प्रतिज्ञा समुदाहृता ।

तद्धानौ हीयते वादी तरंस् ताम् उत्तरो भवेत् ॥

एवमुक्तन्यायेनायं चतुष्पाद् व्यवहारो विवादेषु वक्ष्यमाणेषूपदर्शितः । यत् पूर्वं “व्यवहारान् नृपः पश्येद् विद्वद्भिः” इत्य् उक्तम्, सम्प्रतिपत्तौ तु साधननिरपक्षत्वाद् विवादः । तथा च बृहस्पतिः ।

मिथ्योक्तौ तु चतुष्पात् स्यात् प्रत्यवस्कन्दने तथा ।

प्राङ्न्याये च स विज्ञेयो द्विपात् सम्प्रतिपत्तिषु ॥

अत्र कात्यायनः ।

पूर्वपक्षो ऽप्य् उत्तरश् च प्रत्याकलितम् एव च ।

क्रियापादश् च विज्ञेयः चतुष्पात् समुदाहृतः ॥

तत्र व्यवहारमातृकायां याज्ञवल्क्येन “प्रत्यर्थिनो ऽग्रतो लेख्यम्” इति प्रतिज्ञोक्ता । “श्रुतार्थस्योत्तरं लेख्यम्” इत्य् उत्तरम् । “ततो ऽर्थी लेखयेत्” इति प्रत्याकलितम् । अर्थिप्रत्यर्थिनोः प्रतिसाधनम् अस्य वा भवतीति विमर्शः प्रत्याकलितम् उच्यते । “प्रतिज्ञातार्थसाधनम्” इति क्रिया । “तत्सिद्धौ सिद्धिम् आप्नोति” इति तद्व्यवहारफलम् । केचित् प्रत्याकलितं विहाय जयपराजयाव् एवैकपाद इति मन्यन्ते । तद् अयुक्तम्, जयादेर् व्यवहारफलत्वात् सम्प्रतिपत्ताव् अपि विद्यमानत्वात् त्रिपात्प्रसङ्गः । ननु नारदेनान्यथा चतुष्पात्त्वम् उक्तम् ।

धर्मश् च व्यवहारश् च चरित्रं राजशासनम् ।

चतुष्पाद् व्यवहारो ऽयम् उत्तरः पूर्वबाधकः ॥ इति ।

मैवम् । “चतुष्पाद् व्यवहारः” चतुष्प्रकारो व्यवहार इत्य् अर्थः । अत एव “उत्तरः पूर्वबाधकः” इत्य् उक्तम् । अथ कात्यायनः सन्धिम् आह ।

पूर्वोत्तरे तु लिखिते प्रक्रान्ते कार्यनिर्णये ।

द्वयोः सन्तप्तयोः सन्धिः स्याद् अयःखण्डयोर् इव ॥

साक्षिसभ्यविकल्पश् च भवेद् यत्रोभयोर् अपि ।

डोलायमाने कार्ये च तत्र सन्धिः प्रवर्तते ॥

प्रमाणसमता यत्र भेदः शास्त्रचरितयोः ।

तत्र राजाज्ञया सन्धिर् उभयोर् अपि शस्यते ॥

बृहस्पतिः ।

यत्र साशयिको धर्मो व्यवहारश् च पार्थिवे ।

सन्धिस् तत्र तु कर्तव्यो ऽयसोः सन्तप्तयोर् यथा ॥

समः सन्धिस् तदा कार्यो विषमस् तु निवर्तते ॥

व्यवहारमातृकाम् उक्त्वा विभज्य पदान्य् आह याज्ञवल्क्यः ।

अभियोगम् अनिस्तीर्य नैनं प्रत्यभियोजयेत् ।

अभियुक्तं न चान्येन नोक्तं विप्रकृतिं नयेत् ॥

अभियुक्तो ऽभियोगम् अनिस्तीर्याभियोक्तारं नाभियोजयेत् । अन्येनाभियुक्तं वा नाभियुञ्जीत, युगपद्व्यवहारद्वयासम्भवात् । तथा आवेदनकाले यद् उक्तं तद् विप्रकृतिम् अन्यथाभावं भाषाकाले न नयेत्, अन्यवादिनः पराजयप्रसङ्गात् । तत्र नारदः ।

पूर्ववादं परित्यज्य यो ऽन्यम् आलम्बते नरः ।

वादसङ्क्रमणाज् ज्ञेयो हीनवादी स वै नरः ॥

अभियोगम् अनिस्तीर्यापि प्रत्यभियोगम् आह ।

कुर्यात् प्रत्यभियोगो तु कलहे साहसेषु च ।

“कलहे साहसेषु च” अवश्यम् अभियोगम् अनिस्तीर्यैव प्रत्यभियोगो दातव्यः । अहम् अनेन पूर्वम् आहतः शप्तो वेति । यस्मात् प्रथमप्रवृत्तस्य गुरुतरो दोषः । तथा च नारदः ।

पूर्वम् आक्षारयेद् यस् तु नियतं स्यात् स दोषभाक् ।

पश्चाद् यः सो ऽप्य् असत्कारी पूर्वे तु विनयो गुरुः ॥

तत्र प्रत्यभियोगानुगुणो अर्थिवादो दातव्य इत्य् आह नारदः ।

यस्य वाप्य् अधिका पीडा कार्यं वप्य् अधिकं भवेत् ।

तस्यार्थिवादो (?) दातव्यो न यः पूर्वं निवेदयेत् ॥

तेन प्रत्यभियोगकर्तुर् एव अर्थिवादः अभियोगवादो दातव्यः, न पूर्वाभियोक्तुः, आधर्यप्रत्यवस्कन्धवच् च तस्याधर्यम् उत्तरं प्रतिज्ञा चेति वक्तव्यम् । उक्तार्थेन तु सोत्तरत्वेन साध्यत्वम् । प्रतिज्ञार्थस्यैव साध्यत्वात् प्रत्यभियोगेन कर्तुर् एवार्थिवादो दातव्यः । अभियोगवादो न पूर्वाभियोक्तुः । आधर्यप्रत्यवस्कन्दनवच् च तस्याधर्यम् उत्तरं प्रतिज्ञा चेति वक्तव्यम् । उत्तरत्वेन साध्यता, प्रतिज्ञातार्थस्यैव साध्यत्वात् । तथा च कात्यायनः ।

वादिना यद् अभिप्रेतं स्वयं साधयितुं स्फुटम् ।

तत्साध्यं साधनं येन तत्साध्यं साध्यते ऽखिलम् ॥

अथ प्रतिज्ञा । अथ प्रतिज्ञातं प्रतिज्ञाद्वयम् एकस्मिन् वादे युक्तम् उच्यते । एतद् उभरूपम् उत्तरं प्रतिज्ञा चेति । एतद् बृहस्पतिना स्पष्टम् उक्तम् ।

अनुक्त्वा कारणं यत्र पक्षं वादी प्रपद्यते ।

प्रतिपत्तिस् तु सा ज्ञेया कारणं तूत्तरं पृथक् ॥

यदि कारणनिरपेक्षम् अभ्युपगच्छति तदा सम्प्रतिपत्तिः । कारणे पुनर् अभिहिते उत्तरम् अन्यद् उभयरूपं कारणं प्रतिज्ञा चेति कारणस्य साध्यत्वात् प्रतिज्ञातत्वम् अविरुद्धम् । पूर्वविप्रतिज्ञातार्थस्याभ्युपगमे साधनं साध्यत्वापादकत्वात् हेतुत्वम् अपि युक्तम् । तेन प्रत्यभियोगे आधर्ये प्रत्यवस्कन्दने च समानो न्यायः । याज्ञवल्क्यः ।

निह्नवे भावितो दद्याद् धनं राज्ञे च तत्समम् ।

मिथ्याभियोगी द्विगुणम् अभियोगाद् धनं वहेत् ॥

यद् अनेन लिखितं मिथ्येति निह्नवे लेख्यादिभिः पूर्ववादिना भावितो दद्यात् । धनं तत्समं दण्डरूपेण राज्ञे ऽपि । अथ भावयितुं न शक्नोति, तदा मिथ्याभियोगी द्विगुणं दण्डं राज्ञे दद्याद् इति । याज्ञवल्क्यः ।

निह्नुते लिखितं नैकम् एकदेशविभावितः ।

दाप्यः सर्वं नृपेणार्थं न ग्राह्यस् त्व् अनिवेदितः ॥

नैकम् अनेकं सुवर्णरजतवस्त्रादिकम्, लिखितम् अभियुक्तम्, प्रत्यर्थी यदि सर्वम् एव निह्नुते अवजाजीते, तदार्थिना एकदेशभूतहिरण्यादिकम् अन्यद् वा साक्ष्यादिभिः प्रत्यर्थी भावितो ऽङ्गीकारितस् तदा सर्वं पूर्वलिखितम् अर्थिने नृपेण दाप्यः । पूर्वं भाषाकाले अर्थिना अनिवेदितः पश्चात् पूर्वं मया विस्मृत इति भाषाकाले निवेद्यमानो ऽर्थो न ग्राह्यः । तथा च नारदः ।

अनेकार्थाभियुक्तेन सर्वार्थव्यपलापिना ।

विभावितैकदेशेन देयं यद् अभियुज्यते ॥

बृहस्पतिः ।

सर्वापलापं यः कृत्वा तथो ऽल्पम् अपि संवदेत् ।

सर्वम् एव तु दाप्यः स्याद् अभियुक्तो बृहस्पतिः ॥

यत् तु कात्यायनवचनम्,

अनेकार्थाभियोगे तु यावत् संसाधयेद् धनी ।

साक्षिभिस् तावद् एवासौ लभते सास्हितं धनम् ॥

इति, तत् पुत्रादिदेयपित्राद्यृणविषयम्,

पुत्रपौत्रैर् ऋणं देयं निह्नवे साक्षिभावितम् ।

इति वचनात् । यद् अपीदं कात्यायनवचनम्,

ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् ।

ऊने वाप्य् अधिके वार्थे प्रोक्ते साध्यं न सिद्ध्यति ॥

इति, तत् सर्वार्थसाधनतयोपन्यस्तैः साक्ष्यादिभिर् एकदेशाभिधाने अधिकाभिधाने वा साध्यं न सिद्ध्यतीति निश्चितम् इति सम्बन्धः । साहसादौ तु, सकलसाध्यसाधनतयोद्दिष्टैः साक्षिभिर् एकदेशे ऽपि साधिते कृत्स्नं साध्यं सिद्धं भवत्य् एवेति । कात्यायनः ।

साध्यार्थो ऽंशे ऽपि गदिते साक्षिभिः सकलं भवेत् ।

स्त्रीसङ्गे साहसे चौर्ये यत् साध्यं परिकीर्तितम् ॥

याज्ञवल्क्यः ।

सर्वेष्व् अर्थविवादेषु बलवत्य् उत्तरा क्रिया ।

आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा ॥

क्रियत इति क्रिया कार्यम् । ऋणादिषु “सर्वेष्व् अर्थविवादेशु” उत्तरं बलवत् । उदाहरणं तु – कश्चिच् छतं मत्तो गृहीतम् इति ग्रहणं साधयति, अन्यस् तु प्रतिप्रदानं साधयति, उत्तरं प्रतिपादनं बलवद् इति तत्साधनात् तद्वादी जयी भवति । पूर्वकार्ये सिद्धे ऽपि तद्वादी पराजितो भवति । आध्यादिक्षेत्रेषु एकम् एव क्षेत्रम् एकस्याधिं कृत्वा पुनर् अप्य् अन्यस्य करोति चेत्, पूर्वस्यैव तद् भवति नोत्तरस्येति ।

साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः ।

पूर्वपक्षे ऽधरीभूते भवन्त्य् उत्तरवादिनः ॥

तत्रैकस्मात् पुरुषात् एतत् क्षेत्रं प्रतिग्रहेण लब्धम् इत्य् एको वक्ति । अन्यो ऽपि तथैव । उभयत्र साक्षिसद्भावे ऽपि तत्र पूर्ववादिनः साक्षिणो भवन्ति । तत्र पूर्वपक्षो यद्य् अधरीकृतः सत्यम् एतस्यैव पूर्वं दत्तम्, किं तु एतस्यैव हस्तात् क्रयेण राज्ञा गृहीत्वा मह्यं दत्तम् इत्य् उक्ते, भवन्त्य् उत्तरवादिनो ऽपि साक्षिणः ।

अथ वादिप्रतिवादिनोर् दुष्टलक्षणान्य् उच्यन्ते । तत्र नारदः ।

आकारैर् इङ्गितैर् गत्या चेष्टया भाषणेन च ।

नेत्रवक्त्रविकारैश् च गृह्यते ऽन्तर्गतं मनः ॥

कम्पः स्वेदो ऽथ वैवर्ण्यम् ओष्ठशोषाभिमर्शने ।

भूलेखनं स्थानहानिः तिर्यग् ऊर्ध्वं निरीक्षणम् ॥

स्वरभेदश् च दुष्टस्य चिह्नान्य् आहुर् मनीषिणः ॥

याज्ञवल्क्यः ।

देशाद् देशान्तरं याति स्रक्क्णी परिलेढि च ।

ललाटं स्विद्यते चास्य मुखं वैवर्ण्यम् एति च ॥

परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषते ।

वाक्चक्षुः पूजयति नो तथोष्ठौ निर्भुजत्य् अपि ॥

स्वभावाद् विकृतिं गच्छेत् मनोवाक्कायकर्मभिः ।

अभियोगे तथा साक्ष्ये दुष्टः स परिकीर्तितः ॥

आसन्नपराजयमनस्कस्य बलाद् एतानि चिह्नानि भवन्तीत्य् अभिप्रायः । नारदः ।

सापदेशं हरन् कालम् अब्रुवंश् चामि (?) संसदि ।

उक्त्वा वाचो विब्रुवंश् च हीयमानस्य लक्षणम् ॥

मनुः ।

अदेश्यं यश् च दिशति निर्दिश्यापह्नुते च यः ।

यश् चाधरोत्तरान् अर्थान् विहीनान् नावबुध्यते ॥

अपदिश्यापदेश्यं च पुनर् यस् त्व् अपधावति ।

सम्यक्प्रणिहितं चार्थं पृष्टः सन् नाभिनन्दति ॥

ब्रूहीत्य् उक्तश् च न ब्रूयात् उक्तं च न विभावयेत् ।

न च पूर्वापरं विद्यात् तस्माद् अर्थात् स हीयते ॥

सन्ति ज्ञातार इत्य् उक्त्वा दिशेत्य् उक्तो दिशेन् न यः ।

धर्मस्थः कारणैर् एतैः हीनं तम् अपि निर्दिशेत् ॥

अभियोक्ता न चेत् ब्रूयाद् वध्यो दण्ड्यश् च धर्मतः ।

न चेत् त्रिपक्षात् तद् ब्रूयात् धर्मं प्रति पराजितः ॥

बृहस्पतिः ।

साक्षिणस् तु समुद्दिश्य यस् तु तान् न विभावयेत् ।

त्रिंशद्रात्रात् त्रिपक्षाद् वा तस्य हानिः प्रजायते ॥

कात्यायनः ।

सारभूतं पदं मुक्त्वा ह्य् असाराणि बहून्य् अपि ।

संसाधयेत् क्रियायां तु तां जह्यात् सारवर्जिताम् ॥

नारदः ।

निर्णीते व्यवहारे तु प्रमाणं निष्फलं भवेत् ।

लिखितं साक्षिणो वापि पूर्वम् आवेदितं न चेत् ॥

यथा पक्वेषु धान्येषु निष्फलाः प्रावृषो गुणाः ।

निर्णीतव्यवहाराणां प्रमाणम् अफलं तथा ॥

[इति वादिप्रतिवादिनोर् दुष्टलक्षणाइ]

अथ क्रियापादः

अत्र बृहस्पतिः ।

द्विप्रकारा क्रिया प्रोक्ता मानुषी दैविकी तथा ।

एकैकानेकधा भिन्ना ऋषिभिस् तत्त्ववेदिभिः ॥

साक्षिलेख्यानुमानं च मानुषी त्रिविधा स्मृता ।

धटाध्या धर्मजान्ता च दैवी नवविधा क्रिया ॥

साक्षी द्वादशभेदश् च लिखितं दशधा स्मृतम् ।

अनुमानं तु द्विविधं दैविकी नवधा क्रिया ॥

अनुमानं तु दिविधम् इत्य् अर्थापत्त्यनुमानयोर् ग्रहणम् । तथा हि – भुक्तिः कैश्चिद् विशेषणैर् विशिष्टा स्वत्वहेतुः । सा तु क्रयसाक्षिलेख्यादिकम् अव्यभिचाराद् अनुमापयति । अनुपपद्यमाना वा कल्पयतीत्य् अनुमानं द्विविधम् इति भुक्तेर् एवोक्ता । तत्र कात्यायनः ।

साक्षिणो लिखितं भुक्तिः प्रमाणं त्रिविधं विदुः ।

लिङ्गोद्देशस् तु युक्तिस् तु द्विया ह्य् अग्निविषादयः ॥

ऋणे लेख्यं साक्षिणो वा युक्तिलेशादयो ऽपि वा ।

दैविकी वा क्रिया प्रोक्ता प्रजानां हितकाम्यया ॥

“दैविकी वा” इति न पूर्वैस् तुल्यविकल्पः । किं तु पूर्वप्रमाणाभाव एव । तथा च याज्ञवल्क्यः ।

प्रमाणं लिखितं भुक्तिः साक्षिणश् चेति कीर्तितम् ।

एषाम् अन्यतमाभावे दिव्यान्यतमम् उच्यते ॥

तथा च नारद-बृहस्पती ।

दिवा कृते कार्यविधौ ग्रामेषु नगरेषु च ।

सम्भवे साक्षिणां चैव न दिव्या भवति क्रिया ॥

अत्र कात्यायनः ।

क्रिया न दैविकी प्रोक्ता विद्यमानेषु साक्षिषु ।

लेख्ये च सति वादेषु न स्याद् दिव्यं न साक्षिणः ॥

तथा च व्यासः ।

सम्भवे साक्षिणां प्राज्ञो दैविकीं वर्जयेत् क्रियाम् ।

सम्भवे तु प्रयुञ्जानो दैविकीं हीयते ध्रुवम् ॥

तत्र विशेषम् आह कात्यायनः ।

यद्य् एको मानुषीं ब्रूयाद् अन्यो ब्रूयात् तु दैविकीम् ।

मानुषीं तत्र गृह्णीयान् न तु दैवीं क्रियां नृपः ॥

धर्माधिकारिणां प्राप्तयोर् वादिप्रतिवादिनोर् एको मानुषीं क्रियाम् अवलम्बते, अपरस् तु दैवीम् । तत्र मानुष्य् एव ग्राह्येति नियम्यते । तथा ।

यद्य् एकदेशव्याप्तापि क्रिया विद्येत मानुषी ।

सा ग्राह्या न तु पूर्णापि दैविकी वदतां नृणाम् ॥

यत्रापि कृत्स्नेन दैवसम्भवः, एकदेशे मानुषसम्भवः, तत्रापि न दैवम् आश्रयणीयम् । उदाहरणं तु – रूपकशतम् वृद्ध्या मत्तो गृहीत्वा यच्यमानो न प्रयच्छतीत्य् अभियोगापह्नवे उत्तरवादिना कृते, ग्रहणे साक्षिणः सन्ति, न सङ्ख्यायाम्, वृद्धिविशेषे वा, तत्र न दिव्येन वृद्धिसङ्ख्ययोः साधनम्, नापि निह्नववादिनः कृत्स्ने दिव्यनिवेशः, एकदेशविभावितन्यायेनापि स्वरूपे साक्षिभिर् भाविने सङ्ख्यावृद्धिविशेषसिद्धेः न दिव्यस्यावकाशः । यत् तु,

गूढसाहसिकानां तु प्राप्तं दिव्यैः परीक्षणम् ।

युक्तिलेशेङ्गिताकारवाक्चक्षुश्चेष्टितैर् नृणाम् ॥

इति, तद् अपि मानुषासम्भवे नियमपरम् । तस्मात् सर्वत्र मानुषासम्भवे दिव्येन निर्णय इति ।

लेख्यसाक्षिभुक्तिदिव्यादीनां व्यवस्थापकानि वचनान्य् उच्यन्ते । तत्र बृहस्पतिः ।

वाक्पारुष्ये च भूमौ च दिव्यं तु परिवर्जयेत् ।

विक्रयादानसम्बन्धे क्रीत्वा धनम् इच्छन्ति ॥

द्यूते समाह्वये चैव विवादे समुपस्थिते ।

साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम् ॥

पूगश्रेणिगणादीनां या स्थितिः परिकीर्तिता ।

तस्यास् तु साधनं लेख्यं न दिव्यं न च साक्षिणः ॥

द्वारमार्गक्रियाभोगजलवाहादिके तथा ।

भुक्तिर् एव तु गुर्वी स्यान् न लेख्यं न च साक्षिणः ॥

अत्र व्यासः ।

रहःकृतं प्रकाशं च द्विविधं कार्यम् उच्यते ।

प्रकाशं साक्षिभिर् भाव्यं दैविकेन रहःकृतम् ॥ इति ।

स्मृत्यन्तरे ।

वाक्पारुष्ये महीवादे निषिद्धा दैविकी क्रिया ।

प्रदातव्या प्रयत्नेन साहसेषु चतुर्ष्व् अपि ॥ इति ।

मनुष्यमारणचौर्यपरदारगमनवाग्दण्डपारुष्याणीति चतुर्विधानि साहसानि,

मानुष्यमारणं चौर्यं परदाराभिमर्शनम् ।

पारुष्यम् उभयं चेति साहसं स्याच् चतुर्विधम् ॥

इति कात्यायनवचनाद् इति । तथा ।

यदा साक्षी न विद्येत विवादे वदतां नृणाम् ।

तदा दिव्यैः परीक्षेत शपथैश् च पृथग्विधैः ॥

स्त्रीणां शीलाभियोगे च स्तेयसाहसयोर् अपि ।

एवंविधो विधिर् दृष्टः सर्वार्थापह्नवेषु च ॥

गूढसाहसिकानां तु प्राप्तं दिव्यैः परीक्षणम् ।

युक्तिलेशेङ्गिताकारवाक्चक्षुश्चेष्टितैर् नृणाम् ॥

तथान्यत्र ।

मणिमुक्ताप्रवालानां कूटकृन् न्यासहारकः ।

हिंसको ऽन्याङ्गनासेवी परीक्ष्यः शपथैः सदा ॥

महापापाभियोगेषु निक्षेपहरणे तथा ।

दिव्यैः कार्यं परीक्षेत राजा सत्स्व् अपि साक्षिषु ॥

समत्वं साक्षिणां यत्र दिव्यैस् तत्र विशोधयेत् ।

प्राणान्तिकविवादेषु विद्यमानेषु साक्षिषु ॥

दिव्यम् आलम्बते वादी पृच्छेत् तत्र न साक्षिणः ।

लिखिते साक्षिवादे च सन्देहो जायते यदा ॥

अनुमाने च सम्भ्रान्ते तदा दिव्यं न योजयेत् ।

इति बृहस्पतिवचनात् ।

लिखिते शिथिलीभूते साक्षिणां च पराहतौ ।

युक्त्यभावे च दिव्यं स्यात् कारणत्रयम् अस्ति चेत् ॥

इति कात्यायनवचनाच् च ।

एषाम् अन्यतमाभावे दिव्यान्यतमम् उच्यते ।

इति याज्ञवल्क्यवचनाच् च । लिखितभुक्तिसाक्षिलेख्येष्व् असत्स्व् एव द्वियं देयम् । अन्यथा, निरालम्बनवादप्रसङ्गाद् इति स्मृतेः, धारेश्वर-उद्योतन-कृष्णादयो मन्यन्ते, अप्रकाशविवादेषु दिव्याभावप्रसङ्गात् । तथा हि,

लिखितादिक्रिया वा स्याच् छपथं दिव्यम् एव वा ।

सर्वेषु च विवादेषु योजयेद् दिव्यम् एव वा ॥

इति प्राजापत्यवचनविरोधात् ।

एषाम् अन्यतमाभावे दिव्यान्यतमम् उच्यते ।

इति याज्ञवल्क्यवचनविरोधाच् च । अतः सर्वार्थविवादेषु साक्ष्यादीनां सम्भवे ऽपि तैर् निर्णयाभावे तेषाम् असम्भवे च दिव्यं युक्तम् एव । ननु कथं सर्वत्र दिव्यप्राप्तिः,

स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत् ।

इति, तथा,

पारुष्ये च महीवादे निषिद्धा दैविकी क्रिया ।

इति, तथा,

द्यूते समाह्वये चैव विवादे समुपस्थिते ।

साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम् ॥

इति, तथा,

पूगश्रेणिगणादीनां या स्थितिः परिकीर्तिता ।

तस्यास् तु साधनं लेख्यं न दिव्यं न च साक्षिणः ॥

इत्य् एवमादिभिर् वचनैर् विवादविशेषेषु प्रमाणविशेषनियमात् । उच्यते — एवमादिवचनानि विवादविशेषेषु लेख्यादिप्रमाणाविशेषप्राबल्यपराणि, न पुनर् दिव्यादिप्रमाणान्तरनिषेधपराणि । तथात्वे सर्वत्र प्रमाणानां प्रापकवचनविरोधात् । अतः प्रमाणान्तरसम्भवे महीवादे न दिव्यम् । तथा द्यूते समाह्वये चैव साक्षिसम्भवे न दिव्यम्, नापि लेख्यम् । तथा ऋणादिवादेषु लेख्यसम्भवे “न दिव्यं न च साक्षिणः” इति नियमः । विवादान्तरेषु पराजितस्य दण्डद्वैगुण्यादिपणं कृत्वा प्रमाणन्तरावलम्बनं युक्तम् । महीवादादिषु पराजितस्य दण्डद्वैगुण्यकल्पनयापि न दिव्यादिकल्पनम् इत्य् अविरोधः ॥

**इति श्रीमद्वरदराजीये व्यवहारनिर्णये **

व्यवहारमातृकाकाण्डं समाप्तम्