अथ प्रकीर्णकाख्यं विवादपदम् उच्यते । तत्र कात्यायनः ।
राजधर्मांश् च दण्डांश् च सन्दिग्धानां विशेषतः ।
प्राकुक्तार्थस्य शेषं च वक्ष्याम्य् एतत् प्रकीर्णके ॥
नारदः ।
प्रकीर्णकः पुनर् ज्ञेयो व्यवहारो नृपाश्रयः ।
राज्ञाम् आज्ञाप्रतीघातः तत्कर्मकरणं तथा ॥
पुरप्रधानसम्भेदः प्रकृतीनां तथैव च ।
पाषण्डनैगमश्रेणिगणधर्मविपर्ययः ॥
पितृपुत्रविवादश् च प्रायश्चित्तव्यतिक्रमः ।
प्रतिग्रहविलोपश् च कोप आश्रमिणाम् अपि ॥
वर्णसङ्करहेतुश् च तद्वृत्तिनियमस् तथा ।
न दृष्टं यच् च पूर्वेषु तत् सर्वं स्यात् प्रकीर्णके ॥
आज्ञालङ्घनं राजैकान्तकर्मानुष्ठानेन तदनुकरणम्, पुरवर्तिनां प्रधानपुरुषाणां च साङ्कर्यम्, प्रकृतीनां राष्ट्रवर्तिनां पुरुषाणां च साङ्कर्यम्, पाषण्डादिसङ्घानां धर्मविपर्यायः । पितापुत्रविवादश् च पूर्वोक्तेषु यद् अपेक्षितं नोकं तत् सर्वं प्रकीर्णके द्रष्टव्यम् । यथैते दोषा न भवन्ति तथा कर्तव्यम् इत्य् अर्थः ।
अशास्त्रोक्तेषु मार्गेषु पापयुक्तेषु कर्मसु ।
समीक्ष्य दण्डं दण्ड्येषु पातयेद् अविचारयन् ॥
राज्ञा प्रवर्तितान् धर्मान् यो नरो नानुपालयेत् ।
गर्ह्यः स पापो वध्यश् च लोपयन् राजशासनम् ॥
आयुधान्य् आयुधीयानां बीजानि कृषिजीविनाम् ।
वेशस्त्रीणाम् अलङ्कारान् आतोद्यानि च तद्विदाम् ॥
यच् च यस्योपकरणं येन जीवन्ति कारुकाः ।
सर्वस्वहरणे ऽप्य् एतान् न राजा हर्तुम् अर्हति ॥
एषा सर्वस्वहरणे ऽपि प्राप्ते एतान् न राजा हरेत् । किं पुनर् अन्यस्मिन्न् अपराधे एतिअर् विना न ते जीवन्ति इति वधाद् अर्वाङ् न हर्तव्यः । इति नीतिः । राजशासने सर्वेषां वर्तमानार्थं राज्ञो विलक्षणस्वरूपम् आह नारदः ।
राजा त्व् अवहितः सर्वान् आश्रमान् परिपालयेत् ।
उपायैः शास्त्रविदितैः चतुर्भिः प्रकृतैस् तथा ॥
राजमूलम् इदं राष्ट्रं ब्रह्मक्षत्रपुरोगमम् ।
स्थिते राजनि धर्मे तु दुराचारं न कुर्वते ॥
पितामहः ।
पञ्चरूपाणि राजानो धारयन्त्य् अमितौजसः ।
अग्नेर् इन्द्रस्य सोमस्य यमस्य धनदस्य च ॥
यथा धारयन्ति तथा प्रतिपादयन्ति ।
अकारणान् निमित्ताद् वा यदा क्रोधवशं गतः ।
प्रजा दहति भूपालः तदाग्निर् अभिधीयते ॥
यदा तेजः समालम्ब्य विजिगीषुर् उदायुधः ।
अभियाति परान् राजा तथेन्द्रः समुदाहृतः ॥
विगतक्रोधसन्तापो हृष्टः पुष्टो यदा नृपः ।
प्रजानां दर्शनं याति सोम इत्य् उदितो तदा ॥
धर्मासनगतः श्रीमान् दण्डं धत्ते यदा नृपः ।
समः सर्वेषु भूतेषु तदा वैवस्वतो यमः ॥
यदानाथगुरुप्राज्ञज्ञात्यादीन् अवनीपतिः ।
अनुगृह्णाति दानेन तदासौ धनदः स्मृतः ॥
तस्मान् नार्तं विजानीयात् नातिक्रामेद् विशेषतः ।
आज्ञाया चास्य तिष्ठेत मृत्युः स्यात् तद्व्यतिक्रमे ॥
अथ राजाधिकारे मनुः ।
तदर्थं सर्वभूतानां गोप्त्रं धर्मम् आत्मजम् ।
ब्रह्मतेजोमयं दण्डम् असृजत् पूर्वम् ईश्वरः ॥
तस्य सर्वाणि भूतानि स्थावराणि चराणि च ।
भयाद् भोगाय कल्पन्ते स्वधर्मान् न चलन्ति च ॥
नारदः ।
तस्य वृत्तिः प्रजारक्षा वृद्धप्राज्ञोपसेवनम् ।
दर्शनं व्यवहाराणाम् आत्मनश् चाभिरक्षणम् ॥
वृद्धाः शास्त्रेण कृतबुद्धयः । प्राज्ञाः स्वाभाविकबुद्धयः । तत्र सर्वेषां दुष्टानां शासिता राजेति । हारीतः ।
गुरुर् आत्मवतां शास्ता शास्ता राजा दुरात्मनाम् ।
अन्तःप्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥
गुरुभिर् ये न शास्यन्ते राज्ञा वा गूढकिल्बिषाः ।
ते नरा यमदण्डेन शास्त्रा यान्त्य् अधमां गतिम् ॥
याज्ञवल्क्यः ।
यो दण्ड्यान् दण्डयेद् राजा सम्यग् वध्यांश् च घातयेत् ।
इष्टं स्यात् क्रतुभिस् तेन सहस्रशतदक्षिणैः ॥
इति सञ्चिन्त्य नृपतिः क्रतुतुल्यफलं पृथक् ।
व्यवहारान् स्वयं पश्येत् सभ्यैः परिवृतो ऽन्वहम् ॥
अदण्ड्यदण्डनं लोके यशोघ्नं कीर्तिनाशनम् ।
अस्वर्ग्यं च परत्रापि तस्मात् तत् परिवर्जयेत् ॥
अदण्ड्यान् दण्डयन् राजा दण्ड्यांश् चैवाप्य् अदण्डयन् ।
अयशो महद् आप्नोति नरकं चैव गच्छति ॥
वसिष्ठः- “दण्ड्योत्सर्गे राजैकरात्रम् उपवसेत् । त्रिरात्रं पुरोहितः । कृच्छ्रम् अदण्ड्यदण्डने पुरोहितस् त्रिरात्रं राजा” । अथ दण्डप्रकारम् आह मनुः ।
अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः ।
सारापराधाव् आलोच्य दण्डं दण्ड्येषु पातयेत् ॥
अत्र विष्णुः ।
आगःसु च तथान्येषु ज्ञात्वा ज्ञातिधनं वयः ।
दण्डं प्रकल्पयेद् राजा सामन्तब्राह्मणैः सह ॥
मनुः ।
पिताचार्यः सुहृन् माता भार्या पुत्राः पुरोहितः ।
नादण्ड्यो नाम राज्ञो ऽस्ति यस् त्व् अधर्मे ऽपि तिष्ठति ॥
अत्र शङ्खलिखितौ- “अदण्ड्यौ मातापितरौ स्नातकपुरोहितौ परिव्राजकवानप्रस्थौ, जन्मकर्मश्रुतशीलाचारवन्तश् च । ते च धर्मे प्रतीकारा राज्ञा स्त्रीबालवृद्धास् तपस्विनः । तेभ्यः क्रोधं नियच्छेत्” । बृहस्पतिः ।
वाग्धिग्धनं वधश् चैव चतुर्धा कल्पितो दमः ।
पुरुषे दोषविभवं ज्ञात्वा सम्परिकल्पयेत् ॥
स्वल्पे ऽपराधे वाग्दण्डो धिग्दण्डः पूर्वसाहसे ।
मध्यमोत्तमे ऽर्थदण्डस् तु राजद्रोहे वधः स्मृतः ॥
कात्यायनः ।
वाग्दण्डं प्रथमं कुर्याद् धिग्दण्डं तदनन्तरम् ।
तृतीयं धनदण्डं तु वधदण्डम् अतः परम् ॥
वधेनापि यदा त्व् एतान् निगृहीतुं न शक्नुयात् ।
तदैषु सर्वम् अप्य् एतत् प्रयुञ्जीत चतुष्टयम् ॥
बृहस्पतिः ।
गुरून् पुरोहितान् पुत्रान् वाग्दण्डेनैव दण्डयेत् ।
विवादिनो नरंश् चान्यान् दोषिणो ऽर्थेन दण्डयेत् ॥
महापातकयुक्तांश् च वधदण्डेन दण्डयेत् ।
कात्यायनः ।
मित्रादिषु प्रयुञ्जीत वाग्दण्डं धिक् तपस्विनाम् ।
यथोक्तं तस्य तत् कुर्युर् अनुक्तं साधु कल्पितम् ॥
अधार्मिकांस् त्रिभिर् न्यायैर् निगृह्णीयात् प्रयत्नतः ।
निरोधनेन बन्धेन विविधेन भयेन च ॥
बन्धनानि च सर्वाणि राजमार्गे निवेशयेत् ।
दुःखिता यत्र दृश्यन्ते विकृताः पापकारिणः ॥
दश स्थानानि दण्डस्य मनुः स्वायम्भुवो ऽब्रवीत् ।
त्रिषु वर्णेषु तानि स्युर् अक्षतो ब्राह्मणो व्रजेत् ॥
उपस्थम् उदरं जिह्वा हन्स्तौ पादौ च पञ्चमम् ।
चक्षुर् नासा च कण्ठौ च धनं देहस् तथैव च ॥
बृहस्पतिः ।
हस्तास्यलिङ्ग्नयनं जिह्वा कर्णौ च नासिका ।
ग्रीवा पादं तु सन्दंशो ललाटं च गुदं कटिः ॥
स्थानान्य् एतानि दण्डस्य निर्दिष्टानि चतुर्दश ।
तीव्रद्रोहविषयम् इदम् ।
ललाटाङ्को ब्राह्मणस्य नान्यो दण्डो विधीयते ।
यमः ।
जगत् सर्वम् इदं हन्यात् ब्राह्मणस्य न तत्समम् ।
तस्मात् तस्य वधं राजा मनसापि न चिन्तयेत् ॥
अवध्यान् ब्राह्मणान् आहुः सर्वपापेष्व् अवस्थितान् ।
यद् यद् विप्रेषु कुशलं तत् तद् राजा समाचरेत् ॥
बोधायनः ।
न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अवस्थितम् ।
राष्ट्रात् त्व् एनं बहिष्कुर्यात् समग्रधनम् अक्षतम् ॥
विष्नुः- “वध्ये कर्मणि तिष्ठन्तं समग्रधनम् अक्षतम् विवासयेत्” । बोधायनः- “ब्राह्मणस्य भ्रूणहत्यागुरुतल्पसुवर्णस्तेयसुरापानेषु कबन्दभगश्वापदसृगाल-ध्वजांस् तप्तेनायसेन ललाटे ऽङ्कयित्वा विषयान्तरे निर्वासनम्” । मनुः ।
गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः ।
स्तेये तु श्वपदं कार्यं ब्रह्महण्य् अशिराः पुमान् ॥
असम्भोज्या ह्य् असंयाज्या असम्पाठ्या विवासिनः ।
चरेयुः पृथिवीं दीनाः सर्वकर्मबहिष्कृताः ॥
ज्ञातिसम्बन्धिभिस् त्व् एतैः त्यक्तव्याः कृतलक्षणाः ।
निर्दया निर्नमस्काराः तन् मनोर् अनुशासनम् ॥
प्रायश्चित्तं तु कुर्वाणाः पूर्वे वर्णाः यथोदितम् ।
नाङ्क्या राज्ञा ललाटेषु दाप्यास् तूत्तमसाहसम् ॥
आगःसु ब्राह्मणस् एव् एषु दाप्यो मध्यमसाहसम् ।
विवास्यो वा भवेद् राष्ट्रात् सद्रव्यः सपरिच्छदः ॥
इतरे कृतवन्तस् तु पापान्य् एतान्य् अकामतः ।
सर्वस्वहारम् अर्हन्ति कामतस् तु प्रवासनम् ॥
यमः ।
ब्राह्मणस्यापराधेषु चतुर्ष्व् एवं विधीयते ।
शिरसो मुण्डनं दण्डः पुरान् निर्वासनं तथा ॥
प्रख्यापनार्थं पापस्य प्रयाणं गर्दभेन च ।
ललाटे चिह्नकरणं कुर्याद् राजा यथाविधि ॥
गुरुतल्पे सुरापाने स्तेये ब्राह्मणहिंसने ।
यथाक्रमं प्रवक्ष्यामि चिह्नान्य् आह यथा मनुः ॥
गुरुतल्पे भगः कार्यो व्रतघ्नस्य द्विजन्मनः ।
सुराध्वजः सुरापाने सुरापस्यापि कारयेत् ॥
स्तेये तु श्वपदं कृत्वा शिखिपिञ्छेन कुट्टयेत् ।
विशिराः पुरुषः कार्यो ललाटे ब्रह्मघातिनः ॥
य एतैः पतितैः सार्धं संयोगं कुरुते द्विजः ।
सो ऽसम्भोज्यश् च कर्तव्यो मनुः स्वायम्भुवो ऽब्रवीत् ॥
एते त्याज्या कृताङ्काः स्युः ज्ञातिसम्बन्धिबान्धवैः ॥
मनुः ।
कार्षापणं भवेद् दण्डं यत्रान्यः प्राकृतो जनः ।
तत्र राज्ञा भवेत् दण्ड्यः सहस्रम् इति धारणा ॥
ब्राह्मणान् बाधमानं तु कामाद् अवरवर्णजम् ।
हन्याच् चित्रैर् वधोपायैः उद्वेजनकरैर् नृपः ॥
कात्यायनः ।
प्रव्रज्यावसितं शूद्रं जपहोमपरं तथा ।
वधेन शासयेत् पापं दण्ड्यो वा द्विगुणं दमम् ॥
अस्पृश्यधूर्तदासानां नराणां पापकारिणाम् ।
प्रातिलोम्यप्रसूतानां ताडनं नार्थतो दमः ॥
परतन्त्रास् तु ये केचित् दासत्वे ये च संस्थिताः ।
अनीशास् ते तु निर्दिष्टाः तेषां दण्डस् तु ताडनम् ॥
ताडनं बन्धनं चैव तथैव च निपीडनम् ।
एष दण्डो हि दासस्य नार्थदण्डो बृहस्पतिः ॥
सुवर्णशतम् एकं तु वधार्हो दण्डम् अर्हति ।
अङ्गच्छेदे तदर्धं तु विवास्यः पञ्चविंशतिम् ॥
स्त्रीबालोन्मत्तवृद्धानां दरिद्राणां तु रोगिणाम् ।
शिफाविदलरज्ज्वाद्यैः विदध्यान् नृपतिर् दमम् ॥
मनुः ।
नाददीत नृपः साधुः महापातकिनो धनम् ।
आददानस् तु तल्लोभात् तेनाधर्मेण लिप्यते ॥
अप्सु प्रवेश्य तद् दण्डं वरुणायोपपादयेत् ।
श्रुतवृत्तोपपन्ने वा ब्राह्मणे प्रतिपादयेत् ॥
ईशो दण्डस्य वरुणो राजा दण्डधरो हि सः ।
ईशः सर्वस्य जगतो ब्राह्मणो वेदपारगः ॥
यमः ।
पतितस्य धनं हृत्वा राजा पर्षदि दापयेत् ।
सर्वस्वं तु हरेत् राजा चतुर्थं वावशेषयेत् ॥
भृत्येभ्यो ऽनुस्मरन् धर्मं प्राजापत्यम् इति श्रुतिः ।
नारदः ।
देयं चोरहृतं द्रव्यं राज्ञा जनपदाय तु ।
अन्यत्र कराद् उचितात् भूमेः षड्भागसंस्थितात् ॥
बलिः स तस्य विहितः प्रजापालनवेतनम् ॥
याज्ञवल्क्यः ।
राजा लब्ध्वा निधीन् दद्याद् द्विजेभ्यो ऽर्धं द्विजः पुनः ।
विद्वान् अशेषम् आदद्यात् स सर्वस्य प्रभुर् यतः ॥
इतरेण निधौ लब्धे राजा षष्ठांशम् आहरेत् ।
अनिवेदितविज्ञातो राज्ञस् तद् दण्डम् एव च ॥
विष्णुः- “निधिं लब्ध्वा तदर्धं ब्राह्मणेभ्यो दद्यात् । द्वितीयम् अर्धं कोशे प्रवेशयेत् । निधिं ब्राह्मणो लब्ध्वा सर्वम् आदद्यात् । क्षत्रियश् चतुर्थांशं राज्ञे दद्यात् । चतुर्थं ब्राह्मणेभ्यो ऽर्धम् आदद्यात् । वैश्यश् चतुर्थम् अंशं राज्ञे दद्यात् । ब्राह्मनेभ्यो ऽर्धम् । चतुर्थम् अंशम् आदद्यात् । शूद्रश् चावाप्तनिधिं द्वादशधा विभज्य, पञ्चांशान् राज्ञे दद्यात्, पञ्चांशान् ब्राह्मणेभ्यः, स्वयम् अंशद्वयम् आदद्यात् । अनिवेदितविज्ञातस्य सर्वस्वम् अपहरेत्” । यमः ।
एवं धर्मप्रवृत्तस्य राज्ञो दण्डधारस्य च ।
यज्ञो ऽस्मिन् प्रथितो लोके स्वर्गवासस् तथाक्षयः ॥
मनुः ।
एवं सर्वान् इमान् राजा व्यवहारान् समापयेत् ।
व्यपोह्य किल्बिषं सर्वं स याति परमां गतिम् ॥
इति श्रीमद्वरदराजीये व्यवहारनिर्णये प्रकीर्णपदं समाप्तम्
व्यवहारनिर्णयः समाप्तः