१२ द्यूत-समाह्वयादि-षट्-पद-काण्डम्

द्यूतसमाह्वयम्

अथद्यूतसमाह्वयाख्यम् उच्यते । तयोर् लक्षणम् आह मनुः ।

अप्राणिभिर् यत् क्रियते तल् लोके द्यूतम् उच्यते ।

प्राणिभिः क्रियते यत् तु स विज्ञेयः समाह्वयः ॥

नारदः ।

अक्षवध्रिशलाकाद्यैः देवनं जल्पकारितम् ।

पणक्रीडावयोभिश् च पदं द्यूतसमाह्वयम् ॥

अन्योन्यं परिगृह्णीताम् पक्षिमेषमृगादयः ।

प्रहरन्ते कृतपणाः ते वदन्ति समाह्वयम् ॥

तत्र अप्राणिभिः अक्षादिभिर् यत् देवनं पणपूर्वकं क्रियते तद् द्यूतम् । प्राणिभिः मल्लमेषमहिषकुक्कुटादिभिः पणपूर्वं क्रियमाणः समाह्वय इत्य् उच्यत इत्य् अर्थः ।

मनुः ।

द्यूतं समाह्वयं चैव राजा राष्ट्रे निवारयेत् ।

राज्यस्यान्तकराव् एतौ दवौ दोषौ पृथिवीक्षिताम् ॥

द्यूतात् पुरातने कल्पे दृष्टं वैरतरं महत् ।

तस्माद् द्यूतं न सेवेत हास्यार्थम् अपि बुद्धिमान् ॥

धर्मपुत्रस्य द्यूते महद् वैरं द्रष्टव्यमित्य् अर्थः ।

द्यूतं समाह्वयं चैव यः कुर्याद् यश् च कारयेत् ।

तान् सर्वान् घातयेद् राजा शूद्रांश् च द्विजलिङ्गिनः ॥

कात्यायनः ।

ध्रुवं द्यूतात् कलिर् यस्मात् विषं सर्पमुखाद् इव ।

तस्माद् राजा निवर्तेत विषयव्यसनं हि तत् ॥

वर्तते चेत् प्रकाशं तद् द्वारबन्धिततोरणम् ।

असम्मोहार्थम् आर्याणां कारयेत् तत्करप्रदम् ॥

बृहस्पतिः ।

द्यूतं निषिद्धं मनुना सत्यशौचधनापहम् ।

तत्प्रवर्तितम् अन्यैस् तु राजभागसमन्वितम् ॥

सभिकाधिष्टितं कार्यं तस्करज्ञापकं हि तत् ।

अक्षादिनिखिलक्रीडोपकरणकल्पनायुक्ता सभा यस्य स सभिकः । याज्ञवल्क्यः ।

ग्लहे शतिकवृद्धेस् तु सभिकः पञ्चकं शतम् ।

गृह्णीयुर् धूर्तकितवाः तस्करा दशकं शतम् ॥

परस्परं सम्प्रतिपत्त्या कितवकल्पितः पणः ग्लह इत्य् उच्यते । तत्र ग्लहे तदाश्रया शातिका शतपरिमिता तदधिकपरिमिता वा वृद्धिर् यस्यासौ शतिकवृद्धिः । तस्मात् धूर्तकितआत् पञ्चकं शतम् आत्मकवृद्ध्यर्थं सभिको गृह्णीयात् । जितग्लहस्य विंशतितमं भागं गृह्णीयाद् इत्य् अर्थः । इतरस्मात् परिपूर्णशतिकवृद्धेः कितवाद् दशकं शतं जितद्रव्यदशमं भागं सभापतिर् गृह्णीयात् ।

द्यूतम् एकमुखं कार्यं तत्करज्ञानकारणात् ।

एष एव विधिर् ज्ञेयः प्राणिद्यूतसमाह्वये ॥

एकमुखम् एकप्रधानं कुर्यात् । कात्यायनः ।

सभिकः कारयेत् द्यूतं देयं दद्याच् च तं नृपे ।

दशकं च शतं वृद्धिं गृह्णीयात् स पराजितात् ॥

जेतुर् दद्यात् स्वकं द्रव्यं जितं ग्राह्यं त्रिपक्षकम् ।

सद्यो वा सभिकेनैव कितवात् तु न संशयः ॥

नारदः ।

सभिकः कारयेद् द्यूतं देयं दद्याच् छतं नृपे ।

दशकं च शतं वृद्धिः तस्य स्यात् द्यूतकारिता ॥

अथ वा कितवो राज्ञे दत्वा भागं यथोदितम् ।

प्रकाशं देवनं कुर्यद् एवं दोषो न विद्यते ॥

द्विर् अभ्यस्ताः पतन्त्य् अक्षा ग्लहे यस्याक्षदेविनः ।

जयस् तस्य परस्याहुः किइतवस्य पराजयम् ॥

कात्यायनः ।

एकरूपो द्विरूपो वा द्यूतो यस्याक्षदेविनः ।

दृश्यते विजयस् तस्य यस्मिन्न् अक्षा व्यवस्थिताः ॥

बृहस्पतिः ।

द्वन्द्वयुद्धेन यः कश्चिद् अवसादम् अवाप्नुयात् ।

तत् स्वामिना पणो देयो यस् तत्र परिकल्पितः ॥

नारदः ।

अनिर्दिष्टस् तु राज्ञा द्यूतं कुर्वीत मानवः ।

न स तं प्राप्नुयात् कामं विनयं चैव सो ऽर्हति ॥

कूटाक्षदेविनः पापान् निर्हरेद् द्यूतमण्डलात् ।

कण्ठे ऽक्षमालाम् आबद्ध्य सर्वेषां विनयः स्मृतः ॥

याज्ञवल्क्यः ।

राज्ञा सचिह्नं निर्वास्याः कूटाक्षोपधिदेविनः ।

विष्णुः- “द्यूते च कूटाक्षदेविनां करच्छेदः । उपधिदेविनां सन्दंशच्छेदः ।

कितवेष्व् एव तिष्ठेरन् कितवाः संशयं प्रति ।

य एव तत्र द्रष्टारः त एवैषां तु साक्षिणः ॥

एष एव विधिर् ज्ञेयः प्राणिद्यूतसमाह्वये ।

द्यूतसमाह्वयः समाप्तः

वाक्पारुष्यम्

अथ वाक्पारुष्यं नाम विवादपदम् उच्यते । नारदः ।

देशजातिकुलासीनाम् आक्रोशन्यङ्गसञ्ज्ञितम् ।

यद् वचःप्रतिकूलार्थं वाक्पारुष्यं तद् उच्यते ॥

न्यङ्गसञ्ज्ञा शिरःपाण्याद्यङ्गच्छेदयुक्तं वचनम् । तथा च कात्यायनः ।

हुङ्कारं चैव त्वङ्कारं लोके यच् च निगर्हितम् ।

अनुकुर्याद् अथ ब्रूयाद् वाक्पारुष्यं तद् उच्यते ॥

निष्ठुराश्लीलतीव्रत्वात् तद् अपि त्रिविधं स्मृतम् ।

गौरवानुक्रमाद् अस्य दण्डो ऽप्य् अत्र क्रमाद् गुरुः ॥

नारदः ।

साक्षेपं निष्ठुरं ज्ञेयम् अश्लीलं न्यङ्गसञ्ज्ञितम् ।

पतनीयैर् उपक्रोशैः तीव्रम् आहुर् मनीषिणः ॥

कात्यायनः ।

यत् त्व् असत्सञ्ज्ञितैर् अङ्गैः परम् आक्षिपता क्वचित् ।

अभूतैर् वाथ भूतैर् वा निष्ठुरा वाक् स्मृता तु सा ॥

न्यङ्गावगू(गो)रणं वाचा क्रोधात् तु कुरुते यदा ।

वृत्तैर् देशकुलानां च अश्लीला सा बुधैः स्मृता ॥

महापातकयुक्ता च जगद्द्वेषकरी च या ।

जातिभ्रंशकरीयाथ तीव्रा सा प्रथिता च वाक् ॥

बृहस्पतिः ।

देशजातिकुलादीनां क्षेपः पापेन योजनम् ।

द्रव्यं विना तु प्रथमं वाक्पारुष्यं तद् उच्यते ॥

भगिनीमातृसम्बन्धम् उपपातकशंसनम् ।

पारुष्यं मध्यमं प्रोक्तं वाचिकं शास्त्रवेदिभिः ॥

अभक्ष्यापेयकथनं महापातकशंसनम् ।

पारुष्यम् उत्तमं प्रोक्तं तीव्रम् आहुर् मनीषिणः ॥

कात्यायनः ।

अदुष्टस्यैव यो दोषान् कीर्तयेत् कोपकारणात् ।

अन्यापदेशवादी च वाग्दुष्टं तं नरं विदुः ॥

मनुः ।

मातरं पितरं जायां भ्रातरं तनयं गुरून् ।

आक्षारयञ् छतं दाप्यः पन्थानं चाददद् गुरोः ॥

कात्यायनः ।

मोहात् प्रमोहात् सङ्घर्षात् प्रीत्या चोक्तं मयेति यः ।

नाहम् एव पुनर् वक्ष्ये दण्डार्धं तस्य कल्पयेत् ॥

अत्र बृहस्पतिः ।

समानयोः समो दण्डो न्यूनस्य द्विगुणः स्मृतः ।

उत्तमस्यार्धिको दण्डो वाक्पारुष्ये परस्परम् ॥

अत्र विष्णुः- “काणखञ्जादीनां तत्त्ववाद्य् अपि कार्षापणद्वयं दण्डः” । याज्ञवल्क्यः।

सत्यासत्यान्यथा स्तोत्रैः न्यूनाङ्गेन्द्रियरोगिणाम् ।

क्षेपं करोति चेद् दण्ड्यः पणान् अर्धत्रयोदशान् ॥

अभिगन्तास्मि भगिनीं मातरं वा तवेति ह ।

शपन्तं दापयेद् राजा पञ्चविंशतिकं दमम् ॥

बाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः ।

शत्यस् तदर्धके पादनासाकर्णकरादिषु ॥

अशक्तस् तु वदन्न् एवं दण्डनीयः पणान् दश ।

तथा शक्तः प्रतुभुवं दाप्यः क्षेमाय तस्य तु ॥

क्षिपन् स्वस्रादिकं दद्यात् पञ्चाशत्पणिकं दमम् ।

मनु-नारदौ ।

शतं ब्राह्मणम् आक्रुश्य क्षत्रियो दण्डम् अर्हति ।

वैश्यो ऽध्यर्धं शतं चैव शूद्रस् तु वधम् अर्हति ॥

विप्राः पञ्चशतं दण्ड्याः क्षत्रियस्याभिशंसने ।

वैश्यं स्याद् अर्धपञ्चाशच् छूद्रे द्वादशको दमः ॥

बृहस्पतिः ।

सच्छूद्रस्यायम् उद्दिष्टो विनयो ऽनपराधिनः ।

गुणहीनस्य पारुष्ये ब्राह्मणो नापराध्नुयात् ॥

तथा ।

वैश्यस् तु क्षत्रियाक्रोशे दण्डनीयः शतं भवेत् ।

तदर्धं क्षत्रियो वैश्यं क्षिपन् विनयम् अर्हति ॥

शूद्राक्रोशे क्षत्रियस्य पञ्चविंशतिको दमः ।

वैश्यस्य चैव द्विगुणः शास्त्रविद्भिर् उदाहृतः ॥

वैश्यम् आक्षारयन् शूद्रो दाप्यः स्यात् पथमं दमम् ।

तथा ।

क्षत्रियं मध्यमं चैव विप्रम् उत्तमसाहसम् ।

अत्र मनु-नारदौ ।

एकजातिर् द्विजातींस् तु वाचा दारुणया क्षिपन् ।

जिह्वायाः प्राप्नुयाच् छेदं जघन्यप्रभवो हि सः ॥

नामजातिग्रहं त्व् एषाम् अभिद्रोहेण कुर्वतः ।

निखेयो ऽयोमयः शङ्कुर् ज्वलन्न् आस्ये दशाङ्गुलः ॥

शूद्रे प्रकृते बृहस्पतिः ।

धर्मोपदेशं दर्पेण द्विजानाम् अस्य कुर्वतः ।

तप्तम् आसेचयेल् तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥

शूद्र इत्य् अनुवृत्तौ गौतमः- “अथास्य वेदम् उपशृणव्तस् त्रपुजतुभ्यां श्रोत्रप्रतिपूरणम् उदाहरणे जिह्वाच्छेदो धारणे शरीरभेदः” । अत्र यमः ।

खण्डशश् छेदयेज् जिह्वाम् ऋचं चै यद्य् उदाहरेत् ।

मनुः ।

पापोपपापवक्तारो महापातकशंसकाः ।

आद्यमध्योत्तमान् दण्डान् दद्युस् ते यथाक्रमम् ॥

अत्र याज्ञवल्क्यः ।

त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः ।

मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः ॥

नारदः ।

उपक्रुश्य च राजानं वर्त्मनि स्वे व्यवस्थितम् ।

जिह्वाच्छेदाद् भवेच् छुद्दिः सर्वस्वहरणेन वा ॥

ब्राह्मणस्य सर्वस्वहरणम्, जात्यन्तरस्य जिह्वाच्छेदः । याज्ञवल्क्यः ।

राज्ञो ऽनिष्टप्रवक्तारं तस्यैवाक्रोशकं तथा ।

तन्मन्त्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत् ॥

नारदः ।

लोके ऽस्मिन् द्वाव् अवक्तव्याव् अदण्ड्यौ च प्रकीर्तितौ ।

ब्राह्मणश् चैव राजा च तौ हीदं बिभ्रतो जगत् ॥

पतितं पतितेत्य् उक्त्वा चोरं चोरेति वा पुनः ।

वचनात् तुलयदोषः स्यात् मिथ्या द्विर्दोषवान् भवेत् ॥

ब्राह्मणो ऽपि स्वजातीयम् ऋणादिव्यपदेशतः ।

वाक्पारुष्यं प्रकुर्वाणः स भवेद् उपपातकी ॥

दण्डपारुष्यम्

अथ दण्डपारुष्याख्यं विवादपदम् उच्यते । अत्र बृहस्पतिः ।

हस्तपाषाणलगुडैः भस्मकर्दमपांसुभिः ।

आयुधैश् च प्रहरणं दण्डपारुष्यम् उच्यते ॥

नारदः ।

तस्यापि दृष्टं त्रैविध्यं मृदुमध्योत्तमक्रमात् ।

अवगोरणनिःसङ्गपातनक्षतदर्शनैः ॥

हीनमध्योत्तमानां तु त्रयाणां समतिक्रमात् ।

त्रीण्य् एव साहसान्य् आहुः तत्र कण्टकशोधने ॥

याज्ञवल्क्यः ।

भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः ।

अमेध्यपार्ष्णिनिष्ठ्यूतस्पर्शने द्विगुणः स्मृतः ॥

समेष्व् एवं परस्त्रीषु द्विगुणस् तूत्तमेषु च ।

हीनेष्व् अर्धदमो मोहमदादिभिर् अदण्डनम् ॥

कात्यायनः ।

छर्दिमूत्रपुरीषाद्यैर् अधोनाभेश् चतुर्गुणः ।

षड्गुणः कायमध्ये तु मूर्ध्नि त्व् अष्टगुणो दमः ॥

उद्गूरणे तु हस्तस्य कार्यो द्वादशको दमः ।

स एव द्विगुणः प्रोक्तः पातने तु सजातिषु ॥

बृहस्पतिः ।

उद्यते तु शिलाकाष्ठे कर्तव्यः प्रथमो दमः ।

परस्परं हस्तपादे दशविंशतिकस् तथा ॥

इष्टकोपकाष्ठैश् च ताडने तु द्विमाषकः ।

द्विगुणः शोणितोद्भेदे दण्डः कार्यो मनीषिभिः ॥

याज्ञवल्क्यः ।

शोणितेन विना दुःखं कुर्वन् काष्ठादिभिर् नरः ।

द्वात्रिंशतं पणं दाप्यो द्विगुणं दर्शने ऽसृजः ॥

मनुः ।

त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः ।

मांसभेत्ता तु षण्णिष्कान् प्रवास्यास् त्व् अस्थिभेदकः ॥

बृहस्पतिः ।

त्वग्भेदे प्रथमो दण्डो मांसभेदे तु मध्यमः ।

उत्तमस् त्व् अस्थिभेदे तु घातने तु प्रमापणम् ॥

कर्णनासाकरछेदे दन्तभेदाङ्गभेदने ।

कर्तव्यो मध्यमो दण्डो द्विगुणः पातिते सति ॥

कात्यायनः ।

कर्णोष्ठघ्राणपादाक्षिजिह्वाशिश्नकरस्य च ।

छेदने चोत्तमो दण्डो भेदने मध्यमो भृगुः ॥

मनुः ।

मनुष्याणां पशूनां च दुःखाय प्रहृते सति ।

यथा यथा महद् दुःखं दण्डं कुर्यात् तथा तथा ॥

याज्ञवल्क्यः ।

विप्रपीडाकरं छेद्यम् अङ्गम् अब्राह्मणस्य तु ।

उद्गूर्णे प्रथमो दण्डः स्पर्शने तु तदर्धकः ॥

नारदः ।

येन येनावरो वर्णो ब्राह्मणस्यापराध्नुयात् ।

तदङ्गं तस्य छेत्तव्यम् एवं शुद्धिम् अवाप्नुयात् ॥

बृहस्पतिः ।

द्वयोः प्रहरतोर् दण्डः समयो ऽस्तु समः स्मृतः ।

आरम्भको ऽनुबन्धी च दाप्यः स्याद् अधिकं दमम् ॥

नारदः ।

पूर्वम् आक्षारयेद् यस् तु नियतं स्यात् स दोषभाक् ।

पश्चाद् यः सो ऽप्य् असत्कारी पूर्वे तु विनयो गुरुः ॥

बृहस्पतिः ।

आक्रुष्टस् तु समाक्रोशंस् ताडितः प्रतिताडयन् ।

हत्वाततायिनं चैव नापराधी भवेन् नरः ॥

अथ वृद्धकात्यायनः ।

उक्त्वा परुषम् उक्तस् तु ताडयित्वा तु ताडितः ।

यम् उद्दिश्य त्यजेत् प्राणान् तेन न स्यात् स किल्बिषी ॥

मनु-नारदौ ।

सहासनम् अभिप्रेप्सुर् उत्कृष्टस्यापकृष्टजः ।

कट्यां कृताङ्को निर्वास्यः स्फिचं वास्य निकृन्तयेत् ॥

अवनिष्टिवतो दर्पात् द्वाव् ओष्ठौ छेदयेन् नृपः ।

अवमूत्रयतो मेढ्रम् अवशर्दयतो गुदम् ॥

केशेषु गृह्णतो हस्तौ छेदयेद् अविचारयन् ।

पादयोर् नासिकायां च ग्रीवायां वृषणे तथा ॥

मनुः ।

अधस्तात् तु प्रहर्तव्या नोत्तमाङ्गे कथञ्चन ।

अतो ऽन्यथा प्रवृत्तस् तु यथोक्तं दण्डम् अर्हति ॥

कात्यायनः ।

वाक्पारुष्ये यथैवोक्ताः प्रतिलोमानुलोमतः ।

तथैव दण्डपारुष्ये पात्या दण्डा यथाक्रमम् ॥

मनुः ।

अङ्गावपीडनं चास्य व्रणशोणितयोस् तथा ।

समुत्थानव्ययं दाप्यः सर्वदण्डम् अथापि वा ॥

बृहस्पतिः ।

अङ्गावपीडने चैव भेदने छेदने तथा ।

समुत्थानव्ययं दाप्यः कलहापहृतं च यत् ॥

नारदः ।

पुत्रापराधे न पिता नाश्वेन शुनि दण्डभाक् ।

न मर्कटेन तत्स्वामी तेनैव प्रेषिता न चेत् ॥

याज्ञवल्क्यः ।

शक्तो ऽप्य् अमोषयन् स्वामी दंष्ट्रिनां शृङ्गिणां तथा ।

प्रथमं साहसं दद्यात् विकृष्टे द्विगुणं तथा ॥

असाक्षिकहते चिह्नैः युक्तिभिश् चागमेन च ।

द्रष्टव्यो व्यवहारस् तु कूटचिह्नकृताद् भयात् ॥

बृहस्पतिः ।

हतः स दृश्यते यत्र घातकस् तु न दृश्यते ।

पूर्ववैरानुमानेन ज्ञातव्यः स महीभुजा ॥

प्रातिवेश्यानुवेश्याश् च तस्य मित्राणि बान्धवाः ।

प्रष्टव्या राजपुरुषैः सामादिभिर् उपक्रमैः ॥

विज्ञेयः साध्यसंसर्गाच् चिह्नहोढेन वा नरैः ।

कात्यायनः ।

कूटस्य बहवो यत्र प्रहरन्ति रुषान्विताः ।

मर्मप्रहारदो यस् तु घातकः स उदाहृतः ॥

मर्मघाती च यस् तेषां यथोक्तं दापयेद् दमम् ।

आरम्भकः सहायाश् च दोषभाजस् तदर्थतः ॥

आश्रयः शस्त्रदाता च भरदाता च कर्मणाम् ।

युक्त्योपदेशकश् चैव तद्विनाशः प्रदर्शकः ॥

उपेक्षाकार्ययुक्तश् च दोषयुक्तानुमोदकः ।

अनिषेधक्षमो यः स्यात् सर्वे ते कार्यकारिणः ॥

न शारीरो ब्राह्मणस्य दण्डो भवति कर्हिचित् ।

गुप्ते तु बन्धने बध्वा राजा भक्तं प्रदापयेत् ॥

यथापराधं विप्रास् तु कर्माण्य् अपि च कारयेत् ॥

कात्यायनः ।

हेत्यादिभिर् न पश्येच् चेत् दण्डपारुष्यकारणम् ।

तद् असाक्षीकृतं तत्र दिव्यं वाध्वनि योजयेत् ॥

अत्र याज्ञवल्क्यः ।

दुःखम् उत्पादयेद् यस् तु स समुत्थानजं व्ययम् ।

कात्यायनः ।

समुत्थानव्ययं चासौ दद्याद् आ व्रणरोपणात् ।

मनुः ।

भार्या पुत्रश् च दासश् च दासी भृत्यश् च पञ्चमः ।

प्राप्तापराधास् ताड्याः स्युः रज्वा वेणुदलेन वा ॥

याज्ञवल्क्यः ।

दुःखे च शोणितोत्पादे शाखाङ्गच्छेदने तथा ।

दण्डः क्षुद्रपशूनां च द्विपणप्रभृतिः क्रमात् ॥

लिङ्गस्य छेदने मृत्यौ मध्यमे मूल्यम् एव च ।

महापशूनाम् एतेषु स्थानेषु द्विगुणो दमः ॥

कार्षापणशतं दण्ड्य इत्य् अनुवृत्तौ विष्णुः-

    पशूनां पुंस्त्वघाती तथा गजाश्वोष्ट्रगोघाती ह्य् एकपादः कार्यः । मांसविक्रयी च ग्राम्यपशुघाती च कार्षापणशतं पण्ड्यः । पशुस्वामिनश् च तन्मूल्यं दद्यात् । अरण्यपशुघाती कार्षापणापञ्चाशतम् । पक्षिघाती मत्स्यघाती च दशकार्षापणान् । क्रीडोपघाती कार्षापणम् ॥

कात्यायनः ।

त्रिपणो द्वादशपणो वधे तु मृगपक्षिणाम् ।

सर्पमार्जारकुलश्वसूकरवधे नृणाम् ॥

मनुः ।

गोकुमारीदेवपशम् उक्षाणम् ऋषभं तथा ।

वाहयन् साहसं पूर्वं प्राप्नुयाद् उत्तमं वधे ॥

कात्यायनः ।

श्रान्तान् क्षुधार्तांस् तृषितान् नाकाले वाहेयन् नरः ।

खरगोमहिषोष्ट्रादीन् प्राप्नुयात् पूर्वसाहसम् ॥

मनुष्यमारणे क्षिप्रं चोरवत् किल्बिषं भवेत् ।

प्राणभृत्सु महत्स्व् अर्धं गोकरओष्ट्रगवादिषु ॥

क्षुद्रकाणां पशूनां च हिंसायां दशमो दमः ।

पञ्चाशतं भवेद् दण्डः शुभेषु मृगपक्षिषु ॥

गर्दभाजाविकानां तु दण्डः स्यात् पञ्चमाषकः ।

माषकस् तु भवेद् दण्डः श्वसूकरनिपातने ॥

कात्यायनः ।

प्रमापणे प्राणभृतां प्रतिरूपं तु दापयेत् ।

पश्वानुरूप्यं मूल्यं वा दाप्य इत्य् अब्रवीन् मनुः ॥

अत्र मनुः ।

दशस्थानानि दण्डस्य मनुः स्वायम्भुवो ऽब्रवीत् ।

त्रिषु वर्णेषु यानि स्युर् अक्षतो ब्राह्मणो व्रजेत् ॥

उपस्थम् उदरं जिह्वा हस्तौ पादौ च पञ्चमः ।

चक्षुर् नासा च कर्णौ च धनं देहस् तथैव च ॥

बृहस्पतिः ।

हस्तश् च लिङ्गनयनजिह्वाकर्णौ च नासिका ।

ग्रीवा पादस् तु सन्दंशो ललाटोष्ठौ गुदं कटी ॥

स्थानान्य् एतानि दण्डस्य निर्दिष्टानि चतुर्दश ।

तीव्रदोषविषयम् इदम् ।

ललाटकर्णौ ब्राह्मणस्य नान्यो दण्डो विधीयते ।

यमः ।

जगत् सर्वम् इदं हन्यात् ब्राह्मणस्य न तत्समम् ।

तस्मात् तस्य वधं राजा मनसापि न चिन्तयेत् ॥

अवध्यान् ब्राह्मणान् आहुः सर्वपापेष्व् अवस्थितान् ।

यद् यद् विप्रेषु कुशलं तत् तद् राजा समाचरेत् ॥

न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अवस्थितम् ।

राष्ट्राद् एनं बहिः कुर्यात् समग्रधनम् अक्षतम् ॥

वध्ये कर्मणि तिष्ठन्तं समग्रधनसंयुतम् ।

विवासयेद् द्विजं राजा दोषं विख्याप्य संसदि ॥

बोधायनः- “ब्राह्मणस्य ब्रह्महत्यागुरुतल्पगमनस्वर्णस्तेयसुरापानेषु कबन्धभगश्वापदसुराध्वजान् तप्तेनायसेन ललाटे ऽङ्कयित्वा विषयान्तरे निर्वास्यः” । मनुः ।

गुरुतल्पे भगः कार्यः सुरापे च सुराध्वजः ।

स्तेये च श्वपदं कार्यं ब्रह्महण्य् अशिराः पुमान् ॥

असम्भोज्या ह्य् असं याज्यः असम्पाट्याविवादिनः ।

चरेयुः पृथिवीं दीनाः सर्वधर्मबहिष्कृताः ॥

ज्ञातिसम्बन्धिभिस् त्व् एते त्यक्तव्याः कृतलक्षणाः ।

निर्दया निर्नमस्काराः तन् मनोर् अनुशासनम् ॥

प्रायश्चित्तं तु कुर्वाणाः पूर्ववर्णा यथोदित्म् ।

नाङ्क्या राज्ञा ललाटे स्युः दाप्यास् तूत्तमसाहसम् ॥

आगमस् तु ब्राह्मणस्येव कार्यो मध्यमसाहसः ।

विवास्यो वा भवेद् राष्ट्रात् सद्रव्यः सपरिच्छदः ॥

इतरे कृतवन्तस् तु पापान्य् एतान्य् अकामतः ।

सर्वस्वहारम् अर्हन्ति कामतस् तु प्रवासनम् ॥

यमः ।

ब्राह्मणस्यापराधेषु चतुर्ष्व् एवं विधीयते ।

शिरसो मुण्डनं दण्डः पुरान् निर्वासनं ततः ॥

प्रख्यापनार्थं पापस्य प्रयाणं गर्दभेन च ।

ललाटे चिह्नकरणं कुर्याद् राजा यथाविधि ॥

गुरुतल्पे सुरापाने स्तेये ब्राह्मणहिंसने ।

यथाक्रमं प्रवक्ष्यामि चिह्नान्य् आह यथा मनुः ॥

गुरुतल्पे भगः कार्यो व्रतघ्नस्य द्विजन्मनः ।

सुराध्वजः सुरापाने सुरापस्य च कारयेत् ॥

स्तेये च श्वपदं कृत्वा शिखिवत् तेन कुट्टयेत् ।

विशिराः पुरुषः कार्यः ललाटे ब्रह्मघातिनः ॥

एतैस् तु पतितैः सार्धं संयोगं कुरुते द्विजः ।

सो ऽसम्भोज्यस् तु कर्तव्यः मनुः स्वायम्भुवो ऽब्रवीत् ॥

परित्याज्याः कृतङ्कास् तु ज्ञातिसम्बन्धिबान्धवैः ॥

मनुः ।

कार्षापणं भवेद् दण्ड्यो यत्रान्यः प्राकृतो जनः ।

तत्र राजा भवेद् दण्ड्यः सहस्र इति धारणा ॥

ब्राह्मणान् बाधमानं तु कामाद् अवरवर्णजम् ।

हन्याच् चित्रैर् वधोपायैः उद्वेजनकरैर् नृपः ॥

कात्यायनः ।

प्रव्रज्यावसितं शूद्रं जपहोमपरं तथा ।

तुथेन शासयेद् राजा दण्ड्यो वा द्विगुणं दमम् ॥

अस्पृश्यशूद्रदासानां नराणां पापकारिणाम् ।

प्रातिलोम्यप्रसूतानां ताडनं नार्थतो दमः ॥

परतन्त्रास् तु ये केचित् दासत्वे ये च संस्थिताः ।

अनाथास् ते निर्दिष्टाः तेषां दण्डस् तु ताडनम् ॥

बन्धनं चैव तेषां हि तथैव तु निपीडनम् ।

एष दण्डो हि दासस्य नार्थदण्डो बृहस्पतिः ॥

इति वरदराजीये दण्डपारुष्यम्

स्तेयम्

अथ स्तेयसाहसपदम् उच्यते । अत्र मनुः ।

साहसं स्याद् अन्वयवत् प्रसभं कर्म यत् कृतम् ।

निरन्वयं भवेत् स्तेयं कृत्वापव्ययते च यत् ॥

यच् च सान्वयम् अपि कृत्वापव्ययने च यत् ।

अन्वयवत् इति सरक्षम् उच्यते । तेन रक्षकसहिते प्रसभं चाविशङ्कितेन यत् क्रियते तत् साहसम् । निरन्वयं तु यद् अनाधिष्ठं रक्षकेन कृतम् अपि अपच्यवते ।

निह्नुते तद् अपि स्तेयं कृत्वापव्ययने च यत् ।

द्विविधांस् तस्करान् विद्यात् परद्रव्यापहारिणः ॥

प्रकाशांश् चाप्रकाशांश् च चारचक्षुर् महीपतिः ।

नारदः ।

क्षुद्रमध्योत्तमानां तु द्रव्यानाम् अपकर्षणात् ।

मृद्भाण्डासनखट्वास्थिदारुचर्मतृणादि यत् ॥

शमीधान्यं कृतान्नं च क्षुद्रद्रव्यम् उदाहृतम् ।

वासः कौशेयवर्जं च गोवर्जं पशवस् तथा ॥

हिरण्यवर्जं लोहं च मधं व्रीहियवा अपि ।

हिरण्यं रत्नकौशेयं स्त्रीपुङ्गोगजवाजिनः ॥

देवब्राह्मणराज्ञां च विज्ञेयं द्रव्यम् उत्तमम् ।

उपायैर् विविधैर् एषां वञ्चयित्वापकर्षणम् ॥

सुप्तमत्तप्रमत्तेभ्याह् स्तेयम् आहुर् मनीषिणः ॥

मनुः ।

द्रव्याणि हिंस्याद् यो यस्य ज्ञानतो ऽज्ञानतो ऽपि वा ।

स तस्योत्पादयेत् तुष्टिं राज्ञे दद्याच् च तत्समम् ॥

शङ्खलिखितौ- “कूटशासनप्रयोगे राजशासनप्रतिषेधे कूटतुलामानप्रतिमान् व्यवहारे शरीरे अङ्गच्छेदे वा” । मनुः ।

कूटशासनकर्तॄंश् च पर्कृतीनां च दूषकान् ।

स्त्रीबालब्राह्मणघ्नांश् च हन्याद् विट्सेविनस् तथा ॥

द्विविधान् तस्करान् विद्यात् परद्रव्यापहारिणः ।

प्रकाशांश् चाप्रकाशांश् च चारचक्षुर् महीपतिः ॥

नारदः ।

तद् अपि त्रिविधं प्रोक्तं द्रव्यापेक्षं मनीषिभिः ।

क्रयादिषु स्वत्वहेतुं विना यया कया च विधया अप्रकाशहरणम् एव स्तेयम् । नारदः ।

प्रकाशतस्करास् तत्र कूटमानतुलाश्रिताः ।

उत्कोचकाः सोपधिकाः कितवाः पण्ययोषितः ॥

प्रतिरूपकराश् चैव मङ्गलादेशवृत्तयः ।

इत्येवमादयो ज्ञेयाः प्रकाशास् तस्करा भुवि ॥

अप्रकाशास् तु विज्ञेया बहिरभ्यन्तराश्रिताः ।

सुप्तमत्तप्रमत्तांश् च मुष्णन्त्य् आक्रम्य ये नराः ॥

बृहस्पतिः ।

सन्धिच्छेदः पान्थमुषो द्विचतुष्पादहारिणः ।

उत्क्षेपकाः सस्यहरा ज्ञेयाह् प्रच्छन्नतस्कराः ॥

व्यासः ।

साधनाङ्गान्विता रात्रौ चिवरन्त्य् अविभाविताः ।

अविज्ञातविवासाश् च ज्ञेयाः प्रच्छन्नतस्कराः ॥

उत्क्षेपकः सन्धिभेत्ता पान्थ उद्ग्रन्थिभेदकः ।

स्त्रीपुंयोऽश्वपशुस्तेयी चोरो नवविधः स्मृतः ॥

तत्र त्रिविधस्य साहसस्य दण्डप्रकारम् आह नारदः ।

तस्य दण्डक्रियापेक्षः प्रथमस्य शतावरः ।

मध्यमस्य तु शास्त्रज्ञैः दृष्टः पञ्चशतावरः ॥

वधः सर्वस्वहरणं पुरान् निर्वासनाङ्कने ।

तदङ्गच्छेद इत्य् उक्तः दण्ड उत्तमसाहसे ॥

स्यातां संव्यवहार्यौ तौ धृतदण्डौ तु पूर्वयोः ।

धृतदण्डो ऽप्य् असम्भाष्यो ज्ञेय उत्तमसाहसे ॥

शङ्खलिखितौ- “कूटशासनप्रयोगराजशासनप्रतिषेधकूटतुलामानप्रतिमाने व्यवहारेण” । मनुः ।

कूटशासनकर्तॄंश् च प्रकृतीनां च दूषकान् ।

स्त्रीबालब्राह्मणघ्नांश् च हन्याद् विट्सेविनस् तथा ॥ इति ।

तान् प्रत्य् आह मनुः ।

तान् विदित्वा तु चरितैः गूढैस् तत्कर्मचारिभिः ।

चारैश् चानेकसंस्थानैः प्रसह्य वशम् आनयेत् ॥

तेषां दोषान् अभिख्याप्य स्वे स्वे कर्मनि तत्त्वतः ।

कुर्वीत शासनं राजा सम्यक् सारापराधतः ॥

सरशब्देनार्थ उच्यते । बृहस्पतिः ।

संसर्गचिह्नलोप्त्रैश् च विज्ञेयो राजपूरुषैः ।

प्रदाप्योपहृतं राज्ञा दमैः शास्त्रप्रचोदितैः ॥

संसर्गो दुष्टैः सह वर्तनम् । चिह्नं श्वापदं चौर्योपकरणं च । लोप्त्रं चोरितद्रव्यम् । तेषां मार्गस्थानम् आह मनुः ।

सभाप्रपाद्यूतशाला वेश्ममध्यान्नविक्रयाः ।

चतुष्पथं चैत्यवृक्षः समाजप्रक्षणादि च ॥

जीर्णोद्यानान्य् अरण्यानि कारुकावेशनानि च ।

शून्यानि चाप्य् अगाराणि वनान्य् उपवनानि च ॥

एवंविधान् नृपो देशान् गुलमस्थावरजङ्गमैः ।

तस्करप्रतिषेधार्थं चारैश् चाप्य् अनुचारयेत् ॥

तत्सहायैः स्वानुगतैः नानाकर्मप्रवेदिभिः ।

विद्याद् उत्सादयेच् चैव निपुणैः पूर्वतस्करैः ॥

भक्ष्यभोज्योपदेशैश् च ब्राह्मणानां च दर्शनैः ।

शौर्यकर्मोपदेशैश् च कुर्यात् तेषां समागतम् ॥

ये तत्र नोपसर्पन्ति मूलप्रणिहितान् जनान् ।

तान् प्रगृह्य नृपो हन्यात् समित्रज्ञातिबान्धवान् ॥

चोरान्वेषणार्थं राज्ञा प्रेरिता ये यथोक्तकारिणो न भवन्ति तेषम् उक्तो दण्डः । चोरनिग्रहे नियमम् आह ।

न होढेन विना चोरं घातयेद् धार्मिको नृपः ।

सहोढं सोपकरणं घातयेद् अविचारयन् ॥

होढः अपहृतद्रव्यैकदेशः । उपकरणशब्देन सहकारिण उच्यन्ते ।

भयोपधाभिश् चित्राभिः ब्रूयुस् तथ्यं यथा हि ते ।

देशं ग्रामं दिशं नाम जातिं वा सम्प्रतिश्रयम् ॥

कृतं कार्यं सहायाश् च प्रष्टव्याः स्युर् विगृह्य ते ।

वर्णस्व्राकारभेदात् ससन्दिग्धनिवेदनात् ॥

अदेशकालदृष्टत्वान् निवासस्य विशोधनात् ।

असद्व्ययात् पूर्वचौर्याद् असत्संसर्गकारणात् ॥

एतैर् अप्य् अवगन्तव्यो न होढैर् अपि केवलैः ॥

चोराधिकारे व्यासः ।

ते पदेनानुगन्तव्या विभाव्या लोप्त्रदर्शनैः ।

द्यूतस्त्रीपानसक्त्या च निरायव्ययकर्मभिः ॥

नारदः ।

यांस् तत्र चोरान् गृह्णीयात् तान् विताड्य विलुप्य च ।

अवघुष्य च सर्वत्र हन्याच् चित्रवधेन तु ॥

अचोरा अपि दृश्यन्ते चोरैः सह समागताः ।

यदृच्छया नैव तु तान् नृपो दण्डेन संस्पृशेत् ॥

याज्ञवल्क्यः ।

चोरं प्रदाप्यापहृतं घातयेद् विविधैर् वधैः ।

सचिह्नं ब्राह्मणं कृत्वा स्वराष्ट्राद् विप्रवासयेत् ॥

ग्रामेष्व् अपि च ये केचित् चोराणां भक्तदायकाः ।

भाण्डावकाशदांश् चैव सर्वांस् तान् अपि घातयेत् ॥

बृहस्पतिः ।

इष्टकापूर्णसंयुक्तो रक्तमाल्यविभूषितः ।

घोषितस् तेन चौर्येण स्तेनो राज्ञा निहन्यते ॥

अन्नप्रदाता स्तेनानां स्तेन एव स उच्यते ।

तस्य हृत्वा तु सर्वस्वं श्वपदं तु मुखे ऽङ्कयेत् ॥

भित्त्वा गृहं गृहीत्वा स्वं कृत्वा संस्कारम् एव च ।

राजा साहसिकं राष्ट्रात् …… त्यजेत् ॥

चोराधिकारे कात्यायनः ।

क्रेतारश् चैव भाण्डानां प्रतिग्राहिण एव च ।

समदण्डाः स्मृताः सर्वे ये च प्रच्छादयन्ति तान् ॥

प्रज्ञातविषयम् इदम् । अप्रज्ञातेषु न दोषः । अत एव गौतमः- “चोरसमः सचिवो मतिपूर्वं प्रतिग्रहीतापि” । अत्र नारदः ।

उत्क्रोशतां जनानां तु ह्रियमाणे धने तथा ।

श्रुत्वा ये नाभिधावन्ति ते ऽपि तद्दोषभागिनः ॥

राज्ञः कोशापहर्तॄंश् च हन्याद् एवाविचारयन् ।

वन्दिग्रहांस् तथा वाजिकुञ्जराणां च हारिणः ॥

प्रसह्य घातिनश् चैव शूलम् आरोपयेन् नृपः ॥

मनुः ।

राज्ञः कोषापहर्तॄंश् च प्रातिकूल्येष्व् अवस्थितान् ।

अरीणाम् उपजप्तॄंश् च शातयेद् विविधैर् वधैः ॥

सन्धिं छित्त्वा तु ये चौर्यं रात्रौ कुर्वन्ति तस्कराः ।

तेषां छित्त्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् ॥

सन्धिछेदनं कवाटादियन्त्रभेदनम् । नारद-कात्यायनौ ।

स्वदेशघातिनो ये स्युः तथा मार्गनिरोधिनः ।

तेषां सर्वस्वम् आदाय राजा शूले निवेशयेत् ॥

पूर्वोक्तं दमनियमम् आह मनुः ।

अङ्गुलि सन्धिभेदस्य छेदयेत् प्रथमे ग्रहे ।

द्वितीये हस्तचरणौ तृतीये वधम् अर्हति ॥

तथा मनुः ।

अग्निदान् भक्तदांश् चैव तथा शस्त्रावकाशदान् ।

सन्निधातॄंश् च मोषस्य शिष्याच् चोरान् इवेश्वरः ॥

तटाकभेदकं हन्याद् अप्सु शुद्धवधेन वा ।

यद् वापि प्रतिसंस्कुर्याद् दद्याच् चोत्तमसाहसम् ॥

प्रतिसंस्कारः समाधानम् । अत्र याज्ञवल्क्यः ।

विषाग्निदां स्त्रियं चैव पुरुषघ्नीम् अगर्भिणीम् ।

सेतुभेदकरीम् अप्सु शिलां बद्ध्वा प्रवेशयेत् ॥

विषाग्निदां पतिगुरुनिजापत्यप्रमापिणीम् ।

विकर्णकरनासोष्ठीं कृत्वा गोभिः प्रमापयेत् ॥

तथा ।

क्षेत्रवेश्मग्रामवनविवीतखलदाहकाः ।

राजपत्न्यभिगामी च दग्धव्याः स्युः कटाग्निना ॥

तथा मनुः ।

गोष्ठागारायुधागारदेवतागारभेदकान् ।

हस्त्यश्वरथहन्तॄंश् च हन्याद् एवाविचारयन् ॥

याज्ञवल्क्यः ।

बन्दिग्राहांस् तथा वाजिकुञ्जराणां च हारिणः ।

प्रसह्य घातिनं चैव शूलम् आरोपयेन् नरान् ॥

तथा च विष्णुः- “गोऽश्वोष्ट्रगजापहाय् एककरपादः कार्यः । अजाव्यपहारे एककरश् च” । तत्र नारदः ।

महापशून् स्तेनयतो दण्ड उत्तमसाहसः ।

मध्यमो मध्यमपशून् पूर्वः क्षुद्रपशोर् हृतौ ॥

बृहस्पतिः ।

यस् तु पूर्वं निविष्टस्य तटाकस्योदकं हरेत् ।

आगमं वाप्य् अपां भिन्द्यात् स दाप्यः पूर्वसाहसम् ॥

चिकित्सकानां सर्वेषां मिथ्याप्रचरतां दमः ।

अमानुषेषु प्रथमो मानुषेषु तु मध्यमः ॥

अज्ञातौषधमन्त्रस् तु यस् तु व्याधेर् अतत्त्ववित् ।

रोगिभ्यो ह्य् अर्थम् आदत्ते स दण्ड्यश् चोरवद् भिषक् ॥

मनुः ।

सङ्क्रमध्वजयष्टीनां प्रतिमानाञ्च भेदकः ।

प्रैकुर्याच् च तत् पूर्वं पञ्च दद्याच् छतानि च ॥

कात्यायनः ।

हरेत् भिन्द्यात् दहेद् वापि देवानां प्रतिमां यदि ।

तद्गृहं चैव यो भिन्द्यात् प्राप्नुयात् पूर्वसाहसम् ॥

तत्र शङ्खलिखितौ- “प्रतिमारामकृपसङ्क्रमध्वजसेतुनिपानभङ्गेषु तत्समुत्थापनं प्रतिसंस्कारो ऽष्टशतं च” । प्रतिसंस्कारः प्रतिमान्तरनिर्माणम् । मनुः ।

अदूषितानां द्रव्याणां दूषणे भेदने तथा ।

मणीनाम् अप्य् अवेधे च दण्डः प्रथमसाहसः ॥

अदूषितानां चन्दनहिङ्ग्वादीनां भेदनम् । अकांस्यादीनां मणीनाम् अपि वेधव्यतिरिक्तभेदेन गुरुद्रव्येष्व् इदं द्रष्टव्यम् । अत्र याज्ञवल्क्यः ।

भेषजस्नेहलवणगन्धदान्यगुडादिषु ।

पण्येषु हीनं क्षिपत(ः) पणा दण्डस् तु षोडश ॥

तथा मनुः ।

प्राकारस्य च भेत्तारं परिखानां च पूरकम् ।

द्वाराणां चैव भेत्तारं क्षिप्रम् एव प्रवासयेत् ॥

अभिचारेषु सर्वेषु कर्तव्यो द्विशतो दमः ।

मूलकर्मणि चानाप्ते कृत्यासु विविधासु च ॥

मूलकर्मणि वशीकारकर्मणि । अनाप्ते फल इत्य् अर्थः । कात्यायनः ।

प्रव्रज्यावसितं शूद्रं जपहोमपरायणम् ।

वधेन शासयेत् पापं दण्ड्यो वा द्विगुणं दमम् ॥

अस्पृश्यधूर्तदासानां नराणां पापकारिणाम् ।

प्रतिलोमप्रसूतानां ताडनं नार्थतो दमः ॥

परतन्त्रास् तु ये केचिद् दासत्वं ये च संश्रिताः ।

अनाथास् ते तु निर्दिष्टाः तेषां दण्डस् तु ताडनम् ॥

यच् च यस्योपकरणं येन जीवन्ति कारवः ।

सर्वस्वहरणे ऽप्य् एषां न राजा हर्तुम् अर्हति ॥

कात्यायनः ।

सुवर्णशतम् एकं तु वधार्हो दण्डम् अर्हति ।

अङ्गच्छेदी तदर्धं तु विवास्यः पञ्चविंशकम् ॥

बहुजनोपकारस्य साधोर् मरणप्राप्ताव् इदम् ।

सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः ।

प्रवर्तमानम् अन्याये छेदयेल् लवशः क्षुरैः ॥

याज्ञवल्क्यः ।

कूटस्वर्णव्यवहारी कुमांसस्य च विक्रयी ।

त्र्यङ्गहीनस् तु कर्तव्यो दाप्यश् चोत्तमसाहसम् ॥

मृच्चर्ममणिसूत्राणां काष्ठवल्कलवाससाम् ।

अजातेर् जातिकरणं विक्रये ऽष्टगुणो दमः ॥

सर्ववस्तूनाम् अज्ञाने जातिकरणे एतद् एव तद् इति वाचा अनुभाष्य विक्रये मूल्याद् अष्टगुणो दमः । बृहस्पतिः ।

अल्पमूल्यं तु संस्कृत्य नयन्ति बहुमूल्यताम् ।

स्त्रीबालकान् वञ्चयन्ति दण्ड्यास् ते ऽर्थानुसारतः ॥

हेममुक्ताप्रवालानां कृत्रिमं कुर्वते तु ये ।

ते तन्मूल्यं प्रदाप्यास् तु राज्ञा तद्द्विगुणं दमम् ॥

अभिन्नदोषव्यामिश्रं पुनः संस्कृत्य विक्रयी ।

पण्यं तद्द्विगुणं दाप्यः मणिगण्डश् च तत्समः ॥

नारदः ।

लोहानाम् अप् सर्वेषां हेतुर् अग्निक्रियाविधौ ।

क्षयः संस्क्रियमाणानां तेषाम् इष्टो ऽग्निसङ्गमात् ॥

सुवर्णस्य क्षयो नास्ति रजते द्विपलं शतम् ।

शते त्व् अष्टपलं ज्ञेयं क्षयं तु त्रपुसीसयोः ॥

ताम्रे पञ्चपलं विद्याद् विकारा ये च तन्मया ।

तद्धातूनाम् अनेकत्वात् अयसो नियमं क्षये ॥

याज्ञवल्क्यः ।

अग्नौ सुवर्णम् अक्षीणं द्विपलं रजते शतम् ।

अष्टौ त्रपुणि सीसे च ताम्रे पञ्च दशायसि ॥

मनुः ।

तन्तुवायो दशपलाद् दद्याद् एकपलाधिकम् ।

अतो ऽन्यथा वर्तमानो दाप्यो द्वादशकं दमम् ॥

याज्ञवल्क्यः ।

शते दशपला वृद्धिः और्णे कार्पासिके तथा ।

मध्ये पञ्चपला सूत्रे सूक्ष्मे तु त्रिपला मता ॥

नारदः ।

त्रिंशांशो रोमबन्धस्य क्षयं चर्मकृतस्य च ।

कौशेयवल्कलादीनां नैव वृद्धिर् न च क्षयः ॥

विश्वामित्रः ।

षाण्मासिकम् अधो वास उत्तरं त्व् आब्दिकं भवेत् ।

द्विवर्षं तु प्रावरणं यथा भोगं यथा वयः ॥

याज्ञवल्क्यः ।

देशं कालं च भोगं च ज्ञात्वा नष्टे बलाबलम् ।

द्रव्याणां कुशला ब्रूयुः यत् तद् दाप्यम् असंशयम् ॥

मनुः ।

अष्टापाद्यं हि शूद्रस्य स्तेये भवति किल्बिषम् ।

षोडशैव तु वैश्यस्य द्वात्रिंशत् क्षत्रियस्य तु ॥

ब्राह्मणस्य चतुःषष्टिः पूर्णं वापि शतं भवेत् ।

द्विगुणा वा चतुःषष्टिः तद्दोषगुणविद् धि सः ॥

नारदः ।

स्तेनेष्व् अलभ्यमानेषु राजा दद्यात् स्वतो धनात् ।

उपेक्ष्यमाणो ह्य् एनस्वी धर्माद् अर्थाच् च हीयते ॥

यमः ।

अस्तेयम् अग्नये काष्ठम् अस्तेयञ्च तृणं भवेत् ।

कन्याहरणम् अस्तेयं यावरा यानलङ्कृता ॥

अन्यस्मै दातुम् अलङ्कृतां नाहरेत् । याज्ञवल्क्यः ।

पुष्पे शाकोदके काष्ठे तथा मूलफले तृणे ।

अदत्तादानम् एतेषाम् अस्तेयं तु यमो ऽब्रवीत् ॥

तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरन् द्विजः ।

गोब्राह्मणार्थं गृह्णन् वै न स पापेन लिप्यते ॥

मनुः ।

वानस्पत्यं मूलफलं दर्व्य् अग्न्यर्थं तथैव च ।

तृणं च गोभ्यो ग्रासार्थम् अस्तेयं मनुर् अब्रवीत् ॥

याज्ञवल्क्यः ।

द्विजस् तृणैधपुष्पाणि सर्वतः समुपाहरेत् ।

यमः ।

पथिकः क्षीणवृत्तिस् तु द्वाव् इक्षू द्वे च मूलके ।

आददानः परक्षेत्रात् न दण्डं दातुम् अर्हति ॥

नारदः ।

वर्तमानो ऽध्वनि श्रान्तो गृह्णन्न् अनशनं स्वयम् ।

ब्राह्मणो नापराध्नोति द्वाव् इक्षू द्वे च मूलके ॥

मनुः ।

यो नाहिताग्निः शतगुर् अयज्वा च सहस्रगुः ।

तयोर् अपि कुटुम्बाभ्याम् आहरेद् अविचारयन् ॥

ब्राह्मणस्वं न हर्तव्यं क्षत्रियेण कदाचन ।

दस्युनिष्क्रययोस् तु स्वम् अजीवन् हर्तुम् अर्हति ॥

यो ऽसाधुभ्यो ऽर्थम् आदाय साधुभ्यः सम्प्रयच्छति ।

स कृत्वा प्लवम् आत्मानं सन्तारयति ताव् उभौ ॥

यद् धनं यज्ञशीलानां देवस्वं तद् विदुर् बुधाः ।

अयज्वनां च यद् दत्तम् असुरस्वं तद् उच्यते ॥

बृहस्पतिः ।

अधारितब्रह्मसूत्रः वृषलाशनसेवकः ।

प्रत्यब्दं सर्वम् आदाय वेदविद्भ्यो निवेदयेत् ॥

त्यक्ताग्निः सन्ध्यया हीनं नित्यम् अस्नायिनं द्विजम् ।

अर्कोपस्थानहीनं च शूद्रप्रेष्यकरं तथा ॥

अकर्ता नित्ययज्ञानां प्रत्यहं पापम् आप्नुयात् ।

मनुः ।

अनेन विधिना राजा कुर्वाणः स्तेननिग्रहम् ।

यशो ऽस्मिन् प्राप्नुयाल् लोके प्रेत्य चानुत्तमं सुखम् ॥

साहसम्

अथ साहसम् उच्यते । अत्र बृहस्पतिः ।

स्तेनानाम् एत आख्यातं सर्वेषां दण्डनिग्रहम् ।

साहसस्याधुना सम्यक् श्रूयतां वधशासनम् ॥

नारदः ।

मनुष्यमारणं चौर्यं परदाराभिमर्श्नम् ।

पारुष्यम् उभयं चेति साहसं पञ्चधा स्मृतम् ॥

सहसा क्रियते कर्म यत् किञ्चिद् बलदर्पितैः ।

तत् साहसम् इति प्रोक्तं सहो बलम् इहोच्यते ॥

तत् पुनस् त्रिविधं ज्ञेयं प्रथमं मध्यमं तथा ।

उत्तमं चेति शास्त्रज्ञैः तस्योक्तं लक्षणम् पृथक् ॥

फलमूलोदकादीनां क्षेत्रोपकरणस्य च ।

भङ्गाक्षेपोपमर्दाद्यैः प्रथमं साहसं स्मृतम् ॥

वासः पश्वन्नधान्यानां गृहोपकरणस्य च ।

एतेनैव प्रकारेण मध्यमं साहसं स्मृतम् ॥

व्यापादो विषशस्त्राद्यैः परदारप्रकर्षणम् ।

प्राणोपरोधि यच् चान्यद् उत्तमं साहसं स्मृतम् ॥

तस्यैव भेदस् त्रेधा स्यात् विशेषस् तत्र तूच्यते ।

आधिः साहसम् आक्रम्य स्तेयम् आधिच्छलेन च ॥

साहसम् इत्य् अनुवृत्तौ नारदः ।

तस्य दण्डः क्रियापेक्षः प्रथमस्य शतावरः ।

मध्यमस्य तु शास्त्रज्ञैः दृष्टः पञ्चशतावरः ॥

उत्तमे साहसे दण्डः सहस्रावर इष्यते ।

वधः सर्वस्वहरणं पुरान् निर्वासनाङ्कने ॥

तदङ्गच्छेद इत्य् उक्तो दण्ड उत्तमसाहसे ।

स्यातां संव्यवहार्यौ तु घृतदण्डौ तु पूर्वयोः ॥

धृतदण्डो ऽप्य् असम्भाष्यो दण्ड्य उत्तमसाहसे ।

मनुः ।

द्रव्याणि हिंस्याद् यो यस्य ज्ञानतो ऽज्ञानतो ऽपि च ।

स तस्योत्पादयेत् तुष्टिं राज्ञो दण्डं च तत्समम् ॥

चर्म चार्मिकभाण्डेषु काष्ठलोष्टमयेषु च ।

मूल्यात् पञ्चगुणो दण्डः पुष्पमूलफलेषु च ॥

शङ्खलिखितौ- “कूटशासनप्रयोगे राजशासनप्रतिक्षेपे कूटतुलामानप्रतिमानव्यवहारे शरीराङ्गच्छेदौ” । मनुः ।

कूटशासनकर्तॄंश् च प्रकृतीनां च दूषकान् ।

स्त्रीबालब्राह्मणघ्नांश् च हन्याद् विट्सेविनस् तथा ॥

गर्भध्वंसाधिके व्यासः ।

परिक्लेशेन पूर्वः स्याद् भैषज्येन तु मध्यमः ।

प्रहारेण तु गर्भस्य पातने दण्ड उत्तमः ॥

हंसादिहिंसने बोधायनः- “हंसभासबर्हिनचक्रवाकबलाककाकोलूकमण्डूकश्व-नकुलडैरिकबभ्रुकोकिलादीनां वधे शूद्रवत्” । नारदः ।

गृहीतः शङ्कया यस् तु न तत् कार्यं प्रपद्यते ।

शपथैः स विशोद्धव्यः सर्वपापेष्व् अयं विधिः ॥

दिव्यैर् विशुद्धो मोच्यः स्याद् अशुद्धो वधम् अर्हति ।

अत्र बृहस्पतिः ।

आक्रुष्टस् तु समाक्रोशंस् ताडितः प्रतिताडयन् ।

हत्वाततायिनं चैव नापराधी भवेन् नरः ॥

नाततायिवधे हन्ता किल्बिषं प्राप्नुयात् क्वचित् ।

विनाशनार्थम् आयान्तं घातयन् नापराध्नुयात् ॥

देवलः ।

आत्मत्यागह् परित्यागात् पापीयान् पातकाद् अपि ।

घातके निष्कृतिः प्रोक्ता कथम् आत्महनिष्कृतिः ॥

कात्यायनः ।

शिखिनां शृङ्गिणां चैव दंष्ट्रिणां चाततायिनाम् ।

हस्त्यश्वानां तथान्येषां वधे हन्ता न दोषभाक् ॥

उद्यतानां तु पापानां हन्तुर् दोषो न विद्यते ।

निवृत्तिस् तु यद् आरम्भाद् ग्रहणं न वधः स्मृतः ॥

अत्र बृहस्पतिः ।

आततायिनम् उत्कृष्टं वृत्तस्वाध्यायसंयुतम् ।

यो न हन्याद् वधप्राप्तं सो ऽश्वमेधफलं लभेत् ॥

सुमन्तुः- “आततायिन्य् अदोषः अन्यत्र गोब्राह्मणात्” ।

उद्यतासिं विषाग्निं च चापोद्यतकरं तथा ।

आथर्वणेन हन्तारं पिशुनं चैव राजसु ।

भार्यातिक्रमिणं चैव विद्यात् सप्ताततायिनः ॥

आथर्वणेन आभिचारेण । साहसस्य दण्डपारुष्येणैव समानयोगक्षेमत्वात् तत्रोक्तम् इहानुसन्धेयम् । इति ।

इति साहसम्

अष्टादशपदेषु विशेषम् आह

नारदः ।

तीरितं चानुशिष्टं च यो मन्येत विधर्मिणः ।

द्विगुणं दण्डम् आस्थाय तत् कार्यं पुनर् उद्धरेत् ॥

तीरितानुशिष्टयोः स्वरूपम् आह कात्यायनः ।

असत् सद् इति य पक्षः सभ्यै राज्ञावधार्यते ।

तीरितः सो ऽनुशिष्टस् तु साक्षिदौष्ट्यात् प्रकीर्तितः ॥

कात्यायनः ।

असत् सद् इति यः पक्षः सभ्यै राज्ञावधार्यते ।

तीरितः सो ऽनुशिष्टस् तु साक्षिदौष्ट्यात् प्रकीर्तितः ॥

निरूपकदोषाद् अन्यथा निर्वृत्तिः तीरितः । साक्षिदोषाद् अन्यथा निर्वृत्तो ऽनुशिष्टः । याज्ञवल्क्यः ।

दुर्दृष्टांस् तु पुनर् दृष्ट्वा व्यवहारान् नृपेण तु ।

सभ्याः सजयिनो दण्ड्या विवादाद् द्विगुणं दमम् ॥

यो मन्येताजितो ऽस्मीति न्यायेनापि पराजितः ।

तम् आयान्तं पुनर् जित्वा दापयेद् द्विगुणं दमम् ॥

मनुः ।

अमात्याः प्राड्विवाको वा ये कुर्युः कार्यम् अन्यथा ।

तत् स्वयं नृपतिः कुर्यात् तान् सहस्रं तु दण्डयेत् ॥

यस्मिन् विवादे विजयः कूटसाक्षिकृतो भवेत् ।

तत् तत् कार्यं निवर्तेत कृतं चाप्य् अकृतं भवेत् ॥

योगाधमनविक्रीतं योगदानप्रतिग्रहम् ।

यत्र चाप्य् उपधिं पश्येत् तत् सर्वं विनिवर्तयेत् ॥

बलाद् दत्तं बलाद् भुक्तं बलाद् यच् चापि लेखितम् ।

सर्वान् बलकृतान् अर्थान् अकृतान् मनुर् अब्रवीत् ॥

याज्ञवल्क्यः ।

बलोपधिविनिर्वृत्तान् व्यवहारान् निवर्तयेत् ।

स्त्रीनक्तमन्तरागारं बहिः शङ्कुकृतं तथा ॥

नारदः ।

स्वतन्त्रो ऽपि हि यत् कार्यं कुर्यान् न प्रकृतिं गतः ।

तद् अप्य् अकृतम् एवाहुर् अस्वतन्त्रत्वहेतुतः ॥

कामक्रोधाभियुक्तार्थभयव्यसनपीडिताः ।

रागद्वेषपरीताश् च ज्ञेयास् त्व् अप्रकृतिं गताः ॥

कात्यायनः ।

न क्षेत्रगृहदासानां दानाधमनविक्रिया ।

स्त्रियादिभिः कृताः सिद्धिः प्राप्नुयुर् नानुवर्णिताः ॥

गोभूहिरण्यरत्नानाम् आत्मीयानां स्त्रिया विना ।

विक्रयाधिप्रदानं तु कृतं सिद्ध्येन् नृभिः सदा ॥

स्त्रीकृतान्य् अप्रमाणानि कार्याण्य् आहुर् अनापदि ।

विशेषतो गृहक्षेत्रदानाधमनविक्रियाः ॥

एतान्य् एव प्रमाणानि भर्त्रा यद्य् अनुमन्यते ।

पुत्रः पत्युर् अभावे वा भ्राता वा पतिपुत्रयोः ॥

इति श्रीमद्वरदराजीये धर्मशास्त्रे व्यवहारनिर्णये

द्यूतसमाह्वयादिषट्पदकाण्डं समाप्तम्