अथ दायविभागः
अत्र नारदः ।
विभागो ऽर्थस्य पित्र्यस्य पुत्रैर् यत्र प्रकल्प्यते ।
दायभाग इति प्रोक्तं तद् विवादपं बुधैः ॥
विष्णुः- “पिता चेत् पुत्रान् विभजते, तस्य स्वेच्छातः स्वयम् आर्जिते ऽर्थे” इति । अत्र “पुत्रान् विभजेत्” इत्य् अधिकारे नारदः ।
मातुर् निवृत्ते रजसि प्रत्तासु भगिनीषु च ।
निवृत्ते वापि रमणे पितर्य् उपरतस्पृहे ॥
व्याधितः कुपितश् चैव विषयासक्तमानसः ।
अयथाशास्त्रकारी च न विभागे पिता प्रभुः ॥
बृहस्पतिः ।
पित्रोर् अभावे भ्रातॄणां विभागः सम्प्रदर्शितः ।
मातुर् निवृत्ते रजसि जीवतोर् अपि शस्यते ॥
अत्र शङ्खलिखितौ- “जीवति पितरि रिक्थविभागो वृद्धे विपरीतचेतसि दीर्घरोगिणि वा ज्येष्ठेनैव” । गौतमः- “ऊर्ध्वं पितुः पुत्रा रिक्थं भजेरन् । निवृत्ते रजसि मातुर् जीवति चेच्छति” । हारीतः- “जीवन्न् एव वा प्रविभज्य वनम् आश्रयेद् वृद्धाश्रमं वा गच्छेत् । स्वल्पेन वा संविभज्य भूयिष्ठम् आदाय वसेद् यद्य् अप्य् उपदस्येत् पुनस् तेभ्यो गृह्णीयात् । क्षीणांश् च विभजेत् । अथाप्य् अत्र ग्रहोपदानौपचायिकीं श्रुतिम् उदाहरन्ति । पिताग्रयणः पुत्रा इतरे ग्रहाः । यद् यथाग्रयणः उपदस्येत् स्कन्देत् इतरेभ्यो ग्रहेभ्यो गृह्णीयात् । यद् इतरे ग्रहाः स्कन्देयुः आग्रयणात् गृह्णीयात् । स्कन्देत् उपवादस्येत् । इतरेभ्यः ग्रहेभ्यः” इति व्याख्यातम् । नारदः ।
पितैव वा स्वयं पुत्रान् विभजेद् वयसि स्थितः ।
एवमादिभिर् वचनैः पितृकर्तृको विभागः कदाचित् पुत्रकर्तृकश् च प्रतीयते । तथा विभागकालो ऽप्य् अनेकविधः प्रतीयते । पितुर् विभागेच्छायां सत्याम् एकः कालः । तथा जीवत्य् एव पितरि द्रव्यनिस्पृहे च । मातरि निवृत्तरजस्कायां पितुर् अनिच्छायाम् अपि पुत्रेच्छयैव विभागः । तथा सरजस्कायाम् अपि मातर्य् अनिच्छत्य् अपि पितरि प्रत्तासु भगिनीषु पितर्य् अधर्मवर्तिनि दीर्घरोगग्रस्ते वा, पुत्राणाम् इच्छया भवति विभागः । तथा ऊर्ध्वं पितुर् अपरः कालः धर्मवृद्ध्यर्थं विभागः कर्तव्य इत्य् आह प्रजापतिः ।
एवं सह ससेयुर् वा पृथग् वा धर्मकाम्यया ।
पृथग् विवर्धते धर्मः तस्माद् धर्म्या पृथक्क्रिया ॥
तथाह बृहस्पतिः ।
एकपाकेन वसता पितृदेवद्विजार्चनम् ।
एकं भवेद् विभक्तानां तद् एव स्यात् गृहे गृहे ॥
नारदः ।
भ्रातॄणाम् अविभक्तानाम् एको धर्मः प्रवर्तते ।
विभागे सति धर्मो ऽपि भवेद् एषां पृथक् पृथक् ॥
तथा व्यासः ।
भ्रातॄणां जीवतोः पित्रोः सह वासो विधीयते ।
तदभावे विभक्तानां धर्मस् तेषां विवर्धते ॥
याज्ञवल्क्यः ।
विभागं चेत् पिता कुर्याद् इच्छया विभजेत् सुतान् ।
ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ॥
यदा विभागं पिता चिकीर्षति तदैवेच्छया विभजेत् समं वा विषं वा । इच्छाया निरङ्कुशत्वात् कल्पान्तरम् आह ज्येष्ठं वेति ।
ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच् च यद् वरम् ।
ततो ऽर्धं मध्यमस्य स्यात् तुरीयं तु यवीयसः ॥
इति मनुनोक्तप्रकारेण ज्येष्ठं श्रेष्ठभागेन कनिष्ठं कनिष्ठभागेन मध्यमं मध्यमभागेन विभागः कर्तव्यः । सिद्धान्तम् आह – “सर्वे वा स्युः समांशिनः” इति । तत्र इच्छया विषमविभागस् तु स्वयम् आर्जितवित्तविषयः । पितृक्रमायाते तु धने स्वाम्यस्य पुत्रपौत्राणां समत्वान् नेच्छया विषमविभागो युक्तः । अत्र याज्ञवल्क्यः ।
भूर् या पितामहोपात्ता निबन्धो द्रव्यम् एव वा ।
तत्र स्यात् सदृशं स्वाम्यं पितुः पुत्रस्य चोभयोः ॥
तथा च विष्णुः- “अर्थे पैतामहे पितृपुत्रपौत्रयोः तुल्यं स्वाम्यम्” । कात्यायनः ।
पैतामहं समानं स्यात् पितुः पुत्रस्य चोभयोः ।
स्वयं तूपार्जिते पित्रा न पुत्रः स्वाम्यम् अर्हति ॥
तथा व्यासः ।
क्रमागते गृहक्षेत्रे पितृपुत्राः समांशिनः ।
पैतृकेन विभागार्हाः सुताः पितुर् अनिच्छतः ॥
बृहस्पतिः ।
द्रव्यं पितामहोपात्ते जङ्गमे स्थावरे तथा ।
समं स्वामित्वम् आख्यातं पितुः पुत्रस्य चोभयोः ॥
व्यासः ।
पैतामहं विना पित्रा स्वशक्त्या यद् उपार्जितम् ।
विद्याशौर्यादिनावाप्तं तत्र स्वाम्यं पितुः स्मृतम् ॥
प्रदानं चेच्छया कुर्याद् विभागं च ततो धनात् ।
तदभावे तु ये पुत्राः समांशाः परिकीर्तिताः ॥
बृहस्पतिः ।
स्थावरद्विपदं चैव यद्य् अपि स्वयम् आर्जितम् ।
असम्भूय सुतान् सर्वान् न दानं न च विक्रयः ॥
अस्यापवादम् आह व्यासः ।
एको ऽपि स्थावरे कुर्यात् दानाधमनविक्रयम् ।
आपत्काले कुटुम्बार्थे धर्मार्थे च विशेषतः ॥
मणिमुक्ताप्रवालादेः सर्वस्यैव पिता प्रभुः ।
स्थावरस्य तु सर्वस्य न पिता न पितामहः ॥
एवमादिभिर् वचनैः पैतामहे पुत्रपौत्रयोः स्वाम्यं समम् । पितुः स्वयम् आर्जिते स्वातन्त्र्यम् इति गम्यते । यद् अपीदं मानवं वचनद्वयम् ।
भार्या पुत्रश् च दासश् च त्रय एवाधनाः स्मृताः ।
यत् ते समधिगच्छन्ति यद्यैते तस्य तद् धनम् ॥
तथा ।
ऊर्ध्वं पितुश् च मातुश् च समेत्य भ्रातरः सह ।
भजेतन् पैतृकं रिक्थम् अनीशास् ते हि जीवतोः ॥
यद् अपीदं देवलवचनम्,
पितर्य् उपरते पुत्रा विभजेरन् पितुर् धनम् ।
अस्वाम्यं हि भवेद् एषां निर्दोषे पितरि स्थिते ॥
इति एवम्दीन्य् अस्वातन्त्र्यपराणि, न स्वत्वाभावपराणीति लिङ्गविशेषनिर्देशात् पुंयुक्तम् ऐतिशायन इत्य् अधिकरणे भगवता भाष्यकारेणोक्तम् । तथा च श्रुतिः- “पत्नी हि पारीणह्यस्येशे” इति । तथा च हारीतः- “जीवति पितरि पुत्राणाम् अर्थादानविसर्गाक्षेपेषु न स्वातन्त्र्यम्” इति । किं च पूर्वम् एव स्वत्वम् उत्पन्नम् इत्य् अस्मिन् पक्षे सर्वस्मृतिषु विभजेद् इति युज्यते । अन्यथा विभागात् पूर्वं स्वत्वाभावे पुत्रेभ्यो दद्याद् इति वक्तव्यम् । तथा विभागात् स्वत्वपक्षे एकपुत्रस्य मातापित्रोर् ऊर्ध्वं विभागाभावात् स्वत्वं न स्यात् । तेन कुलप्रवेशाद् एव पितृपैतामहद्रव्ये ऽपि पुत्रस्य स्वाम्यम् अस्त्य् एव । तथा च बृहस्पतिः ।
जाता जनिष्यद् गर्भस्थाः पितृस्था ये च मानवाः ।
सर्वे काङ्क्षन्ति तां वृत्तिम् अनाच्छेद्या ततस् तु सा ॥
जनिष्यमाणानां विशेषणं गर्भस्था इति तिलमाषादिरूपेण । जाता अनुशयिनः तत्पक्षकपुरुषसम्बन्धाः पितृस्था उच्यन्ते । तथा हि – किञ्चित् कालं श्लेष्मरूपेण ततो रेतोरूपेण च पितरि परिणताः स्त्रीसम्बन्धेन तस्यां प्रविष्टाः गर्भस्था इत्य् उच्यन्ते । एवं पितृमातृसम्बन्धप्रभृति तद्धनेषु तेषां तथा स्वामित्वम् अस्तीति । स्वस्य सतो विभागः । न विभागात् स्वत्वम् । तेन स्वयम् आर्जिते पितुर् इच्छया विभागः आर्जकस्य प्राधान्यात् । क्रमागते तु पितुर् इच्छया पुत्रेच्छया च विभागः । स्वयम् आर्जितविभागे नारद आह ।
पित्रैव तु विभक्ता ये समन्यूनाधिकैर् धनैः ।
तेषां स एव धर्मः स्यात् सर्वस्य हि पिता प्रभुः ॥
तथा च बृहस्पतिः ।
समन्यूनाधिका भागाः पित्रा येषां प्रकल्पिताः ।
तथैव ते पालनीया विनेयास् ते स्युर् अन्यथा ॥
याज्ञवल्क्यः ।
न्यूनाधिकविभक्तानां धर्म्यः पितृकृतः स्मृतः ।
एवम् इत्यादिवचनैः यद्य् अपि शास्त्रदृष्टो विषमविभागः तथापि लोकविद्विष्टत्वात् नानुष्ठेयः,
अस्वर्ग्यं लोकविद्विष्टं धर्मम् अप्य् आचरेन् न तु ।
इति निषेधात् । तथा च प्रजापतिः ।
यथा नियोगधर्मो ऽपि नानुबन्ध्या गवादिका ।
तथोद्धारविभागो ऽपि नैव सम्प्रति वर्तते ॥
यथा मृते भर्तरि नियोगधर्मो लोकविद्विष्टत्वान् नानुष्ठीयते, यथा वा गवालम्भः, तद्वद् उद्धारधर्मो ऽपि लोकविद्विष्टत्वात् कलियुगे नानुष्ठेयः । जीवद्विभागे विशेषम् आह नारदः ।
द्वाव् अंशौ प्रतिपद्येत विभजन्न् आत्मनः पिता ।
तथा च बृहस्पतिः।
जीवद्विभागे तु पिता गृह्णीतांशद्वयं स्वकम् ।
तथा च शङ्खलिखितौ- “यद्य् एकपुत्रः स्यात् द्वौ भागाव् आत्मनः” । कुर्यात् । द्विपदश् चतुष्पदेषु रूपम् अधिकं वृषभो ज्येष्ठायेति । तत्र पितुर् भागद्वयग्रहणं क्रमाद् आगतद्रव्यविषयम् । तत्र पत्नी निर्भागेति केचित् । याज्ञवल्क्यः ।
यदि कुर्यात् समान् अंशान् पत्न्यः कार्याः समांसिकाः ।
न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वशुरेण वा ॥
यदा स्वेच्छया पिता सर्वान् एव सुतान् समभागिनः करोति, तदा सजातीयपत्न्यश् च पुत्रसअमांशभाजः कर्तव्याः । यासां पत्नीनां भर्त्रा श्वशुरेण वा स्त्रीधनं दत्तम्, दत्ते च स्त्रीधने तदपेक्षया भागपरिपूरणं कर्तव्यम्, अधिवेदनविषयं तथोक्तत्वात् ।
अधिविन्नः स्त्रियै दद्याद् आधिवेदनिकं समम् ।
न दत्तं स्त्रीधनं यस्यै दत्ते त्व् अर्धं प्रकल्पयेत् ॥ इति ।
अत्र अर्धशब्द एकदेशपरः । तेन पूर्वदत्तापेक्षया भागपरिपूरणं कर्तव्यम् इत्य् अर्थः । एवं जीवद्विभागे समांशभागित्वं मातॄणाम् उक्त्वा पितरि मृते ऽपि समांशभाजो भवन्तीत्य् आह याज्ञवल्क्यः ।
पितुर् ऊर्ध्वं विभजतां माताप्य् अंशं समं हरेत् । इति ।
तथा च नारदः ।
समांशभागिनी माता पुत्राणां स्यान् मृते पतौ ।
अत्र बृहस्पतिः ।
तदभावे तु जननी तनयांशसमांशिनी ।
व्यासः ।
असुतास् तु पितुः पत्न्यः समानांशाः प्रकीर्तिताः ।
पितामह्यश् च सर्वास् तु मातृतुल्याः प्रकीर्तिताः ॥
पितामह्या अपि मातृवद् भागकल्पनं युक्तम् इति । विष्णुः- “मातरः पुत्रभागानुसारिभागहारिण्यः अनूढाश् च दुहितः” इति । तथा च बृहस्पतिः ।
समांशा मातरस् तेषां तुरीयांशा च कन्यका ।
कात्यायनः ।
कन्यकानां त्व् अदत्तानां चतुर्थो भाग इष्यते ।
भ्रातॄणां च त्रयो भागः समं त्व् अल्पधने स्मृतम् ॥
अत्र मनुः ।
स्वेभ्यो ऽंशेभ्यस् तु कन्याभ्यः प्रदद्युर् भ्रातरः पृथक् ।
स्वात् स्वाद् अंशाच् चतुर्भागं पतिताः स्युर् अदित्सवः ॥ इति ।
शङ्खलिखितौ- “विभज्यमानि दद्याद् ये कन्यालङ्कारं वैवाहिकं स्त्रीधनं च कन्या लभेत” । कन्यालङ्कारं कन्यायोग्यभूषणम् । तथा पैठीनसिः- “कन्या वैवाहिकं स्त्रीधनं च लभेत” । अत्र बोधायनः- “मातुर् अलङ्कारं दुहितरः साप्रदायिकं लभेरन् अन्यद् वा” । अत्र व्यासः ।
असंस्कृतास् तु ये तत्र पैतृकाद् एव तद्धनात् ।
संस्कार्या भ्रातृभिर् ज्येष्ठैः कन्यकाश् च यथाविधि ॥
नारदः ।
अविद्यमाने पित्र्ये ऽर्थे स्वांशाद् उद्धृत्य वा पुनः ।
अवश्यकार्यः संस्कारो भ्रातॄणां पूर्वसंस्कृतैः ॥
याज्ञवल्क्यः ।
असंस्कृतास् तु संस्कार्याः भ्रातृभिः पूर्वसंस्कृतैः ।
भगिन्यश् च निजाद् अंशाद् दत्वांशं तु तुरीयकम् ॥
सर्वस्मृतिषु दुहितॄणां पाणिग्रहणसंस्कारस्य कण्ठोक्तत्वात् पुत्राणाम् अपि पूर्वसंस्कृतैर् ज्येष्ठैः विवाहपर्यन्तः संस्कारः कर्तव्य इति वृद्धाः । तत्र संस्कारपर्याप्तं धनं दुहितॄणां देयं नान्यद् इत्य् एके । अन्ये तु बहुषु धनेषु पुत्रभागाच् चतुर्थभागदानम्, अल्पे धने समांशदानम् इति मन्यते ।
अथानीहस्य किञ्चिद् दत्वा विभागम् आह मनुः ।
भ्रातॄणां यस् तु नेहेत धनं शक्तः स्वकर्मणा ।
स निर्भाज्यः स्वकाद् अंशात् किञ्चिद् दत्वोपजीवनम् ॥
याज्ञवल्क्यः ।
शक्तस्यानीहमानस्य किञ्चिद् दत्वा पृथक्क्रिया ।
आपस्तम्बः- “सर्वे हि धर्मयुक्ता भागिनो यस् त्व् अधर्मेण द्रव्याणि प्रतिपादयति, ज्येष्ठो ऽपि तम् अभागं कुर्वीत” । गौतमः- “सवर्णापुत्रो ऽप्य् अन्यायवृत्तो न लभेतैकेषाम्” । एवम्भूतानाम् अन्ततो गत्वा ताम्बूलादिकम् अपि दत्वा विभागः कर्तव्यः ।
दायानर्हान् आह मनुः ।
सर्व एव विकर्मस्था नार्हन्ति भ्रातरो धनम् ।
शङ्खलिखितौ- “अपपात्रीकृतस्य रिक्थपिण्डोदकानि व्यावर्तन्ते” । बृहस्पतिः ।
सवर्णजो ऽप्य् अगुणवान् नार्हः स्यात् पैतृकं धने ।
तत्पिण्डदाः श्रोत्रिया ये तेषां तद् अभिधीयते ॥
उत्तमर्णाधमर्णेभ्यः पितरं त्रायते सुतः ।
अतस् तु विपरीतेन तेन नास्ति प्रयोजनम् ॥
तया गवा किं क्रियते या न दोग्ध्री न गर्भिणी ।
को ऽर्थः पुत्रेण जातेन यो न विद्वान् न धार्मिकः ॥
शास्त्रशौर्यार्थरहितः तपोज्ञानविवर्जितः ।
आचारहीनः पुत्रस् तु मूत्रोच्चारसमः स्मृतः ॥
एवम्भूतानां दुष्टानां न किञ्चिद् देयम् । अथ भर्तव्यान् आह मनुः ।
अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा ।
उन्मत्तजडमूकाश् च ये च केचिन् निरिन्द्रियाः ॥
सर्वेषाम् अपि तु न्याय्यं दातुं शक्त्या मनीषिणा ।
ग्रासाच्छादनम् अभ्यङ्गं पतितो ह्य् अददद् भवेत् ॥
यद्य् अर्थिता तु दारैः स्यात् क्लीबादीनां कथञ्चन ।
तेषाम् उत्पन्नतन्तूनाम् अपत्यं दायम् अर्हति ॥
याज्ञवल्क्यः ।
क्लीबो ऽथ पतितस् तज्जः पङ्गुर् उन्मत्तको जडः ।
अन्धो ऽचिकित्स्यरोगी च भर्तव्यास् तु निरंशकाः ॥
औरसक्षेत्रजास् तेषां निर्दोषा भागहारिणः ।
सुताश् चैषां प्रभर्तव्या यावद् वै भर्तृसात्कृताः ॥
अपुत्रा योषितश् चैषां भर्तव्याः साधुवृत्तयः ।
निर्वास्याः व्यभिचारिण्यः प्रतिकूलास् तथैव च ॥
पतितो ब्रह्महादिः, तज्जः पतितोत्पन्नः, उन्मत्तः वातिकपैत्तिकश्लैष्मिकसान्निपातिकग्रहावेश-लक्षणैर् उन्मादैर् अभिभूतः, जडो विकलकरणो, हिताहितावधारणाक्षमः । एतेषां विभागात् प्राग् एव दोषप्राप्तौ अनंशत्वम् । न पुनर् विभक्तस्यापि । एतेषां क्लीबादीनाम् औरसां क्षेत्रजा वा पुत्रा अंशग्रहणविरोधिदोषरहिता भागहारिणः । क्लीबस्य क्षेत्रजः सम्भवति । अन्येषाम् औरसा अपि सम्भवति । औरसक्षेत्रजयोर् ग्रहणाद् इतरपुत्राणां व्युदासः । एषां क्लीबादीनां सुता दुहितरः प्रभर्तव्याः यावद् विवाहसंस्कारसंस्कृता भवन्ति तावद् भरणीयाः । एवं क्लीबादीनां पुत्रा योषितः साधुवृत्तयो भर्तव्याः । व्यभिचारिण्यस् तु निर्वास्याः । देवलः ।
मृते न पितरि क्लीबकुष्ठ्युन्मत्तजडान्धकाः ।
पतितः पतितापत्यं लिङ्गी दायांशभागिनः ॥
तेषां पतितवर्गेभ्यो भक्तकं तु प्रदीयते ।
तत्पुत्राः पितृदायांशं लभेरन् दोषवर्जिताः ॥
पतितोत्पन्नस्य पतितत्वान् न दायसम्बन्धः । विष्णुः- “अनंशास् त्व् आश्रमान्तरगताः क्लीबोन्मत्तपतिताश् च । भरणं क्लीबोन्मत्तानाम्” । गौतमः- “जडक्लीबौ भर्तव्यौ अपत्यं जडस्य भागार्हम्” इति । विभक्ताविभक्तयोर् अविभक्तस्य धनग्रहणम् आह मनुः ।
ऊर्ध्वं विभागाज् जातस् तु पित्र्यम् एव हरेद् धनम् ।
संसृष्टास् तेन वा ये स्युः विभजेरन् सहैव ते ॥
बृहस्पतिः ।
पित्रा सह विभक्ता ये सापत्ना वा सहोदराः ।
जघन्यजास् तु ये तेषां पितृदायहरास् तु ते ॥
अनीशः पूर्वजः पित्र्ये भ्रातुर् भागे विभक्तजः ।
स्मृत्यन्तरे ।
पुत्रैः सह विभक्तेन पित्रा यत् स्वयम् आर्जितम् ।
विभक्तजस्य तत् सर्वम् अनीशाः पूर्वजाः स्मृताः ॥
यथा धने तथा चर्णे दानाधानक्रयेषु च ।
परस्परम् अनीशास् ते मुक्त्वा शौचोदकरिया ॥
विभक्तजस्यापि पितृधनाभावे स्वांशेभ्यो भागकल्पनेति याज्ञवल्क्यः ।
विभक्तेषु सुतो जातः सवर्णायां विभागभाक् ।
दृश्याद् वा तद्विभागः स्याद् आयव्ययविशोधनात् ॥
विष्णुः- “पित्रा विभक्ता विभागानन्तरम् उत्पन्नस्य विभागं दद्युः” । पौत्रस्य पुत्रेण सह समविभागम् आह याज्ञवल्क्यः ।
भूर् या पितामहोपात्ता निबन्धो द्रव्यम् एव वा ।
तत्र स्यात् सदृशं स्वाम्यं पितुः पुत्रस्य चोभयोः ॥
बृहस्पतिः ।
ऋणं लेख्यं गृहं क्षेत्रं यस्य पैतामहं भवेत् ।
विरकालप्रोषितो ऽपि तत्र भागहरस् तु सः ॥
पैतामहे धने पितुः पुत्रस्य च समाने सति यदि पुनर् एकस्य बहवः पुत्राः ते ऽपि विषयान् पुत्रान् उत्पाद्य स्थिता मृता वा तत्र इत्थं दायविभाग इत्य् आह । याज्ञवल्क्यः ।
अनेकपितृकाणां तु पितृतो दायकल्पना ।
पितृद्वारेणांशभाजः अमी पौत्रा इत्य् अर्थः । बृहस्पतिः ।
समवेतैस् तु यत् प्राप्तं सर्वे तत्र समांशिनः ।
तत्पुत्रा विषमसमाः पितृभागहराः स्मृताः ॥
समवेतैः अविभक्तैः यल् लब्धं कृष्यादिना तद् एकेन लब्धम् अपि सर्वेषां समानम् । तत्पुत्राः तेषां पुत्राः । विषमसमाः पितुर् एव भागहराः । अत्र विशेषम् आह कात्यायनः ।
अविभक्ते ऽनुजे प्रेते तत्सुतं रिक्थभागिनम् ।
कुर्वीत जीवनं येन लब्धं नैव पितामहात् ॥
लभेतांशं तु पित्र्यं स पितृव्यात् तस्य वा सुतान् ।
स एवांशस् तु सर्वेषां भ्रातॄणां न्यायतो भवेत् ।
लभेत तत्सुतो वापि निवृत्तिः परतो भवेत् ॥
अविभक्तपुत्रे मृते तत्सुतं पितामहाद् अलब्धजीवनं रिक्थभाजिनं कुर्यात् । तस्य रिक्तभागः स्वपित्र्यांशः पितामहे मृते पितृव्यात् स्वांशस्य विभागेन लाभः । पितृव्यो ऽपि मृतश् चेत् तस्य सुतात् स्वांशस्य विभागाल् लाभः । पितृव्यसुताद् विभागे ऽपि स एवांशो भवेत् यो भ्रातॄणां न्यायतो भवेत् । एतद् उक्तं भवति । विषमसमा भ्रातृपुत्राः स्वपितृभागहरा इति । पूर्वेषां मरणे तत्सुतो ऽपि चतुर्थ एव भागं लभेत । पञ्चमप्रभृति सापिण्ड्याभावान् निवृत्तिः । आ चतुर्थान् निवृत्तिं देवलो ऽप्य् आह ।
अविभक्तविभक्तानां कुल्यानां वसतां सह ।
भूयो दायविभागः स्याद् आ चतुर्थाद् इति स्थितिः ॥
नासपिण्ड्याः सकुल्याः स्युः पिण्डभेदस् त्व् अतः परम् ।
समम् इच्छन्ति पिण्डानां दायार्थस्य विभाजने ॥
विधिर् एष सवर्णानां बन्धूनां समुदाहृतः ।
एक एव सवर्णस्य दायो ऽत्र न विभज्यते ॥
विभक्तानाम् अपि संसृष्टानां सकुल्यानां पुनर् आ चतुर्थात् दायविभागः स्यात् । सकुल्याः असपिण्डाः । अतः परं दायभागो नास्ति । असपिण्डाः इति हेतोः । सापिण्ड्ये सत्य् एव दायविभागः । तेन पञ्चमस्य सापिण्ड्याभावात् दायविभागो नास्ति । उक्तो विधिः सवर्णासु जातानाम् एव । न हि भिन्नजातीयस्त्रीषु जातानां भ्रातॄणां सवर्णासु जातानाम् एकजातीयत्वान् न तत्र दायवैषम्यम् इति । कात्यायनो ऽपि चतुर्थात् परतो दायनिवृत्तिम् आह ।
रिक्थं प्रतिप्रदानं तु दत्वा शेषं विभाजयेत् ।
आ चतुर्थात् तु तद् ग्राह्यं क्रमेणैव तु तत्सुतैः ॥
प्रतिप्रदानशब्देन ऋणम् उच्यते । पूर्वोक्तचतुर्थपुरुषपर्यन्तं सापिण्ड्यम् । पितृपितामहप्रपितामहेषु तु मृतेषु द्रष्टव्यम् । तेषु जीवत्सु पूर्वेषाम् अपि त्रयाणां सापिण्ड्यात् सप्तपुरुषावधि सापिण्ड्यं भवति । एतदभिप्रायेण बृहस्पतिः ।
तृतीयः पञ्चमो वापि सप्तमो वापि यो भवेत् ।
तदन्वयस्यागतस्य दातव्या गोत्रजैर् मही ॥
तत्र ऋणक्रियाविशिष्टे दायादानां विभाग इत्य् आह नारदः ।
यच् छिष्टं पितृदायेभ्यो दत्वर्णं पैतृकं च यत् ।
भ्रातृभिस् तद् विभक्तव्यम् ऋणी न स्याद् यथा पिता ॥
पितृदायशब्देन पित्रादीनाम् और्ध्वदेहिकक्रियोच्यते । तथा च कात्यायनः ।
भ्रात्रा पितृव्यमातृभ्यां कुटुम्बार्थम् ऋणं कृतम् ।
विभागकाले देयं तत् रिक्थिभिः सर्वम् एव तु ॥
तेन ऋणक्रियाविशिष्टे दायप्राप्तिः । प्रजापतिः ।
दृश्यमानं विभज्येत गृहं क्षेत्रं चतुष्पदम् ।
गूढद्रव्याभिशङ्कायां प्रत्ययस् तत्र कीर्तितः ॥
बृहस्पतिः ।
गृहोपस्करवाह्यादि भोग्याभरणकर्मिणः ।
दृश्यमाना विभज्यन्ते गूढे कोशो विधीयते ॥
याज्ञवल्क्यः ।
अन्योन्यापहृतं द्रव्यं विभक्ते यत्र दृश्यते ।
तत् पुनस् तैः समैर् अंशैः विभजेरन्न् इति स्थितिः ॥
मनुः ।
ऋणे धने च सर्वस्मिन् प्रविभक्ते ततस् ततः ।
पश्चात् दृश्येत यत् किञ्चित् तत् सर्वं समतां नयेत् ॥ इति ।
गृहादिविभागे ज्येष्ठादीनां निमय उक्तः । तत्र स्मृत्यन्तराद् विशेषः गृहविभागे दक्षिणतो ज्येष्ठस्य, तदनन्तरम् अनन्तरस्य तथेतरेषाम् इति । कात्यायनः ।
क्षेत्रारामगृहादीनां विभागे समुपस्थिते ।
ज्येष्ठस्य दक्षिणो भागः प्रतीची वा तथा भवेत् ॥ इति ।
तत्र विशेषम् आह देवलः ।
निषाद एकपुत्रस् तु विप्रस्य द्व्यंशभाग् भवेत् ।
द्वौ सपिण्डः सकुल्यो वा स्वधादाता तु संहरेत् ॥
निषादशब्देन शूद्रायां जात उच्यते । अर्धग्रहणं तृतीयांशग्रहणं च अत्यन्तशुश्रूषोः शूद्रस्य द्रष्टव्यम् । अत्र विशेषम् आह मनुः ।
यद्य् अपि स्यात् तु सत्पुत्रो ऽप्य् असत्पुत्रो ऽपि वा भवेत् ।
नाधिकं दशमाद् दद्यात् शूद्रापुत्राय धर्मतः ॥
ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थभाक् ।
यद् एवास्य पिता दद्यात् तद् एवास्य धनं भवेत् ॥
बृहस्पतिः ।
अनपत्यस्य शुश्रूषोः गुणवाञ् छूद्रयोनिजः ।
लभेत जीवनं शेषं सपिण्डास् तु समाप्नुयुः ॥
शूद्रापुत्रो न रिक्थभाग् इत्यादिरिक्थनिषेधवचनम् अशुश्रूषुविषयं द्रष्टव्यम् । प्रतिलोमानाम् अपि संव्यवहार्याणां सुतानां शुश्रूषूणां जनकेन जिवनं देयम् इत्य् आह गौतमः- “शूद्रापुत्रवत् प्रतिलोमास् तु” इति । अत्र विशेषम् आह बृहस्पतिः ।
न प्रतिग्रहभूर् देया क्षत्रियादिसुताय वै ।
यद्य् अप्य् अस्य पिता दद्यात् मृते विप्रासुतो हरेत् ॥
पितरि मृते ब्राह्मणीपुत्र एव हरेत् । तथा ब्रह्मदाये विशेषम् आह वृद्धमनुः ।
ब्रह्मदायगतां भूमिं हरेयुर् ब्राह्मणीसुताः ।
गृहद्विजातयः सर्वे तथैव क्षेत्रकर्दमम् ॥
द्विजग्रहणात् शूद्रापुत्रस्य निवृत्तिः । बृहस्पतिः ।
शूद्र्यां द्विजातिभिर् जातो न भूमेर् भागम् अर्हति ।
स्वजातावाप्नुयात् (?) सर्वम् इति धर्मो व्यवस्थितः ॥
अत्र विशेषम् आह मनुः ।
दास्यां वा दासदास्यां वा यच् छूद्रस्य सुतो भवेत् ।
सो ऽनुज्ञातो हरेद् अंशम् इति धर्मो व्यवस्थितः ॥
तथा च याज्ञवल्क्यः ।
जातो ऽपि दास्यां शूद्रेण कामतो ऽंशहरो भवेत् ।
मृते पितरि कुर्युस् तं भ्रातरस् त्व् अर्धभागिनम् ॥
सर्वत्र दासीपुत्रस्य धनग्रहणं समानोत्कृष्टपुत्रपौत्रदौहित्राद्यभावे द्रष्टव्यम् । “जातो ऽपि दास्यां शूद्रेण” इत्य् आरभ्य “अभ्रातृको हरेत् सर्वं दुहितॄणां सुताद् ऋते” इत्य् उक्तत्वात् ।
द्वादशविधपुत्राणां दायं वक्तुम् तेषां लक्षणम् आह मनुः ।
स्वक्षेत्रे संस्कृतायां तु स्वयम् उत्पादयेत् तु यम् ।
तम् औरसं विजानीयात् पुत्रं प्रथमकल्पितम् ॥
यस् तल्पजः प्रमीतस्य क्लीबस्य व्याधितस्य वा ।
स्वधर्मेण नियुक्तायां स पुत्रं क्षेत्रजः स्मृतः ॥
अत्र विशेषम् आह याज्ञवल्क्यः ।
अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः ।
उभयोर् अप्य् असौ रक्थी पिण्डदाता च धर्मतः ॥
अस्य पुत्रद्वयात्मकतम्, बीजिनो बीजजः पुत्रः क्षेत्रिणस् तु क्षेत्रजः, इत्य् एतावता विभागेन पुत्रद्वयात्मकत्वं युक्तम् इति । द्व्यामुष्यायणो ऽयम् बीजजस्य स्वांशसम्भवात् क्षेत्रजात् उत्कृष्टत्वं द्रष्टव्यम् । अत्र बृहस्पतिः ।
अग्निं प्रजापतिं चेष्ट्वा क्रियते गौतमोक्तवत् ।
अन्ये त्व् आहुर् अपुत्रस्य चिन्तिता पुत्रिका भवेत् ॥
स्मृत्यन्तरे : “अभिसन्धिमात्रात् पुत्रिकेत्य् एके” इति । अत्र पुत्रिकाविधिः । वसिष्ठः ।
अभ्रातृकां प्रदास्यामि तुभ्यं कन्याम् अलङ्कृताम् ।
अस्यां यो जायते पुत्रः स मे पुत्रो भविष्यति ॥
मनुः ।
अपुत्रो ऽनेन विधिना सुतां कुर्वीत पुत्रिकाम् ।
यद् अपत्यं भवेद् अस्यां तन् मम स्यात् स्वधाकरम् ॥
अनेन तु विधानेन पुरा चक्रे स्वपुत्रिकाम् ।
वृद्ध्यर्थं तु स्ववंशस्य स्वयं दक्षः प्रजापतिः ॥
अत्रापि पुत्रद्वयम् । पुत्रिकैव पुत्र इत्य् एके । पुत्रिकायाः पुत्र इत्य् अपरे । मनुः ।
माता पिता वा दद्यातां यम् अद्भिः पुत्रम् आपदि ।
सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्रिमः सुतः ॥
उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्रिमः ।
स हरेतैव तद् रिक्थं सम्प्राप्तो ऽप्य् अन्यगोत्रतः ॥
गोत्ररिक्थे जनयितुः न भजेद् दत्रिमः सुतः ॥
नारदः ।
गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा ।
अखण्डादर्शीये साक्षिप्रकरणे । कात्यायनः ।
दत्तस्य जनकापत्ये मृते तस्मिन्न् अपि स्वयम् ।
कृत्वा कर्म सपिण्डान्तम् अखिलं रिक्थम् आप्नुयात् ॥
क्रीणीयाद् यस् त्व् अपत्यार्थं मातापित्रोर् यम् अन्तिकात् ।
स क्रीतकः सुतस् तस्य सदृशो ऽसदृशो ऽपि वा ॥
मातापितृविहीनो यः त्यक्तो वा स्याद् अकारणात् ।
आत्मानं स्पर्शयेद् यस्मै स्वयं दत्तस् तु स स्मृतः ॥
स्पर्शयेत् दद्याद् इत्य् अर्थः ।
सदृशं तु प्रकुर्याद् यं गुणदोषविचक्षणम् ।
पुत्रं पुत्रगुणैर् युक्तं स विज्ञेयस् तु कृत्रिमः ॥
उत्पद्यते गृहे यस्य न च ज्ञायेत् कस्यचित् ।
स्वगृहे गूढ उत्पन्नः तस्य स्याद् यस्य तल्पजः ॥
मातापितृभ्याम् उत्सृष्टं तयोर् अन्यतरेण वा ।
यं पुत्रं परिगृह्णीयाद् अपविद्धः स उच्यते ॥
पितृवेश्मनि कन्या तु यं पुत्रं जनयेद् रहः ।
तं कानीनं विदुर् नाम्ना वोढुः कन्यासमुद्भवम् ॥
स वोढुर् एव पुत्रो न मातामहस्य । याज्ञवल्क्यः ।
कानीनः कन्यकाजातो मातामहसुतो मतः ।
नारदः ।
अज्ञातपितृको यस् तु कानीनो गूढमातृजः ।
मातामहाय दद्यात् स पिण्डं रिक्थं हरेत् ततः ॥
सति वोढरि कानीनो वोढुः पुत्रः । तस्मिन्न् असत्य् अनुज्ञातो वा मातामहस्य पुत्रः । वसिष्ठः ।
अदत्ता दुहिता यस्य पुत्रं विन्देत तुल्यतः ।
पौत्री मातामहस् तेन दद्यात् पिण्डं हरेद् धनम् ॥
मनुः ।
या गर्भिणी संस्क्रियते ज्ञात्ज्ञातापि वा सती ।
वोढुः सगर्भो भवति सहोढ इति चोच्यते ॥
या पत्या वा परित्यक्ता विधवा चेच्छयात्मनः ।
उत्पादयेत् पुनर् भूत्वा स पौनर्भव उच्यते ॥
यं ब्राह्मणस् तु शूद्रायां कामाद् उत्पादयेत् सुतम् ।
स पारयन्न् एव शवः तस्मात् पारशवः स्मृतः ॥
पारयन् जीवन्न् एव शवः ।
क्षेत्रजादीन् सुतान् एतान् एकादश यथोदितान् ।
पुत्रप्रतिनिधीन् आहुः क्रियालोपान् मनीषिणः ॥
पुत्रान् द्वादश् यान् आह नृणा स्वायम्भुवो मनुः ।
तेषां षड् बन्धुदायादा षड् अदायादबान्धवाः ॥
बोधायनेन पूर्वषट्कस्य रिक्थभाक्त्वम् उत्तरषट्कस्य गोत्रभाक्त्वम् उक्तम् । तत्र सर्वस्मृतिषु पुत्राणां नानाक्रमेण पाठे पा **कमम् अनादृत्यार्थक्रमेण षट्कविभागः कर्तव्यः । अत एवोक्तम् ।
श्रेयसः श्रेयसो ऽभावे पापीयान् रिक्थम् अर्हति ।
उत्पत्तितो वरिष्ठश् च श्रेयान् औरसपुत्रकः ॥
औरसं पुत्रिकापुत्रं क्षेत्रजं दत्तकृत्रिमौ ।
गूढजं चापविद्धं च रिक्थभाजः प्रचक्षते ॥
कानीनं च सहोढं च क्रीतं पौनर्भवं तथा ।
स्वयं दत्तं निषादं च गोत्रभाजः प्रचक्षते ॥
क्वचिद् औरसक्षेत्रजयोः श्रेयस्त्वम् उक्तम् ।
औरसक्षेत्रजौ पुत्रौ पितृरिक्थस्य भागिनौ ।
दशापरे तु क्रमशो गोत्ररिक्थांशभागिनः ॥
रिक्तांशशब्देन जीवनमात्रम् अभिप्रेतम् । क्षेत्रजस्यांसनियमम् आह ।
षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात् पैतृकाद् धनात् ।
औरसो ऽथ भजेद् दायं पित्र्यं पञ्चमम् एव (वा) ॥
बृहस्पतिः ।
एक एवौरसः पित्र्ये धने स्वामी प्रकीर्तितः ।
तत्तुल्या पुत्रिका प्रोक्ता भर्तव्यास् त्व् अपरे स्मृताः ॥
अत्र मनुः ।
कानीनश् च सहोढश् च गूढायां यत्र जायते ।
तेषां वोढा पिता ज्ञेयः ते च भागहराः पितुः ॥
एतैर् वचनैः षट् बन्धुदायादाः । अन्ये ग्रासाच्छादनभाजः । अत्र विशेषम् आह वसिष्ठः- “तस्मिंश् चेत् प्रतिगृहीत औरस उत्पद्येत स चतुर्थभाक्” इति । दत्तपुत्रस्वीकारे सति औरस उत्पद्येत औरसाच् चतुर्थांशभाक् बहुधनविषयम् इदम् । कात्यायनः ।
उत्पन्ने त्व् औरसे पुत्रे तृतीयांशहराह् सुताः ।
सवर्णा असवर्णास् तु ग्रासाच्छादनभागिनः ॥
तथा च बृहस्पतिः ।
सर्वे ह्य् अनौसस्यैते पुत्रा दायहराः स्मृताः ।
औरसे पुनर् उत्पन्ने तेषु ज्यैष्ठ्यं न तिष्ठति ॥
तेषां सवर्णा ये पुत्राः ते तृतीयांशभागिनः ।
हीनास् तम् उपजीवेयुः ग्रासाच्छादनसम्भृताः ॥
किं बहुना ।
एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः ।
शेषाणाम् आनृशंस्यार्थं प्रदद्यात् तु प्रजीवनम् ॥
इदम् औरसप्रशंसापरम् इति केचित् । यत् तु नारदवचनम्,
कानीनश् च सहोढश् च ऊढायां यश् च जायते ।
तेषां वोढा पिता ज्ञेयः ते च भागहराः पितुः ॥
इति, तत् तेषां षड्बन्धुदायादा इत्य् उक्तबन्धुदायादषट्के कानीनादीनां अन्तर्भावार्थम् । बृहस्पतिः ।
पुत्रास् त्रयोदश् प्रोक्ता मनुना ये ऽनुपूर्वशः ।
सन्तानकारणं तेषाम् औरसः पुत्रिका तथा ॥
आज्यं विना यथा तैलं सद्भिः प्रतिनिधिः स्मृतः ।
तथैकादश पुत्रास् तु पुत्रिकौरसयोर् विना ॥
अथ पुत्रातिदेशः । तत्र मनुः ।
भ्रातॄणाम् एकजातानाम् एकश् चेत् पुत्रवान् भवेत् ।
सर्वे ते तेन पुत्रेण पुत्रिणो मनुर् अब्रवीत् ॥
हारीतः ।
बहूनाम् एकजातानां यद्य् एकः पुत्रवान् भवेत् ।
सर्वे ते तेन पुत्रेण पुत्रवन्तो न संशयः ॥
बह्वीनाम् एकपत्नीनां यद्य् एका पुत्रिणी भवेत् ।
सर्वास् तास् तेन पुत्रेण लभन्ते पुत्रिणां गतिम् ॥
मनुना प्रतिनिधिर् उक्तः, हारीतेन प्रतिनिध्यभाव उक्तः, “लभन्ते पुत्रिणां गतिम्” इति वचनात् । बृहस्पतिः ।
यद्य् एकजाता बहवो भ्रातरस् तु सहोदराः ।
एकस्यापि सुते जाते सर्वे ते पुत्रिणः स्मृताः ॥
बह्वीनाम् एकपत्नीनाम् एष एव विधिः स्म्र्तः ।
एका चत् पुत्रिणी त्व् आसां सर्वासां पिण्डदस् तु सः ॥
पुत्रत्वादिदेशवाक्यानाम् एभिर् एवोर्ध्वदैहिकम् इत्य् अस्मिन्न् अर्थे तात्पर्यम् इति वृद्धाः । तत्र संस्कर्तुर् दक्षिणाप्रेक्षायाम् आह दक्षः ।
अथ चेद् दक्षिणार्थी स्यात् संस्कर्ता मृतवित् ततः ।
गोसहस्त्रं शतं वापि विन्दते यदि पञ्च वा ॥
प्रजापतिः ।
अर्थवन्तं गुरुं वान्यं सहस्रं वा शतं गवाम् ।
यो दहेत् प्रतिगृह्णीयात् इत्य् उवाच प्रजापतिः ॥
पैठीनसिः ।
प्रमीतस्य हि गुर्वादेः ये कुर्वन्ति द्विजातयः ।
संस्कारोदकदानानि ब्रह्मलोकं प्रयान्ति ते ॥
भरद्वाजः ।
अथ चेत् दक्षिणार्थी स्यात् संस्कर्ता मृतवित् ततः ।
अंशं हरेत दशमं पञ्चमं सर्वम् एव वा ॥
कात्यायनः ।
अन्यो यदि दहेत् कश्चित् पुत्राच् छिष्याच् च सोदरात् ।
संस्कारोदककृद् विप्रः प्रमीतस्य तु तद्धनात् ॥
दशमांशं हरेद् अर्थी पञ्चमं सर्वम् एव वा ।
बहुरक्ष्यस्य दशमम् अल्परक्ष्यस्य पञ्चमम् ॥
अपुत्रपितृभार्यस्य सर्वम् एवेति शौनकः ।
अन्यो यदि दहेत् कश्चित् पुत्राच् छिष्यच् च तद्धनात् ।
गोसहस्रं शतं वार्थाद् गृह्णीयात् तस्य दक्षिणाम् ॥
वृद्धवसिष्ठः ।
सपिण्दम् असपिण्डं वा दहेद् यो धनिनं गुरुम् । इति ।
ऋणं दत्वैव विभाज्यम् इति स एवाह ।
भ्रातृमातृपितृव्यैर् यत् कुटुम्बार्थम् ऋणं कृतम् ।
अथाविभाज्यम्
अत्र मनुः ।
व्य्द्याधनं तु यद्य् अस्य तत् तस्यैव धनं भवेत् ।
मैत्रम् औद्वाहिकं चैव माधुपर्किकम् एव च ॥
अत्र याज्ञवल्क्यः ।
क्रमाद् अभ्यागतं द्रव्यं कृतम् अभ्युद्धरेत् तु यः ।
दायादेभ्यो न तद् तद्याद् विद्यया लब्धम् एव च ॥
कात्यायनः ।
शौर्यप्राप्तं विद्यया च स्त्रीधनं चैव यत् स्मृतम् ।
एतत् सर्वं विभागे तु नैव वैभाज्यम् ऋक्थिना ॥
नाविद्यानां तु वैद्येन देयम् विधाधनात् क्वचित् ।
समविद्याधिकानां तु देयं वैद्येन तद्धनम् ॥
नारदः ।
वैद्यो ऽवैद्याय नाकामो दद्याद् अंशं स्वतो धनात् ।
पितृद्रव्यं समाश्रित्य न चेत् तेन तदा हृतम् ॥
शौर्यभार्याधने चोभे यच् च विद्याधनं भवेत् ।
त्रीण्य् एतान्य् अविभाज्यानि प्रसादो यश् च पैतृकः ॥
मात्रा च स्वधनं दत्तं यस्मै स्यात् प्रीतिपूर्वकम् ।
तस्याप्य् एष विधिर् दृष्टो मातापीष्टे यथा पिता ॥
बृहस्पतिः ।
वस्त्रालङ्कारशय्यादि पितुर् यद् वाहनादिकम् ।
गन्धमाल्यैः समभ्यर्च्य श्राद्धभोक्त्रे निवेदयेत् ॥
स्त्रीषु च संयुक्तासु ।
क्षेत्रं पूर्तं योगम् इष्टम् इत्य् आहुस् तत्त्वदर्शिनः ।
अविभाज्ये च ते प्रोक्ते शयनासनम् एव च ॥
पूर्वनष्टां तु यो भूमिं एकश् चेद् उद्धरेत् पुमान् ।
यथाभागं लभन्ते ऽन्ये दत्वांशं तु तुरीयकम् ॥
याज्ञवल्क्यः ।
पितृद्रव्याविरोधेन यद् अन्यत् स्वयम् आर्जितम् ।
मैत्रम् औद्वाहिकं चैव दायादानां तु तद् भवेत् ॥
तथा ।
पितृभ्यां यस्य यद् दत्तं तत् तस्यैव धनं भवेत् ।
बृहस्पतिः ।
प्तामहपितृभ्यां च दत्तं मात्रा च यद् भवेत् ।
तस्य तन् नापहर्तव्यं शौर्यभार्याधनं तथा ॥
मनु-विष्णू ।
अनुपघ्नन् पितृद्रव्यं श्रमेण यद् उपार्जयेत् ।
स्वयम् ईहितलब्धं तत् नाकामो दातुम् अर्हति ॥
कात्यायनः ।
परभक्तप्रदानेन प्राप्तविद्यो यदान्यतः ।
तया प्राप्तं तु विधिना विद्याप्राप्तं तद् उच्यते ॥
उपन्यस्ते तु यल् लब्धं विद्यया पणपूर्वकम् ।
विद्याधनं तु तद् विद्यात् विभागे न नियोज्यते ॥
शिष्याद् आर्त्विज्यतः प्रश्नात् सन्दिघप्रश्ननिर्णयात् ।
विज्ञानशासनाद् वादात् लब्धं प्रत्यायनाच् च तत् ॥
विद्याधनं तु तत् प्राहुः विभागे न विभज्यते ।
शिल्पेष्व् अपि हि धर्मो ऽयं मूल्याद् यच् चाधिकं भवेत् ॥
विद्यापणकृतं चैव याज्यतः शिष्यतस् तथा ।
एतद् विध्याधनं प्राहुः सामान्यं यद् अतो ऽन्यथा ॥
वैवाहिकं तु तद् विद्यात् भार्यया यत् समागतम् ।
धनम् एवंविधं सर्वं विज्ञेयं धर्मसाधकम् ॥
मनु-विष्णू ।
वस्त्रं पात्रम् अलङ्कारं कृतान्नम् उदकं स्त्रियः ।
योगक्षेमप्रचारं च न विभाज्यं प्रचक्षते ॥
कुटुम्बं बिभृयाद् भ्रातुः यो विद्याम् अधिगच्छतः ।
भागं विद्याधनात् तस्मात् स लभेताश्रुतो ऽपि सन् ॥
मनुः ।
यत् किञ्चित् पतरि प्रेते धनं ज्येष्ठो ऽधिगच्छति ।
भागो यवीयसां तत्र यदि विद्यान्पालितः ॥
अविद्यानां तु सर्वेषाम् ईहातश् चेद् धनं भवेत् ।
समस् तत्र विभागः स्याद् अपित्र्य इति धारणा ॥
स्वयम् उत्पादिते आर्जकस्यांशद्वयम् आह वसिष्ठः : “येन चैषां स्वयम् उत्पादितं स्यात् स द्व्यंशम् एव हरेत्” । व्यासः ।
साधारणं समाश्रित्य यत् किञ्चिद् वाहनायुधम् ।
शौर्यादिनाप्नोति धनं भ्रातरस् तत्र भागिनः ॥
तस्य भागद्वयं देयं शेषास् तु समभागिनः ।
अथ विभाज्यम्
कात्यायनः ।
पैतामहं च पित्र्यं च यत् किञ्चित् स्वयम् आर्जितम् ।
दायादानां विभागे तु सर्वम् एतद् विभज्यते ॥
रिक्थं प्रतिप्रदानं तु दत्वा शेषं विभाजयेत् ।
आ चतुर्थात् तु तद् ग्राह्यं क्रमेणैव तु तत्सुतैः ॥
बृहस्पतिः ।
गृहोपस्कारवाह्यादिदोह्याभरणकर्मिणः ।
दृश्यमाना विभज्यन्ते गूढे कोशो विधीयते ॥
बृहस्पतिः ।
कुले विनीतविद्यानां भ्रातॄणां पितृतो ऽथ वा ।
तया प्राप्तं तु तद् वित्तं विभाज्यं तद् बृहस्पतिः ॥
तस्मात् पुत्रपौत्रादिभिर् विभागः कर्तव्यः । अत्र स एव विशेषम् आह ।
समुत्पन्नाद् धनाद् अर्धं तदर्थे स्थापयेत् पृथक् ।
मासषाण्मासिके श्राद्धे वार्षिके च प्रयत्नतः ॥
अत्र विष्णुः- “यः स चार्थहरः स पिण्डदो यो यस्य आददीत स तस्मै श्राद्धं कुर्यात् । प्राप्तौ त्रिपुरुषं दद्यात्” इति ।
जङ्गमं स्थावरं हेमरूप्यधान्यरसाम्बरम् ।
आदाय दापयेच् छ्राद्धे मासषाण्मासिकाब्दिके ॥
शय्यासनवस्त्रछत्रोपनदङ्गुलीयकान्य् अपि श्राद्धे देयात्नि । अन्यस्य् अधनस्य विभागः कर्तव्यः ।
पुत्राभावे दायग्रहणम्
अत्र विष्णुः- “अनपत्यस्य प्रमीतस्य धनं पत्न्यभिगामि । तदभावे दुहितृगामि । तदभावे पितृगामि । तदभावे मातृगामि । तदभावे भ्रातृगामि । तदभावे भ्रातृपुत्रगामि । तदभावे सकुल्यगामि । तदभावे बन्धुगामि । तदभावे सहाध्यायिगामि । तदभावे ब्राह्मणधनवर्जं राजगामि । ब्राह्मणधनं ब्राह्मणा एव गृह्णीयुः” । बृहस्पतिः ।
भार्यासुतविहीनस्य पुरुषस्य मृतस्य तु ।
माता रिक्थहरा ज्ञेया भ्राता वा तदनुज्ञया ॥
अत्र वृद्धमनुः ।
अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता ।
पत्न्यैव दद्यात् तत्पिण्डं कृत्स्नम् अंशं लभेत च ॥
प्रजापतिः ।
आम्नाये स्मृतितन्त्रे च लोकाचारे च सूरिभिः ।
शरीरार्धं स्मृता जाया पुण्यापुण्यफले समा ॥
यस्य नोपरता भार्या देहार्धं तस्य जीवति ।
जीवत्य् अर्धशरीरे ऽर्थं कथम् अन्यः समाप्नुयात् ॥
बृहस्पतिः ।
भर्तुर् धनहरी पत्नी तां विना दुहिता स्मृता ।
तदभावे भ्रातृसुता सकुल्या बान्धवास् तथा ॥
कात्यायनः ।
अपुत्रस्याथ कुलजा पत्नी दुहितरो ऽपि वा ।
तदभावे पिता माता भ्राता पुत्राश् च कीर्तिताः ॥
पितामहः ।
कुल्येषु विद्यमानेषु पितृभ्रातृसनाभिषु ।
असुतस्य प्रमीतस्य पत्नी तद्भागहारिणी ॥
बृहस्पतिः ।
पूर्वं मृता हरेद् अग्निम् अन्वारूढा हरेद् अघम् ।
तत्सपिण्डा बान्धवा वा ये तस्याः परिपन्थिनः ॥
हिंस्युर् धनानि तान् राजा चोरदण्डेन दण्डयेत् ।
अत्र याज्ञवल्क्यः ।
पत्नी दुहितरश् चैव पितरौ भ्रातरस् तथा ।
तत्सुता गोत्रजा बन्धुशिष्यसब्रह्मचारिणः ॥
एषाम् अभावे पूर्वस्य धनभाग् उत्तरोत्तरः ।
स्वर्यातस्य ह्य् अपुत्रस्य सर्ववर्णेष्व् अयं विधिः ॥
अपुत्रस्य स्वर्यातस्य विभक्तस्य असंसृष्टिनो धनं परिणीता संयता यज्ञसंयुक्ता स्त्री सकलम् एव गृह्णाति । बह्व्यश् चेत् सजातीया विजातीयाश्च यथांशं विभज्य धनं गृह्णन्ति । तत्र विशेषम् आह व्यासः ।
द्विसारस्रात् परो दायः स्त्रियै देयो मृतस्य तु ।
यच् च भर्त्रा धनं दत्तं सा यथाकामम् आप्नुयात् ॥
द्विसाहस्रात् परम् अपि भर्त्रा दत्तं यथाकामम् आप्नुयात् । अदत्ते तु द्विसाहस्रम् एव धनं पत्न्या ग्राह्यम्, नाधिकम् । पत्न्यभावे दुहितानूढैव गृह्णाति । तथा च कत्यायनः ।
पत्नी भर्तुर् धनहरी या स्याद् अव्यभिचारिणी ।
तदभावे तु दुहिता यद्य् अनूढा भवेत् तदा ॥
तथा च देवलः ।
कन्याभ्यश् च पितृद्रव्यं देयं वैवाहिकं वसु ।
अपुत्रकस्य स्वं कन्या धर्मजा पुत्रवद् धरेत् ॥
अनूढाया एव सापिण्ड्यम्, “अनन्तरः सपिण्डो यः तस्य (तस्य) धनं हरेत्” इति मनुवचनात् । “पुत्राभावे यः प्रत्यासन्नः सपिण्डः” इत्य् आपस्तम्बवचनाच् च अनन्तरस्य सपिण्डस्यैव धनग्रहणं प्रतीयते । अनूढाया अभावे ऽपि असपिण्डयाप्य् ऊढया ग्राह्यम् । तस्या अप्य् एकशरीरान्वयलक्षणस्य सापिण्ड्यस्य सद्भावे प्रत्यासत्तेश् च । अत्र मनु-नारदौ ।
यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा ।
तस्याम् आत्मनि तिष्ठन्त्यां कथम् अन्यो धनं हरेत् ॥
नारदः ।
पुत्राभावे तु दुहिता तुल्यसन्तानदर्शनात् ।
पुत्रश् च दुहिता चोभौ पितुः सन्तानकारकौ ॥
बृहस्पतिः ।
भर्तुर् धनहरी पत्नी तां विना दुहिता स्मृता ।
अङ्गाद् अङ्गात् सम्भवति पुत्रवद् दुहिता नृणाम् ॥
तस्याः पितृधनं त्व् अन्यः कथं गृह्णीत मानवः ॥
दुहित्रभावे दौहित्रा गृह्णीयुः । तथा च विष्णुः ।
अपुत्रपौत्रसन्तानो दौहित्रा धनम् आप्नुयुः ।
पूर्वेषां तु स्वधाकार्ये पौत्रा दौहित्रका मताः ॥
पौत्राभावे पौत्रकार्यं दौहित्रैर् एव कर्तव्यम् । तथा च मनुः ।
पौत्रदौहित्रयोः कार्ये न विशेषो ऽस्ति धर्मतः ।
तयोर् हि मातापितरौ सम्भूतौ तस्य देहतः ॥
तथा ।
पौत्रदौहित्रयोर् लोके विशेषो नोपपद्यते ।
दौहित्रे ऽपि ह्य् अमुत्रैनं सन्तारयति पौत्रवत् ॥
स्मृतिः ।
यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा ।
पौत्रदौहित्रयोर् लोके विशेषो नास्ति धर्मतः ॥
मनुः ।
अकृता वा कृता वापि यं विन्दत् सदृशं सुतम् ।
पौत्री मातामहस् तेन दद्यात् पिण्डं हरेद् धनम् ॥
तथा ।
दौहित्र एव च हरेद् अपुत्रस्याखिलं धनम् ।
तदभावे मातापितरौ धनभाजौ । तथा च मनुः ।
अनपत्यस्य पुत्रस्य माता दायम् अवाप्नुयात् ।
तदभावे पिता, पित्रोर् अभावे भ्रातरो धनभाजः । भ्रातृष्व् अपि सोदराः प्रथमं गृह्णीयुः । देवलः ।
ततो दायम् अपुत्रस्य विभजेरन् सहोदराः ।
“माता दायम् अवाप्नुयात्,” “विभजेरन् सहोदराः” इति वचनद्वयं न क्रमपरम् । किं तु धनग्रहणे अधिकारमात्रपरम् इत्य् अविरोधः सोदराणाम् अभावे तत्पुत्रा धनभाजः । तयोर् अभावे भिन्नोदराः तत्पुत्राश् च । भ्रातृपुत्राणाम् अभावे तत्पुत्रा धनभाजः । ततः परं सापिण्ड्याभावात् समानोदकाः । तदभावे गोत्रजा धनभाजः । तथा च बोधायनः- “प्रपितामहः पितामहः पिता स्वयं सोदर्याः भ्रातरः सर्वर्णायाः पुत्रः पौत्रः प्रपौत्रः तान् अविभक्तदायादान् सपिण्डान् आचक्षते । विभक्तदायान् अपि सकुल्यान् आचक्षते । तद्वंशजेषु तद्गामीत्य् अर्थो भवति । सपिण्डाभावे सकुल्यः । पूर्वोक्तं सापिण्ड्यं पितृपितामहप्रपितामहेषु त्रिषु जीवत्सु पूर्वेषां त्रयाणाम् अपि सापिण्ड्यम् इति । सप्तपुरुषावधि सापिण्ड्यम्” । तथा च बृहस्पतिः ।
सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ।
समानोदकभावस् तु निवर्तेताचतुर्दशात् ॥
तेनैव कल्पान्तरम् अप्य् उक्तम् ।
जन्मनाम् अस्मृतेर् एके तत्परं गोत्रम् उच्यते । इति ।
समानोदकानाम् अभावे सगोत्रा धनभाजः । सगोत्राणाम् अभावे बान्धवाः ।
बान्धवास् त्रिविधा इति बौधायनः ।
आत्मपितृष्वसुः पुत्रा आत्ममातृष्वसुः सुताः ।
आत्ममातुलपुत्राश् च विज्ञेया आत्मबान्धवाः ॥
पितुः पितृष्वसुः पुत्राः पितुर् मातृष्वसुः सुताः ।
पितुर् मातुलपुत्राश् च विज्ञेयाः पितृबान्धवाः ॥
मातुः पितृष्वसुः पुत्रा मातुर् भ्रातृष्वसुः सुताः ।
मातुर् मातुलपुत्राश् च विज्ञेया मातृबान्धवाः ॥
सर्वबन्धूनाम् अभावे शिष्यः, शिष्याभावे सब्रह्मचारी, तदभावे यः कश्चिच् छ्रोत्रियो गृह्णीयात् । क्षत्रियादिधनं सब्रह्मचारिपर्यन्तानाम् अभावे राजा गृह्णीयात् । सर्ववर्णेष्व् अयम् एव दायक्रमः ।
उद्योतन-असहायास् त्व् एवं मन्यन्ते ।
न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः ।
पिता हरेद् अपुत्रस्य रिक्थं भ्रातर एव वा ॥
इति मनुवचने “भ्रातर एव वा” इत्य् एवकारात् पुत्राभावे भ्रातॄणाम् एव प्रथमं धनग्रहणं प्रतीयते । तथा हि – अपुत्रस्य स्वर्यातस्य भ्रातृगामि द्रव्यम् । तदभावे मातापितरौ हरेयाताम् । तदभावे पत्नी वा ज्येष्ठेति शङ्खलिखितयोः वचनाच् च प्रथमं भ्रातृगामित्वं प्रतीयते, तथा –
ततो दायम् अपुत्रस्य विभजेरन् सहोदराः ।
कुल्या दुहितरो वापि क्रियमाणः पितैव वा ॥
सवर्णा भ्राततो माता भार्या चेति यथाक्रमम् ।
तेषाम् अभावे गृह्णीयुः कुल्यानां सहवासिनः ॥
इति देवलवचनाच् च । प्रथमम् अनपत्यस्य सोदरभ्राता धनं गृह्णीयाद् इति प्रतीयेत । सोदरभ्रातुर् अभावे मातापितरौ गृह्णीयाताम् इत्य् एके । संसृष्टीत्य् अन्ये । उक्तानाम् अभावे भारेत्य् अपरे । “पत्नी दुहितरश् च” इत्येवमादीनि यानि पत्न्याः प्रथमं धनाहरणपराणि वाक्यानि तानि सर्वाणि नियुक्तपत्नीविषयाणि । यानि पुनर् दुहितॄणां धनप्रतिपादकानि वाक्यानि तानि पित्रिकाविषणीति । अन्ये तु स्त्रीणां न दायसम्बन्धः, “तस्मात् स्त्रियो निरिन्द्रिया अदायादीः” इति श्रुतेः,
धूमावसानिकं ग्राह्यं सभायां स्नानतः पुनः ।
पुराणे,
वसनाशनवासांसि निगणय्य धवे मृते ।
इति व्यासवचनात्, तथा –
अन्यत्र ब्राह्मणात् किं तु राजा धर्मपरायणः ।
तत् स्त्रीणां जीवनं दद्याद् एष दायविधिः स्मृतः ॥
इति नारदवचनात्,
विधवा यौवनस्था चेन् नारी भवति कर्कशा ।
आयुषः क्षपणार्थं तु दातव्यं जीवनं तदा ॥
इति बृहस्पतिवचनात्, तथा –
अपुत्रा योषितश् चैषां भर्तव्याः साधुवृत्तयः ।
इति मनुवचनात्, तथा –
आढकं भर्तृहीनाया दातव्यं विधवाशनम् ।
इति प्रजापतिवचनात्, तथा –
अन्नार्थं तण्डुलप्रथम् अपराह्णे तु सेन्धनम् ।
इति वचनाच् चापुत्राया विधवायाः ज्ञातिभरणमात्रम् एव, न दायप्राप्तिः । दाय प्राप्तिस् तु ज्ञातीनाम् एवेति मन्यन्ते ।
एतत् सर्वम् अयुक्तम् ।
पिता हरेद् अपुत्रस्य रिक्थं भ्रातर एव वा ।
इति मनुवचने ऽपि क्रमप्रतिपादकशब्दाभावान् न प्रथमे पत्नीव्युदासः । एवकारात् पित्रपेक्षया भ्रातुः प्राथम्यम् । तथा –
अनपत्यस्य पुत्रस्य माता दायम् अवाप्नुयात् ।
इति मनुवचने ऽपि क्रमपरशब्दाभावात् न पत्न्या व्युदासः । शङ्खलिखित-देवलवचनयोः यद्य् अपि सोदरभ्रातॄणां प्रथमं धनग्रहणं प्रतीयते, तथापि
“अनपत्यस्य प्रमीतस्य धनं पत्न्यद्भिगामी” इति वैष्णववचनात्,
“भार्यासुतविहीनस्य” इति बृहस्पतिवचनात्,
“अपुत्रा शयनं भर्तुः” इति वृद्धमनुवचनात्,
“आम्नाये स्मृतितन्त्रे च” इति प्राजापत्यवचनात्,
“भर्तुर् धनहरी पत्नी” इति बृहस्पतिवचनात्,
“अपुत्रस्याथ कुलजा” इति कात्यायनवचनात्,
“कुल्येषु विद्यमानेषु” इति पितामहवचनात्,
“असुतस्य प्रमीतस्य” इति बृहस्पतिवचनात्,
“पत्नी दुह्तरश् च” इति याज्ञवल्क्यवचनाच् च,
साध्वाचारायाः पत्न्याः सकलधनग्रहणं प्रथमं बहुभिः वचनैः प्रतीयत इति, तेषाम् आनुगुण्येन तयोर् वचनयोः व्याख्यानं कर्तव्यम् । “स्वर्यातस्य ह्य् अपुत्रस्य भ्रातृगामि द्रव्यम्” इति संसृष्टभ्रातृगामीत्य् अर्थः ।
यद् वा पाठक्रमवचनेनानेकक्रमवचनाविरोधाय पत्न्या दुहितुर् मातापित्रोश् च पूर्वानुप्रवेशः कर्तव्यः । पत्नीदायपराणि सकलवचनानि नियुक्तपत्नीविषयाणीति यद् उक्तं तद् अयुक्तम्, सर्वत्र नियोगप्रस्तावाभावात् । तथा सर्वाणि दुहितृदायपराणि वाक्यानि पुत्रिकाविषयाणीत्य् अप्य् अयुक्तम्, पुत्रीकरणस्यापि सर्वत्राप्रस्तुतत्वात् । यत् पुनर् अर्थवादः “तस्मात् स्त्रियो निरिन्द्रिया अदायादीःऽ इति तत् पात्नीवतग्रहे पत्न्याः स्त्रिया अंशो नास्तीत्य् एवम्परम्, “इन्द्रियं वै सोमपीथः” इति इन्द्रियशब्दस्य सोमे दर्शनात् । किं च नात्रेन्द्रियशब्दो वीर्यपरः –
पुमान् पुंसो ऽध्के शुक्ले स्त्री भवत्य् अधिके स्त्रियाः ।
इति स्त्रीणाम् अपि वीर्यवत्वदर्शनात् । तस्मात् स्त्रियो निरिन्दिर्या इति वक्तुं न शक्यत इति इन्द्रियशब्दः सोमपर एव युक्तः । “धूमावसानिकं ग्राह्यम्” इत्य् अल्पधने भर्तरि मृते विभागे जीवनापर्याप्तौ जीवनपर्याप्तं धूमावसानिकं ग्राह्यम् इत्य् उच्यते । अविभक्तभर्तृविषयं वा धूमावसानिकवचनम् ।
“यज्ञार्थं द्रव्यम् उत्पन्नम्” इत्य् अत्र यज्ञशब्दो धर्ममात्रोपलक्षणपरः, यज्ञस्यैव विवक्षितत्वे दानहोमार्थत्वविरोधात् । ततश् च स्त्रीणाम् अपि पूर्तादिसम्भवान् न विरोधः । “अन्यत्र ब्राह्मणात् किञ्चित्” इत्य् एतद् अवरुद्धस्त्रीविषयम् इति प्रकरणात् गम्यते । “विधवा यौनवस्था चेत्” इति शङ्कितव्यभिचारायाः सकलधनग्रहणनिषेधपरम् । “अपुत्रा योषितश् चैषां भर्तव्याः” इति क्लीबादिभार्याविषयम् इति प्रकरणाद् अवगम्यते, पतिद्वारेण तासाम् अर्थसम्बन्धाभावात् भरणमात्रम् उच्यत इत्य् अविरोधः । “आढकं भर्तृहीनाया दातव्यम्,” तथा “अन्नार्थं तण्डुलप्रस्थम्” इतीत्येवमादीन वचनान्य् अपि शङ्कितव्यभिचारस्त्रीविषयाणि । यद् अपीदं नारदीयवचनम्,
भरणं चास्य कुर्वीरन् स्त्रीणाम् आ जीवितक्षयात् ।
इति एतत्,
संसृष्टिनां तु यो भागः तेषाम् एव स इष्यते ।
इति प्रस्तुतसंसृष्टिस्त्रीणाम् अनपत्यानां भरणमात्रपरम् । यद् अपीदं कात्यायनवचनम्,
विभक्ते संस्थिते द्रव्यं पुत्राभावे पिता हरेत् ।
भ्राता वा जननी वाथ माता वा तत्पितुः क्रमात् ॥
इति, तद् अपि भार्यादुहित्रोर् अभावे द्रष्टव्यम् । भर्तरि जीवति तेन सह सकलधनस्य स्वामिनि तस्मिन् मृते कथं निर्धना स्यात् । तस्मात् साधुवृत्तयुक्तायाः पत्न्याः सकलधनग्रहणं युक्तम् एव ।
केचित् तु अल्पधनविषयाणि पत्नीदायवचनानि, महति धने ज्ञातिदाय एवेति मन्यन्ते ।
पुनर्भूजातौ प्रत्य् आह भारद्वाजः ।
द्वौ तु यौ विवदेयातां द्वाभ्यां जातौ स्त्रिया धने ।
तयोर् यद्य् अस्य पित्र्यं स्यात् स तद् गृह्णीत नेतरः ॥
स्वोत्पादकधनम् एव गृह्णीयाताम् इत्य् अर्थः ।
स्त्रीधनविभागः
अथ स्त्रीधनविभागः । तत्र मनुः ।
जनन्या संस्थितायां तु समं सर्वे सहोदराः ।
भजेरन् मातृकं रिक्थं भगिन्यश् च सनाभयः ॥ इति ।
पितृधनवन् नोद्धारः विषमविभागो वा कर्तव्यः । किं तु सोदराणां पुरुषाणां स्त्रीणां च मातृधने समो विभागो इतीदम् अपरं कर्तव्यम् इत्य् आह ¦
यस् तासां स्युर् दुहितरः तासाम् अपि यथार्हतः ।
मातामह्या धनात् किञ्चित् प्रदेयं प्रीतिपूर्वकम् ॥
अत्र विशेषम् आह बृहस्पतिः ।
स्त्रीधनं तदपत्यानां दुहिता च तदंशिनी ।
अप्रत्ता चेत् समूढा तु लभते मानमात्रकम् ॥
शङ्खलिखितौ : “समं सर्वे सहोदरा मातृकं रिक्थम् अर्हन्ति कुमार्यश् च” । गौतमः- “स्त्रीधनं दुहितॄणाम् अप्रत्तानाम् अप्रतिष्ठितानां च” । वसिष्ठः- “मातुः पारिणाह्यं स्त्रियो विभजेरन्” । विभजेरन्न् ऊर्ध्वम् इत्य् अनुवृत्तौ, याज्ञवल्क्यः ।
मातुर् दिहितरः शेषम् ऋणात् ताभ्यां मतेन यः ।
दुहितॄणाम् अभावे तदन्वयाः पुत्राः गृह्णीयुर् इत्य् अर्थः । नारदः ।
मातुर् दुहितरो ऽभावे दुहितॄणां तदन्वयः ।
पुत्राणां समृद्धत्वे दुहितॄणाम् अभावे तदन्वयः, मातृदौहित्रा गृह्णीयुर् इत्य् अर्थः । कात्यायनः ।
दुहितॄणाम् अभावे तु रिक्थं पुत्रेषु तद् भवेत् ।
मनुः ।
मातुस् तु यौतकं यत् स्यात् कुमारीभाग एव सः ।
यौतकं मातृकुललब्धं स्त्रीधनं तत् कुमार्या एव । भर्तृकुललब्धस्त्रीधने पुत्राः कन्याश् च सापिण्ड्यात् तुल्याः । कन्याभावे प्रत्ताप्य् प्रतिष्ठिताः पुत्रैः तुल्याः अप्रतिष्ठिताः अप्रजाः, “प्रजा वै प्रतिष्ठा” इति ब्राह्मणवादात् निर्धना वा । क्रमविभागस्त्रीधनविशेषम् आह मनुः ।
स्त्रियास् तु यद् भवेद् वित्तं पित्रा दत्तं कथञ्चन ।
ब्राह्मणी तद् धरेत् कन्या तद् अपत्यस्य वा भवेत् ॥
क्रमविवाहे ब्राह्मणीव्यतिरिक्तासु अप्रजासु मृतासु तासां धनं ब्राह्मणीप्रसूता कन्यका हरेत् । तत्पुत्रो वा न तु भर्त्रादयः । पित्रा दत्तम् इति स्त्रीधनमात्रोपलक्षणम् । अत्र पारस्करः ।
अप्रत्तायास् तु दुहितुः स्त्रीधनं परिकीर्तितम् ।
पुत्रस् तु नैव लभते प्रत्तायां तु समांशभाक् ॥
स्त्रीधनलक्षणम् आह मनुः ।
अध्यग्न्यध्याहवनिकं दत्तं च प्रीतिकर्मणि ।
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥
अत्र विशेषम् आह नारदः ।
अध्यग्न्यध्याहवनिकं भर्तृदायं तथैव च ।
भ्रातृदत्तं पितृभ्यां च षड्विधं स्त्रीधनं स्मृतम् ॥
अत्र याज्ञवल्क्यः ।
पितृमातृपतिभ्रातृदत्तम् अध्यग्न्युपागतम् ।
आधिवेदनिकाद्यं च स्त्रीधनं परिकीर्तितम् ॥
अत्र विष्णुः- “पितृमातृसुतभ्रातृदत्तम् अध्यग्न्युपागतम् आधिवेदनिकं बन्धुदत्तं शुल्कम् अग्न्याधेयिकम् इति स्त्रीधनम्” । देवलः ।
वृत्तिर् आभरणं शुल्कं लाभं च स्त्रीधनं भवेत् ।
कात्यायनः ।
प्राप्तं शिल्पैस् तु यद् वित्तं प्रीत्या चैव यद् अन्वितम् ।
भर्तुः स्वाम्यं धने तत्र शेषं तु स्त्रीधनं स्मृतम् ॥
भर्तुर् अन्यतो बन्धुभ्यः प्रीत्या यल् लब्धम् इत्य् अर्थः । स्वशिल्पैः प्राप्ते, भर्तृव्यतिरिक्तबन्धूनां सकाशात् प्रीत्या प्राप्ते च शेषे चाध्यग्न्यादिलक्षणे धने स्त्रीणां स्वाम्यं स्त्रीधनम् इत्य् अर्थः । अध्यग्न्यादिस्वरूपं स एवाह ।
विवाहकाले यः स्त्रीभ्यो दीयते ह्य् अग्निसन्निधौ ।
तद् अध्यग्निकृतं सद्भिः स्त्रीधनं परिकीर्तितम् ॥
यत् पुनर् लभते नारी नीयमाना पितुर् गृहात् ।
अध्याहवनिकं नाम स्त्रीधनं समुदाहृतम् ॥
प्रीत्या प्रदत्तं यत् किञ्चित् श्वश्र्वा वा श्वशुरेण वा ।
पादवन्दनिकं यत् तत् लावण्यार्जितम् उच्यते ॥
विवाहात् परतो यत् तु लब्धं बन्धुकुलात् स्त्रिया ।
अन्वाधेयं तद् उक्तं तु लब्धं बन्धुकुलात् तथा ॥
गृहोपस्करवाह्यानां दोह्याभरणकर्मिणाम् ।
मूल्यं लब्धं तु यत् किञ्चित् तच् छुल्कं परिकीर्तितम् ॥
अपुत्राया अपि विवाहभेदेन दायादान् आह मनुः ।
अन्वाधेयं च यद् वित्तं पत्या प्रीतेन चैव यत् ।
पत्यौ जीवति वृत्तायाः प्रजायास् तद्धनं भवेत् ॥
ब्राह्मदैवार्षगान्धर्वप्राजापत्येषु यद् धनम् ।
अप्रजायाम् अतीतायां भर्तुर् एव तद् इष्यते ॥
उक्तेषु पञ्चविधेषु विवाहेष्व् अप्रजायाम् अतीतायां भर्तुर् एव स्त्रीधनं भवतीत्य् अर्थः ।
यस्यै तु स्याद् धनं दत्तं विवाहेष्व् आसुरादिषु ।
अतीतायाम् अप्रजायां मातापित्रोस् तद् इष्यते ॥
आसुरपैश्शाचराक्षसेषु त्रिषु विवाहेषु अप्रयायाम् अतीतायां मातापितृभ्यां दत्तं मातापित्रोर् एव भवतीत्य् अर्थः । देवलः ।
सामान्यं पुत्रकन्यानां मृतायां स्त्रीधनं स्त्रियाम् ।
अप्रजायां हरेद् भर्ता माता भ्राता पितापि वा ॥
पूर्वार्धेन मातरि मृतायाम् अष्टविधेषु विवाहेषु स्त्रीधने पुत्रकन्यायां समग्रहणम् उच्यते । उत्तरार्धेनासुरादिषु विवाहेषु तद्धनं प्रदातृभिर् एवादेयम् उच्यते । भर्तृदत्तं भर्ता हरेत् । मात्रादिभिर् दत्तं तैर् एवादेयम् इति । कात्यायनः ।
दुहितॄणाम् अभावे तु रिक्थं पुत्रेषु तद् भवेत् ।
बन्धुदत्तं तु बन्धूनाम् अभावे भर्तृगामि तत् ॥
भगिन्यो बान्धवैः सार्धं विभजेरन् सभर्तृकाः ।
स्त्रीधनस्येति धर्म्यो ऽयं विभागे तु प्रकल्पितः ॥
दुहितॄणाम् अभावे इत्याद्यष्टविधविवाहविषयम् । बन्धुदत्तम् इत्यासुरादिविवाहविषयम् । पुत्राणाम् अभावे बन्धुभिर् मातुलादिभिर् दत्तं तेषाम् एव । बन्धूनाम् अभावे तैर् दत्तं भर्तृगामि ।
पक्षान्तरम् आह “भगिन्यः” इति अर्धेन । बन्धुषु सत्सु बन्धुदत्तं “सभर्तृका भगिन्यो बान्धवैःसह विभजेरन्” इति । अत्र कात्यायनः ।
आसुरादिषु यल् लब्धं पैतृकं स्त्रीधनं स्त्रिया ।
अभावे तदपत्यानां मातापित्रोस् तद् इष्यते ॥
यमः ।
आसुरादिषु यद् द्रव्यं विवाहेषु प्रदीयते ।
अप्रजायाम् अतीतायां पितैव तु धनं हरेत् ॥
गौतमः- “भगिनीशुल्कं सोदर्याणाम् ऊर्ध्वं मातुः । पूर्वं चैके” । याज्ञवल्क्यः ।
बन्धुदत्तं तथा शुल्कम् अन्वाधेयिकम् एव च ।
अप्रजायाम् अतीतायां बान्धवास् तद् अवाप्नुयुः ॥
तत्र शुल्कं द्विविधम् । कन्याविक्रयमूल्यत्वेन कन्यावद्भ्यो दत्तम् एकम् । तन् मातृगामि भ्रातृगामि वा । कन्याभूषणगृहोपकरणमूल्यत्वेन दत्तम् अपरं शूल्कम् । तद् दातृभिर् एवादेयम् । अत्र बोधायनः ।
अप्रजायां मृतायां तु पुत्रिकायां कथञ्चन ।
धनं तत्पुत्रिकाभर्ता हरेतैवाविचारयन् ॥
तथा देवल-बोधायनौ ।
रिक्थं मृतायां कन्यायां गृह्णीयुः सोदराः समम् ।
तदभावे भवेन् मातुः पितुर् मातुश् च तत्क्रमात् ॥
मनुः ।
पत्यौ जीवति यः स्त्रीभिर् अलङ्कारो धृतो भवेत् ।
न तं भजेरन् दायादाः भजमानाः पतन्ति ते ॥
अलङ्मारस्यादत्तत्वेनास्त्रीधनत्वात् भर्तृधनत्वेन मृते भर्तरि पुत्राणां विभागे प्राप्ते, तदपवादो ऽनेन क्रियते । कात्यायनः ।
स्त्रीणां भर्तृकुलाल् लब्धं पितुः कुलत एव वा ।
भूषणं न विभाज्यं स्यात् जीवने च न योजयेत् ॥
आपस्तम्बः- “अलङ्कारो भार्याया ज्ञातिधनं चेत्य् एके” । प्रीतिदत्तस्यालङ्कारस्य स्वत्वे प्राप्ते स्थावरे ऽपवादम् आह नारदः ।
भर्त्रा प्रीतेन यद् दत्तं स्त्रियै तस्मिन् मृते ऽपि तत् ।
सा यथाकामम् अश्नीयात् दद्याद् वा स्थावराद् ऋते ॥
“प्रीतिदत्तं स्थावरम्” दातरि मृते स्त्रियाः न स्वं भवतीत्य् अर्थः । केचित् तु प्रीतिदत्तं स्थावरम् अप् स्वम् एव । अनुमन्तुर् अभावे दानयोग्यं न भवतीत्य् उच्यत इति वदन्ति । अत्र विशेषम् आह याज्ञवल्क्यः ।
दुर्भिक्षे धर्मकार्ये च व्याधौ सम्प्रतिरोधके ।
गृहीतं स्त्रीधनं भर्त्रा नाकामो दातुम् अर्हति ॥
कात्यायनः ।
नैव भर्ता नैव सुतो न पिता भ्रातरो न च ।
आदाने वा विसर्गे वा स्त्रीधने प्रभविष्णवः ॥
यदि ह्य् अन्यतरो ह्य् एषां स्त्रीधनं भक्षयेद् बलत् ।
सवृद्धिकं प्रकाप्यः स्यात् दण्डं चैव समाप्नुयात् ॥
तद् एव यद्य् अनुज्ञाप्य भक्षयेत् प्रीतिपूर्वकम् ।
मूल्यम् एव स दाप्यः स्याद् यदासौ धनवान् भवेत् ॥
व्याधितं व्यसनार्तं च धनिकैर् वोपपीडितम् ।
ज्ञात्वा निसृष्टं यत् प्रीत्या दद्याद् आत्मेच्छया तु सः ॥
देवलः ।
वृत्तिर् आभरणं शूल्कं लाभं च स्त्रीधनं भवेत् ।
भोक्त्री तत् स्वयम् एवेदं पतिर् नार्हत्य् अनापदि ॥
वृथा मोक्षे च भोगे च स्त्रियै दद्यात् सवृद्धिकम् ।
पुत्रार्तिहरणे चापि स्त्रीधनं भोक्तुम् अर्हति ॥
कात्यायनः ।
अपकारक्रियायुक्ता निर्लज्जा चार्थनाशिका ।
व्यभिचाररता या च स्त्रीधनं न च सार्हति ॥
भ्रत्रा प्रतिश्रुतं देयम् ऋणवत् स्त्रीधनं सुतैः ।
तिष्ठेत भर्तृकुले या वा सा वा पितृकुले वसेत् ॥
वृद्धमनुः ।
स्वभर्तृलब्धं रिक्थं यत् विना शुल्कं तदर्हणम् ।
शेषं विभागं कुर्वीत सा भवत्य् अंशिनी खलु ॥
कवषः ।
कन्याविक्रयमूल्यं यद् अर्हणं शुल्कम् एव वा ।
तद्विनाशं प्रकुर्वीत सा भवत्य् अंशिनी खलु ॥
कात्यायनः ।
ऊढया कन्यया वापि भर्तुः पितृगृहे ऽपि वा ।
भ्रातुः सकाशात् पित्रोर् वा लब्धं सौदायिकं स्मृतम् ॥
सौदायिकं धनं प्राप्य त्रीणां स्वातन्त्र्यम् इष्यते ।
यस्मात् तद् आनृशंस्यार्थं तैर् दत्तं तत् प्रजीवनम् ॥
सौदायिके सदा स्त्रीणां स्वातन्त्र्यं प्रैकीर्तितम् ।
विक्रये चैवे दाने च यथेष्टं स्थावरेष्व् अपि ॥
आपदि भर्तृपुत्राद्यनुमत्यभावे ऽपि विक्रयादिषु न दोष इत्य् अभिप्रायः । अत्र याज्ञवल्क्यः ।
अधिविन्नः स्त्रियै दद्याद् आधिवेदनिकं समम् ।
न दत्तं स्त्रीधनं यस्यै दत्ते त्व् अर्धं प्रकल्पयेत् ॥
अत्र अर्धशब्दः परिपूरकांशपरः । कात्यायनः ।
अथ चेत् स द्विभार्यः स्यात् न च तां भजते पुनः ।
प्रीत्या निसृष्टम् अपि चेत् प्रतिदाप्यः स तद्बलात् ॥
ग्रासाच्छादनवासानाम् आच्छेदो यत्र दृश्यते ।
तत्र स्वान्य् आददीत स्त्री विभागे रिक्थिनां तथा ॥
लिखितस्यैव धर्मो ऽयं प्राप्ते पितृकुले वसेत् ।
व्याधिता प्रेतकाले तु गच्छेद् भर्तृकुलं तथा ॥
अत्र विशेषम् आह बृहस्पतिः ।
मातृष्वसा मातुलानी पितृव्यस्त्री पितृष्वसा ।
श्वश्रूः पूर्वपत्नी च मातृतुल्याः प्रकीर्तिताः ॥
यद्य् आसाम् औरसो न स्यात् सुतो दौहित्र एव वा ।
तत्सुतो वा धनं तासां स्वस्रीयाद्याः समाप्नुयुः ॥
चतुर्थपर्यन्तसपिण्डेषु सत्सु इदं वचनं न प्रवर्तते । पञ्चमप्रभृत्यसपिण्डेषु सत्सु इदं वचनं प्रवर्तत इति व्याख्यातृभिर् उक्तम् ।
अन्यैर् एवं व्यवस्था कृत । मातृष्वसृप्रभृतीनां षण्णां प्रति सम्बन्धिषु स्वस्रीयादिषु षट्सु प्राप्तेषु यत्राप्रजस्त्रीधनविषये भर्तुः प्राप्तिः तत्र तदभावे भर्तृद्वारेण सम्बन्धिषु त्रिषु प्रत्यासत्त्यतिशयवशेन प्रथमं भर्तुर् अनुजो ऽर्हति पूर्वजपत्नीधनम् । तदभावे तस्याः भ्रातुः पुत्रो ऽर्हति । तदभावे जामातार्हति । स्वस्रीयाद्या इत्य् अपत्यप्रत्ययेनापत्यमात्रप्रतीतेः स्त्रीणां पुरुषाणां च दायसम्बन्धो युत इति केचित् ।
अन्ये तु स्त्रीपुंससाधारणातिदेशे ऽपि पुंस्य् एव प्रथमं प्रतीत्युदयात्, “तस्मात् स्त्रियो निरिन्द्रियाः” इत्य् अर्थवाददर्शनाच् च पुरुषाणाम् एव दायसम्बन्धो न स्त्रीणाम् इति मन्यन्ते ।
संसृष्टानां दायः
अथ संसृष्टिनां दायः । तत्र मनुः ।
विभक्ताः सह जीवन्तो विभजेरन् पुनर् यदि ।
समस् तत्र विभागः स्यात् ज्यैष्ट्यं तत्र न विद्यते ॥
संसृष्टिनां विभागे ज्येष्ठांशोद्धारो न कर्तव्य इत्य् अर्थः ।
येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः ।
म्रियेतान्यतरो वापि तस्य भागो न लुप्यते ॥
महापातकिनो नांशप्रदाहो इति वचनाद् येषां पुरुषाणां ज्येष्ठः कनिष्ठो वा ब्रह्महत्यदिना अंशप्रदानान् निवृत्तः हीयेत वा तस्य भागो न लुप्यते । न संसृष्टिनो गृह्णीयुः । कथं तर्हि कर्तव्यम् इत्य् अपेक्षायाम् आह स एव ।
सोदर्या विभजेयुस् तं समेत्य सहिताः समम् ।
भ्रातरो ये च संसृष्टा भगिन्यश् च सनाभयः ॥
पतितस्य मृतस्य प्रव्रजितस्य वा भागं सोदर्याः सम्भूय विभजेयुः । भ्रातरो ये च संसृष्टा असोदराः ते असंसृष्टैः समानोदरैः सह विभजेयुः । सोदर्या अस्यार्थसंसर्गाभावे ऽप्य् उदरसंसर्गाद् ग्रहणम् । भिन्नोदरस्योदरसंसर्गाभावेनाप्य् अर्थसंसर्गाद् ग्रहणम् इति । तथा मृतस्य सनाभयो ऽपि भगिन्यः पूर्वोक्तसोदरसंसर्गिभ्यां सह समं विभजेयुर् इति । भ्रातरो ये च संसृष्टा इति भ्रातृग्रहम् अन्येन पित्रा पितृव्येण वा संसर्गे तत्पत्न्यादिप्राप्त्यर्थम् इति आचार्यविश्वरूपैर् उक्तम् । अथ याज्ञवल्क्यः ।
संसृष्टिनस् तु संसृष्टी सोदरस्य तु सोदरः ।
दद्याच् चापहरेच् चांशं जातस्य च मृतस्य च ॥
विभक्तं धनं पुनर् मिश्रीकृतं संसृष्टम् । तद् अस्यास्तीति संसृष्टी । तत्र संसृष्टिषु नियमं बृहस्पतिर् आह ।
विभक्तो यः पुनः पित्रा भ्रात्रा वैकत्र संस्थितः ।
पितृव्येणाथ वा प्रीत्या स तु संसृष्ट उच्यते ॥
तस्य संसृष्टिनो मृतस्यांशं विभागकाले अविज्ञातगर्भायां भार्यायां पश्चाद् उत्पन्नस्य पुत्रस्य संसृष्टी दद्यात् । तथाविधपुत्राभावे मृतांशं संसृष्ट्येवाहरेत् न पत्न्यादि । सोदरस्य संसृष्टिनो मृतस्याशं सोदरः संसृष्टिजातस्य दद्यात् । पुत्राभावे स्वयम् एवापहरेद् इति । संसृष्टिन्य् अपुत्रे स्वर्याते संसृष्टिनो भिन्नोदरस्यासंसृष्टिनः समानोदरस्य च सद्भावे कथं धनस्य हरणम् इत्य् अपेक्षायाम् आह ।
अन्योदर्यस् तु संसृष्टी नान्योदर्यधनं हरेत् ।
असंसृष्ट्य् अपि चादद्यात् संसृष्टो नान्यमातृजः ॥
अन्योदर्यः सापत्नो भ्राता संसृष्टिधनं न कृत्स्नं हरेत्, अपि त्व् अर्धम् । असंसृष्ट्य् अर्धान्तरम् आददीत । को ऽसाव् असंसृष्टी इत्य् आशङ्कायाम् आह, संसृष्ट इति । एकोदरः संसृष्टः सोदर्य इति यावत् । नान्यमातृज इत्य् अत्रैव शब्दाध्याहारेण व्याख्यानं कर्तव्यम् । संसृष्ट्य् अन्यमातृज एव संसृष्टिनो धनं नाददीत । अपि तु असंसृष्ट्य् अपि सोदर आददीत । अत्रापि शब्दश्रवणात् नान्यमातृज एवेत्य् अवधारणम् निषेधेनावगम्यते । तेनाध्याहारः कर्तव्यः । संसृष्टिविषये पत्नीदायनिवृत्ते तासाम् आभरणात् भरणम् कर्तव्यम् ।
तथा संसृष्टिनं प्रत्य् आह नारदः ।
भरणं चास्य कुर्वीरन् स्त्रीणाम् आ जीवितक्षयात् । इति ।
यद् इदं संसृष्टिनो धनग्रहणम् उक्तं तत्पुत्रपत्नीदुहितॄणाम् अभावे इति केचित् । तथा बृहस्पतिः ।
यदा कश्चित् प्रमीयेत प्रव्रजेद् वा कथञ्चन ।
न लुप्यते तस्य भागः सोदरस्य विधीयते ॥
या तस्य भगिनी सा तु ततो ऽंशं लब्धुम् अर्हति ।
अनपत्यस्य धर्मो ऽयम् अभार्यापितृकस्य च ॥
ननु,
भरणं चास्य कुर्वीरन् स्त्रीणाम् आ जीवितक्षयात् ।
रक्षन्ति शय्यां भर्तुश् चेद् आच्छिन्द्युर् इतरासु च ॥
इति नारदवचनात्, भार्यासद्भाव एव संसृष्टिनो धनग्रहणम् इति गम्यते । सत्यम्, पत्नी दायायोग्या स्त्रीषु नारदवचनम् इत्य् अविरोधः । यासु स्मृतिषु योषिद्विधवानारीस्त्रीभार्यादिशब्दप्रयोगः, तासु तासां भरणम् एव । यासु स्मृतिषु पत्नीशब्दप्रयोगः तासु दायग्रहणम् इति वृद्धाः । अत्र विशेषम् आह बृहस्पतिः ।
संसृष्टिनां तु यः कश्चित् विद्याशौर्यादिना धनम् ।
प्राप्नोति तस्य दातव्यौ द्व्यंशौ शेषाः समांशिनः ॥
कात्यायनः ।
संसृष्टानां तु संसृष्टा पृथक्स्थानां पृथक्स्थिताः ।
अभावे ऽर्थहरा ज्ञेया निर्बीजान्योन्यभागिनः ॥
संसृष्टानां कस्यचिद् अपुत्रस्य मरणे संसृष्टिन एव धनम् । तथा असंसृष्टानां कस्यचित् अपुत्रस्य मरणे असंसृष्टानाम् एव धनम् । तेषाम् अभावे इतरेषाम् अपि । संसृष्टेषु निबीजेषु निरन्वयमृतेषु असंसृष्टास् तद्धनहारिणः । तथा असंसृष्टेषु निर्बीजेषु संसृष्टास् तद्धनहारिणः । तत्र विशेषम् आह याज्ञवल्क्यः ।
वानप्रस्थयतिब्रह्मचारिणां रिक्थभागिनः ।
क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रैकतीर्थिनः ॥
अत्र भगवान् विष्णुः- “वानप्रस्थधनम् आचार्यो गृह्णीयात् शिष्यो वा” ।
इति श्रीवरदराजीये व्यवहारनिर्णये दायविभागकाण्डः समाप्तः