सम्भूयसमुत्थानम्
अथ सम्भूयसमुत्थानाख्यं विवादपदम् उच्यते । अत्र नारदः ।
वणिक्प्रभृतयो यत्र कर्म सम्भूय कुर्वते ।
तत् सम्भूयसमुत्थानं व्यवहारपदं स्मृतम् ॥
फलहेतोर् उपायेन कर्म सम्भूय कुर्वताम् ।
आधारधारभूतः प्रक्षेपस् तेनोत्तिष्ठेयुर् अंशतः ॥
एकैकपुरुषव्यापारप्रयोजनाद् अधिकलाभार्थं कर्म सम्भूय कुर्वता आधारभूत उपायभूतो द्रव्यप्रक्षेपः । तत्र येन यावद् अद्रव्यम् उपनीतं तदनुगुणं व्यापारं कुर्यात् । लाभम् अपि तथा गृह्णीयाद् इत्य् अर्थः ।
समो ऽनतिरिक्तो हीनो वा यस्यांशो यत्र यादृशः ।
क्षयव्ययौ तथा वृद्धिः तस्य तत्र तथाविधा ॥
अल्पांशस्याल्पो महांशस्य महान् इत्य् अर्थः । बृहस्पतिः ।
अशक्तालसरोगार्तमन्दभाग्यनिराश्रयैः ।
वणिज्या च सहैतैस् तु कर्तव्या बुधैः क्रिया ॥
कुलीनदक्षानलसैः प्राज्ञैः कण्टकवेदिभिः ।
आयव्ययज्ञैः शुचिभिः शूरैः कार्या सह क्रिया ॥
याज्ञवल्क्यः ।
समवायेन वणिजां लाभार्थं कर्म कुर्वताम् ।
लाभालाभौ यथाद्रव्यम् अर्थं संविद्वशाद् भवेत् ॥
कात्यायनः ।
समवेतास् तु ये केचित् शिल्पिनो वणिजो ऽपि वा ।
यथांशं कर्म कुर्वाणैः प्राप्तं तत्र फलं समम् ॥
परीक्षङाः साक्षिणश् च त एवोक्ताः परस्परम् ।
सन्दिघे ऽर्थे वञ्चनायां न च विद्वेषसंयुताः ॥
यः कश्चिद् वञ्चकस् तेषां विज्ञातः क्रयविक्रये ।
शपथैः स तु शोध्यः स्यात् सर्ववादेष्व् अयं विधिः ॥
क्रयहानिर् यदा तत्र दैवराजकृता भवेत् ।
सर्वेषाम् एव सा प्रोक्ता कल्पनीया यथांशतः ॥
अनिर्दिष्टो वार्यमाणः प्रमादाद् यस् तु नाशयेत् ।
तस्यांशं दशमं दत्वा गृह्णीयुस् ते ऽंशतो ऽपरे ॥
नारदः ।
एकस्य चेत् स्याद् व्यसनं दायादो ऽस्यैतद् आप्नुयात् ।
अन्यो वासति दायादे शक्ताश् चेत् सर्व एव वा ॥
बृहस्पतिः ।
राजाददीत षड्भागं नवमं द्वादशं तथा ।
शूद्रविट्क्षत्रजातानां विप्राद् गृह्णीत विंशकम् ॥
अब्दाद् ऊर्ध्वं तु नागच्छेत् यत्र स्वामी कथञ्चन ।
तदा गृह्णीत तद् राजा ब्रह्मस्वं ब्राह्मणं श्रयेत् ॥
मनुः ।
प्रणष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् ।
अर्वाद् त्र्यब्दाल् लभेत् स्वामी परेण नृपतिर् हरेत् ॥
नारदः ।
अस्वामिकम् अदायादं दशवर्षस्थितं ततः ।
राजा तद् आत्मसात् कुर्याद् एवं धर्मो न हीयते ॥
याज्ञवल्क्यः ।
अर्धप्रक्षेपणाद् विंशं भागं शुल्कं नृत्पो हरेत् ।
व्यासिद्धं राजयोग्यं च विक्रीतं राजगामि तत् ॥
देशान्तरगते प्रेते द्रव्यम् आदाय बान्धवाः ।
ज्ञातयो वा हरेयुस् तम् आगतास् तैर् विना नृपः ॥
जिह्मं त्यजेयुर् निर्लाभम् अशक्तो ऽन्येन कारयेत् ।
अनेन विधिर् आख्यात ऋत्विक्कर्षककर्मिणाम् ॥
नारदः ।
ऋत्विक् तु त्रिविधो दृष्टः पूर्वैर् जुष्टः स्वयं वृतः ।
यदृच्छया च यः कुर्याद् आर्त्विज्यं प्रीतिपूर्वकम् ॥
मनुः ।
ऋत्विग् यदि वृतो यज्ञे स्वकर्म परिहापयेत् ।
तस्य कर्मानुरूपेण देयो ऽंशः सह कर्तृभिः ॥
अर्धकरणे अर्धं देयम् । पादकरणे पादं देयम् इत्यादि ।
सम्भूय स्वानि कर्माणि कुर्वद्भिर् इह मानवैः ।
अनेन क्रमयोगेन कर्त्यांशप्रकल्पना ॥
यस्मिन् कर्मणि यास् तु स्युर् उक्ताः प्रत्यङ्गदक्षिणाः ।
स एव ता आददीत भजेरन् सर्व एव वा ॥
मनुः ।
रथं हरेत् चाध्वर्युः ब्रह्माधाने च वाजिनम् ।
होता चापि हरेद् अश्वं उद्गाता चाप्य् अनः क्रये ॥
आधाने अग्न्याधाने, क्रये सोमक्रये । अथ साधारणानां दक्षिणानां विभागम् आह ।
सर्वेषाम् अर्धिनो मुख्याः तदर्धेनार्धिनो ऽपरे ।
तृतीयिनस् तृतीयांशाश् चतुर्थांशास् तु पादिनः ॥
अयम् अर्थः । ऋत्विजो होत्रादयः षोडश । तेषां मध्ये ये मुख्याश् चत्वारो होता अध्वर्युः ब्रह्मा उद्गाता चेति । ते गोशतस्यार्धिनः सर्वेषां भागपरिपूरणोपपत्तिवशात् अष्टाचत्वारिंशद्रूपेण अर्धो ऽंशभाजः, अपरे मैत्रावरुणः प्रतिपस्थाता ब्राह्मणाच्छांसी प्रस्तोता चेति चत्वारः । तदर्धेन तस्य मुखांशस्यार्धेन चतुर्विंशतिरूपेण अर्थभाजः । ये तु तृतीयिनः अच्छावाकनेष्ट्रग्नीध्रप्रतिहर्तारः ते मुख्यांशस्य षोडशांशभागरूपतृतीयांशभाजः, ये तु पादिनः ग्रावस्तुत्-उन्नेतृ-प्रोतृ-सुब्रह्मण्याः ते मुख्यस्य भागस्य चतुर्थांशाः द्वादशगोरूपचतुर्थो ऽंशभाजः वाजपेयादिषु समदक्षिणाः । अत्र मनुः ।
ऋत्विजं यस् त्यजेद् याज्यो याज्यं ऋत्विक् त्यजेद् यदि ।
शक्तं कर्मण्य् अदुष्टं च तयोर् दण्डः शतं शतम् ॥
नारदः ।
क्रमागतेष्व् एषु धर्मो व्रतेष्व् ऋत्विक्षु च स्वयम् ।
यादृच्छकेषु संयाज्यं त्यक्ते नास्त्य् एव कुल्बिषम् ॥
अत्र विशेषम् आह कौटिल्यः- “अग्निष्टोमादिषु च क्रतुषु दीक्षणीयाया ऊर्ध्वं याजको ऽवसन्नः पञ्चमम् अंशं लभते । सोमक्रयाद् ऊर्ध्वं चतुर्थम्, मध्यमोपसद प्रवर्ग्योद्वासनाद् ऊर्ध्वं तृतीयम्, अग्निषोमीयाद् ऊर्ध्वं द्वितीयम्, प्रतःसवनाद् ऊर्ध्वं पादोनम्, माध्यन्दिनाद् ऊर्ध्वं समग्रम्, नीतासु दक्षिणासु भवतीति ।
बृहस्पतिः ।
श्रूयतां कर्षकादीनां विधानम् इदम् उच्यते ।
बाह्यकर्षकबीजाद्यैः क्षेत्रोपकरणेन च ॥
ये समर्थास् तु तैः सार्धं कृषिः कार्या विजानता ।
विपिने नगराभ्याशे तथा राजपथस्य च ॥
ऊषरं कण्टकव्याप्तं क्षेत्रं यत्नेन वर्जयेत् ।
गर्तानूपं सुसेकं च समन्तात् क्षेत्रसंयुतक् ॥
सुकृष्टं च कृतं काले वापयन् फलम् अश्नुते ।
कृशातिवृद्धं क्रुद्धं च रोगिणं प्रपलायिनम् ॥
काणं खञ्जं च नादद्याद् धुर्यं प्राज्ञः कृषीवलः ।
बीजवाह्याद् यया हन्या क्षेत्रहानिः प्रजायते ॥
यस्यैतत् तस्य सा प्रोक्ता नान्येषाम् इति निश्चयः ।
क्षेत्रहानिः भोगहानिः ।
एष धमः समाख्यातः कीणाशानां पुरातनः ॥
हिरण्यरूप्यसूत्राणां काष्ठपाषाणचर्मणाम् ।
संस्कर्ता तत्क्रियाभिज्ञः शिल्पी चोक्तो मनीषिभिः ॥
हेमकारादयो यत्र शिल्पं सम्भूय कुर्वते ।
कर्मानुरूपं निर्वेशं लभेरंस् ते यथांशतः ॥
कात्यायनः ।
शिक्षकाः कर्मकुशलाः आचार्याश् चेति शिल्पिनः ।
एकद्वित्रिचतुर्भागान् हरेयुस् ते यथोत्तरम् ॥
बृहस्पतिः ।
हर्म्यं देवगृहं वापी चार्मिकोपस्कराणि च ।
सम्भूय कर्वतां तेषां प्रमुख्यो ऽर्धो ऽंआसम् अर्हति ॥
नर्तकानाम् एष एव धर्मः सद्भिर् उदाहृतः ।
तालज्ञो लभते ऽध्यर्धं गायकास् तु समांशिनः ॥
कात्यायनः ।
परराष्ट्राद् धनं यत् स्यात् चोरैः स्वाम्याज्ञया हृतम् ।
राज्ञे दशांशम् उत्सृज्य विभजेरन् यथाविधि ॥
चोराणां मुख्यभूतस् तु चतुरो ऽंशांस् ततो हरेत् ।
शूरो ऽंशांस् त्रीन् समर्थो द्वौ चोरस् त्व् एकैकम् एव तु ॥
तेषां चेत् प्रसृतानां यो ग्रहणं समवाप्नुयात् ।
तन् मोक्षार्थं यद् दत्तं तस्य कार्या समक्रिया ॥
इति सम्भूयसमुत्थानं नाम तृतीयं विवादपदं समाप्तम्
दत्ताप्रदानिकम्
अथ दत्ताप्रदानिकम् उच्यते । तत्र नारदः ।
दत्वा द्रयम् असम्यग् यः पुनर् आदातुम् इच्छति ।
दत्ताप्रदानिकं नाम तद् विवादपदं स्मृतम् ॥
अदेयम् अथ देयं च दत्तं चादत्तम् एव च ।
व्यवहारे च विज्ञेयो दानमार्गश् चतुर्विधः ॥
अदेयं दानानर्हम्, देयं दानार्हम्, दत्तं स्थिरम्, अदत्तं अस्थिरं निवर्तनीयम् इत्य् एवं चतुर्विधो दानमर्गः ।
तत्रेहाष्टाव् अदेयानि देयम् एकविधं स्मृतम् ।
दत्तं सप्तविधं विद्याद् अदत्तं षोडशात्मकम् ॥
अष्टौ अदेयान्य् आह नारदः ।
अन्वाहितं याचितकम् आधिः साधारणं च यत् ।
निक्षेपः पुत्रदाराश् च सर्वस्वं चान्वये सति ॥
आपत्स्व् अपि हि कष्टासु वर्तमानेन देहिना ।
अदेयान्य् आहुर् आचार्या यच् चान्यस्मै प्रतिश्रुतम् ॥ इति ।
अत्र विशेषम् आह दक्षः ।
सामान्यं याचितन्यास आधिर् दाराश् च तद्धनम् ।
अन्वाहितं च निक्षेपः सर्वस्वं चान्वये सति ॥
आपत्स्व् अपि न देयानि नव वस्तूनि पण्डितैः ।
यो ददाति स मूढात्मा प्रायश्चित्तीयते नरः ॥
अत्र विशेषम् आह कात्यायनः ।
विक्रयं चैव दानं च न कार्याः स्युर् अनिच्छवः ।
दाराश् च पुत्राः सर्वस्वम् आत्मन्य् एव तु योजयेत् ॥
आपत्काले तु कर्तव्यं दानं विक्रयम् एव वा ।
अन्यथा न प्रवर्तेत इति शास्त्रस्य निश्चयः ॥
आपत्तारतम्येन दानादानविकल्पः । अत्र वसिष्ठः- “शुक्लशोणितसम्भवः पुरुषो मातापितृनिमित्तकः, तस्य प्रदानविक्रयपरित्यागेषु मातापितरौ प्रभवतः । न त्व् एकं पुत्रं दद्यात् प्रतिगृह्णीयाद् वा । स हि सन्तानाय पूर्वेषाम् । न तु स्त्री पुत्रं दद्यात् प्रतिगृह्णीयात् । अन्यत्रानुज्ञानाद् भर्तुः” । कात्यायनः ।
क्रमागतं गृहक्षेत्रं पित्र्यं पैतामहं तथा ।
पुत्रपौत्रसमृद्धस्य न देयम् अननुज्ञया ॥
बृहस्पतिः ।
वैवाहिके क्रमायाते सर्वदानं न विद्यते । इति ।
तथा च मनुः ।
विभक्ता वाविभक्ता वा दायादाः स्थावरे समाः ।
एको ह्य् अनीशः सर्वत्र दानाधमनविक्रये ॥
मनुः ।
धर्मार्थं येन दत्तं स्यात् कस्मैचिद् याचते धनम् ।
पश्चाच् च न तथा तत् स्यात् न देयं तेन तद् भवेत् ॥
दानार्हम् एकविधम् आह नारदः ।
कुटुम्बभरणाद् द्रव्यं यत् किञ्चिद् अतिरिच्यते ।
तद् देयम् उपरुद्ध्यान्यद् ददद् आग समाप्नुयात् ॥
अत्र विशेषम् आह कात्यायनः ।
सर्वस्वं गृहवर्जं तु कुटुम्बभरणादिकम् ।
यद् द्रव्यं तत् स्वकं देयम् अदेयं स्याद् अतो ऽन्यथा ॥ इति ।
स्वकं स्वयम् आर्जितम् ।
न पुत्रेषु न दारेषु न च बन्धुष्व् अपेक्षिणः ।
सर्वकार्येषु पुरुषाः स्वद्रव्ये प्रभविष्णवः ॥
स्वद्रव्ये स्वयम् आर्जिते प्रभविष्णव इत्य् अर्थः । अथ दाने पात्रविशेषात् फलविशेष उच्यते ।
व्यासः ।
अन्धादिषु शतं दानम् अनन्तं दुहितुर् भवेत् ।
पित्रे शतगुणं दानं सहस्रं मातुर् उच्यते ॥
भगिन्याः शतसाहस्रं सोदर्ये दत्तम् अक्षयम् ।
दक्षः ।
मातापित्रोर् गुरौ मित्रे विनीते चोपकारिणि ।
दीनानाथविशिष्टेषु दत्तं तु सफलं भवेत् ॥
बृहस्पतिः ।
शूद्रे समगुणं दानं वैश्ये द्विगुणम् एव च ।
क्षत्रिय त्रिगुणं प्राहुः ब्राह्मणे षड्गुणं स्मृतम् ॥
श्रोत्रिये तच् च साहस्रम् उपाध्याये तु तद्द्वयम् ।
आचार्ये त्रिगुणं ज्ञेयम् आहिताग्निषु तद्द्वयम् ॥
आत्मज्ञे शतसाहस्रम् अनन्तं त्व् अग्निहोत्रिणि ।
सोमपे शतसाहस्त्रम् अनन्तं ब्रह्मवादिने ॥
भरद्वाजः ।
दानम् एकात्मकं प्राहुः तद् भवेत् तोयपूर्वकम् ।
विना तोयप्रदानेन धर्मदानं न विद्यते ॥
अत्र आपस्तम्बः- “सर्वाण्य् उदकपूर्वाणि दानान्य् अदृष्टार्थानि” । गौतमः- “स्वस्तिवाच्य भिक्षादानम् अप्पूर्वम्, ददातिषु चैव धर्म्येषु” । बृहस्पतिः ।
स्त्रीधनं स्त्री स्वकुल्येभ्यः प्रयच्छेत् तन्तुवर्जिता ।
कुल्याभावे तु बन्धुभ्यस् तदभावे द्विजातिषु ॥
सप्तविधं दत्तम् आह नारदः ।
पण्यमूल्यं भृतिस् तुष्ट्या स्नेहात् प्रत्युपकारतः ।
स्त्रीशुल्कानुग्रहार्थं च दत्तं सप्तविधं स्मृतम् ॥
पण्यमूल्यम् पण्यस्य क्रीतस्य मूल्यत्वेन दत्त, कृतकर्मणे भृतित्वेन, तूष्ट्य चारणादीनाम्, स्नेहाद् दुहितृभ्यः पुत्रादिभ्यः, उपकृतवते प्रत्युपकाररूपेण, परिणयनार्थं कन्याज्ञातिभ्यः शुल्कत्वेन, यच् चादृष्टार्थं अनुग्रहार्थं च दत्तं तद् एतत् सप्तविधम् अपि दत्तम् एव न प्रत्याहरणीयम् । बृहस्पतिः ।
भृतिस् तुष्ट्या पण्यमूल्यं स्त्रीशुल्कम् उपकारिणे ।
श्रद्धानुग्रहसम्प्रीत्या दत्तम् अष्टविधं स्मृतम् ॥
मनुः ।
मातापित्रोर् गुरौ मित्रे विनीते चोपकारिणि ।
दीनानाथविशिष्टेभ्यो दत्तं तु सफलं भवेत् ॥
सौदायिकं क्रमायातं शौरप्राप्तं च यद् भवेत् ।
स्त्रीज्ञातिस्वाम्यनुज्ञातं दत्तं सिद्धम् अवाप्नुयात् ॥
सौदायिके भार्यानुज्ञा, क्रमातायाते पुत्राद्यनुज्ञा, शौर्यप्राप्ते स्वाम्यनुज्ञेति ।
कात्यायनः ।
भयत्राणाय रक्षार्थं तथा कार्यप्रसाधनात् ।
अनेन विधिना लब्धं विद्यात् प्रत्युपकारितम् ॥
प्राणसंशयम् आपन्नं यो माम् उत्तारयेद् इतः ।
सर्वस्वं तस्य दास्यामीत्य् उक्ते ऽपि न तथा भवेत् ॥
याज्ञवल्क्यः ।
प्रतिग्रहः प्रकाशः स्यात् स्थावरस्य विशेषतः ।
देयं प्रतिश्रुतं चैव दत्वा नापहरेत् पुनः ॥
कात्यायनः ।
स्वेच्छया यः प्रतिश्रुत्य ब्राह्मणाय प्रतिग्रहम् ।
न दद्याद् ऋणवद् दाप्यः प्राप्नुयात् पूर्वसाहसम् ॥
अत्र विष्णुः- “प्रतिश्रुतस्याप्रदायी तद् दापयित्वा प्रथमसाहसं दण्ड्यः” । हारीतः ।
प्रतिश्रुतस्यादानेन दत्तस्योच्छेदनेन च ।
विविधान् नरकान् याति तिर्यग्योन्यां च जायते ॥
गौतमः- “प्रतिश्रुत्याप्य् अधर्मसंयुक्ताय न दद्यात्” । भरद्वाजः ।
वचसा यत् प्रतिश्रुत्य कर्मणा नोपपादितम् ।
ऋणं तद् धनसंयुक्तम् इह लोके परत्र च ॥
ऋणवत् प्रतिश्रुतं देयम् इत्य् अर्थः । षोडशात्मकम् अदत्तम् आह नारदः ।
अदत्तं तु भयक्रोधशोकवेगरुगन्वितैः ।
तथोत्कोचपरीहासव्यत्यासछलयोगतः ॥
बालमूढास्वतन्त्रार्तमत्तोन्मत्तापवर्जितम् ।
कर्ता ममायं कर्मेति प्रतिलोभेच्छया च यत् ॥
अपात्रे पात्रम् इत्य् उक्ते कार्ये चाधर्मसंहिते ।
दत्तं स्याद् यद् अविज्ञानात् अदत्तं तद् अपि स्मृतम् ॥
भयक्रोधशोकशब्दैः वेगशब्दः प्रत्येकम् अभिसम्बध्यते । कात्यायनः ।
कामक्रोधास्वतन्त्रार्तक्लीबोन्मत्तप्रमोहितैः ।
व्यत्यासपरिहासाच् च यद् दत्तं तत् पुनर् हरेत् ॥
हारीतः ।
आक्रोशाद् अर्थहीनानां प्रतिकाराय तद् भयात् ।
प्रदीयते तत् कर्तृभ्यो भयदानं तद् उच्यते ॥
उत्कोचलक्षणं नारद आह ।
स्तेयसाहसिकोद्वृत्तपारदारिकशंसनात् ।
दर्शनाद् वृत्तनष्टस्य तथासत्यप्रवर्तनात् ॥
प्राप्तम् एतैस् तु यत् किञ्चित् तद् उत्कोचाक्यम् उच्यते ॥
अत्र विशेषम् आह कात्यायनः ।
नियुक्तो यस् तु कार्येषु स चेद् उत्कोचम् आप्नुयात् ।
स दाप्यस् तद् धनं कृत्स्नं दमं चैकादशाधिकम् ॥
अनियुक्तस् तु कार्यार्थम् उत्कोचं यद्य् अवाप्नुयात् ।
कृतप्रत्युपकारार्थं तस्य दोषो न विद्यते ॥
यस्य कार्यस्य सिद्ध्यर्थं उत्कोचस् तु प्रतिश्रुतः ।
तस्य कार्यस्याप्रसिद्धौ न देयः स कथञ्चन ॥
तस्य प्राग् एव दत्तः स्यात् प्रतिदाप्यः स तं बलात् ॥
नियुक्तानाम् उत्कोचोपजीवने दण्डविशेषम् आह ।
उत्कोचजीविनो मर्त्यान् घोषयित्वा स्वमण्डलात् ।
सर्वस्वहरणं कृत्वा राजा विप्रान् विवासयेत् ॥
इतरान् अपि तत् कृत्वा वधाद्यैर् एव योजयेत् ।
इतरान् ब्राह्मणव्यतिरिक्तान् । आदिशब्देन अङ्गछेदादि गृह्यते । परिहासेन लीलया व्यत्यासेन मूल्यपरिकल्पनायाम् अन्यद् दर्शयित्वा प्रयोगकाले अन्यस्य दानं छलेन असत्येन योगेन दत्तम्, बालेन अप्राप्तषोडशवर्षेण दत्तम्, मूढेन व्याधिनिद्रामतिविभ्रमादिना लोकवेदानभिज्ञेन दत्तम् । अस्वतन्त्रा नारेदेनोक्ताः ।
अस्वतन्त्राः प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः ।
अस्वतन्त्रः स्वतः शिष्य आचार्ये तु स्वतन्त्रता ॥
अस्वतन्त्राः स्त्रियः पुत्रा दासो यश् च परिग्रहः ।
स्वतन्त्रस् तस्य तु गृही यस्य स्यात् तत् क्रमागतम् ॥
गर्भस्थैः सदृशो ज्ञेय आष्टमाद् वत्सराच् छिशुः ।
बाल आषोडशाद् वर्षात् पोगण्डश् चेति शब्द्यते ॥
परतो व्यवहारज्ञः स्वतत्रः पितरौ विना ।
जीवतो ह्य् अस्वतन्त्रः स्यात् जरयापि समन्वितः ॥
तयोर् अपि पिता श्रेयान् बीजप्राधान्यदर्शनात् ।
अभावे बीजिनो माता तदभावे तु पूर्वजः ॥
व्याधितेन आर्तेन दत्तम्, मदनीयेन शीधुपानादिना मत्तेन दत्तम्, वातपित्तादिना उन्मत्तेन दत्तम् । तथा चोक्तं नारदेन ।
पञ्चोन्मादाः समाख्याताः वातपित्तकफोद्भवाः । इति ।
कर्ता ममायम् उपकारायेति प्रतिलाभेच्छया च दत्तम्, अपात्रे वृषलीपत्यादौ तपस्वीति बुद्ध्या दत्तम्, यज्ञार्थं लब्धं धनं द्यूतादौ विनियुज्यमानाय दत्तम्, इत्य् एवं षोडशप्रकारं दत्तम् अप्य् अदत्तम् एव प्रत्याहरणीयत्वात् । आर्तदत्तस्यादत्तत्वं धर्मकार्यव्यतिरिक्तविषयम्, कात्यायनवचनात् ।
स्वस्थेनार्तेन वा दत्तं श्रावितं धर्मकारणात् ।
अदत्वा तु मृते दाप्यस् तत्सुतो नात्र संशयः ॥
तथेदं वचनं सङ्क्षिप्तार्थवचनम् ।
योगाधमनविक्रीतं योगदानप्रतिग्रहम् ।
यत्र वाप्य् उपधिं पश्येत् तत् सर्वं विनिवर्तयेत् ॥
योग उपाधिः । येन योगादिना उपाधिविशेषेणाधिक्रयविक्रयदानप्रतिग्रहाः कृताः, तद् उपाधिविगमे तेषां क्रयादीनां निवृत्तिर् इति ।
दानविशेषविषयाणि वचनान्य् उच्यन्ते । अत्र भरद्वाजः ।
प्रयोजनम् अपेक्ष्यैव पात्रेभ्यो यत् प्रदीयते ।
तद् अर्थदानम् इत्य् आहुर् ऐहिकं फलम् अस्य तु ॥
दृष्ट्वा प्रयोजनं स्त्रीणां प्रसङ्गाद् यत् प्रदीयते ।
अनर्हेषु च रागेण कामदानं तद् उच्यते ॥
संसदि व्रीडया श्रुत्वा परेभ्यो यत् प्रदीयते ।
व्रीडानाम् इति प्राह तद् दानं तत्त्वदर्शिनः ॥
दृष्ट्वा प्रियं तथा श्रुत्वा हर्षाद् यच् च प्रयच्छति ।
हर्षदानं तद् इत्य् आहुः दृष्टम् एवास्य तत् फलम् ॥
कल्याणे च विपत्तौ च यत् प्रियेषु प्रदीयते ।
दानं लौकिकम् इत्य् एव दृष्टार्थं तद् पुनर् भवेत् ॥
स्वतन्त्रो ऽपि हि यत् कार्यं कुर्याद् अप्रकृतिं गतः ।
तद् अप्य् अकृतम् एवाहुर् अस्वतन्त्रत्वहेतवः ॥
कामक्रोधाभियुक्तोक्तिभयव्यसनपीडिताः ।
रागद्वेषपरीताश् च ज्ञेयात् स्वप्रकृतिं गताः ॥
तस्माद् एवम्भूतान्य् अदेयानि । बृहस्पतिः ।
मदूर्ध्वम् इति यद् दत्तं न तत् स्वत्वावहं भवेत् ।
तेनेदानीम् अदत्तत्वान् मृते रिक्थिनम् आपतेत् ॥
नारदः ।
गृह्णाति दत्तं यो मोहात् यश् चादेयं प्रयच्छति ।
दण्डनीयाव् उभाव् एतौ धर्मज्ञेन महीक्षिता ॥
बृहस्पतिः ।
अदत्तभोक्ता दण्ड्यः स्यात् तथा देयप्रदायकः ।
मनुः ।
अदेयं यश् च गृह्णाति यश् चादेयं प्रयच्छति ।
ताव् उभौ चोरवच् छास्यौ दाप्यौ तावत्समं दमम् ॥
इति दत्ताप्रदानिकं [नाम चतुर्थं विवादपदम्} समाप्तम्
**अभ्युपेत्याशुश्रूषा **
अथाभ्युपेत्याशुश्रूषोच्यते । बृहस्पतिः ।
अभ्युपेत्य तु शुश्रूषां यस् तां न प्रतिपद्यते ।
अशुश्रूषाभ्युपेत्यैतत् विवादपदम् उच्यते ॥
शुश्रूषाम् अहं कर्म तव करिष्यामीत्य् अभ्युपेत्य तत् कर्म यो न करोति अभ्युपेत्य तु शुश्रूषेत्य् एतद् विवादपदं विस्तारेणोच्यत इति । नारदः ।
शुश्रूषकः पञ्चविधः शास्त्रे दृष्टो मनीषिभिः ।
चतुर्विधः कर्मकरः तेषां दासास् त्रिपञ्चकाः ॥
शुश्रूषां प्रतिपद्यन्तः पञ्चविधा दृष्टा अस्मिन् शास्त्रे शास्त्रान्तरे च पण्डितैः । तेषाम् अवलम्ब्य चतुर्विधम् इच्छतः कर्मप्रतिपन्ननियोगतास्वतन्त्राः तान् उभयान् आह ।
शिष्यान्तेवासिभृतकाश् चतुर्थश् चाधिकर्मकृत् ।
एते कर्मकराः प्रोक्ताः दासास् तु गृहजादयः ॥
तत्र शिष्यवृत्तिं बृहस्पतिर् आह ।
विद्या त्रयी समाख्याता ऋग्यजुःसामलक्षणा ।
तदर्थं गुरुशुश्रूषां प्रकुर्याच् छास्त्रचोदिताम् ॥
विद्याविज्ञानकामार्थनिमित्तेन चतुर्विधा ।
एकैकं पुनर् एतेषां क्रियाभेदात् प्रभिद्यते ॥
विज्ञानम् उच्यते शिल्पं हेमरूप्यादिसंस्कृतिः ।
नृत्तादिकं च तच् छिक्षन् कुर्यात् कर्म गुरोर् गृहे ॥
नारदः ।
आदियाग्रहणाच् छिष्यः शुश्रूषेत् प्रयतो गुरुम् ।
तद्वृत्तिर् गुरुदारेषु गुरुपुत्रे तथैव च ॥
वेदत्रयाध्यायिनां त्रयाणाम् अयम् उपदेशः ।
समावृत्तश् च गुरवे प्रदाय गुरुदक्षिणाम् ।
प्रतीयात् स्वगृहान् एषा शिष्यवृत्तिर् उदाहृता ॥
स्वं शिल्पम् इच्छन्न् आहर्तुं बान्धवानाम् अनुज्ञया ।
आचार्यस्य वसेद् अन्ते कालं कृत्वा सुनिश्चितम् ॥
आचार्यः शिक्षयेद् एनं स्वगृहे दत्तभोजनम् ।
न चान्यत् कारयेत् कर्म पुत्रवच् चैनम् आचरेत् ॥
कात्यायन-बृहस्पती ।
यस् तु न ग्राहयेच् छिल्पं कर्माण्य् अन्यानि कारयेत् ।
प्राप्नुयात् साहसं पूर्वं तस्माच् छिष्यो निवर्तते ॥
शिक्षयन्तम् अदुष्टं स यस् त्व् आचार्यं परित्यजेत् ।
बलाद् वारयितव्यः स्यात् वधबन्धौ च सो ऽर्हति ॥
शिक्षितो ऽपि कृतं कालम् अन्तेवासी समापयेत् ।
तत्र कर्म च यत् कुर्याद् आचार्यस्यैव तत् फलम् ॥
गृहीतशिल्पः समये कृत्वाचार्यं प्रदक्षिणम् ।
शक्तितश् चानुमान्यैवम् अन्तेवासी विनर्तते ॥
नारदः ।
भृतकस् त्रिविधो ज्ञेय उत्तम मध्यमो ऽधमः ।
शक्तिभक्त्यनुरूपा स्याद् एषां कर्माश्रया भृतिः ॥
उत्तमस् त्व् आयुधीयो ऽत्र मध्यमस् तु कृषीवलः ।
अधमो भारवाही स्याद् इत्य् एवं त्रिविधो भृतः ॥
बृहस्पतिः ।
आयुधीयोत्तमस् तेषां मध्यमः सीरवाहकः ।
भारवाहो ऽधमः प्रोक्तः तथा च गृहकर्मकृत् ॥
द्विप्रकारा भारभृतः कृषिगोजीविनः स्मृताः ।
जातसस्यात् तथा क्षीराल् लभते परिभाषितम् ॥
नारदः ।
अर्थे ऽप्य् अधिकृतो यः स्यात् कुटुम्बस्य ततोपरि ।
सो ऽधिकर्मकरो ज्ञेयः स च कौटुम्बिकः स्मृतः ॥
शुभकर्मकरा ह्य् एते चत्वारः समुदाहृताः ।
जघन्यकर्मभाजस् तु शेषा दासास् त्रिपञ्चकाः ॥
बृहस्पतिः ।
दिनमासार्धषण्मासत्रिमासाब्दभृतस् तथा ।
कर्म कुर्यात् प्रतिज्ञातं लभते परिभाषितम् ॥
नारदः ।
कर्मापि द्विविधं प्रोक्तम् अशुभं शुभव् एव च ।
अशुभं दासकर्मोक्तं शुभम् अन्यद् उदीरितम् ॥
गृहद्वाराशुचिस्थानरथावस्करशोधनम् ।
गुह्याङ्गस्पर्शनोच्छिष्टविण्मूत्रग्रहणोज्झनम् ॥
इष्टतः स्वामिनश् चाङ्गैर् उपस्थानम् अथान्ततः ।
अशुभं कर्म विज्ञेयं शुभम् अन्यद् अतः परम् ॥
कात्यायनः ।
विण्मूत्रोत्सर्जनं चैव नग्नत्वे परिमर्दनम् ।
प्रायो दासीसुताः कुर्युः शवादिभरणं च यत् ॥
नारदः ।
गृहजातस् तथा क्रीतो लब्धो दायाद् उपागतः ।
अनाकालभृतस् तद्वद् आहितः स्वामिना च यः ॥
मोक्षितो महतश् चर्णाद् युद्धे प्राप्तः पणे जितः ।
तवाहम् इत्य् उपगतः प्रव्रज्यावसितः कृतः ॥
भक्तदासश् च विज्ञेयः तथैव बडवाभृतः ।
विक्रेता चात्मनः शास्त्रे दासाः पञ्चदश स्मृताः ॥ इति ।
स्वगृहे दास्या जातो गृहजातः । स्वद्रव्येणान्यस्मात् क्रीतः क्रीतः । लब्धः प्रतिग्रहादिना । पित्रादिक्रमेणागतो दायाद् उपागतः । अनाकालभृतः दुर्भिक्षे अशनवसनादिभिर् भृतः । सोप् ऽपि पूर्ववद् एव स्वामिना द्रव्यं गृहीत्वा वृद्ध्यर्थं कर्मकरणार्थं वा स्थापितः । आहितः स्वयम् ऋणं दातुम् अशक्तो महतश् चर्णात् मोक्षितः । राज्ञा युद्धे प्राप्तः । पणे कस्मिंश्चित् स्पर्धया जितः । तवाहं दासो ऽस्मि इति अभ्युपगतः । केनचिन् निमित्तेन प्रव्रज्य अतिक्रान्तः । इयन्तं कालं कर्म करिष्यामीति प्रवृत्तः कृतः । यावद् भक्तं ददामि तावद् दासो ऽस्मीत्य् उपगतो भक्तदासः । वडवा नाम गृहदासी अनियता तया सह वासेन निमित्तेन दासत्वम् उपगतो वडवाभृतः । बृहस्पतिः ।
यो भुङ्क्ते परदासीं तु स ज्ञेयो वडवाभृतः ।
कर्म तत् स्वामिनः कुर्यात् यथान्यस् तु भृतो नरः ॥
द्रव्यं गृहीत्वा य आत्मनो विक्रेता, एते पञ्चदशाशुभकर्मकराः ।
अत्र पूर्वश् चतुर्वर्गो दासत्वान् न विमुच्यते ।
प्रसादात् स्वामिनो ऽन्यत्र दास्यम् एषां क्रमागतम् ॥
विक्रीणीते स्वतन्त्रो यः स्वम् आत्मानं नराधमः ।
स जघन्यतमस् त्व् एषां सो ऽपि दास्यान् न मुच्यते ॥
अत्र तेषु पञदशसु मध्ये गृह्जातक्रीतलब्धदायागताश् चत्वारो ऽनिच्छति स्वामिनि दास्यान् न मुच्यते । स्वामी यदि प्रसन्नो मुञ्चति, तदा मुच्यते । अन्यथा नित्यदासा एव । तथा अन्तिमो ऽप्य् आत्मनो विक्रेता यः सो ऽप्य् एवम् एव । नारदः ।
यश् चैषां स्वामिनं कश्चिन् मोचयेत् प्राणसंशयात् ।
दासत्वात् स विमुच्येत पुत्रभागं भजेत च ॥
अनाकलभृतो दास्यान् मुच्यते गोयुगं ददत् ।
भक्षितं चापि दुर्भिक्षे न तच् छुद्द्येत कर्मणा ॥
दुर्भिक्षे मृतः पञ्चमोगोयुगं दत्वा मुच्यते । दुर्भिक्षे प्रमाणरक्षार्हं भक्षितं तत्तत्कर्मणा निस्तीर्यत इत्य् अर्थः ।
आहितो ऽपि धनं दत्वा स्वामी यद्य् एनम् उद्धरेत् ।
अथोपगमयेद् एनं सो ऽपि क्रीताद् अनन्तरः ॥
षष्ठ आहितो यथाभृतं धनं दत्वा प्रभुः यद्य् एनं मोक्षयेत् तदा मुच्येत । एष च क्रीतधर्मा क्रीतस्य या गतिः सा तस्येत्य् अर्थः ।
ऋणं तु सोदयं दत्वा ऋणी दास्याद् विमुच्यते ।
सप्तम ऋणान् मोक्षितो ऋणं वृद्धिं च दत्वा मुच्यते ॥
कृतकालव्युपरमात् कृतकालो विमुच्यते ।
तवाहम् इत्य् उपगतो युद्धप्राप्तः पणे जितः ॥
प्रतिशीर्षप्रदानेन मुच्येरंस् तुल्यकर्मणा ।
तवाहम् इति कालनियमं कृत्वा उपगतः, युद्धे जितः पणे जितश् च त्रयो ऽपि प्रतिमानुष्यम् आत्मतुल्यकर्माणं दत्वा मुच्यन्ते ।
राज्ञ एव तु दासः स्यात् प्रव्रज्यावसितो नरः ।
न तस्य प्रतिमोक्षो ऽस्ति न विशुद्धिः कथञ्चन ॥
प्रव्रज्यावसितो राज्ञ एव दास उक्तः । नित्यदासो नित्याशुद्धः असंव्यवहार्यश् च ।
भक्तस्योपेक्षणात् सद्यो भक्तदासः प्रमुच्यते ।
निग्रहाद् बडवायाश् च मुच्यते बडवाभृतः ॥
भक्तदासो भक्तस्यादानान् मुच्यते । बडवाभृतो बड्वानिग्रहान् मुच्यते । कात्यायनः ।
स्वदासीं यस् तु सङ्गच्छेत् प्रसूता च भवेत् ततः ।
अवेक्ष्य बीजं कार्या स्याद् अदासी सान्वया तु सा ॥
नारदः ।
स्वदासम् इच्छेद् यः कर्तुम् अदासं प्रीतमानसः ।
स्कन्धाद् आदाय तस्याशु भिन्द्यात् कुम्भं सहाम्भसा ॥
साक्षताभिः सपुष्पाभिः मूर्ध्नि चैनम् अवाकिरेत् ।
अदास इति चोक्त्वा त्रिः प्राङ्मुखं तम् अथोत्सृजेत् ॥
ततः प्रभृति वक्तव्यः स्वाम्यनुग्रहपालितः ।
भोज्यान्नो ऽथ प्रतिग्राह्यो भवत्य् अभिमुखः सताम् ॥
बृहस्पतिः ।
दासीसुताश् च दासाः स्युः जातः पत्यावरेण वा ।
उत्पादको यदि स्वामी न दासास् त्व् अस्य सूनवः ॥
कात्यायनः ।
दासेनोढा त्व् अदासी या सापि दासीत्वम् आप्नुयात् ।
यस्माद् भर्ता प्रभुस् तस्याः स्वाम्यधीनप्रभुर् यतः ॥
व्यासः ।
अन्यदीया तु सा दासी न दास्य् अन्यस्य सा भवेत् ।
शुल्कं कृत्वा तु तां गच्छेन् न गन्ता दास्यम् ऋच्छति ॥
न देवदास्यागमने शुल्कदो दासतां व्रजेत् ।
न चेच् छुल्कं तु बीजार्थं तद् बीजं क्षेत्रिणो भवेत् ॥
कात्यायनः ।
ऽ कामात् तु संश्रिता यस् तु दासीं कुर्यात् बलात् स्त्रियम् ।
सङ्क्रामयेत वान्यत्र दण्ड्यः तच् चाकृतं भवेत् ॥
बलाद् धात्रीम् अदासीं च दासीम् इव भुनक्ति यः ।
परिचारकपत्नीं च प्राप्नुयात् पूर्वसाहसम् ॥
विक्रोशमानां यो भक्तां दासीं विक्रेतुम् इच्छति ।
अनापदिस्थाह् शक्तः सन् प्राप्नुयाद् द्विशतं दमम् ॥
नारदः ।
यथा गोऽश्वोष्ट्रदासीषु महिष्याजाविकादिषु ।
नोत्पादकः प्रजाभागी तथैवान्याङ्गनास्व् अपि ॥
उप्ते बीजे परक्षेत्रे बीजी न लभते फलम् ।
अपत्यम् उत्पादयितुः तासां याः शुल्कतो भृता ॥
अशुल्कोपनतायां तु क्षेत्रिकस्यैव तत् फलम् ।
क्षेत्रिकस्य यद् अज्ञानात् क्षेत्रे बीजं प्रकीर्यते ॥
न तत्र बीजिनो भागः क्षेत्रिकस्यैव तद् भवेत् ।
ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति ॥
फलभाङ् नियतक्षेत्री न बीजी लभते फलम् ।
महोक्षो जनयेद् वत्सान् यस्य गोषु व्रजेच् चरन् ॥
तस्य ते यस्य ता गावो मोघं स्कन्दितम् आर्षभम् ।
क्षेत्रिकानुमतं बीजं यस्य क्षेत्रे समुप्यते ।
तद् अपत्यं द्वयोर् एव बीजिक्षेत्रिकयोर् मतम् ॥
नर्ते क्षेत्राद् भवेत् सस्यं न च बीजाद् विनास्ति तत् ।
अतो ऽपत्यं द्वयोर् इष्टं पितुर् मातुश् च धर्मतः ॥
अथ दास्याधिकारिण उच्यन्ते । कात्यायनः ।
त्रिषु वर्णेषु विज्ञेयं दास्यं विप्रस्य न क्वचित् ।
वर्णानाम् आनुलोम्येन दास्यं न प्रतिलोमतः ॥
राजन्यवैश्यशूद्राणां त्यजतां हि स्वतन्त्रताम् ।
समवर्णे तु विप्रं तु दासत्वं नैव कारयेत् ॥
शीलाध्ययनसम्पन्ने न न्यूनं कर्म कामतः ।
तत्रापि नाशुभं कर्म प्रकुर्वीत द्विजोत्तमः ॥
ब्राह्मणस्य हि दासत्वात् नृपतेजो विहन्यते ।
नारदः ।
वर्णानाम् आनुलोम्येन दास्यं न प्रतिलोमतः ।
स्वधर्मत्यागिनो ऽन्यत्र दारवद् दासता मता ॥
स्वधर्मत्यागी प्रव्रज्यावसितो विप्रः क्षत्रियादेर् दासो भवति, यथा दारग्रहणम् आनुलोम्येन न प्रातिलोम्येन, एवं दास्यम् अपि । उशनाः ।
न गुरुर् न सपिण्डश् च न विप्रो नान्त्ययोनयः ।
दासभावं न गछन्ति न च विद्याधिको द्विजः ॥
न गुरुर् न सपिण्ड इति ब्राह्मणव्यतिरिक्तजात्यन्तरविषयम् । ब्राह्मणस्यान्त्ययोनिर् न दासः । क्षत्रियादिसमवर्णस्य विद्याधिको न दासः । कण्वः ।
अज्ञातयोनयः सर्वे नैव दासा द्विजन्मनाम् ।
विध्याधिकः सजातश् च सपिण्डो गुरवो ऽपि च ॥
विष्णुः- “यस् तूत्तमवर्णं दास्ये नियोजयेत् स उत्तमसाहसं दण्ड्यः” । कात्यायनः ।
शूद्रं तु कारयेद् दास्यं क्रीतम् अक्रीतम् एव वा ।
दास्यायैव हि सृष्टो ऽसौ स्वयम् एव स्वयम्भुवा ॥
नारदः ।
भार्या पुत्रश् च दासश् च त्रय एवाधनाः स्मृताः ।
यत् ते समधिगच्छन्ति यस्यैते तस्य तत् फलम् ॥
अभ्युपेत्याश्र्श्रूषापदं समाप्तम्
वेतनस्यानपक्रिया
अथ वेतनस्यानपक्रिया । नारदः ।
भृत्यानां वेतनस्योक्तो दानादानविधिक्रमः ।
वेतनस्यानपाकर्म तद् विवादपदं स्मृतम् ॥
भृत्याय वेतनं दद्यात् कर्मस्वामी यथाक्रमम् ।
आदौ मध्यावसाने च कर्मणो यद् विनिश्चितम् ॥
भृताव् अनिश्चितायां तु दशभागम् अवाप्नुयात् ।
लाभं गोबीजसस्यानां वणिग्गोपकृषीवलाः ॥
गोबीजं गोसन्ततिः । गोग्रहणं पशूपलक्षणम् । तथा च याज्ञवल्क्यः ।
दाप्यस् तु दशमं भागं वाणिज्यपशुसस्यतः ।
अनिश्चित्य भृतिं यस् तु कारयेत् स महीक्षिता ॥
देशं कालं च यो ऽतीयात् लाभं कुर्याच् च यो ऽन्यथा ।
तत्र तु स्वामिनश् छन्दो ऽधिकं देयं कृते ऽधिके ॥
यो यावत् कुरुते कर्म तावत् तस्य तु वेतनम् ।
उभयोर् अप्य् असाध्यं चेत् साध्यं कुर्याद् यथाश्रुतम् ॥
यः पुनर् अनिश्चित्यैव भृतिं कारयति स राज्ञा दशमं भागं दापयितव्यः । वाणिज्यपशुसस्यतो वाणिग्गोपकृषीवलाः लाभगोबीजसस्यानां यथाक्रमं दशमं भागं लभन्ते । पशूनां सन्तितिम् । यो देशकालोचितं कर्म कुर्वन् “देशं कालं चातीयात्” अतिक्रामति । तस्मिन्न् एव वा देशे काले च कर्म यथा कारणलाभम् अप्य् अन्यथा कुर्यात्, हीनं करोति, तत्र तस्मिन् भृत्ये स्वामिनः, छन्द इच्छा भृतिदानं प्रति, यावद् इच्छति तावद् दद्यात्, न तु सर्वो भृतिम् । यदा तु देशकालाद्यभिज्ञतयाधिको लाभः कृतः, तदाधिकम् अपि वेतनं देयम् । यदा त्व् एकम् एव कर्म नियतवेतनं उभाभ्यां बहुभिर् एव क्रियमाणं “असाध्यम्” चेत् व्याध्याद्यभिभवात् न परिसमाप्तिम्, तदा तत्कृतकर्मानुसारेण । साध्ये तु उभाभ्यां बहुभिर् वा कर्मणि निर्वर्तिते यथाश्रुतं कुर्यात् । यावत् परिभाषितं तावद् एवोभाभ्यां बहुभ्यो वा दद्यात् । न तु प्रत्येकं कृत्स्नम् । नापि कर्मानुरूपम् इति । बृहस्पतिः ।
त्रिभागं पञ्चभागं वा गृह्णीयात् सीरवाहकः ।
भक्तादिभृतकः सीरात् भागं गृह्णीत पञ्चमम् ॥
जातसस्यात् त्रिभागं तु प्रगृह्णीतोपधा भृतः ।
नारदः ।
कर्मोपकरणं तेषां क्रियां प्रति यद् अर्पितम् ।
आप्तभावेन तद् रक्ष्यं न जिह्मेन कदाचन ॥
वृद्धमनुः ।
समुद्रयानकुशला देशकालार्थदर्शिनः ।
नियच्छेयुर् भृतिं या तु सा स्यात् प्राग् अकृता यदि ॥
बृहस्पतिः ।
भृतकस् तु न कुर्वीत स्वामिनः शाठ्यम् अण्व् अपि ।
भृतिहानिम् अवाप्नोति ततो वादः प्रवर्तते ॥
गृहीतवेतनः कर्म न करोति यदा भृतः ।
समर्थश् चेद् दमं दाप्यो द्विगुणं तच् च वेतनम् ॥
दाप्य इति शेषः । मनुः ।
यथोक्तम् आर्तः स्वस्थो वा यस् तत् कर्म न कारयेत् ।
न तस्य वेतनं देयम् अल्पोनस्यापि कर्मणः ॥
नारदः ।
कर्माकुर्वन् प्रतिश्रुत्य कार्यो दत्वा भृतिं बलात् ।
भृतिं गृहीत्वाकुर्वाणो द्विगुणां भृतिम् आवहेत् ॥
मनुः ।
भृतो नार्तो न कुर्याद् यो दर्पात् कर्म यथोदितम् ।
स दण्ड्यः कृष्णलान् अष्टौ न देयं चास्य वेतनम् ॥
नारदः ।
काले ऽपूर्णे त्यजन् कर्म भृतेर् नाशम् अवाप्नुयात् ।
स्वामिदोषाद् अपक्रामन् यावत् कृतम् अवाप्नुयात् ॥
अनयन्नादयित्वा तु भाण्डं वा यानवाहने ।
दाप्यो भृतिचतुर्भागं सर्वाम् अर्धपथे त्यजन् ॥
विष्णुः- “भृतकश् चापूर्णकाले कर्म त्यजन् सकलम् एव मूल्यं जह्यत् । राज्ञे पणशतं दद्यात् । स्वदोषेण च यदि नश्येत् तत् स्वामिने देयम्, अन्यत्र दैवराजोपघातात् । स्वामी चेत् भृतकम् अपूर्णे काले जह्यात्, तस्य सर्वम् एव मूल्यं दद्यात् । पणशतं च राजनि अन्यत्र भृतकदोषात्” । याज्ञवल्क्यः ।
अराजदैविकं नष्टं भाण्डं दाप्यस् तु वाहकः ।
प्रस्थानविघ्नकृच् चैव प्रदाप्यो द्विगुणां भृतिम् ॥
प्रक्रान्ते सप्तमं भगं चतुर्थं पथि सन्त्यजन् ।
भृतिम् अर्धपथे सर्वां प्रदाप्यस् त्याजको ऽपि च ॥
यदा प्रक्रान्ते गमने प्राक् प्रस्थानात् त्यजति तदा भृत्या सःअ सप्तमं भागं दाप्यः । निर्गतमात्रे यदि परित्यजति तदा भृत्या सह चतुर्थं भागम्, अर्धपथे सर्वाम् । यदा पुनः स्वामी भृतकमेषु स्थानेषु त्यजति तदानेनापि भृतकाय पूर्वोक्तं देयम् । वृद्धमनुः ।
पथि विक्रीय तद् भाण्डं वणिग् भृत्यं त्यजेद् यदि ।
अथ तस्यापि देयं स्यात् भृतेर् अर्धं लभेत सः ॥
कात्यायनः ।
यदा च पथि तद् भाण्डम् आसिद्ध्येत ह्रियेत् वा ।
यावान् अध्वा गतस् तेन प्राप्नुयात् तावतो भृतिम् ॥
त्यजेत् पथि सहायं यः श्रान्तं रोगार्थम् एव वा ।
प्राप्नुयात् साहसं पूर्वं ग्रामे त्र्यहम् अपालयन् ॥
पण्यस्त्रीषु नारद आह ।
शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विगुणं वहेत् ।
अनिच्छञ् छुल्कदातापि शुल्कहानिम् अवाप्नुयात् ॥
बृहस्पतिः ।
व्याधिता अश्रमा व्यग्रा राजकर्मपरायणा ।
आमन्त्रिता च नागच्छेद् अवाच्या बडवा स्मृता ॥
नारदः ।
अप्रयच्छंस् तथा शुल्कम् अनुभूय पुमान् स्त्रियम् ।
अक्रमेण समागच्छन् घातदन्तनखादिभिः ॥
अक्रमेण निषिद्धमार्गेण, घातः ताडनम् ।
अयोनौ यः समाक्रामेत् बाहुभिर् वा विसर्जयेत् ।
शुल्कं सो ऽष्टगुणं दाप्यो विनयं तावद् एव तु ॥
वेश्याप्रधाना ये तत्र कामुकास् तद्गृहे स्थिताः ।
तत्समुत्थेषु कार्येषु निर्णयस् तैः प्रकीर्तितः ॥
परक्षेत्रे गृहं कृत्वा वर्तमानान् प्रत्य् आह नारदः ।
परभूमौ गृहं कृत्वा स्तोमं दत्वा वसेत् तु यः ।
स तद् गृहीत्वा निर्गच्छेत् तृणकाष्ठकादिकम् ॥
स्तोमाद् विनाभ्युषित्वा तु परभूमाव् अनिच्छतः ।
निर्गच्छंस् तृणकाष्ठानि न गृह्णीयात् कथञ्चन ॥
यान्य् एव तृणाकाष्ठानि इष्टका वा निवेशिताः ।
विनिर्गच्छत्सु तत् सर्वं भूमिस्वामी निवेदयेत् ॥
स्तोमशब्देन परगृहानुभवार्थं तेभ्यो दत्ता दक्षिणोच्यते । व्यासः ।
स्नेहेन सुचिरं लब्ध्वा मन्दिरं कुरुते तु यः ।
निर्गच्छतस् तस्य दारू दत्तस्तोमस्य नान्यथा ॥
अन्यथा क्षेत्रवतः । कात्यायनः ।
गृहवार्यापणादीनि गृहीत्वा भाटकेन यः ।
स्वामिनो नार्पयेद् यावत् तावद् दाप्यः सभाटकम् ॥
हस्त्यश्वगोखरोष्ट्रादीन् गृहीत्वा भाटकेन यः ।
नार्पयेत् कृतकृत्यः सन् तावद् दाप्यः सभाटकम् ॥
भाटकशब्देन दक्षिणोच्यते इति । नारदः ।
स्तोमवाहीनि भाण्डानि पूर्णकालान्य् उपानयेत् ।
गृहीतुर् आभवेद् भग्नं नष्टं चान्यत्र सम्प्लवात् ॥
नौयायिनां शुल्कनियमम् आह मनुः ।
पणं यानं तरे दाप्यं पौरुषे ऽर्धपणं तरे ।
पादं पशुश् च योषिच् च पादार्धं रिक्तकः पुमान् ॥
पूर्णभाण्डानि यानानि तार्यं दाप्यानि सारतः ।
रिक्तभाण्डानि यत् किञ्चित् पुमांसश् चापरिच्छदाः ॥
दीर्घे ऽध्वनि यथादेशं यथा कालं तरे भवेत् ।
नदीतीरे तु तद् विद्यात् समुद्रे नास्ति लक्षणम् ॥
गर्भिणी तु द्विमासादिः तथा प्रव्रजितो मुनिः ।
ब्राह्मणा लिङ्गिनश् चैव न दाप्यास् तारिकं तरे ॥
यत् तद् धि किञ्चिद् दाशानां विशीर्येतापराधतः ।
तद् दाशैर् एव दातव्यं समागम्य स्वतो ऽंशतः ॥ इति ।
रजकहस्ते नष्टस्य वस्त्रस्य मूल्यदानकॢप्तिम् आह नारदः ।
मूल्याष्टभागो हीयेत सकृद् धौतस्य वाससः ।
द्विःपादं त्रिस् तृतीयांशः चतुर्धौते ऽर्धम् एव च ॥
अर्धक्षयात् तु परतः पादांशोपचयः क्रमात् ।
यावत् क्षीणदशं जीर्णं जीर्णस्यानियमक्षये ॥
अष्टपणक्रीतस्य सकृद् धौतस्य वस्त्रस्य नाशितस्याष्टभागोनं पणं न्यूनमूल्यं देयम् \ द्विर् धौतस्य पादोनं त्रिर् धौतस्य तृतीयांशन्यूनम् । चतुर् धौतस्यार्धम् । पणचतुष्टयं देयम् । ततः परं प्रतिनिर्णेजनं पादापचयो देयः । यावज् जीर्णं जीर्णस्य नाशितस्य इच्छातो मूल्यकल्पनम् । याज्ञवल्क्यः ।
वसानस् त्रीन् पणान् दाप्यः रजकस् तु परांशुकम् ।
विक्रयावक्रयाधानयाचितेषु पणान् दश ॥
रजको वस्त्रधावकः । स याति निर्णेजनार्थं समर्पितानि वासांसि स्वयं यद्य् आच्छादयति तदा पणत्रयं दण्ड्यः । यस् तु तानि विक्रीणीते ऽवक्रीनीते वा “तवैतावन्तं कालं मयोपभोगार्थं वस्त्रं देयम् ममापि त्वया एतावद् धनं देयम्” इत्य् एवं संवाद्य पटादिकं ददाति आधिं वा नयति, स्वसुहृद्भ्यो वा याचितं ददाति, असौ दशपणं दण्ड्य इति ।
इति वेतनस्यानपक्रिया समाप्ता
स्वामिपालविवादः
अथ स्वामिपालविवादः । तत्र मनुः ।
पशुषु स्वामिनां चैव पालानां च व्यतिक्रमे ।
विवादं सम्प्रवक्ष्यामि यथावद् धर्मतत्त्वतः ॥
गोपः क्षीरभृतो यस् तु स दुह्यात् दशतो ऽपराम् ।
गोस्वाम्यनुमतो भृत्यः सा स्यात् पाले ऽभृते भृतिः ॥
नारदः ।
गवां शताद् वत्सतरी धेनुः स्यात् द्विशताद् भृतिः ।
प्रतिसंवत्सरं गोपे सन्दोहो वाष्टमे ऽहनि ॥
गोपस्य भृतिः गोशताद् वत्सतरी द्विहायनी भृतिः । द्विशताद् एका धेनुः प्रतिसंवत्सरं देया, सर्वसन्दोहो वाष्टमे ऽहनि ।
उपानयेद् गा गोपाय प्रत्यहं रजनीक्षये ।
चीर्णाः पीताश् च ता गोपः सायाह्ने प्रत्युपानयेत् ॥
दिवसे दिवसे प्रातः स्वामी गोपसमीपं नीत्वा अर्पएत् । स गोपः चीर्णाः वने विहृताः तृप्ताः प्रीतोदकाः सायाह्ने प्रत्यानीय स्वामिने समर्पयेत् । तथा च याज्ञवल्क्यः ।
यथार्पितान् पशून् गोपः सायं प्रत्यर्पयेत् तथा ।
प्रमादमृतनष्टांश् च प्रदाप्यः कृतवेतनः ॥
नारदः ।
स्याच् चेत् गोव्यसनं गोपो व्यायच्छेत् तत्र शक्तितः ।
अशक्ताव् आभिपर्यार्थं स्वामिने तन् निवेदयेत् ॥
व्यसनसम्भवे भेषजादिना यथाशक्ति व्यायच्छेत् । अशक्तौ शीघ्रं गत्वा स्वामिने ब्रूयात् ।
अव्यायच्छन्न् अविक्रोशन् स्वामिने वानिवेदयन् ।
वोढुम् अर्हति गोपस् तं विनयं चैव राजतः ॥
बृहस्पतिः ।
पालदोषाद् विनाशे तु पालदण्डो विधीयते ।
अर्धत्रयोदशपणं स्वामिनो द्रव्यं एव वा ॥
व्यासः ।
पालग्रहे ग्रामयाने तथा राष्ट्रस्य विश्रमे ।
यत् प्रणष्टं हृतं वा स्यान् न पालस् तत्र किल्बिषी ॥
नारदः ।
अजाविके तु संरुद्धे वृकैः पाले त्व् अनायति ।
यां प्रसह्य वृको हन्यात् पाले तत् किल्बिषं भवेत् ॥
यां व्यक्तम् । नारदः ।
अनेन सर्वपालानां विवादः समुदाहृतः ।
नृपेषु हि विशुद्धिः स्यात् वालशृङ्गादिदर्शनात् ॥
अनेन गोपालविवादेन महिषाजाव्यादिपालानां विवादो व्याख्यातः । मनुः ।
कर्णौ चर्म च वालांश् च वस्तिं स्नायु च रोचनाम् ।
पशुस्वामिषु दद्यात् स मृतेष्व् अङ्गानि दर्शयन् ॥
अथ गोप्रचारभूमिनियमः
अत्र विशेषं याज्ञवल्क्य आह ।
ग्रामेच्छया गोप्रचारो भूमी राजवशेन च ।
द्विजस् तृणैधः पुष्पाणि सर्वतः स्ववद् आहरेत् ॥
धनुः शतं परीणाहो ग्रामक्षेत्रान्तरं भवेत् ।
द्वे शते खर्वटस्य स्यात् नगरस्य चतुर्गुणम् ॥
मनुः ।
तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि ।
न तत्र प्रणयेद् दण्डं नृपतिः पशुरक्षिणाम् ॥
याज्ञवल्क्यः ।
पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते ।
विवीतः कुलुत्थनिष्पावककार्पासार्था भूमिः ।
अकामतः कामचारी चोरवद् दण्डम् अर्हति ॥
नारदः ।
उत्क्रम्य तु वृतिं यत् स्यात् सस्यघातो गवादिभिः ।
पालः शास्यो भवेत् तत्र न चेच् छक्त्या निवारयेत् ॥
अत्र विशेषम् आह कात्यायनः ।
गोभिर् विनाशितं धान्यं यो नरः प्रतियाचते ।
पितरस् तस्य नाश्नन्ति नाश्नन्ति च दिवौकसः ॥
आढ्यस्येदम् ।
पथि क्षेत्रे वृतिः कार्या याम् उष्ट्रो नावलोकयेत् ।
न लङ्घयेत् पशुर् वोष्ट्रो न भिद्यातां श्वसूकरौ ॥
याज्ञवल्क्यः ।
वृतिं च तत्र कुर्वीत याम् उष्ट्रो नावलोकयेत् ।
छिद्रं च वारयेत् सर्वं श्वसूकरमुखानुगम् ॥
अजादिष्व् एव सर्वेषु कुर्याद् आवरणं महत् ।
दुःखेन न हि वार्यन्ते लब्धस्वादुरसा मृगाः ॥
गोभिर् विनाशितं धान्यं सामन्तैर् अनुमोदितम् ।
क्षेत्रिणे गोमिना देयं धान्यं यत्नेन साध्यते ॥
कात्यायनः ।
यावत् सस्यं विनश्येत् तु तावद् देयं च गोमिना ।
पलालं गोमिने देयं धान्यं तत्कर्षकाय तु ॥
कार्यसम्प्रतिपत्त्या वा स्वामिकर्षकगोमिनाम् ।
नारदः ।
माषं गा दापयेद् दण्डं द्वौ माषौ महिषीं तथा ।
तथाजाविकवत्सानां दण्डः स्याद् अर्धमाषकः ॥
माषशब्देन मानमात्रम् उच्यते । इदम् अज्ञानपूर्वं पुनः प्ररोहानुगुणभक्षणविषयम् । कात्यायनः ।
पणपादौ तु दण्ड्या गौः महिष्य् एकपणं तथा ।
तथाजाविकवत्सानां पादो दण्डः प्रकीर्तितः ॥
अत्यन्तनाशविषयम् इदम् । याज्ञवल्क्यः ।
समम् एषां विवीते ऽपि खरोष्ट्रमहिषीसमम् ।
यावत् सस्यं विनश्येत तावत् क्षेत्री फलं लभेत् ॥
या नष्टा पालदोषेण गौस् तु सस्यानि नाशयेत् ।
न तत्र गोमिनो दण्डः पालस् तद्दण्डम् अर्हति ॥
माषान् अष्टौ तु महिषी सस्यघातस्य कारिणी ।
दण्डनीया तदर्धं तु गौस् तदर्धम् अजाविकम् ॥
इदं महिष्याजाविषयम् । विष्णुः- “दिवा रात्रिषु मुहूर्तं ग्रासे माषम्, ग्रासमात्रे त्व् अदण्ड्या गौः महिष्यादयश् च सर्वेषां वै वत्सो माषम् । महिषी दश, खरोष्ट्रं षडजाविकं तु चतुरः । नारदः ।
सन्नानां द्विगुणो दण्डो वातानां तु चतुर्गुणः ।
प्रत्यक्षचोरकाणान्तु चोरदण्डः स्मृतो बुधैः ॥
याज्ञवल्क्यः ।
भक्षयित्वोपविष्टानां यथोक्ताद् द्विगुणो दमः ।
यावत् सस्यं विनश्येत् तु यावत् स्यात् क्षेत्रिणः फलम् ॥
पालस् ताड्यस् तु गोमी तु पूर्वोक्तं दण्डम् अर्हति ।
न तत्र स्वामिनो दोषः पाले सति चतुष्पदाम् ॥
अपाले स्वामिनो दोषः सस्यघाते स्मृतो बुधैः ।
नारदः ।
राजग्राहगृहीतो वा वज्राशनिहतो ऽपि वा ।
अथ सर्पेण दष्टो वा श्वभ्रे तु पतितो ऽपि वा ॥
व्याघ्रादिभिर् हतो वापि व्याधिभिर् वाप्य् उपद्रुतः ।
न तत्र दोषः पालस्य न च दोषो ऽस्ति गोमिनाम् ॥
अदण्ड्या हस्तिनो ह्य् अश्वाः प्रजापाला हि ते स्मृताः ॥
उशनाः ।
अदण्ड्याः काणकूटाश् च वृषश् च कृतलक्षणः ।
अदण्ड्यागन्तुकी गौश् च सूतिका चातिसारिणी ।
अदण्ड्याश् चोत्सवे गावः श्राद्धादिषु च कर्मसु ॥
मनुः ।
अनिर्दशाहां गां सूतां वृषं देवपशुं तथा ।
सपालान् वा विपालान् वा अदण्ड्यान् मनुर् अब्रवीत् ॥
नारदः ।
गौः प्रसूता दशाहात् तु महोक्षो वाजिकुञ्जरौ ।
निवार्याः स्युः प्रयत्नेन तेषां स्वामी न दोषभाक् ॥
याज्ञवल्क्यः ।
महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः ।
पायो येषां च ते मोच्या दैवराजपरिप्लुताः॥
कात्यायनः ।
अधमोत्तममध्यानां पशूनां चैव ताडने ।
स्वामी तु ववदेद् यत्र तत्र दण्डं प्रकल्पयेत् ॥
गवां निर्गच्छतां ग्रामात् काचित् पार्श्वे प्रमादतः ।
ग्रसेन् निर्गत्य सस्यानि तद्दोषः स्वामिपालयोः ॥
इति स्वामिपालविवादः
समयानपाकर्म
अथ समयानपाकर्म । तत्र नारदः ।
पाषण्डनैगमादीनां स्थितिः समय उच्यते ।
समयस्यानपाकर्म तद् विवादपदं स्मृतम् ॥
बहुभिः साधुभिः महाजनरक्षणार्थं कृता संवित् समयः । तस्यान्यथाकरणम् समयस्यानपाकर्मोच्यते । बृहस्पतिः ।
ग्रामश्रेणिगणानां च सङ्केतः समयक्रिया ।
बाधकार्ये तु स कार्या धर्मकार्ये तथैव च ॥
द्वौ त्रयः पञ्च वा कार्याः समूहहितवादिनः ।
कर्तव्यं वचनं तेषां ग्रामश्रेणिगण्डादिभिः ॥
सभाप्रपादेवगृहतटाकारामसंस्कृतिः ।
तथानाथदरिद्राणां संस्कारो यजनक्रिया ॥
कुलायननिरोधं च कार्यम् अस्माभिर् अंशतः ।
यत्रैतल् लिखितं पत्रे धर्म्या सा समयक्रिया ॥
कात्यायनः ।
युक्तियुक्तं च यो हन्यात् वक्तुर् यो ऽनवकाशदः ।
अयुक्तं चैव यो ब्रूयात् स दण्ड्यः पूर्वसाहसम् ॥
अविरोधेन धर्मस्य निर्गतं राजशासनम् ।
तस्यैवाचरणं पूर्वं कर्तव्यं तु नृपाज्ञया ॥
राजप्रवर्तितान् धर्मान् यो नरो नानुपालयेत् ।
गर्ह्यः स दण्ड्यो बन्ध्यश् च गर्हयन् राजशासनम् ॥
समयव्यतिक्रमे दण्डम् आह बृहस्पतिः ।
पालनीया समर्थैस् तु यः समर्थो विसंवदेत् ।
सर्वस्वहरणं दण्डः तस्य निर्वासनं पुरात् ॥
तत्र भेदम् उपेक्षां वा यः कश्चित् कुरुते नरः ।
चतुःसुवर्णं षण्णिक्षान् तस्य दण्डो विधीयते ॥
याज्ञवल्क्यः ।
गणद्रव्यं हरेद् यद् तु संविदं लङ्घयेच् च यः ।
सर्वस्वहरणं कृत्वा तं राष्ट्राद् विप्रवासयेत् ॥
स्मृत्यन्तरे ।
शवकेशैर् वीज्यमानं ब्राह्मणं ह्य् उप्तशेखरम् ।
दिग्वस्त्रं गमयेद् राजा दुष्टं समयलङ्घिनम् ॥
बृहस्पतिः ।
यस् तु साधारणं हिंस्यात् क्षिपेत् त्रैविद्यम् एव वा ।
साक्षिक्रियां विहन्याच् च स निर्वास्यस् ततः पुरात् ॥
अरुन्तुदः सूचकश् च भेदकृत् साहसी तथा ।
श्रेणिपूगनृपद्विट् च क्षिप्रं निर्वास्यते ततः ॥
कुलश्रेणिगणाध्यक्षाः पुरराष्ट्रनिवासिनः ।
वाग्धिक्कर्मपरित्यागं प्रकुर्युः पापकारिणाम् ॥
तैः कृतं यत् स्वधर्मेण निग्रहानुग्रहं नृणाम् ।
तद् राज्ञाप्य् अनुमन्तव्यं निसृष्टार्था हि ते स्मृताः ॥
बाधां कुर्युर् यद् एकस्य सम्भूता द्वेषसंयुताः ।
राज्ञा ते विनिवार्याः स्युः शास्याश् चैवानुबन्धिनः ॥
मुख्यैः सह समूहानां विसंवादो यदा भवेत् ।
तदा विचारयेद् राजा स्वमार्गे स्थापयेच् च तान् ॥
कात्यायनः ।
एकपात्रे ऽथ पङ्क्त्यां वा सम्भोक्ता येन यो भवेत् ।
अकुर्वंस् तत् तथा दण्ड्यः तस्य दोषम् अदर्शयन् ॥
गणद्रव्यहरणे दण्डः
अथ गणद्रव्यहरणे दण्डः । बृहस्पतिः ।
सम्भूयैकमतं कृत्वा राजभाव्यं हरन्ति ये ।
ते तदष्टगुणं दाप्या वणिजश् च पलायिनः ॥
समूहकार्यसिद्ध्यर्थं राजादीनां च दर्शने ।
ततो लभेत यत् किञ्चित् सर्वेषाम् एव तत्समम् ॥
षण्मासं मासिकं वापि विभक्तव्यं यथांशतः ।
देयं वा निःस्ववृद्धार्तस्त्रीबालातुररोगिषु ॥
सान्तानिकादिषु तथा दर्म एष सनातनः ।
यत् तैः प्राप्तं रक्षितं वा गणार्थे वा ऋणं कृतम् ।
राजप्रसादलब्धं च सर्वेषाम् एव तत्समम् ॥
कात्यायनः ।
समूहकार्यप्रहितो यल् लभेत तद् अर्पयेत् ।
एकादशगुणं दाप्यो यद्य् असौ नार्पयेत् स्वयम् ॥
समूहकार्य आयातान् कृतकार्यान् विसर्जयेत् ।
सदानमानसत्कारैः पूजयित्वा महीपतिः ॥
ततो लभेत यत् किञ्चित् सर्वेषाम् एव तत्समम् ॥
महीपतिग्रहणम् अमात्यानाम् अप्य् उपलक्षणम् । समूहाकारणनगरादिकं प्रविश्य तदाकारविच्छेदे सति प्रातिस्विकलब्धम् अपि साधारणम् अविभक्तार्जितधनवद् इति केचित् । तद् अयुक्तम् । समूहाविनाशे ऽपि दृष्टकारणाभावे च लब्धं प्रातिस्विकम् एव ।
[समयानपक्रिया समाप्ता]
**विक्रीयासम्प्रदानम् **
अथ विक्रीयासम्प्रदानाख्यं विवादपदम् उच्यते । तत्र नारदः ।
विक्रीय पण्यं मूल्येन क्रेतुर् यन् न प्रदीयते ।
विक्रीयासम्प्रदानं तत् विवादपदम् उच्यते ॥
लोके ऽस्मिन् द्विविधं द्रव्यं स्थावरं जङ्गमं तथा ।
क्रयविक्रयधर्मेषु सर्वं तत् पण्यम् उच्यते ॥
षड्विधस् तस्य तु बुधैः दानादानविधिः स्मृतः ।
गणिमं तुलिमं मेयं क्रियया रूपतः स्रिया ॥
षड्विधम् एव गणिमम्, सङ्ख्येयं क्रमुकफलादि । तुलिमं तुलया धार्यम्, हिरण्यचन्दनकुङ्कुमादि । मेयं प्रस्थादिभिः व्रीह्यादि । क्रियया कर्षणादिना बलीवर्दादि । रूपतः खड्गादिः । श्रिया मण्यादिः, तस्य पण्यस्य दानादानग्रहणविधिर् एवं षड्विधः \
विक्रीय पण्यं मूल्येन यः क्रेतुर् न प्रयच्छति ।
स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रियाफलम् ॥
मूल्यं गृहीत्वा क्रेतुर् यः पण्यं न ददाति तावत् कालं क्रीतवस्त्रादेः भुज्यमानस्य यः क्षयः तावद् दाप्यः । क्षयस्य दातुम् अशक्यत्वात् तदनुगुणं द्रव्यं दाप्यः । जङ्गमस्य द्विपदां चतुष्पदां च तत्कर्मनिमित्तं मूल्यं दाप्यः । तच् च मूल्यम्,
अर्घाच् चेद् अवहीयेत सोदयं पण्यम् आवहेत् ।
स्थानिनाम् एष नियमो दिग्लाभो दिग्विचारिणाम् ॥
विक्रीतपण्याप्रदाने द्रव्यं तत्कालार्घाद् अपहीयेत् । क्रयकालेनार्घेण दानकाले भाव्यवृद्धियुक्तं पण्यं दाप्यः । दिग्विचारिणा कालातिक्रमे ऽर्घहानौ तद्धीनं द्रव्यं दिग्लाभेन सह दाप्यः ।
उपहन्येत वा पण्यं दह्येतापह्रियेत वा ।
स क्रेतुर् एव सो ऽनर्थो विक्रीयासम्प्रयच्छतः ॥
अन्यच् च ।
निर्दोषं दर्शयित्वा तु यः स दोषं प्रयच्छति ।
मूल्यं तु द्विगुणं दाप्यो विनयं तावद् एव च ॥
मूल्यग्रहणकाले निर्दोषं दर्शयित्वा सदोषं पण्यं प्रयच्छन् विक्रेता क्रेतुस् तन्मूल्यद्विगुणं दाप्यः । तावन् मूल्यं दण्ड्यश् च । तथा,
अन्यहस्तेषु विक्रीय यो ऽन्यहस्ते प्रयच्छति ।
सो ऽपि तद्द्विगुणं दाप्यो विनयं तावद् एव च ॥
दीयमानं न गृह्णाति पण्यं क्रीतं हि यः क्रयी ।
विक्रीणानस् तदन्यत्र विक्रेता नापराध्नुयात् ॥
दत्तमूल्यस्य पण्यस्य विधिर् एषः प्रकीर्तितः ।
अदत्तमूल्ये विक्रीते न विक्रेतुर् अतिक्रमः ॥
पूर्वोक्तम् उपपादयति ।
लाभार्थे वणिजां सर्वपण्येषु क्रयविक्रयः ।
स च लाभो ऽर्घम् आसाद्य महान् भवति वा न वा ॥
लाभपरिमाणं याज्ञवल्क्य आह ।
स्वदेशपण्ये तु वणिक् शतं गृह्णीत पञ्चकम् ।
परदेशस्य दशकं यः सद्यः क्रयविक्रयी ॥
तेनान्येन क्रयसम्भाषणे कृते ऽप्य् अदत्ते मूल्ये लाभे सत्य् अनेन विक्रयः कर्तव्यः ।
नारदः ।
तस्माद् देशे च काले च वणिग् अर्थं प्रकल्पयेत् ।
न जिह्मेन प्रवर्तेत श्रेयान् एव वणिक्पथः ॥
यस्माच् छ्रेयान् वणिक्पथस् तस्मात् जिह्मेन न प्रवर्तेतेय् अर्थः । याज्ञवल्क्यः ।
विक्रीतम् अपि विक्रेयं पूर्वक्रेतर्य् अगृह्णति ।
हानिश् चेत् क्रेतृदोषेण क्रेतुर् एव हि सा भवेत् ॥
दैवराजोपघातेन पण्ये दोषम् उपागते ।
हानिर् विक्रेतुर् एवासौ याचितस्याप्रयच्छतः ॥
कात्यायनः ।
क्रीत्वा प्राप्तं न गृह्णीयात् यो न दद्याद् अदूषितम् ।
स मूल्याद् दशमं भागं दत्वा स्वं द्रव्यम् आप्नुयात् ॥
अप्राप्ते ऽर्थे क्रियाकाले कृते नैव प्रदापयेत् ।
एवं धर्मो दशाहात् तु परतो ऽनुशयो न तु ॥
बृहस्पतिः ।
ज्ञात्वा सदोषं यत् पण्यं विक्रीणीते ऽविचक्षणः ।
तद् एव द्विगुणं दाप्यं तत्समं विनयं तथा ॥
व्यासः ।
सत्यङ्कारं तयोर् दत्वा यथाकालेन दर्शयेत् ।
पण्यं भवेन् निसृष्टं तत् दीयमानम् अगृह्णतः ॥
क्षेत्रविषये विशेषम् आह बृहन्मनुः ।
अदत्ते क्षेत्रमूल्यांशे यदि क्रीतं विनश्यति ।
राज्ञा वा ह्रियते मूलशेशे दद्यान् न तु क्रयी ॥
वृद्धयाज्ञवल्क्यः ।
अदत्ते क्रयमूल्यांशे शेषदानं विधीयते ।
क्रयस्य विनिवृत्तिर् वा यावद् दत्तं क्रयो ऽपि वा ॥
संवादकाले दानं स्याद् ऊर्ध्वं क्रयनिवर्तनम् ।
विक्रेतुर् द्रविणाभावे यावद् दत्तं क्रयो भवेत् ॥
क्रयद्रव्यावशेषं चेत् वृद्धं क्रेत्रा न दीयते ।
तत्कालोचितमूल्येन विक्रीतं पुनर् आप्नुयात् ॥
इति विक्रीयासम्प्रदानं नामाष्टमं विवादपदम्
क्रीत्वानुशयः
अथ क्रीत्वानुशयः । तत्र नारदः ।
क्रीत्वा मूल्येन यत् पण्यं क्रेता न बहुमन्यते ।
क्रीत्वानुशय इत्य् एतत् विवादपदम् उच्यते ॥
तत्राविक्रेयाण्य् आह मनुः ।
नान्यद् अन्येन संसृष्टं रूपं विक्रयम् अर्हति ।
न सावद्यं न वा न्यूनं न दूरेण तिरोहितम् ॥
तथान्यत्र ।
साधारणं तु यत् क्षेत्रं नैको दद्यान् नराधमः ।
नादद्यान् न च गृह्णीयात् विक्रीनीयान् न चैव हि ॥
प्रसङ्गात् विक्रेयाण्य् अशेषाण्य् अप्य् आह मनुः ।
आदौ निधिः सदा प्रोक्ता निक्षेपस् तदनन्तरम् ।
जलपाषाणकौ पश्चाद् अक्षिण्यागामिनौ तथा ॥
सिद्धाः साध्याश् च विक्रेयाः चाष्टबोगाः प्रकीर्तिताः ।
भुज्यत इति भोगाः, भोगार्हा इत्य् अर्थः । ते चाष्टाव् उदाहृता द्रष्टव्या इत्य् अर्थः । तेषां स्वरूपं च बृहस्पतिर् आह ।
निधिः सुरालयः प्रोक्तो निक्षेपो द्रव्यभाजनम् ।
जलं वापीतडाकादिः पाषाणाः खनिजादयः ॥
अक्षिण्यः पर्वताश् चैव सरितश् च सरांसि च ।
आगामिनो भाविनः स्युः गृहारामवनादयः ॥
सिद्धाः कॢप्ताः स्वभोगाय पितृपैतामहादिभिः ।
स्वार्जिताश् च तथा साध्याः साधनार्हाः प्रयत्नतः ॥
एवं भोगाः सुविज्ञेयाः सामान्येन मनीषिभिः ।
प्रयोक्तव्याश् च सर्वत्र दानाधमनविक्रये ॥ इति ।
क्रीतनिवृत्तिर् नारद आह ।
क्रीत्वा मूल्येन यः पण्यं दुष्क्रीतं मन्यते क्रयी ।
विक्रेतुः प्रतिदेयं तत् तस्मिन्न् एवाह्न्य् अविक्षतम् ॥
द्वितीये ऽह्नि ददत् क्रेता मूल्यात् त्रिंशांशम् आहरेत् ।
द्विगुणं तत् तृतीये ऽह्नि परतः क्रेतुर् एव तत् ॥
एतत् तद् द्रव्यानुशयकालोत्तरं द्रष्टव्यम् । बृहस्पतिः ।
मत्तोन्मत्तेन विक्रीतं हीनमूल्यं भयेन वा ।
अस्वतन्त्रेण मूढेन त्याज्यं तस्य पुनर् भवेत् ॥
निवृत्तिकालं व्यास आह ।
चर्मकाष्ठेष्टकासूत्रधान्यासवरसस्य च ।
वस्त्ररूप्यहिरण्यानां सद्य एव परीक्षणम् ॥
सद्यः तद्दिवस एवेत्य् अर्थः ।
हेमरूप्याम्बररसा परीक्ष्या दिवसेन तु ।
मुक्तावज्रप्रवालानां सप्ताहं स्यात् परीक्षणम् ॥
द्विपदाम् अर्धमासं तु पुंसां तत् द्विगुणं स्त्रियाः ।
दशाहं सर्वबीजानाम् एकाहं लोहवाससाम् ॥
याज्ञवल्क्यः ।
दशैकपञ्चसप्ताहं मासत्र्यहार्धमासिकम् ।
बीजायोवाह्यरत्नस्त्रीदोह्यपुंसां परीक्षणम् ॥
बृहस्पतिः ।
अश्वरूप्यहिरण्यानां धान्यलोहवाससाम् ।
चर्मकाष्ठविकाराणाम् एकाहं स्यात् परीक्षणम् ॥
कात्यायनः ।
क्रीत्वा नानुशयं कुर्यात् वणिक् पण्यविचक्षणः ।
क्षयं वृद्धिं च जानानः पण्यानां यस्य यादृशम् ॥
प्रीक्षेत स्वयं पण्यम् अन्येषां च प्रदर्शयेत् ।
परीक्षितं बहुमतं गृहीत्वा न पुनस् त्यजेत् ॥
याज्ञवल्क्यः ।
क्षयं वृद्धिं च वणिजा पण्यानां च विजानता ।
क्रीत्वा नानुशयः कार्यः कुर्वन् षड्भागदण्डभाक् ॥
नारदः ।
परिभुक्तं तु यद् वासः परिक्लिष्टं मलीमसम् ।
सदोषं अपि विक्रीतं विक्रेतुर् न भवेत् पुनः ॥
अतः परीक्ष्य प्रवृत्तेषु ज्ञातदोषेषु न परावृत्तिः । प्रसङ्गात् वस्त्राणाम् उपभोगवशात् मूल्यस्याल्पत्वं महत्त्वं चाह नारदः ।
मूल्याष्टभागो हीयेत सकृद् धौतस्य वाससः ।
द्विर् द्विपादस् त्रिस् त्रिपादश् चतुर्धौते ऽर्धम् एव च ॥
अर्धक्षयात् तु परतः पादांशापचयः क्रमात् ।
यावत् क्षीणदशं जीर्णं षष्ठस्यानियमः क्षये ॥
द्विस् त्रिर् इत्य् अत्र पादशब्दो ऽर्धपादाभिप्रायः । ततः सकृद् धौतस्य नाशे ऽर्धपादहानिः । द्विर् धौतस्य पादहानिः । त्रिर् धौतस्यार्धपादहानिः । चतुर् धौतस्य मूल्यं पञ्चमे साष्टभागम् अर्धं हीयेत । षष्ठे त्व् इच्छातो नियमो न शास्त्रतः । एवं पटावयवनाशात् पटनाशक्रमेण मूल्यांशहानिः । द्वीपान्तरगतचन्दनकुङ्कुमादिवाणिज्यविषये कात्यायनः ।
द्रव्यं स्वं पञ्चधा कृत्वा त्रिभागो मूल्यम् उच्यते ।
लाभश् चतुर्थो भागः स्यात् पञ्चमो ऽसत्य उच्यते ॥
अस्मिन्न् एव विषये बृहस्पतिः ।
तदर्हद्रव्यपञ्चांशत्र्यंशं न क्रमशो विना ।
त्रिभिः सिद्धिः क्रयो दाप्यः चतुर्थो ऽंशो न पञ्चमः ॥
वचनद्वयम् इदं द्वीपादागतकुङ्कुमादिवाणिज्यविषयम् । अत एव चतुर्थो भागो लाभः पञ्चमो भागो ऽसत्य उच्यते । अत्र व्यासः ।
तत्राप्य् असदृशैर् अन्यैः हीनमूल्यैर् विमिश्रितैः ।
कुर्वन्त्य् औपाधिकं चान्ये पण्यानां परिवर्तनम् ॥
बृहस्पतिः ।
संविभागे विनिमये क्षेत्रयोर् उभयोर् अपि ।
अनुस्मृतिकृता ताभ्यां कार्यसिद्धिर् भविष्यति ॥
मणीभाश्वाश्वतरीणाम् आगमैर् मूल्यकल्पना ।
नृपाज्ञयापणस्थानां गोभूम्योर् उभयेच्छया ॥
कात्यायनः ।
न सामन्तैर् न सङ्ग्रामैस् तस्य मूल्यं नियम्यते ।
इदम् अस्येति यत् क्रेता विक्रेत्रा सह संवदेत् ॥
एतद् एव विक्रेयस्य क्षेत्रमूल्यम् इति । अत्र विशेषम् आह बृहस्पतिः ।
यः कश्चिद् वञ्चकस् तेषां विज्ञातः क्रयविक्रये ।
शपथैः स विशोध्यः स्यात् सर्ववादेष्व् अयं विधिः ॥
क्रयविक्रयपरिवृत्तिस्वरूपं परिवर्तनास्वरूपं च स एवाह ।
आत्मीयस्य विजीतीयं [विजातीयं?] द्रव्यम् आदाय चान्यतः ।
क्रयोत्थस्य परित्यागः साम्ये तु परिवर्तना ॥
व्यासः ।
आत्मीयस्य विजातीयं द्रव्यम् आदाय चान्यतः ।
क्रयो मूल्यस्य सन्त्यागः स्वत्वहेतुः परस्परम् ॥
परिवृत्तिः सजातीयद्रव्ये विनिमयः स्मृतः ।
वैषम्ये विक्रयः प्रोक्तो मिश्रे विनिमयः स्मृतः ॥
स्वत्वहेतुफलजनका एते क्रयविक्रयपरिवर्तनविनिमया इति । तत्र लोके जिहासितं सुवर्णादिमूल्यम् इत्य् उच्यते । उपादित्सितं क्षेत्रगृहादिपण्यम् इत्य् उच्यते । तत्र मूल्यत्यागपूर्वकपण्यस्वीकारः क्रयः । पण्यत्यागपूर्वको मूल्ये स्वत्वजनको मूल्यस्वीकारो विक्रयः । सजातीयत्यागपूर्वकः सजातीयस्य स्वीकारः परिवर्तना । वैषम्ये सति परिवर्तनैवावक्रयशब्देनोच्यते । विजातीयसजातीयमिश्रपरिवर्तनायां विजातीयाधिक्ये ऽवक्रयो भवति, सजातीयाधिक्ये परिवर्तना भवति । सजातीयविजातीययोः साम्ये विनिमयो भवति । पण्यमूल्ययोर् मिथः स्वीकारे विनिमयः कोट्यन्तरम् इत्य् अपरे । अथ क्रयादिसिद्धिम् आह कात्यायनः ।
अर्धाधिके क्रयः सिद्ध्येत् दद्याद् धीनं क्रयी धनम् ।
आ दशाहान् निवर्त्यः स्यात् क्रयो विक्रय एव च ॥
अर्धदाने न्यूनदाने च क्रयविक्रयौ निवर्तेते इति ।
सन्धिश् च परिवृत्तिश् च विभागश् च समो यति ।
आ दशाहान् निवर्याः स्युः वैषम्ये नववत्सरात् ॥
साम्यपक्षे सामान्यप्राप्तदशाहान् निवृत्तिः । नोर्ध्वम् । वैषम्ये सति नववत्सरान् निवृत्तिर् भवति । वृद्धकात्यायनः ।
सन्धिश् च परिवृत्तिश् च विषमा वा त्रिभागशः ।
आज्ञया विरयश् चापि निवर्त्याः परिकीर्तिताः ॥
उक्तालाभक्रयश् चापि दशाब्दं विनिवर्तते ।
जङ्गमेषु द्वादशाब्दम् उक्तालाभः परं स्मृतम् ॥
अधाधिकेन द्रव्येण मिश्रिता परिवर्तना ।
क्रय एव भवेद् ऊना विपरीता समाव् उभौ ॥
तत्र कोट्यन्तरं विद्यात् मृगरूपमनुष्यवत् ।
त्रिप्रकारपरिवर्तनायां न ज्ञात्यादिप्रवेशः, शुद्धक्रयविषयत्वात् ज्ञात्यादिप्रवेशस्य अपेक्षितव्यक्तिसम्पादनायोगाच् च । बृहस्पतिः ।
विक्रयेषु तु सर्वेषु कूपवृक्षादि लेखयेत् ।
जलमार्गादि यत् किञ्चिद् अन्यच् चैव बृहस्पतिः ॥
क्षीराद् अपेतं परिपक्वसस्यं वृक्षं फलं वाप्य् उपभोगयोग्यम् ।
कूपं तडाकं च गृहं समुन्नतं क्रीते ऽपि विक्रेतुर् इदं वदन्ति ॥
एष्व् अलिखितेषु क्रेतुर् न भवन्तीत्य् अर्थः । कात्यायनः ।
अर्धाधिके क्रयः सिद्ध्येद् उक्तालाभे दशाब्दिकः ।
अवक्रयस् त्रिभोगेन सद्य एव ऋणक्रिया ॥
अत्र अवक्रयशब्देन परिवर्तनोच्यते ।
सिद्ध्यते वाचिको ऽप्य् आधिः स्थावरेषु दशाब्दिकः ।
जङ्गमेषु द्वादशाब्दाद् उक्तालाभो ऽपि सिद्ध्यति ॥
अथाज्ञाक्रयः
तत्र याज्ञवल्क्यः (कात्यायनः) ।
पलायिते तु करदे करप्रतिभुवा सह ।
करार्थं करदक्षेत्रं विक्रीणीयुः सभासदः ॥
प्रजापतिः ।
मूल्यस्य पादम् अर्धं वा मूल्यम् आज्ञाक्रये स्मृतम् ।
मूल्यं तद् दत्तम् अखिलं दत्वा स्वं क्षेत्रम् आप्नुयात् ॥
आ त्रिभोगात् ततः क्रेतुः परतो दृढताम् इयात् ।
नारदः ।
विक्रीते त्व् आज्ञया क्षेत्रे क्षेत्रिणो ऽनुशयो यदि ।
दत्वा समस्तं तन् मूल्यं आ त्रिभोगात् समाप्नुयात् ॥
नवसंवत्सराद् ऊर्ध्वं न लभेतेत्य् अर्थः । भारद्वाजः ।
आज्ञाधिस् तत्क्रयश् चैव करो दण्डे विधीयते ।
उभाव् अन्यत्र न स्याताम् इति धर्मविदो विदुः ॥
उक्तालाभक्रयम् आह कत्यायनः ।
प्रतिदाने व्यवस्थाप्य कालं पूर्वं सवृद्धिकम् ।
अस्येदं क्रय्यम् इत्य् उक्त्वा यत् तु निर्दिश्यते पुरा ॥
धनिकस्य तदा तत् स्वम् उक्तालाभे भविष्यति ।
भरद्वाजः ।
किञ्चिच् च द्रव्यम् आदाय काले दास्यामि ते क्वचित् ।
नो चेन् मूल्यम् इदं तस्य केदारस्येति यः क्रयः ॥
स उक्तालाभ इत्य् उक्तः उक्तकाले त्व् अनर्पणात् ।
उक्तालाभात् सङ्गृहीता च भूमिः उक्तालाभात् द्वादशाब्दोपभुक्ता ।
स्वत्वं गच्छेद् आगतेन क्रमेण तुल्यं सद्भिस् तद् भवेत् सम्मतेन ॥
त्रिभोगेनाज्ञया क्रीत उक्तालाभो दशाब्दिकः ।
अवक्रयस् त्रिभागेन सद्यः सिद्ध्यत्य् ऋणक्रयः ॥
अत्र क्षेत्रविषये अनुचितमूल्यम् आह कात्यायनः ।
समवेतैस् तु सामन्तैः अभिज्ञैः पापभीरुभिः ।
क्षेत्रारामगृहादीनां द्विपदां च चतुष्पदाम् ॥
कल्पितं मूल्यम् इत्य् आहुः भागं कृत्वा तद् अष्टधा ।
एकभागातिरिक्तं वा न्यूनं वानुचितं स्मृतम् ॥
समाशते व्यतीते ऽपि सर्वं तद् विनिवर्तते ।
व्यासः ।
क्रयविक्रयणे क्रय्यं यन् मूल्यं धर्मतो ऽर्हति ।
तत् तुर्ये पञ्चमे षष्ठे सप्तमे ऽंशे ऽष्टमे ऽपि वा ॥
हीने यदि विनिवृत्ते क्रयविक्रयणे सति ।
हीनमूल्यं तु तत् सर्वं कृतम् अप्य् अकृतं भवेत् ।\
धर्मद्रोणे पठितं वचनम् ।
अष्टमांशधिकन्यूनान् मूल्यात् सामन्तकल्पितात् ।
तस्यैवानुचितत्वेन क्रयस्यानुशयो द्वयोः ॥
उक्ताद् अल्पतरे हीने क्रयो नैव प्रदुष्यति ।
केनाप्य् अंशेन हीयेत मूल्यतः क्रयविक्रये ॥
कृतम् अप्य् अकृतं प्राहुर् अन्ये धर्मविदो जनाः ।
बृहस्पतिः ।
मूल्यात् पादाधिकं न्यूनं मूल्यस्यानुचितं स्मृतम् ।
क्रयसिद्धिस् तु नैव स्यात् वत्सराणां शतैर् अपि ॥
क्रयो यद्य् अप्रकाशः स्यात् हीने मूल्ये ऽधिके ऽपि वा ।
तस्यैवानुचितत्वं स्यात् दण्ड्यौ तत्कर्मकारिणौ ॥
तथा स्मृत्यन्तरे ।
अष्टमांशाधिकान् न्यूनान् मूल्यात् सामन्तकल्पितात्
क्रयसिद्धिस् तु नैव स्यात् वत्सराणां शतैर् अपि ॥
चतुःसामन्तसान्निध्ये प्राची दिग्बलवत्तरा ।
उदीची च प्रतीची च सर्वाभावे तु दक्षिणा ॥
समानसलिलाः पश्चात् संसक्ताश् च ततः परम् ।
ततो ऽपि बान्धवाः पश्चात् तत्संसक्तास् ततः परम् ॥
न चेत् तद् व्यवधीयेत नदीस्रोतः पथादिभिः ।
सामन्तैस् तु सदा ग्राह्यं व्यवधौ सोदकादिभिः ॥
मार्गाद्यव्यवधानं चेत् सामन्तैस् तदनन्तरैः ।
पूर्वक्रमेण गृह्येत पूर्वोक्तानाम् असम्भवे ॥
भारद्वाजः ।
ज्ञातिसामन्तधनिकाः क्रमाद् भूमिपरिग्रहाः ।
ततः सकुल्याः सर्वेषाम् अभावे त्व् अन्यजातयः ॥
अन्यजातयः बान्धवाः । बृहस्पतिः ।
सोदराश् च सपिण्डाश् च सोदकाश् च सगोत्रिणः ।
सामन्ता धनिका ग्राम्याः सप्तैते भूक्रये मताः ॥
व्यासः ।
भूमेर् दशाहो ऽनुशयः क्रेतुर् विक्रेतुर् एव च ।
द्वादशाहः सपिण्डानाम् अविचाल्यम् अतः परम् ॥
तात्कालिकास् तु सामन्ताः तात्काला धनिकाः स्मृताः ।
तात्कालिकाः सपिण्डाश् च वेदनीयाः क्रये मताः ॥
पञ्चाध्याय्याम् ।
ज्ञातिसामन्तधनिकाः ज्ञाते तात्कालिकाः स्मृताः ।
दशाहाद्यास् तु ते सर्वे क्रेतुर् विक्रेतुर् एव च ॥
ज्ञात्यादिगामी तत् क्षेत्रं विक्रेतुर् मूल्यकार्पणात् ।
अन्यत्र ।
क्रये योग्या निगदिता विक्रये पुरतः स्थिताः ।
नार्हन्ति ते प्रतिक्रोष्टुं सङ्क्रान्तास् तद् अहो ऽन्तरे ॥
ज्ञातिसामन्तधनिका अवगत्यन्तरम् एवापेक्षाम् उपेक्षां वा कुर्युः । नाहरन्तरे । क्रेतुर् विक्रेतुश् च दशाहो ऽनुशयः कालः इति ।
ज्ञात्यादिप्रत्ययेनैव स्थावरक्रय इष्यते ।
अन्यथा चेत् क्रयो न स्यात् दण्डश् चापि तयोर् भवेत् ॥
ज्ञात्यादीनां सन्निधाने इदं वचनम् ।
ज्ञातिसामन्तधनिकाः क्रये ग्रामाद् बहिर्गताः ।
नार्हन्ति ते प्रतिक्रोष्टुं क्रान्तं पक्षत्रये क्रयात् ॥
असन्निधान इदं वचनात् । कात्यायनः ।
स्वग्रामे दशरात्रं स्याद् अन्यग्रामे त्रिपक्षकम् ।
राष्ट्रान्तरे तु षण्मासं भाषाभेदे तु वत्सरम् ॥
प्रजापतिः ।
ज्ञारिसामन्तधनिकान् अनुज्ञाप्य समीपगान् ।
क्रयविक्रयणे कुर्यात् श्रावयित्वा च साक्षिणः ॥
कात्यायनः ।
ज्ञात्यादीन् अननुज्ञाप्य समीपस्थान् अनिन्दितान् (?) ।
क्रयविक्रयधर्मो ऽपि भूमेर् नास्तीति निश्चयः ॥
प्रजापतिः ।
ज्ञात्यादीन् अननुज्ञाप्य समीपस्थान् अनिन्दितान् ।
क्रयविक्रमकर्तारौ तत्समं दण्डम् अर्हतः ॥
समीपस्थान् इत्य् एकग्रामवासिनां ग्रहणम् । बृहस्पतिः ।
प्रष्टव्याः सन्निधिस्थाश् चेत् क्रेत्रा ज्ञात्यादयस् तथा ।
अन्यथा चेत् कृतं कर्म ज्ञात्वेच्छां दर्शयेत् ततः ॥
त्रिपक्षाद् अथ वा मासत्रितयात् तु तद् आप्नुयात् ।
भरद्वाजः ।
अन्यग्रामोतमर्णेभ्यो नेष्यते भूमिविक्रयः ।
स्वग्रामिणां धनाभावे ऋणे तूभयम् इष्यते ॥
अत्र मनुः ।
क्रीत्वा विक्रीय वा किञ्चिद् यस्येहानुशयो भवेत् ।
सो ऽन्तर्दशाहात् तद् द्रव्यं दद्याच् चैवाददीत च ॥
तद् द्रव्यं इति स्वम् एव गृह्यते । दैवराजकृते नाशे तत्सजातीयम् अपि देयम् इति गम्यते । अस्मिन् श्लोके पाठान्तरं वर्णयता भाष्यकारेणायम् अर्थ उक्तः । दीयमानं मूल्यं ग्रहणे योग्यं यदा न गृह्णाति यदि, तदा मध्यस्थस्थापितं कर्तव्यम् । तथा च व्यासः,
परार्थं दित्सितं द्रव्यं तथैवाधिक्रयादिषु ।
मध्यस्थस्थापितं कार्यम् अन्यथा न प्रसिद्ध्यति ॥
आध्यादिष्व् अपि पूर्वोक्तं दशाहम् इति दर्शयति । मनुः ।
यस्मिन् यस्मिन् कृते कार्ये यस्येहानुशयो भवेत् ।
तम् अनेन विधानेन धर्म्ये पथि नियोजयेत् ॥
तथा च स्मृत्यन्तरे ।
दशाहे समतिक्रान्त आधिः सिद्ध्येत् स्थिरीकृतः ।
क्रीतं क्षेत्रादिकं चैव स्वीकारस्य प्रकाशनात् ॥
अत्र विशेषम् आह कात्यायनः ।
ज्ञात्यादिप्रत्ययेनैव स्थावरक्रय इष्यते ।
परिवृत्तौ कृषौ दाने तथासौ नेष्यते बुधैः ॥
भूमेर् दशाहो ऽनुशयः क्रेतुर् विक्रेतुर् एव च ।
द्वादशाहं सपिण्डानाम् अविचाल्यम् अतः परम् ॥
भरद्वाजः ।
पूर्वाह्णे ऽभ्युदिते सूर्ये ग्राममध्ये चतुष्पथे ।
ब्राह्मणान् श्रावयेद् विद्वान् ज्ञातिसामन्तसन्निधौ ॥
मूल्यं यथावद् आदाय क्रये सर्वं तु दर्शयेत् ।
अत्र शुद्धक्रये क्रेतुर् विक्रेतुश् च दशाहो ऽनुशयकालः । उक्तालाभक्रये आज्ञाक्रये च क्रेतुः दशाहो ऽनुशयः कालः । स्वामिनिस् तूक्तालाभे क्रये स्थावरे दशवत्सरम् अनुशयः कालः । जङ्गमे द्वादशवत्सरं अनुशयः कालः । आज्ञाक्रये स्वामिनो नवत्सरम् अनुशयकालः । आज्ञाक्रये उक्तालाभक्रये च ज्ञात्यादीनाम् अनवकाशः नानुप्रवेशः । मूल्यसन्त्यागात् दानस्य विक्रयनिषेधे परिहारार्थत्वात् स्वग्रे (त्वे) ज्ञात्यादिवचनाविरोधाय दानरूपे विक्रये ज्ञात्यादीनाम् अपि अव्याहतो ऽवकाशः । तत्रोक्तालाभे विक्रेतुः तात्कालिकव्यापाराभावे ऽपि पूर्वसङ्कल्पाद् एव स्वत्वनिवृत्तिः परस्वत्वापादनं च उत्तरकालं सिद्ध्यतीति क्रयत्वम् अविरुद्धम् । “अर्धाधिके क्रयः सिद्ध्येत्” इति वचनं न सर्वक्रयविषयम्, किं तु अनुचितमूल्यक्रयविषयं कात्यायनवचनात् ।
मूल्यस्याल्पप्रदाने ऽपि क्रयसिद्धिः कृता भवेत् ।
चक्रवृद्ध्या प्रदातव्यं शिष्टं तत्समयाद् ऋते ॥
एतावता कालेन दास्यामीति समयाद् ऋते ।
याच्यमानम् अदत्तं चेच् चक्रवृद्ध्या प्रवर्धते ॥
समयाकरणे तस्मिन् काले पूर्वदत्तशेषं देयम् । तस्मिन्न् अपि काले,
याच्यमानम् अदत्तं चेच् चक्रवृद्ध्या प्रवर्धते ।
तत्रापि वृद्धिनियमम् आह कात्यायनः ।
निक्षेपं वृद्धिशेषं च क्रयं विक्रयम् एव च ।
याच्यमानम् अदत्तं चेत् वर्धते पञ्चकं शतम् ॥
स्मृत्यन्तरे ।
क्रयद्रव्यं परद्रव्यं प्रसह्यापहृतम् च यत् ।
चक्रवृद्ध्या विवर्धेत यावत् पञ्चगुणं भवेत् ॥
शिष्टमूल्यस्य विंशतिभागो मासि मासि यावत् पञ्चगुणं वर्धत इत्य् अर्थः । तेन स्वल्पद्रव्यप्रदाने ऽपि क्रयसिद्धिर् अस्त्य् एव । तथा च स्मृत्यन्तरम् ।
माषमात्रम् अपि द्रव्यं क्रेतुर् विक्रेतरि स्थितम् ।
व्याप्नोति सकलां भूमिं कायम् अल्पविषं यथा ॥
अर्धदत्तस्यादत्तस्य च अवक्रयत्ववचनात् कथं स्वल्पदाने क्रयसिद्धिः, उच्यते । अपक्रयो ऽपि यदि सङ्कल्पितकाले मूल्यं दीयते । अन्यथा न सिद्ध्यति,
अर्धदत्तम् अदत्तं तु क्रयम् आहुर् अपक्रयम् ।
अपक्रयो निवर्तेर यदि काले न दीयते ॥
इति वचनात् ।
क्षेत्रादिकं यथा भुक्तम् उत्पन्नम् अधिकं ततः ।
मूल्योदयप्रविष्टं चेत् तदाधिं प्राप्नुयात् ऋणी ॥
परिभाष्य यदा क्षेत्रं प्रदद्याद् धनिके ऋणी ।
ननु अर्धदत्तस्यावक्रत्वं च कृतम्,
राजप्रसादाद् अलब्धं च सर्वेषाम् एव तत्समम् ।
याज्ञवल्क्यः ।
समूहकार्यप्रहितो यल् लभेत तद् अर्पयेत् ।
एकादशगुणं दाप्यो यद्य् असौ नार्पयेत् स्वयम् ॥
समूहकार्य आसक्तान् कृतकार्यान् विसर्जयेत् ।
सदानमानसत्कारैः पूजयित्वा महीपतिः ॥
ततो लभेत यत् किञ्चित् सर्वेषाम् एव तत्समम् ।
महीपतिग्रहणम् अमात्यानाम् अप्य् उपलक्षणम् । समूहकार्ये नगरादिकं प्रविश्य तदा कार्यविच्छेदे सति प्रातिस्विकलब्धम् अपि साधारणम् अविभक्तार्जितधनवद् इति केचित् । तद् अयुक्तम् । समूहाविनाशे ऽपि दृष्टकारणभावे ऽपि च लब्धं प्रातिस्विकम् एव ।
त्वयैतच् छान्तलाभे ऽर्थे मोक्तव्यम् इति निश्चितम् ।
प्रविष्टे सोदये द्रव्ये प्रदातव्यं त्वया मम ॥
इति क्रीत्वानुशयः
सीमाविवादः
अथ सीमाविवादनिर्णयः । याज्ञवल्क्यः ।
सीमाविवादे क्षेत्रस्य सामन्ताः स्थविरादयः ।
गोपाः सीमाकृषाणां च सर्वे तद् वनगोचराः ॥
नयेयुर् एते सीमानं स्थलाङ्गारतुषद्रुमैः ।
सेतुवल्मीकनिम्नास्थिचैत्याद्यैर् उपलक्षिताम् ॥
ग्रामनिर्माणसमये प्रकाशाप्रकाशानि सीमाचिह्नानि कुर्यात् । बृहस्पतिः ।
कूपवापीतडागानि चैत्यारामसुरालयाः ।
स्थलनिम्ननदीस्रोतः शरगुल्माश्मराशयः ॥
प्रकाशचिह्नान्य् एतानि सीमायां कारयेत् सदा ।
निहितानि तथान्यानि यानि भूमिर् न भक्षयेत् ॥
मनुः ।
सीमावृक्षांश् च कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् ।
शाल्मलीसालतालांश् च क्षीरिणश् चैव पादपान् ॥
अश्मनो ऽस्थीनि गोवालान् तुषभस्मकपालिकाः ।
करीषम् इष्टकाङ्गारशर्करावालुकांस् तथा ॥
यानि चैवम्प्रकाराणि कालाद् भूमिर् न भक्षयेत् ।
तानि सन्धिषु सीमायाम् अप्रकाशानि कारयेत् ॥
बृहस्पतिः ।
अनश्वराणि द्रव्याणि प्रकृत्या यानि तानि तु ।
प्रक्षिप्य कुम्भेष्व् एतानि सीमान्तेषु निधापयेत् ॥
ततः पोगण्डबालानां प्रयत्नेन प्रदर्शयेत् ।
वार्धके तु शुशूनां ते दर्शयेयुस् तथैव च ॥
एवं परम्पराज्ञाने सीमाभ्रान्तिर् न जायते ॥
मनुः ।
यदि संशय एव स्यात् लिङ्गानाम् अपि दर्शने ।
साक्षिप्रत्यय एव स्यात् विवादे सीम्नि निश्चयः ॥
कात्यायनः ।
समन्तभावात् सामन्तः कुर्यात् क्षेत्रविनिर्णयम् ।
ग्रामसीमादिषु तथा तद्वन् नगरदेशयोः ॥
क्षेत्ररूपतटाकानां केदारारामयोर् अपि ।
गृहप्रसादावसथनृपदेवगृहेषु च ॥
स्वार्थसिद्ध्यै प्रदुष्टेषु सामन्तेष्व् अर्थगौरवम् ।
तत्संसक्तैस् तु कर्तव्यम् उद्धारो नात्र संशयः ॥
संसक्तसक्तदुष्टेषु तत्संसक्ताः प्रकीर्तिताः ।
कर्तव्या न प्रदुष्टास् तु राज्ञा धर्मं विजानता ॥
त्यक्त्वा दुष्टांस् तु सामन्तान् अन्यैर् मौलादिभिः सह ।
सम्मन्त्र्य कारयेत् सीमाम् एवं धर्मविदो विदुः ॥
नारदः ।
ध्वजिनी मत्सिनी चैव नैधानी भयवर्जिता ।
राजशासननीता च सीमा पञ्चविधा स्मृता ॥
वृक्षादीनां प्रांशुत्वेन ध्वजतुल्यत्वात् ध्वजिनी । मत्सिनी सलिलवती, मत्याधारजललक्षणत्वान् मत्स्यशब्दस्य । नैधानी निधानतुषाङ्गारमती, तेषां निखातत्वेन निधानतुल्यत्वात् । भयवर्जिता अर्थिप्रत्यर्थिपरस्परसम्प्रतिपत्तिनिमित्ता । राजशासननीता ज्ञातृचिह्नाभावे राजेच्छा निर्मिता । मनुः ।
सामन्तानाम् अभावे तु मौलानां सीमसाक्षिणाम् ।
इमान् अप्य् अनुयुञ्जीत पुरुषान् वनगोचरान् ॥
व्याधाञ् छाकुनिकान् गोपान् कैवर्तान् मूलखानकान् ।
व्यालग्राहान् उञ्छवृत्तीन् अन्यांश् च वनगोचरान् ॥
अत्र बृहस्पतिः ।
शपथैः शापिताः स्वैः स्वैर् ब्रूयुः सीमाविनिश्चयम् ।
दर्शयेयुर् निधानानि तत् प्रमाणम् इति स्थितिः ॥
नारदः ।
नैकः समुन्नयेत् सीमां नरः प्रत्ययवान् अपि ।
गुरुत्वाद् अस्य कार्यस्य क्रियैषा बहुषु स्थिता ॥
याज्ञवल्क्यः ।
रक्तस्रग्वसनाः सीमां नययुः क्षितिधारिणः ।
रक्तमाल्याम्बरधरः मृदम् आदाय मूर्धनि ॥
सत्यव्रतः सोपवासः सीमां सन्दर्शयेन् नरः ।
नारदः ।
अथ चेद् अनृतं ब्रूयुः सामन्तास् तु विनिर्णये ।
सर्वे पृथक् पृथग् दण्ड्या राज्ञा मध्यमसाहसम् ॥
त्रिपक्षाद् दैवराजकानर्थदर्शनेन साक्षिणाम् अनृतोक्तिर् ज्ञायते,
सीमावादे तथा कोशे पादस्पर्शे तथैव च ।
त्रिक्षपक्षसप्ताहात् देवराजकम् इष्यते ॥
इति वचनात् । कात्यायनः ।
ग्रामो ग्रामस्य सामन्तः क्षेत्रं क्षेत्रस्य कीर्तितम् ।
गृहं गृहस्य निर्दिष्टं समन्तात् परिरभ्य च ॥
ये तत्र पूर्वसामन्ताः पश्चाद् देशान्तरं गताः ।
तन्मूलत्वात् तु ते मौला ऋषिभिः सम्प्रकीर्तिताः ॥
चिह्नानां साक्षिणां चाभावे राज्ञा सीमा कार्येत्य् आह याज्ञवल्क्यः ।
अभावे ज्ञातृचिह्नानां राजा सीम्नः प्रवर्तकः ।
अथ नदीप्रवर्तकम् । बृहस्पतिः ।
अन्यग्रामात् समाहृत्य दत्तान्यस्य यदा मही ।
महानद्याथ वा राज्ञा कथं तत्र विचारणा ॥
नद्युत्सृष्टा राजदत्ता यस्य तस्यैव सा मही ।
अन्यथा न भवेल् लाभो नराणां राजदैविकः ॥
क्षयोदयौ जीवनं तु राजदैववशान् नृणाम् ।
तस्मात् सर्वेषु कार्येषु तत्कृतं न विचालयेत् ॥
एकत्र कूपपातं तु भूमेर् अन्यत्र संस्थितम् ।
नदीतीरे प्रकुरुते तस्य तां न विचालयेत् ॥
क्षेत्रं ससस्यम् उल्लङ्घ्य भूमिः छन्ना यदा भवेत् ।
नदीस्रोतःप्रवाहेण भूमिस्वामी लभेत ताम् ॥
कात्यायनः ।
वृष्टिपातं प्रणालं च न कुर्यात् परवेश्मसु ।
तथा,
विण्मूत्रोदकवप्रं च वह्निश्वभ्रनिवेशनम् ।
अरत्निद्वयम् उत्सृज्य परकुड्यान् निवेशयेत् ॥ इति ।
तथा,
या राज्ञा क्रोधलोभेन छलान् न्यायेन वा हृता ।
प्रदत्तान्यस्य तुष्टेन न सा सिद्धिम् अवाप्नुयात् ॥
प्रमाणरहितां भूमिं भुञ्जतो यस्य या हृता ।
गुणाधिकाय वा दत्ता तस्य तां न विचालयेत् ॥
बृहस्पतिः ।
निवेशकालाद् आरभ्य गृहवार्यापणादिकम् ।
येन वाप्य् अथ वा भुक्तं तस्य तां न विचालयेत् ॥
नारदः ।
सेतुस् तु द्विविधो दृष्टः खातो बन्ध्यस् तथैव च ।
तोयप्रवर्तने खातो बन्ध्यः स्याद् विनिवर्तने ॥
परक्षेत्रस्य मध्ये तु सेतुर् न प्रतिषिध्यते ।
महागुणो ऽल्पबाधश् चेत् वृद्धिर् इष्टा क्षये सति ॥
अल्पक्षयम् अनादृत्य वृद्धिर् एवेष्टा । याज्ञवल्क्यः ।
न निषेध्यो ऽल्पबाधश् च सेतुः कल्याणकारकः ।
परभूमिं हरन् कूपः स्वपक्षेत्रो बहूदकः ॥
स्वामिने यो ऽनिवेद्यैव क्षेत्रे सेतुं प्रकल्पयेत् ।
उत्पन्ने स्वामिनो भोगः तदभावे महीपतेः ॥
नारदः ।
पूर्वप्रवृत्तम् उत्पन्नम् अपृष्ट्वा स्वामिनं तु यः ।
सेतुं प्रवर्तयेत् कश्चित् न स तत्फलभाग् भवेत् ॥
कात्यायनः ।
अस्वाम्यनुमतेनैव संस्कारं कुरुते तु यः ।
गृहोद्यानतटाकानां संस्कर्ता लभते न तु ॥
खिलकर्षणे नारद आह ।
अशक्तप्रेतनष्टेषु क्षेत्रिकेष्व् अनिवारितः ।
क्षेत्रं चेद् विकृषेत् कश्चिद् अश्नुवीत स तत्फलम् ॥
विकृष्यमाणे क्षेत्रे च क्षेत्रिकः पुनर् आव्रजेत् ।
खिलोपचारं तत् सर्वं दत्वा क्षेत्रम् अवाप्नुयात् ॥
तदष्टभागापचयात् यावत् कृप्तगताः समाः ।
समाप्ते त्व् अष्टमे वर्षे भुक्तक्षेत्रं लभेत सः ॥
कात्यायनः ।
अशक्तितो न दद्याद् चेत् खिलार्थं यः कृतं व्ययम् ।
तदष्टभागहीनं तु कर्षकः फलम् आप्नुयात् ॥
वर्षाण्य् अष्टौ स भोक्ता स्यात् परतः स्वामिने तु तत् ।
नारदः ।
संवत्सरेणार्धखिलं खिलं स्याद् वत्सरैस् त्रिभिः ।
पञ्चवर्षावसानं तु क्षेत्रं स्याद् अटवीसमम् ॥
याज्ञवल्क्यः ।
फालाहतम् अपि क्षेत्रं न कुर्याद् यो न कारयेत् ।
स प्रदाप्यः कृष्टफलं क्षेत्रम् अन्येन कारयेत् ॥
कात्यायनः ।
क्षेत्रं गृहीत्वा यः कश्चित् न कुर्यान् न च कारयेत् ।
स्वामिने स शदं दाप्यो राज्ञे दण्डं च तत्समम् ॥
शदं क्षेत्रफलम् ।
चिरावसन्ने दशमं कृष्यमाणे तथाष्टमम् ।
सुसंस्कृते तु षष्ठं परिकल्प्या यथास्थितिः ॥
भारद्वाजः ।
भस्मोदकादिसंस्कारो यस्मिन् क्षेत्रे विधीयते ।
क्षेत्राद् उद्धृतसस्यं तु प्रविष्टः स्वं कृषेर् धनी ॥
प्रवेशकालात् प्राक् कृष्टं क्षेत्रधारणकेन यः ।
फलं विना तद् उद्भूतं धनी तत् क्षेत्रम् आप्नुयात् ॥
अत्र विष्णुः- “ग्रामद्वयमर्यादाभेदे द्विशतम् । क्षेत्रमर्यादाभेदे अष्टशतम् । सीमातिक्रमे अष्टसहस्रम् । क्षेत्रात् क्षेत्रोदकहरणे तदुपरोधे वा अष्टशतं दण्ड्यः” । शङ्खः : “सीमाभेत्तारम् उत्तमसाहसं दण्डयित्वा पुनः सीमां कारयेत्” । कात्यायनः ।
सीमामध्ये तु जातानां वृक्षाणां क्षेत्रयोर् द्वयोः ।
फलं पुष्पं च सामान्यं क्षेत्रस्वामिषु दर्शयेत् ॥
अन्यक्षेत्रे तु जातानां शाखाः क्षेत्रान्तरे यदि ।
तासां स्वामी स एव स्यात् यस्य क्षेत्रे तु ताः स्थिताः ॥
प्रजापतिः ।
अन्यक्षेत्रे तु जातानाम् अग्रशाखाः परत्र चेत् ।
स एव तासां स्वामी स्यात् यत् क्षेत्रोपरि ताः स्थिताः ॥
बीजिने तु तृतीयांशं दद्याद् रक्षाकृते शदम् ।
द्वाव् अंशौ क्षेत्रिणः स्यातां स्वामिभागः प्रशस्यते ॥
यदि तेनोपरोधः स्यात् मूलेनारुह्य शाखिनाम् ।
छेत्तव्या क्षेत्रिणां शाखा फलाप्य् एनं स्वसीमनि ॥
यत्र स्वल्पोपरोधः स्यात् शाखयान्यप्ररोहिणाम् ।
कदलीक्रमुकादीनां तत्र स्वाम्य् एव भोगभाक् ॥
परक्षेत्रे समुत्पन्नो ऽप्य् अन्यक्षेत्रे फलं ददत् ।
शाखा चेद् या तु तत्रस्था फलं वा विभजेत् ततः ॥
सीमाविवादपदं समाप्तम्
स्त्रीपुंस्योगः
अथ स्त्रीपुंसयोगाख्यं विवादपदम् उच्यते । तत्र नारदः ।
विवाहादिविधिः स्त्रीणां यत्र पुंसां प्रकीर्त्यते ।
स्त्रीपुंसयोग इत्य् एतद् विवादपदम् उच्यते ॥
शङ्खः- “अनुज्ञातो गुरुणा मातापितोर् अनुमतो दारान् आहरेत्” । नारदः ।
ब्राह्मणक्षत्रियविशां शूद्राणां च परिग्रहे ।
सजातिः श्रेयसी भार्या सजातिश् च पतिः स्त्रियाः ॥
आ सप्तमात् पञ्चमाच् च बन्धुभ्यः पितृमातृतः ।
अविवाह्याः सगोत्राश् च समानप्रवरास् तथा ॥
याज्ञवल्क्यः ।
पञ्चमात् सप्तमाद् ऊर्ध्वं मातृतः पितृतस् तथा ।
दशपूरुषविख्यातात् श्रोत्रियाणां महाकुलात् ॥
वसिष्ठः- “पञ्चमीं मातृबन्धुभ्यः, सप्तमीं पितृबन्धुभ्यः” इति । कण्वः ।
तृतीयात् क्षत्रियो मातुः पञ्चमात् पितृतः पराम् ।
एतत्कण्ववचनबलात् मातृतस् तृतीयां पितृतः पञ्चमीम् इति पैठीनसिवचनं क्षत्रियादिविषयं द्रष्टव्यम् । सुमन्तुः- “कन्या आ पञ्चमाद् आ सप्तमाच् चाविवाह्या भवन्ति । पितृपत्न्यः सर्वा मातरः, तद्भ्रातरो मातुलाः । तत्सुता मातुलसुताः । तत्स्वसारश् च मातृषवसारः । तत्सुता मातृष्वसृसुताः । तद्दुहितरश् च भगिन्यः । तदपत्यानि भागिनेयानि । अतो मिथ एषाम् अविवाहः । अन्यथा सङ्करकारिणस् ते सर्वे पतिताः । तेषां अध्यापयितुर् अप्य् एवम् एव” । अत्र काश्यपः ।
सप्त पौनर्भवाः कन्याः वर्जनीयाः कुलाधमाः ।
वाचा दत्ता मनोदत्ता कृतकौतुकमङ्गला ।
अग्निं परिगता या च या च पाणिगृहीतिका ।
उदकस्पर्शिता या च पुनर्भूप्रसवा च या ॥
इत्य् एताः काश्यपेनोक्ताः दहन्ति कुलम् अग्निवत् ।
प्ररोहेद् अग्निना दग्धः पादपः सुचिराद् अपि ॥
न च पौनर्भवादग्धं कुलं तस्य प्ररोहति ।
बौधायनः- “सगोत्रां चेद् अमत्योपयच्छेत् मातृवद् एनां बिभृयात् । प्रजाता चेत् कृच्छ्राब्दपादं चरित्वा ऽयन् म आत्मनः। ऽपुनर् अग्निश् चक्षुर् अदात्ऽ इति द्वाभ्याम्, ऽयद् देवा देवहेडनम्ऽ इति कूष्माण्डैर् आज्यं जुहुयात्” । नारदः ।
स्त्रीपुंसयोश् च सम्बन्धात् वरणं प्राग् विधीयते ।
वरणाद् ग्रहणं पाणेः संस्कारो ऽथ द्विलक्षणः ॥
तयोर् अनियतं प्रोक्तं वरणं दोषदर्शनात् ।
पाणिग्रहणमन्त्राभ्यां नियतं दारलक्षणम् ॥
याज्ञवल्क्यः ।
यत्नात् परीक्षितः पुंस्त्वे युवा धीमान् जनप्रियः ।
तथा च नारदः ।
परीक्ष्य पुरुषं पुंस्त्वे निजैर् एवाङ्गलक्षणैः ।
पुमांश् चेद् अविकल्पेन स कन्यां लब्धुम् अर्हति ॥
पुंस्त्वलक्षणं स एवाह ।
सुबद्धजत्रुजान्वस्थिसुबद्धांसशिरोधरम् ।
स्थूलगाढस् तनूरुत्वगविलग्नगतिस्वरः ॥
बीजं विष्ठा च प्लवते ह्रादिमूत्रं च फेनिलम् ।
पुमान् स्याल् लक्षणैर् एतैः विपरीतस् तु षण्डकः ॥ इति ।
अविलग्नगतिस्वरः अविच्छिन्नाविलम्बगतिस्वरः । शब्दवत् फेनित्वमूत्रः । षण्डलक्षणम् अपि स एवाह ।
चतुर्दशविधः शास्त्रे षण्डो दृष्टो मनीषिभिः ।
चिकित्स्यश् चाचिकित्स्यश् च तेषाम् उक्तो विधिः क्रमात् ॥
दत्तात्रेयप्रभृतिभिः वैद्यशास्त्रे यश् चिकित्स्यो ऽचिकित्स्य इत्य् उक्तः । पुराणे ।
निसर्गषण्डो वन्ध्यश् च पक्षषण्डस् तथैव च ।
अभिशापात् गुरो रोगाद् देवक्रोधात् तथैव च ॥
ईर्ष्याषण्डश् च सेव्यश् च वातरेता मुखे भगः ।
आक्षिप्तमोघबीजौ च शालीनो ऽन्यापतिस् तथा ॥
षण्डाश् चतुर्दशैते स्युः वर्जनीयाः प्रयत्नतः ।
पक्षषण्डः पक्षं गमनासमर्थः । गुरुशापाद् उपहतपुंस्त्वः । तथा रोगाद् अपि तथा देवतापराधाद् अपि । ईर्ष्याषण्डः परपुरुषेण सेव्यमानां स्त्रियं दृष्ट्वा यस्य पुंसः पुंस्त्वं जायते, स ईर्ष्याषण्डः वेदितव्यः । सेव्यः पुरुषेण सेव्यमानस्योपजायते पुंस्त्वं न स्त्रिया । वातरेताः वातेन व्याधिना रेतःस्रंसनम् । यदा मुखे भग इति मुखग्रहणं प्रदर्शनार्थं भगाद् अन्यत्र भगकार्यं भवति, न भगमुखेन क्रियमाणे पुंस्त्वम् उपजायते, स मुखे भग इति केचित् । आक्षिप्तबीजः रतिर् भवति संयोगात् प्रतिकालं शुक्लं तु नास्ति । मोघबीजः यस्य शुक्लं भवति नापत्यम् । शालीनः स्त्रियं दृष्ट्वा लज्जया न प्रहृष्यति । अन्यापतिः अन्यस्यां भवति पुंस्त्वम्, न स्वभार्यायाम् । एवंविधाः षण्डविशेषा वर्ज्याः । षण्डानां परीक्षाकालम् अप्य् आह नार्दः ।
तत्राद्याव् अप्रतिकारौ पक्षाख्यो मासम् आचरेत् ।
अनुक्रमात् त्रयस्यास्य कालः संवत्सरः स्मृतः ॥
आदौ निषिद्धपक्षे षण्डे तु मासम् आचरेत् । ततो ज्ञात्वा पक्षाद् ऊर्ध्वम् अपुंस्त्वे त्याज्यः । अनुक्रमाद् अनन्तरस्य त्रयस्य गुरुरोगदेवतानिमित्तषण्डस्य संवत्सरम् उदीक्ष्योर्ध्वं त्यागः । नात्र दण्डः ।
ईर्ष्याषण्डादयो ये ऽन्ये चत्वारः समुदाहृताः ।
सन्त्यक्तव्याः पतितवत् क्षतयोन्या अपि स्त्रिया ॥
किम् उताक्षतयोन्या वरणपाणिग्रहणमातायाः ।
आक्षिप्ते मोघबीजे च पत्याव् अप्रतिकर्मणि ।
पतिर् अन्यः स्मृतो नार्या वत्सरं सम्प्रतीक्ष्य तु ॥
शालीनस्यापि घृष्टस्त्रीदर्शनात् पतितो ध्वजः ।
तं हीनवेषमत्तस्त्रीबालादिभिर् उपक्रमेत् ॥
शालीनस्यापि प्रगल्भस्त्रीसन्निधौ नोत्तिष्ठति ध्वजः, उत्थितो विभज्यते, तं हीनवेषाभिर् अनुज्वलाभिः परिभवेत् न लज्जा भवति, तथा मत्ताभिर् बालाभिर् अपि तथैवान्याभिर् उपक्रमः । तथावगतशालीनभावः स्वभार्यायां प्रवर्तिष्यते । अन्यापतिः –
अन्यस्या यो मनुष्यः स्याद् अमुनुष्यः स्वयोषिति ।
लभेत सान्यं भर्तारम् एतत् कार्यं प्रजापतेः ॥
अपत्यार्थे स्त्रियः सृष्टाः स्त्री क्षेत्रं बीजवान् पुमान् ।
क्षेत्रं बीजवेते देयं नाबीजी क्षेत्रम् अर्हति ॥
पिता दद्यात् स्वयं कन्यां माता वानुमते पितुः ।
मातामहो मातुलश् च सकुल्या बान्धवास् तथा ॥
माताभावे तु सर्वेषां प्रकृतौ यदि वर्तते ।
तस्याम् अप्रकृतिस्थायां दद्युः कन्याः सजातयः ॥
दोषान् आह ।
दीर्घकुत्सितरोगार्ता व्यङ्गाः संसृष्टमैथुनाः ।
धृष्टान्यगतभावाश् च कन्यादोषाः प्रकीर्तिताः ॥ इति ।
दीर्घरोगाः मेहार्शशूलादियुक्ताः । आर्ताः राजग्राहादिदारिद्र्यादियुक्ताः । व्यङ्गाः विकलाङ्गाः । संसृष्टमैथुनाः भुक्तपूर्वाः । धृष्टा निर्लज्जाः कार्याकार्ये प्रसह्य प्रवर्तन्ते । अन्यगतभावाः अन्यकामाः । यथा कन्यादोषा एते प्रदर्शनार्थाः तथान्ये ऽपि प्रसिद्धा द्रष्टव्याः । वरदोषान् आह ।
उन्मत्तपतितक्लीबदुर्भगत्यक्तबान्धवाः ।
कन्यादोषौ च यौ पूर्वाव् एष दोषगणो वरे ॥
इति ।
पञ्चोन्मादाः समाख्याताः वातपित्तकफोद्भवाः ।
चतुर्थो धननाशेन सर्वे वा तेन पञ्चमः ॥
इत्य् उन्मादैर् युक्ताः, पतिताः, महापातकादिकृतः । क्लीबाः, उपहतपुंस्त्वाः । दुर्भगाः सर्वस्य द्वेष्याः । बान्धवैस् त्यक्ताः, पूर्वौ च कन्यादोषौ च यौ दीर्घरोगाः कुत्सितरोगाश् च, एष दोषगणो वरविषयः ।
अष्टौ विवाहा वर्णानां संस्काराख्याः प्रकीर्तिताः ।
ब्राह्मस् तु प्रथमस् तेषां प्राजापत्यस् तथैव च ॥
आर्षं चैवाथ दैवं च गान्धर्मो ऽअथासुरस् तथा ।
राक्षसो ऽनन्तरस् तस्मात् पैशाचश् चाष्टमो ऽधमः ॥
सत्कृत्याहूय कन्यां तु ब्राह्मो दद्यात् स्वलङ्कृताम् ।
सह धर्मं चरेत्य् उक्त्वा प्राजापत्यो विधीयते ॥
वस्त्रं गोमिथुनं दत्वा विवाहस् त्व् आर्ष उच्यते ।
अन्तर्वेद्यां तु दैवः स्याद् ऋत्विजे कर्म कुर्वते ॥
इच्छन्तीम् इच्छतः प्राहुः गान्धर्वो नाम पञ्चमः ।
विवाहस् त्व् आसुरो ज्ञेयः शुल्कसव्यवहारतः ॥
प्रसह्य कारणाद् उक्तो विवाहो राक्षसस् तथा ।
सुप्तप्रमत्तोपगमात् पैशाचश् चाष्टमो ऽधमः ॥
एषां धर्मास् तु चत्वारो ब्राह्माद्याः समुदाहृताः ।
साधारणः स्यात् गान्धर्वः त्रयो ऽधर्मास् ततः परे ॥
नादुष्टां दूषयेत् कन्यां नादुष्टं दूषयेद् वरम् ।
दोषे त्व् असति नाशः स्यात् अन्योन्यं त्यजतोस् तयोः ॥
दत्वा न्यायेन यः कन्यां वराय न ददाति ताम् ।
अदुष्टश् चेत् वरो राज्ञा स दण्ड्यस् तत्र चोरवत् ॥
यस् तु दोषवतीं कन्याम् अनाख्याय प्रयच्छति ।
तस्य कुर्यान् नृपो दण्डं पूर्वसाहसचोदितम् ॥
अकन्येति तु यः कन्यां ब्रूयाद् दोषेण मानवः ।
स शतं प्राप्नुयाद् दण्डं तस्या दोषम् अदर्शयन् ॥
प्रतिगृह्य तु यः कन्यां नरो देशान्तरं व्रजेत् ।
विनेयः सो ऽप्य् अकामो ऽपि कन्यां ताम् एव चोद्वहेत् ॥
अत्र शूद्रानिषेधं यम आह ।
न ब्रह्महा ब्रह्महा स्यात् ब्रह्महा वृषलीपतिः ।
यस् तत्र जायते गर्भः स तेन ब्रह्महा भवेत् ॥
अत्र वृषली चण्डाली । तथा च मनुः ।
वृषलीफेनपीतस्य निश्वासोपहतस्य च ।
तस्यां चैव प्रसूतस्य निष्कृतिर् न विधीयते ॥
नारदः ।
प्रतिगृह्य तु यः कन्यां वरो देशान्तरं व्रजेत् ।
त्रीन् ऋतून् समतिक्रम्य कन्यान्यं वरयेद् वरम् ॥
मनुः ।
त्रीणि वर्षाण्य् उपासीत कुमार्य् ऋतुमती सती ।
ऊर्ध्वं तु कालाद् एतस्माद् विन्देत सदृशं पतिम् ॥
अलङ्कारं नाददीत पित्र्यं कन्या स्वयंवरा ।
मातृकं भ्रातृदत्तं वा स्तेयं स्याद् यदि तं हरेत् ॥
पित्रे न दद्याच् छुल्कं तु कन्याम् ऋतुमतीं हरन् ।
स हि स्वाम्याद् अपक्रामेद् ऋतूनां प्रतिरोधनात् ॥
नारदः ।
कन्यायां प्राप्तशुल्कायां श्रेयांश् चेद् वर आव्रजेत् ।
धर्मार्थकामसंयुक्तं वाच्यं तत्रानृतं भवेत् ॥
पूर्वदत्ताम् अपि श्रेयसे दातुं हरेद् इति । तथा च याज्ञवल्क्यः ।
दत्ताम् अपि हरेत् पूर्वां श्रेयांश् चेद् वर आव्रजेत् ।
दत्वा कन्यां हरन् दण्ड्यो व्ययं दद्याच् च सोदयम् ॥
मृतायां दत्तम् आदद्यात् परिशोध्यो भयव्ययम् ।
विलक्षणपुरुषाभावे हरन् दण्ड्यः । अत्र वसिष्ठः ।
अद्भिर् वाचा च दत्तायाः म्रियेतोर्ध्वं वरो यदि ।
न च मन्त्रोपनीता स्यात् कुमारी पितुर् एव सा ॥
मनुः ।
पाणिग्रहणिका मन्त्राः नियतं दारलक्षणम् ।
तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ॥
वसिष्ठः ।
बलाच् चेत् प्रहृता कन्या मन्त्रैर् यदि न संस्कृता ।
अन्यस्मै विधिवद् देया यथा कन्या तथैव सा ॥
यमः ।
नोदकेन न वाचा च कन्यायाः परिरिष्यते ।
पाणिग्रहणसंस्कारात् पतित्वं सप्तमे पदे ॥
स्मृत्यन्तरे ।
सा चेद् अक्षतयोनिः स्यात् गतप्रत्यागतापि वा ।
पौनर्भवेन भर्त्रा सा पुनः संस्कारम् अर्हति ॥
वसिष्ठः ।
कन्यायां प्राप्तशुल्कायां म्रियेत यदि शुल्कदः ।
देवराय प्रदातव्या यदि कन्यानुमन्यते ॥
कन्याविसंवादे निवृत्तिर् एव । शातातपः ।
उद्वाहिता तु या कन्या सम्प्राप्ता न च मैथुनम् ।
भर्तारं पुनर् अभ्येति यथा कन्या तथैव सा ॥
कात्यायनः ।
स च यद्य् अन्यजातीयः पतितः क्लीब एव वा ।
विकर्मस्थः सगोत्रो वा दीर्घतीव्रामयो ऽपि वा ॥
क्लीबो ऽन्यो यदि वा भर्ता विसृष्टः पुंस्त्वकारणैः ।
ऊढापि देया सान्यस्मै सर्वाभरणभूषणा ॥
प्रदाय शुल्कं गच्छेद् यः कन्यायाः स्त्रीधनं तथा ।
धार्या सा वर्षम् एकं तु देयान्यस्मै विधानतः ॥
अथ प्रवृत्तिर् आगच्छेत् प्रतीक्षेत समात्रयम् ।
अत ऊर्ध्वं प्रदातव्या कन्यान्यस्मै यथेच्छया ॥
कन्यां चेद् दर्शयित्वान्याम् अन्या वोढ्रे प्रदीयते ।
स उभे एकशुल्केन वहेद् इत्य् अब्रवीन् मनुः ॥
गूहयित्वात्मनो दोषान् विन्दते कन्यकां यदि ।
वरस्य दत्तनाशः स्यात् कन्या चापि निवर्तते ॥
नारदः ।
यदि दोषवतीं कन्याम् अनार्याय (अनाख्याय) प्रयच्छति ।
राज्ञा दमं स दाप्यः स्यात् पूर्वसाहसचोदितम् ॥
विष्णुः- “कार्षापणं दण्डद्रव्यानुवृत्तैः दोषं अनाख्याय कन्यां प्रयच्छेत् । तां च बिभृयात्” इति । मनुः ।
उत्कृष्टायानुरूपाय वराय सदृशाय च ।
अप्राप्ताम् अपि तां तस्मै कन्यां दद्याद् यथाविधि ॥
अस्यार्थवादं स एवाह ।
कामम् आ मरणात् तिष्ठेत् गृहे कन्यर्तुमत्य् अपि ।
न चैवैनां प्रयच्छेत् तु गुणहीनाय कर्हिचित् ॥ इति ।
नारदः ।
कन्या नर्तुम् उपेक्षेत बान्धवेभ्यो निवेदयेत् ।
ते चन् न दद्युस् तां भर्त्रे ते स्युर् भ्रूणहभिः समाः ॥
यावन्तश् चर्तवस् तस्याः समतीयुः पतिं विना ।
तावत्यो भ्रूणहत्याः स्युः तस्य यो न ददाति ताम् ॥
मनुः ।
काले ऽदाता पिता वाच्यः वाच्यश् चानुपयन् पतिः ।
मृते भर्तरि पुत्रस् तु याप्यो मातुर् अरक्षिता ॥
याप्यो दण्ड्यः ।
अप्रयच्छन् पिता काले पतिश् चानुपयन् ऋतौ ।
पुत्रश् चाभुक्तदो मातुः गर्ह्यो दण्ड्यश् च धर्मतः ॥
स्त्रीणां दूषणान्य् आह [मनुः] ।
पानं दुर्जनसंसर्गः पत्या च विरहो ऽटनम् ।
स्वप्नो ऽन्यगेहवासश् च नारी सन्दूषणानि षट् ॥
नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः ।
सुरूपं वा विरूपं वा पुमान् इत्य् एव भुञ्जते ॥
निरिन्द्रिया ह्य् अमन्त्राश् च स्त्रियो ऽनृतम् इति स्थितिः । इति ।
स्त्रीभिः प्रयोजनम् आह [मनुः] ।
प्रजनार्थं महाभागाः प्रजाही गृहदीप्तयः ।
स्त्रियः श्रियश् च गेहेषु न विशेषो ऽस्ति कश्चन ॥
उत्पादनम् अपत्यस्य जातस्य परिपालनम् ।
प्रत्यहं लोकयात्रा तु प्रत्यक्षं स्त्रीनिबन्धनम् ॥
अपत्यं धर्मकार्याणि शुश्रूषा रतिर् उत्तमा ।
दाराधीनस् तथा स्वर्गः पितॄणाम् आत्मनश् च हि ॥
बृहस्पतिः ।
भर्त्रा पत्नी समभ्यर्च्या वस्त्रालङ्कारशोभनैः ।
उत्सवे च पितृभ्रातृश्वशुराद्यैश् च बन्धुभिः ॥
यत्र स्त्रियो ऽभिपूज्यन्ते रमन्ते तत्र देवताः ।
सम्पदश् च प्रजाः शुद्धाः क्रिया च सफला भवेत् ॥
पतिं या नातिचरति मनोवाक्कायसंयता ।
सा भर्तृलोकान् आप्नोति सद्भिः साध्वीति चोच्यते ॥
दक्षः ।
प्रहृष्टमानसा नित्या स्थानमानविचक्षणा ।
भर्तुः प्रियकारी या तु सा भार्या इतरान्तरा ॥
पूर्वोत्थानपरा दक्षा जघन्यासनशायिनी ।
अवाग्दुष्टानुकूला स्त्री भवेद् वै पुण्यकर्मणा ॥ इति ।
नारदः ।
मृते भर्तर्य् अपुत्रायाः पतिपक्षः प्रभुः स्त्रियाः ।
विनियोगात्मरक्षासु भरणे च स ईश्वरः ॥
परिक्षीणे पतिकुले निर्मनुष्ये निराश्रये ।
तत्सपिण्डेषु चासत्सु पितृपक्षः प्रभुः स्त्रियाः ॥
पक्षद्वयावसाने तु राजा तस्याः प्रभुः स्मृतः ।
स तस्या भरणं कुर्यात् निगृह्णीयात् पथश्च्युताम् ॥
व्यासः ।
पतिः सुतः पिता भ्राता पितृव्यो मातुलस् तथा ।
मातामहस् तथा स्त्रीणां सप्तैते प्रभवः स्मृताः ॥
यथेष्टं प्रभवः प्रोक्ताः स्त्रीणां बन्धुकुले सति ।
स्त्रियो मूर्खजडोन्मत्तबालवृद्धादिषु स्मृताः ॥
स्त्रीणां चिआरोहणम् आह । अत्र अङ्गिराः ।
मृते भर्तरि या नारी समारोहेद् धुताशनम् ।
सारुन्धतीसमाचारा स्वर्गलोके महीयते ॥
तिस्रः कोटयो ऽर्धकोटी च यानि रोमाणि मानवे ।
तावन्त्य् अब्दसहस्राणि स्वर्गलोके महीयते ॥
व्यालग्राही यथा व्यालं बलाद् उद्धरते बिलात् ।
तद्वद् भर्तारम् आदाय तेनैव सह गच्छति ॥
मातृकं पैतृकं चैव यत्र कन्या प्रदीयते ।
कुलत्रयं सा पुनाति भर्तारं यानुगच्छति ॥
तत्र सा भर्तृपरमा मुदा परमयानिविता ।
पत्या सङ्क्रीडते सार्धं यावन्तीन्द्राश् चतुर्दश ॥
ब्रह्महा वा कृतघ्नो वा मित्रघ्नो वापि यो नरः ।
तम् वाइ पुनाति सा नारी इत्य् आङ्गिरसभाषितम् ॥
साध्वीनाम् एव नारीणाम् अग्निप्रपतनाद् ऋते ।
नान्यो धर्मो हि विज्ञेयो मृते भर्तरि कर्हिचित् ॥
यावन् नाग्नौ दहेद् अङ्गं मृते पत्यौ पतिव्रता ।
तावन् न मुच्यते सा स्त्री स्त्रीशरीरात् कथञ्चन ॥
सद्वृत्तभावार्पितभर्तृकाणां स्त्रीणां वियोगे क्षणकातराणाम् ।
तासां पत्याव् अस्तमिते हि नैकात् नाग्निप्रवेशाद् अपरो ऽस्ति मार्गः ॥
शङ्ख-लिखित-हारीत-उशनस-बृहस्पतिभिः व्यासेन च साध्वीनां स्त्रीणां अनुमरणम् उक्तम् । अत्र विष्णुः- “मृते भर्तरि ब्रह्मचर्यं तदन्वारोहणं वेति” । यत् त्व् इदं वचनम्,
या वै ब्राह्मणजातीया मृतं पतिम् अनुव्रता ।
सा स्वर्गम् आत्मघातेन नात्मानं घातयेद् इति ॥
तत् पृथक्चिताप्रवेशविषयम्,
पृथक्चितिं समारुह्य न विप्रा गन्तुम् अर्हति ।
इति वचनात् । तेन अबालापत्यानाम् अगर्भिणीनाम् आचण्डालं साधारणो ऽयं धर्मः । परित्याज्या आह मनुः ।
व्याधिक्तां विप्रदुष्टां वा छद्मना चोपपादिताम् ।
विधिवत् प्रतिगृह्यापि त्यजेत् कन्यां विगर्हिताम् ॥
यस् तु दोषवतीं कन्याम् अनाख्याय प्रयच्छति ।
तस्य तद् वितथं कार्यं कन्यादानं दुरात्मनः ॥
प्रवसतः कर्तव्यम् आह ।
वृत्तिं विधाय भार्यायाः प्रवसेत् कार्यवान् नरः ।
अवृत्तिकर्हिता [-कर्षिता?] हि स्त्री सन्दुष्येद् धृतिमत्य् अपि ॥
देवदत्तां पतिर् भार्यां विन्दते नेच्छयात्मनः ।
तां साध्वीं बिभृयान् नित्यं देवानां प्रियम् आचरन् ॥
प्रजनार्थं स्त्रियः सृष्टाः सन्तानार्थं च मानवाः ।
तस्मात् साधारणो धर्मः श्रुतौ पत्या सहोदितः ॥
आपस्तम्बः- “जायापत्योर् न विभागो विद्यते । पाणिग्रहणाद् धि सहत्वं कर्मसु । तथा पुण्यफलेषु द्रव्यपरिग्रहेषु च । तथा धर्मप्रजासम्पन्ने दारे नान्यां कुर्वीत, अन्यतराभावे कार्या प्राग् अग्न्याधेयाद् आधाने हि सती कर्मभिः सम्बध्यते” इति ।
अथ प्रोषितभर्तृकाधर्मान् आह मनुः ।
विधाय प्रोषिते वृत्तिं जीवेन् नियमम् आस्थिता ।
प्रोषिते त्व् अविधायैव जीवेच् छिल्पैर् अगर्हितैः ॥
याज्ञवल्क्यः ।
क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम् ।
हासं परगृहे यानं त्यजेत् प्रोषितभर्तृका ॥
बृहस्पतिः ।
प्रसाधनं नृत्तगीतसमाजोत्सवदर्शनम् ।
मांसमध्याभियोगं च न कुर्यात् प्रोषिते प्रभौ ॥
हारीतः ।
न प्रोषिते त्व् अलङ्कुर्यान् न वेणी ॥ ॥ मुञ्चेत् ॥ इति ।
प्रोषितस्य उक्तः प्रतीक्षणकालः ।
प्रोषितो धर्महेतोस् तु प्रतीक्ष्यो ऽष्टौ नरः समाः ।
विद्यार्थं षड् यशोऽर्थं वा कामार्थं त्रींस् तु वत्सरान् ॥
कात्यायनः ।
पित्रा भर्त्रा न योज्या स्त्री षड्वर्षं प्रोषिते प्रभौ ।
नष्टे तृतीयं ॥ ॥ प्रव्रजिते ऽपि वा ॥
गौतमः- “नष्टे भर्तरि षड्वार्षिकं क्षपणम् । श्रूयमाणे ऽभिगमनम् । प्रव्रजिते तु निवृत्तिः प्रसङ्गात् । द्वादशवर्षाणि ब्राह्मणस्य विद्यासम्बन्धे” ।
भार्या काङ्क्षेत शूद्रस्य वर्षान् अष्टागतं पतिम् ।
वैश्यराजन्यविप्राणां भार्या द्वित्रिचतुर्गुणम् ॥
यमः ।
भर्ता न भजते यां सा प्रतीक्षेत समा दश ।
द्वादशाष्टौ तथा विप्रा तथैव मनुर् अब्रवीत् ॥
क्षत्रियाक्रम्य माः (?) स्वष्टौ षट्समा वैश्यकन्यकाः ।
न शूद्रायाः स्मृतः कालो न च धर्मव्यतिक्रिया ॥
नारदः ।
विशेषतो ऽप्रसूतायां संवत्सरपरा स्थितिः ।
अप्रवृत्तौ स्मृतः काल एष प्रोषितयोषिताम् ॥
कात्यायनः ।
पत्यौ नष्टे प्रयुक्तायां तस्याम् अन्यत्र बन्धुभिः ।
तस्माच् चैव प्रसूतायां कथं तत्रागते भवेत् ॥
पतिर् लभेत भार्यां तां सापत्याम् अपि धर्मतः ।
क्षेत्रिणस् त्व् एव तान् पुत्रान् मनुर् आह न बीजिनः ॥
प्रव्रज्यावसितो यत्र पुनर् दारान् समाहरेत् ।
नासौ स्वामी भवेत् तत्र दासो ह्य् एष विगर्हितः ॥ इति ।
भर्तुर् अप्य् आपदि भार्यापरित्यागम् आह मनुः ।
संवत्सरम् उदीक्षेत द्विषन्तीं योषितं पतिः ।
ऊर्ध्वं संवत्सराद् एनां दायं हृत्वा न संवसेत् ॥
दायं भूषणादिकम् । सङ्घाः सहवासः जङ्गमो वा । अधिवेत्तव्या आह मनुः ।
वन्ध्याष्टमे ऽधिवेत्तव्या दशमे तु मृतप्रजा ।
एकादशे स्त्रीजननी सद्यस् त्व् अप्रियवादिनी ॥
मद्यपा त्व् अन्यवृत्ता च प्रतिकूला च या भवेत् ।
व्याधिता चाधिवेत्तव्या हिंस्रार्थवचनी सदा ॥
शङ्खलिखितौ : “अश्लीलां पुरुषद्वेषिणीम् अननुकूलां चाधिविन्देत्” । देवलः ।
आकाङ्क्षेताष्टवर्षानि भर्ता निस्पृहवान् स्त्रियम् ।
दशैव मृतपुत्रां तु द्वादश स्त्रीप्रसूतिकाम् ॥
ततो विन्देत विधिना पुत्रार्थं धर्मतः स्त्रियम् ।
पुत्रलाभात् परं लोके नास्ति निस्पृहवादिनाम् ॥
या रोहिणी स्यात् तु (व)निता सम्पन्ना चैव शीलतः ।
सानुज्ञाप्याधिवेत्तव्या नावमान्या च कर्हिचित् ॥
एकाम् उत्क्रम्य कामार्थम् अन्यां लब्धुं य इच्छति ।
समर्थस् तोषयित्वार्थैः पूर्वोढाम् अपरां वहेत् ॥
एका शूद्रस्य वैश्यस्य द्वे तिस्रः क्षत्रियस्य तु ।
चतस्रो ब्राह्मणस्य स्युः भात्या राज्ञो यथेष्टतः ॥ इति ।
अधिविन्नस्त्रियम् आह याज्ञवल्क्यः ।
अधिविन्नस्त्रियै दद्याद् आधिवेदनिकं समम् ।
न दत्तं स्त्रीधनं यस्यै दत्ते त्व् अर्थं प्रकल्पयेत् ॥ इति ।
आनुकूल्यादिगुणयुक्तां त्यजतो दण्डम् आह नारदः ।
अनुकूलाम् अवाग्दुष्टां दक्षां साध्वीं प्रजावतीम् ।
त्यजन् भार्याम् अवस्थाप्यो राज्ञा दण्डेन भूयसा ॥
कुष्ठिनीं पतितां वन्ध्याम् उन्मत्तां विगतार्तवाम् ।
अनिष्टां प्रभवे त्यक्तुं तीर्थान् न त्व् एव कर्मणा ॥ इति ।
यमः ।
ऋतुस्नाता तु या नारी मर्तारं नैव गच्छति ।
तां ग्राममध्ये विख्याप्य भ्रूणघ्नीं तु विवासयेत् ॥
भर्तुः प्रतिनिवेशे तु या वृथा यापयेद् ऋतुम् ।
तां तु विख्याप्य बन्धूनां भ्रूणघ्नीं तु विवासयेत् ॥
बोधायनः ।
अधिविन्ना तु या नारी निर्गच्छेद् दूषिता गृहात् ।
सा सद्यः सन्निरोद्धव्या त्याज्या वा कुलसन्निधौ ॥ इति ।
बह्वीषु भार्यासु धर्मकार्ययोग्यां विष्णुर् आह- “सवर्णासु बह्वीषु भार्यासु विद्यमानासु ज्येष्ठयैव सह धर्मकार्यं कुर्यात् । मिश्रासु च कनिष्ठया अपि समानवर्णया । समानवर्णाभावे त्व् अनन्तरया । न त्व् एव द्विजः शूद्रया” इति ।
दुहितृदाने शुल्कग्रहणं निषधति मनुः ।
आददीत न शूद्रो ऽपि शुल्कं दुहितरं ददत् ।
शुल्कं हि गृह्णन् कुरुते छन्नं दुहितृविक्रयम् ॥
क्रीता द्रव्येण या कन्या न सा पत्नी विधीयते ।
न सा दैवे न सा पित्र्ये दासीं तां काश्यपो ऽब्रवीत् ॥
यमः ।
क्रयक्रीता तु या कन्या न सा पत्नी विधीयते ।
तथा दैवे च पित्र्ये च दासी सा दारसञ्ज्ञिता ॥ इति ।
स्त्रीसङ्ग्रहणम्
अथ स्त्रीसङ्ग्रहणम् आह बृहस्पतिः ।
पापमूलं सङ्ग्रहणं त्रिप्रकारं निबोधत ।
बलोपधिकृते द्वे तु तृतीयम् अनुरागजम् ॥
तत् पुनस् त्रिविधं प्रोक्तं प्रथमं मध्यमोत्तमम् ।
अनिच्छन्त्या यत् क्रियते मत्तोन्मत्तप्रमत्तया ॥
प्रलपन्त्यापि रहसि बलात्कारकृतं तु तत् ।
छद्मना गृहम् आनीय दत्वा च मदकारणम् ॥
संयोगः क्रियते यस्याः तद् उपाधिकृतं विदुः ।
अन्योन्यचक्षूरागेण दूतीसम्प्रेषणेन वा ॥
कृतं रूपार्थलोभेन ज्ञेयं तदनुरागजम् ।
अपाङ्गप्रेषणं हास्यं दूतीसम्प्रेषणं तथा ॥
स्पर्शो भूषणवस्त्राणां प्रथमः सङ्ग्रहः स्मृतः ।
प्रेषणं गन्धमाल्यानां फलमद्यान्नवाससाम् ॥
सम्भाषणं च रहसि मध्यमं सङ्ग्रहं विदुः ।
एकशय्यासनं क्रीडा चुम्बनालिङ्गनं तथा ॥
एतत् सङ्ग्रहणं प्रोक्तम् उत्तमं शास्त्रवेदिभिः ।
नारदः ।
नदीनां सङ्गमे तीर्थे ऽप्य् आरामेषु वनेषु च ।
स्त्रीपुंसौ यत् समेयातां तच् च सङ्ग्रहणं स्मृतम् ॥
मनुः ।
उपकारक्रिया केलिः स्पर्शो भूषणवाससाम् ।
सह खट्वासनं चैव सर्वं सङ्ग्रहणं स्मृतम् ॥
दन्तपादनखानां च दर्शनं गर्भधारणम् ।
परवस्त्रस्य धरणम् अलङ्कारायुधस्य च ॥
एभिश् चिह्नैः सदा ज्ञेया व्यभिचाररताः स्त्रियः ।
अत्र दण्डम् आह आपस्तम्बः- “अबुद्धिपूर्वम् अलङ्कृतो युवा परदारम् अनुप्रविशन् कुमारीं वा वाचा बाध्यः, बुद्धिपूर्वं तु दुष्टभावो दण्ड्यः” । अत्र मनुः ।
भिक्षुका बन्दिनश् चैव दीक्षिताः कारवस् तथा ।
सम्भाषणं सह स्त्रीभिः कुर्युर् अप्रतिवारिताः ॥
न सम्भाषां सह स्त्रीभिः प्रतिषिद्धः समाचरेत् ।
निषिद्धो भाषमाणस् तु सुवर्णं दण्डम् अर्हति ॥
याज्ञवल्क्यः ।
स्त्रीनिषेधे शतं दद्यात् द्विशतं तु दमं पुमान् ।
प्रतिषेधे तयोर् दण्डो यथा सङ्ग्रहणे तथा ॥
मनुः ।
परदाराभिमर्शेषु प्रवृत्तान् नॄन् महीपतिः ।
उद्वेजनकरैर् दण्डैः चिह्नयित्वा प्रवासयेत् ॥
अब्राह्मणः सङ्ग्रहणे प्राणान्तं दण्डम् अर्हति ।
चतुर्णाम् अपि वर्णानां दारा रक्ष्यतमाः स्मृताः ॥
याज्ञवल्क्यः ।
सजाताव् उत्तमो दण्ड आनुलोम्ये तु मध्यमः ।
प्रातिलोम्ये वधः पुंसां स्त्रीणां नासादिकर्तनम् ॥
नारदः ।
माता मातृष्वसा श्वश्रूः मातुलानी पितृष्वसा ।
पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥
दुहिताचार्यभार्या च सगोत्रा शरणागता ।
राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥
आसाम् अन्यतमां गत्वा गुरुतल्पग उच्यते ।
शिश्नस्योत्कृन्तनात् तत्र नान्यो दण्डो विधीयते ॥
याज्ञवल्क्यः ।
मातुः सपत्नीं भगिनीम् आचार्यतनयां तथा ।
आचार्यपत्नीं स्वसुतां गच्छंस् तु गुरुतल्पगः ॥
छित्त्वा लिङ्गं वधस् तस्य सकामायाः स्त्रियस् तथा ।
व्यासः ।
इच्छन्त्याम् आगतायां तु गच्छतो ऽर्धदमो मतः ।
मनुः ।
सहस्रं ब्राह्मणो दण्ड्यो विप्रां गुप्तां बलाद् व्रजन् ।
शतानि पञ्च दण्ड्यः स्याद् इच्छन्त्या सह सङ्गतः ॥
मौण्ड्यं प्राणान्तिको दण्डो ब्राह्मणस्य विधीयते ।
इतरेषां तु वर्णानां दण्डः प्राणान्तिको भवेत् ॥
अगुप्ते वैश्यराजन्ये शूद्रां च ब्राह्मणो व्रजन् ।
शतानि पञ्च दण्ड्यः स्यात् सहस्रं त्व् अन्त्यजस्त्रियम् ॥
संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः ।
व्रात्यया सह संवासे चण्डाल्या तावद् एव तु ॥
याज्ञवल्क्यः ।
अन्त्याभिगमने ऽङ्कित्वा कुबन्धेन प्रवासयेत् ।
शूद्रस् तथान्त्य एव स्याद् अन्त्यस्यार्यागमे वधः ॥
स्त्रीणां दण्डं मनुर् आह ।
वृषलं सेवते या तु ब्राह्मणी मदमोहिता ।
तां श्वभिः खादयेद् राजा संस्थाने वध्यखादिनाम् ॥
वैश्यं वा क्षत्रियं वापि ब्राह्मणी सेवते तु या ।
शिरसो मुण्डनं तस्याः प्रयाणं गर्दभेन तु ॥
बृहस्पतिः ।
गृहम् आगत्य या नारी प्रलोभ्य स्पर्शनादिना ।
कामयेत् तत्र सा दण्ड्या नरस्यार्धदमः स्मृतः ॥
छिन्ननासोष्ठकर्णी तु परिश्राम्याप्सु मज्जयेत् ।
खादयेद् वा सारमेयैः संस्थाने बहुसंस्थिते ॥
अनिच्छन्ती तु या भुक्ता गुप्तां तां वासयेद् गृहे ।
मलिनाङ्गीम् अधःशय्यां पिण्डमात्रोपजीविनीम् ॥
कारयेन् निष्कृतिं कृच्छ्रं पराकं वा समागताम् ।
हीनवर्णोपभुक्ता सा त्याज्या वध्याथ वा भवेत् ॥
याज्ञवल्क्यः ।
सकामास्व् अनुलोमासु न दोषस् त्व् अन्यथा दमः ।
अन्यथा प्रातिलोम्येन गमने वध इष्यते ॥ इति ।
कन्यादूषणे दण्डम् आह मनुः ।
अभिषह्य तु यः कन्यां कुर्याद् दर्पेण मानवः ।
छेत्तव्ये अङ्गुली तस्य दण्डं चार्हति षट्छतम् ॥
सकामां दूषयंस् तुल्यो नाङ्गुलिच्छेदम् आप्नुयात् ।
द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये ॥
(नारदः) ।
सकामायां तु कन्यायां सवर्णे नास्त्य् अतिक्रमः ।
किं त्व् अलङ्कृत्य सत्कृत्य स एवैनां समुद्वहेत् ॥
सकृद्गमने कृते कृतप्रायश्चित्तः कृतप्रायश्चित्ताम् अलङ्कृतां मन्त्रवद् उद्वहेत् । व्यासः ।
बहुभिर् भुक्तपूर्वां तु गछेद् यस् तां नराधमः ।
तस्य वेश्यावद् इच्छन्ति दण्डं न परदारवत् ॥
यं कामार्ता स्वैरिणी या स्वयम् एव प्रकामयेत् ।
राज्ञा देशाद् विमोक्तव्या विख्याप्य जनसन्निधौ ॥
याज्ञवल्क्यः ।
अवरुद्धासु दासीषु भुजिष्यासु तथैव च ।
गम्यास्व् अपि पुमान् दाप्यः पञ्चाशत्पणिकं दमम् ॥
प्रसह्य वेश्यागमने दण्डो दशपणः स्मृतः ।
बहूनां यद्य् अकामासौ चतुर्विंशतिकं पृथक् ॥
अयोनौ गच्छतो योषां पुरुषं वापि मेहतः ।
चतुर्विंशतिको दण्डः तथा प्रव्रजितागमे ॥
नारदः ।
पशुयोनाव् अतिक्रामन् विनेयः सदशं शतम् ।
मध्यमं साहसं गोषु तद् एवान्तावसायिषु ॥
यद् अपीदं शूद्रावर्धकीगमने सचेलस्नानं कृत्वा गायत्र्या अष्टसहस्रं जुहुयाद् इति, तत् कामतो ऽभ्यासविषयम् प्रायश्चित्ताभिमुखस्येति तत्र दण्डाभावः । अत्र मनुः ।
पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः ।
मध्यमः पञ्च विज्ञेयः सहस्रं त्व् एव तूत्तमः ॥
शङ्खलिखितौ- “चतुर्विंशतिर् एकनवतिः प्रथमः साहसः स्मृतः । द्विशतं पञ्चशतं चेति मध्यमः । षट्छतं सहस्रं चेत्य् उत्तमः” । याज्ञवल्क्यः ।
साशीतिः पणसाहस्रो दण्ड उत्तमसाहसः ।
तदर्धं मध्यमः प्रोक्तः तदर्धम् अधमः स्मृतः ॥
सर्वत्र पापगौरवलाघवापेक्षया सङ्ख्याविशेषा द्रष्टव्याः । स्त्रीरक्षणे मनुः ।
न कश्चिद् योषितः शक्तः प्रसह्य परिरक्षितुम् ।
अर्थस्य सङ्ग्रहे चैनां व्यये चैनां नियोजयेत् ॥
शौचे सत्ये ऽन्नपक्त्यां च पारिणाह्यस्य रक्षणे ।
पारिणाह्यम् आसनशयनोपयानादि । स्त्रीरकाम् आह दक्षः ।
जलूकावत् स्त्रियः सर्वाः भूषणाछादनाशनैः ।
सुवृता विहृता नित्यं पुरुषं ह्य् आकृषन्ति तु ॥
जलूका रक्तम् आदत्ते केवलं सा तपस्विनी ।
इतरा तु धनं चित्तं मांसं वीर्यं बलं सुखम् ॥
साशङ्का बालभावे तु यौवने विषयोन्मुखी ।
तृणवन् मन्यते नारी वृद्धभावे स्वकं पतिम् ॥
स्वकाम्ये वर्तमाना सा स्नेहान् न च निवारिता ।
अपथ्या तु भवेत् पश्चात् यथा व्याधिर् उपेक्षिता ॥
यादृशं भजते हि स्त्री सुतं सूते तथाविधम् ।
अतः प्रजाविशुद्ध्यर्थं स्त्रियो रक्ष्याः प्रयत्नतः ॥
मनुः ।
सूक्ष्मेभ्यो ऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः ।
द्वयोर् हि कुलयोः शोकम् आवहेयुर् अरक्षिताः ॥
इदं हि सर्ववर्णानां पश्यन्तो धर्मम् उत्तमम् ।
यतन्ते रक्षितुं भार्यां भर्तारो दुर्बला अपि ॥
स्वां प्रसूतिं चरित्रं च कुलम् आत्मानम् एव च ।
स्वं च धर्मं प्रयत्नेन भार्यां रक्षण् हि रक्षति ॥
अन्योन्यस्याव्यभिचारो भवेद् आमरणान्तिकः ।
एष धर्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः ॥
**इति श्रीमद्वरदराजीये व्यवहारनिर्णये **
सम्भूयसमुत्थानादिविवादपदकाण्डं समाप्तम्