०९ अस्वामि-विक्रय-काण्डम्

अथ अस्वामिविक्रयः । नारदः ।

निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वापहृत्य वा ।

विक्रीयते ऽसमक्षं यत् स ज्ञेयो ऽस्वामिविक्रयः ॥

मनुः ।

अस्वामिना कृतो यस् तु क्रयो विक्रय एव वा ।

अकृतः स तु विज्ञेयो व्यवहारे यथा स्थितिः ॥

याज्ञवल्क्यः ।

विक्रेतुर् दर्शनाच् छुद्धिः स्वामी द्रव्यं नृपो दमम् ।

क्रेता मूल्यम् अवाप्नोति तस्माद् यस् तस्य विक्रयी ॥

कात्यायनः ।

अस्वामिविक्रयं दानम् आधिं च विनिवर्तयेत् ।

मनुः ।

विक्रीणीते परस्य स्वं यो ऽस्वामी स्वाम्यसम्मतः ।

न तं नयेत साक्ष्यं तु स्तेनम् अस्तेनमानिनम् ॥

द्रव्यम् अस्वामिविक्रीतं प्राप्य स्वामी तद् आप्नुयात् ।

प्रकाशक्रयतः शुद्धिः क्रेतुः स्तेयं रहःक्रयात् ॥

याज्ञवल्क्यः ।

स्वं लभेतान्यविक्रीतं क्रेतुः दोषे प्रकाशिते ।

हीनद्रोहे हीनमूल्ये वेलाहीने च तस्करः ॥

स्मृत्यन्तरे ।

प्रकाशं वा क्रयं कुर्यान् मूल्यं वापि समर्पयेत् ।

मूल्यानयनकालश् च देयस् तत्रार्थसङ्ख्यया ॥

कात्यायनः ।

असमाहार्यमूलस् तु क्रयम् एव विशोधयेत् ।

विशोधिते क्रये राज्ञा वक्तव्यः स न किञ्चन ॥

प्रकाशं च क्रयं कुर्यात् साधुभिः मन्त्रिभिः स्वकैः ।

न तत्रान्या क्रिया प्रोक्ता दैविकी न च मानुषी ॥

बृहस्पतिः ।

अन्तर्गृहे बहिर् ग्रामाद् उपांशु शतयोजनात् ।

हीनमूल्यं भयक्रीतं विज्ञेयो ऽस्वामिविक्रयः ॥

बृहस्पतिः ।

अविज्ञाततया क्रीतं विक्रेता यत वा मृतः ।

स्वामी तदर्धं मूल्यं तु प्रगृह्णीत स्वकं धनम् ॥

मरीचिः ।

अविज्ञातविशेषत्वात् यत्र मूल्यं न लभ्यते ।

हानिस् तत्र समा कल्प्या क्रेतृनाष्टिकयोर् द्वयोः ॥

स्मृत्यन्तरे ।

अनुपस्थापयन् मूल्यं क्रयं वाप्य् अनुशोधयन् ।

यथाभियोगं धनिने धनं दाप्यो दमं च सः ॥

याज्ञवल्क्यः ।

हृतं प्रणष्टं यो द्रव्यं परहस्ताद् अवाप्नुयात् ।

अनिवेद्य नृपे दण्ड्यः स तु षण्णवितिं पणान् ॥

मनुः ।

अपहार्यो भवेच् चैष सान्वयः षट्छतं धनम् ।

निरन्वयो नापहारप्राप्तः स्याच् चोरकिल्बिषम् ॥

अनेन विधिना शस्यः कुर्वन्न् अस्वामिविक्रयम् ।

अज्ञानाज् ज्ञानपूर्वं तु चोरवद् दण्डम् अर्हति ॥

नारदः ।

द्रव्यम् अस्वामिविक्रीतं प्राप्य स्वामी तद् आप्नुयात् ।

अस्वाम्यनुमताद् दासाद् असतश् च जनाद् रहः ॥

हीनमूल्यम् अवेलायां क्रीणंस् तद्दोषभाग् भवेत् ।

बृहस्पतिः ।

विक्रीयोर्वीं (?) तु यः क्रेतुः भुक्तिं योग्यां न साधयेत् ।

स तस्मै तद् धनं दद्याद् अन्यथा चोरदण्डभाक् ॥

कात्यायनः ।

दत्तक्रीताभिधानां तु विरोधे निष्क्रये भवेत् ।

क्षेत्रं तत्सदृशं दद्याद् अशक्तः तुष्टिम् आवहेत् ॥

शङ्खः ।

अनात्मीयस्य विक्रेता गृहक्षेत्रादिकस्य तु ।

स तस्मै तद् धनं दद्यात् मूल्यं वा क्रेतुर् इच्छया ॥

कामकारे तत्समं दण्डं तत्समं वा क्षेत्रादिकं दद्यात् । अकामकारे न, तत्कालव्यवह्रियमाणमूल्यं वा तत्सदृशं वा दद्यात्, न दण्डम् । कृष्णीये तु क्रयपरिवर्तनयोर् अयं विशेषः – क्रये मूल्यं तत्सदृशं क्षेत्रं वा दद्यात् । परिवर्तनायां तु स्वं गृह्णीयाद् इत्य् उक्तम् ।

अस्वामिविक्रयकाण्डं समाप्तम्