०७ ऋणादान-काण्डम्

अथाष्टादशपदेषु प्रथमप्राप्तम् ऋणादानम् उच्यते । अत्र नारदः ।

ऋणं देयम् अदेयं च येन यत्र यथा च यत् ।

दानग्रहणधर्मश् च ऋणादानम् इति स्मृतम् ॥

ईदृशं ऋणं देयम्, ईदृशम् ऋणं अदेयम्, ईदृशम् ऋणम् अनेनाधिकारिणा देयम्, अस्मिन् समये देयम्, अनेन प्रकारेण देयम् — इत्य् अधर्मर्णे पञ्चविधम् । उत्तमर्णे दानविधिर् आदानविधिश् चेति द्विविधम् इति सप्तविधम् । तत्रर्णप्रदानपूर्वकत्वाद् इतरेषां प्रथमं तत्प्रदानप्रकारं याज्ञवल्क्य आह ।

अशीतिभागो वृद्धिः स्यात् मासि मासि सबन्धके ।

वर्णक्रमाच् छतं द्वित्रिचतुःपञ्चकम् अन्यथा ॥

विश्वासार्थम् अधमर्णेन उत्तमर्णे यद् आधीयते तद् आधिः अत्र बन्धक इत्य् उच्यते । तस्मिन् सबन्धके प्रयोगे प्रयुक्तस्य प्रतिमासम् अशीतिभागो वृद्धिर् धर्म्या भवति । तेन पणविंशत्याः पणपादो वृद्धिर् भवति । तथा च मनुः ।

वसिष्ठवचनप्रोक्तां वृद्धिं वार्धुषिके शृणु ।

पञ्च माषास् तु विंशत्या वृद्धिर् धर्मो न हीयते ॥

तथा च गौतमः- “कुसीदवृद्धिर् धर्म्या विंशतिः पञ्चमाषिकी मासम्” । दशमानस्य पणत्वे पणविंशतितमो भागो माषो ऽर्धतण्डुलो भवति । विंशतिमानस्य पणत्वे तण्डुलपरिमितो भवति । षोडशमानपणत्वे पणस्य तदनुगुणं कल्प्यम् । एवं सबन्धके प्रयोगे अशीतिभागो वृद्धिर् धर्म्या भवति । अन्यथा अबन्धके प्रयोगे वर्णानां ब्राह्मणादीनां चतुर्णां क्रमेण द्वित्रिचतुःपञ्चकं शतं धर्म्यं भवति । ब्राह्मणस्य ब्राह्मने ऽधमर्णे द्विकं शतम् । क्षत्रिये ऽधमर्णे त्रिकं शतम् । वैश्ये ऽधर्मर्णे चतुष्कं शतम् । शूद्रे ऽधर्मर्णे पञ्चकं शतं धर्म्यं मासि मासि भवति । द्वित्रिचतुःपञ्चास्मिन् शते वृद्धिर् दीयत इति द्वित्रिचतुःपञ्चकं शतम् । “तद् अस्मिन् वृद्ध्यायलाभशुल्कोपदादीयते” (पाण् ५.१.४७) इति कन् । क्षत्रियस्य क्षत्रिये ऽधर्मर्णे द्विकं शतम्, वैश्ये ऽधमर्णे त्रिकं शतम्, शूद्रे ऽधर्मर्णे चतुष्कं शतम्, तथा वैश्यस्य वैश्ये ऽधमर्णे द्विकं शतम्, शूद्रे ऽधमर्णे त्रिकं शतम्, शूद्रस्य शूद्रे ऽधमर्णे द्विकं शतम् इति । तेन सजातीये सर्वत्र द्विकं शतं धर्म्यम्, अनन्तरे त्रिकं शतम्, एकान्तरे चतुष्कं शतम्, द्व्यन्तरे पञ्चकं शतं धर्मयं भवति । तथा च मनुः ।

द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं स्मृतम् ।

मासस्य वृद्धिं गृह्णीयात् वर्णानाम् आनुपूर्वशः ॥

अत्र वृद्धिश् चतुर्विधेत्य् आह नारदः ।

कायिका कालिका चैव कारिता च तथा स्मृता ।

चक्रवृद्धिश् च शास्त्रेषु तस्य वृद्धिश् चतुर्विधा ॥

अत्र विशेषम् आह बृहस्पतिः ।

वृद्धिश् चतुर्विधा प्रोक्ता पञ्चधान्यैः प्रकीर्तिता ।

षड्विधान्यैः समाख्याता तत्त्वतस् तां निबोधत ॥

नारदः ।

कायिका कालिका चैव चक्रवृद्धिर् अथापरा ।

कारिता च शिखावृद्धिः भोगलाभस् तथैव च ॥

कायिका कर्मसंयुक्ता मासग्राह्या तु कालिका ।

वृद्धेर् वृद्धिश् चक्रवृद्धिः कारिता ऋणिना कृता ॥

प्रत्यहं गृह्यते या तु शिखावृद्धिस् तु सा स्मृता ।

शिखेव वर्धते नित्यं शिरश्छेदान् निवर्तते ॥

ग्रहात् स्तोमः शदः क्षेत्रात् भोगलाभः प्रकीर्तितः ।

तत्र व्यासः ।

दोह्यवाह्यक्रियायुक्ता कायिका समुदाहृता ।

कायाविरोधिनी शश्वत् पणपादादि कायिका ॥

इत्य् अशीतिभागवृद्धिः कायिकेति । नारदः ।

प्रतिमासं स्रवन्ती या वृद्धिः सा कालिका स्मृता ।

वृद्धिः सा कारिता नाम धनिकेन स्वयङ्कृता ॥

वृद्धेर् अपि पुनर् वृद्धिः चक्रवृद्धिर् उदाहृता ।

प्रत्यहं गृह्यमाणा धान्यविषया वृद्धिः शिखावृद्धिः । व्यासः ।

गृहोपभोगभोग्यस् तु स्तोम इत्य् अभिधीयते ।

क्षेत्रोत्पन्नं धान्यादिकं शदः । कात्यायनः ।

ग्राह्यं स्यात् द्विगुणं द्रव्यं प्रयुक्तं धनिना सदा ।

लभेत चेन् न द्विगुणं पुरा वृद्धिं प्रकल्पयेत् ॥ इति ।

तत्र विशेषम् आह याज्ञवल्क्यः ।

कान्तारगास् तु दशकं सामुद्रा विंशकं शतम् ।

दद्युर् वा स्वकां वृद्धिं सर्वे सर्वासु जातिषु ॥

कान्तारम् अरण्यं गच्छन्तीति कान्तारगाः । समुद्रं गच्छन्तीति समुद्रगाः । तेभ्यो दशकं सतं विंशकं शतं च धर्म्यं भवति । मासि मासीत्य् अत्राप्य् अनुषज्यते । कारितायां वृद्धौ सर्वे ब्राह्मणादयः कार्यवे(व?)शेन स्वकृतां स्वाभ्युपगतां वृद्धिं अबन्धके सबन्धके वा सर्वासु जातिषु दद्युर् इति ।

अथ द्रव्यविशेषाद् वृद्धेर् अवधिविशेष उच्यते । तत्र कात्यायनः ।

मणिमुक्ताप्रवालानां सुवर्णरजतस्य च ।

त्रिषु त्रिद्विगुणा वृद्धिः फलस्यैधोदकस्य च ॥

मनुः ।

कुसीदवृद्धिर् द्वैगुण्यं नात्येति सकृद् आहृता ।

धान्ये शदे लवे वाह्ये नातिक्रामति पञ्चताम् ॥

शदः क्षेत्रफलं पुष्पादि । लवः ऊर्णाचमरकेशादि । वाह्यो बलीवर्दतुरगादिः । बृहस्पतिः ।

हिरण्ये द्विगुणा वृद्धिः त्रिगुणा वस्त्ररूप्यके ।

धान्ये चतुर्गुणा प्रोक्ता शदवाह्यलवेषु च ॥

नारदः ।

हिरण्यधान्यवस्त्राणां वृद्धिर् द्वित्रिचतुर्गुणा ।

रसस्याष्टौ गुणाः प्रोक्ताः स्त्रीपशूनां तु सन्ततिः ॥

बृहस्पतिः ।

उक्ता पञ्चगुणा शाके बीजे चैव चतुर्गुणा ।

लवणस्नेहमद्येषु वृद्धिर् अष्टगुणा मता ॥

गुडे मधुनि चैवोक्ता प्रयुक्ते चिरकालिके ॥

कात्यायनः ।

तैलानां चैव सर्वेषां मद्यानाम् अथ सर्पिषाम् ।

वृद्धिर् अष्टगुणा ज्ञेया गुडस्य लवणस्य च ॥

बृहस्पतिः ।

तृणकाष्ठेष्टकासूत्रकीलचर्मास्थिपक्ष्मणाम् ।

हेतिपुष्पफलानां च वृद्धिस् तु न निवर्तते ॥

अत्र काष्ठादीनां साहचर्याद् अष्टगुणाद् अर्वाङ् न निवर्तत इत्य् अर्थः । विष्णुः- “किण्वकार्पास-सूत्रचर्मवर्मायुधेष्टकाङ्गाराणाम् अक्षया, अनुक्तानां द्विगुणा” । भरद्वाजः ।

हिरण्यधान्यवस्त्राणां वृद्धिर् द्वित्रिचतुर्गुणा ।

घृतस्याष्टगुणा वृद्धिः ताम्रादीनां चतुर्गुणा ॥

तैलानां षड्गुणा वृद्धिः स्त्रीपशूनां तु सन्ततिः ।

कोशानां स्यात् पञ्चगुणा कार्पासस्य चतुर्गुणा ॥

काष्ठानां चन्दनादीनां वृद्धिर् अष्टगुणा भवेत् ।

एवं वृद्धिविधिः प्रोक्तो नास्ति वृद्धिर् अतः परा ॥

न वृद्धेर् वृद्धिर् अस्तीति धर्मकारस्य शासनम् ।

न चाप्य् असंश्रुता वृद्धिर् अतिवृद्धिश् च कर्हिचित् ॥

ताम्रशब्देन सुवर्णरजतव्यतिरिक्तानां त्रपुसीसादीनां ग्रहणम् । कोशानां कोशधान्यानाम् इत्य् अर्थः । कार्पासग्रहणेन पटप्रभृतीनां ग्रहणम् । सुगन्धद्रव्योपलक्षणं चन्दनग्रहणम् इत्य् असहायेनोक्तम् । अत्र विष्णुः ।

स्तेये ब्रह्मस्वभूतेषु सुवर्णहरणे तथा ।

पश्चात् तप्तेन दातव्यं तस्माद् एकादशाधिकम् ॥

ब्राह्मणसम्बन्धिसुवर्णव्यतिरिक्तद्रव्यापहारे क्षत्रियवैश्यसम्बन्धिसुवर्णापहारे च, सद्य एव द्वादशगुणं भवति । तथा च पितामहः ।

सद्यः स्यात् द्वादशगुणं चोदितं रत्नहाटकम् ।

ब्राह्मणस्वं च रूप्यादि सद्यो ह्य् एकादशाधिकम् ॥

रूप्यं पञ्चगुणं भूमिः तथैवाष्टगुणा मता ।

सद्य एव इति वचनाद् अवृद्ध्यभावः । अत्र नारदः ।

न वृद्धिः प्रीतिदत्तानां स्याद् अनाकारिता क्वचित् ।

अनाकारितम् अप्य् ऊर्ध्वं वत्सरार्धाद् विवर्धते ॥

कात्यायनः ।

कृत्वोद्धारम् अदत्वा यो याचितस् तु दिशं व्रजेत् ।

ऊर्ध्वं मासत्रयात् तस्य तद् धनं वृद्धिम् आप्नुयात् ॥

पण्यं गृहीत्वा यो मूल्यम् अदत्वैव दिशं व्रजेत् ।

स्वदेशस्थो ऽपि वा यस् तु न दद्याद् याचितो ऽसकृत् ॥

स तत्र कारितां वृद्धिम् अनिच्छन्न् अपि चाहरेत् ।

यत्नैः प्राप्तं रक्षितं वा गणार्थे वा ऋणं कृतम् ॥

ऋतुत्रयस्योपरिष्टात् धनं वृद्धिम् अवाप्नुयात् ।

एवमादिष्व् अशीतिभागवृद्धिर् विवक्षिता । कात्यायनः ।

प्रीतिदत्तं तु यत् किञ्चिद् वर्दते न त्व् अयाचितम् ।

याच्यमानम् अदत्तं चेत् वर्दते पञ्चकं शतम् ॥

प्रतिमासं पञ्चकं शतं वर्धत इत्य् अर्थः ।

चर्मसस्यासवद्यूतपण्यमूलेषु सर्वदा ।

स्त्रीशुल्के च न वृद्धिः स्यात् प्रतिभाव्यकृतेषु च ॥

यदि स्वयं कृता च स्यात् कारितां वृद्धिम् आप्नुयात् ।

संवर्तः ।

न वृद्धिः स्त्रीधने लाभे निक्षेपे च तथर्णिके ।

सन्दिघे प्रातिभाव्ये च यदि न स्यात् स्वयं कृता ॥

अत्र याज्ञवल्क्यः ।

दीयमानं न गृह्णाति प्रयुक्तं यत् स्वकं धनम् ।

मध्यस्थस्थापितं तत् स्यात् वर्धते न ततः परम् ॥

अत्र विष्णु-गौतमौ- “भुक्ताधिर् न वर्धते दित्सतो ऽवरुद्धस्य च” इति । व्यासः ।

प्रतिभाव्यं भुक्तबन्धम् अगृहीतं च दित्सतः ।

न वर्धते प्रपन्नस्य दमः शुक्लं प्रतिश्रुतम् ॥

अथाधिविधिर् उच्यते

तत्र ऋणप्रदानं नाम प्रतिप्रदानोपाधिकं स्वस्य परं प्रतिप्रदानम् । तद् अनेकविधम्, सबन्धकं सवृद्धिकम् अबन्धकम् अवृद्धिकं चेति । तत्र सबन्धकस्य सवृद्धेश् च प्रयोग उच्यते । तत्र बृहस्पतिः ।

आधिर् बन्धः समाख्यातः स च प्रोक्तश् चतुर्विधः ।

जङ्गमः स्थावरश् चैव गोप्यो भोग्यस् तथैव च ॥

हारीतः ।

आधिश् चतुर्विधः प्रोक्तो गोप्यो भोग्यस् तथैव च ।

अर्थप्रत्ययहेतुश् च चतुर्थस् त्व् आज्ञया कृतः ॥

तेषां स्वरूपम् आह ।

श्रावणा पूर्वलिखितो भोग्याधिः श्रेष्ठ उच्यते ।

गोप्याधिस् तु परेभ्यः स्वं दत्वा यो गोप्यते गृहे ॥

अर्थप्रत्ययहेतुर् यः प्रत्ययाधिः स उच्यते ।

आज्ञाधिर् नाम यो राज्ञा संसदा वाज्ञया कृतः ॥

श्रावणा संसदि प्रकाशनम् । व्यासः ।

आज्ञाधिस् तत्क्रयश् चैव क्रूरदण्डो विधीयते ।

उभाव् अन्यत्र न स्याताम् इति धर्मस्य निश्चयः ॥

आधिस् तु द्विविधः प्रोक्तो स्थावरो जङ्गमस् तथा ।

सिद्धिर् अस्योभयस्यापि भोगो यद्य् अस्ति नान्यथा ॥

आधेः प्रवेशने रोधः ऋणिकेन कृतो यति ।

दाप्यः स भोगम् अत्यर्थं दण्डयित्वाधिषड्गुणम् ॥

भोग्याधिविषयम् इदम् । गोप्यादिं प्रत्य् आह याज्ञवल्क्यः ।

गोप्याधिभोगे नो वृद्धिः सोपकारे ऽथ हापिते ।

निष्टो देयो विनष्टश् च दैवराजकृताद् ऋते ॥

सोपकारभावनं कार्ययोग्यत्वकारणम् । नारदः ।

यस्याधेर् मूलहानिः स्यात् दैवराजकृतात् क्वचित् ।

आध्यर्थस् त्वर्णिनां देयः त्व् अशक्तो भोगदो भवेत् ॥

बृहस्पतिः ।

गोप्याधिर् द्विगुणाद् ऊर्ध्वं कृतकालस् तथावधेः ।

श्रावयित्वा त्व् ऋणी काले भोक्तव्यः समनन्तरम् ॥

कात्यायनः ।

आधाता यत्र न स्यात् तु धनी बन्धं निवेदयेत् ।

राज्ञस् ततः स विख्यातो विक्रेय इति धारणा ॥

व्यासः ।

गृहीतृदोषान् नष्टश् चेत् बन्धो हेमादिको भवेत् ।

ऋणं सलाभं संशोध्य तन्मूलं दापयेद् धनी ॥

आधौ प्रवेशने रोध ऋणिकेन कृतो यदि ।

दाप्यः स भोगम् अध्यर्धं दण्डं दाप्यश् च षड्गुणम् ॥

कात्यायनः ।

प्रच्छाद्याधिम् ऋणी कुर्यात् क्रयादीन् बलतश् च यः ।

दण्डं स त्रिगुणं दत्वा पुनर् आध्यर्थ्दो भवेत् ॥

तथा च मनुः ।

यः स्वामिनाननुज्ञातम् आधिं भुङ्क्ते ऽविचक्षणः ।

तेनास्य वृद्धिर् मोक्तव्या तस्य भोगस्य निष्कृतिः ॥

अत्र कात्यायनः ।

आकामम् अननुज्ञातम् आधिं यः कर्म कारयेत् ।

भोगकर्मफलं दाप्यो वृद्धिं वा न लभेत सः ॥

नारदः ।

न भोक्तव्यो बलाद् आधिः (?) भुञ्जानो वृद्धिम् उत्सृजेत् ।

मूल्येन तोषयेच् चैनम् आधिस् तेनान्यथा भवेत् ॥

इदं द्विपदचतुष्पदजङ्गमाधिविषयम् । अत्र भारद्वाजः ।

आधेः प्रवेशने काले भोगं नेच्छति तद् धनी ।

भोगो नश्यत्य् अतश् चोर्ध्वं न वर्धयति तद् धनम् ॥

कात्यायनः ।

आधीकृतं तु यत् किञ्चिद् विनष्टं दैवराजतः ।

तत्रर्णं सोदयं दाप्यो धनिनाम् अधमर्णिकः ॥

भोगाधिक्यं च भोग्याधेः ह्रासं च न विचालयेत् ।

लेख्ये तु लिखितं यावत् तावद् भोक्तव्यम् एव तु ॥

अत्र नारदः ।

रक्ष्यमाणो ऽपि यत्राधिः काले नेयाद् असारताम् ।

आधिर् अन्यो ऽधिकर्तव्यो देयं वा धनिनो धनम् ॥

इदम् अपि जङ्गमाधिविषयम् इति, स्थावरक्षेत्रादाव् असारत्वे ऽप्य् अन्याधिप्रतिषेधात् । यद् वा यत्राहितं वस्तु कालेन निःसारं भवति । न हेत्वन्तरेण । यथा वहनकर्षणमहिमयोग्यदशाया प्रतिदात इति महिषतुरङ्गबलीवर्दादि कालवशेनैव वहनाद्ययोग्यतया निःसारं यथा वा चन्दनकुङ्कुमघृतगुऌआदि कालवशेनैव नैर्गन्ध्यदौर्गन्ध्यादिना निःसारं भवति तद्विषयम् । कात्यायनेनेदं स्पष्टम् उक्तम् ।

न चेद् धनिकदोषेण निष्पतेद् वा म्रियेत वा ।

आधिर् अन्यस् तु कार्यः स्यात् ऋणान् मुच्येत नर्णिकः ॥

“निष्पतेद् वा म्रियेत वा” इति जङ्गमविषये आध्यन्तरकरणवचनात् । स्थावरे तु विशेषम् आह ।

स्रोतसापहृते क्षेत्रे राज्ञा चैवापहारिते ।

आधिर् अन्यो ऽधिकर्तव्यो देयं वा धनिने धनम् ॥

याज्ञवल्क्यः ।

उपस्थितस्य मोक्तव्य आधिस्तेनान्यथा भवेत् ।

प्रयोजके ऽसति धनं कुले ऽन्यस्याधिम् आप्नुयात् ॥

तत्कालकृतमूल्यो वा तत्र तिष्ठेद् अवृद्धिकम् ।

विना धारणकाद् वापि विक्रीणीत ससाक्षिकम् ॥

यदा तु द्विगुणीभूतम् ऋणम् आधौ तदा खलु ।

मोच्य आधिस् तदुत्पन्ने प्रविष्टे द्विगुणे धने ॥

सप्रत्ययभोग्याधिविषयम् इदम् ।

आधिः प्रण्श्येत् द्विगुणे धने यदि न मोक्ष्यते ।

काले कालकृतो नश्येत् फलभोग्यो न नश्यति ॥

आधिप्रणाशो नामाधमर्णसम्बन्धं परित्यज्य धनिकसम्बन्धापत्तिः । हिरण्यादि आधिविषयम् इदम् । कृतकालप्रयोगे ऽप्य् एवम् एव । फलभोग्यः क्षेत्रारामादि । स कदाचिद् अपि न नश्यति । आधिप्रणाशस्यापवादम् आह ।

चरित्रबन्धकृतं सवृद्ध्या दापयेद् धनम् ।

सत्यङ्कारकृतं द्रव्यं द्विगुणं प्रतिपादयेत् ॥

चरित्रेण धनिन स्वच्छाशयत्वेन बहुमूल्यम् आधीकृत्याधमर्णेन स्वल्पम् एव द्रव्यम् आत्मसात् कृतम् । एवम्भूतं द्रव्यं द्विगुणीबूते ऽपि न नश्यति । किं तु द्विगुणं गृहीत्वा दातव्यम् इति । बन्धककल्पनया द्विगुणीभूता । द्विगुणीभूते ऽपि द्विगुणं दातव्यम् । नाधिनाश इति । सत्यङ्कारेत्य् अस्यायम् अर्थः । वणिजो हि बहुमूल्यं क्रमुकादिफलं स्वीचिकीर्षन्तः विक्रेतुर् हस्ते द्वित्राणि निस्तुलानि दत्वा क्रयविक्रयव्यवहारव्यवस्थां च निश्चित्य पण्यं स्वीकुर्वन्ति । तत्र यदि द्रव्यप्रयोक्ता संविदम् अतिलङ्घयेत्, मूल्यहातिम् अवाप्नुयात् । गृहीत्रा तद्विलङ्घने तद्गृहीतद्रव्यं द्विगुणम् एव देयम् । प्रयुक्ते द्विगुणीभूते उत्तमर्णस्य बन्धकविषयम् आह ।

सत्यङ्कारेणापि द्विगुणम् एव दातव्यम् ।

बृहस्पतिः ।

पूर्णावधौ शान्तलाभे बन्धे स्वामी धनी भवेत् ।

अनिर्गते दशाहे तु ऋणी भोक्षितुम् अर्हति ॥

न विस्रवति यत् तत् स्यात् धनिको मूलभाग् भवेत् ।

द्विगुणाद् अपि चोत्कर्षे कालिका यस्य चादिनाम् ॥

विवादन्यायतत्त्वज्ञैः तदा राजा विनिर्णयेत् ।

व्यासः ।

आधानकालिकाद् अर्वाक् द्विगुणं यदि कालिकम् ।

मूलमात्रं तु पादोनं तदर्धं पादम् एव चा ॥

द्विगुणातिक्रमान् नैव धनिको लभते धनम् । इति ।

बृहस्पतिः ।

हिरण्ये द्विगुणीभूते मृते नष्टे ऽधमर्णिके ।

द्रव्यं तदीनं सङ्गृह्य विक्रीनीत ससाक्षिकम् ॥

रक्षेद् वा कृतमूल्यं तु दशाहं जनसंसदि ।

ऋणानुरूपं परतः गृहीत्वाल्पं च वर्तयेत् ॥

सधनं तु स्थिरीकृत्य गणनाकुशलैर् नरैः ।

तद्बन्धुजातिविदितं प्रगृह्णन् नापराध्नुयात् ॥

अत्र व्यासः ।

द्रव्ये तु द्विगुणीभूते पूर्णे काले कृतावधौ ।

बन्धकस्य धनी स्वामी द्विसप्ताहं परीक्ष्य तु ॥

ततो ऽन्तरा धनं दत्वा ऋणी बन्धम् अवाप्नुयात् ।

फलभोग्यं पूर्णकाल्यं दद्याद् द्रव्यं तु सामकम् ॥

पूर्णकालम् अपि फलभोग्यं क्षेत्रादिकं न कदाचिद् अपि नश्यति । सामकं समयसिद्धम् ऋणं सवृद्धिकं दत्वा क्षेत्रम् आप्नुयाद् इति । तत्र भोग्याधिर् द्विविधः सप्रत्ययभोग्यादिर् अप्रत्ययभोग्याधिश् चेति । सवृद्धिकमूलापाकरणार्थ एकः । स सप्रत्ययभोग्याधिर् इत्य् उच्यते । वृद्धिमात्रापाकरणार्थो ऽपरः । सो ऽप्रत्ययभोग्याधिर् इत्य् उच्यते । तत्र सप्रत्ययभोग्याधिम् आह व्यासः ।

काञ्चिद् वृद्धिं समाभाष्य द्रव्यम् आदाय तत्त्वतः ।

तत् क्षेत्रं भुङ्क्ष्व वृद्ध्यर्थम् अधिकं मूलनाशनम् ॥

इत्याधिः प्रत्ययाधिः स्यात् वैगुण्येन क्षयो भवेत् ।

सवृद्धिकमूल्यापाकरणार्थो भोग्याधिः सप्रत्ययभोग्याधिर् इत्य् पदार्थः । अप्रत्ययभोग्याधिम् आह कात्यायनः ।

द्रव्यं गृहीत्वा वृद्ध्यर्थं भोगयोग्यं ददाति चेत् ।

जङ्गमं स्थावरं वापि भोग्याधिः स तु कथ्यते ॥

मूल्यं तद् अखिलं दत्वा स्वं क्षेत्रादिकम् आप्नुयात् ।

वृद्धिमात्रापाकरणार्थे भोग्याधौ अधमर्ण उत्तमर्णात् प्राप्तं मूल्यं दत्वा स्वक्षेत्रादिकम् आप्नुयात् । एषो ऽप्रत्ययभोग्याधिर् इति वचनाभिप्रायः । भरद्वाजः ।

प्रत्ययाधेर् उक्तकाले वृद्ध्यभावे स्वयं धनी ।

आधिं प्रविश्य तत्काले भुञ्जीत लिखितं स्थितम् ॥

प्रत्ययाधौ तु भोक्तव्या वृद्धिर् या पूर्वलेखिता ।

तावद् एव तु भोक्तव्यम् इति शास्त्रविनिश्चयः ॥

यत् तु तत्राधिकं वृद्धेः देयं तद् ऋणिने पुनः ।

दद्याद् यावत् तु तद् वृद्धेः तावत् सम्पूरयेद् ऋणी ॥

सप्रत्ययभोग्याधौ निष्क्रयकाले सवृद्धिकं मूल्यस्यापर्याप्तं पूरयेत् । अधिकं चाददीत इति वचनस्य तात्पर्यार्थः । भरद्वाजः ।

वैशाख्यां यस्य भोग्याधेर् आषाढ्यां निष्क्रयो भवेत् ।

हीनं तद् धनिनो दोषाद् एतत् पूरणम् अर्हति ॥

हीनस्यापूरणे वृद्धिः चक्रवृद्ध्या विवर्धते ।

सर्वाधीनान्धवाक् भोगात् निष्क्रयो नास्ति धर्मतः ।

बलाद् भुक्ते कृते काले निष्क्रये द्विगुणो दमः ॥

भरद्वाजः ।

यः स्वामिनाननुज्ञात आधेर् आधि करोति चेत् ।

स्वधनात् स तु हीनः स्यात् करोत्य् आपदि पूर्ववत् ॥

कात्यायनः ।

कृपवप्रखलप्राया आधिग्राहेण नाशिताः ।

विनाशका भवन्त्य् आधेर् एवंरूपास् तथा परे ॥

एकम् एव आधिं द्वयोर् दधतोर् दण्डम् आह व्यासः ।

आधिम् एकं द्वयोर् यत्र कुर्यात् का प्रतिपद् भवेत् ।

तयोः पूर्वतरं ग्राह्यम् आधाता चोरदण्डभाक् ॥

आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा ।

इति वचनात् पूर्वतरं ग्राह्यम् । बृहस्पतिः ।

क्षेत्रम् एकं द्वयोर् बन्धे दत्तं यत् समकालिकम् ।

येन भुक्तं तयोः पूर्वं तस्य तत् सिद्धिम् आप्नुयात् ॥

तुल्यकालोपस्थितयोर् द्वयोर् अपि समं भवेत् ।

प्रदाने विक्रये चैष विधिः सम्परिकीर्तितः ॥

ऋणादाने भरद्वाजः क्रमविशेषम् आह ।

आध्यर्थः केवलार्थश् च धनिनो यत्र दृश्यते ।

केवलः प्रथमो देयः पश्चात् स्याद् आधिनिष्क्रयः ॥

सबन्धकाबन्धकयोः प्रथमम् अबन्धकं देयं पश्चात् सबन्धकम् इत्य् अर्थः ।

ऋणिकस्यार्थसद्भाव उत्तमर्णो भवेद् यदि ।

तस्मिन्न् ऋणे हि तत्काले तत्क्रमेण विहीयते ॥

तत्क्रमेण तत्कारार्धेण तदृणं हीयत इत्य् अर्थः । ऋणैकदेशग्रहणे प्रकारम् आह याज्ञवल्क्यः ।

लेख्यस्य् पृष्ठे ऽभिलिखेत् दत्वा दत्वर्णिको धनम् ।

धनी वोपगतं दद्यात् स्वहस्तपरिचिह्नितम् ॥

नारदः ।

गृहीत्वोपगतं दद्यात् ऋणिकाय धनं धनी ।

न दद्याद् याच्यमानश् चेत् शेषहानिम् अवाप्नुयात् ॥

अखण्डग्रहणं प्रत्य् आह याज्ञवल्क्यः ।

दत्वर्णं पाटयेल् लेख्यं शुद्ध्यैवान्यत् तु कारयेत् ।

साक्षिमच् च भवेद् यद् धि तद् दातव्यं ससाक्षिकम् ॥

नारदः ।

ब्राह्मणस्य तु यद् देयं सान्वयः स च नास्ति चेत् ।

सकुल्येष्व् अस्य निवपेत् तदभावे ऽस्य बन्धुषु ॥

यदा तु न सकुल्याः स्युः न च सम्बन्धिबान्धवाः ।

तदा दद्याद् द्विजातिभ्यः तेष्व् असत्स्व् अप्सु निक्षिपेत् ॥ इति ।

अथार्घवशाद् ऋणप्रकारप्रदानम्

कात्यायन आह ।

मूल्यग्रहणकालार्घाद् वैगुण्यं कालतो भवेत् ।

मूल्यम् एव ऋणी दद्यात् न वृद्धिं दातुम् अर्हति ॥

द्विगुणे कालिके ऽर्घे तु मूल्यं तद्द्विगुणं भवेत् ।

न निःस्रवति यस् तस्माद् धनिको मूलभाग् भवेत् ॥

द्विगुणाद् अपि चोत्कर्षे कालिकार्घस्य वादिनाम् ।

विवादं न्यायतत्त्वज्ञैः तदा राजा विनिर्णयेत् ॥

व्यासः ।

आधानकालिकाद् अर्वाक् द्विगुणं यदि कालिकम् ।

मूलमात्रं तु वा दानं तदर्धं पादम् एव वा ॥

द्विगुणां निष्प्रभां चैव धनिको लभते धनम् ॥ इति

अथ प्रतिभूविधिर् उच्यते

अत्र बृहस्पतिः ।

दर्शने प्रत्यये दाने ऋणिद्रव्यार्पणे तथा ।

चुअतुष्प्रकारः प्रतिभूः शास्त्रे दृष्टो मनीषिभिः ॥

आहैको दर्शयामीति साधुर् एषो ऽपरो ऽब्रवीत् ।

दाताहम् एतद् द्रविणम् अर्पयामि परो वदेत् ॥

आदौ तु वितथे दाप्यौ तत्कालावेदितं धनम् ।

उत्तरौ तु विसंवादे तौ विना तत्सुतौ तथा ॥

अथ प्रतिभूत्वे निषिद्धा उच्यते । विष्णुः- “स्वामिरिपुनिरुद्धाधिकृतदण्डितसंशयस्थ-रिक्थिमित्रात्यन्तवासिराजकार्यप्रवृत्तवीतरागव्रतिदरिद्रबालवृद्धस्त्रीरुग्ना न प्रतिभुवः । रिक्थिमित्रयोः क्वचिद् अनुज्ञानाद् अन्याभावे कार्यै (?)” । कात्यायनः ।

न स्वामी न च वै शत्रुः स्वामिनाधिकृतस् तथा ।

निरुद्धो दण्डितश् चैव सन्दिग्धश् चैव न क्वचित् ॥

नैव रिक्थी न मित्रं च न चैवात्यन्तवासिनः ।

राजकार्यनियुक्तश् च ये च प्रव्रजिता नराः ॥

नाशको धनिने दातुं दण्डं राज्ञे च तत्समम् ।

नाविज्ञातो गृहीतव्यः प्रतिभूत्वक्रियां प्रति ॥

सन्दिग्धः अभिशस्तः । अत्यन्तवासिनः नैष्ठिकब्रह्मचारिणः । अत्र याज्ञवल्क्यः ।

भ्रातॄणाम् अथ दम्पत्योः पितुः पुत्रस्य चैव हि ।

प्रातिभाव्यम् ऋणं साक्ष्यम् अविभक्ते न तु स्मृतम् ॥

केचित् प्रतिभूत्रैविध्यम् आहुः । एनं भवदपेक्षिते काले देशे वा दर्शयामीति वदन् दर्शनप्रतिभूः । तथा कीदृशो ऽयम् इत्य् उक्ते साधुर् एष इति विश्वासवचनकृत् प्रत्ययप्रतिभूः । उभौ दर्शनाभावे विश्वासाभावे च दाप्यौ । दाताहम् एतत् द्रविणम् इति दानप्रतिभूः । तत्राद्यौ मृतौ चेन् न तत्पुत्रा दद्युः । दानप्रतिभुवि मृते पुत्रैर् अपि देयम् इति विशेषः । तथा च याज्ञवल्क्येनोक्तम् ।

दर्शनप्रतिभूर् यत्र मृतः प्रात्ययिको ऽपि वा ।

न तत्पुत्रा ऋणं दद्युर् दानाय यः स्थितः ॥

प्रजापतिः ।

दुर्भिक्षे राष्ट्रसम्बाधे धर्मकार्ये तथापदि ।

ऋणं देयं मूल्यम् एव न वृद्धिर् इति निश्चयः ॥

कात्यायनः ।

प्रातिभाव्येन यो दद्यात् पीडितो धनिकादिभिः ।

त्रिपक्षात् परतस् तस्मात् द्विगुणं लब्धुम् अर्हति ॥

द्विगुणम् इति सर्वद्रवेषु परवृद्ध्युपलक्षणम् । अत्र पीडाग्रहणात् द्वैगुण्यादिलोभेन दत्तं चेन् न वर्धेत । यथोदयं च देयम् इति गम्यते । याज्ञवल्क्यः ।

प्रतिभूर् दापितो यत्र प्रकाशं धनिनां धनम् ।

द्विगुणं प्रतिदातव्यम् ऋणिकैस् तस्य तद् धनम् ॥

विष्णुः ।

यं चार्थं प्रतिभूर् दद्याद् धनिकेनोपपीडितः ।

द्विगुणं प्रतिदातव्यम् ऋणिकैस् तस्य तद् धनम् ॥

अत्र विशेषम् आह प्रजापतिः ।

धादको वित्तहीनः स्यात् लग्नको वित्तवान् यदि ।

मूल्यं तस्य भवद्देयं न वृद्धिं दातुम् अर्हति ॥

खादकः अधमर्णः । लग्नकः प्रतिभूः । वित्तहीनो ऽधमर्णो लग्नकेन प्रतिभुवा दत्तम् एव दद्यात् । दत्तमात्रदाने प्रतिभुवश् छेदोभावात् । दुर्भिक्षे राष्ट्रसम्बाधए इत्यादिना सङ्कटे मूल्यमात्रार्पणस्योक्तत्वात् तुल्यन्यायत्वाद् अस्येति । बृहस्पतिः ।

नष्टस्यान्वेषणं कालं दद्यात् प्रतिभुवे धनी ।

देशानुरूपतः पक्षं मासम् अब्दम् अथापि वा ॥

इदानीं प्रयुक्तस्य धनस्य ग्रहणधर्मा उच्यन्ते । तत्र याज्ञवल्क्यः ।

प्रपन्नं साधयन्न् अर्थं न वाच्यो नृपतेर् भवेत् ।

साध्यमानो नृपं गच्छेत् दण्ड्यो दाप्यश् च तद् धनम् ॥

प्रपन्नम् अधर्मर्णेनाभ्युपगतं साधयन् प्रत्याहरन् उत्तमर्णो ऽधमर्णेन नृपतेर् नैव वाच्यः । अथाधमर्णः साध्यमानो नृपं गच्छति राजानम् अभिगम्य साधयन् तम् अभियुङ्क्ते, चतुर्भागं स दण्ड्यः । उत्तमर्णस्य च तद् धनं दाप्यः । एतत् स्मृत्याचारव्यपेतेन इत्य् अस्य प्रत्युदाहरणम् अन्याय्यत्वात् । तथा च मनुः ।

य साधयन्तं छन्देन वेदयेद् धनिकं नृपे ।

स राज्ञा तच्चतुर्भागं दाप्यस् तस्य च तद् धनम् ॥

धर्मेण व्यवहारेण छलेनाचरितेन च ।

प्रयुक्तं साधयेद् अर्थं पञ्चमेन बलेन च ॥ इति ।

धर्मेण सत्यानुसारेण । व्यवहारेण साक्षिलेख्यादिना । छलेन प्रमादाभिहितेन । आचरितेन अभोजनादिना । बलेन निगडबन्धादिना साधयेद् इति । तत्र बहुषूत्तमर्णेषु प्राप्तेषु क्रमम् आह याज्ञवल्क्यः ।

गृहीतानुक्रमाद् दाप्यो धनिनाम् आधमर्णिकः ।

दत्वा तु ब्राह्मणायैव नृपतेस् तदनन्तरम् ॥

समजातीयेषु येन क्रमेण गृहीतम् ऋणं तेनैव क्रमेण दाप्यम् । भिन्नजातीयेषु जात्युत्कर्षक्रमेण दद्याद् इति । स्वयं साधयितुम् असमर्थं प्रत्य् आह याज्ञवल्क्यः ।

राज्ञाधमर्णिको दाप्यः साधिताद् दशकं शतम् ।

पञ्चकं च शतं दाप्यः प्राप्तार्थो ह्य् उत्तमर्णिकः ॥

साधितस्यार्थस्य दशमभागं दण्डरूपेणाधमर्णो दाप्यः । भृतित्वेन विंशतितमं भागम् उत्तमर्णो दाप्य इति । निर्धनम् अधर्मणं प्रत्य् आह ।

हीनजातिं परिक्षीणम् ऋणार्थं कर्म कारयेत् ।

ब्राह्मणस् तु परिक्षीणः शनैर् दाप्यो यथोदयम् ॥

ब्राह्मणव्यतिरिक्तम् अधमर्णं जात्याद्यभिजनशक्त्यपेक्षया कर्म कारेयेत् । धनरहितो ब्राह्मणो यथासम्भवं दाप्यः । अत्र हीनग्रहणम् उत्कर्षाभावप्रतिपादनद्वारेण समस्याप्य् उपलक्षणम् । तथा ब्राह्मणग्रहणम् अपि श्रेष्ठोपलक्षणार्थम् इति ब्रह्मवित्प्रवरेणोक्तम् । यथाह मनुः ।

कर्मणापि समं कुर्यात् धनिकेनाधमर्णिकः ।

समो ऽपकृष्टजातिश् च दद्याच् छ्रेयांश् च तच् छनैः ॥

इति ब्राह्मणव्यतिरिक्तपरिक्षीणं कर्म कारयेत् । ब्राह्मणस् तु यथोदयं दद्याद् इति । अत्र भरद्वाजः ।

ऋणिकस्य धनाभावे देयो ऽन्यस्य तु तत्क्रमात् ।

धान्यं हिरण्यं लोहं च गोमहिष्यादिकं तथा ॥

वस्त्रं भूर् दासवर्गश् च वाहनादि यथाक्रमम् ।

धनिकस्य तु विज्ञेयो देयाश् चैवानुपूर्वशः ॥

क्षेत्राभावे तथारामः तस्याभावे गृहक्रयः ।

द्विजानां ग्रहणाभावे कालहारो विधीयते ॥

अथ ऋणक्षयपरिवृत्तिर् उच्यते

ऋणं दातुम् अशक्तस्य किञ्चिद् दत्वा पर्वयुक्तानां वृद्धिं च मूलीकृत्य वृद्धये प्रयोगान्तरकॢप्तिम् आह मनुः ।

ऋणं दातुम् अशक्तो यः कर्तुम् इच्छेत् पुनः क्रियाम् ।

स दत्वा निर्जितां वृद्धिं करणं परिवर्तयेत् ॥

अदर्शयित्वा तच् चैव हिरण्यं परिवर्तयेत् ।

यावती सम्भवेद् वृद्धिः तावतीं दातुम् अर्हति ॥

निर्जितां तदानीं देयतया प्राप्ताम् । करणम् ऋणस्वीकरणम् । परिवृत्तिः पुनःक्रिया, न अवश्यं हिरण्यं दर्शयितव्यम् । समयमात्रेण परिवृत्तिः कार्येत्य् अर्थः । अत्र विशेषम् आह प्रजापतिः ।

वृद्धिं वृद्ध्येकदेशं वा मूले ऽप्य् अंशम् अथापि वा ।

यथाशक्ति प्रदायैव करणं परिवर्तयेत् ॥

अत्र विशेषम् आह कात्यायनः ।

विद्यमाने ऽपि रोगार्ते स्वदेशात् प्रोषिते तथा ।

विंशात् संवत्सराद् देयम् ऋणं पितृकृतं सुतैः ॥

जीवता पित्रा कृतस्य ऋणस्य तस्य अशक्तौ पुत्रैर् देयम् इति । स्मृत्यन्तरे ।

व्याधितोन्मत्तवृद्धानां तथा दीर्घप्रवासिनाम् ।

ऋणम् एवंविधं पुत्रा जीवताम् अपि दापयेत् ॥

बृहस्पतिः ।

सान्निध्ये ऽपि पितुः पुत्रैः ऋणं देयं विभावितम् ।

जात्यन्धपतितोन्मत्तक्षयश्वित्रादिरोगिणः ॥

एभिर् वचनैः जीवति पितरि पुत्रैर् एव देयम् ऋणं न पौत्रैः । पुत्राभावे पौत्रैर् अपि देयम् । अत्र कात्यायनः ।

यद् देयं पितृभिर् नित्यं तदभावे तु तद्धनात् ।

तद् धनं पुत्रपौत्रैर् वा देयं तत्स्वामिने तदा ॥

पितुर् धनसद्भावे तस्माद् एव ऋणं देयम् । तद् धनाभावे पुत्रार्थात् पौत्रार्थाच् च देयम् इत्य् अर्थः ।

पूर्वं पैतामहं देयं पित्र्यं देयं ततः परम् ।

पश्चाद् देयं तथात्मीयम् एवं देयम् ऋणं सुतैः ॥

पुत्रपौरैर् इत्य् अर्थः । नारदः ।

ऋणम् आत्मीयवत् पित्र्यं पुत्रैर् देयं विभावितम् ।

पैतामहं समं देयम् अदेयं तत्सुतस्य तु ॥

विभावितं साधितम् आत्मीयवत् सवृद्धिकं पुत्रैर् देयम् । पौत्रैः समं वृद्धिरहितं देयम् । पितामहधनसद्भावे सवृद्धिकम् एव देयम् । नप्त्रादिभिः मूल्यम् अपि न देयं स्वधनात् । तस्य धनसद्भावे सवृद्धिकम् एव देयम् ।

क्रमाद् अभ्यागतं प्राप्तं पुत्रैर् यन् न समुद्धृतम् ।

दद्युः पैतामहं पौत्राः तच् चतुर्थान् निवर्तते ॥

याज्ञवल्क्यः ।

पितरि प्रोषिते प्रेते व्यसनाभिप्लुते ऽपि वा ।

पुत्रपौत्रैर् ऋणं देयं निह्नवे साक्षिभावितम् ॥

प्रोषिते व्यसनाभिप्लुते वा पुत्रैर् एव देयम् । मृते पौत्रैर् अपि । कात्यायनः ।

अनेकार्थाभियोगे तु यावत् स्वं साधयेद् धनी ।

साक्षिभिस् तावद् एवासौ लभते साधितं धनम् ॥

नात्र विभावितैकदेशन्यायः । पितृकृतस्याज्ञानेन निह्नवाभावात् ।

अथैकच्छायप्रविष्टम् ऋणादानम् उच्यते

बृहस्पतिः ।

एकछायाप्रविष्टानां दाप्यो यस् तत्र दृश्यते ।

प्रोषितस्य सुतः सर्वं पुत्र्यम् अंशं मृतस्य तु ॥

ग्रामाध्यर्थम् ऋणादाने बहुभिः पुरुषैर् यत्र प्रातिभाव्यं कृतम्, ते हि एकछायाप्रविष्टाः । ततस् तेषां यद्य् एको दृश्यते स एव सर्वं दद्यात् । प्रोषितस्य सुतो दृष्टः सर्वं दद्यात् । पितरि मृते सुतः स्वांशम् एव दद्याद् इति । अत्र मनुः ।

दाप्यः परर्णम् एको ऽपि जीवन्न् अपि सुतैः क्र्तम् ।

मृतेषु तु न तत्पुत्रः परर्णं दातुम् अर्हति ॥

बृहस्पतिः ।

एकछायाकृतं सर्वं दद्यात् तु प्रोषिते सुतः ।

मृते पितरि पित्रंशं परर्णं न कदाचन ॥

अत्र विशेषम् आह पितामहः ।

अविभक्ता ऋणं दद्युः पित्र्यं मातृकम् एव वा ।

तदभावे विभक्ताश् च न तु ताभ्यां प्रतिश्रुतम् ॥

मातापितृसम्बन्धिद्रव्याभावे ताभ्यां प्रतिश्रुतं न देयम् । तत्सद्भावे देयम् एव । व्यासः ।

ऋणं पैतामहं पौत्राः प्रातिभाव्यं गतं सुताः ।

समं दद्युस् तत्सुतौ तु न दाप्याव् इति निश्चयः ॥

ऋणे पौत्रो न वृद्धिं दद्यात् । पुत्रो ऽपि प्रातिभावयते न वृद्धिं दद्यत् । तयोः सुतौ तत्सुतौ उभाव् अपि न दाप्याव् इति । याज्ञवल्क्यः ।

अविभक्तैः कुटुम्बार्थे यद् ऋणं तु कृतं भवेत् ।

दद्युस् तद् रिक्थिनः प्रेते प्रोषिते वा कुटुम्बिनि ॥

मनुः ।

गृहीतो यदि नष्टः स्यात् कुटुम्बे च कृतो व्ययः ।

दातव्यं बान्धवैस् तत् स्याद् अविभक्तैर् अपि स्मृतम् ॥

नारदः ।

पितृव्येणाविभक्तेन भ्रात्रा वा यद् ऋणं कृतम् ।

मात्रा वाथ कुटुम्बार्थे दद्युस् तद् रिक्थिनो ऽखिलम् ॥

नाप्राप्तव्यवहारैस् तु पितर्य् उपरते क्वचित् ।

काले तु विधिना देयं पतेयुर् नरके ऽन्यथा ॥

बृहस्पतिः ।

पितृव्यभ्रातृपुत्रस्त्रीदासशिष्यानुजीविभिः ।

यद् गृहीतं कुटुम्बार्थे तद् गृही दातुम् अर्हति ॥

य स्वामिना नियुक्तस् तु धनायत्ययपालने ।

कुसीदकृषिवाणिज्ये निसृष्टार्थस् तु स स्मृतः ॥

प्रमाणं तत्कृतं सर्वं लाभालाभव्ययोदयम् ।

स्वदेशे वान्यदेशे वा स्वामी न तु विसंवदेत् ॥

कात्यायनः ।

कन्यावैवाहिके चैव प्रेतकार्ये ऽपि यत् कृतम् ।

एतत् सर्वं प्रदातव्यं कुटुम्बेन कृतं प्रभोः ॥

उशणाः ।

दण्डं दण्डवशेषं वा शुल्कं तच्छेषम् एव च ।

न दातव्यं तु पुत्रेण यच् च नाव्यवहारिकम् ॥

स्वधनान् न देयम्, पितुर् धने सति देयम् इति । याज्ञवल्क्यः ।

न योषित् पतिपुत्राभ्यां न पुत्रेण कृतं पिता ।

दद्याद् ऋते कुटुम्बार्थान् न पतिः स्त्रीकृतं तथा ॥

गोपशौण्डिकशैलूषरजकव्याधयोषिताम् ।

ऋणं दद्यात् पतिस् तासां यस्माद् वृत्तिस् तदाश्रया ॥

हेतुवचनाद् अन्यासाम् अप्य् अयं समानः । नारदः ।

दद्याद् अपुत्रा विधवा नियुक्ता या मुमूर्षुणा ।

यावद् रिक्थं समादद्यात् यतो रिक्थम् ऋणं ततः ॥

याज्ञवल्क्यः ।

प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत् कृतम् ।

स्वयं कृतं वा यद् ऋणं नान्यत् स्त्री दातुम् अर्हति ॥

या हि भर्तृस्नेहेन भर्तुर् मरणसमये तेनानुनीता मदीयाद् धनाद् अहम् एव दास्यामीति सम्प्रतिपद्यते सा पतिकृतम् अपि दद्यात् । स्वयं कृतं वा यद् ऋणं इति दृष्टान्तर्थम् । कात्यायनः ।

भर्तुकामेन वा भर्त्राद्युक्ता देयम् ऋणं त्वया ।

अप्रपन्नापि सा दाप्या धनं यद्य् आश्रितं स्त्रिया ॥

विष्णुः- “सपुत्रस्य वाप्य् अपुत्रस्य रिक्थग्राही ऋणं दद्यात् । निर्धनस्य स्त्रीग्राही” । नारदः ।

अन्तिमा स्वैरिणीनां या पुनर्भूः प्रथमा च या ।

ऋणं तयोः पतिकृतं दद्याद् यस् ते उपाश्नुते ॥

परपूर्वाः स्त्रियाः सर्वाः सप्त प्रोक्ता यथाक्रमम् ।

पुनर्भूस् त्रिविधा तासां स्वैरिणी तु चतुर्विधा ॥

कन्या वाक्षतयोनिर् या पाणिग्रहणदूषिता ।

पुनर्भूः प्रथमा प्रोक्ता पुनः संस्कारकर्मणा ॥

देशधर्मान् अपेक्ष्य स्त्री गुरुभिर् या प्रदीयते ।

सोत्पन्नसाहसान्य् अस्मै सा द्वितीया प्रकीर्तिता ॥

असत्सु देवरेषु स्त्री बान्धवैर् या प्रदीयते ।

सवर्णाय सपिण्डाय सा तृतीया प्रकीर्तिता ॥

तिसॄणां पुनःपाणिग्रहणसंस्कारात् पुनर्भूत्वम् उच्यत इति ।

स्त्री प्रसूताप्रसूता वा पत्यौ स्वस्थे तु जीवति ।

कामात् समाश्रयेद् अन्यं स्वैरिणी प्रथमा तु सा ॥

कौमारं पतिम् उत्क्रम्य यान्यं पुरुषम् आश्रिता ।

पुनः पत्युर् गृहम् इयत् सा द्वितीया परिकीर्तिता ॥

मृते भर्तरि या नारी देवरादीन् अपास्य तु ।

उपगच्छेत् परं कामात् सा तृतीया प्रकीर्तिता ॥

प्राप्तदेशाद् धनक्रीता क्षुत्पिपासातुरा तु या ।

तवाहम् इत्य् उपगता सा चतुर्थी प्रकीर्तिता ॥

इति चतसॄणां स्वैरिणीनां या अन्तिमा, तिसॄणां पुनर्भुवां या प्रथमा, तयोः पतिकृतम् ऋणं तयोः प्रवर्तमानो दद्यात् ।

अधनस्य ह्य् अपुत्रस्य मृतस्योपेति यः स्त्रियम् ।

ऋणं वोढुः स भजते तद् एवास्य धनम् स्मृतम् ॥

स एव अन्त्यत्र आह ।

धनस्त्रीहारिपुत्राणाम् ऋणभाग् यो धनं हरेत् ।

पुत्रो ऽसतोः स्त्रीधनिनोः स्त्रीहारी धनिपुत्रयोः ॥

इति वचनात् ।

ननु योषिद्ग्राहाभावे पुत्रो दाप्यः, पुत्राभावे योषिद्ग्राह इति विरुद्धम् उच्यते । उभयसम्भवे न किञ्चिद् दातव्यम् इति न विरोधः । ते ऽन्तिमस्वैरिणीग्राहस्य प्रथमपुनर्भूग्राहस्य चाभावे पुत्रो दाप्यः, पुत्राभावे न निर्धननिरपत्ययोषिद्ग्राहो दाप्य इति । यद् वा धनस्त्रीहारीत्यादिवचने मध्यमपुत्रशब्दो गौणपुत्रपरः, अन्तिमपुत्रशब्दो मुख्यपुत्रपर इत्य् अविरोधः । उभयसम्भवे पुत्रयोषिद्ग्राहासम्भवे ऽन्यतरेणाप्य् ऋणं देयम्, अन्यतराभावे अन्यतरस्य ऋणादानोक्तेः । तथा हि “पुत्रो ऽसतो स्त्रीधनिनोः” इति वचनात् ।

स्त्रीहार्यभावे ऋणं पुत्रेण दातव्यम् इति प्रतीयते, तथा “स्त्रीहारी धनिपुत्रयोः” इति वचनात् । पुत्राभावे स्त्रीहारिणा ऋणं दातव्यम् इति । उभयसम्भवे अन्यतरेणापि दातव्यम् । यदा “असतो स्त्रीधनिनो” इत्य् अत्र स्त्रीतिशब्देन स्वैरिणीनाम् अन्तिमा पुनर्भुवा प्रथमा गृह्यते, तथा स्त्रीहारी धनिपुत्रयोः इत्य् अत्र स्त्रीशब्देन स्वैरिणीनाम् अन्तिमा व्यतिरिक्ता पुनर्भुवा प्रथमा व्यतिरिक्ता वा गृह्यन्त इत्य् अविरोधः । अत एव मुख्यपुत्रप्रशंसाम् आह नारदः ।

इच्छन्ति पितरः पुत्रं स्वार्थहेतोर् यतः सुतम् ।

उत्तमर्णाधमर्णेभ्यो माम् अयं मोक्षयिष्यति ॥

अतः पुत्रेण जातेन स्वार्थम् उत्सृज्य यत्नतः ।

ऋणात् पिता मोचनीयो यथा न नरकं व्रजेत् ॥

तपस्वी चाग्निहोत्री च ऋणवान् म्रियते यदि ।

तपश् चैवाग्निहोत्रं च तत् सर्वं धनिनां धनम् ॥

उत्तमम् ऋणम् उत्तमर्णं देवर्षिसम्बन्धि यागब्रह्मचर्यम्, अधमम् ऋणं अधर्मर्णं मनुष्यसम्बन्धि । बृहस्पतिः ।

उद्दामाद् ऋणम् आदाय स्वामिने न ददाति यः ।

सो ऽस्य दासो ऽर्थं भृत्यस्त्री पशुर् वा जायते गृहे ॥

तस्माद् अवश्यं पुत्रपौत्रपत्न्यादिभिः ऋणापाकरणं कर्तव्यम् ।

[इति वरदराजीये व्यवहारनिर्णये ऋणादानप्रकरणं समाप्तम्]