०६ मानसङ्ग्रहः

अथ मानसङ्ग्रहः

भावसाध्यत्वभावो ऽपि केचित् स्यात् संशयेषु च ।

साक्ष्यादीनां अभावे ऽत्र दिव्याभावे च कुत्रचित् ॥

दिव्ये तु मूर्द्धदण्डाभ्यां साध्यर्धं हेम कल्पयेत् ।

तत्रारभ्यार्धकाकण्याः शूद्रो दूर्वाकरः शपेत् ॥

त्रिकाकण्यूनषण्मानात् कृष्णलात् तिलहस्तकः ।

द्विगुनाद् रूप्यपाणिस् तु त्रिगुणात् काञ्चनं दधत् ॥

चतुर्गुणात् करे कृत्वा मृत्तिकां लाङ्गलोद्धृताम् ।

नीचः पञ्चगुणात् पुत्रदारैर् अन्यत्र पातकैः ॥

पाणानां दशमानानां दशकाद् धर्मशोधनम् ।

तत्रैवार्थेषु लेढव्यं फालं फालोपजीविना ॥

स्यात् पञ्चदशकात् कोशः त्रिंशतस् तण्डुलाः स्मृताः ।

चत्वारिंशत् तावत्ता तु तप्तमाषसमुद्धृतिः ॥

पञ्चाशतस् तुला ज्ञेयाः सप्तषष्ठे जलं भवेत् ।

पञ्चसप्ततिकाद् अग्निः शातात् स्यात् विषभक्षणम् ॥

एतानि शूद्रस्योक्तानि द्विगुणे ऽर्थे विशः स्मृताः ।

चत्वारिंशद् धान्यमाषः तौ यवः तौ च कृष्णलम् ॥

कृष्णलद्वितयं प्रोक्तं अण्विकाप्य् अत्र पणो ऽप्य् असौ ।

तिस्रो ऽण्विकाः कृष्णलं च हेममाष इतीर्यते ॥

शाणोण्विकाश् चतस्रस् तु दीनारास्था (-ख्यः?) चतुर्दश ।

अण्विका विंशतिः निष्कं शाणं साष्टाण्विकं तु तत् ॥

अष्टाण्विकाधिकं निष्कद्वितयं चित्रको भवेत् ।

सषोडशाण्विकं निष्कद्वयं कर्षक उच्यते ॥

दशभिर् वा पणं चैका दशभिस् तु चतुष्पणैः ।

निष्कैर् द्वादशभिर् वेति लौकिको मानसङ्ग्रहः ॥

यो राजसर्षपस्यार्धो लौकिकः काकणिस् तु सः ।

काकणिस् त्रितयं गौरो माषः स्याद् अर्धतण्डुलः ॥

स काकणिद्वयं मानद्वितयं मध्यमो यवः ।

काकणिद्वितयं न्यूनसपतमाषस् तु कृष्णलः ॥

कार्षापणस् तु अष्टमानो दशमानपणः परः ।

शाणोण्विका चतुष्का स्यात् लौकिके ऽप्य् एवम् एव सः ॥

षट्काकणिकमानाद्यो माषो ऽन्यश् चतुरण्विकः ।

कार्षापणो ऽन्यो निष्का मा पूर्वदेशे प्रवर्तते ॥

सुवर्णो ऽष्टाण्विकायुक्तं निष्कद्वयम् इहोच्यते ।

सुवर्ण एव दीनारः चित्रकश् चेति कथ्यते ॥

अक्षार्धं द्व्यणुकाद्यर्धमानयुक्तं द्विनिष्ककम् ।

अथ रजतमानविधिः

रूप्यमानेन (तु) माषः स्यात् मानैर् अर्धचतुर्दशैः ।

सप्ताण्विकाधिकं निष्कं पुराण्(ं?) मानं (मानवं?) च तत् ॥

शतमानं पलं च स्यात् निष्कैर् अर्धचतुर्दशैः ।

तैर् एव राजतं निष्कम् अथ तान्त्रिकम् उच्यते ॥

पाञ्चरात्रवैखानसानुसारि निष्कप्रमाणम् उच्यते ।

स्याद् अण्विकाचतुष्केण त्रिनिष्कः कर्षकः पणः ।

पूर्णो ऽर्धपादपादोननिष्कषोडशको भवेत् ॥

साहसो। द्विगुणो मध्य उत्तमः स्याच् चतुर्गुणः ।

अर्धपादोनविष्को द्विनिष्कषोडशको ऽथ वा ॥

पूर्वस् तद्द्विगुणो मध्ये मध्याद् द्विगुण उत्तमः ।

यवश् च कृष्णलं माषः सुवर्णो रूप्यनिष्ककः ॥

मानवोक्तयवादिभ्यः षष्ठांशो नास्ति वैष्णवे ॥

इति वरदराजीये मानसङ्ग्रहः समाप्तः