अथ दिव्यान्य् उच्यन्ते
अत्र पितामहः ।
धटो ऽग्निर् उदकं चैव विषं कोशश् च पञ्चमः ।
षष्ठश् च तण्डुलः प्रोक्तः सप्तमं तप्तमाषकः ॥
अष्टमं फालम् इत्य् उक्तं नवमं धर्मसम्भवम् ।
दिव्यान्य् एतानि सर्वाणि गुरुकार्येषु योजयेत् ॥
यस्माद् देवैः प्रयुक्तानि पुष्करार्थं महात्मभिः ।
परस्परविशुद्ध्यर्थं तस्माद् दिव्यानि नामतः ॥
अपराधानुरूपेण साध्वसाधुविवक्षया ।
देशकालार्थसङ्ख्याभिः प्रदातव्यानि नान्यथा ॥
ऋणादिकेषु कार्येषु सविवादे परस्परम् ।
द्रव्यसङ्ख्यान्विता देया पुरुषापेक्षया तथा ॥
तत्र शङ्खः- “तत्र दिव्यं नाम तुलाधारणं विषाशनम् अपां प्रवेशो लोहधारणम् इष्टापूर्तापत्यप्रदानम् अन्यांश् च शपथान् कारयेत्” । अत्र विष्णुः-
अथ समयक्रिया । राजद्रोहपातकेषु यथाकामम्, निक्षेपस्वर्णस्तेयसाहसेषु अर्थप्रमाणात् सर्वेष्व् अर्थजातेषु मूल्यं कनकं कल्पयेत् । तत्र कृष्णलोने शूद्रं दूर्वाकरं शापयेत् । द्विकृष्णलोने तिलकरम्, त्रिकृष्णलोने रजतकरम्, चतुःकृष्णलोने सुवर्णकरम्, पञ्चकृष्णलोने सीरोद्धृतमहीकरं सुवर्णार्धोने कोशो देयः शूद्रस्य । ततः परं यथार्हं दण्डाः – धटाग्न्यम्बुविषाणाम् अन्यतमं कोशवर्जं ब्राह्मणस्य । आगामिसमयनिबन्धक्रियासु कोशः । द्विगुणे ऽर्थे यथाभिहिता समयक्रिया वैश्यस्य । त्रिगुणे ऽर्थे राजन्यस्य, चतुर्गुणए ऽर्थे ब्राह्मणस्य । प्राग्दृष्टदोषं ब्राह्मणं दिव्यानाम् अन्यतमेनैव स्वल्पे ऽर्थे ऽपि कारयेत् । सुविदितसच्चरित्रं न महत्य् अर्थे ऽपीति ॥
अथ दिव्यकालः
अत्र प्रजापतिः ।
धटः सर्वर्तुकः प्रोक्तो वाते वाति च वर्जयेत् ।
अग्नेः शिशिरहेमन्तौ वर्षाश् चैव प्रकीर्तिताः ॥
ग्रीष्मे तोयं समाख्यातं हेमन्ते शिशिरे विषम् ।
अव्यवस्थितमर्यादं विषं प्रावृषि वर्जयेत् ॥
चैत्रो मार्गशिरश् चैव वैशाखश् च तथैव च ।
एते साधारणा मासा दिव्यानाम् अविरोधिनः ॥
अत्र विशेषम् आह पितामहः ।
पूर्वाह्णे ऽग्निपरीक्षा स्यात् पूर्वाह्णे च धटो भवेत् ।
मध्याह्ने तु जलं देयं धर्मतत्त्वम् अभीप्सता ॥
दिवसस्य तु पूर्वाह्णे कोशदिव्यं विधीयते ।
रात्रौ तु पश्चिमे यामे विषं देयं प्रयत्नतः ॥
अनुक्तकालविशेषाणां दिव्यानां पूर्वाह्ण एव कालः,
पूर्वाह्णे सर्वदिव्यानां प्रदानं परिकीर्तितम् ।
इति नारदवचनात् ।
अथ कर्तृनियमः
ब्राह्मणस्य धटः प्रोक्तः क्षत्रियस्य हुताशनम् ।
वैश्यस्य सलिलं प्रोक्तं विषं शूद्रस्य निर्मितम् ॥
तोयम् अग्निर् विषं चैव दातव्यं बलिनां नृणाम् ।
बालवृद्धस्त्रियश् चैव परीक्षेत धटेन तु ॥
कुष्ठिनां वर्जयेद् अग्निं सलिलं श्वासकासिनाम् ।
पित्तश्लेष्मवतां नित्याम् विषं तु परिवर्जयेत् ॥
अत्र याज्ञवल्क्यः ।
तुलाग्न्यापो विषं कोशो दिव्यानीह विशुद्धये ।
महाभियोगेष्व् एतानि शीर्षकस्थ ऽभियोक्तरि ॥
पितामहः ।
अवष्टम्भाभियुक्तानां धटादीनि विनिर्दिशेत् ।
तण्डुलाश् चैव कोशश् च शङ्कास्व् एतौ न संशयः ॥
तत्र चौर्यशङ्कायां तप्तमाषः ।
चौर्यशङ्काभियुक्तानां तप्तमाषो विधीयते ।
विनिर्दिशेद् इति वचनात् ।
चिर्स्थायिविहीनानि दिव्यानि परिवर्जयेत् ।
धटादीनि विषान्तानि कोशस् त्व् एवाशिरा मतः ॥
राजभिः शङ्कितानां च निर्दिष्टानां च दस्युभिः ।
आत्मशुद्धिपराणां च दिव्यं देयं शिरो विना ॥
अशिरांस्य् अपि दिव्यानि भूभृद् भृत्येषु दापयेत् ।
अत्र नारदः ।
शिरो ऽवस्थायिनि जने अभियोक्तर्य् अवस्थिते ।
दिव्यप्रदानम् उचितम् अन्यत्र नृपशासनात् ॥
अत्र पितामहः ।
त्र्यहोषिताय विधिवद् एकरात्रोषिताय वा ।
नित्यं देयानि दिव्यानि शुचये चार्द्रवाससे ॥
त्र्यहोषितत्वम् अत्यन्तमलिनपुरुषाभिप्रायम् । अत्र याज्ञवल्क्यः ।
सचेलस्नातम् आहूय सूर्योदय उपोषितम् ।
कारयेत् सर्वदिव्यानि नृपब्राह्मणसन्निधौ ॥
यद् इदं वचनम्,
स्त्रीणां च न भवेद् दिव्यं यदि धर्मम् अपेक्षते ।
इत्य् आङ्गिरसं तत् पुरुषस्य सम्भवे, न स्त्रीणाम् इत्य् अभिप्रायेण । अत एव पितामहः ।
बालवृद्धस्त्रियश् चैव परीक्षेत धटेन तु । इति ।
तथा नारदो ऽपि दिव्यान्य् उक्त्वा आह ।
स्त्रीणां शीलाभियोगे च स्तेयसाहसयोर् अपि ।
एवंविधो विधिर् दृष्टः सर्वार्थापह्नवेषु च ॥ इति ।
याज्ञवल्क्यः ।
तुला स्त्रीबालवृद्धान्धपङ्गुब्राह्मणरोगिणाम् ।
अग्निर् जलं वा शूद्रस्य यवाः सप्त विषस्य वा ॥
अत्र हारीतः ।
राजन्ये ऽग्निं धटं विप्रे वैश्ये तोयं नियोजयेत् ।
सर्वेषु सर्वं दिव्यं वा विषवर्जं द्विजोत्तमे ॥
न विषं ब्राह्मणे दद्याद् विषं वर्णान्तरे स्मृतम् ।
कोशतण्डुलधर्मांस् तु धर्मसम्भवम् एव च ॥
पुत्रदारादिशपथान् सर्वकालं प्रयोजयेत् ।
नार्तानां तोयशूद्धिः स्यात् न विषं पित्तरोगिणाम् ॥
श्वित्र्यन्धकुनखादीनां नाग्निकर्म विधीयते ।
पितामहः ।
स्त्रीबालवृद्धरोगार्तनिरुत्साहानि दुर्बला ।
न मज्जनीयास् तोयेषु स्वपप्राणा हि ते स्मृताः ॥
न लोहशिपिनाम् अग्निं सलिलं नाम्बुसेविनाम् ।
मन्त्रयोगविदां चैव विषं दद्यात् तु न क्वचित् ॥
बृहस्पतिः ।
दिव्यं तु वर्जयेन् नित्यम् आर्तानां तु गरैर् नृणाम् ।
तण्डुलैर् नाभियुञ्जीत व्रतिनां मुखरोगिणाम् ॥
महाभियोगे निर्धर्मे कृतघ्ने क्लीबकुत्सिते ।
नास्तिके दृष्टदोषे च कोशपानं विवर्जयेत् ॥
पितामः ।
मातापितृद्विजगुरुबालस्त्रीराजघातिनाम् ।
महापातकयुक्तानां नास्तिकानां विशेषतः ॥
लिङ्गिनां क्षपणादीनां मन्त्रतन्त्रक्रियाविदाम् ।
वर्णसङ्करजातानां पापाभ्यासप्रवर्तिनाम् ॥
एतेष्व् एवाभियोगेषु निन्द्येष्व् अन्येषु चैव हि ।
दिव्यं प्रकल्पयेन् नैव राजा धर्मपरायणः ॥
महापातकशङ्कायां परशुस् तप्तमाषकः ।
दशनिष्के तदर्थे च तदर्धे च तथा स्मृतः ॥
पञ्चनिष्के तदर्धे च तदर्धे तप्तमाषकः ।
इति पाठान्तरम् । अत्र हारीतः ।
विस्रम्भे सन्धिकार्ये च विवादे रिक्थिनां तथा ।
क्रियासमूह ऋत्विक्षु कोशम् एव प्रदापयेत् ॥
उभयानुमते देयं सर्वं दिव्यं प्रयत्नतः ।
पितामहः ।
लोकापवाददुष्टानां दिव्यं देयं शिरो विना ।
इन्द्रस्थाने ऽभिशप्तानां महापातकिनां नृणाम् ॥
राजद्रोहप्रवृत्तानां राजद्वारे प्रदापयेत् ।
प्रातिलोम्यप्रसूतानां दिव्यं देयं चतुष्पथे ॥
अतो ऽन्येषु च कार्येषु सभामध्ये प्रयोजयेत् ।
यथोक्तविधिना देयं दिव्यं दिव्यविशारदैः ॥
अयथोक्तप्रयुक्तं तु न सत्यं साध्यसाधने ।
अदेशकालदत्तानि बहिर्वेदिकृतानि च ॥
व्यभिचारं सदामृनि (?) कुर्वन्तीह न संशयः ।
[इति दिव्यानां कालदेशपात्रकर्तृभेदनिर्णयः]
अथ धटविधिर् उच्यते
अत्र प्रजापतिः ।
दिव्येषु सर्वकार्याणि प्राड्विवाकः प्रदापयेत् ।
अध्वरेषु यथाध्वर्युः सोपवासो नृपाज्ञया ॥
छित्त्वा याज्ञीयवृक्षं तु यूपवन् मन्त्रपूर्वकम् ।
प्रणम्य लोकपालेभ्यः तुला कार्या मनीषिभिः ॥
ऋज्वी धटतुला कार्या खादिरी तैन्दुकी तथा ।
खादिरं कारयेत् तत्र निर्व्रणं शुक्लवर्जितम् ॥
शिंशपा तदलाभे तु सालं वा कोटरं विना ।
एवंविधानि काष्ठानि धटार्थं परिकल्पयेत् ॥
मन्त्रः सौम्यो वानस्पत्यः छेदने जप्य एव च ।
चतुरश्रा तुला कार्या पादौ चापि तथाविधौ ॥
अनन्तरं तु तयोर् हस्तौ भवेद् अध्यर्धम् एव वा ।
तोरणे च तथा कार्ये पार्श्वयोर् उभयोर् अपि ॥
धटाद् उच्चतरे स्यातां नित्यं दशभिर् अङ्गुलैः ।
अवलम्बौ च कर्तव्यौ तोरणाभ्याम् अधोमुखौ ॥
मृण्मयौ सूत्रसम्बद्धौ धटमस्तकचुम्बिनौ ।
प्राङ्मुखो निश्चलः कार्यः शुचौ देशे धटः सदा ॥
इन्द्रस्थाने सभायां वा राजद्वारे चतुष्पथे ।
शिक्यद्वयं समासज्य पार्श्वयोर् उभयोर् अपि ॥
प्राङ्मुखान् कारयेद् दर्भान् शिक्ययोर् इति निश्चयः ।
एकस्मिंस् तुलयेत् कर्तॄन् अन्यस्मिन् मृत्तिकां शुभाम् ॥
इष्टकाभस्मपाषाणकपालास्थिविवर्जिताम् ।
परीक्षका नियोक्तव्यास् तुलामानविशारदाः ॥
वणिजो हेमकाराश् च कांस्यकारास् तथैव च ।
कार्यः परीक्षकैर् नित्यम् अवलम्बसमो धटः ॥
उदकं च प्रदाप्यं स्यात् धटस्योपरि पण्डितैः ।
यस्मिन् न प्लवते तोयं स विज्ञेयः समो धटः ॥
धटं तु कारयेन् नित्यं पताकाध्वजशोभितम् ।
तुलयित्वा नरं पूर्वं ततस् तम् अवतारयेत् ॥
एवम् उक्तविधिना तुलां कृत्वा प्राड्विवाकः एवं कुर्याद् इत्य् आह पितामहः ।
प्राञ्जलिः प्राङ्मुखो भूत्वा प्राड्विवाकस् ततो वदेत् ।
एह्य् एहि भगवन् धर्म अस्मिन् दिव्ये समाविश ॥
सहितो लोकपालैश् च वस्वादित्यमरुद्गणैः ।
आवाह्य तु धटे धर्मं पश्चाद् अङ्गादि विन्यसेत् ॥
इन्द्रं पूर्वे तु दिग्भागे प्रेतेशं दक्षिणे तथा ।
वरुणं पश्चिमे भागे कुबेरं तूत्तरे तथा ॥
अग्न्यादिलोकपालांश् च कोणभागेषु विन्यसेत् ।
इन्द्रः पीतो यमः श्यामो वरुणः स्फाटिकप्रभः ॥
कुबेरस् तु सुवर्णाभो ह्य् अग्निश् चापि सुवर्णभः ।
तथैव निरृतिः श्यामो वायुर् धूम्रः प्रशस्यते ॥
ईशानस् तु भवेद् रक्त एवं ध्यायेत् क्रमाद् इमान् ।
इन्द्रस्य दक्षिणे पार्श्वे वसून् आराधयेद् बुधः ॥
बृहस्पतिः ।
धरोद्घ्रुवस् तथा सोम आपश् चैवानिलो ऽनलः ।
देवेशेशानयोर् मध्ये ह्य् आदित्यानां ततो ऽयनम् ॥
धातार्यमा च मित्रश् च वरुणो ऽंशो भगस् तथा ।
इन्द्रो विवस्वान् पूषा च पर्जन्यो दशमः स्मृतः ॥
ततस् त्वष्टा ततो विष्णुर् अजघन्यो जघन्यजः ।
इत्य् एते द्वादशादित्या नामभिः परिकीर्तिताः ॥
अग्नेः पश्चिमभागे तु रुद्राणाम् अयनं विदुः ।
वीरभद्रश् च साम्भुश् च गिरीशश् च महायशाः ॥
अजेकपाद् अहिर्बुध्न्यः पिनाकी चापराजितः ।
भवनाथेश्वरश् [भुवनाधीश्वराश्] चैव कपाली च विशाम्पतिः ॥
स्थाणुर् भगश् च भगवान् रुद्राश् चैकादश स्मृताः ।
प्रेतेशरक्षसोर् मध्ये मातृस्थानं प्रकल्पयेत् ॥
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही चैव माहेन्द्री चामुण्डा गणसंयुता ॥
निरृतेर् उत्तरे भागे गणेशायतनं विदुः ।
वरुणस्योत्तरे भागे मरुतां स्थानम् उच्यते ॥
श्वसनः स्पर्शनो वायुर् अनिलो मारुतस् तथा ।
प्राणः प्राणेशजीवौ च मरुतो ऽष्टौ प्रकीर्तिताः ॥
स्मृत्यन्तरे ।
आवहो विवहश् चैव उद्वहः संवहस् तथा ।
न्यावहो निवहश् चैव प्रवहो जीवहस् तथा ॥
नामभेदेन मरुतां विकल्पः स उदाहृतः ।
धटस्योत्तरभागे तु दुर्गाम् आवाहयेद् बुधः ॥
एतासां देवतानां तु स्वनाम्ना पूजनं विदुः ।
धूपावसानं धर्माय दत्वा चार्घ्यादिकं क्रमात् ॥
धटस्य पश्चाद् अङ्गानां भूषणान्तं प्रकल्पयेत् ।
गन्धपुष्पादीनि च धटपूजायां रक्तानि कार्याणि, नारदवचनात्-
रक्तैर् गन्धैश् च पुष्पैश् च दध्यपूपाक्षतादिभिः ।
अर्चयेत् तु धटं पूर्वं ततः शिष्टांस् तु पूजयेत् ॥ इति ।
इन्द्रादीनां रक्तैर् अन्यैर् वा पूजनम् । एतच् च सर्वं प्राड्विवाकः कुर्याद् इत्य् आह प्रजापतिः ।
प्राड्विवाकस् ततो विप्रो वेदवेदाङ्गपारगः ।
श्रुतवृत्तोपसम्पन्नः शान्तिचित्तो विमत्सरः ॥
सत्यसन्धः शुचिर् दक्षः सर्वप्राणिहिते रतः ।
उपोषितः शुद्धवासाः कृतदन्तानुधावनः ॥
सर्वासां देवतानां च पूजां कुर्याद् यथाविधि ।
चतुर्दिक्षु तथा होमः कर्तव्यो वेदपारगैः ॥
आज्येन हविषा चैव समिद्भिर् होमसाधनैः ।
सावित्र्या प्रणवेनाथ स्वाहान्तेनैव हावयेत् ॥
धर्मार्थम् अभियुक्तः स्यात् लिखित्वा तन्तुपत्रके ।
मन्त्रेणानेन सहितं तत् कार्यं तु शिरोगतम् ॥
अयं मन्त्रः ।
आदित्यचन्द्राव् अनिलो ऽनलश् च द्यौर् भूमिर् आपो हृदयं यमश् च ।
अहश् च रात्रिश् च उभे च सन्ध्ये धर्मश् च जाजाति नरस्य वृत्तम् ॥ इति ।
अनेन मन्त्रेण सहितम् अभियुक्तार्थं पत्रे लिखित्वा तत् पत्रं शिरसि धार्यम् । एतच् च धर्मावाहनादि शिरसि पत्रारोहणान्तं दिव्यमातृकाख्यं सर्वदिव्यसाधारणम् उक्तम् । तथा च प्रजापतिः ।
इमं मन्त्रविधिं कृत्स्नं सर्वं दिव्येषु योजयेत् ।
आवाहनं च देवानां तथैव परिकल्पयेत् ।
अनन्तरं प्राड्विवाको धटम् आमन्त्रयेत् ।
त्वं धट ब्रह्मणा सृष्टः परीक्षार्थं दुरात्मनाम् ।
धकाराद् धर्ममूर्तिस् त्वं टकारात् कुटिलं नरम् ॥
धृतो भावयसे यस्मात् धट्स् तेनाभिधीयसे ॥
इत्य् अनेन मन्त्रेण तुलाम् अभिमन्त्रयेत् । याज्ञवल्क्य आह ।
तुलाधारणविद्वद्भिर् अभियुक्तस् तुलाद्धृतः ।
प्रतिमानसमीभूतो रेखां कृत्वावतारितः ॥
त्वं तुले सत्यधामासि पुरा देवैर् विनिर्मिता ।
तत् सत्यं वद कल्याणि संशयान् मां विमोचय ॥
यद्य् अस्मि पापकृन् मातः ततो मां त्वम् अधो नय ।
शुद्धश् चेद् गमयोर्ध्वं मां त्वं तुलेत्य् अभिमन्त्रयेत् ॥
अत्र नारदः ।
शिक्यद्वयं समासाद्य धटकर्कटयोर् दृढम् ।
एकत्र शिक्ये पुरुषम् अन्यत्र तुलयेच् छिलाम् ॥
धारयेद् उत्तरे पार्श्वे पुरुषं दक्षिणे शिलाम् ।
पीठिकां कारयेत् तस्मिन् इष्टकापांसुलोष्टकैः ॥
प्रतिमाने मृच्छिलयोर् विकल्पः । एवं शिरोऽवस्थितजितपत्रक्रमम् अनन्तरं धटम् आरोपयति । आरोपितं च विनाडीपञ्चकं यावत् तावत् तथैवावस्थापयेत्,
विनाड्यः पञ्च विज्ञेयाः परीक्ष्याः कालकोविदैः ।
इति स्मृतेः । दशगुर्वक्षयोच्चारणकालः प्राणः । षट्प्राणो विनाडिः ।
दशगुर्वक्षरः प्राणः षट्प्राणाः स्युर् विनाडिका ।
तासां षष्ट्या तु घटिका तासां षष्ट्या त्व् अहः स्मृतम् ॥ इति ।
शुद्ध्यशुद्धिनिर्णयकारणम् आह प्रजापतिः ।
तुलितो यदि वर्धेत स शुद्धः स्यान् न संशयः ।
समो वा हीयमानो वा न विशुद्धो भवेन् नरः ॥
तथा अन्यत्र ।
कक्ष्याच्छेदे तुलाभङ्गे धटकर्कटयोस् तथा ।
रज्जुछेदे ऽक्षभङ्गे च तथैवाशुद्धिम् आदिशेत् ॥ इति ।
यदा तु दृश्यमाने कारणे एषां भङ्गः नादृष्टवशात्, तदा समाधानं कृत्वा पुनर् आरोपणं कर्तव्यम्,
शिक्यादिछेदभङ्गे च पुनर् आरोपयेन् नरम् ।
इति स्मृत्यन्तरवचनात् । समे पुनःप्रयोग इति बृहस्पतिर् आह ।
धटे नियुक्तस् तुलितो हीनश् चेद् धानिम् आप्नुयात् ।
तत्समस् तु पुनस् तौल्यो वर्धितो विजयी भवेत् ॥
शिक्यछेदे ऽक्षभङ्गे वा दद्याच् छुद्धिं पुनर् नृपः ॥
अत्र प्रजापतिः ।
साक्षिणो ब्राह्मणाः श्रेष्टाः यथादृष्टार्थवादिनः ।
ज्ञानिनः शुचयो ऽलुब्धा नियोक्तव्या नृपेण तु ॥
तेषां वचनतो गम्यः शुद्ध्यशुद्धिविनिर्णयः ।
ऋत्विक्पुरोहिताचार्यान् दक्षिणाभिश् च तोषयेत् ॥
शंसन्तु ब्राह्मणाः सर्वे शुद्ध्यशुद्धी नृपे तदा ।
सद्भिः परिवृतो राजा शुद्धम् आहूय पूजयेत् ॥
शुद्धिव्यञ्जनहेत्वर्थं पत्रं दद्यात् स्वचिह्नितम् ।
अशुद्धं दण्डयित्वा तु स्वराष्ट्राद् विप्रवासयेत् ॥
एवं कारयिता राजा भुक्त्वा भोगान् मनोगतान् ।
महतीं कीर्तिम् आसाद्य ब्रह्मभूयाय कल्पते ॥
इति धटविधिः
अथाग्निविधिः
अथ प्रजापतिः ।
अग्नेर् विधिं प्रवक्ष्यामि यथाशास्त्रेषु चोदितम् ।
कारेयन् मण्डलान्य् अष्टौ पुरस्तान् नवमं तथा ॥
आग्नेयं मण्डलं त्व् आद्यं द्वितीयं वारुणं स्मृतम् ।
तृतीयं वायुदैवत्यं चतुर्थं यमदैवतम् ॥
पञ्चमं त्व् इन्द्रदैवत्यं मण्डलं तूच्यते बुधैः ।
कौबेरम् उच्यते षष्ठं सप्तमं सोमदैवतम् ॥
आदित्यम् अष्टमं चैव नवमं सर्वदैवतम् ।
एतानि मण्डलान्य् अष्टाव् इति शास्त्रविदो विदुः ॥
अष्टभिर् मण्डलैः प्रोक्तम् अङ्गुलीनां शतद्वयम् ।
चतुर्विंशत्समधिकं भूमेस् तु परिकल्पना ॥
षोडशाङ्गुलिसञ्ज्ञेयं मण्डलं तावद् अन्तरम् ।
अङ्गुलिप्रमाणं च,
तिर्यग्यवोदरा ह्य् अष्टाव् ऊर्ध्वा वा व्रीहयस् त्रयः ।
प्रमाणम् अङ्गुलस्योक्तं वितस्तिर् द्वादशाक्गुला ॥
हतो वितस्तिद्वितयं दण्डो हस्तचतुष्टयम् ।
तत्सहस्रद्वयं क्रोशो योजनं तच्चतुष्टयम् ॥ इति ।
स्मृत्यन्तरे ।
द्वात्रिंशदङ्गुलं प्राहुः मण्डलं तावदन्तरम् ।
अष्टभिर् मण्डलैर् एवम् अङ्गुलीनां शतद्वयम् ॥
षट्पञ्चाशत्समधिकं भूमेस् तु परिकल्पना ।
कर्तुः पदः समं कार्यं मण्डलं तु प्रमाणतः ॥
पदः समम् इति कल्पान्तरम् । तत्र नवममण्डलपरिमिताङ्गुलप्रमाणकं विहायाष्टभिर् मण्डलैः अष्टभिश् चान्तरालैः प्रत्येकं षोडशाङ्गुलिप्रमाणेन अङ्गुलीनां षट्पञ्चाशदधिकं (?) शतद्वयं सम्पद्यते । तत्रापि गम्यानि सप्तैव मण्डलानि । यस्मात् प्रथमे तिष्ठति नवमे क्षिपति । तत्र सचेलस्नातम् आहूय इत्यादि दिव्यमातृकोक्तसाधारणधर्मेष्व् अनुष्ठितेषु तुलाविधानोक्तधर्मावाहनादि-शिरःपत्रारोपणान्ते च विध्यन्ते । सत्य् अग्निविधौ विशेषम् आह प्रजापतिः ।
पश्चिमे मण्डले तिष्ठन् प्राङ्मुखः प्राञ्जलिः शुचिः ।
लक्षयेयुः क्षतादीनि हस्तयोर् अधिकारिणः ॥
कराभ्यां येनासौ विमृदितव्रीहिहस्तस्य करौ लक्षयित्वा तिलकालकवणकिणादिस्थानेष्व् अलक्तकरसादिनाङ्कयित्वा यथाह नारदः ।
हस्तक्षतेषु सर्वेषु कुर्याद् धंसपदानि तु ।
इति । अनन्तरं सप्ताश्वत्थस्य पर्णानि हस्तयोर् अञ्जलीकृतयोर् न्यसेत्,
पत्रैर् अञ्जलिम् आपूर्य आश्वत्थैः सप्तभिः समैः ।
इति स्मरणात् । तानि च हस्तसहितानि सूत्रेण तावद् वेष्टयेत् । यावन्त्य् अश्वत्थपर्णानि सप्तकृत्वो वेष्टयेद् इत्य् अर्थः । सूत्राणि च सप्तशुक्लानि भवन्ति ।
वेष्टयीत सितैर् हस्तौ सप्तभिः सूत्रतन्तुभिः ।
इति नारदवचनात् । तथा सप्त शमीपत्राणि सप्तैव दूर्वापत्राणि चाक्षताश् च दध्यक्तान् अक्षतांश् चाश्वत्थपत्राणाम् उपरि विन्यसेत्,
सप्त पिप्पलपत्राणि शमीपत्राण्य् अथाक्षतान् ।
दूर्वायाः सप्त पत्राणि दध्यक्ताश् चाक्षतान् न्यसेत् ॥
इति स्मरणात्, तथा कुसुमानि च विन्यसेत्,
सप्त पिप्पलपत्राणि अक्षतान् सुमनोदधि ।
हस्तयोर् निक्षिपेत् तत्र सूत्रेणावेष्टनं तथा ॥
इति पितामहवचनात् । सुमनसः पुष्पाणि । यद् अपि स्मरणम्,
अयस् तप्तं तु पाणिभ्याम् अर्कपत्रैस् तु सप्तभिः ।
अन्तर्हितं हरन् शुद्धस् त्व् अदग्धः सप्तमे पदे ॥
इति तद् अश्वत्थपत्राभावे ऽर्कपत्रविषयं वेदितव्यम् । अत्र याज्ञवल्क्यः ।
करौ विमृदितव्रीहेः लक्षयित्वा ततो न्यसेत् ।
सप्ताश्वत्थस्य पत्राणि तावत् सूत्रेण वेष्टयेत् ॥
यस्य कराभ्यां व्रीहयो विमर्दिताः, तस्य करौ लक्षयित्वा हस्तगततिलकालव्रणकिणादि परिगणय्य, अनन्तरं सप्ताश्वत्थस्य पत्राणि अञ्जलीकृतयोर् हस्तयोर् न्यसेत् । तान्य् अश्वत्थपत्राणि सप्तकृत्वः शुक्लैस् तन्तुभिः वेष्टयेत् ,
वेष्टयेरन् सितैर् हस्तौ सप्तभिः सूत्रतन्तुभिः ।
इति नारदवचनात् । अश्वत्थपत्राणाम् उपरि सप्तशमीपत्राणि दूर्वापत्राणि च सप्त दध्यक्तान् अक्षतांश् च विन्यसेत् । तथा च पितामहः ।
सप्त पिप्पलपत्राणि शमीपत्राण्य् अथाक्षतान् ।
दूर्वायाः सप्त पत्राणि दध्यक्तान् अक्षतांस् तथा ॥
विन्यसेद् इति शेषः । तथा कुसुमादि च विन्यसेत् ।
सप्तपिप्पलपत्राणि अक्षतान् कुसुमं दधि ।
हस्तयोर् निक्षिपेत् तत्र सूत्रेणावेष्टयेत् तथा ॥ इति ।
यद् अपीदं स्मरणम्,
अयस् तप्तं तु पाणिभ्याम् अर्कपत्रैस् तु सप्तभिः ।
अन्तर्हितरजः शुद्धस् त्व् अदग्धं सप्तमे पदे ॥
इति, तद् अश्वत्थपत्राभावे द्रष्टव्यम् । अत्र प्रजापतिः ।
अग्रहीनं समं कृत्वा त्व् अष्टाङ्गुलम् अयोमयम् ।
पिण्डं तु दापयेद् अग्नौ पञ्चाशत्पलिकं स्मृतम् ॥
अत्र व्यासः ।
प्राङ्मुखस् तु ततस् तिष्ठेत् प्रसारितकराङ्गुलिः ।
आर्द्रवासाः शुचिश् चैव शिरस्य् आरोप्य पत्रकम् ॥
जत्यैव लोहकारो यः कुशलश् चाग्निकर्मणि ।
दृष्टप्रयोगश् चान्यत्र तेन यो ऽग्नौ तु दापयेत् ॥
अग्निवर्णमयः पिण्डं सस्फुलिङ्गं सुरक्षितम् ।
पञ्चाशत्फलिकं भूयः कारयित्वा शुचिर् द्विजः ॥
तृतीयतापे तप्यन्तं ब्रूयात् सत्यपुरस्कृतम् ।
शृण्विमं मानवं धर्मं लोकपालैर् अधिष्ठितम् ॥
त्वम् अग्ने सर्वदेवानां पवित्रं परमं मुखम् ।
त्वम् अग्ने सर्वभूतानां हृदिस्थो वेत्सि चेष्टितम् ॥
सत्यानृते च विज्ञाय त्वत्तः समुपगृह्यते ।
वेदादिभिर् इदं प्रोक्तं नान्यथा कर्तुम् अर्हसि ॥
स एष त्वां कारयति सत्येनानेन मानवः ।
सत्यवाक्यस्य चास्य त्वं शीतो भव हुताशन ॥
मृषावाक्यस्य पापस्य दह हस्तौ च मायिनः ।
अमुम् अर्थं च पत्रस्थम् अभियुक्तं यथार्थतः ॥
संश्राव्य मूर्ध्नि तस्यैव यस्य देयो यथाक्रमम् ।
इत्य् उक्त्वा हस्तयोस् तस्य प्रदद्यात् पिण्डपावकम् ॥
सम्प्रतप्तायसं भुग्नं विस्फुलिङ्गार्चिर् उद्धृतम् ।
दृढं गृहीत्वा सन्दंशैः विद्युज्ज्वालासमप्रभम् ॥
हस्ताभ्यां तं समादाय प्राड्विवाकसमीरितः ।
स्थित्वैकस्मिंस् ततो ऽन्यानि व्रजेत् सप्त त्व् अजिहमगः ॥
असम्भ्रान्तः शनैर् गच्छेद् अक्रुद्धः सो ऽनलं प्रति ।
न पातयेत् ताम् अप्राप्य या भूमिः परिकल्पिता ॥
न मण्डलम् अतिक्रामेत् नान्तरा स्थापयेत् पदम् ।
मण्डलं नाष्टमं गत्वा ततो ऽग्निं विसृजेन् नरः ॥
यस् त्व् अन्तरा पातयति दग्धश् च न विभाव्यते ।
पुनस् तं हारयेद् अग्निं स्थितिर् एषा दृढीकृता ॥
प्रथमं मण्डलस्थितस्य कर्तुर् अग्न्यभिमन्त्रणम् आह याज्ञवल्क्यः ।
त्वम् अग्ने सर्वभूतानाम् अन्तश् चरसि पावक ।
साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यं कवे मम ॥
सत्यं ब्रूहि दर्शयेत्य् अर्थः । तत्र प्रथमं सुतप्तं पिण्डं लोहशुद्ध्यर्थम् उदके निक्षिप्य, पुनः सन्ताप्योदके निक्षिप्य, तृतीयतापे सन्दंशेन गृहीत्वा, पुरत आनीते कर्ता त्वम् अग्ने सर्वभूतानाम् इत्य् अभिमन्त्रणं ब्रूयात् । अस्मिन्न् अवसरे प्राड्विवाको मण्डलानां दक्षिणप्रदेशे लौकिकम् अग्निम् उपसमाधाय अग्नये पावकाय स्वाहा इति अष्टोत्तरशतम् आज्येन जुहुयात्,
शान्त्यर्थं जुहुयाद् अग्नौ घृतं चाष्टोत्तरं शतम् ।
इति स्मृत्यन्तरे दर्शनात् । अष्टमे मण्डले स्थित्वा, नवमे ऽग्नित्यागे कृते, एवं कुर्याद् इत्य् आह याज्ञवल्क्यः ।
मुक्त्वाग्निं मृदितव्रीहिर् अदग्धः शुद्धिम् आप्नुयात् ।
अत्र कात्यायनः ।
प्रस्खलत्य् अभिशस्तश् चेत् स्थानाद् अन्यत्र दह्यते ।
अदग्धं ते विदुर् देवाः तस्य भूयो ऽपि दापयेत् ॥
स्थानाद् अन्यत्र हस्ताभ्याम् अन्यत्रेत्य् अर्थः । अत्र प्रजापतिः ।
अन्तरा पतिते पिण्डे सन्देहे वा पुनर् हरेत् ।
हृते तु मर्दयेत् पश्चात् व्रीहीन् अप्य् अथ वा यवान् ॥
यदि गच्छतः अन्तराष्टममण्डलाद् अर्वाग् एव पिण्डः पतति, व्रीहियवादिमर्दने कृते ऽपि दग्धादग्धत्वेन वा संशयो भवति, तदा पुनर् हरेत् । द्वितीये प्रयोगे ऽपि सन्देहे हानिर् एव, पुनः पुनर् हरेद् इति वचनाभावात् । तत्र शुद्धस्य राज्ञा शुद्धिपत्रं देयम् । अशुद्धस्य पूर्ववद् दण्डादानपूर्वकं त्याग एव ।
[इत्य् अग्निविधिः]
अथोदकविधिर् उच्यते
अत्र प्रजापतिः ।
तोयस्याथ प्रवक्ष्यामि विधिं धर्म्यं पुरातनम् ।
शुभाशुभपरीक्षार्थं ब्रह्मणाभिहितं स्वयम् ॥
शरान् सम्पूजयेद् भक्त्या वैणवं च धनुस् तथा ।
अर्चयेत् पुष्पदीपैश् च ततः कर्म समारभेत् ॥
तत्र कात्यायनः ।
शरान् अनायसैर् अग्रैः प्रकुर्वीत विशुद्धये ।
वेणुकाण्डमयांश् चैव क्षेप्ता च सुदृढं क्षिपेत् ॥
अत्र नारदः ।
क्रूरं धनुः सप्तशतं मध्यमं षट्छतं स्मृतम् ।
मन्दं पञ्चशतं ज्ञेयं एष ज्ञेयो धनुर्विधिः ॥
नातिक्रूरेण धनुषा क्षेपयित्वा शरत्रयम् ।
पानीये मज्जनं कार्यं शङ्का यत्र प्रजायते ॥
ब्राह्मणः क्षत्रियो वैश्यो रागद्वेषविवर्जितः ।
नाभिमात्रे जले स्थित्वा पुरुषं स्तम्बयेद् बली ॥
तस्योरू प्रतिसङ्ग्राह्य निमज्जेद् अभिशापवान् ।
अत्र प्रजापतिः ।
शरत्रयं वैणवं च धनुष्य् अपि च वैणवे ।
तत्रैकादशाङ्गुल्यधिकं हस्तचतुष्टयम् उत्तमस्य धनुषः प्रमाणम्, मध्यमस्य दशाङ्गुलाधिकम्, अधमस्य नवाङ्गुलाधिकम्, शराश् चानायसाग्रा वैणवाः कार्याः । अत्र प्रजापतिः ।
क्षेप्ता च क्षत्रियः कार्यः तद्वृत्तिर् ब्राह्मणो ऽपि वा ।
अक्रूरहृदयः शान्तः सोपवासः क्षिपेद् इषून् ॥
मध्यमेन तु चापेन प्रक्षिपेत् तु शरत्रयम् ।
हस्तानां तु शते सार्धे लक्ष्यं कृत्वा विचक्षणः ॥
तद्गोचराणां हि बुधः शराणां शस्त्रचोदनात् ।
मध्यमस् तु शरो ग्राह्यः सर्पणं परिवर्जयेत् ॥
सर्पन् सर्पन् शरो यायात् दूराद् दूरतरं बहिः ॥
अत्र व्याख्यातृभिर् एवम् उक्तम् । लक्ष्यविधानात् पतनं ग्राह्यम् इति च विधानाल् लक्ष्याद् अर्वाक् पतने शरम् आदाय तल् लक्ष्यं गत्वा वेगवता पुरुषेणागन्तव्यम् । लक्ष्यम् अतिक्रम्य पतने सति, शरम् आदाय पतनदेशे स्थित्वा, तत आरभ्य वेगवता पुरुषेणागन्तव्यम् । लक्ष्यपतनयोर् उभयोर् दृष्टार्थत्वायेति ।
इषून् न प्रक्षिपेत् प्राज्ञो मारुते चातिवायति ।
विषमे भूप्रदेशे वा वृक्षस्थाणुसमाकुले ॥
देवह्रदेषु यत् तोयं नास्मिन् कुर्याद् विशोधनम् ।
आहार्यं वर्जयेत् तोयं श्रीघ्रगासु नदीषु च ॥
आहार्यं घटादिभिर् उद्धृतम् ।
स्थिरतोये निमज्जेत गन्धवर्णरसान्विते ।
तृणशैवालरहिते जलूकामत्स्यवर्जिते ॥
नाभिमात्रे निमज्जेत न चागाधे न चाल्पके ।
आविशेन् मज्जने नित्यम् ऊर्मिपङ्कविवर्जिते ॥
स्थापयेत् प्रथमं तोये स्तम्भवत् पुरुषं नृपः ।
आश्रित्य यं निमज्जन्ति मानवाः शुद्धिकाङ्क्षिणः ॥
अत्र स्मृत्यन्तराद् विशेषः ।
उदके प्राङ्मुखस् तिष्ठेद् धर्मस्थूणां प्रगृह्य च । इति ।
नाभिप्रमाणोदकस्थो याज्ञियवृक्षोद्भवां धर्मस्थूणाम् अवष्टभ्य प्राङ्मुखस् तिष्ठेद् इत्य् अर्थः ।
पुरुषस्य च कर्तुश् च धर्मदृष्टेन हेतुना ।
क्षिप्तायां तु तृतीयायां समं गमनमज्जनम् ॥
आगतं प्राङ्मुखं कृत्वा तोयमध्ये तु कारिणम् ।
ततस् त्व् आवाहरेद् देवान् सलिलं चानुमन्त्रयेत् ॥
स्मृत्यन्तरे । तोरणम् अपि निमज्जनसमीपस्थाने समे देशे शोध्यप्रमाणतोच्छ्रितं कार्यम् । तत्र त्रिषु शरेषु मुक्तेषु एको वेगात् पुरुषो मध्यमशरस्थानं गत्वा तम् आदाय तत्रैव तिष्ठति । अन्यो ऽपि पुरुषो वेगाच् छरमोक्षस्थाने तोरणमूले तिष्ठति । एताव् अप्य् एवं लक्षणाव् इति नारदः ।
पञ्चाशतो धावकानां यौ स्याताम् अधिकौ जवे ।
तौ तत्र विनियोक्तव्यौ शरानयनकारणात् ॥
तत्र प्रथमं वरुअणपूजा कर्तव्या, नारदवचनात् ।
गन्धमाल्यैः सुरभिभिः मधुक्षीरघृतादिभिः ।
पूजाम् आदौ प्रकुर्वीत वरुणाय समाहितः ॥
एवं वरुणपुञां प्रथमं कृत्वा, धर्मावाहनादिसकलदेवतापुजाहोमं समन्त्रकं शिरःपत्रारोपणादिषु कृतेषु प्राड्विवाकेनोदकाभिमन्त्रणं कर्तव्यम् इति याज्ञवल्क्यः ।
तोयं त्वं प्राणिनां प्राणः सृष्टेर् आद्यं तु निर्मितम् ।
शुद्धं च कारणं प्रोक्तं द्रव्याणां देहिनां तथा ॥
अतस् त्वं दर्शयात्मानं शुभाशुभपरीक्षणे ।
अत्र विष्णुः ।
त्वम् अम्भः सर्वभूतानाम् अन्तश् चरसि साक्षिवत् ।
त्वम् एवाम्भो विजानीषे न विदुर् यानि मानवाः ॥
व्यवहाराभिशस्तो ऽयं मानुषस् त्वयि मज्जति ।
तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हसि ॥
एवं प्राड्विवाकेन जलाभिमर्शने कृते, शोध्य एवं कुर्याद् इत्य् आह याज्ञवल्क्यः ।
सत्येन माभिरक्षस्व वरुणेत्य् अभिशाप्य कम् ।
नाभिदध्नोदकस्थस्य गृहीत्वोरू जलं विशेत् ॥
कम् उदकम् । अभिशाप्य अभिमन्त्र्य । एवं तोरणमूले शरपतनयोः स्थितयोः तृतीयस्यां करतालिकायां शोध्यो निमज्जति । तत्समकालम् एव तोरणमूले स्थितो दूरतरं मध्यमशरपातस्थानं गच्छति । अन्यो ऽपि शरग्राही च तस्मिन् प्राप्ते, द्रुततरं तोरणमूलं प्राप्यान्तर्जलगतं यदि न मग्नं पश्यति, तदा शुद्धो भवति । एतद् एव स्पष्टीकृतं पितामहेन ।
गच्छेत् तोरणमूलात् तु लक्षस्थानं जवी नरः ।
तस्मिन् गते द्वितीयो ऽपि वेगाद् आदाय सायकम् ॥
गच्छेत् तोरणमूलं तु यतः स पुरुषो गतः ।
आगतस् तु शरग्राही न पश्यति तदा जले ॥
अन्तर्जलगते सम्यक् तदा शुद्धिं विनिर्दिशेत् ।
अन्यथा न विशुद्धः स्याद् एकाङ्गस्यापि दर्शने ॥
स्थानाद् वान्यत्र गमनाद् यस्मिन् पूर्वं निवेशितः । इति ।
पूर्वं निवेशितस्थानाद् अन्यत्र गमने ऽप्य् अशुद्धिर् द्रष्टव्या । एकाङ्गस्यापि दर्शन इति कर्णाद्यभिप्रायेण,
शिरोमात्रं तु दृश्येत न कर्णौ नापि नासिके ।
अप्सु प्रवेशने यस्य शुद्धं तम् अपि निर्दिशेत् ॥
इति विशेषाभिधानात् ।
निमज्यो ऽप्लवने यस् तु दृष्टश् चेत् प्राणिना नरः ।
पुनस् तत्र निमज्जेत् स दशचिह्नविभावितः ॥
अत्र शुद्धस्य शुद्धिपत्रं राज्ञा दातव्यम् । विपरीतं दण्डयित्वा विवासयेत् ।
[इति उदकविधिः]
अथ विषविधिर् उच्यते
तत्र प्रजापतिः ।
विषस्याथ प्रवक्ष्यामि विधिं भक्षणचोदितम् ।
अभियुक्ताय दातव्यं यवमात्रं प्रदीयते ॥
यवाः सप्त प्रदातव्या अथ वा षट् च सङ्ख्यया ।
शृङ्गिणो वत्सनाभस्य हैमजस्य विषस्य वा ॥
वारिजानि च जीर्णानि कृत्रिमाणि तथैव च ।
भूमिजानि च सर्वाणि विषाणि परिवर्जयेत् ॥
ओषधीश् चैव रत्नानि मन्त्रयोगाद् विषापहात् ।
कर्तुः शरीरसंस्थाश् च परीक्षेत महीपतिः ॥
पूर्वाह्णे शीतले देशे विषं देयं घृतप्लुतम् ।
नारदः ।
वर्षासु षड्यवा मात्रा ग्रीष्मे पञ्चयवाः स्मृताः ।
हेमन्तके सप्तयवाः शरद्य् अल्पा ततो ऽपि हि ॥
दद्याद् धि सोपवासाय देवब्राह्मणसन्निधौ ।
धूपोपहारमन्त्रैश् च पूजयित्वा महेश्वरम् ॥
द्विजानां सन्निधाव् एव दक्षिणाभिमुखे स्थिते ।
उदङ्मुखः प्राङ्मुखो वा दद्याद् विप्रः समाहितः ॥
तत्र प्राड्विवाकः सोपवासो महादेवं सम्पूज्य तत्पुरतः शैलजं शृङ्गप्रभवं विषं स्थापयित्वा धर्मादिपूजां कृत्वा शोध्यशिरसि पत्रं निधाय विषम् अभिमन्त्रयते ।
त्वं विष ब्रह्मणा सृष्टः परीक्षार्थं दुरात्मनाम् ।
पापानां दर्शयात्मानं शुद्धानाम् अमृतं भव ॥
मृत्युमूर्ते विष त्वं हि ब्रह्मणा परिनिर्मितम् ।
त्रायस्वैनं नरं पापात् सत्यं चेद् अमृतं भव ॥
एवम् अभिमन्त्र्य दक्षिणाभिमुखाय उदङ्मुखो वा समाहितो विषं दद्यात् । शोध्यः, एवम् अभिमन्त्र्य भक्षयेद् इत्य् आह याज्ञवल्क्यः ।
त्वं विष ब्रह्मणः पुत्र सत्यधर्मे व्यवस्थित ।
त्रायस्वास्माद् अभीशापात् सत्येन भव मे ऽमृतम् ॥
एवम् उक्त्वा विषं शार्ङ्गं भक्षयेद् धिमशैलजम् ।
यस्य वेगैर् विना जीर्येत् शुद्धिं तस्य विनिर्दिशेत् ॥
विषवेगो नाम धातोर् धात्वन्त्रत्वप्राप्तिः “धातोर् धात्वन्तरप्राप्तिः विषवेगः” इति बृहस्पतिवचनात् । धातोर् धातवश् च त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्लादीनि सप्तधा । एवं च विषवेगाः सप्त भवन्ति । तैर् विना यस्य भक्षितं जीर्णं भवति स शुद्धः । तथोक्तम् ।
भक्षिते तु यदा सद्यो मूर्छाछर्दिविवर्जितः ।
निर्विकारो दिनस्यान्ते शुद्धं तम् अपि निर्दिशेत् ॥ इति ।
एवं शुद्धस्य शुद्धिपत्रं राज्ञा दातव्यम् । इतरस्य तु दण्डादिकं कर्तव्यम् इति ।
[इति विषविधिः]
अथ कोशविधिर् उच्यते
अत्र प्रजापतिः ।
कोशस्यातः प्रवक्ष्यामि विधिं धर्म्यं पुरातनम् ।
कारणेषु च दातव्यो येषु येषु च ताञ् छृणु ॥
विस्रम्भे सर्वशङ्कायां सन्धिकार्ये तथैव च ।
एषु कोशः प्रदातव्यो नित्यं चात्मविशुद्धये ॥
मद्यपस्त्रीव्यसनिनां कितवानां तथैव च ।
नाश्तिकद्विजमुख्यानां कोशपानं विवर्जयेत् ॥
तथा च नारदः ।
महापराधे निर्धर्मे कृतघ्ने क्लीबकुत्सिते ।
नास्तिकव्रात्यदाशेषु कोशपानं विवर्जयेत् ॥
पूर्वाह्णे सोपवासस्य स्नातस्यार्द्रपटस्य च ।
आस्तिकस्याव्यसनिनः कोशपानं विधीयते ॥
इच्छतः श्रद्धधानस्य देवब्राह्मणसन्निधौ ।
यद्भक्तः सो ऽभियुक्तः स्यात् तद्देवस्य तु पाययेत् ॥
अत्र पितामहः ।
भक्तो यो यस्य देवस्य पाययेत् तस्य तज् जलम् ।
समभावे तु देवनानाम् आदित्यस्य तु पाययेत् ॥
दुर्गायाः पाययेच् चोरान् ये च शस्त्रोपजीविनः ।
भास्करस्य ततो ऽन्यस् तु ब्राह्मणांस् तु न पाययेत् ॥
दुर्गायाः स्नापयेच् छूलम् आदित्यस्य तु मण्डलम् ।
इतरेषां तु देवानां स्नापयित्वायुधानि तु ॥
प्राङ्मुखं कारिणं कृत्वा पाययेत् प्रसृतित्रयम् ।
अत्र विष्णुः- “उग्रान् देवान् समभ्यर्च्य तत्स्नानादिकम् आहृत्य प्रसृतित्रयं पिबेत् इदं मया न कृतम् इति व्याहरन् देवताभिमुखः” इति । अत्र कात्यायनः ।
स्वल्पे ऽपराधे देवानां स्नापयित्वायुधानि तु ।
पाय्यः विकारे वाशुद्धो नियम्यः शुचिर् अन्यथा ॥
अत्र नारदः ।
सप्ताहाभ्यन्तरे यस्य द्विसप्ताहेन वा पुनः ।
वैकृतं यस्य दृश्येत सैव तस्य विभावना ॥
रोगाग्निज्ञातिमरणम् अर्थभ्रांशो धनक्षयः ।
प्रत्यात्मिकं भवेद् यस्य विद्यात् तस्य न शुद्ध्यताम् ॥
ऊर्ध्वं यस्य द्विस्पताहात् वैकृतं सुमहद् भवेत् ।
नाभियोज्यः स विदुषा कृतकालस्यातिक्रमात् ॥
याज्ञवल्क्यः ।
अर्वाक् चतुर्दशाद् अह्नो यस्य नो राजदैविकम् ।
व्यसनं जायते घोरं स शुद्धः स्यान् न संशयः ॥
अल्पस्य देहिनाम् अपरिहार्यत्वात् महद् भयम् इत्य् उक्तम् । एतन् महाभियोगविषयं “महाभियोगेष्व् एतानि” इति प्रस्तुत्याभिधानात् । अवध्यन्तराणि पितामहोक्तान्य् अल्पधनविषयाणि “कोशम् अल्पे ऽपि दापयेत्” इति वचनात् ।
त्रिरात्रात् सप्तरात्राद् वा द्वादशाहाद् द्विसप्तकात् ।
वैकृतं यत्र दृश्येत पापकृत् स उदाहृतः ॥
इति महाभियोगोक्तद्रव्याद् अर्वाचीनं द्रव्यं त्रिधा विभज्य त्रिरात्रादिपक्षत्रयं व्यवस्थापनीयम् । तत्र धर्मावाहनादिसकलदेवतापूजाहोमन्त्रप्रतिज्ञापत्रशिरो-निवेशनान्तेषु कृत्येषु । याज्ञवल्क्यः ।
देवान् उग्रान् समभ्यर्च्य तत्स्नानोदकम् आहरेत् ।
संश्राव्य पाययेत् तस्मात् जलात् तु प्रसृतित्रयम् ॥
उग्रदेवताभिषेकजलं प्राड्विवाको जलप्रत्ययोकेन “तोय त्वं प्राणिना प्राण” इत्य् एतेन मन्त्रेणाभिमन्त्र्य, अनन्तरं शोध्येन च “सत्येन माभिरक्ष त्वं वरुण” इत्य् अनेन मन्त्रेणाभिमन्त्रितं प्रसृतित्रयं पाययेद् इति । संश्राव्य इत्य् उभयाभिमन्त्रणम् उच्यते । शातातपः ।
सप्ताहाभ्यन्तरे यस्य् द्विसप्ताहान्तरे ऽपि वा ।
रोगो वह्निर् ज्णातिमृतिस् (?) तथा राजिकदैविकम् ॥
जायते वोग्र आतङ्कः पशुधान्यधनक्षयः ।
यस्यैवमादिको ऽनर्थस् तम् अशुद्धं विनिर्दिशेत् ॥
स्मृत्यन्तरे ।
त्रिपक्षे वा त्रिस्पताहे सप्ताहाभ्यन्तरे ऽपि वा ।
रोगो ऽग्निर् ज्ञातिमरणं पशुधान्यधनक्षयः ॥
एवमादीनि दृश्यन्ते यस्य् घोराणि सर्वशः ।
तं पापं विनयेद् राजा तस्य सारापराधतः ॥
स्वल्पे ऽपराधे सप्ताहं मध्यमे द्विसप्ताहं महापराधे त्रिसप्ताहं पक्षत्रयं वेति विकल्पः । एवं कृते पूर्वोक्तकालेषु विकाराभावे शुद्धो भवति तस्य शुद्धिपत्रं देयम् । इतरस्य दण्डादिकं कर्तव्यम् इति ।
[इति कोशविधिः]
अथ तण्डुलविधिर् उच्यते
पितामहः ।
तण्डुलानां प्रवक्ष्यामि विधिं भक्षणचोदितम् ।
चौर्ये तु तण्डुला देया नान्यत्रेति विनिश्चयः ॥
तण्डुलान् कारयेच् छुक्लान् शालीयान् यस्य कस्यचित् ।
मृण्मये भाजने कृत्वा आदित्यस्याग्रतः शुचिः ॥
स्नानोदकेन संसिच्य रात्रौ तत्रैव वास्येत् ।
प्रभाते कारिणो देया आदित्याभिमुखस्य तु ॥
प्राङ्मुखोपोषितं स्नातं शिरोरोपितपत्रकम् ।
तण्डुलान् भक्षयित्वा तु पात्रे निष्ठीवयेत् ततः ॥
भूर्जस्यैव तु पत्रे वा त्व् अलाभे पिप्पलस्य वा ।
शोणितं दृश्यते यस्य हनू गण्डश् च सीदति ॥
गत्रं च कम्पते यस्य तम् अशुद्धं विनिर्दिशेत् ।
अत्र कात्यायनः ।
देवतास्नानपानीयस्निग्धतण्डुलभक्षणे ।
शुद्धान् निष्ठीवनाच् छुद्धो निय्म्यो ऽशुचिर् अन्यथा ॥
बृहस्पतिः ।
सोपवासः सूर्यदिने तण्डुलान् भक्षयेच् छुचिः ।
शुद्धः स शुद्धनिष्ठीवे रक्तमिश्रे च दोषभाक् ॥
अत्रापि सर्वदिव्यसाधारणधर्मावाहनादिहोमशिरःपत्रारोपणान्तं कृत्वा उपोषितस्यार्द्रपटस्य तण्डुलभक्षणे कृते, निष्ठीवने च कृते, शुक्लनिष्ठीवने शुद्धः स्यात् । तस्य शुद्धिपत्रं दातव्यम् । इतरस्य दण्डादिकम् इति ।
*[इति तण्डुलविधिः*
अथ तप्तमाषविधिर् उच्यते
अत्र पितामहः ।
तप्तमाषस्य वक्ष्यामि विधिम् उद्धरणे शुभम् ।
कारयेद् आयसं पात्रं ताम्रं वा षोडशाङ्गुलम् ॥
चतुरङ्गुलखातं तु मृण्मयं वाथ मण्डलम् ।
पूरयेद् घृततैलाभ्यां विंशत्या वा पलैस् तु तत् ॥
सुतप्ते निक्षिपेत् तत्र सुवर्णस्य तु माषकम् ।
अङ्गुष्ठाङ्गुलियोगेन तप्तमाषकम् उद्धरेत् ॥
कराग्रं तु धुनेद् यस्य विस्फोटो वा न जायते ।
शुद्धो भवति धर्मेण पितामहवचो यथा ॥
उद्धरेत् इति वचनात्, पात्राद् उद्धरणमात्रं कर्तव्यम् । न बहिः प्रक्षेपणम् आदरणीयम् । पक्षान्तरम् आह ।
सौवर्णे राजते ताम्रे आयसे मृण्मये ऽपि वा ।
गव्यं घृतम् उपादाय तद् अग्नौ तापयेच् छुचिः ॥
सौवर्णीं राजतीं ताम्रीम् आयसीं वा सुशोधिताम् ।
सलिलेन सकृद् धौतां प्रक्षिपेत् तत्र मुद्रिकाम् ॥
घृते वीचीतरङ्गाढ्ये सन्तापस्पर्शगोचरे ।
परीक्षेतार्द्रपर्णेन चरुत्कारं सघोषकम् ॥
ततश् चानेन मन्त्रेण सकृत् तद् अभिमन्त्रयेत् ।
परं पवित्रम् अमृतं घृतं त्वं यज्ञकर्मणि ॥
दह पावक पापं त्वं हिमशीतः शुचौ भव ।
उपोषितं सकृत् स्नातम् आर्द्रवाससमागतम् ॥
ग्राहयेन् मुद्रिकां तां तु घृतमध्यगतां तथा ।
प्रादेशिणीं च तस्याथ परीक्षेयुः परीक्षकाः ॥
यस्य विस्फोटको न स्यात् शुद्धो ऽसाव् अन्यथाशुचिः ।
“त्वम् अग्ने सर्वभूतानाम्” इत् शोध्यस्याभिमन्त्रणमन्त्रः । अत्रापि धर्मावाहनादि सर्वम् अनुसन्धातव्यम् । शुद्धस्य शुद्धिपत्रं दातव्यम् । अथाशुद्धस्य दण्डादिकं कर्तव्यम् इति ।
[इति तप्तमाषविधिः]
अथ फालविधिर् उच्यते
बृहस्प्ततिः ।
आयसं द्वादशपलं घटितं फालम् उच्यते ।
अष्टाङ्गुलं भवेद् दीर्घं चतुरङ्गुलविस्मृतम् ॥
अग्निवर्णं तु तच् चोरो जिह्वया लेलिहेत् सकृत् ।
अदग्धश् चेच् छुद्धिम् इयाद् अन्यथा स तु हीयते ॥
ब्राह्मणचौर्ये तण्डुला एव नियताः । वर्णान्तरस्य फालम् । अत्रापि धर्मावाहनादि सर्वं कर्तव्यम् इति ॥
[इति वरदराजीये व्यवहारनिर्णये स्मृतिसङ्ग्रहे फालविधिः]
अथ धर्मविधिर् उच्यते
अत्र बृहस्पतिः ।
वस्त्रद्वये लेखनीयौ धर्माधर्मौ सितासितौ ।
जीवदानादिकैर् मन्त्रैः गायत्र्याद्यैश् च सामभिः ॥
आमन्त्र्य पूजयेद् गन्धैः कुसुमैश् च सितासितैः ।
अभ्युक्ष्य पञ्चगव्येन मृत्पिण्डान्तरितौ ततः ॥
समौ कृत्वा नवे कुम्भे स्थाप्यौ चानुपलक्षितौ ॥
धर्मावाहनादि कृत्वा,
यदि पापविमुखो ऽहं धर्मस् त्वं यातु मे करे ।
इति अभिशस्तो ऽनुमन्त्रयते ।
ततः कुम्भात् पिण्डम् एकं प्रगृह्णीताविलम्बितः ।
धर्मे गृहीते शुद्धः स्यात् सम्पूज्यः स परीक्षकैः ॥
अधर्मे सङ्गृहीते तु दण्ड्यो निर्वास्य एव वा ।
एवम् उक्तेषु नवसु दिव्येषु तुलापरशूदकविषाणि चत्वारि दिव्यानि महाभियोगविषयाणि, तण्डुलअप्तमाषफालधर्माख्यानि चत्वारि अल्पाभियोगविषयाणि । कोशस् तूभयविषयः । अत्र याज्ञवल्क्यः ।
तुलाग्न्यापो विषं कोशो दिव्यानीह विशुद्धये ।
महाभियोगेष्व् एतानि शीर्षकस्थे ऽभियोक्तरि ॥
एतानि तुलादीनि “अभियोक्तरि शीर्षकस्थे” । “शीर्षकम्” शिरः, व्यवहारस्य चतुर्थः पादो जयपराजयलक्षणः, तत्र तिष्ठतीति शीर्षकस्थः, तत्प्रयुक्तदण्डः दशदण्डभाग् इत्य् अर्थः ।
रुच्या वान्यतरः कुर्याद् अपरो वर्तयेच् छिरः ।
विनापि शीर्षकं कुर्यात् राजद्रोहे ऽथ पातके ॥
नात्र मानुषप्रमाणवद्भाववादिन एव दिव्यं नाभाववादिन इति नियमः । “रुच्या वान्यतरः कुर्यात्” इति राजद्रोहशङ्कायां ब्रह्महत्यादिपातकशङ्कायां महाचौर्यशङ्कायां च विना शीर्षकात् कुर्याद् इति । उक्तं च पितामहेन ।
अथ चेद् आत्मशूद्ध्यर्थं दिव्यं प्रक्रमते नरः ।
अशिरस् तत्र दातव्यम् इति शास्त्रविनिश्चयः ॥
राजभिः शङ्कितानां च निर्दिष्टानां च दस्युभिः ।
आत्मशुद्धिपराणां च दिव्यं देयं शिरो विना ॥ इति ।
“कोशम् अल्पे ऽपि दापयेत्” इति वचनात् अल्पाभियोगे ऽपि कोशो देयः । तण्डुलाः पुनश् चौर्यशङ्कायाम् एव,
चौर्ये तु तण्डुला देया नान्यत्रेति विनिश्चयः ।
इति पितामहवचनात् । तप्तमाषे ऽपि,
चौर्यशङ्काभियुक्तानां तप्तमाषो विधीयते ।
इति वचनात्, चौर्यशङ्काभियोगेष्व् एवेति केचित् । अन्यत्रापीति इत्य् अन्ये । अन्ये पुनः शपथाः अल्पद्रव्यविषयाः । तांश् च वक्ष्यामः । यद्य् अपि शपथानाम् अपि दिव्यशब्दवाच्यत्वम्, तथापि कालान्तरनिर्णयनिमित्तत्वेन समनन्तरनिमित्तनिर्णयेभ्यो धटादिभ्यो भेदेन व्यपदेशः स्मृतिषु ब्राह्मणपरिव्राजकन्यायेन द्रष्टव्य इति । अत्र विशेषम् आह हारीतः ।
कोशतण्डुलधर्मांस् तु धर्मसम्भवम् एव च ।
पुत्रदारादिशपथान् सर्वकालं प्रयोजयेत् ॥
तत्र विशेषम् आह प्रजापतिः ।
कुजवारे ऽर्कवारे च चण्डिकारुद्रसन्निधौ ।
पूर्वाह्णे सर्वदिव्यानां प्रदानं परिकीर्तितम् ॥ इति ।
यत् तु पितामहः,
स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत् ।
इति, तद् अपि लिखितसाक्ष्यादिसम्भवे दिव्यानि परिवर्जयेद् इति व्याख्येयम् । ननु विवादान्तरेष्व् अपि लिखितसाक्ष्यादिसद्भावे दिव्यानाम् अनवकाश एव । सत्यम् । ऋणादिषु विवादेषूक्तलक्षणसाक्ष्युपन्यासे ऽर्थिना क्र्ते ऽपि प्रत्यर्थी दण्डम् अभ्युपगम्यावष्टम्भेन दिव्यम् आलम्बते, तदा दिव्यम् अपि भवति । साक्षिणाम् आशये दोषसम्भवाद् दिव्यस्य निर्दोषत्वात् । स्थावरेषु विवादेषु पुनः प्रत्यर्थिना दण्डावष्टम्भेन दिव्यालम्बने कृते लेख्यसाक्ष्यादिदृष्टप्रमाणसम्भवे न दिव्यं ग्राह्यम् इति पितामहवचनस्यार्थः । न पुनर् आत्यन्तिकदिव्यनिराकरणार्थं तद्वचनम् । तथात्वे लिखितसाक्ष्यभावे स्थावरविवादे ऽप्य् अनिर्णयप्रसङ्गात् ।
[इति दिव्यानि]
यथाह नारदः ।
तत्र सत्ये स्थितो धर्मो व्यवहारस् तु साक्षिणी ।
दैवसाध्ये पौरुषेयीं न लेख्यं वा प्रयोजयेत् ॥ इति ।
स्थावरेषु च विवादेषु प्रत्यर्थिना दण्डावष्टम्भेन दिव्यावलम्बने कृते ऽपि सामन्तादिदृष्टप्रमाणसद्भावे न दिव्यं ग्राह्यम् इति विकल्पनिराकरणार्थम् “स्थावरेषु विवादेषु” इत्यादिपितामहवचनं नात्यन्तिकदिव्यनिराकरणार्थम् । लिखितसामन्ताद्यभावे स्थावरविवादेष्व् अनिर्णयप्रसङ्गात् । अथ द्रव्यस्य अल्पत्वम् अहत्वानुरूपेण दिव्यादेः प्रवर्तत्वात् तन्निर्णयाय विचारः क्रियते । सुवर्णादिद्रव्यपरिमाणम् आह मनुः ।
लोकसंव्यवहारार्थं याः सञ्ज्ञाः प्रथिता भुवि ।
ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्याम्य् अशेषतः ॥
जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः ।
प्रथमं तत् प्रमाणानां त्रसरेणुं प्रचक्षते ॥
रेणवो ऽष्टौ तु विज्ञेया लिक्षैका परिमाणतः ।
ता राजसर्षपास् तिस्रः ते त्रयो गौरसर्षपः ॥
सर्षपाः षड्यवो मध्यः त्रयः पञ्चैव कृष्णलम् ।
पञ्चकृष्णलिको माषः ते सुवर्णस् तु षोडशः ॥
पलं सुवर्णाश् चत्वारः पलानि धरणं दश ।
द्वे कृष्णले समघृते विज्ञेयो रूप्यमाषकः ॥
ते षोडश स्याद् धरणं पुराणं चैव राजतम् ।
कार्षापणस् तु विज्ञेयः कार्षिकस् ताम्रिकः पणः ॥
धरणानि दश ज्ञेयः शतमानस् तु राजतः ।
चतुःसुवर्णको निष्को विज्ञेयस् तु प्रमाणतः ॥ इति ।
याज्ञ्वल्क्यः ।
जालसूर्यमरीचिस्थं त्रसरेणु रजः स्मृतम् ।
ते ऽष्टौ लिक्षा तु तास् तिस्रो राजसर्षप उच्यते ॥
गौरस् तु ते त्रयः षट् ते यवो मध्यस् तु ते त्रयः ।
कृष्णलं पञ्च माषास् तु ते सुवर्णस् तु षोडश ॥
पलं सुवर्णाश् चत्वारः पञ्च वापि प्रकीर्तितम् ।
अणुभ्यः षड्भ्यः प्रत्यक्षः त्रसरेणुः । त्रसरेणवो ऽष्टौ लिक्षा भवन्ति । तासां लिक्षाणां त्रयं राजसर्षपः इति सञ्ज्ञं भवति । ते राजसर्षपास् त्रयो गौरसर्षपः । गौरसर्षपः षण्मध्ययवः । ते त्रयः कृष्णलः । ते कृष्णलाः पञ्चैको माषः । ते माषाः षोडशैकः सुवर्णः । ते सुवर्णाश् चत्वारः पलम्, याज्ञवल्क्यमते ।
नारदादिमते तु पञ्च सुवर्णाः पलम् । तत्र लौकिकव्यवहारे मानचतुष्टयं कृष्णलम् इत्य् उच्यते । एकं व्रीहिपरिमितं मानम् इति लोकप्रसिद्धम् । एकतण्डुलपरिमितं मानम् इति शास्त्रप्रसिद्धम्, “मानतण्डुलमात्रः स्यात् दशमानः पणः स्म्र्तः” इत्य् आगमवचनात्, तथा वैखानस-आत्रेयसंहितादर्शनाच् च ।
तत्र मानव-याज्ञवल्क्ययोः काकणिद्वयन्यूनमानसप्तकं तु कृष्णलम् इत्य् उच्यते । एवं त्रिविधेषु कृष्णलेषु सत्सु दूर्वादिशपथविषये वैष्णवधर्मशास्त्रोक्तकृष्णलम् एवाश्रयितुम् उचितम् इति काकणिकत्रयन्यूनषण्मानं कृष्णलम् एवात्र स्वत आश्रीयते । मानवं कृष्णलं तु कर्तृगुणादिभिर् आश्रीयते । तत्र येनापहृतेन प्रयोजनम् अस्ति, तत आरभ्य कृष्णलपरिपूर्ते उपोषितः स्नात आर्द्रपटः शूद्रो देवब्राह्मणसन्निधौ दूर्वाकरः शपथं कुर्यात् । स एवम्भूतः । द्वितीयकृष्णलकाद् आरभ्य आ तृतीयात् पूर्ववत् तिलकरः शपथं कुर्यात् । तृतीयकृष्णलाद् आरभ्य आ चतुर्थात् स एव पूर्ववद् एव रजतपाणिः शपथं कुर्यात् । कृष्णलचतुष्काद् आरभ्य आ पञ्चमाद् धिरण्यपानिः शपथं कुर्यात् । कृष्णलपञ्चकाद् आरभ्य आ षष्ठात् लाङ्गलोद्धृतमहीकरः शूद्रः शपथं कुर्यात् । षष्ठकृष्णलाद् आरभ्य दशमान्तानां दशकाद् अर्वाक् शूद्रो निक्ष्णलश् चेत् पुत्रेण भार्यया वा शपथं कुर्यात् । सच्छूद्रस् तस्मिन्न् एवार्थे सर्वैः पातकैः शपथं कुर्यात्, “शूद्रं सर्वैस् तु पातकैः” इति मनुवचनात् । यद्य् अप्य् अत्र,
॥॥॥॥॥॥॥॥। शूद्रं सर्वैस् तु पातकैः ।
पुत्रदारस्य वाप्य् एनं शिरसि स्पर्शयेत् पृथक् ॥
इति द्रव्यपरिमाणविशेषो नोक्तः, तथाप्य् औचित्येन कृष्णलपञ्चकपरिसमाप्तेर् आरभ्य दशमानपणदशकाद् अर्वाग् एतौ भवितुम् अर्हतः । कथम् इति चेत्, उच्यते । तत्र सुवर्णार्धोने “कोशो देयः शूद्रस्य” इति वैष्णववचनात् सामान्येन कोशे प्राप्ते,
त्रिशते तण्डुला देयाः कोशश् चैव तदर्धके ।
शते हृते ऽपह्नवे च दतव्यं धर्मशोधनम् ॥
इति बृहस्पतिवचने ऽस्मिन् शतादीनां सङ्ख्येयतया,
मानं तण्डुलमात्रं स्यात् दशमानं पणं स्मृतम् ।
इति वचनात्, तण्डुलतुलितमानात्मकम् एव सुवर्णं ग्राह्यम् इति । कोशपानं तदर्धकम् इति पञ्चाशदधिकशतमाने कोशपाने विहिते, पञ्चाशदधिकशतस्य पञ्चदशपणात्मकत्वेन तत ऊर्ध्वम् एव विष्णुवचनप्राप्तस्य कोशस्योपसंहारात्, पणदशकाद् ऊर्ध्वं धर्मशोधनं स्याद् इति । पणदशकाद् अर्वाक् पञ्चकृष्णलाद् ऊर्ध्वं प्रत्ययाकाङ्क्षं भवति । तथात्र “शूद्रं सर्वैस् तु पातकैः” इति एतद् अपि द्रव्यपरिमाणाकाङ्क्षम् इत्य् उभयाकाङ्क्षया सम्बध्यत इति । किं च,
सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः ।
गोबीजकाञ्चनैर् वैश्यं शूद्रं सर्वैस् तु पातकैः ॥
इति मनूक्तशपथविषयं स्मृतम् । बृहस्पतिना विषादीनि धर्मजान्तानि दिव्यान्य् उक्त्वोक्तम् ।
सत्यं वाहनशस्त्राणि गोबीजं काञ्चनानि च ।
देवब्राह्मणपादांश् च पुत्रदारशिरांसि च ॥
एते तु शपथाः प्रोक्ताः स्वल्पे ऽर्थे सुकराः सदा ॥ इति ।
अत्र शपथानां धर्मजं प्रत्य् अल्पार्थविषयाद् वा धर्मस्य स्वरूपपरामर्शेनैव सीरोद्धृतमहीं प्रति गुर्वर्थविषयत्वावगमाच् च धर्मजविषयपणदशकाद् अर्वाक् सीरोद्धृतमहीविषयकृष्णलपञ्चकाद् ऊर्ध्वम् एव मानावा बार्हस्पत्याश् च शपथा वेदितव्याः ।
अग्निं वाहारयेच् छूद्रम् अप्सु चैव निमज्जयेत् ।
इति धर्मजस्य तात्कालिकफलत्वेन दृष्टप्रत्ययत्वात् कालान्तरफलेषु शपथेष्व् अनुक्तिर् इति द्रष्टव्यम् । दशमानानां पणानां दशकाद् आरभ्य पञ्चदशकाद् अर्वाक् शूद्रस्य धर्मप्रत्ययो भवति । तस्मिन्न् एवार्थे फालोपजीविनां कृषीवलानां फालं लेढव्यम् । बृहस्पतिः ।
शते हृते ऽपह्नुते च दातव्यं धर्मशोधनम् ।
गोचरस्य प्रदातव्यं सभ्यैः फालं प्रयत्नतः ॥
मानानां “शते हृते ऽपह्नुते च” शूद्रस्य धर्मशोधनं भवति । मानशतकस्य दशपणात्मकत्वात् पणदशकाद् आरभ्य पणपञ्चदशकाद् अर्वाक् धर्मप्रत्ययो भवतीत्य् अर्थः । तस्मिन्न् एवार्थे गोचरस्य कृषीवलस्य शूद्रस्य फालं दतव्यम् इति । पणपञ्चदशकाद् आरभ्य त्रिंशत्पणाद् अर्वाक् शूद्रस्य कोशपानं स्यात् । त्रिंशत्पणाद् आरभ्य चत्वारिंशत्पणाद् अर्वाक् शूद्रस्य तण्डुलभक्षणं भवति । चत्वारिंशत्पणाद् आरभ्य पञ्चाशत्पणाद् अर्वाक् शूद्रस्य तप्तमाषो भवति । तथा च बृहस्पतिः ।
चतुःशताभियोगे तु दातव्यस् तप्तमाषकः ।
त्रिंशते तण्डुला देया कोशश् चैव तदर्धके ॥
चतुःशताभियोगे शतचतुष्टयमानसुवर्णविषयाभियोगे तप्तमाषो दातव्यः । तेषां चत्वारिंशत्पणात्मकत्वात्, चत्वारिंशत्पणाभियोगे शूद्रस्य तप्तमाषो दातव्य इत्य् अर्थः । “त्रिंशते तण्डुला देया” इत्य् एतद् अपि शतत्रयमानसुवर्णे त्रिंशत्पणात्मके शूद्रस्य तण्डुला देया इति प्रतिपादयति । पञ्चाशत्पणाद् आरभ्य सप्ताधिकषष्टिपणाद् अर्वाक् शूद्रस्य तुलाधारणं भवति । सप्ताधिकषष्टिपणाद् आरभ्य पञ्चाधिकसप्ततिपणाद् अर्वाक् शूद्रस्य जलप्रत्ययो भवति । पञ्चाधिकसप्ततिपणाद् आरभ्य शतपणाद् अर्वाक् शूद्रस्य परशुर् भवति । शतपणाद् आरभ्य सर्वत्र शूद्रस्य विषभक्षणम् एव । तथा च बृहस्पतिः ।
शते हृते ऽपह्नुते च दात्वयं धर्मश्ōधनम् ।
विषं सहस्रे ऽप्रहृते पादोने च हुताशनः ॥
त्रिभागोने च सलिलम् अर्धे देया तुला सदा ।
पणशतात्मके सहस्रमानसुवर्णे शूद्रस्य विषभक्षणं भवति । मानसहस्रचतुर्भागहीने पञ्चसप्ततिपणात्मके पञ्चाशदधिके शतस्पतकमाने शूद्रस्य तप्तपरशुधारणं भवति । तथा सहस्रमानसुवर्णस्य तृतीयभागहीने सप्तषष्टिपणे शूद्रस्य जलपत्ययो भवति । पञ्चाशत्पणात्मके सहस्रमाणार्धे शूद्रस्य तुलारोहणं भवतीत्य् अर्थः । ननु अत्र दिव्यप्रकरणे सहस्रादिसङ्क्यानां सङ्ख्येयत्वेन तण्डुलतुलितमानसुवर्णम् एव गृह्यत इति कथम् अवसीयते इति । उच्यते । कात्यायनस् तावद् आह ।
सर्वद्रव्यप्रमाणं तु ज्ञात्वा हेम प्रकल्पयेत् ।
हेमप्रमाणयुक्तं तु तदा दिव्यं नियोजयेत् ॥
शते विषं तु पादोने हुतभुक् तत्र दीयते ।
आपस् त्रिभागहीने तु शतार्धे तु तुला स्मृता ॥
कोशपानं तदर्धे वा दशपञ्चकसप्त वा ।
तदर्धे तण्डुला देयाः तदर्धे तप्तमाषकः ॥ इति ।
कात्यायनः ।
ज्ञात्वा सङ्ख्या सुवर्णस्य शतनाशे विषं स्मृतम् ।
अशीतस् तु विनाशे तु हुतभुक् प्रत्ययः स्मृतः ॥
हुतभुक् परशुः ।
षष्ट्यानाशे जलं ज्ञेयं स्याच् चत्वारिंशके धटः ।
त्रिंशद्दशविनाशे वा कोशपानं विधीयते ॥
इति बृहस्पतिः ।
पञ्चार्धे तस्य वा नाशे तदर्धस्य च तण्डुलाः ।
इति वृद्धमनुः । अनयोः कात्यायन-वृद्धमनुवचनयोः शतनाशे विषम् उक्तम् । बृहस्पतिवचने तु विषं सहस्रे ऽपहृते इति सहस्रनाशे विषम् उक्तम् इत्य् अनेन ताभ्यां महाविरोधो ऽस्तीत्य् एव प्रतीयते । सत्यम् । एतेषाम् अविरोधे कार्ये भूयसा न्यायेन द्वयोर् वचनानुसारेण बृहस्पतिवचनं योजनीयम् । एवं सति धर्मशास्त्रेषु दण्डविधानादौ सङ्ख्यामात्रे निर्दिष्टे पणानां व्यवहारार्थतया कॢप्तत्वात् सङ्ख्येयतया प्रायेण तत्र पणा एव गृह्यन्त इति । तत्र बृहस्पतिवचने काकणिकचतुष्टये ऽपि लोके पणव्यवहारदर्शनात् काकणिकः पणचतुर्भाग इति वैयाकरणप्रसिद्धेः चतुष्काकणिकस्य तण्डुलपरिमितस्य सहस्रादिसङ्ख्यासङ्ख्येयत्वेन ग्रहणम् । कात्यायनवचने तु,
मानं तण्डुलमात्रं स्यात् दशमानं पणः स्मृतः ।
इति उक्तदशमानस्य पणस्य शतादिसङ्ख्यासङ्ख्येयत्वेन ग्रहणम् इत्य् अविरोधः । इहापि कात्यायन-वृद्धमनुवचनगतशतादिसङ्ख्यानां सङ्ख्येयत्वेन पणा एव गृह्यन्ते । एवं सति बृहस्पतिवचनगसहस्रसङ्ख्यादीनां सङ्ख्येयतया तण्डुलतुलितसुवर्णं गृह्यते ।
मानं तण्डुलमात्रं स्यात् दशमानं पणः स्मृतः ।
इत्यादिवचनात् शतसहस्रयोर् अपि अविरोधः । यद् अपीदं याज्ञवल्क्यवचनम्,
नासहस्राद् धरेत् फालं न तुलां न विषं तथा ।
इति, अत्र सहस्रशब्दः पादोनार्धोनयोः सहस्रयोर् उपलक्षणार्थ इत्य् अविरोधः । अत्र फालशब्दः परशुपरः मुख्यफालस्याल्पार्थविषयत्वस्य दर्शितत्वात् । यत् त्व् अत्र वृद्धमनुनोक्तम्,
अशीतेस् तु विनाशे तु हुतभुक् प्रत्ययः स्मृतः ।
षष्ट्या नाशे जलं ज्ञेयं स्याच् चत्वारिंशके धटः ॥
इति, यच् च कात्यायनेनोक्तम्,
शते विषं तु पादोने हुतभुक् तत्र दीयते ।
आपस् त्रिभागहीने तु शतार्धेन तुला स्मृता ॥
इत्य् एताभ्याम् एव वचनाभ्याम् एवं प्रतीयते । पञ्चसप्तत्या आरभ्याशीतेर् अर्वाग् अग्निर् उदकं च प्राप्तम् । एवं षष्ठ्या आरभ्य सप्तषष्टिप्रदेशाद् अर्वाक् जलधटौ प्राप्तौ । सर्वत्रोत्कृष्टपुरुषस्य लघुप्रत्ययो भवति । अपकृष्टस्य तु गुरुप्रत्ययो भवति इति व्यवस्था द्रष्टव्या, प्राक्दृष्टदोषम् इत्यादिवैष्णववचनदर्शनात् ।
तदर्धे तण्डुला देयाः तदर्धे तप्तमाषकः ।
इत्य् अल्पविषये तप्तमाषकविधानम् अपि चौर्यादिशङ्काविषयम् इत्य् अल्पद्रव्ये ऽपि प्राप्तम् इत्य् अविरोधः,
दत्तस्यापह्वनो यत्र प्रमाणं तत्र कल्प्यते ।
स्तेयसाहसयोर् दिव्यं स्वल्पे ऽप्य् अर्थे प्रदापयेत् ॥
इति कात्यायनवचनदर्शनात् । ब्राह्मणस्यागामिकाल इति भविष्यत्कालकार्यविषये तु ब्राह्मणस्यापि कोशो भवतीत्य् अर्थः । पूर्वोक्तानि द्रव्यपरिमाणानि शूद्रविषयाणि । पूर्वोक्तसर्वविषयेषु द्विगुणे ऽर्थे वैश्यस्य । त्रिगुणे ऽर्थे राजन्यस्य । चतुर्गुणे ऽर्थे ब्राह्मणस्य इति द्रष्टव्यम् । यद् इदं बार्हस्पत्यवचनम्,
एषा सङ्ख्या निकृष्टानां मध्यानां द्विगुणा स्मृता ।
चतुर्गुणोत्तमानां तु कल्पनीया परीक्षकैः ॥
अत्र “मध्यानां द्विगुणा स्मृता” इति त्रिगुणस्याप्य् उपलक्षणार्थम् इति व्याख्येयम् । शूद्राद् अर्वाचीनानां शूद्रवद् एव दिव्यानि भवन्ति,
शूद्राणां तु सधर्माणः सर्वे ऽपध्वंसजाः स्मृताः ।
इति मनुवचनात् । ब्राह्मणानाम् अपि केषाञ्चित् शूद्रवद् एव दिव्यं देयम् । तथा च कात्यायनः ।
गोरक्षकान् वानिजकान् शिल्पिनश् च कुशीलवान् ।
प्रेष्यान् वार्धुषिकांश् चैव विप्राञ् छूद्रवद् आचरेत् ॥
शूद्रस्य पुत्रदारादिशपथस्थाने वैश्यस्य गोबीजकाञ्चनैः शपथो भवति । क्षत्रियस्य वाहनशस्त्रैः, ब्राह्मणस्य सत्यवाक्येन शपथो भवति,
सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः ।
गोबीजकाञ्चनैर् वैश्यं शूद्रं सर्वैस् तु पातकैः ॥
पुत्रदारस्य वाप्य् एनं शिरांसि स्पर्शयेत् पृथक् ।
इति मनुवचनात् । अत्र ब्रह्माण्डपुराणे विशेषः ।
स्थावरं जङ्गमं वापि यद् द्रव्यम् अभियुज्यते ।
क्रियाप्रयोगकाले तु यन् मूल्यं धर्मतो ऽर्हति ॥
तेनैव कनकीकृत्य तत्र दिव्यं प्रयोजयेत् । इति ।
अत्र केचित् दिव्येषु पणानां सङ्ख्येयत्वे ऽपि काकणिचतुष्टये लोके पणव्यवहारात् काकणिकः पणचतुर्भाग इति वैयाकरणप्रसिद्धेश् च काकणिचतुष्टयात्मकं सुवर्णम् एव सहस्रशतादिसङ्ख्यासङ्ख्येयम् इति मन्यन्ते । अन्ये तु ताम्रिककार्षिकाभिप्रायात् सर्वदिव्येषु सङ्ख्येति मन्यन्ते । अपरे तु,
मानं तण्डुलमात्रं स्यात् दशमानः पणः स्मृतः ।
इत्य् आगमवचनात् दशमानात्मक एव पण इति मन्यन्ते । अपरे तु पुनः,
माषो विंशतिमो भागो ज्ञेयः कार्षापणस्य तु ।
काकणी तु चतुर्भागो माषस्यैव प्रकीर्तितः ॥
इत्याद्यौशनसवचनात्, तथा,
माषकं तु बुधाः प्राहुः काकणीनां चतुष्टयम् ।
विंशतिः स्यात् पुनस् तेषां स मुख्यः पण उच्यते ॥
इति स्मृत्यन्तरदर्शनात्, तथा,
माषो विंशतिमो भागः पणस्य परिकीर्तितः ।
इति स्मृतेश् च, विंशतिमाषाः पणः स्मृत इति तद्विषया दिव्येषु सङ्ख्येति मन्यन्ते । एवं चतुष्टयेषु पणेषु चरमः पणत्वं न गृह्यते,
पणो विंशतिमाषस् तु दिव्याद् अन्यत्र कीर्त्यते ।
इति दिव्येषु विंशतिमाषस्य निषेधस्मरणात् । तथा “ज्ञात्वा सङ्ख्यां सुवर्णस्य” इति ।
सर्वद्रव्यप्रमाणं तु ज्ञात्वा हेम प्रकल्पयेत् । इति ।
तथा “सर्वेष्व् अर्थजातेषु मूल्यं कनकं कल्पयेत्” इत्य् एवमादिभिर् वचनैः सुवर्णस्यैव सङ्ख्येयत्वावगमात् ताम्रिककार्षापणस्य दिव्येषु सङ्ख्येयत्वप्रतिपादकवचनाभावाच् च सुवर्णपणानाम् एव दिव्येषु सङ्ख्येयत्वं युक्तम् । सहस्रादिषु सङ्ख्येयेषु चतुष्काकणिकस्य तण्डुलपरिमितस्य पणस्य सङ्ख्येयत्वं शतानाश इत्यादिषु दशमानात्मकत्वं पणस्य सङ्ख्येयत्वम् इति । ननु काकणिकानाम् अष्टकं तण्डुलशब्देनोच्यते । मायशब्देनापि तद् एवोच्यते । तत्र दण्डप्रकरणे,
मायान् अष्टौ तु महिषी सस्यघातस्य कारिणी ।
इति वचनात्,
दापयेत् पणपादं तु गां पादौ महिषीं तथा ।
इति नारदवचनात्,
माषः पादो द्विपादो वा यत्र दण्डः प्रकल्पितः ।
अनिर्दिष्टं तु सौवर्णं माषकं तु प्रकल्पयेत् ॥
इति कात्यायनवचनाच् च । पणपादद्वयाष्टमाषशब्दयोर् एकार्थत्वावगमात्, षडशमानात्मकः पण इति गम्यते । तथा च केषाम् अपि वचनम् ।
उत्थितस् त्व् अर्कतापेन त्रसरेणुक उच्यते ।
त्र्यष्टकं त्रसरेणूनां लिक्षेति परिकीर्त्यते ॥
तास् तिस्रः सर्षपः प्रोक्तः काकण्या तुलितस् तु सः ।
अष्टकं काकणीनां तु तण्डुलः परिकीर्तितः ॥
तण्डुलानां द्वयं धान्यं माषकं परिपठ्यते ।
तद्द्वयं कृष्णलं प्रोक्तम् अन्धिका कृष्णलद्वयम् ॥
अन्धिकापणशब्दौ तु पर्यायेण प्रकीर्तितौ । इति ।
अत्रापि षोडशमानात्मकः पण इति मन्यन्ते । तथा वैखानस-आत्रेयसंहितायाम् अपि ।
मानं तण्डुलमात्रं स्यात् दशमानः पणः स्मृतः । इति ।
अत्राप्य् अष्टकम् एव काकणिकानां मानशब्देन तण्डुलशब्देन चोच्यते । तेन षोडशमानात्मकः पण इति दिव्येष्व् अपि तस्य सङ्ख्येयत्वं प्राप्तम् । सत्यम्, एतद् गृह्यते । उभयोः शास्त्रसिद्धत्वात् उभयम् अपि गृह्यते । तेन् षोडमानात्मकं वा दशमानात्मकं वा पणः सङ्ख्येयत्वेन गृह्यते । तत्र शोध्यस्य गुणवत्त्वे षोडशमानात्मकस्य ग्रहणम्, निर्गुणस्य शोध्यत्वे दशमानात्मकस्य पणस्य सङ्ख्येयत्वम् इति व्यवस्था । तत्र विषपानं कलियुगे घटिकावस्थायां निषिद्धम् । पूर्वाचार्या एवम् अत्र व्यवस्थां कुर्वन्ति, मातृजातितुल्यम् अनुलोमानां दिव्यम्, पितृजातितुल्यं प्रतिलोमानाम् इति । अत्र तैः पठिताः सङ्ग्रहश्लोकाः ।
विषं शते ऽग्निः पादोने जलं षष्टौ विधीयते ।
तुला च तप्तमाषश् च चत्वारिंशत्य् उदीरितौ ॥
अध्यर्धपञ्चसु स्तेये तप्ततण्डुलयोर् विधिः ।
अनुत्तमद्रव्यचौर्ये तण्डुलाशनम् उच्यते ॥
कोशं पञ्चदशस्याहुः आस्तिक्यं चेन् मतं नृषु ।
षट्सु च क्षुद्रशङ्कायां द्वेष्टिको धर्मसम्भवः ॥
दशकेन पणानां स्यात् वैगुण्ये क्षत्रविश्ययोः ।
ततो वैश्यस्य विषये स्मृत्युक्ता शपथक्रिया ॥
विट्क्षत्रब्राह्मणार्थे तत् शूद्राद् द्वित्रिचतुर्गुणा ॥
इति ।
चातुर्गुण्ये तु विप्राणां सर्वस्येति विकल्प्यते ।
साहसादिषु सर्वेषां पञ्चैते स्युर् धटादयः ॥
इति ।
निष्के तु सत्यवचनं द्विनिष्के पादलम्भनम् ।
त्रिकाद् अर्वाक् विषं स्यात् तु कोशपानम् अतः परम् ॥
इदं च दैष्टिकस्य पूर्वोक्तव्यवस्थया विकल्पः \
अथ शपथः
धटादयो धर्मजान्ता यत्र नोक्ता महात्मभिः ।
तत्र शोध्यस् तु शपथैर् अभियुक्तस् तु मानवः ॥
अत्र शपथविषये विशेषम् आह हारीतः ।
धने प्रमुषिते चोरैः प्रभूतैश् च धनी स्वयम् ।
परिमाणं स्वरूपं च शपथेनैव भावयेत् ॥
कस्यचिद् धने “चोरैः प्रमुषिते” अपह्नुते वा धनी स्वयं प्रमुषितधनस्य वा अपहृतधनस्य वा गुरुपरिमाणम् अल्पपरिमाणं चानादृत्य तद्धनस्वरूपं प्रमाणं च पालकानां शपथेनैव साधयेत् इति । स्मृत्यन्तरे ।
मुषितस्य प्रमाणश् च स्वजनैर् इत्य् अवञ्चितम् ।
फालकानाम् अदृष्टेन प्रभूते ऽपि धने शपेत् ॥ इति ।
अन्यत्र ।
स्वबन्धुपुत्रभृत्याद्यैर् अगृहीतं धनी स्वयम् ।
प्रमाणं च प्रभूते ऽपि शपथेनैव भावयेत् ॥ इति ।
स एवाह ।
चौरैर् अपहृते स्वामी स्वयं द्रव्ये महत्य् अपि ।
न दृष्टशपथं कुर्यात् दृष्टेनैव विशोधयेत् ॥
चोइरैर् अपहृतद्रव्यस्य प्रमुषितद्रव्यस्य वा अल्पमहत्वे ऽनादृत्य द्रव्यस्वरूपं परिमाणं च द्रव्यवान् स्वयं पालादीनां महत्य् अपि द्रव्ये अनादृत्य अदृष्टेन शपथेनैव साधयेत् । न तु दृष्टशपथं कुर्याद् इति । दिव्यैर् जयपराजयावधारणे दण्डविशेषाः कात्यायनेन दर्शिताः ।
शतार्धं दापयेच् छुद्धम् अशुद्धो दण्डभाग् भवेत् ।
दण्डं च स एवाह ।
विषे तोये हुताशे च तुलाकोशे च तण्डुले ।
तप्तमाषकदिव्ये च क्रमाद् दण्डं प्रकल्पयेत् ॥
सहस्रं षट्छतं चैव तथा पञ्चशतानि तु ।
चतुस्त्रिद्व्येकम् एकं च हीनं हीनेषु कल्पयेत् ॥
याज्ञवल्क्यः ।
अर्वाक् चतुर्दशाद् अह्नो यस्य नो राजदैविकम् ।
व्यसनं जायते घोरं स शुद्धः स्यान् न संशयः ॥
शपथे दोषादोषाः तत्परीक्षाकालविशेषाश् च कथ्यन्ते । तत्र कण्वः ।
त्रिपक्षे वा त्रिसप्ताहे सप्ताहाभ्यन्तरे ऽपि वा ।
रोगाग्निज्ञातिमरणं पशुधान्यधनक्षयः ॥
एवमादीनि दृश्यन्ते यस्य घोराणि सर्वशः ।
तं पापं विनयेद् राजा तस्य घोरापराधतः ॥ इति ।
स्वल्पे ऽपराधे सप्ताहं मध्यमे द्विसप्ताहं महापराधे त्रिसप्ताहं पक्षत्रयं वेति कल्पः । विष्णुः ।
यस्य पश्येत् द्विसप्ताहात् त्रिसप्ताहाद् अथापि वा ।
रोगो ऽग्निर् ज्ञातिमरणं राजातङ्कम् अथापि वा ॥
तम् अशुद्धं विजानीयात् विशुद्धं तद्विपर्यये । इति ।
शातातपः ।
सप्ताहाभ्यन्तरे यस्य द्विसप्ताहान्तरे ऽपि वा ।
त्रिसप्ताहे ऽपि वा रोगो वह्निज्ञातिमृतिस् तथा ॥
राजदैविकम् आतङ्कं पशुधान्यधनक्षयः ।
यस्यैवमादिको ऽनर्थः तस्यानर्थं विनिर्दिशेत् ॥
कात्यायनः ।
सीमाचङ्क्रमणे कोशे पदस्पर्शे तथैव च ।
त्रिपक्षपक्षसप्ताहात् दैवराजकम् इष्यते ॥
बृहस्पतिः ।
सप्ताहे वा द्विसप्ताहे न विपद् राजदैविकी ।
बान्धवेषु सपिण्डेषु धनेषु शपथैः शुचिः ॥
मातृपक्षे पञ्चपुरुषावधिर् अनर्थाः पितृपक्षे सप्तपुरुषावधिः अनर्थः । यस्य बन्धुविषये ज्ञातिविषये वा विपत्तौ स्वविपद् इव क्लेशो भवति, तादृशविपद् वेदितव्येत्य् आचार्याः । नारदः ।
सप्ताहाभ्यन्तरे यस्य द्विसप्ताहे ऽपि वा पुनः ।
रोगो ऽग्निर् ज्ञातिमरणं पशुधान्यधनक्षयः ॥
प्रत्यात्मिकं भवेद् यस्य विद्यात् तस्य न शुद्धताम् ।
ऊर्ध्वं यस्य द्विसप्ताहात् वैकृतं सुमहद् भवेत् ॥
नाभियोज्यः स विदुषा कृतकालव्यतिक्रमात् ॥ इति ।
अल्पस्य देहिनां परिभाव्यत्वान्महद् भयम् इत्य् उक्तम् । एतन् महाभियोगविषयम्, “महाभियोगेष्व् एतानि” इति प्रस्तुत्याभिधानात्, इति । मनुः ।
आ चतुर्दशमाद् अह्नो यस्य नो राजदैविकम् ।
व्यसनं जायते घोरं स ज्ञेयः शपथैः शुचिः ॥ इति ।
अवध्यन्तराणि पितामहेनोक्तानि अल्पधनविषयाणि “कोशम् अल्पे ऽपि दापयेत्” इति वचनात् ।
त्रिरात्रात् सप्तरात्राद् वा द्वादशाहाद् द्विसप्तकात् ।
वैकृतं यस्य दृश्येत पापकृत् स उदाहृतः ॥ इति ।
महाभियोगोक्तद्रव्याद् अर्वाचीनं द्रव्यं त्रिधा विभज्य त्रिरात्रादिपक्षत्रयं व्यवस्थाप्यम् इति ।
इति वरदराजीये व्यवहारनिर्णये
द्वियप्रमाणनिर्णयकाण्डं समाप्तम्