०४ मानुष-प्रमाण-काण्डम्

अथ प्रमाणान्य् उच्यन्ते

तत्र मानुषं प्रमाणं त्रिविधं लेख्यभुक्तिसाक्षिरूपेण,

साक्षिलेख्यानुमानं च मानुषी त्रिविधा स्मृता ।

इति बृहस्पतिवचनात् । तथा –

षाण्मासिके ऽपि समये भ्रान्तिः सञ्जायते यतः ।

यत्राक्षराणि स्पष्टानि पत्रारूढान्य् अतः पुरा ॥

देशाचारयुतं वर्षमासपक्षाह्वृद्धिमत् ।

ऋणिसाक्षिलेखकानां हस्ताङ्कं लेख्यम् उच्यते ॥

तत्र लेख्यम् – निरव्द्यकर्तृलेखकसाक्षिहस्तलिप्यक्षरानुमितैः शब्दैः वाकर्थम् अवगमयतीति शाब्दं प्रमाणम् । तत्रान्यहस्तलिखितस्य साक्षिबहुत्वापेक्षा लेखकापेक्षा, कर्त्रपेक्षा च, लिखितसामग्रीशास्त्रनियमसिद्धा । स्वहस्तलिखितस्य लेखकसाक्ष्यनपेक्षा च शास्त्रनियमसिद्धा । शाक्षिणश् च शास्त्रोक्तनियमा स्वप्रत्यक्षादिप्रमाणमूलैः शब्दैर् अर्थम् अवगमयन्तीति शाब्देअम् एव प्रमाणम् । शास्त्रेण त्र्यवराः साधव इत्यादिनियमश् च ज्ञानप्रकारदर्शनपरः ।

अथ भुक्तिर् उच्यते – भुक्तिश् च पञ्चविधविशेषणविशिष्टा । स्वत्वहेतुभूतक्रयाद्यनुमानलिङ्गाकल्पकं वा ततश् च युक्तिलेशादिवद् भुक्तिर् अनुमानम् अर्थापत्तिर् वा, प्रमाणम् इत्य् अभिप्रायः । तत्र विशेषम् आह नारदः ।

लिखितं बलवन् नित्यं जीवन्तस् त्व् एव साक्षिणः ।

कालातिहरणाद् भुक्तिर् इति शास्त्रेषु निश्चयः ॥

निरवद्यस्य लेख्यस्य सर्वदा बलवत्त्वम् । जीवदवस्थायाम् एव साक्षिणो बलवत्त्वम् । चिरकाले ऽतीते भुक्तेश् च बलवत्त्वम् । तत्र प्रजापतिः ।

राजकीयं जानपदं द्विविधं लिखितं स्मृतम् ।

शासनं राजदत्तादौ चीरकं स्याद् ऋणादिषि ॥

राज्ञा दत्ते कृतं लेख्यं राजशासनम् उच्यते ॥

ऋणादिषु विवादेषु जानपदं लेख्यं चीरकम् इत्य् उच्यते । तत्र राजशासनस्य लक्षणम् आह ।

राज्ञा स्वहस्तचिह्नेन सन्धिविग्रहलेखकैः ।

लिखितं राजनामाङ्कं मुद्रितं राजमुद्रया ॥

समामासतदर्धाहोनामजात्यादिचिहिनितम् ।

स्पष्टवर्णक्रमोपेतम् अविलुप्तक्रमाक्षरम् ॥

राजशासनम् एतत् स्याद् उत्तमं सर्वलेख्यतः ।

तत्र व्यासः ।

राज्ञा तु स्वयम् आदिष्टः सन्धिविग्रहलेखकः ।

ताम्रपट्टे पटे वापि प्रलिखेद् राजशासनम् ॥

चीरकं नाम लिखितं प्रधानैः पौरलेखकैः ।

अर्थिप्रत्यर्थिमध्यस्थसमामासादिसंयुतम् ॥

राजस्थाने नियुक्तकायस्थादिकृतं तदध्यक्षकरचिह्नितम् राजहस्तमुद्रया मुद्रितं राजलेख्यम् इत्य् उच्यते । स्थानलेख्यं तु ग्रामजपदादिष्व् अधिकृतकायस्थकृतं तदध्यक्षकरचिह्नितं चीरितम् इत्य् उच्यते । अत्र विशेषम् आह बृहस्पतिः ।

राजलेख्यं स्थानकृतं स्वहस्तलिखितं तथा ।

लेख्यं तु त्रिविधं प्रोक्तं भिन्नं तद् दशधा पुनः ॥

दानलेख्यं भागलेख्यं सीमालेख्यं तथैव च ।

क्रयलेख्यं दासलेख्यम् आधिलेख्यं ततः परम् ॥

संविदुद्दामलिख्यं च जयपत्रकम् एव च ।

सन्धिपत्रं तथैवैतत् क्रियाभेदाद् अनेकधा ॥

भूमिं दत्वा तु यत् पत्रं कुर्याच् चन्द्रार्ककालिकम् ॥

इत्य् उद्देशेः ।

अथ लक्षणम्

अनाच्छेद्यम् अनाहार्यं दानलेख्यं तु तत् स्मृतम् ।

विभागपत्रम् इत्य् एतद् भागानां निर्णयं कृतम् ॥

सीमाविवादे निर्णीते सीमापत्रम् इति स्मृतम् ।

गृहक्षेत्रादिकं क्रीत्वा तुल्यमूलाक्षराण्वितम् ॥

पत्रं कारयते यत् तु क्रयलेख्यं तद् उच्यते ।

आध्यर्थम् आधिलेख्यं स्याद् दासार्थं दासपत्रकम् ॥

समीहितार्थसिद्ध्यर्थं ग्रामश्रेणिगणादिभिः ।

शास्त्राविरोधि धर्मार्थे कृतं संवित्तिपत्र्कम् ॥

धनं गृहीत्वा वृद्ध्यर्थं स्वयं कुर्याच् च कारयेत् ।

उद्दामपत्रं तत् प्रोक्तम् ऋणलेख्यं मनीषिभिः ॥

जयपत्रलक्षणम् आह कात्यायनः ।

यथोपन्यस्तसाध्यार्थसंयुक्तं सोत्तरक्रियम् ।

सावधारणकं चैव मुद्रितं राजमुद्रया ॥

सभासन्यस्तचिह्नं च वादिप्रत्यर्थिसंयुतम् ।

प्राड्विवाकादिहस्ताङ्कं जयपत्रकम् इष्यते ॥

सन्धिस्थलेख्यलक्षणम् आह वृद्धवसिष्ठः ।

अर्थिप्रत्यर्थिवाक्यानि प्रतिज्ञा साक्षिवाक् तथा ।

निर्णयश् च तथा तस्य यथा चावधृतं स्वयम् ॥

एतद् यथाक्षरं लेख्यं यथापूर्वं निवेशितम् ।

चतुर्ष्व् अपि विवादेषु जयिने जयपत्रकम् ॥

कुलादिभिर् निर्णये जयपत्राभावान् निर्णयपत्रं तत्र कार्यम्, प्रत्तपत्रम् इति यावत् । तथा च कात्यायनः ।

देशाचार(आ)विरुद्धं (?) यद् व्यक्ताधिकृतलक्षणम् ।

तत् प्रमाणं स्मृतं लेख्यम् अविलुप्तक्रमाक्षरम् ॥

सभासदश् च ये तत्र स्मृतिशास्त्रविदस् तथा ।

यथालेख्यविदस् तद्वत् स्वहस्तं तत्र दापयेत् ॥

अभियोक्ताभियुक्तानां वचनं प्राङ्निवेशयेत् ।

सभ्यानां प्राड्विवाकस्य कुलानां वा ततः परम् ॥

निश्चयं स्मृतिशास्त्राणां मतं तत्रैव लेखयेत् ।

सन्धौ कृते तु यत् पत्रं सन्धिलेख्यं तद् उच्यते ॥

अथ करलेख्यम्

तत्र कात्यायनः ।

देशाचारस्थितियुतं करलेख्यादिकं स्मृतम् ।

समामासादिहीनं तु प्रमाणं तद् भवेत् पुनः ॥

अत्र विशेषम् आह याज्ञवल्क्यः ।

यः कश्चिद् अर्थो निष्णातः स्वरुच्या तु परस्परम् ।

लेख्यं तु साक्षिमत् कार्यं तस्मिन् धनिकपूर्वकम् ॥

समामासतदर्धाहोनामजातिस्वगोत्रकम् ।

सब्रह्मचारिकात्मीयपितृनामादिचिह्नितम् ॥

समाप्ते ऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् ।

मतं मे ऽमुकपुत्रस्य यद् अत्रोपरि लेखितम् ॥

उभयाभ्यर्थितेनैतन् मया ह्य् अमुकसूनुना ।

लिखितं ह्य् अमुकेनेति लेखकस् त्व् अन्ततो लिखेत् ॥

विनापि साक्षिभिर् लेख्यं स्वहस्तलिखितं तु यत् ।

तत् प्रमाणं स्मृतं सर्वं बलोपधिकृताद् ऋते ॥

ऋणं लेख्यकृतं देयं पुरुषैस् त्रिभिर् एव तु ।

तथा ।

साक्षिणश् च स्वहस्तेन पितृनामादिपूर्वकम् ।

अत्राहम् अमुकः साक्षी लिखेयुर् इति ते समाः ॥

अलिपिज्ञ ऋणी यः स्याल् लेखयेत् स्वमतं तु सः ।

साक्षी वा साक्षिणान्येन सर्वसाक्षिसमीमतः (?) ॥

समाप्ते लेख्ये ऋणी स्वहस्तेन स्वनामलिप्तां लिपिं कुर्यात् । तदनन्तरं लेखकः, तदनन्तरं साक्षिणः । अलिपिज्ञानाम् एतेषां स्वमतम् अन्येन लेखनीयम् । तत्र स्वहस्तलिखितं लेख्यं साक्षिभिर् विनापि प्रमाणम् । अलिपिज्ञेनान्येन लिखितं साक्षिमद् एव प्रमाणम् ।

स्थावरे प्रक्रियाधाने विभागे दाय एव च ।

प्रतिग्रहे च क्रीते च नालेख्या सिद्ध्यति क्रिया ॥

इति यद् इदं कात्यायनीयवचनम्, तल् लेख्यप्राधान्यपरम्, न त्व् अन्यनिवृत्तिपरम्, तथात्वे वचनान्तरविरोधात् । अत्रायम् अर्थः । उक्तेषु लेख्यविशेषणेषु यस्य यत्र दृष्टार्थत्वं तत्र तद् आदरणीयम् । नेतरत्, अदृष्टार्थत्वप्रसङ्गात् ।

अथ पुनर्लेख्यम्

अत्र याज्ञवल्क्यः ।

देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा ।

भिन्ने दग्धे तथा छिन्ने लेख्यम् अन्यत् तु कारयेत् ॥

पूर्वकृते लेख्ये व्यवहाराक्षमे अन्यत् लेख्यं कारयेद् इत्य् अर्थः । व्यासः ।

अप्रकाशाद् धि स्वकृतात् साक्षिमल्लेख्यकान्वितम् ।

स्वहस्तचिह्नितं लेख्यं श्रेष्ठम् अन्येन लेखितम् ॥

कात्यायनः ।

दर्शितं प्रतिकालं यच् छ्रावितं स्मारितं तथा ।

लेख्यं सिद्ध्यति सर्वत्र मृतेष्व् अपि हि साक्षिषु ॥

बृहस्पतिः ।

न जातु हीयते लेख्यं साक्षिभिः शपथेन वा ।

अदर्शनाद् अश्रवणाद् धानिं प्राप्नोत्य् उपेक्षया ॥

लेख्यं त्रिंशत्समातीतम् अदृष्टाश्रावितं च यत् ।

न लेख्यं सिद्धिम् आप्नोति तिष्ठत्स्व् अपि हि साक्षिषु ॥

लेख्यस्य असिद्धहेतून् आह व्यासः ।

अश्रुतार्थम् अदृष्टार्थं व्यवहाराथम् आगतम् ।

न लेख्यं सिद्धिम् आप्नोति जीवत्स्व् अपि हि साक्षिषु ॥

अन्यत्रापि ।

आधातरि तिरोभूतम् आविभूतं मृते सति ।

अनात्तवित्तं तल् लेख्यं प्रतिदत्तम् अथापि वा ॥

व्यासः ।

स्वहस्तैककृताज् जानपदं तस्मात् तु शासनम् ।

प्रमाणतरम् इष्टं हि व्यवहारार्थम् आगतम् ॥

तथान्यत्र ।

देशाध्यक्षादिना लेख्यं यत्र जानपदं कृतम् ।

समकालं पश्चिमं वा तस्माज् जानपदं शुभम् ॥

लेखकसाक्षिणाम् अत्यये तल्लिखितैः इतराक्षरैः संशयनिरासम् आह बृहस्पतिः ।

अथ पञ्चत्वम् आपन्नो लेखकः साक्षिभिः सह ।

तत् स्वहस्तादिभिस् तेषां विशुध्येत न संशयः ॥

लेख्ये संशयम् आपन्ने साक्षिलेखककर्तृभिः ।

दुष्टेषु तेषु तद्धस्तकृतपूर्वाक्षरादिभिः ॥

यथालाभोपपन्नैस् तैर् निर्णयं कारयेन् नृपः ॥

नारदः ।

अश्रुतार्थम् अदृष्टार्थं व्यवहारार्थम् आगतम् ।

न लेख्यं सिद्धिम् आप्नोति जीवत्स्व् अपि हि साक्षिषु ॥

ऋणिनो हस्तसन्देहे जीवतो वा मृतस्य वा ।

तत् स्वहस्तकृतैर् अन्यैः पत्रैस् तल्लेख्यनिर्णयः ॥

याज्ञवल्क्यः ।

सन्दिग्धलेख्यशुद्धिः स्यात् स्वहस्तलिखितादिभिः ।

युक्तिप्राप्तिक्रियाचिह्नसम्बन्धागमहेतुभिः ॥

सन्दिग्धे लेख्ये अन्यस् तद्धतलिखितैः शुद्धिः । आदिशब्दात् साक्षिलेखकहस्तलिखितान्तरसंवादाच् छुद्धिः । युक्त्वा प्राप्तिः युक्तिप्राप्तिः । देशकालपुरुषाणां द्रव्येण सह सम्बन्धप्राप्तिः । अस्मिन् देशे अस्मिन् काले अस्य पुरुषस्य इदं द्रव्यं घटत इति युक्तिप्राप्तिः । क्रिया तत्क्रिया तत्साक्ष्युपन्यासः । चिह्नम् असाधारणस्वस्वीकाराद् इति । सम्बन्धः अर्थिप्रत्यर्थिनोः पूर्वम् अपि परस्परविश्वासेन दानग्रहणादिसम्बन्धः । आगमः अस्यैतावतो ऽर्थस्य सम्भावितः प्राप्त्युपायः । एत एव हेतवः । एभिर् लेख्यशुद्धिर् इति । लेख्यपरीक्षाम् आह कात्यायनः ।

दृष्टे पत्रे स्फुटं दोषं नोक्तवान् ऋणिको यदि ।

ततो विंशतिवर्षातिक्रान्तं पत्रं स्थिरं भवेत् ॥

शक्तस्य सन्निधाव् अर्थो यस्य लेख्येन भुज्यते ।

वर्षाणि विंशतिर् यावत् तत् पत्रं दोषवर्जितम् ॥

स्त्रीबालार्तालिपिज्ञानां वञ्चयन्ति स्वबान्धवाः ।

लेख्यं कृत्वा स्वनामाङ्कं ज्ञेयं युक्त्यागमादिभिः ॥

व्यासः ।

यत्रान्यस्य कृतं लेख्यम् अन्यहस्ते प्रदृश्यते ।

अवश्यं तत्र कर्तव्यं पत्रस्यागमनं ततः ॥

प्रजापतिः ।

यन्नामगोत्रैस् तुल्यं तु लेख्यकं हि क्वचिद् भवेत् ।

अगृहीते धने तत्र कार्यो दिव्येन निर्णयः ॥

नारदः ।

दर्पणस्थं यथाबिम्बम् असत् सद् इव दृश्यते ।

तथा लेख्यस्य बिम्बानि कुर्वन्ति कुशला नराः ॥

लेख्याकारेण लिखितं साक्ष्याकारेण साक्षिणः ।

असत्याः सत्यसङ्काशाः सत्याश् चासत्यदर्शिनः ॥

दृश्यन्ते विविधा भावास् तस्माद् युक्तं परीक्षणम् ।

बृहस्पतिः ।

पुरुषाः सन्ति लोभाद् ये कार्यं प्रब्रूयुर् अन्यथा ।

सन्ति चान्ये दुरात्मानः कूटलेख्यकृतो नराः ।

अतः परीक्ष्यम् उभयम् एतद् राज्ञा विशेषतः ॥

व्यासः ।

लेख्य आलेख्यवत् केचिल् लिखन्ति कुशला नराः ।

तस्मान् न लेख्यसामर्थ्यात् सिद्धिर् ऐकान्तिकी मता ॥

जडमूकान्धबालस्त्रीगणवृद्धार्तभीरुभिः ।

कात्यायनः ।

साक्षिदोषाद् भवेद् दुष्टं पत्रं वा लेखकः स्वयम् ।

धनिकस्योपधादोषात् तथा च ऋणिकस्य वा ॥

जडमूकान्धबालाज्ञक्रुद्धरोगार्थभीरुभिः ।

अस्वतन्त्रोपधादुष्टैः कृतं लेख्यं न सिद्ध्यति ॥

समामासादिहीनं च देशाचारविरोधि च ।

लुप्तक्रमवर्णं च शृङ्गहीनं च दुष्यति ॥

बृहस्पतिः ।

दूषितो गर्हितः साक्षी यत्रैको विनिवेशितः ।

कूटलेख्यं तु तत् प्राहुः लेखको वापि तद्विधः ॥

स्थानभ्रष्टाश् च मलिनाः सन्दिग्धा लक्षणच्युताः ।

यत्रैवं सुस्थिता वर्णा लेख्यं दुष्टं तु तद् भवेत् ॥

यद् उज्वलं चिरकृतं मलिनं स्वल्पकालिकम् ।

भग्नोन्मृष्टाक्षरयुतं लेख्यं कूटत्वम् आप्नुयात् ॥

एकम् एव भवेल् लेख्यम् एकस्यार्थस्य सिद्धये ।

अनेकेषु तु लेख्येषु दोषम् उत्पदयेद् अपि ॥

देशाचारविरुद्धं यत् सन्दिग्धं क्रमवर्जितम् ।

कृतम् अस्वामिना यच् च साध्यहीनं च दुष्यति ॥

कात्यायनः ।

साक्षिलेखककर्तारः कूटतां यान्ति ते यथा ।

तथा दोषाः प्रयोक्ताव्या दुष्टलेख्यं च दुष्यति ॥

दुष्टैर् दुष्टं भवेल् लेख्यं शुद्धैः शुद्धं विनिर्दिशेत् ।

तत् पत्रम् उपधादुष्टैः साक्षिलेखककारकैः ॥

बृहस्पतिः ।

मुमूर्षुशिशुभीतार्तस्त्रीमत्तव्यसनातुरैः ।

निशोपधिबलात्कारकृतं लेख्यं न सिध्यति ॥

व्यासः ।

दासास्वतन्त्रबालैश् च स्त्रीकृतं चैव यद् भवेत् ।

प्रमाणं नैव तल् लेख्यम् इति शास्त्रविदो विदुः ॥

मनुः ।

यस्मिन् यस्मिन् विवादेषु कूटसाक्ष्यं कृतं भवेत् ।

तत् तत् कार्यं निवर्तेत कृतं चाप्य् अकृतं भवेत् ॥

योगाधमनविक्रीतं योगदानप्रतिग्रहम् ।

यत्र चाप्य् उपधिं पश्येत् तत् सर्वं विनिवर्तयेत् ॥

बलाद् दत्तं बलाद् भुक्तं बलाच् चापि लेखितम् ।

सर्वान् बलकृतान् अर्थान् अकृतान् मनुर् अब्रवीत् ॥

याज्ञवल्क्यः ।

बलोपधिविनिर्वृत्तान् व्यवहारान् निवर्तयेत् ।

स्त्रीनक्तम् अन्तरागारं बहिःशत्रुकृतं तथा ॥

नारदः ।

स्त्रीषु रात्रौ बहिर्ग्रामाद् अन्तर्वेश्मन्यरात्रिषु ।

व्यवहारः कृतो ऽप्य् एषु पुनःकर्तव्यताम् इयात् ॥

कात्यायनः ।

लेख्यदोषास् तु ये केचित् साक्षिणो वापि ये स्मृताः ।

वादकालेषु वक्तव्याः पश्चादुक्तींस् तु वर्जयेत् ॥

प्रजापतिः ।

यन्नामगोत्रैस् तुल्यं हि लेख्यं कर्तुः क्वचिद् भवेत् ।

अगृहीते धने तत्र कार्यो दिव्येन निर्णयः ॥

तथा च प्रजापतिः ।

लेख्ये कूटत्वम् आपन्ने सन्दिग्धे कार्यनिर्णये ।

असत् कृत्य च तल् लेख्यम् अर्थे दिव्येन निर्णयः ॥

कात्यायनः ।

न मयैतत् कृतं पत्रं कूटम् एतेन कारितम् ।

अधरीकृत्य तत् पत्रम् अर्थे दिव्येन निर्णयः ॥

अदुष्टलेखकर्तृलेखकसाक्षियुक्तं लेख्यम् अर्थस्यात्यन्तसाधकम् इति । अन्यन् न साधकम् इति ।

इति लेख्यप्रकरणम्

अथ साक्षिणः

तत्र मनुः ।

पृष्टोपव्ययमानस् तु कृतावस्थो धनैषिणा ।

त्र्यवरैः साक्षिभिर् भाव्यो नृपब्राह्मणसन्निधौ ॥

अपव्ययमानो विवदमानः । कृतावस्थः कृतावस्थानः, यथासौ नाधिगच्छति तथा राज्ञा कृत इत्य् आर्थः । तथा ।

यादृशा धनिभिः कार्या व्यवहारेषु साक्षिणः ।

तादृशान् सम्प्रवक्ष्यामि यथावाच्यम् ऋतं च तैः ॥

गृहिणः पुत्रिणो मौला क्षत्रविट्छूद्रयोनयः ।

अर्थ्युक्ताः साक्ष्यम् अर्हन्ति न ये केचिद् अनापदि ॥

मौलाः कुलीनाः ग्रामश्रेष्ठाः प्रधानपुरुषाः वा ।

आप्ताः सर्वेषु वर्णेषु कार्याकार्येषु साक्षिणः ।

सर्वधर्मविदो ऽलुब्धान् विपरीतांस् तु वर्जयेत् ॥

नारदः ।

सन्दिग्धेषु च कार्येषु द्वयोर् विवदमानयोः ।

दृष्टश्रुतानुभूतत्वात् साक्षिभ्यो व्यक्तिदर्शनम् ॥

समक्षदर्शनात् साक्षी विज्ञेयः श्रोत्रचक्षुषोः ।

चक्षुषा श्रोत्रेण वा सह मनोव्यापारो यस्यासौ साक्षी । “साक्षाद् द्रष्टरि सञ्ज्ञायाम्” इति पाणिनिस्मरणात्, साक्षाद् द्रष्टा साक्षी । अत्र याज्ञवल्क्यः ।

तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः ।

धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः ॥

त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्तक्रियापराः ।

यथाजाति यथावर्णं सर्वे सर्वासु वा स्मृताः ॥

अन्यत्र नारदः ।

कुलीना ऋजवः शुद्धा जन्मतः कर्मतो ऽर्थतः ।

त्र्यवराः साक्षिणो ज्ञेयाः शुचयश् च सुबुद्धयः ॥

ब्राह्मणाः क्षत्रिया वैश्या शूद्रा ये चाप्य् अनिन्दिताः ।

प्रतिवर्णं भवेयुस् ते सर्वे सर्वेषु वा स्मृताः ॥

श्रेणिषु श्रेणिपुरुषाः स्वेषु वर्णेषू वर्णिणः ।

बहिर्वासिषु बाह्याः स्युः स्त्रियः स्त्रीषु च साक्षिणः ॥

पुनः नारदः ।

एकादशविधः साक्षी शास्त्रे दृष्टो मनीषिभिः ।

कृतः पञ्चविधस् तेषां षड्विधो ऽकृत उच्यते ॥

लेखितः स्मारितश् चैव यदृच्छाभिज्ञ एव च ।

गूढश् चोत्तरसाक्षी च कृतः पञ्चविधः स्मृतः ॥

अकृतान् आह नारदः ।

अन्ये पुनर् अनिर्दिष्टाः साक्षिणः समुदाहृताः ।

ग्रामश् च प्राड्विवाकश् च राजा च व्यवहारिणाम् ॥

कार्ये ऽप्य् अभ्यन्तरे यः स्यात् अर्थिना प्रहितश् च यः ।

कुल्याः कुलविवादेषु भवेयुस् ते ऽपि साक्षिणः ॥

बृहस्पतिः ।

लिखितो लेखितो गूढः स्मारितः कुल्यदूतकौ ।

यादृच्छिकश् चोत्तरश् च कार्य्मध्यगतस् तथा ॥

नृपो ऽध्यक्षस् तथा ग्रामः साक्षी द्वादशधा स्मृतः ।

अनेन तु साक्षिणां कृतौ तल् लेख्येन विनिर्णयः ।

प्राड्विवाकप्रसिद्ध्यर्थं मध्यस्थान् पूजयेत् ततः ॥

प्रभेदम् एषां वक्ष्यामि यथावद् अनुपूर्वशः ।

जातिनामाभिलिखितं येन स्वं पित्र्यम् एव च ॥

निवासश् च स विज्ञेयः साक्षी लिखितसञ्ज्ञकः ।

सन्धिक्रियां क्रियाभेदैस् तस्य कृत्वा ऋणादिके ॥

प्रत्यक्षं लिखिते यश् च लेखितः स उदाहृतः ।

कुड्यव्यवहितो यस् तु श्राव्यते ऋणभाषितम् ॥

विनिह्नुते यथाभूतं गूढसाक्षी स कीर्तितः ।

व्यासः ।

अर्थिनः स्वार्थसिद्ध्यर्थं प्रत्यर्थिवचनं स्फुटम् ।

यः श्राव्यते स्थितो गूढो गूढसाक्षी स उच्यते ॥

बृहस्पतिः ।

आहूय यः कृतः साक्षी ऋणव्यासक्रियादिके ।

स्मार्यते च मुहुः कार्यं स्मारितः सो ऽभिधीयते ॥

विभागदाने विपणे ज्ञातिर् यत्रोपदिश्यते ।

द्वयोः समानो धर्मज्ञः कुल्यः स परिकीर्तितः ॥

अर्थिप्रत्यर्थिवचनं शृणुयात् प्रेषितस् तु यः ।

उभयोः सम्मतः साधुः दूतकः स उदाहृतः ॥

क्रियमाणे तु कर्तव्ये यः कश्चित् स्वयम् आगतः ।

अत्र साक्षी त्व् अस्माकम् उक्तौ यादृच्छिकस् तु सः ॥

यत्र साक्षी दिशं गच्छन् मुमूर्षुर् वा यथाश्रुतम् ।

अन्यं संश्रावयेत् तत् तु विद्याद् उत्तरसाक्षिणम् ॥

उभाभ्यां यस्य विश्वस्तं कार्यं चापि निवेदितम् ।

गूढसाक्षी स विज्ञेयः कार्यमध्यगतस् तथा ॥

अर्थिप्रत्यर्थिनोर् वाक्यं यच् छ्रुतं भूभृता स्वयम् ।

स एव तत्र साक्षी स्याद् विसंवादे द्वयोर् अपि ॥

ननु “न साक्षी नृपतिः कार्यः” इति राज्ञः साक्षित्वनिषधात् तस्क कथं साक्षित्वम् इति चेत्, उच्यते । व्यवहारदर्शनकाले ऽवगतेष्व् अर्थेषु तस्येह साक्षित्वम् उच्यते, कालान्तरापेक्षया निषेधः । तथा च व्यासः ।

राज्ञा धर्मासनस्थेन यच् छ्रुतं तत्त्वम् इच्छता ।

नान्यः साक्षी भवेत् तत्र मुक्त्वा राजानम् ईश्वरम् ॥ इति ।

बृहस्पतिः ।

निर्णीते व्यवहारे तु पुनर्न्यायो यदा भवेत् ।

अध्यक्षः सभ्यसहितः साक्षी स्यात् तत्र नान्यथा ॥

राजमूलः सन्धिमूलः द्विविधो निर्णयो मतः ।

आद्ये दशाङ्गकथनाद् द्वितीये च यथाविधि ॥

कात्यायनः ।

लेखकः प्राड्विवाकश् च सभ्याश् चैवानुपूर्वशः ।

नृपे पश्यति तत् कार्यं साक्षिणः समुदाहृताः ॥

जयपत्रनाशे इदं वचनम् । सद्भावे तद् एव प्रमाणम् । बृहस्पतिः ।

मुषितं घातितं यत्र सीमायाश् च समन्ततः ।

अकृते ऽपि भवेत् साक्षी ग्रामस् तत्र न संशयः ॥

मनुः ।

यत्रानिबद्धो वीक्षेत शृणुयाद् वापि कथञ्चन ।

पृष्टस् तत्र सकृद् ब्रूयाद् यथादृष्टं यथाश्रुतम् ॥

कात्यायनः ।

अशक्य आगमो यत्र विदेशे प्रतिवादिना ।

त्रैविद्यप्रहितं तत्र लेख्यं साक्ष्यं प्रदापयेत् ॥

साक्षिणश् च स्वरूपेणागमनाशक्तौ विद्वत्सन्निधौ तत्कृतेन लेख्येन साक्ष्यं भावयेत् । इति ।

अथ साक्षिसङ्ख्या

बृहस्पतिः ।

नव सप्तापि वा पञ्च चत्वारस् त्रय एव वा ।

उभौ वा श्रोत्रियौ ग्राह्यौ नैकं पृच्छेत् कदाचन ॥

लिखितौ द्वौ तथा गूढौ त्रिचतुःपञ्च लेखिताः ।

यदृच्छास्मारिताः कुल्यास् तथा चोत्तरसाक्षिणः ॥

दूतको धटिकाग्राही कार्यमध्यगतस् तथा ।

एक एव प्रमाणं स्यान् नृपो ऽध्यक्षस् तथैव च ॥

धटिकाग्राही गणकः । अध्यक्षः प्राड्विवाकादिः । याज्ञवल्क्यः ।

उभयानुमतः साक्षी भवत्य् एको ऽपि धर्मवित् ।

अन्यत्र ।

अभ्यन्तरस् तु निक्षेपे साक्ष्यम् एको ऽपि वोच्यते ।

आष्टमात् वत्सरात् सिद्धिः स्मारितस्येह साक्षिणः ॥

आ पञ्चमात् तथा सिद्धिः यदृच्छोपगतस्य च ।

आ तृतीयात् तथा सिद्धिः वर्षात् गूढस्य साक्षिणः ॥

आ वत्सरात् तथा सिद्धिः भवत्य् उत्तरसाक्षिणः ।

अथ वा कालनियमो न दृष्टः साक्षिणां प्रति ॥

स्मृत्यपेक्षं हि साक्षित्वम् आहुः श्रास्त्रविदो जनाः ।

यस्य नोपहता बुद्धिः दृष्टिश्रोत्रे च नित्यशः ।

सुदीर्घेणापि कालेन साक्षी साक्षित्वम् अर्हति ॥

कात्यायनः ।

दासचारणमल्लानां हस्त्यश्वरथजीविनाम् ।

पूगश्रेणिगणादीनां साक्ष्यं स्वेषु विधीयते ॥

सम्यक् क्रियापरिज्ञाने देयः कालस् तु साक्षिणाम् ।

असन्दिग्धं यत्र साक्ष्यं तत्र सद्यो विनिर्णयः ॥

सन्दिग्धं यत्र साक्ष्यं तु तत्र दिव्येन निर्णयः ।

सर्वत्र स्वजनस्य स्वाम्यं स्वतःप्राप्तिर् उच्यते । मनुः ।

अनुभावी तु यः कश्चित् कुर्यात् साक्ष्यं विवादिनाम् ।

अन्तर्वेश्मन्य् अरण्ये वा शरीरस्यैव चात्यये ॥

असम्भवे सर्वेषां सर्वत्र साक्षित्वं युक्तम् एव । बृहस्पतिः ।

उभयानुमतः साक्षी चैको ऽपि च यथोदितः ।

वदेन् न कालनियमः तत्रान्यत् कार्यम् इष्यते ॥

पञ्चाशद्वत्सराद् अर्वाक् न कालनियमः स्मृतः ।

ऊर्ध्वं तु कालनियमः स्याद् एवेत्य् अब्रवीन् मनुः ॥

अथासाक्षिणः

अत्राह नारदः ।

असाक्ष्य् अपि हि शास्त्रेषु दृष्टः पञ्चविधो बुधैः ।

पाञ्चविध्यम् आह ।

वचनात् दोषतो भेदात् स्वयम् उक्तैर् मृतान्तरात् ॥

तत्र वचनात् इति पदं विवृणोति ।

श्रोत्रियास् तापसा वृद्धा ये च प्रव्रजिता नराः ।

असाक्षिणस् ते वचनान् नात्र हेतुर् उदाहृतः ॥

दोषतः इति पदं व्याचष्टे ।

स्तेनाः साहसिकाश् चण्डाः कितवा वधकास् तथा ।

असाक्षिणस् ते दुष्टत्वात् तेषु सत्यं न विद्यते ॥

राज्ञा परिगृहीतेषु साक्षिष्व् एकार्थनिर्णये ।

वचनं यत्र भिद्येत ते स्युर् भेदाद् असाक्षिणः ॥

स्वयम् उक्तैः इति पदं व्याचष्टे ।

स्वयम् उक्तः स निर्दिष्टः स्वयम् एवैत्य यो वदेत् ।

सूचीत्य् उक्तः स शास्त्रेषु न स साक्षित्वम् अर्हति ॥

सूची सूचक इति शास्त्रेषूक्तः । मृतान्तरात् इति पदं व्याचष्टे ।

यो ऽर्थः श्रावयितव्यः स्यात् तस्मिन्न् असति चार्थिनि ।

क्व तद् वदतु साक्षित्वम् इत्य् असाक्षी मृतान्तरः ॥

“यो ऽर्थः श्रावयितव्यः स्यात्” पूर्वपक्षिणा प्रतिवादिना वा भवेत्, असति तस्मिन्न् अर्थे ऽनिवेदित इत्य् अर्थः । अर्थिनि चासति तस्मिन् मृते कस्मिन्न् अर्थे कीदृशे वार्थे वदति साक्षित्वम्, साक्षित्वेनानिर्दिष्टः । एतद् उक्तं भवति । धनिनि प्रेते अनावेदिते च व्यवहारे, अनाहूतः सन्, स्वयम् एवैत्य मृतपुत्रं निर्दिश्यामुष्यासौ धारयति, अहं साक्षीति यो ब्रवीति, असौ मृतान्तरनामा असाक्षी, मुमूर्षुणा पुत्रं प्रति श्राविते तस्मिन्न् अर्थे ऽसो साक्षीत्य् एवं श्रावितः पुत्रं प्रति साक्षी भवत्य् एव । अत्र बृहस्पतिः ।

सन्तो ऽपि न प्रमाणं स्युः मृते धनिनि साक्षिणः ।

पुत्रे तु श्राविता ये स्युः स्वयम् आसन्नमृत्युना ।

ते साक्षिणो भवन्त्य् एव मृतान्तरतयापि च ॥

अत्र मनुः ।

नार्थसम्बन्धिनो नाप्ता न सहाया न वैरिणः ।

न दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः ॥

न साक्षी नृपतिः कार्यो न कारुककुशीलवौ ।

न श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो विनिर्गतः ॥

नाध्यधीनो न वक्तव्यो न दस्युर् न विकर्मकृत् ।

न वृद्धो न शुशुर् नैको नान्त्यो न विकलेन्द्रियः ॥

याज्ञवल्क्यः ।

स्त्रीबालवृद्धकितवमत्तोन्मत्ताभिशस्तकाः ।

रङ्गावतारी पाषण्डी कूटकृद् विकलेन्द्रियः ॥

पतिताप्तार्थसम्बन्धसहायरिपुतस्कराः ।

साहसी दृष्टदोशश् च निर्धूतश् चेत्य् असाक्षिणः ॥

प्रजापतिः ।

दासनैकृतिका शूद्रनास्तिकग्रामयाजकाः ।

महापथिकसामुद्रवणिग्विषदवह्निदाः ॥

युग्मैकाचारा दूताश् च हीनाङ्गा बकवृत्तयः ।

हीनाश् च व्रात्यदाराग्नित्यागिनो ऽयाज्ययाजकाः ॥

भूताविष्टनृपद्विष्टवर्षनक्षत्रसूचकाः ।

एकस्थाली सहायारी ज्ञातिसम्बन्धिबान्धवाः ॥

विषजीवी भिषग्जीवी परप्रेष्यो नियोजितः ।

आध्यधीननिसृष्टार्थशूद्रा पुत्रोपपादकाः ॥

भिन्नवृत्तसमावृत्तमाहायज्ञप्रवर्तकाः ।

क्लान्तश्रान्तो ऽघशंसी च श्यावदत् कुनखस् तथा ॥

आत्मविक्रेतृमित्रध्रुक्शठशौण्डीकपौष्टिकाः ।

ऐन्द्रजालिकलुब्धोग्रश्रेणीगणविरोधिनः ॥

तैलकृच् चित्रकृन् मद्गुः कुहको राजपूरुषः ।

नग्नाङ्गः प्रत्यवसितो बैडालव्रतहैतुकाः ॥

कैवर्तबकवृत्तार्तलोकायतिकसौगताः ।

मौहूर्तिकः शाकुनिको धर्मात् स्वात् प्रच्युतस् तथा ॥

मनुः ।

मनुष्यपशुमांसास्थिपशुक्षीराम्बुसर्पिषाम् ।

विक्रेता ब्राह्मणश् चैव द्विजो वार्धुषिकश् च यः ॥

पित्रा विवदमानश् च कुलिकः सूचकस् तथा ।

श्रुतिस्मृत्युदितं कर्म त्यजन्न् अन्यत् करोति वा ॥

बहुना किम् इहोक्तेन साक्ष्यं तेषु न विद्यते ।

उक्तानां साक्षिणाम् असम्भवे निषिद्धेष्व् अपि प्रतिप्रसवम् आह मनुः ।

स्त्रियाप्य् असम्भवे कार्यं बालेन स्थविरेण वा ।

शिष्येण बन्धुना वापि दासेन भृतकेन वा ॥

अत्र विशेषम् आह नारदः ।

असाक्षिणो ये निर्दिष्टा दासनैकृतिकादयः ।

कार्यगौरवम् आसाद्य भवेयुस् ते ऽपि साक्षिणः ॥

तेषाम् अपि न बालः सन् नैको न स्त्री न कूटकृत् ।

न् बान्धवो न चारातिः ब्रूयुस् ते साक्ष्यम् अन्यथा ॥

बालो ऽज्ञानाद् असत्यात् स्त्री पापाभ्यासाच् च कूटकृत् ।

विब्रूयुः बान्धवाः स्नेहात् वैरनिर्यातनाद् अरिः ॥

एको लुब्धस् त्व् असाक्षी स्यात् बह्व्यः शुध्यो ऽपि न स्त्रियः ।

स्त्रीबुद्धेर् अस्थिरत्वाच् च दोषैश् चान्ये ऽपि ये वृताः ॥

अन्ये ऽपि दोषैर् वृताः दोषयुक्ता न साक्षिण इत्य् अर्थः । अत्र याज्ञवल्क्यः ।

सर्वः साक्षी सङ्ग्रहणे चौर्यपारुष्यसाहसे ।

अत्र उशनाः ।

दासो ऽन्धो बधिरः कुष्टी स्त्रीबालस्थविरादयः ।

एते ऽप्य् अनभिसम्बन्धाः साहसे साक्षिणो मताः ॥

सर्वत्रादृष्टदोषाणां प्रतिप्रसवो न स्त्र्यादीनां तस्करादीनां तेषां पापाभ्यासवशात् सत्याभावाच् च । यत्र पुनर् दुष्टा एव द्रष्टारो न साधवः तत्र तान् विहाय दिव्यैः परीक्षणं कर्तव्यम् ।

साहसेषु च सर्वेषु स्तेये सङ्ग्रहणेषु च ।

वाग्दण्डयोश् च पारुष्ये न परीक्षेत साक्षिणः ॥

इति यद् इदं नारदवचनम्, तथा –

स्तेये च साहसे चैव पारुष्ये सङ्गमे स्त्रियाः ।

गरादीनां प्रयोगे च न दोषः साक्षिषु स्मृतः ॥

इति यच् व्याघ्रपादवचनम्, तद् उभयम् अभिरूपपरीक्षानिराकरणार्थम्, न पुनः स्तेयादिदोषनिराकरणार्थम् । साक्षिणां परीक्षा कर्तव्या न वा इत्य् अत्र अवश्यं कर्तव्यैव इति कात्यायनः ।

ऋणादिषु परीक्षेत साक्षिणः स्थिरकर्मसु ।

साहसात्यायके चैव परिक्षा कुत्रचित् स्मृता ॥

अथ साक्षिपरीक्षा

अत्र कात्यायनः ।

उपस्थितान् परीक्षेत साक्षिणो नृपतिः स्वयम् ।

अथैते साक्षिणः सर्वे साधवो ऽर्हन्ति साक्षिताम् ॥

वृद्धकात्यायनः ।

साक्षिणो ऽर्थी समुद्दिष्टान् सत्सु दोषेषु दूषयेत् ।

अदुष्टान् दूषयन् वादी तत्समं दण्डम् अर्हति ॥

सभासदां प्रसिद्धं यत् लोकसिद्धम् अथापि वा ।

साक्षिणां दूषणं ग्राह्यम् असाध्यं नान्यद् इष्यते ॥

संसदि प्रतिवादिना साक्षिदूषणे कृते साक्षिणः प्रष्टव्याः, “युष्मास्व् अभिहितो दोषः किं सत्यं न वा” इति । ते तु यदि दूषणम् अभ्युपगच्छन्ति तदा न साक्षिणः । अथ नाङ्गीकुर्वन्ति, तदा दूषणवादिना दूषणक्रियाभाव्या । अथ भावयितुं न शक्नोति, तदा दूषणवादि तदनुसारेण दण्ड्यः । यदि भावयति तदा न ते साक्षिणः । यदा पुनर् उद्दिष्टाः साक्षिणः सर्व एव दुष्टा भवन्ति, तथार्थिनः पराजयः, विपर्ययस्य निश्चितत्वात् । अथ वा साक्षिणां दोषे ऽपि सभ्यानां साध्यार्थसन्देहः, तदा वादशेषः साधनान्तरेण पर्वर्तयितव्यः । यदि साधनानन्तरं पूर्वं निर्दिष्टम्, अथ अनिर्दिष्टम्, तदा वादसमाप्तिः, “पूर्वम् आवेदितं न चेत्” इति वचनात् । न चैतत् प्रस्तुतव्यवहारात् व्यवहारान्तरं तस्मिन्न् एव व्यवहारे प्रमाणसाधनदूषणाभिधानाद् इत्य् एतत् सर्वम् कात्यायन आह ।

साक्षिदोषाः प्रयोक्तव्याः संसदि प्रतिवादिना ।

पत्रे ऽभिलिखितान् सर्वान् वाच्यं प्रत्युत्तरं ततः ॥

प्रतिपत्तौ न साक्षित्वम् अर्हन्ति तु कदाचन ।

अतो ऽन्यथा भावनीयाः क्रियया प्रतिवादिना ॥

अभावयन् दमं दाप्यः प्रत्यर्थी साक्षिणः स्फुटम् ।

भाविताः साक्षिणः सर्वे साक्षिधर्मनिराकृताः ॥

प्रत्यर्थिनो ऽर्थिनो वापि साक्षिदूषणसाधने ।

प्रस्तुतार्थोपयोगेन व्यवहारान्तरं न च ॥

जितः स विनयं दाप्यः शास्त्रदृष्टेन कर्मणा ।

यदि वादी निराकाङ्क्षः साक्षिष्व् एव व्यवस्थितः ॥

निराकाङ्क्षः साधनान्तरनिरपेक्षः, “साक्षिष्व् एव व्यवस्थितः” तदा पराजितो दण्ड्य इति । साक्षिवादे न कालहरणं कर्तव्यम् इत्य् आह कात्यायनः ।

न कालहरणं कार्यं राज्ञा साक्षिप्रभाषणे ।

महान् दोषो भवेत् कालात् धर्मव्यावृत्तिलक्षणः ॥

अथ साक्षिवचनश्रवणं कर्तव्यम् इत्य् आह मनुः ।

देवब्राह्मणसान्निध्ये साक्ष्यं पृच्छेद् ऋतं द्विजान् ।

उदङ्मुखान् प्राङ्मुखान् वा पूर्वाह्णे प्रयताञ् छुचीन् ॥

अत्र नारदः ।

साक्षिणः श्रावयेद् वादी प्रतिवादिसमीपगान् ।

समस्तान् विदिताचारान् विज्ञातार्थान् पृथक् पृथक् ॥

अत्र मनुः ।

सभान्तः साक्षिणः सर्वान् अर्थिप्रत्यर्थिसन्निधौ ।

प्राड्विवाको नियुञ्जीत विधिनानेन सान्त्वयन् ॥

यद् द्वयोर् अनयोर् वेत्थ कार्ये ऽस्मिंश् चेष्टितं मिथः ।

तद् ब्रूत सर्वं सत्येन युष्माकं ह्य् अत्र साक्षिता ॥

कात्यायनः ।

अर्थिप्रत्यर्थिसान्निध्ये साध्यत्वस्य च सन्निधौ ।

प्रत्यक्षं चोदयेत् साक्ष्यं न परोक्षं कथञ्चन ॥

अर्थस्योपरि वर्तव्यं तयोर् अपि विना क्वचित् ।

चुतुष्पदेष्व् अयं धर्मो द्विपदः स्थावरेषु च ॥

तौल्यगाणिममेयानाम् अभावे ऽपि हि वादयेत् ।

क्रियाकालेषु सर्वेषु साक्षित्वं न त्व् अतो ऽन्यथा ॥

अत्र शङ्खः ।

प्राड्विवाको नृपो वापि समवेतान् पृथक् पृथक् ।

शपथपूर्वं श्रावयेद् इति शेषः । अत्र पितामहः ।

सन्निधौ चण्डिकायाश् च वादिद्वयसमीपतः ।

रक्तचन्दनदिग्धाङ्गान् पृच्छेच् छपथपूर्वकम् ॥

अत्र गौतमः- “शपथेनैके सत्यं कर्म । तद् देवराजब्राह्मणसंसदि स्यात् अब्राह्मणानाम् । गुरौ द्विसप्ताहे साक्षिणो ऽनर्थदर्शिनः” । अत्र मनुः ।

यस्य दृश्येत सप्ताहाद् उकतवाक्यस्य साक्षिणः ।

रोगाग्निज्ञातिमरणम् ऋणं दाप्यो दमं च सः ॥

अत्र कण्वः ।

सप्ताहाभ्यन्तरे यस्य ज्ञातिबन्धुसुहृन्मृतिः ।

अर्थनाशस् तथा रोगो धनं दाप्यो दमं च सः ॥

गुरुकार्ये द्विसप्ताहे साक्षिणो ऽनर्थदर्शनम् ।

आहूतो यदि नागच्छेत् साक्षी रोगविवर्जितः ॥

ऋणं दमं च दाप्यः स्यात् त्रिपक्षात् परतस् तु सः ।

अत्र शपथपूर्वं वचनप्रकारम् आह कात्यायनः ।

विहायोपानदुष्णीषं दक्षिणं पाणिम् उद्धरेत् ।

हिरण्यगोबीजदर्भान् समालभ्य मतं वदेत् ॥

अत्र शङ्ख-लिखितौ- “साक्षिणः सुवर्णरजतरत्नगोधान्यसूर्याग्निगजस्कन्धाश्वरथोस्थ्-शस्त्रादिभिः तथा पुत्रपौत्रैः शापयेत् यथावर्णं परिग्रहविशेषः स्यात्, देवब्राह्मणस्वामिनाम् अग्रे” । कात्यायनः ।

सभान्तस्थैस् तु वक्तव्यं साक्ष्यं नान्यत्र साक्षिभिः ।

सर्वसाक्ष्ये ऽप्य् अयं धर्मो नान्यत्र स्थावरेषु तु ॥

वाचयेत् प्राणिनां साक्ष्यं वाचयेच् छिवसन्निधौ ।

तदभावे तु विप्रस्य नान्यथैव प्रदापयेत् ॥

तथा साक्षिणाम् अपि वदतां नियमो नास्ति “नासमवेताः अपृष्टाः प्रब्रूयुः” इति गौतमस्मरणात् । तत्र मनुः ।

ब्रूहीति ब्राह्मणं पृच्छेत् सत्यं ब्रूहीति पार्थिवम् ।

गोबीजकाञ्चनैर् वैश्यं शूद्रम् एभिस् तु पातकैः ॥

वक्ष्यमाणैः एभिः पातकैः इत्य् अर्थः । तान्य् आह नारदः ।

ब्रह्मघ्नस्य च ये लोका ये च स्त्रीबालघातिनः ।

मित्रद्रुहः कृअघ्नस्य ये ते स्युः ब्रुवतो मृषा ॥

जन्मप्रभृति यत् किञ्चित् पुण्यं भद्र त्वया कृतम् ।

तत् ते सर्वं शुनो गच्छेत् यदि ब्रूयास् त्वम् अन्यथा ॥

एको ऽहम् अस्मीत्य् आत्मानं स्वयं कल्याण मन्यसे ।

नित्यं स्थितस् ते हृद्य् एष पुण्यपापेक्षिता मुनिः ॥

यमो वैवस्वतो राजा यस् त्वैष हृदि स्थितः ।

तेन चेद् अविवादस् ते मा गङ्गां मा कुरून् गमः ॥

नग्नो मुण्डः कपालेन भिक्षार्थं क्षुत्पिपासितः ।

अन्धः शत्रुगृहं गच्छेत् यः साक्ष्यम् अनृतं वदेत् ॥

अवाक्धिरास् तमस्य् अन्धे किल्बिषी नरकं व्रजेत् ।

यः प्रश्नं वितथं ब्रूयात् पृष्टः सन् धर्मनिश्चये ॥

अन्धो मत्स्यान् इवाश्नाति स नरः सह कण्टकैः ।

यो भाषते ऽर्थवैकल्यम् अप्रत्यक्षं समागतः ॥

ब्रूह् पृच्छेद् इत्य् अस्य क्वचिद् विषये अपवादम् आह ।

गोरक्षकान् वाणिजकान् तथा कारुकुशीलवान् ।

प्रेष्यान् वार्धुषिकांश् चैव विप्राञ् छूद्रवद् आचरेत् ॥

अत्र मनु-नारदौ ।

यावतो बान्धवान् यस्मिन् हन्ति साक्ष्ये ऽनृतं वदन् ।

तावतः सङ्ख्यया तस्मिन् शृणु सौम्यानुपूर्वशः ॥

पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।

शतम् अश्वानृते हन्ति सहस्रं पुरुषानृते ॥

हन्ति जातान् अजातांश् च हिरण्यार्थे ऽनृतं वदन् ।

सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदेः ॥

अप्सु भूमिवद् इत्य् आहुः स्त्रीणां भोगे च मैथुने ।

अब्जेषु चैव रत्नेषु सर्वेष्व् अश्वमयेषु च ॥

पशुचत् क्षौद्रघृतयोः यानेषु च तथाश्ववत् ।

गोवद् रजतवस्त्रेषु धान्ये ब्रह्मणि चैव हि ॥

एतान् दोषान् अवेक्ष्य त्वं सर्वान् अनृतभाषणे ।

यथाश्रुतं यथादृष्टं सत्यम् एवाञ्जसा वद ॥

कात्यायनः ।

नापृष्टैर् अभियुक्तैर् वा समं सत्यं प्रयत्नतः ।

वक्तव्यं साक्षिभिः साक्ष्यं विवादस्थानम् आगतैः ॥

स्वभावोक्तं वचस् तेषां ग्राह्यं यद् दोषवर्जितम् ।

उक्ते तु साक्षिणो राज्ञा प्रष्टव्या न पुनः पुनः ॥

उक्ते साक्षिवाक्ये यदि सन्देहः स्यात् तदा पुनः पुनः प्रष्टव्याः । असन्देहे पुनः स्वभावोक्तम् एव ग्राह्यम् । न पुनः पुनः प्रष्टव्या इति,

साक्ष्ये सभ्यावसन्नानां ज्ञेयः पौनर्भवो विधिः ।

इति वचनात् । याज्ञवल्क्यः ।

यस्योचुः साक्षिणः सत्यां प्रतिज्ञां विजयी भवेत् ।

अन्यथावादिनो यस्य ध्रुवं तस्य पराजयः ॥

तथा च बृहस्पतिः ।

देशकालवयोद्रव्यजातिसङ्ख्याप्रमाणतः ।

अन्यूनं चेन् निगदितं सिद्धं साध्यं विनिर्दिशेत् ॥

निर्दिष्टेष्व् अर्थवादेषु साक्षी चेत् साक्ष्य आगते ।

न ब्रूयाद् अक्षरसमं न तन् निगदितं भवेत् ॥

अर्थिनोक्तवाक्यानुगुणं यदि साक्षिवाक्यं न भवति, तदा न साध्यसिद्धिर् इत्य् अर्थः ।

देशकालवयोद्रव्यप्रमाणाकृतिजातिषु ।

यत्र विप्रतिपत्तिः स्यात् साक्ष्यं तद् अपि नान्यथा ॥

न्यूनम् अभ्यधिकं वार्थं प्रब्रूयुर् यत्र साक्षिणः ।

तद् अप्य् अनुक्तं विज्ञेयम् एष साक्षिविधिः स्मृतः ॥

अत्र पूर्ववादिना कथितैः पूर्वोक्तलक्षणैः साक्षिभिः साधिते ऽर्थे, प्रतिज्ञातार्थवैपरीत्येनाभिहिते, यद्य् अन्ये साक्षिणः प्रतिज्ञातार्थानुगुण्येन साक्षित्वं ब्रूयुः, तदा तेषां गुणवत्तमत्वे सङ्ख्याधिक्ये वा सति पूर्वसाक्षिणः कूटा भवन्तीति याज्ञवल्क्य आह ।

उक्ते ऽपि साक्षिभिः साक्ष्ये यद्य् अन्ये गुणवत्तराः ।

द्विगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्वसाक्षिणः ॥

अत्र विशेषं स एवाह ।

वर्णिनां हि वधो यत्र तत्र साक्ष्य् अनृतं वदेत् ।

तत्पावनाय निर्वाप्यश् चरुः सारस्वतो द्विजैः ॥

तथा च मनुः ।

शूद्रविट्क्षत्रविप्राणां यत्रोक्तेन भवेद् वधः ।

तत्र वक्तव्यम् अनृतं तद् धि तत्र विशिष्यते ॥

वाग्देवत्यैश् च चरुभिः यजेरंस् ते सरस्वतीम् ।

अनृतस्यैनसस् तस्य कुर्वाणा निष्कृतिं पराम् ॥

कूष्माण्डैर् वापि जुहुयाद् घृतम् अग्नौ यथाविधि ।

उद् इत्य् ऋचा वा वारुण्या तृचेनाब्दैवतेन वा ॥

अथ कूटसाक्षिणां दण्डाः

अथ कूटसाक्षिणो वधम् आह मनुः ।

लोभान् मोहाद् भयान् मैत्रात् कामात् क्रोधात् तथैव च ।

अज्ञानाद् बालभावाच् च साक्ष्यं वितथम् उच्यते ॥

एषाम् अन्यतमे स्थाने यः साक्ष्यम् अनृतं वदेत् ।

तस्य दण्डविशेषं तु प्रवक्ष्याम्य् अनुपूर्वशः ॥

लोभात् सहस्रं दण्डस् तु मोहात् पूर्वं तु साहसम् ।

भायाद् द्वौ मध्यमौ दण्डौ मैत्रात् पूर्वं चतुर्गुणम् ॥

कामाद् दशगुणं पूर्वात् क्रोधात् तत्त्रिगुणं परम् ।

अज्ञानाद् द्वे शते पूर्णे बालिश्याच् छतम् एव तु ॥

एतान् आहुः कूटसाक्ष्ये प्रोक्तान् दण्डान् मनीषिणः ।

धर्मस्याव्यभिचारार्थम् अधर्मनियमाय च ॥

कूटौ दाक्ष्यं तु कुर्वाणान् त्रीन् वर्णान् धार्मिको नृपः ।

प्रवासयेद् दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥

याज्ञव्ल्क्यः ।

पृथक्पृथक् दण्डनीयाः कूटकृत् साक्षिणस् तथा ।

विवादात् द्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः ॥

यः साक्ष्यं श्रावितो ऽन्येभ्यो निह्नुते तत् तमोवृतः ।

स दाप्यो ऽष्टगुणं दण्डं ब्राह्मणं तु विवासयेत् ॥

अब्रुवन् हि नरः साक्ष्यम् ऋणं सदशबन्धकम् ।

राज्ञा सर्वं प्रदाप्यः स्याच् चत्वारिंशत्तमे ऽहनि ॥

न ददाति हि यः साक्ष्यं जानन्न् अपि नराधमः ।

स कूटसाक्षिणां पापैः तुल्यो दण्डेन चैव हि ¦¦

कात्यायनः ।

येन साक्ष्यस्य लोभेन निर्दिष्टाः कूटसाक्षिणः ।

गृहीत्वा तस्य सर्वस्य कुर्यान् निर्विषयं ततः \

कूटसाक्षिणा सर्वस्वापहारः कर्तव्य इत्य् अर्थः ।

अथ साक्षिबलाबलम्

अत्र मनु-विष्णू ।

बहुत्वं परिगृह्णीयात् साक्षिद्वैधे नराधिपः ।

समेषु तु गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान् ॥

बृहस्पतिः ।

साक्षिद्वैधे तु बहवः ग्राह्याः साम्ये गुणान्विताः ।

गुणिद्वैधे क्रियायुक्ताः तत्साम्ये मतिमत्तराः ॥

ऊनाधिकं तु यत्र स्यात् साक्ष्यन्तत्र विवर्जयेत् ।

साक्षी तत्र न दण्ड्यः स्याद् अब्रुवन् दण्डम् अर्हति ॥

साध्यार्थांशे निगदिते साक्षिभिः सकलं भवेत् ।

स्त्रीसङ्गे साहसे चौर्ये यत् साध्यं परिकल्प्यते ॥

अन्यत्र ।

साक्षिणां लिखितानां च निदिष्टानां च वादिना ।

एको यद्य् अन्यथा ब्रूयात् सर्व एव न साक्षिणः ॥

अत्र बृहस्पतिः ।

गृहक्षेत्रविवादेषु सामन्तेभ्यो विनिर्णयः ।

नगरग्रामणीभ्यो वा ये च वृद्धतरा मताः ॥

आगमं च प्रमाणं च भोगं कालं च नाम च ।

भूभागलक्षणं चैव ये विदुस् ते ऽपि साक्षिणः ॥

असाक्षिके चिरकृते पृच्छेद् उत्तरसाक्षिणः ।

शपथान् वा प्रयुञ्जीत युक्तिलेशम् अथापि वा ॥

अत्र नारदः ।

चोदनाप्रतिघाते तु युक्तिलेशैस् तम् अन्वियात् ।

देशकालार्थसम्बन्धपरिमाणाक्रयादिभिः ॥

उल्काहस्तो ऽग्निदो ज्ञेयः शस्त्रप्राणिस् तु घातकः ।

केशाकेशी गृहीतस् तु युगपत् पारदारिकः ॥

कुद्दालपाणिर् विज्ञेयः सेतुभेत्तापगादिषु ।

तथा कुठारपाणिस् तु तरुच्छेत्ता प्रकीर्तितः ॥

अत्र प्रजापतिः ।

अन्वयव्यतिरेकाभ्यां यस्य यद् गमकं भवेत् ।

सात्र युक्तिस् तस्य भवेत् तया सर्वं विशोधयेत् ॥

लिखितादिकम् अपि यथोक्तलक्षणाननुगमे युक्तित्वेन स्वीकर्तव्यम् इति । कात्यायन्ः ।

समत्वं साक्षिणां यत्र दिव्यैस् तत्र विशोधयेत् ।

प्राणान्तिकविवादेषु विद्यमानेषु साक्षिषु ॥

दिव्यम् आलम्बते यत्र न पृच्छेत् तत्र साक्षिणः ।

भावितैः साक्षिवादे तु परितोषम् अनागते ॥

अभियोक्तरि दिव्यादीन् प्रत्यर्थिनि च दृश्यते ॥

अभियोक्तारम् आगच्छेत् व्यवहारपदं पुनः ।

प्रत्यर्थिनस् तु तत् सर्वं साक्ष्येणैव विनिर्णय्ः ॥

अथ भुक्तिर् उच्यते

तत्र बृहस्पतिः ।

एतद् विधानम् आख्यातं साक्षिणां लिखितस्य च ।

साम्प्रतं स्थावरे प्राप्ते भुक्तेश् च विधिर् उच्यते ॥

पित्र्यलब्धक्रियाधानरिक्थशौर्यप्रवेदनात् ।

प्राप्ते सप्तविधे भोगे सागमः सिद्धिम् आप्नुयात् ॥

तथा ।

क्रमागतः शासनिकः क्रयाधानागमागतः ।

एवंविधस् तु यो भोगः स तु सिद्धिम् अवाप्नुयात् ॥

तथा ।

संविभागक्रयप्राप्तं पित्रा लब्धं तु राजतः ।

स्थावरं सिद्धिम् आप्नोति भुक्त्या हानिम् उपेक्षया ॥

आध्यासनात् समारभ्य भुक्तिर् यस्याविघातिनी ।

त्रिंशद्वर्षाण्य् अविच्छिन्ना तस्य तां न विचालयेत् ॥

समा विंशत्यवधिकेति पाठान्तरम् ।

पित्रा भुक्तं तु यद् द्रव्यं भुक्त्याचारेण धर्मतः ।

तस्मिन् प्रेते ऽपि तत्प्राप्तं भुक्त्या प्राप्तं तु तस्य तत् ॥

त्रिभिर् एव तु या भुक्ता पुरुषैर् भूर् यथाविधि ।

लेख्याभावे तु तां तत्र चतुर्थः समवाप्नुयात् ॥

चतुर्थस्य भुक्तिर् एव, नागमापेक्षेत्य् अर्थः । तथा च नारदः ।

आदौ तु कारणं दानं मध्ये भुक्तिस् तु सागमा ।

अन्ततो भुक्तिर् एवैका सन्तता या चिरन्तनी ॥

आदौ प्रथमपुरुषभोगाख्यविंशत्यब्दे । मधे द्वितीरे तृतीये च विंशतिद्वये सागमभुक्तिः । ततश् चतुर्थे षष्टिर् वर्षाविच्छिन्ना भुक्तिर् एव कारणम् इति । अत्र कात्यायनः ।

भुक्तिर् बलवती शास्त्रे सन्तता या चिरन्तनी ।

विच्छिन्नापि तु सा ज्ञेया या तु पूर्वप्रसाधिता ॥

षष्टिर् वर्षभुक्तेर् ऊर्ध्वं विच्छेदे न दोषः । कात्यायनः ।

स्मार्ते काले क्रियाभूमेः सागमा भुक्तिर् इष्यते ।

अस्मार्ते ऽनुगमाभावात् क्रमात् त्रिपुरुषागता ॥

स्मार्तकालः स्मरणयोग्यः कालः षष्टिवर्षाख्यो नवतिवर्षाख्यो वा एकस्य पुरुषस्य स्फुटतरः स्मृतिसम्भवः कालः । अत्र कात्यायनः ।

मुख्या पैतामही भुक्तिः पैतृकी चापि सम्मता ।

वयोपेतैर् अविच्छिन्ना स्थिरा षष्ट्यब्दिकी मता ॥

वत्सराणां तु नवतिर् अथ वा स्यात् त्रिपूरुषी ।

अतः परं प्रमाणं स्यात् भुक्तिर् एवागमाद् ऋते ॥

नवतिः इत्य् एतद् अल्पविच्छेदविषयं हीनवर्णभोक्तृविषयं वा । व्यासः ।

वर्षाणि विंशतिर् भुक्ता स्वामिनाव्याहता सती ।

भुक्तिः सा पौरुषी भूमेः द्विगुणा तु द्विपौरुषी ॥

त्रिपौरुषी च त्रिगुणा न ततो ऽन्वेष्य आगमः ।

अत्र विशेषम् आहतुः बृहस्पति-कात्यायनौ ।

सनाभिभिर् बान्धवैश् च यत् स्वजनैस् तथा ।

भोगात् तस्य न सिद्धिः स्यात् भोगम् अन्येषु कल्पयेत् ॥

अन्यत्र बृहस्पतिः ।

भुक्तिस् त्रिपौरुषी सिद्ध्येत् परेषां नात्र संशयः ।

अनिवृत्ते सपिण्डत्वे स्कुल्यानां न सिद्ध्यति ॥

स्मृत्यन्तरे ।

अस्वामिना तु यद् भुक्तं गृहक्षेत्रापणादिकम् ।

सुहृत्त्वेन सकुल्यस्य न तद् भोगेन हीयते ॥

पूर्वस्वामिनो न हीयत इत्य् अर्थः । तेन सपिण्डसमानोदकप्रत्यासन्नबन्धुव्यतिरिक्तेषु भोगः कल्प्यत इति । अत्र विशेषम् आह व्यासः ।

आगमः कालदैर्घ्यं च विच्छेदो ऽपरवोज्ज्ञनम् ।

प्रत्यर्थिसन्निधानं च पञ्चाङ्गो भोग इष्यते ॥

(स्वोज्ञनम्) अपरवोज्ञनम् आक्रोशाभावः । बृहस्पतिः ।

सागमो दीर्घकालश् च विच्छेदो ऽपरवोञ्ज्ञितः (?) ।

प्रत्यर्थिसन्निधानं च परिभोगो ऽपि पञ्चधा ॥

यद्य् एकशासने ग्रामक्षेत्रारामाश् च लेखिताः ।

एकदेशोपभोगे ऽपि सर्वे भुक्ता भवन्ति ते ॥

अनुमानाद् वरः साक्षी साक्षिभ्यो लिखितं गुरु ।

अव्याहता त्रिपुरुषी भुक्तिर् एभ्यो गरीयसी ॥

अनुमानं सद एव साक्षी चामरणाद् भवेत् ।

अव्याहतं लेख्यभोगं प्रमाणं तु त्रिपूरुषम् ॥

व्यासः ।

पिता पितामहो यस्य जीवेत् तु प्रपितामहः ।

त्रयाणां जीवतां भोगो विज्ञेयस् त्व् एकपूरुषः ॥

पितामहेन यद् भुक्तं तत् पुत्रेण विना च तम् ।

तौ विना तस्य पुत्रेण तस्य भोक्गस् त्रिपूरुषः ॥

तथान्यत – अग्निमित्रः ।

त्रिभिर् एव तु या भुक्ता पुरुषैर् भूर् यथाविधि ।

लेख्याभावे ऽपि तां तत्र चतुर्थः समवाप्नुयात् ॥

कात्यायनः ।

यथा क्षीरं तु भवति धधि कालवशान्वितम् ।

दानहेतुस् तथा कालात् भोगस् त्रिपुरुषागताः ॥

याज्ञवल्क्यः ।

आगमो ऽभ्यधिको भोगात् विना पूर्वक्रमागतात् ।

आगमे ऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥

आगमः क्रयादिस्वत्वहेतुः । तस्य लेख्यं साक्षिणश् च । स आगमो भोगाद् अधिकः, बलवान् । पूर्वत्रिपुरुषक्रमागतां भुक्तिं विना सर्वप्रमाणाद् बलवती । आगमे ऽपि स्तोकभुक्त्यभावे बलं नास्ति । तथा च नारदः ।

विद्यमाने ऽपि लिखितं जीवत्स्व् अपि च साक्षिषु ।

विशेषतः स्थावराणां यन् न भुक्तं न तत् स्थिरम् ॥

दुर्बलम् इत्य् अर्थः ।

भुज्यमानः परैर् अर्थान् यः स्वान् मोहाद् उपेक्षते ।

समक्षं जीवतो ऽप्य् अस्य तान् भुक्तिः कुरुते वशे ॥

व्यासः ।

उपेक्षिता यथा धेनुः कालात् पालेन नश्यति ।

पश्यतो ऽन्यैस् तथा भुक्ता भूमिः कालेन हीयते ॥

षष्टिर् वर्षाख्यकालेन पञ्चाङ्गभोगेन हीयत इत्य् अर्थः । ननु,

आगमे ऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ।

इति याज्ञवल्क्यवचनेनागमस्य भुक्तिवशेन प्रामाण्यम् उक्तम् ।

आगमेन विशुद्धेन भोगो याति प्रमाणताम् ।

अविशुद्धागमो भोगः प्रामाण्यं नैव गच्छति ॥

इति आगमवशेन भुक्तेः प्रामाण्यम् इत्य् अन्योन्याश्रयः स्यात् । मैवम् । तद् भिन्नपुरुषविषयम् इत्य् अविरोधः । आद्यविंशताव् आगमप्राबल्यं भोगस्य तदान्गुण्यात् । द्वितीये भोगागमयोः साम्यम् । तृतीये भुक्तेः प्राबल्यम् । चतुर्थे पुरुषे पञ्चाङ्गभोग एव प्रमाणम् । नागमापेकेति सिद्धम् । अत्र पञ्चाध्याय्यां बृहस्पतिः ।

त्रिवर्षं भुज्यते येन समक्षं भूर् अवारिता ।

तस्य सा नापहर्तव्या क्षमालिङ्गं न चेद् वदेत् ॥

चतुष्पाद् धनधान्यादि वर्षाद् धानिम् अवाप्न्ज्यात् । इति ।

एतद् वचनं भुक्तेर् आदरार्थं न यथाश्रुतार्थं बहुप्रतिपक्षत्वाद् इति व्याख्येयम् । अत्र गौतमः- “पशुभूमिस्त्रीणाम् अनतिभोगः” इति पश्वादीनां त्रयाणाम् अतिभोगो नाप्रेक्षितः । आक्रोशरहितेन अल्पभोगेनापि स्वत्वं भवति । किम् इत्य् अनन्तरग्रहे दुह्यमानां प्रचुरक्षीरां धेनुम् उपेक्षते बहुफलं वारामादिकं किं वा परेण भुज्यमानाम् अभिरूपां दासीम् इति । यद् अपीदं प्राजापत्यवचनम्,

आदानकालाद् आरभ्य भुक्तिर् यस्याविघातिनी ।

समा विंशत्यवधिका तस्य तां न विचालयेत् ॥

यद् अपीदं नारदीयवचनम्,

प्रत्यक्षपरिभोगाच् च स्वामिनो द्विदशाः समाः ।

आध्यादीन्य् अपि जीर्येयुः स्त्रीनरेन्द्रधनाद् ऋते ॥

यद् अपीदं याज्ञवल्क्यवचनम्,

पश्यतो ऽब्रुवतो भूमेः हानिर् विंशतिवार्षिकी ।

परेण भुज्यमानाया धनस्य दशवार्षिकी ॥

इति, एवम् अन्यान्य् अपि यानि वचनानि विंशतिवर्षपञ्चाङ्गभोगमात्रात् स्वत्वनिवृत्तिपराणि, तानि यथाश्रुतार्थपराणि । वचनान्तरेण षष्टिवर्षनवतिवर्षस्मार्तकालभोगस्यैव स्वत्वहेतुत्वेनावगमात् । तथा,

भोगं केवलतो यस् तु कीर्तयेन् नागमं क्वचित् ।

भोगछलापदेशेन विज्ञेयः स तु तस्करः ॥

इति व्यासवचनात्, तथा,

अनागमं तु यो भुङ्क्ते बहून्य् अब्दशतान्य् अपि ।

चोरदण्डेन तं पापं दण्डयेत् पृथिवीपतिः ॥

इति नारदीयवचनाच् च । आगमरहिताच् च केवलभोगात् स्वत्वनिवृत्त्यवगमात् सागमस्य षष्टिवर्षादिभोगस्य स्वत्वहेतुत्वम् इति स्थितम् ।

ननु,

अन्यायेनापि यद् भुक्तं पित्रा पूर्वतरैस् त्रिभिः ।

न तच् छक्यम् अपाकर्तुं क्रमात् त्रिपुरुषागमम् ॥

इति नारदवचनात्, तथा,

यद् विनागमम् अत्यन्तं भुक्तं पूर्वैस् त्रिभिर् भवेत् ।

न तच् छक्यम् अपाकर्तुं क्रमात् त्रिपुरुषागतम् ॥

इति व्यासवचनाच् चानागमस्यापि त्रिपुरुषस्यापि त्रिपुरुषभोगस्य स्वत्वहेतुत्वं गम्यते ।

मैवम्, सागमस्यैव भोगस्य स्वत्वहेतुत्वप्रतिपादकानेकवचनदर्शनात्, वचनद्वयम् इदं न यथाश्रुतार्थम् । किं तु किं पुनर् अन्यायेनान्यभुक्तस्य षष्टिवर्षाद् ऊर्ध्वं स्थैर्यपरम् इति व्याख्येयम् । कात्यायनः ।

वर्षाणि विंशतिर् यस्य भूमिर् भुक्ता परैर् इह ।

सति राज्ञि समर्थस्य तस्य सेह न सिद्ध्यति ॥

इत्येवमादिभिर् वचनैर् एतावन्तं कालम् उपेक्षमाणस्यान्यत्र स्वद्रव्यार्थं प्राणपरित्यागेनापि अभिनिविशमानस्य परेण भुज्यमानम् आत्मीयं चेत् किम् इत्य् उपेक्षत इति विक्रयादिवद् उपेक्षया दैर्घ्यलिङ्गेनास्य स्वत्वनिवृत्तिः, परस्य स्वत्वप्राप्तिर् अनुमीयत इति धारेश्वर-असहाय-श्रीकरादयो मन्यन्ते ।

तथा विरकालोपेक्षया क्वचित् स्वरूपहानिः सम्भाव्येत । अतस् तूष्णीं न स्थातव्यम् इति व्यवहारोपदेशमात्रं क्रियत इति । विंशतिवर्षा भुक्तिर् भोगहानिकरी, न स्वरूपहानिकरी, तथात्वे सकलवचनविरोधाद् इति विश्वरूप-भट्टकुमार-ब्रह्मवित्-प्रवरादयो मन्यन्ते ।

तथा क्वचिद् भोगहानेर् अप्य् अपवादम् आह याज्ञ्वल्क्यः ।

आधिसीमोपनिक्षेपजडबालधनैर् विना ।

तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैर् अपि ॥

अत्र मनुर् अपि आह ।

आधिश् चोपनिधिश् चोभौ न कालात्ययम् अर्हतः ।

अपहार्यौ भवेतां तौ दीर्घकालम् अपि स्थितौ ॥

चिरकाले ऽपि न तयोर् भोगात् स्वत्वम् इति स्थित्ः ॥

अत्र विशेषम् आह उशनाः ।

दशवर्षाद् भोग्यं भोक्तुः स्वं भवति न भूर् इति ।

नारदः ।

यत् किञ्चिद् दशवर्षाणि सन्निधौ प्रेक्षते धनी ।

भुज्यमानं परैस् तूष्णीं न स तल् लब्धुम् अर्हति ॥

उपेक्षां कुर्वतस् तस्य तूष्णीम्भूतस्य तिष्ठतः ।

काले ऽतिपन्ने पूर्वोक्ते व्यवहारो न सिद्ध्यति ॥

अजडश् चेद् अपौगण्डो विषये चास्य भुज्यते ।

भग्नं तद् व्यवहारेण भोक्ता तद् धनम् अर्हति ।

तद् भोक्ता व्यवहारेणार्हति न भूतपूर्वगत्येत्य् अर्थः । बृहस्पतिः ।

आहर्ता शोधयेद् भोगम् आगमं चैव संसदि ।

तत्सुतो भुक्तिम् एवैकां पौत्रादिस् तु न किञ्चन ॥

कात्यायनः ।

आहर्ता भुक्तियुक्तो ऽपि लेख्यदोषान् विशोधयेत् ।

तत्सुतो भुक्तिदोशांस् तु लेख्यदोषांआस् तु नाप्नुयात् ॥

तद् अयम् अर्थः । पित्रा एकेन, पितृपितामहाभ्यां द्वाभ्याम्, पितृपितामहप्रपितामहैः त्रिभिर् वा अशीतिवर्षं षष्टिं वा नवतिं वा पञ्षाङ्गभोगे विपरीतागमाप्रसिद्धौ च भुक्तेः प्रामाण्यम् इति । अत्र कात्यायनः ।

स्वद्रव्यं दीयमानं तु तत्स्वामी न निरोधयेत् ।

रिक्थिभिर् वा परैर् वाथ दत्तं तेनैव तद् भवेत् ॥

स्मृत्यन्तरे ।

रिक्थिभिर् वा परैर् द्रव्यं समक्षं यस्य दीयते ।

अन्यस्य भुञ्जतः पश्चात् न स तल् लब्धुम् अर्हति ॥

कात्यायनः ।

पश्यन्न् अन्यस्य ददतः क्षितिं यो न निवारयेत् ।

स्वामी सतापि सेख्येन न स तां लब्धुम् अर्हति ॥

अत्र बृहस्पतिः ।

भूमेर् अभुक्तिर् लेख्यस्य यथाकालम् अदर्शनम् ।

साक्ष्यस्यास्मरणं चैव स्वार्थहानिकराणि तु ॥

तस्माद् यत्नेन कर्तव्यं प्रमाणपरिपालनम् ।

तेन कार्याणि सिद्ध्यन्ति स्थावराणि चरानि च ॥

व्यासः ।

प्रमाणहेतुचरितैः शपथेन नृपाज्ञया ।

वादिसम्प्रतिपत्त्या वा निर्णयो ऽष्टविधः स्मृतः ॥

लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् ।

अनुमानं विदुर् हेतुस् तर्कश् चेति मनीषिणः ॥

देशस्थितिः पूर्वकृता चरितं समुदाहृतम् ।

अर्थानुरूपाः शपथाः स्मृताः सत्यधटादयः ॥

तेषाम् अभावे राजाज्ञां निर्णयं तु विदुर् बुधाः ।

प्रमाणं त्रैविध्याद् अष्टविधत्वम् । बृहस्पतिः ।

प्रमाणनिश्चयो यस् तु व्यवहारः स उच्यते ।

अनुमानेन निर्णीतः चरित्रम् इति कथ्यते ॥

केवलं शास्त्रम् आश्रित्य न कर्तव्यो ऽर्थनिर्णयः ।

युक्तिहीने विचारे तु धर्महानिः प्रजायते ॥

धर्मेण व्यवहारेण चारित्रेण नृपाज्ञया ।

चतुष्प्रकारो ऽभिहितः सन्दिघ्धे ऽर्थे विनिर्णयः ॥

सर्वविवादेषु लेख्यसाक्ष्यादिधर्मशास्त्रोक्तप्रमाणानाम् अभावे धर्मानुसारेण निर्णयः कर्तव्यः । तेषु लिखितादिषु सत्सु तैर् एव निर्णयः कर्तव्यः । देशचारित्रव्यवहारयोर् विरोधे व्यवहारो वादनीयः । राजाज्ञाविरोधे देशचरित्रव्यवहाराव् अपि बाधनीयाव् इति ।

इति श्रीमद्वरदराजीये व्यवहारनिर्णये व्यवहारमातृकाया

मानुषप्रमाणकाण्डं समाप्तम्