०२ आवेदन-काण्डम्

अथ व्यवहारलक्षणम् आह कात्यायनः ।

प्रयत्नसाध्ये विच्छिन्ने धर्माख्ये न्यायविस्तरे ।

साध्यमूलस् तु यो वादो व्यवहारः स उच्यते ॥

तत्र व्यवहारशब्दनिर्वचनं कात्यायन आह ।

विनानार्थे ऽवसन्देहे हरणं हार उच्यते ।

नानासन्देहहरणात् व्यवहार इति स्मृतः ॥

नारदः ।

आगमः प्रथमं कार्यो व्यवहारपदं ततः ।

विचारो निर्णयश् चेति दर्शनं स्याच् चतुर्विधम् ॥

आगमो ऽर्थिवचनश्रवणम् । ततः प्रतिज्ञोत्तरप्रमाणानां विचारः । ततः प्रमाणतो जयावधारणम् इति क्रमः ।

आवेदनकाण्डम्

तत्र व्यवहारमातृकायाम् आवेदनं याज्ञवल्क्य आह ।

स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः ।

आवेदयति चेद् राज्ञे व्यवहारपदं हि तत् ॥

अन्यायमार्गेण परैः आधर्षितो विमर्दितः, सभां प्राप्तः, राज्ञा प्राड्विवाकेन वा पृष्टः, कार्यार्थी यत् आवेदयति तद् एवास्य व्यवहारस्यास्पदम् । आवेदयति चेत् इति स्वयम् एवागतस्य कार्यदर्शनं कर्तव्यम् । न पुनर् दण्डदेशबन्धादिलोभेन राज्ञा प्राड्विवाकेन वा कार्यम् उत्पाद्य प्रवर्त्यम् इत्य् उक्तं भवति । तथा च मनुः ।

नोत्पादयेत् स्वयं कार्यं राजा नाप्य् अस्य पूरुषः ।

न च प्रापितम् अन्येन ग्रसेद् अर्थं कथञ्चन ॥

अप्रापितम् अनावेदितम् । ग्रसेत् स्वीकुर्यात् । आवेदनकाले यद् आवेदितं न्यूनम् अधिकं तद् भूमौ फलकादौ वा लेखनीयम् । कात्यायनः ।

रागादिना यद् एकेन कोपितः करणे वदेत् ।

तद् ॐ इति लिखेत् पूर्वं वादिनं फलकादिषु ॥

करणे निरूपणस्थाने । तथा च बृहस्पतिः ।

पूर्वपक्षं स्वभावोक्तं प्राड्विवाको हि लेखयेत् ।

पाण्डुलेख्येन फलके ततः पत्रे विशोधितम् ॥

कात्यायनः ।

अधिकं छेदयेद् अर्थान् न्यूनांश्च परिपूरयेत् ।

भूमौ निवेशयेत् तावत् यावत् सो ऽर्थो न निश्चितः ॥

आवेदनप्रकारम् आह प्रजापतिः ।

निरवद्यं सप्रतिज्ञं प्रमाणागमसंयुतम् ।

अल्पाक्षरं प्रभूतार्थं निःसन्दिग्धं निराकुलम् ॥

आवेदयेद् विवादार्थी परेणान्यायपीडितः ।

चिरकालोत्सृष्टेष्व् आवेदनप्रकारं पितामह आह ।

क्षमाकारणम् आदौ तु सोपपत्तिवदन् नरः ।

आवेदयेद् विवादार्थी सत्यं जल्पविवर्जितम् ॥

कात्यायनः ।

सशस्त्रो ऽनुत्तरीयश् च मुक्तकक्ष्यः सहासनः ।

वामहस्तेन वा वादं वदन् दण्डम् अवाप्नुयात् ॥

आवेदनानन्तरकालम् अभियोगात् प्राक् सभ्यैर् विना सन्धौ कृते, अभियोगानुरूपेण दण्डम् आह बृहस्पतिः ।

आवेद्य तु गृहीते ऽर्थे प्रशमं यान्ति ये मिथः ।

अभियोगानुरूपेण तेषां दण्डं प्रकल्पयेत् ॥

तत्रावेदनान्तरं तस्यार्थस्य न्यायत्वे व्यवहारदर्शनं कार्यम् । अन्याय्यं चेत् परित्याज्यम् एव । तत्र प्रजापतिः ।

पतितादिकृतश् चैव यश् च न प्रकृतिं गतः ।

अस्वतन्त्रकृतश् चैव पूर्वपक्षो न सिद्ध्यति ॥

ऋश्यशृङ्ग-याज्ञवल्क्यौ ।

मत्तोन्मत्तार्तव्यसनिबालभीतादिप्रयोजितः ।

असम्बद्धकृतश् चैव व्यवहारो न सिद्ध्यति ॥

नारदः ।

गुरुशिष्यौ पितापुत्रौ दम्पती स्वामिभृत्यकौ ।

एतेषां समवेतानां व्यवहारो न सिद्ध्यति ॥

कात्यायनः ।

विरुद्धं चाविरुद्धं च द्वाव् अप्य् अर्थौ निवेदितौ ।

एकस्मिन् यत्र दृश्येते तं पक्षं दूरतस् त्यजेत् ॥

अनादेयवादस्य लक्षणम् आह नारदः ।

एकस्य बहुभिः सार्धं स्त्रीणां प्रेष्यजनस्य च ।

अनादेयो भवेद् वादो धर्मविद्भिर् उदाहृतः ॥

बृहस्पतिः ।

राज्ञा विसर्जितो यस् तु यश् च पौरविरोधकृत् ।

राष्ट्रस्य वा समस् तस्य प्रकृतीनां तथैव च ॥

अथो जनपदग्राममहाजनविरोधकृत् ।

अनादेयास् तु ते सर्वे व्यवहाराः प्रकीर्तिताः ॥

पुनः नारदः ।

यद् बालः कुरुते कार्यम् अस्वतन्त्रः तथैव च ।

अकृतं तद् इह प्राहुः शास्त्रैः शास्त्रविदो जनाः ॥

एकस्य बहुभिः इति भिन्नहेतुर् विवादो निराक्रियते । असाध्यपक्षम् आह कात्यायनः ।

अप्रसिद्धं निराबाधं निरर्थं निष्प्रयोजनम् ।

असाध्यं वा विरुद्धं वा पक्षं राजा विवर्जयेत् ॥

स्वयम् एव व्याख्यानम् आह ।

न केनचित् कृतो यस् तु सो ऽप्रसिद्ध उदाहृतः ।

अन्यार्थश् चार्थहीनश् च निराबाधः प्रकीर्तितः ॥

अल्पापराधश् चाल्पार्थो निरर्थक इति स्मृतः ।

कार्याबाधविहीनस् तु विज्ञेयो निष्प्रयोजनः ॥

असम्भाव्यम् असिद्धं तत् पक्षम् आहुर् मनीषिणः ।

यस्मिन्न् आवेदिते पक्षे प्राड्विवाके ऽथ राजनि ॥

पुरे ग्रामे विरोधः स्यात् विरुद्धः सो ऽभिधीयते ।

उदाहरणम् – ऽन केनचिद्ऽ कृतो मदीयम् इदं वस्त्रम् अनेन भक्षितम् इति । ऽअन्यार्थश् चऽ अनेन देवदत्तेनापकृतम् इति । ऽअर्थहीनःऽ मदीयो दीपो देवदत्तगृहं प्रकाशयति । ऽअल्पापराधःऽ अहम् अनेन क्षणं सस्मितं निरीक्षितः । ऽअल्पार्थःऽ मदीयव्रीहिबीजम् अनेनापहृतम् इति । ऽकार्याबाधविहीनोऽ मदीययज्ञावभृते ऽनेन स्नातम् । ऽअसम्भाव्यम्ऽ खपुष्पम् अनेनापहृतम् इति । एवं भूतार्थप्रतिपादकवाक्यम् असाध्यम्, साधनासम्भवाद् अनादेयम् इति । यस्मिन्न् अर्थ उक्ते राज्ञि प्राड्विवाके वा विरोधः, ऽआत्मार्थे पृथिवीं त्यजेत्ऽ इति न्यायात् सो ऽपि त्याज्यः । तथा पुरराष्ट्रग्रामविरोधं ऽग्रामस्यार्थे कुलं त्यजेत्ऽ इति न्यायात् सो ऽपि त्याज्यः । एवम् उक्तदोषरहिते आवेदने कृते एवं कर्तम् इति कात्यायन आह ।

काले कार्यार्थिनं पृच्छेत् प्रणतं पुरतः स्थितम् ।

किं कार्यं का च ते पीडा मा भैषीर् ब्रूहि मानव ॥

केन कस्मिन् कदा कस्मात् पृच्छेद् एवं समागतम् ।

एवं पृष्टः स यद् ब्रूयात् तत् सभ्यैर् ब्राह्मणैः सह ॥

विमृश्य कार्यं न्याय्यं चेद् आह्वानार्थम् अतः परम् ।

मुद्रां दद्यात् तथा पत्रं पुरुषं वा समादिशेत् ॥

आहूतस् त्व् अवमन्येत यः शक्तो राजशासनम् ।

अभियोगानुरूपेण तस्य दण्डं प्रकल्पयेत् ॥

हीने कर्मणि पञ्चाशन् मध्यमे द्विशतावरः ।

गुरुकार्ये च दण्ड्यः स्यान् नित्यं पञ्चशतावरः ॥

एवं व्याख्यातृभिर् उक्तम् इदम् उपलक्षणम्, दण्डपणतारतम्यस्य । तत्र सकृदनागमने तृतीयांशो दण्डः । द्विरनागमने ऽर्धम् । त्रिरनागमने पूर्णम् । एवं दण्डम् आदाय त्रिंशद्रात्राद् ऊर्ध्वं त्रिपक्षाद् द्वादशबन्धार्थं गृहीत्वा हानिनिमित्तजयपत्रं दद्यात् । एवं कृते यदि प्रतिवाद्य् आगच्छति, पुनर् अपि व्यवहारदर्शनं कर्तव्यम् इति । तत्र त्रैरात्रे सूत्रे विशेषः । त्रिरात्रागमने चतुरो चण्ड्यः । पलायने चैवम्, पराजये चतुरः कार्षापणान् इत्य् अल्पद्रव्यावेदनविषयम् । एवंविधे हानि (?) जयपत्रविषये यावत् कार्यसिद्धिस् तावन्तं कालं दूताय वेतनम् आह्वाता दद्याद् इत्य् आह ।

एकाहं द्व्यहं त्र्यहंवा देशकालाद्यपेक्षया ।

दूताय साधिते कार्ये नेता भक्तं प्रकल्पयेत् ॥

नेता आह्वाता । तत्र मुद्राबिर् आहूतो यदि नागच्छेत् तदा यावद् व्यवहारनिर्णयम् आसेधयेद् इत्य् आह नारदः ।

वक्तव्ये ऽर्थे न तिष्ठन्तम् उत्क्रामन्तं च तद्वचः ।

आसेधयेद् विवादार्थी यावद् आह्वानदर्शनम् ॥

ऽवक्तव्ये ऽर्थेऽ सन्दिग्धे ऽर्थे निर्णयार्थं न प्रवर्तमानं न केवलं न प्रवर्तते । ऽउत्क्रामन्तं च तद्वचःऽ मा गा इति वार्यमाणो न तिष्ठेत्, तं ऽआसेधयेत्ऽ । मर्यादायाम् ऽयावत्ऽ इत्य् अवधिपरिच्छेदः । आहूयते ऽस्मिन्न् इति ऽआह्वानम्ऽ व्यवहारः । अतो यावद् व्यवहारदर्शनम् आसेधः कर्तव्यः । तत्रासेधश् चतुर्विध इत्य् आह ।

स्थानासेधः कालकृतः प्रवासात् कर्मणस् तथा ।

चतुर्विधः स्याद् आसेधः तम् आसिद्धो न लङ्घयेत् ॥

नास्मात् स्थानात् चलितव्यम् इति स्थानासेधः । कालासेधस् तु द्वित्रिरहोभिस् त्वं न करोषि चेत् ततस् त्वया इयान् दण्डो राज्ञे दातव्य इति । ऽप्रवासात्ऽ ग्रामान्तरम् अन्यत्र वा गच्छसि पूर्ववद् दण्ड्य इति । ऽकर्मणःऽ यद्य् अदत्वा गृहनिर्माणादिकं करोषि पूर्ववद् दण्ड्य इति । एवं चतुर्विधम् आसेधम् आसिद्धो न लङ्घयेद् इति । तथा –

क्षेत्रारामगृहादीनि धनधान्यादिकं तथा ।

अन्यायवादिनां चैतान्य् आसेध्यानि वादिना ॥

एतानि क्षेत्रादीनि विवादास्पदान्य् एवासेधव्यानि, नान्यानि । तच् च क्षेत्रादिष्व् अपि द्रव्योत्पच्युपायभूतबीजावापादयो निषेद्धव्याः, आसेद्धुः पराजये भोगदण्डयोर् दातव्यत्वश्रवणात् ।

मिथ्यासेधे पुनर् दाप्यो भोगदण्डं च तत्समम् ।

आसेद्धा तु स्वम् आसेधं स्वयम् एवोत्सृजेद् यदि ॥

इति ।

न तस्यातिक्रमाद् दोषो न च दण्डं प्रकल्पयेत् ।

राज्ञो निवेदनाद् ऊर्ध्वम् आसेद्धा नोत्सृजेत् स्वयम् ॥

उत्सृजंश् च दमं दाप्य आसिद्धश् च न लङ्घलेत् ।

आसेधने प्राग् आवेदनात् मोचने आसेद्धा न दण्ड्यः । ऊर्ध्वं तूत्सृजन् दण्ड्य एव । विवादपराजयप्राप्तं दमशब्देनोच्यते । अथानासेध्यान् आह नारदः ।

नदीसन्तारकान्तारदुर्देशोपप्लवादिषु ।

आसिद्धस् तं परासेधम् उत्क्रामन् नापराध्नुयात् ॥

निवेष्टुकामो रोगार्तो यियक्षुर् व्यसने स्थितः ।

अभियुक्तस् तथान्येन राजकार्योद्यतस् तथा ॥

निवेष्टुकामः विवाहाभिमुखः । कालविशेषाद् अनासेद्ध्यान् आह ।

गवां प्रचारे गोपालाः सस्यारम्भे कृषीवलाः ।

शिल्पिनश् चापि तत्काल आयुधीयश् च विग्रहे ॥

अप्राप्तव्यवहाराश् च दूतो दानोन्मुखो व्रती ।

विषमस्थाश् च नासेद्ध्या न चैनान् आह्वयेन् नृपः ॥

कात्यायनः ।

वृक्षपर्वतम् आरूढा हस्त्यश्वरथनौस्थिताः ।

विमानस्थाश् च ते सर्वे नासेद्ध्याः कार्यसाधकैः ॥

यस् त्व् इन्द्रियनिरोधेन व्याहारोच्छ्वसनादिभिः ।

आसेधयेद् अनासेध्यान् स दण्ड्यो न त्व् अतिक्रमी ॥

एवम् आवश्यके शरीरव्यापारे निषेधं कुर्वन् दण्ड्यः, न च पूर्वापराधकृद् इत्य् अर्थः । स्मृत्यन्तरे ।

अकल्यबालस्थविरविषमस्थक्रियाकुलान् ।

कार्यातिपातिव्यसनिनृपकार्योद्यतांस् तथा ॥

मत्तोन्मत्तप्रमत्तार्तभृत्यान् नैवाह्वयेन् नृपः ।

न हीनपक्षां युवतिं कुले जातां प्रसूतिकाम् ॥

सर्ववर्णोत्तमां कन्यां न ज्ञातिप्रभुकां स्त्रियम् ।

ज्ञातिप्रभुकाः ज्ञातिपरतन्त्राः । तथोक्तम् ।

पतिपक्षः प्रभुः स्त्रीणां पितृपक्षस् तदत्यये ।

विनियोगात्मरक्षासु हरणे च स् ईश्वरः ॥ इति ।

क्वचिद् विषये पूर्वापवादम् आह ।

तदधीनकुटुम्बिन्यः स्वैरिण्यो गणिकाश् च याः ।

निष्कुला याश् च पतितास् तासाम् आह्वानम् अर्हति ॥

राज्ञेति शेषः । तत्राकल्यबालस्थविरस्त्रीणां स्वरूपेण व्यवहारानधिकारिणां पुत्रादिकम् अन्यं वा सुहृदं समाश्रित्य व्यवहारः प्रवर्तितव्यः । तस्मिन्न् अर्थे विशेषम् आह हारीतः ।

यो न भ्राता न च पिता न पुत्रो न नियोगकृत् ।

परार्थ्यवादी दण्ड्यः स्यात् व्यवहारेषु विब्रुवन् ॥

तेषां जयपराजयौ मूलपुरुषस्यैव जयपराजयाव् इति नारदः ।

अर्थिना सन्नियुक्तो वा प्रत्यर्थिप्रहितो ऽपि वा ।

यो यस्यार्थे विवदते तयोर् जयपराजयौ ॥

बृहस्पतिः ।

अप्रगल्भजडोन्मत्तस्त्रीबालरोगिणाम् ।

पूर्वोत्तरं वदेद् यः स नियुक्तश् चेन् न दोषभाक् ॥

ब्रह्महत्यासुरापानस्तेयगुर्वङ्गनागमे ।

अन्येष्व् असभ्यवादेषु प्रतिवादी न दीयते ॥

अन्यत्र ।

मनुष्यमारेणे स्तेये परदाराभिमर्शने ।

अभक्ष्यभक्षणे चैव कन्याहरणदूषणे ॥

पारुष्ये कूटकरणे नृपद्रोहे तथैव च ।

प्रतिवादी न दाप्यः स्यात् कर्ता तु विवदेत् स्वयम् ॥ इति ।

महापातकाद्यभियोगे अकल्यादीनां सर्वेषां स्वरूपेणैवाह्वानं कर्तव्यम् ।

यस्याभियोगं कुरुते सत्येनाशङ्कया तथा ।

तम् एवानाययेद् राजा मुद्रया पुरुषेण वा ॥

नारदः ।

देशं कालं च विज्ञाय कार्याणां च बलाबलम् ।

अकल्यादीन् अपि शनैः यानैर् आह्वाययेन् नृपः ॥

देवब्राहणराजद्रोहादाव् अकल्यबालस्थविरादीनाम् अपि स्वरूपेणाह्वानं यानादिभिः कर्तव्यम् इत्य् अर्थः । एवं प्रतिवादिसन्निधाने सत्य् एव कर्तव्यम् इति याज्ञवल्क्यः ।

उभयोर् प्रतिभूर् ग्राह्यः समर्थ कार्यनिर्णये ।

कात्यायनः ।

अथ चेत् प्रतिभूर् नास्ति वादयोग्यस्य वादिनः ।

स रक्षितो दिनस्यान्ते दद्याद् दूताय वेतनम् ॥

कार्यनिर्णये समर्थो दर्शबन्धदण्डादियोग्यः । अत्र कात्यायनः ।

द्विजातिः प्रतिभूहीनो रक्ष्यः स्याद् बाह्यचारिभिः ।

शूद्रादीन् प्रतिभूहीनान् बन्धयेन् निगडेन तु ॥

अतिक्रमे ऽपयाने वा दण्डयेत् तं पणाष्टकम् ।

नित्यकर्मोपरोधस् तु न कार्यः सर्ववर्णिनाम् ॥

इति श्रीमद्वरदराजीये व्यवहारनिर्णये

आवेदनकाण्डं समाप्तम्