लोके सर्वमनुष्याणां विवादे लुप्तधर्मके ।
निर्णयः क्रियते ऽस्माभिर् युक्तिस्मृत्यनुरोधतः ॥
सकलविवादनिर्णयार्थं स्मृत्यर्थनिर्णयः क्रियते । तत्र नारदः ।
मनुः प्रजाप्तिर् यस्मिन् काले राज्यम् अबूभ्य्जत् ।
धर्मैकातानाः पुरुषास् तदासन् सत्यवादिनः ॥
तदा न व्यवहारो ऽभून् न द्वेषो नापि मत्सरः ।
नष्टे धर्मे मनुष्येषु व्यवहारः प्रवर्तितः ॥
द्रष्टा च तस्य न्यायस्य राजा धारयिता कृतः ।
“धर्मैकतानाः” धर्मैकविस्ताराः । सर्वेषां धर्मप्राधान्यात् व्यवहारहेतुभूतद्वेषमत्सरबीजा धर्माभान् नास्ति व्यवहारः । इदानीं कलियुगे कालदोषान् मनुष्याणाम् अधर्मप्राधान्यात्, तन्निबन्धनान्यायनिवृत्त्यर्थं मन्वादिभिः शिष्टैः व्यवहाराख्यो न्यायः “प्रवर्तितः” दर्शितः । तस्य न्यायस्य द्रष्टा अन्यायप्रवृत्तानां च दण्डस्य “धारयिता” मन्वादिभी राजा कृतः । अत्र मनुः ।
व्यवहारान् दिदृक्षुस् तु ब्राह्मणैः सह पार्थिवः ।
मन्त्रज्ञैर् मन्त्रिभिश् चैव विनीतः प्रविशेत् सभाम् ॥
तत्रासीनः स्थितो वापि पाणिम् उद्यम्य दक्षिणम् ।
विनीतवेशाभरणः कुर्यात् कार्याणि कार्यिणाम् ॥
प्रत्यहं देशदृष्टैश् च शास्त्रदृष्टैश् च हेतुभिः ।
अष्टादशसु मार्गेषु व्यवहारान् पृथक् पृथक् ॥
धर्मासनम् अधिष्ठाय संवीताङ्गः समाहितः ।
प्रणम्य लोकपालेभ्यः कार्यदर्शनम् आरभेत् ॥
यथा नयत्य् असृक्पातैर् मृगस्य मृगयुः पदम् ।
नयेत् तथानुमानेन धर्मस्य नृपतिः पदम् ॥
“आसीनः स्थितो वा” पश्येत् न शयानः । “पाणिम् उद्यम्य दक्षिणम्” इति उपरिवस्त्रस्योपवीतवत् धारणम् उच्यते । “हेतुभिः” प्रमाणैः देशाचारप्राप्तैः शास्त्रप्राप्तैश् च अष्टादशसु शोषितलेपैर् मृगपदानुमानवत् सूक्ष्मैर् हेतुभिः व्यवहारनिर्णयः कर्तव्यः । अत्र याज्ञवल्क्यः ।
व्यवहारान् नृपः पश्येद् द्विवद्भिर् ब्राह्मणैः सह ।
धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः ॥
श्रुताध्ययनसम्पन्ना धर्मज्ञाः सत्यवादिनः ।
राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ॥
पूर्वश्लोकैर् ब्राह्मणैः सह त्रयो ब्राह्मणाः सभासदः कार्याः । तथा च कात्यायनेन सभासदो भेदेन दर्शिताः ।
विनीतवेषो नृपतिः सभां गत्वा समाहितः ।
आसीनः प्राङ्मुखो भूत्वा पश्येत् कार्याणि कार्यिणाम् ॥
स तु सभ्यैः स्थिरैर् युक्तः प्रज्ञामूलैर् द्विजोत्तमैः ।
धर्मशास्त्रार्थकुशलैर् अर्थशास्त्रविशारदैः ॥
सप्राड्विवाकः सामात्यः सब्राह्मणपुरोहितः ।
ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्मतः ॥
श्रुतिस्मृतिविरुद्धं च भूतानाम् अहितं च यत् ।
न तत् प्रवर्तयेद् राजा प्रवृत्तं च निवर्तयेत् ॥
“सप्राड्विवाकः सामात्यः” इत्य् अस्मिन् श्लोके सभासदः भेदेन दर्शिताः । व्यवहारदर्शणकालो ऽपि तेनैवोक्तः ।
दिवसस्याष्टमं भागं मुक्त्वा कालत्रयं तु यत् ।
स कालो व्यवहाराणां शास्त्रदृष्टः परः स्मृतः ॥
दिवसम् अष्टधा कृत्वा प्रथमम् अग्निहोत्रार्थं ब्राह्मणतृप्त्यर्थं च मुक्त्वा, अनन्तरं भागत्रयं व्यवहारकाल इति । तथा च मनुः ।
हुत्वाग्नीन् ब्राह्मणान् अर्च्य प्रविशेत् सुशुभां सभाम् ।
तत्र सभास्थानम् आह बृहस्पतिः ।
दुर्गमध्ये गृहं कुर्याज् जलवृक्षान्वितं पृथक् ।
प्राग्दिशि प्राङ्मुखीं तस्य कल्याणीं कल्पयेत् सभाम् ॥
माल्यधूपासनोपेतां बीजरक्तसमन्विताम् ।
प्रतिमालेख्यदेवैश् च युक्ताम् अग्न्यम्बुना तथा ॥
आदित्यचन्द्रादिदेवतायुक्तां कल्पयेद् इति । “युक्ताम्” लोकपालयुक्तः च कल्पयेद् इति ॥ अत्रानुकल्पम् आह मनुः ।
यदा स्वयं न कुर्यात् तु नृपतिः कर्यदर्सनम् ।
तदा नियुञ्ज्याद् विद्वांसं ब्राह्मणं कार्यदर्शने ॥
सो ऽस्य कार्याणि सम्पश्येत् सभ्यैर् एव त्रिभिर् वृतः ।
सभाम् एव प्रविश्याग्र्याम् आसीनः स्थित एव वा ॥
तस्यैव प्राड्विवाक इति सञ्ज्ञा । तथा च बृहस्पतिः ।
विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च ।
प्रियपूर्वं प्राग् वदति प्राड्विवाकस् ततः स्मृतः ॥
तथा च व्यासः ।
विवादानुगतं पृष्ट्वा ससभ्यस् तं प्रयत्नतः ।
विचारयति येनासौ प्राड्विवाकस् ततः स्मृतः ॥
दान्तः कुलीनो मध्यस्थो रागद्वेषविवर्जितः ।
सो ऽस्य कार्याणि सम्पश्येत् सभ्यैर् एव त्रिभिर् वृतः ॥
याज्ञवल्क्यः ।
अपश्यता कार्यवशाद् व्यवहारं नृपेण तु ।
सभ्यैः सह नियोक्तव्यः ब्राह्मणः सर्वधर्मवित् ॥
व्यासः ।
जातिमात्रोपजीवी वा कामं स्याद् ब्राह्मणब्रुवः ।
धर्मप्रवक्ता नृपतेर् न तु वर्णास् त्रयो ऽपरे ॥
अविद्वत्क्षत्रियवैश्यविषयम् इदम् । तथैव कात्यायनः ।
तत्र विप्रो न विद्वान् स्यात् क्षत्रियं तत्र योजयेत् ।
वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ॥
विद्वत्क्षत्रियवैश्याभावे मनुर् आह ।
जातिमात्रोपजीवी वा कामं स्याद् ब्राह्मणब्रुवः ।
धर्मप्रवक्ता नृपतेः न तु शूद्रः कथञ्चन ॥
अमात्यमुख्यं धर्मज्ञं प्राज्ञं दान्तं कुलोद्भवम् ।
स्थापयेद् आसने तस्मिन् खिन्नकार्ये क्षणे नृणाम् ॥
कात्यायनः ।
दान्तं कुलीनं मध्यस्थम् अनुद्वेगकरं स्थिरम् ।
परत्र भीरुं धर्मिष्ठम् उद्युक्तं क्रोधवर्जितम् ॥
अत्र हारीतः ।
यथा शल्यं भिषक् कायाद् उद्धरेद् यन्तृयुक्तिभिः ।
प्राड्विवाकस् ततः शल्यम् उद्धरेद् व्यवहारतः ॥
[सभ्यलक्षणम् आह] कात्यायनः ।
अलुब्धा धनवन्तश् च धर्मज्ञाः सत्यवादिनः ।
धर्मशास्त्रप्रवीणाश् च सभ्यैः कर्या नृपैर् द्विजाः ॥
तत्र सभालक्षणम् आह मनुः ।
यस्मिन् देशे निषीदन्ति विप्रा वेदविदस् त्रयः ।
राज्ञश् च प्राकृतो विद्वान् सा यज्ञसदृशी सभा ॥
प्राकृतो विद्वान् प्राड्विवाक इत्य् अर्थः ।
पूर्वामुखस् तूपविशेद् राजा सभ्या उदङ्मुखाः ।
गणकः पश्चिमास्यस् तु लेखको दक्षिणामुखः ॥
वसिष्ठः ।
यत् पुण्यम् उद्धृते विप्रे म्रियमाणे जलाशये ।
तत् पुणयं संशयारूड्ये (ढे) व्यवहारे समुद्धृते ॥
बृहस्पतिः ।
लोकवेदाङ्गधर्मज्ञाः सप्त पञ्च त्रयो ऽपि वा ।
यतोपविष्टा विप्राग्र्याः सा यज्ञसदृशी सभा ॥
सत्यं देवा समासेन मनुष्यास् (?) त्व् अनृतं विदुः ।
इहैव तस्य देवत्वं यस्य सत्ये स्थिता मतिः ॥
चातुर्विध्यं सभायाम् आह ।
प्रतिष्ठिता चला चैव मुद्रिता शास्त्रिता तथा ।
चतुर्विधा सभा प्रोक्ता सभ्याश् चैव तथाविधाः ॥
तेषां व्याख्यानम् आह ।
प्रतिष्ठिता पुरे ग्रामे चला नामाप्रतिष्ठिता ।
मुद्रिताध्यक्षसंयुक्ता राजयुक्ता च शास्त्रिता ॥
नृपो ऽधिकृतसभ्याश् च स्मृतिर् गणकलेखकौ ।
हेमाग्न्यम्बु स्वपुरुषाः साधनाङ्गानि वै दश ॥
तेषां मूर्धा नृपो ऽङ्गानां मुखं चाधिकृतः कृतम् [कृतः] ।
बाहू सभ्याः स्मृतिर् हस्तौ जङ्घे गणकलेखकौ ॥
हेमाग्न्यम्बु दृशौ तत्र पादौ स्वपुरुषस् तदा ।
दशानाम् अपि चैतेषां कर्म प्रोक्तं पृथक् पृथक् ॥
वक्ताध्यक्षो नृपः शास्ता सभ्याः कार्यपरीक्षङाः ।
स्मृतिर् विनिर्णयं ब्रूते जयं दानं दमं तथा ॥
शपथार्थेर् (?) हिरण्याग्नी तृषितक्षुब्धयोर् जलम् ।
गणको गणयेद् अर्थं लिखेन् न्यायं च लेखकः ॥
प्रत्यर्थिसभ्याआनयनं साक्षिणां च स्वपूरुषः ।
कुर्याद् अनर्गलो रक्षेद् अर्थिप्रथ्यर्थिनौ सदा ॥
एतद् दशाङ्गकरणं यस्याम् अध्यास्य पार्थिवः ।
न्यायान् पश्येत् कृतमतिः सा सभाध्वरसन्निभा ॥
गणकलेखकयोर् लक्षणं स एवाह ।
पश्वाज्यऋत्विगादीनां संयोगाज् जायते ऽध्वरः ।
यथा सम्बध्यते तेन व्यवहारस् तथोच्यते ॥
यज्ञे सम्पूज्यते विष्णुः व्यवहारे महीपतिः ।
यजमानो जयी तत्र जितः पशुर् उदाहृतः ॥
पूर्वपक्षोत्तराव् आज्यं प्रज्ञा च हविर् उच्यते ।
त्रयी शास्त्राणि सभ्यास् तु ऋत्विजो दक्षिणा दमः ॥
लोभद्वेषादिकं त्यक्त्वा यः कुर्यात् कार्यनिर्णयम् ।
शास्त्रोदितेन विधिना तस्य यज्ञफलं लभेत् (भवेत्) ॥
सत्यं देवाः समासेन मनुष्यास् त्व् अनृतं विदुः ।
इहैव तस्य देवत्वं यस्य सत्ये स्थिता मतिः ॥
तत्र बृहस्पतिः ।
शब्दाभिधानतत्त्वज्ञौ गणनाकुशलौ शुची ।
नानालिपिज्ञौ कर्तव्यौ राज्ञा गणकलेखकौ ॥
इदम् अपरं कर्तव्यम् इत्य् आह कात्यायनः ।
कुलशीलवयोवृत्तवित्तवद्भिर् अमत्सरैः ।
वणिग्भिः स्यात् कतिपयैः मूलभूतैर् अधिष्ठितम् ॥
धर्मासनं कुर्याद् इति शेषः । अत्र नारदः ।
कुलानि श्रेणयश् चैव गणाश् चाधिकृतो नृपः ।
प्रतिष्ठाव्यवहाराणां गुर्व् एषाम् उत्तरोत्तरम् ॥
याज्ञवल्क्यः ।
नृपाधिकृतपूगाश् च श्रेणयो ऽथ कुलानि च ।
पूर्वं पूर्वं गुरु ज्ञेयं व्यवहारविधौ नृणाम् ॥
कीणाशः कारुकः शिल्पी कुसीदिश्रेणिनर्तकाः ।
लिङ्गिनस् तर्तकाः कुर्युः स्वेन धर्मेण निर्णयम् ॥
ये त्व् अरण्यचरास् तेषां आरण्यैः करणं भवेत् ।
सेनायां सैनिकानां तु सार्थेषु वणिजां तथा ॥
तपस्विनां तु कार्याणि त्रैविद्यैर् एव कारयेत् ।
मायायोगविदश् चैव गणाश् चाधिकृता नृपाः ॥
स्वसमयसिद्धेन धर्मेण हेतुनेत्य् अर्थः । तत्र व्यासः ।
कार्येष्व् अधिकृता राज्ञां ग्रामश्रेणिगणाः कुलम् ।
गुरुस्वामी कुटुम्बी च पिता ज्येष्ठः पितामहः ॥
विवादान् अपि पश्येयुः स्वाधीने विषये नृणाम् ।
अथ नैगमान् आह कात्यायनः ।
नानापौरसमूहस् तु नैगमाख्यः प्रकीर्तितः ।
नानायुधधरा व्राताः समवेताः प्रकीर्तिताः ॥
समूहो वणिगादीनां पूगः स परिकीर्तितः ।
ब्राह्मणानां समूहस् तु गण इत्य् उच्यते बुधैः ॥
यः सौगतार्हतादीनां समूहः सङ्घ उच्यते ।
चतुष्पदा गवादीनां समूहो व्रज उच्यते ॥
असच्छास्त्राधिगन्तॄणां समूहः पुञ्ज उच्यते ।
चण्डालश्वपचादीनां समूहो गुल्म उच्यते ॥
कारुशिल्पिप्रभृतीनां निवहः श्रेणिर् उच्यते ।
पूगश्रेणिगणादीनां भवेयुः कार्यचिन्तकाः ॥
शुचयो वेदधर्मज्ञा दक्षा दान्ताः कुलोद्भवाः ।
सर्वकार्यप्रवीणाश् चालुब्धा वृद्धा महत्तराः ॥
कर्तव्यं वचनं तेषां समूहहितवादिनाम् ।
पूगनैगमपाषण्डसङ्घानाम् अप्य् अयं विधिः ॥
पाषण्डलक्षणम् अभिहितं षट्त्रिंशन्मते ।
प्रामाण्यम् एव ये वेदे न वदन्ति कुदृष्टयः ।
तेषां बौधार्हतादीनां पाषण्डाख्या प्रकीर्त्यते ॥
प्रव्रज्य वसिता ये तु पाषाण्डास् ते प्रकीर्तिताः ।
पौरुषेयतया वेदं प्रांआण्यं प्रवदन्ति ये ।
तेषां वैशेषिकादीनां नैगमाख्या प्रकीर्त्यते ॥
कात्यायेनेनान्यथा नैगमाख्या प्रदर्शिता ।
नानापौरसमाजस् तु नैगमाख्यः प्रकीर्तितः । इति ।
तथा स्वायम्भुवागमे षट् समया उक्ताः ।
बौद्धं चैवार्हतं चैव शैवं पाशुपतं तथा ।
कापालं पाञ्चरात्रं च षड् एते समयाः स्मृताः ॥
तत्र व्यासः ।
वणिक्शिल्पिप्रभृतिषु कृषिरङ्गोपजीविषु ।
अशक्यो निर्णयो ज्य् अन्यैस् तज्ज्ञैर् एव तु कारयेत् ॥
एतद् उक्तं भवति । सर्वेषु समयेषु शास्त्रोक्तमार्गेण स्वसमयेन वा, निर्णितो व्यवहारः सिद्ध्यतीति । तत्रोत्तरोत्तरः पूर्वपूर्वस्माद् गुरुः । अत आनृपात्युनर् (?) दर्शनं युज्यते । नृपेण दृष्टे व्यवहारे तत उत्तरस्याभावात् पुनः प्रसङ्गो नास्ति । तथा च पितामहः ।
कुलादिभिः कृतं कार्यं विचार्यं तद् यथोत्तरम् ।
असन्तुष्टस्य कर्तव्यं यावद् राज्ञा कृतं भवेत् ॥
तत्र गौतमः- “तत्र व्यवहारो वेदो धर्मशास्त्राण्य् अङ्गानि उपवेदाः पुराणम् । देशजातिकुलधर्माश् च आम्नायैर् अविरुद्धाः प्रमाणम् । कर्षकवणिक्पशुपालकुसीदकारवः स्वे स्वे वर्गे । तेभ्यो यथाधिकारम् अर्थान् प्रत्यवहृत्य धर्मव्यवस्था” । स्मृत्यन्तरे ।
जातिजानपदान् धर्मान् श्रेणिधर्मांश् च शाश्वतान् ।
समीक्ष्य कुलधर्मांश् च स्वधर्मं प्रतिपालयेत् ॥
सद्भिर् आचरितं यत् स्यात् धार्मिकैश् च द्विजातिभिः ।
तद् देशकुलजातीनाम् अविरुद्धं प्रकल्पयेत् ॥
कात्यायनः ।
गोत्रस्थितिस् तु या येषां क्रमायाता च धर्मतः ।
कुलधर्मं तु तं प्राहुः पालयेत् तं तथैव तु ॥
यस्य देशस्य यो धर्मः प्रवृत्तः सार्वकालिकः ।
श्रुतिस्मृत्यविरोधेन देशदृष्टः स उच्यते ॥
बृहस्पतिः ।
उदूह्यते दाक्षिणात्यैर् मातुलस्य सुता द्विजैः ।
मध्यदेशे कर्मकराः शिल्पिनश् च गवाशिनः ॥
मत्स्यादाश् च नराः पूर्वे व्यभिचाररताः स्त्रियः ।
उत्तरे मद्यपा नार्यः स्पृश्याः नॄणां रजस्वलाः ॥
खषजाः प्रतिगृह्णन्ति भ्रातृभार्याम् अभर्तृकाम् ।
अनेन कर्मणा नैते प्रायश्चित्तदमार्हकाः ॥
कात्यायनः ।
प्रातिलोम्ये प्रसूतानां तथा दुर्गनिवासिनाम् ।
वर्णानां नियतं धर्मं न्यायोपेतं न चालयेत् ॥
अथ कार्यनिर्णये अनियोज्यान् आह व्यासः ।
द्विजान् विहाय यः पश्येत् कार्याणि वृषलैः सह ।
तस्य प्रक्षुभ्यते राष्ट्रं बलं कोशश् च नश्यति ॥
देशाचारानभिज्ञा ये नस्तिकाः शास्त्रवर्जिताः ।
उन्मत्ताः क्रुद्धबालाश् च न नियोज्या विनिर्णये ॥
धर्मो विद्धस् त्व् अधर्मेण सभां यत्रोपतिष्ठति ।
शल्यं वास्य न कृन्तन्ति विद्धास् तत्र सभासदः ॥
सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् ।
अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी ॥
एक एव सुहृद् धर्मो निधने ऽप्य् अनुयाति यः ।
शरीरेण समं नाशं सर्वम् अन्यद् धि गच्छति ॥
पादो धर्मस्य [ऽधर्मस्य?] कर्तारं पादः साक्षिणम् ऋच्छति ।
पादः सभासदः सर्वान् पादो राजानम् ऋच्छति ॥
मनुः ।
राजा भवत्य् अनेनास् तु मुच्यन्ते च सभासदः ।
एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ॥
न्यायशास्त्रम् अतिक्रम्य सभ्यैर् यत्र तु निश्चितः ।
तत्र धर्मो ह्य् अधर्मेण हतो हन्ति न संशयः ॥
कात्यायनः ।
अधर्मतः प्रवृत्तं तु नोपेक्षेरन् सभासदः ।
उपेक्षमाणाः स नृपाः नरकं यान्त्य् अधोमुखाः ॥
न्यायमार्गाद् अपेतं तु ज्ञात्वा चित्तं महीपतेः ।
वक्तव्यं तत् प्रियं तत्र न सभ्यैः किल्बिषी भवेत् ॥
अत्र व्यवहारनिर्णये क्रमम् आह नारदः ।
तत्र धर्मासनं प्राप्य राजा निगतमत्सरः ।
समः स्यात् सर्वभूतेषु बिभ्रद् वैवस्वतं व्रतम् ॥
धर्मशास्त्रं पुरस्कृत्य प्राड्विवाकमते स्थितः ।
समाहितमतिः पश्येत् व्यवहारान् अनुक्रमात् ॥
धर्मशास्त्रार्थशास्त्राभ्याम् अविरोधेन पार्थिवः ।
समीक्ष्यमाणो निपुणं व्यवहारगतिं नयेत् ॥
यथा मृगस्य विद्धस्य व्याधो मृगपदं नयेत् ।
कक्षे शोणितलेपेन तथा धर्मपदं नयेत् ॥
बृहस्पतिः ।
न्यायमार्गाद् अपेतं तु ज्ञात्वा चित्तं महीपतेः ।
वक्तव्यं तत् प्रियं तत्र न सभ्यस् तत्र किल्बिषी ॥
अधर्मतः प्रवृत्तं तु नोपेक्षेरन् सभासदः ।
उपेक्षमाणाः सततं नरकं यान्त्य् अधोमुखाः ॥
प्राड्विवाकसदस्यानाम् उपजीव्यमतानि तु ।
तद्युक्तियोगाद् यो ऽर्थेषु निर्णये न स दण्डभाक् ॥
असभ्यलक्षणम् आह नारदः ।
रागाद् अज्ञानतो वापि लोभाद् वा यो ऽन्यथा वदेत् ।
सभ्यो ऽसभ्यः स विज्ञेयः तं पापं विनयेद् भृशम् ॥
यत्र सभ्याः सभां प्राप्य तूष्णीं ध्यायन्त आसते ।
यथाप्राप्तं च न ब्रूयुः सर्वे ते ऽनृतवादिनः ॥
असत्यदण्डम् आह याज्ञवल्क्यः ।
रागाल् लोभाद् भयाद् वापि स्मृत्यपेतादिकारिणः ।
सभ्याः पृथक् पृथग् दण्ड्या विवादाद् द्विगुणं दमम् ॥
यादृशाः पुनः सभासदः कर्तव्याः । तान् दर्शयति नारदः ।
राजा तु धार्मिकान् सभ्यान् नियुञ्ज्यात् सुपरीक्षितान् ।
व्यवहारधुरं वोढुं ये शक्ताः सद्गवा इव ॥
धर्मशास्त्रार्थकुशलाः कुलीनाः सत्यवादिनः ।
समाः शत्रौ च मित्रे च नृपतेः स्युः सभासदः ॥
कात्यायनः ।
एकं शास्त्रम् अधीयानो न विद्यात् कार्यनिर्णयम् ।
तस्माद् ब्रह्मागमः कार्यो विवादेषूत्तमो नृपैः ॥
नारदः ।
नानियुक्तेन वक्तव्यं व्यवहारेषु किञ्चन ।
नियुक्तेन तु वक्तव्यम् अपक्षपतितं वचः ॥
कात्यायनः ।
अनिर्दिष्टाश् च ये कुर्युः व्यवहारविनिर्णयम् ।
राजवृत्ते प्रवृत्ता ये तेषां दण्डं प्रकल्पयेत् ॥
नारदः ।
नियुक्तो वानियुक्तो वा शास्त्रज्ञो वक्तुम् अर्हति ।
देवीं वाचं स वदति यः शास्त्रम् उपजीवति ॥
अन्यत्र ।
न सा सभा यत्र न सन्ति वृद्धाः
न ते वृद्धा ये न वदन्ति धर्मम् ।
नासौ धर्मो यत्र न सत्यम् अस्ति
न तत् सत्यं यच् छलेनानुविद्धम् ॥
अथ प्राड्विवाकतत्सभ्यानां च दण्डम् आह बृहस्पतिः ।
अन्यायवादिनः सभ्यास् तथैवोत्कोचजीविनः ।
विश्वासवञ्चकाश् चैव निर्वास्याः सर्व एव ते ॥
कात्यायनः ।
अनिर्णीते ऽपि यद्य् अर्थे सम्भाषेत रहो ऽर्थिना ।
प्राड्विवाको ऽथ दण्ड्यः स्यात् सभ्याश् चैव न संशयः ॥
तत्र रागद्वेषवियुक्तैः निरूपणकुशलैः, ब्राह्मणैर् मन्त्रज्ञैर् मन्त्रिभिः, समृद्धैर् वणिग्भिः, पुरोहितेन सभ्यैः सभायां परिवृतो राजा प्राड्विवाको वापि व्यवहारदर्शनम् आरभेतेति ।
इति श्रीमद्वरदराजीये व्यवहारनिर्णये व्यवहारपरिकरकाण्डं समाप्तम्