व्रत-चतुष्टयेऽप्य् एवम् एव स्मर्यते—
मेखलाम् अजिनं दण्डं वस्त्रं यज्ञोपवीतकम् ।
पूर्वोपयुक्तम् उत्सृज्य धारयेयुर् नवं व्रतम् ॥
इति। अत्र कपर्दी—
प्रजापति-मुखान् देवान् एकैकस् तिलोदकम् ।
उद्धृत्य तर्पणं कुर्युः श्रावण्यां तैत्तिरीयकाः ॥
इति। ब्रह्मचारिणाम् उपाकर्मणि वपनम् आवश्यकम्—
श्रावण्यां पौर्णमास्यां शिष्यं वापयित्वेति
वैखानसे दर्शनात्,
क्षुर-कर्म न कर्तव्यं चौलात् परम् ऋतु-त्रयम् ।
तथोपनयनाद् ऊर्ध्वम् उपाकर्म विना क्वचित् ॥
इत्य्-आदि-स्मृतेश् च। तत्र तिथि-वारादि-दोषो ऽपि न चिन्त्यः।
वैधे कर्मणि तु प्राप्ते काल-दोषं न चिन्तयेत् ।
सद्यः शौचं प्रकुर्वीत माता-पित्रोर् मृतौ तथा ॥
इति वसिष्ठ-स्मरणात् ॥