वीरमित्रोदय-व्यवहाराध्यायः

[[वीरमित्रोदय-व्यवहाराध्यायः Source: EB]]

[

[TABLE]

वीरमित्रोदये

व्यवहाराध्यायः।

मित्रमिश्रेण विरचितः।

———————
वि, ए, उपाधिधारिणा

श्रीजीवानन्द विद्यासागर भट्टाचार्य्येण

संस्कृत।

————

कलिकातानगरे

सुचारुयन्त्रे

मुद्रितः।

ई १८७५।

পিণ্টার-শ্রীরামব্রহ্ম মুখোপাধ্যায়।

वीरमित्रोदयस्य सूचीपत्रम् ।

प्रकरणम्
व्यवहारादि प्रकरणे प्राङ्मुख प्रावेशिकम्
व्यवहारस्य लक्षणम्
व्यवहारभेदाः
सामान्य परिभाषा
व्यवहार दर्शनविधिः
व्यवहारदर्शनकालः
प्रड्विवाक लक्षणम्
सभ्या
सभ्यभिन्नानां निरूपणम्
आदेयानादेयाख्य व्यवहारः
सभापते कार्य्यनिरूपणम्
व्यवहारपादः
उत्तरपादः
उत्तरभेदाः
प्राङ्न्याय लक्षणम्
उत्तरभाषा
क्रियापादः
निर्णयापरपर्य्यायः
पुनर्न्यायः
कृतनिवृत्तिः
विशेष परिभाषा
निह्नवादिविधिः
उत्तरदाने विलम्ब व्यवस्था
साक्षीनिरूपणम्
लेख्यम्
भुक्तिः
युक्तिः
दिव्यदेशाः
दिव्य साधारणविधिः
घटविधिः
अग्निविधिः
जलविधिः
विषविधिः
कोशविधिः
तण्डुलविधिः
तप्तमाषविधिः
आयसविधिः
धर्म्मजविधिः
शपथविधिः
प्रमेयाणि व्यवहारपदानि
ऋणादानम्
आधिः
प्रतिभूः
निक्षेपस्य व्यवहारपदम्
सम्भूय समुत्थानम्
दत्ता प्रदानिकम्
अभ्युपेत्याशुश्रूषाख्यम्
वेतनानपा करणाख्यम्
सम्विद्ध्यति क्रमाख्यम्
क्रीतानुशयाख्यम्
विक्रीयासम्प्रदानाख्यम्
स्वामिपाल विवादाख्यम्
सीमा विवादाख्यम्
दण्डपारुषाख्यम्
वाक्पारुषाख्यम्
स्तेयाख्यम्
साहसाख्यम्
स्त्री संग्रहणाख्यम्
स्त्री पुं योगाख्यम्
विभागाख्यं व्यवहारपदं
दायभागशब्दार्थ कथनाख्यं
एकदास्यादि विभागः
पुत्राद्यधिकार विचारः
विभागकालकर्तृनिरूपणं
पितृकृत विभागे
पैतामहधने पुत्राणांसमांशिता
भ्रातॄणांदायविभागः
असवर्णानां भ्रातॄणां विभागः
मुख्यासुख्यपुत्राणां विभागः
पत्नीधनहारिणी
पत्न्यभावे दुहितुरधिकारः
दुहितुरमावे दौहित्रः
दौहित्राभावे पितरौ
पित्रोरभावे भ्रातरीधनभाजः
भ्रात्रभावे तत्सुताः
भ्रातृपुत्राभावे गोत्रजा
ससृष्टि धनविभागः
स्रीधनम्
स्रीधनविभागः
विभागकाले निह्नुतस्य पश्चादवगतस्य विभागः
अविभाज्यम्
विभागानधिकारिणेः
विभक्तकृतम्
तत्सन्देह निर्णय
द्यूतसमाह्वयम्
प्रकीर्णकाख्यम्

समाप्तेदं सूचीपत्रम् ।

ॐगणेशाय नमः।

अथ वीरमित्रोदयाख्यधर्म्मशास्त्रं लिख्यते।

तत्रप्रथमं व्यवहाराख्य - प्रकरणम्।

पुरतः प्रविलोक्य भर्गचापम्परतः कामपिकामकार्मुकज्याम्।
पुलकाञ्चितपीनबाहदण्डः कुशलन्नःकुरुताद्रघु-प्रकाण्डः॥ १॥
स्वस्तिश्रीयुतवीरसिंहनृपते राज्ञावशादुत्सुकः
श्रीमिंत्राभिधपण्डितः प्रतिदिशङ्कीर्त्त्यानिशं मण्डितः।
नानानिर्ण-वर्णनं व्यसनिनां सङ्ख्यावताम्प्रीतिदम्
सम्प्राप्तव्यवहारसाधकमिमं कुर्वे प्रकाशम्परम्॥ २॥
उद्वृत्तप्रभवप्रजापरिभवप्राग्भारभङ्गाद्वृता
नन्ताकारमरागमत्सर बुधा-राध्यन्निदिध्यासनैः।
धर्मैकाश्रयमाश्रयं मुनिगिराम-द्धासदुद्धारकम्
प्रस्तौमि व्यवहारमच्युतमिव प्राक्प्रस्तुतम्प्राक्तनैः॥ ३॥
परिभाषापरिष्कारः प्रमाणानान्निरूपणम्।
विवादपदनिर्देशः प्रकीर्णकविवेचनम्॥ ४॥
एवम्प्रकरणान्यत्र चत्वारि प्रथमे पुनः।
लक्षणं व्यवहारस्य निरुक्तिर्मुनिभाषिता॥ ५॥

व्यवहारस्यभेदाश्च स्वलक्षण - विलक्षणाः।
सामान्यतोविशेषाश्च परिभाषाप्रकाशनम्॥ ६॥
सामान्यपरिभाषायां धर्माधिकरणे क्षणम्।
दर्शने व्यवहारस्य राज्ञो विधिविवेचनम्॥ ७॥
प्राड्विवाकस्वरूपञ्च सभापतिसभासदाम्।
निरूपणञ्च सभ्यानां सयुक्तिकबलाबलम्॥ ८॥
केषाञ्चित्सभ्यभिन्नाना-मपिस्थानं सभास्थले।
तत्प्रयोजनमादेयानादेयव्यवहारयोः॥ ९॥
विवेचनमथो कार्य्यंसद्द्रष्टकसभापतेः।
प्रतिज्ञोत्तरहेतूनां पदानां सिद्धिशालिनाम्॥ १०॥
निरूपणमसद्द्रष्टावदष्टौ च सभापतेः।
सद्द्रष्टकस्य दोषोक्तिः सम्यक्दृष्टौ फलाभिधा॥ ११॥
विशेषपरिभाषायां प्रत्यभियोगनिर्णयः।
निह्नवादौ विधिस्तत्र निह्नवादिविवेचनम्॥ १२॥
विलम्ब्योत्तरदानञ्च क्वचिन्नैव विलम्बनम्।
आद्येप्रकरणे त्वर्थाविविच्यन्ते क्रमादमी॥ १३॥
उपोद्घातप्रसङ्गाद्यैरन्येपि तदनुव्रताः।
द्वैतीयीके तु साक्ष्यादि-लक्षणन्तत्रसाक्षिणः॥ १४॥
असाक्षिणस्तत्रहेतुः साक्षिप्रश्नविधिस्ततः।
तद्वैवेनिर्णयःकौट साक्ष्येक्वचिददोषता॥ १५॥
निर्णयो लिखितस्याथ तड्मेदास्तत्परीक्षणम्।
साक्षिणां लिखितस्यापि शब्दत्वेन प्रमाणता॥ १६॥
भुक्तिर्विशेषणान्यस्याअर्थापत्त्यनुमानता।
लौकिकानाम्प्रमाणानामभावे दिव्यभावना॥ १७॥

दिव्यभेदास्तदावस्था देश कालाधिकारिणः।
तन्मातृकास्तद्विशेषविधयो विविधाःक्रमात्॥ १८॥
तेषामपि च शब्दोत्थाऽनुमानत्वेन मानतः।
एतेऽर्थाविव्रियन्ते ऽथोतार्तीयके ततः क्रमात्॥ ११॥
व्यवहारपदा न्यष्टादशोद्दिष्टानि लक्षणम्।
तेषां सामान्यमथ तड्विदानां विविधा विधाः॥ २०॥
एतेऽर्थाःसम्यगुच्यन्ते तुरीये तु प्रकीर्णकम्।
यन्नोक्तमुपयुक्तन्तद्विविच्यप्रतिपाद्यते॥ २१॥

अथ कोऽयं व्यवहारः।

प्रमाणतर्कोपष्टब्धः पक्षप्रतिपक्षपरिग्रह इति चेन्न। बादादेरपि तत्त्वापत्तेः। लिखितादिः प्रमाणविशेषः परिगृह्यतइति चेत्। तत्रापि तत्प्रवृत्त्याविरोधात्। अनुमानाद्यवहिर्भावाच्च तेषामव्यावर्त्तकत्वात्। अतएवान्यविरोधेन स्वसम्बन्धितया कथनमित्यपि परास्तम्। प्रमाणान्तर्भावेण स्वरूपनिरूपणानौचित्याच्च कथनादे-र्व्यवहारपदवाच्यत्वेव्यवहारान्नृपः पश्येदित्याद्यनन्वयाञ्च।उच्यते। ऋणादानादिलौकिकार्थविषया कथैव व्यवहारः। कथाव्यपदेशाभावस्तु शास्त्रीयपदार्थाविषयत्वात्। अधिकरणादिव्यपदेशो यथा वैदिकार्यविषयककथाया-न्तथात्र व्यवहारव्यपदेशः। अतएव यथायथ हेत्वाभासनिग्रहस्थानादियोजनमपि युक्तम्। तच्चतत्रतत्र प्रदर्शयिष्यते। चतुष्पात्वमपि तस्य तदविरोध्येये-त्यप्युपपादयिष्यते। यत्तु गोपालेन तत्वनिर्णयेषु कथात्वाद्वादत्वमेवास्येति मिश्रमतत्वेनोपन्यस्य जयभङ्गफलकत्वात् स्थापनावसानत्वाच्च जल्पमेवायमिति तन्निरस्तन्तद्वयमप्ययुक्तम्। श-

ङ्कातत्वाभियोगभेदेनउभयरूपत्वस्यैव युक्तत्वात्। वैतण्डिकस्य व्यवहारयोग्यत्वादस्य वितण्डत्वम्परमसम्भवि।अन्यविरोधेन स्वसम्बन्धितया कथनमिति विज्ञानयोगिवचोऽप्येवं सति नायुक्तम्। नच पश्येदित्यन्वयः। निर्णयार्थकथनतया सर्वनिवन्धृभि-स्तद्व्याख्यानात्। स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः। आवेदयति चेद्राज्ञेव्यवहारपदं हि तत्। इति याज्ञवल्क्यवचनं यद्यपि व्यवहारपदा-न्यृणादानादीनि सामान्येन लक्षयति तथापि व्यवहारसामान्यलक्षणमपि समानसम्बन्धिमम्बेद्यतया ततः प्रतीयते। तस्यायमर्थः। स्मृत्याचारादि धर्म्मप्रमाणातिक्रान्तरीत्या-न्यैरभिभूतः पूरुषोराजादिभ्योव्यवहारदर्शिभ्यो यद्यावेदयति तर्हि तदा वेद्यमानञ्चतुष्पाद्यवहारस्य पदं विषयः। हीति प्रसिड्वमृणादानादिलक्ष्यत्वेन मन्वाद्युक्तमुपक्षिप्तमिति। एवञ्चाधर्षितस्यार्थित्वमाधर्षकस्य प्रत्यर्थित्वन्तयोर्विवादश्च व्यवहार इति प्रतीयते। इदमेव च मिताक्षरायामन्यविरोधेनेत्यादिना निष्कृष्टमुक्तम्। अन्यविरोधेनेत्यनुक्तेप्रश्नोत्तरादिरूपेण स्वसम्बन्धिकथनमपि व्यवहारःस्यात्। स्वसम्बन्धितयेत्यनुक्तेएकसम्बन्धितया साक्षिणा कथनकन्यविरोधि भवत्येवे-त्यस्याप्यर्थित्वापत्तिरतः स्वसम्बन्धितति। इदं चोत्तरचतुष्टयेऽप्यनुगतम्। नच सम्प्रति पत्तावव्याप्तिः तत्रापि साध्यतया वादिना निर्दिष्टस्य सिद्धतया निर्देशे तद्विरोधपर्य्यवसानात्। अन्यथोत्तरत्वभङ्गप्रसङ्गात्। यत्रापि द्वावपि भाषावादिनौ तत्रापि परस्परविरोधावश्यम्भावान्नाव्याप्तिः। इदं चाग्रे व्यक्तीभविष्यति। यच्च कात्यायनेनोक्तम्।

प्रयत्नसाध्ये विच्छिन्ने धर्माख्ये न्यायविस्तरे।
साध्यमूलस्तु यो वादो व्यवहारः स लक्ष्यते॥ इति।

एतच्च व्यवहारहेतु व्यवहारस्वरूपोक्तिपरतया माधवीयपारिजातादिष्वेवं व्याख्यातम्। विहिताचरणनिपिध्ववर्जनादिप्रयत्नसाध्ये धर्माख्येवस्तुनिविच्छिन्ने विप्लुते सतीति व्यवहारहेतुरुक्तः॥

धर्माधर्मविप्लवस्यैव व्यवहारहेतुत्वात्।

तथा च नारदः।

मनुःप्रजापतिर्यस्मिन् काले राज्यमवृभुजत्।
धर्मैकतानाःपुरुषास्तदासन् स्मृत्यवादिनः।
तदा न व्यवहारोऽभू-न्न द्वेषो नापि मत्सरः।
नष्टेधर्मे मनुष्येषु व्यवहारः प्रवर्त्तत इति।

बृहस्पतिरपि।

धर्मप्रधानाः पुरुषाः पूर्वमासन्न हिंसकाः।
लोभद्वेषाभिभूतानां व्यवहारः प्रवर्त्तत इति।
न्यायेत्यादिना व्यवहारस्वरूपमुक्तम्।

तत्र माधवीयव्याख्यानम्।
न्यायःशिष्टमम्प्रतिपन्नं लौकिकमाचरणं तस्य विस्तर इदं युक्तमिदमयुक्तमिति। उपपत्तिपुरःसरो निर्णयः। तस्मिन् विषयभूते तत्प्रवर्त्तकोऽर्थिप्रत्यर्थिनोः साध्यमूलसाध्यमृणादानादिपदं तन्मूलस्तद्विषयको यो विवादः स व्यवहार इति। मदनरत्नेतु न्यायःप्रमाणन्तस्य विस्तरःप्रवृत्तिर्यस्य तस्मिन्विषय इति। साध्यमूलेत्यादितुल्यम्। मदनरत्नाकरस्मृति चन्द्रिकाकल्पतरुकारैः सर्वमेवेदं वचनं व्यवहारस्वरूपपरतयापि

व्याख्यानमुक्तम्। प्रयत्नसाध्ये कष्टसाध्ये पराभिभवेन स्वेच्छया भोक्तुमशक्ये गृहक्षेत्रादौ सति न्यायः प्रमाणं विस्तार्यते प्रपञ्च्यते यस्मिन् तस्मिन् धर्माधिकरणे सदसि साध्यमूलेत्यादि पूर्ववत्। तेनापि प्रागुक्तमेव विवक्षितमतस्तत्रत्यपदकृत्येनातीव पतितव्यम्। वयन्तु सर्वसप्तम्यन्तसामानाधिकरण्येन व्याचक्ष्महे। विहितानुष्ठानादिगोचरप्रयत्नसाध्ये धर्माख्ये न्यायविस्तरे।नीयतेऽर्थोऽनेनेति न्यायः प्रमाणं श्रुतिस्मृत्यादि विस्तार्यते प्रवर्त्ततेऽस्मिन् श्रुत्यादिप्रमेयइत्यर्थः। विच्छिन्ने विविधच्छिन्ने प्रमाणापरिज्ञानतात्पर्यानवधारणादिना दुज्ञेयेसति। यद्वा।धर्म आख्यायतेऽनेनेति धर्माख्यो धर्मप्रतिपादक इति यावत्। न्यायविस्तरेप्रमाणसमूहे श्रुतिस्मृत्यादौप्रमादादिना विच्छिन्नेलुप्तप्राये सति साध्यमूलेत्यादिगतार्थमिति। हारीतः।

स्वधर्मस्य यथा प्राप्तिः परधर्मस्य वर्जनम्।
न्यायेन क्रियते तत्तु व्यवहारः स उच्यत इति।

न्नायेन प्रमाणेन। एतस्यापि पूर्वोक्त एव तात्पर्यम्॥

इति व्यवहार लक्षणम्॥

निरुक्तिमपि व्यवहारपदस्याऽमुमेवार्थमुपलक्ष्यति। सा च कात्यायनेनोक्ता। विनानार्थेन सन्देहोहरणं हार उच्यते। नानासन्देहहरणाद्व्य वहारइति स्मृत इति।

अथ व्यववारभेदाः नारदः।

सोत्तरोनुत्तरश्चेति सविज्ञेयो द्विलक्षणः।
सोत्तरोभ्यधिको यत्रविलेखात्पूर्बकः पण इति।

यदि पराजयेऽहं तदा पराजयदण्डाभ्यधिकमेतावद्राज्ञेदास्यामीति यत्रलिखनपूर्बकम्प्रतिज्ञायते स सोत्तर इत्यर्थः।

तद्रहितोऽनुत्तर इत्यर्था उक्तम्भवति। स एव त्रयोदशप्रकारनिवन्धनानवान्तरभेदानुद्दिश्य विवृतवान्। यथाह।

चतुष्पाच्च चतुःस्थान चतुःसाधन एव च।
चतुर्हितश्चतुर्व्यापी-चतुष्कारी च कीर्त्तितः।
त्रियोनिर्द्व्यभियोगश्च द्विद्वारर्द्विगतिस्तथा।
अष्टाङ्गोऽष्टादशपदः शतशाखास्तथैव च।
धर्मश्च व्यवहारश्च चरित्रंराजशासनम्।
चतुष्पाद्व्यवहारोऽयमुत्तरःपूर्वबाधकः।
तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिषु।
चरित्रंतु स्वीकरणे राजाज्ञायान्तु शासनम्।
साम्याद्युपायसाध्यत्वाच्चतुः साधन उच्यते।
चतुर्णामपिवर्णानां रक्षणाच्चचतुर्हितः।
कर्तृनथोसाक्षिणश्च सभ्यान् राजानमेव च।
व्याप्नोति यादृशो यस्माच्चतुर्व्यापी ततः स्मृतः।
धर्मस्यार्थस्य यशसोलोकपङ्क्तेस्तथैव च।
चतुर्णाङ्गरणादेव चतुःकारी प्रकीर्त्तितः।
कामात्क्रोधाच्च लोभाच्च त्रिभ्यो यस्मात्प्रवर्त्तते।
त्रियोनिः कीर्त्यते तेन त्रयमेतद्विवादकृत्।
व्द्यभियोगस्तुविज्ञेयः शङ्कातत्त्वाभियोगतः।
शङ्कासतान्तु संसर्गात्तत्वं होडाभिदर्शनात्।
पक्षद्वयाभिसम्बन्धात् द्विद्वारः समुदाहृतः।
पूर्ववादस्तयोः पक्ष प्रतिपक्षस्तदुत्तरः।
भूतच्कूलानुसारित्वात् द्विगतिः समुदाहृतः।
भूतन्तत्वार्थसंयुक्तं प्रमादाभिहितं कूलम्।

राजा स पुरुषः सभ्यः शास्त्रं गणकलेखकौ।
हिरण्यमग्निरुदकमष्टाङ्गः समुदाहृतः।
ऋणादानह्युपनिधिः सम्भूयोत्थानमेव च।
दत्तस्य पुनरादानमशुश्रूषाभ्युपेत्य च।
वेतनस्यानपाकर्म तथैवास्वामिविक्रयः।
विक्रीयासम्प्रदानं च क्रीत्वा-नुशयमेव च।
समयस्यानपाकर्म विवादःक्षेत्रजस्तथा।
स्त्रीपुमयोश्च सम्बन्धो दायभागोऽथसाहसः।
वाक्पारुष्यं तथैवोक्तं दण्डपारुष्यमेव च।
द्यूतम्प्रकीर्णकञ्चैवे त्यष्टादशपदः स्मृतः।
क्रियाभेदान्मनुष्याणां शतशाखो निगद्यते इति।

यद्यपि प्रतिज्ञादीनां वक्ष्यमाणानां साक्षाव्द्यवहारस्वरूपघटकत्वाद्व्यवहारपादकत्वं युक्तम्। धर्म्मादीनान्तु तत्रसत्येस्थितो धर्म इति नारदोक्तप्रकारेणैव निर्णयमात्रहेतुत्वान्न साक्षाव्द्यवहारः पादत्वमर्हम्। याज्ञवल्क्यादिभिरतएव तेषामेव व्यवहारपादत्वमुक्तन्तद्वचनानि त्वग्रेप्रदर्शयिष्यन्ते। तथापि निर्णयाख्यचतुर्थव्यवहारपादहेतुत्वेनगौणमेव व्यवहारपादत्वमेषामत्रोक्तम्। व्यवहारपदेन निर्णय एव वा लक्ष्यते। तद्धेतुत्वन्तत्पादत्वमिति तद्द्रष्टव्यम्। तथा च वृहस्पतिः। धर्म्मादीनां निर्णयहेतुत्वं स्पष्टमेवाह।

धर्मेण व्यवहारेण चरित्रेण नृपाज्ञया।
चतुः प्रकारोऽभिहितः सन्दिग्धेऽर्थेविनिर्णय इति ॥

गौणानामेषान्धर्म्मादिपादानामधिकरणकथनम्। तत्र सत्येस्थितोधर्म इत्यादिना। अत्र माधवीये चरित्रन्तुस्वीकरण

इति पाठं लिखित्वा देशाचारचरित्रंतत्स्वीकारे तदेव निर्णयहेतुरिति व्याख्यातम्। कात्यायनवचनञ्च तत्र।

यद्यदाचर्य्यतेयत्र धर्मं वाऽधर्ममेव वा।
देशस्याचरणे नित्यं चरित्रन्तद्विकीर्त्तितम्॥

चण्डेश्वरेण तु चरित्रन्तु पुस्तकरणमिति पठित्वा पुस्तम्पञ्जिकेत्यर्थः। तत्करणमधिकरणं यस्येति व्याकृतन्तद् गूढिहीनाद्वचनान्तरासम्बादाच्च हेयम्। तेषां निर्णयहेतुत्वं प्रपञ्चितं कात्यायनेन।

दोषाकारी तु कर्तृत्वं धनहारी स्वकं धनम्।
विवादे प्राप्नुयाद्यत्रस धर्मेणैव निर्णयः॥

वाक्पारूष्यस्तेयादिदोपकारी व्यवहारप्रवर्त्तनमन्तरेगौवानुतापादिमा धर्म्माभिमुखोऽधर्माङ्भीतश्च स्वस्य दोषकर्तृत्वं स्वयमभ्युपैति। यत्र धनस्वामीधर्म्माभिमुखादधर्मभीरोश्चाधमर्णादेर्व्यवहारं विनैव स्वकीयं धनमाप्नोति तत्रोभयत्र सम्प्रतिपत्युत्तर इति यावत्। धर्मेणैव निर्णय इत्यर्थः। अतएवोक्तन्तत्र सत्येस्थितोधर्म इति।

स्मृतिशास्त्रन्तु यत्किञ्चित् प्रथितं धर्ममाधकैः।
कार्य्याणां नियमार्थेषु व्यवहारः स्मृतो हि सः॥

धर्मसाधकैः सभ्यैः स्मृतिशास्त्रं साक्ष्यादिक्रियाप्रत्यायकमर्थिप्रत्यर्थिनोःकार्य्यनिर्णयार्थं प्रथितम्प्रख्यापितं यत्र चतुष्पाद्यवहारप्रवर्त्तनेन निर्णयकरणमिति यावत्। तत्र व्यवहारो निर्णयहेतुरित्यर्थः॥ अतएवोक्तम्।व्यवहारस्तु साक्षिषुतिष्ठति।साक्षिग्रहणं प्रमाणोपलक्षणम्।

चरित्रविषयवचनम्पूर्वमेवोपवर्णितम्।
न्यायशास्त्राविरोधेन देशदृष्टेस्तथैव च॥
यन्धर्मंस्थापयेद्राजा न्याय्यन्तद्राजशासनम्।
न्यायशास्त्रं व्यवहारप्रतिपादकं स्मृत्यादिशास्त्रम्।

तदविरोधेन देशदृष्टेर्देशाचारस्याविरोधेनेति। सम्प्रत्यन्तर्गतस्य निष्कृष्यान्वयः राजायं धर्मं स्थापयेदाज्ञापयेत्तन्न्याव्यमुक्तं राजशासनं अन्यदन्याय्यमित्यर्थात्।तादृशशासनानुरोधेन निर्णयः कर्त्तव्य इत्यर्थः। धर्मादीनामुत्तरोत्तरस्य पूर्वपूर्वबाधकमुत्तरत्रविवक्ष्यते। असतां विषये स्तेयादीनां संसर्गात् पारदार्य्यस्तेयादिशङ्कातयाभियोगः। होडालिङ्गं चौर्य्यादिचिह्नन्तद्दर्शनात् साक्षाद्दर्शनं वा होडादर्शनन्तस्मादनेनैव चौर्य्यादिकृतमिति निश्चयरूपेणाभियोगस्तत्वाभियोग इत्यर्थः। हिरण्यग्न्युदकानां यथा सम्भवं व्यवहाराङ्गत्वं अष्टादशपदानां निरूपयिष्यन्ते क्रियाभेदादेकैकव्यवहारपदसम्बन्धि व्यापारभेदा-दनन्तरप्रकारत्वं शाश्वतम्। इति व्यवहारभेदः। अथ सामान्यपरिभाषा।तत्रधर्माधिकरणाख्या सभानिरूपणम्। वृहस्पतिः।

दुर्गमध्ये गृहं कुर्य्याज्जलवृक्षान्वितं पृथक्।
प्राग्दिशि प्राङ्मुखीन्तस्य लक्षण्याङ्कल्पयेत्सभाम्॥
माल्यभूपासनोपेतां वीजरत्नसमन्विताम्।
प्रतिमालेख्यदेवैश्च युक्तामग्न्यम्बुना तथेति॥
लक्षण्यां वास्तुशास्त्रोक्तं लक्षणेन तु लक्षिताम्।

अग्न्यम्बुनेति समाहारद्वन्द्वः। सभायां धर्माधिकरणत्वङ्कात्यायन आह।

धर्मशास्त्रानुसारेण अर्थशास्त्रविवेचनम्।
यत्राधिक्रियते स्थाने धर्माधिकरणं हि तदिति।

तत्र सभ्योपवेशनमाह मनुः।

यस्मिन्देशे निषीदन्ति विप्रा वेदविदस्त्रयः।
राज्ञश्चाधिकृतोविद्वान् ब्राह्मणस्तां सभां विदुरिति॥

त्रय इत्युपलक्षणम्।अधिकानामपि स्मृतत्वात्। तच्च वक्ष्यते। अधिकृतोविद्वान् प्राड्विवाकः अत्र प्रविशेत्सभाम्। सभामेव प्रविश्येदित्यादिवचनात् सभामुख्यं व्यवहारदर्शनस्थानम्। अन्यान्यथ मुख्यानि व्यवहारवचनादवगन्तव्यानि।

देशस्थानानि वादानां पञ्च चैवाब्रवीड्भृगुःगुः।
निर्णयं येन गच्छन्ति विवादं प्राप्यवादिनः॥
आरण्यास्तुस्वकैः कुर्य्यः सार्थिकाः सार्थिकैस्तथा।
सैनिकाः सैनिकैरेव ग्रामेऽप्युभयवासिभिः॥
उभयानुमतञ्चैव गृह्यते स्थानमीभितम्।
कुलिकाः सार्थमुख्याश्च पुरग्रामनिवासिनः॥
ग्रामपौरगणश्रेण्यश्चातुर्विद्यञ्च वर्गिणः।
कुलानि कुलिकाश्चैव नियुक्ता नृपतिस्तथेति॥

स्वकै रारण्यकैः ग्रामेऽपीत्यपि शब्दाद्ये ग्रामेऽरण्यादौ चनिवसन्ति ते उभयवासिभि र्निर्णयं कुर्य्यरुभयव्यवहाराभिज्ञत्वात्तेषां कुलिकाः कुलश्रेष्ठाः। सार्थो ग्रामदेवयात्रादौ मिलितो जनसङ्घः तन्मुख्याः सार्थवाहादयः।पुरं मुख्यनगरम्। तस्मादर्व्वाचीनो ग्राम इति पुरग्रामनिवासिनोर्भेदसार्थः कुलिकादीनि पञ्चस्थानानि तानि चारण्यकादीनामेवअग्रामादीनि

दशस्थानानि साधारणानि।ग्रामो ग्रामाकारेणावस्थितोजनः। पौरःपुरवासिनां समूहः।

श्रेण्यो रजकाद्यष्टादश हीनजातयः।
चातुर्विद्यःआन्विक्षिक्यादिविद्याचतुष्टयोपेतः।

वर्गिणोगणप्रभृतयः। इति सभानिरूपणम्। अथ व्यवहारदर्शनविधिः। तत्र मनुः।

व्यवहारान् दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः।
मन्त्रज्ञैर्मन्त्रिभिश्चैव विनीतः प्रविशेत्सभाम्॥
तत्रासीनः स्थितो वापि पाणिमुद्यम्यदक्षिणम्।
विनीतवेषाभरणः पश्येत्कार्य्याणि कार्य्यिणाम्॥
प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्चहेतुभिः।
अष्टादशसुमार्गेषु निवद्धानि पृथक् पृथक्॥
धर्मासनमधिष्ठाय सम्बीताङ्गः समाहितः।
प्रणम्य लोकपालेभ्यः कार्य्यदर्शनमारभेदिति॥

व्यवहारान् पूर्वलक्षितान्दिदृक्षुर्निर्णिनीषुः।पार्थिवोऽभिषिक्तक्षत्रियः।तमेवाधिकृत्य प्रजापालनव्यवहारदर्शनादिविधानात्। यथावृत्तो भवेन्नृप इत्यादिषु।नृपग्रहणात्तु अन्यस्यापि तत्स्थानापन्नस्य प्रजापालनौपयिकं धर्मजातम्भवतीति गम्यते। आसीन स्थितो वेति सामर्थ्याद्यनुसारेण पूज्यापूजार्थि प्रत्यर्श्यपेक्षया वा व्यवस्थितो विकल्पः। दक्षिणपाण्युद्यमनं कार्यिणामवधानबोधनार्थम्।विनीतवेषाभरणत्वन्तेषामपि प्रतिभा निवृत्यर्थमुपात्तम्। प्रत्यहमित्यनेनाह्निकवव्यवहारदर्शनस्यावश्यकतोक्ता। देशदृष्टाःश्रुतिस्मृत्यनुक्ता अपि देशाचाररूपास्तदविरुड्वा हेतवो युक्तिकलापाः। यथो-

दोक्ष्यमध्यमानां कन्यां याचितुमागताय भोजनदानं कन्याप्रतिश्रवणप्रतिबद्धमतस्तस्मिन् कृते अवश्यं तस्मै कन्यादातव्येति निर्णेतव्यम्। एवमन्यदप्यूह्यम्।यथाह कात्यायनः।

यस्य देशस्य यो धर्मः प्रवृत्तःसार्वकालिकः।
श्रुतिस्मृत्यनुरोधेन देशदृष्टः स उच्यत इति ॥

मार्गेषु व्यवहारपदेषु। निबद्धानि सम्बद्धानि धर्मनिर्णयोपयोगित्वाद्धर्मासनम्। सम्बीताङ्गो वस्वाद्या वृतशरीर इत्यनेन नीतिशास्त्रोक्तं कर्मणादिपरिहारोपयोगि सर्वमुपलक्षितम्। समाहितो विक्षेपशून्यः। विक्षेपदशायान्तत्वप्रतिभासायोग्यत्वाच्चितस्य लोकपालप्रमाणोऽपि तदुपयोगी। याज्ञवल्क्यः। व्यवहारान्नृपः पश्येद्विद्वभिर्ब्राह्मणैः सह।

धर्मशास्त्रानुसारेण क्रोधलोभविवर्जित इति।

अत्र व्यवहारान् स्वयम्पश्येत्सभ्यैः परिवृतोऽन्वहमित्यनेनैव याज्ञवल्क्येन विहितस्य व्यवहारदर्शनस्यानुवादो ब्राह्मणसाहित्यादि विधानार्थः। ब्राह्मणग्रहण क्षत्रियादिव्युदासाय।

सहयुक्तेऽप्रधान इति व्याकरणस्मृतेः।
सहार्थ तृतीययतेषामप्राधान्यं गम्यते इति ॥

तत्प्रयोजनमदर्शनान्यथादर्शनयो र्नतेषां दोषः। किन्तु - राज्ञ एवेति बोधनम्। धर्मशास्त्रानुसारेणेत्यनेनैव क्रोधलोभविवर्जिते सिद्धे तद्वर्जनोपादानं कोषलोभाभ्यामदर्शनान्यथादर्शनयो-र्द्दोषातिशयप्रदर्शनार्थम्। न च क्रियानुवादेनानेकगुणविधाने वाक्यभेदः। दर्शनकर्त्तृतया वाक्यान्तरप्राप्ते तावद्विशेषणवैशिष्टस्यैकार्थस्य बोधनात्तदनापत्तेः। पोरुषेयवाक्ये तात्पर्य्यानुरोधेन तस्यादोषत्वाच्च। नतुसर्वे-

ऽपि व्यवहारदर्शनविधयो न तावत्केवलादृष्टार्थः। प्रजापालनौपयिकदुष्टादुष्टपरिज्ञानस्यदृष्टस्यावश्यकत्वात्। अतएव विज्ञानेश्वरः। अभिषेकादिगुणयुक्तस्य राज्ञः प्रजापालनम्परमो धर्मस्तच्चदुष्टनिग्रहं विना न सम्भवति। तत्परिज्ञानञ्च व्यवहारदर्शनं विनेति व्यवहारदर्शनमहरहः कर्त्तव्यमित्युतम्। व्यवहारान् स्वयं पश्येदित्यादि। नच तदेव फलमिति वाच्यम्। स्वर्गादिफलस्यादर्शनान्यथादर्शनयोः प्रत्यवायस्य वचनान्तरैर्बोधनात्। तथाच कात्यायनः।

सप्राड्विवाकः सामात्यः सब्राह्मणपुरोहितः।
ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्मतः॥ इति

अत्र ब्राह्मणपुरोहितशब्देन अनियुक्तानान्तेषां ग्रहणम्।सभ्यशब्देन नियुक्तानाम्। वृहस्पतिरपि।

विप्रो धर्मद्रुमस्यादिः स्कन्धशाखे महीपतिः।
सचिवाःपत्रपुष्पाणि फलंन्यायेन पालनम्॥
यशोवित्तं फलरसो भोगोपग्रहपूजनम्।
अजेयत्वं लोकपंक्तिः स्वर्गे स्थानञ्च शाश्वतम्॥
विदित्वैतान्न्यायरसान् समो भूत्वा विवादनम्।

त्यक्तलोभादिकं राजा धर्मंकुर्य्या-द्विनिर्णयमिति॥

न्यायरगान् व्यवहारदर्शनफलानि। प्रत्यवायोऽपि मनुनोक्तः।

विद्धोधर्मोह्यधर्मेण सभां यत्नोपतिष्ठते।
शल्यं चास्य निकृन्तन्ति विद्धास्तत्रसभासदः॥
पादोऽधर्मस्य कर्त्तारम्पादः साक्षिणमृच्छति।
पादः सभासदः सर्वान् पादो राजानमृच्छति॥

कर्त्तृसमपापाःसर्वे भवन्तीति तात्पर्यम्। नन्वन्यपापस्यान्यत्रसंक्रमसम्भवः।नारदोऽपि।

न्यायमार्गादपेतन्तु ज्ञात्वा चित्तं महीपतेः।
वक्तव्यं तत्प्रियन्नात्रन सभ्यः किल्विषी भवेत्॥

तत्प्रियं न वक्तव्यं राज्ञः मनोऽनुकूलमेव न वाच्यम्।किन्तु न्याय्य एवं सति सभ्यो न किल्विषी भवेदिति नञ् द्वयान्वयः।

अधर्मतः प्रवृत्तन्तं नोपेक्षेरन् सभासदः।
उपेक्ष्यमाणाः सनृपा नरकंयान्त्यधोमुखाः॥
अन्यायेनापि तं यान्तं येऽनुयान्ति सभासदः।
तेऽपि तद्भागिनस्तस्माद्बोधनीयः स तैर्न्नृप इति॥

मनुः। राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः।

एनो गच्छति कर्त्तारन्निन्दार्होयत्न निन्द्यत इति॥

किञ्च दुष्टापरिज्ञानोपात्रेष्वनेकेषु प्राप्तेषु विधावस्मिन्नभ्युपगम्यमानेऽयं नियमविधिः। स्वर्गादिफलप्रत्यवायपरिहारयोर्भव्यत्वेऽपूर्वविधिरिति वैरुप्यञ्चापद्यते। व्यवहारदर्शनमात्रोपायकत्वं यदि दुष्टादुष्टपरिज्ञानस्य तर्हि तदर्थतयाऽनुष्ठानार्थतया ज्ञानस्येति विधिर्व्यर्थः। अथ यथा भट्टसोमेश्वरेणानुष्ठानं विनाभूतस्यापि ज्ञानस्य विध्यधीनाङ्गत्वनिर्वाहाय यदेव विद्ययेत्यादि वाक्येन कर्मार्थतथा विधिरभ्युपगतो यथाच मिश्रादिभिर्लिङ्गादे वाङ्गत्वं ज्ञानस्येत्युक्तम्। तथा व्यवहारदर्शनस्य तदविनाभावेऽपि विधिरभ्युपेयताम्। नैवंकर्मानुष्ठानस्यापूर्वसाधनत्वा त्तात्पर्य्यवसायिज्ञानविधिरविनाभावेऽप्यस्तु। दुष्टादुष्टपरिज्ञानस्य तु तदभावान्नाङ्गापेक्षेति

वैषम्यम्।नचास्यापि प्रजापालनमदृष्टार्थमुपकुर्वतः परम्परयास्त्येवापूर्वपर्य्यवसानमित्यस्त्वङ्गत्वार्थम् एव विधिरिति वाच्यम्।एवमपूर्वपर्यवसायिविधिसम्भवेऽपि श्रुत्याद्यभावेऽनारभ्यविधेरङ्गत्वाबोधकत्वात्।अन्यथाध्ययनाध्यापनयोरप्यङ्गत्वापत्तेः।ज्ञानस्य तु वाक्यादेवाङ्गत्वं यदेव करोतीति श्रवणात्।येन कर्मणेच्छेत्तत्रजयातुजुहुयात्।

एवं विनायकम्पूज्यग्रहांश्चैव विधानतः।

कर्मणां फलप्राप्नोति इति च श्रवणा ज्जपहोमविनायकस्तपनग्रहयज्ञानामिव शूद्राद्यधिकारनिवृत्तिश्च तद्विधिबोधिताध्ययनोपायकज्ञानाग्निलाभ उपायान्तरस्य ज्ञानाग्निद्वारकक्षेपप्रतिक्षेपात्।प्रजापालनं परं ज्योतिष्टोमाद्यपूर्वमेव स्वफलापूर्वञ्जनयतीत्यन्यदेतत्।अत्रब्रूमः।व्यवहारदर्शनोत्पत्तावेव विधेस्तात्पर्य्यम्।अन्ये तु विधयस्तस्य निमित्तफलोपाधिभेदेनाधिकारविषयः प्रयोगभेदश्चाग्निहोत्रं जुहोतीत्युत्पन्नस्य यावज्जीवस्य अग्निहोत्रंजुहुयात्।अग्निहोत्रंजुहुयात् स्वर्गकाम इत्यत्रेव।अतो न वैरुप्यादिदोषः।दृष्टार्थतया तु न विधिरयं प्रमाणान्तरसिद्धत्वात्तस्याः यद्यपि व्यवहारशास्त्रेन्यायसिद्धानुवादका एव प्रायो विधय इत्येतस्यापि तथात्वेन वाधकन्तथापि विधित्वे सम्भवत्यनुवादत्वमङ्गीकर्तुमनर्हम्।यत्र तु तदसम्भवस्तत्रतदेवाश्रियते व्यवहारशास्त्रत्वादिति सकलनिबन्धस्वरसायातः समाधिः दुष्टादुष्टपरिज्ञाने तु यद्युपायान्तरप्राप्ताव्यवहारदर्शनस्य पाक्षिकत्वं तदास्य नियमविधित्वमेवाध्यापनादिविधीनामिवार्जनोपायतया तद्वदेवोपायान्तरादुर्जने प्रत्यवायकल्पनवदु-

पायान्तरात् दुष्टादुष्टपरीक्षया प्रजापालनेत्यवसेयम्। स्मृत्यादीनाञ्च त्रैवर्णिकचातुर्वर्ण्याधिकारिकत्वात्। म्लेच्छादीनां ययाकथञ्चिदुष्टादुष्टपरिज्ञानेन प्रजापालनेऽपि न क्षतिः। प्रजापालनविधेरप्यभिषिक्तक्षत्रियाधिकारिकत्वादन्येषान्तत्रफलाभावेनाप्रवृत्तिः। दृष्टादृष्यादि लाभार्थं कथञ्चित्प्रवृत्तावपि तस्माद्धर्म्माभावप्रसङ्गोऽन्यया दर्शनादर्शनन्यायप्रवृत्यादिना प्रत्यवायाभावापत्तिश्चेति वक्तव्यम्। दयाहिंसादि साधारणधर्म्मान्तर्भावेण प्रजापालनस्य तेषामपि धर्मजनकत्वात्। नृपपदेन तत्संग्रहसम्भवाच्च। तस्मादयमत निष्कर्षः। उत्सर्गापवादादिमूलभूतान्वयव्यतिरेकादिन्यायमूलकता यत्रसम्भवति तादृशव्यवहारशास्त्रस्य सर्व्वस्य न मूलकता कल्प्यते। यदंशे तदसम्भवस्तत्रादृष्टार्थकतया वेद एवमूलं कल्प्यते। वास्तुसामुद्रिकादिविधिषु ज्योतिःशास्त्रायुर्वेदप्रामाण्यव्यवस्थापकप्रमङ्गेनाचार्य्यैःस्मृत्यधिकरणे व्यक्तमेव एतत्प्रपञ्चितम्। अतएवार्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिरित्युक्तम्।वचनविरोधे न्यायस्यवाधत्वादर्थशास्त्रस्य च तन्मूलकत्वात्।यत्तु स्मृत्योर्विरोधे न्यायस्तु बलवान् व्यवहारत इति वचनं तस्यायमाशयः न्यायानुपष्टब्धस्मृत्यपेक्षया न्यायोपष्टब्धास्मृतिर्बलवतीति न्यायानुपष्टब्धस्मृतेस्तात्पर्य्यान्तरकल्पनाकार्य्येति। तस्य चोत्सर्गपवादविषयव्यवस्थाविकल्पादिरूपस्य न्यायस्य प्रत्यायकं हेतुमाह। व्यवहारत इति। वृद्धव्यवहारादन्वयव्यतिरेकादि रूपादनादि व्युत्पत्या परपर्य्यायान्न्यायोप्रत्येतव्य इत्यर्थः।

नारदोऽपि। धर्मशास्त्रविरोधे तु युक्तियुक्तोविधिः स्मृत इति।

धर्मशास्त्रयोर्विरोधेयुक्तिर्न्यायः। न्यायपर्य्यालोचनाभावे सोपपत्तिकन्दोषमाह। वृहस्पतिः।

केवलं शास्त्रमाश्रित्यन कर्त्तव्यो हि निर्णयः।
युक्तिहीनविचारे हि धर्महानिः प्रजायते॥
चोरोऽचोरःसाध्वसाधु र्जायते व्यवहारतः।
युक्तिं विना विचारेण माण्डव्यश्चोरताङ्गतः॥
असत्यासत्यसदृशाःसत्याश्चासत्यसन्निभाः॥
दृश्यन्ते भ्रान्तिजनकास्तस्माद्युक्त्या विचारयेत्।

साध्वसाधुरिति छान्दसः सुलोपः।साधुरमाधुरित्यर्थः। व्यवहारतो निर्युक्तिकात्। अर्थशास्त्रं चात्रधर्मशास्त्रान्तर्गतमेव नीतिव्यवहारशास्वरूपं गृह्यते। औशनसाद्यर्थशास्रस्यधर्मशास्त्रानुसारिणेत्यनेनैव निरस्तत्वात्। विरोधोदाहरणन्तु।

हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरायत।

अतो यदेतत्प्राप्तावित्यर्थशास्त्र धर्मशास्त्रानुसारेण क्रोधलोभविवर्जित इति धर्मशास्त्रम्।अनयोश्च क्वचिच्चतुष्पाद्यवहारे प्रवर्त्त्यमाने विरोध आपतति।कदचित्प्रमाणतः परालयार्हस्य कूलादिना जयेऽवधार्यमाणे सोऽत्यन्तमैत्रीयोग्यो मित्रं लभ्यते। अन्यस्य तदवधारणे धर्मलाभो धर्मपरिहारश्च सत्यवादित्वात्।

तत्रमित्रलाभमनपेक्ष्यधर्म एवानुरोद्धव्यः।

द्वयोः प्रमाणयोरेककतृकत्वेन तुल्यवलत्वेऽपि प्रमेययोरर्थ धर्मयोर्धर्मस्य प्राबल्यात्। प्रमाणबलाबलवैपरीत्येऽपि प्रमेयबलाबलानुरोधेन तस्य बाध्यत्वेन शिष्टाकोपनयेव्यवस्थितत्वात्। किमुत समानबलाबलत्वे अतएव धर्मार्थसन्निपातेऽर्थग्राहिण

एतदेवेति धर्मविरुद्धार्थग्रहण आपस्तम्बेनैतच्छब्दपरामृष्ट द्वादशवार्षिकं प्रायश्चित्तमुपदिष्टम्। केचित्तु।

गुरुं वा बालवृद्धौवा ब्राह्मणं वा बहुश्रुतम्।
आततायिनमायान्तं हन्यादेवाविचारयन्॥
नाततायिवधेदोषो हन्तुर्भवति कश्चन।
प्रच्छन्नं वा प्रकाशं वा मन्युस्तं मन्युमृच्छति॥

मन्युःक्रोधोमन्युं हन्ति न तु पुरुषःपुरुवान्तर मित्यर्थवादः। तथा।आततायिनमायान्त मपि वेदान्तिगं रणे।

जिघांसन्तञ्जिघांसीयान्न तेन ब्रह्महा भवेत्॥
जिघांसीयात् सन्नियाद्गच्छेदित्यर्थः इत्यादि।
अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः।
क्षेत्रदारहरश्चैव षडेते आततायिनः॥

धनग्रहणेन प्राप्तावपि पृथक् क्षेत्रग्रहणन्त्वल्पस्यापि क्षेत्रस्य शासनाद्यारूढस्य हर्त्ता धनस्य च बहुतरस्य येन वृत्तिच्छेद एव भवति तावतो हर्त्ताततायीति द्रष्टव्यम्।

तथा। उद्यतासिविषाग्निश्च शापोद्यतकरस्तथा।

आथर्वणेन हन्ता च पिशुनश्चापि राजनि॥

यदभिधानेनावश्यंप्राणाव्ययो भवतीति तादृश्यपैशून्यस्य राजगामिनः कर्त्ता।

भार्य्यातिक्रमकारी च रन्ध्रान्वेषणतत्परः।
एवमाद्यान् विजानीयात् सर्व्वानेवाततायिनः॥

एवमाद्यामित्यनेन बधतुल्यस्वपीड़ाकारिण इत्युक्तम्भवति। उद्यतादिपदसमभिव्यवहारात् प्रवृत्तक्रिया एवाततायिनो न

भूतभावि किया। एतेषामाततायिनां बधे दोषाभावप्रतिपादकं वचनकदम्बकमर्थशास्त्रम्। आत्मरक्षणार्थत्वात्।

इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम्।
कामतो ब्राह्मणबधैर्निष्कृतिर्न विधीयत ॥

इत्यादि धर्मशास्त्रम्।

दृष्टार्थत्वाभावात्। अनयोर्विरोधेसम्भवत्यपिआतताय्यनाततायिविषयत्वेन सामान्यविशेषभावेन वाध्यबाधकभावविपर्यये धर्मशास्रत्वात्सामान्यशास्त्रमेव बलवत्। आततायिवधेदोषाभावप्रतिपादनन्तु कथञ्चिदन्यथात्मरक्षणासम्भवे आततायिवधमात्मरक्षणार्थं कुर्वतोऽनपराधत्वाद्राजदण्डाभावमात्रपरमर्थशास्त्रत्वात्। दुर्बलमित्युदाहरणमर्थशास्त्रधर्मशास्त्रयोर्विरोधःस्यात्। अत्रविज्ञानेश्वरः। दोषाभावमाततायिबधे प्रतिपादयतां गुरुं वेत्यादिवचसांविध्यन्तरशेषत्वादपिशब्द वाशब्दादीनां विधिशक्तिप्रतिबन्धकानांश्रवणाच्च न स्वार्थपरत्वं किन्तु शस्त्र द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यत इत्युपक्रम्य।

आत्मनश्च परित्राणे दक्षिणानाञ्च सङ्गरे।
स्त्रीविप्राभ्युपपत्तौ च घ्नन् धर्मेण न दुष्यति ॥ इति ॥

आत्मारक्षणे दक्षिणादीनां यज्ञोपकरणानां रक्षणेयुद्धे च स्त्री विप्रानुग्रहनिमित्तञ्चाततायिनमकूटशस्त्रेन घ्नन्नदोषभागिति दण्डाभावमुक्त्वा तदर्थवादोऽयमुच्यते। गुरुम्वेत्यादि गुर्वादीनत्यन्तावध्यानप्याततायिनो घ्नतो नदोषः। किमुततदन्यानिति कैमुतिकन्यायेन स्तुतिप्रतीतेर्न गुर्वादीनां

बध्यत्वप्रतीतिः। स्वार्थपरत्व एषांवचसां नाततायिबधेदोषोऽन्यत्र गोब्राह्मणादिति सुमन्तुवचनविरोधश्च। यच्च ।

आचार्यञ्चप्रवक्तारंमातरं पितरं गुरुम्।
न हिंस्याद्ब्राह्मणान् गाश्चसर्वांश्चैव तपस्विनः॥

इति मनुवचनम्।
तदपि ब्राह्मणादिहननस्य वचनान्तरैरेव निषिद्धत्वादाततायिनामपि तेषां वधो न कार्य इति।अर्थकत्व एवार्थवदिति।तद्विरोधोऽपि गुर्वाद्याततायिबधस्य दोषो जनकत्वे। ननु गुरुं वेत्यादि वचसां त्वन्मते स्तुतिपरत्वेनाततायिबधदोषाभावा प्रतिपादकत्वादप्रमक्तदोषा- भावप्रतिप्रसववैयर्थ्यमित्यनाततयिनामेव तेषां वधे दोषातिशयप्रतिपादनार्थत्वेन मानवस्यार्थवत्वमिति न तद्विरोध इति चेत्।मैवम्।यस्य मते तेषां वचनाना-माततायिबधे दोषाभावप्रतिपादकत्वं तं प्रति प्रतिप्रसवार्थत्वापादने विरोधपादने विज्ञानेश्वरतात्पर्यात् तर्हि तस्य भवन्मते दोषातिशयार्थत्वावश्यम्भावात्तन्तेऽपि तथैवास्तु। क्वचिद्विरोध इति चेत्।भ्रान्तेसि।उभयत्रगुर्वाद्युपादाने विरोधप्रसक्ते-रपरिहार्यत्वात्।विज्ञानेश्वरमतेत्वर्थवादकल्पायो-रन्यगत्यसम्भवे हिंसानभिसन्धिनात्मरक्षणे प्रमादोपजात-गुर्वाद्याततायिभिन्नाततायिबधेराजदण्डाभावलघुप्राय श्चित्तयो र्गुर्वादिविषये अपवादार्थमनुवचनमित्यदोषः। वस्तुतस्तु शस्त्रं द्विजातिभिर्ग्राह्यमित्यनेनोक्तस्याततायिबधे दोषाभावस्य प्रायश्चित्तराजदण्डाभावयोश्चाच्चार्यादिविषयेऽपवादार्थं मानवम्।आततायिवधेदोषाभावश्च पलायनादिना केनापि प्रकारान्तरेणात्मरक्षणासम्भवे बोध्यः।अन्यथा वचनस्वा-

दृष्टार्थत्वं हिंसादोषप्रतिपादकशास्त्रस्याततायिदोषेऽत्यन्तबाधश्चेत्युभयमप्यन्यायमापद्येत। गुर्वादिविषयकदोषाभावश्च प्रतिपादकार्थवादस्य वा नाततायिगुर्वादिबधापेक्षयाततायि-तद्बधेदोषाल्पत्वप्रायश्चित्ताल्पत्वे राजदण्डाभावश्चेत्यलं वचनानि स्तुत्युपयोगिगुणवाद इति। अत्रभट्टभवदेवः।

स्वाध्यायिनं कुले जातं हन्यादेवाततायिनम्।
न तेन ब्रह्महा सःस्यान्मन्युस्तं मन्युमृच्छतीति॥

वसिष्ठवचनात्तदेकवाक्यतया वा शब्दादिश्रवणेऽपि गुर्वादिवाक्यानां प्रतिप्रसवविधित्वमेव नत्वर्थवादत्वम्। नच सुमन्तु वचनेनाततायिबधदोषोऽन्यत्र गोब्राह्मणादित्यनेन विरोधः। सूत्रकेदापरिज्ञानात्। तथाहि। सूत्रत्रयमिदम्। आततायिवधेनेत्येकम् १। दोषोऽन्यत्रेत्यपरम् २।गोब्राह्मणात्स्त्रातः प्रायश्चित्तं कुर्य्यादित्यन्यत् ३। तत्रब्रह्मबधप्रायश्चित्तमुक्त्वायस्तैःसम्बन्धं कुर्य्यात्तस्याप्येतदेव प्रायश्चित्तमित्यभिधाय सुमन्तुराह।आततायिनो ब्राह्मणस्य बधे कृते न प्रायश्चित्तमिति प्रथमस्यसूत्रस्थार्थः।दोषोऽन्यत्र।आततायिव्यतिरिक्तेदोष इति द्वितीयस्य।गो ब्राह्मणात् स्नातः प्रायश्चितं कुर्य्यादिति प्रायश्चित्ताङ्गस्नानविधायकम्।तत्रगो हेतुकंस्रानम्।व्यास आह।

श्रूयन्तेयानि तीर्थानि त्रिषु लोकेषु नित्यशः।
अभिषेकःसमस्तेषाङ्गवां शृङ्गोदकस्य चेति॥
ब्राह्मणशब्देनात्रविधायकं वाक्यमुच्यते।
तद्हेतुकं स्नानमधमर्षणादिजपादिपूर्वकम्॥

द्वन्दैकवद्भावश्च गो ब्राह्मणादिति। तेन गो हेतुकब्रा-

ब्राह्मणहेतुकस्रानाभ्यां प्रायश्चित्ताधिकारी भवति न स्नानमात्रेणेति तृतीयस्येति। यदपि भविष्यपुराणवचनम्।

हत्वातु प्रहरन्तं वै ब्राह्मणं वेदपारगम्।
कामतोऽपि चरेद्वीर द्वादशाब्दाख्यमुत्तममिति।

तदपि नाततायिबधविषयम्। प्रहारशब्दस्य बधायकत्वात् तेनायमर्थः। यश्चक्षुराद्यवयवानाम्प्रकर्षेण हरणे प्रवृत्तेस्तद्वधेऽपि कामतोऽपि द्वादशवार्षिकमेव प्रायश्चित्तमित्यर्थ इत्याह। तदयुक्तम्। आचार्य्यंचेत्यस्य मानवस्योक्तयुक्तिबलादाततायि आचार्य्यादिवधेदोष प्रतिप्रसवार्थत्वस्या पापादित्वात्तदेकमूलतया सुमन्तवचनस्य मिताक्षरोक्तच्छेदेनैव व्याख्यातुमर्हत्वात्। त्वदुक्तच्छेदे दोषोऽन्यत्रेत्यस्य वैयर्थ्यापत्तेश्च। गोब्राह्मणादित्यस्य स्नानहेतुत्वे पञ्चमीति व्याख्याने गोशब्दस्यावयविवाचकस्याऽवयवशृङ्गलक्षणायां लक्षितलक्षणापत्तेः। गोस्नानार्हेतुत्वात्। ब्राह्मणस्य ज्ञापकहेतुत्वाद्गोश्च कारकहेतुत्वस्य क्लिष्टस्य ग्रहणाद्वैरूप्यादिदोषप्रसङ्गाश्च। यदपि भविष्यपुराणीयवचनव्याख्यान-न्तत्वन्तवहिर्मुद्रम्।ताडनादिवधपर्य्यन्तन्तद्देहपीडने रूढस्य प्रहरतेश्चक्षुराद्यवयवप्राकर्षणहरणे योगग्रहणस्य रथकारनयविपरीतत्वात्। किञ्च। चक्षुराद्यवयवोद्धरण- प्रवृत्तब्राह्मणवधे कामकृतेऽपि द्वादशाब्दमेव ब्रह्मवधप्रायश्चित्तं नतु कामकृताऽन्य ब्रह्मवधवत्प्रायश्चित्तद्वैगुण्यं मरणान्तिकं वेत्यस्यैतद्वच- नादिसंहितस्य प्रायश्चित्तहामप्रयोजकदोषाल्पत्वस्याततायित्वमेव निमित्तमन्यासम्भवाच्छूस्त्रपाणित्वे नाततायित्वन्तस्यैव सत्वाच्च। तथाच नाततायिविषय-

मिदमित्यसम्बन्धं आततायिन्यदोषोऽन्यत्र।गोब्राह्मणं यदा हन्यात् तदा प्रायश्चित्तं कुर्य्यात्।

शिखावानपि गोविग्रंन हन्याद्वैकदाचन।

इत्याभ्यां सवर्त्तभविष्यवचनाभ्यां विरोधस्य सर्वथादुष्परिहरत्वाच्च विध्यन्तरशेषभूतस्य विधिशक्तिप्रतिबन्धकापि शब्दादिमनोर्गुर्वादिवाक्यप्रतिप्रसवविधित्वस्याभ्युपगन्तुमशक्यत्वाच्च। नच विध्यशेषभूतानां वसिष्ठादिवचसामर्थवादत्वमसम्भवतीति गुरवेत्या- दीनमपि नार्थवादत्वं विध्यन्तरशेषत्वात्तेषामर्थवादत्वेऽपि वास्मदभिप्रेतत्वार्थसिद्धेर्वचनान्तरैः परतन्त्रैरुरीकृतत्वान्नक्षतिरिति वाच्यम्। यतस्तेषामपि गोब्राह्मणाद्याततायिवधदोषप्रतिपादकबहुतरवचनान्तरविरोधाद्दोषाल्पत्वप्रतिपादकतैवतदेकमूलकता लाभायोचिताऽन्यथा।दुःपरिहरत्वाद्विरोध स्येत्येतास्तु विस्तरः।

शूलपाणिस्तु।नाततायिवधे दोषात् किल्विषं प्राप्नुर्यात् क्वचित्। विनाशार्थिनमायान्तं घातयन्नापराध्नुयादिति॥
वृहस्पतिवचनम्।

आततायिवधस्थादोषताप्रमाणत्वेनोपन्यस्य किल्विषाभावः प्रायश्चित्तनिषेधार्थः। अपराधावस्तु दण्डनिषेधार्थ इति च व्याख्यापयतसर्वत आत्मानं गोपायेदिति श्रुतिमूलकमिदमतः पलायनादिनाप्यात्मरक्षणासम्भवपरमिति तत्तापर्य्यमुपवर्ण्य गुरवेत्यादि मन्वादिवचनान्यपि तदुपष्टम्भकतया प्रदर्श्यआततायिन्यदोष इत्यादिसंवर्त्तवचनं शिखावानित्यादिभविष्यवचनं च पूर्वोक्तन्तद्विरोधित्वेनाशङ्क्यव्यवस्थामेव मुक्तवान्।

हन्त्रपेक्षया तपोविद्याजातिकुलैरुत्कृष्टो ब्राह्मणगुर्व्वादिराततायि न वध्यः।समोऽपकृष्टञ्च वध्यः।तथा च कात्यायनः।

आततायिनि चोत्कृष्टे तपः स्वाध्याय जन्मतः।
वधस्तत्रतु नैव स्यात् पापं हि न वधेतु नेति॥

अतएव गीतायामुक्तम्।

पापमेवाश्रयेदस्मान् हत्वैतानाततायिन॥ इति॥

एतान्भीष्म्मादीनस्मत्तोऽत्यन्तोत्कृष्टा-नाततायिनोऽपि हत्वाऽस्मान् पापमेवाश्रयेदेवेत्यर्थः। उत्कृष्टाततायिहननान्निवृत्तौ फलमप्युक्तं वृहस्पतिना।

आततायिनमुत्कृष्टं वृत्तखाध्यायसंयुतम्।
यो न हन्याद्वधप्राप्तं सोश्वमेधफलं लभेदिति॥

तेनोत्कृष्टाततायिवधनिवृत्तौ तद्वधप्रसक्तप्रत्यवायपरिहारोऽश्वमेधफलञ्च संयोगपृथक्तानपायात्।यद्यपि गुरुं बहुश्रुतं हन्यादिति श्रूयतेगुरोश्च शिष्यापेक्षयोत्कृष्टत्वमेवेति तत्र व्यवस्थेयं दुःखस्था तथापि गुरोरपि सकाशात् कुलविद्यातपः प्रभृतिभिर्गुणैः शिष्यस्याप्युत्कर्षःसम्भवतीति सुस्थैव तत्रापि व्यवस्थेयम्। गौस्त्वातताय्यप्यविशेषेणावध्येतिविरोधिवचनाभावात्। एतेषाञ्चाततायिता प्रयोजकव्यापारगोचरवर्त्तमान प्रवृत्तिकानामेव हन्तव्यानामप्याततायिनां हनने दोषाभावोनतु निवृत्तव्यापारकाणामपि।

उद्यतानां तु पापानां हन्तुर्दोषो न विद्यते।
निवृत्तानान्तथारम्भाद् ग्रहणन्नवधः स्मृतः॥

इति कात्यायनवचनादिति। तदपि न क्षोदक्षमम्।तथाहि।न हिंस्यादिति निषेधावधारितस्य दोषस्य शस्त्रं

द्विजातिभिरित्यादिना आततायिविषयेऽपवादमभिधाय तदर्थवादत्वेन गुरुं वेत्याद्युत्क्वामनु सुमन्त्रसम्बर्त्तभविष्यादिवचनै र्गोब्राह्मणादिविषये तम्प्रतिप्रसूयचरितार्थेषु सर्ववचनेषु कात्यायनीयमाततायिनि चोत्कृष्टा इत्यादिवचोऽपि मन्वादिवचनोपात्ताचार्य्यब्राह्मणत्वाद्युत्कर्षमेवादाय तदेकार्थकमेवोचितं नतु तेषामुत्कृष्टाचार्य्यादिविषयकतया सङ्घोचकम्। तपः स्वाध्यायजन्मत इत्यनेनापि ब्राह्मणत्वादि कृतोत्कर्षस्यैवोपलक्षणात्। किञ्चाततायिवधेदोषाभावस्य स्वोत्कर्षमात्रेणापवादस्तवाभिमतः। गीतास्थस्यैतत्प्रदस्य तदुपष्टम्मकत्वमधमवर्णावध्यत्वमुत्तमवर्णाततायिनो वदतः। तथा च सामान्यतो ब्राह्मणत्वादिपुरस्कारेण तदपवादकवाक्यानामार्थक्यमेव स्यात् अस्योपसहारविषयत्वात्। यत्न हि मित्रविन्दावत् द्वयोरर्थवत्वंतत्र सामान्यविशेषउपसंहारःस्वीक्रियते। अनुत्कृष्टतद्वधेत्वया दोषाभावस्यैवाभ्युपेतत्वात्। गुरु वेत्यादिबह्वचसां प्रतिप्रसवविधित्वेन त्वयाभ्युपेतानां कात्यायनीयैकवचोऽनुरोधेनोत्कृष्टमात्रेणोपलक्षणत्वमानर्थकापरपर्य्यायएव। यद्वागोत्वब्राह्मणत्वादिनिमित्तप्रतिप्रसवे कृते कात्यायनीयमुत्कर्षनिमित्तदोषातिशयप्रतिपादकं भविष्यतीति समस्तवचनसामञ्जस्यसम्भवे वचनस्वरभङ्गाङ्गीकरण भङ्ग्याङ्गीकरणमेव। उत्कृष्टवदनिमित्तो फलातिशयोऽप्यस्तु। संयोगपृथक्त्वात्। तत्राप्यश्वमेधपदमन्यानर्थक्यप्रसङ्गादविवक्षितमथवा तत्रश्रुतं ब्रह्महत्यातरणन्तज्जन्यपा- पक्षयरूपमत्रवधनिवृत्तौ तज्जन्यपापानुत्पत्तितादात्म्येनोपञ्चर्य्यते। फलपदन्तु पक्षेऽस्मिन् न समञ्जसंनिषिद्धनिवृत्ती पापानुत्पत्तेः। फलत्वाभावादिति प्राच्यामेव

व्याख्यानं साधीयः। तारतम्येन वाश्वमेधफलमत्रापि भवतीति नान्यानर्थक्यमिति समाधेयम्। किञ्च। आततायिब्राह्मणादिवधस्यादोषता प्रतिपादकतया तवाभिमतेषु कात्यायनदेवलादिवचनेष्वपि वेदान्तरां भ्रूणमपीत्यादीनामुत्कर्षप्रतिपादकत्वात्। कथमुत्कर्षदोपपरं कात्यायनीयमा ततायिनि चोत्कृष्ट इति वच-स्तद्विरोधसमाधानसहं स्यात्। यच्च देवलवचनं भवतोदाहृतम्।

उद्यम्य शस्त्रमायान्तं भ्रूणमप्याततायिनम्।
निहत्य भ्रूणहा न स्यादहत्वा भ्रूणहा भवेत्॥ इति।

भ्रूणः उत्तमब्राह्मणविशेषः। दोषप्रदर्शनं नियमार्थमिति व्याख्यातञ्च।तदन्यसम्बद्धम्।

न ह्यातताय्यहनने दोषः कस्यापि सम्मतः।

किन्तु तद्धनने दोषाभावमात्रम्। तस्मादन्यथात्मरक्षणासम्भवे तदहननेस्वहत्यैव भ्रूणहत्याप्रसज्यत इत्यात्मरक्षणविधिप्राप्तानुवादमात्रमेतदिति व्याख्येयम्। तस्मादाततायिनिचोत्कृष्ट इत्यादिकात्यायनवचनमस्मदुक्तरीत्या सुमन्तुसंवर्त्तादिवचः समानार्थतयोत्कर्षप्रयुक्तदोषातिशयपरतया वा वर्णनीयम्। नतु विरोधे व्यवस्थापकतयेत्यलमतिदूर ङ्गत्वा मम तु प्रतिभाति सत्यपि गुरुम्वेत्यादीनां प्रतिप्रसवविधित्वेन तेषामर्थशास्त्रत्वम्।अदृष्टदोषाभावस्थाप्यदृष्टत्वेन दृष्टार्थत्वाभावात्न चात्मरक्षणमात्रार्थत्वेन तथा सति प्रायश्चित्तप्रसङ्गात्। न चेष्टापत्तिः। न तेन ब्रह्महा भवेत्। आततायिन्यदोषोऽन्यत्रगोब्राह्मणान् दाहन्यात् तदा प्रायश्चित्तं कुर्य्यात् पापमेवाश्रयेदस्मानित्यादिषु पापतदभावयोश्चस्पष्टमवगमात्। तस्मात्

सर्वमतेऽप्यर्थधर्मशास्त्रविरोधोदाहरण-मिदमित्यसङ्गतमेवेत्यलं प्रसक्तानुप्रसक्तविचारप्रपञ्चेन।प्रकृतमनुसरामः। व्यवहारदर्शनकालमाह कात्यायनः।

सभास्थानेषु पूर्व्वाह्णेकार्य्याणां निर्णयं नृपः।
कुर्य्याच्छास्त्रप्रणीतेन मार्गेणामित्रकर्षणः॥
दिवसस्याष्टमम्भागं मुक्ताभागत्रयन्तु यत्।
स कालो व्यवहाराणां शास्त्रदृष्टः परः स्मृत॥ इति।

अत्रसभास्थानेष्वित्यादिसर्वमनुवादः।कात्यायनेनैव वचनान्तरै-र्विहितत्वात्। पूर्व्वाह्नमात्रंविधेयन्तदपि दृष्टाय तदा बुद्धिप्रसादात् कार्य्यान्तराव्यावृतत्वाच्च। तत्र विशेषो दिवस्याष्टमं भागमित्यादिनोक्तः। अष्टमोभागः प्रथमप्रहरार्द्धम्। भागत्रयन्तदुयरमावर्त्तनात् प्राक्तनम्। अन्यथा पूर्व्वाह्णविधिविरोधात्। प्रथमप्रहरार्द्धत्यागोऽपि नित्यहोमादिवाधपरिहारौपयिकतया दृष्टार्थ एव। अत्र वर्ज्यास्तिथीराह।संवर्त्तः।

चतुर्दशीत्वमावस्यापौर्णमासी तथाष्टमी।
तिथिष्वासु नपश्येत्तु व्यवहारविचक्षणः॥ इति।

एतत्प्रतिषेधस्त्वदृष्टार्थ एव दृष्टासम्भवात्। भोजनाश्रितदिगादिप्रतिषेधवत्। स्पष्टशास्त्रानुपलम्भे तु देशव्यवहारानुरोध्येव निर्णयः। कार्य्यइत्यप्याह स एव।

तमाच्छास्त्रानुसारेण राजा कार्य्याणि साधयेत्।
वाक्याभावे तु सर्वेषां देशदृष्टमतं नयेत्॥

अत्रपूर्व्वार्द्धमनुवादः।उत्तरार्द्धन्तुन्यायमूलकम्। मनुः।

जातिजालपदान्धर्म्मान् श्रेणिधर्मांस्तथैव च।
समीक्ष्यकुलधर्मांश्चस्वधर्मं प्रतिपालवेत्॥

जातिजानपदान्।जातिप्रयुक्तान् देशप्रयुक्तांश्च धर्मान्। श्रेण्यरेककर्म्मोपजीविनो वणिक् कृषीबलादयः। स्वधर्मं राजप्रवर्त्तितं धर्मम्।मदनरत्नेतु स्वधर्मं दुष्टदण्डेन रूपमिति व्याख्यातम्। तदनुवादमात्रत्वापत्तेर्हेयम्। कुलधर्म्मलक्षणमभिहितम्।कात्यायनेन।

गोत्रस्थितिस्तु या तेषां क्रमादायाति धर्मतः।
कुलधर्मन्तु तं प्राहःपालयेत्तन्तथैव तु॥

वृहस्पतिः। देशजातिकुलानां च ये धर्माःप्राक् प्रवर्त्तिताः।

तथैव ते पालनीयाः प्रजा प्रक्षुभ्यतेऽन्यथा॥
जनापरक्तिर्भवति बल कोशश्च नश्यति।
उदाह्यते दाक्षिणात्यैर्मातुलस्य सुता द्विजैः॥
मध्यदेशे कर्मकराःशिल्पिनश्च गवाशिनः।
मत्स्यादाश्च नराः सर्वे व्यभिचाररता स्त्रियः॥
उत्तरे मद्यपानार्य्यःस्पृश्या नृणाःरजस्वलाः।
खशजाताःप्रगृह्यन्ति भ्रातृभार्य्यामभर्तृकाम्॥
अनेन कर्मणा नैते प्रायश्चित्तदमार्हका॥ इति।

सर्व इत्यनेन स्मृतिविरोध उक्तः। पूर्व इति कल्पतरौपाठः। तत्र पूर्वदेश इत्यर्थः। दमो दण्डः।यत्तु स्मृत्यन्तरेष्वेतत्कर्मकरणे प्रायश्चित्तदण्डस्मरणन्तदेतद्वचनानुपात्तदेशविषयमिति।मदनरत्नाकरः। वयन्तु प्रजाप्रक्षोभादिदृष्टदोपकथनाद्राज्ञातत्रदण्डो न कार्य्यएव। प्रायश्चित्ताभावस्तु व्यवहारविषयः। परलोक-शुध्यर्थं प्रायश्चित्तं भवेदित्येवेति न स्मृत्यन्तरविरोधः। तत्तद्देशव्यापकश्रुतिस्मृतिविरुद्धाचरणे व्यवहारप्रतिबन्धिकाशक्तिस्तज्जन्यपापस्य नास्ति नरकजनिका-

स्त्येव।उपक्रमपर्य्यालोचनादेतावदर्थकतयैव चैतद्वचनोपपत्तौ सर्वथा दोषाभाववाल्पनस्यानुचितत्वात्। अतएव आपस्तम्बनोक्तम्। देशजातिकुलधर्माश्चाम्नायैरविरुद्धः।प्रमाणमिति।

येषां परम्परा प्राप्ताः पूर्वजैरप्यनुष्ठिताः।
त एव तैर्नदुव्येयुराचारान्नेतरे पुनरिति॥

नदुव्येयुरव्यवहार्य्या राजदण्ड्याश्च न भवेयुरित्यर्थः॥ अन्यथैतयोरेव वचनयोः परस्परविरोधो दुष्परिहारःस्यादिति व्रूमः। यानि तु वचनानि व्यासः।

वणिक् शिल्पिप्रभृतिषु कृषिरङ्गोपजीविषु।
अशक्योनिर्णयोह्यन्यै स्तदीयैरेव कारयेत्॥

वृहस्पतिः। कीनाशाः कारुकाः शिल्पिकुशीदिश्रेणिनर्त्तकाः।

लिङ्गिनस्तस्कराः कुर्य्युःस्वेन कर्मेण निर्णयम्॥

कीनाशाः कर्षकाः। कारुकावर्धक्यादयः। शिल्पिनश्चित्रकारादयः। कुशीदिनोवार्द्धुषिकाः। लिङ्गिनः पाशुपतप्रभृतयः। मनुः। आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः।

न बिब्रूयान्नृपो धर्मं चिकीर्षुर्हितमात्मनः।
यथार्हमेतानभ्यर्च्य ब्राह्मणैः सह पार्थिवः।
सान्त्वेन प्रशमय्वादौ स्वधर्मं प्रतिपादयेत्॥

आश्रमेषु कार्य्ये। आश्रमसम्बन्धिनि कार्य्येविब्रूयात्। विरुद्धवचनस्य सामान्यतएव प्रतिषिद्धत्वात्। प्रशमय्य कोपमपनीय।
वृहस्पति।तपवृस्वन्तानर्कार्याणि त्रैविद्यैरेव कारयेत्।

माया योगविदाचैव न स्वयं कोपकारणात्॥

कोपकारणात्तेषां कोपप्रसङ्गात्। कात्यायनः।

सम्यक् विज्ञान सम्पन्नेनोपदेशं प्रकल्पयेत्।
उत्कृष्टजाति शीलानां गुर्वाचार्य तपस्विनाम्॥

सम्यग्विज्ञान सम्पन्नेनेति तृतीयान्तं पदम्। तथा च तज्ज्ञानोत्कृष्टजातिशीलानां गुर्वाचार्य्यतपस्विनामुपदेशं प्रकल्पयेत्। कारयेत्। न स्वयमुपदेशप्रकल्पयेत्। कारयेत्। न स्वयमुपदेशन्तेषां कुर्य्यादित्यर्थः। तानि नः सर्वथा राज्ञो व्यवहारदर्शनप्रतिषेधपराणि किन्तु तत्तत्कार्य्येवणिकादीनामभियुक्तत्वात्तान्विहाय न व्यवहारनिर्णयः। करणीय इत्येवम्पराणि यथाह्नः।

अभियुक्ताश्च ये यत्र यन्निबन्धनियोजनाः।
तत्र त्यगुणदोषाणान्त एव हि विचारका॥ इति।

तत्र तत्त्वमभियोगविशेषात् स्यादिति जैमिनिरपि साधुशब्दाधिकरणे सूत्रयामास। अतएव चिकीर्षुर्हितमात्मनः। सान्त्वेन प्रशमय्याकोपकारणादित्यादि हेतुप्रदर्शनम्।यथा तत्त्वावधारण स्वानिष्टनिवारणञ्च भवति तथा कौशलेननिर्वाहनीयमित्यत्र तात्पर्य्यम्।

अथ प्राड्विवाकलक्षणम्।

विवादे पृच्छति प्रश्नं प्रतिप्रश्नन्तथैवच।
प्रियपूर्वं प्राग्वदति प्राड्विवाकस्ततः स्मृतः॥

इति वृहस्पतिः।व्यासोऽपि।

विवादानुगतं पृष्ट्वा ससभ्यस्तत्प्रयत्नतः।
विचारयति येनासौ प्राड्विवाकस्ततः स्मृत इति॥

गौतमेन तु वृहस्पतिवद्योगार्थः प्राड्विवाकशब्दस्य

दर्शितः। प्राड्विवाके वादिप्रतिवादिनौपृच्छतीति प्राट्ताभ्यामुक्तं सभ्यैः सह विविच्य वक्तीति विवाक इति बृहस्पतिना। विचारयत्यभिधानाद्विविनक्ति इति विवाकशब्दस्य व्युत्पत्तिरुक्ता विवक्तीति विवाक इति। इति गौतमेन।नारदहारीतौ।

यथा शल्यं भिषक्कायादुद्धरेद्यत्नयुक्तितः।
प्राड्विवाकस्तथा शल्यमुद्धरेद्यवहारतः॥ इति।

शल्यञ्च धर्मस्याधर्म मिश्रणम्।यथा च मनुः।

बिद्धोधर्मोह्यऽधर्मेण सभां यत्नोपतिष्ठते
शल्यञ्चास्य निकृन्तन्ति विद्धास्तव सभासद॥ इति।

अयञ्चराज्ञा स्वयं व्यवहारदर्शने क्रियमाणेऽस्य सहायःस प्राड्विवाक इति स्मरणात्। यदातु राजा कार्य्यान्तरव्यग्रतया स्वास्थ्याभावेन वा स्वयं व्यवहारदर्शनासमर्थस्तदातत्प्रतिनिधिः।

यदास्वयं न कुर्य्यात्तु नृपतिः कार्य्यदर्शनम्।
तदा नियुञ्ज्याद्विद्वांसं ब्राह्मणं कार्यदर्शने॥
सोऽस्य कार्य्याणि सम्पश्येत्सभ्यैरेव स्त्रिभिर्वृतः।
सभामेव प्रवियाग्र्यामासीनः स्थित एव सः॥

इति मनुवचनात्। सभ्यग्रहणादमात्यादि निवृत्तिः त्रिग्रहणात्संख्यान्तरनिवृत्तिः। सभ्यानामिति स्मृति चन्द्रिकाकारः। तत्वदृष्टार्थत्वप्रसङ्गादयुक्तमित्युपलक्षणत्वमेव न्याय्यं अपश्यताह्यर्थवशाह्यवहारानृपेण तु।

सभ्यैः स ह नियोक्तव्यो ब्राह्मणः स धर्मवित्।

इति याज्ञवल्क्यवचनाच्च।

यदा न कुर्य्यान्नृपतिः स्वयं कार्यविनिर्णयम्।
तदा तत्र नियुञ्जीत ब्राह्मण शास्त्रपारगम्॥
दान्तं कुलीनं मध्यस्थं मनुद्वेगकरं स्थिरम्।
परत्रभीरुं धर्मिष्ठमुद्युक्तं क्रोधवर्जितमिति॥

कात्यायनस्मरणाच्च। शास्त्रपारगं बहुशास्वाभियोगशालिनम्।यथा च कात्यायन एव।

एकं शास्त्रमधीयानो न विद्यात्कार्यनिर्णयम्।
तस्माद्बह्वागमः कार्य्योविवादेषूत्तमो नृपैः॥

एवम्बिधब्राह्मणालाभे क्षत्रियं वैश्यं वा प्रतिनिदधीत नशूद्रम्। तथा स एव।

यत्र विप्रो न विद्वान् स्यात् क्षत्रियन्तत्र योजयेत्।
वैश्यं वा धर्मशास्त्रज्ञं शूद्र यत्नेन वर्जयेत्॥

मनुः। जातिमात्रोपजीवी वा कामं स्याद्राह्मणब्रुवः।

धर्मप्रंवक्ता नृपतेर्न्नतुशुद्रः कथञ्चन॥
यस्य राज्ञस्तु कुरुते शूद्रो धर्मविवेचनम्।
तस्य सीदति तद्राष्ट्रं पङ्केगौरिव पश्यतः॥

व्यासः। द्विजान्विहाय यः पश्येत्कार्याणि वृषलैःसह।

तस्य प्रक्षुभ्यते राष्ट्रं वलं कोशश्च नश्यति॥

इदं वचनं स्मृतिचन्द्रिकायाममात्यादि स्थानेऽपि शूद्र वर्जयेत्। किमुत धर्मनिर्णय इत्येव परमुक्तम्। दोषातिशयकीर्त्तनात्। कल्पतर्वादिषु तु प्रकरणाद्यवहारदर्शन एव शूद्रवर्जकत्वेन लिखितम्। अयञ्च प्रतिषेधोऽदृष्टार्थ एव। राष्ट्रक्षोभादेरदृष्टद्वारकफलस्यैव सङ्कीर्त्तनात्। चण्डेश्वरेणतु शूद्रस्य धर्मज्ञानेऽपि वेदाविरोधप्रतिसन्धानविरहात्तत्प्रति-

सन्धानस्य च सम्यक् निर्णयोपायत्वात्।त्याग इति युक्तिरप्युक्ता। सा वणिगादिष्वप्यतिप्रसक्तेत्यन्वाचयमात्र एते च सर्वे व्यवहारासम्वद्धाविति प्रतिषेधा अभिषिक्तक्षत्रियाधिकारिका-स्तत्स्थानापन्नान्याधिकारिकाश्चप्राड्विवाकादयस्त्वर्थार्थितया ऋत्विक्स्थानीयाः। स प्राड्विवाक इत्यादिना तेषां गुणभावावगमान्नियोगोक्तेश्च।

राजाभिषेकसंयुक्तो ब्राह्मणो वा बहुश्रुतः।

धर्म्मासनगतः पश्येद्यवहारा ननुल्वण इति प्रजापतिवचनात्। अत्र राजशब्दोऽवेष्ट्यधिकारणन्यायेन क्षत्रियजातिवचनः। अभिषेकसंयुक्त इति वचनात् स्मृत्यन्तरेऽप्यऽभिषिक्तक्षत्रियं प्रक्रम्यतदभिधानाच्चानभिषिक्तक्षत्रियस्य नाधिकारः। अतश्चतत्प्रयुक्तशुभाशुभफलयोस्तद्गामितैव। प्राङ्विवाकादीनान्तु प्राक्प्रदर्शितेभ्यो न्यायेनापि तं यान्तमित्यादि वाक्येभ्यो राज्ञोऽनिवारणे परं दृष्टादृष्टदोषभागिता।अनियुक्तानान्तु न तत्रापीत्यादि मिताक्षरादौव्यक्तं ब्राह्मणो वेत्यनुकल्पत्वाभिप्रायको वा शब्दो न तुल्यकक्षाधिकारपरः। अनुल्वणोऽनुद्धतः। सभापतिश्च नृपति रेव दुर्गमध्ये गृहं कुर्य्यादित्यादिना वृहस्पत्यादिभिः सभानिर्म्माणतद्रक्षणादेस्तत्रसभ्योपवेशनादेश्चतम्प्रत्येव विधानात्।

अदण्ड्यान् दण्ड्ययन् राजा दण्ड्यांश्चैवाप्यदण्डयन्।
अयशो महदाप्नोति नरकञ्चैव गच्छति॥
अपि भ्राता सुतोऽर्घ्योवा श्वसुरो मातुलोऽपि वा।
नादण्ड्योनाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात्॥

इत्यादिभिर्नित्यकामाधिकारयोस्तस्यैव ग्रहणात्प्रजापालनाधिकाराच्च।

अथ सभ्याः। तत्र योगीश्वरः।

श्रुताध्ययनसम्पन्नाःधर्मज्ञाः सत्यवादिनः।
राज्ञा सभासदःकार्य्या रिपौ मित्रेच ये समा इति।

श्रुतेन मीमांसा व्याकरणादिश्रवणेन वेदाध्ययनेन च सम्पन्नाः धर्मज्ञाः सत्यवादिनः।सत्यवदनशीलाःरिपौ मित्रेच समाःद्वेषरागशून्याःएवम्बिधा सभासदःसभायां मदसि यथा सीदन्ति यथादानमानसत्कारैः राज्ञा कर्त्तव्याः सभ्यत्वेन वरीतव्या इत्यर्थः। अतस्तेषामुपादेयत्वात् स्वाध्यायोऽध्येतव्यो यूपं छिनत्तिपुरोहितस्त प्रकुर्व्वीतेत्यादिवत्सत्यपिकर्मत्वेऽअनुद्देश्यत्वात् तद्गतैकत्ववद्बहुत्व विवक्षितम्। यच्च यद्यपि कपिञ्जलनयेन त्रित्वमात्रेणापि चरितार्थस्तथापि स्मृत्यन्तरोक्तबहुत्वविकल्पपरम्। तथाच वृहस्पतिः।

लोकवेदज्ञधर्मज्ञाः सप्त पञ्च त्रयोऽपि वा।
यत्रोपविष्टा विप्राः स्युः सा यज्ञसदृशी सभेति॥

मनुना तु त्रय एवोक्ताः।

यस्मिन् देशे निषीदन्ति विप्रावेदविद स्त्रय इति।

अत्र त्रिभ्योऽन्यूनाः सप्तभ्योऽधिकाश्च न कार्य्या इत्यत्रतात्पर्यंसङ्ख्यावैषम्यन्तु भूयोऽल्पविरोधे भूयसां स्यात्। स्वधर्म्मत्वमिति न्यायेन विप्रतिपत्तावधिकसङ्ख्यावचनमादरणीयं गुणसाम्यैः। तद्वैषम्ये तु शतमप्यन्धाना न्नपश्यतीति न्यायेन गुणवत्तरवचनमेवेति प्रदर्शनार्थम्।

यत्तु चत्वारो धर्मज्ञाः पर्षत्रैविद्यमेव वा।
साब्रूते यं सधर्मः स्यादेको वा-ध्यात्मवित्तम इति॥

योगीश्वरेण विषमसङ्ख्यत्वमपि बहुत्वमपि चानादृतम्। तत्तु पूर्वोक्तानां धर्मकारकज्ञापकहेतूनां सन्देहनिर्णयविषयं प्रक्रमात्। व्यवहारविषये तु त्र्यवराणां विषयसङ्ख्यानामेव सभ्यत्वं विशेषविधानादित्यवमेयम्। एते च ब्राह्मणा एव।

मनु वृहस्पतिभ्यां विप्रपदो-पादानात्।
सतु सभ्यैः स्थिरैर्युक्तः प्राज्ञैर्मौलैर्द्विजोत्तमैः॥

धर्मशास्त्रार्थकुशलैरर्थशास्त्रविशारदैरिति द्विजोत्तमपदस्य च कात्यायनेनोपादानात्। नारदः।

राजा तु धार्मिकान् सभ्यान्नियुञ्ज्यात्सुपरीक्षितान्।
व्यवाहारधुरां वोढुं ये शक्ताः पुङ्गवा इव॥
धर्मशास्त्रेषु कुशलाः कुलीनाःसत्यवादिनः।
समाःशत्रौ च मित्रे च नृपतेः स्युः सभासदं इति॥

पुङ्गवा इवेति स्मृतिचन्द्रिकायां पाठः। मदनरत्ने तु सद्गवा इति पठित्वा सद्गवा उत्तमवृषभा इति व्याख्यातम्। कल्पतरावपि सद्गवा इति एव पाठः। सब्राह्मणपुरोहितः स सभ्य इति पूर्वोदाहृतकात्यायनवचने ब्राह्मणानां सभ्यानाञ्च भेददर्शनान्नियुक्तानियुक्तविशेषेण गोवलीवर्द्दन्यायेन सभ्यानां ब्राह्मणानाञ्च राजसहायत्वं व्यवहारदर्शनेऽवगन्तव्यम्।याज्ञवल्क्यस्यापि।

व्यवहारान्नृपः पश्येद्विद्वद्भिर्ब्राह्मणैः सह।
श्रुताध्ययनसम्पन्नाइत्यादि बदतो भेद एवाभिप्रेतः॥

न च श्रुताध्ययनसम्पन्ना इत्यादि वदतो भेद एवाभिप्रेतः

न च श्रुताध्ययनसम्पन्ना इत्यादि पूर्ववाक्यविहितब्राह्मणानुवादेन विशेषणविधानमात्रमिति युक्तम्।तृतीयाप्रथमानिर्दिष्टानां विशेषणविशेष्यभावा सम्भवात्।

तात्पर्य्यगत्या विशेषणविधिर्न्न शब्दरीत्येति चेत्।
न विद्वभिरित्यनेन श्रुतेत्यादेः पुनरुक्तत्वप्रसङ्गात्॥

कात्यायनसंवादलाभाच्च।भेदकन्तु नियुक्तानां राज्ञोऽन्यथाकरणे निवारणमावश्यकम्।अन्यायेनापि तं यान्तमिति पूर्व्वोदाहृत कात्यायनवचनेनानिवारणे दोषप्रतिपादनात्। अनियुक्तानान्त्ववचनान्यथा वचनयोरेव दोषो नतु राजा निवारणे।

अनियुक्तो नियुक्तो वा धर्मज्ञो वक्तुमर्हति।
दैवीवाचं स वदति यः शास्त्रमुपजीवति॥

इति वसिष्ठोक्तेः।

सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम्।
अब्रुवन्विब्रुवन् वापि नरो भवति किल्विषी॥

इति मनुक्तेश्च।

नियुक्तेषु सभा वा न प्रवेष्टव्येत्यसङ्गतेः।

नियोगः स्वीकारे सभाप्रवेशस्यावश्यकत्वादनियुक्तविषयमेवैतन्मनुवचनम्। यत्तु नारदेनोक्तम्।

नानियुक्तेन वक्तव्यं व्यवहारेषु किञ्चन।
नियुक्तेन तु वक्तव्यमपक्षपतितं वचः॥ इति।

तत्त्वनङ्गीकृतसभाप्रवेशो यदृच्छयाकायन्ति रभसाद्वायश्चागतस्तादृशानियुक्तविषयं बोध्यमन्यथा मन्वादिवचनविरोधात्।

शान्तिकपौष्टिकाद्यर्थमिव व्यवहारदर्शनार्थं पुरोहितोऽपि राज्ञाधिकर्त्तव्य इत्याह व्यासः।

राजा पुरोहितं कुर्य्यादुदीर्णं ब्राह्मणं हितम्।
श्रुताध्ययन सम्पन्नमलुव्धंसत्यवादिनमिति॥

उदीर्णमुद्युक्तंहितमित्यनेन सभ्यापेक्षयाप्यस्योच्छृङ्खलप्रवृत्तिक राजानिवारणेऽधिको दोषस्तेन प्रसह्यापि तन्निवारणमनेनावश्यं कार्य्यमिति सूचितम्। अतएव वशिष्ठेन। राजापेक्षयापि दण्डव्यत्यये तस्य प्रायश्चित्तमधिकमभिहितम्। दण्ड्योत्सर्गे राजैकरात्रमुपवसेत् त्रिरात्रम्पुरोहितः। कृच्छ्रमदण्डादण्डने पुरोहितस्त्रिरात्रं राजेति। पुरोहितमिति चैकत्वं विवक्षितं पूगञ्छिनत्ति भार्य्यामुद्वहेदित्यादिवदुपादेयगतत्वात्।अथ सभ्यानां बलाबलम्। याज्ञवल्क्यः।

नृपेणाधिकृताः पूगाः श्रेणयोऽथ कुलानि च।
पूर्व्वंपूर्व्वं गुरुर्ज्ञेयं व्यवहारविधौ नृणामिति॥

नृपेण राज्ञाधिकृता व्यवहारदर्शने नियुक्ताः। पूगाः-समूहाः।भिन्नजातीनां भिन्नवृत्तीनामेकस्थानवासिनां ग्रामनगरादिस्थानाम्। श्रेणयो नानाजातीनामेकजातीयकर्मोपजीविनां सङ्घाताः। हेडावुकताम्वूलिककुविन्दचर्मकारादीनाम्।कुलानि ज्ञातिसम्बन्धिवन्धूनां समुदायः एतेषां यत्पूर्व्वं पूर्व्वंपाठक्रमेण प्रथमावगतन्तत्तद्गुरु वलवद्ज्ञेयं नृणां व्यवहारिणां व्यवहारविधौ व्यवहारनिर्णये कार्य्ये। उत्तरोतरनिर्णीतो व्यवहारः कुदृष्टबुद्ध्यार्थिप्रत्यर्थिनो रन्यतरस्यापरितोषे नृपाधिकृतपर्य्यन्तं परावर्त्तते। नतु पूर्वकृत उत्तरोत्तरनिकर इत्यर्थः। नारदेन पुनर्नृपाधिकृतनिर्णीतो

नृपसविधेपरावर्त्तत इत्युक्तम्।कुलानि श्रेणयश्चैव गणश्चाधिकृता नृपः। प्रतिष्ठाव्यवहाराणां पूर्वेषामुत्तरोत्तरमिति। अत्रनृपग्रहणं प्राड्विवाकोपलक्षणं नृपाधिकृतापेक्षया तस्याधिकत्वात्। तथा च नृपाधिकृतकृतः प्राड्विवाकः सविधे तत्कृतश्च नृपसविधेपरावर्त्तत इत्यर्थः। तत्र नृपगमने सोत्तर सभ्येन राज्ञा पूर्वैः सह सपणव्यवहारे निर्णीयमाने यदि कुदृष्टवादी पराजितस्तदा द्विगुणमसौ द्दण्डाः।यदि जयति तदा पूर्वसभ्या दण्ड्या यथा शास्त्र न्तच्चवक्ष्यते। ननु पूगादीनां व्यवहारदृष्टत्वमेवासम्भावि। कुतस्त्व बलाबलम्। तथा हि राजनियोगेन वा व्यवहारदृष्टत्वन्तेषां स्वतन्त्र्येणवा। नाद्यः सहायन्वेन प्रतिनिधित्वेन प्राड्विवाकस्य पुरोहितामात्यमभ्यानाञ्च सहायत्वेनैव नियोगविधानात्। न द्वितीयः प्रजापालनाधिकृतानामेव व्यवहारदर्शनाधिकारबोधनादन्येषां स्वातन्त्र्या-सम्भवात्। अथ पूर्व्वोपन्यस्तैर्वणिक्शिल्पिप्रभृतिष्वित्यादिभिर्व्यास वृहस्पत्यादिवचनैः पूर्व्वोपपादितरीत्यासहायत्वेन नियोगावगमात् वणिगादिव्यवहारदृष्टत्वं पूगादीनां राजनियोगेनैवेति मतन्तन्न।तथा सति राजप्राड्विवाकभिन्नानां तन्नैरपेक्ष्येण दृष्टत्वाभावा सर्वव्यवहारदृष्टत्व प्राधान्येन व्यपदेशा भवन्तीति न्यायेन तयोरेवेति कुलादिदृष्टो व्यवहारः परावर्त्तत इत्यनुपपन्नन्तदृष्टत्वाभावात्। शूद्रं यत्नेन वर्जयेदिति निषेधात् पूगादीनाञ्च प्रायः शुद्रतदधर्मप्रतिलोमरूपत्वेन प्रतिनिधितयापि केवलानान्तद्द्रष्टृत्वाभावादिति। अत्रोच्यते। मास्तु तेषां व्यवहारदर्शने कैवल्यं तथापि वणिगादिव्यवहारे तेषामभियोगाद्राजादी-

नामपि तत्र तत्प्रत्ययेन निर्णायकत्वात् तत्कृतप्राधान्यमादाय तत्कृतत्वव्यपदेशसम्भवात् कुदृष्टबुध्यापरावृत्य पुनर्व्यवहारप्रवर्त्तनाय बलाबलं तेषामनेन वचनेनोच्यते ऽन्यथास्य वचनस्य निर्विषयतापद्येत। वस्तुतस्तु।शूद्रं यत्नेन वर्जयेदित्यनेन प्रतिषिद्धप्रतिनिधिभावानामपि पूगादीनाम्पूगादि व्यवहारे प्रतिप्रसवः। प्रतिनिधिभावस्य व्यासादिवचनैरभियोगाविशेषात् क्रियत इति। प्राड्विवाकवत् कैवल्यमपि वक्तुं शक्यत इति न किञ्चिदनुपपन्नम्। वृहस्पतिस्त्वमुमेवार्थं स्फुटयति। तथा चाह।

राज्ञो ये विदिताः सम्यक् कुलश्रेणिगणादयः।
साहसन्यायवर्जानि कुर्य्युःकार्याणि ते नृणाम्॥
कुलश्रेणिगणाध्यक्षाः प्रोक्तनिर्णयकारिणः।
येषामग्रे निश्चितस्य प्रतिष्ठात्तूत्तरोत्तराः॥
विचार्य्यश्रेणिभिः कार्य्यंकुलैर्यन्न विचारितम्।
गणैश्चश्रेण्यविख्यातं गणाज्ञानन्नियुक्तकैः।
कुलादिभ्योऽधिकाःसभ्यास्तेभ्योऽध्यक्षोऽधिकःकृतः।
सर्वेषामधिको राजा धर्मं यत्नेन निश्चितम्॥
उत्तमाधममध्यानां विवादानां विचारणात्।
उपर्य्युपरि बुद्धीनाञ्चरन्तीश्वरबुद्धय इति॥

कुलादिपदार्था व्याख्याताःगणशब्दःपूगपर्यायः। आदिपदेन सभ्यादिग्रहणम्। नियुक्तकाः सभ्याः। साहसाख्यं व्यवहारपदम्। युक्तिश्चात्रेयम्। कुलादीनां ज्ञात्यादिरूपाणां दाक्षिण्यादिनान्यथा दर्शनमपि सम्भाव्यत इति कुदृष्टत्वोद्भावकवचनेन राजादीनामसम्भवः श्रेणीनामुदासीनतया

ततो बलवत्ता।पूगानान्त्वेकस्थानवासमात्र सम्बन्धेऽपि भिन्न जातितया भिन्नवृत्तितया च ततोऽपि मिथोऽनपेक्षत्वादौ दास्याद्बलवत्वम्। नृपाधिकृतानान्तु ततोऽपि निःसम्बन्धतया राज्ञापरीक्ष्याधिकृतानां राजभयादपि पक्षपातदाक्षिण्याद्य सम्भव इति पूगेभ्यो बलत्तरत्वम्प्राड्विवाकस्य पुरोहितामात्यानाञ्च सुतरां प्रागुक्तहेतुद्वयाधिक्यम्। नृपस्य साक्षादेव नृपाणां प्रजापालनाधिकाराद्विपक्षपातकीभूत दोपाधिक्यात् “अन्यायं कुरुते यदि पतिः कस्तं निरोद्धुंक्षम” इति न्याये प्रजाप्रक्षोभादिदृष्टस्पष्टदोपभयादवश्यमपक्षपाततासम्भवतीति सर्वतो बलवत्तरत्वम्। बुद्धितारतम्यमपि वृहस्पतिवचने स्पष्टमिति। अथ केषाञ्चित् सभ्यभिन्नानामपि सभावस्थानन्निरूप्यते। कात्यायनः।

कुलशीलवयोवृत्तैर्वित्तवड्मिरमत्सरैः।
वणिग्भिः स्यात्कतिपयैः कुलभूतैरधिष्ठितम्॥

अधिष्ठितं सद इति प्रक्रमात्। कुलभूतैर्वृद्धैरित्यर्थः। तेषामुपयोग्यश्चोक्तस्तेनैव।

श्रोतारो वणिजस्तत्रकर्त्तव्यादर्शित इति।

गणकलेखकसाध्यपालाख्याराजपुरुषाणामपि ससावस्थानमाह। कार्य्यकथनमुरोन वृहस्पतिः।

नृपोऽधिकृतसभ्याश्च स्मृतिर्गणकलेखकौ।
हेमाग्न्यम्बुस्वपुरुषाः साधनाङ्गानि वै दश॥
एतद्दशाङ्गद्धरणं यस्या मध्यस्य पार्थिवः।
न्यायान् पश्येत्कृतमतिः सा सभा ध्वरसम्मिता॥
दशानामपि चैतेषां कर्मप्रोक्तं पृथक् पृथक्।

वक्ताध्यक्षोनृपः शास्ता सभ्याः कार्य्यपरीक्षकाः॥
स्मृतिर्विनिर्णयं ब्रूते जयदानन्दमन्तथा।
शपथार्थेहिरण्याग्नी अम्बुतृपितक्षुब्धयोः॥
गणको गणवेदर्थं लिखेन्यायञ्च लेखकः।
प्रत्यर्थिसभ्यानयनं साक्षिणाञ्च स्वपूरुषः॥
कुर्य्यादलग्नकौ रक्षेदर्थिप्रत्यर्थिनौ सदा।
एषां मूर्द्धा नृपोऽङ्गानां मुखं वाधिकृतः स्मृतः॥
बाहू सभ्याः स्मृतिर्हस्तौ जङ्घेगणकलेखकौ।
हेमाग्न्यम्बुदृशौ हृच्च पादौ स्वपुरुषस्तथेति॥

अत्राधिकृताध्यक्षशब्दाभ्यांप्राड्विवाको गृह्यते। एतत्करणकं सभारूपं शरीरं दशाङ्गमित्यर्थः। यस्यां सभायां शरीरतुल्यायाम्पार्थिवः क्षेत्रज्ञ इवाध्यस्थाधिष्ठानं कृत्वा।अनेन क्षेत्रज्ञः शरीरमिव साङ्गां सभां राजाधिष्ठाया-न्तर्यामिवत् सर्वचरितानि पश्य स्तदनुरूपस्य फलस्य भीक्ता दाता च भवतीति सूचितम्। स्वपुरुषलक्षणं वृहस्पतिरेवाह।

अकारणे रक्षणे च साक्ष्यार्थिप्रतिवादिनाम्।
सभ्याधीनः सत्यवादी कर्त्तव्यस्तु स्वपूरुषः॥

अयं च साध्यपालनामाशूद्र एव। तथा च व्यासः।

साध्यपालकस्तु कर्त्तव्यो राजा साध्यस्यसाधकः।
क्रमायातो दृढः शूद्रः सभ्यानाञ्च मते स्थित इति॥

गणकलेखकौ चेदृग्गुणयुतौ कर्त्तव्यावित्याहवृहस्पतिरेव।

शब्दाभिधानतत्वज्ञौ गणनाकुशलौ शुची।
नानालिपिज्ञौ कर्त्तव्यौ राज्ञा गणकलेखकौ॥

व्यासोऽपि।त्रिस्कन्धज्योतिषाभिज्ञं स्फुटं प्रत्ययकारकम्।

श्रुताध्ययनसम्पन्नङ्गणकङ्कारयेन्नृपः॥
स्फुटलेखन्नियुञ्जीत शब्दलाक्षणिक शुचिम्।
स्फुटाक्षरंजितक्रोधमलुब्धं सत्यवादिनम्॥

त्रिस्कन्धं होरागणितसंहिताख्यं त्रिभेदयुक्तं यज्ज्योतिःशास्त्रंतद्वेदिनम्। श्रुताध्ययनसम्पन्नमित्युक्तै र्गणको द्विजाति स्तत्साहचर्य्याल्लेखकोऽपि नृपः शास्तेति यदुक्तन्तदर्श्रदण्डबधदण्डयो राजकर्तृकत्वनियमार्थम्। वाग्दण्डधिग्दण्डौ तु प्राड्विवाकेनापि कार्य्यौ। दण्डप्राप्ताधने वध्य वधे च राज्ञ एवाधिकारात्। वाग्दण्डधिग्दण्डयोस्तु दमनमात्रार्थत्वादनियमः। तथा च वादनिर्णयकृद्राजा ब्राह्मणश्च बहुश्रुत इत्यभिधायोक्तन्तेनैव

धिग्दण्डस्त्वथवाग्दण्डो विप्रायत्तौ तु तौ स्मृतौ।
अर्थदण्डवधावुक्तौ राजायत्ताबुभावपीति॥

प्रतिष्ठिता प्रतिष्ठितसभास्थैस्तु सभ्यैर्निर्णयमात्रं कृत्वोपरमितव्यम्। पूर्ववचनात् क्वचिदपि दण्डे तेषामनधिकारात्।सर्वरञ्जकः सभास्तारोपि व्यासेनोक्तः।

अर्थिप्रत्यर्थिनौसभ्याल्लेखकः प्रेखकाश्रयः।
धर्मवाक्ये रञ्जयति सभास्तारयितामियात्॥
अयञ्च चातुर्वर्ण्येयः कश्चिद्विशेषानभिधानात्।
स्मृतिचन्द्रिकाकारमते तु शूद्रं यत्नेन वर्जयेदिति॥

यत्नग्रहणाद्दोषातिशयकीर्त्तनाच्च त्रैवर्णिक एव।

अथादेयानादेयाख्य व्यवहारविवेकः।

याज्ञवल्क्यः। मत्तोन्मत्तार्त्त व्यसनि बालभीतादियोजितः।

असम्बद्धकृतश्चैव व्यवहारो न सिद्ध्यति॥

मत्तो मदनीय द्रव्येण उन्मादेन वा पित्तलेष्मसन्निपातग्रहसम्भवेनोपसृष्ट उन्मत्तः। आर्त्तःव्याधिविकलः। व्यसनमिष्टवियोगानिष्टसम्बन्धजनितं दुःखन्तद्वान् व्यसनी। बालोऽप्राप्तव्यवहारः।भीतो भयाकुलः। आदिग्रहणञ्चित्तविक्षेपकारणानामन्येषामभ्युपसंग्रहार्थम्। एतैर्योजितः कृतो निर्णीत इति यावत्। एतैः सह योजित इति वा। एते यत्रार्थिप्रत्यर्थिभावमापन्ना इत्यर्थः। तथा सम्बन्धकृतोऽपि। अर्थिप्रत्यर्थि सम्बन्धरहितै स्तदीयचेष्टितानभिज्ञैः कृतो निर्णीतस्तैः सह कृतो वा व्यवहारो न सिद्ध्यति कृतोऽपि निवर्त्तते। प्रवृत्तश्चतादृशैःसह निर्णयत्वेन नोपादेय इत्यर्थः। नचा सम्बद्धत्वमुदासीनत्व सभ्यानां गुण एव।अनुदासीनेषूपाधिसम्भवात्। अतएव रिपौ मित्रेच ये समा इत्युक्तमिति वाच्यम्। असम्बद्ध पदस्य देशादिसम्बन्धराहित्यपरत्वात्। व्यवहारनिर्णयस्य च देशाचाराद्यनुरोधित्वात्। तथा च तदानभिज्ञनिर्णीतस्तदनभिज्ञार्थप्रत्यर्थिको वेत्यर्थः। पर्य्यवस्यति द्वितीयव्याख्यानेतु सम्वन्धाभावनिश्चये सशयाभावेन तादृशव्यवहारस्यानुपादेयत्वौ चित्यात्।

पुरराष्ट्रविरुद्धश्च यश्च राज्ञा विवर्जितः।

अनादेयो भवेद्वादो धर्मविद्भिरुदाहृतः॥

इत्यस्याप्ययमर्थः।पुरराष्ट्रविरुद्धोयत्र नगरे राष्ट्रे चया व्यवस्था पुरातनी तद्विरोधापादको व्यवहारो नादेयः। पौरजानपदक्षोभापादकत्वात्। केनचिन्निमित्तेन प्राचीनोऽपि राज्ञा स्वराष्ट्रेप्रतिषिद्धः सोऽपिराज्ञा स्वराष्ट्रेप्रतिषिद्धः सोऽपि राजाज्ञाभङ्गप्रसङ्गान्नाङ्गीकर्तव्य इति। यत्तु स्मरन्ति।

गुरोः शिष्ये पितुः पुत्त्रेदम्पत्योः स्वामिभृत्ययोः।

विरोधे तु मिथस्तेषां व्यवहारो न सिद्धतीति॥

तत्तु गुरुशिष्यादीनामन्योन्यमात्यन्तिकव्यवहारानु पादानपरन्नभवति। तेषामपि धनिकाधमर्णत्वादिना व्यवहारनिवृत्तेरप्रत्यूहत्वात्। नच गुरुशिष्यत्वपितृपुत्रत्वादिप्रयुक्त व्यवहारानादेयतापरमिदमिति वाच्यम्। तादृशस्याप्यनादेयत्वे निर्णयाभाव प्रसङ्गेन युक्तिविरोधात्। नचा प्रसक्त्यानुवादमात्रमनादेयत्वाभिधानमिति युक्तम्। प्रसक्ते सत्वात्। तथा हि।

**भार्य्यापुत्रश्चशिष्यश्च शिष्ये भ्रातासहोदरः। **

प्राप्तापराधास्तेऽघ्नास्युरज्ज्वावेणुदलेन वा॥

पृष्टतस्तु शरीरस्य नोत्तमाङ्गे कथञ्चन।

अतोऽन्यथानु प्रहन् प्राप्तः स्थाच्चौरकिल्विषम्॥

शिष्यशिष्टिरवधेनाशक्तौ वेणुविदलाभ्यां तदनुभ्यामन्येन घ्नन् राज्ञा शास्त्र इत्यादिभि र्मनुगौतमादिवचनैः शिष्यस्य शासनप्रकारविशेषनियतमादानादिक्रमेण गुरुर्यदिमहता दण्डेनोत्तमाङ्गे शिष्यंकोपावेशवशात्ताडयति तदा स्मृत्याचारव्यपेतमार्गेण गुरुणाधर्षितः। शिष्यो वैयात्याद्धर्मादिकरण प्रविशति चेत्तद्दण्डपारुष्यरूपं व्यवहारपदन्नभवतीति वक्तुमनर्हम्। तथा दायभागप्रकरणे वक्ष्यमाणभूर्य्यापितामहोपात्तेत्यादिवचनानि पितामहोपार्जितभूम्यादौ पितापुत्त्रयोः साम्य साम्ये यदि पितामहोविषमविभागादि चिकीर्षति। तदा पितापुत्त्रयोर्दायभागाख्य विवादपदमादाय व्यवहारः प्रसज्यमानो नापह्नोतुं शक्यः। तथा।

दुर्भिक्षे धर्मकार्य्येच व्याधौ सम्प्रतिरोधके।

गृहीतं स्त्रीधनं भर्त्ता नाकामोदातु मर्हति॥

इति वचनात्। दुर्भिक्षादिनिमित्तं विभैव यदि स्त्रीधनं भर्त्ता गृहीत्वा व्ययीकरोति। तथा च याच्यमानो विद्यमानधनोऽपि शापान्नप्रत्यर्पयति। तदर्णादानपदमादाय जायापत्योरपि व्यवहारप्रवृत्तिः केन निरोद्धुंशक्या एवं स्त्रीपुं धर्म्माख्यविवादपदोपादानेन तु तयोरेव व्यवहार आवश्यकः।तस्यानन्यविषयत्वात् दृष्टादृष्टव्यवहारपदान्तर्गणना मन्वादि स्मृतिषून्मत्तप्रलपितमेव स्यात्। स्वामीभृत्ययोस्तु व्यवहारो वेतनादाननिरूपणे वक्ष्यते। गर्भदामादीनधिकृत्य च।

यश्चैषां स्वामिनं कश्चिन्मोचयेत् प्राणसंशयात्।

दासत्वात् स विमुच्येत पुत्रभागं लभेतचेति॥

नारदोक्तेस्तादृशानान्तेषान्दास्यादमोचने पुत्रभागादाने च स्वामिना सह विवादो दुर्वारः। तस्मादिदं वचनं गुर्वादिभिः सह शिष्यादीनां व्यवहारकरणे लोकद्वये न श्रेय इह निन्दावहत्वादमुत्रनरकजनकत्वादित्येतत्परमेव। राजादिभिस्तु नायमुचितो व्यवहारो लोकद्वयहानिकरत्वादिति निवार्यमाणा अपि शिव्यादयो न परितुष्यन्ति चेत्तदा तेषां यथा शास्त्रन्त्रिर्णयकरणमदोष एव।गुर्वादिभिः सह व्यवहारः शिष्यादीनामनादेयो राजेत्यभिधानात् पुत्राद्यनिवारणे परं दृष्टादृष्टदोष इति ध्येयम्।

गुरुशिष्यौ पितापुत्रौ दम्पती स्वामिभृत्यकौ।

एतेषां समवेतानां व्यवहारो न विद्यते॥

इति मदनरत्नधृतबृहस्पतिवचनमप्येतदभिप्रायकमेव

मदनरत्नकल्पतरुरत्नाकरेषु तु राजा यथा कथञ्चिदर्थमाकलय्यं विवादोपशमं कुर्यात्। तत्तु प्रतितरलेखकपूर्वकं विचारं कुर्य्यादिति व्याख्यातन्तदसत्। कथञ्चदर्थानाकलने चतुष्पाद्यवहाराप्रवर्त्तनस्यावश्यकत्वात्। पूर्वप्रदर्शिततात्पर्यवर्णनमन्तरा गत्यभावात्।

एकस्य बहुभिः सार्धं स्त्रीणां प्रेष्य जनस्य च।
अनादेयो भवेद्वादो धर्मविद्भिरुदाहृतः।

इति नारदवचनम्। तस्यापि भिन्नार्थैरनेकैरेकस्य युगपद्यवहारो नादेय इत्यर्थः।

गणद्रव्यं हरेद्यस्तु सविदं लङ्घयेच्च यः।

एकघ्नतां बहूनाञ्चेत्यादि स्मरणाद्गणद्रव्यहारिण एकस्य बहुभिस्ताडितस्य वा गणेन ताडयितृभिश्च सहैकार्थेयुगपदपि व्यवहारस्य युक्तत्वात्। भिन्नार्थैरपि क्रमेणापि व्यवहारादर्शनेन तत्तदर्थानिर्णयप्रसङ्घात्। प्रतिज्ञादोषा अपि वक्ष्यमाणा स्तादृग्व्यवहारानादेयत्व एव पर्य्यवस्यन्ति।

अथ सदृष्टकसभापतेः कार्यं निरूप्यते।

तत्रावेदयितुः प्रश्नप्रकारमाह।कात्यायनः।

काले कार्य्यार्थिनं पृच्छेत् प्रणतम्पुरतः स्थितम्।
किं कार्य्यंका च ते पीडा माभैषीर्व्रूहि मानव!॥
केन कस्मिन् कदा कस्मात् पृच्छेदेवं सभागतम्।

एवं पृष्टः कार्यं यथा वेदयेत्तं प्रकारमाह। याज्ञवल्क्यः।

स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः।
आवेदयति चेद्राज्ञेव्यवहारपदं हि तदिति ॥

चेदित्यनेन यदि केनचिन्निमित्तेन स नावेदेयेत्तर्हि न बलाद्वादये-दित्युक्तम्। तथा च मनुः।

नोत्पादयेत् स्वयङ्कार्य्यंराजानाप्यस्य पुरुष इति।

पितामहोऽपि।

नतु पश्येत् समुत्प्रेक्ष्यस्वयं वा पुरुषेण वेति।

नारदोऽपि। नतु राजा वशित्वेन धनलोभेन वा पुनः।

उत्पादयेत्तु कार्य्याणि नराणामविवादिनाम्॥

तथोत्पन्नमपि कार्य्यंकार्यिणा तत्सम्बन्धिना वाऽनिवेदितं कथञ्चिदवगम्यापि न राजादिभिर्बलाद्वादनीयमित्यप्याह।

मनुः। नच प्रापितमन्येन ग्रसेदर्थं कथञ्चनेति।

अन्येनासम्बद्धेन कथञ्चन रागलोभादिना। अर्थं कार्य्यंग्रसेत्स्ववशं कुर्य्यात्। अतएव पितामहः।

न रागेन न लोभेन न क्रोधेन न ग्रसेन्नृपः।
परैरप्रापितानर्थान्नचापि स्वमनीषयेति॥

परैः कार्यितत्समृद्धैःकार्यिसम्बन्धाः पुत्त्रभ्रात्रादयः।
यो न भ्राता नच पिता न पुत्त्रो न नियोगकृत्।
परार्थवादी दण्ड्यःस्याद्यवहारेषु विब्रुवन्॥

इति नारदवचनात्।

अर्थिना संनियुक्तो का प्रत्यर्थिप्रहितोऽपि वा।
यो यस्यार्थे विवदते तयो र्जयपराजयौ॥

इति कान्यायन वचनाच्च। पितामहोऽमुमर्थं स्पष्टमाह।

पिता माता सुहृद्वापि बन्धुः सम्बन्धिनोऽपि वा।
यदि कुर्य्युरुपस्थानं वादन्तत्रप्रवर्त्तयेदिति॥
यः कश्चित्कारयेत्किञ्चिन्नियोगात् येन केनचित्।

तत्तेनैव कृतं ज्ञेयमनिवर्त्यं हि तत् स्मृतमिति॥
अनिवेदितानां दानापवादमाह स एव।
छलानि चापराधांश्च पदानि नृपते स्तथा।
स्वयमेतानि गृह्णीयान्नृपस्त्वा-वेदकै र्विनेति॥

छलान्याह स एव।

पथिभङ्गोपराक्षेपी प्राकारोपरिलङ्घकः।
निपानस्य विनाशी च तथा चायतनस्य च।
परिखापूरकश्चैव राजकिद्र प्रकाशकः॥
अन्तःपुरं वासगृहं भाण्डागारं महानसम्।
प्रविशत्यनियुक्तेयो भोजनञ्च निरीक्षते॥
विण्मूत्रश्लेष्मवातानां क्षेप्ता कामान्नृपाग्रतः।
पर्य्यङ्कासन बन्धी चाप्यग्रस्थाननिरोधकः॥
राज्ञोऽतिरिक्तवेषश्च विधृतः प्रविशेत्तु यः।
यश्चांपद्वारेण विशेद वेलाया न्तथैव च॥
शय्यासने पादुके च शयनाशनरोहणे।
राजन्न्यासन्न शयने यस्तिष्ठति समीपतः॥
राज्ञोविद्विष्टि सेवीचाप्यदत्त विहितासनः।
वस्त्राभरणयोश्चैव सुवर्णपरिधायकः॥
स्वयंग्राहेण ताम्बूलं गृहीत्वा भक्षयेत्त यः।
अनियुक्तः प्रभाषी च नृपाक्रोशक एव च॥
एकवासा स्वथाभ्यक्तो मुक्तकेशोऽवगुण्ठितः।
विचित्रिताङ्गःस्रग्वीच परीधानं विधूनकः॥
शिरः प्रच्छादकश्चैव च्छिद्रान्वेषण तत्परः।
आसङ्गी मुक्तकेशश्च प्राणकर्णाक्षिदर्शकः॥

दत्तोल्लेखनकश्चैव कर्णनासाविशोधकः।
छलान्येतानि पञ्चाशद्भवन्ति नृप सन्निधाविति॥

राज्ञः शय्यायां शयनन्तदीयासनोपवेशनन्तत्पादुकारोहणमिति त्रीणि छलानि। वस्त्राभरणयो श्चैवेत्यत्रापि स्वयंग्राहेण परिधायक इति योज्यम्।परिधायपदं समासान्तर्गतमपि बुद्ध्यानिष्कर्षणीयम्। स्मृतिचन्द्रिकाकारस्तु वस्त्राभरणयोश्चेत्यत्रादत्तग्राहक इति शेषमाह।तद्धेयम्।पूर्व-व्याख्यानेनोत्पत्तौ शेषाध्याहारस्यायुक्तत्वात्। मुक्तकेश इति द्विःपाठो संयतकेशमुण्डितकेशयोः समावेशार्थः। अपराधानाह नारदः।

आज्ञा-लङ्घन-कर्तारः स्त्रीवधो वर्णशङ्करः।
परस्त्री-गमनञ्चौर्य्यंगर्भश्चैव पतिं विना।
वाक्पारुष्यमवाच्याय दण्ड-पारुष्यमेव च।
गर्भस्य पातनञ्चैवेत्यपराधा दशैवत्विति।

पदान्याह पितामहः।

उत्कृत्ती शस्यधातीचाप्यग्निदश्च तथैव तु।
विध्वंसकः कुमार्य्याश्च निधानस्योपभोजकः।
सेतुकण्टक-भेत्ता च क्षेत्रसञ्चरकस्तथा।
आरामच्छेदकश्चैव गरदश्चतथैव च।
राज्ञोद्रोहप्रकर्त्ताच तन्मुद्रा भेदक स्तथा।
तन्मन्त्रस्य प्रभेत्ता च वद्धस्य च विमोचकः।
भोगदण्डौ च गृह्णाति दानं विक्रयमेव च।
पटहा-घोषणाच्छादी द्रव्यमस्वामिकञ्च यत्॥

राजा बलीढद्रव्यञ्च यच्चैवाङ्गविनाशनम्।
द्वाविंशतिपदान्याहर्न्नृपज्ञेयानि पण्डिता इति।

एतानि छलान्यपराधपदानि च राजा नावेदितान्यपि।स्वयङ्कथञ्चित् ज्ञात्वा विचारयेत्। यदा तु स्वयं ज्ञातुमशक्तस्तदास्तोभकसूचकद्वारा ज्ञात्वा विचारयेत्।

स्तोभकस्तूचकस्वरूपमुक्तं कात्यायनेन।
शास्त्रेण निन्दितन्वर्थ-मुख्यों राज्ञा प्रचोदितः॥
आवेदयति यत्पूर्वं स्तोभकः स उदाहृतः।
नृपेण विनियुक्तो यः परदोषा-नवेक्षणे॥
नृपस्य सूचयेज्ज्ञात्वा सूचकः स उदाहृत इति।

शास्त्रेण निन्दितञ्छलादिकम्। अर्थो मुख्यः प्रयोजनम्यस्यधनलाभप्रयोजनक इति यावत्। राजनियोगानपेक्ष एव यः परापराधं राज्ञो निवेदयति। सः स्तोभको। यस्तु तन्नियोगेन निवेदयति स सूचको इत्यनयोर्भेदः। आवेदकेन चैव ग्विधेन नावेदनं कर्त्तव्यमित्याहोशनाः।

सशस्त्रोऽनुत्तरीयश्च मुक्तकेशःसहासनः॥
वाहनस्थोऽथ वा स्रग्वी वदन्दण्डमवाप्नुयात्। इति

मुक्तकच्छ इति माधवीयपाठः। विनीतवेषो वदेदिति तात्पर्य्यम्। तदाऽऽवेदकवचनं लेखकः फलकादिषु राजाद्याज्ञया लिखेदित्याह नारदः।

रागादिना यदैकेन कोपितः करणे वदेत्।
तदोमिति लिखेत्सर्वंलेखकःफलकादिष्विति॥

करणे धर्माधिकरणे। ओमित्यनेन यथावेदितन्तथैव लिखेदित्युक्तम्। लिखनानन्तर कृत्यमाह।कात्यायनः।

एवम्पृष्टः म यत् ब्रूयात् ससभ्यै र्ब्राह्मणैः सह।
विचार्य कार्य्यंन्याय्यञ्चेदाह्वानार्थमतः परम्॥
मुद्रां वा निक्षिपेत् तत्र पुरुषं वा समादिशेदिति।

न्याय्यं न्यायादनपेतं मया जन्मान्तरेऽस्मैदत्तमृणं यन्नप्रत्यर्पयतीति इत्यादिवद्विचारायोग्यं यन्नभवतीत्यर्थः। तस्मिन्नावेदके पुरुषं साध्यपालनामानम्।आह्वानार्थमभियुक्तस्येत्यर्थात्। तथा च वृहस्पतिः।

यस्याभियोगं कुरुते तत्त्वेनाशङ्कयाऽथवा।
तमेवाह्वानयेद्राजा मुद्रया पुरुषेण वा॥

उत्तरदाने तस्यैवाधिकारादितिभावः।
कात्यायनः। अधिकारोऽभियुक्तस्य नेतरस्यास्त्यसङ्गतेरिति।
इतरस्याभियुक्ततदेकार्थभिन्नस्य। असङ्गते-रसम्बन्धात्। अभियुक्तानामपि केषाञ्चिदनाह्वानमाह।स एव।

अकल्पवालस्थविरविषमस्थक्रियाकुलान्।
कार्य्यातिपाती व्यसनी नृपकार्योत्सवाकुलान्॥
मत्तोन्मत्तप्रमत्तार्त्तभृत्यान्नाहानयेन्नृपः॥

अकल्पो व्याधितः। विषमस्थःसङ्कटापन्नः।क्रियाकुलो नित्यनैमित्तिककर्म्मकरणव्यग्रः। कार्य्यातिपाती। यस्य तदानीमागच्छतो गुरुतरकार्य्यहानिः। व्यसनी। इष्टवियोगादिजन्यशोकवान्।मत्तो मदनीयसेवनेन च्युतमतिः।उन्मत्तो ग्रहाद्याविष्टः। प्रमत्त स्तदानींसर्वत्रानवधानवान्। आर्त्तोविषादवान्। भृत्यग्रहणमस्वतन्त्रोपलक्षणम्। अतएव।

नहीनपक्षां युवतिङ्कुलेजातां प्रसूतिकाम्।
सर्ववर्णोत्तमाङ्कन्यान्तां ज्ञातिप्रभुका स्मृता॥

इत्यत्रास्वतन्त्रस्त्रीणामाह्वानम्प्रतिषिध्य स्वतन्त्राणान्तासामाह्वानमाह।स एव।

तदधीनकुटुम्बिन्यः स्वैरिण्यो गणिकाश्च याः।
निष्कुलायाश्च पतितास्तामा माह्वानमिष्यत इति॥

नारदः। निर्वेष्टुकामो रोगार्त्तो यियक्षु र्व्यसनेस्थितः।

अभियुक्तस्तथान्येन राजकार्य्योद्यतस्तथा॥
गवां प्रचारे गोपालाःशस्यावापे कृषीवलाः।
शिल्पिनश्चापि तत्कालं आयुधीयाश्च विग्रहे॥
अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती।
विषमस्थाश्च नासाध्या नचैतानाह्वयेन्नृप इति॥

निर्वेष्टुकामो विवाहे उन्मुखः। एते च कालान्तर आह्वातव्याः। यदा तु तत्कालाह्वानमावश्यकं तदा पुत्रादि यत्प्रतिनिधयः। इदमाह वृहस्पतिः।

अप्रगल्भ्यजडोन्मत्तवृद्धस्त्रीबालरोगिणाम्।
पूर्वोत्तरं वदेत् वन्धु र्न्नियुक्तो योऽथवा नरः॥
बन्धुःपुत्रादिस्तस्य परार्थवादित्वाभावात्।

नियुक्तस्य तत्वादैव। प्रतिनिध्याह्वानेन यदि न निर्वाहः कालातिपातासहत्वञ्च यत्र च प्रतिनिधिकरणप्रतिषेधस्तत्रयथा कथञ्चिदकल्पाद्याह्वानमाह स एव।

कालन्देशश्च विज्ञाय कार्याणाञ्च बलावलम्।
अकल्पादीनपिशनैर्या नैराह्वापयेन्नृपः॥
ज्ञात्वाऽभियोगं येऽपि स्यु र्वनेप्रव्रजितादयः।
तानप्याह्वापयेद्राजा गुरुकार्येष्वकोपयन्॥
गुरुकार्येषु आह्वापयेदिति सम्बन्धः।

निमित्तसप्तमीचेयम्। गुरुकार्यानिमित्तमाह्वापयेदित्यर्थः। अकोपन् सान्त्वयन्।

प्रतिनिधिप्रतिषेधं क्वचिदाह कात्यायनः।
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमे॥
अन्येषु चातिपापेषु प्रतिवादी न दीयते॥
मनुष्यमारणे स्तेये परदाराभिमर्शने।

अभक्ष्यभक्षणे चैव कन्याहरणदूषणे॥
पारुष्ये कूटकरणे नृपद्रोहे तथैव च।
प्रतिवादी न दातव्यः कर्त्तापि विवदेत् स्वयमिति॥

पुनस्तेयग्रहणं सर्वथा तत्र प्रतिनिधिप्रतिषेधार्थमिति मदनरत्नाकरः पूर्वं स्तेयग्रहणं ब्रह्महत्यादिसन्दिशात् सुवर्णस्तेयपरमिति तु वयम्। प्रतिवादी वादिप्रतिवादिनोः प्रतिनिधि रीदृशेषु गुरुकार्येषु न ग्राह्यमित्यर्थः।

राजाह्वानमतिक्रामतो दण्डो वृहस्पतिनोक्तः।
आहुतो यत्र नागच्छेद् दर्पाद्वन्धुवलान्वितः॥
अभियोगानुरूपेण तस्य दण्डम्प्रकल्पयेत्।
अभियोगभेदेन दण्डभेदस्तुकात्यायनेनोक्तः।
आहुतस्त्ववमन्येत यः शक्तो राजशासनात्।
तस्य कुर्यान्नृपोदण्डं विधिदृष्टेन कर्मणा॥
हीने कर्म्मणि पञ्चाशत् मध्यमे तु शतावरः।
गुरुकार्य्येषु दण्डः स्यान्नित्यं पञ्च शतावरः॥

गुरुकार्येषु नित्यञ्चाशक्त इति विशेषणादापन्नानागमने दण्डो नास्तीति कथितम्। व्यासेन तु स्पष्टमुक्तम्।

परानीकहते देशे दुर्भिक्षव्याधिपीडिते।
कुर्वीत पुनराह्वानं दण्डेन परिकल्पयेत्॥
आपन्मात्रमत्रागमनासम्भवहेतुभूतं विवक्षितम्।

आवेदनाय जिगमिषता कृतावेदनेन वा कार्यान्तरवैयग्र्यादिना राजाह्वानविलम्बेराजशपथादिना प्रतिवादिनःप्रतिरोधश्च आसेधापरपर्य्यायःकार्य इत्याह कात्यायनः।

उत्पादयति वो हिंसान्देयम्वा न प्रयच्छति।
याचमानाय दौःशील्यादाकृष्यो ऽसौनृपाज्ञया॥
आवेद्य तु नृपे कार्य्यमसन्दिग्धे प्रतिश्रुते।
तदासेधं प्रयुञ्जीत यावदाह्वानदर्शनमिति॥
प्रतिश्रुतेविचार्यत्वेन निश्चिते प्रतिज्ञाते च।

नारदोऽपि।वक्तव्येऽर्थे न तिष्टन्तमुत्क्रामन्तञ्च तद्वचः।

आसेधयेद्विवादार्थीयावदाह्वानदर्शनमिति।

वक्तव्ये निर्णीतव्ये। आसेधस्य चातुर्विध्यमाह स एव।

स्थानासेधःकालकृतः प्रवासात्कर्मणस्तथा।
चतुर्विधः स्यादासेधो नासिद्धस्तं विलङ्घययेत्॥

स्थानासेधो यावन्निर्णयमस्मात् स्थानात्पदमपि न चलितव्यमित्यादिरूपः। कालासेधः एतावन्तं कालं कार्यान्तरं न करणीयम् निर्णीयाऽमुं व्यवहारमितीदृशः। निर्णयावधि विदेशगमन न्नकार्यन्वयेत्येवं विधः प्रवासासेधः। देशकालावधिरहितो निर्णयमात्रावधिकः स्नानादिकर्मनिरोधः कर्म्मासेधःक्वचिदासेधनिषेधस्तेनैवोक्तः।

नदीसन्तारकान्तारदुर्देशोपप्लवादिषु।
आसिद्धस्तम्परासेधमुत्क्रामन्नापराध्नुयात्॥

आसिद्धस्यापराधाभावमुखेन निषेध उक्तः। दुर्दशेतिमाधवीयपाठो दुर्दशा दुरवस्थेति तत्वार्थः। अतएवासे धानर्हासेधएव प्रत्युत दण्ड उक्तः।कात्यायनेन। आसेधयं स्त्वनासेध्यं राज्ञाशास्य इति स्थितिरिति नारदोऽपि।

यस्त्विन्द्रियनिरोधेन व्याहारोच्छादनादिभिः।
आसेधयदनासेधैःस दण्डेया नत्वतिक्रमम्॥

स एव। आसेधकाल आसिद्ध आसेधंयोऽतिवर्त्तते।

स विनेयोऽन्यथाकुर्वन् नासेद्धादण्डभाग्भवेत्॥

कात्यायनः। आसेधयोग्य आसिद्ध उत्क्रामन्दण्डमर्हति।
अनासेध्या उक्तास्तेनैव।

वृक्षपर्वतमारूढाहस्त्यश्वरथनौस्थिता॥
विषमस्थाश्च ते सर्वे नासेध्याःकार्य्यसाधकैः।
व्याध्यार्त्ताव्यसनस्थाश्च यजमानास्तथैव चेति॥

निर्वेष्टुकाम इत्याद्याह्वाननिषेधप्रसङ्गेन आसेधकमपि नारदवचनं प्रागलेखि। वृहस्पतिरपि।

शास्त्रोद्वाहोद्यतो रोगी शोकार्त्तोन्मत्तबालकाः।
मत्तो वृद्धोऽभियुक्तश्च नृपकार्योद्यतो व्रती॥
आसन्नेसैनिकः सङ्ख्येकर्षको वापसंग्रहे।
विषमस्थाश्च नासेध्याः स्त्रीन्सनाथास्तथैवचेति॥

सङ्ख्येयुद्धे। वापसङ्ग्रह इत्येकवद्भावो द्वन्द्वे। तथा च वीजवापे तत्संग्रहे चेत्यर्थः।स्त्रियः सनाथाश्चेत्ययमपि द्वन्द्वः।स्त्रियःकुलस्त्रियः।अन्यासामाह्वानवदासेधेऽप्यविरोधात्। सनाथाःपरतन्त्राः भृत्यादयः। स्वाम्याद्यनुमतिमन्तरेण न सेध्याःस्त्रिया सह रहसि स्थिताः।

स्त्रीमनाथास्तत्काले नासेध्या इति तु पौलस्त्याः

आसेधस्य कालान्तरेऽपि सम्भवादनुचितदेशकालावस्थास्वासेध कृतासेध्य पीडातिशयप्रसक्तौवा नासेधःकार्य्यस्तादृशासेधे चासेध्या दण्ड्योनासेध्यस्तदतिक्रमकरणाद्यथोचिता सेधे तदतिक्रमे स दण्डय इति सकलवचनतात्पर्यम्। अतएवार्थसिद्धानामपि केषाञ्चिदासेधानां सेधनिमित्तानाम्प्रपञ्चनम्। राजपुरुषाय च साध्यपालनामकायाहुताह्वायकद्वारा भृति र्दापनीया देशकालाद्यनुसारेणेत्याह।कात्यायनः।

एकाह द्व्यहाद्यपेक्षन्देशकालाद्यपेक्षया।
दृताय साधितेकार्ये तेन भक्तम्प्रदापयेत्॥
देशकालावयः शक्त्याद्यपेक्षम्भोजनं स्मृतम्।
आकारकस्य सर्वत्रइति तत्त्वविदो विदुरिति॥

आकारकस्याह्वानकर्त्तुः।

अभियोक्तादीनामुक्ति क्रमः कात्यायनेनोक्तः।
तत्राभियोक्ता प्राग्ब्रूयादभियुक्त स्वनन्तरम्॥
तयो रन्ते सदस्यास्तु प्राड्विवाकस्ततः परम्।

सभ्यप्राड्विवाकयोरिदम्पश्चादभिधानमनुयोगादिव्यतिरिक्तप्रत्याकलितादिविषयक वचनपरमनुयोगादीनाम्प्रागेव तत्कर्त्तव्यत्वादित्यवधेयम्। प्राग्ब्रूयात् प्रतिज्ञां वदेदित्यर्थः। अभियुक्तस्त्वनन्तरमुत्तरं ब्रूयादिति। वादिप्रतिवादिनोर्धर्माधिकरणम्प्राप्तयोः प्रतिभूः ससभ्येन सभापतिना ग्राह्यइत्याह। याज्ञवल्क्यः।

उभयोः प्रतिभूर्ग्राह्यःसमर्थः कार्यनिर्णये।

उभयोरथिप्रत्यर्थिनोः प्रतिभूस्तत् स्थाने प्रतिभवति तद्व-

द्भवतीति प्रतिभूर्लग्नकः कार्यनिर्णये निर्णयकार्य्येसाधितफलदाने पराजयनिमित्तदण्डदाने जिताद्राजंग्राह्यभागदाने च समर्थः। शक्तो ग्राह्यो व्यवहारद्रष्टाससभ्येनेत्यर्थः। आहिताग्न्यादिषु पाठात्कार्यशब्दस्य परनिपातार्हस्यापि पूर्वनिपात इति विज्ञानेश्वरः। नासिकास्तनयोध्माधेटोरिति भगवतः पाणिनेरित्यादिसूत्रप्रयोगात्पूर्वनिपातशास्त्रानित्यत्वज्ञापनात्। तुल्यास्य प्रयत्नंसवर्णमित्यादिसूत्रेप्रारम्भो यत्नस्य प्रयन्त्र इति वदता श्रीमता भगवता महाभाष्यकारेण षष्ठीसमासे षठ्यन्तस्यापि क्वचित्परनिपातज्ञापनाद्वा।कार्यशब्दस्य परनिपातइति मदनरत्नकारः। तत्त्वनुशासनाभावे ज्ञापकानुखरणमन्यथाप्रसङ्गादित्ययुक्तम्। केचित्प्रतिभुवो न ग्राह्या इत्याह।कात्यायनः।

न स्वामी नच वै शत्रुःस्वामिनाधिकृतस्तथा।
निरुद्धोदण्डिनश्चैव संशयस्थो न कुत्रचित्॥
नैव रिक्थीन रिक्तश्च न चैवात्यन्तवासिनः।
राजकार्यनियुक्ताश्च येच वै प्रजिता नराः॥
नाशक्तो धनिने दातुन्दण्डं राज्ञेच तत्समम्।
नाविज्ञातो ग्रहीतव्यः प्रतिभूः स्वक्रियां प्रति॥

रिक्थी भ्रात्रादिः। रिक्तो निर्धनः। अत्यन्तवासिनो नैष्ठिक ब्रह्मचारिण इति मिताक्षरादिषु। अन्यत्र वासिन इति पठित्वा देशान्तरवासिन इति मदनरत्ने व्याख्यातम्। अविज्ञातो विशेषतोऽपरिचितः। याज्ञवल्क्यः।

भ्रातॄणा मथ दम्पत्योः पितुः पुत्रस्य चैव हि।
प्रातिभाव्यमृणं साक्ष्यमविभक्तेन तु स्मृतम्॥

नारदः। साक्षित्वम्प्रातिभाव्यञ्च दानं ग्रहणमेव च।
विभक्ताः भ्रातरः कुर्यु र्नाविभक्ताः परस्परम्॥

इदमपि दृष्टार्थम्। तथा प्रतिभूभेदात् तत्कार्यश्च ऋर्णादानप्रस्तावे वक्ष्यते प्रतिभुवो यद्यलाभोऽर्थिप्रत्यर्थिनो रन्यतरस्य तदा किं कार्यमित्यपेक्षित आह कात्यायनः।

अथचेत्प्रतिभूर्नास्ति कार्ययो स्तु विवादिनः।
स रक्षितो दिनस्यान्ते दद्याङ्भृत्याय वेतनम्॥

भृत्याय राजपुरुषाय रक्षकाय साध्यपालाख्याय।

अत्रैकत्वमविवक्षितम्।

वादिन इत्युपलक्षणंप्रतिवादिनोऽपि।
अथव्यहारपादाः प्रतिज्ञादयः प्रस्तूयन्ते॥

ते चत्वारः।

परस्परं मनुष्याणां स्वार्थविप्रतिपत्तिषु।
वाक्यान्न्यायाद्यवस्थानं व्यवहार उदाहृतः॥
भाषोत्तरक्रियासाध्य सिद्धिभिः क्रमवृत्तिभिः।
आक्षिप्तचतुरंशस्तुचतुष्पादभिधीयत॥ इति वचनात्।

वृहसतिः।

भाषापादोत्तरपादौ क्रियायादस्तथैव च।
प्रत्याकलितपादश्च व्यवहारश्चतुष्पद इति॥

कात्यायनोऽपि पूर्वपक्षश्चोत्तरपक्षश्चप्रत्याकलितमेव च।

क्रियापादश्च तेनायं चतुष्पात्समुदाहृतः॥

वृहस्पतिः। मिथ्यायां चतुरः पादाः प्रत्यवस्कन्दने तथा।

प्राङ्न्याये च सतु ज्ञेयो द्विपात्सम्प्रतिपत्तिषु॥

तृतीयतुरीयपादयोः सम्प्रतिप्रत्तावसम्भवात् द्विपात्वमिति।

अत्र विज्ञानयोगिना। साध्यसिद्धिस्त त्सिद्धौसिद्धिमाप्नोति।विपरीतमतोऽन्यथेति योगीश्वरोक्तेजयपराजयावधारणं तल्लक्षणं चतुर्थपादः इत्यभिधायोत्तराभिधानानन्तरमर्थिप्रत्यथिनोःकस्य क्रिया स्यादित्यादि परामर्शलक्षणस्य प्रत्याकल्पितस्य योगीश्वरेण व्यवहारपादत्वेनानुक्तेर्व्यवहर्तृसम्वन्धाभावाच्चन व्यवहारपादत्वमित्युक्तम्। अपरार्कस्तुसाध्य सिद्धिपदेन प्रत्याकलितमेव व्याचख्यौ। यदाह। अत्रसिद्धिशब्देन सभ्यानामर्थि प्रत्यर्थि जयपराजयोपायभूतप्रमाणस्येदं शास्त्रतः प्राप्नोतीति विचारकाणां परामर्शप्रत्याकलितादिशब्दवाच्य उच्यते सिद्धिफलत्वादिति। प्रागुदाहृतंकात्यायनवचनञ्च तत्र सम्बादितवान्।

पूर्वपक्षः स्मृतः पादो द्वितीयश्चोत्तरस्तथा।
क्रियापादस्तृतीयस्तुंचतुर्थोनिर्णयस्तथेति॥

वृहस्पतिवचनस्थंनिर्णयफलकपरामर्शरूपं प्रत्याकलितपरमेव निर्णयपदमुपचारादित्याह।

इतरथा पूर्वोदाहृत तद्वचनविरोधः स्यात्।

तत्र प्रतिज्ञावादिकःस्यादित्यपेक्षिते। नारदः॥ राजे कुर्य्यात् पूर्वमावेदनं य स्तस्य यः पूर्ववादो विधिज्ञैरितिपूर्ववादःप्रतिज्ञा।पूर्ववादिकस्यैव प्रतिज्ञावादिनेत्यस्यापवादमाह।स एव।

यस्य वाभ्यधिका पीडा कार्य्यंवाभ्यधिकम्भवेत्।
तस्यार्थिवादोदातव्यो नयः पूर्वं निवेदयेत्॥

अर्थिवाद प्रतिज्ञा। वृहस्पतिः।

अहं पूर्विकया यातावार्थिप्रत्यर्थिनौ तथा।
वादोवर्णानुपूर्वेण ग्राह्यः पीडामवेक्ष्यचेति॥

मनुरपि। अर्थानर्थावुभौ बुद्धा धर्माधर्म्मौच केवलौ।

वर्णक्रमेण सर्वाणि पश्येत्कार्य्याणि कार्य्यिणाम्॥

ब्राह्मणादीनां युगपद्धर्म्माधिकरणं प्राप्तानां वर्णानुक्रमेण ब्राह्मणस्यादौ ततः क्षत्रियस्येत्येवमादिक्रमेण चतुष्पाद्यवहारः प्रवर्त्तनीयो राज्ञा पीडाधिक्यकार्य्यगौरवे चेदर्थिप्रत्यर्थिनोरन्यतरस्य तदा न पूर्वावेदनक्रमो नापि वर्णक्रमः। यदा तु सर्वे सवर्णास्तदा आवेदनक्रमः।युगपदावेदने समानवर्णत्वे समानपीडत्वे च ससभ्यःसभापतीच्छयेति निर्गलितोऽर्थः। प्रतिज्ञालक्षणमाह याज्ञवल्क्यः।

प्रत्यर्थिनोऽग्रतो लेख्यं यथा वेदितमर्थिना।
समा-मासतदर्ड्वाह र्न्नामजात्यादिचिह्नितम्॥

अर्थतःइत्यर्थःसाध्यः। सोऽस्यास्तीत्यर्थी। तद्विपरीतः प्रत्यर्थी तस्याग्रतः पुरतो लेख्यंलिखनीयं ससभ्येन सभापतिना। यथा वेदितं पूर्व्वावेदनमनतिकम्ययेन प्रकरेणावेदनसमये स्ववचनं लेखितं तथैव प्रत्यर्थिसमक्षमपि न पुनरन्यथा। तथासत्यन्यवादित्वेन भङ्गप्रसङ्गात्। अन्यवादीत्यादि हीनलक्षणेवक्ष्यते। प्रागेवार्थिना स्वप्रतिज्ञातार्थस्य लिखितत्वादधुना लेखनमर्थकमित्याशङ्कानिरासायाह।समामासेति। संवत्सरमासपक्षतिथिवारार्थिप्रत्यर्थिनामतदीयजातिभिरादिशब्दोपातैश्चद्रव्यसङ्ख्या तज्जाति ऋणग्रहणादिस्थान वेलाक्षमालिङ्गादिभिर्यथोपयोगं चिह्नितमिति कार्य्यमात्रमावेदनकाले लिखितमधुनोपयुक्तविशेषण सहितं लिख्यत इति नानर्थक्यमिति भावः।

आदिशब्दग्राह्याणि च कात्यायन आह।
निवेश्य कालं वर्षं चमासम्पक्षन्तिथिन्तथा॥
बेलाम्प्रदेशं विषयं स्थानं जात्याकृती वयः।
साध्यम्प्रमाणं द्रव्यञ्च सङ्ख्यानामतथात्मनः॥
राज्ञां च क्रमशो नाम निवासं साध्यनाम च।
क्रमात्पितॄणां नामानि पीडामाहर्तृ-दायकौ॥
क्षमालिङ्गानि चान्यानि पक्षं सङ्कल्पकीर्त्तयेत्।

कालो धनप्रयोगादिकालः। वर्षं पत्रलिखनकालीनं मासपक्षतिथयोऽपि सन्ध्यावन्दनादिक्रियोपलक्षितः कालोवेला। प्रदेशःक्षेत्रादिस्थल विशेषः।विषयोऽन्तर्वेद्यादिदेशः। स्थानंविवादास्पदीभूत गृहादि ग्रामादि आकृतिरवयवसंस्थानविशेषः। वयस्तारुण्यादि। प्रमाणं निवर्त्तनप्रस्थादि। आत्मनोराज्ञां च क्षेत्रादि-भोगकालीनं बहुवचनन्तदीयपित्रादि प्राप्तार्थम् निवासो निकटगृहादिः। पितरोऽर्थिप्रत्यर्धिनोः। पीड़ाप्रतिभूप्रभृतीनान्धनिकादिकृता। आहर्त्ताप्रतिग्रहादिविषयवस्तूनि आनेता दायको दातृविक्रेत्रादिः। क्षमालिङ्गान्यात्मीयधनादेः। परोपभोगाद्यपराधसहनचिह्नानि।

अन्यत् सुबोधं संग्रहकारोऽपि।

अर्थवद्धर्मसंयुक्तं परिपूर्णमनाकुलम्।
साध्यवद्वाचकपदम्प्रकृतार्थानुबन्धि च॥
प्रसिद्धमविरुद्धञ्च निश्चितं साधनक्षमम्।
संक्षिप्तन्निखिलार्थंच देशकालाविरोधि च॥
वर्षर्त्तुमासपक्षाहो बेलादेशप्रदेशवत्।

स्थानावसथसाध्याख्या जात्याकारवयोयुतम्॥
साध्यप्रमाणं सङ्ख्यावदात्मप्रत्यर्थि नाम च।
परात्मपूर्वजानेकराजनामभिरङ्कितम्॥
क्षमालिङ्गात्मपीड़ावत् कथिताहर्तृ-दायकम्।
यदा - वेदयते राज्ञेतद्भाषेत्यभिधीयते॥

इति अर्थवत्। प्रयोजनवत्। धर्म्म संयुक्तम्।अल्पाक्षरप्रभूतार्थत्वादि गुणयुक्तम्। परिपूर्णमध्याहाराद्यनपेक्षम्।अनाकुलमसन्दिग्धाक्षरम्।साध्यवत्। साधनीयार्थयुतम्। वाचकपदम्। गौणलाक्षणिकपदरहितम्।प्रकृतार्थाविरोधिप्रागावेदितार्थेन सह सम्बादि प्रसिद्धंलोकप्रसि- द्ध्यानतिक्रान्तम् अविरुद्धम्पुरराष्ट्रप्राड्विवाकराजाद्यविरुद्धम्। पूर्वापराविरुद्धं व्यवहारिकधर्म्माविरुद्धञ्च। निश्चितसंशयरहितम्। साधनक्षमम्। साधनार्हम्। सङ्क्षिप्तंशब्दाड़म्बरशून्यम्।निखिलार्थंनिरवशेषवक्तव्यार्थप्रतिपादकम्। देशलोकाविरोधि। मध्यदेशीयममुकक्षेत्रम्। शरत्कालीननामकमहस्त्रंच मदीयमपहृतमित्यादिदेशकालविरोधविधुरम्। परात्मनोः प्रतिवादिवादिनो र्येपूर्वजाःपित्रादय स्त्रयः अनेके राजानः क्षत्रादिभुक्तिकालीनास्तेषान्नामभिरङ्कितं युक्तम्। अत्रार्थवत्वादीनि देशकालविरोधित्वमर्थिप्रत्यर्थिनाम वेति सर्वत्र भाषायामवश्यम्भावानि। तैर्विना साध्यनिर्देशासिद्धेः वर्षादीनि तु यत्र यावन्त्युपयुज्यन्ते तत्र तावन्त्येव निवेशनीयानि सर्वाणि सर्वत्र अदृष्टार्थत्वप्रसङ्गात्। तत्र वर्षादीनां कालानां वृद्धिधनद्वैगुण्यादिविवादेन प्रतिग्रहक्रयादिपौर्वापर्य्यवादे वोपयोग।देशप्रदेशस्थाननामाह।हर्तृदायकयो रात्मादिपूर्वजराजादिनाम्नां

च स्थावरक्षेत्रादिविवादेषु।साध्याख्या जात्याकारवयसां चौर्य्यादिस्वाम्यविक्रियादिविवादेषु। प्रमाणसंख्ययोर्मेयतुलितादिद्रव्यविवादे चौर्य्यादिविवादे च क्षमालिङ्गानामुपेक्षित परोक्षभुज्यमानभूम्यादिविवादे।आत्मपीड़ाया ऋणिकप्रतिभ्वादिविवादे एव मन्यदप्युन्नेयम्। अतएवाशयादाह।

कात्यायनः। देशञ्चैव तथा स्थानं सन्निवेशस्तथैव च।

जातिःसज्ञाधिवासश्च प्रमाणं क्षेत्रनाम च।
पितृपैतामहञ्चैव पूर्वराजानुकीर्त्तनम्।
स्थावरेषु विवादेषु दशैतानि निवेशयेदिति॥

एतेषां तत्वोपयोगित्वात्। हारितोऽपि।

आसनं शयनं यानन्ताम्रंकांस्यं मनोमयम्॥
धान्यमश्ममयं यच्च द्विपदञ्च चतुष्पदम्।
मणिमुक्ता प्रबालानि हीरका-रूप्य-काञ्चनम्॥
यदि द्रव्यसमूहःस्यात् संख्या कार्य्या तदैव तु।
यस्मिन्देशे च यद् द्रव्यं येन मानेन मीयते॥
तेन तस्मिंस्तदा सङ्ख्या कर्त्तव्या व्यवहारिभिरिति।
मानसंख्याशब्दावत्रान्योऽन्योपलक्षणम्॥

अत्रैतावद्विवक्षितं यत्र यावदुपयुज्यते तत्र तावन्निवेश्य भाषापतन्ने।अन्यथा साध्यनिर्देशस्यापूर्वत्वात् पक्षाभासतापत्ते रधिकनिवेशादृष्टार्थतापत्तेरिति। कात्यायनोऽर्थत एवाह।

देशकालविहीनश्चद्रव्यसङ्ख्याविवर्जितः।
क्रियमानविहीनश्चपक्षो नादेय इष्यते॥

क्रिया प्रमाणम्। मानं साध्यपरिमाणम्। यद्यपि पूर्वो-

क्तपक्षलक्षणरहितानाम्पक्षाभासत्वमर्थसिद्धं तथापि नारदादिभिः स्पष्टार्थंप्रपञ्चितम्। तत्र नारदः।

अन्यार्थमर्थहीनञ्च प्रमाणागमवर्जितम्।
लेख्यहीनाधिकं भ्रष्ट भाषादोषाउदहृताः॥

एतान् स एव विकृतवान्।

अर्थ साधारणेऽप्येको सम्बन्धोऽथानियुक्तकः।
लेखयेद्यत्तु भाषार्थमन्यार्थन्तं विदुर्बुधाः॥

गणकार्य्यमेको वा यद्यसम्बन्धी तदनियुक्तो वा लेखयेद्यस्यां भाषायामित्यर्थः।

ब्रह्महायमिति द्वेषात् क्रोधाद्वापिवदेत्तु वः।
साध्यं च मोचयेत्पश्चादर्थहीनान्तु तांविदुः॥

उक्तं साध्यवादिना यस्यान्त्यज्यते सा भाषार्थहीनेत्यर्थः।

गणिते तु लिखिते मेये तथा क्षेत्रगृहादिषु॥
यत्रंसङ्ख्या न निर्दिष्टा सा प्रमाणविवर्जिता॥

सङ्ख्यानं सङ्ख्येति व्युत्पत्त्या सङ्ख्याशब्देन गणनन्तोलनं मानानां परिग्रहः।

विद्यया प्राप्तमर्थार्थं लब्धंक्रीतं क्रमागतम्।
नत्वेवं लिख्यते यत्र सा भाषा स्यादनागमा॥
समामास तथा पक्ष स्तिथिर्वारस्तथैव च।
यत्रैतानि न लिख्यन्ते लेख्यहीनान्तु तां विदुः॥

अवश्यं यद्यत्र पूर्वोक्तरीत्यालेख्यन्तद्रहिता लेख्यहीनेत्यर्थः।

लेखयित्वा तु तां भाषामनिर्दिष्टेतथोत्तरे।
निर्दिशेत् साक्षिणः पूर्वमधिकान्तां विनिर्दिशेत्॥

साक्षिण इति प्रमाणोपलक्षणम्।

व्युत्क्रमादत्राधिक्यन्तेनाप्राप्तकालता फलिता।
यत्रस्यात्तु यथा पूर्वं निर्दिष्टम्पूर्वादिना॥
सन्दिग्धमेव लेख्येन भ्रष्टाम्भाषान्तु तां विदुः।

उभयम्पूर्वमितिपाठे पक्षद्वयमपि प्रतिज्ञावादिनैव निर्दिष्टं स्यादित्यर्थः। कात्यायनः।

अप्रसिद्धं निरावाधन्निरर्थन्निष्प्रयोजनम्।
असाध्यं वा विरुद्धं वा पक्षाभासं विवर्जयेत्॥

अप्रसिद्धमाह।वृहस्पतिः।

न केनचित् कृतो यस्तु सोऽप्रसिद्ध उदाहृतः।
यथा। फलमहस्रकृष्टक्षेत्रमपहृतमिति॥

मदीयं शशविषाण गृहीत्वा न प्रयच्छतीत्यादि प्रसिद्धमित्याह विज्ञानेश्वरः। वृहस्पतिना त्विदमसाध्योदाहरणमुक्त न्तच्चवक्ष्यते। निरावाधन्निरूपद्रवमस्मिन्मन्दिरेदीप्यमानदीपकप्रकाशेनायं स्वमन्दिरे व्यवहरतीति प्रभृति निरर्थमभिधेयहीनं मदीयङ्कचटतपञ्जवगडदशंगृहीत्वा न ददातीत्यादि विज्ञानयोगी।वृहस्पतिवचनात्त्वन्यथा निरर्थकपदार्थः प्रतीयते। यथाह।

स्वल्पापराधः स्वल्पार्थो निरर्थक इति स्मृत इति।

एतस्योदाहरणं स्मृति चन्द्रिकायाम्।अहमनेन सस्मितमीक्षितः। मामकी शिक्षा तेनापहृतेत्यादीनि।निष्प्रयोजनं ययायं देवदत्तोऽस्मद्गृहसन्निधौ सुस्वरमधीत इत्यादि मिताक्षरास्मृतिचन्द्रिकयोदाहृतम्। वृहस्पतिना तथैव लक्षितम्।

कार्य्यबाधा विहीनस्तु विज्ञेयो निष्प्रयोजन इति।

स एव प्रकारान्तरेणापि निरर्थनिष्प्रयोजनौ लक्षितवान्।

कुसीदाद्यैः पदैर्हीनो व्यवहारनिरर्थकः।
वाक्पारुष्यादिभिश्चैव विज्ञेयो निष्प्रयोजनः॥

कुसीदमृण दानन्तत्प्रभृतिभि चतुर्दशभिरर्थविषय व्यवहारैर्हीनोनिरर्थकः। वाक्पारुष्यादिभिर्हिंसात्मकैश्चतुभिर्हीनो निष्प्रयोजन इत्यर्थः।अष्टादश पदाविषयः पक्षो दुष्ट इत्याशयः। असाध्यविरुद्धावाह स एव।

समानेन प्रदातव्यं शशशृङ्गकृतन्धनुः।
असम्भाव्यमसाध्यन्तं पक्षमाहुर्मनीषिणः।
यस्मिन्नावेदिते पक्षे प्राड्विवाकेऽथ राजनि।
पुरराष्ट्रेविरोधःस्याद्विरद्धःसोऽभिधीयत इति॥

मिताक्षरायामसाध्यविरुद्वावन्यथोक्तौ। देवदत्तेनाहं सभ्रूभङ्गमुपहसित इत्याद्यसाध्यसाधनासम्भवात्। अल्पकालत्वान्न साक्ष्यादिसम्भवोत्पन्नत्वान्न दिव्यमिति।मूकेनाहं शप्तइत्यादिविरुद्धमिति। पुरराष्ट्रादिविरुद्धमपि विरुद्धपदेन व्याख्याय राज्ञाविवर्जित इत्यादिस्मृत्यन्तरञ्च तदर्थतयोदाहृतन्तच्च पूर्वमस्माभि रनादेयमव्यवहारनिरूपणे लिखितम्। अन्येऽपि पक्षाभासाः स्मृतिचन्द्रिकोदाहृतवचनोक्ता ज्ञेयाः।

यथा भिन्न क्रमोव्युत्क्रमार्थः प्रकीर्णार्थोनिरर्थकः।
अतीतकालो विद्विष्टः पक्षो नादेयइष्यते॥
यथास्थानानिवेशेन नैवपक्षार्थकल्पना।
शस्यते तेन पक्षः स भिन्नक्रम उदाहृतः॥
व्यत्यस्ताक्षरसन्निवेशो भिन्नक्रम इति यावत्।
व्युत्क्रमार्थो व्यवहितान्वयेनार्थाबोधकः।

प्रकीर्णार्थोऽसङ्कलितार्थः।

मूलमर्थं परित्यज्य तद्गुणो यत्र लिख्यते।
निरर्थकः सवैपक्षो भूतसाधन वर्जितः।
भूतकालमतिक्रान्तं द्रव्यं यत्र हि लिख्यते।
अतीतकालःपक्षोऽसौ प्रमाणे सत्यविस्मृतः॥
यस्मिन् पक्षे द्विधा साध्यं भिन्नकालविमर्शनम्।
विमृष्यते क्रिया भेदाः सपक्षोद्विष्ट उच्यते॥
भूतसाधनं मूलभूतं साधनन्तेन वर्जितः।

भूतकालः साध्यकालः।अन्यानपि पक्षाभासानाह स एव।

अन्याक्षरनिवेशेन अन्यार्थगमनेन त्त।
आकुलन्तु भवेल्लेख्यं क्रिया चैवाकुला भवेत्॥
साधनं सह साध्येन निर्दिष्टं यत्र लेखयेत्।
उक्तक्रमविहीनत्वात् सोऽपि पक्षोन सिध्यतीति॥
विरुद्धश्चा विरुद्धश्च द्वावप्यर्थौनिवेशितौ।
एकस्मिन् यत्रदृश्येते तं पक्ष दूरत स्त्यजेत्॥
परस्परविरुद्धानि यः पदानि निवेशयेत्।
विरुद्धपदसङ्कीर्णा भाषा तस्य न सिध्यतीति॥

यत्तु। पुरराष्ट्र विरुद्धश्च यश्च राज्ञा विवर्जितः।

अनेकपदसङ्कीर्णः पूर्वपक्षो न सिद्ध्यतीति॥

स्मरणात् तस्यायमर्थः। राज्ञाविवर्जितो राजत्यक्तशुक्तादिविषयकर्णादानादिपदमिश्रितस्तु क्रियाभेदेन युगपन्न सिध्यतीति। मदीयारूपका इयन्तोऽनया वृद्ध्यानेन गृहीताः सुवर्णञ्च यदस्प्ररुस्ते मया निक्षेपीकृत मयमिदं मदीयक्षेत्रमपहरतीत्यनेकपदविषयस्यापि पक्षस्य क्रमेणाप्यनुपादेयत्वे तत्त्वनिर्णयाभावप्रसङ्गेन युक्तिविरोधात्।

बहुप्रतिज्ञंयत्कार्य्यंव्यवहारेषु निश्चितम्।
कामन्तदपि गृह्णीयाद्राजा तत्त्ववभूत्सयेति॥

कात्यायनवचन विरोधाच्च।

तस्माद्युगपत् पक्षाभासतेत्येव रमणीयम्।
अनेकवस्तुसङ्कीर्णस्यापक्षत्वन्त्वत्पदसम्बद्धम्॥

हिरण्यरूपकवासांसि वानेन मत्तोवृद्ध्या गृहीतान्यस्य हस्तेमया निःक्षिप्तान्यनेनापहृतानि वेत्येकस्मिन्नपि पदे युगपदपीदृशपक्षोपन्या- सस्यादुष्टत्वात्। साध्यञ्च विधिमुखेन प्रतिषेधमुखेन वा पक्षनिक्षेपणीयमित्याह कात्यायनः।

न्यायं संयच्छते कर्तुमन्यायं वा करोत्ययम्।
न लेखयतियस्त्वेवं तस्य पक्षोन सिध्यति॥

न्यायं स्वमित्यनेन ममैतावद्धनमादाय न ददातीत्यादि प्रतिबन्धमुखतोऽपि लक्षिता। अन्याय वेत्यनेन ममेदमपहरतीत्यादि विधिमुखता प्रदर्शिता। वृहस्पतिरपि।

प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम्।
निश्चितं लोकसिद्धञ्च पक्षन्पक्षविदोविदुरिति॥

प्रतिज्ञादोषैः प्रतिज्ञासन्यासादिभिर्मुक्तं रहितम्। तेच दर्शिताः प्राक्।साध्यं साध्यार्हम्। प्रत्यर्थि धर्मविशिष्टधर्मिवचनमिति यावत्। सत्कारणान्वितं स्फुटदोषरहित हेतुसहितम्। निश्चितं सन्देहाजनकं वाक्यरचनायुक्तन्नतु स्वयमेव निश्चितं विप्रतिपत्तावर्थनिश्चयाभावात्। लोकसिद्धं व्यवहाहारिकधर्माविरुद्धम्। अतएव मनुः।

सत्या न भाषा भवति यद्यपि स्यात् प्रतिष्ठिता।
बहिश्चेद्भाष्यते धर्मान्नियताद्यावहारिकात्॥

प्रतिष्ठिता प्रसिद्धत्वादिदोषनिर्मुक्तादिभाषा प्रतिज्ञाव्यावहारिक धर्माविरुद्धाच सत्याग्राह्या न भवति राजादीनामित्यर्थः। भवदेवस्तु। यत्र श्रुतमात्रमेव सति लोकानां सम्प्रत्यय स्तल्लोकसिद्ध न्तेनं निर्धनकतो लक्षादिसङ्ख्यधनाक्षेपो न पक्ष इति व्याचख्यौ तद्वाधरूपप्रतिज्ञादोषवत्वेनैव तादृशपक्षस्य निराकरणात्। प्रतिज्ञादोषनिर्मुक्तमित्यनेनैव गतार्थम्।अयञ्च पक्षः प्राक्पाण्डुलेख्यं भूमिफलकादौ कारयित्वा शोधितः पश्चात्पत्रे लेखनीयः। तथा च वृहस्पतिः।

अधिकान्छातयेदर्थान् न्यूनांश्च परिपूरयेत्।
भूमौ निवेशयेत्तावद्यावदर्थो विनिश्चितः॥

शातयेदुद्वपेत्। भूमाविति पाण्डुलेख्य योग्याधारोपलक्षणाम्। अतएवाह।स एव।

पूर्वपक्ष स्वभावोक्तं प्राड्विवाकोऽभिलेखयेत्।
पाण्डुलेखेन फलके ततः पत्रेविशोधितमिति॥

स्वभावोक्तन्नभयाद्युपाधिनोक्तम्। व्यासोऽपि।

पाण्डुलेखेन फलके भूमौ वा प्रथमं लिखेत्।
ऊनाधिकन्तु संशोध्य पश्चात्तपत्रे निवेशयेत्॥

शोधनञ्चोत्तरयोग्यतावधि विधेयम्। न ततः पर-मनवस्थापत्तेरदृष्टार्थतापाताच्च। तथा च नारदः।

शोधयेत्पूर्ववादन्तु यावन्नोत्तरदर्शने।
अवष्टब्धस्योत्तरेण निवृत्तं शोधनम्भवेत्॥

अवष्टब्धस्योत्तरयोग्यस्य यस्त्वर्थ्यप्रगल्भत्वात् पक्षदोषगुणहानादानाभ्यां शोधयितुमशक्तस्तस्य वक्तव्यार्थं निर्धार्य्यसभ्यैरेव संशोधनीयः। यथाहवृहस्पतिः।

अभियोक्ता प्रगल्भत्वाद्वक्तुन्नोत्सहतेयदा।
सभ्यैस्तु शोधनन्तस्य कार्य्यमर्थानुरूपत इति॥

यदि भाषामशोधयित्वैवोत्तरन्दापयन्ति सभ्यास्तदा रागाल्लोभाद्भयाद्वापीत्याद्युक्तदण्डेन सभ्यान् दण्डयित्वा पुनः प्रतिज्ञालेखनपूर्वकं व्यवहारः। प्रवर्त्तनीयो राज्ञेति तात्पर्यम्। यदा त्वर्थिप्रत्यर्थिनोर्ल्लेखनापाठवद्राजकीयलेखकद्वारा तौ भाषोत्तरे लेखयतः। सत्तान्यतरपक्षपातेनान्यथा लिखत्यन्यत्स राज्ञा चौरवद्दण्ड्यइत्याह कात्यायनः।

अन्यदुक्तं लिखेदन्यद्योऽर्थिप्रत्यर्थिनां वचः।
चौरवत्त्वासयेत्तन्तु धार्मिकः पृथिवीपतिरिति॥

अत्रत्रासयेदित्युक्तेस्तत्प्रयोजनं पुनस्तादृशकार्ये वृत्तिनिरोधे। स्मृतितत्त्वे तु चौरवच्छासयेदित्येवं पठितम्॥ एवमुक्तलक्षणःपचञ्चतुर्विधः। तथाच वृहस्पतिः।

शङ्काभियोगस्तत्त्वञ्च लभ्येऽर्थेभ्यर्थिनन्तथा।
वृत्ते वादे पुन र्न्यायःपक्षोज्ञेय श्चतुर्विधः॥
चतुर्विधः पूर्वपक्षः प्रतिपक्षस्तथैव च।
चतुर्धा निर्णयः प्रोक्तः कैश्चिदष्टविधः स्मृतः॥
भ्रान्तिः शङ्कासमुद्दिष्टा तत्त्वन्तत्त्वार्थदर्शनम्।
लभ्येऽर्थेभ्यर्थनं मोह स्तथावृत्ते पुनः क्रियेति॥

नारदः। सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता।

तद्वानौ हीयते वादी तरस्तामुत्तरोभवेत्॥

उत्तर उत्कृष्टो विजयेति यावत्। यद्यपि न्यायाख्यपञ्चावयववाक्यान्तर्गतं प्रतिज्ञास्वरूपं साध्यधर्मविशिष्ट धर्मिवनमात्रं तथाप्यत्र सत्कारणान्वितमित्युक्तत्वात् सहेतुक-साध्य-

विशिष्टधर्मिवचनं प्रतिज्ञेति गम्यते। हेतोश्च पक्षभूताऽधमर्णादिनिष्ठत्वं तदनङ्गीकृतं क्रियापदेन सिध्यतीति ध्येयम्। तथा सति स्थापनानुमानप्रयोग एव प्रतिज्ञा। प्रतिस्थापनानुमानप्रयोग एव चोत्तरमत्रपर्यवस्यति। अतएव स्मृत्युक्त्या उभयभासा यथायथमर्थान्तरमप्यनुयोज्यानुयोगासिद्ध्यादि- निग्रहस्थानहेत्वाभासादिष्वेव पर्यवस्यन्ति। ततश्च त्वं शतं मह्यं धारयसि। ॠणत्वेन मत्तो गृहीततावद्धनत्वादिति भाषाशरीरम्। न धारयाम्य गृहीतत्वात् प्रतिदत्तत्वाद्वेत्याद्युत्तरशरीरम्। अत्र च न साधुशब्दनियमस्तदनभिज्ञानामत्रार्थि प्रत्यर्थित्वदर्शनात्। बोधकास्तु येषां ये शब्दाः प्रसिद्धास्तैरेव भाषा लेखनीया।प्रतिवादिसभ्यादीनां तदभिज्ञत्वे भाषाद्ययाद्यभिज्ञैस्तैरेव बोधनीया इत्याद्यूह्यम्। अतएव विष्णुधर्मेऽध्यापनेऽपि साधुशब्दनियमान्नारद आाह।

संस्कृतैः प्राकृतैर्वाक्यैर्य्यःशिष्यमनुरूपतः।
देशभाषाद्युपायैश्च बोधयेत् स गुरुः स्मृतइति॥

इति प्रतिज्ञापादो निरूपितः। अथोत्तरपादोनिरूप्यते। तत्र निर्दोषायाम्भाषायां निश्चिततदर्थेन प्रत्यर्थिनोत्तरन्देयम्। तथा च वृहस्पतिः।

विनिश्चितेपूर्वपक्षेग्राह्याग्राह्य विशोधिते।
प्रतिज्ञार्थे स्थिरीभूते लेखयेदुत्तरन्ततः॥

विनिश्चितेसंशयरहितज्ञानगोचरीकृतार्थे विशोधित्तेऽत एव स्थिरीभूते लैखयेदिति वाचयेदित्यस्याप्युपलक्षणं वाचनपूर्वकत्वाल्लेखनस्य।इदञ्चार्थिसन्निधावेव लेखनीयमित्याह। याज्ञवल्क्यः। श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसन्निधौ।

श्रुतोभाषार्थो येन प्रत्यर्थिना सः श्रुतार्थस्तस्येति कर्त्तरि षष्ठी। तेन लेख्यमित्यर्थः। पूर्वावेदकोऽर्थी पूर्वपक्षादुत्तरोपन्यस्य इत्युत्तरम्पूर्वपक्षोपमर्दक- मुच्यते यथाहतु र्नारदप्रजापती।

पक्षस्य व्यापकं सार मसन्दिग्धमनाकुलम्।
अव्याख्यागम्यमित्येतदुत्तरन्तद्विदो विदुरिति॥

पक्षस्य व्यापकं निराकरणसमर्थम्। सारं न्याय्यम्। असन्दिग्धं सन्देहजनक-नानार्थादिशब्दरहितम्। अनाकुलं पूर्वापराविरुद्धम्। अव्याख्यागम्यमप्रसिद्धदेशभाषाभिधानेन प्रसिद्धार्थपद-दुश्लिष्टविभक्ति समामव्यवहितयोजना व्यवधारण-कल्पना विपरिणामसाध्याहाराभिधानेन वा यत् क्लिष्टव्याख्यानेन दुर्गमार्थं न भवति। हारीतोऽपि।

पूर्वपक्षार्थ सम्बन्धमनेकार्थमनाकुलम्।
उपयुक्तमव्यस्तपदं व्यापकं नातिभूरि च॥
सारभूतमसन्दिग्धं स्वपक्षैकान्तसम्भवम्।
अर्थिश्राव्यमगूढार्थन्देयमुत्तर मीदृशमिति॥

अनेकार्थमनेकेऽर्थाउपयुक्ता विशेषणादयो यत्र तत्तथा। नत्वनेकार्थपदयुक्तन्तस्य सन्दिग्धत्वेन दुष्टत्वात्। अनाकुलमुक्तार्थम्। उपयुक्तशब्दैरन्यूनमनल्पम्।अव्यस्तानि व्यत्यासयोजनानपेक्षाणि पदानि यत्र तदव्यस्तपदम्। व्यापकम्परिपूर्णार्थम्। नातिभूरि अनुपयोगि व्यस्तरहितम्। सारभूतत्वासन्दिग्धत्वे व्याख्याते।स्वपक्षैकान्तसम्भवम्। स्वपरिगृहीतपक्ष एवैकान्तेन नियमेन सम्भवति न कथ-

ञ्चिदपि पक्षान्तरकक्षामवगाहते तत्।अन्यद्यक्तार्थम्। शाद्यदर्पादिभिर्य्यदोत्तरं न ददाति प्रतिवादी तदा कथंञ्चित् ससभ्यप्राड्विवाकेन राज्ञेउत्तरं दापनीयमित्याह।

वृहस्पतिः। पूर्वपक्षे यथार्थन्तु न दद्यादुत्तरन्तु यः।

प्रत्यर्थी दापनीयःस्यात् सामादिभिरुपक्रमैः॥
प्रियपूर्वं वचः साम भेदस्तूभयदर्शनम्।
अर्थापकर्षणन्दण्ड स्ताडनं वन्धनं तथा॥
उभयैश्चोद्यमानस्तु न दद्यादुत्तरन्तुयः।
अतिकान्तेसप्तरात्रेजितोऽसौ दण्डमर्हति॥
उभयैर्मृदुभिस्तीव्रै श्चोपायैरित्यर्थः।

कात्यायनः। यथार्थमुत्तरं दद्यादयच्छत् तञ्च दापयेत्॥

मोहाद्वायदि वा शाठ्याद्यन्नोक्तं पूर्ववादिना।
उत्तरान्तर्गतं वापि तद्ग्राह्यमुभयोरपि॥

मोहादिवशात् पूर्ववादिना गगनुक्तमप्युत्तरान्तर्गत मुत्तराभिधानसमय एक प्रोच्यमान मुभयोरुत्तरवादिव्यवहार दर्शिनो र्ग्राह्यं ग्रहणार्हम्भवतीत्यर्थः। उत्तरलेखनोत्तरन्तु न ग्राह्यमित्यर्थसिद्धमपि स्पष्टार्थमाह।

स एव। उभयोर्लिखिते वाच्ये प्रारब्धे कार्य्यनिर्णये।

अयुक्तं तत्र यो ब्रूयात् तस्मादर्थात् स हीयते इति॥

अथोत्तरभेदाः। तत्रकात्यायनः।

सत्यं निथ्योत्तरञ्चैवप्रत्यवस्कन्दनं तथा।
पूर्वन्यायविधिश्चैव मुत्तरं स्याच्चतुर्विधमिति॥

सत्यं सम्प्रतिपत्तिः। प्रत्यवस्कन्दनङ्कारणोत्तरम्। व्यासः।साध्यस्य सत्यवचनं प्रतिपत्तिरुदाहृता।

यथा रूपकशतं मह्य धारयसीत्युक्तेसत्यन्धारयामि दास्यामीति च।यद्यपि भाषार्थस्यानिराकरणादनुत्तरत्वमस्याभाति। तथाप्यभियोक्ता साध्यतयोपन्यस्तस्य सिद्धत्वोपन्यासात् साध्यत्वनिराकरणादुत्तरत्वमस्यावसेयम्। तथा च स्मरणम्।

अनुक्त्वाकारणं यत्र पक्षवादी प्रपद्यते।

प्रतिपत्तिस्तु सा ज्ञेया कारणे दूषणं पृथक्॥

कारण परोक्तहेतुदूषणम्।वादी प्रत्यर्थी।कारणे कारणोत्तरे पृथक् दृषणं भवेदित्यर्थः। नचास्याः सिद्धमाधनत्वेन सदुत्तरत्वे पूर्ववादिनो निग्रहस्थानं स्यादिति शङ्क्य इष्टापत्तेः। पराजयेऽपि पूर्ववादिनोदण्डः परं न भवति अपराधाभावात्। वाचस्पतिस्तु तत्वनिर्णिनीषुकथायाः सिद्धसाधनस्यादोषत्वान्ननिग्रहोऽपीत्याह। न चैवं धर्माधिकरणप्रवेशपक्षलिखने पूर्ववादिनो वृथेति वाच्यम्। प्राग्विप्रतिपन्नस्यानुतापवतः प्रत्यर्थिनः पश्चादपि सम्प्रति सम्भवात् सन्धिकरणोत्तरमिव। सन्धिकरणञ्च निरूपयिष्यते। मिथ्योत्तरन्तु न धारयामीत्यादि। यथाह कात्यायनः।

अभियुक्तोऽभियोगस्य यदि कुर्यादपद्भवम्।

मिथ्या तत्तु विजानीया दुत्तरं व्यवहारत इति॥

व्यासोऽपि।मिथ्या स्यात् साध्यनिह्नुतिरिति।साध्यस्य सहेतुकसाध्यस्य शब्दतोऽर्थतो वा निह्नवोमिथ्योत्तरमित्यर्थः। केवलसाध्यनिह्नवस्य संप्रतिपत्तिभिन्नोत्तरान्तरेष्वपि प्रसङ्गादिति वाचस्पतिः। तच्चिन्त्यम्।

सहेतुक साध्यनिह्नवस्य तत्रापि सम्भवात्।

तस्मादपह्नवमात्रं कारणाद्यसम्वलितं मिथ्योत्तरम्।

कारणप्राङ्लापसम्बलितं तूत्तरान्तरे इति वयम्॥

एतच्च मिथ्योत्तरञ्चतुर्विधम्। मिथ्यैतन्नाभिजानामि तदा तत्र न सन्निधिः। अजातश्चास्मि तत्काल इति मिथ्याचतुर्विधमिति व्यासस्मरणात्। अत्र च मिथ्यैतदिति कण्ठतोऽपह्नवोन जानामीत्यादिरर्थतः। अतएवाह कात्यायनः।

श्रुत्वाभाषार्थ मन्यस्तु यदि तम्प्रतिषेधति।

अर्थतःशब्दतो वापि मिथ्या तज्ज्ञेय मुत्तर मिति॥

अत्र वाचस्पतिः। भाषार्थस्य सहेतुसाध्यस्य मिथ्योत्तरेण निह्नवेऽपि हेत्वपह्नवांश एवस्वरूपासिद्धिरुपस्थापनादोषः।साध्यापह्नवांशस्त कारणोत्तरादिव्यवच्छेदकतयाऽत्रान्तर्भाव्यते। तथा हि गृहीतत्वाद्धारणेभाषावादिना साध्यउपन्यस्तेकालदेशविशेषगर्भायान्तस्यां मया न गृहीत इति हेत्वभावशब्देनैवोच्यते। कालविशेषगर्भायान्तु तदा नाहं जात इत्यर्थात् देशविशेषगर्भायामपि तदा तत्राहं नासमित्यर्थात्। अतएवार्थिक भाषाप्रतिषेधस्त्रिविविधः सोपादेशमिथ्योत्तरम्।आद्यस्तु केवलमिथ्योत्तरमिति। न चैवं ग्रहणास्कन्दनयो रसन्निधाना जन्मनोरेव प्रतिपाद्यतास्तु किमार्थिका ग्रहणापर्य्यन्ततात्पर्येणेति वाच्यम्। यद्यपि तदा जातस्तत्रसंश्च तथापि न गृह्णाति तादृशां सर्वेषां ग्रहणाभावादतः सन्निधानजन्ममात्रस्य ग्रहणाव्याप्तत्वाद्व्यापकाभावात्। व्याप्यग्रहणाभावासिद्धेस्तत्कालीनजन्माभावसन्निधाताभावयोरेव ग्रहणाभावसाधकता।न ह्यनुत्पन्नो

गृह्णात्यसन्निहितो वेति सम्भवतीति तावत्पर्य्यन्ततात्पर्यावश्यम्भावात् अतएव सर्वस्मिन्नपि मिथ्योत्तरे स्थापकस्य ग्रहण स्थापनायक्रियोपन्यास इत्याह।तत्तुच्छम्।साध्यानालिङ्गितहेत्वभावभात्रोपन्यासेऽर्थान्तरत्वापातात्।हेतुत्वस्य साध्यनिरूपितत्वेन तदभावमुखेन साध्यभावव्यवस्थापन एव स्थापनादूषणासम्भवात्। उत्तरान्तरव्यवच्छेदमात्रस्यादृष्टनार्थापत्तेश्च। यत्र तु पूर्ववादिनः पित्रर्णादिग्रहणहेतुकधारणादिप्रतिज्ञा तत्राज्ञानद्वारकसाक्षाद्वातदपह्नवोमिथ्योत्तरम्। तत्कालाजन्मतद्देशाऽसन्निधानयोरेतदीययो स्तदीययो स्तदीयग्रहणाभावासाधकत्वात्। अतएव प्रकाशास्वामिक्रयेनाष्टिकेनादत्तत्वादिकमपि प्रमापणीय मित्यभियुक्तस्मरणमपि सङ्गच्छते अन्यथा दूषणदत्तत्वाद्यनुपन्यासाददत्तत्वादि प्रमापणमधिकं स्यात्। तेन तत्प्रतिपादने दत्तत्वादेर्नाष्टिकोक्ततत् स्वत्वास्कन्दकत्वादस्य प्रत्यवस्कन्दनरूपत्वात्तस्यैवतत्साधनापत्तौ मिथ्याक्रियापूर्ववाद इति विरुद्ध्येत। इष्टापत्तावुच्यमानायांमिथ्योत्तरभेदत्योक्तिविरोधात्। प्रत्यवस्कन्दनं नाम सत्य गृहीत परन्तु प्रतिदत्तं प्रतिग्रहलब्धं वेत्यादि। यथाह नारदः।

अर्थिनालेखितो योऽर्थः प्रत्यर्थी यदि तन्तथा।

प्रपद्य कारणं ब्रूयात् प्रत्यवस्कन्दनं स्मृत विति॥

प्रपद्य स्वीकृत्य। यद्यपि भाषार्थस्य न सर्वांशस्वीकारोऽत्रसम्प्रतिपतित्वापत्तेः। कारणोक्त्यानर्थक्यापाताच्च।तथा च ग्रहणेन धारणेन तेन च प्रत्यर्पणीयत्वे साध्यत्वेन प्रतिज्ञातेन ग्रहणांशमभ्युपेत्य प्रतिदानेन प्रतिग्रहादिना वा धारणं

प्रत्यर्पणीयत्वाभावं प्रत्यर्थी साधयति। मिथ्योत्तरादतएवास्य भेदः। तत्र भाषार्थस्य सर्वस्यापह्नवादत्रत्वेकदेशानपह्नवात् प्राङ्न्याये तु यथायथ मुभयसम्भव इति ततोऽपि भेदः। तच्चतन्नविवक्ष्यामः। यत्तु प्राङ्न्यायोधार्यमाणत्वादिसामान्याभाव ज्ञापकः। कारणोत्तरन्तु तद्वसज्ञापकमिति तयोर्भेद, इति वाचस्पतिनोक्तम्। तत्तुच्छम्। प्राङ्न्यायेनापि कारणमुखेनोभयोरपि ज्ञापनसम्भवात्। तस्मादस्मादुक्तमेव भेदकं ज्यायः।त्रिविधञ्चैतत्। स्थापनाधिकबलन्तत् समबलवत् तदूनबलञ्चेति। उदाहृतमेवाधिकबलम्। तत्रहि मह्यमयंशतस्य धारयः। प्रतिदेयतया मत्तो गृहीततावद्धनत्वादित्यादि भाषायान्निर्य्यातनादिस्थले व्यभिचारवारणायेदानीन्तनधारणाद्यर्थापत्तिगम्यमपरिशोधितत्वादिविशेषणमर्थिनोऽवश्यं हृदिस्थमास्थेयन्तथाच प्रतिदानाद्युपन्यासेन तदसिद्धिः प्रत्यर्थिनोक्ता भवतीति ध्येयम्। कात्यायनोऽपि स्पष्टमाचष्टे।

अर्थिनाभिहितो ह्यर्थः प्रत्यर्थीयदि तं तथा।

प्रपद्य कारणं ब्रूयादाधर्य्यं भृगुरब्रवीत्। इति ।

आाधर्यमधरत्वन्दुर्बलत्वमिति यावत्। पूर्वपक्षस्येति शेषः। पूर्वपक्षदौर्बल्यमुत्तरस्य प्रावल्यमर्थत उक्तम्। अतएव नारदः।

आधर्यं पूर्वपक्षस्य यस्मिन्नर्यवशाद्भवेत्।

विवादे साक्षिग्रहणं प्रमाणमात्रोपलक्षणम्॥

प्रदीपकृतस्तु।धार्यमाणत्वे कारणं गृहीतत्वं प्रपद्य ब्रूयात्। परिशोधनादिकमिति शेषः। अपरिशोधितत्वादिकञ्च स्थापनाहेतुविशेषण कण्ठरवेण ज्ञेयमित्याहुः।तन्न

व्यवहितयोजनाध्याहारयोर्विना कारणमनुचितत्वात्। कारणं प्रपद्येत्यन्वये तमित्यस्य साकाङ्क्षत्वेनान्वयप्रसङ्गाच्च। अन्येतु प्रपद्य स्थापनाहेतुमभ्युपेत्य यत्तद्विपरीतवचनं तत्कारणोतरमिति त्रितयपरमेवेदं वचनमिति वदन्ति। अत्राधिकसमबलकारणोत्तरयोः स्थापनाया आाधर्य्यसम्भवेनैतद्वाक्यस्य त्रितयविषयत्वायोग इति वाचस्पत्युक्तम्। दूषणं कारणोत्तरस्य त्रैविध्यं तदुक्तं खण्डयद्निरनुपदमेवोद्धरिष्यते। समबलमियम्भूर्मदीया क्रमागतत्वादित्येकेन भाषतेऽपरोऽपि तदेवोत्तरयति मत्प्रतिपक्षरीत्येति। दुर्बलं कारणोत्तरन्तु, मये य विशतिवर्षावधि भूमिरमुकस्वामिकाधीनेतिभाषायां स्वामिनैव पञ्चवर्षावधिमप्याहितत्वान्मदीयेति सत्प्रतिपक्षरीत्योत्तरितं आधौप्रतिग्रहेक्रीते पूर्वानुबलवत्तरेति वचनादिद दुर्बलम्। अत्रचाधिकबले प्रतिवादिनः प्रमाणोपन्यासाधिकारःप्रबलत्वसाधनाय। अन्ययोस्तु पूर्ववादिनएव। गुरावभिहिते हेतो प्रतिवादिक्रिया भवेत्। दुर्बले वादिनः प्रोक्तातुल्यैः पूर्वक्रियैव चेति स्मरणात्।

कारणात् पूर्वपक्षोऽपि उत्तरत्वम्प्रपद्यते।

अतः क्रिया सदा प्रोक्ता पूर्वपक्षप्रसाधिनी॥

इति कारणाद्बलवत्त्वात्। उत्तरत्वमुत्तमत्वम्। पूर्वपक्षबलवत्वहेतुकां पूर्ववादिनः क्रियां प्रतिपादयिता कात्यायनेनोत्तरस्यापि बलवत्व उत्तरवादिनः क्रियेत्युक्तम्भवति। इदं वाचस्पतिमिश्रोक्तम्। व्यवहारतत्वकाराभ्युपेतञ्च कारणोत्तरत्रैविध्यमयुक्तम्।वचनानारूढत्वाद्युक्त्यभावा- च्च।तथा हि अर्थिनालेखित इत्यादि नारदवाक्यस्याधिकबलकारणविषय-

त्वेन किञ्चिद्वीजमस्ति। प्रत्युत तस्य तन्मात्रविषयत्वे त्रितय साधारणकारणोत्तरस्वरूपाभिधायकवचनात्तत्सामान्यस्वरूपा ज्ञानप्रसङ्गः।

भवताप्येतस्य त्रितयसाधारण्यान्यभ्युपगमाच्च।

समानबलो न बलविषयवचनान्तरा भावाच्च॥

यत्रोच्यते कात्यायनीये। अर्थिनाभिहितो ह्यर्थःप्रत्यर्थी यदि तन्तथा प्रपद्य कारणम् इत्यादि वाक्ये नारदीये वाधर्यं पूर्वपक्षस्येत्यादि वाक्ये तावदाधर्यशब्दोपादानात्समोन बलकारणोत्तरेविषयी भवितु मनर्हेतदेकवाक्यतयार्थिना लिखितो योऽर्थः प्रत्यर्थी इत्यपि नारदवाक्यमधिकबल- कारणोत्तरविषयमेवेति। तदबुद्धिपूर्वकम्। तथा सति नारदीयमेव वचनद्वयमनर्थकं प्रसज्यत इति सामान्यविशेषविषयत्वमेव तस्याभ्युपगन्तव्यम्। अस्त्वेवन्तथा सति सामान्यलक्षणानभिधानदोषोऽपि प्रतिक्षिप्तः।आधर्येऽपि तव वचनयोस्तूक्तयुक्त्योर्बलमात्रविषयत्वम्।समबलातिबलयोस्त्वा- धर्य्याभावात्तदाक्षिप्तं लक्षणान्तरमूह्यमिति सर्वं सुस्थमिति चेन्नआधर्य्यमुपमर्दकत्वं वाद्युपन्यस्तग्रहणाङ्गीकारेणाधारणादिकारणप्रतिदाना द्युपन्यासे तस्यैव साध्यत्याविर्भावे तदुक्तग्रहणयोः प्रमाणोपन्यासानपेक्षत्वमेव।

इदमेवाभिप्रेत्य कल्पतरौ लक्ष्मीधरोऽप्याह।

आधर्य्यंप्रमाणानर्हत्वं पूर्वपक्षस्येत्यर्थ इति॥

अतएव कारणे प्रतिवादिनीति सामान्यत एव कारणोत्तरे प्रतिवादिन एव क्रिया वक्ष्यते। तेन यत्त्रितयसाधारणत्वमस्य वचसोऽन्यमतमु- पन्यस्याधर्य्योक्तिविरोधाद्दूषितम्। तद्-

प्युक्तम्। वस्तुतस्तु प्रमाणोपन्यासे तत्सामीचीन्यासामीचीन्यकृतं त्रैविध्यमुत्तरान्तरेऽपि पारमार्थिकं सम्भवत्येवेति कारणोत्तरमात्रेतदंभिधानमर्हन्ततः पूर्वं तत्रापि दुर्ज्ञेयम्। स्वस्वाभिमानेन तु पक्षोत्तरयोः सार्वत्रिकमधिकबलवत्वमेव। अन्यथा विवादाप्रवृत्तिप्रसक्तेःप्रमाणोक्तिप्रत्याकल्लितयोस्तद्विवेचनार्थयोरतएवोपयोगोऽन्यथाधिकबलकारणोत्तरे तयोरनुपयोगाद्विपात्त्वप्रसङ्गः। संप्रतिपत्तिवत्। गुरावभिहिते हेतावित्यादेस्तु, स्मरणस्य न कारणोत्तरत्रैविध्येन क्रिया व्यवस्थापकत्वम्। कारणे प्रतिवादिनीति सामान्यवचनमङ्कोचस्य निर्युक्तिकस्य प्रमक्तेः। किन्तु मिथ्याद्युत्तरत्रैविध्येन। तथाहि गुरौ पूर्वपक्षोक्त हेत्वभ्युपगमेन कारणोत्तरे कारणोपन्यासात् प्राङ्न्याये च तदुपन्यासात्तयोः साध्यत्वाविर्भावे वाद्युक्तसाध्येसाध्यत्वतिरोधानात् प्रतिवादिनः क्रिया।दुर्बले तूत्तरे मिथ्याख्येभावरूपत्वेन भावप्रमाणाभावमात्रेण सिद्धेः। साध्यत्वानर्हे वादिसाध्यत्वात्तिरोधानात्तस्य क्रिया।तुल्ये द्वयोरपि भावसाधकयोरर्थिप्रत्यर्थिनोः पूर्वक्रिया पूर्वं ममेदमिति वदतोऽन्यतरस्येत्यर्थः। इदञ्च साक्षिषूभयतः सत्स्वित्यादिवचनं व्याचक्षणा निपुणतरमुपपादयिष्यामः। कारणात् पूर्वपक्षोऽपीति कात्यायनीयन्तुप्रामाणिकत्वनिबन्धनपूर्वपक्षस्योत्तमत्व प्रतिपादयतः यद्यत्र पूर्ववादिनः क्रिया वाक्यान्तरेणोक्ता तद्विषयत्वेनाप्युपपद्यत इति न किञ्चिदेतत्। अतएवमिताक्षराकल्पतरुरत्नाकरमदनरत्नस्मृतिचन्द्रिकाकारादिभिरिदमुपेक्षितम्।

प्राङ्न्यायलक्षणमाह। हारीतः।

अस्मिन्नर्थेसमानेन वादः पूर्वमभूत्तदा।
जितोऽयमिति चेद् ब्रूयात् प्राङ्न्यायः स्यात्तदुत्तरम्॥

कात्यायनबृहस्पती।

आचारेणावसन्नोऽपि पुनर्लेखयते यदि।
सोऽभिधेयो जितः पूर्वं प्राङ्न्यायश्च स उच्यत इति॥

अतः प्रङ्न्यायपदमन्वर्थम्। प्राङ्न्यायस्य च प्रागवस्थायां मिथ्याकारणान्यतरोत्तरोपादानेनैव व्यवहारप्रवृत्तिरिति प्राङ्न्यायसाधने तदेव सिद्धम्भवति इतिसम्भवति धार्यमाणत्वादिसामान्याभावतद्धमोभयज्ञापकता प्राङ्न्यायस्येति मिथ्याकारणोत्तराभ्यासस्य भेदः।त्रिप्रकारश्च प्रोङ्न्यायः। तथा च कात्यायनः। विभावयामि कुलिकैः साक्षिभिर्लिखितेन वा।

जितश्चैवमयायं प्राक् प्राङ् न्यायस्त्रिप्रकारकः॥

कुलिकैरिति प्राकृतव्यवहारदर्शिनामुपलक्षणम्। इत्युतरभेदाः। अथोत्तरभासा।

यद्यप्युत्तरलक्षणहित्यादेवोत्तराभासत्वमर्थसिद्धम्भवतीति नोत्तराभासा पृथग्वाच्या। योगीश्वरादिभिरत एव नोक्ताः। तथापि स्पष्टीकरणाय कैश्चिदुक्ताः। तथा च मिताक्षराधृतवचनम्।

सन्दिग्धमन्यत्प्रकृतादत्यल्पमतिभूरि च।
पक्षैकदेशव्याप्यन्यत्तथानैवोत्तरम्भवेत् इति॥
एतच्चतत्रैवोदाहरणनिष्ठतया व्याख्यातम्।

सुवर्णशतमनेन गृहीतमिति उक्तेसत्यं गृहीतं सुवर्णशतं माषकगतञ्चेत्येवं सन्दिग्धमुत्तरम्भवेदिति। प्रकृतादन्यत्सुवर्णशताभियोगे पणशतन्धारयामीति। अत्यल्पं सुवर्णशताभि

योगे पञ्च धारयामीति।सुवर्णशताभियोगेपञ्चशतानि धारयामीत्येतिभूरि। पक्षैकदेशव्यापि हिरण्यवस्राभियोगेहिरण्यं गृहीतमित्येतावन्मात्राभिधानम्। व्यस्तपदं पदान्तरेणाभियोगे पदान्तरमादायोत्तरम्।यथा मदीयमेतावदृणं धारयतीत्यभियोगेऽनेनाहन्ताड़ित इत्यादि। अद्यापि देशस्थानादिभाषाविशेषेणाव्यापि। यथा मध्यदेशे वाराणस्यां पूर्वदिगवस्थितं मदीयमनेन क्षेत्रमपहृतमिति।निगूढार्थं मह्यं सुवर्णशतं धारयतीत्यभियोगे किमहमेवास्मैधारयामीति। अत्र ध्वनिना प्राड्विवाकः सभ्यावर्थावन्यस्मैकस्मैचिद्धारयतीत्यादि सूचनसम्भवान्निगूढार्थमिदम्। पूर्वापरविरुद्धमाकुलं यथा सुवर्णशतं मह्यं धारयतीत्यभियोगे धारयामि परन्तु गृहीतमेव नेति गृहीतं परन्तु न धारयामीति वा कारणाद्यपन्यासमधारणादावकृत्वैवोत्तरम्। व्याख्यागम्यम्। दुश्लिष्ट माध्याहारादिसापेक्षत्वेन मेयार्थम्। यथा सुवर्णशतविषये पितृकृतर्णाभियोगे गृहीतवचनात् सुवर्णानां पितुर्नजानामीति। अत्रगृहीतशतसुवर्णस्य पितुर्वचनात्सुवर्णानां शतं गृहीतमिति न जानामीत्यर्थविवक्षायामीदृक्षमसमर्थसमासाध्याहारादिसापेक्षत्वादुक्तकृतस्वाभिमतार्थपरव्याख्यावगम्यार्थम्। असारम्। न्यायविरुद्धम्। यथासुवर्ण शतमनेन मत्तो वृद्ध्यागृहीतन्तस्य वृद्धिरेव दत्ता न मूलमित्यभियोगे सत्यं वृद्धिर्मयादत्ता मूलन्तुन गृहीतमिति। अत्र क्वचित्पूर्वपक्षा निराकरणात्- क्वचिदसम्बद्धार्थत्वात् क्वापि विलम्बितार्थप्रत्यायकत्वाद्यथायथमनुत्तरत्वमवसेयम्। यद्यप्युदाहृतमसारं पूर्वापरविरोध एव पर्य्यवस्यति। तथापि-

क्वचित्साक्षात् क्वचिन्यायविरोधात्तथात्वमिति भेदकन्द्रष्टव्यम्। स्मृतिचन्द्रिकाकारस्तु काकदन्तसद्भावोत्तरमिष्यत इति। कात्यायनवचनञ्च तत्र सम्वादितवान्।

काकस्य दन्ता नो सन्ति सन्तीत्यादि यदुत्तरम्।
असारमिति तत्तेन समं नोत्तरमिष्यत इति॥

कात्यायनेनान्येऽप्युत्तराभासा उक्ताः।

अप्रसिद्धविरुद्धं यदत्यल्पमतिभूरि च।
सन्दिग्धासम्भवाव्यक्तमन्यार्थञ्चातिदोषवत्॥
यद्यस्तपदमव्यापि निगूढार्थं तथाकुलम्।
व्याख्यागम्यमसारञ्च नोत्तरं स्वार्थसिद्धय इति॥

एतान् स्वयमेव स व्याचष्टे।

चिहाकारसहस्रन्तु समयञ्चाविजानता।
भाषान्तरेण वा प्रोक्तमप्रसिद्धन्तदुत्तरम्॥
प्रतिदत्तं मया बाल्येप्रतिदत्तं मया नहीति।
यदेवमाह विज्ञेयं विरुद्धन्तदिहोत्तरम्।
जितः पुरा मया वायमस्मिन्नर्थे विवक्षिते।
पुरा मयाऽयमिति यत्तदूनञ्चोत्तरं स्मृतम्॥
गृहीतमिति वाच्येतु कार्यन्तेन कृतं मया।
पुरा गृहीतं यद्द्रव्यमित्येतदिति भूरि तु॥
देयं मयेति वक्तव्येमया देयमितीदृशम्।
सन्दिग्धमुत्तरं ज्ञेयं व्यवहारे बुधैः सदा॥

मयादेयमित्यत्राकारप्रश्लेषस्यापि सम्भवात्सन्दिग्धमिदम्। असम्भवमस्माभिर्देयन्धनमस्मत्प्रपौत्रपुत्रेणदत्त मित्येवमादि।

अव्यक्तं सुखेन यदक्षराण्येव निर्णेतुमशक्यानि। एतावुत्तराभासावेद्दिष्टावपि स्पष्टाविति तेन न लक्षितौ।

बलाबलेन चैतेन साहसं स्थापितं पुरा।

अनुक्त मेतन्मन्यन्ते तदन्यार्थमितीरितम्॥

एतेन च बलेन प्राबल्येन अबलेन दौर्बल्येन च पुरा साहसं मनुष्यमारणादिस्थापितं कृत्वा गोपितमिति यावत्। इत्यादि प्रकृतानुपयोगित्वादन्यार्थमित्यर्थः। व्यस्तपदं पदान्तरेणाभियोगे कृते पदान्तरसंक्रमेणोत्तरमिति सोदाहरणं मिताक्षरायां व्याख्यातं तत्प्रागेवोक्तम्। स्मृतिचन्द्रिकायान्तु पूर्वपक्षनिश्चयात् प्रागुच्यमानं सर्वमेवोत्तरं व्यस्तपदमिति व्याख्यातम्। व्यस्तम्पदं स्थानमुपन्यासावसरोयस्येति व्युत्पत्तेः। भवदेवेन तु अव्यस्तपदव्यापीति पाठं लिखित्वाऽनन्वितार्थपदव्याप्तमिति व्याख्यातं व्यवहारतिलके।तत्तु दोषान्तरसङ्करादयुक्तमिति प्राच्यमेव व्याख्याद्वयमनुसन्धेयम्। उत्तरमित्येकवचनाद्याज्ञवल्कीयाद्युत्तरसङ्करादप्युत्तराभासत्वं सूचितम्।कात्यायनादिभिः स्पष्टमुक्तम्।

पक्षैकदेशे यत्सत्यमेकदेशे च कारणम्।

मिथ्या चैवैकदेशे च सङ्करात्तदनुत्तरमिति॥

सङ्करादनुत्तरत्वे वीज कात्यायनेनैवोक्तम्।

नचैकस्मिन् विवादे तु क्रिया स्याद्वादिनोर्द्वयोः।

नचार्थसिद्धिरुभयो र्न्नचैकत्र क्रियाद्वयमिति॥

मिथ्याकारणोत्तरयोः सङ्करेऽर्थिप्रत्यर्थिनोर्द्वयोरेकस्मिन्व्यवहारे क्रियोपन्यासः प्रसज्यते। मिथ्याक्रियापूर्ववादे कारणे प्रतिवादिनीति स्मरणात्। मिथ्या मिथ्योत्तरे।पूर्ववादे

क्रियार्थिनः कियोपन्यास इत्यर्थः। यथा सुवर्णशतं रूपकशतञ्चानेन गृहीतमित्यभियोगे सुवर्णशतं न गृहीतं रूपकशतं तु गृहीतं किन्तु प्रतिदत्तं प्रतिग्रहलब्धमित्यादि। द्वयोरेकक्रियोपन्यासाभावे च व्यवहारघटकभेदे व्यवहारद्वयप्रसक्तावेक समाप्ता व्यवहारान्तरप्रवर्त्तनौचित्याद्युगप- द्व्यवहाराऽसम्भवरूपा युक्तिर्वीजम्। अतएव तस्य तस्यांशस्य तत्प्रमाणमात्रसाध्यत्वे क्रमेणोत्तरत्वमेवेति क्रमिकंव्यवहारद्वयंतयोरेव प्रवर्त्तनीयमित्युक्तं मिताक्षरास्मृतिचन्द्रिकादिग्रन्थेषु। कारणे प्राङ्न्यायसङ्करे तु प्रत्यर्थिनएव क्रियाद्वयं प्रसज्यते। कारणे प्रतिवादिनि प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत्क्रियामिति स्मरणात्। यथा पूर्वोदाहरणमेव। यद्येवं ब्रूयात् सुवर्णशतं गृहीतं प्रतिदत्तं रूमकशते तु प्रागयं व्यवहारमार्गेण मया पराजित इति। अत्र यद्यप्येकस्यैव प्रमाणद्वयोपन्यासस्तथापि प्रागुक्तया युक्त्या युगपद्यवहारासम्भव एवोनुत्तरत्वेवीजमतोऽत्रापि क्रमिकव्यवहारप्रवृत्तिरिष्टैव। कारणोत्तरे साक्षिलेख्यादिभिस्तद्विभावनीयम्। प्राङ्न्यायस्तु तद्दर्शिभिर्जयपत्रेणेवेति क्रम आवश्यकः। एवमुत्तरत्रसङ्करेऽपि। यथानेन सुवर्णं रूपकशतं वस्त्राणि च गृहीतानीत्यभियोगे सत्यं सुवर्णं गृहीतं प्रतिदत्तञ्च रूपकशतं न गृहीतं वस्त्रविषये प्राक् पराजित इति। अत्रद्वयोः क्रिययोः पूर्वन्यायेन एकस्य क्रियाद्वयमिति द्वयमप्यनुत्तरत्वे वीजम्। सम्प्रतिपत्तौ क्रियाभावाच्चतुःसङ्करो नोदाहार्य्यः। सङ्करसम्भवमात्रेण तु मिताक्षराकारेणैवं चतुःसङ्करेऽपीत्युक्तम्। अतएवाग्रे यत्रसम्प्रतिपत्तेरुत्तरान्तरेण सङ्करस्तत्रोत्तरान्तरोपादानेन व्यव-

हारः प्रवर्त्तनीयः।सम्प्रतिपत्तौ क्रियाभावादिति तेनैवोक्तम्। सङ्करस्थले क्रमिकव्यवहार आवश्यके क्रमोऽर्थिप्रत्यर्थिसभ्यानामन्यन्तरेच्छया बोध्यः। यत्रतु प्रभूतार्थविषयत्वमन्यतरोत्तरस्वफलवत्तरत्वं वा व्यवहाराकरणेऽन्यतरस्य पीड़ातिरेकादिकं वा प्राप्तेर्विनिगमकमस्ति तत्र तदुत्तरोपादानेनैव प्रथमो व्यवहारःप्रवर्त्तनीय इत्याह। हारीतः।

यत्प्रभूतार्थविषयं यत्र वा स्यात् क्रियाफलम्।

उत्तरन्तत्रतज्ज्ञेयमसङ्कीर्णमतोऽन्यथा॥

असङ्कीर्णंसङ्करप्रयुक्तव्यवहार-यौगपद्यासम्भव-दोषाभावात्। अतोऽन्यथा सङ्कीर्णमिति शेषः। तेन तत्रेच्छाक्रमेणव्यवहारक्रम इति भावः। सङ्करादनुत्तरत्व प्रागुक्तयुक्तिरनेन सूचिता। अतएव मिथ्योत्तरं कारणञ्च स्यातामेकत्रचेदुभे। सत्यं वापि सहान्येनतत्रग्राह्यं किमुत्तरमित्युक्त्वा तदुक्तं हारीतेन। उदाहरणन्तु यथानेन सुवर्णं रूपकशतं वस्त्राणि च गृहीत्वा यन्न प्रयच्छतीत्यभियोगे सुवर्णं रूपकशतञ्च न गृहीत वस्त्राणि गृहीतानि प्रतिदत्तानीत्युत्तरेऽत्रमिथ्योत्तरस्य प्रभूतार्थविषयत्वात् तदुपादाय क्रियार्थिनः प्रथमं व्यवहारो द्रष्टव्यः। पश्चाद्वस्त्रविषयेकरणोत्तरमादाय- प्रत्यपरक्रियाऽवलम्बनो व्यवहारः। एवं मिथ्याप्राङ्न्यायसङ्करोऽपि बोध्यम्। सम्प्रतिपत्तिर्यदि सुवर्णादौ तत्र क्रियाफलाभावादल्प विषयमप्युत्त रोत्तरमादायैव व्यवहारों भवति। एवं तुल्यार्थविषयत्वेऽप्युत्तरयोर्यत्रप्रथमदृष्टे फलन्तदुत्तरावलम्बनेन व्यवहारो द्रष्टव्यः। तथाचोक्तम्। यत्न वा स्यात्क्रियाफलमिति।

अहं पूर्विकयायाता वर्थिप्रत्यर्थिनौ यदा।

वादो वर्णानुपूर्व्येण ग्राह्यः पीडामवेक्ष्य चेति वृहस्पतिः। अत्र वाचस्पतिमिश्राः। भिन्नभिन्नावच्छेदेन कारणादिमस्पर्शिसङ्करादनुत्तरमिति। पक्षैकदेशे यत्सत्यमित्यादि वाक्यार्थ एव न सम्भवति। अवच्छेदभेदेन साङ्कर्य्यस्थैवाऽभावात्। किन्तु पक्षस्यैकदेशे विषये यदुत्तरं सङ्कीर्य्यते न तदनुन्तरम्। शेषमेकदेशपदद्वयमनुवादः यथा शतं न गृहीतमपि परिशोधितं वा न धारयाम्येवेत्यादि। यत्तु। शताभियोगे पञ्चशतं परिशोधिताः पञ्चविंशतिस्तु नैव गृहीताः। पञ्चविंशतिस्तु धार्य्यन्ते देया इत्युत्तरम्।यच्च वस्तुभेदेन प्रागुदाहृतं तत्रयत्प्रभूतार्थविषयमिति वचनात्। कारणोत्तरमादाय प्रथमं विचारः कार्य्यः। पश्चात् पञ्चविंशतिरपह्नता अर्थिप्रमाणेन वा साध्याःप्रत्यर्थिप्रमाणेन वा साध्याः। नचैवं नचैकस्मिन्नित्येतद्ववचनविरोधः। न्यायमूलकत्वेनैतद्वचनस्य लब्धार्थप्रमाणपरिग्रहाबाधकत्वात्। सति च निर्णयप्रमाणे तदंशसंशयस्यावश्यनि- रस्यत्वात्। न चयत्प्रभूतार्थविषयमित्येतद्ववचनबलादेव लब्धार्थप्रमाणग्राह्यता। तथा सत्ये तत्स्मृतीनां श्रुतिमूलकतापत्तेः न चेष्टापत्तिः। असम्भवं मूलान्तरत्वस्यैव श्रुतिमूलकत्वप्रयोजकत्वात्। यूपहस्त्यादिस्मृतौ तथा सिद्धान्तवचनात्। अत्रचन्यायमूलकत्वस्यैव सम्भवात्। न च तादृशविषयासम्भव एव न चैकस्मिन्निति वचनस्य मूलमिति युक्तम्। बहुशोपविषयदर्शनात्। न चेदृशमुत्तरं न देयमित्युपदेशार्थमिदम्। यथावस्थितार्थकथनस्य निषेद्धुमशक्तेः। विज्ञा एव विवदन्ते न त्वज्ञा इत्यापि वक्तुमशक्यम्। न चातएव ते पर्य्यनुयोज्यः। कूलं निरस्य भूतेभ्यः व्यवहारान्नयेन्नृप इति वचनात्तादृशा-

मपि तत्त्वतो बोध्यत्वात्। नच वचनादेवास्योत्तरस्य हेयता।वचनस्यादृष्टार्थतापत्तेः। अपि चशतन्न गृहीतमित्यस्य नाग्रहणमात्रमर्थः। शतपदानर्थक्य प्रसङ्गात्। नापि शताग्रहणम्।विशेषनिषेधे शेषाभ्यनुज्ञापत्तेः। नापि शतपदम्पक्षप्राप्तानुवादः। एवं सत्येकदेशस्य गृहीतत्वविभावनादेव स्थापको निह्नुते लिखितेनैकमिति वचनादेतावद्धनन्निरपवादमेव लभेतेत्यनिष्टापादकमेवेदमुत्तरं स्यात्। मिथ्याकारणयोर्वापीत्यादि वचनमप्येवन्नेयम्।तस्माद्यावत्प्रकृतविषयः संशयोऽनुवर्त्ततेनिर्णायकञ्चप्रमाणं लभ्यते तावद्विचारणीयमिति परमार्थः। भवदेवप्रदीपादयोऽप्येवम्। तस्मादस्मदुक्तमेव पक्षैकदेशे यत्सत्यमित्यादेरर्थमिति। तदेतद्वागाडम्बरमात्रार्थक्षोदक्षमम्। तयाहि। मिताक्षरायुक्तरीत्या दृष्टार्थतयैव सकलवचनस्वरसाभङ्गसम्भवात्। नचैकस्मिन्नित्यादि वचनपर्यालोचनया युगपदनुत्तरत्वस्यैवास्य वर्णितत्वात्। क्रमिकान्तरत्वस्य सर्वेरपीष्टत्वात्। नचायौगपद्यमेव निर्बीजम्। युगपद्यवहारासम्भवस्यैतादृशि विषये उपपपादितत्वात्। व्यवहारस्य चतुष्पात्त्वात्।क्रियारूपपादभेदे साध्यभेदेन भाषारूपपादभेदे चातद्घटित व्यवहारभेदप्रसङ्गस्य सचेतसा दुरपह्नवत्वात्। किञ्च भवदुक्तरीत्या न्यायाभाममूलकतया नचैकस्मिन्नित्यादेरप्रामाण्यप्रसङ्गः। यच्चैकदेशपदस्यैकविषयपदपरत्ववर्णनमेकदेशपदद्वयस्य चानुवादत्वप्रतिपादनं तदतिमन्दम्। एकदेशपदे रूढित्यागप्रसङ्गात्। सम्भवत्यस्मद- र्थनार्थवत्वेनिरर्थकानुवादस्यानर्थक्यापरपर्य्यायस्याभ्युपगमानौचित्याच्च। यच्चेक विषयसङ्कर उदाहृतन्तदपि सन्दिग्धादिदोषस-

ङ्कीर्णमसाधारण्येनैतद्वचनविषयतानर्हमिति समस्तवचनानर्थक्यम्। यदप्युक्तम्। असम्भवं मूलान्तरत्वस्यश्रुतिमूलकत्वं प्रयोजकत्वमिति। तदपि मीमांसानध्ययननिबन्धनम्। नह्यप्तम्भवमूलकत्वमष्टकादिस्मृतीनां श्रुतिमूलकत्वे प्रयोजकम्। तथा सति तुलापुरुषादिस्मृतीनाम् लोभादिमूल- कत्वस्य सुतरां सम्भवाच्छ्रुतिमूलकत्वाभावप्रसङ्गः।ययाहुर्वार्त्तिककाराः।

रागद्वेषमदोम्माद प्रमादालस्य लुब्धता।

क्ववा नोत्प्रेक्षितुंशक्याःस्मृत्यप्रामाण्यहेतवइति॥

यूपहस्त्यादिस्मृतीषुमुक्तकत्वेनाप्तप्रणीतत्वानवधारणान्मूनभूतश्रुत्यकल्पनं कर्त्तृसामान्याभावादिति। भाष्याभिमता प्रामाण्ये मूलयुक्तिः।हेतुर्दर्शनन्तदुपष्टम्भकमन्वाचयमात्रमिति तत्रैव व्याचक्षाणमाकरे।वार्त्तिककाराणान्तु दृढतरवैदिकं परिग्रहीतुं प्रामाण्यमेव तासामभिमतमित्यपि तदभियोगभाजां न दुर्लभम्। यद्यप्यपि वेत्याद्यसन्भवदुक्तिकस्वकपोलकल्पितविकल्पजालमुद्भाव्य खण्डितन्तदपि प्रस्तुतप्रतीपम्। तादृशोत्तरस्य सर्वैरभ्युपगन्तव्यत्वात्। शतग्रहणाभावस्य तदर्थस्यादुष्टत्वाच्च। अयमत्रसकलवचनसन्दर्भसमाधानान्निष्कृष्टोऽर्थः। क्रिया लिखितादिप्रमाणरूपा प्रत्यवस्कन्दने प्राङ्न्यःये च प्रत्यर्थिन एव भवति। मिथोत्तरे चार्थिन एव। सम्प्रतिपत्तौ न कस्यापीति व्युत्पादयिष्यते। एवञ्च सत्येन यत्रेतरेषान्त्रयाणामुत्तराणां सङ्करस्तत्रप्रत्यर्थिनःकारणप्राङ्न्यायसाधनाय प्रमाणद्वयमर्थिनश्च स्वसाध्यसाधनायैकं प्रमाणं प्राप्नोति यत्र कारणप्राङ्न्याययोस्तत्रप्रत्यर्थिनः प्रमा-

णद्वयम्। यत्र पुनर्म्मिय्याकारणमिथ्याप्राङ्न्याययोर्वा तत्र्यार्थिप्रत्यर्थिनोरेकैकम्प्रमाणम्। न च यथा प्राप्तमेव मेवाऽस्त्वितिवाच्यम्। प्रमाणं हि साध्यसिध्यर्थं एकस्मिन् व्यवहारेचैकमेव साध्यमेकस्यैवोचितम्। तेन तत्रनोभयोः प्रमाणमेकस्य वा प्रमाणद्वयम्भवितुमर्हम्। उभयोः साध्याभावोदेकमाध्यस्य चैकेनैव प्रमाणेनसिद्धावितरवैयर्थ्यात्। तस्माद्युक्तमुक्तं सङ्करात्तदनुत्तरमिति। तथा च सर्वत्रपक्षव्यापकमेवोत्तरं देयन्दापनीयञ्च। यत्न पुनः सर्वथा तथाविधमुत्तरन्न लभ्यते किन्त्वेकैकांशव्यापकमेवोत्तरम्। तत्र नानोत्तरवशेन नानाप्रतिज्ञाः कृत्वा क्रमेणैकैकप्रतिज्ञायामेकैकोत्तरोपादानेन व्यवहारः प्रवर्त्तनीयोऽन्यथा तत्रनिर्णयाभावप्रसङ्गः स चानुचितः। छलं निरस्येत्यादिवचनात्। सङ्करादनुत्तरमिति हेतूपादानादुक्तविधया सङ्करे निराकृते स्यादेवोत्तरत्वमित्यभिप्रायः। एतदेव व्यतिरेकमुखेनोक्तम्।

यत्प्रभूतार्थविषयं यत्रवा स्यात्क्रियाफलम्।

उत्तरन्तत्रतज्ज्ञेयमसङ्कीर्णमतोऽन्यथेति॥

अतोऽन्यथा यौगपद्ये सङ्कीर्णःस्यादिति प्रागेव व्याख्यातम्। पक्षव्यापकानेकोत्तरविकल्पेतु न जातुवित्सङ्करावसरः। तस्मान्नक्वापिसङ्करे सदुत्तरत्वमिति।

अथ क्रियापादः। तत्र तदुपयोगिप्रत्याकलितं प्रथमं निरूप्यते। विज्ञानयोगिना तस्य व्यवहारपादत्वानभ्युपगमेऽपि क्रियादानोपयोगित्वाभ्युपगमात्। अन्यैस्तु व्यवहारपादत्वस्यैवस्वीकारात्। क्रियापादप्रागभावस्तूभयसम्मतः। प्रत्याकलि-

तन्नाम भाषोत्तरयोरर्थिप्रत्यर्थिभ्यां लेखितयोः क्रियोपन्यासनमन्ययोर्मध्येकस्य स्यात्काचास्मिन्पदे क्रिया स्याद्धीनवादी वानयोर्मध्येक इत्यादिःससभ्यप्राड्विवाकस्य सभापतेः। सभ्यस्य प्राड्विवाकस्य वा परामर्श उच्चते। तथाच वृहस्पतिः।

ये तु तिष्ठन्ति करणे तेषां सभ्यैर्विभावना।
कलयित्वोत्तरं सभ्यैर्द्दातव्यैकस्य वादिनः॥

करणे धर्माधिकरणे।ये तिष्ठन्ति वादिनः प्रतिवादिनश्च तेषामुत्तरं मिथ्यादिचतुर्भेद कलयित्वा विचार्य्यएतदुत्तरेकस्य क्रियोपन्यासउचित इति। निर्धार्य्य विभाव्यतेसाध्यमनयेति विभावना क्रियाप्रमाणमिति यावत्। एकस्य वादिनोऽर्थिप्रत्यर्थ्यन्यतरस्य सभ्यैर्दातव्या।उपन्यसनीयत्वेनाज्ञापयितव्येत्यर्थः। कात्यायनोऽपि।

लिखिते शोधितेसम्यक् सति निर्दोष उत्तरे।
अर्थिप्रत्यर्थिनोर्वामि क्रियाकरणमिष्यते॥

क्रियाकरण क्रियोपन्यासः। पुनर्बृहस्पतिः।

श्रुत्वापूर्वोत्तरं सभ्यैर्निर्द्दिष्टायस्य भावना।
विभावयेत्प्रतिज्ञातं सोऽखिलं लिखितादिना॥

विभाव्यतेसाध्यते साध्यमनयेति विभावना क्रियैव।पूर्वोत्तरं पूर्वपक्षनुत्तरञ्चेत्यर्थः। द्वन्द्वैकवद्भावः। निर्दिष्टा ब्रूहीत्युपदिष्टा।कस्मिन्नुत्तरे कस्य क्रिया क्रिया रहितञ्च किमुतरमित्यपेक्षयामाह।व्यासः।

प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थीनिर्द्दिशेत् क्रियाम्।
मिथ्योक्तौ पूर्व्ववादीतुप्रतिपत्तौ न सा भवेत्॥

प्राङ्न्याकारणोत्तरयोः प्राङ्न्याये कारणे च साधिते-

ऽर्थी साध्यस्य ग्रहणस्य धारणासाधकत्वाव्द्यर्थं साधनं प्रत्यर्थिनाऽभ्युपगमाच्चेति तत्रैव साध्यत्वाविर्भावात्तदुपन्यासकारिण एव प्रत्यर्थिनः प्रमाणोपन्यामस्तत्साधनायोचितः। अर्थिसम्बन्धविरहप्रत्यर्थिसम्बन्धयोर्द्वयोरपि तेनैव निर्णयात्। मिथ्योत्तरे तु वादिनः प्रमाणदुर्भिक्ष यदि प्रतिज्ञातेऽर्थे प्रमाणाभावादेव प्रत्यर्थ्यभिमतोऽर्थिप्रतिज्ञातसाध्यहेत्वभावः सिध्यतीति तत्परिहाराय भावाभावयोर्भावस्यैव साध्यत्वौचित्याच्चार्थिन एवक्रिया।सम्प्रतिपत्तौ तुनैकस्यापि साध्यमस्तीति निरर्थकत्वात् क्रियैव नास्तीत्यर्थः। वृहस्पतिः।

प्रतिज्ञाम्भावयेद्वादी प्रत्यर्थी कारणन्तथा।

प्राग्वृत्तवादिविजय जयपत्रेण भावयेदिति॥

प्राग्वृत्तंप्राङ्न्यायः प्रतिज्ञाम्प्रतिज्ञातार्थम् इदञ्च परिशेषान्मिथ्योत्तरविषयम्। जयपत्रेणेतिप्राङ्न्यायदर्शिप्रभृत्युपलक्षणम्। मनुः।

अपह्नवेऽधमर्णस्यदेहीत्युक्तस्य संसदि।

अभियोक्ता दिशेद्दशं कारणं वान्यदुद्दिशेत्॥

दिशति कथयति यथादृष्टमर्थमिति देशःसाक्षी। मेधातिथिस्तु। ऋणादिप्रयोगशवर्त्तिनः। साक्षिणो देशशब्देन लक्ष्यन्त इत्याह। अन्यत्कारणं प्रमाणं साक्षिभिन्नं लेख्यादि। मेधातिथिना तु करण वा समुद्दिशेदिति पठित्वा करणशब्दः। प्रमाणसामान्यवाचकोऽपि गोवलीवर्दन्यायेन साक्षिभिन्नकरणमाचष्टे।पृथगुपादानात्। कारण वा समुद्दिशेदिति पाठेऽप्ययमेवार्थ इत्युक्तम्। यत्र मिथ्याप्रत्यवस्कन्दनयोः कृत्स्नपक्षव्यापिताः। यथा कश्चिच्छृङ्गग्राहिकया कञ्चिदभियुद्धेमदीये-

यङ्गौरमुकस्मिन् काले नष्टास्य गृहे दृष्टा यतः। तत्राभियुक्त उत्तरयति मिश्र्यैतत्।एतत्प्रदर्शितनाशकालात्प्रागेवास्य मद्गृहेऽवस्थितत्वादिति इदन्तावत्पक्षप्रतिक्षेपक्षमतममित्यनुत्तरत्वानर्हम्। कारणोपन्यामान्नशुद्धमिथ्योत्तरम्। एकदेशाभ्युपगमाभावाच्चार्थिजा लेखितोऽर्थ इत्यादि प्रागुक्तप्रत्यवस्कन्दनलक्षणं नास्कन्दति। साध्यभेदायप्रतिज्ञाभेदापादकत्वाभावाच्च न पक्षैकदेशेयत्सत्यमित्युक्तसङ्करवद्युगपद्व्यवहारासम्भवकृतं युगपदनुत्तरम्। तस्मात्कारणं मिथ्योत्तरमेवेदम्। अन्यतरसाधनेनापि विवादपर्यवमानात्। अत्रमिथ्याक्रियापूर्ववाद इति वचनात्करणे प्रतिवादिनीति वचनाच्चान्यतरस्य यथारुचिक्रियोपन्यास इति भाति यद्यपि तथापि मिथ्याक्रियेत्यादेः शुद्धमिथ्याविषयत्वेनैतद्विषयत्वाभावात्कारणे प्रतिवादिनीति वचनात्। प्रतिवादिन एवात्र क्रिया।नचास्यापि शुद्धप्रत्यवस्कन्दन विषयत्वादेतद्विषयत्वाऽभावप्रसङ्गेन कस्यापि क्रिया प्राप्नोतीति निर्णयप्रतिबन्ध एवेति वाच्यम्। यतः प्रसिद्धप्रत्यवस्कन्दनेऽपि ग्रहणाद्यभ्युपगमेन प्रतिदानादिकारणोत्तरतैवास्यासम्भाविनीति वाच्यम्। एकदेशाभ्युपगमस्य प्रायिकत्वात्। कारणोपन्यासस्यैवोत्तरान्तरासङ्कीर्णतया तल्लक्षणत्वावश्यम्भावात्। एवं कृत्स्नपक्षव्यापि सप्राङ्न्यायं मिथ्योत्तरमपि द्रष्टव्यम्।यथा प्राक्तनाभियोग एव। यद्येवं प्रतिवदति मिथ्यैतत्। यतः प्रागयमस्मिन्नभियोगे मया व्यवहारमार्गेण पराजित इति। अत्रापि प्राङ्न्यायकारणोक्तावित्यादि प्राक्प्रदर्शितवचनात्प्रत्यर्थिन एव क्रियोपन्यासः। प्राङ्न्यायसिद्धौप्रतिज्ञायाः प्रकटमेव मिथ्यात्वपर्यवसानादस्य शुद्धप्राङ्न्याय-

विषयत्वासम्भवादेतादृशप्राङ्न्यायविषयताया अथ वर्जनीयत्वात्पक्षप्रतिक्षेपक्षमस्यास्य प्राग्वदेवानुत्तरत्वानर्हत्वात्। यत्र तु कारणप्राङ्न्याययोः कृत्स्नपक्षव्यापितरयैकोत्तरत्वन्तत्रप्रत्यर्थिना प्राङ्न्याय एव साधनीयः। कारणसाधनस्य तदन्तर्भूतत्वात्।यथारूपकशतमनेन मामकं गृहीतमित्यभियुक्तः प्रतिवदति सत्यं गृहीतं प्रतिदत्तत्वादिदानीमस्मैन धारयामि। अस्मिन्नेवार्थेप्रागमुनाहमभियुक्तश्चतुष्पाद्यवहाररीत्यासुम्परा- जितवानिति। इदानींहीनपरिज्ञानोपायः। तत्र मनुः।

बाह्यैर्विभावयेल्लिङ्गैर्भावमन्तर्गतं नृणाम्।
स्वरवर्णेङ्गिताकारैश्चक्षुषा चेष्टितेन च॥

स्वरो विकृतो गद्गदत्वादि। वर्णोऽप्यस्वाभाविकः कृष्णत्वादिः। इङ्गितं स्वेदवेपथुरोमाञ्चादि। आकारो विकृतो भ्रुवःक्रियादिः। चक्षुः कातरम्।चेष्टितं वृथास्थानात् स्थानान्तरगमनादि। याज्ञवल्क्यः।

देशाद्देशान्तरं याति सृक्वणी परिलेढिच।
ललाटं स्विद्यते चास्य मुखं वैवर्ण्य मेति च॥
परिशुष्यत्स्स्वलद्वाक्योविरुद्धम्बहुभाषते।
वाक्चक्षुः पूजयति नोतथोष्ठौनिर्भुजत्यपि॥
स्वभावाद्विकृतिंगच्छेन्मनोवाक्कायकर्मभिः।
अभियोगेऽथ साक्ष्येवा दुष्टः स परिकीर्त्तितः॥

मनोवाक्कायकर्मभि र्य्यःस्वभावाद्विकृतिङ्गच्छेत्न भयादिनिमित्तमसावभियोगे साक्ष्येवा दुष्टः परिकीर्त्तितः। मनः प्रकृतिविकृतिरेव विविच्य दर्शयति। देशान्तरं याति नचैकत्रावतिष्ठते। सृक्वणी ओष्ठप्रान्तौपरिलेढि जिह्वया पुनः परि-

घटयतीति कर्मणो विकृतिः। अस्य ललाटं स्विद्यते स्वेदविन्दुवृन्दाङ्कितम्भवति। मुखं वैवर्ण्यं वर्णान्यत्वं पाण्डुत्वकृशत्वादि। एति प्राप्नोतीति। कायश्च परिशुष्यत्स्स्वलद्वाक्यः। परिशुष्यत्सगद्गदंस्स्वतद्यत्यस्तपदवर्णंवाक्यं यस्य सः। बहु अनुपयुक्तं विरुद्धं पूर्वापरविरोधवद्भाषत इति वाचः। परोक्तांवाचम्प्रतिवचनदानेन। चक्षुश्च परस्य प्रतिवीक्षणेन न पूजयति नाभिनन्दतीति मनोविकृतेर्ल्लिङ्गम्परकीयमनोविकृतेरप्र- त्यक्षत्वात्। तथा ओष्ठौ निर्भुजति वक्रयत्युपर्यधोभावेन चालयतीति कायस्यैव विकृतिः॥ मनुरेव।

आकारैरिङ्गितैर्गात्या चेष्टया भाषितेन च।
नेत्रवक्त्रविकारैश्च ज्ञायतेऽन्तर्गतं मनः॥

कात्यायनः।

आकारेङ्गितचेष्टाभिस्तस्य भावं विभावयेत्।
प्रतिवादी भवेद्धीनः सोऽनुमानेन लक्ष्यते॥
कम्पः स्वेदोऽथवैवर्ण्य मोष्ठशोषाभिमर्षणम्।
भूलेखनं स्थानहानि स्तिर्य्यगुर्द्धनिरीक्षणम्।
स्वरभेदश्चदुष्टस्य चिह्नमाहर्मनीषिणः॥

प्रतिवादीशब्देन परस्परप्रतिपक्षवादित्वादुभयोर्ग्रहणम्। अभिमर्षणञ्जिह्वयोष्ठप्रान्तावलेहजंद्वन्द्वैकवद्भावः। श्रीरामायणे।

आकारं छाद्यमानोऽपि न शक्यो विनिगूहितुम्।
बलाद्धि विवृणोत्येष भावगन्तगतं नृणाम्॥

अनेन च पराजयसम्भावनामात्रम्प्रतिपाद्यते तस्य च फलं। क्रियादिपरामर्शे सभ्यादीनामत्यवधानेन व्यवहारशेषविचारः। नत्वेतावता पराजयनिश्चयो साक्ष्यनिर्णयो वा नैसर्गिकनैमि-

त्तिकविकारयोर्वैलक्षण्यस्य विवेक्तुमशक्तत्वात्। यद्यपि कोऽपि निपुणतममतिर्विवेक्तुंशक्नुयात् तथापि न पराजयनिमित्तमसाक्षित्वनिबन्धनं वा दण्डादिकार्यंसम्भवति। न हि निपुणभिषगभियोगमूलकमरणनिश्चयेऽपि मृतकार्यमार्याःसमाचरन्ति। योगीश्वरः।

सन्दिग्धार्थं स्वतन्त्रो यः साधयेद्यश्च निष्पतेत्।
नचाहूतो वदेत्किञ्चिद्हीनो दण्डश्चस स्मृतः॥

सन्दिग्धमधमर्णादिभि रनभ्युपगतमेवार्थं यः स्वतन्त्रः। प्रमाणनिरपेक्ष एव साधयेदासेधादिना राजादिभ्योऽनिवेद्यैव तस्माज्जिघृक्षति तदुपरि दण्डाद्यादयति वा स हीनोदण्ड्योभवति। न परं प्रकृतार्थहानिमाप्नोति प्रत्युत स्वातन्त्र्यनिबन्धनं राजदण्डमपि दातुमर्हति। यश्च स्वयमभ्युपेतं साधनेन वा साधितयाच्यमानो निष्पतेत्।पलायेत सोऽपि तथा दण्ड्यः। साधित धनञ्च दाप्यः। यश्चाहूतोऽभियुक्तोराज्ञाचाहूतः सदसि न किञ्चिद्वदति स प्रकृतार्थहानिंदण्डञ्च प्राप्नोति। प्रकरणात् दुष्टपरिज्ञानमेवमाभूदिति दण्ड्यग्रहणं दण्ड्योऽपि शास्योऽप्यर्थान्नहीयत इतिस्वार्थान्नहीयत इत्यर्थादहीगत्वदर्शनादत्रतन्माभूदितिहीनग्रहणं नारदोऽपि।

अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः।
आहूतप्रपलायीच हीनः पञ्चविधः स्मृतः।
अन्यवादी तथा हीनः स एव विवृताननः॥
पूर्ववाद परित्यज्य योऽन्यमालम्व ते पुनः।
वादसंक्रमणाज्ज्ञेयो हीनवादी स वै नरः॥

कात्यायनेनापि।

श्रावयित्वा यदा कार्यन्त्यजेदन्यद्वदेदसौ।
अन्यपक्षाश्रयस्तेन कृतो वादी स हीयते॥

यश्च कञ्चिदभियुज्य नाहमेनमभियुञ्ज इत्येव विरुद्धमभिदधीत सोऽप्यन्यवादीतथा हीन इत्याह स एव।

न मयाऽभिहितं कार्यमभियुज्य परं वदेत्।
विव्रुवंश्च भवेदेव हीनन्तमपि निर्दिशेत्॥

तथा पत्रेलिखितं पूर्वपक्षमप्यन्यथा कुर्वन्नन्यवादी तथाहीन इत्यथाह स एव।

लेखयित्वा तु यो वाक्यमूनं वाऽभ्यधिकं पुनः।
वदेद्वादी स हीयेत नाभियोगन्तु सोऽर्हति।

अभियोगं पूर्वपक्षं नार्हति वादित्वयोग्यो न भवतीत्यर्थः। क्रियाद्वेषिणोऽनुपस्थातुश्च हीनताया स्तेनैव विवरणं कृतम्।

सभ्याश्च साक्षिणश्चैव क्रिया ज्ञेया मनीषिभिः।
तां क्रियां द्वेष्टि यो मोहात् क्रियाद्वेषी स उच्यते॥
आह्वानादनुपस्थानात् सद्य एव स हीयते।

निरुत्तरतया हीन मप्याह स एव॥

व्रूहीत्युक्तोऽपि न ब्रूयात् सद्यस्तद्धनमर्हति।
द्वितीयेऽहनि दुर्बु्द्धेर्विद्यात्तस्य पराजयम्॥

पराजय पराजयचिह्नहीनताम्। अतएव हारीतः।

सोपदेशं हरेत्कालमब्रुवं श्चापसंसदि।
उक्त्वावचो विव्रुवंश्च हीयमानस्य लक्षणम्॥

सोपदेशं सव्याजम्।यथाह कात्यायनः।

व्याजेनैव तु यत्रासौ दीर्घकालमतिक्रमेत्।
सोपदेशन्तु तद्विद्याद्वादहानिकरं स्मृतमिति।

आहूत-प्रपलायी। अभियोगपरिहारार्थ माह्वानबुद्ध्याप्रच्छन्नचारी।एतेषा मुत्तरोत्तरस्य हीनता गुर्वीति ज्ञापयितुं हीनं पञ्चविध इत्युक्तं न परिसंख्यार्थमन्येषामपि हीनत्व स्मरणात्। हीनता गुरुत्वज्ञापनं दण्डभूयस्त्वार्थम्। यच्चोक्त ङ्कात्यायनेन।

अन्यवादी पणान् पञ्च क्रियाद्वेषी पणान्दश।
नोपस्थाता दश द्वेच षोडशैव निरुत्तरः॥

आहूतप्रपलायी च पणान्दाप्यस्तु विंशतिम्। अत्रापि विशेष उक्तस्तेनैव।

त्रिराहूत मनायात माहूत प्रपलायिनम्।
पञ्चरात्र मतिक्रान्त विनयेत्तं महीपतिः॥

कात्यायनेनैव प्रकारान्तरेणापि हीन उक्तः-
श्रवितव्यवहाराणामेकं यत्र प्रभेदयेत्।
वादिनं लोभयेच्चैव हीनन्तमपि निर्दृिशेत्॥

श्रावितव्यवहाराणां सभ्यादीनां मध्ये एकमपि यः प्रभेदयेत्। अन्यद्वारानुरोधाद्युत्पादनेनेत्यर्थः। वृहस्पतिरपि।

भयं कुर्वति भेदं वा भीषणं वा निरोधनम्।
एतानि वादिनो यस्य व्यवहारे स हीयते॥

भयादीनि व्यस्तसमस्तानि येन कृतानि स हीयत इत्यर्थः। भयं करोति भीषण मन्यमुखेन भयोत्पादनमिति शेषः। मनुरपि। अदेश्यं यश्च दिशति निर्दिश्यापद्ह्नुते च यः।

यश्चाधरोत्तरानर्थान् विगीतान्नावबुध्यते॥
अपदिश्यापदेश्यञ्च पुनर्य्यस्त्वपधावति।
सम्यक् प्रणिहितञ्चार्थं पृष्टः सन्नाभिनन्दति॥

असम्भाष्ये साक्षिभिश्च देशे सम्भाषते मिथः।
निरुच्यमानं प्रश्नञ्च नेच्छेद्यश्चापि निष्पतेत्॥
व्रूहीत्युक्तश्च न ब्रूयादुक्तञ्च न विभावयेत्।
न च पूर्वापर विद्यात्तस्मादर्थात् स हीयते॥
ज्ञातारः सन्ति मेत्युत्क्वादिशेत्युक्तो दिशेन्नयः।
धर्मस्थः कारणैरेतैर्हीनन्तमपिनिर्दिशेत्॥

अदेश्य मनुपयोगासभ्यत्वादिना निर्देशानर्हंदिशति कथयति यः। यश्च कथितमपि नमयेदमुक्तमित्यपलपति।यश्चा धरोत्तरानर्थान् पूर्वापराभिहितान्विगीतान्विरुद्धांस्तत्त्वेन नावबुध्यते। यश्चापदेश व्याजं पीडादिकमपदिश्योद्भाव्यापधावति अपसरति सभातः। यश्च सम्यक् प्रणिहितं सम्यक्प्रणिधानेनाकलितमपि परोक्तमर्थं पृष्टः सन्नाभिनन्दति अनुवादप्रत्युत्तरदानादिना नाद्रियन्ते। मेधातिथिस्त्वदेशमिति पठित्वा भाषावादिलिखितदेशभिन्नमसम्भावितं वा देशम्। यद्वाभियोक्तादिशेद्देशमित्यत्रेव देशशब्देन साक्षिणो व्याख्याय साक्षिनिर्देशः।अकाले असम्भावितः साक्षिणो निर्दिशतिव्याचख्यौ। यश्च ज्ञातारःसाक्षिणो मदुक्तेऽर्थे सन्तीति सभायामुक्त्वाके ते वदेत्युक्तो न वदेत्तान्। अत्र मा मां ज्ञातारः। यथार्थवाद्यहमिति जानानाःसाक्षिण इति यावत्। द्वितीयैकवचनान्तस्यास्मच्छब्दस्य द्वितीयाया इत्यनेन मां इत्यस्य मा इत्यादेशः। नतु मे इति षष्ठ्यन्तमेतत्। खलर्थत्तृनमिति तन्निषेधात्। तेनमेति सन्धिरपि समाहित इति मेधातिथिः। आचार्यास्तु।व्याकरणाधिकरणे सन्धिकरणमत्रापशब्द इति पूर्वपक्षप्रसङ्गेन वदन्तः षष्ठ्यन्ततामेवास्य मन्यन्तेमे सन्तीति

सम्बन्धान्न तृतीयसम्बन्धप्रयुक्तषष्ठीप्रतिषेधावकाश इति तेषामभिसन्धिः। सन्ति ज्ञातार इत्युक्तेति कल्पतरुलिखितपाठस्त्वनाकर एवाचार्य्यमेधातिथिभ्यामधृतत्वादिति ध्येयम्। सिद्धान्तेत्वाचार्य्याणां छान्दसत्व मत्रसमाधिरभिमतः। एतैः कारणैर्व्यस्तैः समस्तैर्वा वादिप्रतिवादिनोरन्यतरं हीनन्निर्दिशेदित्यर्थः। हीनवादितया दण्डर्हतामात्रन्नप्रकृतार्थहानिरिति प्रमादपरिहारार्थमेवायं प्रपञ्चः। कूलन्निरस्येत्यादि वचनात्। अतएव नारदोऽपि।

सर्वेष्वर्थविवादेषु वाक्छलेनावसीदति।

परस्त्रीभूम्यृणादाने शास्योऽप्यर्थान्नहोयत इति।

अस्यार्थः। अर्थविवादेषु सर्वेषु वाक्कूलेप्रमादाभिधाने पूर्वप्रपञ्चितेऽपि नावसीदति प्रकृतादर्थान्न हीयते। अत्रोदाहरणमात्रंपरस्त्रीत्यादि। एतेषु प्रमादाभिधानेऽपि शास्योदण्ड्योऽपि यथा न प्रकृतार्थाद्धीयते इति। एवं सर्वेष्वर्थविवादे ष्वित्यर्थः। अन्यथा परस्त्रीत्यादेरानर्थक्यमेव भवेत्।

अर्थविवादोपादानान्मन्युकृतेषु प्रकृतार्थादपि हीयत इत्यर्थादुक्तं भवति। यथाह मनेन शिरसिताड़ित इत्यावेद्यभाषादिसमये हस्तेन पादे ताड़ित इति वदन् दण्ड्यः पराजितश्च भवति। मन्युकृतायेषादशदेवताड़नादिकमयमस्मिन्नारोप्यावेदितवान् धर्माधिकरण इति प्रतीतेः। अतएव दोषानुरूपं संग्राह्यं पुनर्वादो न विद्यत इति वार्हस्पत्यः पुनर्वादनिषेधोऽपि मन्युकृतव्यवहारविषय एव। ग्राह्यो दण्डमित्यर्थात्। असम्भाष्येसम्भाषणानर्हेविजन इति यावत्।नेच्छेत् श्रुतमप्यश्रुतवत्कुर्य्यात्।राजकार्य्यादिव्याज-

मुत्पाद्य ग्रामान्तरङ्गच्छेत्। ब्रूहीत्यादिगतार्थम्। अन्नादेशमित्यादौ ब्रूहीत्यादौ च बहुकृत्वोऽपि पथ्य वदितव्यमिति शाबरभाष्योक्तरीत्यास्मिन् प्रकरणे पुनरुक्ति र्नदोष इति भगवान्मेधातिथिराह।क्वचिदर्थविवादेऽप्यर्थहानिः। सन्दिग्धार्थमित्यनेन दर्शिता। नारदोऽप्याह।

अनिवेद्य तु यो राज्ञेसन्दिग्धेऽर्थेप्रवर्तते।
प्रसह्य स विनेयः स्यात्सचाप्यर्थे च सिध्यति॥

प्रवर्त्तते साधयति बलादिनेत्यर्थः। वृहस्पतिरपि।

आहूतप्रपलायी च मौनी साक्षीपराजितः।
स्ववाक्य प्रतिपन्नश्च हीनवादी चतुर्विधः॥
साक्षी पराजितः साक्षी वचनाद्ये पराजितः,
स्ववाक्य प्रतिपन्नः सः प्रतिपत्युत्तरदाता,

अनयोर्दृष्टान्तत्वेनोपादानम्।यथाऽनयो रविप्रतिपन्नार्थहानि स्तथान्ययोरपीत्यर्थः। अत्राप्युत्तरोत्तरहीनताधिक्य प्रतिपादनार्थं चतुर्विधग्रहणन्नपरिसङ्ख्यार्थमन्यथान्येषान्तत्कथन विरुध्येत। कस्मिन् कदाहीनकार्य्यमित्यत्र कालावधिरुक्तस्तेनैव।

प्रपलायी त्रिपक्षेण मौनकृत्सप्तभि र्दिनैः।
साक्षिभिन्न स्तत् क्षणेन प्रतिपन्नश्च हीनत इति॥

साक्षिभिन्नस्तत्पराजितः यश्च सामान्यः साक्षिणोनिर्दिश्य पञ्चाद्विशिष्यानिर्दिशन्मनुनाज्ञातार इत्यनेन हीनतयोक्तिस्तत्रापि कालावधि वृहस्पतिरेवाह।

साक्षिणस्तुसमुद्दिश्य यस्तु तान्नविवादयेत्।
त्रिंशद्रात्रिपक्षाद्वातस्य हानिः प्रजायत इति।

दैविकराजिकान्तराये त्ववध्यतिक्रमेऽपि न दोष इत्यप्याह स एव।

आचारकरणेदिव्ये कृत्वोपस्थाननिर्णयम्।
नोपस्थितो यदा कश्चिच्छलन्तत्र न कारयेत्॥
दैवराजकृतो दोषस्तस्मिन् काले यदा भवेत्।
अवधित्यागमात्रेण न भवेत् स पराजितः॥

इति आचारकरणे व्यवहारकरणे। कूलन्तत्र कारयेदिति वदता यत्र वचने नार्थहानिःप्रतिपादिता तत्रैव पुनर्विवादाभावोऽन्यत्रतु हीनतानिमित्तं दण्डं कृत्वा पुनर्वादः प्रवर्त्तनीय एवेति सूचितं यत आह। कात्यायनः।

पलायनानुत्तरत्वादन्यपक्षाश्रयेण वा।
हीनस्थ गृह्यते वादो न स्ववाक्यजितस्यच॥

स्ववाक्यजितस्येति प्रकृतार्थहानिनिमित्तोपलक्षणन्तेनैव वितृतमिदम्।

यो हीन चिह्नेनजित स्तस्योद्वारंविदुर्बुधाः।
स्ववाक्यहीनो यस्तुस्यात् तस्यो्द्धारो न विद्यत इति॥

उ्द्धारः पुनर्व्यवहारः। अत्रापि स्ववाक्यहीन इति प्रकृतार्थहानिनिमित्तोपलक्षणम्। विवादमुपक्रम्यराजानं वञ्चयित्वाऽन्योन्यं यौ वादिप्रतिवादिनौस्वयमेव विवादान्निवर्त्तते तयोरुभयोरपि दण्ड्यत्वमाह वृहस्पतिः।

पूर्वोत्तरे सन्निविष्टेविचारे सम्प्रवर्त्तिते।
प्रथमं ये मिथोयान्ति दाप्यस्ते द्विगुणन्दमम्॥

मिथ इत्यनेन राज्ञो निवेदनमकृत्वैवाऽन्योन्यमित्युक्तेराजवचनमवगम्यते। कात्यायनस्तु स्पष्टमाह।

आवेद्य प्रगृहीतार्थं प्रशमं यान्ति ये मिथः।
सर्वे द्विगुणदण्डाः स्युर्विप्रलम्भान्नृपस्य त इति॥

द्विगुणो दण्डस्तु पराजयनिमित्तदण्डापेक्षया। नतु विवादास्पदीभूतद्रव्यापेक्षया अद्रव्य विवादेष्वव्याप्तेः। राज्ञेनिवेद्याऽन्योन्यरुच्या राजानुरोधेनैव वा सन्धिकरणे तु नदण्ड इत्यर्थः। सिद्धं स्फुटीकृतं वृहस्पतिना।

पूर्वोत्तरेऽभिलिखिते प्रक्रान्तेकार्यनिर्णये।
द्वयोरुत्तरयोः सन्धिः स्यादयः खण्डयोरिव॥
साक्षिसभ्य विकल्पस्तु भवेत्तत्रोभयोरपि।
दोलायमानौ यौ सन्धिं कुर्यातान्तौ विचक्षणौ॥
प्रमाणसमता यत्र भेदः शास्त्रचरित्नयोः।
तत्र राजाज्ञया सन्धिरुभयोरपि शस्यते॥
धर्मार्थोपग्रहः कीर्त्तिर्भवेत्साम्येन भूभृतः।
न क्लिश्यन्ते साक्षिसभ्या वैरञ्च विनिवर्त्तते।
निग्रहानुग्रहं दण्डं धर्मं प्राप्य यशोऽयशः।
विग्रहाज्जायते नृणां पुनर्दोषस्तथैव च॥
तस्मात्कुलगणाध्यक्षधर्मज्ञाः समदृष्टयः।
अद्वेषलोभाद्यद्रूयुतत्कर्त्तव्यं विजानतेति॥

साक्षिसभ्य विकल्प इति। उभयोरप्यर्थिप्रत्यर्थिनोः किमेते वक्ष्यन्तीति साक्षिसभ्यविषयको विकल्पो भवेत् तत्र कार्य्यनिर्णये दोलायमानौ सन्देहदोलारूढौ यावर्थिप्रत्यर्थिनौ सन्धिं कुर्य्यातान्तौ विचक्षणौ चतुरौपराजयजनिताऽप्रतिष्ठादितिरोधानादित्यर्थ इति कल्पतरुः। रत्नाकरस्तु साक्षिणां सभ्यानाञ्च विकल्पः परस्परविरोध इत्याह। प्रमाण-

समतेति।यत्र सभ्यानां वादिद्वयपक्षेप्रमाणं साम्यं प्रतिभाति। यत्र च शास्त्रचरित्रयोर्भेदः शास्त्रेशास्त्रान्तरेण चरित्रे व्यवहारे चरित्नान्तरेण भेदो विप्रतिपत्ति र्नतु शास्त्रव्यवहारयोः परस्परम्भेदइति व्याख्यानं धर्मशास्त्राविरोधे व्यवहारस्थार्थशास्त्रलेन दुर्बलत्वात्।

तत्र राजाज्ञया सन्धिः कार्य्यत्वेन प्रशस्यते।

धर्म्मार्थोपग्रहादिहेतुत्वात्। निग्रहानुग्रहाद्य व्यवस्थानिवर्त्तकत्वाच्च। तस्मादित्यादिना राजाज्ञैव केवलं न सन्धिहेतुःकुलगणाध्यक्षादिवचोऽपि राजवचश्च नयेति प्रतिपाद्यते। एतच्चप्रत्याकलितं सभ्यैरवश्यमादर्त्तव्यमित्याह नारदः।

प्रमाणानि प्रमाणज्ञैःपरिपाल्यानि यत्नतः।

सीदन्ति हि प्रमाणानि प्रमाणैरव्यवस्थितैः॥

अस्यार्थः स्मृतिचन्द्रिकाकारेणैवमुक्तः। अव्यवस्थितैः प्रमाणैः प्रमाणानि प्रमाणकर्त्तारः प्रमाणशब्देन लक्ष्यते। ते सीदन्ति विनश्यन्ति निर्णयंनाप्नुवन्ति। अतःप्रत्याकलनकौशलेन प्रमाणज्ञैःसभ्यैर्यत्नतस्तानि प्रमाणानि परिपाल्यानि यथा व्यवस्थादुःस्थितानि न भवन्ति तथा विवेचनीयानीत्यर्थ इति। वयन्तु अव्यवस्थितैर्मूलशैथिल्यादिना दुःस्थितैः प्रमाणैःप्रमाणानुग्राहकैस्तर्कैः प्रमाणानिसाक्ष्यादीनि सीदन्ति निर्णयाक्षमाणि भवन्ति। हि यतोऽतः प्रमाणःप्रमाणानि यत्नतः परिपाल्यानि सत्तर्कपरिशुद्धनुग्रहेण तत्वनिर्णयफलानि कार्य्याणीति व्याचक्ष्महे। अनयोश्चव्याख्यानयोस्तारतम्यन्तत्त्वविद्भिर्विवेचनीयम्। इदञ्च प्रत्याकलितव्यवहर्त्तृसम्बन्धाभावाऽव्यवहारदर्शिमात्रकर्त्तृकत्वान्नव्यवहारपाद-

चतुष्ट्यान्तर्भूतमिति मिताक्षराकारस्यसम्मतम्। नत्वनुपादेयमे तदन्तरेण तृतीयक्रियापादानवतारात्। यथाह। उत्तराभिधानानन्तरमर्थिप्रत्यर्थिनोः कस्य क्रिया का वाक्रियेति परामर्शलक्षणस्य प्रत्याकलितस्य योगीश्वरेण व्यवहारपादत्वेनानभिधानाद्व्यवहर्त्तृसम्बन्धाभावाच्च न व्यवहारपादत्वमिति। अपरार्कस्तुसाध्यसिद्धिपदेन जयपराजयावधारणं लक्षणं प्रत्याकलितं योगीश्वरवचने लक्षणया गृह्यत इति वदन् क्रियोपन्यासोत्तरकालीनविचारस्य सभ्यैः क्रियमाणस्यप्रत्याकलितरूपतामभिप्रैति। सम्प्रतिपत्युत्तरेण क्रियापादेनापि जयपराजयावधारणलक्षणप्रत्याकलितपाद इति द्विपात्वमेवेति ब्रुवाणो वाचस्पतिरपि तदेवानुबध्नाति। कल्पतरुस्मृतिचन्द्रिकाकारौ मिताक्षराकारवदेवोत्तरलेखनानन्तरभावितानां हीनपरिज्ञानसन्धिकरणक्रियादानानां क्रियापादप्राग्भाविनां प्रत्याकलितत्वमभिहितवन्तौ। व्यवहारोपयोगित्वाद्वृहस्पत्यादिवचनानां प्रागस्मल्लिखितानामनुरोधाच्च व्यवहारपादत्वंपरन्तदनभ्युपगतमभ्युपगतवन्तौ क्रियापादप्राग्भावित्वमेव तु तस्य युक्तम्।ये तु तिष्ठन्ति करण इत्यादि वचनात् व्यवहारपादत्वमस्तु नवेत्यन्यदेतत्। यत्तु। साध्यसिद्धे व्यवहारफलत्वान्न व्यवहारपादत्वं युक्तमिति। तन्न। व्यवहारभावनया फलापवर्गिण्याःफलनिरूप्यत्वेन फलस्य तदंशत्वेन तत्पादत्वे बाधकाभावात्। अतएव त्य शाभावनेति मीमांसकानामुद्घोषः। तात्पर्य्यपरिशुद्धाबुदयनाचार्यस्तु प्रमाणोपन्यासमेव प्रत्याकलितमभिमन्यन्ते। तदाहुः। यद्यपि परीक्षायां न वादिप्रतिवादिनौ स्तः।पृच्छोपक्रममात्रेण।

द्वितीयोपयोगात्। सम्भवेऽपि तयोर्विषयोपस्थापनमात्र पर्य्यवसानात् स्थेयस्यैव परीक्षकत्वम्। तथापि पूर्वपक्षोत्तरपक्षप्रत्याकलितनिष्कर्षभेदेन चतुष्पाद्यवहारपूर्वप्रवर्त्तनात् फलतो न कश्चिद्विशेषः। एककर्त्तृकत्वेऽपि तावत एवव्यापारकलापस्य विचारे विद्यमानत्वात्। तस्मादप्यनिपुणो देशकस्तथापि देश्यं सावगममेवेति। वस्तुतस्तु नप्रमाणोपन्यासस्तेषां प्रत्याकलितत्वेनाभिप्रेतः। किन्तु सभिककृतः प्रमाणोपष्टम्भककृत्तर्कादिपरामर्श एव। यतो न शास्त्रीयकथायां व्यवहारवत्पूर्वपक्षोत्तरपक्षौस्वाभिमत सहेतुकसाध्यनिर्देशमात्रपरौ।किन्तु पूर्वपक्षिणा कण्टकोद्धारोत्तरपक्षदूषणपुरःसरं स्वपक्षे स्थिरीकृते सिद्धान्तवादिना तदुभयप्रतिक्षेपेण स्वपक्षसाधकप्रमाणकप्रमाणप्रथमप्रख्यापनं क्रियते। ततः स्थेयैस्तदुभयविवेकाख्य प्रत्याकलितेन निष्कर्ष एकतरपक्षनिर्धारणरूपः क्रियते। तावता कथासमाप्तिर्वादे जल्पवितण्डयोस्तुसभिकादीनामुत्तरोऽपि व्यापारो विद्यत इत्यादि लक्षणमाकरे। अत्रतु साक्ष्यादिविलक्षणं मानमुत्तरभेदेन नियतं प्रागुपन्यासानर्हमिति न पूर्वोत्तरपादान्तर्गतिस्तस्य। अतएवात्र प्रत्याकलितस्यात्रोत्तरे कस्य क्रियेत्यादि विमर्शस्य स्थेयकृतस्य प्रत्याकलितस्य प्राच्यत्वं प्रमाणोपन्यासात्तत्रतु प्रतीच्यत्वमेव स्थेयकृतप्रमाणसाध्वसाधुताविवेकरूपताचेत्यस्तुविस्तरः। एवं प्रत्याकलितमाकलितम्। अधुना क्रियापादो विविच्यते। तत्रकात्यायनः।

वादिनायदभिप्रेतं स्वयं साधयितुं स्फुटम्।

तत्साध्यं साधन येन तत्साध्यं साध्यतेऽखिलम्॥

सारभूतं पदम्भुक्त्वानिःसाराणि बहून्यपि।
संसाधयेत् क्रियायान्तुताञ्जह्यात्सारवर्जिताम्॥
पक्षद्वयं साधयेद्या ताञ्जह्याद्दूरतः क्रियाम्।
क्रियां बलवतीमुक्त्वा दुर्बल योऽवलम्वते।
स जयेऽवधृते सभ्यैः पुनः स्तान्नाप्नुयात् क्रियामिति॥

ताम्बलवतीम्। तेन प्रागेवप्रबलं प्रमाणमुद्भाव्यं दुर्बलप्रमाणालम्बनेन पराजितस्य पश्चात्प्रबलोपप्रमाणोपन्यासावसरो नास्तीत्यर्थः। अतएवाह नारदः।

निर्णिक्तेव्यवहारे प्रमाणमफलं भवेत्।
लिखितं साक्षिणो वापि पूर्वमावेदितं नवेति॥

निर्णिक्तेशोधिते। अन्यतरजयपराजयान्यतरावधारणं प्रापित इति यावत्। पूर्वमेव दुर्बलप्रबलसकलप्रमाणोपन्यासकृते तु सर्वप्रमाणानुसारेण छलं निरस्येत्यभिधानात्। पञ्चादुद्भावितन्तुकृत्रिमत्वादिशङ्काकलङ्कितमित्यनुपादेयमेवेत्यर्थः। अतएव पूर्ववाक्येऽपि भुक्त्वेति पुनरिति चोक्तम्। सएव यथा।

पक्वेषु धान्येषु यथा निस्फला प्रावृषो गुणाः।
निर्णिक्तव्यवहाराणां प्रमाणमफलं तथेति॥

उत्तरे यत्रनिवेशिते साध्यसिद्धेसाधनाय तत्साधनानिर्देशङःकुर्य्यादित्यपेक्षिते याज्ञवल्क्यआह।

ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम्।
तत उत्तरलिखनान्तरमर्थीअर्थ्यत इत्यर्थः॥

साध्यं सोऽस्याऽतीत्यर्थी साध्यवान्। सद्य एवाविलम्बेन प्रतिज्ञातस्य प्रतिज्ञाविषयस्यार्थस्य साध्यस्यसाधनम्। सा-

ध्यतेऽनेनेति साधनं प्रमाणम्।साध्यादि लौकिकमलौकिकं वा लेखयेत्। लेखकद्वारा स्वयंवालिखेदित्यपिद्रष्टव्यम्।दृष्टार्थत्वात्। अत्र सद्य इति वदन्नुत्तराभिधाने कालविलम्बनमप्यनुमन्यते। तच्चविशेषपरिभाषायां विवक्ष्यते। अर्थी लेखयेदित्यनेन सम्प्रतिपत्तौ न कस्याप्यर्थित्वमिति न कोऽपिसाधनं लेखयेदिति पादद्वयेनैवव्यवहारनिर्वाहः। तथाचोक्तम्। द्विपात्सम्प्रतिपत्तिस्तिष्ठति मिथ्योत्तरे पूर्ववादिन एवार्थित्वात् सएव साधनं लेख्येत्। कारणोत्तरप्राङ्न्यायोत्तरयोस्तु प्रत्यर्थ्येव साध्यवान् कारणप्राङ्न्यायोस्तस्यैव साध्यत्वादिति सएव लेखयेदियुक्तं भवति। तेन।

प्राङ्न्यायकारणोक्तौतु प्रत्यर्थी निर्दिशेत् क्रियाम्।
मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत्।
मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादिनि।

प्राङ्न्यायेऽपि तथैव स्यात्प्रतिपत्तौ न साभवेदिति॥ व्यासादि स्मृत्युक्तौऽर्थोऽर्थिपदेन सङ्क्षेपतः। सर्व एवोक्तोभवति। अत्रचण्डेश्वरः।

माहमस्तेयपारुव्यगोभिशापात्यमेस्त्रियाम्।
विवादयेत्सद्यएव कालोऽन्यत्रेच्छया स्मृत॥

इत्यत्र सद्योविवादयेदुत्तरन्दापयेदित्यनेन प्रत्यर्थिपक्षस्यलिखने विलम्बप्राप्तौसाहसादिषु तत्पक्षमपि सद्यएव लेखयेदिति योऽपवादःसयदि प्राग्भाषावादिपक्षलिखने विलम्बोद्यार्थप्राप्तः। प्रत्यर्थिपक्षलिखनविलम्बःस्यात् तदैवघटते नान्यथेत्येतद्वाक्यव्याख्याने यदर्थिपदेन प्रत्यवस्कन्दनप्राङ्न्याययोः प्रत्यर्थ्येवाऽर्थीजात इति स एव साधनं लेखये-

दिति। प्रत्यर्थिनोऽपि ग्रहणमिति मिताक्षराकारव्याख्यातं तत्पूर्वापरविरोधान्मन्दमित्याह। तदति साहसम्। भाषोत्तरवादिपक्षमात्र लेखनपरत्वं यद्यनयोर्वाक्ययोस्तर्हि साधनपदानन्वये समासानुपपत्तेः। सन्दर्भविरोधाच्च। साधनलेखनस्यैवोत्तरं लिखनोत्तरमाकाङ्क्षितत्वात्। साहसादिष्वप्युत्तरभेदव्यवस्थया द्वयोरपि पूर्ववाक्योपात्तसाधनलेखनं सद्यस्त्वर्थाक्षिप्तोत्तरलेखनविलम्बापवादोपपत्तेः। नचोत्तरलेखनं सर्वत्र प्रत्यर्थिन एवेति तद्विलम्बानुमतिविमत्योस्तं प्रत्येव प्रतिपादनमर्हमिति वाच्यम्। एतावतापि कियोपन्यासप्रतिपादकवचनस्यार्थिपदेन भाषावादिमात्रग्रहणाग्रहे नियामकाभावात्। प्रत्युत मिथ्याक्रियेत्यादिवचनार्थसंग्रहाय द्वयोरपि ग्रहणमर्थिपदेनेत्यस्यैव युक्तत्वात्। एवं सति मिताक्षरायां पूर्वापरविरोधापादनमज्ञानबिलसितमेवेत्यास्तां तावत्। वृहस्पतिः।

द्विप्रकारा क्रिया प्रोक्ता मानुषी दैविकी तथा।
एकैकानेकधा भिन्ना मुनिभिस्तत्त्ववादिभिः॥
साक्षिलेख्यानुमानञ्च त्रिविधा मानुषी क्रिया।
साक्षिलेख्यानुमानमिति द्वन्द्वैकवद्भावः॥
साक्षीद्वादशभेदस्तु लिखितं दशधास्मृतम्।
अनुमानन्तुद्विविधन्नवधा दैविकी क्रिया॥

इदं संख्याभिधानन्ननियमाय भेदान्तराणामपि प्रमाणमकरणे वक्ष्यमाणत्वात्। कात्यायनः।

लिखितं साक्षिणोभुक्तिः प्रमाणन्त्रिविधं विदुः।
लेशोद्देशस्तु युक्तिः स्वाद्दिव्यानीह विषादयः॥

लेशोऽन्यथानुपपन्नो धर्मस्तस्योद्देशोविमर्शो युक्तिरित्यर्थः।

पूर्ववांदेऽपि लिखिते यथाऽक्षरमशेषतः।
अर्थी तृतीयपदे तु क्रिययाप्रतिपादयेत्॥

पूर्ववादोभाषालिखितं पूर्वपक्षतया लिखितं उत्तरमिति यावत्।तृतीयपादःप्रत्याकलिताख्यः तस्मिन् सति क्रियया प्रमाणेन प्रतिपादयेत् साध्यमितिशेषः। भाषोत्तरप्रत्याकलिताख्यपादत्रयेसति क्रियया स्वकार्य्यमर्थीसाधयेदिति तात्पर्य्यार्थः। कार्य्यक्रियाशब्दौव्याचष्टे व्यासः॥

कार्यं हि साध्यमित्युक्तं साधनन्तु क्रियोच्यते।
द्विभेदा सा पुनर्ज्ञेया मानुषी दैविकी तथेति॥

साधनं प्रमाणं प्रत्याकलितस्य तृतीयव्यवहारपादत्वमभ्युपगच्छता स्मृतिचन्द्रिकाकारेणैवमिदं वचो व्याख्यातम्। मिताक्षराकारमते तु तृतीयपादक्रिययेति संमुख एवार्थः। साक्षीद्वादशभेद इत्यादिप्रमाणप्रकरणे प्रपञ्चयिष्यामः। याज्ञवल्क्यः। प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्त्तितम्।

एषामन्यतमाभावे दिव्यान्यतममुच्यत इति॥

दिव्येष्वन्यतममित्यर्थः कात्यायनः।

यद्येको मानुषींब्रूयादन्यो व्रूयात्तु दैविकीम्।
मानुषीं तत्र गृह्णीया न्नतु दैवीं क्रियां नृपः॥
यद्येकदेशप्राप्तापि क्रिया विद्येत मानुषी।
सा ग्राह्या नतु पूर्णापि दैविकींवदतां नृणाम्॥

एकदेशप्राप्ता साध्यैकदेशविषया।अत्रयद्येको वादी मानुषींसाक्ष्याद्यन्यतमां क्रियां स्वपक्षसाधकतयोपन्यसत्यन्यस्तु तत्प्रतिपक्षतया दैविकीन्तदर्थादितरवादि-पक्षसिध्यसिध्योः

सुलभत्वेन न दिव्यापेक्षेति प्रथमवचनार्थः। एवमेकोऽपि वादी साध्यानेकत्वे साध्यैकदेशमपि यदि प्रमाणेन साधयति तदैकदेशविभावितन्यायेनैकदेशान्तरस्यापिसिद्धेर्वक्ष्यमाणत्वान्नदिव्यावसर इति द्वितीयवाक्यार्थः। दिव्यस्वरूपप्रमाणयो रागमैकगम्यत्वान्मानुष प्रमाणासम्भव एवदिव्यस्य प्रामाण्यमिति मुनिवचननिचयपर्य्यालोचनयावगम्यते। अन्यान्यपि क्वचित् क्वचित्केषाञ्चित् प्रमाणानां प्राधान्याभिप्रायेण व्यवस्थापकानि वचनान्यृषीणां यथा।

क्रिया न दैविकी प्रोक्ता विद्यमानेषु साक्षिषु।

लेख्ये च सति वादेषु न स्याद्दिव्यं न साक्षिण इति कात्यायनः। पितामहः।

स्थावरेषु विवादेषु दिव्यानि परिवर्ज्जयेत्।
साक्षिभिर्लिखितेनाथ भुक्त्याचैतान् प्रसाधयेत्॥

इदमपि साक्ष्यादिसमक्षस्थावरविषयविवादेषु सुलभमतस्तत् सम्भवान्वेषणमेव कार्यमित्येवम्परन्न सर्वथा दिव्यपरिहारपरम्। सर्वथा साक्ष्याद्यसम्भवेऽपि दिव्याग्रहणेति निर्णयाभाव प्रसङ्गात्। कात्यायनः।

दत्तादत्तेषुभृत्यानां स्वामिनां निर्णये सति।
विक्रीयादानसबन्धेक्रीत्वाधनमनिच्छति॥
द्यूते समाह्वये चैव विवादे समुपस्थिते।
साक्षिणः साधनं प्रोक्तन्नदिव्यं नच लेख्यकम्॥
पूगश्रेणीगणादीनां या स्थितिः परिकीर्त्तिता।
तस्यास्तु साधनं लेख्यन्नदिव्यन्न च साक्षिणः।
द्वारमार्ग क्रियाभोग जलवाहादिषु क्रिया।

भुक्तिरेव तु गुर्व्वीस्यान्न दिव्यंनच साक्षिणः।

दत्तादत्ते प्रतिश्रुत्याप्रदाने दत्वा पुनः प्रत्यावृत्य ग्रहणे वाग्दत्ताप्रदानिके विवादपदइति यावत्। भृत्यामित्यादिना वेतनादाने। विक्रीयादानेत्यादिना क्रयविक्रयानुशये इतरद्व्यक्तम्। दत्तादत्तादिषु वृद्धानां लिखितकरणा प्रसिद्धेर्भु्क्तेश्चामम्भवात् साक्षिणश्चैतादृशि विषये सुलभत्वान्मानुषप्रमाणमम्भवे च दिव्यासम्भवान्न दिव्यंनच लेख्यकमित्युक्तम्। पूगादीनां सम्बिदितु बहुकर्तृकायां लिखितं विना न निर्वाहः। सर्वेषां व्यवहर्तृत्वान्नोदासीन साक्षिसम्भवो मानुषसत्वे च दिव्यानवकाश इत्यभिसन्धायाभिहितन्नदिव्यं च साक्षिण इति। द्वारमार्ग्दिष्वपि गमनागमनादिरूपभोगस्यैव परं भावाल्लेख्यस्य चाप्रसिद्धेर्मानुषाभाव एव च दिव्यावकाशान्न दिव्यमित्यादिभुक्तिरेव तु गुर्व्वीति चोक्तम्। एवं सर्ववचनानि विवेचनीयानि।अतएव

अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे।
न्यासापद्भवने चैव दिव्या सम्भवति क्रियेति॥

नारदेन। सम्भवतीत्युक्तं स एव।
यदा साक्षीन विद्येत विवादे वदतां नृणाम्।
तदा दिव्यैःपरीक्षेत शपथैश्च पृथग्विधैः॥
स्त्रीणां शीलानियोगे चस्तेयसाहसयोरपि॥
एष एव विधिर्दृष्टः सर्वार्थापह्नवेषु चेति॥

कात्यायनः। गूढप्ताहसिकानान्तु प्राप्तं दिव्यैः परीक्षणम्।

युक्तिलेशेङ्गिताकार वाक्चक्षुश्चेष्टितैर्न्नृणाम्॥
अलेख्य साक्षिके दैवींव्यवहारे विनिर्दिशेत्।

दैवसाध्ये पौरुषेयींन लेख्यं वा प्रयोजयेत्॥

वृहस्पतिः।मणिमुक्ताप्रवालानां कूटकन्न्यासहारकः।

हिंसकोऽन्याङ्गनासेवी परीक्ष्यः शपथैः सदा।
महापापाभिशापेषु निक्षेपहरणे तथा॥
दिव्यैः कार्य्यंपरीक्षेत राजा सत्स्वपि साक्षिषु।
चिरन्तनो पांशुकृतचिरनष्टेषु साक्षिषु।
प्रदुष्टेषु समानेषु दिव्यैःकार्य्यं विशोधयेत्॥

अत्रसत्स्वपिसाक्षिष्वित्यनेनैतादृशि विषये साक्षिण एव तावन्न सम्भवन्ति। सम्भवन्तोऽपि वा कथञ्चित्कूटतया प्रायःप्रदुष्टा इति विवक्षितं नतु यथाश्रुतम् । चिरन्तनकृते उपांशुकृते रहति कृत इत्यनेन लेख्याद्यसम्भवमेवोपलक्षयति। अतएवाग्र चिरनष्टेषु प्रदुष्टेषु समानेष्वित्यनेनासाचिवन्त्रिमित्तान्युपलक्षितवान्। व्यासः।

प्रथमे यत्र भिद्यन्ते साक्षिणश्च तथाऽपरे।
परेभ्यश्च तथाचान्ये तं वादं शपथैर्नयेत्॥

भिद्यन्तेप्रतिपद्यन्ते। कात्यायनः।

समत्वं साक्षिणां यत्र दिव्यैस्तत्रापि शोधयेत्।
प्राणान्तिकविवादेषु विद्यमानेषु साक्षिषु॥
दिव्यमालम्बते वादी न पृच्छेत्तत्रसाक्षिणः॥

साक्षिषु विद्यमानेष्वपि तत्र दोषावष्टम्भेन दिव्यमालम्बत इत्यर्थः।ममत्वं साक्षिणांयत्रेति। यत्रोभाभ्यांभाषावादिभ्यामुपन्यस्तानां साक्षिणां गुणतः सङ्ख्यातश्च तुल्यत्वमित्यर्थः। व्यासः।

न मयै तत्कृतं लेख्यं कूटमेतेन कारितम्।

अधरीकृत्य तत्पत्रमर्थे दिव्ये न निर्णयः॥

लेख्यदोषोड्भावनेन लेख्येनिर्णयाक्षमे तदारुढसाक्षिषुसुतरां दण्डापूपकन्यायेन दोषोद्भावनान्मानुषासम्भवे दिव्येन निर्णयः कार्य्यइत्यर्थः। प्रजापतिः।

यन्नामगोत्रैर्य्यल्लेख्यं तुल्यं लेख्यं क्वचिद्भवेत्।
अगृहीतधने तत्र कार्य्योदिव्येन्न निर्णयः॥

मूललेख्येन नामगोत्रैस्तुल्यं लेख्यान्तरविपरीतार्थं यदा तदातदप्रमाणीकृत्य दिव्येन निर्णयः कार्य्यइत्यर्थः।कात्यायनः।

यत्र स्यात्सोपधं लेख्यं तद्राज्ञेश्रावितं यदि।
शोधयेत्तत्तु दिव्येन राजा धर्मासनस्थितः॥

सोपधं यत्र छलकृतं यच्च मिथ्योत्तरे पूर्ववादिनः क्रियादानं नोत्तरवादिन इति प्रागुक्तं तत्रभाषावादिनो मानुषप्रमाणसम्भवादुत्तरवादिनश्चतदसम्भवान्मानुषसम्भवे च दिव्यानवमरादिति न्यायो मूलमिति।यदि तत्रापि भाषावादिनो दिव्यभिन्नप्रमाणाभावस्तदा।

न कश्चिदभियोक्तारं दिव्येषु विनियोजयेत्।
अभियुक्ताय दातव्य दिव्यं दिव्यविशारदैरिति॥

कात्यायनीयादुत्तरवादिन एव दिव्यं देयम्। पूर्वार्द्धेनार्थिना दिव्यनिषेधात् प्रत्यर्थिनोऽर्थात्सिद्धौपुनः परार्द्धेनतद्विधानस्य सिद्धेसत्यारम्भो नियमायेति न्यायेन निषेधदार्ढ्यार्थात्वात्। प्राङ्न्यायकारणोत्तरयोः क्रियापदमुभयक्रियापरमपि मिथ्योत्तरे मानुषमात्रपरं कात्यायनीयानुरोधात्। नचैवमनुषङ्गानुपपत्तिः। तदर्थवातयोभयान्वयस्यानुषङ्गहेतुत्वन्न यावदर्थकत्वस्य विरुद्धार्थकत्वे व्यवायवत्सन्निधिवाधे

नानुषङ्गस्य तुल्ययोगितानिबन्धनस्य भङ्गः। किञ्चिदर्थानन्वोऽपि तुल्ययोग्यतायाः सत्वात्तदभङ्गात्। यदा तु प्रत्यर्थी सन्दिहान स्तदा तस्याधिकारनिश्चयाभावान्मानुषप्रमाणाभावेऽपि न दिव्यं किन्त्वर्थिनोऽधिकारनिश्चयादिति ध्येयम्। नच न कश्चिदिति कात्यायनवचनविरोधः। अधिकारानिश्चये तत्प्रवृत्त्यसम्भवात्। धनं धनी साधयतीति लोकप्रवादोऽपीदृग्विषयाभिप्रायक एव। यत्र विवादविषये प्रत्यर्यीसन्दिहानस्तत्रतस्योत्तरानर्हतयेति व्यवहारतत्त्वलिखनन्त्वतत्त्वमेव। अज्ञानरूपमिथ्योत्तरार्हत्वात्। अज्ञानस्य निश्चयाभावरूपस्य सन्देहेऽपि सम्भवात्। प्रत्यर्थिन एव सर्वत्रोत्तरकर्त्तृत्वाच्च। यदातु द्वयोरपि मानुषप्रमाणाभावो दिव्यानध्यवसायश्च तदा निर्णयोपायमाह।पितामहः।

लेख्यं यत्र न विद्येत नभुक्तिर्न च साक्षिणः।

न च दिव्यावतारोऽस्ति प्रमाणं तत्र पार्थिवः॥

निश्चेतुं येन शक्याःस्युर्वादाः सन्दिग्धरूपिणः।

तेषां नृपः प्रमाणं स्यात्सर्वस्यप्रभुरिष्यत इति॥

तादृग्व्यवहारे नृपेणैवोभया पीड़या स्वेच्छया काञ्चन व्यवस्थां कृत्वा देया सोभाभ्यान्नातिक्रमणीयेत्यर्थः। दिव्यावान्तरभेदादिसर्वदिव्यप्रकरणे वक्ष्यामः।

अथ निर्णयापरपर्य्यायः सिद्धिपादः। येषां प्रत्याकलितं व्यवहारपाद इत्यभिमतन्तेषां सिद्धेः फलत्वाद्यवहारपृथग्भावोऽन्येषां प्रत्याकलितस्य चतुष्यात्त्वमेव तु सर्वमते व्यवहारस्य।याज्ञवल्क्यः।तत्सिद्धौसिद्धिमाप्नोति विपरीतमथोऽन्यथेति। तस्य प्रमाणस्य सिद्धौ निःशङ्कप्रामाण्य व्यवस्थितौ सत्यां प्रमा-

णोपन्यासकर्त्ता सिद्धि जयलक्षणामाप्नोति। अन्यथा प्रामाण्यसिद्धौविपरीतमसिद्धं पराजयलक्षणमाप्नोति।
नारदः। सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता।

तद्वानौ हीयते वादी तरस्तामुत्तरो भवेत्॥

तरन्निर्वाहयन्। उत्तरः उत्कृष्टो विजयीतियावत्। निर्णयप्रकारानाह।
व्यासः। प्रमाणैर्हेतुचरितैः शपथेन नृपाज्ञया।

वादी सम्प्रतिपत्त्या वा निर्णयोऽष्टविधः स्मृतः॥

विवृतवानेतत्सएव।

लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम्।
अनुमानं विदुर्हेतु स्तर्कश्चेति मनीषिणः॥
देशस्थितिः पूर्वकृताञ्चरितं समुदाहृतम्।
अर्थानुरूपाशपथाःस्मृताः सत्यघटादयः॥
तेषामभावे राजाज्ञांनिर्णयन्तुविदुर्बुधाः।

इति प्रमाणत्रयं स तर्कोपष्टव्धमनुमानं चरिताद्दिचतुष्टय मित्यष्टविधहेतुकत्वान्निर्णयस्याप्यष्टविधत्वं यद्यपि भुक्तिरप्यनुमानमेव। तथापि प्रत्याकलितकालीनं सभ्यानामनुमानमिहानुमानपदेन विवक्षितम्।

धर्मेण व्यवहारेण चरित्रेण नृपाज्ञया।
चतुःप्रज्ञारोऽभिहितः सन्दिग्धेऽर्थेविनिर्णयः॥

इति वृहस्पत्युक्तानांधर्मादीनां निर्णयहेतुत्वं प्रागेव तत्र सत्ये स्थितो धर्म इत्यादिना तेनैव विवृतं प्रागेव निरूपितं स एव।

एकैको द्विविधः प्रोक्तः क्रियाभेदान्मनीषिभिः।

क्रियाभेदात्मानुषदैविक क्रिया भेदात् धर्मनिर्णयस्यद्वैधमाह स एव।

सम्यग्विचार्य्यकार्य्यन्तु युक्त्या सम्परिकल्पितम्।
परीक्षितन्तु शपथैः स ज्ञेयो धर्मनिर्णयः॥
प्रतिवादी प्रपद्येत यत्र धर्मः सनिर्णयः।
दिव्यै विशोधितः सम्यक् द्वितीयः स उदाहृतः॥

प्रतिवादी प्रपद्येतेत्यस्य काकाक्षिवदुभयत्र सम्बन्धः। यत्र प्रतिवादी युक्त्या सम्यग्विचार्य सम्परिकल्पितन्निर्धारित पुनः शपथैः पुत्रशिरः स्पर्शादिभिः परीक्षितं कार्य्यंप्रपद्येताङ्गीकुर्य्यात् सआद्यो धर्मनिर्णयः दिव्यैर्घटादिभिर्विशोध्यतः प्रतिवादी यत्र कार्य्यं प्रपद्येत स द्वितीयो धर्माख्यो निर्णयः इत्यर्थः। व्यवहार निर्णयस्यापि द्वैविध्यमाह स एव।

प्रमाणैर्निश्चयो यस्तु व्यवहारः स उच्यते।
वाक्कूलानुत्तरत्वेन द्वितीयः परिकीर्त्तितः॥

प्रमाणपदेनात्रसाक्षिणो लिखितञ्च। व्यक्त्यभिप्रायेण च बहुवचनम्। भुक्तोरनुमानत्वाद्दिव्यस्य धर्मनिर्णयान्तर्भावात्। वाक्च्छलानुत्तरत्वेन। वाक् छलेनानुत्तरत्वेन च यो निश्चयो द्वितीयो व्यवहारः स इत्यर्थः। चरित्र निर्णयस्यापि भेदद्वयन्तेनैवाभिहितम्।

अनुमानेन निर्णीत चरित्रमिति कीर्त्तितम्।
देशस्थित्या द्वितीयन्तु शास्त्रविद्भिरुदाहृतम्॥

अनुमानेन भुक्तिमुक्तिस्वरूपेण यो निर्णयस्तदेकं चरि-

त्रम्। देशस्थित्या यो निर्णयस्तद्द्वितीयं चरित्रमित्यर्थः। राजाज्ञानिर्णयस्यापिद्विभेदता-भिहिता तेनैव।

प्रमाणसहिताद्यस्तु राजाज्ञानिर्णयः स्मृतः।
शास्त्रसभ्य विरोधे च तथान्यः परिकीर्त्तितः॥

प्रमाणसहिता राजाज्ञा आद्यो निर्णय इत्यन्वयः। शास्त्राणां सभ्यानाञ्च विरोधेपरस्परं विप्रविपत्तौ या राजाज्ञा स द्वितीयो राजाज्ञारूपो निर्णय इत्यर्थः। ननु शास्त्राणां सभ्यानाञ्च विरोधएवा सम्भवो स्मृत्यपेताधिकारिणां सभ्यानां दण्ड्यत्वात्। न च शास्त्राणां परस्परविरोधे सभ्यानाञ्चेत्यर्थ इति वाच्यम्। सभ्यविरोधोपन्यासानर्थक्यात्। शास्त्रविरोधेन्यायोपलब्धशास्त्रानुसारेण निर्णयः कार्य्य इत्यस्यार्थस्य स्मृत्योर्विरोधे न्यायस्तुबलवान् व्यवहारतः।

धर्मशास्त्रविरोधे तु युक्तियुक्तो विधिःस्मृतः।
केबलं शास्त्रमाश्रित्य न कर्त्तव्यो हि निर्णयः॥
युक्तिहीन विचारे हि धर्महानिः प्रजायते॥

न्यायाधिगमे तर्केऽभ्युपायस्तेनाभूह्य यथास्थानं गमयेदित्यादि योगीश्वरनारदबृहस्पति गौतमादिवचोभिर्निर्धारितत्वात्। तादृशि विषये राजाज्ञानवसरात्।

अनीदृशराजाज्ञाया निषिद्धत्वाच्चेति चेत्।

उच्चते। यत्र शास्त्र विरोधे बलवान्न्यायो न्यतरार्थविनिगमकः ससभ्य प्राड्विवाकस्य सभापते र्न हृदयमारोहतिचिरतरं मीमांसितोऽपि तादृशशास्त्रविरोधेतन्मूलके वा समाधेये सभ्य विरोधे राजकृतव्यवस्थावादिप्रतिवादिभ्यां मन्तव्येत्येतदर्थकमिदं वचनम्। अतएव पितामहः। वचनं प्राग्लिखि-

तन्निश्चेतुं येन शक्याःस्युरित्यादि। धर्मादीनां चतुर्णांपूर्वस्योत्तरोत्तरापेक्षया दुर्बलत्वमाह नारदः।

धर्मश्च व्यवहारश्च चरितं राजशासनम्।
चतुष्पाद्यवहारोऽयमुत्तरः पूर्वबाधक इति॥

व्यवहारस्य धर्मवाधकतामाह। वृहस्पतिः।

शास्त्रं केवलमाश्रित्य क्रियते यत्र निर्णयः।
व्यवहारः स विज्ञेयो धर्मस्तेनावहीयते।

शास्त्रशब्देन शास्त्रोक्तं साक्ष्यादिप्रमाणं तेन यो निर्णयः क्रियते स व्यवहारः। तेन धर्मःशपथादिकृतो निर्णयोऽवहीयते। बाध्यते। मानुषप्रमाणे सति दिव्यानवसरात्। अत एवाह कात्यायनः।

युक्तियुक्तन्तु कार्य्यंस्याद्दिव्यं यत्र विवर्जितम्।
धर्मस्तुव्यवहारेण बाध्यते तत्र नान्यथा॥

चरित्रस्य व्यवहारबाधकमाह। वृहस्पतिः।

देशस्थित्यानुमानेन नैगमानुमतेन वा।
क्रियते निर्णयस्तत्रव्यवहारस्तुबाध्यते॥

नैगमाः पौरवणिजः।नैगमानुमते नानुमानेनेति सम्बन्धः सामानाधिकरण्येन। वा शब्दाद्देशस्थियपेक्षः। अमुमेवार्थं स्फुटयति कात्यायनः।

प्रतिलोमप्रसूतेषु तथा दुर्गनिवाशिषु।
विरुद्धन्नियतं प्राहुस्तं धर्मं न विचालयेत्॥
निर्णयन्तुयदाकुर्य्यात्तेन धर्मेण पार्थिवः।
व्यवहारश्चरित्रेण तदा तेनैव बाध्यते इति॥

स्मृतिविरुद्धमपि नियतत्वान्नविचालयेद्राजा। राजशासनस्य चरित्र बाधकमाहवृहस्पतिः।

विहाय चरिताचारं यत्रकुर्य्यात् पुनर्न्नृपः।
निर्णयं सा तु राजाज्ञा चरित्रंबाध्यते तयेति॥

चरिताचारं पूर्व पूर्वाचरितमाचारम्। यद्यपि तं धर्मंन विचालयेदित्युक्तमत्रतु विहाय चरिताचार मित्युच्यते। तेनविरोधः प्रतिभाति। तथापि यदि तद्विचालने पुरराष्ट्रादिक्षोभो न भवति। तदा स्मृत्यादिविरुद्धत्वात्तं दूरीकृत्यस्मृत्याद्यविराधो राजाज्ञया निर्णयः कार्य्यइति तात्पर्य्यम्। अतएव पुरराष्ट्रस्य विरुद्धस्य विवादस्यानादेयत्वमुक्तम्। पुरराष्ट्रक्षोभापादकतया तदनापादकतया तु स्मृत्याद्यनुरोध एव कार्य्योराज्ञेति। अतएवाह कात्यायनः।

विरुद्धं न्यायतो यत्तु चरित्रंकल्प्यते बुधैः।
एवन्तत्रनिरस्येत चरित्रन्तु नृपाज्ञयेति॥

नृपैर्यन्न्यायविरुद्धं चरित्रं न ग्राह्यमिति कल्प्यते। तत्र नृपाज्ञया तच्चरित्रं निरस्यते बाध्यत इत्यर्थः। यथोक्तप्रकारातिरिक्त प्रकारेणैषांबाध्यबाधकता कल्पने दोषमाह। कात्यायनः। अनेन विधिना युक्तं बाधकं यद्यदुत्तरम्।

अन्यथाबाधनं यत्र तत्र धर्मो विहन्यत इति॥

इति निर्णयमादः। पुनर्न्यायः यद्यपि निर्णयानन्तरं जयपत्रेदत्ते पराजितस्य दण्डार्हत्वं तथापि यदि स पराजितमपि स्वयमपराजितमेव मनुते पूर्वव्यवहारे कुदृष्टबुद्ध्यातर्हि द्विगुणदण्डमभ्युपगमय्य राज्ञा सभ्यान्तरोपादानेन पुनर्व्यवहारं तदीयो द्रष्टव्य इत्याह नारदः।

तीरितञ्चानुशिष्टञ्च यो मन्येत विधर्मतः।
द्विगुणन्दण्डमादाय पुनस्तत्कार्यमुद्धरेत्॥

तीरितं समापितं निर्णयपर्यन्तं प्रापितमिति यावत्। पारतीरकर्मसमाप्ता वित्यस्य निष्ठान्तं रूपम्। अनुशिष्टमर्थिप्रत्यर्थिनौ प्रति कथितं जयपराजपत्रे वा रोपितम्। विधर्मतो धर्मविपरीतं कुदृष्टमिति यावत्। अर्थिप्रत्यर्थिनोरन्यतरोमन्येत स पराजयनिमित्तं दण्डं द्विगुणमादायाङ्गीकृत्य तत्कार्यं पुनरुद्धरेत्। चतुष्पाद्यवहारप्रवर्त्तनेन निर्णाययेत्। याज्ञवल्क्यः। दुर्दृष्ट्वास्तु पुनर्दृष्ट्वा व्यवहारान्नृपेण तु।

सभ्याःसजयिनोदण्डाद्विवादाद्द्विगुणन्दमम्॥
यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः।
सभायां तं पुनर्जित्वा दापयेद्द्विगुणन्दमम्॥

अस्यापवादमाह मनुः। तीरितञ्चानुशिष्टञ्च यत्र क्वचन यद्भवेत्।

कृतं तद्धर्मतो विद्यान्न तद्भूयो निवर्त्तयेत्॥
धर्मतः कृतञ्चेत्कृतमेव विद्यादित्यर्थः।

नारदः। साक्षिसभ्यावसन्नानां दूषणे दर्शनं पुनः॥

स्वचर्य्यावसितानान्तुप्रोक्तः पौनर्भवो विधिः।

साक्षिसभ्यावसन्नानां साक्षिद्वारेण सभ्यद्वारेण वाऽवसन्नानां पराजितानां दूषणे साक्षिषु सभ्येषु वा दोषोद्भावनेऽन्यतरेण कृते पुनदर्शन व्यवहारदर्शनम्। राज्ञा कार्य्यमितिशेषः। स्वचर्य्यावसितानां स्वचर्चया स्वव्यापारेन पूर्वापरविरुद्धभाषणादिना ऽवसितानां पराजितानान्तु पौनर्भवः पुनरुद्भवः पुनर्भवः पुनर्व्यवहारप्रवृत्तिरिति यावत्। तत्सम्बन्धि विधिनोक्तः कर्त्तव्यत्वेनाभिहितो मुनिभिरित्यर्थः। बृहस्पतिः।

मलायनानुत्तरत्वा दन्यपक्षाश्रयेण च।
हीनस्य गृह्यते वादो न स्ववाक्यजितस्य तु॥

वादो गृह्यते पुनर्न्यायो भवतीत्यर्थः। स्ववाक्येन पर्वापरविरुद्धेनोत्तरापरिस्फुर्त्या-स्कन्दितेन वा योजितस्तस्य तु न भवतीत्यर्थः। वृहस्पतिकात्यायनौ।

कुलादिभिर्निश्चितेऽपि सन्तोषं मगतस्तु यः।
विचार्य तत्कृतं राजा कुकृतम्पुनरुद्धरेत्॥

वृहस्पतिः। निश्चित्य बहुभिः सार्द्धंब्राह्मणैः शास्त्रपारगैः।

दण्डयेज्जयिना सार्द्धंपूर्वसभ्यांस्तु दोषिणाः॥

जयिना पूर्वव्यवहारजयिनानारदः।

दुर्द्दष्टेव्यवहारे तु सभ्यास्तन्दण्डमाप्नुयुः।
नहि जातु विना दण्डं कश्चिन्मार्गेऽवतिष्ठते॥

मनुः। अमात्यः प्राड्विवाकोवा ये कुर्य्यःकार्यमन्यथा।

तं सर्वन्नृपतिः कुर्य्यात् तान् सहस्रन्तुदण्डयेत्॥

सहस्रपणान् दण्डव्यवहारे ऽनुक्तसङ्ख्यया सङ्ख्यायाः पणगतत्वेन परिभाषितत्वात्। एतच्च दण्डनिरूपण प्रस्तावे विवेचयिष्यामः। यत्र द्विगुणदण्डः सहस्राधिकस्तत्रामात्यप्राड्विवाकयोरपि स एव। अन्यत्र सहस्रमेव\। अमात्यप्राड्विवाकयोर्मुख्यत्वेन दण्डाधिक्यस्योचितत्वात्। इति पुनर्न्यायः॥ निर्णयानन्तरं कृत्यन्तजयिने जयपत्रदानम्। पराजिताद्दण्डादानम्।सपणविवादे पणादानम्। धनिने धनदापनञ्च।तथा च व्यासः। व्यवहारान् स्वयं दृष्ट्वा श्रुत्वा वाप्राड्विवाकतः।

जयपत्रं ततो दद्यात्परिज्ञानाय पार्थिवः॥

पुनर्न्न्यायादिप्रसक्तो प्राङ्न्यायपरिज्ञानाय।वृहस्पतिः।

प्रतिज्ञाभावनाद्वादी प्राड्विवाकादिपूजनात्।
जयपत्रस्य चादानाज्जयी लोकै र्निगद्यते॥

योगीश्वरः। सपणश्चेद्विवादःस्वात्तत्रहीनन्तुदापयेत्।

दण्डञ्चसपणञ्चैव धनिने धनमेव च॥

बृहस्पतिः। अपराधानुरूपश्च दण्डोऽत्र परिकल्पित इति।

तत्र जयपत्रप्रकारंलेख्यप्रस्तावे। दण्डपणादाने दण्डनि रूपणे धनिने धनदानमृणादानप्रकरणेवक्ष्यामः। अथ सभ्यः प्राड्विवाकसहितस्य सभापतेरन्यथा व्यवहारदर्शने सर्वथादर्शनाभावे च दोषकथनम्। तत्रान्यथा दर्शने दोषमाह। मनुः। यस्त्वधर्मेण कार्य्याणि मोहात्कुर्य्यान्नराधिपः।

अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः॥

कात्यायनः। अस्वर्ग्यालोकनाशाया परानीकभयावहा।

आयुर्वीजहरी राज्ञामस्ति वाक्येष्वियं कृतिः॥
तस्माच्छास्त्रानुसारेण राजा कार्य्याणि साधयेत्।
वाक्याभावे तु सर्वेषां देशदृष्टेन संनयेत्॥

अदर्शने दोषमाह। महाभारते कृष्णद्वैपायनः।

अर्थिनामुपसन्नानां यस्तु नोपैति दर्शनम्।
सुखेषु सक्तो नृपतिः स तप्येत नृगो यथेति॥

नृगो नाम राजा। रामायणे बाल्मीकिः।

पौरकार्य्यंहि यो राजा न करोति समास्थितः।
व्यक्तं स नरके घोरे पच्यते नात्र संशय इति॥

समास्थितः सुस्थितः। अनेन दुःस्थितस्यादर्शनेन दोष इति सूचितम्। अतएवानुकल्पतया दुःस्थितस्य स्वप्रतिनिधिप्राड्विवाकनियोगः प्रायुक्तः। प्राड्विवाकस्य सभ्यानाञ्चान्यथा

दर्शनादर्शनयोर्दोष इति प्रागेव प्रपञ्चितं व्यवहारदर्शनविधिविचारप्रस्तावे। सम्यग्व्यवहारदर्शने फलमप्याह मनुः।

कामक्रोधौ तु संयम्य योऽर्थान् धर्मेण पश्यति।

प्रजास्तमनुवर्त्तन्ते समुद्रमिव सिन्धवः॥

इदं दृष्टफलम्। अदृष्टमपिफलमाह नारदः।

एवं पश्येत् सदा राजा व्यवहारान् समाहितः।
वितत्येह यशो लोके वृष्णः प्राप्तस्त्रिपिष्टपम्॥

वृहस्पतिः। एवं शास्त्रोदितं राजा कुर्वन्निर्णयपालनम्।

वितत्येह यशो लोके महेन्द्रसचिवो भवेत्॥

फलान्तराण्यपिव्यवहारदर्शनविधिप्रस्तावेऽभिहितानि।

अथकृतनिवृत्तिः। तत्र मनुविष्णू।

यस्मिन् यस्मिन् विवादे तु कौटसाक्ष्यं कृतम्भवेत्।
तत्तत्कार्य्यंनिवर्त्त्येत कृतं चाप्यकृतम्भवेत्॥

नारदः। स्त्रीषु रात्रौ बहिर्ग्रामादन्तर्वेश्मन्यरातिषु।

व्यवहारः कृतोऽप्येषु पुनः कर्त्तव्यतामियात्॥

मनु नारदौ। सत्या न भाषा भवति यद्यपि स्यात्प्रतिष्ठिता।

बहिश्चेद्भाष्यते धर्मान्नियताद्यावहारिकात्॥

नियताद्यावहारिकात्। नियतव्यावहारिकधर्मवाह्यादिषया या भाषा सा यद्यपि प्रतिष्ठिता साक्षिलेख्यादिप्रमाणवती भवति तथापि सत्याग्राह्या न भवति। यथा पुत्राद्यन्वयोपेतं कश्चिदभियुक्तेसर्वस्व मह्यमनेन प्रतिश्रुतमिदानींन ददातीति मनुः। योगाधमनविक्रीतं योगदानप्रतिग्रहम्।

यत्र वाप्युपधिं पश्येत् तत्सर्वं विनिवर्त्तयेत्॥
बलाद्दत्तं बलाद्भुक्तं बलाद्यच्चापि लेखितम्।

सर्वान् बलकृतानर्थान कृतान्मनुरव्रवीत्॥

योगश्छद्म।आधमनमाधीकरणम्। उपधिः छलम्। पूर्वोत्तरार्द्धाभ्यां छलकृतसर्वव्यवहाराणां निवर्त्तन सार्वत्रिकमित्युक्तं भवति। एवमुत्तरश्लोकेऽपि बलकृतसर्वव्यवहाराणामपि। योगीश्वरः। मत्तोन्मत्तार्त्ताध्यधीनैर्बालेन स्थविरेण वा।

असम्बद्धकृतश्चैवव्यवहारो न सिध्यति॥

अध्यधीनो दामः। अधिकमधीन इति व्युत्पत्तेः। असम्बद्धेन वादिप्रतिवाद्यसम्बद्धेन कृतस्तत्प्रतिनिधिभूय सम्पादितः। समासान्तर्गतमपि कृतपदं प्राक्तनतृतीयान्तैरपि बुद्ध्यानिष्कृष्य सम्बन्धनीयम्।

नारदः। यद्वालः कुरुते कार्य्य मस्वतन्त्रस्तथैव च।
अकृतन्तदपि प्राहुःशास्त्रेशास्त्रविदो जनाः॥
स्वतन्त्रोऽपि हि यत्कार्य्यंकुर्य्यादप्रकृतिङ्गतः।
तदप्यकृतमेवाहुरस्वतन्त्रः स हेतुतः॥
कामक्रोधाभि भूतार्त्त भयव्यसनपीड़िताः।
रागद्वेषपरीताश्च ज्ञेयास्त्वप्रकृतिङ्गताः॥
तथा दासकृतं कार्य्यमकृतं परिचक्षते।
अन्यत्र स्वामिसन्देशान्नदांसःप्रभुरात्मनः॥
पुत्रेण च कृतं कार्य्यं यत्स्यादछन्दतः पितुः।
तदप्यकृतमेवाहुर्दासः पुत्रश्चतौ समौ॥

कात्यायनः।नक्षेत्र गृहदासानां दानाधमनविक्रिया।

अस्वतन्त्रकृताः सिद्धि प्राप्नुयुर्नानुवर्णिताः॥

नानुवर्णिताः स्वतन्त्रेण पित्रादिना नानुमताः। अनुमताःसिद्ध्येयुरेवेत्यर्थादुक्तं भवति॥ अतएवाह। स एव।

प्रमाणं सर्व एवैते पण्यानां क्रयविक्रये।
यदि सव्यवहारान्तेकुर्वन्तोऽह्यनुमोदिताः॥
क्षेत्रादीनान्तथैवस्यु र्भ्राता भ्रातृसुतः सुतः।
विसृष्टार्थस्तु यो यस्मिं स्तस्मिन्नर्थे प्रभुस्तुसः।
तद्भर्त्ततत्कृतं कार्य्यंनान्यथा कर्त्तुमर्हति॥

वृहस्पतिरपि। यः स्वामिना नियुक्तस्तुधनाय व्ययपालने।

कुसी कृषी च वाणिज्ये निसृष्टार्थस्तु सः स्मृतः॥
प्रमाणं तत्कृतं सर्वं लाभालाभव्ययोदयम्।
स्वदेशे वा विदेशे वा स्वामी तन्नविसंवदेत्॥

अनुमत्यभावेऽपि कुटुम्बभरणार्थमस्वतन्त्रकृतमष्टगुणादिव्यवहारं स्वतन्त्रो न निवर्त्तयेदित्याह। मनुः।

कुटुम्बार्थेऽध्यधीनोऽपि व्यवहार यमाचरेत्।
स्वदेशे वा विदेशे वा तं स्वामी न विचालयेत्॥

अध्यधीनः पुत्रभातृपुत्रदासादिः। अथ स्वतन्त्राऽस्वतन्त्रलक्षणम्।
तत्र नारदः। स्वातन्त्र्यं तु स्मृतं ज्येष्ठेज्यैष्ठ्यंगुणवयः कृतम्।

तथा। अस्वतन्त्रः प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः।

अस्वतन्त्रः स्मृतः शिष्य आचार्ये तु स्वतन्त्रता।
अस्वतन्त्राः स्त्रियः पुत्रादामाद्याश्च परिग्रहः।
गर्भस्थैःसदृशो ज्ञेय आष्टमाद्वत्सराच्छिशुः॥
बाल आषोड़शाद्वर्षात् पौगण्डश्चेति शब्द्यते।
परतो व्यवहारज्ञः स्वतन्त्रः पितरावृते॥
जीवतोरस्वतन्त्रः स्याज्जरयापि समन्वितः।
तयोरपि पिता श्रेयान् बीजप्राधान्य दर्शनात्।

अभावे वीजिनो माता तद्भावे तु पूर्वजः॥

कात्यायनः। पिता स्वतन्त्रःपितृमान् भ्राता भ्रातृव्य एव च।

कनिष्ठो वाऽविभक्तस्थोदासः कर्मकरस्तथा॥

पितृमान् पिताथस्वतन्त्र इत्यर्थः। अविभक्तस्थःअविभक्तधनः।

हारीतः। दानार्थे वा धनार्थे वा धर्मार्थे वा विशेषतः।

आदाने वा विसर्गेवा न स्त्री स्वातन्त्र्यमर्हति॥

नारदः। स्वतन्त्राः सर्व एवै ते परतन्त्रेषु नित्यशः।

अनुशिष्टौ विसर्गे च विक्रये चेश्वरा मताः॥

एते पूर्वोक्ता राजादयः। स्वतन्त्रस्य पित्रादेरपि विषयविशेषेन स्वातन्त्र्यमित्याह। कात्यायनः।

सुतस्य सुतदाराणां वशित्वमनुशासने।
विक्रये चैव दाने च वशित्वन्न सुते पितुः॥

एतदप्यनापदीति वक्ष्यते। इति सामान्य परिभाषा। अथ विशेषपरिभाषा। तत्र याज्ञवल्काः।

अभियोगमनिस्तीर्य्यनैनं प्रत्यभियोजयेत्।
अभियुक्तञ्च नान्येन नोक्तं विप्रकृतिन्नयेत्॥

अभियुज्यत इत्यभियोगोऽपराधः ऋणं मदीयं गृहीत्वा न प्रत्यर्पयत्ययमित्यादिरर्थिनोपन्यस्तस्तमनिस्तीर्य्यापरिहत्यैन मभियोक्तारन्नप्रत्यभियोजयेत्। युगपद्यवहारस्य प्रतिज्ञाभेदेना सम्भवात्। प्रत्यभियोगादनर्थक्यात्। इत्ययं प्रत्यभियोगानर्थक्यादित्ययं प्रत्यर्थिनं प्रत्युपदेशोऽन्यवादित्वेन हीनता परिहार्य्यार्थः। यद्यपि प्रत्यवस्कन्दनं प्रत्यभियोगरूपमेव। तथापि स्वापराधपरिहारार्थत्वादनेन प्रतिषिध्यते। अन्येनाभियुक्तञ्चानिस्तीर्णतदीयाभियोगमर्थी नाभियुञ्जीत। अन्याभियोगापेक्ष-

यात्र प्रत्यभियोगशब्दोऽनुवादत्वेन यथाकथञ्चिन्नेयः। अयमपि युगपद्यवहारासम्भवनिबन्धनोऽर्थिनं प्रत्युपदेशः।किञ्च उक्तमावेदनसमये यदुक्तं तद्विप्रकृतिं विरुद्धस्वभावतां न नयेत्। न प्रापयेत्। यद्वस्तुयत्प्रकारेणावेदनसमये निवेदितं तत् तथैव तद्भाषायां लेखनीयं नान्यथेत्ययमप्यर्थिन एवान्यवादित्वनिबन्धनहीनता परिहारार्थ एवोपदेशः। यद्यपि यथावेदितमर्थिनेत्यत्रैवेदमुक्तमिति पुनरुक्तमाभाति तथापि तद्वस्त्वन्तरावेदनप्रतिषेधकमिदन्तुपदान्तरसंक्रमनिवारकमित्यपुनरुक्तता। तद्यथा रूपकशतं मदीयं वृध्यानुगृहीत्वा न प्रयच्छतीत्यावेद्य भाषायां वस्त्रशतं वृद्ध्या गृहीत्वा न प्रयच्छतीति ऋणादानपद एववस्त्वन्तरगमनम्। रूपकशतं वृद्ध्या गृहीत्वा मदीयेन प्रयच्छतीत्यावेद्य भाषायां रूपकशतं मदीयम्बलादपहृतवानिति तस्मिन्नेव वस्तु साहसाख्यं विवादपदं लेखयतीति। तत्र यथा शब्दोपादानादत्रच विप्रकृतिपदोपादानात्। वस्त्वन्तरगमने ह्येकत्रैव विवादपदे प्रकारभेदमात्रंप्रकारवाचिथाल्प्रत्ययेन प्रत्ययस्यते। पदान्तरसंक्रमे तु विरुद्धस्वभावता व्यक्तेति भावः। अभियोगमनिस्तीर्य्येत्यस्यापवादमाह स एव। कुर्य्यात्प्रत्यभियोगन्तुकलहं साहसेषु च।

कलहे वाग्दण्डपारुष्यरूपे।साहसेषु च।विषशस्त्रादिकृतप्राणिव्यापादनादिषुयदि सम्भवति प्रत्यभियोगस्तदा स्वाभियोगमनिस्तीर्य्याप्यभियोक्तारं प्रत्यभियोजयेत्। ननु प्रतिज्ञान्तरत्वापत्तौ युगपद्यवहारासम्भवस्य प्रत्यभियोगप्रतिषेधवीजस्यात्रापि तौल्यात्कथं तत्प्रतिप्रसवः। प्राङ्न्यायप्रत्यवस्कन्दनयोस्तु पूर्वपक्षोपमर्दकत्वेनोत्तरलक्षणलक्षितयोः प्रत्यभियोगत्वेऽपि न

प्रतिज्ञान्तरापत्या युगपद्यवहारासम्भवदोष इति वैषम्यम्। अन्यथा तयोरुत्तरत्वमेव न स्यात् सर्वत्रैतत्प्रतिषेधग्रस्तत्वादिति चेत् न यद्यप्यत्रापि युगपद्यवहारासम्भवस्तुल्यस्तथापि न्यूनदण्डप्राप्तयेऽधिकदण्डनिवृत्तये च कलह साहसयोःप्रत्यभियोगः॥ सार्थकोऽन्यत्र निरर्थक इति प्रतिप्रसवोपदेशः॥ तथाहि। अनेनाहन्ताड़ितःशप्तो वा पूर्वमयं मत्प्राणव्ययाय व्यापारं कृतवानित्यभियुक्तो यद्याह।सत्यमेतत्तथापि मत्तः पूर्वतर मयन्ताड़नादिममकृतवानिति प्रत्यभियोगे तस्मिंश्च साधिते दण्डाल्पत्व प्रत्यभियोक्तुःफलम्। तथा च नारदः। पूर्वमाक्षारयेद्यस्तु नियतं स्यात्सदोषभाक्।

पञ्चाद्यः सोऽप्यसत्कारी पूर्वे तु विनयो गुरुरिति॥

विनयोदण्डः। यदा तु युगपद्द्वयोस्ताड़नादिषु प्रवृत्तिस्तत्राधिक दण्डनिवृत्तिः प्रत्यभियोग फलम्। तदप्याह स एव।

पारुष्ये साहसे चैव युगपत् सम्प्रवृत्तयोः।

विशेषञ्चेन्नलभ्येत विनयः स्यात्समस्तयोरिति॥

तेनाय मत्र तात्पर्यार्थः॥ पूर्वपक्षोपमर्दनरूपप्रत्यभियोगस्य प्रतिज्ञोत्तरत्वे न युगपद्यवहाराऽ सम्भवरूप प्रत्यभियोगस्य प्रतिज्ञोत्तरत्वेन युगपद्यवहारासम्भव रूपदोषाभावादेवा ऽप्रतिषिद्धत्वम्। कलहादिष युगपद्यवहारासम्भवे सत्यप्यर्थवान् प्रत्यभियोगः क्रियमाणो न दुष्यति। पूर्वपक्षानुपमर्दनरूपो ऽनर्थकञ्च प्रत्यभियोगो न कार्य्यऋणादानादिषु विवादेष्विति। यथायं मदीयमृणमियदि यत्या वृद्ध्यागृहीत्वा न प्रयच्छतीत्यभियोगे मह्यमप्ययं धारयतीति प्रत्यभियोगो न कार्य्योनिष्प्रयोजकत्वात्प्रतिज्ञान्तरत्वा

च्चेति। इति प्रत्यभियोग निर्णयः॥ अथ निह्ववादिविधिर्निह्नवादिविवेचनञ्च। तत्र याज्ञवल्क्यः।

निह्णुते लिखितं नैकमेकदेशविभावितः।

दाप्यं सर्वं नृपेणार्थो न ग्राह्यस्त्वनिवेदितः।

नैकमनेकं निषेधार्थ नकारस्यासमासत्वान्नलोपो नञ् इति नकारलोपाभावे नैकधेतिबद्रूपम्।अर्थिनाभियुक्तं सुवर्णरजतवस्त्रादि वस्तुभाषालिखितमुत्तरलेखन वेलायाम्प्रत्यर्थी यः सर्वमेव निह्णुते मिथ्यैतदित्यपलपति। सोऽर्थिनैकदेशे प्रतिज्ञाविषय वस्तुनि भाविते लिखितं साक्ष्यादि प्रमाणबलादङ्गीकारितः सर्वमप्यर्थिप्रतिज्ञातं नृपेण दाप्योऽर्थिने दापनीयः। यस्त्वर्थोर्थिनैव व्यामोह प्रमादादिना भाषा पत्रशोधनावधि न निवेदितः पश्चान्निवेद्यते प्राक्प्रमादादिना विस्मृतं मयेदमिति सनृपेण न ग्राह्यो नादर्त्तव्यः प्रमाणादिप्रत्याकलनेनेत्यर्थः। ननु कूलंनिरस्य भूते न व्यवहारान्नयेन्नृप इत्यनेन विरुद्धमिदम्।तथा हि। मूलन्तवार्थयुक्तं यत्प्रमादाभिहितं कूलमित्युक्तेभूतेन वस्तुतत्त्वानुसरणेन कूलम्प्रमादामर्षाद्यभिहितं निरस्य व्यवहारान्नृपोनयेन्निर्णयपर्य्यन्तम्प्रापयेत्। तस्माद्यथार्थिप्रत्यर्थिनौ सत्यमेव निवेदयतः। साक्ष्यादिनैरपेक्ष्येण स्वयमेव साक्ष्यादयोऽपि शपथादिभिर्भाषितास्तत्व मेव प्रतिपादयन्तितथा स सभ्येन सभापतिना यतितव्यमिति भावः। एवञ्चैकदेशस्य प्रमाणसिद्धावप्येकदेशान्तरस्य सिद्धिः कुतस्त्र्याअन्यविषयप्रमाणेनान्यसिद्धेरसम्भवात्। कूलप्रसक्तेर्दुर्वारत्वाम्। एवं प्रमादादिविस्मृतस्य प्रामाणिकस्यार्थस्यानादरे कूलं व्यक्तमेव। कात्यायनवचनविरोधश्चैवं सति। यदाह।

अनेकार्थाभियोगेऽपि यावत्संसाधयेद्धनी।
साक्षिभिस्तावदेवासौ लभते साधितं धनमिति॥

साक्षिग्रहणंलेख्याद्युपलक्षणम्। अत्रापरार्कः। अपह्नववादिनः सावष्टम्भयन् मिथ्योत्तरं तद्विषयं निह्णुत इत्यादि। यथाद्यर्थिनाभियुक्तः प्रत्यर्थेवमुत्तरयति भवदभियुक्तानामर्थानां मध्ये यद्येकमपि भवान् साधयति तदा सर्वमहं दास्यामीति कूलोदाहरणत्वादस्य कात्यायनवचनन्त्वसावष्टम्भमिथ्योत्तरविषयन्तेनासाधितांशेऽर्थिना प्रमाणान्तरमुपादेयं तदभावेऽपि साधितमात्रलाभेन सन्तोष्टव्यम्।

अनेकार्थाभियोगे तु सर्वार्थव्यपलायिना।
विभावितैकदेशेन देयं यदभियुज्यत इति॥

नारदवचोऽपि सावष्टम्भमिथ्योत्तरविषम्यमेवेत्याह। तदनुपपन्नम्। सपणश्चेद्विवादः स्यादित्यनेनास्य गतार्थतापत्तेः। ईदृशावष्टम्भस्य पणादनतिरेकात्। नच पणस्य राज्ञा ग्रहणमस्य त्वर्थिनेति भेद इति वाच्यम्। एतादृशभेदस्या प्रयोजकत्वात्। स्वपणन्दापयेदित्ये तावन्मात्रस्यैव तदर्थत्वात्। प्रतिज्ञानुरोधित्वात् पणत्वस्य निह्नवमात्रस्यात्रप्रतीतेःसावष्टम्भनिह्नवविषयत्वाकल्पनाया अप्रमाणकत्वाच्च। एवं नारदवाक्येऽपि न च तत्र व्यपलायिनेति विशब्दोपादानादवष्टम्भ सहित निह्नवप्रतीतिरिति वाच्यम्। अन्यथा सिद्धतात्पर्य्यग्राहकाभावे सावष्टम्भत्वरूपविशेष परत्वस्य नियतत्वात्। वाचस्पति चण्डेश्वरौत्वाहतुः। यत्रैकदेश सिद्धिरेकदेशान्तरसिद्ध्यविनाभुता तद्विषयं योगीश्वरनारदयोर्वचनं तदतिरिक्तविषयन्तु कात्यायनीयमिति। तदप्यसत्। निह्नवोपा-

दानवैयर्थ्यात्। अनिह्नवेऽपि तस्य युक्तियुक्तत्वात्। प्रत्यवस्कन्दनप्राङ्न्यायोत्तरयो रप्येकदेशे कारणादिसाधने तद्विनाभूतैकदेशान्तरे कारणादि सिद्धेर्दुर्वारत्वात्। यत्तु वाचस्पतिना ऽपसक्तानृपेत्यादिना सपणश्चेदित्यादि तत्र योगीश्वर वचन एव संवादितन्तेन स्पष्टमेव गतार्थत्वं प्रदर्शितमिति महान् प्रमादः विज्ञानयोगिनस्त्वाहुः। यथा भूतानुसरणेन कूलनिरासेन च व्यवहारनिर्णयो भवति तथा विधेयमिति मुख्यः कल्पः। तत्र हेतुः। भूतमप्यनुपन्यस्तं हीयते व्यवहारत इति तस्यायमर्थः। यतोभूतं वस्तु तत्वमप्यनुपन्यस्तमकथितं वादि प्रतिवाद्यन्यतरेण साक्ष्यादिना वा तद्यवहारत्रोव्यवहाररीत्या हीयते। यद्यपि पश्चात् प्रमाणेनसाध्यते प्रमाणं विनैव चैकदेशविभावनेन तथापि वादिप्रतिवादिसम्बन्धत्वेन हीनम्भवति। पश्चाद्वादिना प्रमाणान्तरेणसाधितमपि प्राक्प्रतिज्ञाकालेन निवेदितञ्चेन्नलभ्यते। तथा सर्वापह्नवकारिणा कतिपयानि वस्तूनि साक्ष्यादिभिरङ्गीकारिते नाऽन्यान्यपिमाक्ष्यत् प्रमाणेना साधितान्यप्यभियोक्तेदातव्यतया प्रतिवादिनः सकाशाद्दीयन्त इति।तस्माद्वादिप्रतिवादिनोः साक्ष्यादिषुवादिगूढाशयताकूटकारित्वादिना यदा भूतानुसरणमशक्यं तदा चतुष्पाद्यवहारमार्गेण प्रवर्त्तिते व्यवहारे भूतानुसरणाभावेऽपि समभ्यसभापते र्दोषलेशोनास्ति। रागलोभादिभिरन्यथा शास्त्रकारित्वा भावादित्यर्थः।अत्रोदाहरणम्। निह्नुते लिखितं नैकमिति। एकदेशे प्रत्यर्थिनोमिथ्यावादित्वे निश्चितेऽन्यविषयेऽपि मिथ्यावादित्वसम्भवात्। अर्थिनश्चैकदेशे सत्यवादित्वनिश्चयेऽन्यविषयेऽपि सत्यवादित्यस-

म्भवादितीदृशसम्भावनानामकतर्कानुगृहीता दस्मादेव वचनात्सर्वमर्थिने प्रत्यर्थी राज्ञा दापनीयः। प्रतिज्ञाकाले वा निवेदितमिदानीमुपन्यसन्नेकदेशे विभावनानिमित्तान्यलाभे नेदानीमुपन्यस्यतीति सम्भावनारूप तर्कानुगृहीतमेतदेव बचनमनिवेदितस्यादापने प्रमाणमित्येतत्तर्कवाक्यानुसारेण ससभ्येन सभापतिनानिर्णये क्रियमाणे यदि सहस्त्रशतं मेप्यंशे वस्तुनोऽन्यथात्वम्भवति। तर्हि तस्य न दोष इति तात्पर्यं एतदभिप्रायकमेव गौतमवचनम्। न्यायाधिगमस्तर्कोभ्युपायस्तेनाभ्यूह्य यथा स्थानं गमयेदिति। अग्रे च तेनैवोपसंहृतं तस्माद्राजाचार्य्यावनिन्द्याविति, नचैकदेशविभावित प्रागनिवेदित निवेदकयोर्वादिप्रतिवादिनो र्हीनतामात्र प्रतिपादकमिदं याज्ञवल्क्यादिवचनमिति वाच्यम्। सर्वं दाप्यो न ग्राह्यः देयं यदभियुज्यत इति वचनात्। हीनतामात्र प्रतिपादनपरत्वे तदभिधानानर्थक्यात्। कात्यायन वचनन्तु। यत्रपित्र्यादिगृहीत बह्वर्थविषयाभियोगः पुत्रादेस्तद्रिक्थहरस्य क्रियते। सचाभियुक्तो ऽहन्तावदत्रकिमपि न जानामि यावत् प्रमाणेनायं साधयति तावद्दास्यामीत्युत्तरयति। तत्रासौ निह्नववादी न भवति। तेनैकदेशविभावितोऽपि न क्वचिदप्यसत्यवादीति पूर्वोक्ततर्कानवतारात् तदनुगृहीतमेतद्वचनमत्रन प्रवर्त्तत इति सामान्यविषयत्वात् निह्नवोत्तरमपहायाज्ञानोत्तर ईदृशे प्रवर्त्तत इति न तेन सहास्य विरोधः भिन्नविषयत्वात्।

ननु। ऋणादिषु विवादेषु स्थिरप्रांयेषु निश्चितम्।

ऊने वाभ्यधिके वार्थेप्रोक्तेसाध्यन्नसिध्यति॥

अर्थिना यावानर्थोभाषायां लिखितस्ततोन्यूने ऽधिके वार्थेसाक्षिभिः प्रोक्तेसर्वमेव साध्यं न सिध्यतीति प्रतिज्ञाप्रमाणयो र्विसंवादादित्यर्थकेनानेन कात्यायनवचनेन प्रत्युत साक्ष्यादिविभावितैकदेशस्याप्यसिद्धिरायाति। तत्सिद्ध्यातदविभावितैकदेशसिद्धिर्दूरापास्ता। उच्यते। यत्रवादी सकलप्रतिज्ञातार्थ साधनत्वेन साक्षिलेख्यादिकमुपन्यस्यति। ततश्च न्यूनोऽधिकोवार्थोविभाव्यते। तत्र कूटसम्भावनया कृत्स्नसाध्यासिद्धिः। तत्रापि निश्चितं न सिध्यतीति वचनात् संशयतादवस्थेप्रमाणान्तरेण सम्भावनानिर्णय कार्य्यः। छलं निरस्येति नियमात्। इतिकात्यायनीयस्यास्य वचनस्यार्थः। यत्र तु वाद्येवम्वदति। एतावत्यंशे ममैते साक्षिणोलेख्यं वास्ति। अन्यमंशमलौकिकप्रमाणेन विभावयिष्यामीति तत्रोक्ततर्कानुगृहीतान्नित्याद्भुत इत्यादियोगीश्वर नारदवचनादेकदेशविभावनेपि कृत्स्नसाध्यसिद्धिर्न्नालौकिकप्रमाणं प्रतीक्षेत। योगीश्वरवचनस्य अज्ञानोत्तरे तु यावानंशो लौकिकेन प्रमाणेन प्रमितस्तावानेव ततो निर्धार्य्योऽन्यस्तुदिव्यान्ततदसम्भवेन सिध्यत्येव। अनेकार्थाभियोगेपीति वचनात्। अतएवाभिप्रायात्। प्रागुपन्यस्तं वचनम्।

यद्येकदेशव्याप्तापि क्रिया विद्येत मानुषी।

साग्राह्या तु न पूर्णापि दैविकी वदतां नृणामिति॥

कात्यायनीयन्तेन न क्वापि विरोधलेश इति।

वयन्तुच्छलं निरस्येत्यस्य विधेर्हेतुरय भूत मप्युनुपन्यस्तमित्युपोद्बलकः। यतोभूतन्तत्त्वमप्यनुपन्यस्त व्यवहारतो हीयते वादिप्रतिवादिभ्यामनुपन्यस्त प्रमाणतोऽमाधित हीयते हानिमाप्नोति व्यवहारतो व्यवहाररीत्येति तस्यार्थः। तदु-

पपादनं निह्नुते लिखितं नैकमित्यादि तस्यायमर्थः। वादिनः कतिपयांशे सत्यवादिनोऽन्यांशेऽपि सत्यवादित्वसम्भवात् प्रतिवादिनश्च सर्वापह्नववादिनः कतिपयांशे मिथ्यावादित्वनिश्चयादन्यांशेऽपि तत्सम्भवात् सर्वमर्थं नृपेणार्थिने दाप्योदापयितुं योग्योभवति। निरुत्तरत्वात्। एवं प्रागनिवेदितोऽर्थिनार्थोभूतोऽपि प्रामाणिकोऽपिन ग्राह्यः। ग्रहणादीनियदितवायमर्थः सत्यः स्वाद्भाषायामेव निवेदितःस्यादित्याक्षेपेऽ र्थिनोऽपिनिरुत्तरत्वात्। तस्मादुत्तरदानसमये प्रत्यर्थिराजादिभिरेवं बोधनीयो यावत्येवांशे तव मिथ्यात्वनिश्चयस्तावदेवापह्नोतव्य मन्यत्सम्प्रतिपत्तव्यम्। क्वचिदप्यंशेन न भवदुपरिसाधिते तव निरुत्तरत्वापत्तेः। एवं वाद्यपि भाषा समये सावधानेन त्वयास्वीयं यावदस्ति साध्यमेतदुपरि तत्सर्वं स्मार स्मारं लेखनीय मन्यथा तदंशे निरुत्तरता तवापद्येतेति बोधनीयः। एवं साक्षिणोऽपि प्रमादादिभ्यः प्रच्यावनीयाः। तथा सत्यनायासेन तत्वानुसरणम्भवति। तच्चावश्यक मन्यथा दिव्यादिना तत्वानुसरणं कर्त्तव्यं स्यादिति सर्वथा तत्वानुसरणेनैव व्यवहार पर्यवसानं विधेयमिति छलं निरस्येत्यस्यैव विधेःसर्वोऽयं शेषो न स्वतन्त्रोविधिर्येन दापनं सर्वस्य विधीयते अनिवेदित ग्रहणं वा प्रतिषिध्यते। नारदवाक्येऽपि देयन्दानयोग्य मित्येवार्थः। नचैवं दाप्यइत्यादीनामानर्थक्यमेव स्यादिति वाच्यम्। यतो लौकिक व्यवहारापष्टम्भेणैवमेवं प्रतिभाति तस्मात्तत्त्वानुसरणायान्यतरस्मादीदृशि विषये दिव्यमेव ग्राह्यमित्यत्र तात्पर्य्यात्। कात्यायनादि वचनाना मप्यत्रैवव तात्पर्य्यम्। ऋणादिषु विवादेष्वित्यतोऽप्यय मेवार्थो दृढता मुपैति। यतः प्रमाण

प्रतिज्ञाविसम्वादिमते निश्चयाभावस्तत स्तत्वानुसरणाय प्रमाणान्तरादर आवश्यक इति। अतएवाह साहसादौ प्रतिज्ञार्थैक देशविभावनेऽपि नैकदेशे प्रमाणान्तरानुसरणे साहसिनो हि राजदण्डमात्रं न प्रत्यर्पणं कस्मैचिद्यद्यपि चौर्य्याय प्रत्यर्पणमस्ति। तथापि कतिपयचौरःसर्वं दाप्यत इति लोके प्रसिद्धतरत्वाद्यदि मद्गृहात्तावदिय च्चौर्य्येण गतमस्थच सविधे प्रमाणमित मियदस्तीति चौराभियोक्ता साधयति तदा ततएव सर्वं लभ्यते। यदि त्वनष्टमपि कियन्नष्ट साधनावष्टम्भेन लघुमुपन्यस्यति तर्हि मिथ्यावादित्वान्नाष्टिक एकदण्ड्यो भवति इत्यपि लोके प्रसिद्धतरम्। अनेनैवाभिप्रायेणाहकात्यायनः॥

साध्यार्थांऽशेऽपि गदिते साक्षिभिः सकलम्भवेत्।

स्त्रीमङ्गे साहसे चौर्य्ये यत्साध्यम्परिकीर्त्तित मिति।

तत्त्वानुसरणं स्मृत्योर्विरोधे कथं स्यादित्यपेक्षायामाह। स्मृत्योर्विरोधेन्यायस्तु बलवान् व्यवहारत इति। व्याख्यातञ्चैतत्प्रागेव।अर्थशास्त्र धर्मशास्त्रयोर्विरोधेधर्मशास्त्रानुसरणेनैव तत्वानुसरणमित्याह। अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिरिति। इदमपिपञ्चितम्प्राक्।तस्मादस्मन्मते च्छल निरस्येत्याद्ये तदन्तप्रघट्टकेन छलनिरासतत्वानुसरणावश्यम्भाव प्रतिपादनमेवैकवाक्यतया लभ्यत इति ब्रूमः। इति निह्नवादिविचारः।

अथोत्तरदाने विलम्वाबिलम्वव्यवस्था। ततोयोगीश्वरेण। ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधन मितिक्रियोपन्यासे सद्यस्त्वं विदधतोत्तरदाने विलम्बोयमनुमत इति प्रतीयते।

तदाह बृहस्पतिः। शालीनत्वाद्भयार्त्तत्वात्प्रत्यर्थीस्मृतिविभ्रमात्।

कालम्प्रार्थयते यत्र तत्रेमंलब्धुमर्हति॥
एकाहताहपञ्चाह सप्ताह म्पक्षमेव वा।
मासं ऋतुत्रयं वर्षं लभते शक्त्यपेक्षयेति॥

कात्यायनः।समंकृतेषु कार्य्येषु मद्यएव विवादयेत्।

कालातीतेषु वा कालं दद्यत् प्रत्यर्थिने प्रभुः।

प्रभुर्विचारकः। श्रुत्वालेखयतो ह्यर्थं प्रत्यर्थी कारणाद्यदि।

कालं विवादं याचेत तस्य देयो न संशयः॥
सद्यो वैकाह पञ्चाहौत्र्यहंवा गुरुलाघवात्।
लभेतासौ त्रिपक्षं वा सप्ताहंवा ऋणादिषु॥

अत्र व्यवस्था तेनैवोक्ता।

मद्य स्तते सद्यो वादः समातीते दिनं क्षिपेत्।
षड़ब्दिके त्रिरात्रन्तु सप्ताहं द्वादशाब्दिके॥
विंशत्यब्देदशाहे तु मासार्द्धंवा लभेत सः।
मासं त्रिं शत्समातीते त्रिपक्षं परतो लभेत्॥
कालं शक्तिं विदित्वा तु कार्य्यानाञ्च बलाबलम्।
अल्पं वा बहुकालं वा दद्यात्प्रत्यार्थिने प्रभुः॥
यो वा यस्मिन् समाचारः पारम्पर्य्यक्रमागतः।
तम्प्रतीक्ष्ययथान्यायं दापयेदुत्तरं नृपः॥
मूलं वा साक्षिणो वाथ परदेशस्थिता यदा।
तत्कालोहि भवेत्पुंसां स्वदेशे वक्तुमागमात्॥
दिनमासार्द्धमासं वा ऋतुः संवत्सरोऽपि वा।
क्रियास्थित्यनुरूपस्तु देयः कालः परेण तु॥

लेखयतः अर्थिन इति शेषः। अर्थं श्रुत्वेत्यन्वयः।कालो-

देयो राज्ञेति शेषः। समातीते संवत्सरातीते। यस्मिन् देशकुलादौ मूलशब्देन विवादास्पदीभूतधनममुष्मात्पुरुषाल्लब्धव्यमिति वादी यं कथयति सउच्यते। तत्र विषये पुंसां मूलभूतानां साक्षिणां वा स्वदेशे आगमादागमनावधि वक्तुमुत्तरन्दातुं कालो भवेत्। दातव्य इत्यर्थः। अत्रापवादमाह याज्ञवल्क्यः।

साहसस्तेय पारुष्यगोभिशापात्यये स्त्रियाम्।

विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः॥

साहस विषशस्त्रादिभिः प्राणिव्यापादनमित्यादि। सहसाबलावष्टम्भस्तेनापत्कृतम्। गौर्दोग्धी। अभिशापः पातकाभिशमनम्। अत्ययः प्राणघनातिपातः। द्वन्द्वैकवद्भावादेकवचनम्। स्त्रियां कुलस्त्रियां चारित्र विषये विवादे दास्यां स्त्रियां स्वत्वविवादे कर्मकरणकालातिपातविषये विवादे। सद्य एव प्रागुक्तकालप्रतीक्षामकृत्वैव विवादयेदुत्तरन्दापयेत्। अन्यत्रैतद्भिन्नऋणादि विवादे काल उत्तरदानकाल इच्छयार्थिसभ्यसभापतीनामनुमत्या स्मृत उक्तो मन्वादिभिः। अत्ययो विवादविषयीभूतवस्तु विनाश इति। कल्पतरौ साहसादिषूत्तरकालदानविलम्वेऽन्यतरस्य क्षतिरवश्यम्भाविनीति सद्य एवोत्तरलेखनमनादिषु विलम्वेऽपि न क्षतिस्तथेति सोऽप्यनुमतः। सचैकाहादिरूपेण प्रागुक्तवचनैर्विवक्षितो यत्रतु न वाचनिकी व्यवस्था तन्त्र्यार्थ्यादीक्षयेति तात्पर्यम्। अतएवाह नारदः। गहनत्वाद्विवादानामसामर्थ्यात् स्मृतेरपि।

ऋणादिषु हरेत्कालं कामं तत्वबुभुक्षयेति॥

नारदः। गोभू हिरण्यस्त्रीस्तेयपारुष्यात्ययिकेषु च।

साहस्रेष्वभिशापे च सद्य एवविवादयेत्॥

अभिशापः पापाभिसंशनम्।तस्य पारुष्यशब्देन ग्रहणेऽप्यादरार्थं पुनर्वचनम्। आत्ययिकं कात्यायनेनोक्तम्।

व्यपैति गौरवं यत्र विनाशस्त्याग एव च।
कालं तत्र न कुर्वीत कार्य्यमात्यन्तिकं हि तदिति॥

अन्यत्रापि सद्य एवोत्तरदानमाह।कात्यायनः।

धेनावनडुह क्षेत्रे स्त्रीषु प्रजनने तथा।
विनाशेयाचितके दन्ते तथैव क्रयविक्रये॥
कन्याया दूषणे चैव कलहे साहसे निधौ।
उपधौ कौटसाक्ष्येच सद्य एव विवादयेत्॥

प्रजननमत्रविवाहः। अन्यत्र विवादासम्भवात्।

उपधिः कूटगणिकादिकृतव्यवहारः।

विनाशे त्याग इति न सामानाधिकरण्यम्॥

किन्तु विनाशे सति यत्र त्याग एव सम्पद्यत इत्यर्थेनैक एव विषय इति कल्पतरुरत्नाकरौ।तन्न।सति सप्तम्यनुषङ्गयोः प्रतीति विपरीतयोः कल्पनानुपपत्तेर्वा शब्दस्वरसाच्च पृथग्विषयताया एवौचित्यात्। वस्तुतस्तुविनाशस्त्याग एव वेति प्रथमान्त एव पाठस्तथाचायमर्थः। यत्नोत्तरदानविलम्बेसति गौरवं वस्तुनो मूल्यादिकृतं व्यपैति वस्तु न एव वा विनाशो ध्वंसः त्यागः प्रक्ष्यवो वा भवति तत्रोत्तरदानकालमेका हादिरूपं न कुर्वीत सद्य एवोत्तरं दापयेदित्यभिप्रायः। वृहस्पति कात्यायनौ।

साहसस्तेयपारुव्यगोऽभिशापे तथात्यये।
भूमौ विवादयेत् क्षिप्रमकालेऽपि वृहस्पतिः॥

अभिशापान्तो द्वन्द्वैकवद्भावः। अकाले रात्र्यादावपि। वृहस्पतिरिदमाहेत्यर्थः। इत्युत्तरदाने विलम्बाविलम्बव्यवस्था समाप्ता च विशेषपरिभाषा।

इति श्रीमत्सकलसामन्तचक्रचूड़ामणिमञ्जरीनीराजितचरणकमल श्रीमन्महाराजाधिराजप्रतापरुद्रतनूजश्रीमन्महाराजमधुकरस्वादसूनुश्रीमन्म- हाराजाधिराजचतुरुदधिजलबलयवसुन्धराहृदयपुण्डरीकबिकाशदिनकरश्रीवीरसिंहदेवोद्योगित श्रीहंसपण्डितात्मज श्रीपरशुरामसूनु सकलविद्यापारावारपारीणधुरीणजगद्दारिद्रमहागजपारीन्द्रविद्वज्जनजीवातु श्रीमन्मित्रमिश्रकृते श्रीवीरमित्रोदयाभिधनिबन्धे व्यवहारप्रकाशेपरिभा- षा परिष्काराख्यंव्यवहारमातृका परपर्य्यायं प्रथमप्रकरणम्॥ १ ॥

अथ प्रमाणनिरूपणाख्यं द्वितीयं प्रकरण मारभ्यते।

<MISSING_FIG href="../books_images/U-IMG-1703869909Screenshot(39"/>.png)

तत्रप्रमाणभेदप्रमाणविषयव्यवस्थे क्रियापादप्रस्तावे विविक्तेअधुना साक्ष्यादिप्रमाणानामवान्तरभेदः प्रस्तूयते। तत्र साक्षिस्वरूपमाह मनुः। समक्षदर्शनात् साक्ष्यश्रवणाच्चैव सिद्ध्यति।

समक्षदर्शनस्य साक्ष्यहेतुत्वं पाणिनिरपि स्मरति। साक्षाद्द्रष्टरिसंज्ञायामिति। तत्तु व्युत्पत्तिमात्रमव्यापकत्वात्। श्रुतसाक्ष्यादीनामपि साक्षित्वव्यवहारविषयत्वात्। अतएव श्रवणादित्युपलक्षणं प्रमाणमात्रस्य विवादविषयप्रमाता साक्षीति विवक्षितम्। साक्षिप्रयोजनमाह।

नारदः। सन्दिग्धेषु तु कार्य्येषु द्वयोर्विवदमानयोः।

दृष्टश्रुतानुभूतत्वासाक्षिभ्यो व्यक्तिदर्शनमिति॥

दृष्टश्रुताभ्यामनुभूतत्वादित्यर्थः। यद्वा।दृष्टत्वात् श्रुतत्वादनुभूतत्वाच्चेत्यर्थः। अनुभूतत्वादित्यनेन च गोवृषन्यायेन प्रमाणान्तरजन्योऽनुभवो गृह्यते। व्यक्तिदर्शनं विवेकज्ञानम्।कात्यायनः। अर्थिप्रत्यर्थिसान्निध्यादनुभूतन्तु यद्भवेत्।

तद्ग्राह्यं साक्षिणो वाक्यमन्यथा न वृहस्पतिः॥

अर्थि प्रत्यर्थि सान्निध्यादनुभूतमिति मुख्यः कल्पः। तदसान्निध्येऽपि श्रवणादिना साक्ष्यस्य वचनान्तरैरनुमतत्वात्। तच्चसाक्षिभूतनिरूपणे व्यक्तो भविष्यति। गौतमः। विप्रतिपत्तौ साक्षिनिमित्ता व्यवस्थेति। स च साक्षी प्रथमं द्विविधः। कृतो ऽकृतश्च।साक्षित्वेनार्थि प्रत्यर्थिभ्यान्निरूपितः कृतः।

अनिरूपितोऽकृतः। पुनश्च कृतस्य पञ्चविधत्वादकृत्तस्य षड्विधत्वादेकादशविधः। यथाह नारदः।

एकादशविधः साक्षी शास्त्रेदृष्टो मनीषिभिः।
कृतः पञ्चविधस्तेषां षड्विधोऽकृत उच्यते॥
लिखितः स्मारितश्चैव यदृच्छाभिज्ञ एव च।
गूढश्चोत्तरसाक्षीच साक्षी पञ्चविधः कृत इति॥

पञ्चानामपि कात्यायनेन स्वरूपमभिहितम्।

अर्थिनास्वयमानीतो यो लेख्येसन्निवेश्यते॥
स साक्षी लिखितो नाम स्मारितः पत्रकादृत इति।

स्मारितः पत्रकादृते इत्यपि विवृतन्तेनैव॥

यस्तुकार्य्यप्रसिद्ध्यर्थं दृष्ट्वा कार्य्यंपुनः पुनः।
स्मार्य्यते ह्यर्थिना साक्षीस स्मारित इहोच्यते॥

दृष्ट्वेति दर्शयित्वेत्यन्तर्भावितण्यर्थम्। कार्य्यंव्यवहारपदं दर्शयित्वा प्रमापय्यकार्यप्रसिद्ध्यर्थंकालान्तरे व्यवहारनिर्णयसिद्ध्यर्थंपुनः पुनः स्मार्य्यते कार्य्यते च विस्मरणनिरासाय यः स स्मारितो नाम साक्षीत्यर्थः। यस्तु यदृच्छया प्रसङ्गादागतस्त्वमत्र साक्षीभवेति साक्षित्वेन निरूपिते स यदृच्छाभिज्ञःस्मारितस्यास्य च पत्रानारुढत्वेन साम्येऽपि स्वरूपभेदः। स्पष्टोऽपि तेनैव विवृतः।

प्रयोजनार्थमानीतः प्रसङ्गादागतश्च यः।
द्वौसाक्षिणौ त्वलिखितौ पर्वपक्षस्य साधकाविति॥

गूढमाह।** अर्थिना स्वार्थसिद्ध्यर्थंप्रत्यार्थिवचनं स्फुटम्।**

यः श्राव्यते स्थितो गूढोगूढसाक्षी स उच्यत इति। उत्तरसाक्षिस्वरूपमाह।

साक्षिणामपि यः साक्ष्यमुपर्य्युपरि भाषते।
श्रवणाच्छ्रावणादापि स साक्ष्युत्तरसंज्ञित इति॥

षड्विधस्याप्यकृतस्य भेदो नारदेनैव दर्शितः।

ग्रामश्च प्राड्विवाकश्चराजा च व्यवहारिणाम्।
कार्य्येष्वधिकृतो यः स्यादर्थिना प्रहितश्च यः।
कुल्पाः कुलविवादेषु विज्ञेयास्तोऽपि साक्षिणः॥

प्राड्विकाकग्रहणं लेखकसभ्योपलक्षणम्।

लेखकः प्राड्विवाकश्च सभ्याश्चैवानुपूर्वशः॥

नृपे पश्यति तत्कार्यंसाक्षिण, समुदाहृता इति वचनात्। बृहस्पतिस्तुलेखितमधिकमादायैतानेव द्वादश साक्षिणआह।

लिखितो लेखितो गूढः स्मारितः कुल्यदूतकौ।
यादृच्छश्चोत्तरश्चैव कार्य्यमध्यगतोऽपरः॥
नृपोऽध्यक्षस्तथा ग्रामः साक्षी द्वादशधा स्मृत इति।

तल्लक्षणान्यपि कानिचिद्विलक्षणानि कानिचित्पूर्वसंवादीन्याह स एव।

प्रभेदमेपां वक्ष्यामि यथावदनु पूर्वशः।
जाति नामाभिलिखितं येन स्वं पित्यमेव च॥
निवासश्चस विज्ञेयःसाक्षिलिखितसंज्ञकः।
अर्थिना च क्रियाभेदैणस्यकृत्वा ऋणादिकम्॥
प्रत्यक्षं लिख्यते यस्तुलेखितः स उदाहृतः।
कुड्यव्यवहितो यस्तु श्राव्यते ऋणिभाषितम्॥
विनिह्नुतेयथाभूतं गूढसाक्षी स कीर्त्तितः।
आहूय यः कृतः साक्षी ऋणन्यामक्रियादिके।
स्मार्यते यो मुहुश्चैव स्मारितः सोभिऽधीयते।

विभागदाने विपणे ज्ञाति र्यत्रोपदिश्यते॥
द्वयोःसमानो धर्मज्ञः स कुल्यः परिकीर्त्तितः।
अर्थिप्रत्यर्थिवचनं श्रृणुयात्प्रेषितस्तुयः॥
उभयोः सम्मतः साधुर्दूतकः स उदाहृतः।
क्रियमाणे च कर्त्तव्ये यः कश्चित्स्वयमागतः॥
अत्रसाक्षित्वमस्माकमुक्तो यादृच्छिकस्तुस।
यस्तु साक्षी दिशङ्गच्छन् मुमूर्षुर्वा यथाश्रुतम्॥
अन्यं सश्रावयेत्तन्तु विद्यादुत्तरसाक्षिणम्।
साक्षिणामपि यः साक्ष्यमुपर्य्युपरि भाषताम्॥
श्रणाच्छ्रावणाद्वापि स साक्ष्युत्तरसंज्ञितः।
उभाभ्यां यस्य विश्वस्तंकार्य्यंवापि निवेदितम्॥
गूढचारी स विज्ञेयः कार्यमध्यगतस्तथा।
अर्थिप्रत्यर्थिनो वाक्यंयच्छ्रुतम्भूभृता स्वयम्॥
स एव तत्र साक्षीस्याद्विसम्वादे द्वयोरपि।
निर्णीते व्यवहारे तु पुनर्न्यायोयदा भवेत्॥
अध्यक्षः सभ्यसहितः साक्षीस्यात् तत्र नान्यथा।
दूषितङ्घातितं यच्च मीमायास्तु समन्ततः॥
अकृतोऽपि भवेत्साक्षीग्रामस्तत्र न संशय इति॥

लिखितलेखितयोः स्वपरलिखनमात्रभेदादेकादशद्वादशसंख्ययोरविरोधः। सर्वे च यथासम्भवं दृष्टश्रुतरुपद्विविधसाक्षिभेदा ज्ञेयाः। क्रियाभेदैर्व्यवहारप्रकारभेदैस्तु प्रत्यर्थिनः। ऋणादिकमित्यादि शब्दात् यथासम्भवं सर्वविवादपदनिदर्शनम्। कुड्यग्रहणं व्यवधायकोपलक्षणम्। विनिह्नुवे इति भावे क्तःनिह्नुवेसम्भावित इति शेषः। इत्युक्त इतीति शम्।

ध्याहारः। दिशन्देशान्तरमन्यमित्यर्थः। उभाभ्यामर्थि प्रत्यर्थिभ्यां यस्य विश्वस्तं यदीयो विश्वासः कृत इति सम्बन्धसामान्यविवक्षया षष्ठी भावे क्तश्चाभ्युपेत्य व्याख्येयम्। गूढचारी कार्य्यमध्यगतश्चेत्येवस्यैव सज्ञाद्वयमिति द्वादशत्वाविरोधः। दृतग्रहणं लेखकस्यापि प्रदर्शनार्थं दूतकःखटिकाग्राहादिति वृहस्पति वचनाद्ग्रामग्रहणमथ कृतसाक्ष्युपलक्षणम्। येन योऽर्थः प्रमितस्तत्रसाक्षित्वेन प्रागनिरूपितोऽपि पश्चात्साक्षित्वेन विज्ञायोपन्यस्तः।पृष्टश्च सभायां साक्ष्यन्दातु मर्हतीति फलितोऽर्थः। इतरथा वेतनादानादिषु लिखिताद्यसम्भवे साक्ष्यभावप्रसङ्गः। इदमेवाभिसन्धायाह मनुः।

यत्रानिबद्धोऽपीक्षेत शृणुयाद्वापि किञ्चन।

पृष्टस्तत्रापि तद्ब्रूयात् यथादृष्टंयथाश्रुतम्॥

अनिबद्धोऽकृतः। कल्पतरुमदनरत्नयोरर्थिक्रियां क्रियाभेदैरिति पठितं तत्रार्थि कियामर्थिव्यवहारक्रियाभेदैः प्रमाणविशेषैराप्तवाक्या- दिभिस्तस्यकृत्वा तत्सम्बन्धितयावधार्य्यऋणादिके विवादविषये यः प्रत्यक्ष प्रत्यर्थि समक्षंलेख्यतेऽर्थिनेत्यर्थात्। स तत्र लेखितः साक्षीति व्याख्येयम्। कालादाववधिरपि साक्ष्ये स्मर्य्यते।

सुदीर्घेणापि कालेन लिखितः सिद्दिमाप्नुयात्।

सञ्जानन्नात्मनो लेख्यमजानन्नतु लेखयेत्॥

सम्यग्जानन्नत्मनो लेख्यं कुर्य्यादिति शेषः। अजानन्तं लिप्यनभिज्ञमात्मानमन्यद्वारा साक्ष्यह मत्रेतिलेखयेत्। स द्विविधोऽपि लिखितः साक्षीचिरकालेनापि सिद्धिन्निर्णायकतामाप्नुयादित्यर्थः।

कात्यायनः। अथ स्वहस्तेनारूढस्तष्ठंश्चैकः स एव तु।

नचेत्प्रत्यभिजानीयात् तत्स्वहस्तैः प्रसाधयेत्॥

नारदः। आष्टमाद्वत्सरात्सिद्धिः स्मारितस्येह साक्षिणः।

आपञ्चमात् तथा सिद्धिर्यदृच्छोपगतस्य तु।
आतृतीयात् तथा वर्षात् सिद्धिर्गुढस्य साक्षिणः॥
आसंवत्सरात्सिद्धिन्तु वदत्युत्तरसाक्षिण इति॥

इदञ्च प्रायोवादेन यतः स एवाह।

अथवाकालनियमो न दृष्टः साक्षिणः प्रति।
स्मृत्यपेक्षं हि साक्षित्वमाहुःशास्त्रविदो जनाः।
यस्य नोपहता बुद्धिः स्मृति श्रोत्रञ्च नित्यशः।
सुदीर्घेणापि कालेन स वै साक्षित्वमर्हति॥
ते च साक्षिणः कीदृशाः कार्य्या इत्यपेक्षयामाह मनुः।
यादृशा अर्थिभिः कार्य्या व्यवहारेषु साक्षिणः।
तादृशान् संप्रवक्ष्यामि यथा वाच्यमृतञ्च तैः।
गृहिणः पुत्रिणो मौलाः क्षत्रविट् शूद्रयोनयः।
अर्थ्युक्ताः साक्ष्यमर्हन्ति न ये केचिदनापदि॥
आप्ताः सर्वेषु वर्णेषु कार्य्याःकार्य्येषु साक्षिणः।
सर्वधर्म्मविदो लुब्धा विपरीतांऽस्तु वर्जयेत्॥

मौलाःप्रख्यातकुलोद्भवा इति कल्पतरुः। मूलं पूर्ववृत्तान्तस्तद्विदन्तीति मौलाः। तदधीते तद्वेदेत्यणिति मदनरत्ने। वक्ष्यमाणयाज्ञवल्यवचनसंवादात्साक्षित्वेनैव पूर्ववृतान्तवेदित्वाज्ञेयात्तदर्थकमौलपदानर्थक्यप्रसङ्गाच्च कल्पतरुव्याख्यानमेव सम्यक्। रत्नाकरोऽपि मौलाःकुलीना इत्येवंव्याख्यातम्। मूलं प्रतिष्ठा सा येषामस्ति ते मौलाःअर्थकथन-

मेतत्। तद्धितस्तु भवार्थम् एव कर्त्तव्यः, यो हि यत्रभवः सोऽपि तस्यास्तीत्यविरुद्धमिति वदन्मेधातिथिरपीममर्थमनुमन्यते। प्रतिष्ठान्तरस्य साक्षिलक्षणानुपयोगात्। पुत्रादिप्रतिष्ठायाः पदान्तरैरेवोपादानात्। अत्रक्षत्रियादिग्रहणं नात्यन्तिकब्राह्मणव्युदासपरं, किन्तु सति सम्भवेऽनेकाध्यापनाग्निहोत्रादिकार्यव्यग्रस्यतस्य न साक्षित्वं साक्ष्यन्तरासम्भवे तु तस्यापि साक्षित्वम्भवत्येव। अतएव ब्रूहीति ब्राह्मणं पृच्छेदिति तस्यापि साक्षित्वेन प्रश्नप्रकारविधिरुपपद्यत इति ध्येयम्। अर्थ्युक्ता अर्थिना ममैते साक्षिणः सन्तीति निर्दिष्टानतु स्वयमेवागत्य वयमत्रसाक्षिणः स्म इति वदतः। याज्ञवल्क्यः।

तपस्विनो दानशीलाः कुलीनाःसत्यवादिनः।
धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः।
त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्त्तक्रियापराः।
यथाजाति यथावर्णं सर्वे सर्वेषु वा स्मृताः॥

त्र्यवररास्त्रिभ्यो न्यूनान भवन्ति परतस्तु यथेच्छं भवन्तीत्यर्थः। जातयो मूर्द्धवसिक्तादयः। वर्णा ब्राह्मणादयः। यथाच मूर्द्धावसिक्तादीनां मूर्द्धावसिक्तादयो ब्राह्मणादयो ब्राह्मणादीनां साक्षित्वेनोपादेयाः। असम्भवे सर्वे सर्वजातीयाः सर्वेषु जातीयेषु वादिप्रतिवादिषु साक्षिणो ग्राह्या इत्यर्थः।

व्यासः। धर्मज्ञाः पुत्रिणो मौलाःकुलीनाः सत्यवादिनः।

श्रौतस्मार्त्तक्रियायुक्ता विगतद्वेषमत्सराः॥
श्रोत्रियानपराधीनाः सूरयश्चाप्रवासिनः।
युवानः साक्षिणः कार्य्या ऋणादिषु विजानतेति॥

कात्यायनः। प्रख्यातकुलशीलाश्च लोभमोह विवर्जिताः।

आप्ताः शिष्टा विबुद्धा ये तेषां वाक्यमसंशयम्॥
विभाव्यो वादिना यादृक् सदृशैरेव भावयेत्।
नोत्कृष्टश्चावकृष्टस्तु साक्षिभिर्भावयेत्सदेति॥

आप्ताः यथार्थवादिनः। विबुद्धा विवादविषयीभूतार्थज्ञानवन्तः शास्त्रार्थज्ञानवन्तश्च।मतिबुद्धिः पूजार्थेभ्यश्चेति कर्त्तरि क्तः। आदिकर्मणीति मदनरत्ने तेषां वाक्यमसंशयं यथा भवति तथा वादिनो विभाव्योऽङ्गीकारयितव्योऽर्थात्प्रतिवादी।तत्रविशेषमाह। यादृक् प्रतिवादितत्सदृशैस्तज्जातीयैरेव भावयेत्। वादयेत्युपलक्षणम्। वाद्यपि प्रतिवादिना तज्जातीयैरेव विभाव्यः।

तथा च नारदः। श्रेणीषु श्रेणिपुरुषाः स्वेषु वर्गेषु वर्गिणः।

बहिर्वासिषु वाह्याः स्युः स्त्रियः स्त्रीषु च साक्षिण इति॥

मनुरपि। स्त्रीणां साक्ष्यं स्त्रियः कुर्य्यार्द्विजानां सदृशाःद्विजाः।

शुद्राश्च सन्तः शुद्राणामन्त्यानामन्त्ययोनयः॥

श्रेणिपुरुषाणां सत्यपि वर्ग्गित्वेपृथङ्निर्देशो गोवृषन्यायेन।प्रयोजनं चात्राप्यभ्यर्हितत्वबोधनम्। वर्गिणश्च दर्शिताः

कात्यायनेन। लिङ्गिनः श्रेणिपूमाश्चवणिग्वातास्तथापरे।

समूहस्थाश्चये चान्ये वर्गास्तानब्रवीद्भृगुः।
दासचारणमल्लानां हस्त्यश्वायुध जीविनाम्॥
प्रत्येकैकसमूहानां नायका वर्गिणः स्मृताः।
तेषां वादः स्ववर्गेषु वर्गिणस्तेषु साक्षिणः॥

अत्र सर्वत्र न्यूनाधिकविशेषणोपादानन्नदोषाय अनृतभाषणभीरुत्वसत्यवदन शीलत्वस्य च साक्षित्वप्रयोजकस्यो-

पलक्षणार्थत्वात्तेषाम्।तेच साक्षिणःकियत्सङ्ख्यकाःकुत्रग्राह्या इत्यपेक्षायामाह।

वृहस्पतिः। नव सप्तपञ्च वा स्यु श्चत्वारस्त्रय एववा।

उभौ वा श्रोत्रियोख्यातौ नैकं पृच्छेत्कदाचन॥

लिखितादिषु स एवाह

लिखितौ द्वौतथा गूढौ त्रिचतुष्पञ्च लेखिताः।
यदृछाः स्मारितोःकुल्यास्तथा चोत्तरसाक्षिणः॥
दूतकः खटिकाग्राही कार्य्यमध्यगतस्तथा।
एक एव प्रमाणं स्यान्नृपोऽध्यक्ष स्तथैव च॥

खठिकाग्राही गणकः एक एवेत्येवकारो वाद्यपेक्षया नैकम्पृच्छेत्कदाचनेनोक्ताया अनावश्यकत्वार्थो न नियमार्थोऽदृष्टार्थत्वप्रसङ्गात्। त्र्यवराः साक्षिणोज्ञेया इति योगीश्वरीयमप्येतदभिप्रायकमेव लिखितादीना मुभयानुमतत्वग्राह्यत्वमेकस्यापीत्याह योगीश्वरः।

उभयानुमतः साक्षी भवत्येकोऽपि धर्म्मवित्।

यद्यपि श्रौतस्मार्त्तक्रियापरा धर्मप्रधाना इत्यादिविशेषणोपादानात् त्र्यवराणामपि धर्मवित्त्वं समानन्तथापि तेषामुभयाननुमतानापि भवत्येवसाक्षित्व द्वयोरेकस्य चोभयानुमत्यैवेति भेदइति मिताक्षरा।

नारदोऽपि। उभयानुमतो यः स्याद्द्वयोर्विवदमानयोः।

स साक्ष्येकोऽपि सक्षित्वे प्रष्टव्यः स्यात्तु संसदि।

आप्तत्वेन राजादिभिरवधारितोऽप्येकः साक्षीत्याह व्यासः।

शुचिक्रियश्च धर्मज्ञः साक्षी यस्त्वनुभूतवाक्।
प्रमाणमेकोऽपि भवेत्साहहेषु विशेषतः।
इति॥

अनुभूता यथार्थत्वेन प्रमितवरा वाग्यस्येत्यनुभूतवाक्।

कात्यायनः। अभ्यन्तरस्तुनिःक्षेपे साक्ष्यमेकोऽपि वाच्यते।

अर्थिना प्रहितःसाक्षी भवेदेकोऽपि याचिते॥

याचित इति निःक्षेपविशेषणम्। न्यायतौल्यादन्यत्रापीति वाचस्पतिः। मदनरत्नस्तु याचितं विवाहाद्यर्थं याचितम् गृहीतमाभरणादिकं याचितकमिति यावदित्याह। निक्षेपविशेषणवैयर्थ्यादयाचिते तस्मिन्नभ्यन्तरस्यैकस्यासाक्षित्वप्रसङ्गाद्यवहितान्वयप्रमक्तेश्चोत्तरैव व्याख्याप्रख्याकुण्डलादिपण्यविवादे तन्निर्मातैकोऽपि साक्षीत्याह। स एव।

संस्कृतं येन यत्पण्यं तत्तेनैव विभावयेत्।
एक एव प्रमाणं स विवादे तत्रकीर्त्तितः।

इदञ्चबहूनामसम्भवे सत्यवादिनोर्द्वयोरेकस्य वानुमति प्रदर्शनार्थं न नियमार्थम्। अदृष्टार्थत्वप्रसङ्गादिति ध्येयम्। उक्तलक्षणमाक्ष्यसम्भवे प्रतिषेधरहितानां साक्ष्यनुकल्पनां सूचयितुमसाक्षिणोऽपि स्मृतिषूक्ताः। उक्तलक्षणविप्रालाभेऽप्रतिषिद्धानुमत्यै श्राद्धेकतिपयप्रतिषेधवत्।

नारदः। असाक्ष्यपि हि शास्त्रेषु दृष्टः पञ्चविधो बुधैः।

वचनाद्दोषतो भेदात् स्वयमुक्तिर्मृतान्तर इति।
श्रोत्रियाद्यास्तु वचनात्स्तेनाद्यादोषदर्शनात्।
भेदाद्विप्रतिपत्तिः स्याद्विवादे यत्र साक्षिणाम्॥
स्वयमुक्तिरनिर्दिष्टः स्वयमेवैत्य यो वदेत्।
सूचीत्युक्तः स शास्त्रेषु न स साक्षित्वमर्हति॥
मृतान्तरोऽर्थिनिप्रेते मुमूर्षुः श्रावितादृते।

वचनादसाक्षिणः श्रोतियाद्यानाह। स एव।

श्रोत्रियास्तापसा वद्धा येच प्रव्रजितादयः।
असाक्षिणस्तेवचनान्नात्रहेतुरुदाहृत इति॥

तापसा बाणप्रस्थाःप्रव्रजितादय इत्यादि शब्देन शङ्गवेनैकयोग्योपात्ताःपित्रा विवदमानादयो गृह्यन्ते। तथाच शङ्खः। पित्रा विवदमानगुरुकुलवासिपरिव्राजकबाणप्रस्थानिर्ग्रन्थाश्चासाक्षिण इति। पित्राविवदमाननिर्ग्रन्थयोर्दोषादप्यसाक्षित्वसम्भवे वचनादप्यसाक्षित्वेन विरोधः। दोषादसाक्षिणोऽपि तेनैव दर्शिताः।

स्तेनाः साहसिकाश्चण्डाःकितवा वञ्चकास्तथा।
असाक्षिणस्तेदुष्टत्वात् तेषु सत्यं न विद्यते॥

चण्डाः कोपनाः। कितवा द्यूतकृतः।योगीश्वरस्त्वसाक्षित्वमात्र विवक्षया सर्वानेतानेकीकृत्याह।

स्त्रीबालवृद्धकितवमत्तोन्मत्ताभिशस्तकाः।
रङ्गावतारिपाषाण्डिकूटकृद्विकलेन्द्रियाः॥
पतिताप्तार्थसम्बन्धिसहायरिपुतस्कराः।
साहसी दृष्टदोषश्च निर्धूताद्यास्त्वसाक्षिण इति॥

अत्रवृद्धग्रहणं श्रोत्रियादीनां वचनादसाक्षिणां नारदाद्युक्तानामुपलक्षणं स्त्रीवालादिग्रहणमन्येषामपदोषादसाक्षिणां स्मृत्यन्तराभिहितानाम्। आद्यग्रहणाद्भेदादसाक्षिणां स्वरमुक्तेमृतान्तरस्य च ग्रहणम्। तत्रस्त्रिया असाक्षित्वंस्त्रीकृतव्यवहारातिरिक्तेस्त्रीणां साक्ष्यंस्त्रियः कुर्युरिति वचनात्। बालोऽप्राप्तव्यवहारः वृद्धोऽशीतिकावधिः मत्तोमदनीयद्रव्येण।उन्मत्तो ग्रहाद्याविष्टः। अभिशस्तको महापातकाभिशस्तः स्वार्थे कः। रङ्गावतारी चारणः। पापण्डिनोनिर्ग्रन्थप्रभृतयः। कूटकृत्क-

पटलेख्यादिकारी। विकलः श्रोत्रेन्द्रियादि दोषवान्। पतितो निश्चितब्रह्महत्यादिः। आप्तः सुहृत्। अर्थसम्बन्धिविप्रतिपद्यमानार्थसम्बन्धी सहाय एककार्यकारी रिपुः शत्रुरन्यतरस्य। माहमी ब्रनावष्टम्भेन कार्य्यकारः। दृष्टदोषो दृष्टासत्यवचनः। निर्द्धूतो बन्धुभिस्त्यक्तः। भेदादसाक्षित्व च संख्यागुणमाम्ये।

अन्यथाद्वैधे बहूनां वचनं समेषुगुणिनाम्वचः॥
गुणि द्वैधे तु यत्र स्यात् ग्राह्या ये गुणवत्तमाः।
बहुत्वं परिगृह्णीयात् साक्षिद्वैधेनराधिपः।
समेषुच गुणोत्कृष्टान् गुणद्वैधे द्विजोत्तमानिति॥

याज्ञवल्कमन्वादिवचनविरोधापत्तिः।

ननु साक्षिणां लिखितानाञ्च निर्दिष्टानाञ्च वादिनाम्।

तेषामेकोऽन्यथा ब्रूते भेदात्सर्वेऽथसाक्षिणइति।

कात्यायनेनैकस्यान्यथावादित्वे सर्वेषामेव भेदादसाक्षित्वमुक्तं तद्विरोध इति चेन्न। त्रयाणां साक्षिणामेकस्यान्यथावादे द्वितीयस्य तत्तुल्यस्य मत्प्रतिपक्षितत्वात्तृतीयस्य चैकतया तत्र साक्षितो न निर्णय इत्यत्र कात्यायनतात्पर्यात्। सत्प्रतिपक्षितावशिष्टानान्त्वनेवत्वे तत्एवनिर्णय इत्यत्रच याज्ञवल्कातात्पर्य्यात्। मूलभूतन्यायविरीधेऽनयो र्वचनयोरेवमवश्यं सकोच्यत्वादिति वाचस्पतिः। पञ्चषष्ठोऽपि साक्षिष्वधिकगुणस्यचैकस्या- प्यन्यथावादित्वेतद्विरुद्धार्थाभिधायिना सर्वेषामन्येषामसाक्षित्वम्। अधिकगुणस्याप्येकस्य बहुवाक्यविरुद्धाभिधानादसाक्षित्वमिति सर्वेऽपि तेन साक्षिण इति न मन्वादिविरोध इति मदनरत्नकारः। वयन्तु गुणवत्वस्यैवशत-

मप्यन्धानां न पश्यति एकेनापि बहूनां प्रतिबन्धाच्चेत्यादि न्यायेन प्राधान्यात् गुणवतः साम्येवादिनिर्दिष्टानामेकस्याप्यन्यथा वादित्वेसंख्याधिक्येऽपिगुणवत्तरत्वाभावे सर्वेष्वसाक्षित्वं द्वेधैबहूनामित्यत्रापि विनिगमकान्तराभावे बहुत्वमेव विनिगमकमत एव संख्यानपेक्षमेवगुणवत्तमत्वमात्रंग्राह्यवचनत्वेहेतुमाहेर्ति ब्रूमः। स्वयमुक्तेरसाक्षित्वमपि विवृतं कात्यायनेन॥

यः साक्षिनैव निर्दिष्टो नाहूतोनैवदेशितः।
ब्रूयान्मिथ्येतितथ्यंवा दण्ड्यःसोऽपि नराधम इति॥

अयमत्रसाक्षीति ज्ञानवानान्तरोऽर्थिप्रत्यर्थिनोरन्यतरः स मृतो यस्येति मृतान्तरस्तस्यासाक्षित्वमपि सहेतुकं विवृतं नारदैनैव।

योऽर्थस्तुश्रावितव्यः स्यात्तस्मिन्नसति चार्थिनि।
क्वतद्वदतु साक्षित्वमित्यसाक्षी मृतान्तर इति॥

येनार्थिना प्रत्यर्थिना वा योऽर्थः स्वीयः श्रावयितव्यः स्यात् श्रवणीयत्वेनाभिमतो भवेत्तस्मिन्नर्थिप्रत्यर्थिनोरन्यतरस्मिन्नसति मृते प्रोषिते वाऽभिमतार्थे वा निरूपिते स साक्षित्वं क्वकस्मिन्नर्थे वदतु कस्य वा कृते वदत्वित्यर्थः। सामान्यतो य आवयोः कश्चिद्व्यवहारसम्बन्धोऽस्ति तत्र त्वं साक्षिणा भाव्यमित्येतावन्मात्रमुक्त विशिष्य च व्यवहारविषयो न तस्मै श्रावितः श्रावयिता च नास्ति स पृष्टोऽपि विशिष्य विषयाज्ञानादसाक्षीति यावत्। इदमेवाभिप्रेत्योक्तं मुमूर्षुः श्रावितादृतइति। मुमूर्षुग्रहणमश्रावणप्रयोजकाभावपरम्। तथा च स एव।

श्रावितो नातुरेणापि यस्त्वर्थो धर्मसंहितः।

मृतेऽपि तत्र साक्षीस्याद्वमु चान्वाहितादिष्वित्याह॥

अत्रश्रोत्रियादयो न साक्षिणः कार्य्यास्तेषां रागादिशून्यानां सत्यवादित्वातिशयेऽपि तपःस्वाध्यायाग्निहोत्रादिव्यामङ्गेन श्रावितार्थविस्मरणसम्भवादतिपूज्यानां धर्माधिकरणप्रवेशाह्वानाद्यनौचित्याच्चेत्यर्थः। अकृतास्तु तत्वं जानन्तो भवन्त्येव साक्षिणः।अतएवोक्तमुभौ तु श्रोत्रियौ ग्राह्यावित्यादि॥ अन्यथा सर्वथा साक्षित्वनिषेधे तद्विरोधःस्यात्। तथा च नात्रहेतुरसत्यवादित्वप्रयोजको हेतुःस्तेनत्वादिनोदाहृत इत्यर्थः। वचनादित्यस्यापि साक्षित्वकरणनिषेधकवचनादित्यर्थः।

एकोलुब्धस्त्वसाक्षीस्याद्वह्यः शुच्योऽपि न स्त्रियः।

स्त्रीबुद्धेरस्थिरत्वाच्च दोषैश्चान्येऽपि ये वृता इति मनुः।

अलुब्ध एकोऽपि पुमान् साक्षी भवति बह्यःशुच्योलोभादिदोषरहिता अपि स्त्रियः साक्षिण्योन भवन्ति तत्रहेतुः स्त्रीबुद्धेरिति। एको लुब्धस्त्वसाक्षीति मेधातिथिनान्याभिमतत्वेनेमम्पाठमभिप्रेत्यान्येत्वकारप्रश्लेषेणालुब्धोऽप्येको न साक्षी किंपुनर्लुब्ध इत्येवं व्याचक्षते। तथा द्वयोरभ्युज्ञानम्भवति स्त्रियस्त्वलुब्धो बह्व्योऽपि न साक्ष्यार्हाःकिसुताशुचय इति भणितम्।तत्रान्येत्वित्यस्वरसवीजमेकस्य प्रागेव निरस्तत्वात् स्त्रीमाक्षापर्युदासायानुवादे तु यथोक्तपातेऽप्युपपत्तेस्तत्रचैकस्यालुब्धस्य पुंस्वेन प्रतिप्रसवपूर्व्वकं स्त्रीणां सर्व्वथानिषेधपरत्वे सन्दर्भसाभञ्द्वस्य मिति। अलुब्ध इत्यकारप्रश्लेषं विनैव पूर्व्वपाठ एव लुब्धश्चेदेको न साक्षीअलुब्धस्त्वेकोऽपि पुमान् साक्षीति

जीमूतवाहनेनैवं व्याख्यातम्। तत्रलुब्धानां बहूनामप्यसाक्षित्वे एकपदवैयर्थ्य मिति व्यवहारतत्वे दूषणमुक्तं तदप्युत्तरवाक्यशेषत्वादस्य न सम्यगिति द्रष्टव्यम्। शुच्यइति ङीप्छान्दसो गुणवचनादुकारान्तादेव वोतो गुणवचनादिति तद्विधानात् कृदिकारादक्तिन इति वा समर्थनीयम्। अन्येऽपि स्त्रीव्यतिरिक्ता अपि रागद्वेषादिदोषो ये वृता आक्रान्तचित्तास्तोऽपि न साक्षिणः। यद्यपि केच नष्टा असाक्षितया पृथगप्युक्ता स्तथापि सर्वेषां पृष्टाकोटेन वक्तुमशक्यतया ऽनुक्ततत् सङ्ग्रहार्थमिदमुक्तम्। अतएव मेधातिथिः। सामान्यविशेषाभिधान हि सर्वे ग्रन्थकारा अमन्यन्त इत्याह।

मनुरेव। नार्थसम्बन्धिनो नाप्ता न सहाया न वैरिणः।
न दृष्टशेषाः कर्त्तव्या न व्याध्यार्त्ता न दूषिताः॥
न साक्षीनृपतिः कार्य्योन कारुक कुशीलवौ।
न श्रोत्रियो न लिङ्गस्थोन सङ्गेभ्यो विनिर्गतः।
अध्यधीनो न वक्तव्यो न दस्यु र्नविकर्मकृत्।
न वृद्धो न शिशु र्नैको नाप्तो न विकलेन्द्रियः॥
नार्त्तोन मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः।
न श्रमार्त्तोन कामार्त्तो न क्रुद्धोनाति तस्कर इति॥

अत्रसर्वैर्विशेषणैरसत्यसम्भावना विस्मरणादिकमसाक्ष्यनिमित्तमुपलक्ष्यते। अतएव वृद्धविकलेन्द्रिय विकर्म्मकृत्तस्करादीनां गोवृषन्यायेन पुनरुपादानं अत्र बहवः शब्दाः स्पष्टार्थाः। अन्ये मेधातिथ्यनुसारेण विव्रियन्ते। अर्थ सम्बन्धिन उत्तमर्णाधमर्याद्याः उत्तमर्णोह्यधमर्णवचनेन पराजीयमान स्तदानीमेव रोषाविष्टोऽधमर्णादृणं प्रत्यादातुं प्रयतत

इति तच्चित्तानुवृत्तिरधमर्णस्य तदनुगुणकौटसाक्ष्यहेतुत्वेन संभाव्यते। उत्तमर्णो निर्धनो ऽधमर्णेस्वसाक्षितया धनं प्राप्य स्वस्मैतदर्पयिष्यतीति बुद्ध्यातदनुगुणवादी सम्भाव्यते। तथार्थः प्रयोजनन्तत् सम्बन्धिनो र्वादिप्रतिवादिनोरन्यतरस्याद्येषां स्वप्रयोजनं सिसाधयिषितन्तेऽ प्युपकारगन्वान्नसाक्ष्यार्हाइत्यादि सर्वत्र कौटसाक्ष्यसम्भावनोन्नया दृष्टदोषा अन्यत्रकृतकौटसाक्ष्याः। व्याध्यार्त्ता वचन विसंबादापादक व्याधिपीडावन्तः। दूषिता अभिशस्ताः। नृपतेरसाक्षित्वं कृताभिप्रायेणातो न प्राक्तन नारदोक्ति विरोधःलिङ्गस्थोऽपत्यादिः। सङ्गेभ्यो विनिर्गतः परित्यक्तः पित्रादिगुरुजनसंसर्गात् वृद्धानुपसेव्य नादस्याऽसत्यसम्भावना। अध्यधीनो बन्धकीकृतः तस्य तदाज्ञावशवर्त्तित्वात्। वक्तव्यो निन्दास्पदम् विकर्मकृत् अधर्म्माम्भीरुः। वृद्धविकलेन्द्रिययो र्वार्द्धकस्वभावहेतुकेन्द्रियवैकल्येन भेदः। आर्त्तःशोकेन।

नारदोऽपि।दास नैः कृतिकाश्राद्धवृद्धस्त्रीबालचाक्रिकाः।

मत्तोन्मत्तप्रमत्तार्त्त कितवग्रामयाजकः॥
महापथिक सामुद्रवणिक् प्रब्रजितातुराः।
व्यङ्गैक श्रोत्रियाचार हीनक्लीवकुशीलवाः॥
नास्तिक व्रात्यदाराग्नित्यागिनो याज्ययाजका।
एकस्थाली सहायारिचर ज्ञातिसनाभयः॥
प्रागृष्टदोपशैलूषविषजीव्यहितुण्डिकाः।
गरदाग्निदकीनाथ शूद्रापुत्त्रोपपातितः॥
क्लान्तसाहसिकाश्रान्त निर्द्धूतान्यावरनः।

भिन्नवृत्तासमावृत्तजडतैलिकमूलिकाः।

भूताविष्ट नृपद्विष्ट वर्षनक्षत्र सूचकाः।
अघशस्यात्मविक्रेतृहीनाङ्ग भगवृत्तयः॥
कुनखिश्यावदन् श्वित्रिमित्रध्रुक् शठशौण्डिकाः।
ऐन्द्रजालिक लुब्धोग्र श्रेणीगण विरोधिनः॥
बधकृच्चित्रकृत्शङ्खः पतितःकूटकारकः।
कुहकःप्रत्यर्वसित स्तस्करो राजपूरुषः॥
मनुष्यपशुमांसास्थि मधुक्षीराम्बुमर्पिषाम्।
विक्रेता ब्राह्मणश्चैव द्विजो वार्द्धुषिकश्च यः।
च्युतः स्वधर्म्मात्कुलिकः सूचको हीनसेवकः॥
पित्रा विवदमानश्च भेदकृच्चेत्यसाक्षिणः।
श्रेण्यादिषु तु वर्गेषु कश्चिच्चेद्द्वेष्यतामियात्॥
तस्य तेभ्यो न साक्ष्यंस्याद्द्वेष्टारः सर्व एव ते॥

नैःकृतिकःपरामकारशीलः। चाक्रिकस्तैलिकः। प्रमत्तः मदाऽनवहितः महापथिकोमहापथगामी। सामुद्रवणिग्वहित्र वाही एकःश्रीत्रियो द्वयोरनुमतः। एकः श्रोत्रिय इति पृथग्वा प्रायश्चोक्तं च प्रागेव तत्। अपरार्केण तु युग्मैकेति पठित्वा युग्मौ द्वाविति व्याख्यातम्। एकस्थाली सहाय एकपाकभोजीति। सहाय्यन्यतरसाहाय्यकारी मिश्रचण्डेश्वरौ। मदनरत्नाकरस्तु। एकस्थाली सहाय इति विशेषणद्वयं पृथक्कृत्य एकस्थाली स्थाल्यधिकरणकःपाकोलक्ष्यते। स एको यस्येत्येकस्थालीति व्याचख्यौ। समासान्तविधेरनित्यत्वादेकस्थालीत्यत्रनदृतश्चेति न कप्। अर्द्धपिप्पलीत्यादिवन्नह्रस्वइति च समादधे। अरिचरः भूतपूर्वः शत्रुः। भूतपूर्वे चरट्। कल्पतरौ त्वरिधर इति पठित्वा

शास्त्रधर इति व्याख्यातम्। ज्ञातयः सगोत्राःसनाभयो मातुलतत्सुतमातृष्वस्त्रीयादयः। शैलूषः स्त्रीणां नर्तयिता। कुशीलवस्तुरङ्गोपजीवी नट इति भेदः। विषजीवी विषक्रयजीवीति मदनरत्ने। विषवैद्य इति जीवी रत्नाकरे। अहितुण्डिकः। सर्पक्रीड़ोपजीवी व्यालग्राही। कीनाशः कर्कशःक्षुद्रो वा। कृपण इति तु मदनरत्ने। उपपातित उपपातकीति कल्पतरुः। मदनरत्नेतूपपातक इति पठितम्। उप समीपम्पातकं यस्येति विगृह्यपातकयुक्त इति व्याख्यातञ्च। क्लान्तोऽतिखिन्नः अश्रान्तोऽनवरतकर्मकारीति मदनरत्ने। अशान्त इति पठित्वाऽयोग्यकर्मकारीति रत्नाकरे। निर्द्धूतो बान्धवैस्त्यक्त इति मदनरत्ने। ग्रामराजकुलश्रेण्यादिभिर्न्निःसारित इति रत्नाकरे। लोकभयशून्य इति भवदेवः। मूलं विप्रलम्भस्तत्कारीति कल्पतरुः। मूलकर्म त कार्मणमित्यमरकोशात्तत्कारीति तु युक्तम्। अपरार्केण तु पौषिक इति पठित्वा पौपिकपूपादिविक्रयीति व्याकृतम्। वर्षसूचको वृष्टीशकुनवेदी। नक्षत्रसूचको ज्यौतिषिकः। अघशसी परकीयपापप्रकाशकः। हीनाङ्ग उचितपरिमाणाति न्यूनाङ्गः। व्यङ्गस्तुछिन्नाङ्गुल्यादिरिति भेदः। भगवृत्तिर्भार्य्यादास्यादिसम्भोगशुल्कोपजीवी शङ्खःवृषभनर्त्तनजीवीति मदनरत्नरत्नाकरयोः। कुहको दाम्भिकः। प्रत्यवसितः प्रवज्यादिच्युतः। कुलिको राज्ञाव्यवहारपरिच्छेदकतया नियुक्तः। अस्य च साक्षित्वकरणे निषेधो विधिस्त्वकृतसाक्ष्य इति कल्पतरुः। मदनरत्ने तु कुलं ब्राह्मणादिगणास्तधिकारी कुलिक इति व्याख्यातम्।

सूचको राहा परदोषान्वेषणपूर्वकं स्वस्मैतन्त्रिवेदने नियुक्तः भेदकन्मित्रैदि प्रीतिभङ्गकर्ता। श्रेण्यादिष्वित्यस्यायमर्थः। येषु श्रेण्यादिषु यस्यैकापि द्वेष्यतां शत्रु तामाप्तस्तदीयविवादे तच्छेण्यादिनिविष्टाः सर्व एव न साक्षिणस्तत्रहेतुर्द्वाष्टारःसर्व न एवत इति। तच्छ्रेण्यान्तर्गतै कद्वेष्यनुरोधकृतवैरनिर्य्यातनार्थमन्यथा वादित्वतम्भवात्। अतश्व नारदः।

बालोऽज्ञानादसत्यात् स् त्रीपपाभ्यां स्याच्च कूटकृत्।
विब्रूयाद्वान्धवस्नैहाद्वैरनिर्य्यातनादरिरिति।

कात्यायनः। ततद्वृत्तिजीविनो ये च तत्सेवाहितकारिणः।

तद्बन्धु सुहृदो भृत्या आप्तास्ते तु न साचिणः।
मातृष्वसुः सुताश्चैव पित्तष्वसृसुतास्तथा।
मातुलस्य सुताश्चैव सोदर्य्यसुतमातुलाः॥
एते सनाभयः प्रोक्ताः साक्ष्यन्तेषु न योजयेत्।
कुल्याः सम्बन्धिनञ्चैव विवाह्यो भगिनीपतिः ॥
पिता बन्धु पितृव्यश्च श्वशुरो गुरवस्तथा॥

तथा वृहस्पतिः। मातुःपिता पितृव्यश्चभार्य्यावाभ्रातृमातुलौ।

भ्राता सखा चं जामाता सर्ववादेष्व साक्षिणः॥
परस्त्रीपानमक्तश्च कितवा : सर्वदूषकाः।
उन्मत्तार्त्ताः साहसिका नास्तिकाश्च न साक्षिण इति॥

अत्रमातृष्वस्त्रादिशब्दानां सम्बन्धिशब्दत्वार्थिनोरन्धतरस्य एतादृशसम्बन्धिनौन साक्षिण सम्बन्धिनि स्रेहादन्यत्र वैरसम्भवादिति ध्येयम्। शङ्खलिखितौ। शुल्कगुल्माधिकृतौ दूतो बेष्टितशिराः स्त्रियोगुरुकुलवासिनः परिव्राजकबाणप्रस्थनिर्ग्रन्थाःशङ्खाव्यालग्राहिण इति अत्रा ऽसाक्षिण इति प्रकृतं

शुल्काधिकृतः शुल्कग्रहणस्थानाधिकारी गुल्मःस्वस्थाननिवेशितःपदाति समूहस्तदधिकृतः वेष्टितशिराः उद्धतवेषोमूर्द्धव्याध्यभिभूतो वा इतरे प्रसिद्धा व्याख्याततराश्च। अनेन प्रपञ्चेन लोभादिकमसाक्षित्वनिमित्तमेव व्यक्तीकृतम्।

यथाह मनुः। लोभान्मोहाद्मयात्क्रोधान्मैत्र्यात्कामात्तथैव च।

अज्ञानाद्बालभावाच्च साक्षी वितथउच्चत इति॥
असाक्षित्वेनोक्तानां क्वचित्प्रतिप्रसवमाहनारदः।
असाक्षिणोये निर्दष्टादासनैष्कृतिकादयः।
कार्य्यगौरवमासाद्य भवेयुस्तेऽपि साक्षिणः॥
स्त्रियाप्यसम्भवे कार्य्यं बालेन स्थविरेणवा।
शिष्येण बन्धुना वापि दासेन भृतकेन वा॥

मनुरप्येवमेव द्वितीयं वचनं पठितवान्। इदञ्चाऽसत्यवादित्वनिश्चयाभावे साक्ष्यन्तरस्य तद्गुणविशिष्टस्यासम्भवे बोध्यम्। स्त्रीसंग्रहणादिषु योगीश्वरः।

सर्वःसाक्षी संग्रहणे चौर्य पारुष्य साहसे।

अत्र च मनुष्यमारणञ्चौर्य्यंपरदाराभिमर्शनम्। पारुष्यमुभयञ्चेति साहसं स्याच्चतुर्विधमिति वचनात् स्त्रीसंग्रहदीनां सत्यपि साहसत्वे बलानवष्टम्भेन क्रियमाणानान्तेषामसाहसत्वात् तत्सङ्ग्रहार्थन्ततः पृथगुपादानम्। उशनाः।

दासोऽन्धोबधिरः कुष्ठी स्त्री बालः स्थविरादयः।
एतेऽप्यनभिसम्बन्धाः साहसे साक्षिणो मताः॥

अनभिसम्बन्धा विवादगोचरीभूतार्थाऽसम्बन्धिनः। अपक्षपातिन इति मदनरत्ने।

मनुनारदौ। साहसेषु च सर्वेषु स्तेयसङ्ग्रहणेषु च।

वाग्दण्डयोश्च पारुष्ये न परीक्ष्येत साक्षिणः।

मनुः। अनुभावीति यः कश्चित्कुर्यात्साक्ष्यविवादिनाम्।

अन्तर्वेश्मन्यरण्ये वा शरीरस्यापि वात्यये॥

अनुभावी तदर्थानुभवशीलः। यत्तु।

ऋणादिषु परीक्ष्येत साक्षिणः स्थिरकर्मसु।

साहसात्ययिके चापि परीक्षा कुत्रचित्स्मृतेति।

परीक्षाभिधानन्तस्य सष्टाऽसत्यवादिदोषविषयमत एव कुत्रचिदित्युक्तम्। अस्मिंश्च प्रघट्टके प्रकटदोषानभिषङ्गेक्वचित्कविसम्बादादि- दोषपुरस्कारेण सहसादिसाक्षिता न कथा करणीयेत्यत्र तात्पर्य्यम्। अतएव विज्ञान योगिनोक्तम्। दोषादमाक्षिणो भेदादसाक्षिणःस्वयमुक्तिश्चात्रापि न साक्षिणोभवति सत्याभावादिति हेतोरनपगमादिति। अपरार्कोऽपि सर्वो न तु गुणवानेवेत्यर्थः। दोषवां स्तत्रापि परिहरणीय एव। वक्तृदोषाणां वचनप्रामाण्यहेतुत्वादित्याह। तस्यापि सर्व दोषाभावेन तात्पर्य्यंप्रतिप्रसवानुपपत्तेः। यत्तु केनचिदुक्तं साक्षिगुणदोषप्रतिप्रसवा यथाश्रुता एव ग्राह्या अन्यथा तत्रतत्रतत्तद्विशेषणोपादानमनर्थकमुपलक्षणं वा प्रमज्येतेति। तद्वालिस्यम्। न्यायमूलकत्वान्तेषान्तदविरोधेनैव नेयत्वात्। अतएव न्यूनाधिकविशेषणोपादानमविरुद्धम्। अदृष्टार्थत्वेतद्वोरोधोदुष्परिहरः स्यात्। एवमन्यतरेणसाक्षिषूपन्यस्तेषु सत्सुतद्दोषेष्वपरस्तामुपन्य- स्तेऽसदुद्भावने दण्ड इत्याह।

वृहस्पतिः। साक्षिणोऽर्थी समुद्दिष्टान् सत्सु दोषेषु दूषयेत्।

अदृष्टान् दूषयन्वादी तत्समं दण्डमर्हति॥

तत्समंविवादविषयसममिति बहवस्तदर्था विषयविवादेष्वव्यापकमिति तत्समं कूटसाक्षिटण्डसममिति व्याख्येयम्। साक्षिदूषणेऽन्यतरेणोद्भाविते प्रत्यक्षेषु बाल्यादिदूषणेषु तेनैव निर्णयः। अयोग्येषु लोकप्रसिध्यादिना न साक्ष्यन्तरेण अनवस्थापत्तेः। तथा च व्यासः।

सभामदां प्रसिद्धं यल्लोकसिद्धमथापि वा।
साक्षिणां दूषणं ग्राह्यमसाध्यं दोषवर्जनात्॥
अन्यैस्तुसाक्षिभिः साध्येदृणे पूर्वमसाक्षिणाम्।
अनवस्था भवेद्दोषस्तेषामप्यन्यसम्भवादिति॥

असाध्यं लोकादि सिद्धत्वात्साधनार्हंयत इति हेतुगर्भमिति। दोषवर्जनादनवस्थादोषाभावादित्यर्थः। यद्यपि लोकसभ्यप्रसिद्धिरपि साक्षिप्रसिद्धिरेव पर्य्यवस्यति। तथापि तत्र साक्षित्वोद्भावनानपेक्षत्वान्नानवस्था। अतएवाति गूढवादिमात्रविदितदूषणं साधनमन्यतरेणालौकि- कप्रमाणेन क्रियमाणं न दुष्यतीत्यभिप्रायः। न च साक्षिदूषणविभावनं व्यवहारात्तरत्वादयुक्तमिति वाच्यम्। प्रकृतोपयोगित्वेनार्थान्तरत्वा- नापत्तेः। कात्यायनःस्फुटमेतदेवाह।

प्रत्यर्थिनार्थिनावापि साक्षिदूषणसाधने।
प्रस्तुतार्थोपयोगित्वाद्यवहारान्तरं नचेति॥

अविद्यमानदोषोद्भावनेऽर्थिप्रत्यर्थिनो र्वैकल्पिकौ हानि दण्डौअन्यतराज्ञाता राज्ञा सभ्यैरेव वा ज्ञाताः साक्षिदोषास्तदा तैरेव साक्षित्वेनोपादेया इति। स एवाह।

नातथ्येन प्रमाणन्तु दोषेणैव तु दूषयेत्।
मिथ्याभियोगे दण्ड्यःस्यात्साध्यार्थाद्वापि हीयते॥
प्रमाणस्य हि ये दोषा वक्तव्यास्तेविवादिना।
गूढास्तुप्रकटाः सभ्यैः काले शास्त्रप्रदर्शनादिति॥

ये गूढाः प्रत्यर्थिना नज्ञातास्तेकाले साक्षिवादात्पूर्वकाले कार्य्यइति शेषः। शास्त्रप्रदर्शनात्। दुष्टानां शास्त्रेसाक्षित्वेनानुपादेयत्वदर्शनात्। छलं निरस्येति च छल निरासस्यावश्यकत्वादिति तात्पर्य्यार्थः। साक्षिभिरुक्ते शास्त्रेदोषोभावनन्तेषां न कार्य्यमित्याह।

वृहस्पतिः। लेख्यदोषास्तु ये केचित्साक्षिणाञ्चैव ये स्मृताः।

वादकाले तु वक्तव्याः पञ्चादुक्तान्नदूषयेत्॥

न दूषयेद्दोषत्वेन नोपादद्यात्ससभ्यो राजेत्यर्थात्। पञ्चादुक्तौ दण्डमथाह।

कात्यायनः। उक्तेऽर्थेसाक्षिणो यस्तुदूषयेत्प्रागदूषितान्।

न च तत्कारणं ब्रूयात् प्राप्नुयात्पूर्वसाहसम्॥

तच्च दण्डनिरूपणप्रस्तावे विवेचयिष्यामः। अन्यतरोद्भाविता दोषाः स्वीयास्तैरेव यः साक्षाद्भावयिता तत्राह विष्णुः।

लेख्यं वा साक्षिणो वापि विवादे यस्य दूषिताः।
तस्य कार्य्यंन सिध्येत यावत्तन्नविशोधयेत्॥

पत्रेऽभिलिखितान् सर्वान् दोषान् प्रतीते साक्षिणम् उतरं परिहारं वाच्याः। वाच्यनीया इति पूर्ववचनार्थः। यस्य साक्षिणोलेख्यं वा यदुद्भावितं परेण दूषितं स यावत्तन्नविशोधयेन्तद्दोषरहितन्नकुर्य्यात्तावत्तत्र प्रमाणाभासत्वसाक्षीवनपातेन प्रमाणेन तस्य तत्कार्य्यंन सिद्धेद्यदिति द्वितीयवचनार्थः।

इदञ्चसभाक्षोभादिना साक्षिणांस्वदोषपरिहाराक्षमतायां द्रष्टव्यम्। तदिति लेख्यञ्च साक्षिणश्चेति द्वन्द्वेनपुंसकमनपुंसकेनैक- वच्चतस्यान्यतरस्यामिति नपुंसकैकवद्भावौ। अन्यतरः साक्षिदोषमुद्भाव्य यदि तं भावयितु न्नशक्नोति तदा स दण्डाः। साधिते तु दोषे त्याज्याः। अर्थापि प्रमाणान्तरमनुपन्यस्यन् पराजीयत इत्येतदाह व्यासः।

असाधयन्दमन्दाप्यो दूषणं साक्षिणंस्फुटम्।
भाविते साक्षिणोवर्ज्याः साक्षिधर्मनिराकृताः॥
जितः सविनयन्दाप्यः शास्त्रदृष्टेन कर्मणा।
यदि वादी निराकाङ्क्षः साक्षिसत्वेव्यवस्थित इति॥

विनयं दण्डं स वादी। मदनरत्ने तु सविनयं विनयः शिक्षा तत्सहितं यथा तथा दाप्यो विवादविषयीभूतधनमिति शेष इति व्याख्यातं तज्जित इत्यनेनैव साधितधनदानस्थार्थसिद्धत्वेन निरर्थाकाध्याहारदोषापत्तेः क्लिष्टत्वाच्चोपेक्ष्यम्। यस्तुविवादविषयीभूतार्थानभिज्ञान् विपरीताभिज्ञान्वा भयलोभादिप्रदर्शनेन स्वानुकूलं वादयति। तस्य दण्डमाह।

कात्यायनः। येन कार्य्यस्यलोभेन निर्दिष्टाःकूटसाक्षिणः।

गृहीत्वा तस्य सर्वस्वं कुर्य्यान्निर्विषयन्तत इति॥

सर्वस्वमिति गुरुलघ्वपराधानुसारेण दण्डतारतम्योपलक्षणम्। निर्विषयंविवादविषयीभूतार्थशून्यम्। ततः कूटसाक्ष्यप्रकरणात्। साक्षि दोषानुद्भावनेऽपि ससभ्येन सभापतिनेवैते परीक्षोपादेयाः। तथाच कात्यायनः।

उपस्थितान् परीक्ष्येत साक्षिणो नृपतिः स्वयम्।

बृहस्पतिरपि। उपस्थिताः परीक्ष्यास्युः स्वरवर्णेऽङ्गि-

तादिभिरिति। स्वरवर्णेऽङ्गितानि मनुयोगीश्वरोक्तानि हीननिरूपणविवृत्तानि। नारदोऽप्याह।

यस्त्वात्मदोषदुष्टत्वादस्वस्थ इव तक्षते।
स्थानात् स्थानान्तरं गच्छेद्रेकैकञ्चानुधावति॥
काशत्यकस्माच्च भृशमभीक्ष्णन्निश्वसत्यपि।
विलिखत्यवनीं पद्याम्बाहू वासश्च धूनयेत्॥
भिद्यते मुखवर्णोऽस्य ललाटं स्विद्यते तथा।
शोषमागच्छतश्चोष्ठादूर्द्ध्वं तिर्य्यङ्गरीक्ष्यते॥
त्वरमाण इवाबद्धमवृष्टो बहु भाषते।
कूटसाक्षी स विज्ञेयस्तं पापं विनयेद्भृशम्॥

अबद्धमसम्बद्धम्। विनयेच्छिक्षयेद्यथा कौटसाक्ष्याद्विभेतीत्यर्थः। न तु दण्डयेदित्यर्थः। प्राकृति वैदिकविकारविवेकस्य दुःखशक्यत्वात्। सम्भावनामात्रेण च दण्डनस्यान्याय्यत्वादिति उक्तम्। मदनरत्ने त्वाविद्धमिति पठित्वा कुलमिति व्याख्यातम्। शङ्खलिखतावपि मन्त्रिभिः शास्त्रसामर्थ्यादुष्टलक्षणं ग्राह्यन्तिर्यक्प्रेक्षते समन्तादेवावलोकयति। अकस्मान्मूत्रंपुरीषं विसृजति देशाद्देशङ्गच्छति पाणिना पाणिं पीडयति नखान्निकृन्तति मुखमस्य विवर्णतामेति प्रस्विद्यति चास्य ललाटन्न चक्षुर्न्नच वाचं प्रतिपूजयत्यकस्माद्ददाति प्रशंसति पुनः पुनरन्यमपवदति बहिर्निरीक्षते शस्त्रं परामृशति शिरः प्रकम्पत्योष्ठौ निर्भुजति सृक्वणी परिलेटि अति विस्मितः कर्म्मस्वमहत्स्वपि भुवौ संहरति तुष्णींध्यायति पूर्वोत्तरविरुद्धं व्याहरति एव मादिदुष्टलक्षणं क्रुद्धस्य च स्वामिनोऽन्यत्र प्रकृतिशीलादिति। अकस्मादिति तूष्णीमिति

च यथा योगमनेकत्र सम्बन्धनीयम्। अन्यत्र प्रकृतिशीलादिति। प्रकृत्या स्वभावान्नशीलन्तिर्यक् प्रेक्षणादिधर्म्मोयस्य स तथोक्तस्ततोऽन्यत्नैतानि दुष्टकुद्धलक्षणानि एते अवान्तरबैलक्षण्यस्य दुर्ज्ञेयत्वादित्यवधानेन परीक्ष्यवस्तु तत्त्वानुसरणङ्करणीयमिति सूचितम्। एवं गुणवत्तया दोषाभाववत्तया च परीक्षितान् साक्षिणो विवादास्पदीभूतमर्थं पृच्छेदित्याह।

कात्यायनः। देवब्राह्मणसान्निध्ये साक्ष्यंपृच्छेदृते द्विजान्।

उदङ्मुखान् प्राङ्मुखान् वा पूर्वाह्णेवा शुचिः शुचीन्।
सभान्तः साक्षिणः प्राप्तानर्थिप्रत्यर्थिसन्निधौ।
प्राड्विवाके नियुञ्जीत विधिनानेन सान्त्वयन्॥
यद्वयोरनयोर्वेत्थंकार्य्येऽस्मिंश्चेष्टितं मिथः।
तद्ब्रूत सर्वं सत्येन युष्माकं ह्यत्रसाक्षिता।

अर्थि प्रत्यर्थि सन्निधिवद्गवाश्वादिगोवरविवादेषु केषु चित्तत् सान्निध्यमपेक्षितव्यमित्यप्याह। सएव।

अर्थप्रन्यर्थिसान्निध्येसाध्यार्थस्य च सन्निधौ।
प्रत्यक्षं वादयेत्साक्ष्यंन परोक्षे कथञ्चन॥
अर्थस्योपरि कर्त्तव्यन्तयोरपि विना क्वचित्।
चतुष्पादेषु धर्म्मोऽयं द्विपादस्थावरेषु च॥
तौल्यङ्गंणिम मानार्हमभावेऽपि हि वादयेत्।
क्रियाकारकेषु सर्वेषु साक्षित्वं न त्वतोऽन्यथा॥

तयोर्वादिनोर्विनापीति सम्बन्धमात्र विवक्षया षष्ठी अपि शब्दात् कैमुतिकन्यायेन तदुभयसन्निधानेन तात्पर्य्यम्। किन्तु साध्यार्थसान्निध्यावश्यकतायाम्। यद्वोभयासन्निधिप्रत्यर्थ्यसान्निध्यानुमात्यर्थः। तेन कथञ्चित्प्रत्यर्थ्यंसन्निधानेऽपि साक्षि

प्रश्नेन दोष। क्वचिदित्यस्यैव विवरणं चतुष्पादेष्वित्यादि। तौल्यन्तोलनार्हंसुवर्णादि। गणिमङ्गणनार्हंवराटकादिमेयं मानार्हं गोधूमादि अभावेऽपि साध्यार्थ्यसानिध्यभावेऽपि क्रियाकारक व्यवहारास्तेषु बधरूप विवादपदे साक्षिणःशिवलिङ्गप्रतिमादिसन्निधाने प्रष्टव्याइत्यथाह। सएव।

बधे च प्राणिनां साक्ष्यंवादयेच्छव सन्निधौ।
तदभावे तु चिह्नस्य नान्यथैव प्रवादयेत्॥

चिह्नस्य बधचिन्हस्याभियोज्यसम्बंधिनोऽभावे तत्साक्ष्यंवादयेत्। अन्यथा तत्सद्भावे नैव वादयेत्साक्ष्यंबधचिह्नेनैव निर्णय सम्भवादित्युत्तरार्थानुवादः॥ विधेयस्तु पूर्वार्द्धार्थः। स तुष्ट एव उपस्थापिताः साक्षिणोऽविलम्बेन इत्यप्युक्तन्तेनैव।

न कालहरणं कार्य्यंराज्ञां तिप्रभाषणे।
महान्दोषो भवेत्कालाद्धर्मव्यावृत्तिलक्षणः॥

ते च साक्षिणः शपथैः पूर्वकं प्रष्टव्या इत्याहनारदः।

आहूय साक्षिणः पृच्छेन्नियम्यशपथैर्मृशम्।
समस्तान् विदिताचारान् विज्ञातार्थान् पृथक् पृथगिति॥

तच्च साक्ष्यंक्वचिद्विषये मिलितैर्वक्तव्यं क्वचित्प्रत्येकम्इत्याह। वशिष्ठः।

समवेतैस्तु यद्दृष्टं वक्तव्यन्तु तथैव तत्।
विभिन्नैरेव यत्कार्य्यंवक्तव्यं तत्पृथक् पृथक्॥
भिन्नकाले तुयत्कार्य्यं विज्ञातं यत्र साक्षिभिः।
एकैकं वादयेत् तत्र विधिरेषः प्रकीर्त्तितः।

यत्कार्य्यंदृष्टमनुषङ्गः। यत्तु गौतमेनोक्तम्। नासमवेताः

पृष्टाः प्रब्रूयुरिति तदपि वशिष्टोक्तिसमवेताक्ष्यविषयम्। हरदत्तस्तुनासमवेताः पृष्टाःप्रब्रूयुरिति पाठन्धृत्वासमवेता अपृष्टाश्च न ब्रूयुरिति व्याचख्यौपूर्वपाठस्तुमिताक्षरपाठधृते सम्यगिति। धर्म्मोपवृद्धितैरधर्म्मोगर्हावचनैस्तेऽनृतभाषणाद्भीषणीया इत्याह। नारदः।

पौराणैर्धर्मवचनैः सत्यमाहात्मकीर्त्तनः।
अनृतस्यापवादैश्च भृशमुत्त्रासयेदपि॥

शपथे च विशेषो दर्शितो मनुना।

सत्येन शापयेद्विप्रंक्षत्रियं वाहनायुधैः।
गोवीजकाञ्चनैर्वेश्यंशुद्रं सर्वैस्तु पातकैरिति॥

अन्यथा ब्रुवतस्तेन सत्यं नङ्क्ष्यतीति ब्राह्मणे शपथो देयः। क्षत्रिये वाहनायुधानि ते विफलतामेष्यन्तीति। वैश्येगोवीजकाञ्चनानि त्रवापचयमुपयास्यन्तीति। शूद्रेऽन्यथा वादिनस्तव सर्वाणि पातकानि भविष्यन्तीत्यर्थः। ब्राह्मणविशेषस्यापवादं स एवाह।

गोरक्षकान्वाणिज्यकां स्तथा कारुकुशीलवान्।
प्रेष्याव्रार्द्धषिकांश्चैव विप्रान् शूद्रवदाचरेत्॥

इति विप्रग्रहणं क्षत्रियवैश्ययोरपि तद्वृत्तिजीविनामुपाधेस्तुल्यत्वात्। विशेषान्तरानुक्तेश्च साक्षिणां श्रावणं विधाय श्रवणीयमाः याज्ञवल्क्यः।

साक्षिणः श्रावयेद्वादी प्रतिवादी समीपगाम्।
ये पातककृताल्लोका महापातकिनांतथा॥
अग्निदानाञ्च ये लोका येच स्त्री बालघातिनाम्।
स तान् सर्वानवाप्नोति यः साक्ष्यमनृतं वदेत्॥

सुकृतं यत्त्वयाकिञ्चिज्जन्मान्तरशतैः कृतम्।
तत्सर्वन्तस्य जानीहि यम्पगजयमेमृषा॥

शूद्रं सर्वैस्तु पातकैरिति मानवसंवादात् पातकश्रावणं शुद्रविषयकमिति मिताक्षराकारपरार्क्वौ। शपथदान श्रवण विधिभेदान्मानवे च शपथदान एव तन्नियमादस्य सर्वविषयतान्तु युक्तामुन्नयामः। मनुरपि। तत्र प्रसिद्धिवाकोऽनुयुञ्जीतेत्यादिसार्द्धश्लोकःकात्यानीयः पूर्वलिखित एव।

सत्यं साक्ष्येब्रुवन् साक्षीलोकानाप्नोति पुष्कलान्।
इह चानुत्तमां कीर्त्तिंवागेषा ब्रह्मपूजिता॥
साक्ष्येऽनृतं वदन् साक्षी पाशैर्वध्येत वारुणैः।
विवशःशतमाजातीस्तस्मात् साक्ष्येवदेदृतम्॥
सत्येन पूयते साक्षी धर्मःसत्येन वर्द्धते।
तस्मात् सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः॥
आत्मैवह्यात्मनःसाक्षीगतिरात्मा तथात्मनः।
मावमंस्थाः स्वमात्मानं नृणां साक्षित्वमुत्तमम्॥
मन्यन्ते वै पापकृतो न कश्चित्पश्यतीति नः।
तांस्तुदेवाः प्रपश्यन्ति स्वञ्चैवान्तरपूरुषः॥
द्यौर्भूमिरापोहृदयं चन्द्रार्काग्नियमानिलाः।
रात्रिः सन्ध्ये च धर्मश्च वृत्तज्ञाःसर्वदेहिनाम्॥

अजातीरजननानि जन्मानीतियावत्।

वृहतिस्पतिरपि। आजन्मनश्चामरणात् सुकृतंयदुपार्जितम्।

तत् सर्वं नाशमायाति अनृतस्य तु शंसनात्॥

वशिष्ठोऽपि। अथचेदनृतं ब्रूयात् सर्वतो मिथ्यलक्षणम्॥

मृतो नरकमायाति तिर्य्यग्गच्छत्य संशयम्।

शूकरो दशवर्षाणि दशवर्षाणि गर्दभः॥
श्वा चैव दशवर्षाणि भासोवानिजविशतिम्।
कृमिकीटपतङ्गेषु चत्वारिंशत्तथैव च॥
मृगस्तुदशवर्षाणि जायते मानव स्वतः।
मानुष्यन्तु यदाप्नोति मूकोऽन्धस्तु भवेद्धि सः॥
पामरो जायते पश्चात्सपरित्यक्तबान्धवः।
पड्वन्धबधिरो मूकः कुष्ठी नग्मः पिपासितः॥
बुभुक्षितःशत्रु गृहेभिक्षते भार्यया सह।
ज्ञात्वैताननृते दोषान् क्षान्त्वासत्ये च सद्गुणान्॥
श्रेयस्करमिहान्यत्रसत्यं साक्ष्येवदेदतः।

वौधायनः। त्रीनेवच पितृन् हन्ति त्रीनेव प्रपितामहान्॥

सप्तजातानजातांश्च साक्षीसाक्ष्यमृषा ब्रुवन्।

मनुनारदौ। यावतो बान्धवानस्मिन् हन्ति साक्ष्येऽनृतं वदन्।

तावतः संख्यया तस्मिन् शृणु सौम्यानुपूर्वशः।
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते॥
शतमश्वानृते हन्ति सहस्त्र पुरुषानृते।
हन्ति जातान जातांश्च हिरण्यार्थेऽनृतं वदन्॥
सर्वम्भूम्यनृतेहन्ति मास्मभूम्यनृतवदेः।
अप्सु भूमिवदित्याहुःस्त्रीणां भोगेऽथ मैथुने॥
अब्जेषु चैव रत्नेषु सर्वेष्वश्ममयेषु च।
पशुवत्क्षौद्रघृतयोर्य्यानेषु च तथा प्नुयात्॥
गोवद्रजतवस्त्रेषु धान्ये ब्रह्मणि चैव हि॥
एतान्दोषा नवेक्ष्यत्वं सर्वाननृतभाषणे।
यथा श्रुतं यथा दृष्टं सत्यमेवाञ्जसा वदेत्॥

अजेषु रत्नेषु मुक्ताफलादिषु। ब्रह्मणि वेदे। अत्रहरदत्तेन क्षुद्रपश्वनृतेदश हन्तिगोऽश्वपुरुष भूमिषु दशगुणोत्तरामिति गौतमवचनव्याख्याने मनुवचः। पञ्च पश्वनृते हन्ति इत्याद्युपन्यस्य पञ्चसंख्याहननदोषोत्पन्न शूद्रपशुविषय इति गौतमवचोविरोधम्परिहृत्य यद्विषयमनृत साक्ष्यंदत्त तत्तत्प्राणिनां दशादिसंख्यकानां हनने यो दोषस्तमाप्नोति। भूम्यनृते तु यदीया भूमिस्तज्जातीय लक्षहनन दोषः। सर्वप्राणिहनन दोषो वेति व्याख्यातं तत्तु यावतो बान्धवानिति मानवोपक्रमानां लोचननिबन्धनमित्यपेक्ष्यम्। तस्मात् साक्षिसम्बन्धि पित्रादिगतसंख्यापरतयैव व्याख्यानं सूचितम्। गौतमीयमपि मानवसम्बादेनैव व्याख्येयमेकमूलकल्पनालाघवाय। त्रीनेवच पितॄन् हन्तीत्यादि बौधायनादिवचनसंवादोऽप्येवम्। भूयस्तु जानन्नपि दौरात्म्यात् साक्षित्वमेव नाङ्गीकुरुतेतम्प्रत्याह।

योगीश्वरः। न ददातीह यः साक्ष्यं जानन्नपि नराधमः।

सकूटसाक्षिणाम्पापै स्तुल्यो दण्डेन चैव हि॥

पृष्टाः साक्षिणो येन विधिना ब्रुयुस्तमाह,

वृहस्पतिः। विहायोपानदुष्णीषं दक्षिणम्पाणिमुद्धरन्॥

हिरण्यगोमकृद्दर्भान् समादाय नृतम्वदेत्।

साक्ष्यभिहितस्य वचनस्य परीक्षाविधानमप्याह॥

वृहस्पतिः। देशकालावयोजाति संज्ञाद्रव्यप्रमाणतः।

अन्यूनञ्चेन्निगदितं सिध्यं साध्यं विनिर्दिशेत्॥

तत्र नारदः। निर्दिष्टेष्वर्थ जातेषु साक्षीचेत् साक्ष्यमागतः।

न ब्रूयादक्षरसमं न तन्निगदितम्भवेत्॥

देशकालवयोद्रव्य प्रमाणकृतिजातिषु।

यत्रविप्रतिपत्तिः स्यात् साक्ष्यंतदपि कुत्सितम्॥
ऊनप्यधिकं वापि प्रब्रूयुर्यत्र साक्षिणः।
तदप्यनुक्तं विज्ञेयमेष साक्ष्यविधिः स्मृत इति।

नचाधिकाभिधानमसम्भविवादिनः प्रतिवादिनो वा श्रुतेऽदृष्टेवानुभवमूलकसंस्काराभावेनास्मृततत्प्रतिपादनासम्भवादिति वाच्यम्। करणापाटवादिना श्रुतिदृष्ट्योरुभयोरपि सम्भवात्। अतएव भ्रान्तिमूलत्वेन प्रामाण्यात्। तदुक्तमप्यनुक्तमित्युक्तम्। नच तथाप्यूनाभिधाने कुत उक्तिःसाक्षि वचनात्तावतः सिद्धावेकदेशविभावितन्यायेनान्यांशस्यापि सिद्धेर्जयफलकतया न्यूनतोक्तेरदुष्टत्वादिति वाच्यम्। प्रतिज्ञात सकलसाध्यसाधकतयोद्दिष्टेषु न्यूनमभिहित वन्न्यूनतन्न्यग्यावसर इति प्रागावेदितत्वात्। साक्ष्यमन्नित्यश्रवणविधिना श्रावितश्चेन्नाभिधत्ते। तदा किं कर्त्तव्यमित्यत आह। प्रोक्षिते याज्ञवल्क्यआह।

अब्रुवन् हि नरः साक्ष्यमृणं सदशबन्धकम्।
राज्ञा सर्वप्रदाप्यः स्यात् षट्चत्वारिंशकेऽहनि।

सर्वंसमृद्धिकं सदशवन्धकं राजदेयदशमांशसहितम्।

राज्ञेदशमांशदानमृणादान प्रस्तावे वक्षाते॥

षट्चत्वारिंशकेऽहनि इत्यभिधानात्ततोऽर्वाग्नदाप्यः। तदपि व्याध्याद्युपद्रवराहित्ये।

यदाह मनुः। त्रिपक्षादब्रुवन् साक्ष्य मृणादिषु न रोगदः।

तदृणम्प्राप्नुयात् सर्वंदशबन्धश्चसर्वत इति॥

राजदैवोपद्रवविरहस्याप्युपलक्षणम्। साक्षिवचनाज्जयपराजय व्यवस्था स्पष्टमाह। योगीश्वरः।

यस्योचुः साक्षिणः सत्याम्प्रतिज्ञां स जयी भवेत्।
अन्यथा वादिनो यस्य ध्रुवन्तस्य पराजय इति॥

उत्तरार्धापवादमुखेन कूटसाक्षिण आह स एव।

उक्तेऽपि साक्षिभिः साक्ष्येयदन्ये गुणवत्तमाः।
द्विगुणावान्यथा ब्रूयुःकूटाः स्युः पूर्वसाक्षिण इति।

अन्यथा अन्यतरत्प्रतिज्ञातार्थविपरीतम्। यद्यप्यर्थिप्रत्यर्थिसभ्यसभापतिभिः परीक्षितैः साक्षिगुणलक्षितसाक्षिवचनानन्तरप्रमाणान्तरान्वेषण- मेवानर्हमनवस्थाप्रसङ्गात्। निर्णिक्तेव्यवहारेत्यादि प्रागुक्तनारदवचनविरोधाच्च। तयापि वादिप्रतिवाद्यन्यतरस्यस्वोक्तार्थान्तरात्मसाक्षितया तद्विसम्बादिवचनसाक्षिषु यदि दोषाध्यवसायस्तदाप्रमाणान्तरान्वेषणं वारयितु मशक्यमतएव तदा दिव्येनान्यतरेण स्वसाध्ये साधिते साक्षिणः कूटत्वेन दण्ड्यइति वक्ष्यते। अर्थविसम्बादिनि चक्षुरादौ स्पष्टदोषादर्शनेऽपि यथा तज्जनितज्ञानाप्रामाण्यमेव दोषकल्पकं तथाऽत्रापि।यथाहुः। यस्य च दुष्टंकरणं यत्र च मिथ्येति प्रत्ययः स एवासमीचीनःप्रत्यय इति। अतएव, साक्षिपरीक्षातिरेकेण तद्वाक्यपरीक्षोदेशोऽपि घटते।

साक्षिभिर्भाषितम्बाक्यं सह सभ्यैः परीक्षयेदिति।

कात्यायनोऽप्याह।

यदा शुद्धा क्रिया न्यायात्तदा तद्वाक्यशोधनम्।
शुद्धाच्च वाक्याद्यः शुद्धः शुद्धोऽर्थ इति सस्थितिरिति॥

कियासाक्षिरूपान् यत्रार्थिसम्बन्धिनो नाप्ता इत्याद्युक्तसाक्षिदोषराहित्यलक्षणाद् ग्राहिणःपुत्रिण इत्याद्युक्तसाक्षिगुणसाहित्यलक्षणाच्च न्याया द्यदा शुद्धा परीक्षिता भवति तदा तद्वा-

क्यस्य साक्षिवाक्यस्य शोधनङ्कार्यमिति शेषः। वाक्यशुद्धिश्चार्था विसम्बाद एव। सत्येन शुद्ध्यते वाक्यमिति स्मरणात्। एवं क्रियावाक्याभ्यामुभाभ्यां शुद्धाभ्यां सकाशाद्यः शुद्धः साधुरवगतोऽर्थः स शुद्धस्तात्विक इति स्थिति र्मर्य्यादा इति कात्यायनवचनार्थः। कारणदोषबाधकप्रत्ययप्रत्ययार्थे तथाभूत एवार्थ इति तात्पर्य्यम्। नारदवचनन्तु जयावधारणोत्तरन्नप्रमाणान्तरपरिग्रह इत्येतस्परं निर्णिक्तपदोपादानात्। ततः प्रागुक्तप्रमाणान्तराऽन्वेषणेन क्षतिरिति तत्तद्विरोधः। एवञ्च सति दत्तनिगदेभ्यः सोक्षिभ्योऽन्ये गुणवत्तमा द्विगुणा वा पूर्वनिर्दिष्टास्तदभावे पूर्वा निर्दिष्टा अपि साक्षिण एव वादिना वादनीया तद्दिव्यमप्यवलम्बनीयम्। सम्भवे साक्षिणां प्राज्ञो दैवकींवर्जयेत् क्रियामिति वचनात् यदा तु तदसम्भवस्तदादिव्यमप्यवलम्बनीयं सम्भव इति वचनात्। यदि दिव्येऽपि वादिनोऽपरितोष स्तदाप्रमाणान्तरस्या वाचनिकत्वात्सभ्यैः समापनीयो व्यवहारः। यदि तु वाद्युद्भावितसाक्षिभि स्तदनुगुणोऽभिहिते प्रत्यर्थिन एव स्व प्रत्ययविसम्वादेन तेषु दोषाध्यवसायस्तदा प्रत्यर्थिनः क्रियावसराभावाद्दैविकराजिकयो र्महाव्यसनयोःसप्तहाभ्यन्तरोपनिपातेन ते परीक्षणीयाः। यथाह मनुः।

यस्य दृश्येत सप्ताहादुक्तवाक्यस्य साक्षिणः।

रोगाग्निर्ज्ञातिमरणमृणन्दाप्योदमञ्च स इति॥

दमं कौटसाक्ष्ययुक्तन्दण्डम्।असति सप्ताहाभ्यन्तरव्यसनोपनिपाते प्रत्यर्थिना तावता सन्तोष्टव्यन्दिव्यं वा सत्यध्यवसायमवलम्बनीयमित्यर्थ सिद्धम्।यत्तु।केचिदुक्तेऽपीत्यादि वचनमर्थिनिर्दिष्टसाक्षिभिस्तदनुगुणेऽभिहिते सोऽपि प्रत्यर्थि-

निर्दिष्टयद्यन्ये ततो गुणोत्तमात्द्विगुणान्वान्यथा वाद्यन्तेतदा पूर्ववादिनः साक्षिणः कूटा इति व्याख्यातन्तदयुक्तम्। किमिदं मिथ्योत्तरविषयं कारणाद्युत्तरविषयं वा नाद्यः।

तत्र प्रत्यर्थिनः क्रियोपन्यासानवसरात्॥

अभाववादित्वात्।अभावस्य च भावज्ञान सापेक्षत्वाद्भावाभावयो र्भावस्यैवसाध्यतौचित्यात्।अतएव मिथ्योक्तौ पूर्ववादिक्रियां निर्दिशेदित्युक्तम् नचैकस्मिन्विवादे तु क्रिया स्याद्वादिनो र्द्वयोरिति वचनादेकस्मिन् व्यवहारेऽर्थिप्रत्यर्थिनो र्द्वयोःक्रियोपन्यासानुपपत्तिश्च। न द्वितीयः ततोऽर्थी लेखयेदित्यनेन पौनरुक्त्यात्।अर्थ्यत इत्यर्थःसाध्यं सोऽस्यास्तीत्यर्थी साध्यवान् प्रतिज्ञातार्थसाधनं साध्यतयोपन्यस्तस्यार्थस्य साध्यं प्रमाणं लेखयेदिति प्राङ्न्यायकारणोत्तरयोश्च तयोरेक साध्यत्वात्।प्रत्यर्थयोर्वार्थी सम्पन्न इति स एव क्रियान्निर्दिशेदिति।स्पष्टीकृतश्चायमर्थः स्मृत्यन्तरे।

प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत्क्रियाम्।

मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत्॥

इति उक्तेऽपीत्यादि सङ्गतेश्च।प्राङ्न्यायादौ हितस्यैव साक्षिण इत्यन्य इत्यसङ्गतमेव भवेत्। अन्ये तु यत्र द्वावपि भावप्रतिवादिनौतावपिद्विविधौ केचित्पूर्वोत्तरकालभेदेन प्रतिजानाते एको वदति। इदं क्षेत्रं मया पूर्वं प्रतिग्रहादिना लब्ध्वा कियत्कालम्भुत्क्वादेशान्तरं सकुटुम्बेन गतम्। अन्यस्तु वदति सत्यमनेन पूर्वं प्रतिग्रहादिना लब्धम्परन्तु पश्चादित एव राज्ञाक्रीत्वामह्यन्दत्तमन्येन वास्मत्प्रविगृह्य क्रीत्वा वा मह्यन्दत्तमित्यादि। केचित्तु पूर्वोत्तरकालभेदं विनैव वदन्तः। तत्र

प्रथमौ साक्षिषूभयतः सत्सुसाक्षिणःपूर्वपक्षे ऽधरीभूते भवत्युत्तरवादिन इत्यस्य याज्ञवल्क्य-वचनस्य विषयौ। पूर्वकलं ममेदमिति यो वदति स पूर्ववादी तस्य साक्षिणःप्रमाणतयाङ्गीकार्य्यः। तदीयस्वत्वानपगमेऽन्यस्य प्रतिग्रहादिस्वत्वोपायासम्भवादिति तत्रोपपत्तिः। तस्य क्रयादिना स्वन्वापगमेऽन्येनोपन्यस्ते तत्पक्षो ऽधरीभूत इत्युत्तरकालं ममेदमिति यो वदति म उत्तरवादी। तस्य साक्षिणोऽङ्गीकार्य्याःपूर्ववादी स्वत्वस्य सापवादत्वादिति मिताक्षराकारोक्ततदर्थात्। नतु पूर्वं यो निवेदयति स पूर्ववदी प्राङ्न्यायकारणोत्तराभ्यां तत्पक्षे ऽधरीभूते उत्तरवादिनः प्रतिवादिन इति व्याख्येयम्। ततोऽर्थी लेखयेदित्यनेनैवास्यार्थस्योक्त्यापौनरुक्त्यापत्तेः। नचैकस्मिन्नित्यादि निषेधाद्वादिद्वयस्यक्रियोपन्यासानुपपत्तेश्च। यत्त्वत्रपरार्केणोक्तं सम्भवत्येव क्वचित्प्रत्यवस्कन्दनप्राङ्न्यायोत्तरवत्यपि न्यपिवादिद्वयस्य क्रियोपन्यासावसरोयत्र प्रतिवादी सत्यन्त्वदीयमृणन्धारितवानहं किन्तु प्रत्यर्पितवान् कित्तूतरयति। तत्रवादी चेत्प्रत्युत्तरयति सत्यन्त्वयार्षितन्तत्तुप्रयोगान्तरेणास्मिन् प्रयोग इति तदा तत्साधनाय द्वयोरपि साक्ष्युपन्याससम्भवः। परस्परोपमर्दकत्वेन युगपद्यवहारासम्भवस्यैकविवादे द्वयोः क्रियानिषेधवीजस्या-भावात्। एवं प्रतिवादिना प्राङ्न्यायोत्तरे दत्ते यदि वादी तदैव वदति न्यायान्तरे त्वया अहम्पराजितो नास्मिन्न्याय इति। तदापि पूर्वोक्तरीत्या द्वयोःसाक्षी सम्भवः। तत्राग्र साक्षिसत्वे पूर्ववादिनः साक्षिणः प्रथमं स्वीकार्य्याः। प्राग्वादिनो निरुत्तरीभावेन पूर्वपक्षेऽधरीभूते उत्तरवादिनः

प्रत्यवस्कन्दप्राङ्न्यायसाधकसाक्षिण इति न विरोध इति तत्रापि वक्तव्यम्। तादृशविषयेऽपि प्रत्यवस्कन्दनप्राङ्न्याययोरसाध्यतया प्राग्वादिन एवार्थिन इति त्रिजाते तस्य निरुत्तरतायान्तुप्रत्यर्थिन एवाऽपि द्वेधापि ततोऽर्थी लेखयेदित्यनेन गतार्थतास्यनापैति। मिताक्षराव्याख्याने तु द्वयोरपि भाववादितयार्थित्वसाम्येततोऽर्थी लेखयेदित्येतद्वचनाविषयत्वात्कस्यात्रक्रियेत्यपेक्षायामेतद्वचनारम्भोघटते। तथाचमिताक्षराया मुक्तमेतस्य सर्वव्यवहारविलक्षणत्वाद्भेदेनोपन्याम इति। नारदेन तु स्पष्टमेवायमर्थ उक्तः।

मिथ्याक्रिया पूर्ववादे कारणे प्रतिवादिनि।

प्राङ्न्यायविधिसिद्धौतु जयपत्रं क्रियाभवेदिति॥

इत्युक्त्वा।द्वयोर्विवदतोर्युद्धे द्वयोः सत्सुच साक्षिषु।

पूर्वपक्षो भवेद्यस्य भवेयुस्तस्य साक्षिण इत्यभिधानात्॥

द्वितीयौ त्वपीत्यस्य वचनस्य विषयौ। पूर्वन्तरवादिनोःसमगुणेषु समसङ्ख्येषु च साक्षिषु सत्सुपूर्ववादिनः साक्षिणोऽभ्युपेयाः। यदातूत्तरवादिनो गुणवत्तमा द्विगुणा वा तद्विपरीतमभिदधति तदा त एव पूर्ववादिनस्तु साक्षिणः कूटा विज्ञेया इति च तदर्थः। एवं वा नाभावस्य साध्यतापत्तिर्द्वयोरपि भाव वादित्वात्। चतुर्विधोत्तरविलक्षणत्वाच्चनात्रमिथ्याक्रियापूर्ववाद इत्याद्यृक्ता क्रियाव्यवस्था यथा वा तएव तथा त्रैकस्य क्रियाद्वयप्रतिषेधो न प्रवर्त्तते तथा ममापि द्वयोःक्रिया प्रतिषेध इति वदन्ति तदप्यापातमनोहरम्।उक्तेऽपीत्यादि वचनादेतावतोऽर्थस्य च शब्दतःप्रकरणादर्थाद्वाऽनवगमात्। साक्षिषूभयतः सत् स्वित्यस्य योगीश्वरवचनस्य द्वयोर्विवदतो-

रित्यादि नारदवचनस्य च पूर्वोपपादितरीत्या पूर्वापरकालालिङ्गितभाषावादिविषयत्वे तदनालिङ्गितविषयस्यास्य तदपवादत्वासम्भवाच्च।नचान्यम- ते परार्कादिमतवत्तयोरपि वादिविषयत्वमेवास्त्विति वाच्यम्।तस्योक्तदुषणत्वात्।ईदृश्यपि विषये वादिप्रतिवाद्यन्यतरस्योक्तौमिथ्यात्वकारणान्य- तरपर्य्यवसानावश्यम्भावे चतुर्विधोत्तरविलक्षणत्त्वासम्भवाच्च।द्वयोरपि भाववादितयार्थित्वसाम्यमेव केवलं व्यवहारान्तरवैलक्षण्यमस्य विधा चतु- ष्कभिन्नविधोत्तरासन्भवाच्च।ननु कात्यायनेनाप्युपन्यस्तसाक्षिभिस्तदनुगुणेऽभिहिते प्रत्यर्थीयदि ततो गुणवत्तमान् बहुधान्यथा वादयति तदा वादि- नः साक्षिणःकूटा इति स्फुटमुक्तम्।यथाह।

यत्र वै भावितं कार्य्यंसाक्षिभिर्वादिनाम्भवेत्।

प्रतिवादी यदा तत्रवादयेत्कार्य्य मन्यथा।

बहुभिस्तत्कुलीनैर्वाकूटाः स्युः पूर्वसाक्षिण इति॥

तत्कार्यमिति सम्बन्धः।बहुभिरिति पूर्वसाक्ष्यपेक्षया बहुत्वंकुलीनैरित्यनेन तदपेक्षया गुणवत्तरत्वं विवक्षितम्।अपरार्कमदनरत्नकराभ्यामेत- त्सम्वादादेव योगीश्वरवचोऽप्युक्तेऽपीत्यादिकमेतदर्थकतयैव व्याख्यातम्।न च कथमेकविवादे द्वयोः क्रियेति वाच्यम्।यतस्तुल्यवदुभयोर्मा- स्तुक्रियाप्राप्तियुगपद्व्यवहारासम्भवात्।यदा शास्त्रतः प्राप्तक्रियेनैव क्रियोपन्यासे कृते परेण तद्द षणायैव क्रियान्तरमुपन्यस्य ते तदा को दोषः अनवस्था प्रसङ्गेषु सङ्ख्यागुणसाम्ये नतु वैषम्ये तेन जयावधारणात्प्राग्यथैकस्य क्रियाद्वयमेवं द्वयोरपि क्रियाद्वयेन विरोध इत्यपरार्केण समाहित- मिति उच्यते। अस्तु वचनात्

लिको भ्रम इति कल्पतरुः। बालिस्यं ज्ञानानुत्पाद इति तेषां भेदः। स्फुटमन्यत्। पौलस्त्यनिबन्धेषु रत्नाकरादिषु बालभाव बालिस्यपदार्थत्वेन यौवनोन्मेष प्राप्तो मद इति व्याख्यातम्। तदशब्दार्थत्वात् सन्दर्भविरोधाच्चोपेक्ष्यम्। सहस्रादिसङ्ख्येयाश्च ताम्रिकाः पणव्यवहारविषये तथैव परिभाषणात् इति मिताक्षराकारः। आहापर्कः। नेयं व्यवस्था युक्ता लोभादिनिमित्तकमेव हि कौटसाक्षामुपन्यस्तं मनुना नच सम्भवत्यन्यत्र निमित्तम्।

यथाह सः। लोभान्मोहाद्भयान्मैत्र्यात् कामात् क्रोधात्तथैव च।

अज्ञानाद्बालभावाच्च साक्ष्यंवितथमुच्यते॥

अज्ञानं किञ्चिज्ज्ञानम्। बालभावो अपरिणतत्वम्। तस्माद्योगीश्वरोक्तो दण्डः स्वल्पापराधेऽनभ्यासेच ज्ञेयः। गुर्वपराधे अभ्यासे च मनूक्त इति न्याय्याव्यवस्थेति। तत्रेदं वाच्यम्। लोभादौ सहस्त्रादिदण्डस्य मानवस्य विवादपराजयहेतुक द्विगुणदण्डाद्याज्ञवल्क्यीयोऽत्राधिक्य नियमो येन गुर्वपराधविषयताभ्यासविषयता वा कल्पेत क्वचिद्वैपरीत्यस्यापि सम्भवात्। नच कौटसाक्ष्येलोभाव्द्यतिरिक्त कारणासम्भवात् मनुनापि तावतामेव परिगणनाच्चन कारणभेदे कृत व्यवस्थासुस्थेति वाच्यम्। वस्तुतो हेत्वन्तरासम्भवे तु हेतु विशेषपरिज्ञानतज्ज्ञानयोः सम्भवात् तत्कृतव्यवस्थायामदोषात्। अतएव मिताक्षरायां लोभादिति विशेषज्ञानाज्ञाने एव व्यवस्थापकत्वेनोक्तेन तु लोभादितद्भिन्नहेतु - सत्वासत्वेया तु मिताक्षराकृताभ्यासानभ्यासकृता व्यवस्थोक्ता सा क्वचित् त-

थापि सम्भवतीत्याशयेन।ज्ञानाज्ञानकृतैव तु तात्विकी अतएवमदनरत्नकृतापि सैवादृता।तथा मनुरेव।

कौटसाक्ष्यन्तु कुर्वाणां स्त्रीन् वर्णान् धार्मिको नृपः।

प्रवासयेद्दण्डयित्वा ब्राह्मणन्तु विवासयेत्॥

ब्राह्मणभिन्नांस्त्रीन् क्षत्रियादीन् प्रागुक्तदण्डेन दमयित्वा प्रवासयेन्मारयेत्। प्रपूर्वस्य वसतेरर्थशास्त्रे मारणे प्रयोगात्॥ प्रवासनमप्यपराधानुरोधे नोष्ठच्छेदजिह्वाच्छेदप्राणवियोजनरूपं वेदितव्यम्। ब्राह्मणं विवासयेत् विवासनमपि राष्ट्रान्निष्काशनम्। विगतवासा विवासास्तं करोतीति व्युत्पत्या नग्नीकरणम्। वसत्यस्मिन्वासोगृहं तद्वियुक्तं करोतीति व्युत्पत्या गृहभङ्गकरणं वा कौटसाक्ष्यविषयानुसारेण गुणागुणद्रव्यानुबन्धानुसारेण चार्थदण्डसहितं यथायथं विज्ञेयम्। दण्डयित्वेत्यंशस्याप्यनुसङ्गात्। एतच्चाभ्यासविषयम्।कुर्वाणानिति वर्त्तमाननिर्देशात्। न च वर्त्तमाननिर्देशादतीतादि व्यावृत्तिमात्रं व्यवसीयते न त्वभ्यास इति वाच्यम्। तद्व्यावृत्तेरनुपयोगात् प्रत्युत कौटसाक्ष्यमभ्यासेन कृत्वोपरतस्य पश्चादेतद्दण्डाभावप्रसङ्गात् तस्मात्कौटसाक्ष्यमत्यजत इत्यर्थकतयाभ्यासावगतिः। न च दण्डयित्वेत्यस्यात्रानुषङ्गेप्रमाणाभावात्तु शब्दवशाच्च विवास मेव कूटसाक्षित्वाभ्यासकारिणो ब्राह्मणस्य दण्डो न त्वर्थदण्ड इति वाच्यम्।

न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम्।

न शारीरो दण्डो ब्राह्मणस्येत्यादि वचनैः शारीरदण्डनिषेधादर्थदण्डस्याप्यभावे स्वल्पविषयेऽपि कौटसाक्ष्याभ्यासे निर्वासननग्नीकरणगृहभङ्गादि प्रसङ्गात्। दण्डाभावस्य चा-

प्रसक्तेःतत्र तत्रार्थदण्डस्य ब्राह्मणविषयस्यापि वक्ष्यमाणत्वाच्च।तु शब्दस्यप्रधानविषयप्रवासनक्रियामम्वाद्यभिप्रायकत्वेनाप्यविरुद्धा।याज्ञवल्क्यः।

यः साक्ष्यं श्रावितोऽन्येभ्यो निह्नुते तत्तमोवृतः।

स दाप्योऽष्टगुणन्दण्डं ब्राह्मणन्तु विवामयेत्॥

यः साक्ष्यमङ्गीकृत्य अन्यैःसाक्षिभिः सह माक्ष्यंश्रावितः सन्निगदाममये तमोगुणेनावृतो रागद्वेषाद्याक्रान्तचित्तस्तत्साक्ष्यमन्येभ्यो निह्नुते नाहमत्रसाक्ष्यं स्वीकरोमीति प्रकाशयति। यथा तेन तदनुरोधात्तन्नस्वीकुर्वते कूटतां वा कुर्वन्ति स विवादपराजयनिमित्तकदण्डापेक्षयाष्टगुणदण्ड- न्दाप्योऽपराधमहत्त्वात्। अन्येभ्य इति श्रीमतः भगवतः पाणिनेः सूत्रेणकेनइत्याह श्लाघह्नुङ्स्थासिामज्ञीस्म्यमान इत्यनेन सम्प्रदानसंज्ञायां चतुर्थी तेन पूर्वोक्तार्थलाभः। ब्राह्मणन्तु तथा कुर्वाणं विवासयेत्। विवासनञ्च व्याख्यातरीत्या देशनिर्वासननग्नीकृरणगृहभङ्गान्यतररूपमनुबन्धाद्यपेक्षया व्यस्तसमस्तविधया ज्ञेयम्। यत्तु मिताक्षराकृताष्टगुणदण्डदानासमर्थमिति व्याख्यातन्तत्प्रधानक्रियानिरूपितं वैलक्षण्यप्रतिपादकं तु शब्दविरोधादुपेक्ष्यम्। नचैवमल्पविषयेऽपि विवासनमदण्डता वा प्रसज्येतेति वाच्यम्। वचनोपान्तेविषयस्यैव दण्डस्य युक्तत्वात्। अतएवाह नारदः।

श्रावयित्वा ततोऽन्येभ्यः साक्षित्वं यो विनिह्नुते।

स विनेयो भृशतरं कूटसाक्ष्यधिको हि स इति॥

तथा चापरार्कोऽपि। ब्राह्मणश्चेदेवंविध स्तं विवासयेन्नतु दण्डयेदित्येवं व्याचख्यौ। क्षत्रियादीनान्तु दण्डदानासामर्थ्ये

स्वजात्युचितकर्मकरणभिगड़बन्धनकारागृहनिरोधनादितावद्द्रव्यसमीकरणानुरूपं बोध्यम्। सर्वेषामपि निह्नवकारित्वे समानदोषत्वात्सर्वेऽपि प्रत्येकमष्टगुणन्दण्ड्याः। प्रागन्यथोत्क्वांपुनरन्यथोक्तौ कात्यायन आह।

उत्क्वान्यथा ब्रुवाणाश्चदण्ड्याः स्युर्वाक्छलान्विताः।
अनुबन्धादितरितम्येनात्र दण्डतारभ्यंकल्पनम्

अन्यतरेणोपन्यस्ताः साक्षिणोऽन्येन यदि रहसि सम्बाद्यन्तेऽन्यद्वारेण भेद्यन्तेवा तदा प्रकृतार्थहानिस्तस्येत्याह।

नारदः। न परेण समुद्दिष्टमुपेयात्साक्षिणं रहः।

भेदयेच्चैव नान्येन हीयेतैवं समाचरन्निति

साक्षिणामवचनानृतवचने प्रतिषिद्धे क्वचित् तत्प्रतिप्रसवमाह। याज्ञवल्क्यः।

वर्णिनान्तु बधो यत्र तत्र साक्ष्यनृतं वदेदिति।

साक्षिणा सत्ये उक्तेयत्रवर्णवतां ब्राह्मणादीनां राजदण्डरूपो बध आपद्यते तत्रबधप्रयोजकताख्य महादोषपरिहाराय साक्ष्यानृतं वदेत्।सत्यन्न वदेदित्यर्थः।तथा चावचनानृतवचनयोर्द्वयोरप्यभ्यनुज्ञा लभ्यते शङ्काभियोगादिस्थले साक्षिसत्यवचनेन यद्यभियुक्तस्य बधः प्रसज्यतेऽभियोक्तुश्च शङ्काभियोगकारित्वान्न तत्प्रसक्तिस्तत्रानृतवचनाभ्यनुज्ञातत्वा—भियोगादौ च सत्यासत्यवचने यत्रान्यतरवधप्रसक्तिरपरिहार्य्या तत्र तूष्णीम्भावोऽ-भ्यनुज्ञायते।यदि तु राजा कथञ्चिदप्यकथनं नानुमन्यते तदा साक्षिता सम्पादनीयेत्यर्थसिद्धम्।तदसम्भवे सत्यमेवाभिधेयं वर्णिबधप्रयोजकत्वदो- षापरिहारेऽनृतवचनदोष-स्वीकारस्यानुचितत्वात्प्रायश्चित्तद्वयप्र-

सक्तेः। वर्णिबधप्रायश्चित्तपरं यथाशास्त्रमादरणीयमिति विज्ञानयोगिनः। मनुरपि।

शूद्रविट्क्षत्र विप्राणां यत्रार्त्तोक्तौ भवेद्वधः।
तत्र वक्तव्यमनृतन्तद्धि सत्याद्विशिष्यत इति॥

इदमपि योगीश्वरवचनवद्विशिष्टाभावपरतया व्याख्येयमवचनानृतवचनाभ्यनुज्ञालाभाय सत्याद्विशिष्यत इत्यस्यायमर्थः।ब्राह्मणादिबधप्रयोजकता निबन्धनाधिकदोषपरिहारायावचनानृतवचनप्रयुक्ताल्पदोषस्वीकार उचित एवेति प्रशंसार्थम्।यद्यपि।

न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम्।
राष्ट्रादेनं बहिः कुर्य्यात्समग्रधनमक्षतम्॥
न ब्राह्मणबधाद्भूयान् योऽधर्मो विद्यते क्वचित्।
तस्मादस्य बधं राजा मनसापि न चिन्तयेत्॥

इत्यादि मन्वादि वाक्यैर्ब्राह्मणबधदण्डनिषेधाद्विप्रग्रहणमनर्हन्तथापि तस्य बधस्थानीयदण्डप्रसक्तेस्तत्परिहारायै वा वचनानृतवचनाभ्यनुज्ञा। तथाच मनुः।

मौण्ड्यंप्राणान्तिको दण्डो ब्राह्मणस्य विधीयते।
इतरेषान्तु वर्णानां दण्डःप्राणान्तिको भवेदिति॥

स्मृत्यन्तरेऽपि।ब्राह्मणस्य बधो मौण्ड्यंपुरान्निर्वारुनन्तथा।

ललाटे चाङ्ककरणम्प्रयाणो गर्दभेन चेति॥

न च बधशब्देनार्थद्वयपरिग्रहे वैरूप्यम्। निमित्तांशपातिनि तत्प्रसक्तावपि विधिवैषम्याऽप्रसक्तेः। यद्वा

गोरक्षकान्वाणिजकांस्तथा कारुकुशीलवान्।
प्रेष्यान्वार्द्धुषिकांश्चैव विप्रान् शूद्रवदाचरेदिति॥

मानवस्तेषांशूद्रवद्वाभ्यनुज्ञाप्रतीते स्वत् परं विप्र-

ग्रहणम्।तथा च बधपदमुभयत्रमुख्यार्थकमेव। अयन्त्वपरार्कोक्तसमाधिरनुपादेयः तस्य मानवस्य प्रकरणाच्छपथपरत्वेन दण्डविषयत्वाऽभावात्। सर्वपापेष्वपि स्थितम्।तस्मादस्य बधं राजा मनसापि न चिन्तयेत् इत्यादि श्रवणाद्विप्रबधमात्रस्यैव परिहरणीयत्वप्रतीतेश्च अथवा यत्रक्रोधाद्यावेशवशेनातिक्रम्य निषेधं विप्रस्यापि राज्ञाम्लेच्छादिना वा बधदण्डः कर्त्तव्य इति सम्भावना तत्रैवेदमस्तु, यथा कथञ्चित्प्रसक्त्युपजीवकत्वादस्य राज्ञोऽस्तुपरन्दोषः। पापीयसस्तुक्षत्रियादे र्बधप्रसक्तावपि नोभयाभ्यनुज्ञेत्याह गौतमः। नानृतवचने दोषो जीवतश्चेत्तदधीनं न तु पापीयसो जीवनमिति। नचैवमवचनानृतवचनयोरभ्यनुज्ञानात्प्रत्यवाय एव तत्र सर्वथा नास्तीति सत्यन्तं प्रायश्चित्तस्मरणात्। तथा च याज्ञवल्क्यः। तत्पावनाय निर्वाप्यश्चरुः सारस्वतोद्विजैरिति।

मनुरपि। बाग्दैवतैश्च चरुभिर्य्यजेरंस्ते सरस्वतीम्॥

अनृतस्यैनस स्तस्य कुर्वाणा निष्कृतिम्पराम्।

कूष्माण्डैर्वापि जुहुयात् घृतमग्नौ यथाविधि॥

उदित्यृचा वा वारुण्यात्तृचेनाद्वैवतेनवेति।

ते इति प्रक्रमाज्जुहुयादिति छान्दसो वचनव्यत्ययः॥उदुत्तमञ्चेति पाठे उदुत्तमं वरुणपासेति ऋक्। तदित्यृचेति पाठे तत्त्वायामि ब्रह्मणेति वारुणी ज्ञेया। न चाभ्यनुज्ञावचसार्थक्याय प्रत्ययाभाव कल्पनमावश्यकमिति प्रायश्चित्तविधानं नैमित्तिकं क्षामवत्यादिवत् पुंश्चलीवानरदंशादिनिमित्तक द्वादशरात्रातिवृद्धेति वाच्यम्। तत्पावनायएतसस्तस्य कुर्वाणा निष्कृतिम्परामित्यस्य वैयर्थ्यापत्तेः।

न चैवंप्रतिप्रसववैयर्थ्यापत्तेः। यतोऽनृतवचन प्रतिषेधो द्विविधः पुरुषमात्रसाधारणःसाक्ष्यप्रयुक्तश्चतत्र प्रकरणात् साक्ष्यप्रयुक्तप्रतिषेध निबन्धनप्रत्यवायस्यप्रतिप्रसवादभावो नतु साधारणनिषेधनिबन्धन प्रत्यवायस्यापीति प्रायश्चित्तविधिबलात् कल्प्यते। यद्यपि भूयसः साक्ष्यनृतप्रभवप्रत्यवायस्यापगमे ऽल्पस्यानृतमात्र प्रभवस्य तस्याभावोऽप्यविनाभावादानुषङ्गिको ऽवश्यम्भावी। ब्रह्मबधसुरापानादि प्रभवप्रत्यवायनाशक द्वादशाब्दादिना गोबधादिप्रभवतन्नाशवत् तथाप्यत्राभ्यनुज्ञायाः प्रायश्चित्तविरुद्धयोरुभयोरपि सार्थक्याय भूयो निवृत्तयोरप्यानुषङ्गिकोप्यविना भूतोऽपि स्वल्पोऽपि न निवर्त्तत इति गम्यते। अत्र च चरुरिति योगीश्वरवचन एकवचनाद्दैवतै क्याच्च मानवे चरुभिरिति बहुवचनं कर्त्तृ बहुत्वे दंड्या प्राप्तबहुत्वानुवादकम्। द्विजग्रहणान्नशूद्रस्यैतत्प्रायश्चित्तङ्किन्त्वन्यत्। तथा च विष्णुः।

तत्पावनाय कूष्माण्डीभिर्द्विजोऽग्निं जुहूयात्।

शूद्रश्चैकाह्निकंगोदशकस्य ग्रासन्दद्या दिति॥

एकाह्निकमेकाह भक्षणपर्य्याप्तम्। वयन्तु तत्पावनाय अनृतस्यैनस स्तस्येत्यादियोगीश्वरमन्वादिवचनेषु तच्छब्दोपादानात् साक्ष्यनृतपातकमेव गृह्यते तन्निरसनायैवेदं प्रायश्चित्तम् नच तस्याभ्यनुज्ञावचनेनाभावावगमात् कथमेतदिति वाच्यम् वर्णिबधदोषापेक्षया साक्षिवितथवचनदोषस्याल्पस्यसह्यते तद्धिसत्याद्विशिष्यत इति वाक्यशेषपर्य्यालोचनेन तस्य तात्पर्य्यात् अतएवावचनदोषपरिहारोऽप्यनेन प्रायश्चित्तेन सामान्यतः साक्षिभिन्नस्यावचनदोषाभावात्नचाब्रुवन्वि-

बुन्वापीति वचनमवचने सामान्यतो दोष प्रतिपादकमिति वाच्यम्। तस्य प्रकरणात् सम्भावना प्रवेष्टव्येति वाक्यशेषाच्चसभ्यपरत्वात् अतएव साक्षिणां पृथग्वचने दोषवचनं सफलम्। नच साक्षिणा मवचनानृतवचनयोर्द्दोषाधिक्यादिदमल्पप्रायश्चित्त मनुचिन्तितमिति वाच्यम्। अभ्यनुज्ञाविधेरस्मिन्विषयेऽल्पदोषपरत्वस्योक्तर्त्वात् एतेन भूयोदोषनिवृत्तावल्पदोषनिवृत्तिरविनाभावादन्यत्रनतु विधिद्वयसाफल्याय न तथेत्यपि कल्पनायास्ततश्च वर्णिवधप्रसक्तौ साक्षिणोऽप्यनृतं वचनावचनयो र्वधप्रयोजकतादोषापेक्षायाल्पो दोषस्तत्रचेदम्प्रायश्चित्तन्तेन च ततोऽप्यल्पं सामान्यानृतवचनप्रतिषेधातिक्रमनिबन्धनो दोषः सुतरामुपैति तात्पर्यमिति ब्रूम इति साक्षिनिरूपणम्।

अथ लेख्यं निरूप्यते।
तत्र वृहस्पतिः।साक्षिणामेष निर्दिष्टः संख्यालक्षणनिश्चयः।

लिखितस्याधुना वच्मिविधानमनुपूर्वशः।
षाण्मासिकेऽपि समये भ्रान्तिः सञ्जायते नृणाम्।
धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा॥
राजलेख्यं स्थानकृतं स्वहस्तलिखितन्तथा।
लेख्यन्तुत्रिविधम्प्रोक्तं भिन्नन्तबहुधा पुनः॥
भागदानक्रियाधान संविद्दास ऋणादिभिः।
सप्तधा लौकिकं लेख्यन्त्रिविधं राजशासनम्॥

मरीचिरपि। स्थावरे विक्रयाधाने विभागे दान एव च।

लिखितेनाप्नुयात् सिद्धिमविसंवादमेव च॥

भाग आधानमाधीकरणम्संवित्समयः आदिशब्देन विशुद्ध्यादिग्रहणम्।भागपत्रादीनां लक्षणमाह।

वृहस्पतिः।भ्रातरः संविभक्ता ये स्वरुच्या तु परस्परम्।

विभागपत्रंकुर्वन्ति भागलेख्यन्तदुच्यते॥
भूमिन्दत्वा तु यत्पत्रं कुर्याच्चन्द्रार्ककालिकम्।
अनाच्छेद्यमनाहार्य्यन्दानलेख्यन्तुतद्विदुः॥
गृहक्षेत्रादिकं क्रीत्वा तुल्यमूल्याक्षरान्वितम्।
पत्रं कारयते यत्तु क्रयलेख्यन्तदुच्यते॥
जङ्गमं स्थावरम्बन्धंदत्त्वा लेख्यङ्करोति यः।
गोप्यभोग्यक्रियायुक्त माधिलेख्यन्तदुच्यते॥
ग्रामो देशश्च यत्कुर्य्यात् सत्यलेख्यम्परस्परम्।
राजाविरोधिधर्म्मार्थं संवित् पत्रं वदन्ति तत्॥
वस्त्रान्नहीनः का तारे लिखितं कुरुते तु यः।
कर्म्माणि ते करिष्यामि दासपत्रन्तदुच्यते॥
धनं वृद्ध्यागृहीत्वा तु स्वयं कुर्याच्च कारयेत्।
उज्जारपत्रन्तत्प्रोक्त मृणलेख्यं मनीषिभिरिति॥

विशुद्धिपत्रमुक्तङ्कात्यायनेन।

अभिशापे समुत्तीर्णे प्रायश्चित्तेकृते बुधैः।
विशुद्धिपत्रकन्देय न्तेभ्यः साक्षिसमन्वितम्॥

सन्धिपत्रमप्याह। स एव।

उत्तमेषु समस्तेषु अभिशापे समागते।
वृत्तानुवादलेख्यं यत् तज्ज्ञेयं सन्धिपत्रकम्॥

अन्वाधिपत्रमाहप्रजापतिः।

धनी धनेन तेनैव परमाधिन्नयेद्यदि।
कृत्वा तदाधिलिखितं पूर्वं वाऽस्य समर्पयेत्॥

पूर्वमाधिपत्रम्। सीमापत्रमप्याह।

कात्यायन। सीमाविवादे निर्णीते सीमापत्रं विधीयत इति।

ऋणशोधने कृते ऋणपत्रनाशादौ सति प्राप्तिपत्रमुत्तमर्णेनाधमर्णाय देय मित्याह याज्ञवल्कः।

दत्वर्णम्पाठयेल्लेख्यं शुद्ध्यौवान्यन्तु कारयेत् \।

अत्र लौकिकं सप्तविधलेख्यं स्वकृतान्यकृतभेदेन द्विविधन्नारदेनोक्तम्।

लेख्यन्तु द्विविधं प्रोक्तं स्वहस्तान्यकृतन्तथा।

स्वकृते साक्ष्यनियमोऽन्यकृते तन्नियम इत्याहोत्तरार्द्धेनस एव।

असाक्षिमत्साक्षिमच्चसिद्धिर्देशस्थितेस्तयोरिति।

असाक्षिमदपीत्यर्थः। तथा च याज्ञवल्क्यः।

विनापि साक्षिभिर्लेख्यं स्वहस्तलिखितञ्च यत्।
तत्प्रमाणं स्मृतं सर्वम्वलोपधिकृतादृते॥

इत्यपि शब्दःप्रागुक्तबलोपधिकृतत्वपर्य्युदासः। सर्वलेख्यविषयो न स्वकृतमात्रविषयः। तथा च मनुः।

बलाद्मुक्तं बलाद्दत्तं बलाद्यच्चापि लेखितम्।
सर्वान् बलकृतानर्थान कृतान्मनुरब्रवीत्॥

नारदोऽपि। मत्ताभियुक्तस्त्रीबालबलात्कारकृतञ्च यत्।

तदप्रमाणं लिखितं भयोपधिकृतन्तथेति॥

अन्यकृते विशेषान्तरमाह।योगीश्वरः।

यः कश्चिद्दर्थो निष्णातः स्वरुच्या तु परस्परम्।
लेख्यन्तु साक्षिमत्कार्यं तस्मिन्धनिकपूर्वकम्॥
समामास तदर्द्धाहर्नामजाति स्वगोत्रकैः।
स ब्रह्मचारिकात्मीय पितृनामादि चिह्नितम्॥

धनिकनामपूर्वकमित्यनेनोत्तमर्णनामोपरिलेख्यमधमर्ण-

नामतदर्द्धइत्यर्थः। एतदधमर्णपत्रादिविषयमन्यत्राऽसम्भवात्। समामासादि यथा सम्भवमन्यत्रापि सब्रह्मचारिकम्बह्वृचादि शाखाप्रयुक्तगुणनामवह्वृचः कठ इत्यादि। वशिष्ठोऽपि।

कालं निवेश्य राजानं स्थानं निवसनन्तथा।
दायकं ग्राहकञ्चैव पितृनाम्नाच संयुतम्॥
जातिङ्गोत्रञ्च शाखाञ्च द्रव्यमाधिं ससङ्ख्यकम्।
वृद्धिं ग्राहकहस्तञ्च विदितार्थौच साक्षिणौ॥

स्थानं जनपदः। निवसनं पुरग्रामादिकं ग्राहकोऽधमर्णः ग्राहकस्तन्निवेशनप्रकारमाह योगीश्वरः।

समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत्।
मतं मे मूकपुत्रस्य यदत्रोपरि लेखितमिति॥

साक्षिणावित्यनेन द्वयोरभ्यनुज्ञानात्। अवरत्वनियमो नात्रेत्युक्तमेकस्तु न भवत्येवेति अत्रसाक्षिलेखकस्वहस्तचिह्नंकार्य्यमित्यप्याह। स एव।

साक्षिणश्च स्वहस्तेन पितृनामकपूर्वकम्।
अत्राह ममुकः साक्षी लिखेयुरिति ते समाः॥
उभयाभ्यर्थितेनैतन्मया ह्यमुकसूनुना।
लिखितं ह्यमुकेनेति लेखकोऽन्तेततो लिखेत्॥

समा इत्यनेन गुणसाम्यं सङ्ख्यासाम्यञ्चवैषम्यानियमायविवक्षितम्। असमाइत्यकारप्रश्लेषस्तुवैषम्य सामान्यत एव साक्षिषु प्राप्तेर्नोपादेयः। ऋणि साक्षिणोः सर्वथा लिप्यनभिज्ञत्वे नारद आह।

अलिपिज्ञ ऋणी यः स्यात्स्वमतं स तु लेखयेत्।
साक्षी वा साक्षिणान्येन सर्वसाक्षी समीपत इति॥

त्रिविधं राजशासनमित्युक्तम्।त्रैविध्यं विविनक्ति बृहस्पतिः।

दत्वा भूभ्यादिकं राजा ताम्रपट्टे पटेऽथ वा।
शासनं कारयेद्धर्मंस्थानवश्यादि संयुतम्॥
मातापित्रोरात्मनश्च पुण्यायामुकसूनवे।
दत्तम्मयामुकायाद्य दानं सब्रह्मचारिणे।
चन्द्रार्कसमकालीनं पुत्रपौत्रान्वयानुगम्।
अनाच्छेद्य मनाहार्य्यंसर्वभागविवर्जितम्॥
दातुः पालयितुः स्वर्ग्यं हर्त्तुर्नरकमेव च।
षष्ठिंवर्ष सहस्त्राणि दानोच्छेदफलं लिखेत्॥
ज्ञातं मयेति लिखितं सन्धि विग्रहलेखकैः।
समुद्रं वर्षमासादि धनाध्यक्षाक्षरान्वितम्॥
एवंविधं राजकृतं शासनं समुदाहृतम्।
देशादिकं यस्य राजा लिखिते न प्रयच्छति॥
सेवाशौर्य्यादिना तुष्टः प्रसादलिखितन्तथा।
पूर्वोत्तरक्रियावादनिर्णयान्तेयदा नृपः।
प्रदद्याज्जयिने लेख्यंजयपत्रं तदुच्यते॥

स ब्रह्मचारिणे। अमुकशाखाध्यायिने। सर्वभागविवर्जितम्। सकलराजपुरुषादि देयांशरहितम्। योगीश्वरः। शामनमाह।

भूमिन्दत्वा निबन्धं वा कृत्वा लेख्यन्तुकारयेत्।
आगामि भद्रनृपति परिज्ञानाय पार्थिवः।
पटे वा ताम्रपट्टे वा स्वमुद्रोपरि चिह्नितम्।
अभिलेख्यात्मनोऽवश्यानात्मानञ्च महीपतिः॥

प्रतिग्रहपरीमाणंदानच्छेदोपवर्णनम्।
स्वहस्तकालसम्पन्नं शाप्तनं कारयेत् स्थिरमिति॥

इयन्ति पर्णक्रमुकभारादा-वियन्ति पर्णक्रमुकादीन्यस्मैदेयानीति राज्ञो नियतदानाज्ञानिबन्धं कारयेत् सन्धिविग्रहादधिकारिद्वारेत्यर्थात्। तथा च व्यासः।

राज्ञा तु स्वयमुद्दिष्टःसन्धिविग्रहलेखकः।
ताम्रपट्टे पटे वापि प्रलिखेद्राजशासन मिति॥

प्रतिगृह्यत इति ग्रहो भूम्यादिस्तत्परीमाणं प्रतिग्रहपरीमाणं उपसर्गस्य दीर्घो बाहुलकः। दीयत इति दानम्।भूम्यादि तस्य च्छेदः क्षेत्रादे र्मर्य्यादा तदुपवर्णनं तन्निर्देशम्। आत्मवंश्यादीनभिलिख्येत्यन्वयः। इदञ्च साधुशब्दैरेव लेखनीयं न लौकिकवत्तदनियमः। तथा च संग्रहकारः।

राजा स्वहस्तचिह्नेनराजादेशेन संयुतम्।
युक्तं राजाभिधानेन मण्डितं राजमुद्रया॥
सुलिप्यनपशब्दोक्ति सम्पूर्णावयवाक्षरम्।
शासनं राजदत्तं स्यात् सन्धिविग्रहलेखकैः॥

अन्तिमपदोत्तर लिखितायेति शेषः। तस्मिन्निव लौकिकेदेशभाषादिप्रतिषेधो नेत्याह नारदः।

देशाचाराविरुद्धं यव्द्यक्ताधि विधिलक्षणम्।
तत्प्रमाणं स्मृतं लेख्यमविलुप्तक्रमाक्षरमिति॥

शासने राज्ञास्वहस्तेनैव स्वसम्मतं लेख्यमित्यप्याह व्यासः।

सन्निवेशं प्रमाणञ्च स्वहस्तेन लिखेत्स्वयम्।
मतम्मे ऽमुकपुत्रस्य अमुकस्य महीपतेः॥

सन्निवेशं प्रमाणञ्चेत्यस्य पूर्ववाक्ये प्रलिखेदित्यत्रान्वयः।तयोराजस्वहस्तलिखनानियमात्। इदञ्च राज्ञा प्रतिगृहीत्रेसमर्पणीयमित्याह विष्णुः। पटे वा ताम्रपट्टेवा लिखितं स्वमुद्राङ्कमागामि नृपति परिज्ञानार्थे दद्यादिति। अतएव दत्तापहारदोषप्रतिपादनमपि भाविनृपप्रत्यायनार्थं तत्रावश्यकमित्यप्याह। व्यासः।

षष्ठिवर्षसहस्त्राणि दानाच्छेदफलन्तथा।
आगामि नृपसामन्तबोधनायाभिलेखयेत् इति॥

षष्ठिवर्षसहस्राणीत्यादि पुराणवचनप्रसिद्धेन्दानाच्छेदयोः दानापहारयोः स्वर्गादिनरकादिफलं लेखयेद्राजेत्यर्थः। जयपत्नेविशेषमाह व्यासः।

व्यवहारान् स्वयं दृष्ट्वा श्रुत्वा वा प्राडविवाकतः।
जयपत्नन्ततो दद्यात् परिज्ञानाय पार्थिवः॥
जङ्गमं स्थावरं येन प्रमाणेनात्मसात्कृतम्।
भागाभिशापसन्दिग्धेयः सम्यग्विजयी भवेत्॥
तस्मै राज्ञा प्रदातव्यं जयपत्रं सुनिश्चितम्।
पूर्वोत्तरक्रियापादं तत्प्रमाणं परीक्षणम्॥
निगदस्मृतिवाक्यञ्च यथासभ्यं विनिश्चितम्।
एतत्सर्वं समासेन जयपत्रे ऽभिलेखयेदिति॥

** **प्रमाणस्य पृथक्ग्रहणात्क्रियापदेन प्रत्याकलितमत्र गृह्यते। परिज्ञानाय प्राङ्न्यायस्व बोधनाय।भागेऽभिशापे वा सन्दिग्धे। विवादपदमात्रोपलक्षणम्। एतेन विवादविषयो यो यत्र विवादे स तत्र लेखनीयः। जयपत्रं राजमुद्राङ्कितं कार्य्यमित्याह। वृद्धवशिष्ठ।

यथोपन्यस्तसाध्यार्थं संयुक्तं सोत्तरक्रिमम्।
सावधारणकञ्चैव जयपत्रकमुच्यते॥
प्राड्विवाकादि हस्ताङ्कंमुद्रितं राजमुद्रया।

अत्रच राज्ञः सभ्यानाञ्च स्वहस्तोऽप्यपेक्षित इत्याह।

कात्यायनः। सिद्धेनार्थेन संयोज्यो वादी सत्कारपूर्वकम्।
लेख्यं स्वहस्तसंयुक्तं तस्मै दद्यात्तु पार्थिवः॥
सभासदश्च ये तत्र स्मृतिशास्त्रविदः स्थिताः।
यथा लेख्यविधौ तत्र स्वहस्तन्दद्युरेव ते॥

क्वचित्पश्चात्काराख्योऽपि जयपत्रभेद उक्तस्तेनैव।

अनेन विधिना लेख्यं पश्चात्कारं विदुर्बुधाः।
निरस्ता तु क्रिया यत्र प्रमाणेनैव वादिना॥
पश्चात्कारो भवेत्तत्र न सर्वासु विधीयते।
अन्यवाद्यादि हीनेभ्य इतरेषां प्रदीयते ॥
वृत्तानुवादसंसिद्धन्तञ्च स्याज्जयपत्रकमिति ॥

वशिष्ठे राजपत्रस्य लक्षणाभिधानापूर्वकन्तस्य चातुर्विध्यमुक्तम्।

राज्ञः स्वहस्तसंयुक्तं स्वमुद्रा चिह्नितन्तथा।
राजकीयं स्मृतं लेख्यं सर्वेष्वर्थेषु साक्षिमत्॥
शासनं प्रथमं ज्ञेयं जयपत्रं तथा परम्।
आज्ञाप्रज्ञापनापत्रं राजकीयञ्चतुर्विधमिति ॥
आज्ञाप्रज्ञापनापत्रयोः स्वरूपमुक्तन्तेनैव।
सामन्तेष्वथ भृत्येषु राष्ट्रपालादिकेषु च।
कार्य्यमादिश्यते येन तदाज्ञापत्रमुच्यते।

ऋत्विक्पुरोहिताचार्य्यमान्येष्वभ्यर्चितेषु तु॥
कार्य्यंनिवेद्यते येन पत्रं प्रज्ञापनायतदिति॥
लेख्यप्रयोजनमाह। मरीचिः।
स्थावरे विक्रयाधाने विभागे दान एव च।
लिखिते नाप्तुंयात्सिद्धिमविसंवादमेव च॥
सिद्ध्यते वाचिकोऽप्याधिः स्थावरेषु दशाब्दिकः।
प्रतिग्रहे च क्रीते च न लेख्यं सिध्यति क्रियेति॥

पूर्वलेख्ये कथञ्चन व्यवहाराक्षमतामुपगते तद्विधमेवापरं लेख्यमधमर्णेनोत्तमर्णाय लिखित्वा देयम्। शासनादौ तथाभूते राजादि द्वारान्यत्करणीयमत्याह योगीश्वरः।

देशान्तरस्थे दुर्ल्लेख्ये नष्टोन्मृष्टे हृते तथा।
भिन्ने दग्धे तथा छिन्नेलेख्यमन्यन्तु कारयेत्।

सर्वैरेतैर्विशेषणैर्व्यवहाराक्षमता विवक्षिता दुष्टं लिप्यक्षरपरिलोपेनावाचकतया वा यल्लेख्यं तत्तु दुर्ल्लेख्यं नष्टं सर्वथा नाशमुपगतम् उम्मृष्टं मसीदोषादिना मृदितलिप्यक्षरम्। यद्यपि दग्धमपि नष्टमेव तथापि कालमात्र कृता शीर्णता नष्टपदेनात्रविवक्षिता। पत्रान्तरकरणञ्चार्थि प्रत्यर्थिनोः परस्परसम्प्रतिपत्तौ। विमतौ तु देशान्तरस्थपत्रानयनाय कालोदेयोऽध्वापेक्षया व्यवहारो वा प्रवर्त्तनीयः दुर्लेख्यादौ तु सम्प्रतिपत्तौ पत्रान्तरकरणमन्यथा व्यवहारदृष्टवृत्तिरेवेत्यवसेयं साक्षिषु सत्सु तैरेव निर्णयः। तथा च नारदः।

लेख्ये देशान्तरस्थे तु शीर्णे दुर्लिखिते हृते।
सत स्तत्कालकरणमसतो द्रष्टृ दर्शनमिति॥

सतो विद्यमानस्य लेख्यस्यानयनाय कालकरणम्। असत

इत्यनादरे षष्ठी। तद्विनापीत्यर्थः। द्रष्टारःसाक्षिणस्तैर्दर्शन्निर्णय कार्य्यः। तच्चलेख्यं परीक्ष्यैवप्रमाणी करणीयमित्याह कात्यायनः।

राजा क्रियाः समाहूय यथान्यायं विचारयेत्।
लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः॥
दर्पणस्थं यथाविम्बमसत्सदिव दृश्यते।
तथा लेख्यस्य विम्वानि कुर्वन्ति कुटिला नराः॥

व्यासः । लेख्यमालेख्यवत्केचित् कुर्वन्ति कुशला नराः।

तस्मान्नलेख्यसामर्थ्यात्सिद्धिरैकान्तिकी मता॥

बृहस्पतिः।ज्ञात्वा देशञ्च कालञ्च कुशलाः कूटकारकाः।

कुर्वन्ति सदृशं लेख्यं तद्यत्नेन विचारयेत्॥
स्त्रीबालार्त्तालिपिज्ञांञ्च वञ्चयन्ति स्वबान्धवा।
लेख्यं कृत्वा खनामाङ्कंज्ञेयं युक्त्यागमैस्ततः॥

कात्यायनः। साक्षिदोषाङ्गवेद्दुष्टं पत्रं वै लेखकस्य च।

धनिकस्यापि वै दोषात् तथा धारिणकस्य च॥
दुष्टैर्दुष्टम्भवेल्लेख्यं’ शुद्धैःशुद्धं’ विनिर्दिशेत्।
तत्पत्रमुपधादुष्टैःसाक्षिलेखककारकैः।

उपधात्र दुष्टान्तःकरणता। स एव।

धनिकेन स्वहस्तेन लिखितं साक्षि-वर्जितम्।
भवेत् कूटं नचेत्कर्त्ता कृतं हीति विभावयेत्॥
देशाचारविरुद्धं यत्सन्दिग्धं क्रमवर्जितम्।
कृतमस्वामिना यच्चसाध्यहीनञ्च दुष्यति॥

नचेदित्यादेरयमर्थः। कर्त्ता लिखनकर्त्ता धनिकाधमर्ण-

सम्प्रतिपत्त्या मयैतल्लिखितमिति यदि न विभावयेत्तदा तत् पत्रं कूटं भवेदप्रामाण्यशङ्कास्कन्दितं स्यादिति।व्यासः।

अदृष्टं श्रावितं लेख्यं प्रमीतधनिकर्णिकम्।
अबन्धलग्नकश्चैव बहुकालं न सिध्यति॥

एतदपवादमाह वृहस्पतिः।

उन्मत्तजड़बालानां राजभीति प्रवासिनाम्।
अप्रगर्ल्भयार्त्तानां न लेख्यं हानिमाप्नुयात्॥

उन्मत्तादीनां लेख्यन्तददर्शनादिनापि हानिं नाप्नुयादित्यर्थः। बृहस्पतिः।

दूषितो गर्हितः साक्षी यत्रैकोऽपि निवेशितः।
कूटलेख्यन्तु तत्प्रोक्तं लेखको वापि तद्विधः॥

कात्यायनः। न लेखकेन लिखित न दृष्ट साक्षिभिस्तथा।

एवं प्रत्यर्थिनो लेख्य कूटलेख्य प्रकीर्त्तितमिति॥

कूटमप्रामाण्यशङ्काकलङ्कितमित्यर्थः। तम्माद्दृष्टलेखपरीक्षाऽवश्यापेक्षणीयेत्यभिप्रायः।परीक्षाप्रकारमाह।कात्यायनः।

त्रिविधस्यापि लेख्यस्य भ्रान्तिः सञ्जायते नृनाम्।
ॠणि साक्षिलेखकानां हस्तोक्त्या साधयेत्ततः॥
स एव। अथ पञ्चत्वमापन्नो लेखकःसह साक्षिभिः।
तत्स्वहस्तादिभिस्तेषां विशुद्धिः स्यान्नसंशयः॥
ऋणी स्वहस्तसन्देहे जीवतो वा मृतस्य वा।
तत्स्वहस्तकृतैरन्यैः पत्रस्तल्लेख्यनिर्णयः॥

याज्ञवल्क्यः। सन्दिन्धे लेख्यशुद्धिः स्यात् स्वहस्तलिखितादिभिः।

युक्तिप्राप्तिक्रियाचिह्नसम्बन्धागमहेतुभिः॥

एतद्देशकालयोरस्येदन्द्रव्यं घटत इति युक्त्या प्राप्तिः युक्तिप्राप्तिः

क्रिया साक्ष्यादिभिः।चिह्नमसाधारणं यस्य यच्छ्रीकारादि। सम्बन्धपूर्वमपि परस्परविश्वासकृतस्तयोर्दानग्रहणादि सम्बन्धः। आगम एतावता द्रव्यस्यास्मिन्देशे कालेऽस्य सम्भावितः प्राप्त्युपायः। एतैर्हेतुभिः हेतुरसाधारणोऽन्यो गोवृपनयेन पृथगेव वा। प्रतिवादिना लेख्यदोष उद्भाविते वादिना तत्पुत्रेण वा तदुद्धारः करणीय इत्याह। वृहस्पतिः।

उद्धरेल्लेख्यमाहर्त्ता तत्पुत्रोभुक्तिमेव तु।
अभियुक्तः सभातश्चेत् तत्पुत्रोऽपि तदुद्धरेत्॥

यत्तु कात्यायनः। साक्षिलेखक-कर्त्तारःकूटतां यान्ति ते यथा।

तथा दोषाःप्रवक्तव्या दुष्टेर्लेख्याप्रदुष्यति।
आहर्ताभुक्तियुक्तोऽपि लेख्योदोषान् विशोधयेत्॥
तत्सुतो भुक्तिदोषांस्तु लेख्यदोषानवाप्नुयात्॥

तदनभियुक्तपितृमरणे वेदितव्यम्। दोषानुद्धारे दण्डमाह।कात्यायनः।

कूटोक्तौसाक्षिणां वाक्याल्लेखकस्य च पत्रकम्।
नयेच्छुद्धिन्नयेत्कुटं स दाप्यो दममुत्तममिति॥

उत्तमं साहसमिति शेषः। राजशासने निर्णयप्रकारमाह।प्रजापतिः।** **

कार्य्योयत्नेन महता निर्णयो राजशासनात्।
राज्ञः स्वहस्ततो मुद्रालेखकाक्षरदर्शनात्॥

मुद्रालेखकाक्षरयोर्दर्शनान्निर्णयाद्राजस्वहस्ततञ्चनिर्णय इत्यर्थः। स्थावरविक्रयबन्धकादौ कूटत्वेन लेख्यं दूषयतो साधयतञ्च दोष शरीर- दण्डमाह।व्यासः।

स्थावरे विक्रयाधाने लेख्यं कूटङ्करोति यः।
स सम्यग्भावितः कार्य्योजिह्वापाण्यद्ध्रिविर्जितः॥

सम्यगभावितः प्रमाणेन सल्लेख्यत्वमङ्गीकारितः। अनेन कूटलेख्यकर्त्तु र्न्नायन्दण्डः किन्तु कूटत्वोङ्भावनकर्त्तुरिति गम्यते। तथा च लेख्यंपरकीयं यः कूटङ्करोति कूटमेतदिति वदतोत्यर्थः। कूटलेखाकर्त्तुस्तु दण्डान्तरं वक्ष्यते। ऋणादानादावपि लेख्यदोषोद्भावयितु- स्तदमाधयतो विषयानुबधानुरोधेन दण्डः कल्प्यः। लेख्यप्राबल्यमथाह।वृहस्पतिः।

कुलश्रेणिगणादीनां यथाकालं प्रदर्शयेत्।
श्रावयेत् स्मारयेच्चैव यथा स्याद्बलवत्तरम्॥

नारदः। ये दर्शित प्रतीकालं श्रावितं स्मारितञ्च यत्।

लेख्यं सिध्यति सर्वत्र मृतेष्वपि हि साक्षिषु॥

कात्यायनः। दृष्टे पत्रे स्फुटन्दोषन्त्रोक्तवान्नृणिको यदि।

ततो विंशतिवर्षाणि स्थितं पत्रं स्थिरम्भवेत्॥

ऋणिकग्रहणं प्रतिवादिमात्रोपलक्षम्। स एव।

शक्तस्य सन्निधावर्थी यस्य लेख्येन भुज्यते।
विंशद्वर्षाण्यतिक्रान्तं तत्पत्रंदोषवर्जितम्॥
अथ विंशतिवर्षाणि आधिर्भुक्तः सुनिश्चितः।
तेन लेख्येन तत्सिद्धिर्लेख्यदोषविवर्जिता॥
सीमाविवादे निर्णोते सीमापत्रं विधीयते।
तस्य दोषाः प्रवक्तव्या यावद्वर्षाणि विंशति॥
प्राप्तं वा तेन ते किञ्चिद्देयं वाथ निरूपितम्।
विनापि मुद्रया लेख्यं प्रमाणं मृतसाक्षिकम्॥
अपिशब्दो मृतसाक्षिकमित्यत्राप्यन्वेति।

व्यासः। स्वहस्तकाज्जानपदन्तस्मात्तु नृपशासनम्॥

प्रमाणान्तरमिष्टं हि व्यवहारार्थमागतम्।

द्वित्रलिपिज्ञ स्वकृत मन्यल्लिख्येत युक्तितः॥
कुर्य्याद्विसदृशं लेख्यन्तस्माज्जानपदं शुभम्।
अप्रकाशात् साक्षियुक्तं लेखकाक्षरमुद्रितम्॥
लोकप्रसिद्धं स्वकृताद्वरमन्यत्कृतं शुभम्।
देशाध्यक्षादिलिखितं तत्र जानपदं कृतम्॥
समकालम्पश्चिमं वा तत्र राजकृतं शुभम्।

सरुर्तः। लेख्ये लेख्यक्रिया प्रोक्ता वाचिके वाचिकी मता॥

वाचिकी तत्रसिद्धेत्सालेख्यस्योपरि या क्रिया।
लेख्यस्योपरि यत्साक्ष्यंकूटन्तदभिधीयते॥
अधर्म्मस्य हि तद्द्वारमतो राजा विवर्जयेत्।
वाचिकी यदि सामर्थ्य मक्षराणां विहन्यते॥
क्रियाणां सर्वनाशः स्यादनवस्था च जायते।

अस्यार्थः। लेख्ये सति लेख्यक्रिया प्रोक्ता सैव वलीयसीत्यर्थः॥ वाचिके साक्षिरूपे प्रमाणे सति वाचिकी क्रिया साक्षिरूपाक्रिया सैव मता वलीयसी। लेखस्योपरि या वाचिकी साक्षिरूपा क्रिया लेख्यानारूटेति यावत् तत्र सा सिध्येत्। लख्यस्योपरि यत्साक्ष्यलेख्यसाधकतयो- पन्यस्तमित्यर्थः। अधर्मस्य च तद्द्वारमित्यत्रहेतुर्वाचिकीति।

तत्रापि हेतुः क्रियाणामिति। तत्राप्युपपत्तिरनवस्थेति। प्रमादपरिहारमति यत्नेन कृत्वा हि प्रायशो लेख्यंभवति तेन तत्राप्यप्रमाण्यशङ्कापि सापि नोचिता।साक्ष्यादावपि तत्ससम्भवादिति तात्पर्य्यम् नतु सर्वथा तत्र साक्ष्यादिनिवर्त्तनमभिप्रेतं लेख्यपरीक्षोपदेशविरोधात्। इति लेख्यनिरूपणम्। अनयोश्चसाक्षिलेख्ययोः शब्दाभिव्यञ्जकत्वाच्छब्दप्रमा-

गोऽन्तर्भावः। तथा हि। यथोक्तगुणवतां दोषरहितानाञ्चसाक्षिणामाप्तवाक्यावश्यम्भावात् आप्तवाक्यस्य प्रामाण्यात्।चतदुभयविशेषणवांस्तु निर्धारणायैव साक्षिपरीक्षोपदेशः।आप्तवाक्यस्य च वक्तृज्ञानुमापकत्वेन स्वातन्त्र्येण वा प्रामाण्यमित्यन्यदेतत्, लेख्यान्तु स्वस्य हितकारित्वेन स्वस्मिन्नासत्वात्तद्वचनाभिव्यञ्जकमित्याप्तवाक्यमेव तत्रापि प्रमाणम्। अतएवतत्रानामक छलकृतत्वशङ्गानिरासाय उन्मत्तादेःस्वहितानभिज्ञतया स्वस्मिनप्येनाप्तत्वाच्छङ्गानिरासाय च लेख्यपरीक्षोपदेशोप्यर्थवान्। अयभुक्तिः। इयञ्च याज्ञवल्क्यादिभिरेकैव विविधमानुषप्रमाणान्तर्गततयोक्ता।

प्रमाणं लिखितं भुक्तिः साक्षिणति कीर्त्तितम्।
एषामन्यतमाभावे दिव्यान्यतममुच्यते॥

इत्यादिवचनैः वृहस्पत्यादयः मानुषप्रमाणभेदतयोपन्यस्ततद्धेदत्रैविध्यं भुक्तियुक्तिचोदना ऽप्रतिकालाख्यातवन्तः।

साक्षिद्वादशभेदन्तु लिखितन्दशधास्मृतम्।
अनुमानं त्रिधाभिन्नं नवधा दैवकी क्रिया॥

इत्युक्ताभुक्तियुक्तिचोदना ऽप्रतिकालान् बृहस्पतिर्विवृतवान्। तत्र युक्तिचोदनाऽप्रतिकालयोः प्रमाणान्तरसहकारितयैवप्रामाण्य भुक्तेष्ववक्ष्यमाणविशेषणवत्याः स्वत्वहेत्वविनाभावास्वत्वानुमापकत्वं स्वत एवेत्यभिसन्धाय योगीश्वरादिभिर्भुक्तिरेव प्रमाणतयोक्तांऽन्यैस्तु यथा कथञ्चिदनुमापकतामभिसन्धाय युक्तिचोदना ऽप्रतिकालसंग्रहायानुमानत्वेनैव सोक्तेति सौकर्यायत्रयमपि निरूपयामः। तत्र क्वचित् सागमाया भुक्तेःप्रामाण्यं

मनसि सन्दधानः। सप्तस्थावरागमोपायान् प्रदर्शयं स्तत्र भुक्तेः प्रामाण्यमाह। बृहस्पतिः।

एतद्विधानमाख्यातं साक्षिणां लिखितस्य च।
साम्प्रतं स्थावरे प्राप्ते भुक्तेश्च विधिरुच्यते॥
विद्यया क्रयबन्धेन शौर्यभार्य्यान्वयागतम्।
सपिण्डस्याप्रजस्यांशं स्थावरं सप्तधा कृतम्॥
पित्र्य लब्धक्रयाधाने रिक्थशौर्य्यप्रवेदनात्।
प्राप्ते सप्तविधे भोगः सागमःसिद्धिमाप्नुयात्॥

स्थावरग्रहणमत्रभुक्तेरावश्यकत्वसूचनाय न तु तत्रैव भोगस्य प्रामाण्यनियमाय जङ्गमेऽपि तत्सम्भवात्, तदेतदुत्तरत्नविवेचयिष्यामः। विद्यया प्रतिग्रहादिकप्रयोजकतया स्वत्वोपायक्रयप्रसिद्धः। बन्धो बन्धकं सोपाधिकं स्वत्वहेतु र्नष्टाधिविधौ चात्यन्तिकस्वत्त्वहेतुस्तदप्यु- त्तरत्रविवेचनीयम्। क्रयबन्धेनेति समाहारद्वन्द्वएकत्वम्। शौर्य्यागतं युद्धार्जितम्। भार्य्यागतं विवाहकाले प्राप्तम्। अन्वयागतं पित्रादिक्रमोपात्तम्। अग्रजस्य सपिण्डस्यांशं रिक्थहरान्तराभावे पिण्डदानाद्यधिकारितया प्राप्तम्। पित्र्य इत्यादिना प्रागुक्तानेव सप्तस्थावरागमोपायानून्द्य तत्र भोगस्य प्रामाण्यं विधीयते। तत्र प्रवेदनं विवाह स एव।

क्रमागतः शासनिकः क्रयाधानागमान्वितः।
एवंविधस्तुयो भोगः स तु सिद्धिमवाप्नुयात्॥
संविभागक्रयप्राप्तं पितृलब्धञ्च राजतः।
स्थावरं सिद्धिमाप्नोति भुक्त्या हानिमुपेक्षया॥
प्राप्तमात्रं येन भुक्तंस्वीकृत्यापरिपन्थिन।

तस्य तत्सिद्धि माप्नोति हानिश्चोपेक्षया तथा॥
अध्यासनात् समारभ्य भुक्तिर्यस्याविघातिनी।
त्रिंशद्वर्षाण्यविछिन्ना तस्य तां न विचालयेत्॥

अपरिपन्थिनम्। विरोध्य प्रतिबद्धम्।अध्यासनात्परीग्रहात्।

नारदः। आगमेन विशुद्धेन भोगोयाति प्रमाणताम्।
अविशुद्धागमो भोगा प्रामाण्यन्नैव गच्छति॥
आगमस्याविशुद्धत्वं विरोध्यास्कन्दनं भवेत्।

व्यासः। सागमो दीर्घकालञ्च विच्छेदोपरवोज्झितः।
प्रत्यर्थिसन्निधानश्च परिभोगोऽपि पञ्चधा॥

विच्छ्रदान्तरो य उपरव आक्रोशस्ताभ्यामुज्झितो रहितः। यद्वा छेदो व्यवधानन्तद्विगमवान् विच्छेदो निरन्तर इति यावत्। अपरवो वर्जनविषयो रवः। मदीयं क्षेत्रादि त्वया किमिति भुज्यत इति प्रतिषेधः। अपशब्दस्य वर्जनार्थत्वात्। तेनोज्झितः। नारदः।

सम्भोगं केवलं यस्तु कीर्त्तन्नागमं क्वचित्।
भोगच्छलापदेशेन विज्ञेयः स तु तस्करः॥

इदं सागमत्वविशेषणं तदनुपन्यासेदूषणञ्च स्मरणञ्च स्मरणयोग्यता यत्रागमस्य तत्रकाले बोद्धव्यम्। सच कालः शतवर्षावधिकः शतायुर्वै पुरुष इति श्रुतेरिति विज्ञानयोगिनः। पुत्रादिक्रमेणापि स्मरणासम्भवाद् यावति काले स्मरणन्तावानेव विवक्षितोऽस्मार्त्तइति तु वयम्। अनेनाभिप्रायेणाह स एव।

स्मार्त्तेकाले कियाभुक्तेःसागमा भुक्तिरिष्यते।
अस्मार्त्तेऽनुगमाभावात् क्रमात्त्रिपुरुषागतेति॥

मुक्ति प्रमाणमिति शेषः। अनुगम आगमाभावनिश्चयः। कल्पतरुकारस्तवनुगम आगमानुसन्धानमिति व्याचख्यौ।तत्वागमाभावनिश्चयस्य बाधत्वेनानुमिति प्रतिबन्धकस्याभाववचनस्यावश्यकत्वादागमानुमन्धानस्य च भोगेनैव क्रियमाणत्वेन तदभावासम्भवाच्च हेयम्। याज्ञवल्क्यः। आगमोऽभ्यधिको भोगं विना पूर्वक्रमागतात्। पूर्वेषां त्रयाणां कैमेणागतोऽस्मार्त्तकाल इति यावत् ।तस्माद्भोगाद्विना स्मार्त्तकालाद्भोगादागमो दान- क्रयादिरूपः स्वत्वहेतुरभ्यधिक उपजीव्यत्वात्। आगम विनाभोगमात्रात् स्वत्वानुत्पत्तेः। स्मरणयोग्येच काले स्मर्त्तव्याञ्जरणरूपया योग्यानुपलब्ध्यातदभावनिश्चयभोगेना गमानुसन्धानमित्यसम्भवात्॥ अस्मार्ते तु तद्भावनिश्चयाभावे निःप्रतिपक्षेण नैरन्तर्य्यादिविशेषणवता भोगेन स्वत्वहेत्वाक्षेपद्वारा स्वत्वाक्षेप इति तात्पर्य्यम्। अनेनैवाभिसन्धिनाह ।नारदः।

अन्यायेनापि यद्भूक्तं पित्रापूर्वतनैस्त्रिभिः।

न तच्छक्यमपाहर्त्तुं क्रमात्त्रिपुरुषागतम्॥

पूर्वतनैस्त्रिभिः सह पित्राभुक्तमन्यायेनापि यदि किमुत न्यायानिश्चये तदपाहर्तु नशक्यमर्थिना स्वाध्यक्षं निराक्रोशत्वनिरन्तरोपभोगे सति तस्य निरत्तरत्वात्। अत्र च सर्ववचनेपु त्रिपुरुषागतत्वम्भोगस्य स्मार्त्तकालीनन्वोपलक्षणं न तु यथाश्रुतं स्मरणयोग्योऽपि द्वितीयादिवर्षरूपे काले पुरुष त्रयात्ययसम्भवात्। तत्रच बाधेनानुमित्यर्थापत्त्योरनुदयात्। इदमेवाभिप्रेत्याह।व्यासः।

**पिता पितामहो यस्य जीवेच्च प्रपितामहः। **

त्रयाणां जीवताम्भोगो विद्मेयस्त्वेकपरूपः॥

पितामहेन यद्भुक्तंतत्पुत्रेण विना च तम्।
तौ विना यस्य पित्रा च तस्य भोगस्त्रिपूरुषः॥

कात्यायनोऽपि।मुख्या पैतामही भुक्तिः पैतृकी चापि संमता।

वयोऽपेतैरवच्छिन्ना स्थिरा षष्ठ्याब्दिका मता॥

व्यास एव। वर्षाणि विंशति र्भुक्त्वा स्वामिना व्याहृता सती।

भुक्तिः सा पौरुषी भूमेर्द्विगुणा च द्विपौरुषी।
त्रिपौरुषी च त्रिगुणा न तत्रान्वेष्य आगमः॥

भुक्त्वा भुक्तिःपाकम्पचतीति वत्प्रत्ययानुग्रहाय धातोरनुवादः। तत्रागमस्तादृशभोगेनैवाक्षिप्यते। आगमाभावनिश्चये तु सर्वं न भोगो निष्फल एव।

अनागमन्तु यो भुङ्क्तेबहून्यब्दशतान्यपि।
चौरदण्डेन तं पापं दण्डयेत् पृथिवीपतिः॥

न च यो भुङ्क्तेइत्येकवचनश्रवणादेकपुरुषोपभोग एतद्दण्डविधानमनेकपुरुषोपभोगे तु भोगस्य प्राबल्यमिति वाच्यम्। द्वितीयः पृथिवीपतिः न च यो भुङ्क्त इत्यादावप्यागमाभावनिश्चये भोगस्याप्रयोजकत्वात्। इदमेवाभिप्रेत्याह नारदः।

श्रादौ तु करणन्दातुं मध्ये भुक्तिस्तु सागमा।
कारणं भुक्तिरेवैका सन्तता या चिरन्तनी।

यदपि वचनं, यद्विनागममत्यन्तं भुक्तं पूर्वैस्त्रिभिर्भवेत्।

न तच्छक्यमपाहर्त्तुंक्रमात्त्रिपुरुषागतमिति।

तदप्युत्पन्नमुपलभ्यमानम् आगमं विना आगमाभावनिश्चयाभाव इति व्याख्येयम्। ननु स्मार्त्ते काले आगमत्वं भुक्तिविशेषणमसम्बद्धम्। सिद्धं प्रमाणान्तरादागमे तेनैव स्व स्वसिद्धौ भोगस्य विशेष्यांशस्यानुमानार्थापत्त्योरनुपयोगात्।

असिद्धेविशेषणादिति चेत् न। प्रमाणान्तरसिद्धागमसहित एव विशेषणान्तरविशिष्टो भोगः। कालान्तरे स्वत्वमवगमयति भोगरहितोऽवगतोऽप्या- गमःसाक्ष्यादिभिन्नकालान्तरे स्वत्वमबगमयितुमाचष्टे मध्ये दानक्रयादिना स्वत्वापगमसम्भवादिति विशेषणविशेष्ययोर्द्वयोरपि नानर्थक्यमसिद्धिर्वा इदमिदानीं मम स्वमिति साध्ये स्वत्वभागे आगमे आगमस्तत्रतस्यैदानींपर्यन्तमननुवृत्तौ भोग इति निगर्वः। याज्ञवल्क्यादिभिः सर्वप्रकारकानुपभोगे पूर्णस्वत्वोत्पादकता दानाद्यागमस्य नास्तीत्युक्तम्।

**आगमेऽपि वलंनैव भुक्तिः स्तोकापि यत्र नो। **

बलं पूर्णता।नारदः।

विद्यमानेऽपि लिखिते जीवत्स्वपि हि साक्षिषु।
विशेषतः स्थावराणां यत्र भुक्तन्न तत् स्थिरम्॥

दानविक्रयादेरुपभोगनिरपेक्षस्यैव स्वत्वोत्पादकत्वात् किमिति भोगलवोऽप्यवश्यंतत्रापेक्ष्यत इत्याशङ्कायामुपपत्तिरुक्ता विज्ञानेश्वराचार्य्यैः। दानादेःपरस्वत्वापादनम्परकर्त्तृक स्वीकारापेक्षाऽवश्यम्भावनीया।स्वीकारश्च त्रिविधो मानसो वाचिकः कायिकः।ममेदमित्यध्यवसायो मानसः। ममेदमित्याद्यभिलाषोवाचिकः। उपादानाभिमर्शनादिरूपेणानेकप्रकारकः कायिकः। तत्र मानसं विना स्वत्वासम्भवात् स्वत्वावश्यक एव।दानविशेषपुरस्कारेण शब्दप्रयोगविशेषनियमपाददर्शनादिचेष्टाविशेषनियमाच्चवाचिककायिकावण्यावश्यकावित्यवसीयते तत्र हिरण्यवस्त्रादौ दातृकर्तृकजलत्यागादनन्तरमेव प्रतिग्रहीतु रुपादानादिसम्भवात् त्रिविधोऽपि व्यापारः

सम्पद्यते। क्षेत्रादौ तु फलोपभोगं विना कायिकस्वीकारासम्भवादल्पेनाप्युपभोगेनावश्यम्भवितव्यमन्यथा दानक्रयादे सम्पूर्णता न भवत्युत्तरकालीनाकाराभावात्। तेन तत्सहितादागमान्तराद्विकल आगमो दुर्बलो भवति। एतच्च द्वयोरागमयोः पूर्वापरभावानवगमे तदवगमे तु स्वल्पभोगविकलोऽपि प्राक्तन एवागमो बलवान्। पूर्वेण दानादिना स्वत्वागमे दानाद्यन्तरासम्भवात्। नचैवन्तस्य क्षेत्रार्मध्यकत्वापतिः। पूर्वस्याप्यागमादुत्तरस्वाम्यानुत्तरश्चेति वाच्यम्। प्रतिश्रुतन्यायेनावेक्षणीयस्वत्वस्य सत्वात्। पूर्वस्वास्य सत्वेऽपि राज्ञेव प्रतिगृहीत्वादेः कायिकस्वीकारस्यानिःप्रतिपक्षस्य सम्पादनीयत्वात्। अथवा साक्षादेवानेन योगीश्वरवचनेन साक्षादीनां युक्तानां मानुषप्रमाणानां बलाबलमुच्यते। पूर्वव्याख्याने वार्थिकम्। द्वितीयव्याख्याने चेत्थम्। आद्ये पुरुषे साक्षिलेख्याभ्यां विगत आगमो भोगादभ्यधिको बलवान्।तेन भुक्तितः साक्षिलेख्ययोस्तत्रबलवन्मुक्तम्भवति। पूर्वक्रमागतस्तु भोगो विनापि भावितादागमाच्चतुर्थे वर्षे पुरुषेऽधिको मध्यमे तु पुरुषे भोगरहितागमात् स्तोकभोगसहितोऽप्यागमो बलवानिति स्पष्टञ्चेदमादौ तु कारणं दानमित्युदाहृते नारदवाक्ये। प्रथमपुरुषेऽपिस्वाम्यनुपभोगेन समक्षनिराक्रोशपरोपभोगेन क्षेत्रादिभूमेर्हिरण्यादेश्च कियताचित्कालेन स्वाम्यहानिः पूर्वस्वामिन आह। याज्ञवल्क्यः।

पश्यतो ब्रुवतो भूमेर्हानिविंशतिवार्षिकी।
परेण भुज्यमानस्य धनस्य दशवार्षिकी॥

मनु नारदो। यङ्कश्चिद्दशवर्षाणि सन्निधौ प्रेक्ष्यते धनी।

भुज्यमानम्परैरर्थं न स तं लब्बुमर्हति॥

व्यासः। उपेक्षिता यथा धेनुर्विना पालेन नश्यति।

पश्यतोऽन्यैस्तथाभुक्ता भूभिः कालेन हीयते॥
वर्षाणि विंशतिर्यस्य भूर्भुक्ता तु परैरिह।
सति राज्ञि समर्थस्य तस्य सेह न सिध्यति॥

नारदः। भुज्यमानान् परैरर्थान् यस्तान्मोहादुपेक्षते।

समक्षं जीवतो यस्य तान्मुक्तिः कुरुते वशम्॥

पश्वतो ब्रुवत इत्यादि षष्ठ्यनादरे। वृहस्पतिः।

ऋक्थिभिर्वा परैर्द्रव्यंसमक्षं यस्य दीयते।
अन्यस्य भुञ्जतः पञ्चान्नस तल्लब्धुमर्हति॥
पश्यन्नन्यस्य ददतः क्षितिं यो न निवारयेत्।
सतापि लेख्येन भुवं न पुनस्तां समाप्नुयात्॥

एतेषु वचनेषु विंशतिवर्षावधिकस्वामिसमक्षनिराक्षेपभोगनिबन्धना भूमेनिर्दशवर्षावधिकतादृशपरोपभोगनिवन्धना च हिरण्यादिधनस्यहानिरित्यर्थः प्रतीयते सान तावत् सत्वहानिःदर्शनकालीनप्रतिषेधदानादिवत्स्वत्वनिवर्त्तकत्वस्यलोकप्रसिद्धत्वात् उपभोगस्य च तादृशस्य स्वम्प्रति प्रमाणत्वेन प्रमाणस्य प्रमेयप्रतिज्ञापकत्वेन स्वत्वरूपाजनकतया स्वत्वोत्पादकत्वाभावात् स्वत्वस्य तदुत्पत्तिनिवृत्तिहेतूनाञ्च।लौकिकत्वस्य दायभागप्रस्तावे विस्तरेणोपपादयिष्यमाणत्वात्।गौतमादिभिस्तदुभयकथनस्य लोकप्रसिद्धनुवादात्।अनागमभोगस्य नारदवचनेन पूर्वोदाहृतनानागमन्त्वित्यादिना स्तत्वहेतुताया निरस्तत्वाच्च। अत्राहापर्कः। व्यवहारस्थिति

माश्रित्येदमुच्यते तेन धर्मगतिमिति परस्वापरस्वापहा प्रत्यवायभीरुणा परेण पूर्वस्वामिने तदर्पणीयं सभापतिसभ्यादीनां व्यवहाररीत्या तत आच्छिद्य तददानेऽपि न क्षतिः। अतएव मनुः।

अजड़श्चेदपोगण्डो विषये चास्य भुज्यते।
भग्नन्तद्व्यवहारेण भोक्ता तद्धनमर्हति ॥

व्यवहारेण भोक्तार्हतीति व्यवहारस्थितिमेवोक्तवान्। वृहस्पतिरपि सतापि लेख्येनेत्याह।अनागममित्यादि नारदवचनन्तु बहुतरधनभूमिविषयमेकपुरुषबियमाभावनिश्चयं वा। अतएव योगीश्वरः आगमस्तु कृतो येनेत्युक्तवान्।तस्मान्निह्नुते लिखितमित्यादिवचने यथायथापेक्षिततर्कसहकृतैकदेशसाधनेऽन्यैकदेशापादानेऽनिवेदितैकदेशापादानेऽनिवेदितैक देशस्य प्रागनिवेदितस्थापदानेऽपि व्यवहारदर्शिनां दोषस्तथात्रापीति तद्युक्तम्। छलं निरस्येत्यादिना व्यवहारदर्शनान्यप्येतादृशविषये दोषावर्जनीयत्वात्। निन्हुत इत्यादि वन्नसत्तर्काभावाच्च अस्मदुपपादनरीत्या तत्रापि तथा नाभ्युपगमाच्च तच्च प्रायश्चित्त विशेषपरीभाषाप्रभाप्रस्तावे। एवंविधा हि भुक्तिस्तूष्णीम्भूतस्य पश्यतः स्वामित्वे सति न घटते किन्तु भोक्तुरेव स्वामित्वे सति युज्यत इति भवति तत्र भुक्तिः प्रमाणमिति पूर्वं स्वयमेव स्वामिस्वत्वहानि परस्वत्वोत्पत्ति परत्वव्याख्यानेनास्य विरोधाच्च।न च तदप्येतदनुग्राहकतर्कप्रदर्शनेन व्यवहारस्थितिपरमेव न वस्तुगतिपरं व्यवहारहानिञ्च।भोक्ता यद्येवमुपन्यस्यति अजड़ो यमपोगण्डोयमेतत्समक्षं मया भुज्यमानं क्षेत्रादि यद्येतद्दायमनेन कुतो विंशतिवर्षावधि न प्रतिषिद्धं अस्मिंञ्चार्थे गुणोपेता बहवः मा-

क्षिणः सन्तीति तथोपन्यस्ते चायं निरुत्तरोऽवश्य म्भवतीत्येवमिति वाच्यम्। अस्य सत्तर्कत्वाभावात् आगमप्रमाणानुपन्यासेन मूलशैथिल्यात्। उपेक्षाहेत्वभाव कृतव्यवहारहानावपिवस्त्वनुमरणस्यावश्यकत्वात्। तथा च नारद उपेक्षालिङ्गाभावकृतामेव व्यवहारहानिमाह न वस्त्वभावकृताम्।

उपेक्षां कुर्वतस्तस्य तुष्णीन्भूतस्य तिष्ठतः।
काले विपन्ने पूर्वोक्ते व्यवहारो न सिध्यतीति॥

न च निरत्तरताप्रयुक्तव्यवहारहानि शङ्कानिरामाय प्रत्यक्षंस्वीये वस्तूनि परेण भुज्यमाने तूष्णीं न स्थेयमित्युपदेशार्थमिदंवचनं हीनादिलक्षणवदिति वाच्यम्। विंशत्यादिग्रहणस्यैवमानर्थक्यप्रसङ्गात्। ततो वागपि व्यवहारनिःशङ्कायास्तुल्यत्वात्।लेख्यदोषोद्भावनमुत्तरकालेन कायन्ततोवक्तुःकार्य्यमित्येतदर्थंतङ्ग्रहणमिति चेत् न। आध्यादिष्वपिविंशत्याद्युत्तरकाले तदद्नुभावनस्य तुल्यतयैतदपवादत्वेनोत्तर- वाक्यासङ्गतस्तञ्च लेख्यप्रस्तावेऽभिहितम्। अत्र मिताक्षराकाराः। न वस्तु हानिर्नव्यवहारहानिरनेन वचनेन प्रतिपाद्यते। किन्तु परकृतसमक्षभोगे ऽप्रतिषेध लक्षणस्वापराधप्रयुक्त क्षेत्राद्युत्पन्न नष्टफलानि विद्यमानफलेऽपि तदीयस्वत्वानपगमात् परस्वत्त्वानुत्पादाच्चन्यायत स्तद्वस्तु विद्यमानफलसहितमेव लभते यद्यपिस्वामी तथापि नष्टे फले धर्म्मिनाशादेव स्वत्वापगमान्निष्क्रयद्वारेण चौरादिव भोक्तुः सकाशात् तद्ग्रहणप्राप्तमुपेक्षारूपापराधान्त्र भवति परस्योपभोगलक्षणापराध निबन्धनो राजदण्डस्त्वनुवादाभोक्तुर्भवत्येव। अनागमत्वेत्यादिनारदवचनात्।परोक्षभोगे सापेक्षा समक्षभोगे च नष्टमपि फलनिष्क्रदरूपेण

स्वामी लभत एव।पश्यतो ब्रुवत इति वचनात्। विंशतिवर्षेभ्यो भूमेर्दशवर्षेभ्यश्च प्राग्धनस्य नष्टमपि फलन्तन्निष्क्रयरूपेण प्राप्नोति। विंशतिदशशब्दोपादानादिति अत्रेदं वक्तव्यम्। नष्टफलालाभे प्रतिषेधरूपापराध एव। वीजं वचनं वा नाद्य। विंशत्यादिवर्षोपभोगवत्ततः प्रागपि समक्षभोगेऽप्रतिषेधापराधस्य तुल्यत्वात् तत्कृतनष्टफलालाभप्रसङ्गे विंशत्यादि ग्रहणाविवक्षाप्रसङ्गदोषसाम्यात्। तत्परिहाराय वाचनिकत्वं यदि नष्टफलालाभस्य, तर्हि यथाश्रुतभूम्यादिस्वत्वहानिरेव वचनादस्तु। किन्नष्टफलपरतया लाक्षणिक्या अतएव कल्पतरुरत्नाकरस्मृतितत्व स्मृतिचन्द्रिककारादिभिर्वचनस्वरसायात एवयोऽभ्युपगतः। अत्र ब्रूमः। यावता विना वचनमनुपपन्नं तावदेव वचनमस्तकेकल्पामतएव यथाश्रुतार्थग्रहणे समस्तभोगापेक्षायां स्वत्वनाशकत्वमुपभोगस्य परकृतस्य तत्कालीनस्य स्वत्वोत्पादकत्वमलौकिकं वचनान्तरविरुद्धञ्च कल्प्यमस्मन्मते तु नष्टफले धर्मिनाशात् स्वत्वनाशः क्लृप्त एव परस्वत्वोपभोगे चौरादिवन्निष्क्रियरूपेण तत्प्रत्यर्पणमपि लोकप्रसिद्धत्वात् प्रसक्तंविंशतिवर्षाद्युत्तरमपराधविशेषात् स्वामिनस्तदलाभमुखेन प्रतिषिध्यते स एव चास्य दण्डः। इतरत्सर्वंवचनान्तराविरुद्धमेवेति। भवदेवस्तु। किमयं विंशतिवर्षाद्यावच्छिन्नोप्रतिरवोभोगो वचनावगतो भोक्तुः स्वत्वं जनयति प्रमापयति वा। नाद्यः याजनादिवदस्य स्वत्वजनकत्वस्य लोकशास्त्रयोरप्रतीतत्वात्। नापि द्वितीयः। लिङ्गतयावा प्रमापय किन्त्वमनुपपन्नतया वा। न द्वयममि ईदृशभोगस्य स्वत्वेन सह कुत्रापि व्याप्तेरग्टहीतत्वात्। अतएव न तस्य

स्वत्वेन विनानुपपत्तिरपि । तस्या अपि व्याप्यछायोपजीवितत्वात् । किञ्चानेन प्राचीनस्वत्वस्य सत एव प्रमाणमागमानुमा नद्वारा तन्निरपेक्षतया वा । न तावत् प्रथमः स्मार्त्तकालीन सागमाभावनिश्चये तदनुमापकत्वस्य बाधेनासम्भवात् । प्रमाणान्तरेगागम निश्चयेऽस्य सिद्धसाधनेनानुमानक- वाक्षेपकवयो रसम्भवात् । न द्वितीयः । व्यभिचाराञ्च ? अन्ययेनापि यद्भुक्ता मिति वचनविरोधाच्च स्वस्यान्यायेन भोगासम्भवात् । किञ्चे- यमनुपपन्नता स्त्रीराजादिधनगोचरापि सम्भवतीति तत्र न कदाचिदपि भोगःप्रमाणमिति कुतः तस्मादेवं वाच्यम् ।यदयं यथोक्तोभोगः पूर्वस्वामिनो भोक्तुदेशेन त्यागात् तत्स्वत्वध्वसमर्थापयति अनुमापयति वा नहि सम्भवति तन्त्र ज हाति । परभोगश्चेदृशं तस्मिन्वस्तुनि क्षम्यत इति । तथा च तदुद्देशेन त्यक्ते तत्परिग्रहणादेव परस्य तत्र स्वत्वमप्युत्पद्यते । यथा सर्वभूतोद्देशेन त्यक्त तोयादीति नियमात्तदपि भक्तुःस्वीभवति । स्त्रीराजधनादौ तु नैवम् स्त्रीणामज्ञत्वादप्रागल्म्याद्राजघनस्य बहुलतथा जडादेरप्रागल्म्याच्छ्रोत्रियस्यबहुकाली. नाध्यापनादिव्यग्रतयाऽध्युपनिधी सीमादीनामाधित्वादि त एवस्वत्वध्वंजनकपूर्वस्वामित्यागाऽकल्पकत्वात् । अतो भूम्यादौ विंशतिवार्षिको गवादौ दशवार्षिकोभोगः पूर्वस्वामिनः स्वत्वध्वंसे च प्रमाण यच्च कालवैषम्यं तद्भूम्यादेर्महाफलत्वं न तत्र चिरकालेनैव स्वत्वद्वानिकल्पनस्योचितत्वात् द्रव्यान्तराणाञ्चाऽतथा- त्वादल्पकालेनापि स्वत्वहानिकल्पनाया उचितत्वादौचित्यासिद्धम् । यच्च भूम्यादावेव कालवैषम्येण भोक्तुःस्वत्वजननं तदपि वचनादेव युक्तं यथा तदेव जन्म पुत्रस्यपितृधने स्वत्व

जनकन्न तु पुत्र्याइति अत्रप्रदीपकृतः।यत्र हि मत्कृत्येदानींनात्रफलसम्भावना तदधुना तावत्पर एव भुक्ता पश्चादेतत् सकाशात् सफलोपभोगां भुवं ग्रहीष्यामीत्याद्यभिसन्धाय भूम्यादि स्वामी तत्र परोपभोगं क्षमते तत्रापि विंशत्याद्यधिकोभोगोऽस्ति स्वामिनस्तदुद्देशेन त्यागश्चनास्तीति व्यभिचाराम्नेदृशभोगस्य पूर्वस्वाभिस्वत्वत्यागे प्रामाण्यम्। न चात्रसर्वस्वामिना स्वीयत्यागभावम्प्रतिज्ञा यद्दिव्यङ्कार्यन्तत्रच तद्भङ्गेत्यागनिर्णये परिग्रहात्परस्य स्वत्वं निर्वाधमिति वाच्यम्। यतस्तथापि पूर्वभोगसिद्धस्य पूर्वस्वामिपरिग्रहस्य त्यागानवधारणकालीनत्वेन भोक्तुःस्वत्वाजनकतया तद्वैयर्थ्यात्। किञ्च भूस्वामी सचेताः किमिति वृथैव तत्र स्वत्वं जह्यात्। न ह्यत्रदृष्टमुद्देश्यन्नाप्यदृष्टं धर्मशास्त्रोक्तोति कर्त्तव्यताविरहात्। महेच्छत्वसुशीलत्वदयालुत्वादिनापि न त्यागसम्भवः। स त्यजन्नपितैरेव हेतुभिः क्षमत इत्यस्यापि सम्भवात् । नापि यदुद्देशेन यत्त्यज्यते तत्तस्य स्वमिति नियमः।उद्देश्येनागृहीते व्यभिचारात्। अपि च। त्यागाद्भोक्तुः स्वत्वं स्वरूपसतोज्ञानद्वानाद्यः। अदृष्टचरत्वात्। द्वितीये च तज्ज्ञानम्भोक्तुःस्वामिवचनात् स्यात्तथा च तदुद्देशेन मयेदन्त्यक्तमिति स्वामिनस्तदभिसन्धिपूर्वकं वचनं ज्ञापकदानमेवेति त एव स्वामिनः स्वत्वध्वंसे कृतमुपेक्षानुसरणेन नच यथोक्तक्षमयैव त्यागानुमानं अत्यक्तोऽपि सौशील्यादीनाक्षमासम्भात्। नचैवं यथोक्ताक्षमया भोक्तुःस्वत्वानुमानमपि न स्यात्। पूर्वस्वामिनः स्वत्वसत्वेऽपि सौशील्यादिना तस्य अन्यथासिद्धत्वादिति वाच्यम्। तावत्कालं सौशील्यादिना क्षमायाःअसम्भवसद्वकृतो भोगो भोक्तुः

स्वत्वप्रमापकइतिस्मृतिबलाद्वगतम्। तच्च स्वत्वं पूर्वागमाद्वोत्पद्यते स्वामिनोभोक्तुद्देशेनतद्वस्तुत्यागाद्वेत्यत्व ततोग्रह इति अत्रवदामः।प्रदीपकृद्भिर्यत्सिद्धान्तितं क्षमाया स्तायत्कालीनायाः सौशौल्यादिहेतुकत्वासम्भवेनसहकृतोभोगोभोक्तुःस्वत्वं प्रमाप्रयति तच्चभोक्तुःपूर्वागमाद्वोत्पद्यतां भोक्तद्देश्यकस्वामि कृतत्यागाद्वेत्यत्रततोग्रह इति तत्र प्रष्टव्यम्भोक्तुःस्वत्वोत्यादकौ पूर्वागमस्वामिकृतभोक्त्रुद्देश्यकत्यागौ प्रमाप्य तावत्कलीनो भोगोभोक्तृःस्वत्वमनुमापयत्यप्रमाप्य वानाद्यः भोक्तुःपूर्वागमसिद्धौ सम्प्रतितत्त्वस्वामिनः। स्वाम्यासम्भवेन तदीयाप्रतिरव विंशत्यादिवर्षकालीनभोगोपन्यासवैयर्प्यात्।तेनैव तदनुमानान्न तद्वैयर्य्यमिति चेत् न तत्र व्यभिचारेणानुमानासम्भवात् भोत्कु कद्देश्यकत्यागप्रमापणेऽपि तद्दूषणानपगमात् न द्वितीयः पूर्वस्वत्वध्वंसानवगमे भोगसहस्रेणापि स्मार्त्तकालीनेन भोक्तुःस्वत्वानुमानं वानुमानबाधात्। स्मार्त्तव्यास्मरणरूपयोग्यानुपलब्धेर्जागरुकत्वात्। यश्चात्र ततोग्रह इत्यनास्थावादः सोऽप्ययुक्तः पूर्वागमभोत्क्रुद्दोश्यकस्वत्वत्यागयोः फलभेदेन तत्त्वनिर्णयफलके निर्धारेऽन्यतरनिर्द्धारणस्यावश्यकत्वात्। पूर्वागमोहि यदि भोक्तुरेव सम्प्रति स्वामिनमन्यस्याभोक्तुर्मिर्य्याभियोगनिबन्धनो दण्डोऽपि स्यान्न केवलम्भुधनहानिः।तस्य स्वत्वस्थागमसिद्धौ तदपलामदण्डमात्रं न मिथ्याभियोगित्वनिमित्तो द्विगुणो दण्डः स्वत्वहानिकभयपक्षे तुल्या विंशत्यादिग्रहणाविवक्षाप्रसक्तिश्चोभयपक्षेपि कक्षा करणीया।भोक्तृ पूर्वागमपूर्वस्वामिकर्त्तृकभोक्तुद्देश्यकत्यागस्य द्वित्रादिवर्षोपभोगस्थलेऽपि सिद्धौ भोक्तृ स्वत्वस्यावारणीयत्वात्। भव-

देवमताच्च भवन्मतस्य नातीव भेदः यथोक्तभोगो भोक्तद्देश्यकपूर्वस्वामिकर्त्तृकत्यागं कल्पयंस्ततस्तत्स्वावध्वंसे सति परिग्रहाद्भोक्तुःस्वत्वोत्पत्तिं निर्बाधामादधातीति मदर्थमिदं वचनं बोधयतीति तन्मतन्तञ्च त्वयाप्यभ्युपगतन्तावत्कालीनभोगस्य सौशील्यादि हेतुकत्वात्सम्भवेन पूर्वस्वामिन इदानीन्तन भोगकत्रुः द्देशत्यागं विन तदीयपूर्वागमं विना सम्मवाद्भोक्तुःस्वत्व निभित्तत्वेन तदुभयान्यतरानास्थावादमभ्युपगच्छता तथा च यत्तन्मते नैकान्तिकत्वन्त्वयाटूषणमापादितन्तुद्भवन्मतेऽपि तुल्यम्। यच्च सौशील्यादिहेतुकत्वन्तावत्कालीनक्षमायां न सम्भवतीत्युक्तन्तत्तन्भतेऽपि समाधानक्षममेवेति। वस्तुतस्तु तावत्कालीनक्षमायाः सौशील्यादिहेतुकत्वासम्भवोऽपि न नियतः। अति सुशीलतादिस्वभावानामाजन्माप्युपेक्षायाः सम्भवात्। वचनमस्तकेऽति गौरवञ्चोभयमते तुल्यम्। विज्ञानेश्वरमते त्वतिलाघवमुपपादितमेव। किञ्च स्मार्त्ते कालेस्मर्त्तय्यास्मरणरूपया योग्यानुपलब्ध्या भोक्तुरागमाभावनिश्चये पूर्वस्वामिनश्च त्यागाभावनिश्चये तदीयपरिग्रहकृतस्वत्वोत्पत्तिपूर्वस्वामित्वध्वसाबुभावपि कल्पयितुम शक्याविति मतद्वयमपीदमत्ययुक्तम्।यच्च परमत्रप्रदीपकृद्भिरुक्तम्। आधेरनुपभोगेन यत्रासिद्धिस्तद्विषयम्पश्यतो ब्रुवत इत्यादि वचनम्। तेन यत्राधिग्रहीत्राधेयममूम्यादि र्न भुज्यते। किन्त्वाध्यत्र चिरम्भुक्त्वान्यत्राधीयते तत्रोत्तरस्याधिर्गृहीत स्तत्र भूम्यादौ प्रभुत्वं नतु प्रथमस्येत्याधौ प्रतिग्रहे क्रीते पूर्व्वातुबलवत्तरेत्येतदपवादार्थमिदमीदृशे विषये वचनन्तेनात्रद्वितीयस्यैवाधिः सिद्धति। यद्दा हानिपदमुपेक्षित कोटौ विचारकाणामुपेक्षानि

मित्ता न्यूनता प्रतिभातीति संशयतादवस्थ्यपरन्नतु हानिर्भङ्ग एव। तथा सति हीनस्य गृह्यते तादृश इत्यादि वचनसिद्धं दण्डमत्तरेणैव पुनर्व्यवहारदर्शनन्नघटत इति पुनर्विचारेणैवात्रापीति निर्णयः। अतएवोपेक्षिता यथा धेनु र्वर्षाणि विंशतिर्यथेत्यादिव्यासवचनयोः पश्यन्तमनादृत्य ये यदीये भूमिधने परैरुपभुज्येते तदीयत्वेन ते हीयेते न निश्चीयेते इति व्याख्यानं रत्नाकरकृतापि कृतम्। किञ्च यदि विशतिवार्षिकी भुक्तिः स्वतो भोक्तुःस्वत्वे प्रमाणन्तर्हि तत एव साध्यसिद्धौ शक्तसन्निधावर्थइत्यादि कात्यायनवचनेन यद्भोगस्य लेख्यादोषनिराकरणार्थमुक्तन्तदपार्थक स्यादिति तदपि चिन्त्यम्। तस्यैतादृगाधिविषयत्वं न प्रकरणादर्थतः शब्दतो वावगम्यते। अस्य चाधिविशेषविषयतायामाधिसीमेत्यस्यैतदपवाद-स्येतादृगाधिभिन्नाधिविषयताप्यशाब्दी कल्प्याआधौप्रतिग्रह इत्यादेरयमपवाद इत्ययुक्तमतिव्यवहितस्य तस्यात्रानुपस्थितेः। विंशत्यादिवर्षात्प्रागपि चैतादृगाधिभोगे परक्रियायाः प्राबलस्याप्रतिहतेर्विंशत्यादिग्रहणाविवक्षाःप्रसक्तिः। वचनन्तावत्कालीनैतादृगाधिभोग एव तथेति यदि तर्हिश्रुतभूमिधनसामान्यातिक्रमेणैतादृगाधिकृततद्विषयत्वस्थाऽशाब्दस्य कल्पनञ्जल्पनमेव। उपेक्षानिमित्तकविचारकसशयता- दवस्य्यात्पुनर्विचाचारःकर्त्तव्य इत्येतन्मात्रपरमिदं वचनन्नतु सर्वथा भङ्गरूपहानिपरमिति च यदस्य वचनस्य तात्पर्य्यान्तरवर्णनं तत्रापिविंशत्यादितः प्रागपि तादृगुपेक्षाहेतुकसंशयतादवस्थ्यापरिहारात् पुनर्व्यवहारप्रवृत्त्यावश्यकत्वे विंशत्यादिपदार्था विवक्षाप्रसक्ति दुर्वारा। प्रत्युत विंशत्यादिवर्षोत्तरं तादृगुपे-

क्षायाःपुनर्विचारपुरःसर निर्णयः कर्त्तव्यः प्राक्तनेत्यनौचित्यापत्तिश्च न प्राङ्गोपेक्षककोटिन्यूनता प्रतिभासश्चिरतरोपेक्षायास्तावदेकः स इति शक्यम्। सत्यां सामग्र्यांप्रागपि तस्य वारयितुमशक्यत्वादमत्यात्तूत्तरमपि तदसम्भवात्। कालविशेषनियमानुपपत्तेः। हानिपदस्यानिश्चयपरता च बहुषु वचनेष्वयुक्तास्मिन् पक्षे प्रसज्यते। यत्रोक्तं तावत्कालीनभोगस्य भोक्तृस्वत्वोत्पत्तिहेतुत्वस्य यथाश्रुतस्याश्रययो शक्तस्य सन्निधावर्थ इत्यादि वचनोक्तं लेख्यादिप्रमाणान्तरस्वत्वसाधवस्य दोषनिराकरणमपार्थकं ताबद्भेगादेव स्वत्वसिद्धिरिति तादृग् वचनतात्पर्यवीजन्तदप्यमूलकं विज्ञानयोगिय्याख्याने तदनभ्युपगमात्। वाचस्पतिस्तु हानिबोधकस्मृतीनां प्रमाणपरिपालनकर्त्तव्यताविधिशेषत्वम्। यस्मादुपेक्षायां हानिशङ्का भवति तस्मात्स्वपरिमाणंसर्वथापरिपालनीयं नतु तत्रोदासितव्यमित्यत्र तात्पर्य्यम्। अतएव कल्पतरौ हानिवचनानि लिखितप्रमा- णपरिपालनमुपसंहृतमित्याह तदपि यद्वा तदा। विंशत्यादिग्रहणाविवक्षाप्रसक्तिप्तादवस्यात्। ततः प्रागपि प्रमाणपरिपालनस्यावश्यकत्वात्। हानिशाद्धाप्रसक्तितौल्यात्। प्रदेशान्तरस्य विधिशेषत्वानुषपत्तेरत्न च तद्विध्यश्रवणात्। अन्यत्र स्पष्टं तद्विधिसत्त्वेन तदुन्नयनस्याप्यनुपयोगात्। हानिषदेनाऽतत्फलकप्रमाणापरिपालनलक्षणाया तत्प्रतियोगिभूतप्रमाणपरिपालनकर्त्तव्यतापरत्वेऽत्यन्तक्लिष्टत्वापत्तेश्च।तस्मात् समस्तदोषशून्या- विज्ञानयोगिव्याख्यैदास्य वचसो ज्यायसी। ननु अध्यासनात्समारभ्यभुक्तिर्यस्याविघातिनी। त्रिंशद्वर्षाण्यविच्छिन्ना तस्य तां न विचालयेदिति वृहस्पतिवचमे त्रिंशद्व-

र्षभुक्तेर्हान्यापादकत्वोक्ता विंशतिवर्षभुक्तेस्तन्न्यु नवर्षभुक्तेरिवहान्यनापादकत्वमर्थसिद्धिरिति योगीश्वरव्यासादिवचनैरस्य विरोधः। नैवम्। योगीश्वरादिवचनेषु ब्रुवत इत्येतावन्मात्राभिधानाद्यत्र विरुद्ध वाङ्मात्रमपि भूमिस्वामिनो नास्ति तत्रविंशतिवर्षभोगएवहानिकारणम्।वृहस्पतिवचने तु अध्यासनाद्भूमिपरिग्रहादारभ्य यस्य भुक्तिरविघातिनी यद् प्रयोगाद्विघातस्य च कलहताडनादिरूपत्वेन लोके प्रसिद्धे वाङ्मात्रविप्रतिपत्तौ सत्यामपि यत्र भोक्ता महपूर्वस्वामिना तोद्गप्रतिरोधकं कलहताड़नादिना चरितन्तत् तत्त्रिंशद्वर्षभोगस्तादृशो हान्यापादकप्रतिवचनस्वरसेनैव विरोधपरिहारात् मम तु प्रतिभाति। विंशतिवार्षिकीत्यादि हानिविशेषणाद्भूम्याद्युत्पन्ननष्टफलस्य विंशतिवार्षिकादेर्हानिस्तावत्कालीनं तत्फलमुपेक्षालक्षणादपराधान्त्र प्राप्नोति। विंशतिदशवर्षेभ्यः प्रागुक्तभोगकालगणनया तदुत्पन्नं नष्टमपि फलं नष्क्रियरूपेण लभत एव विंशत्यादिशब्दोपादानात्। अन्यथा यावत्कालीनपरकृतभोगोपेक्षा तावत्कालीन नष्टफलहानिमेव सामान्येन वदेत्। एतावत्या विंशत्यादिग्रहणार्थकत्वे विंशत्याद्यधिकवर्षीय फलहानिर्दण्डापूपिकया सिध्यति भुक्तिविशेषणतायामिवविंशत्यादिसङ्ख्यायाः न चैवं वचनान्तरसंवदा यत्तभूक्ति विशेषणत्वव्याख्यातोऽस्य व्याख्यानस्य न फलतो विशेष इति वाच्यम्। यतो विंशत्यादिग्रहणस्य भुक्तिविशेषणत्वे कियत्कालीन नष्टफलहानिरिति साकाङ्कमेति। अतएवापराधाभावादाध्यादो न तद्धानिरपीत्याह योगीश्वरः।

आविसीमोपनिक्षेपजड़बालधनैर्विना।
तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैरपि॥

भोग्याधेर्भोगार्थमेवाधीकरणादुपेक्षायामपि न स्वामिनोउपराधःगोप्याधौ स्वाम्यनुमिति मन्तरेण भोक्तुमपराधातिशयमापादयितुमेवोपेक्षोप- पत्तिः। जडबालयोस्त्वज्ञत्वादेवोपेक्षा। उपनिध्युपनिक्षेपयोरपि भुक्तेःप्रतिषिद्धत्वात्तदतिकमे चोपनिक्षेपे पुरुषनिधातुश्च सोदयतल्लाभादु- पेक्षाराज्ञोऽनेकराजकार्य्यव्यग्रत्वात् स्त्रीणामप्रागल्भ्यानभिज्ञत्वाभ्यां श्रोतियस्याध्ययनाध्यापनतदर्थविचार श्रौतस्मार्त्ततत्तत्कर्मानुष्ठानव्यस्ततयेति सर्वत्र स यथायथमपराधविशेषसमाधानसहकृतादस्माद्वचनादत्रकदाचिन्नष्टोपचयहानिरपि भवतीत्यर्थः। अतएवाध्यादिभोगे दण्डमधिकमाह स एव।

श्राध्याधीनां विहर्त्तारं धनिने दापयेद्धनम्।
दण्डञ्च तत्समंमं राज्ञेशक्त्यपेक्ष्यमथापि वा॥

एतत्प्रस्तावे विवेचयिष्यामः। क्वचिदन्यत्रापि नष्टफलहान्यपवादो मनुनोक्तः।

खप्रीत्या भज्यमानानि न नश्यन्ति कदाचन।
धेनुरुद्रो वहन्नश्यौयश्च दग्यः प्रयुज्यते॥

दम्यो दमनार्थंयः प्रयुज्यते। मनु नारदौ।
आधिः सीमा बालधनं निक्षेपोपनिधी स्त्रियः।
राजस्वं श्रोत्रियस्वञ्च न भोगे न प्रणश्यति॥
नारदः।अन्वाहितं हृतं न्यस्तम्बलावष्टम्भयाचितम्।
अप्रत्यक्षञ्च यद्भुक्त निक्षेपोपनिधी स्त्रियः॥

अन्वाहितमेकत्राहितमन्यत्र पुनराहितम्। बलावष्टम्भ याचितं राजादिबजावष्टम्भेन स्थापितम्। इतरत्प्रसिद्धम्।

बृहस्पतिः। भुक्तिस्त्रैपरुपी सिद्ध्येदपरेषां न संशयः।
अनिवृत्ते सपिण्डत्वे सकुल्यानां न सिद्ध्यति॥
अस्वामिना तु यद्भुक्तं गृहक्षेत्रापणादिकम्।
सुहृद्वन्धु सकुल्यस्य न तद्भोगेन हीयते॥
विवाह्य श्रोत्रियै भुक्तराजामात्यैस्तथैव च।
मुदीर्घेणापि कालेन तेषां सिद्येन्न तद्दनम्॥

चित्तापनयनेषु च।

बालश्रोत्रियवित्ते च प्राप्ते च पितृतः क्रमात्।
नोपभोगे बलङ्कार्य्य माहर्त्रातत्सुतेन वा॥
पशुस्त्रीपुरषादीनामिति धर्मो व्यवस्थितः।

भोगन्नकल्पयेत्प्रमाणत्वेन नाद्रियेतेत्यर्थः॥ गौतमः। अजड़ापोगण्डधनं· दशवर्षभुक्तम्परैः सन्निधौ भोक्तुर्न श्रोत्रियप्रव्रजितराजपुरुषैः। पशुपुरुषस्त्रीणामनतिभोगः अतिभोगेनहानिरेवेत्यर्थः।

कात्यायनः। स्वजातिभिर्बान्धवैश्च भुक्तं यत्स्वजनैस्तथा
भोगात्तत्र न सिद्धिः स्याद्भोगमन्येषु कल्पयेत्॥

अन्येष्वसंबद्धेषु। सर्वत्रपभोगे सकुल्यत्वाद्यनुरोधेन शीलादेरुपेक्षाहेतोः सम्भवान्नभोगस्यान्यथोपपन्नस्य स्वत्वहेतुकल्पनाद्वास्वत्वसाधकत्वं नाप्युपचयहानि हेतुत्वमिति तात्पर्य्यम्। क्वचिदेकदेशोपभोगेन समस्तसिद्धिमाह वृहस्पतिः।

यद्येकशासने ग्रामे क्षेत्रारामाश्चलेखिताः।
एकदेशोपभोगेऽपि सर्वे भुक्ता भवन्ति ते॥
आगमेऽपि बलन्नेवभुक्तिस्तोकापि यत्त्र नो॥

इत्यस्यायमपवादः। एकशासनपत्रारूढेषु किञ्चिदुपभोगेऽपि शासनारूढभोगस्थानपेतत्वान्त्र प्रत्येकभोगापेक्षेत्याशयः। विच्छिन्न- भोगनिर्णयोपायमाह।

बृहस्पतिः।छिन्नभोगे गृहे क्षेत्रे सन्दिग्धं यत्र जायते
लेख्येन भोगविद्धि र्वा साक्षिभिः शुद्धिमाहरेत्॥
नामघाटागमं सङ्ख्यां कालन्दिग्भागमेव च।
भोगच्छेदनिमित्तञ्च ये विदुस्तस्त्रसाचिणः।
तदुत्पन्नाश्च सामन्तायेऽन्यदेशे व्यवस्थिताः।
मौलास्ते तु समुद्दिष्टाः प्रष्टव्याः कार्यनिर्णये॥
अदुष्टास्ते तु यद्व्रुयुः सन्दिग्धेसमदृष्टयः।
तत्प्रमाणं प्रकर्त्तव्यमेव धर्मो न हीयते॥
स्थावरेषु तदाख्यातं लाभभोगप्रसाधनम्।
प्रमाणहीनवादे तु निर्दे्दश्या दैविकी क्रियेति।
सीमा विवाद निर्णय एतत्प्रपञ्च विवेक्ष्यामः

एवम्भुक्तिर्निरूपिता।युक्तिस्वरूपमाह।कात्यायनः। लिङ्गोदेशस्तु युक्तिः स्यादिति।लिङ्गस्याग्निर्दत्वाद्यव्यभिचारिण उल्काहस्तत्वादेरुद्देशो निश्चयः तेन चाग्निदत्वाद्यनुमानम्।यद्यपिभुक्तिरपिनिरन्तरत्वनिरराक्रोशत्वादिमागुक्तविशेषणोपहितानुमानविषयाऽर्थापत्तिविधया वा साधिक्येति तत्रापि लक्षणमिदमतिप्रसक्तमेव वक्ष्यमाणचोदना अप्रतिका-

लेऽपि तथा ऽस्मत्प्रसिद्धिबलाङ्गोवृषवत्तद्भिन्नलिङ्गोद्देश एवयुक्तिरूपत्वेन लक्ष्यः। अतएव तत्प्रवृत्तिस्थलन्तादृशमेवाहनारदः।

अमाक्षिप्रत्ययास्वन्ये षड्विवादाः प्रकीर्त्तिताः।
लक्षयन्येव साक्षित्वे तेषामाहुमनीषिणः॥
उल्काहस्तोऽग्निदो ज्ञेयः शस्त्रपाणिश्चघातकः।
केशाकेशिगृहीतश्च युगपत्पारदारिकः॥
कुद्दालपाणिर्वितज्ञेयः सेतुभेत्ता समीपगः।
तैथाकुठारहस्तश्च वनच्छेत्ता प्रकीर्त्तित॥

समीपण इत्यत्रापि सम्बध्यते। तञ्चाविनाभावापादकविशेषणान्तरोपलक्षणम्।

प्रत्यक्षचिह्नैर्विज्ञेयो दण्डपारुष्यकृन्नरः।
अमाक्षिप्रत्यया ह्येते पारुष्ये तु परीक्षणम्॥

साक्षित्वेसाक्षिकार्य्ये प्रत्यक्षचिह्नैःशोणिताक्त खड्गादिभिः। पारुष्ये वाक्पारुष्ये परीक्षणं साक्षिगवेषणम्। यद्यपि तत्रापि गालिदानादिश्रवणं प्रत्यक्षचिह्नं मम्भवति।तथापि प्रथमप्रवृत्त्यादिनिश्चयाय साच्याद्यपेक्षोति ध्येयम्।शङ्कलिखितौ। केशाकेशिग्रहणात्पारदारिकः।हस्तोऽग्निदः। शस्त्रपाणिर्घातको लोप्तहस्तश्चौरः। केशाकेशिग्रहणादिति स्त्रीसंग्रहणे वक्ष्यमाणानामन्येषामपि चिह्नानामुपलक्षणम्।लोप्तञ्चौर्यप्राप्तं वस्तु।बृहस्पतिः।

असाक्षिके चिरकृते पृच्छेदुत्तरसाक्षिणः।
शपथैर्वानुयुञ्जीत उपधां वा प्रयोजयेत्॥

उपधा युक्तिरिति कल्पतरौ। शपथाभ्यनुज्ञानमन्यथा सिद्धयुक्त्यभावे ज्ञेयमत एव नारदः।

युक्तिष्वप्यसमर्थासु शपथैरेव मर्दयेत्।

अर्दयेत् पीडयेत्। पराजयेदिति यावत्। चोदना अप्रतिकालस्वरूपन्तु चोदनाया धनदानादिविषयकप्रेरणाया अप्रतिकालोऽप्रतिषेधः। सोऽपि यद्यस्य ऋणादिसम्बन्धीनस्थाद्याढ्यमान एनं निराकुर्य्यादनिराकरणादत्यस्यानेन सम्बन्ध इत्यर्थापत्तिविधयाऽनुमानविधया वा ऋणादिसम्बन्धं साधयन् भवति प्रमाणम्। इदमेवाभिप्रेत्याह कात्यायनः।

अर्थिनाभ्यर्थितो यस्तु विघातन्नप्रयोजयेत्।
त्रिचतुःपञ्चकृत्वो वा परतस्तदृणीभवेत्॥

नारदोऽपि।अभीक्ष्णञ्चोद्यमानोऽपि प्रतिहन्यान्न तद्वचः।

त्रिश्चतुःपञ्चकृत्वो वा परतोऽर्थं स दाप्यते॥

परतस्तर्दूद्धम्।चोदना अप्रतिकालस्य शीलादिप्रयुक्तस्यापि सम्भवाद्युक्त्यादिसहकार्य्यपक्षमाह।नारदः।

चोदनाऽप्रतिकालञ्च युक्तिलेशस्तमन्वयात्।
देशकालार्थसम्बन्धपरिमाणं क्रियादिभिः॥

अतएव तस्य विषयमप्याह। स एव।

प्रमादाद्ध्वनिनो यत्र न स्याल्लेख्य न साक्षिणः।
अर्थञ्चापह्नुतेवादी तच्चोक्तस्त्रिविधो विधिः॥
चोदनाप्रतिकालञ्च युक्तिलेशस्तथैव च।
तृतीयः शपथः प्रोक्तस्तैरेवं साधयेत् क्रमात्॥

कात्यायनः। दानं प्रज्ञापनाभेदःसम्प्रलोभक्रियाच या।

चित्तापनयनञ्चैव हेतवो हि विभावकाः॥

एषामन्यतमो यत्र वादिना भावितो भवेत्।
मूलक्रिया तु तन्नस्याद्भावितो वादिनिन्हवे॥

दान उत्कोचदानं। प्रज्ञापनाभेदःप्रज्ञापकस्वहस्तचिह्नद्यन्यथाकरणम्। सम्प्रलोभक्रिया साक्षिसभ्यादिभ्यो लोभ प्रदर्शनं चित्तापनयनं चित्तगोपनम्। एषामन्यतमोहेतुर्यत्र वादिना प्रतिवादिनाऽधमर्णदेरुपरिभावितः प्रमाणेन साधितो भवेत्तदा मूलक्रिया ऋणापहरणादिरूपा तदुपरिसिद्धैव। एवान्तदविनाभावादिति भावः। एवं साक्षिलेख्यभुक्तिरूपन्त्रिविधं मानुषं प्रमाणं निरूपितम्।

अथ दिव्यान्युच्यन्ते।

तत्रदिव्यन्नाम मानुषप्रमाणाभाव एव यन्निर्णायकं तदुच्यते। यत्तु स्मृतितत्त्वे। एवकारस्थे अपिशब्दन्दत्वा मानुषप्रमाणतत्त्वेऽपि यत्रदिव्याङ्गीकारस्तत्रापि तद्भवतीति प्रयोजनमुक्तत्तदयुक्तम्। एषामन्यतमाभावे दिव्यान्यतममिति वदता याज्ञवल्क्येन प्रमाणहीने वादे तु निर्दोषा दैविकी क्रियेति वदता वृहस्पतिना च युक्तिष्वप्यसमर्थासु शपथेरेनमर्दयेदिति नारदेनापि मानुषप्रमाणासत्वे एवं दिव्यस्य विधानात्।
तत्र वृहस्पतिः दिव्यभेदानाह।

घटोऽग्निरुदकञ्चैव विषंकोशस्तु पञ्चमः।
षष्ठन्तु तण्डुलाः प्रोक्ताःसप्तमन्तप्तमाषकम्॥
अष्टमम्फालमित्युक्तं नवमन्धर्मजन्तथा।
दिव्यान्यैतानि सर्वाणि निर्दिष्टानि स्वयम्भुवेति॥

नारदः।युक्तिष्वप्यसमर्थासु शपथैरेनमर्दयेत्।
अर्थकालबलापेक्षमग्न्यम्बुसुकृतादिभिः॥

घटोऽग्निरुदकं चैव विषं कोशस्तु पञ्चमः।
उक्तान्येतानि दिव्यानि विशुद्ध्यर्थं महात्मभिः॥
सन्दिग्धे ऽर्थेभियुक्तानाम्परीक्षार्थं महात्मनाम्।
प्रोक्तानि नारदेनेह सत्यानृत विशुद्धय इति।

अर्दयत्पीडयेत्। अर्थापेक्षत्व सिसाधयिषितार्थस्याल्पत्वंमहत्त्वानुरूपमित्यर्थः। नन्वेवामपि शपथानां मानुषप्रमाणाभाव एव निर्णायकत्वेन दिव्यत्वात् कथं दिव्यानि नवेत्यभिधानम्। तथा च शङ्खः। तत्र दिव्य नाम तुलाधारणं विषाशनमम प्रवेशो लोहधारण मिष्टापूर्त्तप्रदानमन्यांश्च शपथान् कारयेदिति। तांश्च शपथानाह वृहस्पतिः।

सत्यवाहनशस्त्राणि गोवीजकनकानि च।
देवब्राह्मणपादांश्चपुत्रदारशिरांसिच॥
एते च शपथाःप्रोक्ताःस्वल्पार्थे सुकराः सदेति।
नारदोऽपि।सत्यवाहन शस्त्राणि गोवीजकनकानि च॥

देवतापितृपादांश्चदत्तानि सुकृतानि च।
स्पृशेच्छिरांसि पुत्राणां दाराणां सुहृदान्तथा॥
अभियोगेषु सर्वेषुकोशपानमथापि वा।
इत्येत्रेशपथाःप्रोक्ता मनुना स्वल्पकारण इति।

सत्यम्। अत्र समनन्तरभाविनिर्णयनिमित्तस्य दिव्यत्वेन विवक्षितत्वात्। तादृशत्वञ्च घटादीनामेव नतु शपथानान्तषां कालान्तरभाविनिर्णयनिमित्तत्वात्। नन्वेवं कोशस्य कथन्तेषु ग्रहणमिति चेत् सत्यम्। तस्य तेषु पाठोमहाभियोगविषकत्वसाम्यात् सावष्टम्भाभियोगविषयत्वसाम्याच्च।वस्तुतस्तु शपथानामपि नारदादिवचनानुसराद्गोवलीवर्दन्यायेन

दिव्यत्वाभ्युपगमेन नवशब्दस्योपलक्षणत्वात्। तथा च नारदः।

युक्तिष्वप्यसमर्थासु शपथैरेनमर्दयेत्।
अर्थकालवलापेक्षमग्न्यम्वु सुकृतादिभिः॥
घटोऽग्निरुदकञ्चैव विष कोशश्च पञ्चमः।
उक्तान्येतानि दिव्यानि विशुद्ध्यर्थं महात्मभिः॥

दिव्यं नाम तुलारोहणम्।विषाशनमभु प्रवेशो लोहधारणमिष्टापूर्त्तप्रदानमत्यांश्चशपथान् कारयेत् ममनुः।

असाक्षिकेषु त्वर्थेषु मिथो विवदमानयोः।
अविदस्तत्त्वतः सत्यं शपथेनापि लम्मयेत्॥
अग्निं वादारयेदेन भप्सु चैनन्निमज्जयेत्।
पुत्रदारस्य वाप्येनं शिरांसि स्पर्शयेत् पृथक्॥
यस्माद्देवैः प्रयुक्तानि पुष्करार्थेमहात्मभिः।
परस्परविशुद्ध्यर्थं तस्माद्दिव्यानि नामतः॥
असाक्षिकेष्विति मानुष प्रमाण रहितेष्वत्यर्थः।

उद्दिष्टानां दिव्यानां मध्ये तुलादीनि महाभियोगे प्रयोक्तव्यानि। तथा च याज्ञवल्क्यः।

तुलाग्न्यापोविषं कोशो दिव्यानीह विशुद्धये।
महाभियोगेष्वेतानि शीर्षकस्थेऽभियोक्तरि॥
रुच्या वान्यतरः कुर्य्यादितरो वर्त्तयेच्छिरः।
अत्राग्निशब्देन तप्तायः पिण्डादयो गृह्यन्ते।

शीर्षकं लक्षणया जयपराजयनिमित्तो दण्डः तत्प्रयुक्तदण्डभागीत्यवरुच्या इच्छया। इतरः अभियुक्ताभियोक्तोरन्यतरः। इतरः शिरोवर्त्तयेत्। दण्डं स्वीकुर्यादित्यर्थः। ननु कोशमल्पेऽपि दापयेत्। इति स्वल्पाभिपेतोऽपि कोशस्य

विधानात् कथं महाभियोगेष्वेतानीति चेन्न। तस्य तुलादिषु पाठः योऽवष्टम्भाभियोगेऽपि प्राप्त्यर्थः। नतु महाभियोगेष्ववेति नियमार्थः। अन्यथा कोशस्य शङ्खैभियोग एव प्राप्तिः स्वात्।

अवष्टम्भाभियुक्तानान्धटादीनि विनिर्दिशेत्।
तण्डुलाश्चैव कोशश्च शङ्कास्वेतौनियम्य चेति॥

पितामहस्मरणात्। अवष्टम्भःशीर्षकस्थः। अवष्टम्भोऽत्र निश्चय इति स्मृतितत्त्वे।यदा शीर्षकस्थोऽभियोक्ता नस्यात्तदा एतानि दिव्यानि न स्यादिति। तथा च नारदः शिरोवर्त्ती यदा न स्यात्तदा दिव्यं न दीयत इति। इति दिव्यदाने नियममाह।

पितामहः। अभियोक्ता शिरः स्थाने दिव्येषु परिकीर्त्त्यते।
अभियुक्ताय दातव्यं दिव्य श्रुतिनिदर्शनात्॥

इति कात्यायनोऽपि।

न कश्चिदभियोक्तारं दिव्येषु विनियोजयेदिति।

अभियुक्ताय दातव्यमित्यस्यापवादं रुच्यावान्यतर इत्यनेनाह याज्ञवल्क्यः।नारदोऽपि

परियोक्ता शिरः स्थाने सर्वत्रैकः प्रकल्पितः।
इच्छयात्वितरः कुर्य्यादितरो वर्त्तयेच्छिर इति॥

क्वचिद्विषयविशेषे विरोधिनापि दिव्यन्देयमित्याह।

याज्ञवल्क्यः। विनापि शीर्षकात्कुर्य्यान्नृपद्रोहेऽथपातक इति।

शीर्षकाद्विनापि पराजयप्रयुक्तदण्डभागिनोभियोक्तुरभावेपि।पातके ब्रह्महत्यादौ।

कात्यायनोऽपि। पार्थिवैः शङ्कितानाञ्च निर्दिष्टानाञ्चदस्युभिः।

आत्मशुद्धिपराणाञ्च दिव्यन्देयं शिरो विनेति॥

कालिकापुराणेऽपि। परदाराभिशापे च चौर्य्यागम्यागमेषु च।

महापातकशस्ते च स्वाद्दिव्यंनृपसाहसे॥
विप्रतिपत्तौ च विवादेऽवर्णस्थापने कृते।
तत्रैव स्थापयेद्दिव्यं शिरः पूर्वम्महीपतिः।
परदाराभिमर्षे च बहवो यत्र वादिनः।
शिरोहीनम्भवेद्दिव्यमात्मनः शुद्धिकारणादिति॥

विप्रतिपत्तौ परदारगमनाद्यभियोगरूपायां विवादे ऋणादानादिविषये अवर्णोऽपवादः।परदाराभिमर्षे चेति चौर्य्यादीनामप्युपलक्षणम्। विष्णुः।

राजद्रोहे साहसे च विना शीर्ष प्रवर्त्तनादित।
विषयविशेषेषु दिव्यविशेषानाह संग्रहकारः।
घटनादीनि विषान्तानि गुरुष्वर्थेषु दापयेत्।

पितामहोऽपि। अवष्टम्भाभियुक्तानां घटादीनि विनिर्दिशेत्॥

तण्डुलाञ्चैव कोशश्चशङ्कास्वेतौ नियोजयेत् इति॥

कात्यायनः। शङ्काविश्वाससन्धाने विभागे रिक्थिनां सदा।

क्रियासमूहकर्त्तृत्वे सम्भूयैकक्रियाकारित्वे॥

पितामहोऽपि।विश्रम्भे सर्वशङ्कासु सन्धिकार्य्येतथैव च।

एषुकोशःप्रदातव्यो नित्यं चित्तविशुद्धये॥
शिरःस्थापि विहीनानि दिव्यादीनि विवर्द्धयेत् ।
घटादीनि विषान्तानि कोश एक शिरः स्मृत इति॥

तण्डुलानां विषयं स एवाह।

चौर्य्ये तु तण्डुला देया नान्यत्रेति विनिश्चय इति॥

अन्यत्र स्त्रीसंग्रहादौ न तु दत्तापह्नवे। तदर्द्धार्द्धस्यतण्डुला इति वक्ष्यमाणकात्यायनवचनेन तण्डुलदिव्यविधानात्। एतदल्पचौर्य्यशङ्कायां वेदितव्यम्।

चौर्य्येऽभिशङ्कायुक्तानान्तप्तमाषो विधीयते।

इति महाचौर्य्यशङ्कायां तप्तमाषस्य तेनैव विधनात्। द्रव्यसंङ्ख्यया दिव्यविशेषानाह विष्णुः। अथ शपथक्रिया राजद्रोहादिषुयथाकामं निक्षेपर्णस्तेयेष्वर्थप्रमाणादिति। शपथोदिव्यम्। राजद्रोहादिषु यथाकामं राजेच्छानुरोधाद्दिव्यं निक्षेपादिषु धनतारतम्यादित्यर्थः। वस्त्रादिविषय- विवादे तु तन्मूल्यद्रव्यपरिमाण ग्राह्यम्। वृहस्पतिरपि।

विषं सहस्रोऽपहृते पादोने च हुताशनः।
त्रिभागोने च सलिलमर्द्धेदेयो घटः सदा।
धनुःशताभियोगे तु दातव्यस्तप्तमाषकः।
त्रिशते तण्डुला देयाः कोशश्चैव तदर्द्धके॥
शतहृतेऽह्नुते च दातव्यं धर्मशोधनम्।
गोचरस्य प्रदातव्यं सद्यः कालाबलेहनम्॥
एषा सङ्ख्या निकृष्टानां मध्यानां द्विगुणा स्मृता।
चतुर्गुणोत्तमानाञ्च कल्पनीया परोक्षकैरिति॥

धर्मशोधनम्। धर्मजन्दिव्येन शोधनम्। निकृष्टानाञ्जातिगुणधर्मैमध्यमत्वमुत्तमत्वञ्च तैरेव।यत्तु। नाहस्तादुद्धरेत् फालन्नविषं न तुलान्तथेनि याज्ञवल्क्यवचनं तन्मध्यमोत्तमपुरुषविषयम्।

यत्तु।सहस्रेतु घटन्दद्यात्सहस्रार्द्धेतथायसम्।
अर्द्धस्यार्द्धेतु सलिलन्तस्यार्द्धेतु विषं स्मृतमिति॥

यत्पितामहवचनन्तद्यत्राल्पद्रव्यापहारे पातित्यं भवति तद्विषयम्।एतत्स्तेयसाहमविषयन्दत्तापह्नवे तु।कात्यायनः।

दत्तस्यापह्नवो यत्र प्रमाणन्तत्रकल्पयेत्।
स्तेयमाहमयोर्दिव्यं स्वल्पेऽप्यर्थे प्रदापयेत्॥
सर्वद्रव्यप्रमाणान्तु ज्ञात्वा हेम प्रकल्पयेत्।
हेम्नप्रमाणयुक्तन्तु तदा दिव्यं प्रयोजयेत्॥
ज्ञात्वा संङ्ख्यांसुवर्णानां शतनाशे विषं स्मृतम्।
आशीतेस्तुविना शेषे दद्याच्चैवहुताशनम्॥
षष्ठ्यानाशे जलंदेयञ्चत्वारिंशति वै घटम्।
विंशद्दशविनाशे तु कोशपानं विधीयते।
पञ्चाधिकस्य वा नाशे तदर्द्धार्द्धस्यतण्डुलाः।
ततोऽर्द्धार्द्धविनाशे हि स्पृशेत्युत्रादिमस्तकान्॥
ततोऽ र्द्धार्द्ध विनाशे तु लौकिकस्य क्रिया स्मृता।
एवं विचारयन् राजा धर्मार्थाभ्यां न हीयत इति॥

अत्रसुवर्णशब्दःषोड़शमाषात्मकः।नाशोऽपह्नवः। विंशद्दशविनाशे त्रिंशद्विनाशनमिति स्मृतिचन्द्रिकायाम्। पञ्चाधिकस्य पञ्चभ्योऽधिकस्य षट्प्रभृतेरिति यावत्। तदर्द्धार्द्धस्य सुवर्णाप्रभृतेः। ततोऽर्द्धार्द्धस्य अष्टमाषो न सुवर्णर्द्धप्रभृतेः। ततोऽर्द्धार्द्धस्य विनाशे सार्द्धसप्तमाषोन सुवर्णार्द्धप्रभृतेर्विनाशे। लौकिकाश्च कियाः। अपह्नवेतत्र दशगुणो द्रव्यनाशो भविष्यतीत्यादिकाः। चशब्दःस्मार्त्तशपथसंग्रहार्थः। अतएवाह विष्णुः। सर्वेष्वेवार्थजातेषु मूल्यं कनक कल्पयेत्। तत्र च कृष्णलोने शूदून्दूर्वाकर शापयेत्॥

द्विकृष्णलोने तिलकरम्। त्रिरुण ने जलकरञ्चतुः-

कृष्णलोने सुवर्णकरम्। पञ्चकृष्णलोने सीरोद्ध्वृतमहीकरम्।तत्र सुवर्णार्द्धोने कोशो देयः शूद्रस्य ततः परं यर्थार्हधटाग्न्युदकविषाणामन्यतमं द्विगुणार्थेयथाभिहिता समयक्रिया। वैश्यस्य त्रिगुणेऽर्थे राजन्यस्य कोशवर्जञ्चतुर्गुणेऽर्थे ब्राह्मणस्यकोशन्दद्यात्। अन्यत्रागामिकालसमयनिबन्धन- क्रियातः कोशस्थाने ब्राह्मणं सीरोद्ध्वृतमहीकरमेव शापयेत्। प्रागृदृष्टदोषस्वल्पेऽप्यर्थे दिव्यानामन्यतममेव कारयेत्।सत्सु प्रथितं सच्चरितं न महत्यर्थेऽपीति। सीरोद्ध्वृतमहीकरं लाङ्गलोद्ध्वृतलोष्टहस्तमित्यर्थः। उनग्रहणमधिके शापनिवृत्त्यर्थंशापे तु विशेषमाह मनुः।

सत्येन शापयेद्विप्रंक्षत्रियं वाहनायुधैः।
गोबीजकाञ्चनैर्वैश्यंशूद्रं सर्वेस्तु पातकैरिति।

यद्यहमर्थापह्नवी स्यां तदा सत्याभिधानधर्मो मम निष्फलःस्यादिति शपथकारिणं ब्राह्मणं वाचयेत्। एवं क्षत्रियादीनांवाहनादीनि निष्फलानि स्युरित्यादीत्यर्थः। पादस्पर्शादीनांविशेषःस्मृत्यन्तरे दर्शितः।

निष्केतु सत्यवचनं द्विनिष्के पादलम्भनम्।
उनत्रिकेतु पुष्पं स्यात् कोशपानमतः परमिति॥

अत्र निष्कशब्देन कर्पचतुर्थांशो मुद्रानुद्रितः प्रतिपाद्यते। कचिद्देशे तत्रापि निष्कव्यवहारात्। न तु मनुक्तोनिष्कः।तस्य राजतपलात्मकत्वेन मूलकाञ्चनकर्षादधिकत्वात्।तत्रसत्यवचनविधौ चतुर्गुणोऽर्थे ब्राह्मणस्येति विरोधःस्यात्। दिव्ये दण्डेच मनूक्तं ग्राह्य परिमाणम्। ग्राह्यमिति बृहस्पतिराह।

सङ्ख्या रश्मिरजोमूला मनुना समुदाहृता।
कार्षापणान्ता सा दिव्ये नियोज्या विनये तथेति॥

सङ्ख्या परिमाणं रश्मिरजोमूला त्यसरेण्वादिका।विनये।दण्डे। तच्च परिमाणं प्रतिज्ञापूर्वकं मनुराह।

लोकसंव्यवहारार्थं याः संज्ञाः प्रथिता भुवि।
ताम्ररूप्य सुवर्णानां ताः प्रवक्ष्याम्यशेषतः॥
जानान्तरगते भानौ यत्सूक्ष्म दृश्यते रजः।
प्रथमं तत्प्रमाणानान्त्यसरेणुम्प्रचक्षते॥
त्र्यमरेणवोऽष्टौविज्ञेया लिक्षैका परिमाणतः।
ता राजसर्पपस्तिस्रस्ते त्रयो गौरसर्षपः॥
सर्षपा पड्यवोमध्यस्त्रियवन्ध्वेककृष्णलम्।
पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोड़शः॥
पलं सुवर्णाश्चत्वारः पलानि धरणन्दश।
द्वे कृष्णले समधृते विज्ञेयो रौप्यमापकः॥
ते षोड़शः स्याद्धरणं पुराणश्चैव राजतः।
वरणानि दश ज्ञेयः शतमानस्तु राजतः॥
कार्षापणस्तु विज्ञेयः कार्षिकस्ताम्रिकः पणः।
चतुःसौवर्णिको निष्को विज्ञेयस्तु प्रमाणात् इति॥

अत्रताम्ररूप्यसुवर्णानामिति ताम्ररूप्ययोरल्यत्वात्प्राक्प्रयोगो नतु क्रमप्रदर्शनार्थः।पलानि धरणन्दशेत्यन्तं सुवर्णपरिमाणाभिधानम्। चतुःसौवर्णिकोनिष्क इत्युक्तरुप्य परिमाणाभिधानम्। अवशिष्टेन ताम्रपरिमाणाभिधानम्।जालान्तरप्रविष्टे सूर्य्यरश्मौयतसूक्ष्मंरजो दृश्यते तत् त्ररेणुसंज्ञकम् अष्टौ त्र्यसरेण्वोलिक्षाराजसर्षप्रः।त्रयोराज-

सर्षपाः गौरसर्षपः। षड्गौरसर्षपा मध्यमो यवोन सूक्ष्म न स्थूलमिति। मध्यमयवस्यपरिमाणमुक्तं मिताक्षरायाम्। मध्यशब्दःपादपूरणार्थः। तथा च संपूर्णयवपरिमाणमुक्तमिति मनुभाष्ये। त्रयो यवाः कृष्णलम्। माषः पञ्च कृष्णलानि।सुवर्णः षोड़श माषाः।पलं सुवर्णाश्चत्वारः धरणन्दश पलानि। रूप्यमापोद्वेकृष्णले। रजतस्य धरणं षोड़श रूप्यमाषाः। अस्य च पुराण इति संज्ञान्तरम्। राजतः शतमानः राजतदशधरणानि राजतपलसंज्ञाप्यस्य भवति। शतमानन्तु दशभिर्धरणैःपलमेवत्विति याज्ञवल्क्यस्मरणात्। पूर्वोक्तसुवर्णचतुष्टपरिमिति एको राजतनिष्कः। कार्षिकःकर्षिमंमितः ताम्रिकस्ताम्नविकारः कार्षापणो विज्ञेयः। पण इति च संज्ञा अस्यैव विज्ञेयेत्यर्थः। चशब्दोऽध्याहार्य्यः। अतएव वृहस्पतिः।

निष्क सुवर्णाश्चत्वारः कार्षिकस्ताम्निकः पणः।
ताम्म्रकर्षकृता मुद्रा विज्ञेयः कार्षिकः पणः॥
स एव चन्द्रिका प्रोक्ता ताश्चतस्रस्तु धानकाः।
ता द्वादश सुवर्णस्तु दीनाराख्यः स एव तु इति॥

कर्षः पलचतुर्थांशः। ते षोड़शाक्षःकर्षौस्त्री पलङ्कर्षचतुष्टयमित्यमरसिहेनाभिधानात्। ते माषाःषोड़शाक्षःकर्ष इति च सज्ञेत्यर्थः। तेनाक्षकर्षशब्दयोःसुवर्णपरिमाणवचनत्वमित्यवगम्यते। याज्ञवल्क्यः।पले विकल्पमाह।

पल सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्त्तितमिति॥

तस्य चतुर्थेऽशो विंशतिर्माषा, तत्परिमितः कार्षापणः।
अतएव कात्यायनः ।

माषो विंशतिभागस्तु, ज्ञेयः कार्षापणस्य तु।
काकिणी तु चतुर्भागा माषकस्य पणस्य चेति॥

राजतोऽपि कार्षापणोऽस्तीत्याह नारदः।
कार्षापणो दक्षिणस्यान्दिशि रौप्यः प्रवर्त्तत इति ।

व्यामस्तृ। निष्कस्य प्रमाणमाह।

पलान्यष्टौ सुवर्णस्तु, ते सुवर्णाश्चतुर्दश।
एतं निष्कप्रमाणन्तुव्यासेन परिकीर्त्तितमिति॥

वर्णभेदेन दिव्यव्यवस्थामाह नारदः।

ब्राह्मणस्व घटो देयः क्षत्रियस्य हुताशनः।
वैश्यस्य सलिलन्देयं शूद्रस्य विपमेव तु॥
साधारणः समस्तानां कोशः प्रोक्तो मनीषिभिः।
विषं विना ब्राह्मणस्य सर्वेषां वा तुला स्मृता इति॥

अनित्या चेयं व्यवस्था।

राजन्येऽग्निघटं विप्रे बैश्येतोयं नियोजयेत्।
सर्वेषु सर्वदिव्यं वा विषवर्लं द्विजोत्तमे॥

इति कात्यायनस्मरणात्। व्यवस्थापक्षे वयोविशेषादिना व्यवस्थापनीयम्। तदाह नारदः।

क्लीवातुरान् मत्वहीनान् परितश्चर्दितान्नारान्।
बालवृद्धातुरांस्त्रींश्चपरीक्षेत धटं सदा॥
स्त्रीणान्तुन विषं प्रोक्तं न वापि सलिलं स्मृतम्।
घटकोशादिभिस्तासामन्तस्तत्वं विचारयेत्॥
नार्त्तानान्तोय शुद्धिः स्यात् न विषं पित्तरोगिग्णाम्।
चित्यन्धकुनखादीनां नाग्निकर्म विधीयते।
न मज्जनीयाः स्त्रीबाला धर्मशास्त्रविचक्षणैः॥

रोगिनो ये च वृद्धाःस्युः पुमांसो ये च दुर्बलाः।
निरुत्साहान् व्याधिक्लिष्टान्नार्त्तास्तोये निमज्जयेत्॥
मद्यो म्रियन्ते मज्जन्तः स्वल्पप्राणा हि ते स्मृताः।
साहसेऽप्यागतानेतानैव तोये निमज्जयेत्।
न चापि हारयेदग्निन्न विषेण विशोधयेत्॥

याज्ञवल्क्यः।तुला स्त्रीबालरद्धान्ध पङ्गुब्राह्मणरोगिणाम्।

अग्निर्जल वा शूद्रस्य यवाः सप्त विषस्य चेति॥

स्त्रीमात्रजातिवयोऽवस्था विशेषानादरेण। बालआपोड़शाद्वर्षाज्जातिविशेषानादरेण।वृद्धोऽशीतिकावरः। अन्धो नेत्र विकलः। पङ्गु पाद- विकृद्गलः। ब्राह्मणो जातिमात्रम् रोगी व्याधितः। एतेषां शोधनार्थं सर्वदिव्यसाधारणेषु मार्गशीर्षचैत्रवैशाखेषु, स्त्य्रादीनां सर्वदिव्य- प्रसक्तौतुलैवेति नियम्यते न तु सर्वकालं स्त्रीणां तुलानियमः कोशादिविधानात्। अग्निः फालस्तप्तमाषश्च क्षत्रियस्य।जलमेव वैश्यस्य।यवा एवार्थे शूद्रस्य विषस्य सप्तैवयवा उक्तप्रमाणलक्षणा भवन्तीत्यर्थः। ब्राह्मणस्य तुलाविधानात्। अग्निर्जलं वेति क्षत्रियवैश्यविषयमित्यवगम्यते। अतएव पितामहः।

ब्राह्मणस्य घटो देयः क्षत्रियस्यहुताशनः।
वैशस्य सलितम्प्रोक्तं विषंशूद्रस्य दापयेदिति॥

कात्यायनोऽपि। न लोहशिल्पिनामग्निः सलिलं नाम्वुसेविनाम्।

मन्त्रयोगविदाञ्चैव विषम्दद्यात्तु न क्वचित्।
तण्डुलैर्न नियुञ्जीत ब्रतिनं सुखरोगिणमिति॥

व्रतिनम्पयोव्रतादिनियमस्यम्।हारीतोऽपि।

कुष्ठिनां वर्जयेदग्निं सलिलं श्वासकासिनाम्।

पित्त श्लेष्यवतांनित्यं विषं च परिवर्जयेत् इति॥

विष्णुरपि। न श्लेष्मकारिणां व्याधितानाम्भीरूणां श्वासकामिकाना मम्वुसेविना मुदकं हेमन्तशिशिरयोश्चेति। पितामहोऽपि।कुष्ठिनां वर्जयेदग्निं सलिलं श्वासकासिनाम्

पित्त श्लेष्मवतां नित्यं विपन्तु परिवर्जयेत्॥
मद्यपस्त्रीव्यसनिनां कितवानान्तथैव च।
कोशः प्राज्ञैर्नदातव्यो ये च नास्तिकवृत्तय इति॥

यत्तु पितामहेनोक्तम्।

स ब्रतानां भृशार्त्तानां व्याधितानान्तपस्विनाम्।
स्त्रीणाञ्च न भवेद्दिव्यं यदि धर्मस्त्वदेक्ष्यत इति॥
तुलेतरविषन्तदिति केचित् तदयुक्तम्॥

घटकोशादिभिस्तासामन्तस्तत्वं विचारयेदिति पूर्वोदाहृतनारदवचनेन स्त्रीणां कोशादिविधानात्। तदग्न्यम्बुविषयमित्युक्तं विद्यारण्यश्रीपादैः। विज्ञानेश्वराचार्यस्तु। पुंस्त्रियो र्विवादे रुच्या वान्यतरः कुर्यादित्यनेन पक्षेस्त्रीणामपि दिव्यप्रसक्तौपुरुषस्यैवदिव्यत्रस्त्रीणा- मित्येतत्परमिदम्। अन्यथा सर्वथा तासांदिव्यनिषेधे घटकोशादिभिस्तासामन्तस्तत्वं विचारयेदित्यनेन विरोधः स्यादिति प्राहुः। कात्यायनः। गोरक्षकान्वाणिजकांस्तथा कारुकुशीलवान्।प्रेष्यान्वार्द्धुषिकांश्चैव ग्राहयेच्छूद्रवद्विजान्॥ कालिकापुराणेऽपि वर्षान्त्यस्य सदा देयं माषकं तप्तहेमजमिति। वर्णानामन्त्यः प्रत्यन्त्यःतस्येत्यर्थः। नारदोऽपि।

महापराधेनिर्द्धर्मे कृतघ्ने क्लीवकुत्सिते।
नास्तिके दृष्टदोषेच शप्तानां ते विवर्जयेत् इति॥

कात्यायनोऽपि। माता पिता द्विजगुरुवृद्धस्त्रीबालघातिनाम्।

महापातकयुक्तानां नास्तिकानां विशेषतः॥
लिङ्गिनाम्प्रमदानाञ्च मन्त्रयोगक्रियाविदाम्।
वर्णसङ्करजातानां पापाभ्यास प्रवर्त्तिनाम्॥
एतेष्वेवाभियोगेषु निन्द्येष्वेवं प्रवर्त्तितः।
दिव्यम्प्रकल्पयेन्नैव राजा धर्मपरायणः॥
एतैरेव नियुक्तानां साधूनान्दिव्यमर्हति।
न सन्ति साधवो यत्र तत्र शोध्याः स्वकैर्नरैरिति॥

साधूनान्दिव्यमर्हति राजा कल्पयितुमिति शेषः। प्रतिनिधिद्वारा एतैर्दिव्यङ्कारणीयमिति दृढयितुमाह स एव।

महापातकयुक्तेषु नास्तिकेषु विशेषतः।
न देयन्तेषु दिव्यन्तु पापाभ्यासरते भृगुः॥
येषु पापेषु दिव्यानि कर्त्तव्यानि प्रयत्नतः।
तारयेत्सज्जनैस्तानि नाभिशस्तं त्यजेन्नर इति॥

तारयेत् शोधयेत्। अभिशोधनप्रतिनिधिद्वारा शोधनमकारयित्वा न त्यजेदित्यर्थः। यत्तु तेनैवोक्तम्।

अस्पृश्याधमदासानां म्लेच्छानाम्यापकारिणाम्।
प्रातिलोम्यप्रसूतानान्निश्चयो नतु राजनि॥
तत्प्रसिद्धानि दिव्यानि संशये तेषु निर्दिशेदिति।
तत्तैर्नियुक्तानां साधूनामभावे विज्ञेयम्॥

तत्प्रसिद्धानि सर्पघटादीनि इति स्मृतितत्त्वे साधूनामप्यमामर्थ्येप्रतिनिधिसभ्युपजानाति स एव।

कालदेशाविरोधे तु यथा युक्तं प्रकल्पयेत्।
अन्येन हारयेद्दिव्यं विधिरेष विपर्ययः।

सामर्थ्याभावे सर्ववर्णविषये विशेषमाह हारीतः,
राजन्येऽग्निं घटं विप्रे वैश्ये तोयन्नियोजयेत्।
न विषं ब्राह्मणे दद्याद्विषंवर्णान्तरे स्मृतम्।
कोशतण्डुलधर्म्मास्तुधर्मसम्भवमेव च॥
पुत्रदारादिशपथान् सर्ववर्णे प्रयोजयेत् इति।

अथ दिव्यकालः।तत्र पितामहः।

यो यस्य विहितः कालो विधिर्यस्य च यो यथा।
तम्प्रवक्ष्यामि तत्वेन वादिनश्च बलाबलम्॥
चैत्रो मार्गशिरश्चैववैशाखश्य तथैव च।
एते साधारणा मासा दिव्यानामविरोधिनः॥
घटः सर्वर्त्तुकः प्रोक्तो वाते वाति विवर्जयेत्।
अग्निः शिशिरहेमन्त वर्षासु परिकीर्त्तितः॥
शरद्ग्रीष्मे चसलिलं हेमन्ते शिशिरे विष मिति।

विष्णुरपि। स्त्रीब्राह्मणविकलाऽसमर्थरोगिणां न तुला देया न वाति वायौ नकुष्ठ्यसमर्थलोहकाराणामग्निर्देयःशरद्ग्रीष्मयोश्चन कुष्ठिपैत्तिकबाह्मणानां विषन्देयम्प्रावृषि च। श्लैष्मिकाणां व्याध्यर्दितानाम्भीरूणां श्वासकासिनामम्बुजीविना मुदकं हेमन्तशिशिरोयोश्चेति। हेमन्तनिषेधोऽत्रपौषमासविषय एव नतु मार्गशीर्षविषयोऽपि। मार्गशीर्षस्य चैत्रो मार्गशिर इति पूर्वोदाहृत पितामहवचनेन सकल दिव्यसाधारणत्वाभिधानात्। नारदोऽपि।

विचार्य्य धर्मनिपुणै र्धर्मशास्त्र विशारदैः।
धर्म्मंसर्वर्त्तुकम्प्रोक्तं पण्डितैर्धटयारणम्।
बर्षासुसमये वह्निर्हेमन्त शिशिरे तथा।

ग्रीष्मे सलिलमित्युक्तं विष काले तु शीतले॥
न शीते तोयशुद्धिः स्यान्नोष्णकालेऽग्निशोधनम्।
न प्रावृषि विषन्दद्यात् प्रवाते न तुलान्तथा॥
नापराह्णेन सन्ध्यायां न मध्याह्ने कदाचनेति।
मध्याह्नेदिव्यनिषेधो जलव्यतिरिक्तविषयः॥

अतएव पितामहः।

पूर्वाह्नेऽग्निपरीक्षा स्यात् पूर्वाह्णेच घटो भवेत्।
मध्याह्णेतु जलं देयं धर्मतत्वमभीप्सिता॥
दिवसस्य तु पूर्वाह्ने कोशशुद्धिर्विधीयते।
रात्रौ व पश्चिमे भागे विषन्देयं सुशीतल मिति॥

अत्रविशेषतो वर्षासु निषेधात्। सिंहरवावेव परीक्षामात्र निषेधाच्च दिव्यान्तरं सिंहेतरवर्षास्वपि कुर्वन्ति। अतोयाम्यायने हरौ सुप्ते सर्वकर्मणि वर्जयेदित्यस्य न विषयम्।
तथा च ज्योतिषे।

सिंहस्थे मकरस्थे च जीवे चास्तमिते भृगौ।
मलमासेज कर्त्तव्या परीक्षा जयकाङ्क्षिणा॥
तथा। रविशुद्धौ गुरौ चैव न शुक्रेऽस्तङ्गते पुनः।
सिंहस्थे च रवौ नैव परीक्षा शस्यते बुधैः॥
नाष्टम्यां न चतुर्दश्यां प्रायश्चित्त निरीक्षणे ।
न परीक्षाधिवासश्च शनिभौमदिने भवेत् इति॥

रविशुद्धौ गुरौ चेदित्यत्रशस्यत इति शेषः तथा च दीपिकायाम्।

न शुक्रास्तेऽष्टमेऽर्केगुरुसहितरवौ जन्ममासेऽष्टमेब्दे।
विष्णौ मासे मलाख्ये कुजशनिदिवसे जन्मतारासु चाथ॥

नाडीनक्षत्रहीनेगुरुरविरजनीनाथ ताराविशुद्धौ।
प्रातःकार्य्या परीक्षा द्वितनुचरग्रहांशोदये शस्तलग्न॥इति।

यद्यपि दिव्ये वारविशेषविधानाभावस्तथापि शिष्टाचारादित्यवारे दिव्यानि दातव्यानीति मिताक्षरायाम्। अथदिव्यदेशाः। तत्र पितामहः।

प्राङ्मुखो निश्चलः कार्यः शुचौ देशे घटः सदाः।
इन्द्रस्थाने सभायां वा राजद्वारे चतुष्पथे इति॥

घटग्रहण दिव्यान्तरस्याप्युपलक्षणम्। इन्द्रस्थानग्रहणञ्च प्रसिद्धदेवतायतनान्तरस्याप्यु पलक्षणम्। अतएव दिव्यमात्रमुपक्रस्य नारदः।

सभाराजकुलद्वारे देवायतनचत्वरे इति।
विषयविशेषे इन्द्रस्थानादीनां व्यवस्थामाह।कात्यायनः।
इन्द्रस्थानेऽभिशस्तानां महापातकनां नृणाम्।
नृपद्रोहप्रवृत्तानां राजद्वारे प्रयोजयेत्॥
प्रातिलोम्यप्रसूतानां दिव्यं देयञ्चतुष्पथे।
अतोऽन्येषु तु कार्य्येषु सभामध्ये विदुर्बुधा इति॥

इन्द्रस्थाने इन्द्रध्वजपूर्वस्थाने।दिव्यदेशादनादरे दिव्य विसम्वदतीत्याह।नारदः।

अदेशकालदत्तानि बहिर्वासकृतानि च।
व्यभिचारे सदर्थेषु कुर्वन्तीह न संशयः॥

वासो जननिवासस्तस्माद्बहिष्कृतानि निर्जनप्रदेशकृतानीति यावत्। अतएव पितामहः।

प्रत्यक्षन्दापयेद्दिव्यं राजा वाधिकृतोऽपि वा।
ब्रह्माणानां श्रुतवतांप्रकृतीनां तथैव चेति।

ब्राह्मणानां प्रकृतयोऽमात्यास्तेषाञ्चेत्यन्वयः॥ अथदिव्यसाधारण विधिस्तत्रवृहस्पतिः।

स्नेहात् क्रोधाल्लोभतो वा भेदमायान्ति साक्षिणः।
विधिदत्तस्य दिव्यस्य न भेदो जायते क्वचिदिति॥

विधिश्च पितामहेन दर्शितः।

दिव्येषु सर्वकार्य्याणि प्राङ्विवाकः समाचरेत्।
अध्वरेषु यथाध्वर्युः सोपवासो नृपाज्ञया।
तत आवाहयेद्देवान् विधिनानेन धर्मवित्।
वादित्रतूर्यघोषैश्च गन्धमाल्यानुलेपनैः॥
प्राङ्मुखः प्राञ्जलिर्भूत्वा प्राङ्विवाकस्ततो वदेत्॥
एह्येहि भगवन्धर्म! अस्मिन्दिव्ये समाविश॥
महितो लोकपालैश्च वस्वादित्यमरुङ्गणैः।
आवाह्य तु घटे धर्मं पश्चादङ्गानि विन्यसेत्॥

सर्वकार्य्याणि साधारणानि असाधारणानि च ततस्तदुपयोगिसामग्रीसम्पादनानन्तरमित्यर्थः घटग्रहणमत्र दिव्यमात्रोपलक्षणम्। अस्मिन्दिव्य इति मन्त्रलिङ्गादेतेषान्धर्माणान्दिव्यमात्र साम्यस्य।

इमं मन्त्रविधिं कृत्स्नं सर्वदिव्येषुयोजयेत्।
आवाहनञ्च देवानान्तथैव परिकल्पयेत्॥

इत्युपसंहरता ते नैवोक्तत्वाच्च।

अङ्गानि कानीत्याकाङ्क्षायां स एवाह,
इन्द्र पूर्वे तु विन्यस्य प्रेतेशन्दक्षिणे तथा।
वरुण पश्चिमे भागे कुवेरञ्चोत्तरे तथा॥
अग्न्यादि लोकपालांश्च कोणभागेषु विन्यसेत्।

इन्द्रः पीतो यमः श्यामोवरुणः स्फटिकप्रभः॥
कुबेरस्तु सुवर्णाभः अग्निश्चैव सुवर्णभः।
तथैव निर्मृतिः श्यामो वायुर्धूम्नः प्रशस्यते॥
ईशानस्तु, भवेद्रक्त एवं ध्यायेत्क्रमादिमान्।
इन्द्रस्य दक्षिणे पार्श्वे वसूनास्थापयेद्बुधः॥
घरोध्रुवस्तथा सोम आपश्चैवानलोऽनिलः।
प्रत्यूषञ्चप्रभातञ्च वसवोऽष्टौ प्रकीर्त्तिताः॥
देवेशेशानयोर्मध्ये आदित्यानान्तथाऽयनम्।
धातार्यमा च मित्रञ्च वरुणांशो भगस्तथा॥
इन्द्रो विवस्वान् पूजा च पर्जन्यो दशनः स्मृतः।
ततस्त्वष्टा ततो विष्णु रजघन्यो जघन्यजः॥
इत्येते द्वादशादित्या नामभिः परिकीर्त्तिताः।
अग्नेः पश्चिमभागे तु रुद्रा एकादशाः स्मृताः॥
वीरभंद्रञ्च शम्भुञ्च गिरिशञ्च महायशाः।
अजैकपादहिर्बुध्न्यःपिनाकी चापराजितः॥
भुवनाधीश्वरश्चैव कपाली च विशाम्पतिः।
स्थाणुर्भवञ्च भगवान् रुद्रास्वेकादशः स्मृताः॥
प्रेतेशरक्षोमध्ये च मातृस्थानं प्रकल्पयेत्।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा॥
वाराही चैवमाहेन्द्री चामुण्डागणसंयुता।
निर्मृतेरुत्तरे भागे गणेशायतनं विदुः॥
वरुणस्योत्तरे भागे मरुतां स्थानमुच्यते।
पवनः स्पर्शनो वायुरनिलो मरुतस्तथा॥
प्राणाः प्राणेशजीवौ च मरुतोऽष्टौ प्रकीर्त्तिताः।

घटस्योत्तरभागे तु दुर्गामावाहयेद्बुधः॥
एतासां देवतानान्तुस्वनाम्ना पूजनं विदुः।
भूषावसानं धर्माय दत्त्वाचार्धादिकं क्रमात्॥
अर्घादि पश्चादङ्गानां भूषान्तमुपकल्पयेत्।
गन्धादिकां निवेद्यान्ताम्परिचर्य्यांप्रकल्पयेत्।
चतुर्दिक्षु तथा होमः कर्त्तव्यो वेदपारगैः।
आज्येन हविषा चैव समिद्भिहोमसाधनेः॥
सावित्र्याप्रणवेनाथ स्वाहान्तेनैव होमेयत्॥

अङ्गानाम् इन्द्रादिदुर्गान्तानाम्। अर्घाद्युपकल्पनञ्च न काण्डानुसमयेन। तथात्वे प्रयोगवचनावगताङ्गसहभावबाधापत्तेः। किन्तु पदार्थानुसमयेन तथा च दुर्गायै भूषण दत्त्वा धर्मस्येन्द्रादिदुर्गान्तानाञ्च गन्धादिपरिचयं विप्रकल्पयेदिति गायत्रीं प्रणवादिकामुच्चार्य्यपुनः प्रणवं स्वाहाकारान्तमुच्चार्य्य समिदाज्यचरुभिः प्रत्येकमष्टोत्तरशतं जुहुयात्। अनुक्तसङ्ख्या यत्र स्यात् शतमष्टोत्तरं स्मृतमिति स्मरणादित्यर्थः होमानन्तरकर्त्तव्यं स एवाह।

यमर्थमभियुक्तः स्याल्लिखित्वा तन्तु पत्रके।
मन्त्रेणानेन सहितत्तत्कार्य्यञ्च शिरोगतम्॥

मन्त्रश्च, आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापोहृदयं यमश्च।
अहश्चरात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तमिति॥

एतत्सर्वंपूर्वाह्णेकर्त्तव्यम्। तस्य प्रधानकालत्वाच्च। यथा च नारदः।

अहोरात्रोपोषिते स्नाते आर्द्रवाससि मानवे।
पूर्वाह्णेसर्वदिव्यानां प्रदानमनुकीर्त्तितमिति॥

एतत्प्राङ्विवाकेनोपवासादिनियमपूर्वकं कर्त्तव्यम्।

तथा च नारदः। प्राङ्विवाकस्ततो विप्रो वेदवेदाङ्गपारगः।
श्रुततोपसम्पन्नः शान्तचित्तो विमत्सरः॥
सत्यसन्धः शुचिर्दक्षःसर्वप्राणिहिते रतः।
उपोषितश्चाद्रैवासाः कृतदन्तानुधावनः।
सर्वेषां देवतानाञ्च पूजां कृत्वा यथाविधि॥

इति कर्त्तुरुपवासादिकमाह।

त्रिरात्रोपोषिता ये स्यु रेकरात्रोपोषितास्त वा।
नित्यं देयानि दिव्यानि शुचये सार्द्रवाससे इति॥

याज्ञवल्क्योऽपि। सतैलं स्रातमाहूय सूर्योदय उपोषितम्।
कारयेत्सर्वदिव्यानि नृपब्राह्मणसन्निधादिति॥

अत्रसूर्योदयपदेन पूर्वाह्णे एव ग्राह्यः। पूर्वाह्ने सर्वदिव्यानां प्रदानमनुकीर्त्तितमिति नारदवचनानुरोधात्। त्रिरात्रैकरात्रपक्षयोः शक्ताशक्तविषयत्वेन व्यवस्था ज्ञेया दिव्यप्रयोगानन्तरं दक्षिणादानं उक्तेन विधिना दिव्यप्रयोगङ्कारयितुः राज्ञः फलञ्चाह पितामहः।

सद्भिः परिवृतो राजा शुद्धिमेतां प्रपूजयेत्।
ऋत्विक् पुरोहिताचार्य्यान् दक्षिणाभिस्तुतोषयेत्॥
एव कारयिता राजा भुक्त्वा भोगान्मनोरमान्।
महतींकीर्त्तिमाप्नोति ब्रह्मभूयाय कल्प्यत इति॥

अयञ्च विधिः सर्वदिव्यसाधारण इत्याह स एव।

इमं मन्त्रविधिं कृत्स्त्रं सर्वदिव्येषु योजयेत्।
आवाहनञ्च देवानां तथैव परिकीर्त्तितमिति॥

सर्वदेवावाहनादि संशोध्य शिरसि पत्रारोपणान्तं सर्वदिव्य-

साधारणमित्यर्थः। इति दिव्यमातृका। अथघटविधिः। तत्र पितामहः।

विशालमुच्छितां शुम्भ्रां घटशालान्तु कारयेत्।
यत्रस्थोनोपहन्येत श्वमिश्चाण्डालवायसैः॥
कपाटवीजसंयुक्तां परिचारकरक्षिताम्।
पानीयादि समायुक्तामशून्यां कारयेन्नृप इति॥

वीजानि यवब्रीह्यादीनि। घटार्थानि काष्ठानि नारदआह।

खादिरं कारयेत्तत्र निर्ब्रणंशुष्क वर्जितम्।
शांशपन्तदभावे वा शालं वा कोटरैर्विना॥
अर्जुनन्तिन्दुको सारन्तिलिसो रक्तचन्दनम्।
एवं विधानि काष्ठानि घटार्थंपरिकल्पयेत्॥
अर्जुनस्तिलकोऽशोकतिलिसो रक्तचन्दन इति॥

माधवीये पाठः। शांशपमिति पठित्वा व्याख्यातं शांशपं शिंशपावृक्षसम्बन्धि। देविकाशिंशपेति पाणिनिस्मरणादिकारस्याकारः। एवं विधानीत्यन्यस्याप्योदुम्बरादेर्यज्ञियस्य काष्ठस्य समारस्य ग्रहणम्। अतएवपितामहः।

छित्वा तु यज्ञियं काष्ठं यूपवन्मन्त्रपूर्वकम्।
प्रणम्यलोकपालेभ्य स्तुला कार्य्या मनीषिभिः।
मन्त्रः सौम्यो वानस्पत्यः छेदने जप्य एव चेति॥

यूपवन्मन्त्रपूर्वकमित्यनेन ॐ ओषधे त्रायस्वेनमित्यादि च्छेदनमन्त्रप्रयोगादिकमुक्तम्। वानस्पत्यःवनस्पते शतबलशोविरोहेति मन्त्रः। छेदने कृत इति शेषः। वानस्पत्यच्छेदनानन्तरं प्रयोगे यूपवदित्यतिदेशात्सिद्धेऽपि पुनर्विधानम् औपदेशिकस्य सोमदैवत्येनाति देशिकस्य तस्य बाधनिवृत्त्यर्थम्।

अत्र जप्य एव चेति च शब्दस्य वानस्पत्येत्यनेनान्वयात् तस्य च समुच्चयद्योतकत्वात्समुच्चय इति केचित्। सौम्य वानस्पत्ययोरेकार्थत्वात्। तुल्यार्थस्तु विकल्पेरन्नित्यनेन माषेण ब्रीहि यवादिकल्प इत्यपरे। पितामहः।

प्राङ्मुखो निश्चलःकायेःशुचौ देशे घटः सदा।
इन्द्रस्थाने सभायां वा धर्मस्थाने चतुष्पथ इति॥
घटनिर्माणप्रकारन्तत्प्रमाणञ्चाह पितामहः,
चतुर्हस्ता तुला कार्य्या पादौकार्यौतथा विधौ।
अन्तरन्तु तयो र्हस्तौ भवेदध्यर्द्धमेव चेति॥

पादो तुलाधारकाक्षनामककाष्ठधारणाख्यौ स्तम्भौ तथा विधौ चतुर्हस्तौ। अन्तरं मध्यम्।अध्यर्द्धं सार्धहस्तद्वयम्। अक्षकाष्ठस्य प्रमाणम्पादस्तम्भमध्यप्रमाणाभिधानेनैव सूचितमिति न पृथगुपन्यस्तम्। अन्तरालप्रमाणपर्य्यालोचनया ततः किञ्चिदधिकमक्षकाष्ठं कर्त्तव्यम्। पादस्तम्भयोर्मस्तकप्रदेशाद् यथा बहिर्न निःसरति तथा अक्षकाष्ठङ्कार्यमिति स्मृति चन्द्रिकायाम्। अत्रनिखातभागपरित्यागेन पादस्तम्भयोश्चतुर्हस्तत्वाभिधानं ज्ञेयम्। अतएव पितामहः।

हस्तद्वयं निखेयन्तु पादयोरुभयोरपीति॥

व्यासोऽपि। हस्तद्वय निखेयन्तु प्रोक्तं मुण्डकयोर्द्वयो।

षड्हस्तन्तु तयोः प्रोक्तं प्रमाण परिमाणतः॥

इति मुण्डकौ पादस्तम्भौ। हस्तप्रमाणन्दर्शितं कालिकापुराणे ।

यवानान्तण्डुलैरेकम्मङ्गुलञ्चाष्टभि र्भवेत्।
अदीर्घयोजितैर्हस्तश्चतुव्विंशतिरङ्गुलैः॥

इति स्मृत्यन्तरेऽपि।

तिर्यग्यवोदराण्यष्टा ऊर्द्धावा ब्रीहयस्त्रयः।
प्रमाणमंङ्गुलोक्तंहि वितस्तिर्द्वादशाङ्गुलः॥

शारदातिलके। चतुर्विंशत्यङ्गुलाढ्यंहस्तन्तत्रविदो विदुः।
यवानामष्टभिः क्लृप्तंमानाङ्गुलमितीरितमिति॥

हस्तो वितस्तिद्वितयमिति। हस्तो वितस्तिद्वितयो चतुर्विंशत्यङ्गुलो हस्त इत्यर्थः। यवानां यवतण्डुलानामित्यर्थः। यवानान्तण्डुलैरिति स्मरणात्। तुलाया विशेषान्तरमाह पितामहः।

चतुरस्रातुला कार्य्या दृढा रज्वी तथैव च।
कटकानि च देयानि त्रिषु स्थानेषु यत्नत इति॥

कटकानि लोहमयानि बलयानि।त्रिषु स्थानेषु अन्त्ययोर्मध्ये।कटकग्रहणं लोहकीलादीनामुपयुक्तानामुपलक्षणम्। नारदोऽपि।

रज्वी घटतुला कार्य्या खादिरी तैन्दुकी तथा।
चतुरस्रात्रिभिः स्थानैर्घटकर्कटकादिभिरिति॥

घटो मध्यम्। कर्कटको अन्त्यौ पादस्तम्भादीनां स्थूलता तु विशेषानभिधानात्। यावति स्थौल्ये दार्ढ्यम्भवति तावत्येव कार्य्या।शिष्टाचाराद्विशेषो ज्ञेयः। पादस्तम्भावुदग्दक्षिणसंस्थानौ कृत्वा तुला प्राग्भावा कार्य्या। पश्चिमे तोलयेत्कर्तृन् अन्यस्मिन् मृतिकां शुभामिति पितामहस्मरणात्। पूर्वपश्चिमसंस्थानौ कृत्वोदग्यामा वा कार्याः। धारयेदुत्तरे

पार्श्वेपुरुषंदक्षिणे शिलामिति नारदस्मरणात्। घटाङ्गत्वेन तोरणादिकं कार्य्यमित्याह पितामहः।

तोरणे तु तथा कार्य्येपार्श्वयोरुभयोरपि।
घटादुच्चतरे स्यातान्नित्यन्दशभिरङ्गुलैः॥
अवलम्बौ तु कर्त्तव्यौतोरणाभ्यामधोमुखौ।
मृण्मयौसूत्रसम्बद्धौघटमस्तकचुम्विनाविति॥

घटारोहणमाह नारदः।

शिक्यद्वयं समासज्य घटकर्कटयोर्द्दढम्।
एकशिक्ये तु पुरुषमन्यत्र तुलयेच्छिलाम्॥
धारयेदुत्तरे पार्श्वेपुरुषन्दक्षिणे शिलाम्।
पिटकम्पूरयेत्तस्मिन्निष्टका पांशुलोऽष्टकैरिति॥
इष्टकाभिर्ग्रावभिः पांशुभिर्लोष्टै वेत्यर्थ।

माषराशिभिरपि पेटकम्पूरयेत्। माषराशिमथापिवेति स्मृत्यन्तरवचनात्। पितामहोऽपि।

शिक्यद्वयं समासज्य पार्श्वयोरुभयोरपि।
प्रागग्रान् कल्पवेदर्भांस्वत्र विप्रः समाहितः॥
पश्चिमे तोलयेत्कर्त्तृ नन्यस्मिन्मृतिकां शुभाम्।
इष्टकाभस्मपाषाण कपालास्थिविवर्जिता मिति॥

अत्रइष्टकापाषाणयो र्वर्ज्यत्वोक्तिः। समुच्चय निराकरणार्थानतु विकल्पनिराकरणार्थाः। पूर्वोदाहृतनारदवचने तयोरपि विधानात्। एतेन मृत्तिकापाषाणादीनां सम्भूयतोलन कर्त्तृत्वमिति मतमपास्तम्। मृत्तिकाशिलेष्टकारीनामेकार्थत्वात्तुल्यार्थास्तु विकल्पेरन्निति न्यायेन विकल्प इति मिताक्षरायाम्। विष्णुरपि। अत्रैकशिक्ये पुरुषमारोपयेत्।

द्वितीये प्रतिमानं शिलादीति।समतानिरीक्षणार्थंराज्ञातद्विदो नियोक्तव्याः। तथा च पितामहः।

परीक्षका नियोक्तव्यास्तुलामानविशारदाः।
वणिजो हेमकाराञ्चकांस्यकारास्तथैवचेति।
नियुक्ताश्च नियोक्तेरन्नित्याह नारदः॥
सुवर्णकारा वणिजाः कुशलाः कांस्यकारकाः।
तान्तुलामन्ववेक्षेरन् तुलाधारणकादिह इति॥

निरीक्षण्यां प्रत्याह पितामहः।

क य्येःपरीक्षकैर्नित्य मवलम्ब्यसमो घटः।
उदकञ्च प्रदातव्यं घटस्योपरि पण्डितैः॥
यस्मिन्न प्लवते तोयं स विज्ञेयः समो घट इति।

अवलम्बसमःतोरणयो र्लम्बमानौ यौ मृत्तोयाववलम्बौ तयोः समः। नारदोऽपि।

प्रथमारोहणे ग्राह्यं प्रमाणन्निपुणैः सह।
तुलाशिरोभ्यान्तुल्य तु तोरणन्यस्तलक्षण मिति॥

तोलनानन्तरं कर्त्तव्यन्पितामह ग्राह।

तोलयित्वा नरन्पूर्वंपञ्चात्तमवतार्य्य तु॥
घट तु कारयेन्नित्यं पताकाध्वजशोभितम्।
तत अवाहयेद्देवान्विधिनानेन मन्त्रवित्॥
वादित्रतूर्य्यनिर्घोषै र्गन्धमाल्यानुलेपनैः।
प्राङ्मुखः प्राञ्जलिर्भूत्वा प्राङ्विवाकस्ततोवदेत् इति॥

विवादानुरूपं प्रश्नम्पृच्छतीति प्राट्द्विवेचयतीति विवाकःप्राट्चासौ विवाकञ्च प्राड्विवाकः। ततोऽभियुक्त तोलयित्वाऽवतार्य्यधर्म्मावाहनादारभ्याभियुक्तशिरसि यत्र बन्ध-

नान्त साधारणविधिं कुर्य्यात्। घटपूजायाङ्गन्धादिविशेषन्नाररद आह।

रक्तर्गन्धैश्च माल्यैश्च दध्यपूपाक्षतादिभिः।
अर्चयेत्तु घट पूर्वं ततः शिष्टांस्तु पूजयेदिति॥

शिष्टानवशिष्टानिन्द्रादीन्। पत्रबन्धनानन्तरं मन्त्रयेत प्राङ्विवाक इत्याह पितामहः। घटमासन्त्रयेच्चैव विधिनानेन शास्त्रवित्। विधिना मन्त्रेण शाखवित्प्राङ्विवाकः मन्त्रश्च च तेनैव दर्शितः।

त्वं घट ब्रह्मणा सृष्टः परीक्षार्थन्दुरात्मनाम्।
धकाराद्धर्ममूर्त्तिस्त्वण्टकारात् कुटिलं नरम्॥
धृतो धारयसे यस्माद्धटस्तेनाभिधीयते।
त्वं वेत्मिसर्वभूतानां पापानि सुकृतानि च॥
त्वमेव देव! जानीषे न विदुर्य्यानि मानवाः।
व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छतीति॥

शोध्यस्याभिमन्त्रणञ्चाह ।याज्ञवल्क्यः।

तुलाधारणविद्वङ्गिरभियुक्तस्तुलाश्रितः।
प्रतिमानसमीभूतो रेखां कृत्वावधारितः॥
त्वन्तुले!सत्यधामासि पुरा देवैर्विनिर्म्मिता।
तत्सत्यं वद कल्याणि! संशयान्मां विमोचय॥
यद्यस्मि पापकृन्मात! स्ततो मान्त्वमधो नय।
शुद्धञ्चेद्गमयोर्द्ध्यर्म्मांतुलामित्यभिमन्त्रयेदिति।

तुलाश्रितः तुलामारूढः। प्रतिमानसमीभूतः। प्रतिमानेन मृदादिना समीकृतः। रेखां कृत्वावतारणे साक्यचिह्नं कृत्वा अभिमन्त्रणमेवा वतारणानन्तरं कार्य्यंअवतारित इति त्यक्त

दर्शनात्ततः प्राङ्विवाकःतुलाधारक शपथैर्नियम्य शिरोगतपत्रकं पुनर्घटमारोपयेत्। अतएव नारदः।

समयैः परिगृह्याथ पुनरारोपयेन्नरम्।
निर्वाते वृष्टिरहिते शिरस्यारोप्यपत्रक मिति॥

समयैः शपथैः परिगृह्य नियम्य।तेच विष्णुना दर्शिताः।

ब्रह्मघ्नो ये स्मृता लोकाः ये लोकाः कूटसाक्षिणः।
तुलाधारस्य ते लोकास्तुलान्धारयतो मृषेति॥
पुनरारोहणकालेऽभिमन्त्रणमाह नारदः।
त्व वेत्सि सर्वभूतानां पापानि सुकृतानि च॥
त्वमेव देव! जानोषे न विदु र्यानि मानवाः।
व्यवहाराभिशस्तोऽयं मानवस्तोल्यते त्वयि॥
तदेनं संशयारूढं धर्मतस्त्रातुमर्हसि।
देवासुरमनुष्याणां सत्ये त्वमभिषिच्यते॥
सत्यसन्धोऽसि भगवन्! शुभाशुभविभावने।

आदित्य चन्द्रावनिलो नलञ्च द्यौर्भूमिरापोहृदयं यमञ्च।अहश्चरात्रिश्च उभेच सन्ध्ये धर्मश्च जानाति नरस्य वृत्तमिति॥

मन्त्रोच्चारणानन्तरङ्कर्तव्य म्पितामह आह।

**ज्योतिर्विद्ब्राह्मणश्रेष्ठः कुर्यात्कालपरीक्षणम्।
विनाढ्यः पञ्च विज्ञेयाः परीक्षाकालकोविदैः॥
साक्षिणो ब्राह्मणाः श्रेष्ठाः यथादृष्टार्थवादिनः।
ज्ञानिनः शुचयो लब्धानियोक्तव्या नृपेण तु॥
शंसन्ति साक्षिणः श्रेष्ठाः शुद्धाशुद्ध्यं नृपे तदेति।
दशगुर्वक्षरोच्चारणकालः प्राणः ते षट् विनाडिकाः।**तथा

च स्मृत्यन्तरम्। दशगुवेक्षरःप्रायःषट्प्राणाःस्यादिनाड़िकेति विष्णुधर्म्मोत्तरेऽपि लघ्वक्षरसमामात्रा निमेषः परिकीर्त्तितः।

अतः सूक्ष्मतरः कालो नोपलभ्यो भृगूत्तमः॥
द्वौ निमेषौ त्रुटिज्ञेयाः प्राणोदशत्रुटिः समः।
विनाडिकास्तुषट्प्राणा तत् षष्ठ्यानाड़िकाः स्मृताः॥
अहोरात्रं तु तत् षष्ठ्यानित्यमेव प्रकीर्त्तितमिति।

कानिपुनर्जयपराजयचिह्नानित्यपेक्षायामाह नारदः।

तुलितो यदि वर्द्धत विशुद्धःस्थान्नसंशयः।
समो वा हीयमानो वा न विशुद्धो भवेन्नर इति॥

वर्द्धेत उपरिगच्छेत्। हीयमानः अधो गच्छेत्। यत् पुनरुक्तं पितामहेन।

तुलितो यदि वर्द्धेत शुद्धो भवति धर्मतः।
हीयमानो न शुद्धिः स्यादेकेषान्तु समोशुचिः॥
अल्पपापः समोज्ञेयो बहुपापस्तुहीयत इति।

अल्पत्व व्यभिचारे समालिङ्गनादिना चौर्य्ये तद्देशगमनादिना तत्र एकेषामिति पूजार्थं नतु स्वमते समस्य शुचित्वद्योतनार्थम् अल्पपापिनोऽप्यशुचित्वात्। तेन हीयमान समयोर्न कञ्चिद्विशेषः। दण्डं प्रायश्चित्ते परविशेषस्तयोर्द्दोषानुसारित्वात्। यत्तु कैश्चिदेकेषां तु समो- शुचिरिति वचनम् । अल्पपापः समोज्ञेय इति वचनं साम्ये संशयपरसेवेत्युक्तन्तत्क्लिष्टकल्पनया वाक्यानार्जवान्तै रुपेक्षणीयम्। यत्तूक्तम्, वृहस्पतिना।घटेभियुक्तस्तुलितो हीनश्चेद्धानिमाप्नुयात्।

तत्समस्त पुर्नस्तौल्यो वर्द्धितो विजयी भवेदिति॥

अयमर्थःपुनर्देवतावाहनाद्यङ्सहितं सर्वं कर्मविधाना-

तोलनीय इति समस्याशुचित्वनिश्चयो न प्रथमतोलनपर्य्याये कार्य्यः।किन्तु पुनस्तौल्यमानस्य समतैव यदि भवति तदा अशुद्धिरवधारणीयेत्यर्थ इति स्मृतिचन्द्रिकायाम्। यत्तु कैच्चित्तस्निन्नेव प्रयोगे तोलनमुक्तं प्रधानावृत्तावङ्गावृत्तिरिति न्यायेन तोलनस्य फलसम्बन्धेन प्रधानत्वात् तदा वृत्तौ देवतावाहनाद्यङ्गानामप्यावृत्तेरेवोचितत्वात्। शिक्यादिच्छेदेपि पुनःसमीकृत्य तोलनीय इत्याह। कात्यायनः।

शिक्यच्छेदे तुलाभङ्गेतथा चापि गुणस्य वा।
शुद्धेस्तुसंशयेचैनं परीक्षेत पुनर्नरमिति॥

शुद्धिसंशयकारिण्याह नारदः।

तुलाशिरोभ्या मुद्ंभ्रान्तविचलं न्यस्तलक्षणम्।
यदा वायु प्रणुन्नवा तदा नैकतरंवदेदिति॥

अयमर्थः। यदा तुलान्तौ तिर्यक् चलितौ यदा च समताज्ञानार्थन्यस्तं चिह्नमयेति यदा च वायुना प्रेरितातुला ऊर्ध्वमधश्च कम्पते तदा जयं पराजयञ्च न वदेदिति।व्यासोऽपि।

कक्षच्छेदे तुलाभङ्गे घटकर्कटयोस्तथा।
रज्जुच्छेदेऽक्षभङ्गे वा दद्याच्छुद्धिं पुनर्नृप इति॥

कक्षं शिक्यतलं कर्कटौ तुलोपान्तस्यौ शिक्याधारावीषदृत्कौ कर्कटशृङ्गसन्निभौ लोहकीलकौ। अक्षःपादस्तम्भयोरुपरिनिहितस्तुलाघारपट्ट इति मिताक्षरा। दार्ढ्यःप्रयोजकःकीलक इति हलायुधः। यत्तु वृहस्पतिवचनम्।

कचच्छेदे तुलाभङ्गे घटकर्कटयोस्तथा।
रज्जुच्छेदेऽक्षभङ्गेच तथैवा शुद्धिमानुयादिति॥

तदाकस्मिककक्षच्छेदादिविषयम्।कात्यायनवचनं तु

दृश्यमानकारणकशिक्यच्छेदादिविषयमिति विज्ञानेश्वराचार्य्यादयः इति घटविधिः॥

अथाग्निविधिः।

तत्र पितामहः। अग्नेर्विधिं प्रवक्षामि यथावच्छास्तचोदितम्।

कारयेन्मण्डलान्यष्टौ पुरस्तात्रवमन्तथा॥
आग्नेयं मण्डलन्वाद्यं द्वितीयं वारुणं तथा।
तृतीयं वायुदैवत्यं चतुर्थं यमदैवतम्।
पञ्चमं त्विन्द्रदैवत्यं षष्ठङ्कौवेरमुच्यते।
सप्तमं सोमदैवत्यमष्टमं सर्वदैवतम्॥
पुरस्तात्रवम यत्तु तन्महत्यार्थिवं विदुः।
गोमयेन कृतानि स्युरद्भिः पर्युक्षितानिचेति॥

सावित्रंत्वष्टमन्तथा। नवमं सर्वदैवत्यमिति दिव्यविदो विदुरिति मिताक्षरायां पाठः।प्रख्यात देवतायतनादिपूर्वोक्तदिव्यप्रदेशभूशुद्धिं सम्पाद्यतत्र प्राङ्विवाकः सोपवासोनृपाज्ञया प्रवृतो नवमण्डलानि कुर्य्यात्। तानि च प्राक् संस्थानि कर्त्तव्यानि। पुरस्तान्नवममित्यष्टानां मण्डलानां पूर्वभागे नवममण्डलस्य कर्त्तव्यताभिधानात्। पश्चिमे मण्डले स्थित्वेति वक्ष्यमाणवचनलिङ्गाञ्च। तानि चाष्टौ क्रमेणाग्न्यादिदैवत्यानि।नवमं महत् मण्डलान्तरापेक्षयाऽधिकपरिमाणमपरिमिताङ्गुलम्पार्थिवं पृथिवीदैवत्यन्ननु मण्डलानामग्न्यादिदैवत्यत्वं न सम्भवति। तत्प्रकाशकत्वाभावात्। तदुद्देशेन त्यज्यमानत्वाभावाच्चेति चेन्न प्रैतु होतुश्चमसः ब्रह्मण इति न्यायेन आग्नेयेत्यादि देवतातद्वितं तल्लक्षणं समसङ्ख्याबलेनाग्न्यादिदेवतापूजनस्थानत्वेना्ग्न्यदिदैवत्यत्वसम्भवात्। अत

स्तेष्वग्न्यादिदेवतापूजन कार्य्यम्।मण्डलपरिमाणं स एवाह।

द्वात्रिंशदङ्गुलं प्राहुर्मण्डलं मण्डलान्तरम्।
अष्टभिर्मण्डलैरेवमङ्गलानां शतद्वयम्॥
षट्पञ्चाशत्ममधिकं भूमेस्तु परिकल्पनेति॥

मण्डलान्तरम् अन्यमण्डलं सान्तरालेमेकैकमण्डलं द्वात्रिंशदङ्गुलम् एवञ्चान्तरालसहितै रष्टभिर्मण्डलैरङ्गुलानां षट्पञ्चाशदधिकं शतद्वयं भवति नवममण्डलस्यापरिमिताङ्गुलकत्वादगणनामण्डलंसान्तरालं द्वात्रिंशिदङ्गुलम्।तत्रमण्डलं षोड़शाङ्गुलं तदन्तराल तथा च याज्ञवल्क्यः।

षोड़शाङ्गुलकं ज्ञेयं मण्डलं तावदन्तरमिति।

तावत् षोड़षाङ्गुलं अन्तरं मध्यम्। यत्तु नारदवचनम्।

अतः परं प्रवक्ष्यामि विधिमग्नेर्यथोदितम्।
द्वात्रिंशदङ्गुलं प्राहुर्मण्डलं मण्डलान्तरम्॥
अष्टाभि र्मण्डलैरेव मङ्गलानां शतद्वयम्।
चत्वारिंशत् समधिकं भूमेरङ्गुलमानत इति॥

तन्नवमाष्टमयो रङ्गुलयो र्यदन्तराल षोड़शाङ्गुलं तस्यागन्तव्यत्वादनन्तराभावेलाङ्गुलानांपरिगणनमिति न कश्चिविरोधः। यत्तु कल्पतरुकारेण एतदेवबाक्यं चतुर्विंशतिराख्याता भूमेस्तु परिकल्पनेति पठितन्तत् षोड़शाङ्गुलस्य प्रथमावस्थानं मण्डलस्याङ्गत्वेन तदप्यनन्तर्भावगम्यभूमेरङ्गुलानां परिगणनविषयमिति न कश्चिद्विरोध॥ यदा तु दिव्यकर्तुः पदं षोड़शाङ्गुलादधिकं तदा तत्पदसम्मितं मण्डलं अवशिष्टाङ्गुलमन्तरालमित्येव द्वात्रिंशदङ्गुलता सम्पादनीया।तथा च नारदः।

मण्डलस्य प्रमाणन्तु कुर्य्यात् तदत्यसम्मितमिति।

पितामहोऽपि। कर्त्तुः पदसमङ्कार्य्यंमण्डलन्तु प्रमाणत इति।

अङ्गुलप्रमाणं तु तिर्य्यग्यवोदरान्यष्टावित्यादिना घठविधिप्रकरणे दर्शितम्। यत्तु विष्णु वचनम्। षोड़शाङ्गुलं तावदन्ततरमण्डलसप्तकं कुर्य्यादिति। तद्गन्तव्यमण्डल विषयम्।

स तमादाय सप्तैव मण्डलानि शनैव्रजेदिति।

याज्ञवल्क्यवचनेन समानार्थकं ज्ञेयम्। यत्तु रत्नाकरे एतच्च मण्डलसप्तकं मण्डलाष्टकलङ्घनासामर्थ्यं इत्युक्तं तदयुक्तम्।

पश्चिमे मण्डले स्थित्वा प्राङ्मुखः प्राञ्जलिः शुचिः। इति वचनेन।

अष्टमं मण्डलं गत्वा नवमे निःक्षिपेद्बुधः।

इति वचनेन च मण्डलसप्तकलङ्घनस्यैवोक्तत्वेन मण्डलाष्टकलङ्घनस्यानुक्तत्वात्। प्रोक्षितेष्वेतेषु प्रागग्राःकुशाःप्रसारणीयाः। तथा च पितामहः।

मण्डले मण्डले देयाः कुशाः शास्त्रप्रचोदिताः।
विन्यसेच पदकर्त्ता तेषु नित्यमितिस्थितिरिति॥

ततः प्राङ्विवाकः प्रथममण्डलाद्दक्षिणतो लौकिकमग्निं प्रतिष्ठाप्य शान्तिहोमं कुर्य्यात्।

शान्त्यर्थं जुहुयादग्नौ घृतमष्टोत्तरं शतमिति।

 स्मरणात्। होमश्चात्राग्नये स्वाहा पावकाय स्वाहेत्यनेन मन्त्रेण कुर्य्यादित्युक्तं व्याख्यातृभिः। ततस्तस्मिन्नग्नौ लोहकारात् पिण्डन्तापयेत्। तथा च नारदः।

जात्यैव लोहकारी यः कुशलञ्चाग्निकर्मणि।
दृष्टप्रयोगश्चान्यत्रतेनायोऽग्नौ प्रतापयेत्॥
अग्निवर्णमयः पिण्डं सस्फुलिङ्गं सुरक्षितमिति।

सुरक्षितञ्चाण्डालादिस्पर्शो यथा न सम्पद्यते तथा रक्षिसमयः पिण्डस्य परिमाणादिकं पितामह आह।

अस्त्रहीनं समङ्कृत्वा अष्टाङ्गुलमयोमयम्।
पिण्डंतु तापयेदग्नौपञ्चाशत्पलिकं सममिति॥

सममस्त्रहीनम्।समन्ततः कोणरहितं समवृत्तमिति यावत्। अष्टाङ्गुलं अष्टाङ्गुलविस्तारं पञ्चाशत्यलिकं पञ्चाशत्पलपरिमितं समन्तापयेदित्यन्वयः। सर्वतस्तापयेदित्यर्थः। यत्तु।

शतार्द्धपलिकं वृत्तं द्वादशाङ्गुलमायतम्।
लोहमग्निमयं ध्वान्तं देयं राज्ञाभिशापिन इति॥

कालिकापुराणे लोहपिण्डस्य द्वादशाङ्गुलायामत्वमुक्तन्तदष्टाङ्गुलेन सह विकल्पितं ज्ञेयम्। यत्तु शङ्खलिखिताभ्याम्। अथवा सप्ताश्वस्य पत्रान्तरितं षोड़शपलमपि अग्निवर्णलौहपिण्ड मञ्जलिमादाय सप्तमपदमर्य्यादङ्गच्छेदिति पिण्डस्य षोड़शपलत्वमुक्तन्तदपि वैकल्पिकम्।सप्तमपदमपीदं सप्तममण्डलं यावत्। अभिविधिपरोऽत्र मर्य्यादाशब्दः।केचित्तु षोड़शपलसङ्ख्यां असामर्थ्य इति प्राहुः। इदञ्चपिण्डप्रतापनन्त्रिः कर्त्तव्यम्।

अग्निवर्णमयः पिण्डंसस्फुलिङ्गं सुरक्षितम्।
पञ्चाशत्पलकम्भूयःकारयित्वा शुचिर्द्विजः॥

तृतीयतापे तप्यन्तं ब्रूयात्सत्यपुरस्कृतमिति नारदवचनेन तृतीयतापे तप्यन्तमिति लिङ्गात् । सुतप्तमयःपिण्डमुदके

निःक्षिप्य पुनः मन्ताप्योदके निःक्षिप्य पुनः प्रतापनम्।तस्मिन् काले प्राङ्विवाको धर्मावाहनादिशोध्यशिरःपत्रारोपणान्तं साधारणं विधिं कुर्य्यात्। वह्निपूजायां चन्दनादेर्विशेषं पितामह आह।

तत्र पूजां हुताशस्य कारयेन्मनुजाधिपः।
रक्तचन्दनमाल्यैश्च रक्तपुष्पैस्तथैव चेति॥

तत्रचायःपिण्डाग्नौ हुताशस्य आवाहितस्य धर्मरूपस्याग्नेःततः शोध्यकर्त्तव्यमाह हारीतः।

प्राङ्मुखस्तु ततस्तिष्ठेत्प्रसारितकराङ्गुलिः।
आर्द्रवामाः शुचिश्चैव शिरस्यारोप्य पत्नकमिति॥

अवस्थितिश्च प्रथमे मण्डले कर्त्तव्येत्याह पितामहः।

   ** प्रथमे मण्डले तिष्ठेत्प्राङ्मुखः प्राञ्जलिः शुचिरिति।**

तत्र स्थितस्य करौ शोधनीयावित्यप्याह स एव।

लक्षयेयुः क्षतादीनि दुस्तपोस्तस्य कारिणामिति॥

कारिणः।नियुक्ताः पुरुषाः।नारदोऽपि।

लक्षयेत्तस्य चिह्नानि हस्तयोरुभयोरपि।
प्राकृतानीवगूढानि सव्रणान्यत्रणानिचेति॥

शोधनप्रकारं विष्णुराह।

करौ विमृदितब्रीही तस्यादावेव लक्षयेदिति।

विमृदिता ब्रीहयो याभ्यान्तौ ब्रीहिमर्दनन्तयो र्यथावस्थितरूपज्ञानार्थम् एवं शोधितयोर्ब्रणादिचिह्नेषु तत्सु, प्राक्स्थितत्वज्ञानार्थमलक्तादिरसेन तेषां चिह्नंकर्त्तव्यमिति नारद आह।

हस्तक्षतेषु सर्वेषु कुर्य्याद्धसपदानि तु।
तान्येव पुनरालक्ष्येद्धस्तौ विन्दुविचिवित्राविति॥

तानि प्राक्कृतचिह्नानि पिण्डधारणानन्तरम्। ततः प्राङ्विवाककृत्यं याज्ञवल्क्यआह।

करौविमृदितब्रीहे र्लक्षयित्वा ततो न्यसेत्।
सप्ताश्वत्थस्य पत्राणि तावत्सूत्रेणवेष्टयेत् इति॥

तावत्तावत्कृत्वः सप्तकृत्वः सूत्रेण वेष्टयेदिति तावदित्यस्य क्रियाविशेषणत्वमङ्गीकृत्योक्तोऽर्थो मिताक्षरायां, तावतां सूत्राणां समाहारस्तावत्सूत्रन्तेन सप्तभिः सूत्रैर्वेष्टयेदित्यर्थः सप्तभिः सूवतन्तुभिरिति वक्षमाणनारदादिवचनसम्वादी प्रतिभाति तावच्छब्दः संख्याशब्दस्तेन समाहारे द्विगुः स्त्रीलिङ्गत्वाभावाच्च न ङीप् त्रिभुवनमितिवत्। सप्तकृत्वोवेष्टनन्तुवचनालाभेऽपि शिष्टाचारतः कर्त्तव्यमिति मदनरत्ने वेष्टनञ्चाश्वत्थपत्रहस्तयोः सूत्रञ्च शुष्कमित्याह। नारदः।

वेष्टयीत सितैर्हस्तौ सप्तभिः सूत्रतन्तुभिरिति।
अश्वत्थपत्राणि सप्तापि समानानि तथा च स्मृतिः।
पत्रैरञ्जलिमापर्य्यु आश्वत्थैःसप्तभिः समैरिति।

शमीपत्रादीन्यप्यश्वत्थपत्राणामुपरि स्थापयेत्। तथाच स्मृतिः।

सप्त पिंप्पलपत्राणि शमीपत्रान्यथा क्षतान्।
टूर्वायाः सप्त पत्राणि दध्यक्तांश्चक्षतान्न्यसेदिति॥

पुष्पाणि च तत्र स्थापनीयानि। तथा च पितामहः।
सप्तपिप्यलपत्राणि अक्षतान् सुमनोदधि।
हस्तयोर्न्निःक्षिपेत्तत्र सूत्रेणावेष्टनं तथेति॥

सूत्रेणावेष्टनन्तश्नेति सुमनसः कुसुमानि।सूत्रणेति जातावेकवचनं यत्तु स्मृत्यन्तरम्।

अयस्तप्तन्तुपाणिभ्यामर्कपत्रैस्तु सप्तभिः।
अन्तर्हितं हरन् शुद्धस्त्वदग्धः सप्तमे पद इति॥

 तदश्वत्थपत्राभावेऽर्कपत्रविधायकं ज्ञेयम्। अश्वत्थपत्राणां पितामहप्रशंसावचनेन मुख्यतावगमात्।

पिप्पलाज्जायते वह्निः पिप्पलो वृक्षराट स्मृतः।
अतस्तस्य तु पत्राणि हस्तयोर्न्निःक्षिपेद्बुध इति॥

ततस्तप्तलोहपिण्डे प्राङ्विवाकस्तत्राग्निमावाह्याग्निमभिमन्त्रयेत्।त्वमग्ने वेदा इत्यनेन मन्त्रेणेत्याह पितामहः।

तापिते तु ततः पश्चादग्निमावाहयेच्छुचिः।
आवाहनन्तुदेवानां कृत्वा पूर्वविधानवित्॥
त्वमग्ने! वेदाश्चत्वारस्त्वञ्चयज्ञेषु हुयते।
त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम्॥
जठरस्थो हि भूतानां ततो वेत्मिशुभाशुभम्।
पापात्पुनासि वै यस्मात् तस्मात्पावक उच्यते॥
पापेषु दर्शयात्मानमर्चिष्मान् भव पावक।
अथ वा शुद्धभावेन शान्तो भव हुताशन!॥
त्वमग्ने! सर्वभूतानां मन्तश्चरसि साक्षिवत्।
त्वमेव देव!जानीषे न विदुर्यानि मानवाः॥
व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति।
तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि इति॥

विष्णुस्तु।त्वमग्ने सर्वभूतानामित्यादि धर्मतस्त्रातुमर्हसि इत्यन्तं पितामहवचनवदेवाभिमन्त्रमाह।तदस्य मन्त्रस्य

समर्चनाभिमन्त्रेण साधनत्वं न तु विकल्पनेन प्रार्थनीयार्थस्यशोध्यव्यक्तिविशेषनिष्ठतया प्रकाशनेन भिन्नकार्य्यत्वात्। पितामहेन एकवाक्यतया पठनाच्च। यत्तु।

तृतीयतापे तप्यन्तं ब्रूयात्सत्यपुरस्कृतम्।
श्रृण्विमं मानवन्धर्मं लोकपालैरधिष्ठितम्॥
त्वमग्ने ! सर्वदेवानां पवित्रं परमं मुखं।
त्वमग्ने ! सर्वभूतानां हृदिस्थंवेत्सिचेष्टितम्।
सत्यानृते च जिह्वायास्त्वत्तः समुपलभ्यते॥
वेदादिभिरिदम्प्रोक्तं नान्यथा कर्त्तुमर्हसि।
अनेनादाविदम्प्रोक्तं मिथ्या चेदमसौ वदेत्॥
सर्वथा च यथा मिथ्या तथाग्निं धारयाम्यहम्।
स एष त्वां धारयति सत्येनानेन मानवः।
सत्यवाक्यस्य चास्य त्वं शीतो भव हुताशन !॥
मृषावाक्यस्य चास्य त्वं दह हस्तौ च पापिनः।

इति नारदोक्त मभिमन्त्रणं विष्णुपितामहाभ्यामुक्तेनाभिमन्त्रणेनैकार्थत्वाद्विकल्पते। तुल्यार्थास्तु विकल्पेरन्नितिन्यायात्, यदा नारदोक्ताभिमन्त्रणं क्रियते तदा तदनन्तरंकर्त्तव्यमाह।

स एव।अमुमर्थञ्च पत्रस्थमभियुक्तं यथार्थतः।
संश्राव्य मूर्ध्नि तस्यैव अयदेयो यथाक्रियमिति॥

पूर्वोक्ताभिमन्त्रणमन्त्रार्थंशिरसि निहितपत्रस्थमन्त्रार्थञ्चसंश्राव्य तत्पत्रं यथास्थानन्निधाय यथाय लोहपिण्डो देयइत्यर्थः। यदा तु विष्णुपितामहोक्ताग्न्यभिमन्त्रणं क्रियतेतदा तस्मिन् कृते किं कर्त्तव्यमाह।पितामहः।

ततस्तसमुपादाय राजा धर्मपरायणः।
सन्देशेन नियुक्तो वा हस्तयोस्तस्य निःक्षिपेदिति॥

नियुक्तः प्राङ्विवाकः सन्देशेन तं लोहपिण्डं समुपादाय गृहीत्वा तस्य शोध्यस्य हस्तयोर्निःक्षिपेदित्यर्थः। निःक्षेपणात् प्राकृतपक्षद्वयेऽपि शोध्यः। अभिमन्त्रयेत् अभिमन्त्रितवतश्च तस्य हस्तयोरुपरि लोहपिण्डं स्थापयेत्। तथा च याज्ञवल्क्यः।

त्वमग्ने! सर्वभूतानां मन्तश्चरसि पावक!।
साक्षिवत्पुण्यपापेभ्यो ब्रूहि सत्यं करे मम॥
तस्येत्युक्तवतो लोहं पञ्चाशत्पलिकं समम्।
अग्निवर्णंन्यसेत्पिण्डं हस्तयोरुभयोरपि॥

ल्यब्लोपे पञ्चमी। पुण्यपापनि पर्यालोच्येत्यर्थः ब्रूहि दर्शय इत्युक्तवन्तः। पूर्वोक्तमन्त्रेणाग्न्यभिमन्त्रणं कृतवतस्तस्य हस्तयोरश्वत्थप- त्रादिसहितयोः सूत्रैर्वेष्टितयोरित्यर्थः। गृहीतलोहपिण्डस्य शोध्यस्य कर्त्तव्यमाह स एव।

स तमदाय सप्तैव मण्डलानि शनैर्ब्रजेदिति।

अस्यार्थविवरणपुरःसरं विष्णुरपि। ततस्तत्राग्निवर्णं लोहपिएडं पञ्चाशत्पलिकं समन्दद्यात् तं समादायनातिद्रुतन्नचविलम्बितं मण्डलेषु पदन्यासं कुर्वन् व्रजेत्। ततः सप्तममण्डलमतीत्य भूमौ लोहपिण्डं पातयेदिति मण्डलेषु द्वितीयादिमण्डलेषु सप्तमं मण्डलमतीत्य सप्तमं मण्डलमतिक्रम्य अष्टमं मण्डलं गत्वेति यावत्। भूमौ शुष्काभिनवतृणपुञ्जान्वितायां नवमण्डलरूपायामित्यर्थः। वक्ष्यमाणकालिकापुराण- वचनानुरोधात्। नारदोऽपि।
.

हस्ताभ्यां तं समादाय प्राङ्विवाकसमीरितः।
स्थित्वैकस्मिस्ततोऽन्यानि व्रजेत्सप्तत्वजिह्नगः॥
असंभ्रान्तः शनैर्गच्छेदक्रुद्धः सोऽनलं प्रति।
न पातयेत्तामप्राप्य या भूमिः परिकल्पिता॥
न मण्डलमतिक्रामेन्नचार्वाक् स्थापयेत्पदम्।
मण्डलं चाष्टमंगत्वा ततोऽग्निं विसृजेन्नर इति॥

एकस्मिन् प्रथमे मण्डले।विसृजेन्नवममण्डल इति शेषः। अतएव पितामहः।

त्वरमाणो न गच्छत्तु सुस्यो गच्छच्छनैः शनैः।
न मण्डलमतिक्रामेन्नान्तरा स्थापयेत्यदम्॥
अष्टमं मण्डलङ्गत्वा नवमे निःक्षिपेद्बुध इति।

नवमे मण्डले नूतनतृणसमन्विते अग्निविसर्गः कर्त्तव्यः। तथा च कालिकापुराणे।

मण्डलानि तथा सप्त षोडशांगुलमानतः।
तावदन्तरतो गच्छेद्गत्वा नवतृणे क्षिपेदिति॥

निःक्षेपानन्तरम्परीक्षकस्य कर्त्तव्यमाह नारदः। तस्यैव मुक्तपिण्डस्य कुर्यात् करनिरीक्षणमिति शुद्धाशुद्धपरिज्ञानार्थमिति शेषः। तत्राशुद्धिप्रत्यायकानि लक्षणानि स एवाह।

पूर्वदृष्टेषु चिह्नेषु ततोऽन्यत्रापि लक्षयेत्।
मण्डलं रक्तसंकाशं यत्रान्यद्वाग्निसम्भवम्॥
समविशुद्धस्तु विज्ञेयो सत्यधर्मव्यवस्थित इति॥

यस्य करतलयोर्मध्ये यत्न क्वचिदग्निकारितं स्फोटाद्युपलभ्यते तमशुद्धं विजानीयादित्यर्थः । यस्य पुनर्वोपलभ्यते स शुद्धो ज्ञेयः। अत एव विष्णुः।

यो हस्तयोः क्वच्चिद्दग्धस्तमशुद्धं विनिर्दिशेत्।
न दग्धः सर्वथा यस्तु स विशुद्धो भवेन्नर इति ॥

दग्धादग्धसन्देहे नारद आह।

यदा तु न विभाव्येते दग्धाविति करौ तदा।
ब्रीहीनतिप्रयत्नेन सप्त वारांस्तुमर्दयेत्॥
मर्दिते यदि नो दग्धः सभ्यैरेवं विनिश्चितः।
शोध्यःशुद्धः स सस्कृत्य दग्धो दण्ड्यो यथाक्रममिति॥

न विभाव्येते न निश्चयेते। व्रीहियोर्मर्दने विकल्पमाह पितामहः।

ततस्तहस्तयोः प्रास्येद्ब्रीहीन्वा यदि वा यवान्।
निर्विशङ्केन तेषान्तु हस्ताभ्यां मर्दने कृते॥
निर्विकारे दिनस्यान्ते शुद्धिन्तस्य विनिर्दिशेत् इति।

प्रास्येत्प्रक्षिपेत्।

निर्विकारे दिनस्यान्ते शुद्धिन्तस्य विनिर्दिशेत्।

निर्विकारे करतलद्वये स्थिते सायंकाले शोध्यस्य शुद्धिं निर्दिशेदित्यर्थः। केचिन्निर्विकारो यदा हस्त इति पठन्तितन्मते मर्दनानन्तरमेव शुद्धिरवधारणीया।सायंकाललक्षणकालबोधकचनाभावात्। ननु दिनस्यान्त इति पाठे मुक्ताग्निं मृदित ब्रीहि रित्यादियाज्ञवल्क्यवचनेन विरोधः। तत्रानन्तर्यवाचिक्ताप्रत्ययस्य मुक्तेति प्रयोगेन कृतब्रीहिमर्दनयोःकरयोर्विकारस्यादर्शने तप्तलोहपिण्डन्यामानन्तरमेव शुद्धेरवधारणीयत्वोक्तेरिति चेन्न। समानकर्त्तृकयोःपूर्वकाल इति पाणिनीयवचनेन क्त्वाप्रत्ययस्य पूर्वकालवाचित्वावधारणात्। हरियोजनयागस्य संस्रावस्तुग्विमोकाय्य वहुधा

नेन परिधिप्रहरणानन्तर्याभावेऽपि वेदे प्रहृत्य परिधीत् जुहोतीतित्यत्र क्त्वाप्रत्ययदर्शनात्। लोकेऽपि उपवेशनक्रियान्तरव्यवधानेन गमनस्य भोजनानन्तर्याभावेऽपि भुक्त्वा व्रजतीतिक्त्वादर्शनाद्यातीनान्तर्यवाचकत्वं क्त्वाप्रत्ययस्य।किञ्च क्त्वाप्रत्ययस्यानन्तर्यवचनत्वे बृहस्पतिसर्वाधिकरणविरोधः स्यात्। तत्रापि क्त्वाप्रत्ययस्य पूर्वकालवचनत्वाभिधानात्। तथा हि। वाजपेयेनेष्ट्वा बृहस्पतिः सवेन यजेतेति श्रूयते तत्र संशयः। स किंवाजपेये शरदि वाजपेयेन यजेतेत्यनेन विहितो यः शरत्कालस्तस्मिन् कर्त्तव्यः। आहोस्वित्स्वकाले वसन्ते कर्त्तव्यः। तत्र बृहस्पतिवचनस्यागमत्वं तावत्पूर्वमुक्तम्। तच्चाङ्गं अङ्गिकालेअङ्गिना सह प्रयोक्तव्यं इतरेषामङ्गानामङ्गिकाल मनुष्ठीयमात्वादिति पूर्वःपक्षः।राद्धान्तस्तु पूर्वकालवाचिक्त्वाप्रत्ययेन साङ्गेवाजपेये निवृत्ते सति पश्चात्कर्मान्तरत्वेन बृहस्पतिसवस्य विहितत्वात्। यद्यङ्गिना सहैकप्रयोगःस्यात्।तदा क्त्वाप्रत्ययप्रापितः पूर्वोत्तरकालविभागो बाध्येत नह्यङ्गिनासह प्रयोक्तव्यानामङ्गानां वाजपेये निवृत्ते पश्चात् विधानं श्रुतम्। ततः प्रयोगेऽवश्यम्भाविनि सति स्व-स्व-चोदकप्रापितेकाले तदनुष्ठानं युक्तम्। बृहस्पतिसवस्य ज्योतिष्टोमविकारत्वाद्वसन्तकालञ्चोदकप्राप्तः वाजपेयेन सह प्रयोगैक्ये शरदिवाजपेयस्य विहितत्वाद्बृहस्पतिसवोऽपि शरदि प्रसज्येत।तथा च वाजपेये वृत्ते कर्त्तव्यो बृहस्पतिसवस्तदनन्तरंकालातिक्रमकारणस्यातिदेशकृतस्य वसन्तकाललक्षणाङ्गोसंहारस्य सत्वात् तदुत्तरवसन्तकाले कर्त्तव्यः। ह्वापूर्वकालतायां स्मर्य्यते नानन्तर्य्ये ननु सर्वत्रामी पूर्वप्रधानाः पूर्वञ्जनयि-

तव्यं रहस्तुपूर्वकालीनेन साङ्गप्रधानानुष्ठानेन फलापूर्वस्य निष्पन्नत्वादुत्तरकालीनमङ्गं निरर्थकमेव स्यादिति चेन्नतस्यैवापूर्वस्यानेनातिप्राबल्य- दशायाः कल्पनीयत्वात्। तस्मान्याङ्गिनःकालेऽनुष्ठानं किन्तु स्वकाल एवेति स्थितम्। तदनेन विरोधवारणाय पूर्वकालत्वमेवार्थः। तथा च न कोऽपिविरोध इति सर्वञ्च मुख्यम्। केषुचिन्निमित्तेषु पुनरग्निधारणं कर्त्तव्यम्। तथा च याज्ञवल्क्यः।

अन्तरा पतिते पिण्डे सन्देहे वा पुनर्हरेदिति।

यदा गच्छतोऽन्तराष्टममण्डलादर्वाक् पिण्डः पतति दग्धादग्धत्वे वा सन्देहस्तदा पुनर्हरेदित्यर्थः। इदन्तु यदि हस्तयोर्न दाहस्तदा वेदितव्यम्। दाहेत्वशुद्धिरेव तथा च नारदः।

यस्त्वन्तरा वा पतति दग्धश्च तद्विभाष्यते।
पुनस्तं हारयेदग्निं स्थितिरेषा दृढीकृतेति॥

हस्तयोरन्यंत्र दग्धविभावनेऽपि पुनर्धारणं कार्य्यमित्याह। कात्यायनः।

प्रस्वलत्यभियुक्तश्चेत् स्थानादन्यत्रदह्यते।
न तं दग्धं विदुर्देवास्तस्य भूयोऽपि दापयेदिति॥

भयोऽपि पुनरपीत्यर्थः। इत्यग्निविधिः। अथ जलविधिस्तत्रपितामहः।

तोयस्यातः प्रवक्ष्यामि विधिं धर्म्यंसनातनम्।
मण्डलं धूपदीपाभ्यां कारयेच्चविचक्षणः॥
शरान् सपूजयेद्भक्त्या वैष्णवञ्च धनुस्तथा।
मङ्गलैः पुष्पधूपैश्च ततः कर्म समाचरेत् इति॥

धूपदीपाभ्यां शरान् संपूजयेदित्यन्वयः।जलसमीपे

संस्कृतायाम्भुवि मण्डलं कृत्वा तत्र शरादिकं संपूज्य प्रयोगारम्भः कार्य इत्यर्थः। धनुषः प्रमाणमाह नारदः।

क्रूरन्धनुः सप्तशतं मध्यमं षट्शतं स्मृतम्।
मन्द पञ्चशतं ज्ञेयमेष ज्ञेयो धनुर्विधिरिति॥

सप्तशतं सप्ताधिकशताङ्गुलम्। एव षट्शतं पञ्चशतञ्च। लक्ष्यस्थानञ्च स एवाह।

मध्यमेन तु चापेन प्रक्षिपेच्च शरत्रयम्।
हस्तानान्तुशते सार्द्धेलक्ष्यं कृत्वा विचक्षणः।
न्यूनाधिके तु दोषः स्यात् क्षिपतः सायकांस्तथेति॥

शराश्चा नायसाग्रा वैणवाश्च कर्त्तव्या इत्याह कात्यायनः।

शरांश्चानायसाग्रांस्तु प्रकुर्वीत विशुद्धये।
वेणुकाण्डमयांश्चैव क्षेप्ता तु सुदृढं क्षिपेदिति॥

क्षेप्ता च क्षत्रियस्तद्वृत्तिर्ब्राह्मणो वा कार्य्य इत्याह।

पितामहः। क्षेप्ता च क्षत्रियः कार्यस्तद्वृत्तिर्ब्राह्मणोऽथवा।

अक्रूरहृदयः शान्तःसोपवासस्तथा शुचिरिति॥

शोध्यकर्णप्रमाणोच्छ्रिततोरणं मण्डलं समीपे कार्य्यमित्याह।

नारदः। गत्वा तु तज्जलस्थानं तटे तोरणमुच्छ्रितम्।

कुर्वीतकर्णमात्रन्तु भूमिभागे समे शुचाविति॥

उपादेयानुपादेय जले विविनक्तिपितामहः।

स्थिरे तोये निमज्जेत्तुन ग्राहिणि न चाल्पके।
तृणशैवालरहिते जलौकामत्स्यवर्जिते।
देवखातेषु यत्तोयं तस्मिन् कुर्य्याद्विशोधनम्।
आहर्य्यंवर्जयेन्नित्यं शीघ्रगासु नदीषु च।
आविशेदमले नित्यमूर्मिपङ्कविवर्जिते॥

ग्राहिणि ग्राहाख्यजलजन्तु युक्ते। आहार्य्यंनद्यादित आहृत्य महति कटाहादौ आहृत्य स्थापितम्। नारदः।

नदीषु नातिवेगासु तडागेषु सरःसु च।
ह्रदेषु स्थिरतोयेषु कुर्य्यात्पुंसांनिमज्जनमिति॥

नातिवेगासु अतिवेगासु अवस्थित्ययोग्यास।विष्णुः। पङ्कशैवालदुष्टग्राहमत्स्य जलौकादिविवर्जिताम्मसि इति। तत्र उदके प्राङ्क्षिवाको वरुणं पूजयेदित्याह। स एव।

गन्धमाल्यैः सुरभिभिर्मधुक्षीरघृतादिभिः।
वरुणाय प्रकुर्वीत पूजामादौ समाहित इति॥

ततो दृढकायः कश्चित्पुरुषो नाभिमात्रजले स्थापनीय इत्यपि स एवाह।

ब्राह्मणः क्षत्रियो वैश्यो रागद्वेष-विवर्जितः।
नाभिमात्रेजले स्थाप्यः पुरुषः स्थानुवद्बली॥
तस्योप्रतिसंगृह्य निमज्जेदभिशापवानिति॥

पितामहोऽपि।स्थापयेत्प्रथमन्तोये स्तम्भवत्पुरुषं नृपः।

आगतं प्राङ्मुखं कृत्वा तोयमध्ये तु कारिणमिति॥

स्तम्भवत्पुरुषं स्तम्भममन्वितं पुरुषं कारिणं दिव्यकारिणं शोध्यमिति यावत्। अनेन पुरुषेण यज्ञिवृक्षजातां धर्मस्थूणामवष्टभ्य स्थातव्यं तथा च स्मृतिः।

उदके प्राङ्मुखस्तिष्ठेद्धर्मस्थूणां प्रगृह्य चेति।

ततः प्राङ्विवाको धर्मवाहनादिहोमान्तं कृत्वा शोध्य शिरसि च पत्रारोपणं विधाय जलाभिमन्त्रणं कुर्य्यात्। तथा च पितामहः।

ततस्त्वावाहयेद्देवान् सलिलञ्चानुमन्त्रयेदिति।

देवतावाहनं पूर्वोक्तस्य सकलदिव्यसाधारणस्य प्रतिज्ञापत्रबन्धनान्तस्य कर्मजातस्योपलक्षणम्।सलिलग्रहणं सलिल देवताभूतस्य वरुणस्याप्युपलक्षणम्। जलाभिमन्त्रणमन्त्रं विष्णुराह।

त्वमम्भः। सर्वभूतानामन्तश्चरसि साक्षिवत्।
त्वमेवाम्भो!विजानीषे न विदुर्यानि मानवाः॥
व्यवहाराभिशस्तोऽयं मानुषस्त्वयि मज्जति।
तदेनं सशयादस्मार्द्धर्मत्स्त्रातु मर्हसि इति॥

पितामहोऽपि। तोयात्वं प्राणिनां प्राण! सृष्टेराद्यन्तु निर्मितम्।

शुद्धेस्त्वंकारणं प्रोक्तं द्रव्याणां देहिनान्तथा।
अतस्त्वं दर्शयात्मान शुभाशुभपरीक्षणे इति॥

अनयोर्मन्त्रयोर्विकल्पतुल्यार्थत्वात्। वरुणाभिमन्त्रणमन्त्रः शङ्खलिखिताभ्यां दर्शितः। सदसच्च त्वमेव वरुण!उभयोः प्रतिष्ठितस्त्वयि सत्यान्विदन्देववरुण!त्वमेव तद्ब्रूहि वरेण्य। तदादि शस्त्वेति। नारदोऽपि।

सत्यानृतविभागस्य तोयाग्निस्पष्टकृतमौ।
अद्भ्यश्चाग्निरभूद्यस्मात् तस्मान्तोये विशेषतः॥
क्रियते धर्मतत्वज्ञैर्दूषितानान्विशोधनम्।
तस्मात्मत्येन भगवन्
!जलेश!त्रातु मर्हसि इति॥

अनयोरपि विकल्पः। ततः प्राङ्विवाकेऽभिमन्त्रिते जले शोध्य प्रवेशयेदित्याह कालिकापुराणे व्यासः।

बाह्येनं वरुण! त्वञ्च अस्मादेवाभिशापतः।
शुद्धश्चेदति कारुण्यादभिमन्त्र्य जले क्षिपेदिति॥

त्राह्येनमित्यादिनाऽतिकारुण्यादित्यन्तेन मन्त्रेणाभिमन्त्र्य-

जले पुरुषं प्रवेशयेदित्यर्थः। अयञ्च मन्त्रःपूर्वोक्तेन जलाभिमन्त्रेण वैकल्पिकः। शोध्योऽपि कृताभिमन्वणो जलं प्रविशेत्। तथा च याज्ञवल्क्यः।

सत्येन मामभिरक्ष त्वं वरुणे त्वभिशाप्यकम्।
नाभिदघ्नोदकस्थस्य गृहीत्वोरुजलं विशेत् इति॥

हे वरुण! मां त्वं सत्येनाभिरक्षेत्यनेन मन्त्रेण कमुदकं अभिशाप्य अभिमन्त्र्य नाभिदघ्नोदकस्थस्यनाभिप्रमाणोदकस्थितस्य पुरुषस्योरुगृहीत्वा शोध्यो जलं विशेत्। जले निमज्जेदित्यर्थः। ततः पूर्वोक्तेलक्ष्यस्थाने शरत्रयं प्रक्षिपेदित्याह। वृहस्पतिः। अमु प्रवेश्य पुरुषं प्रेषयेत्यायकत्रयमिति।

कालविशेषे देशविशेषे च शरप्रक्षेपनिषेधमाह स एव।
इषून्ननिःक्षिपेद्विद्वान्मारुते वाति वै भृशम्।
विषमे भूप्रदेशे च वृक्षस्थाणु समाकुले।
तृणगुल्मलतावल्ली पङ्कपाषाणसंयुत इति॥

तदनन्तरं कर्त्तव्यमाह याज्ञवल्क्यः।

समकालमिषु मुक्तमानीयान्यो जवी नरः।
गते तस्मिन्निमग्नाङ्गपश्येच्चेच्छुद्धिमाप्नुयात्॥

इति अयमर्थः। त्रिषु शरेषु भुक्तेषु एकौवेगवान् मध्यमशरपातस्थानं गत्वा तमादाय तत्रैव तिष्ठति अन्यस्तु, पुरुषो वेगवान् शरमोक्षस्थाने तोरणमूले तिष्ठति। एवं स्थितायां तृतीयस्यां करतालिकायां शोध्यःनाभिप्रमाणोदकस्थितस्य पुरुषस्योरु गृहीत्वा निमज्जति। तत्समकालमेव तोरणमूलस्थितोऽपि द्रुततरं मध्यमशरपातस्थानङ्गच्छति शरग्राही च

तस्मिन् प्राप्ते द्रुततरन्तोरणमूलं प्राप्यान्तर्जलगतं शोध्यं यदि न पश्यति तदा शुद्धो भवतीति तथा च कात्यायनः।

क्षिप्तेषु मज्जनं कार्य्यंगमनं समकालिकमिति।

एतदेव स्पष्टीकृतं पितामहेन।

शरान्तुश्चापि कर्त्तुश्चसमङ्गमनमज्जनम्।
गच्छेतोरणमूलन्तु लक्ष्यस्थानञ्जवी नरः॥
तस्मिन् गते द्वितीये तु वेगमादाय सायकम्।
गच्छेतोरणमूलन्तु यतः स पुरुषो गतः॥
आगतस्तु शरग्राही न पश्यति यदा जलम्।
अन्तर्जलगतं सम्यक् तदा शुद्धिं विनिर्दिशेत् इति॥

नारदोऽपि। शरप्रक्षेपणस्थानाद्युवा जव समन्वितः।

गच्छेत्परमया शक्त्या यत्रासौ मध्यमः शरः॥
मध्यमं शरमादाय पुरुषोऽन्यस्तथाविधः।
प्रत्यागच्छेत्तु वेगेन यतः स पुरुषो गतः॥

अग्रे पितामहवदेव क्वचित्पितामहवाक्यमपि शरप्रक्षेपणादि नारदवदेव वदन्ति।त्रिषु मुक्तेषु मध्यमः शरो ग्राह्यः। तथा च स्मृतिः।

तेषाञ्च प्रेषितानाञ्च शराणां शास्त्रचोदनात्।
मध्यमस्तुशरो ग्राह्यः पुरुषेण बलीयसेति॥

तत्रापि पतनस्थानादानेतव्यो न सर्पणस्थानात्।

तथा च पितामहः। शरस्य पतनं ग्राह्यं सर्पणन्तु विवर्जयेत्।

सर्पन् सर्पन् शरो यायाद्दुराद्दुरतरं यत इति॥
स्थानान्तरगमने चाशुद्धिः तथा च नारदपितामहौ।
अन्यथा न विशुद्धः स्यादेकाङ्गस्याप्यदर्शनात्।

स्थामाद्वान्यत्र गमनं यस्मिन् पूर्वं निवेशित इति॥

एकाङ्गस्यापि दर्शनादिति कर्णाद्यभिप्रायेण। तथा च कात्यायनः।

शिरोमात्रन्तु दृश्येत न कर्णेी नापि नासिका।
अप्सुप्रवेशने यस्य शुद्धन्तमपि निर्दिशेत् इति॥
इत्युदकविधिः। अथ विषविधिः। तत्र नारदः।
अतःपरं प्रवक्ष्यामि विषस्य विधिमुत्तमम्।
यस्मिन् काले यथा देयं यादृशं परिकीर्त्तितम्॥
यावन्मात्रसमुद्दिष्टं धर्मतत्वानुवेदिभिः।
तोलयित्वेप्सितंकाले देयमेतद्विमागमे॥
नापराह्णेनमध्याह्णेसन्ध्यायाञ्च विवर्जयेत्।
शार्ङ्गंहैमवतं शस्तं गन्धवर्ण रसान्वितम्॥
अकृत्रिममसंमूढममन्त्रोपतञ्च यत्।
वर्षे चतुर्यवा मात्राग्रीष्मे पञ्च यवाः स्मृताः॥
हेमन्ते सा सप्त यवा शरद्यल्पा ततोऽपि हीति।

हिमागमे हेमन्तशिशिरयोः शार्द्धंशृङ्गोद्भवम्। हैमवतं हिमालयोद्भवम्। हेमन्त इति हेमन्तशिशिरयोर्ग्रहणम्। हेमन्तशिशिरयोः समासेनेति श्रुते। वसन्तस्य सर्वसाधारणत्वात्। तत्रापि सप्त यवाः शरदि ततोऽप्यल्पा षट् यवेत्यर्थः।

वत्सनाभोऽपि ग्राह्य इत्याह पितामहः।

यवाःसप्त प्रदातव्याः शुचिहेतो र्न संशयः।
शृङ्गिणो वत्मनाभस्य हिमजस्य विषस्य चेति॥

यवाः सप्तेति शीतलकालविषयं।

रात्रौ तु पश्चिमे भागे विषन्देयं सुशीतलमिति।

पूर्वोदाहृतवचनात्। वर्ज्य विषमाह पितामहः।

चारितानि च जीर्णानि कृत्रिमाणि तथैव च।
भूमिजानि च सर्वाणि विषाणि परिवर्जयेत् इति॥

नारदोऽपि। भ्रष्टञ्च चारितञ्चैव धूपितं मिश्रितन्तथा।

कालकूटमलावुञ्च विषं यत्नेन वर्जयेत् इति।

वत्सनाभस्वरूपमाह कात्यायनः।

वत्मनाभनिभम्पीतं वर्णज्ञानेन निश्चितम्।
शुक्तिशृङ्गाकृत्तिभङ्गे विद्यान्तद्वत्सनाभकम्॥
मकक्षीरसमायुक्तं स्वच्छं कुर्वीत तत्क्षणात्।
वाह्यमेवं समाख्यातं लक्षणं धर्मसाधकैरिति॥

शर्द्धस्वरूपमाह स एव।

अजाशृङ्गनिभं श्यामं सुपीतं शृङ्गसम्भवम्।
भृङ्गे च शृङ्गवेराभं ख्यातन्तच्छार्ङ्गिणं विषम्॥
रक्तस्थमसितं कुर्य्यात्कठिनञ्चैव तत्क्षणांत्।
अनेन विधिना ज्ञेयं विषन्दिव्यं विशारदैरिति॥

शृङ्गवेराभम् आर्द्रकतुल्यम्। भृङ्गे आर्द्रकतुल्यं सुपीतमित्यन्वयः।शार्ङ्गिणांशृङ्गिणां सम्बन्धि। इन्यनपत्य इति प्रकृतिवद्भावान्नटिलोपः। यद्रक्तस्थन्तल्लक्षणाद्रक्तमसितं कुर्य्यादिति सम्बन्ध।विषञ्च घृतप्लुतन्देयमित्याह नारदः।

विषस्य पलषड्भागाद्भागो विंशतिमस्तु यः।
तमष्टभागहीनन्तु शोध्ये दद्यात् घृतप्लुतमिति॥

पलञ्चात्र चतुःसुवर्णिकन्तस्य षष्ठोभागो दश भाषा दश यवाश्च भवन्ति। त्रियवन्त्वेककृष्णलम्।पञ्चकृष्णलको माष इत्येकोमाषः। पञ्चदश यवा भवन्ति। पञ्चदशानां माषाणां - यवाः सा-

र्द्धशतं भवन्ति। पूर्वे च दश यवा इति षष्ठ्यधिकशतं यवाः पलस्य षष्ठो भागस्तस्माद्विंशतितमो भागोऽष्टौ यवाः तस्याष्टमभागहीनः एकयवहीनः तं विंशतितमम्भागं सप्तयवं घृतप्लुतन्दद्यादित्यर्थः। घृतञ्च विषात्रिंशद्गुणं ग्राह्यमित्यप्याह।
नारदः।

पूर्वाह्णेशीतले देशे विषन्देयन्तुदेहिनाम्।
घृतेन योजितं श्लक्ष्णं पिष्टन्त्रिंशद्गुणात्वितम्॥

कात्यायनोऽपि। पूर्वाह्णेशीतले देशे विषन्देयन्तु देहिनाम्।
विषेण योजितं श्लक्ष्णम्पिष्टं त्रिंशद्गुणान्वितमिति ॥

एतञ्च विषं सोपवासेन प्राङ्विवाकेन पूर्वोक्तदिव्यदेशे काले देवद्विजसन्निधौ शिवपूजां कृत्वा तत्पुरतो विषं स्थापयित्वा धर्मावाहनादिशोध्य- शिरसि प्रतिज्ञापत्रन्निधाय विषमभिमन्त्र्य दक्षिणाभिमुखाय उदङ्मुखेन प्राङ्मुखेन वा देयमित्याह नारदः।

दद्याद्विषं सोपवासो देवब्राह्मणसन्निधौ।
धूपोपहारमन्त्रैश्च पूजयित्वा महेश्वरम्॥
द्विजानां सन्निधावेव दक्षिणाभिमुखे स्थिते।
उदङ्मुखः प्राङ्मुखो वा दद्याद्विप्रः समाहित
इति॥

अभिमन्त्रणमन्त्रमाह विष्णुः।

विषत्वाद्विषमत्वाच्च क्रूरत्वात्सर्वदेहिनाम्।
त्वमेव विष! जानीषे न विदुर्यानि मानवाः॥
व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति।
तदेनं संशयादस्माद्धर्मतस्त्रातु मर्हसीति॥

नारदोऽपि।विष! त्वं ब्रह्मणः पुत्रः सत्यधर्मे व्यवस्थितः।

शोधयैनं नरं पापात्मत्येनास्यामृतम्भवेति॥

अनयोरेकार्थाद्विकल्पः। शोध्यस्याभिमन्त्रणमन्त्रमाहयाज्ञवल्क्यः।

विष ! त्वं ब्रह्मण, पुत्रः सत्यधर्मे व्यवस्थितः।
त्रायस्वास्मादभीशापात्सत्येन भव मेऽमृतम्॥

इति पितामहोऽपि।

दीयमाने करे कृत्वा विषन्तु परिशापयेत्।
विष ! त्वं ब्रह्मणा सृष्टं परीक्षार्थं दुरात्मनाम्॥
पापेषु दर्शयात्मानं शुद्धानाममृतम्भव।

अनयोरपि विकल्पः। अभिमन्त्रणानन्तरकर्त्तव्यमाह याज्ञवल्क्यः।

एवमुक्त्वाविष शार्ङ्गं भक्षयेद्धिमशैलजमिति।

शुद्धिप्रकारमाह बृहस्पतिः।

विधिदत्तं विषं येन जीर्णमन्त्रौषधै र्विनां।
स शुद्धः स्यादन्यथा तु दण्ड्योदाप्यश्च तद्धनमिति।

याज्ञवल्क्योऽपि।

यस्य वेगैर्विना जीवेच्छुद्धिं तस्य विनिर्दिशेत् इति।

वेगो नामधातोः धात्वन्तरप्राप्तिः। धातो र्धात्वन्तरप्राप्तिर्विषवेग इतिस्मृत इति वचनात्। धातवश्चत्वगादयः सप्त त्वगसृङ्मांसमेदोऽ- स्थिमज्जाशुक्राणि धातव इति वचनात्। विषवेगाश्च सप्त तेषां लक्षणानि विषतन्त्रे दर्शितानि।

वेगो रोमाञ्च माद्यो रचयति विषजः खेदवक्रोपशोषौ।
तस्योर्द्धस्तत्परौ द्वौवपुषि जनयतो वर्णभेदप्रवेषौ।
यो वेगःपञ्चमोऽसौ नयति विवशतां कण्टभङ्गञ्च हिक्वाम्।

षष्ठो निःश्वाप्तमोहो वितरति च स्मृतिंसप्तमो भक्षकस्येति।

शोध्यश्च कुहकादिभ्यो रक्षणीयः। अतएव पितामहः।

त्रिरात्रं पञ्चरात्रंवा पूरुषैः स्वैरधिष्ठितम्।
कुहकादि भयाद्राजा धारयेत् कुहकारिणम्॥
औषधीं मन्त्रयोगांश्च मणीनथ विषापहान्।
कर्त्तुः शरीरसंस्थाश्च गूढोत्पन्नान् परीक्षयेदिति॥

दिनान्तपर्यन्तं विषवेगराहित्ये शुद्धिरवधारणीयेत्याहविष्णुः। विषवेगक्लमातीतं सुखेन यदि जीर्यते।

विशुद्धमिति तं ज्ञात्वा दिवसान्ते विसर्जयेत्॥

पितामहोऽपि।

भक्षिते यदि सः सुस्थोमूर्च्छाछर्दिविवर्जितः।
निर्विकारो दिनस्यान्ते शुद्धं तमपि निर्दिशेत् इति॥

नारदोऽपि।छायानिवेशितारक्ष्योदिनशेषमभोजनम्।
विषवेगक्लमातीतः शुद्धोऽसौ मनुरब्रवीत् इति॥

मिताक्षरायान्तु।

पञ्चतालशतं कालं निर्विकारो यदा भवेत्।
तदा भवति स शुद्धस्ततः कुर्याच्चिकित्सितमिति॥

नारदवाक्यं पठित्वा विषे पीते यावत्करतालिकाशतपञ्चकंक्रियते तावत्कालन्निर्विकारश्चेच्छुद्धःअनन्तरन्तु चिकित्सनीयः। यानि तु दिनान्तावधिबोधकानि पितामहादिवचनानि तान्यल्पमात्रविषयाणीत्युक्तम्। इति विषविधिः।

अथ कोशविधिः। तत्र नारदः।

अतः परं प्रवक्ष्यामि कोशस्य विधिमुत्तमम्।

शास्त्रविद्भिर्यथा प्रोक्तं सर्वकालाविरोधिनम्॥
पूर्वाह्णेसोपवासस्य स्नातस्यार्द्रपटस्य च।
सशूकस्याऽव्यसनिनः कोशपानविधीयते।
इच्छतः श्रद्दधानस्य देवब्राह्णसन्त्रिधाविति।

सशूकस्य असत्येन दिव्यकरणेऽनिष्टशङ्कायुक्तस्य कोशपानम्।उग्रदेवतास्नानोदकपानं देवतास्नानोदकञ्च प्रसृन्तित्रयं ग्राह्यमित्याह विष्णुः। उग्रान् देवान् समभ्यर्च्य तत्स्नानोदकात्प्रसृतित्रयम्पिबेदिदम्मया न कृतमिति व्याहरन्देवताभिमुख इति।

याज्ञवल्क्योऽपि।

देवानुग्रान् समभ्यर्च्यतत्स्नानोदकमाहरेत्।
संश्राव्य पाययेत्तस्माज्जलात्तुप्रसृतित्रयमिति॥

उग्रान्देवान्दुर्गादित्यादीन्। तेषामन्यतमं देवं प्राड्विवाकः सोपवासो गन्धपुष्पादिभिः सम्पूज्यस्नापयित्वा तत्स्रानोदकं दिव्यदेशन्नयेदित्यर्थः। नीत्वा च तत्रनिधाय धर्मावाहनादि शोध्यशिरसि पत्त्रारोपणान्त सर्वदिव्यसाधारणविधिम्विधाय देवतायतनसमीपे मण्डलञ्च विधाय तत्र शोध्यंप्राङ्मुखं स्थापयित्वा तमसत्येनैतद्दिव्यकरणेऽनिष्टं संश्राव्य जलविधावुक्तेन तोयत्वं प्राणिनां प्राण इत्यादिना मन्त्रेणाभिमन्त्र्यपूर्वनिहितोदकात् प्रसृतित्रयं पाययेत्। शोध्यश्च जलविधावेवोक्तेन सत्यानृतविभागस्येत्यादिना मन्त्रेणाभिमन्त्र्यपिबेत्। तथा च नारदः।

तमाहूयाभिशस्तन्तु मण्डलाभ्यन्तरे स्थितम् !
आदित्याभिमुखं कृत्वा पाययेत् प्रसृतित्रयमिति॥

पितामहोऽपि।

प्राङ्मुखं कारिणं कृत्वा पाययेत् प्रसृतित्रयम्।
पूर्वोक्तेन विधानेन स्नानमात्रंचिरः शुचिमिति।

कारिण दिव्यकारिण शोध्यमिति यावत्। पूर्वोक्तेनसकलदिव्यसाधारणतया प्रागुक्तेनेत्यर्थः। नारदोऽपि।

अर्चयित्वा तु तं देवं प्रक्षाल्य सलिलेन तु।
एनञ्च श्रावयित्वा तु पाययेत्प्रसृतित्रयमिति॥

एनः पापम्। तच्च तत्प्रलापाभिधानमुखेन तेनैव दर्शितः।

स्वेच्छयायः पिवेत्कोशन्न क्वचिद्दूषितो नरः।
न संवदेन्नरो लोभात् क्षत्री भवति दुर्मतिः।
जानीतःकामकारेण कोशम्पीत्वा विसंवदेत्॥
दरिद्रो व्याधितो मूर्खः सप्तजन्मनि जायत इति॥

सशिरस्केऽभियोगे अभियोक्तुःश्राव्यमनिष्टमप्याह सएव।

बलात्कोशं हि यो दत्वा हितमिच्छेत चात्मनः।
स विनाशी भवेत्तस्य तच्चकार्यं न सिद्ध्यतीति।

एवं यस्य कस्य चिदुग्रदेवस्य स्नानोदकमाहृत्य कोशानुष्ठाने प्राप्ते नियमार्थमाह पितामहः।

भक्तो यो यस्य देवस्य पाययेत्तस्य तज्जलमिति।
समभावे तु देवानामादित्यस्य तु पाययेत्॥
दुर्गायाःः पाययेच्चौरान् ये च शस्त्रोपजीविनः।
भास्करस्य तु यत्तोयं ब्राह्मणं तन्नपाययेदिति॥

उग्रदेवतायुधानि स्रापयित्वा तदुदकं स्वल्पेऽपराधेपाययेत्। तथा च कात्यायनः।

स्वल्पेऽपराधे देवानां पाययित्वाऽऽयुधोदकम्।
पाय्योविकारे चाशुद्धो नियम्य शुचिरन्यथेति॥

पाय्यःपाययितव्यः। नियम्यो दण्ड्यः।आयुधग्रहणं ताम्रादिनिर्मितादित्यमण्डलस्याप्यपलक्षणम्। अतएव बृहस्पतिः। यद्भक्तः सोऽभियुक्त स्यात्तदेवायुधमण्डलम्।

प्रक्षाल्य पाययेत्तस्माज्जलात्तु प्रसृतित्रयमिति॥

अत्र विशेषमाह पितामहः।

दुर्गायाः पाययेच्छूलमादित्यस्य तु मण्डलम्।
अन्येषामपि देवानां स्नापयेदायुधानि त्विति॥

कृतकोशपायस्य किं तत्कालमेवशुद्धिर्नेत्याह कात्यायनः।

अथ दैवविसंवादा स्त्रिसप्ताहन्तु दापयेत्।
अभियुक्तं प्रयत्नेन तमर्थं दण्डमेवचेति॥

दैवविसम्वादः दैविकव्याध्युद्भवः। दैविकं व्याध्यादयेऽपिस एव दर्शयति।

ज्वरातिसारविस्फोटा शूलास्थिपरिपीड़नम्।
नेत्ररुग्भालरोगश्च तथोन्मादः प्रजायते।
शिरोरुभुजभङ्गश्चदैविका व्याधयो नृणामिति॥

शुद्धिकालावधि विष्णुरथाह।

यस्य पश्येद्विसप्ताहात् त्रिसप्ताहादथापि वा।
रोगोऽग्निर्ज्ञातिमरणं राजदण्डमथापि वा॥
तमशुद्धं विजानीयात् तथा शुद्धं विवर्जयेत्।
दिव्ये च शुद्धं पुरुषं सत्कुर्य्याद्धार्मिको नृप इति॥

पितामहोऽपि।त्रिरात्रात्सप्तरात्राद्वा द्विसप्ताहादथापि वा।

वैकृतं यस्य दृश्येत पापकृत्स तु मानवः॥
तस्यैकस्य न सर्वस्य जनस्य यदि तद्भवेत्।
रोगोऽग्निर्ज्ञातिमरणंसैव तस्य विभावनेति॥

तद्रोगादिकृतं कृतकोशपानस्यैकस्य यदि भवेत् तदैवस पापकदिति न किन्तु तदीय सर्वस्य जनस्य मध्येऽपि यदिकस्यचिद्भवेत् तदापीत्यर्थः। अतएव बृहस्पतिः।

सप्ताहाद्वाद्विसप्ताहाद्यस्यार्तिर्न प्रजायते।
पुत्रदारधनानाञ्च स शुद्धःस्यान्न संशय इति॥

याज्ञवल्क्योऽपि। अर्वाक्चतुर्दशादङ्कोयस्य नो राजदैविकम्।

व्यसनञ्जायते घोरं सशुद्धः स्यान्न संशय इति॥

एतेषाञ्च त्रिरात्रादैनां पक्षाणाम् अभियोगाल्पत्वमहत्त्वाभ्यां व्यवस्था ज्ञातव्या अवधेरूर्द्ध्वन्तु रोगाद्युद्भवेऽपि न पराजयः। तथा च नारदः।

ऊर्द्ध्वंयस्य द्विसप्ताहाद्वैकृतन्तुमहद्भवेत्।
नाभियोज्यस्तु विदुषा कृतकालव्यतिक्रमादिति॥

अत्र दिसप्ताह इत्यवधिकालमात्रोपलक्षणम्। कृतकालव्यतिक्रमहेतोरभिधानात्। तेनैकविंशतिरात्रस्यावधिकालत्वाश्रयणे चतुर्दशरात्रा- दूर्द्ध्वमपि वैकृतोत्पत्तौ पराजयः एवं त्रिरात्रसप्तरात्रात्प्रागपि वैकृतोत्पत्तौ न पराजय इति सिद्धम्। इति कोशविधिः। अथ तण्डुलविधिः। तत्र पितामहः।

तण्डुलानां प्रवक्ष्यामि विधिम्भक्षणचोदितम्।
चौर्य्ये तु तण्डुला देया नान्यत्रेति विनिश्चय इति॥

चौर्य्यग्रहणमर्थविवादप्रदर्शनार्थम्। तदर्द्धार्द्धस्यतण्डुला इतिधनविवादे कात्यायनेनोक्तत्वात्। पूर्वेद्युर्यत्कर्त्तव्यं तत्सएवाह।

तण्डुलान् कारयेच्छुक्लान् शालेर्नान्यस्य कस्यचित्।
मृन्मये भाजने कृत्वा आदित्यस्याग्रतः शुचिः॥

स्नानोदकेन सम्मित्रान् रात्रौ तत्रैव वासयेत्।
आवाहनादिपूर्वन्तु कृत्वा रात्रौविधानतइति॥

शुचिःप्राड्विवाकःसूर्य्यस्थाने धर्मावाहनादिहोमान्तंसर्वदिव्यसाधारणविधिं कृत्वा आदित्यस्नानोदकेन शुल्कान्शालितण्डुलानाप्लाव्य रात्रावेव कृत्वा तथैव प्रातःकालपर्य्यन्तंस्थापयेदित्यर्थः। स्नानोदकं देवताया इत्याह। कात्यायनः।

देवतास्नानपानीयं दिग्धतण्डुलभक्षणे इति।

प्रातः कर्त्तव्यमपि स एवाह।

प्रभाते कारिणे देया आदित्याभिमुखायत्विति।

कारिणे शोध्याय। देयाः तण्डुला इत्यनुषङ्गः।भक्षणञ्चसोपवासेन सूर्य्यालयमध्य एव कर्त्तव्यमित्याह बृहस्पतिः।

सोपवासः सूर्य्यग्रहे तण्डुलान् भक्षयेच्छुचिरिति।

शोध्यानुष्ठेयमनुवादव्याजेन दर्शयति पितामहः।

प्राङ्मुखोपोषित स्नातं शिरोरोपितपत्रकम्।
तण्डुलान्भक्षयित्वा तु पत्रे निष्ठीवयेत्तत इति।

भक्षयित्वा भक्षणं कारयित्वा। हेतुमतोणिजन्तस्य भक्षेरयं प्रयोगः। पत्रे विशेषं स एवाह।

भूर्जस्यैवतु नान्यस्य अभावे पिप्पलस्यत्विति।

शुद्ध्यशुद्ध्यवधारणोपायं स एवाह।

शोणित दृश्यते यस्य हनुस्तालु च शीर्यते।
गात्रञ्च कम्पते यस्य तमशुद्धं विनिर्दिशेत् इति॥

बृहस्पतिरपि।

शुद्धःस्याच्छुल्कनिष्ठीवी रक्तमिश्रे तु दोषभागिति।

कात्यायनोऽपि।

शुल्कनिष्ठीवनाच्छुद्धो नियम्यो शुचिरन्यथेति।

इति तण्डुलविधिः।

अथ तप्तमाषविधिः।

तत्र पितामहः। तप्तमाषस्य वक्ष्यामि विधिमुद्धरणेशुभम्।

कारयेदायसम्पात्रंताम्रंवा षोड़शाङ्गुलम्॥
चतुरङ्गुलखातन्तुमृण्मयं वापि मण्डलम्॥

कर्षषोड़शांशप्रमितं मण्डलं सूर्य्यमण्डलाकारं वर्त्तुलमितियावत्। एतादृशं पात्रं घृततैलाभ्यां पूरयेदित्याह स एव।

पूरयेद्घृततैलाभ्यां पलैर्व्विशतिभिस्तु तत्।
सुवर्णं माषकन्तस्मिन्सुतप्ते निःक्षिपेत्ततः॥
अङ्गुष्ठाङ्गुलिमूलेन तप्तमाषकमुद्धरेत् इति॥

सुवर्णं माषकङ्कर्षषोड़शांशप्रमाणम्। सुवर्णग्रहणं रूप्यमाषनिवृत्त्यर्थम्।तन्माषपरिमितं हिरण्यं ताम्म्रं वा पिण्डीकृत्य निःक्षिपेत्। अङ्गुष्ठाङ्गुलिमूलेन अङ्गुष्ठतर्जनीमध्यमाभिरित्यर्थः। इदञ्च तप्तमाषोद्धरणम्। प्राड्विवा केन घृततैलयोस्तापे समारब्धे धर्मावाहनादि- शोध्यशिरः पत्रारोपणान्तंसर्वसाधारणं कर्म विधाय त्वमग्ने! वेदाश्चत्वार इत्यादिनाअग्निदिव्यप्रकरणोक्तेन मन्त्रेणाभिकन्त्र्यकारयितव्यं शोध्यस्तुयाज्ञवल्क्योक्तेन त्वमग्ने ! सर्वभूतानामित्यादिमन्तरेणाभिमन्त्र्यतप्तमाषमुद्धरेत्। अतएव बृहस्पतिः।

समुद्धरेत्तैलघृतात्सुतप्तात्तप्तमाषकमिति।

कल्पान्तरमाह स एव।

सौवर्णेराजते ताम्रेआयसे मृण्मयेऽपि वा।
गव्यं घृतमु पादाय तदग्नौ तापयेच्छुचिः॥

सौवर्णीं राजतींताम्रीमायसींवा सुशोभनाम्।
सलिलेन सकृद्धौतां प्रक्षिपेत्तत्र मुद्रिकाम्॥
भ्रमद्वीचितरङ्गाढ्ये ह्यनखस्पर्शगोचरे।
परीक्षेदार्द्रपर्णेन चरुकारं स घोषकमिति॥

ततः प्राड्विवाको धर्मावाहनादिपत्रारोपणान्तं साधारणं कर्म कृत्वा घृतमभिमन्त्रयेत्। मन्त्रस्तुतेनैव दर्शितः।

ततश्चानेन मन्त्रेण सकृत्तभिमन्त्रयेत्।
परं पवित्रममृतं घृतं त्वं यज्ञकर्मसु।
दह पावक ! पाप त्वं हिमशीतोऽशुचौ भवेति।

ततः प्राद्ड्विवाकःशोध्येन त्वमग्ने ! सर्वभूतानामित्यादिमन्त्रेणाभिमन्त्रणं कारयित्वा मुद्रिकां ग्राहयेदित्याह स एव।

उपोषितन्ततः स्नातमार्द्रवाससमागतम्।
ग्राहयेन्मुद्रिकात्तान्तु घृतमध्यगतन्तथा॥
प्रदेशिनींच तस्याथ परीक्षेयुः परीक्षका इति॥

अत्रतर्जन्यैव मुद्रिकोद्धरणं कार्य्यंतस्याः परीक्षाभिधानात्पक्षद्वयेऽपि शुद्ध्यवधारणोपायं बृहस्पतिराह।

कराग्रं योऽनुधुनुयात् विस्फोटो वा न जायते।
शुद्धो भवति धर्मेण पितामहवचो यथेति॥

कालिकापुराणेऽपि। न धुनेयुः कराग्रन्तु यस्य रक्तं न जायते।

विस्फोटाद्यैस्तथा दोषैः स शुद्धो यस्य चोप्तितमिति॥

रक्त रक्तवर्णम्।यस्य कराग्रं विस्फोटाद्यैरुद्गीतमित्यन्वयः। पितामहोऽपि।

यस्य विस्फोटका नस्युः शुद्धोऽसाक्ष्यन्यथा शुचिरिति।

इति तप्तमाषविधिः। अथायसविधिः।

आयसंद्वादशपलङ्घटितम्फालमुच्यते।
अष्टाङ्गुलं भवेद्दीर्घं चतुरङ्गुलविस्तृतमिति।

एवं विधं फालम्प्रतिष्ठितेऽग्नौ प्रक्षिप्य प्राड्विवाको धर्मावाहनादिशोध्यशिरःपत्रारोपणान्तं साधारणं कर्म्मकृत्वा त्वमग्नेइत्यादिना प्रागुक्तमन्त्रेणाभिमन्त्र्य शोध्येन त्वमग्ने सर्वभूताना-मित्यादिना प्रागुक्तमन्त्रेणामन्त्रणं कारयित्वा लेहयेत्। तथा च स एव। अग्निवर्णं ततश्चौरञ्जिह्वया लेहयेत्प्रकृत्।

न दग्धश्चेच्छुद्धिमियादन्यथा तु सह्रीयत इति॥

इति फालविधिः। अथ धर्मजविधिः। तत्र पितामहः।

अधुना संप्रक्ष्यामि धर्माधर्मपरीक्षणम्।
हन्तॄणां वा चमानानां प्रायश्चित्तार्थिनां नृणामिति॥

साक्ष्यसाभियोगेषु याचमानानामित्यर्थाभियोगेषु प्रायश्चित्तार्थिनां नृणामिति पातकाभियोगेषु एतद्दिव्यं भवतीतिसूचितम्। धर्माधर्मप्रकारमाह स एव।

राजतङ्कारयेद्धर्ममधर्मं सीमकायसम्।
लिखेद्भूर्जे पटे वापि धर्माधर्मौसितासितौ।
अभ्युक्ष्यपञ्चगव्येन गन्धमाल्यैःसमर्चयेत्॥
सितपुष्पस्तु धर्मः स्यादधर्मो सितपुष्पधृक्।
एवं विधायोपलिप्य पिण्डयोस्तौ निधापयेत्।
गोमयेन मृदा वापि पिण्डौकार्य्यौसमन्ततः।
मृद्भाण्डके उपहृते स्थाप्यौ चानुपलक्षितौ॥
उपलिप्ते शुचौ देशे देवब्राह्मणसन्निधौ।
आवाहयेत्ततो देवान् लोकपालांश्च पूर्ववत्॥

धर्मावाहनपूर्वन्तु प्रतिज्ञापत्रकं लिखेत्।
यदि पाप विमुक्तोऽहं धर्मस्त्वायातु मे करे॥

इतिमन्त्रं विशोध्य ब्रूयात्। अहमिति मन्त्रलिङ्गात्।बृहस्पतिरपि।

पत्रद्वये लेखनीयौ धर्माधर्मौसितासितौ।
जीवदानादिकैर्मन्त्रै र्गायत्याद्यैश्चसामभिः॥
आमन्त्र्य पूजयेद्गन्धैः कुसुमैश्च सितासितैः।
अभ्युक्ष्यपञ्चगव्येन मृत्पिण्डान्तरितौ ततः॥
समौ कृत्वा नवे कुम्भे स्थाप्यौचानुपलक्षितौ।
ततः कुम्भात्पिण्डमेकं प्रगृह्णीतानुयाचितः॥
धर्मे गृहीते शुद्धः स्यात् सपूज्यञ्च परीक्षकै रिति।

जीवदानादिकैर्मन्त्रैर्माप्रगामयथोवयमित्यादि सूक्तपठितॠङ्मन्त्रैःअन्यैर्वा आगमोक्तैः प्राणप्रतिष्ठामन्त्रैरित्यर्थः। तेचशारदातिलके उक्तः।

पाशाङ्कुशपट शक्तिर्वाणीविन्दुविभूषितः।
पाद्याः सप्त सकारात्ताःव्योमसत्येन्दुसंयुतम्॥
तदन्ते हंसमन्त्रः स्यात्ततो मुख्यपदम्भवेत्।
प्राणा इति वदेत्पश्चादिहप्राणास्ततः परम्।
अमुख्यःजीव इह तु स्थितो मुख्यपदम्भवेत्।
सर्वेन्द्रियाण्यमुख्यं ते वाङ्मनश्चक्षुरन्ततः।
श्रोत्र घ्राणपदे प्राणा इहागत्य सुखं चिरम्।
तिष्ठन्त्वग्निवधूरन्ते प्राणमन्त्रोऽयमीरितः।
प्रत्यमुख्यपदात्पूर्वं पाशाद्यानिप्रयोजयेत्॥
प्रयोगेषु समाख्यातः प्राणमन्त्रोमनीषिभिरिति।

इति धर्मजविधिः।

अथ शपथ विधिः।

तत्रमनुः। महर्षिभिश्चदेवैश्चकार्य्यार्थं शपथाः कृताः।

वसिष्ठश्चापि शपथं शपथै र्जवने नृप इति॥

नारदोऽपि। शपथाअपि देवानामृषीणां च महात्मनाम्।

वसिष्ठः शपथं लेभे यातुधाने तु शब्दितः॥
महर्षयत्वथेन्द्रश्च पुष्करार्थेनिबोधिताः।
शेपुः शपथमव्यग्राः परस्परविशुद्धये इति॥

शपथे विशेषमाह।मनुः।

सत्येन शापयेद्विप्रंक्षत्रियै र्वाहनायुधैः।
गोवीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैरिति॥

व्याख्यातमेतत् पूर्वमेव।बृहस्पतिरपि।

सत्यवाहनशस्त्राणि गोवीजकनकानि च।
देवब्राह्मणपादांश्च पुत्रदारशिरांसि च॥

एते च शपथाःप्रोक्ताःमुनिभिः स्वल्पकारण इति।

पुत्रदारादीनां शिरःस्पर्शः कार्यः। तथा च मनुः।

पुत्रदारस्य चाप्येनं शिरांसि स्पर्शयेत्पृथक् इति।

स्पर्शनञ्च दक्षिणकरेण कुर्य्यात्। तथा च कात्यायनः।

यत्रोपदिश्यते कर्म कर्त्तुरङ्गं न तूच्यते।
दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः कर इति॥

शपथे कृते कियता कालेन शुद्धिरवधारणीयेत्याकाङ्क्षायांशुद्धिप्रकारमाह स एव।

आचतुर्दशकादह्नोयस्य नीराजदैविकम्।
व्यसनञ्जायते घोरं स ज्ञेयः शपथे शुचिरिति॥

व्यसनमापत् घोरं अतिपीड़ाकरम्।अल्पस्य शरीरधर्म-

त्वात्। तच्च प्रागुक्तरोगादि अत्राङ्कोदिवसस्य योऽयञ्चतुर्दशभागस्तस्मादर्वाग्व्यसनं न जायते स शपथे शुचिरित्यर्थः।कर्त्तव्यस्यशपथस्यस्वल्पविषयत्वेन बहुवधेरनुचितत्वात्।

यमिद्धोन दहत्यग्नि रापो नोन्मज्जयन्ति च।
न चार्त्तिमृच्छति क्षिप्रंस ज्ञेयः शपथे शुचि रिति॥

मनुना शीघ्रमेव शुचेरभिधानाच्चमिथ्याशपथकरणे दोषमाह यमः।

कृत्वा मृषातु शपथं कीटस्य वधसंयुतम्।
अनृतेन च युज्येत बधेन च तथा नरः॥
तस्मान्न शपथं कुर्यान्नरो मिथ्याबधेस्थितमिति।
कीटस्थेति यज्जन्तु वधेल्पदोषस्तस्योपलक्षणम्॥

तेनात्यन्तानुपयुक्तकीटादीनामपि बधसंयुक्तः शपथोऽनर्थहेतुःतद्ववपापे न मृषा शपथकर्त्ता युज्यत इत्यर्थः। यत्तुस्मृतितत्वे प्राणिमात्रोपलक्षणमित्युक्तम्। तदयुक्तं ब्राह्मणादीनां प्राणित्वेन संग्रहान्मिथ्याशपथकरणे तद्वधदोषजनितमसङ्गात्। मनुरपि।

न वृथाशपथं कुर्य्यात् स्वल्पेऽप्यर्थे नरोबुधः।
वृथा हि शपथं कुर्वन् प्रेत्य चेहच नश्यतीति॥

अत्रशपथानामपि दिव्यत्वादुपवासादिसाधारणादिव्यविधिरत्रातिदेष्टव्यः। यत्तु स्मृतितत्वव्यवहारचिन्तामणिकाराभ्यां शपथानान्दिव्यभेदे- नोपन्यासाद्घटादिमध्ये परिगणनाभावाच्च न दिव्येतिकर्त्तव्यतयाअतिदेश इत्युक्तम्। तदप्यसत्। पूर्वनारदादिवचनैः शपथानामपि दिव्यत्वस्योक्तत्वात्।घटादिपरिगणनवाक्यस्योपलक्षणत्वेन व्याख्यातत्वाच्च। किञ्च-

तदुक्तदिव्यलक्षणस्यापि सत्त्वाच्च त्वयापि तेषान्दिव्यत्वमङ्गीकर्त्तव्यम् अन्यथा तल्लक्षणमव्याप्तं स्यात् तस्मात् शपथानामपिदिव्यत्वादस्त्येव दिव्यधर्मातिदेश इत्यलम्। इति शपथविधिःसमाप्तः।

इति श्रीमत्सकलसामन्तचक्रचूड़ामणिमञ्जरीनीराजतचरणकमलश्रीमन्महाराजाधिराजप्रताप-रुद्रतनूजश्रीमन्महाराजमधुकरसाहसूनुश्रीम न्महाराजाधिराजचतुरुदधिवलयवसुन्धराहृदयपुण्डरीकविकासदिनकरश्रीवीरसिंहदेवोद्योजितश्रीहंसपण्डितात्मजश्रीपरशुराममित्रसूनुसकलविद्यापारावारपारीणधुरीणजगद्दारिद्र्रमहागजपारीन्द्र विद्वज्जनजीवानुश्रीमन्मित्रमिश्रकृते वीरमित्रोदयाभिधनिबन्धे व्यवहारप्रकाशेप्रमाणनिरू पणाख्यं द्वितीयं प्रकरणम्॥

<MISSING_FIG href="../books_images/U-IMG-17043070033_जानुयारी-removebg-preview.png"/>

एवं लौकिकालौकिकेषु प्रमाणेषु निरूपितेषु
प्रमेयाणि व्यवहारपदानि निरूप्यन्ते।

———————

तृतीये प्रकरणे तेषाञ्चोद्देशो व्यवहारभेदप्रदर्शनप्रस्तावे

ऋणादानं ह्युपनिधिरित्यादि नारदवचनेन दर्शितः। मनुरपि।

तेषामाद्यमृणादानं निक्षेपो स्वामिविक्रयः।
सम्भूय च समुत्थानं दत्तस्यानपकर्म च॥
वेतनस्यैव चादानं सविदश्च व्यतिक्रमः।
क्रयविक्रयानुशयो विवादः खामिपालयोः॥

सीमाविवादधर्मश्च पारुष्ये दण्डवाचिके।
स्तेयञ्च साहसञ्चैव स्त्रीसंग्रहणमेव च॥
स्त्रीपुन्धर्मो विभागश्च द्यूतमाह्वय एव च।
पदान्यष्टादशैतानि व्यवहारस्थिताविहेति॥

यद्यपि नारदवचने द्यूतम्प्रकीर्णकञ्चेवेत्यष्टादशपदान्युक्तानि।तथापि प्रकीर्णकपदेनोपयुक्तशेषाभिधानाद्राज्ञैवस्वाज्ञातिक्रमादौ परेण कृते प्रतिवादित्वमास्थापयन्निर्णेतव्यम्। यच्चऋणादिषु पूर्वोक्तव्यवहारपदेषु नोक्तन्तत्सर्वं प्रकीर्णकमिति नारदेनैव तल्लक्षणकरणाद्व्यवहर्त्तृसम्बन्ध- नियमाभावान्मनुना प्रकीर्णकस्य व्यवहारपदत्वानुक्तिरिति ध्येयम्। द्यूताह्वययोस्तु अप्राणिपाशादिकृतत्वप्राणि मल्लक्षणमेषादिकृतत्वमात्र- भेदादेकपदत्वविवक्षयाऽष्टादशसङ्ख्योपपादनीया।अन्यथोनविंशतिसंख्यत्वापत्तेः। यथा सपणक्रीड़त्वेन तयोरभेदविवक्षयैक्यमुक्तन्तथा पारुष्यरूपेण वाग्दण्डपारुष्ययौरप्येकविवक्षासम्भवति तथापि तत्र विवक्षितं स्वतन्त्रेच्छस्य पर्य्यनुपयोगानर्हत्वात् मनुना द्विवचनप्रयोगान्नार- दादिनिबन्धनेषु पृथङ्निर्देशाच्चननुपारुष्यद्वयस्य वक्ष्यमाणसाहसविशेषत्वात्पदान्तरत्वोक्तिरयुक्ता सत्यम्। बलावष्टम्भेन क्रियमाणस्य तस्य साहसत्वं छलक्षतस्य तु साहसलक्षणाभावात्मदान्तरत्वम्। तथाचाह नारदः।तस्यैव भेदः स्तेयं स्याद्विशेष्यस्तत्र तूच्यते।

आधिःसाहसमाक्रम्य स्तेयमाधिच्छलेन तु॥

तस्येति पूर्वोक्तं साहसम्परामृष्टम् आधिरर्थाहरणद्वाराक्रियमाणःपरस्य मानसः क्लेशः। पुंस्याधिर्मानसी व्यथेतिकोशात्। स चाक्रम्यबलावष्टम्भेन विधीयमानः साहसमित्य-

च्यते। छलेन तु विधीयमान आधिः। स्तेयमित्युच्यत इत्यर्थः।नन्वनेन स्तेयस्य साहसाद्भेदे पृथगुद्दिष्टस्य पारुष्यद्वयस्य सुतरान्ततः स उन्नेतुं शक्य इत्यभिप्रायो नारदस्य तदुक्तं संग्रहकारेणापि।

मनुष्यमारणादीनि कृतानि प्रसभं यदि।
साहमानीति कथ्यन्ते यथाख्यान्यन्यथा पुनः॥

अन्यथा पुनर्यद्यप्रसभं कृतानि तदा यथाख्यानि स्वस्वाख्यानिस्तेयस्वीसग्रहणवाक्पारुष्यदण्डपारुष्यमज्ञकानि भवन्तीत्यर्थः।अतएव मनुना स्तेयस्त्रीसंग्रहणे अपि व्यवहारपदत्वेन साहसात् पृथमुद्दिष्टे।नारदेन तु तयोः प्रायेण लोके च्छलेनैव क्रियमाणत्वात्पदान्तरत्वं स्फुटमित्यनुक्त्वा साहसत्वमस्फुटयति तदेवोक्तम्।वाक्पारुष्यदण्डपारुष्ययोस्तु विपरीतम्। प्रायेण ते प्रसभमेवक्रियमाणे लोके दृश्येते। छलेन तु तयोः करणं साहसभेदापादकमस्फुटमिति तद्व्यक्तीकरणापत्तेरेव साहसात्पथगुपदिष्टेत्। अतएव तेनाप्राणिप्राणिकृतत्व विशेषापुरस्कारेणसमाह्वयोऽपि द्यूतत्वेनैवोद्दिष्ट इति ध्येयम्। यद्यप्युपनिधिनिक्षेपयोरपि तत्प्रकरणवक्ष्यमाणरीत्यावान्तरभेदोऽस्ति तथापि तमविवक्षितत्वान्मनुनारदाभ्यां पर्यायत्वेनैव द्वयं विवक्षितम्। एतयैव दिशा स्मृत्यन्तरयोरप्यविरोध उन्नेयः। एवंव्यवहारपदानां प्रातिस्विकानि लक्षणानि तदवान्तरभेदांश्चतत्तत्स्थाने व्यक्तीकरिष्यामः। बृहस्पतिः।

पदान्यष्टादशैतानि धर्मशास्त्रादितानि तु।
मूलं सर्वविवादानां ये विदुस्ते परीक्षका इति॥

यत्तु नारदेन। एषामेव प्रभेदोऽन्यः शतमष्टोत्तरं स्मृतम्।

क्रियाभेदान्मनुष्याणां शतशास्त्रोनिगद्यत इत्युक्तम्।

यच्च कात्यायनेन। अष्टादशक्रियाभेदाद्भिन्नान्यष्टसहस्रश इति।तत्रक्रियाभेदात्साध्यभेदादित्यर्थः। तद्द्वयमप्यत्रान्तरभेदभूयस्त्वाभिप्रायेण प्रकीर्णप्रकारप्राचुर्याभिप्रायेण चेत्यष्टादशत्वविघातः। अतएवाष्टोत्तरशतसङ्ख्यत्वाष्टोत्तरसहस्रसङ्ख्यत्वयोरपि नारदकात्यायनोक्तयोः प्रकारभयस्त्वमात्र परत्वादविरोध इति व्यवहारपदानामुद्देशः। एषां सामान्यलक्षणन्तु स्मृत्याचारव्यपेतेनेत्यादि योगीश्वरवचनेन व्यवहारसामान्यलक्षणप्रस्तावप्रदर्शितेनप्रकटितम्। व्यवहारस्य चतुष्पाद्यवहारस्य पदं विषय इतियोगव्युपत्त्यापि तदेव पर्य्यवस्यति। यत्तु बृहस्पतिना।

पदाङ्गसहितस्त्वेष व्यवहारः प्रकीर्त्तितः।
विवादकारणान्यस्य पदानि श्रृणुताऽधुनेति॥

विवादकारणत्वं लक्षणमुत्तरमपि विषयस्यापि कारणत्वादविरुद्धमिति अथ क्रमशः ऋणादानादीनि अष्टादशव्यवहारपदानि निरूपयिष्यता प्रथमन्तावत् ऋणाख्यमाद्यं पदन्निरूप्यते। बृहस्पतिः।

पदाङ्गसहितस्त्वेष व्यवहारः प्रकीर्त्तितः।
विवादकारणान्याह पदानि शृणुतानि तु॥
ऋणादानोद्ग्रहादीनि द्यूताह्वानान्तिकानि च।
क्रमशः सम्प्रवक्ष्यामि क्रियाभेदांश्च तत्त्वत इति॥

तस्य सप्तविधत्वं दर्शयन् स्वरूपमाह।नारदः।

ऋणन्देयमदेयञ्च येन यत्र यथा च यत्।
दानग्रहणधर्मांश्च ऋणादानमिति स्मृतमिति॥

तत्राधमर्णेपञ्चविधम्। ईदृशमृणं देयम् ईदृशमदेयम्।

अनेनाधिकारिणा देयम्। अस्मिन् समये देयम्। अनेन प्रकारेण देयमिति। उत्तमर्णे द्विविधन्दानविधिरादानविधिश्चेति।एवं समुदितं सप्तप्रकारं यस्मिन्विवादविषये तदृणादानाख्य व्यवहारपदमित्यर्थः। तत्त्रेतरेषां दानविधिपूर्वकत्वादादौ दानविधिरुच्यते। तत्र बृहस्पतिः।

परिपूर्णं गृहीत्वाधिं बन्धं वा साधुलग्नकम्।
लेख्यारूढं साक्षिमद्वाऋणन्दद्याद्धनी सदेति॥

परिपूर्णंसवृद्धिकमूलद्रव्यपर्याप्तम्। आधिर्बन्धकम्।तद्विषये विशेषोऽग्रे वक्ष्यते। नन्वाधिबन्धयोरेकार्थत्वेन लोकप्रसिद्धत्वात्कथं बन्धं वेत्युक्तिरित्याशङ्क्याह तत्र विवक्षितसम्बन्धशब्दस्यार्थमाह।नारदः।

निक्षेपो मित्रहस्तस्यो बन्धो विश्वासकः स्मृत इति॥

उत्तमर्णस्य विश्वासहेतुस्तन्मिन्नहस्तस्यो निक्षेप एवबन्धशब्देनोच्यत इत्यर्थः। तत्रापि विशेषोऽग्रे वक्ष्यते। लग्नकःप्रतिभूः। तथा चायमर्थः। उत्तमर्णः परिपूर्णमाधिं बन्धंवा समीचीनलग्नकं वाधमर्णहस्तलिखितं साक्षियुक्तं वा पत्रंगृहीत्वा ऋणन्दद्यादिति। ऋणशब्दसमानार्थकस्य कुसीदशब्दार्थप्रदर्शनव्याजेन तत्प्रयोजनमाह नारदः।

स्थानलाभनिमित्तं यद्दानग्रहणमिष्यते।
तत्कुसीदमिति ज्ञेयन्तेन वृत्तिः कुसीदिनामिति॥

स्थानं मूलधनस्यावस्थितिः लाभो वृद्धिः। तन्निमित्तन्तत्प्रयोजनमित्यर्थः। कुसीदशब्दस्यावयवार्थन्दर्शयति। बृहस्पतिः। कुत्सितात्सीदतश्चैव निर्विशङ्कैःप्रगृह्यते।

चतुर्गुणं वाष्टगुणं कुसीदाख्यमृणात्ततः।

कुत्सितात्सीदत इत्येते अधमर्णविशेषणे।

वृद्धिप्रकारान् स एवाह।

वृद्धिश्चतुर्विधा प्रोक्ता पञ्चधान्यैः प्रकीर्त्तिताः।
षड्विधान्यैः समाख्याता तत्त्वतस्तां निबोधत इति॥

षड्विधाग्रेइति क्वचित्प्राहःतत्र मे मते। तान् प्रकारान्स एवाह।

कायिका कालिका चैव चक्रवृद्धिरतोऽपरा।
कारिता सशिखा वृद्धिर्भोगलाभस्तथैवचेति॥

एतेषां स्वरूपमाह।

कायिका कर्मसंयुक्ता मासग्राह्या तु कालिका।
वृद्धेवृद्धिश्चक्रवृद्धिः कारिता ऋणिना कृता॥
प्रत्यहं गृह्यते या तु शिखावृद्धिस्तु सा स्मृता।
गृहात्तोषःफलं क्षेत्राद्गोलाभःप्रकीर्त्तित इति॥

कायिका कर्मसंयुक्ता यत्र बन्धकीकृततस्यगवाश्वादेर्दोहनवाहनादिकं कर्मवृद्धित्वेन परिकल्पितं तत्र सा कायिकेत्यर्थः।तथा च व्यासः। दोह्यवाह्यकर्मयुता कायिका समुदाहृतेति। मदनरत्ने तु भोग्याधितया स्थापितस्य यो दोहनवाहनादिकर्मरूपैर्भौगस्तत्सहिता या वृद्धिः सा कायिकेत्युक्तम्। मासग्राह्या तु कालिका।प्रतिमासं लभ्या या वृद्धिः सा कालिकेत्यर्थः। प्रतिमासं स्रवन्ती या वृद्धिः सा कालिका मतेति नारदवचनात्। वृद्धेवृद्धिश्चक्रवृद्धिः। वृद्धेरपि प्रतिमासं मूल्यभावेनपुनर्वृद्धिरित्यर्थः। वृद्धेरपि पुनर्वृद्धिश्चक्रवृद्धिरुदाहृतेतिनारदवचनात्। कारिता ऋणिना कृता। ऋणिनाऽधमर्णेन स्वेच्छया कृता वृद्धिःकारितेत्यर्थः। वृद्धिः सा कारिता नामखणिकेन स्वयं कृतेति नारदवचनात्। अधमर्णकारिता चैव

वृद्धिर्देयानोत्तमर्णकारिता। तथा च बृहस्पतिः।

ऋणिकेण तु या वृद्धिरधिका सम्प्रकल्पिता।
आपत्कालकृता नित्यं दातव्या सा तु कारिता।
अन्यथा कारिता वृद्धिर्न दातव्या कथञ्चनेति॥

उत्तमर्णप्रलोभनार्थम् आपत्काले शास्त्रोक्तादधिका स्वयंकल्पिता कारिता या सा वृद्धिर्दातव्या न पुनरेवंविधा धनिकेन कारिता दातव्येत्यर्थः।

प्रत्यहं गृह्यते या तु शिखावृद्धिस्तु सा स्मृता।

प्रतिदिनलभ्यात्मशिखासादृश्याच्छिखावृद्धिरिति व्यपदिश्यत इत्यर्थः। किं पुनःशिखासादृश्यं वृद्धेरित्याकाङ्क्षायां बृहस्पतिरेवाह। शिखेववर्द्धते नित्यं शिरञ्छेदान्त्रिवर्त्तते।

मूले दत्ते तथैवैषा शिखावृद्धिस्तु सा स्मृतेति॥

प्रत्यहं गृह्यत इति अधमर्णप्रतिश्रुतदिनसख्यया वृद्धिग्रहणकालोपलक्षणम्। तथा च कात्यायनः।

प्रतिकालन्ददात्येव शिखावृद्धिस्तु सा स्मृतेति।
गृहात्तोषःफलं क्षेत्राद्भोगलाभः प्रकीर्त्तितः॥

बन्धकीकृताद्गृहान्त्रिवासादिजनितः सन्तोषः। क्षेत्रात्शस्यादिफलञ्च भोगलाभाख्यो वृद्धिप्रकार इत्यर्थः। गृहक्षेत्रग्रहणं स्थावरात्मकभोग्याधेरुपलक्षणार्थम्॥ अतएव कात्यायनः।

आधिभोगत्वशेषो यो वृद्धिस्तुपरिकल्पितः।
प्रयोगे यत्र चैवं स्यादाधिभोगः स उच्यत इति॥

यस्मिन्नृणादानप्रयोगे स्थावराधित्वेन परिकल्पिता यावृद्धिस्तत्र सा वृद्धिराधिभोग इत्युच्यत इत्यस्यार्थः।

अपरार्कादौ गृहात्स्तोमः शदःक्षेत्रादिति पाठः।

स्तोमो भाण्डक इति कल्पतरौ। शदः शस्यादिफलम्। वृद्धेःपरिमाणन्दर्शयति मनुः।

वसिष्ठविहितां वृद्धिं सृजेद्वित्तविवर्द्धिनीम्।
अशीतिभागं गृह्णीयात् मासाद्वार्धुषिकःशते इति॥

निष्कशते प्रयुक्ते मासस्य सपादनिष्कपरिमितां वृद्धिंवार्धुषिको वृद्ध्यर्थंगृह्णीयादित्यर्थः एतत्सम्बन्धकविषयम्। अतएव याज्ञवल्क्यः।

अशीतिभागो वृद्धिःस्यान्मासि मासि सबन्धके।
वर्णक्रमाच्छतं द्वित्रिचतुः पञ्चकमन्यथेति॥

सबन्धके प्रयुक्तस्य द्रव्यस्याशीतितमो भागो वृद्धिःपणशतेप्रयुक्ते सपादःप्रतिमासम्वर्द्धत इत्यर्थः। अन्यथा बन्धकराहित्ये वर्णक्रमात् ब्राह्मणादिवर्णक्रमेण द्वित्रिचतुःपञ्चकं शतन्धर्म्यं भवति। द्वौ वा त्रयो वा चत्वारो वा इति द्वित्रिचतुःपञ्चाअस्मिन् शते वृद्धिद्दीयते इति द्वित्रिचतुःपञ्चकं शतम्। तदस्मिन् वृद्ध्यायतलाभशुल्कोपदा दीयत इति कन्। तथा चायमर्थः। बन्धकरहिते पणशतं प्रतिमासं ब्राह्मणात्पणद्वयं क्षत्रियात् पणत्रयं वैश्यात्पणचतुष्टयं शूद्रात्पणपञ्चकं ग्राह्यम्।यत्तुमनुनोक्तम्। द्विकं शतं वा गृह्णीयात्सतान्धर्ममनुस्मरन्नितिति तद्व्यवस्थि तविकल्पविषयम्। अतएव व्यासः।

सम्बन्धे भाग आशीतः षष्ठो भागः सलग्नके।
निराधाने द्विकशतं मासलाभ उदाहृत इति॥

सम्बन्धे आधिसहिते। आशीतःअशीततमः। षष्ठः षष्ठितमः।सलग्नक प्रतिभूः। निराधाने बन्धकरहिते। आधानग्रहणं प्रतिभुवोरप्युपलक्षणम्।कल्पतरौ साष्टभाग इति

पठित्वा मलग्नके॥अशीततमो भागः। स्वकीयाष्टमभागसहितो मामवृद्धिरित्युक्तम्।

द्विकन्त्रिकञ्चतुष्कञ्च पञ्चकञ्च शतं समम्।
मासस्य वृद्धिंगृह्णीयाद्वर्णानामनुपूर्वश इति॥

द्विकं द्वौवृद्धिर्दीयते यस्मिन्मूलधने तत्तथा। एवं त्रिकाद्यपि सममात्रं प्राप्य नाधिकम्।

विष्णुरपि।** अथोत्तमर्णोऽधमर्णकाद्यथादत्तमर्थं गृह्णीयात्।**

द्विकन्त्रिकञ्चतुष्कं पञ्चकं शतं वर्णानुक्रमेण प्रतिमासमिति।अधमर्णविशेषेऽप्याह याज्ञवल्क्यः।

कान्तारगास्तु दशकं सामुद्रा विंशकं शतमिति॥
ॠणं गृहीत्वा कान्तारं महावनन्तद्गच्छतीति॥

कान्तारगाःदुर्गस्थलगन्तारोवस्त्रादिक्रयकारिणः। पणशतस्य दशकं प्रतिमासन्दशपणान् दद्युरित्युत्तरवाक्यस्थस्यानुषङ्गः। समुद्रन्तरन्तीति सामुद्राः समुद्रगन्तारःप्रतिमासंविंशकं शतन्दद्युरित्यर्थः। कारितायान्तु न नियम इत्याह।स एव। दद्युर्वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिष्विति।

सर्वे ब्राह्मणादयोऽधमर्णाःसबन्धकेऽबन्धके वा सर्वासुजातिषूत्तमर्णभूतासुस्वयमङ्गीकृतां वृद्धिन्दद्युरित्यर्थः।

द्रव्यविशेषे वृद्धिविशेषमाह स एव।

सन्ततिस्तु पशुस्त्रीणां रसस्याष्टगुणा परा।
वस्त्रधान्यहिरण्यानाञ्चतुःस्त्री द्विगुणा परे ति॥

पशुस्त्रीणां महिषीस्त्रीणां प्रभृतीनां वृद्ध्यर्थंप्रयुक्त्यनात्तदीया सन्ततिरेव वृद्धिः।रसस्य घृतादेरष्टगुणा। वस्त्राणाञ्चतुर्गुणा धान्यानान्त्रिगुणा। हिरण्यानां द्विगुणा परेति

प्रत्येवकं सम्बध्यते। परा परमा। अतःपरमधिका वृद्धिर्नास्तीत्यर्थः। न च गवादीनां ऋग्णत्वेन दानन्नसम्भवतीति वाच्यम्।तत्पोषणाद्यशक्तस्य तत्पुष्टिसन्तत्याद्यार्थिनो दानसम्भवात्। ग्रहणन्तु क्षीरवाहनसेवार्थिनः। बृहस्पतिरपि।

हिरण्ये द्विगुणा वृद्धि स्त्रिगुणा वस्त्रकुप्यके।
धान्ये चतुर्गुणा प्रोक्ता शदवाह्यलवेषु च॥
उक्ता पञ्चगुणा शाके वीजेक्षौषड्गुणा स्मृता।
लवणस्नेहमद्येषु वृद्धिष्टगुणा मता॥
गुड़े मधुनि चैवोक्ता प्रयुक्ते चिरकालिके इति।

कुप्यं त्रपुसीसकादिकम्। शदःक्षेत्रफलम्। तच्च गोवलीवर्दन्यायाद्धान्यव्यतिरिक्तम्पुष्पमूलफलादिकम्।वाह्योऽश्वादिः। लवो मेषोर्णाचमरीकेशादिः। अत्रचिरकालशब्देन प्रतिश्रुतायाःअशीतिभागायाःवृद्धेर्यस्मिन् समये द्वैगुण्यादिप्रापकत्वम्भवति। ततोऽधिकः कालो गृह्यते।यत्तु धान्ये शदेलवेबाह्येनेत्यादि मनुनोक्तं तत्प्रत्यर्पणसमयेसमृद्धाधमर्णविषयम्। षाड्गुण्यनिषेधपरमिति मदनरत्ने !यत्तु वसिष्ठव वनम्। द्विगुणं हिरण्यन्त्रिगुणं धान्यन्धान्ये नैवरसा व्याख्याताः। पुष्पमूलफलानि च तुलाधृतमष्टगुणमितितत्त्रिगुणमेव धान्यादिकं दातव्यमिति यत्रदेशेस्थिति स्तद्विषयम्। दरिद्राधमर्णविषयं वा एव मन्यत्रापिन्यूनाधिकपरमवृद्धिप्रतिपादकानि वचनानि देशविशेषविषयतया दरिद्रादिविषयतया वा व्यवस्थापनीयानि।

व्यासोऽपि। वदन्त्यष्टगुणान् काले मद्यस्रेहरसासवानिति स्नेह स्तैलादिः। रसः क्षीरादिः। कात्यायनोऽपि।

तैलानाञ्चैव सर्वेषां मद्याना मथ सर्पिषाम्।
वृद्धिरष्टगुणा ज्ञेया गुडस्य लवणस्य चेति॥

विष्णुरपि। हिरण्यस्य द्विगुणा वृद्धिस्त्रिगुणावस्त्रस्यधान्यस्य चतुर्गुणा रसस्याष्टगुणा सन्तति स्त्रीपशूनामिति।

व्यासोऽपि। शाकपाषाणबीजेक्षौषड्गुणा परिकीर्त्तितेति।
वशिष्ठोऽपि। वज्जशुक्तिप्रवालानां हेम्नश्चरजतस्य च॥

द्विगुणा त्विष्यते वृद्धिः कृतकालानुसारिणीति।

शुक्तिशब्देनात्रमुक्ताफलं लक्ष्यते। वज्रसाहचर्यात्। अतएव कात्यायनः।

मणिमुक्ताप्रबालानां सुवर्ण रजतस्य च।
तिष्ठति द्विगुणा वृद्धिः फलकैटाविकस्य चेति॥

कैटङ्कीटोद्भवम्। पट्टसूत्रादि। आविकंकम्बलादिकम्।

वसिष्ठोऽपि।ताम्रायःकांस्यरीतीनां त्रपुणः सीसकस्य च।
त्रिगुणा तिष्ठतो वृद्धिःकालाचिरकृतस्यत्विति॥

रीतिरारकूटम्। देशभेदेन परां वृद्धिं दर्शयति नारदः।
ॠणानां सार्वभौमोऽयं विधिवृद्धिकरः स्मृतः।
देशाचारस्थितिस्त्वन्या यत्रर्णमवतिष्ठते॥
द्विगुणन्त्रिगुणञ्चैव तथान्यस्मिंश्चतुर्गुणम्।
तथाष्टगुणमन्यस्मिन् तत्तुदेशेऽवतिष्ठत इति॥

यत्र वृद्धिविशेषो न श्रूयते तत्रद्विगुणैव ग्राह्येत्याहविष्णुः। अनुक्तानां द्विगुणेति अयञ्च द्वैगुण्यादिरूपो वृद्ध्युपरमः सकृत्प्रयोगे सकृदाहरणे वेदितव्यः तथा च मनुः।

कुसीदवृद्धिर्द्वैगुण्यन्नात्येत्येति सकृदाहिते ति।

उपचयार्थं प्रयुक्तं द्रव्यं कुसीदं तस्य वृद्धिःकुसीदवृद्धिर्द्विगुण्यन्नात्येति नातिक्रामति। यदि सकृदाहितासकृत् प्रयुक्ता

पुरुषान्तरसंक्रमणादिना प्रयोगान्तरकरणेन तस्मिन्नेव वापुरुषे रेकसेकाभ्यां प्रयोगान्तरकरणे द्वैगुण्यमतिक्रम्य पूर्ववद्वर्द्धतएवेत्यर्थः। द्वैगुण्यग्रहण न्त्रैगुण्यादीनामुपलक्षणम्।सकृदाहृतेति पाठे यदि प्रतिमासं प्रतिवत्सरं वा न गृह्यतेकिन्तु सङ्गृह्यते तदा द्वैगुण्यन्नातिक्रामतीत्यर्थः। गौतमोऽपि।चिरस्थाने द्वैगुण्यं प्रयोगस्येति। प्रयोगस्येत्येकवचननिर्देशात्प्रयोगान्तरकरणे द्वैगुण्यातिक्रमःचिरस्थान इति निर्देशात्शनैः शनैर्वृद्धिग्रहणे द्वैगुण्यातिक्रमो भवतीति सूचितम्।उक्तस्य वृद्ध्युपरमस्य क्वचिद्द्रव्यविशेषेऽपवादमाह बृहस्पतिः।

तृणकाष्ठेऽष्टकासूत्व किण्वञ्चर्मास्थिवर्मणाम्।
ह्रेति पुष्पफलानाञ्च वृद्धिस्तु न निवर्त्तत इति॥

किण्वं सुराद्रव्योपादानकारणभूतो मलविशेषःचर्म शरादिनिवारक फलकः सुराद्रव्योपादानकारणञ्चर्महरकमित्यपरार्केवर्मकवचम्।हेति सुरायुधम्। पुष्पफलयोर्वृद्धिरनिवृत्तिः।प्रपिदानवेलायामत्यन्तसमर्थाधमर्णविषया देशविशेष विषया वा वेदितव्या। अन्यथा त्रिगुणवृद्धिप्रतिपादकाव्यासवचनविरोधः स्यात्। विष्णुरपि। किण्वकार्पास सूत्रवर्मचर्मायुधेष्टकाराणान्नक्षयवेति। कार्पासे तु षड्गुणवृद्धिविधायकव्यास-वचनविरोधः पूर्ववत्परिहरणीयः वसिष्ठोऽपि।

दन्त चर्मास्थिश्रृङ्गाणां मृण्मयानान्तथैव च।
अक्षया वृद्धिरेतेषां पुष्पमूलफलस्य चेति॥

अक्षया मूल प्रतिपादनाभावे शतगुणापि वर्द्धत एवेत्यर्थः। शिखावृद्ध्यादीना मनुपरममाह। बृहस्पतिः।

शिखावृद्धिङ्कायिकाञ्च भोगलाभन्तथैव च।

धनी तावत् समादद्याद्यावत्मूलन्नशोधित मिति॥

न शोधितन्नप्रतिदत्तमृणिकेनेत्यर्थः।क्वचिदनङ्गीकृतापिवृद्धिर्भवतीत्याह विष्णुः।

यो गृहीत्वा ऋणं पूर्वं श्वो दास्यामीति सामकम्।
न दद्याल्लोभतः पश्चात्तदह्वाद्वृद्धिमाप्नुयादिति॥

श्व इति प्रतिश्रुतस्य प्रतिदानकालावधेरुपलक्षणम्। सममेव सामकम् अवृद्धिकमिति यावत्। योऽमुकस्मिन्दिनेसममेवाहं त्वदीयन्धनन्दास्यामीति प्रतिज्ञाय ऋणं गृहीत्वापश्चाल्लोभाद्विलम्बं कुर्य्यात्सोऽवविदिनमारभ्य वृद्धिन्दद्यादित्यर्थः। कालावध्यनङ्गीकारेण गृहीतस्य धनस्य षण्मासादूर्ध्वं वृद्धिर्भवतीत्याह नारदः।

न वृद्धिःप्रीतिदत्तानां स्यादनाकारिता क्वचित्।
अनाकारितमप्यूर्द्ध्वंवत्सरार्द्धाद्विवर्द्धत इति॥

अनाकारिता अनङ्गीकृता प्रीतिदत्तानां प्रतियाचनप्रतिदानदिननिर्देशशून्यानामिति शेषः। अनाकारितेत्यादेरयमर्थः।वृद्धिमकृत्वा गृहीतमपि षण्मासादूर्द्ध्वंप्रतिदत्तं वृद्धिं प्राप्नोतीति। प्रतियाचितस्य प्रतिदत्तस्यादाने वृद्धिविशेषमाह।कात्यायनः।

प्रीतिदत्तन्नवर्द्धेत यावन्न प्रतियाचितम्।
याच्यमानमदत्तञ्चेद्वर्द्धते पञ्चकं शतमिति॥

पञ्चकम्पञ्चाधिकम्। प्रतियाचनदिनमारभ्य पणशतस्य पणपञ्चकं प्रतिमासं वर्द्धत इत्यर्थः। याचितकं गृहीत्वा अप्रतिदायैव देशान्तरगमने विशेषमाह कात्यायनः।

यो याचितकमादाय तमदत्वा दिशंव्रजेत्।
ऊर्द्ध्वं सम्वत्सरात्तस्य तद्धनं वृद्धिमाप्नुयादिति॥

न वृद्धिःस्त्रीधने लाभे निःक्षिप्ते च यथास्थिते।
सन्दिग्धेप्रातिभाव्ये च यदि न स्यात् स्वयं कृतेति॥

संवर्त्तवाक्ये यथास्थितमिति विशेषणोपादानाद्व्यक्त्यन्यथाकरणाभावे च ज्ञातव्यम्। तथा च निक्षिप्तं वृद्धिशेषञ्चेत्यादि पूर्वोक्तकात्यायनवचनविरोधो नेति। कात्यायनोऽपि।

वर्मशस्यासवद्यूते पण्यमूले च सर्वदा।
स्त्रीशुल्केषु न वृद्धिः स्यात्प्रतिभाव्यागतेषु चेति॥

सर्वदेत्यनेन प्रतियाचनादेःपरस्तादपि वृद्धिरकृता नास्तीत्युक्तम्। यद्यपि सर्वदेति सर्वशेषत्वात्पण्यमूल्येऽपि प्रतियाचनादेः परस्तादकृतवृद्ध्युपरमः प्रतिभाति। तथापि पूर्वोक्तकात्यायनवचनविरोधाय तच्छेषता सर्वदेत्यस्य। एवञ्च पूर्वोक्तएव परिहारः। एवं वर्मणोऽपि वृद्धभावोक्तिः। प्रतियाचनाभावे तथा च न तत् शेषतापि। एवञ्च न पूर्वोक्ताक्षयवृद्धिप्रतिपादकवसिष्ठादिवचनविरोधः। अन्यत्रापि वृद्ध्यभावंव्यास आह।

प्रातिभाव्यम्भुक्तबन्धमगृहीतञ्चदित्सतम्।
न वर्धते प्रयत्नस्य दमःशुल्कं प्रतिश्रुतमिति॥

भुक्तबन्धमित्यनेन स्थापितस्य गुप्ताधेर्वस्त्रालङ्कारादेरुपभोगे वृद्धिर्भवतीत्युक्तम्। अतएव गौतमः।

भुक्ताधिर्न वर्धते वस्त्रालङ्कारादिरिति।

अगृहीतञ्च दित्सत इति दित्सतः प्रतिदातुमिच्छोरधमर्णादुत्तमर्णो वृद्धिलोभादिवशान्न गृह्णाति तदा तस्य कृतापिवृद्धिस्तद्दिनादारभ्य न देयेत्यर्थः। तथा च याज्ञवल्क्यः।

दीयमानं न गृह्णाति प्रयुक्त यत् स्वकन्धनम्।
मध्यस्थस्थापितं तत्स्याद्वर्द्धते न ततः परमिति॥

मध्यस्थस्थापितमिति विशेषणेनाधमर्णोयदि स्वनिकटेस्थापयति तदा भवत्येव वृद्धिरिति तदेवं प्रसङ्गागतासविशेषावृद्धिर्निरूपिता।

इदानीमाधिर्निरूप्यते।

तत्रआधिर्नाम अधमर्णेनोत्तमर्णविश्वासार्थं गृहीतद्रव्यनिमित्तं यन्निकटे स्थाप्यते भूषणादि स उच्यते। अधिक्रियत इत्याधिरिति व्युत्पाद्यते। तत्स्वरूपन्तद्भेदञ्चाह बृहस्पतिः।

आधिर्बन्धः समाख्यातः स च प्रोक्तश्चतुर्विधः।
जङ्गमस्यावरश्चैव गोप्यो भोग्यस्तथैव च।

यादृच्छिकः सावधिश्च लेख्यारूढोऽथसाक्षिवान् इति॥

गोप्यो रक्षणीयः यादृच्छिकःअकृतावधिः। सावधिः अमुकस्मिन्दिने अहमेनं मोचयिष्यामि नोचेत्तवैवेत्युक्त्वा स्थापितः। यद्यप्यत्राधिरष्टविधो दर्शितस्तथापि गोप्यभोग्ययादृच्छिकसावधिरूपाणाम्भेदानां नानाविधाध्युपयोगे तात्पर्य्यातिशयइति सूचयितुं चतुर्विधत्वोक्तिरिति स्मृतिचन्द्रिकायाम्। अत्रस्वरूपप्रकारकालप्रमाणैश्चतुर्विधत्वात्तत्रस्वरूपं द्विविधं जङ्गमस्थावरभेदेन प्रकारश्च द्विविधो गोप्यो भोग्यश्च कालद्वैविध्यमवधिनियमानियमाभ्यां प्रमाणमपि लेख्यसाक्षिभेदेन द्विविधमित्येवमष्टविधत्वमिति कृत्यकल्पतरौ। नारदोऽपि।

अधिक्रियत इत्याधिः सविज्ञेयो द्विलक्षणः।
कृतकालोपनेयश्च यावद्देयोद्यतस्तथा।
स पुनर्द्विविधः प्रोक्तो गोप्यो भोग्यस्तथैव चेति॥

कृतकालः कृतावधिः।

उपनेयः स्वसमीपे नेयो मोचनीय इति यावत्।

यावद्देयोद्यतः यापदृणन्दीयते तावत्स्थितः अवधिरहितइत्यर्थः। प्रकारान्तरेण चतुर्विधत्वम्भारद्वाज आह।

आधिस्तुत्रिविधः प्रोक्तो भोग्यो गोप्यस्तथैव च।
अर्थप्रत्ययहेतुर्यश्चतुर्थस्त्वाज्ञया कृतः।
आवर्णात्पूर्वलिखितो भोग्याधिः श्रेष्ठ उच्यते॥
गोप्याधिस्तु परेभ्यःस्वन्दत्वा यो गोप्यते गृहे।
अर्थप्रत्ययहेतुर्यः प्रत्ययाधिः स उच्यते।
आज्ञाधिर्नाम योराज्ञा संसदा वाज्ञया कृत इति॥

स चाधिर्नाशादिभिर्यथा विकृतो न भवति तथा परिपालनीय इत्याह हारीतः।

बन्धं यथा स्थापितं स्यात् तथैव परिपालयेत्।
अन्यथा नश्यते लाभो मूल वा तद्व्यतिक्रमादिति॥

यथा येन प्रकारेण गोप्यत्वेन भोक्तृत्वेन स्थापितमाधिन्तथैव गोप्यङ्गोप्यत्वेन भोग्यम्भोग्यत्वेनैव पालयेत्। अन्यथावैपरीत्ये तस्य समयस्य व्यतिक्रमाल्लाभो वृद्धिर्मूलं द्रव्य वानश्यत इत्यर्थः। नारदोऽपि।

उपचारस्तथैवास्य लाभहानिर्विपर्य्यये।
प्रमादाद्धनिनस्तद्वदाधौ विकृतिमागते इति॥

उपचारो रक्षणं कर्त्तव्यमिति शेषस्ततो धन्निः प्रमादाद्विपर्य्यये नाशे विकृतिं वा गते आधौ लाभहानिर्भवतीत्यर्थः। बृहस्पतिरपि।

अशान्तलाभे च ऋणे तथा पूर्णोऽवधौ धनी।
यो भुङ्क्तेबन्धक लोभान्नस लाभो भवेत्पुनः।
न्यासवत्परिपाल्योऽसौ वृद्धि र्नश्यति हापिते॥

अत्र गोप्याधिः शान्तलाभो ऋणे भोक्तव्य इति॥

परिभाषितो गोप्याधिरशान्तलाभेन भोक्तव्यः। इयत्समयेनायमस्मिन्धने भोक्तव्यमिति परिभाषितस्तु अवधौ पूर्णेभोक्तव्यः। अन्यथा यो भुङ्क्तेतस्य सलाभः पुनर्न भवेदित्यर्थः।असावाधिन्यसवत्परिपालनीयो न हापनीयो न नाशनीयः।हापिते तु वृद्धि र्नश्यतीत्यर्थः। केचित्तु तथा पूर्णे बधावित्यत्राकारप्रश्लेषंकृत्वा अवधावपूर्णे न भोक्तव्य इत्याह।याज्ञवल्क्योऽपि।

गोप्याधिभोगे न वृद्धिःसोपकारेऽथ हापिते इति।

गोप्याधेरल्पेऽपि भोगे महत्यपि भोगे महत्यपि वृद्धिर्नदेया।सोपकारे भोग्याधौहापिते व्यवहारायोग्यतायांप्रापिते वृद्धि र्न देयेत्यर्थः। मनुरपि।

नत्वेवाधौसोपकारे कौसीदींवृद्धिमाप्नुयादिति।

हापित इति शेषः। एतच्च बलात्कारविषयम्। तथाच मनुः।

न भोक्तव्यो बलादाधिर्भुञ्जानो वृद्धिमुत्सृजेत्।
मूल्येन तोषयेच्चैन माधिस्तेनोऽन्यथाभवेदिति।

अधमर्णेन भोगो न कर्त्तव्य इति निषिध्यमानस्तद्वचनमुल्लङ्घ्य भोगकर्त्तुरल्पभोगेऽपि सर्ववृद्धिनाश इत्यर्थः। बलात्काराभावे तु स एवाह।

यः स्वामिनाऽननु ज्ञातमाधिम्भुङ्क्ते विचक्षणः।
तेनार्द्धवृद्धि र्भोक्तव्या तस्य भोगस्य निष्कृतिरिति॥

अर्द्धग्रहणमननुज्ञाताधिभोगानुसारेण कल्पितस्य वृद्धिभोगस्योपलक्षणार्थम्। अन्यथा महाभोगस्य अर्द्धविसर्जनेननिष्कृतेरसम्भवात्तस्य भोगस्य निष्कृतिरिति वाक्यशेष विरोधः

स्यात्। अथ विरोधपरिहारार्थमल्पभोगविषयमेवेदं कुतो न भवति तथा सत्यननुज्ञाता महाभोगविषये लाभहानिरनेनानुक्ता स्यात्। तच्चानेनानुक्तेऽपि गोप्याधिभोगेन वृद्धिरितियाज्ञवल्क्यवचनमेवात्र लाभहानिविधायकंभविष्यति। नभविष्यति तस्य बलात्कृताल्पभोगविषयत्वात् तस्मादर्द्धग्रहणोपलक्षणत्वमेव युक्तम्। यत्तु हारीतवचने मूलनाशाभिधानात्तद्बलात्कृतबहुभोगविषयमिति स्मृतिचन्द्रिकायाम्। आधिविनाशविषयमिति कश्चित् गोप्याधित्वेनस्थापितदास्यादेःकर्मणां कारणे विशेषान्तरमुक्तं कात्यायनेन।

अकाममननुज्ञातमाधिं यः कर्म कारयेत्।
भोक्ता कर्मफलन्दाप्यो वृद्धिं वा न लभेत स इति॥

अकाममिच्छारहितम्। कर्मफलं वेतनम्।दाप्यः अधमर्णाय राज्ञेति शेषः। एवं गोप्याधितया स्थापितेऽश्वादौतद्वाकन्दाप्यः।वृद्धिर्वात्यजनीयेत्यर्थः। आंहितदास्यादिपीड़ने स एवाह।

यस्त्वाधिं कर्म कुर्वाणं वाचा दण्डेन मर्मभिः।
पीड़येद्भर्त्स्ययेच्चैवं प्राप्नुयात् पूर्वसाहसमिति॥

आधावन्यथाकरणे याज्ञवल्क्यआह।

नष्टो देयो विनष्टश्चेद्दैवराजकृतादृत इति।

नष्टः विकृतिङ्गतः पूर्ववत्कृत्वादेयः।विनष्टः आत्यन्तिकनाशं प्राप्तः सोऽपि देयोमूल्यादिद्वारेण। दैवमग्न्युदकेदेशोपप्लवादि तत्कृताद्विनाशाद्विना। तथा स्वापराधराहिताद्राजकृतादपि विनाशाद्विनेत्यर्थः दैवराजकृते तु विनाशे सवृद्धिकम्मूलन्दातव्यं अधमर्णेनाध्यन्तरं वा तथा च स्मृतिः।

स्रोतसापहृते क्षेत्रे राज्ञा चैवापहारिते।
आधिरन्योऽथकर्त्तव्यो देयं वा धनिने धनमिति॥

तत्रस्रोतसापहृत इति दैवकृतोपलक्षणम्।

बृहस्पतिरपि। दैवराजोपघातेन यत्राधिर्नाशमाप्नुयात्।
तत्रान्यन्दापयेद्धन्धंशोधयेद्वाधनं ऋणीति॥
राजोपघातोऽत्रउच्छृङ्खलेन राज्ञाकृत उपद्रवः।

न तु धनिकापराधनिमित्तकः। अतएव व्यासः।

दैवराजोपघाते तु न दोषो धनिनः क्वचिदिति। कात्यायनोऽपि।

न चेद्धनिकदोषेण निष्पतेद्वाम्रियेत वा॥
आधिमन्यं स दाप्यःस्यादृणान्मुच्येत नर्णिक इति।

निष्पतेत् नश्येत्। म्रियेतेति पश्चाद्यभिप्रायेण।अदानेतस्मादृणान्नमुच्येतेत्यर्थः। आधेर्विनाशे तन्मूल्यन्देयम्। तथाच व्यासः।गृहीतृदोषान्नष्टश्चेद्बन्धो हेमादिके भवेत्।

ऋणं सलाभं सशोध्यं तन्मूल्यन्दापयेद्धनीति॥

मलाभसृणं संशोध्य सम्यक् विचार्य विनष्टाधेर्मूल्यंदत्त्वा सवृद्धिकन्धनं गृह्णीयात्। अन्यथा मूलनाश इत्यर्थः।अतएव नारदः। विनष्टे मूलनाशः स्याद्दैवराजकृतादृत इति।हारीतोऽपि।

आधौ नष्टे धनं नष्टं धनिकस्याधिरेवचेति।
भोगेन विकृतिङ्गतस्याधेस्तथैवार्णवेमूलनाशमाह।

बृहस्पति। भुङ्क्तेवा सारताम्प्राप्ते मूलहानिः प्रजायत इति।बहुमूल्याधिनाशे तु सलाभ ऋणादुपरि आधिमूल्यमाधात्रेदेयम्। तथा च स एव।

बहुमूल्यो यत्र नष्ट ऋणिकन्तत्रतोषयेत् इति।

न च तोषयेदिति वचनाद्यावता धनेनाधाता तुष्यति तावद्धनं देयमिति शङ्कनीयम्। यत आह मनुः।

मूल्येन तोषयेच्चैन माधिस्तेनोऽन्यथा भवेदिति।

सलाभ ऋणापगतावशिष्टावंशेनेत्यर्थः। यद्युत्तमर्णःसलाभ ऋणावशिष्टं मूल्यमधमर्णाय दत्त्वा न तोषयति तदात्वाधिप्रत्यर्पण प्रतिभूर्मूल्येनाधमर्णन्तोषयेत्। तथा च।हारीतः।

स्वादको वित्तहीनश्चेल्लग्नकोवित्तवान्यदि।
मूल्यन्तस्य भवेद्देयं न वृद्धिं दातुमर्हतीति॥

अधिकृतस्य धनस्य प्रीतिदत्तधनस्येवाकारितवृद्ध्यसम्भवादित्याशयः। खादकोबन्धखादकः। आधिनाशकःउत्तमर्णइति यावत्। लग्नकः प्रतिभूः मूल्यं नाशिताधेर्मूल्यम्। यद्यत्राधमर्णो बलाद्बुद्धिं गृह्णाति तदा गृहीत वृद्ध्यंशके महापराधानुसारं दण्डन्दद्यात्। तथा च स एव।

द्विगुणन्त्रिगुण वापि यः साधयति लग्नकम्।
राजगामि तु तद्द्रव्यं साधको दण्डमर्हति इति॥

यः साधयति लग्नकं लग्नकाद्यः साधयतीत्यर्थः। लग्नकग्रहणमुत्तमर्णस्याप्युपलक्षणार्थम्। अविद्यमानवृद्धिसाधनस्योत्तमर्णेऽपि समानत्वात्। यद्युत्तमर्ण आधिनाशेऽपि ऋणपत्रावष्टम्भेनाधमर्णाद्धनञ्जिघृक्षति सोऽपि दण्डभागित्याह।कात्यायनः।

आधिदृष्ट्येन लेख्येन भुङ्केयदृणिकाद्धनी।
नृपो दम प्रापयित्वा आधिलेख्यन्तु नाशयेदिति॥

दमन्दण्डम्। ऋणिक द्रव्यभोगद्रव्यनिष्कृत्यर्थंवृद्धिहानिरप्युन्त्रेयेति स्मृतिचन्द्रिकायाम्। सम्यग्रक्षयमाणस्याप्या-

धाव सारताङ्गते सति ऋणिकेन धनमाध्यन्तरं वा उत्तमर्णायदेयमित्याह नारदः।

रक्ष्यमाणोऽपि यद्याधिः कालेनेयादसारताम्।

सवृद्धिकमूल्यद्रव्यापर्याप्तन्ताङ्केचिदेकसंवत्सरभववृद्धिसहितमूलद्रव्यापर्याप्ततामसारतामाहुःतच्चित्त्यम्। एतादृशविशेषविकल्पने कारणाभावात्। याज्ञवल्क्योऽपि।

आधेः स्वीकरणात्सिद्वीरक्ष्यमाणोऽप्यकारताम्।
यातश्चेदन्य आधेयो धनभाग्वा धनीभवेदिति॥

आधेः स्वीकरणादुपभोगात् सिद्धि र्न लेख्यमात्रेणेत्यर्थः।एतदेवाभिप्रेत्याह नारदः।

आधिस्तु द्विविधः प्रोक्तो जङ्गमःस्थावरस्तथा।
सिद्धिरस्योभयस्यापि भोगो यद्यस्ति नान्यथेति॥
गोप्याधौ भोगः स्वीकारः भोग्याधौ फलभोगः।

एतच्चाधेर्भोगात्सिद्धिप्रतिपादनम्। आधौ प्रतिग्रहे क्रीतेपूर्वातुबलवत्तरेत्येवमादिवाक्योक्त-निर्णयार्थम्। अतएव द्वयोर्धनिकयोर्दुष्टाधमर्णिकेन एकस्य वस्तुन आाधीकरणे भोगान्निर्णय इत्याह विष्णुः।

ययोर्निक्षिप्त आधिस्तौविवदेतां यदा नरौ।
यस्य भुक्ति र्जयस्तस्य बलात्कारं विना कृतेति।

द्वयोरपि भोगसत्वे निर्णयप्रकारमाह वसिष्ठः।

तुल्यकाले निसृष्टानां लेख्यानामाधिकर्मणि।
येन भुक्तम्भवेत्पूर्वन्तस्याधिर्बलवत्तर इति।

निसृष्टानां कृतानां लेख्यानां सद्भावेऽपीति शेषः। अयमर्थः।तुल्यकालोत्पन्नानां लेख्यानां सद्भावसाम्येऽपि भोग्या-

दिसिद्धौभोगयोत्कृष्टकारणत्वात् तत्रधर्म्यनिबन्धनाबलवत्तायुक्तेति। बृहस्पतिः।

क्षेत्रमेकं द्वयोर्बन्धे दत्तं यत्समकालिककम्।
येन भुक्तम्भवेत्पूर्वं तस्य तत्सिद्धिमाप्नुयादिति।

क्षेत्रग्रहण म्भोग्याधिमात्रोपलक्षणम्। यत्राधिविशेषेद्वयोरपि भोगाभावः भोगार्थ ञ्च युगपत्प्राप्तास्तत्र निर्णयप्रकारमाह वसिष्ठः।

यद्येकदिवसे तौ तु भोक्तकामावुपागतौ।
विभज्याधिः समन्तेन भोक्तव्य इति निश्चय इति॥

तेन ताभ्यामित्यर्थःद्वयोरेकमाधिङ्कुर्वतोऽधमर्णस्य दण्डमाह कात्यायनः।

आधिमेकंद्वयोर्यस्तुकुर्यात्का प्रतिपद्भवेत्।
तयोःपूर्वकृतं ग्राह्यन्तत्कर्त्ता चौरदण्डभागिति॥

ऋणग्रहणोपक्रमत्वादाधिक्रिया प्रतिपदित्यूच्यते। पूर्वकृतं पूर्वाध्युपादानादिना सिद्धं आधिविशेषे दण्डविशेषमाह विष्णुः। गोचर्ममात्राधिकान्भूब मन्यस्याधीकृतामन्यस्य यः प्रयच्छेत्सवध्यःऊनाञ्चेत् षोडशमुवर्णं दण्ड्यंइति।उपादानादि यौगपद्येत्वाह बृहस्पतिः।तुल्यकालोपस्थितयोर्द्वयोरपि सम्भवेदिति उपस्थितयो उपदानादिकं कर्त्तुमितिशेषः।साक्षिलेख्य सिद्धयोर्लेख्य सिद्धम्बलवदित्याह।कात्यायनः।

आधानं विक्रयो दानं लेख्यसाक्षिकृतं यदा।
एकक्रियाविरुद्धन्तु लेख्यन्तत्रापहारकमिति॥

लेख्यसाक्षिकृते। लेख्यसाक्षिसिद्धम्। अपहारकं बलवत्।लेख्यसिद्धत्वा विशेषेऽपि बलाबलमाह स एव।

अनिर्दिष्टञ्च निर्दिष्टमेकत्रच विलेखितम्।

विशेषलिखितं ज्याय इति कात्यायनोऽब्रवीत् इति॥

एकत्रधात्रीकरणादौ। विशेषलिखितंनिर्दिष्टं लिखितञ्चनिर्दिष्टलिखितं ज्ज्यायोबलवदित्यर्थः। लेख्ये निवेशितं लिखितम्। अनिर्दिष्टनिर्दिष्टपदयोरर्थमाह स एव।

योविद्यमानं प्रधनमनिर्दिष्टस्वरूपकम्।
आकाशभूतमादध्यादारिष्टन्नैवतद्भवेत्॥
यद्यत्तदास्य विद्येत तदादिष्टं विनिर्दिशेत् इति॥

प्रशब्दः पादपूरणार्थः। अनिर्दिष्टस्वरूपकमनिरूपित स्वरूपकम्। आकाशभूतमविद्यमानस्वभावम्। अयमर्थः। आधातुराधीकरणकाले यद्धनं विद्यते निरूपितस्वरूपञ्च तद्धनमाधित्वेनादिष्टं सन्निर्दिष्टमित्युच्यते। तद्विपरीतन्तु धनमाधित्त्वेन कल्प्यमानमनिर्दिष्टमिति। आधीकरणकाले विद्यमानत्वसाम्येऽप्याह स एव।

यस्तु सर्वंस्वमुद्दिश्य प्राक् पश्चान्नामचिह्नितम्।
आदध्यात्तत्कथन्नस्याच्चिह्नितं बलवत्तरमिति॥

यःपूर्वमविशषेण सर्वस्वमाधित्वेनोद्दिश्य कस्यचिद्धस्तादृणंगृहीत्वा पश्चाल्लेखनसमये विशेषेण क्षेत्रादिकमेव लेखयतितत्रोत्तरकालं विवादे सति यावत्पश्चाल्लेखितन्ताव देवप्रमाणं नोद्दिष्टमित्यर्थः। चिह्नितमिति विरोध्युत्तरक्रियोपलक्षणार्थम्।तेन यदि प्रथममाधिमादाय धनी धनन्दत्त्वा पश्चादबन्धकत्वं विज्ञाय आधिमन्तरेणैवात ऊर्द्ध्वंत्वयि ऋणमास्तामिति प्रकारान्तरेण पुनः क्रियाङ्करोति तदा निराधिक्रियाबलवतीत्यवगन्तव्यम्। अतएवाह याज्ञवल्क्यः।

सर्वेष्वर्थविवादेषु बलवत्युत्तरा क्रियेति।

उत्तराक्रिया पूर्वस्याःक्रियायाःबाधिका भवतीत्यर्थः।निर्दिष्टत्वाविशेषे उत्तरक्रियाबलवत्त्वस्यापवादमाह स एव।

आधौप्रतिग्रहे क्रीतेपूर्वा तु बलवत्तरेति॥

एकमेव क्षेत्रमेकस्याधिं कृत्वा किमपि गृहीत्वा पुनरन्यस्याधिं कृत्वा किमपि गृह्णाति तत्र पूर्वस्यैव तत्क्षेत्रम्भवतिनोत्तरस्येत्यर्थः। एवम्प्रतिग्रहे क्रयेच योजनीयम्। स्वामित्वप्रतिबन्धा-वगमाभ्याम्प्रागेव पूर्वस्याःक्रियायाः कृतत्त्वादितिभावः। एतदेवाभिप्रेत्य वसिष्ठोऽप्याह।

यः पूर्वतरमाधाय विक्रीणीते तु तं पुनः।
किमेतयोर्बलीयःस्यात्प्राक्तनम्बलवत्तरमिति॥

आध्यादीनां यौगपद्येऽप्याह स एव।

कृतं यत्रैकदिवसे दानमाधान विक्रयम्।
त्रयाणामिति सम्बन्धे कथन्तत्रविधिं नयेत्॥
त्रयोऽपि तद्धनन्धर्म्यंविभजेयुर्यथांशतः।
उभौ क्रियानुसारेण त्रिभागेन प्रतिग्रहीति॥

आधिकृतस्य धनस्य स्वत्त्वनिष्वृत्तिकालमाह याज्ञवल्क्यः।

आधिः प्रणश्येद्द्विगुणे धने यदि न मोक्ष्यते।
काले कालकृतो नश्येत् फलभोग्यो न नश्यतीति॥

प्रयुक्ते धने स्वकृतया वृद्ध्या कालक्रमेण द्वैगुण्ये जातेऽधमर्णेन तावद्धनन्दत्त्वा यदि न मोक्ष्यते तदासौ नश्येदधमर्णस्य स्वं न भवेत्किन्तूत्तमर्णस्यैव भवेत्। यस्तु कालकृतः कृतकालः। आाहिताग्न्यादिषु पाठात्कालशब्दस्य पूर्वनिपातः।यद्वाजातिकालसुखादिभ्यः परा निष्ठा वाच्येत्यनेन वार्त्तिकेन

निष्ठात्तस्य परनिपातः। स यदि सम्प्रतिपन्ने काले न मोक्ष्यतेऽधमर्णेन तदा सोऽपि पूर्ववन्नश्येत्। फलभोग्यः क्षेत्रादिःकदापि न नश्येत्किन्तूत्तमर्णेनसलक यावत् स्वधनं न प्राप्यते तावदुत्पन्नफलमेव भोक्तव्यमित्यर्थः। अत्र काले कालकृतो नश्येदित्यनेन कृतकालस्योभयविधस्याधेस्तत्कालातिक्रमे नाश उक्तः।फलभोग्यो न नश्यतीत्यनेनाकृतकालस्य भोग्याधेर्नाशाभाव उक्तः। पारिशेष्यादाधिः प्रणश्येदित्येतदकृतकालगोप्याधिविषयमवतिष्ठते। द्वैगुण्यातिक्रमेण च विनाशे चतुर्दशदिवसप्रतिक्षणं कर्त्तव्यमित्याहतु र्व्यासबृहस्पती।

हिरण्ये द्विगुणीभूते पूर्णे काले कृतेऽवधौ ।
बन्धकस्य धनी स्वामी द्विसप्ताहं प्रतीक्ष्यते॥
तदन्तराधनन्दत्वा ऋणीबन्धमवाप्नुयादिति॥

तत्तस्मात्कारणात् अन्तरा चतुर्दशदिवसमध्ये इत्यर्थः।अत्रद्वैगुण्यग्रहणं त्रैगुण्यादीनामुलक्षणार्थम्।वक्ष्यमाणबृहस्पतिवचने शान्तलाभइति सामान्येनैवाभिधानात् नन्वाधेर्दानादिस्वत्वनिवृत्तिकारणं प्रतिग्रहादिरेववा स्वत्वापत्तिकारणं किन्तु द्वैगुण्ये निरूपितकालप्राप्तौ च द्रव्याधानमपि। तस्य याज्ञवल्क्यवचनेनैवा धमर्णयोरात्यन्तिकस्वत्वनिवृत्तिस्वत्वापत्तिकारणं किन्तु पत्योः कारणत्वावगमात्लोकाच्च। न च न वाधेःकालसंरो- धान्निसर्गोऽस्ति न विक्रय इति मनुवचनन्तस्यायमर्थः। कालेन संरोधः कालसरोधः चिरकालावस्थानन्तस्मात्कालसंरोधात् आधेर्न निसर्गोऽस्तिनान्यत्राधिकरणमस्ति न च विक्रय इति तेन विरोध इति

वाच्यम्। नत्वेवाधौ सोपकार इत्याद्युपक्रम्य कथनेन एतस्यभोग्याधिविषयत्वात्। यत्तु बृहस्पतिः।

पूर्णावधौ शान्तलाभे बन्धे स्वामी धनी भवेत्।
अनिर्गते दशाहेतु ऋणीमोचितु मर्हतीति॥

दशदिवसप्रतीक्षणमुक्तन्तद्वस्त्रादिविषयम्। हिरण्ये द्विगुणीभूत इति व्यास बृहस्पतिभ्याविशेषोपादानात्तद्धिरण्यविषयम्। शान्त-लाभेत्रैगुण्यादिपरमवृद्ध्या निवृत्तलाभे। यत्तु पुनस्तेनैवोक्तम्।

गोप्याधिर्द्विगुणादूर्द्ध्वं कृतकालस्तयावधेः।
आवेदयत्वर्णिकुले भोक्तव्यस्तदनन्तरमिति॥

यत्स्वत्वापत्तेरर्वागाधेर्भोगमात्र विधिपरत्र पुनः स्वत्वापत्तिपरम्। तथा च न बार्हस्पत्यवचनयोःपरस्परं विरोधःनापि व्यासबृहस्पतिवचनयोः। यदा तु शान्तलाभे धनेबन्धकस्य तथैवावस्थितस्य मोचनात्प्रागधमर्णस्यमरणादि भवेत्तदाकिं कर्त्तव्यमिति परीक्षायामाह बृहस्पतिः।

हिरण्ये द्विगुणीभूते भूते नष्टेऽधमर्णिके।
द्रव्यन्तदीयं संगृह्य विक्रीणीते स साक्षिकम्॥
रक्षेद्वाकृतमूल्यन्तुदशाहञ्जनसंसदि।
ऋणानुरूपम्परतो गृह्णीतान्यत्तु वर्जयेदिति॥

हिरण्ये द्विगुणीभूते पञ्चादाधिमोक्षणादर्वागितिशेषः।हिरण्यग्रहणम्वस्त्रादीनामुपलक्षणम्। द्विगुणीभूत इति त्रैगुण्यादीनामुपलक्षणम्।नष्टे कुत्रचिद्गते चिरमविज्ञाते द्रव्यंबन्धकीकृतं द्रव्यम्।ऋणानुरूपं द्विगुणीभूतद्रव्यपर्याप्तम्।परतःदशाहादूर्द्ध्वम्। अन्यत्तु वर्जयेत्। अवशिष्टं ऋणि-

बान्धवे तदभावे राज्ञेसमर्पयेदित्यर्थः। अतएव कात्यायनः।

आधाता यत्रवैन स्याद्धनीबन्धन्निवेदयेत्।
राज्ञस्ततः स विज्ञातो विक्रेय इति धारणा।
सवृद्धिकं गृहीत्वातु शेषं राजन्यथार्पयेदिति॥

राजन्यथार्पयेदिति न्यायात्प्रासन्नाभावविषयम्। तत्सद्भावेतत्रैवार्पणस्यन्याय्यत्वात्। यत्र तेनार्पणं क्रियेते नैव यदि सवृद्धिकन्धनन्दत्त्वा बन्धो गृह्यते तदा न विक्रेयः प्रयोजनस्य सिद्धत्वात्। अस्मिन्विषयेऽन्यत्राधिकरणं न विरुद्धन्दण्डापूपन्यायात् किन्त्वन्यत्राधिं कृत्वा मूलमात्रं गृहीतव्यम्। नतु स सवृद्धिकम्।यदाह प्रजापतिः।

धनी धनेन तेनैव परमाधिन्नयेद्यदिति।
कृत्वा तदाधिलिखितं पूर्वं वास्य समर्पयेदिति।

यद्बन्ध स्वामिभिर्धनं प्रयुक्तन्तत्तुल्येनैव धनेन परं धनिकान्तरमाधिर्नयेत् नतुसवृद्धिकेनेत्यर्थः। अयञ्चान्नाधिर्धनस्यद्वैगुण्ये सति प्रतिपत्तौ तु द्वैगुण्यादर्वागपि द्रष्टव्यः। क्वचिङ्गोप्याधेर्द्वैगुण्याद्यतिक्रमेऽपि ऋणिकस्य स्वत्वनाशो न भवतीत्याह। याज्ञवल्क्यः।

चरित्रबन्धककृतं स वृद्ध्यादापयेद्धनम्।
सत्यङ्कारकृतङ्कर्म द्विगुणं प्रतिदापयेदिति॥

चरित्रं शोभनचरितन्तेन यद्बन्धकन्तञ्चरित्रबन्धकन्तेनयद्द्रव्यं स्वाधीनं कृतम्पराधीनवा कृतन्तच्चरित्र बन्धकं कृतम्।अयमर्थः। अधमर्णेन धनिनः शुद्धान्तः करणत्वेन बहुमूल्यमपि बन्धकीकृत्याल्पमेव धनं स्वाधीनं कृतम्।यदि वा उत्तमर्णेनाधमर्णस्य निर्दोषतामवगत्याल्पमेव बन्धकं गृहीत्वा बहुधनमधमर्णाधीनं कृतन्तदा तद्धनं स राजा वृद्धिसहितन्दा-

पयेन्नत्वाधिनाशइति। अथवा चरित्रं शोभा वा चरित गङ्गास्नानादि अग्निहोत्रादिजनिता पूर्वं तद्बन्धकीकृत्य गृहीत चरित्र बन्धकीकृतमिति। एतादृशं वन्धकं द्विगुणीभूतेऽपि द्रव्येननश्यति किन्तु द्विगुणीभूतन्द्रव्यमेव दातव्यमित्यभिप्रायः। तथासत्यङ्कारकृतम्। करणङ्कारः।भाविघञ्।सत्यस्य कारः सत्यङ्कारः। कारेसत्याऽगदस्य चेति सुम्। तेन कृतं सत्यङ्कारकृतम्। तदपि द्विगुणमेव देयं नाधिनाशः। बन्धकार्पण समय एव द्विगुणीभूतेऽपि द्रद्ध्मेमया द्रव्यमेव द्विगुणं दातव्यंनाधिनाश इति समये कृते द्विगुणीभूतं द्रव्यमेव दातव्यं नाधिनाश इत्यभिप्रायः। क्रयविक्रयादिनिर्वाहाय यदङ्गुलीयकादिपरहस्ते समर्पितन्तत्सत्यङ्कारकृतन्तत्राङ्‌गुलीयकादि गृहीताव्यवस्थामतिक्रामन्तदेवाङ्गुलीयकादि द्विगुणं प्रतिपादयेत्। इतरञ्चेदङ्गुलीयकादिकमेव जह्यात्। चरित्र वधादिस्थले द्वैगुण्यादूर्ध्वञ्चाधिनाशो न भवष्यतीति बुद्ध्याअधमर्णेनमोचने विलम्बो न कार्यः। तथा च व्यासः।

गोप्याधिं द्विगुणाद्दूर्ध्वम्मोचयेदधमर्णिक इति॥

अस्मिन्नेवविषयेऽधमर्णासम्भवे सन्निधाने उत्तमर्णेनाधिर्विक्रेतव्यः। तथा च याज्ञवल्क्यः।

विना धारिणकाद्वापिविक्रीणीत स साक्षिक मिति।

धारणिकात् अधमर्णात्। अयमर्थः। असन्निहिते अधमर्णे उत्तमर्णेः साक्षिभिस्तदाप्तैश्च सह तमाधिं विक्रीयधनं गृह्णीयादिति। वा शब्दो व्यवस्थितविकल्पार्थः। यदर्णदानकाले द्विगुणीभूतेऽपि द्रव्येद्रव्यमेवदेयम्। नाधिनाश इति परिभाषितंतदा अयम्पक्षः। इतरथाआधिः प्रणश्येद्द्विगुण इत्यनेनोक्त-

आधिनाशपक्षइति। यदि द्वैगुण्यावधिकालयोरर्वागेवाधिमोचनार्थं अधमर्णः समायाति तदा उत्तमर्णेन भोक्तव्यो न वृद्धिलोभेन स्थापनीय इत्याह बृहस्पतिः।

धनं मूलीकृतं दत्वा यदाधिं प्रार्थयेदृणी।
तदैव तस्य भोक्तव्य स्त्वन्यथा दण्डभाग्धनीति॥

मूलीकृतं अधमर्णेन देयन्धनम्। तच्चभोग्याधौ मूलमात्रंगोप्याधौ तु सवृद्धिकं दत्त्वा ऋणी यद्याधिं प्रार्थयते तदाधनिना स भोक्तव्यः। अन्यथा दोषभाक् स्तोयदोषभागित्यर्थः।यदाह याज्ञवल्क्यः।

उपस्थितस्य भोक्तव्य आधिस्तेनोऽन्यया भवेदिति।

स्तेनः स्तेनवद्दण्ड्य इत्यर्थः।उत्तमर्णस्या सन्निधाने तदाप्तहस्ते धनं दत्त्वा आधिमधमर्णो गृह्णीयात्। तथा च स एव।

प्रयोजकेऽसति धन कुलेऽन्यस्याधि माप्नुयादिति॥

प्रयोजके उत्तमर्णेऽसति सन्निहिते सति तत्कुले तदाप्तहस्ते सवृद्धिन्धनं निधायाधमर्णः स्वीयन्धनं गृह्णीयादित्यर्थः। क्वचित्प्रयोजकोऽप्ततिकुल इतिपाठः। तत्रप्रयोजकोधनप्रयोक्ता असति धनिकेइतिशेषः। आप्नुयात्तदानीमेवेतिशेष। तथा च उत्तमर्णेसन्निहितेऽतदाप्तहस्ते सवृद्धिकन्धनं निधाय प्रयोजको धनप्रयोक्ताऽधमर्णस्तदानीमेवस्वाधिमाप्नुयादित्यर्थः।यदि तु तदाप्तोपि न सन्निहितः अधमर्णस्य चाधिविक्रयेणाग्रिमवृद्धिव्यवच्छेदाय धनदानेच्छा भवति तदा किंविधेयमितीक्षाया माधिमूल्यम्परिकल्प्यतद्गृहे एवाधिंस्थापयेत् तथा च स्थापनदिनमारभ्य तद्धनन्नवर्द्धत इत्याह स एव।

तत्कालकृतमूल्यो वा तत्रतिष्ठेदवृद्धिक इति॥

तिष्ठेदाधिरितिशेषः।तत्वोत्तमर्णे तत्कुले वा। एतच्चाधिप्रोचनं यदि भोग्याधिर्गोप्याधिश्च तावताकाले मोचनीय इत्यवधिं कृत्वा स्थापितस्तदाधमर्णनावधेरर्वाग्लोभेन न कर्त्तव्यं इदमेवाभिप्रेत्य फलभोग्याधिविषये व्यास आह।

फलम्भोग्यम्पूर्ण कालं दत्त्वाद्रव्यन्तुसामकमिति।

ऋणीबन्धमवाप्नुयादित्यतुषङ्गः। मूलमात्रन्दत्त्वा परिभाषितकालमापन्नम्फलभोग्याधिमाप्नुयादित्यर्थः। फलभोग्यग्रहणप्राध्यन्तरोपलक्षणम्। सामकग्रहण सवृद्धिधिकस्याप्युपलक्षणम्।भोग्याधिविषयेक्वचिद्विशेषमाह बृहस्पतिः।

क्षेत्रादिकं यदा भुक्तं मुत्पन्नमधिकन्ततः।
मूलोदय प्रविष्टञ्चेत्तदाधि प्राप्नुयादृणी॥
परिभाष्ययदा क्षेत्रं प्रदद्याद्धनिकेॠणी।
त्वयैतच्छान्तलाभेऽर्थे भोक्तव्यमिति निश्चयः॥
प्रविष्टे सोदये द्रव्ये प्रदातव्यं पुनर्ममेति।

अधिकं मूलापेक्षयाऽधिकं क्षेत्राद्यर्थव्ययद्रव्यम्। ततःतस्मात्क्षेत्रादेः उदयोवृद्धिः। शान्तलाभेऽर्थेपरमवृद्धिसहितेमूलद्रव्ये। इयं निमित्तसप्तमी।परमवृद्धिसहितं क्षेत्राद्यर्थव्ययसहितमेतन्मूलद्रव्यमस्मिन् क्षेत्रे उपभोक्तव्यम्। उपभोगेन चस वृद्धिकधने प्रविष्टे त्वयैत्क्षेत्रम्भोक्तव्यमिति परिभाष्ययदाक्षेत्रादिकं बन्धकोकुर्य्यात्तदाक्षेत्रादिफलभोगेन क्षेत्राद्यर्थंव्ययसहिते सवृद्धिके धने प्रविष्टे ऋणी किमप्यदत्त्वा तमाधिंप्राप्नुयादित्यर्थः। एवं विधत्याधेपूर्वगृहीते ऋणे कालक्रमेणपरां वृद्धिम्प्राप्ते सति तदनन्तरं यः स वृद्धिक मूलद्रव्योपभोगार्थं क्षेत्रादिराधिः क्रियते स क्षेत्राद्यर्थव्यवद्रव्यसहित-

स वृद्धिकमूलोपभोगानन्तरं धनिकेनाधमर्णाय प्रत्यर्पणीयः।तथा च याज्ञवल्क्यः।

यदा तु द्विगुणीभूत मृणमाधौ तदा खलु।
मोच्यआधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने इति।

आधौ तदादत्त इति शेषः। अयमेव क्षयाधिरित्युच्यते।इत्याधिविधिः। अथप्रतिभूः तत्र प्रातिभाव्यं नाम विश्वासार्थंपुरुषान्तरेण सह समयः। तद्भेदानाह बृहस्पतिः।

दर्शने प्रत्यये दाने ऋणिद्रव्यार्पणे तथा।
चतुःप्रकारः प्रतिभूः शास्त्रे दृष्टो मनीषिभिरिति॥

प्रत्ययो विश्वासः दानं ऋणापाकरणार्थमर्थार्पणम्। ऋणिद्रव्यार्पणं ऋणिनो यद्द्रव्यं गृहीतोपकरणादितदर्पणम्।चतुः प्रकाराणां प्रतिभुवां प्रातिभाव्याङ्गीकारप्रकारं दर्शयति स एव।

आह्रैको दर्शयामीति साधुरित्यपरोऽब्रवीत्।
दाताहमेतद्द्रविणमर्पयाम्यपरोऽब्रवीत् इति॥

एको दर्शन प्रतिभूरहमेनं पलायन प्रवृत्तंदर्शयिष्यामीत्याह। अपरः प्रत्ययप्रतिभूरेषः साधुर्नत्वां प्रतारयिष्यतिमतोयं श्रोत्रियपुत्रोस्यसर्वशस्य सम्पन्नो ग्रामोऽस्ति मत्प्रत्ययेनास्य द्रव्यं देहीति ब्रवीति।दान प्रतिभूर्यद्ययं न ददातितदा स वृद्धिकमृणमहं दातेति। अपरः ऋणि द्रव्यार्पणप्रतिभूर्यद्ययं न ददाति तद्दाहमेतदीयगृहोपकरणादिकमर्पयिष्यामीति कथयतीत्यर्थः। दर्शनप्रतिभुवा यदाधनिकस्य धारणिकदर्शनापेक्षा तदैव स दर्शनीय इत्याह कात्यायनः।

दर्शनप्रतिभूर्यस्तु देश काले च दर्शयेत्।

यस्मिन्देशे काले च धनिकस्तद्दर्शनमपेक्षतेतत्रैव दर्श-

येत् अधमर्णमितिशेषःदर्शिते च तस्मिन् धनिकेन प्राति भाव्यात् स भोक्तव्य इत्युत्तरार्द्धेनाह स एव।

यद्यसौदर्शयेत्तत्र भोक्तव्यः प्रतिभूर्भवेत्।

एवं प्रत्ययादिप्रतिभवोऽपि तदविसंवादे भोक्तव्याः। अन्यथा धारणिकन्देयं धनं दाप्या इत्याहतुः कात्यायन बृहस्पती।

यो यस्य प्रतिभूस्तिष्ठेद्दर्शनायेह मानवः।
अदर्शय स तन्तस्मै प्रयच्छेत्स्वधनादृणम्॥
आद्यौ तु वितथे दाप्यौ तत् कालावेदितं धनम्।
उत्तरौतु विसंवादे तौ विना तत्सुतौ तथा॥
यत्तु योगीश्वरेण प्रतिभुवान्त्रैविध्यमेवोक्तम्।
दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते॥

तद्दानार्पणयोरनति भेदाभिप्रायेण।
दाने आद्यौ तु वितथेदाप्यावितरस्य सुता अपि॥

वितथे।दर्शनप्रत्यये। दाने विसवादे इतरस्य सुता अपीति वचनात् पूर्वयोः सुता न दाप्याः। सुता इत्यभिधानान्नपौत्रा इत्युक्तम्भवति दानं स्वधनार्पणन्धनिकाय। अर्पणन्तु धारणिकधनमानीय तस्य अर्पणं धनिकस्य स्वधनलाभेउभयतो न विशेषः अतएव सूक्ष्मभेदविवक्षया पञ्चप्रकाराअपि प्रतिभुवो हारीतेनोक्ताः।

अभये प्रत्यये दाने उपस्थाने प्रदर्शने।
पञ्चस्वेषु प्रकारेषु ग्राह्यो हि प्रतिभूर्बुधैः॥

अभयमुपद्रववारण।उपस्थानमत्र धारणिक धनस्यधनिकायानीयार्पणं न दर्शनं तस्य पृथङ्निदेशात्। पञ्चस्वित्यनन्वयाच्च। व्यासस्तु।सप्तभिर्विषयैः सप्तप्रकारकं प्रतिभुवमाह।

लेख्ये कृते च दिव्ये वा दानप्रत्यय दर्शने॥
गृहीतबन्धोपस्थाने ऋणिद्रव्यार्पणे तथा।

प्रतिभूर्ग्राह्य इत्यत्र प्रकृतम्।कात्यायनोऽपि।

दानोपस्थानवादेषु विश्वासशपथाय च।
लग्नकङ्कारयेद्देवं यथा योग्यं विपर्यये।

वादोविवादस्तत्र प्रतिभूग्रहणम्।

उभयोः प्रतिभूर्ग्राह्यः समर्थः कार्यनिर्णय इति।

योगीश्वरेणाप्युक्तन्तच्चप्रागेवव्याख्यातम्।दर्शनप्रत्ययदानेषु यथायथं सर्वेषामन्तर्भावसम्भव इति परमार्थः। दर्शनप्रतिभुवे नष्टधारणिकान्वे- षणाय कालावधिर्देय इत्याह।बृहस्पतिः।

नष्टस्यान्वेषणे कालं दद्यात् प्रतिभुवे धनी।
देशानुरूपतः पक्षं मासं सार्धमथापि वा।

सार्द्धमासमिति परमावधिः। तथा च कात्यायनः।

नष्टस्यन्वेषणार्थन्तु देयं पक्षत्रयम्परम्।
यद्यसौदर्शयेत्तत्र भोक्तव्यःप्रतिभूर्भवेत्॥
कान्ते प्रतीते प्रतिभूर्यदि तन्नैव दर्शयेत्।
स तमर्थं प्रदाप्यः स्यात्प्रेत चैष विधिः स्मृतः॥

परं परमावधिभूतम्। प्रतीतेऽन्वेषणाय परिकल्पितेप्रेते चैषविधिरिति धारणिके मृते प्रतिभूस्तमर्थं प्रदाप्य इतिविधिः। कालावधिवि- धेस्तत्रान्वयवाधात्। एतदपि दैवराजकृतप्रतिबन्धाभावे बोध्यम्। अतएव कात्यायनः।

दर्शनप्रतिभूर्यत्रदेशेकालेन दर्शयेत्।
निबन्धमावहेत्तत्र दैवराजकृतादृते॥

निबन्धमृणम्। दैवकृतो दीर्घरोगमरणादि रूप ऋण-

दानप्रतिबन्धः।राजकृतो बन्धनासेधदण्डादिरूपः। प्रतिभूभेदेन स्पष्टमाह नारदः।

ऋणिष्वप्रतिकुर्वत्सुप्रत्यये वाथ हापिते।
प्रतिभूस्तदृणं दद्यादनुपस्थापयं स्तथेति॥

ऋणिव्यधमर्णेष्वप्रतिकुर्वतस्वसाध्येषुनिर्धनत्वादिनाऋणमप्रत्यर्प्य यत्स्विति दानप्रतिभूविषयम्। प्रत्यये विश्वासेहापिते विसम्बादिते इति प्रत्ययप्रतिभूविषयम्। अनुपस्थापयन्नृणिन मदर्शयन्नृणिनः सकाशादाधिमृणं पर्याप्तंतद्धनं वोत्तमर्णायानर्प्पयन्निति दर्शनद्रव्यार्पणप्रतिभूविषयमिति विवेकः। हारीतः।

विश्वासार्थं कृतस्त्वाधिर्न प्राप्तो धनिना यदा।
प्रापणीयस्तदा तेन देयं वा धनिने धनम्॥

तेन बन्धकार्पणः प्रतिभुवा। तथाचं पितामहः।

आधिपालकृतस्त्वाधिर्भिन्नकालोपलक्षणम्।
नचेत् स्वधनिने दत्तस्तस्याधेस्तैःसमर्पणम्॥

तैराधिपालैराधिसमर्पणप्रतिभूमिः। बहुत्वमत्राविवक्षितम्। एव मभयाधिप्रतिभूष्वपि तुल्यन्यायतयायोज्यम् अभयप्रतिभूरधमर्णादुत्तमर्णस्य भयोपस्थितौ तत्प्रतीकारमाचरेत्। तद्भयेन द्रव्यक्षतौ तदीयन्तत् द्रव्यं दद्यात्। प्रमाणप्रतिभूः प्रमाणप्रदर्शनङ्कारयेत्।अशक्तौ विवादास्पदीभूतं धनंदद्यात्। वादप्रतिभूर्वादपराजितस्याधममर्णस्य देयमुत्तमर्णाय दद्यात् सराजपदाश्च राज्ञइति। प्रतिभुविमृते तत्पुत्रादीन्प्रत्याह योगीश्वरः।दर्शनप्रतिभर्यत्र मृतः प्रात्यायकोऽपि वा।

न तत् पुत्रा ऋणं दद्यु र्दद्युर्दानाय ये स्थिताः॥

दर्शनप्रत्यये इत्यर्थस्य पूर्वश्लोकोक्तस्यैव स्पष्टीकरणमत्रेतिन पुनरुक्तिरिति मिताक्षरायां मदनरत्नेचोक्तम्। वस्तुतस्तुतज्जीवति सति प्रतिभुवि प्रेतेत्विदमिति न पौनरुक्त्याशङ्का।वितथइति तत्रात्र च मृत इत्युपादानात् स्मृतिचन्द्रिकाकारस्यापीदमेवाभिसंहितम्। प्रतिभूपुत्रादीनां विधिरिति प्रस्तावे लिखनात्। दानाय यः स्थितप्रतिभूस्तत् पुत्रादद्युरित्यर्थः। बृहस्पतिरपि।

आदौतु वितथे दाप्यौ तत्कालावेदितं धनम्।
उत्तरौ तु विसम्बादे तौ विना तत्सुतौ तथेति॥

आद्यौ दर्शनप्रत्ययदानविसम्वादे।उत्तरौदानर्णिद्रव्यार्पणप्रतिभुवौ। विसम्वादे द्वेषादिना धनिकेनादाने तौविना तयोर्देशगमने मरणे च। अत्र ताविति द्विवचनान्तेनसर्वनाम्ना दानार्णद्रव्यार्पणप्रतिभुवोः परामर्शः। सर्वनाम्ना मसति बाधके सन्निहितपरामर्शकत्वात्। पूर्वोदाहृतदर्शनप्रतिभूर्यत्रेति याज्ञवल्क्यवचनाच्चतेन दर्शनप्रतिप्रत्ययप्रतिभू सुतैर्न तद्देयमिति बोद्धव्यम्। प्रतिभू पुत्रपौत्रयोर्मूलमात्र दानादाने आह।कात्यायनः।

प्रातिभाव्यागतं पौत्रैर्दातव्यं न तु तत् क्वचित्।
पुत्रेणापि समन्देयमृणं सर्वत्र पैतृकमिति॥

सर्वत्र प्रातिभाव्यागतमृणमित्यन्वयः।

व्यासोऽपि।ऋणं पैतामहं पौत्रःप्रातिभाव्यागतं सुतम्।

समन्दद्यात्तत्सुतौ तु न दाप्याविति निश्चय इति॥

पौत्रेण प्रातिभाव्यातिरिक्तं पैतामहमृणं यावद्गृहीतमेव-

देयम्। तथा पुत्रेण प्रातिभाव्यागतं पैत्र्यमृणं यावद्गृहीतमेवदेयम्। तयोः पौत्रपुत्रयोः सुतौ प्रपौत्रपौत्रौयथाक्रममप्रातिभाव्यापातञ्च गृहीतधनौ न दाप्या इत्याद्यर्थः। यत्तुनारदवचनम्।

खादको वित्तहीनः स्याल्लग्नकीवित्तवान्यदि।
मूलन्तस्य भवेद्देयं न वृद्धिन्दातु मर्हतीति॥

तदपि स्वादकोऽधमर्णः। प्रतिभूर्यदि वित्तवान्मृतस्तदातत्पुत्रेण मूलमात्रन्देयं न वृद्धिरिति मृतपदाध्याहारेणव्याख्येयं विषयविशेषे दर्शनप्रत्ययप्रतिभुवः पुत्रेण सवृद्धिकन्देयमित्याह। कात्यायनः।

गृहीत्वा बन्धकं यत्र दर्शनेऽस्य स्थितो भवेत्।
विना पित्रा धनात्तस्माद्दाप्यःस्यात्तदृणं सुत इति ॥

दर्शनग्रहणं प्रत्ययस्योपलक्षण समानन्यायत्वात्। दर्शनेस्थितः दर्शने प्रतिभूत्वेन स्थित इत्यर्थः। विना पित्रापितरिप्रेते दूरदेशङ्गतेवेति। सुतग्रहणमुपलक्षणार्थम्। यस्य हस्तेबन्धकमायाति तस्य सर्वस्यापि तस्माद्वन्धकाप्रतिदानस्य युक्तत्वादिति केचित्। यत्तु दानप्रतिभुवि प्रेते दायादानपि दापयेदिति मनुवचनं तत्र दायादशब्दोविशेषलक्षणया सुतविषय एवअन्यथा सपिण्डमात्राभिधाने तत्सुतौ न दाप्याविति निश्चयइत्यादि पूर्वोदाहृतवचनविरोधःस्यादिति। केचिदिदं प्रतिभूबन्धकविषयं पूर्वोदाहृतवचनानित्वबन्धकप्रतिभूविषयाणीति विषयभेदान्नविरोध इत्याहुः।अनेक प्रतिभूदेयविषयेदानप्रकारमाह योगीश्वरः।

बहवः स्युर्यदि स्वांशैर्दद्युः प्रतिभुवो धनम्।
एकच्छायाश्रितेष्वेषु धनिकस्य यथारुचीति॥

एकच्छायाश्रितेषु एकस्याधमर्णस्य च्छायां प्रत्येकं सकलधनदायकत्वरूपसादृश्यमाश्रितास्तेषु। धनिकस्य यथारूचि।धनिकस्योत्तमर्णस्य यथारूचि यथाकामं यमेवोत्तमर्णोयाचतेतमेव सर्वन्दद्यादित्यर्थः। रुच्यविशेषे तु सम स्यादश्रुतत्वादिति न्यायेनावापि ययांशमेव दद्युः।एकच्छायाश्रितेषुलग्नकेषु यद्यन्यतरोदूरदेशङ्गतो स्मृतो वा भवति उत्तमर्णस्यच तस्मादेव ग्रहणेच्छा तदा प्रकारमाह।कात्यायनः।

एकच्छायाप्रविष्टानान्दाप्यो यस्तत्र दृश्यते।
प्रोषिते तत्सुतःसर्वम्प्रित्र्यमंशं मृते तु स इति॥

प्रोषिते देशान्तरगते। सर्वं सवृद्धिकमृणम्। मृतेतुपितुरंशंसवृद्धिकन्दद्यादित्यर्थः। स्मृतिचन्द्रिकायान्तु।

एकच्छायाश्रिते सर्वं दद्यात्तु प्रोषिते सुतः।
स्मृतेपितरि पित्रंश परर्णं न बृहस्पतिरिति॥

पठित्वा इत्थंव्याख्यातन्तथाहि। सर्वम्परर्णमपि न पित्रंशमात्र मित्यर्थः। नतु सर्वं सवृद्धिकमिति व्याख्येयम्।

पुत्रेणापि समन्देय मृणं सर्वन्तु पैतृकमिति॥

बृहस्पतिस्मरणात्। समं मूलमात्रं एतच्च धनिकेच्छायांप्रोषितस्य पुत्रे मह्यन्दद्यादित्येवंविधायां सत्यां सर्वदानविधानन्द्रष्टव्यं असत्यां धनिकेच्छायां पित्रंशम्प्रोषितपतिके पुत्रोदद्यादिति वावगन्तव्यम्। परर्णपरस्य पितृव्यतिरिक्तस्यऋणं पितरि मृते तु सुतः सत्यामपि धनिकेच्छायां सर्वन्नदातु मर्हतिमर्हति किन्तु, पित्रंशमवृद्धिकमेवेति ब्रूत इत्यर्थः इति परर्णं

अन्येषां प्रतिभुवामंशमिति मदनरत्ने प्रातिभाव्यापलापे दण्डमाह।

यो यस्यैव प्रतिभर्भूत्वा मिथ्याचैव तु गच्छति।
धनिकस्य धनं दाप्यो राज्ञा दण्डञ्च तत्समम्॥
कुर्याच्चेत्प्रतिभूर्वाद मृणिकार्येर्थिना सह।
सोपसर्गस्तदा दण्ड्योविवादाद्द्विगुणन्धनमिति॥

उपसर्गोविप्लवकारीति स्मृतिचन्द्रिकायाम्। प्रतिभूभ्यो धनग्रहणे विशेषमाह बृहस्पतिः।

नात्यन्तम्पीडनीयाः स्यु र्ॠणन्दाप्याः शनैः शनैरिति॥

अथ प्रतिभूदत्तस्य प्रतिक्रियाविधिमाह।कात्यायनः।

यस्यार्थेयेन यद्दत्तं विधिनाभ्यर्थितेन तु।
साक्षिभिर्भावितेनैव प्रतिभूस्तत्समाप्नुयादिति॥

यस्य प्रतिभाव्यकारयितुः कृते येन प्रतिभुवा धनिकादिभिर्याचितेन साक्ष्यादिभि रङ्गीकारितेन यत्स्वकीयसुवर्णधान्यवस्त्रादिकं धनिकादिभ्यो दत्तन्तन्सकलमेव प्रातिभाव्यकारयितुः सकाशात्सममेवाप्नुयादित्यर्थः। यत्तु।

प्रतिभूर्दापितो यत्तु प्रकाशन्धनिनान्धनम्।
द्विगुणंप्रतिदातव्य मृणिकैस्तस्य तद्भवेदिति॥

याज्ञवल्क्यवचनन्तद्धनिकपीड़ितप्रतिभूविषयम्। यत आहनारदः। यञ्चार्थं प्रतिभूर्दद्याद्धनिकेनोपपीड़ितः।

ऋणिकस्तम्प्रतिभुवे द्विगुणं प्रतिदापयेदिति॥

एतद्विगुणदानन्त्रिपक्षानन्तरं बोध्यम्।यत आहतुःकात्यायन बृहस्पती।

प्रातिभाव्यञ्च यो दद्यात्पीड़ितः प्रतिभावितः।

त्रिपक्षात्परतः सोऽर्थंद्विगुणन्दातुमर्हतीति॥

प्रातिभाव्यं प्रातिभाव्यागतं धनं प्रातिभावितः प्रतिभूत्वे तत्कृतः। अत्र वदति। द्विगुणं प्रतिदातव्यमित्यादिभिर्वचनैर्द्वैगुण्यमात्रं प्रतिपाद्यते तद्वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रेजात इति विहितजातेष्टिर्यथा शुचित्वाद्यवाधेनैव प्रवर्त्तते तथा इदमपि कालकलाक्रमावाधेनाप्युपपन्नं भवति एवञ्च पश्वादीनामपि सवृद्धिकमेव दानम्भविष्यति अन्यथा त्रिपक्षादूर्ध्वं सवृद्धिकदानपक्षेतेषां मूल्यदानमेव स्यात्सन्ततिसम्भवा त्सन्ततेरेव तद्वृद्धित्वेनोक्तत्त्वादिति तत्र सुन्दरं वचनानर्थक्यात्। कथमानर्थक्यम्।वस्त्रधान्य हिरण्यानाञ्चतुस्त्रिहिगुणापरेत्यादिभिः कालक्रमेण द्वैगुण्यदानस्य सिद्धत्वादिति गृहाण।ननूक्तमेवजातेष्टिवदिति प्रत्युक्तमेव तद्वचनानर्थक्यादिति नहि तत्रवचनानर्थक्यमस्तियेन तथा कल्प्येत। यत्तु पश्वादौ मूल्यदानमेव प्राप्नोति सद्यः सवृद्धिकदानपक्षे यत्र वापि समानङ्कालक्रमेण सन्तयजननपक्षेऽपि सवृद्धिकदानङ्कालान्तरेऽधमर्णन सह सङ्घटते गर्भिण्यादि आदावेवेति। ननु प्रायेणप्रीत्यैव प्रतिभूर्भवति अतः प्रतिभुवा दत्तं प्रीतिदत्तमेव न चतद्वर्द्धते याचनात् प्राक्।

प्रीतिदत्तन्तु यत्किञ्चिद्वर्द्धते नत्व याचितम्।
याच्यमानमदत्तञ्चेद्वर्द्धते पञ्चकं शतमिति॥

स्मरणात्। अतश्चानेनास्य प्रीतिदत्तस्यायाचितस्यापि दानदिवसादारभ्य यावद्द्विगुणङ्कालक्रमेण वृद्धिरित्युच्यत इतिचेन्न। वचनबलात् सर्वं द्विगुणं भविष्यति न च तस्यातिभारोऽस्तीति स्मृतिचिन्द्रिकायाम्।तन्न। अस्यार्थस्यास्माद्वच-

नादप्रतीतेरिति मिताक्षरायाम्। अयञ्च द्विगुणलाभो हिरण्यविषयः पश्वादौ तु।

सन्ततिस्त्रीपशुष्वेव धान्यन्त्रिगुणमेव च॥
वस्त्रञ्चतुर्गुणं प्रोक्तं रसश्वाष्टगुणः स्मृत इति॥

याज्ञवल्क्येन द्वैगुण्यापवादस्योक्तत्वात्। दर्शनप्रतिभूर्यद्यङ्गीकृते काले अधमर्णं दर्शयितुं मशक्यस्तदा तदन्वेषणार्थंपक्षत्नयन्देयम्। यदि तत्र दर्शयति तदा मोचनीयम्। अथन दर्शयति तदा प्रयुक्तं धनन्दाप्य इत्याह कात्यायनः।

नष्टस्यान्वेषणार्थन्तु देयंपक्षत्रयं परम्॥
यद्यसौ दर्शयेत्तत्र मोक्तव्यःप्रतिभूर्भवेत्॥
काले व्यतीते प्रत्रिभूर्यदि तं नैव दर्शयेत्॥
निबन्ध दापयेत्तन्तु, प्रेते चैवं विधिः स्मृत इति॥

बृहस्पतिरपि। नष्टस्यान्वेषणे काले दद्यात् प्रतिभुवे धनी॥

देशानुरूपतः पक्षम्मासं सार्द्धमथापि वा।
नात्यन्तम्पीडनीयाः स्यु र्ऋणं दाप्याःशेनैः शनैः॥
स्वसाक्ष्ये ध्य न नियोज्याःस्युर्विधिः प्रतिभवामयमिति॥

**स्वसाक्ष्येस्वयं समक्षदर्शने प्रातिभाव्ये निषेधानाह। कात्यायनः। **

न स्वामी न च वै शत्रुःस्वामिनाधिकृतस्तथा॥
विरुद्धोदण्डितश्चैव सन्दिग्धश्चैव न क्वचित्॥
नैव रिक्थोन मित्रञ्च न चैवात्यन्तवासिनः॥
राजकार्यनियुक्ताश्च ये चप्रव्रजिता नराः॥
नाशक्तो धनिने दातुं दण्डे राज्ञेच तत्समम्।
जीवन्वापि पिता यस्य तथैवेच्छाप्रवर्त्तकः॥
नाविज्ञाते ग्रहीतव्यः प्रतिभूः स्वक्रियां प्रति इति॥

सन्दिग्धोऽभिशस्तःअत्यन्तवासिनो नैष्ठिकब्रह्मचारिणः।नारदोऽपि।

साक्षित्वं प्रातिभाव्यञ्च दानग्रहणमेव च।
विभक्ता भ्रातरः कुर्युर्नाविभक्ताः परस्परमिति॥

याज्ञवल्क्योऽपि। भ्रातृृणामथ दम्पत्योः पितुः पुत्रस्य चैव हि।

प्रातिभाव्यमृण साक्ष्यमविभक्तेन तु स्मृतमिति॥

ननु जायापत्यो र्न विभागोविद्यत इत्यापस्तम्बेन विभागस्य निषिद्धत्वाद्दम्पत्यो र्विभागात् प्राक् प्रातिभाव्यादि प्रतिषेधोऽनुपन्न इति तदंशे विभागात् प्रागिति विशेषणानर्थक्यमिति चेन्न। अनेन वचनेन श्रौतस्मार्त्ताग्निमाध्येषु कर्मसु तत्फलेषु च विभागाभावस्योक्तत्वात्। यतोजायापत्योर्नविभागोविद्यत इत्यभिसन्धाय पाणिग्रहणाद्धिसहत्वङ्कर्मसुतथा पुण्यफलेषु चेति हेतुमुक्तवान् हि यस्मात् पाणिग्रहणादारभ्य सहत्वङ्कर्मसु श्रूयते। जायापती अग्निमादधीयातामिति तस्मादाधाने सहाधिकारात् तत्सिद्धग्निमाध्येषु कर्ममु सहाधिकारः एवं विवाहसिद्धाग्निसाध्येष्वपि कर्मसु स्मार्त्तवैवाहाग्नौ कुर्वीत प्रत्यहंगृहीति योगीश्वरेणाभिधानात्। तथा पुण्यफलेषु स्वर्गादिषु सहत्वं श्रूयते।दिवि ज्योतिरजरमारभेतामित्यादिषु येषु पुण्यकर्मसु सहाधिकारस्तेषां फलेषु सहत्वमित्यर्थः। तेन भर्त्रनुज्ञयानुष्ठितानापूर्त्तानां फलेषु न सहत्त्वमिति।केचित्तु अनेनैव विभागात्प्राक् दम्पत्योः प्रातिभाव्यादिनिषिद्धमभिदधता अनयोर्विभागोऽस्तीत्यर्थादुक्तम्भवतीति न चापस्तम्बवचन- विरोधःग्रहस्याग्रहणवत् विकल्पाङ्गीकरणादित्याहुः। तदतिफल्गुःशाब्दार्थिकयोस्तुल्यबलत्वाभावेन विकल्पानुपपत्तेः अतएव तुल्या-

र्यस्तु विकल्पेरन्निति भगवता जैमिनिनोक्तं पाणिग्रहणाद्धिसहत्वङ्कर्मस्वित्यादौ कर्मादिग्रहणानर्थक्यापाताच्चकिञ्च पूर्वोक्तप्रकारेणैवोपपत्तौ सत्यामष्टदोषदुष्टविकल्पाङ्गीकरणस्याप्यनुचितत्वात्। न चैवं ग्रहणाग्रहणादावपि विकल्पो न स्यात्।न स्वाद्यदि गत्यन्तरयुतत्वं स्यात्। न च तदस्तीत्यनन्यगतिकतया तस्याङ्गीकारात्। ननु द्रव्यस्वामित्वेऽपि सहत्वं श्रूयते।द्रव्यपरिग्रहेषु च न हि भर्त्तुर्विप्रवासे नैमित्तिके दाने स्तेयमुपदिशन्तीति चेत्सत्यम्। अनेन विभागाभावेनोक्तःकिन्तुपत्न्या द्रव्यस्वामित्वमुक्तम्। यतोद्रव्यपरिग्रहेषु चेत्युक्त्वा न हि भर्त्तुर्विप्रवासे नैमित्तिकेऽवश्यकर्त्तव्येऽतिथिभोजनादौ हियस्मात् स्तेयमिति नोपदिशन्ति मन्वादयस्तस्माद्भार्याया अपिद्रव्यत्वामित्वमस्ति अन्यथास्तेयं स्यादिति तस्माद्भार्याया अपिभर्त्तुरिच्छया द्रव्यविभागोऽस्ति न स्वेच्छया। अतएव याज्ञवल्क्यः।

यदि कुर्य्यात् समानंशान् पन्न्यः कार्य्याः सम्यांशिकाः इति।

तस्मात्सुष्ठूक्तम्प्राग्विभागात् दम्पत्योर्न प्रतिभान्यादिकमिति।अधर्मणकारमाह बृहस्पतिः।

प्रतिपन्नमृणन्दाप्यःसामादिभिरुपक्रमैरिति।

प्रतिपन्नं ऋणमभ्युपगतं प्रतिपन्नम्।दाप्यःदातुमुन्मुखःकर्त्तव्यो धनिनेत्यर्थः। तथा च मनुः।

यै र्यैरुपायैरर्थं स्वम्प्राप्नुयादुत्तमर्णिकः।
तै स्तै रुपायैः संगृह्य दापयेदधमर्णिकम्॥

के ते उपाया इत्यपेक्षायां स एवाह।

धर्मेण व्यवहारेण छलेन चरितेन च।
प्रयुक्तं साधयेदर्थं पञ्चमे न बलेन चेति।

बृहस्पतिरपि धर्मोपधिबलात्कारैःगृहसंरोधनेन चेति॥

गृहसंरोधनेन आचरिताख्योपायेन।कात्यायनोऽपि।

पीड़नेनोपरोधेन साधयेदृणिकं धनी।
कर्मणा व्यवहारेण सान्त्वेनादौ विभावितम्।
आददीतार्थमेवन्तु व्याजेन चरितेनचेति॥

धर्मादीनां स्वरूपमाह।

सुहृत्सम्बन्धिसन्दिष्टैःसामोक्त्यनुगमेन च।
प्रायेण वा ऋणीदाप्योधर्म एषउदाहृतः॥
छद्मना याचितञ्चार्थ मानीय ऋणिकाङ्धनी।
अन्वाहितादि संगृह्य दाप्यते यत्र सोषधिः॥
बद्ध्वास्वगृहमानीय ताडनाद्यैरुपक्रमैः।
ऋणिको दाप्यते यत्त्र बलात्कारःस कीर्त्तितः॥
दारपुत्रपशून्बद्ध्वाकृत्वा द्वारोपवेशनम्।
यत्रर्थिको दाप्यतेऽर्थन्तदाचरितमुच्यत इति॥

सुहृत्सम्बन्धिसन्दिष्टैःसुहृदां सम्बन्धिनां सन्देशैः सामोक्त्या प्रियवाक्येन अनुगमेन अनुसरणेन प्रायेण प्रार्थनाबाहुल्येन।छद्मना उत्सवादिव्याजेन गृहीततदीयभूषणाद्यप्रत्यर्पणेन। अन्वाहितमन्यस्मै दातुमर्पितम्।आदिशब्दात् प्रकारान्तरस्यापि प्रकारेणाधमर्णस्य भूषणादि स्वाधीनीकृत्ययत्र स ऋणदाप्यते स उपधिरित्यर्थः। दाप्यते प्रतिदानोन्मुखीक्रियते। अर्थं स्वकीयमर्थम्। शेषं स्पष्टार्थन्धर्मादयश्चोपायाः। पुरुषापेक्षया प्रयोक्तव्याः। यत आह कात्यायनः।

राजानं स्वामिनं विप्रं सान्त्वेनैव प्रदापयेत्।
ऋक्थिनं सुहृदं वापि छलेनैव प्रसाधयेत्॥

वणिजः कर्षकाश्चैव शिल्पिनश्चाब्रवीद्भृगुः।
देशाचारेण दाप्याः स्युर्दुष्टा न सम्पीड्यदापयेदिति॥

सान्त्वेन साम्ना धर्माख्योपायेनेत्यर्थः। वणिगादयो देशाचारानुसारेण दाप्यास्युरित्यन्वयः। सम्पीड्येति बलात्काराचरिताख्योपाययोर्ग्रहणम्। कः पुनर्देशाचार इत्याकाङ्क्षायांस एवाह।

धार्योऽवरुद्धस्त्वृणिकः प्रकाशञ्जनसंसदि।
यावन्नदद्यात्तद्देयन्देशाचारस्थितिर्यथेति॥

यत्र देशे धनिकेन स्वयमेवधार्य इत्याचारस्तत्रतथैवधार्यः।यत्र उक्तो वादिना अनेनावरुद्धः धार्य इति देशाचारस्थिति यं स्येत्यस्यार्थः। अवरुद्धस्य विण्मूवशङ्कायान्तत्प्रतिरोधोनकार्य इति स एव दर्शयति।

विण्मूत्रशङ्का यत्र स्याद्धार्यमाणस्य देहिनः।
पृष्ठतो वानुगन्तव्यो निबद्धं वा समुत्सृजेदति॥

निबद्धमिति शृङ्खलादिना बद्धमेव मूत्राद्युत्सर्गार्थम्प्रेषयेदित्यर्थः। अत्रअधमर्णिकविषये द्वितीयः पक्षःतदितरविषयस्त्वाद्यपक्ष इत्यौचितव्यवस्थावगन्तव्योति स्मृतिचन्द्रिकायाम्। दर्शनप्रतिभुवम्भोजनादिकाले गृहीत्वा ऽवरुद्धस्य मोकःकरणीयः यत आह स एव।

स कृतप्रतिभूश्चैव मोक्तव्यः स्याद्दिनेदिने।
आहारकाले प्राप्तौ च निबन्धे प्रतिभूःस्थित इति॥

निबन्धे पलायनप्रतिबन्धे। यदा तु प्रतिभूर्न लभ्यते लब्धोवा ऽधमर्णो न ददामीति वदति तदा पक्षद्वयमाह स एव।

यो दर्शनप्रतिभूवं नाधिगच्छेन्नचाश्रयेत्।
स वारके निरोद्धव्यः स्थाप्यो वावेद्यरक्षिण इति॥

नाधिगच्छेन्नप्राप्नुयात्।नाश्रयेन्नाङ्गीकुर्यात् वारके कारागृहे। रक्षिणों रक्षकान्। रक्षणे पुरुषान्नियुज्य प्रस्थाप्योवेत्यर्थः। एतस्य प्रतिभूविशेषे प्रतिषेधमाह स एव।

न वारके निरोद्धव्य आर्यःप्रात्ययिकः शुचिरिति॥

प्रात्ययिकः विश्वास्यः। कथन्तर्हि स मोचनीय इत्यपेक्षितेस एवाह।

सोऽनिबद्धः प्रयोक्तव्य निबद्धःशपथेन चेति॥

अनिबद्धः रक्षकशून्यः। निबद्धः नियमितः एवमुक्तधर्म्मोदिप्रयोगेण साधयन् धनिको न निवारणीयो राज्ञेत्याहमनुः।

य स्वयं साधयेदर्थमुत्तमर्णोऽधमर्णिकात्।
स राज्ञा नाऽभियोक्तव्यः स्वकं संसाधयन्धनमिति॥

विष्णुरपि। प्रयुक्तमर्थं यथा कथञ्चित्संसाध्यमानो न राज्ञोवाच्यः स्यादिति यथाकथञ्चित् स्मृत्याचाराविरुद्धेन मार्गेण।याज्ञवल्क्योऽपि।प्रपन्नं साधयन्नर्थन्नवाच्यो नृपतेर्भवेदिति।

साध्यमानश्चेद्राजसन्निधिं गत्वा धनिकन्धारयति तदा सदण्ड्यइत्याह। स एव।

साध्यमानोनृपङ्गच्छन्दण्डोदाप्यश्च तद्धनमिति॥

तस्य धनिकस्य धनत्तत्समञ्च दण्डन्दाप्यइत्यर्थः। अतएव विष्णुः।

साध्यमानश्चेद्राजानमभिगच्छेत्तत्समन्दण्ड्यइति।

तत्समन्धनिकद्रव्यसमम्। यत्तु मनुना।

यः साधयन्नंछन्देन वेदयेद्धनिकं नृपे।
स राज्ञा तच्चतुर्भागं दाप्यस्तस्य च तद्धनमिति॥

स्वल्पदण्ड उक्तः स दरिद्राधमर्णविषयः ब्राह्मणविषयइति केचित् छन्देन स्वेच्छया। स्मृतिचन्द्रिकायान्तु दण्ड इतिसामान्याभिधानम् असमर्थविषये स्वल्पो दण्डो यथा स्यादि-

त्येवमर्थमिति व्याख्याय मनुवचनं प्रमाणत्वेनोपन्यस्तम्।विप्रतिपत्तौ विशेषमाह। बृहस्पतिः।

प्रतिपन्नस्य धर्मोऽयं व्यपलापी तु संसदि।
लेख्येन साक्षिभिर्वापि भावयित्वा प्रदाप्यत इति॥

अथं पूर्वोक्तः अधमर्ण ऋणसत्तायां सम्प्रतिपन्नस्य धर्मस्यधनिकस्य अपलपितुम् अपह्नवितुं संसदि सभायां प्रमाणेनर्णंसाध्यप्रतिदानोन्मुख- ङ्कार्य्यइत्यर्थः। एवं पूर्वोक्तधर्मेण व्यवहारेण छलेनाचरितेन च प्रयुक्तं साधयेदर्थं पञ्चमेन बलेनच मनुवचने व्यवहारेणेति व्यपलापिविषयम् इतरत्सम्प्रतिपन्नविषयमिति बोद्धव्यम्। व्यवहारेण साध्याद्युपन्यासेन अतएवासप्रतिपन्ने व्यवहारातिरिक्तोपाय निषेधमाह स एव।

न रोद्धव्यः क्रियावादी सन्दिग्धेऽर्थे कथञ्चन।
आसेधयंस्त्वनासेध्यन्दण्ड्यो भवति धर्मत इति॥

न रोद्धव्यः व्यवहारातिरिक्तच्छलाद्यु पाङ्गोपलक्षणम्।

क्रियावादिसन्दिग्धपदयोरर्थमाह स एव।

प्रदातव्यं यद्भवति न्यायतस्तद्ददाम्यहम्।
एवं यत्रर्णिको म ते क्रियावादी स उच्यते॥
रूपसङ्ख्यादिला यत्र भ्रान्तिर्द्वयोर्भवेत्।
देयानादेययोर्वापि सन्दिग्धोऽर्थः स कीर्त्तितः॥

**इति सन्दिग्धोऽर्थे धनग्रहणं कुर्वतोऽर्थहानिदण्डावाहस एव। **

अनावेद्य तु राज्ञेयः सन्दिग्धेऽर्थे प्रवर्त्तते।
प्रसह्य स विनेयः स्यात्सचाप्यर्थे न सिद्ध्यतीति।

कात्यायनोऽपि।

पीड़येत्तु धनी यत्र ऋणिकं न्यायवादिनम्।
तस्मादर्थात् सह्रीयेत तत्समञ्चाप्नुयादृममिति॥

सावधिकमृणमवधिप्राप्तौ निरवधिकं द्वैगुण्यादिपरमवृद्धेःप्राप्तौ कार्यविशेषोपनिपातश्चेत्तस्य प्राप्तावपि पूर्वोक्तैर्धर्मादिभिरुपायैःसवृद्धिकं ग्राह्यम्। यद्वापरमवृद्धिसहितं मूलंकृत्वा लेख्यान्तरं ग्राह्यम्। अथवा सवृद्धिकमूलोपभोग्य आधिर्ग्राह्यः। तथा च बृहस्पतिः।

पूर्णावधौ शान्तलाभमृणमुद्ग्राहयेद्धनी।
कारयेद्वा ऋणी लेख्यञ्चक्रवृद्धिव्यवस्थया॥
द्विगुणस्योपरि यथा चक्रवृद्धिःप्रगृह्यते।
भागलाभस्तदा तत्र मूलं स्यात्सोदयं ऋणमिति॥

शान्तलाभग्रहणमशान्तलाभस्योपलक्षणम्। उद्ग्रहणन्धर्माद्युपायेन साधनम्। यदा चक्रवृद्धिर्भोग्याधिर्वागृह्यते तत्त्र सोदयमूलमृणं स्यादित्यर्थः। मनुरपि।

ऋणन्दातुमशक्तो यः कर्त्तुमिच्छेत् पुनः क्रियाम्।
स दत्त्वानिर्जितां वृद्धिङ्करणं परिवर्त्तयेत्॥
अदर्शयित्वा तत्रैव हिरण्यं परिवर्त्तयेत्।
यावती सम्भवेद्वृद्धिस्तावतीन्दातु मर्हति॥
चक्रवृद्धिं समारूढो देशकालव्यवस्थितः।
अतिक्रामन्देशकालौ न तत्फलमवाप्नुयादिति॥

निर्जितां लभ्यत्वेनात्माधीनत्वं सम्पन्नाङ्करणम्परिवर्त्तयेत्।अन्यल्लेख्यसाक्ष्यादि कुर्यात्। अदर्शयित्वा हिरण्यन्दीयमानमिति शेषः। तेन धनिने सर्वंसवृद्धिकमृणमदत्त्वेत्यर्थः। तत्रैवपुनः करणं परिवर्त्तयेत्। साक्षिसमक्षमेतत् ब्रूयाद्यदेतावन्मूलमस्मै धारयामि। एतावती वृद्धिरिति पत्नोचारोपयेदित्यर्थः। एतच्च यावद्वृद्धिन्धनन्दातुं शक्नोति तावद्दत्त्वा करणं

परिवर्त्तनङ्कार्यम्। समारूढःप्रतिपन्नः अङ्गीकृतवानिति यावत् तत्फलं चक्रवृद्धिलक्षणम्। कात्यायनोऽपि।

ग्राह्यं स्थाद्द्विगुणन्द्रव्यं प्रयुक्तन्धनिना सदा।
लभेच्चेन्न द्विगुणं पुनर्वृद्धिम्प्रकल्पयेत् इति॥

अधमर्णस्य धनदानाशक्तौ ग्रहप्रकारमाह नारदः।

अथ शक्तिविहीनः स्यादृणी कालविपर्ययात्।
शक्त्यपेक्षमृणन्दाप्यः काले काले यथोदयमिति॥

यथोदयं यथा धनोत्पत्तिंदाप्योब्राह्मण इति शेषः। तथा च याज्ञवल्क्यः।

हीनजातिम्परिक्षीणमृणार्थङ्कर्म कारयेत्।
ब्राह्मणस्तु परीक्षीणः शनैर्दाप्यो यथोदयमिति॥

अत्रच हीनजातिग्रहणं सजातेरप्युपलक्षणम्। अतश्चसमानजातिमपि परीक्षीणं यथोचितङ्कर्म कारयेत्। ब्राह्मणग्रहणं च श्रेयोजातेरुपलक्षणम्। अतश्चक्षत्रियादिरपि क्षीणोयथोदय वैश्यादेर्दाप्य इत्यर्थः। एतदेव स्पष्टमाहमनुः।

कर्मणाऽपि समं कुर्याद्धनिकस्याधमर्णिकः।
समोपकृष्टजातिश्च दद्याच्छ्रेयांस्तु तच्छनैरिति॥

कर्मणापि समं कुर्य्यात् अधमर्णिकत्वेनोत्तमर्णादधरीभूतमात्मानन्ताबद्धनिकार्य्यकर्मकरणेनापि समं कुर्य्यात्। अधमर्णत्वमपनयेदित्यर्थः। श्रेयान् उत्तमजातीयो गुणाधिकश्च।बृहस्पतिरपि।

निर्धनं ऋणिनङ्कर्म गृहमानीय कारयेत्।
शौण्डिकाद्यं ब्राह्मणस्तु दापनीयः शनैः शनैरिति॥

शौण्डिकाद्यं समोपकृष्टजातिम्। ब्राह्मणग्रहणमुत्कृष्टजातेरुपलक्षणार्थम्। यत्तु कात्यायनवचनम्।

कर्षकान् क्षत्रवट्विशुद्रान् समहीनांस्तु दापयेत् इति॥

तत्तेषां यथोदयन्धनदानसामर्थ्ये मन्तव्यम्। कल्पतरौ तुकर्मणा क्षत्र विट्शूद्रान् समहीनांस्तु दापयेत् इति पठितन्तत्रकर्मणा दापयेदित्यन्वयान्न कोऽपि विरोधः। कात्यायनोऽपि।

धनदानासह बुद्ध्वास्वाधीनं कर्म कारयेत्॥
कर्मकरणासहं तु बन्धनागारे वामयेदित्याह। सएव।
अशक्तौ बन्धनागरे प्रवेश्योब्राह्मणादृते इति॥

अत्र कर्मकरणाशक्तौ बन्धनागारे प्रवेशाभिधानं सामर्थ्योत्पत्तौ कथञ्चिदृणप्राप्त्यर्थमित्यभिहितं स्मृतिचन्द्रिकायाम्।

यस्तु, पूर्वमनावेद्याशुभं कर्म कारयति॥तत्रापि विशेषं स एवाह।

यदि ह्यादावनादिष्टमशुभङ्कर्म कारयेत्।
प्राप्नुयात् साहसम्पूर्वमृणान्मुच्येत चर्णिक इति॥

युगपदनेकोत्तमर्ण समवाये दानानुक्रमममाह। याज्ञवल्क्यः।

गृहीतानुक्रमाद्दाप्यो धनिनामधमर्णिकः।
दत्त्वा तु ब्राह्मणायैव नृपतेस्तदनन्तरमिति॥

नृपतेः क्षत्रियस्य समानजातीये तूत्तमर्णस्य ग्रहणक्रमेणदेयम्। विजातीयेषु तु ब्राह्मणादिवर्णक्रमेणेत्यर्थः। कात्यायनोऽपि। नानर्णसमवाये तु यद्यत्पूर्वकृतम्भवेत्।

तत्तदेवाग्रतो देयं राज्ञः स्याछोत्रियानु चेति।

श्रोत्रियानु ब्राह्मणानन्तरम्। एकदिनकृतनानर्णसमवायेयुगपद्देयं धनाल्पत्व बहुत्वयोस्तु, तदनुसारेण भागम्परिकल्प्यदापनीयम्।तथा च कात्यायन एव।

एकाहे लिखितं यत्र तत्र कुर्यादृणं समम्।
ग्रहणं रक्षणं लाभ मन्यथा तु यथाक्रममिति॥

ग्रहणं बन्धकदानम्। रक्षणं वन्धकपरिपालनम्। लाभबन्धकभोगञ्च समं युगपदेव कुर्यात्। अन्यथा अहर्भेदेतूक्तक्रमेणकुर्यादित्यर्थः।अनेकर्णसमवायेऽपि अधमर्णोयदुत्तमर्णाद्द्रव्यं गृहीत्वा यद्व्यवहारादिकङ्करोति तस्मात्प्राप्तन्धनं तदुत्तमर्णायैव दद्यान्नान्येषाम्। तथा च स एव।

यस्य द्रव्येण यत्पण्यं साधितं यो विभावयेत्।
तद्द्रव्य मृणिकेनैव दातव्यं तस्य नान्यथेति॥

एवकारस्तस्येत्यनन्तरं व्यत्यसनीयम्।अधमर्णाभावेतत्पुत्रेण सवृद्धिकमृणन्देयमित्याह। बृहस्पतिः।

याचमानाय दातव्य मप्रकालमृणं कृतम्।
पूर्णावधौ शान्तलाभमभावे च पितुः सुतैरिति॥

अप्रकालं अदीर्घकालन्निरवधिकमिति यावत् निरवधियाचनानन्तरमेव देयम्। परमवृद्धौ जातायामिति मदनरत्ने।सावधिपूर्त्तौशान्तलाभं शान्त्यनन्तरम्। ऋणग्रहीतुः पितुरभावे पितृकृतमृणम्पुत्रैरवश्यन्देयमित्यर्थः। आवश्यकदाने हेतुमाहनारदः।

इच्छन्तिपितरः पुत्रान् स्वार्थ हेतोर्यतस्ततः।
उत्तमर्णधमर्णभ्यां मामयं मोचयिष्यति॥
अतःपुत्रेण जातेन स्वार्थमुत्सृज्य यत्नतः।
ऋणात्पिता मोचनीयो यथा न नरकं व्रजेत्॥

यतस्ततः येन केनाप्युपायेन।उत्तममृणञ्जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवानजायत इत्यादितैत्तिरीय श्रुत्युक्तम्। अधममृणं परहस्तात् कुसीदविधिना गृहीतं जातेन व्यवहाराभिज्ञतया निष्पन्नेनेत्यर्थः।

अप्राप्तव्यवहारश्चेत् स्वतन्त्रोऽपि हि नर्णभाक्।

स्वातन्त्र्यं हि स्मृतंज्येष्ठे ज्यैष्ठे गुणवयः कृतमिति॥

स्मरणात्। अप्राप्तव्यवहारस्यासेधाह्वाननिषेधश्च स्मर्यते।

अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती।
विषमस्थाश्चनासेध्या न चैतानाह्वयेन्नृप इति॥

कात्यायनोऽपि। पितृृणं सूनुभिर्जातै र्दानेनैवाधमादृणात्।

विमोक्षस्तु यतस्तस्मादिच्छन्ति पितरः सुतान्।

नाप्राप्त व्यवहारैस्तु पितर्युपरते क्वचित्।
काले तु विधिना देयं वसेयुर्नरकेऽन्यथेति।

नाप्राप्त व्यवहारैः हेयोपादेय परिज्ञानविशेषसहितैः षोड़शवर्षैरित्यर्थः। षोड़शवार्षिकस्य व्यवहारकृत्त्वमाह नारदः।

गर्भस्थैः सदृशो ज्ञेय आष्टमाद्वत्सराच्छिशुः।
बाल आषोड़शाद्वर्षात् पोगण्डश्चेति शब्द्यते !
परतो व्यवहारज्ञः स्वतन्त्रः पितरावृते इति।

यस्य बहवः पुत्रास्तेषां विभक्ताविभक्तभेदेन दानप्रकारमाहनारदः।

पितर्युपरते पुत्राऋणन्दद्युर्यथांशतः।
अविभक्ताविभक्ता वा यो वा तामुद्वहेद्युरमिति॥

एतदुक्तम्भवति विभक्तैःस्वांशानुरूपन्देयम्। अविभक्तैरपिसमप्रधानतयाऽवस्याने सम्भूय समुत्थानेन देयम्। गुणम्प्रधानभावेनावस्थाने योमुख्यस्तेन देयमिति पुत्रेण रिक्थग्रहणाग्रहणयोः सवृद्धिकमेव देयम्। पुत्राभावे पौत्रेण रिक्थग्रहणे सोदयन्देयम्। अग्रहणे मूलमेव।प्रपौत्रेण तु रिक्थाग्रहणे मूलमपि न देयम्। यथा च बृहस्पतिः।

ऋणमात्मीयवत्पित्र्यंपुत्त्रैर्देयं विभावितम्।
पैतामहं समन्देयन्नदेयन्तत् सुतस्य त्विति॥

आत्मीयवत् सवृद्धिकमित्यर्थः। तत्सुतस्यागृहीतधनस्यप्रपौत्रस्य। एतदेवाभिप्रेत्य नारदः।

क्रमादव्याहतप्राप्तं पुत्त्रैर्यन्नर्र्णमुद्धृतम्।
देयम्पैतामहं पौत्रै स्तच्चतुर्थान्निवर्त्तत इति।

कात्यायनोऽपि। पित्रभावे तु दातव्य मृणं पौत्रेण यत्नतः।
चतुर्थेन न दातव्यन्तस्मात्तद्विनिवर्त्तयेत् इति॥

देयमृणमनेन देयमस्मिन् काले देयमित्यपेक्षते आह।

याज्ञवल्क्यः। पितरि प्रोषिते प्रेते व्यसनाभिप्लुतेऽपि वा।

पुत्रपौत्रैर्ऋणं देयनिह्नवे साक्षिभावितमिति॥

यदि पिता दातव्यं ऋणमदत्त्वा मृतो दूरदेशान्तरङ्गतो ऽचिकित्सनीयव्याध्याद्यभिभूतो वा तदा तत्कृतमृणपुत्रेण तदभावे पौत्रेण देय इत्यर्थः। पुत्रेण वापह्नुतेऽर्थिना साक्ष्यादिभिर्भावित मृणं देयं पुत्त्रपौत्रैरित्यन्वयः। प्रोषिते यत्प्रतिदानं तत्प्रवासादारभ्य विंशतिवर्षादूर्द्ध्वंमन्तव्यम्।तथाच नारदः। नार्वाक्सम्वत्सराद्विंशात् पितरि प्रोषिते सुतः।

ऋणं दद्यात्पितृव्ये वा ज्येष्ठेभ्रातर्य्यथापिवेति॥

कात्यायनोऽपि। विद्यमानेऽपि रोगार्ते स्वदेशात् प्रोषिते तथा।विद्यमानेऽपि जीवत्यपि। विंशात् संवत्सरादूर्द्ध्वमितिशेषःअतएव विष्णुः।

धनग्राहिण प्रेते प्रव्रजिते द्विदशाःसमाः।
प्रोषिते वा तत्पुत्रपौत्रैर्देयं नातः परमनीप्सुभिरिति॥

प्रव्रजिते संन्यस्ते द्विदशाःसमाः विंशतिवर्षाणि अस्यप्रोषित इत्यनेन सम्बन्धः। अतः परं विंशतिवर्षादूर्द्ध्वमनीप्सुभिर्देयमित्यर्थः। एतदुक्तम्भवति।पितरि मृते प्रव्रजिते

वा पुत्रपौत्रैःप्राप्तव्यवहारै र्देयं प्रोषिते तु विंशतिवर्षादूर्द्ध्वंमिति नातः परमनीमुभिरिति। अपि पाठस्तस्यायमर्थः।विंशतिवर्षादूर्द्ध्वं न विलम्बःकार्यःऋणप्रतिदानमभीप्सुभिरिति। अदेयमृणमाह याज्ञवल्क्यः।

सुराकामद्यूतकृतं दण्डशुल्कावशिष्टकम्।
वृथादानन्तथैवेह पुत्रोदद्यान्न पैतृकमिति॥

सुरापानेन यत् कृतमृणम्।कामकृतं स्त्रीव्यसनेन कृतम्।द्यूते पराजयनिर्वृत्तम्। दण्डशुल्कावशिष्टकं दण्डशुल्कयोरवशिष्टं वृथादानं वन्द्यादिभ्यो यत्प्रतिज्ञातम्।

धूर्त्ते वन्दिनि मल्ले च कुवैद्ये कितवे शठे।
चाटचारणचौरेषु दत्तम्भवति निस्फलमिति॥

वचनात्। न च दण्डशुल्कावशिष्टकमित्यनेनावशेषस्य दाननिषेधात् सर्वन्दातव्यमिति शङ्कनीयं यत आहोशनाः॥

दण्डं वा दण्डशेषं वा शुल्कन्तच्छेषमेव वा।
न दातव्यन्तु पुत्त्रेण यच्च न व्यावहारिकमिति॥

न व्यावहारिकं सुरापानादिनिमित्तमित्यर्थः।न पुत्त्रस्योपरि भवन्तीत्यर्थः। बृहत्पतिरपि।

सौराक्षिकं वृथादानं कामक्रोधप्रतिश्रुतम्।
प्रातिभाव्यं दण्डशुल्कशेषं पुत्त्रो न दापयेदिति॥

प्रतिभाव्यं प्रातिभाव्यागतम्। कामक्रोधप्रतिश्रुतयोः स्वरूपन्दर्शयति कात्यायनः।

लिखितम्मुक्तकं वापि देयं यत्तु प्रतिश्रुतम्।
परपूर्वस्त्रियैतत्तु, विद्यात्कामकृतं नृणाम्॥

यत्र हिंसां समुत्पाद्य क्रोधाद्द्रव्यं विनाश्य वा।
उक्तन्तुष्टिकरन्तत्तु विद्यात्क्रोधकृतन्तु तदिति॥

मुक्तक लेखनरहितम्। पित्रात्मादिकृतर्णसमवाये दानक्रममाह बृहस्पतिः।

पित्र्यंपूर्वमृणन्देयं पश्चादात्मीयमेव च।
तयोः पैतामहं पूर्वं देयमेवं ऋणं सदेति॥

तयोस्ताभ्यां पित्रात्मीयाभ्यामित्यर्थः। रिक्थग्रहाभावेऽपिपुत्रेण देयमिति।इत्याह कात्यायनः।

पित्र्यर्णेविद्यामाने तु न च पुत्त्रो धनं हरेत्।
देयं तद्धनिके द्रव्यं मृते पुत्रैस्तु दाप्यत इति॥

विभक्तः पुत्रे विभागानन्तरं पितृकृते ऋणे तिष्ठतितस्मिन्मृते तद्धनं न गृह्णीयात्किन्तु, धनिकाय दद्यात्। यदिकिञ्चित्ततोऽवशिष्टम्भवति तर्हि गृह्णीयात्। पितृधनाभावेरिक्थग्रहण राहित्येऽपि स्वधनं दद्यादित्यर्थः। अत्रपुत्रग्रहणं पौत्रस्याप्युपलक्षणम्। पुत्त्र पौत्रैर्ऋण देयमिति वचनेउभयोः साम्येन ग्रहणात्। पौत्रस्यावृद्धिकदानन्तु वाचनिकमिति न तस्यानेन साम्यपाठेन निवृत्तिः।अनेकऋणदातृसमये क्रममाह याज्ञवल्क्यः।

रिक्थग्राह ऋणं दाप्यो योषिद्ग्राहस्तथैव च।
पुत्रोऽनन्याश्रितद्रव्यःपुत्त्रहीनस्य रिक्थिन इति॥

दायविभागक्रमेण प्राप्तं द्रव्यं तद्रिक्थं तद्यो गृह्णातिस रिक्थग्राहो यदीयं द्रव्यं रिक्थरूपेण गृह्णाति स तत्कृतमृणं दाप्य इत्यर्थः। योषितम्भार्य्यांगृह्णातीति योषिद्ग्राहो यदीयां योषितं गृह्णाति स तत्कृतमृणन्दाप्य इत्यर्थः। पुत्रो-

ऽनन्याश्रितद्रव्यः। अन्यं आश्रितद्रव्यं यस्यासौ अन्याश्रितद्रव्यस्तम्। एतादृशं यद्द्रव्यं परकीयं द्रव्यं मातापितृसम्बन्धिद्रव्यमिति यावत्। अन्यशब्देन पित्रोर्विवक्षणात्। तन्मातापितृद्रव्यं यस्य नास्ति दायग्रहणायोग्यत्वात् सक्लीवादी पुत्त्रीऽनन्याश्रितद्रव्यं इत्यर्थः पुत्त्रहीनस्य दायग्रहणार्हपुत्त्रहीनस्यरिक्थिन ऋणं दाप्य इत्यर्थः। एतेषां समवाये पाठक्रमादेवदाप्याः।यत्तु सपुत्त्रस्य वाप्यपुत्त्रस्य रिक्थग्राहिणं दद्यादितिविष्णुवचनम्। तद्दायानर्हपुत्रस्य सद्भावेऽप्यसद्भावेऽपि वा तदनादरेण रिक्थग्राही ऋण दद्यादित्येव परम्। रिक्थग्राह्यभावे योषिद्ग्राही दाप्य अस्मिन्नर्थे विष्णुरपि। विधनस्यस्त्रीग्राहीति।विधनस्यरिक्थग्राहीरहितस्य।बृहस्पतिरपि।

स्त्रीहारी च तथैव स्यादभावे धनहारिण इति।

योषितद्ग्राह्यभावे दायभागानर्हः। पुत्रोऽदाप्य इत्यस्मिन्नर्थेनारदोऽपि। धनस्त्रीहारिपुत्त्राणामृणभाग्यो धनं हरेत्।

पुत्रासतोःस्त्रीधनिनोःस्त्रीहारी धनिपुत्रयोरिति॥

स्त्रीधनिनो रसतोः पुत्त्र एव ऋणभागीत्यन्वयः। स्त्री चधनञ्च स्त्रीधने तद्वतोः स्त्रीहारिणो रित्यर्थःअत्रस्त्रीहारीधनिपुत्रयोरिति पुत्राभावे योषिद्ग्राहकस्यर्णदायित्वाऽभिधानन्दायार्हपुत्राभावे मन्तव्यम्। स पुत्रस्य चेत्यनुवृत्तौ विधनस्य स्त्रीहारीति विष्णुनाऽभिधानात्। पुत्रः सतोः स्त्रीधनिनोरिति स्वोक्तिविरोधाच्च। ननु रिक्थग्राह ऋणं दाप्यइति वचनं एतेषां समवाये क्रमविधायकं सएव तु नोपपद्यते पुत्रे सत्यन्यस्य रिक्थग्राहित्वासम्भवात् न च पुत्रेसत्यपि पितृभ्रात्रोरिक्थहारित्वमिति वाच्यम्। न भ्रातरो

न पितरः पुत्राःरिक्थहराः पितुरितिवचनेन पुत्रेसत्यन्यस्यरिक्थहारित्वनिषेधात्। योषिद्ग्राहोऽपि न सम्भवति न द्वितीयश्च साध्वीनं क्वचिद्भर्त्तोपदिश्यते इति वचनेन पत्यन्तरनिषेधात् पुत्रोऽनन्याश्रितद्रव्य इत्येतदपि न वक्तव्यम्। रिक्थग्राह ऋणं दाप्य इत्यनेन गतार्थत्वात् न च रिक्थग्राहित्वाभावेऽपि पुत्रदातव्यमित्येतदर्थमिदम्। तथा सत्यनन्याश्रित इत्यस्य वैयर्थ्यंस्यात्। पुत्रेसति मातापितृद्रव्यस्य अन्यगामित्वासम्भवात्। न भ्रातर इति पूर्वोदाहृतवचनात्। पुत्रहीनस्यरिक्थिन इत्येतदपि न वक्तव्यम्।रिक्थग्राह ऋणं दाप्य इत्यनेन सति पुत्रेरिक्थहारिण एवऋणापाकरणाधिकारित्वस्याभिधाने सति पुत्रे रिक्थहारिण एव ऋणापाकरणाधिकारित्वस्याभिधाने सति पुत्रेकैमुतिकन्या येन तत्सिद्धेरिति चेत्। मैवं वादीः।सत्स्वपि क्लीवादिषुपुत्रेषु अन्यायवर्त्तिषु च सवर्णापुत्रेषु पितृव्यादीनां रिक्थयग्राहित्वासम्भवात्। क्लीवादीनां रिक्थग्राहित्वाभावं दर्शयति मनुः।

अनशौ क्लीवपतितौ जात्यन्धवधिरौ तथा।
उन्मत्तजड़मूकाश्च ये च केचिन्निरिन्द्रिया इति॥

याज्ञवल्क्येनापि क्लीवादीनामनुक्रम्य भर्त्तव्याश्च निरंशका इत्युक्तमन्यायवृत्तस्य सवर्णापुत्रस्य रिक्थग्राहित्वाभावंदर्शयति गोतमः। सवर्णापुत्रोऽप्यन्यायवृत्तो न लभतैकेषामिति। तस्मात् पुत्रेसत्यपि रिक्थग्राह्यन्यः सम्भवति योषिद्ग्राहित्वमपि रागकलुषीकृतचित्तस्याति- क्रान्तनिषेधस्य सम्भवति तस्य ऋणापाकरणे अधिकारो भवत्येव। यश्च-

तसृणंस्वैरिणीनामन्तिमां गृह्णाति यच्च पुनर्भुवां तिसृणांप्रथमा तथा च नारदः।

अन्तिमा स्वैरिणीनां या प्रथमा च पुनर्भुवाम्।
ऋणन्तयोः पतिकृतं दद्याद्यस्ते उपाश्नुते।
अधनस्य ह्यपुत्रस्य मृत्स्योपैति यः स्त्रियम्।
ऋणं वोढुः स भजते तदेवास्य धनं स्मृतमिति॥

चतसृणां पुनर्भुवां या प्रथमा तयोः पत्या कृतमृणन्तेयेउपाश्नुते पतित्वेनोपभुङ्क्ते स दद्यादित्यर्थः उपैति पतित्वेनोपभुङ्क्तेपुनर्भ्वःस्वैरिणीश्च दर्शयति स एव।

परपूर्वाः स्त्रियस्त्वन्याः सप्त प्रोक्ता यथाक्रमम्।
पुनर्भूस्त्रिविधा तासां स्वैरिणी तु चतुर्विधा॥
कन्यैवाक्षतयोनिर्या पाणिग्रहणदूषिता।
पुनर्भूःप्रथमा प्रोक्ता पुनःसंस्कारकर्मणा॥
देशधर्मानवेक्ष्यस्त्री गुरुभिर्या प्रदीयते।
उत्पन्नसाहसान्यस्मै सा द्वितीया प्रकीर्त्तिता॥
असत्सु देवरेषु स्त्री बान्धवैर्याप्रदीयते।
सवर्णाय सपिण्डाय सा तृतीया प्रकीर्त्तिता।
स्त्री प्रसूताऽप्रसूता वा पत्यावेव तु जीवति।
कामात्समामाश्रयेदन्यं स्वैरिणी प्रथमा तु सा॥
कौमारं पतिमुत्सृज्य यात्वन्यं पुरुषं श्रिता।
पुनः पत्युर्गृहं यायात्मा द्वितीया प्रकीर्त्तिता॥
मृते भर्त्तरि तु प्राप्तान्देवरादीनपास्य या।
उपगच्छेत्परङ्कामात्सातृतीया प्रकीर्त्तिता॥
प्राप्ता देशाद्धनक्रीताक्षुत्पिपासातुरा तु या।
तवाह मित्युपगता सा चतुर्थीप्रकीर्त्तितेति॥

उत्पन्नसाहसा क्षतयोनिः प्रौढेति यावत्। अन्यस्मैदेवराय असत्सुदेवरेष्वित्यग्रेऽभिधानात्। कीदृशस्य योषिद्ग्राहस्यर्णदाने अधिकार इत्यपेक्षिते स एवाह।

या तु सप्रधनैव स्त्री सापत्या वान्यमाश्रयेत्।
सोऽस्या दद्यादृणम्भर्त्तुरुत्सृजेद्वातथैव तामिति॥

स प्रधना प्रकृष्टधनसहिता बहुधनेति यावत्। अस्य भर्त्तु र्ॠणन्दद्यादित्यन्वयः। न च योषिद्ग्रहणस्यादानाधिकारशास्त्रीयान्यथानुपपत्त्या योषिद्ग्रहणमपि पूर्वपतिकृतमृणन्दातुं शास्त्रीयमिति शङ्कनीयम्। रागप्राप्तयोषिद्ग्रहणस्याप्लवान्नशास्त्रानुपपत्तिः। अतएवाह संग्रहकारः।

यत्रदद्यादृणं वोढुःपुनर्भूस्वैरिणीपतिः।
न तेन तदुपादानं शास्त्रेण विहितम्भवेदिति॥

तदुपादानं पुनर्भुवां स्वैरिणीनाञ्च ग्रहणम्। ऋणं पुत्रोदाप्य इति पुनर्वचन योषिद्ग्रहाभावेऽस्य ऋणदानेऽधिकारोनतस्मिन् सतीति क्रमनिरूपणार्थं अनन्याश्रितद्रव्य इति नव्यर्थं पित्र्यरिक्थाभावेऽपि बहुषु पुत्रेषु सत्सु दानग्रहणयोग्येषु अस्यैव ऋणदानेऽधिकारो क्लीबादेर्दायानर्हस्येति प्रतिपादनार्थत्वात्। पुत्रहीनस्य रिक्थिन इत्येतदपि न व्यर्थंपुत्रग्रहणमुपलक्षणार्थं पुत्रपौत्रहीनस्यये समनन्तरं रिक्थग्राहित्वेन दायभागे निरूपिताः प्रपौत्रादायस्ते सर्वेदायभागोक्तक्रमेण दाप्याः यदि रिक्थं गृह्णन्ति न चेन्नदाप्याः पुत्रपौत्रौतु रिक्थग्रहणाभावेऽपि दाप्यौ इति पुत्रपौत्रादीनां वैषम्यप्रतिपादनार्थत्वात्। पुत्रपौत्रयोः प्रपौत्राद्यपेक्षयावैषम्यन्दर्शयति नारदः।

क्रमादभ्यागतं प्राप्तं पुत्त्रैर्यन्नर्णमुद्धृतम्।
दद्युःपैतामहम्पौत्रास्तञ्चतुर्थान्निवर्त्तते इति॥

यद्वायोषिद्ग्राहाभावे पुत्रो दाप्य इत्युक्तं सैव चास्य धनंस्मृतमिति स्मरणात्। लक्षणया रिक्थशब्देन योषितमङ्गीकृत्यपुत्राभावे योषिद्ग्राहोदाप्य इत्युच्यते पुत्त्रहीनस्य रिक्थिन इत्यनेन पुत्त्रहीन्स्य सयोषित्कस्य ऋणं योषिद्ग्राही दद्यादित्यर्थः।अस्मिन् पक्षे बहुधनस्त्रीहारिणोऽन्तिमा स्वैरिणी प्रथमा पुनर्भूहारिणश्चाभावे पुत्त्रो दाप्यः। पुत्राभावे निर्धननिरपत्य योषिद्ग्राही दाप्य इति व्यवस्था द्रष्टव्या अन्यथा योषिद्ग्राहपुत्राभावयोः पुत्रयोषिद्ग्राही दाप्याविति व्याख्याने उभयसद्भावेकस्याप्यदानप्रसङ्गः स्यात्। अतएव नारदः।

धनस्त्रीहारी पुत्राणामृणभाग्यो धनं हरेत्।
पुत्रोऽसतोः स्त्रीधनिनोःस्त्रीहारी धनपुत्त्रयोरिति॥

कस्मिंश्चित् स्त्रीहारिण्यमति पुत्त्रो दाप्यः पुत्रेति कश्चित् स्त्रीहारीत्यर्थः। अथवा।एते रिक्थप्राप्तादयः क्रमेण दाप्याइत्युक्ते कस्यादाप्यइत्यपेक्षिते उत्तमर्णस्य तदभावे तत्पुत्रादेःतस्याप्यभावे कस्येत्यपेक्षिते आह। पुत्त्रहीनस्य रिक्थिन इतिपुत्राद्यन्वयहीनस्योत्तमर्णस्य यो रिक्थी रिक्थग्रहणयोग्यःसपिण्डादिस्तस्य दाप्या इत्यर्थः तथा च नारदः।

ब्राह्मणस्य तु यद्देयं सान्वयस्य न चास्ति सः।
निर्वापयेत् सकुल्येषु तदभावेऽस्य बन्धुषु॥

इत्यभिधायाभिहितवान्।

यदा तु न सकुल्याःस्युर्न च सम्बन्धिबान्धवाः।
तदा दद्याद्विजेभ्यस्तु तेष्वसत्स्वप्सुनिक्षिपेदिति॥

विज्ञानेश्वरानुयायी यथा। अत्र कश्चिद्वादभयङ्करकृदाह।

अहो वत जगत्ख्यात विज्ञानेश्वरयोगिनः।
पूर्वापरविरोधेऽपि नानुसन्धानमद्भुतम्॥

रिक्थग्रहणस्य गृहीतरिक्थस्य पुत्रस्यान्येन रिक्थग्राहिणासह कदा समावेशः सम्भवति। अपि च पुत्त्रहीनस्यरिक्थिनइति पदन्त्रिभिरपि सम्बध्यते द्वाभ्यामेव वा प्रथमे पुत्त्र इतिव्याघातस्य मुख्यमुदाहरणम्।द्वितीये भिन्नविषयता तेषामप्यसमावेश इत्येतदपीति तन्मन्दधियान्धन्धनमात्रम्। रिक्थग्रहणार्हपुत्रसत्त्वे एतद्वचनाप्रवृत्तेःपुत्रहीनस्येति त्रिभिरपिसम्बध्यते। न च पुत्त्रस्य हीनस्य पुत्रइति व्याघातः। पुत्रहीनस्य रिक्थग्रहणार्हपत्रहीनस्य पुत्रोरिक्थग्रहणानर्हपुत्र इत्यर्थस्योक्त्वात् वाद्वभयङ्करकृता स्वयमित्थंव्याख्यातंतथाहि। यथैवान्येषां पुत्रवता मृणमनन्याश्रितद्रव्यः पुत्त्रोदाप्यस्तथैव पुत्त्रहीनस्य रिक्थिन ऋणं रिक्थग्राही दाप्यः।तदाह नारदः। अधनस्य ह्यपुत्त्रस्य मृतस्योपैति यः स्त्रियम्।

ऋणं वोढुः स भजते सैव चास्य धनं स्मृतमिति तथा॥
धनस्त्रीहारी पुत्त्राणामृणभाग्यो धनं हरेत्।
पुत्रोऽसतोः स्त्रीधनिनोः स्त्रीहारी धनिपुत्त्रयोरिति॥

न तु स्त्रीहारी धनहारिणो रसतोः पुत्त्रः धनहारी पुत्त्रयो रसतोःस्त्रीहारीत्युभयसद्भावेन कश्चिद्दाप्य इति विरोध इतिचेन्नपुत्त्रपदस्य भातृपुत्त्रपरत्वात्। तदाह मनुः।

भ्रातॄणामेकजातानामेकश्चेत् पुत्रवान्भवेत्।
सर्वांस्तांस्तेन पुत्रेण पुत्रिणो मनुरब्रवीदिति॥

तदप्यसत् क्रमत्यागे मानाभावात्। नारदवचनन्त्वस्मम््म

तेऽप्यविरुद्धम्। किञ्च नारदवचनं पुत्त्रशब्दस्य मुख्येऽर्थे सम्भवति। गौणग्रहणे प्रमाणाभावात्। न च भ्रातृपुत्रेपि मुख्यप्रयोगः।पुत्रिणो मनुरब्रवीदिति स्मरणादिति वाच्यम्।वृद्धव्यवहारेण जन्यपुंसि मुख्यनिर्णयात्। न च मनुवचनविरोधः। गौणत्वेनाप्युपपत्तेः। न च शक्तिरेवास्तु। अन्यायश्चानेकार्थत्वमिति न्यायविरोधात्। नवैवं सैन्धवादिशब्दानामप्यनेकार्थत्वं न स्यात्। न स्यादेव यदि विनिगमकं स्यान्नच तदस्तीत्यङ्गीकारादिति। दायभागानर्हस्यापि भूयिष्ठधनवत्त्वेयोषिद्ग्राहो न दाप्य इत्याह कात्यायनः।

पूर्वं दद्याद्धनग्राहः पुत्त्रस्तस्मादनन्तरम्।
योषिद्ग्राहः सुताभावे पुत्त्रे वात्यन्तनिर्धनमिति॥

पूर्वं रिक्थग्राहो दद्यात्तदभावेबहुतरधनयुक्तो दायार्हःपुत्त्रोदद्यात्तस्याभावे योषिद्ग्राहोदद्यादित्यर्थः सत्यपि दायार्हे पुत्रे तस्य यदा दुश्चिकित्स्यरोगद्युपद्रवेण बाल्येन वाऋणदानासामर्थ्यन्तस्यामवस्थायां तत्पितृधनं स्वसमीपेयःस्थापयति पितृव्यादि स ऋणं दद्यात् तस्याभावे योषिद्ग्राहोदद्यादित्याह स एव।

ऋणन्तु दापयेत्पुत्त्रः यदि स्यान्त्रिरुपद्रवः।
द्रविणार्हश्चधुर्यश्च नान्यथा दापयेत् सुतम्॥
व्यसनाभिप्लुते पुत्त्रे बाले वा यत्प्रदृश्यते।
द्रव्यहृद्दापयेत्तन्तु तस्याभावे पुरन्ध्रीहदिति॥

कुटुम्बार्थे पितृव्यादिना कृतमृण कुटुम्बिना दातव्यम्।तथा च बृहस्पतिः।

पितृव्यभ्रातृपुत्रस्त्रीदासशिष्यानुजीविभिः।
यद्गृहीतं कुटुम्बार्थे तद्गृही दातु मर्हतीति॥

शिष्यशब्देनान्तेवास्यपि गृह्यते। छात्रमात्रस्यापि विवक्षितत्वात् गृहीत्यनेनगृहिमात्राभिधानम्। किन्तु कुटुम्बिनस्तस्यैव विवक्षितत्वात् अतएव नारदः।

शिष्यान्तेवासिदासस्त्रीप्रेष्यकृत्यकरैश्च यत्।
कुटुम्बहेतोरुत्त्क्षिप्तं दातव्यं तत्कुटुम्बिनेति॥

शिष्योऽत्र वेदविद्यार्थी।अन्तेवासी शिल्पविद्यार्थी। कुटुम्बहेतोः कुटुम्बार्थं उत्क्षिप्तमुत्थापितं कृतमिति यावत्।कुटुम्बिना कुटुम्बार्थं कृतमृणमसन्निधानादिना स्वानुज्ञानाभावेऽपिव्यवहारं समाचरेत्। तदर्थम्मनुराह।

कुटुम्बार्थेऽध्यधीनोऽपि व्यवहारं समाचरेत्।
स्वदेशे वा विदेशे वा तं विद्वान्न विचालयेदिति॥

अध्यधीनो दासादिः अन्यदपि कुटुम्बकृतं कुटुम्बिना दातव्यं मृणंदर्शयति। कात्यायनः।

कुटुम्बार्थं मशक्ते तु गृहीतं व्याधिने तथा।
उपप्लवनिमित्तञ्च विद्यादापत्कृतन्तु तत्॥
कन्यावैवाहिके चैव प्रेतकार्येषु यत्कृतम्।
एतत् सर्वम्प्रदातव्यं कुटुम्बेन कृतं प्रभोरिति॥

अशक्तेकुटुम्बभरणासमर्थे कुटुम्बिनीत्यर्थः। कन्यावैवाहिके कन्याविवाहनिमित्तम्। यत्कृतम्।येन धनेन यत्कृतम्। प्रभोः कुटुम्बिनः। कुटुम्बार्थव्यतिरिक्त ऋणविषयेयाज्ञवल्क्यःआह।

न योषित्पतिपुत्राभ्यां न पुत्रेण कृतम्पिता।
दद्यादृते कुटुम्बार्थान्नपतिः स्त्रीकृतन्तथेति॥

पतिपुत्राभ्यां कृतं ऋणं क्रमेण योषिद्भार्या माता च न दद्यात्। तथा पुत्त्रेण कृतम्पिता न दद्यात्। तथा भार्याकृतम्पतिः। कुटुम्बार्थादृत इति सर्वान्वयि। तथा च कुटुम्बिनाकुटुम्बार्थं येन केनापि कृतन्देयमित्यर्थः। नारदोऽपि।

न स्त्रीपति कृतं दद्यादृणं पुत्रकृतन्तथेति।

विष्णुरपि। न स्त्रीपतिपुत्त्रकृतं न स्वीकृतम्पतिपुत्त्राविति।पुत्रेण कृतम्पितानेत्यस्यापवादं क्वचिदाह बृहस्पतिः।

ऋणं पुत्रकृतं पित्रा शोध्यं यदनुमोदितम्।
सुत स्नेहेन वा दद्यान्नान्यथा दातुमर्हतीति॥

कात्यायनोऽपि। ऋणं पुत्रकृतम्पित्रान देयमिति धर्मतः।

देयं प्रतिश्रुतं यत् स्याद्यश्चस्यादनुमोदितमिति॥

प्रतिश्रुतं अनुज्ञातम्। अनुमोदितमृणं करणानन्तरमङ्गीकृतं यत्पुत्रेणापदुद्धारार्थं कृतन्तदपि देय मित्याह नारदः।

पितुरेव नियोगाद्वाकुटुम्बभरणाय वा।
कृतं वा यदृणं कृच्छ्रेदद्याद्पुत्त्रस्य तत्पितेति॥

न योषित्पतिपुत्राभ्यामित्यस्यापवादमाह।

कात्यायनः।भर्ता पुत्रेण वा सार्द्धंकेवलं वात्मना कृतम्।
ऋणमेवंविधन्देयं नान्यथा तत्कृतं स्त्रिय इति॥
भर्त्रा पुत्रेण वा सार्द्धंकृतमृणन्तयोरभावे देयम्।

स्वयं कृतन्तयोर्भावेऽपि देयमित्यर्थः। अतएव स ए वाह।

देयम्भार्याकृतमृणं भर्त्रा पुत्रेणमातृकम्।
भर्त्रस्यार्थेकृतं यत् स्यादविधाय गते दिशमिति॥

अविधाय अनपाकृत्यदिशङ्गते मृते सतीत्यर्थः।
याज्ञवल्क्योऽपि। प्रतिपन्नं स्त्रिया देयम्पत्या वा सह यत्कृतम्।
स्वयं कृतं वा यदृणं नान्यत् स्त्री दातु मर्हतीति॥

प्रतिपन्नं देयत्वेनाङ्गीकृतम्। तद्रिक्थग्रहणेऽनङ्गीकृतमिति देयमित्याह। कात्यायनः।

भर्त्तुकामेन या भर्ता उक्ता देय मृणन्त्वया।
अप्रपन्नापि सा दाप्या धनं यद्याश्चित्तंस्त्रिया इति।

न पतिः स्वीकृतन्तथेत्यस्यापवादमाह।याज्ञवल्क्यः।

गोपशौण्डिकशैलूष रजक व्याधयोषिताम्।
ऋणं दद्यात्पतिस्तासां यस्माद्वृत्तिस्तदाश्रयेति॥

शैलूषो नटः। वृत्तिर्जीवनम्। गोपादिग्रहणं पत्न्याधीनजनानान्तैलिकादीनामुपलक्षणम्।कात्यायनोऽपि।

शौण्डिक व्याधजनक गोपनाविकयोषिताम्।
अधिष्ठाता ऋणन्दाप्यस्तासाम्भर्त्रक्रियासु तदिति।

अधिष्ठाताचपतिरेव। भर्त्तृक्रियासु तत्। यतो भर्त्तुःकर्त्तव्येषु प्रयोजनेषु तदृणं जातन्तासामित्यर्थः भार्य्यया आपदुद्धारार्थंयत्कृतन्तदपि देयमित्याह। स एव।

न च भार्याकृतमृणं कथञ्चित्पत्युराभवेत्।
आपत्कृनादृते पुंसांकुटुम्बार्थे हि विस्तरः।
अन्यत्र रजकव्याधगोपशौण्डिकयोषिताम्॥
तेषान्तु तत्परा वृत्तिः कुटुम्बञ्च तथाश्रयमिति॥

आपदद्देयम्भवेदित्यर्थः। न स्त्रीभर्तृकृतं ऋणं दद्यादित्यस्यापवाद माह।नारदः।

दद्यादपुत्राविधवा नियुक्ता या मुमूर्षुणा।
या वा तद्रिक्थमादद्याद्यतो रिक्थमृणन्तत इति॥

मातृकृतमृणं पुत्रेण देयमित्याह विष्णुः। पैतृकमविभक्तमातृकञ्च।विभक्ताश्च दायानुरूपमिति दद्युरित्यनुषङ्ग।मातुर्दैर्घ्येऽपि निर्धनायास्तस्या ऋणं पुत्रेण दातव्यमित्याहनारदः।पुत्रिणी तु समुत्सृज्य पुत्रस्त्री याऽन्यमाश्रयेत्।

तस्या ऋणं हरेत् सर्वन्निःस्वायाः पुत्र एवत्विति॥

अन्यं भर्त्तारमितिशेषःतस्या एवसधनत्वे कात्यायनआह। बालपुत्रधिकार्थाया भर्त्तारं यान्यमाश्रिता।

आश्रितस्तदृणं दद्यादालपुत्त्राविधिः स्मृतः॥

यदृणं कुटम्बपोषणार्थमविभक्तैःकृतन्तत्तद्दानाधिकारिणिकुटुम्बिनि प्रेते देशान्तरगते वा तद्रिक्थहरैर्देयमिति। याज्ञवल्क्यआह।

अविभक्तैः कुटुम्बार्थे यदृणन्तु कृतम्भवेत्।
दद्युस्तद्रिक्थिनःप्रेते प्रोपिते वा कुटुम्बिनीति॥

तत्रापि केषाञ्चिदभावे यस्तिष्ठति स एव दद्यात्। तथा चविष्णुः।

अविभक्तैः कृतमृणं यस्तिष्ठति स दद्यादिति।

अविभक्तैरिति बहुवचनं पूर्वत्राविवक्षितम्। तथा च नारदः।

पितृव्येणाविभक्तेन मात्रावा यदृणं कृतम्।
मात्रा वा यत्कुटुम्बार्थेदद्युस्तत्सर्व रिक्थिन इति॥

ऋणकर्त्तुः प्रेते प्रोपिते वेति शेषः। तस्मिन् प्रधानभूतेस्थिते सत्येतेषां गुणभूताना मृणदानानधिकारात्। अतएवमनुः।

ग्रहीता यदि नष्टःस्यात् कुटुम्बार्थे कृतो व्ययः।
दातव्यंबान्धवैस्तत्प्यात्प्रविभक्तैरपि स्वत इति॥

ऋणस्य ग्रहीता पितृव्यादिर्यदि नष्टं प्रोषितो मृतो वा

स्यात्। तदा तद्रिक्थिभिर्विभक्तैस्तत्कुटुम्बव्ययकृतमृणन्दातव्यंस्वतः किमुताविभक्तैरित्यर्थः। एवं वृत्तिकारेण व्याख्यातम्।अस्मिन् व्याख्याने वचनान्तरे वृथैवाविभक्तग्रहणं स्यादितिमहाभाष्यकारेण प्रविभक्तधनैःपितृव्यादिभिःस्वधनाद्दातव्यमित्यर्थः। कृतमिति स्मृतिचन्द्रिकायाम्। एतच्च ऋणप्रतिदानं उत्तमर्णाभावे तत्पुत्रादिषु कर्त्तव्यन्तेषामभावेतत्सगोत्रेषु तेषामभावे तद्बन्धुषु मातुलादिष्वित्याह नारदः।

ब्राह्मणस्य तु यद्देयं सान्वयस्य न चास्ति सः।
निर्वपेत्तत्सकुल्येषु तदभावेऽस्य बन्धुष्विति॥

ब्राह्मणग्रहणमुत्तमर्णोपलक्षणार्थम्। अन्वयः पुत्रसन्ततिःदुहितसन्ततिश्च। बन्धूनामभावे त्वाह स एव।

यदा तु न सकुल्याः स्युर्न च सम्बन्धिबान्धवाः।
तदा दद्याद्विजेभ्यस्तु तेष्वसत्स्वप्सुनिःक्षिपेदिति॥

प्रजापतिरपि। बन्धभावे तु विप्रेभ्यो देयं क्षेप्यञ्जलेऽपि वा।
जले क्षिप्तन्तथाग्नौ चधनं स्यात्पारलौकिकमिति॥

अग्नौ हुतमिति शेषः। न तु क्षिप्तमित्यस्यानुषङ्गः। अतएवोक्तं स्मृतिसङ्ग्रहे।

द्रव्यं यत्वधमर्णस्य क्वचिद्ब्राह्मणगम्भवेत्।
सुतादिब्राह्मणान्तानां रिक्थभाजामसम्भवे॥
पलाशस्य पलाशेन जुहुयान् मध्यमेन तु।
यत्कुसीदमिति प्राप्स्येदथ वार्य्येव तद्धनमिति॥

मन्त्रस्य होमेनैव सम्बन्धो न तु प्रक्षेपेण मध्यमेन पर्णेनजुहुयात्। कुसीदमितीति गोभिलेन होमसम्बन्धित्वेनैव

स्मृतत्वात्। यस्तृणप्रतिदानकाले समग्रं सवृद्धिकं मूलन्दातुमसमर्थस्तं प्रत्याह याज्ञवल्क्यः।

लेख्यस्य पृष्ठेऽभिलिखेद्दत्त्वादत्वर्णिको धनम्।

धनी वोपगतं दद्यात् स्वहस्तपरिचिह्नितमिति॥

अयमर्थःयथा शक्त्या दत्त्वादत्त्वैतावत्सवृद्धिकं मया दत्तमिति मूलपत्रस्य पृष्ठे लिखेत्। यद्वाउत्तमर्ण एतावन्मया लब्धमिति स्वहस्ताक्षरचिह्नितंयथा भवति तथामूलपत्रे लिखेत् स्वहस्तलिखितमुपगताख्यं प्रवेशपत्रं वाधमर्णाय दत्तन्दद्यादिति। एतच्च प्रवेशपत्रदानं मूलपत्रासन्निधानविषयम्। अतएवाह विष्णुः। असमग्रदाने लेख्यामन्त्रिधाने चोत्तमर्णःस्वलिखितं दद्यादिति प्रवेशपत्रादाने त्वाह।नारदः। गृहीत्वोपगतं दद्यादृणिकायोदयन्धनी।

अदद्यान्यमानश्च शेषहानिमवाप्नुयादिति॥

उदयमृणिकदत्तधनम्।उदयं गृहीत्वेत्यन्वयः। एतच्च शेषत्वाल्पस्य विषयम्।बाहुल्ये तु धर्मादिनोद्ग्राह्यम्। ऋणं यस्तूपरि न लेख्ययेत् न चैवोपगतन्दद्यात्तस्य तद्वृद्धिमाप्नुयात्। इति बृहस्पत्युक्तोत्तमर्णस्य गृहीतांशवृद्धिदानमेव। ऊदयं गृहीत्वा ऋणसमग्रमिति शेषः। ऋणाप्रतिदाने अनिष्टमाह व्यासः।

तपस्वी वाग्निहोत्री वा ऋणवान् म्रियते यदि।

तपश्चैवाग्निहोत्रञ्च सर्वन्तद्धनिनो भवेदिति॥

तेनावश्यमृणमपाकरणीयमित्याशयः। अनेनैवाशयेन कात्यायनोऽप्याह।

**उद्धारादिकमादाय स्वामिने न ददाति यः। **

स तस्य दासो भृत्यः स्त्रीपशुर्वाजायते गृहे इति।

आदिशब्देन निःक्षेपादीनां ग्रहणम्। स दासः क्रीतः। भृत्यःवैतनिक इति तयोर्भेदः। नारदोऽपि।

याच्यमानं न दद्याद्यदृणं वापि प्रतिग्रहम्।
तद्द्रव्यं वर्द्धते तावद्यावत्कोटिशतम्भवेत्॥
ततः कोटिशते पूर्णे वेष्टितस्तेन कर्मणा।
अश्वःखरो वृषो दासोभवेज्जन्मनि जन्मनि इति॥

प्रतिग्रहःप्रतिश्रुतम्। लेख्यारूढप्रतिदानानन्तरकर्त्तव्यमाह याज्ञवल्क्यः।

दत्त्वर्णं पाटयेल्लेख्यं शुद्ध्यैवान्यत्तु कारयेदिति।

लेख्यं मूलपत्रम्। शुद्ध्यै ऋणापाकरणार्थम्। अन्यद्विशुद्धिपत्रं वोत्तमर्णाद्गृह्णीयादित्यर्थः। मूलपत्रासन्निधाने कथञ्चिद्विशुद्धिपत्रासम्भवे किं कर्त्तव्यमित्यपेक्षिते नारद आह।

लेख्यं दद्याद्विशुद्धर्णे तदभावे प्रतिश्रवः।
धनिकर्णिकयोरेवं विशुद्धिःस्यात् परस्परमिति॥

प्रतिश्रवः प्रतिदानं कृतमिति साक्षिभिः श्रावणं साक्षिमदृणप्रतिदातारं प्रत्याह याज्ञवल्क्यः।

साक्षिमच्चभवेद्यद्वातद्दातव्यं ससाक्षिकमिति।

ससाक्षिकमृणं पूर्वसाक्षिणां समक्षन्तेषां कथञ्चिदसम्भवे साक्ष्यन्तरमसमक्षं वा दातव्यमित्यर्थः। उत्तमर्णेन साक्ष्यादिभिः साधितमृणं दापितवतो राज्ञोऽधमर्णाद्दण्डग्रहणमुत्तमर्णाद्भृतिग्रहणञ्चाह स एव।

राज्ञाऽधमर्णिको दाप्यः साधिताद्दशकं शतम्।
पञ्चकञ्च शतं दाप्यःप्राप्तार्थो ह्युत्तमर्णिक इति॥

अधमर्णात् साधितार्थस्य यो दशमोंऽशस्तावद्द्रव्यंदण्ड-

त्वेन गृह्णीयात्।उत्तमर्णात्तु साधितार्थस्य विंशतितममंशं भृतित्वेनेत्यर्थः। अतएव विष्णुः। उत्तमर्णश्चेद्राजानमियात्तस्तद्विभावितेऽर्थेऽधमर्णो राज्ञे धन दशमभागत्तमन्दण्डंदद्यात्। प्राप्तार्थश्चोत्तमर्णो विंशतितममंशमिति तद्विभावितउत्तमर्णेन साधिते सति। यत्तु मनुवचनम्।

यो यावन्निह्नुवीतार्थं मिथ्या वा यावती वदेत्।
तौ नृपेण ह्यधर्मज्ञौ दाप्यौ तद्द्विगुणन्दममिति॥

तद्वहुधनाति दुर्वृत्ताधमर्णोत्तमर्णविषयम्। यावन्निह्नुवीत यावती मिथ्या वा वदेत्मयैतावद्दत्तमित्यसत्यं वदेत्तावुभावपि तावतो धनस्य द्विगुणं धनं दण्ड्यावित्यर्थः। यत्पुनस्तस्यैव वचनं अर्थेऽपव्ययमानन्तु कारणेन विभावितम्।

दापयेद्धनिकस्यार्थं दण्डलेशञ्च शक्तित इति।

तद्दशमांशदानासमर्थ सद्वृत्ताधमर्णविषयम्। अपव्ययमानमपलपन्तं यस्तु प्रभुत्वाद्यवले पादुत्तमर्णेन याचितस्तदाऽसम्प्रतिपद्य राजसभायामानीतः स्वयमेवस्वयमेव सम्प्रतिपद्यतेसोऽभियुक्तार्थस्य विंशतितममंशं दण्डनीय इत्याह नारदः।

ऋणिकः सधनो यस्तु दौरात्म्यान्नप्रयच्छति।
राज्ञा दापयितव्यः स्याद्गृहीत्वांशन्तु विंशक मिति।

मनुरपि।

ऋणे देये प्रतिज्ञाते पञ्चकं शतमर्हति।
अपह्नवे तद्द्विगुणं तन्मनोरनुशासन मिति॥

यःपूर्वमप्रतिपद्य राजसभायामानीतोऽधमर्ण ऋणं देयतयाप्रतिजानीते सत्यमस्मैधारयामीति सपञ्चकं शतमर्हतिदातुमिति शेषः।यस्तु सभायामप्यपह्नते नाहमस्मै धार-

यामीति पश्चादङ्गीकरोमीति स तद्द्विगुणम्प्रतिपादितं पञ्चकशताद्द्विगुणं दशदण्डमर्हती-त्यर्थः। यस्तु याज्ञवल्क्यवचने।

निह्नवे भावितो दद्याद्धनं राज्ञेच तत्समम्।
मिथ्याभियोगी द्विगुणमभियोगाद्धनं हरेदिति॥

अपलपितुःसमदण्ड उक्तः स द्विगुणधनदानासमर्थदुर्वृत्ताधमर्ण विषयः। अन्यथा निह्नवे द्विगुणदण्ड प्रतिपादकयोःयावन्निह्नुवीतार्थमिति पूर्वोदाहृतमनुवचनविरोधःस्यात्।अभियोगादभियुक्तधनात्।

मिथ्याभियोगी द्विगुण मभियोगाद्धनं हरेत्।
कारणे विधिरेषःस्याज्जितस्यै कतरस्य तु॥
प्राङ्न्यायवादे च तथा यश्चासत्येन युज्यत इति।

व्यास वचनविरोधश्च स्यात्। कारणे कारणोत्तरे। असत्येन मिथ्योत्तरेण प्रत्यवस्कन्दने प्राङ्न्याये मिथ्योत्तरे चवादिप्रतिवादिनोर्मध्ये यस्यैकरतस्य पराजयस्तस्यापि पूर्वोक्तेन द्विगुणोदण्ड इत्यर्थः। यत्तु मिताक्षरायाम्। मिथ्योत्तरेऽपह्नोतुः पराजये समोदण्डः, मिथ्याभियोक्तुर्द्विगुणो दण्डःएवम्प्राङ्न्याये प्रत्यवस्कन्दने चार्थिनोऽपह्नववादित्वात् प्रत्यर्थिना प्राङ्न्यायकारणमाधने प्रकृतधने प्रकृतधन एव दण्डःयदि प्रत्यर्थी प्राङ्न्यायकारणेन साधयति यदा स मिथ्याभियोग्येवेति तस्य द्विगुणो दण्ड इत्युक्तन्तत्पूर्वोक्तव्यास वचनविरोधादिभावनीयं विद्वद्भिरिति। इत्युणादानाख्य व्यवहारपदम्। अथनिःक्षेपाख्यव्यवहार पदम्।तत्रनिःक्षेपोनाम स्वद्रव्यस्य विश्वासेन पुरुषान्तरे स्थापनम्। तथा च नारदः।

स्वद्रव्यं यत्र विस्रम्भान्निःक्षिपत्यविशङ्कितः।
निःक्षेपो नाम तत्प्रोक्तं व्यवहारपदं बुधैरिति॥

न च न्यासोपनिध्योरतिव्याप्तिस्तयोर्लक्ष्यत्वान्निःक्षेप एव।ग्राहकस्यासमक्षं समर्पितो न्यास इत्युच्यते। अतएव बृहस्पतिः।राजचौरादिक भयाद्दायादानां च वञ्चनात्।

स्थाप्यतेऽन्यगृहे द्रव्यं न्यासः स परिकीर्त्तित इति।

अयमेवागणित द्रव्यस्थापने उपनिधिरित्युच्यते। तथा च नारदः।

असङ्ख्यातमविज्ञातं समुद्रं यन्निधीयते।
तज्जानीयादुपनिधिं निःक्षेपङ्गणितं विदुरिति॥

असङ्ख्यातं अदर्शितं अविज्ञातं अनाख्यातम्। अतएव बृहस्पतिः।

अनाख्यात व्यवहितमसङ्ख्यातमदर्शितम्।
मुद्राङ्कितञ्च यद्द्रव्यं तदौपनिधिकं स्मृतमिति।

व्यवहितं करण्डकादौ प्रक्षिप्य पिहितम्। अतएवयाज्ञवल्क्यः। वासनस्थमविज्ञातं हस्तोऽन्यस्य यदर्प्यते।

द्रव्यन्तदौपनिधिक प्रतिदेयन्तथैव तदिति॥

वासनं द्रव्याधारनीतं करण्डकादि तत्स्थंवासनस्थम्।हस्तग्रहणमुपलक्षणम्। अत एव नारदः।

निःक्षिप्यते परगृहे तदौपनिधिकं स्मृतमिति।

तथाचायमेतेषाम्भेदः। ग्राहकस्य समक्षं गणयित्वा स्थापितं निःक्षेपः।गृहस्वामिनोऽसमक्षं गणितं वा तस्मिन्नागते एतद्दातव्यमित्युक्त्वाऽन्यस्य तत्पुत्रादेर्हस्तेदत्तंन्यासःमुद्राङ्कितं समक्षगणितं स्थापितमुपनिधिरिति। निःक्षेपादीनां स्थापन प्रकारमाह मनुः।

कुलजे वृत्त सम्पन्ने धर्मज्ञे सत्यवादिनि।
महापक्षे धनिन्यार्य्ये निःक्षेपं निःक्षिपेद्बुध इति॥

महापक्षे बहुतरबन्धुयुक्ते।निःक्षेप ग्रहण मुपलक्षणम्। बृहस्पतिः। स्थानं गृहञ्च तद्वर्णं विधानञ्च गुणन्तथा।

सत्यं शौचम्बन्धुजनं परीक्ष्य स्थापयेन्निधिमिति॥

निधिरुपनिधिः। एतदप्युपलक्षणम्। निःक्षेपादीनांरक्षणं कर्त्तव्यं ग्राहकेणेत्याह। बृहस्पतिः।

ससाक्षिकं रहोदत्तं द्विविधं समुदाहृतम्।
पुत्रवत्परिपाल्य तद्विनश्यत्यनवेक्षणे इति॥
पालयितुः फलमपालयितुर्दोषञ्चाह।
ददतो यद्भवेत्पुण्यंहेमकूप्यां वरादिकम्।
तस्मात्पालयतो न्यासं यथैव शरणागतम्।
भर्त्तृद्रोहं यथा नार्याः पुसः पुत्रसुहृद्वधे।
दोषो भवेत्तथा न्यासे भक्षितोपेक्षिते नृणाम्॥
न्यासद्रव्यं न गृह्णीयात्तन्त्राशस्वयशस्करः।
गृहीतं पालयेद्यत्नात् सकृद्याचितमर्पयेदिति॥

न्यासग्रहणमुपलक्षणम्। तेन फलभृत्यादिकं निःक्षेपादित्रयसाधारणमिति मन्तव्यम्। दैवराजोपघाते ग्राहकस्यन दोष इत्याह बृहस्पतिः।

दैवराजोपघाते न यदि तन्नाशमाप्नुयात्।
गृहीतद्रव्य सहितं न तद्दोषो न विद्यत इति॥

ग्रहीतु रिति शेषः उपेक्षादिद्र्व्यदोषाभावादिति भावः।गृहीत द्रव्यसहितमित्युपेक्षाभावनिश्चयोक्तम्। तेन कथञ्चिन्निःक्षिप्तमात्रस्य विनाशे प्रमाणान्तरादुपेक्षाभावे निश्चितेग्र-

हीतुर्दोषो न विद्यते इति मन्तव्यम्। दैवराजग्रहणमसमाधेयम्। निमित्तोपलक्षणार्थं। अतएव कात्यायनः।

राजदैविकचौरैर्वा निःक्षिप्तं यत्र नाशितम्।
ग्रहीतुः सह भाण्डेन दातुर्नष्टन्तदुच्यत इति।

भाण्डेन अर्थेन। नारदोऽपि।

ग्रहीतुः सह योऽर्थेन नष्ट एव स दायिनः।
दैवराजकृते तद्वन्न चेत्तज्जिह्मकारितमिति॥

तद्वदिति पदेनैक मुपमेयमन्यदुपमानमित्यवगम्यते। तेनैव योजना ग्रहीतुरर्थे सह यो नष्टःसदायिन एव एवन्दैवराजकृते यो नष्टःसोऽपि दायिन एव नष्ट इति दैवग्रहणन्तस्करोपलक्षणम्। अतएव याज्ञवल्क्यः।

न दाप्योपहतन्तत्तु, राजदैविकतस्करैरिति॥

दैविकपदस्यार्थो विवृतोमनुना।

चौरैर्हृतञ्जलेनोढमग्निना दग्धमेव वा।
न दद्याद्यदि तस्मात्स्वं न संहरति किञ्चनेति।

यदि तस्मान्निःक्षेपादल्यमपि धनन्नसंहरति न गृह्णातितर्हि न दद्यादित्यर्थः। तथा च स एव।

समुद्रे नाप्नुयात्किञ्चिद्यदि तस्मान्न संहरेदिति॥

क्वचिद्येन केनचिद्धेतुना नष्टमपि ग्रहीता मूलद्वारेण नदाप्यइत्याह।कात्यायनः।

ज्ञात्वा द्रव्य वियोगन्तु दाता यत्र विनिःक्षिपेत्।
सर्वोपायविनाशेऽपि ग्रहीता नैव दाप्यते इति॥

निःक्षेपग्रहीतारं प्रत्याह कात्यायनः।

निःक्षिप्तं यस्य यत्किञ्चित् तत्प्रयत्नेन पालयेत्।
देवराजकृतादन्यो विनाशस्तस्य कीर्त्त्यत इति॥

यस्य पार्श्वे यत् स्थापितन्तत्तेनावहितेन रक्षणीयम्।यतो दैवराजकृतादन्यो विनाशस्तस्यग्राहकस्य दोषेण कृतत्वेन कीर्त्त्यते इत्यर्थः। न केवलन्दुष्कीर्त्तिरेव तस्य किन्तु विनाशे जाते वस्तुगत्या दोषो बह्वर्थहानिश्चेत्याह स एव।

यस्य दोषेण यत्कञ्चिद्विनश्येत ह्रियेत वा।
तद्द्रव्यं सोदयन्दाप्यो दैवराजकृताद्विनेति॥

दोषःउपेक्षादिलक्षणः। बृहस्पतिरपि।

भेदेनोपेक्षया न्यासं ग्रहीता यदि नाशयेत्।
याच्यमानो न दद्याद्वादाप्यन्तत्सोदयम्भवेदिति॥

कात्यायनोऽपि। न्यासादिकं परद्रव्यं प्रभक्षितमुपेक्षितम्।
अज्ञाननाशितञ्चैव येन दाप्यः स एव तदिति॥

अत्र विशेषमाहतु र्व्यासकात्यायनौ।

भक्षिते सोदयन्दाप्यः समन्दाप्य उपेक्षिते।
किञ्चिदूनं प्रदाप्यं स्याद्द्रव्यमज्ञाननाशितमिति॥

किञ्चिदूनञ्चतुर्थांशन्यूनमिति मिताक्षरायाम्। याचनानन्तरमदत्तस्य पश्चाद्दैवराजकृतेऽपि विनाशे स्थापकं यन्मूल्यमात्रं दातव्यमित्याह व्यासः।

याचनानन्तरं नाशे दैवराजकृतेऽपि सः।
ग्रहीता प्रतिदाप्यःस्यान्मूल्यमात्रन्तुसंशय इति॥

प्रत्यर्पणविलम्बमात्रापराधे सवृद्धिकदानस्यान्याय्यत्वात्।

राज्ञेच तत्समो दण्डो देय इत्याह नारदः।
याच्यमानस्तु यो दातुर्निःक्षेपन्न प्रयच्छति॥

दण्ड्यःस राज्ञो भवति नष्टे दाप्यश्च तत्सममिति॥

नष्टे दैवतो राजतो वेतिशेषः। याज्ञवल्क्योऽपि।

भ्रंशश्चेन्मार्गितेऽदत्ते दाप्यो दण्डञ्च तत्सममिति।
मार्गिते याचितेऽदत्ते सति यदि भ्रंशो दैवराजकृतो

नाशो भवति तथापि तद्द्रव्यं मूल्यपरिकल्पनेन।

धनिने ग्राहको दाप्योदण्डो राज्ञे चतत्समम्।

दण्डमित्यर्थः। यः पुनःस्थापकाननुज्ञया निःक्षेपमुपभुङ्क्तेतस्य दण्डमाह नारदः।

यत्रार्थं साधयेत्तेन निःक्षेपे त्वननुज्ञया।
तत्रापि दण्ड्यःस भवेत्तञ्च सोदयमावहेदिति॥
दण्ड्यःसाधितद्रव्यानुसारेण। याज्ञवल्क्योऽपि।

आजीवन् स्वेच्छया दण्ड्योदाप्यस्तञ्चापि सोदयमिति।

आजीवन् भोगवृद्ध्यर्थप्रयोगादिना उपजीवन् स्वेच्छया स्वाम्यननुज्ञया वृद्धिप्रमाणञ्चाह कात्यायनः।

निःक्षेपं वृद्धिशेषञ्च क्रयविक्रयमेव च।
याच्यमानं न चेद्दद्यात्वर्द्धते पञ्चकं शतमिति॥

निःक्षेपहर्त्तारम्प्रत्याह विष्णुः। निःक्षेपापहारी वृद्धिसहितन्धनं धनिकस्य दाप्यः। अथ दण्डमाहमनुः।

निःक्षेपस्यापहर्त्तारं तत्समन्दापयेद्धनम्।
तथोपनिधिहर्त्तारमविशेषेण पार्थिवः॥

निःक्षेपापह्नेवेकर्त्तव्यमाह व्यासः।

निःक्षेपन्त्रिह्नुतेयस्तु नरो बन्धुबलान्वितः।
साक्षिभिर्वाथ द्रव्येण विभाव्य प्रतिदाप्यते॥

दण्डमाह बृहस्पतिः।

गृहीत्वापह्नु ते यत्र साक्षिभिः शपथेन वा।
विभाव्य दापरोन्मासं तत्ममं विनयन्तथेति॥

विनयं दण्डससाक्षिकनिःक्षेपादौ स्थापकस्यानृतवादिलेसाक्षिभ्योयथा स्थितमर्थमवगत्य दण्डनीयः स राजेत्याह।मनुः।

निःक्षेपो यः कृतो येन यावांश्च कुलसन्निधौ।
तावानेव स विज्ञेयो विव्रुवन् दण्डमर्हतीति॥

कुलं साक्षिवृन्दम्।असाक्षिके त्वाह बृहस्पतिः।

रहोदत्ते निधौ यत्र विसम्बादः प्रजायते।
विभावकन्तत्रदिव्य मुभयोरपि च स्मृतमिति॥

उभयोर्मध्ये एकस्येत्यर्थःउभयग्रहणं रुच्या वान्यतरःकुर्यादित्ययमेव पक्षेयथा स्यादिति। गृहीतृस्थापकयोरनृतवादित्वे दण्डमाह मनुः।

निःक्षेपस्यापहर्त्तार मनिःक्षेप्रारमेव च।
सर्वैरुपायैरन्विच्छेच्छपथै श्चैव वैदिकैः॥
यो निःक्षेपंनार्पयति यश्चानिःक्षिप्य याचते।

उभौ तौ चौरवच्छास्यौ दाप्यो वा तत्समं दममिति। चौरवच्छास्यौ चौरवद्दण्यौ चौरवहण्डेन दण्ड्यावितियावत्। दण्डस्य प्रमाणमाह म इत्युक्तं मनुवृतौ। यस्तुमत्यपुराणे। यो निःक्षेपं नार्पयति यश्चानिः क्षिष्य याचते।

तावुभौ चौरवच्छास्यो दाप्यौ च द्विगुणं दममिति।

द्विगुणो दण्ड उक्तः। सदुर्वृत्तविषयोब्राह्मणातिरिक्तविषयो वा। अन्यथासमदण्डप्रतिपादकमनुवचनविरोधःस्यादिति।निःक्षिप्तं द्रव्यमकाले ददतो द्विगुणोदम इत्याह।

कात्यायनः। ग्राह्यस्तूपनिधिः काले कालहीनन्तु वर्जयेत्।

कालहीने ददद्दण्डं द्विगुणञ्च प्रदापयेदिति॥

ग्राह्यः निःक्षेपकारिणेतिशेषः यज्ञयादुपनिधिरन्यस्यहस्तन्यस्त स्तद्भयातीते काले स ग्राह्य इत्यर्थः। यज्ञयातीतेतिकालेस्वयमेव नायाचितमर्पणीयम्। सकृद्याचितमर्पयेदिति वृहस्पतिस्मरणात्। तद्भये वर्त्तमाने स्वयमेवायाचितन्दीयमानं कालहीनन्तस्य दानन्दौक्ष्येनैवेति तद्ददतोऽपिदण्डोयुक्तः। प्राड्विवाकं प्रत्याह मनुः।

यो निःक्षेपं याच्यमानो निक्षेप्तुर्न प्रयच्छति।
स याच्यः प्राड्विवाकेन तन्निःक्षेप्तुरसन्निधौ।
स यदि प्रतिपद्येत यथान्यतं यथाश्रितम्।
न तत्र विद्यते किञ्चिद्यत्परेणाभियुज्यत इति॥

यदा तु न प्रतिपद्येत तदा राजानं प्रत्याह स एव।

तेषां न दद्याद्यदि तु तद्धिरण्यं यथाविधि।
द्वयन्निगृह्य दाप्यः स्यादिति धर्मस्य धारणा।
निःक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य च।
राजा विनिर्णयं कुर्य्या दक्षिण्वन्न्यासधारिणमिति।

तेषां अभियोक्तृणाम्। द्वयं द्विगुणम्। निगृह्य दण्डयित्वा अक्षिण्वन् अताडयन्। निःक्षेप ग्रहीतारं प्रत्याह। बृहस्पतिः।

स्थापितं येन विधिना येन यच्च यथाविधि।
तथैव तस्य तद्देयं न देयं प्रत्यनन्तर इति॥

स्थापितेतरस्य यस्य स्थापितद्रव्यस्वाम्यमस्ति व इहप्रत्यनन्तर उच्यत इति स्मृतिचन्द्रिकायां प्रत्यनन्तरे पुत्रादाविति कल्पतरौ स्थापक प्रत्याह मनुः।

यो यथा निःक्षिपेद्धस्ते यमर्थं यस्य मानवः।
स तथैव ग्रहीतव्यो यथा दायस्तथा ग्रहः॥
मिथोदायः कृतो येन गृहीतो मिथ एव वा।
मिथ एव प्रदातव्यो यथा दायस्तथा ग्रहंः॥
समुद्र नाप्नु यात् किञ्चिद्यदि तस्मान्न संहरोदिति॥

दायो दानं स्थापनमिति यावत्।ग्रहग्रहणं मिथःअन्योन्यमेव एतदुक्तम्भवति। सत्याक्षिप्तेन स्थापितम्।साक्षिसमक्षं गृहीतव्यम्। रहसि स्थापितं रहस्यवेति। समुद्रे मुद्रासहित निःक्षेपे मूषकादिमोपहते निःक्षेपं स्थापयित्वा न किञ्चिहूषणमाप्नुयात्। यदि तस्मान्निःक्षेपात् प्रतिमुश्रावणादिना नापहरेत्किञ्चिदित्यर्थः। स्थापयितु र्मरणेप्रत्यनन्तरे तद्देयमित्याह स एव।

स्वयमेव तु यो दद्यान्मृतस्यं प्रत्यनन्तरे।
न स राज्ञाऽभियोक्तव्यो न निःक्षेप्तुश्च बन्धुभिरिति।

अनेन वचनेन वचोभङ्ग्या स्थापके मृते प्रत्यनन्तरे प्रत्यर्पणं ग्राहकेण कार्य्यमित्युक्तम्। स्वयमेव याचनमन्तरेणत्यर्थः। याचनमन्तरेण दानम्मयादिकालोपाये मन्तव्यम् अन्यथादोषापत्तेः। प्रत्यनन्तर बहुत्वे तु नैकस्मिन् प्रत्यनन्तरे।देयं किन्तुकिन्तु सर्वप्रत्यनन्तरसन्निधाविति न निःक्षेप्तृबन्धुभिरभियोतव्य इत्यनेन सूचयाम्बभूव। यदा तु ग्राहकःस्वयमेव नतुददाति तदा प्रत्यनन्तरङ्गर्त्तव्यमाह।स एव।

अच्छलेनैव चान्विच्छेत्तमर्थं प्रीतिपूर्वकम्।
विचार्य्य तस्य वा वृत्तं सान्दैव परिसाधयेदिति॥

अन्विच्छेत् अवधारयेत्परिसाधनं ग्राहकसकाशादादानन्तद्ग्राहकवृत्तिं विचार्य्य स तद्वद्ग्राहक विषये साम्मैव कार्य्यंनभयादिप्रदर्शनेन । दुर्वृत्तग्राहकविषये तु ऋणादानप्रकरणोक्तेन भयादिप्रदर्शनाद्युपायान्तरेण छलादिना कार्य्यमित्यस्मादेव वचनादवगम्यते । तथा सद्वृत्तेविपतिपन्नेभूतानुसारेण साधयितु मशक्ये साक्ष्याद्यभावे प्रत्यनन्तरादिनासाधयेत्। दुर्वृत्ते तु विप्रतिपन्ने छलादिना परिहरेदिति वास्मादेव बचनादवगम्यते । सद्वृत छलादिप्रयोगवच्छपथेनशोधनस्याप्यनुचितत्वात्। ग्राहके तु मृते पश्चाद्यटधीनं निःक्षेपादि जायते तेनैव स्थापके प्रत्यनन्तरे वा प्रत्यर्पणीयमित्यति स्थूलत्वात् स्मृतिकारैरुपेक्षित मित्यस्मादृणकारणमुन्नेयं यदि ग्राहकवदसौ स्वयं न ददाति तदा स्थापकःप्रत्यनन्तरो वा पूर्वोक्तमार्गेणान्विच्छेत् सम्प्रतिपन्न पूर्वोक्तेन प्रकारेण परिग्रहं साधयेदित्येतदपि स्मृतिकारै रुपेक्षितं ज्ञातुमशक्यत्वादिति स्मृतिचन्द्रिकायाम्। निक्षेपेऽभिहितन्त्रर्मं याचितादिष्वतिदिशति नारदः।

एष एव विधिर्दृष्टो याचितान्वाहितादिषु।
शिल्पिषूपनिधौ न्यासे प्रतिन्यासे तथैब चेति॥

याचितं उत्सवादिषु परकीयमलङ्कारादि याचित्वा समानीतम्। अन्वाहितं स्वस्मिन् स्थितम्परधनमन्यहस्ते कृतं शिल्पिषु शिल्पिन्यासे कुण्डलादिकरणाय स्वर्णकारादिहस्तन्यस्तसुवर्णादावित्यर्थः। प्रतिन्यासे मिथः कार्य्यापेक्षया त्वदीयमेतन्मया स्थाप्यते मदीयमेतत् त्वया स्थापनीयमिति स्थापिते ना-

रहेन निःक्षेप एव विध्युपदेशादुपनिधिन्यासयो स्वदतिदेशः।
याज्ञवल्क्योऽपि।

याचितान्वाहितन्यास निःक्षेपादिष्वयं विधिरिति॥

यद्यपि स्मृत्यन्तरे न्यासनिःक्षेपयोर्विधिरुपदिष्ट स्तथाप्यस्यां स्मृतौ नोपदिटा इत्युपनिधिधर्माणामतिदेशो युक्तः। बृहस्पतिरपि। अन्वाहिते याचितके शिल्पन्यासे सबन्धके।

एष एवोदितोधर्म तथा च शरणागत इति॥

अनेन याचितस्य शिल्पिन्यासस्य दैवादिना नाशे स्वर्णकारप्रभृतिस्त न दाप्या इत्यक्तन्तस्य क्वचिदपवादमाह। कात्यायनः।

एनः संस्रियते न्यासो दिवसैः परिनिष्ठितैः।

तदूर्द्धंस्थापयच्छिल्पी दाप्यो दैवाद्गतेऽपि तमिति॥

रजकस्य हस्ते नैर्मल्यार्थं दत्तस्य जीर्णवस्त्रादेर्यद्यवघातादिना नाशःअवघातादिश्च नैर्मल्याद्यर्थ स्तदा शिल्पि दोषाभावात्तत्र शिल्पी न दाप्यः।नूतनादौ तु पटुतरावधानादि कृत्वानाशस्य शिल्पिदोषकृत्त्वात्तन्मूल्यं दाप्य इत्यभिसन्वायाह।स एव। न्यासदोषाद्विनाशः स्याच्छिल्पिनन्तन्त्र दापयेत्।

दापयेच्छिल्पिदोषात्तत् संस्कारार्थं यदर्पितमिति॥
शिल्पिदोषादित्यत्र विनाशः स्यादित्यनुषज्यते।

यत्न तनत्वादि वस्त्राद्यर्थं कुविन्दादौ न्यस्तं खण्डपटादिदशायां नष्टपरिपूर्णदशायां वा कुविन्दादिना दीयमानं स्वामिना न गृहीतंपश्चान्नष्टन्तत्राप्याहतुर्म्मनुकात्यायनौ।

स्वल्पेनापि च यत्कर्म नष्टं चेद्भृतकस्य तत्।
पर्याप्तं दित्सतस्तस्य विनश्येत्तद्गृह्णत इति॥

यत्कर्म वस्त्रनिर्माणादि स्वल्पेनापि प्रान्तवानादिनापि विकलं नष्टंचेत् भृतकस्य शिल्पिन एव नष्टम्। पुनर्वेतन ग्रहणंविनैव वानादिक्रियां कुर्य्यादित्यर्थः। यदि स्वामी तन्वादिकंपुनर्नार्थयति तद्दानाद्यभावेऽपि शिल्पिने दत्त वेतनं स न लभते पर्याप्तम्परिपूर्णं वस्त्रादिकन्दित्सतोभृतकस्य यः स्वामीतस्य दीयमान मगृह्णत स्तत्पर्याप्तन्नश्यतीत्यर्थः। एवं चात्रभृतको नष्टं न दाप्य इति पर्य्यवसितोऽर्थः। एवं शिल्पिन्यासविषये विविक्तायाचितकविषयेऽप्याह स एव।

यदि तत्कार्यमुद्दिश्य कालम्परिनियम्य वा।
याचितोऽर्द्ध कृतोयस्मिन्न प्राप्ते न तु दाप्यत इति॥

तात्पर्यन्तावदुच्यते याच्यमानो न दद्याद्वादाप्यन्तत् सोदयम्भवेदित्ययन्धर्मो याचितकेति देशाप्राप्तोऽनेन वचनेन क्वचित्प्रतिषिध्यते। प्रतिषेधकवचनस्यायमर्थः। यद्दीर्घकालसाध्यंकार्य्यंतत्कार्यार्थं याचितं यदि वावर्षपर्यन्तन्दीयतामित्येवं कालं परिनियम्य याचितं तत्र कार्यमध्ये परिनियतकालमध्ये वा प्रतियाच्यमाने यो याचितकं न ददाति असौसोदयं न दाप्यः। किन्तु कार्ये कृते परिनियतकालात्यये वायाचितकमात्रन्दद्यादिति यदि तदापि याचितकं न ददातितदा दैवादिना नाशे हरणे वा जाते तन्मूल्यमात्रदेयमित्यप्याह स एव। प्राप्तकाले कृते कार्य्येन दद्याद्याचितोऽपि सन्।

तस्मिन्नष्टे हृते वापि ग्रहीता मूल्यमावहेदिति।

क्वचित् कार्यमध्ये परिनियतकार्यमध्ये वा याचितकन्दाप्य इत्याह स एव।

अथ कार्य्यविपत्तिस्तु तस्यैव स्वामिनो भवेत्।
अप्राप्ते वै सकाले तु दाप्यस्त्वर्द्धकृतेऽपि तदिति।

यदि याचितकालप्रतिदाने तत्स्वामिनः कार्य्यनाशः सम्भाव्यते तदा दद्यादित्यर्थः याचितकालप्रतिदाने तु कर्त्तव्यमाहस एव। यो याचितकमादाय न दद्यात् प्रतियाचितः।

स निगृह्य बलाद्दाप्यो दण्ड्यश्च न ददाति य इति॥
स बलान्निगृह्य दाप्योदानोन्मुखः कर्त्तव्यः।

एवमपि योन ददाति स दण्ड्यश्चेत्यर्थः। प्रक्षालनार्थे नेजकहस्ते दत्तं यद्वस्वन्तस्य तेन नाशे कृते तन्मूल्यं तस्माद् ग्राह्यन्तदाह नारदः।

मूल्याष्टभागो हीयेत सकृद्धौतस्य वाससः।
द्विःपादस्त्रिस्तृतीयांश श्चतुर्द्धौते ऽर्द्धमेव च॥
अर्द्धक्षयात्तु परतः पादांशापचयः क्रमादिति॥

सकृद्धौतस्य नाशेऽष्टमांशन्यूनन्तन्मूल्य ग्राह्यं द्विर्द्धौतेचतुर्थांशन्यूनम्। एवन्त्रिर्द्धौते तृतीयांशमित्येव मुत्तरत्रापियोज्यम्। वस्त्राणां प्रक्षालनं नेजकेन न पाषाणे कार्यं किन्तु श्लक्ष्णे शाल्मले फलकेन च तेषां व्यत्यासःकार्यो नच तानि स्वगृहेरात्रौ स्थापनीयानि अमुमेवार्थमभिसन्धायाह मनुः।

शाल्मले फलके श्लक्ष्णे निज्याद्वासांसि नेजकः।
न च वासांसि वासोभि र्निर्हरेनच वासयेदिति॥

निज्यात् प्रक्षालयेत्। अन्यवासांसि अन्यवासिभिर्न निर्हरेत् न भेलयेदित्यर्थः। शिल्पिन्यासोपभोगादौ शिल्पिनोदण्ड्यत्वमाह। याज्ञवल्क्यः।

वसान स्त्री पणान्दण्ड्यो नेजकस्तु परांशुकम्।
विक्रयावक्रयाधान याचितेषु पणान्दशेति॥

नेजको वस्त्र प्रक्षालकः।अविक्रय कस्माच्चिद्धाढकं गृहीत्वातस्योपभोगार्थङ्कालक्लृप्ते विधाय समर्पणम्। आधानं बन्धकीकरणम्।याचितम्। स्वसुहृद्भोयाचितत्वेन दानं सुवर्णकारादिहस्त कङ्कणादि निर्माणार्थं यानि सुवर्णादीनि दत्तानि तेषाम्मध्ये सुवर्णं यत्परिमाणकन्दत्तन्तत्परिमाणक एवसुवर्णविकारःशिल्पिनोग्राह्य रजतादयस्तु, किञ्चिन्नाःग्राह्याः। कम्बलादयस्तु ऊर्णाद्यपेक्षया किञ्चिदधिका ग्राह्याः।यद्येवं शिल्पी न ददाति तदा राज्ञादाप्योदण्डनीयश्चेत्येतत्सर्वं मनसि निधायाह। स एव।

अग्नौसुवर्णमक्षीणां रजते द्विपलं शते।
अष्टौ त्रपुणि सीसे च ताम्बे पञ्च दशायसि।
शते दशपला वृद्धि रौर्णं कार्पाससूत्रके।
मध्ये पञ्चपला वृद्धिः सूक्ष्मे तु त्रिपला मता॥
कार्मिके रोमबन्धे च त्रिंशद्भागः क्षयो मतः।
न क्षयो न च वृद्धिश्च कोशेय वल्कलेषुचेति॥

अग्नौ प्रताप्यमानमिति शेषः। शतगले प्रतान्यमानेपलद्वयम्। त्रपुणि सीसेच पलाष्टकम्।ताम्बे पल। लोहे पलदशकञ्च क्षीयेत इत्यर्थः। कांस्यस्य तु त्रपुताम्रप्रभवत्वात्तदनुसारेण क्षयः कल्पनीय इति न पृथगुक्तः। स्थलेषु ऊर्णाकार्पास सूत्रेषु शतपलेषु पलदशकम्। अनतिसूक्ष्मेषु तेषुपञ्चकम्। सुक्ष्मेषु पलत्रयं वर्धत इत्यर्थः। एतदक्षप्रक्षालितविषय मित्युक्तम्मिताक्षरायाम्। कार्मिकम्। चित्रेणकर्मणा निर्मितं कार्म्मिकम्। यत्र निर्मितेपट्टे स्वस्तिकादिकिञ्चित्सूत्रैःक्रियते इत्यर्थः। यत्रप्रावारादौ रोमाणि बध्यन्ते

स रोमबन्धः। अनयोः सूत्रापेक्षया त्रिंशस्य क्षय इत्यर्थः। इतिनिःक्षेपाख्य व्यवहार पदम्। अथास्वामिविक्रयाख्यं व्यवहारपदम्। तत्खरूपमाह नारदः।

निक्षिप्तं वा परद्रव्य नष्टं लब्ध्वापहृत्य वा।
विक्रीयते समक्षं यत्म ज्ञेयोऽस्वामिविक्रय इति॥

निःक्षिप्त ग्रहणं याचितादीनामुपलक्षणार्थम्। असमक्षंस्वामिन इति शेषः। अतएव व्यासः।

याचितान्वाहितन्यासं हृत्वा वान्यस्य यद्धनम्।
विक्रीयते स्वाम्यभावे स ज्ञेयोऽस्वामिविक्रय इति॥

स्वाम्यभावे स्वाम्यसन्निधाने। अत्र विक्रयपदन्दान बन्धकयोरप्युपलक्षणं वक्षमाणकात्यायन वचने तयोरपि निवर्त्त्यत्वाभिधानात्। अस्वामिनन्दर्शयति बृहस्पतिः।

निक्षेपान्वाहितं न्यासं हृतं याचितबन्धकम्।
उपांशु येन विक्रीतमखामी सोऽभिधीयत इति।

निक्षेपादिग्रहणं इदं उपलक्षणम्। उपांशु अप्रकाशम्। प्रनष्टाधिगतादेःपरद्रव्यस्योपलक्षणम्। यत आह।

मनुः। विक्रीणीते परस्य स्वं योऽस्वामी स्वाम्यसम्मत इति॥

यो निःक्षेपादिकं परद्रव्य प्रकटमेव विक्रीणीते तस्याप्यस्वामित्वारम्भ स्वामिकस्य निवर्त्त्य त्वात्तदाह नारदः।

अस्वामिना कृतो यस्तु क्रयोविक्रय एववा।
अकृतः स तु विज्ञेयो व्यवहारेषु नित्यश इति।

कात्यायनोऽपि। अस्वामिविक्रयन्दानमाधिं वा विनिवर्त्तयेदिति।

अस्वामि विक्रयम्। अस्वामिना कृतं विक्रयम्। अस्वामिकृतत्वं दानाध्योरपि तत्साहचर्यात् अत एव यमः।

अस्वामिना कृतो यस्तु दायो विक्रय एव वा।
अकृतः स तु विज्ञेयो व्यवहारेषु नित्यश इति॥

दायो दानम्। स्वामिना अस्वामिविक्रीतं स्वकीय वस्तुयत्समीपे दृष्टन्तस्माद्ग्राह्यमित्याह नारदः।

द्रव्यमस्वामिविक्रीतं प्राप्य स्वामी तदाप्नुयात्।
प्रकाशक्रयतः शुद्धिः क्रेतुः स्तेयं रहः क्रियामिति।

याज्ञवल्क्योऽपि। स्वंलभेतान्य विक्रीतं क्रेतुर्दोषोऽप्रकाशिते।

हीनाद्रोहीहीन मूल्ये वेलाहीने च तस्कर इति॥

स्वामी स्वसम्बन्धि द्रव्यमन्यविक्रीतं अस्वामिविक्रीतं यदिपश्यति तदा लभेत गृह्णीयात्। अस्वामिविक्रीतस्य हेतुत्वाभावात्। क्रेतुः पुनरप्रकाशिते गोपिते क्रये दोषो भवति हीनात् द्रव्यागमोपाय हीनात्। रहसि एकान्ते। होनमूल्ये।अल्पतरेण द्रव्येणोधिक मूल्यक्रये। बेलाहीने रात्यादौ कृतेक्रये च क्रेता तस्करो भवति। तस्करवद्दण्डादिभाग्भवतीत्यर्थः।
बृहस्पतिरपि। येन कृतन्तु मूल्येन प्राग्राद्मे विनिवेदितम्।

न तत्र विद्यते दोषः स्तेनः स्यादुपधिक्रयादिति॥

यत्र हीन मूल्येन क्रीयमाणं क्रयात्प्रागेव राज्ञो निवेदितंतत्र न दोष इत्यर्थः। उपधिक्रय शब्दस्यार्थंदर्शयति सएव।

अन्तर्गृहे वहिर्ग्रामान्निशायामसतोजनात्।
हीनमूल्यञ्च यत्क्रीतं ज्ञेयोऽसा वुपधिक्रय इति॥

असतोजनात् चाण्डालादेरित्यर्थः। असदुग्रहणं दासादीनामुपलक्षणायें। अतएव नारदः।

अस्वाम्यनुमताद्दासादसतश्च जनाद्रहः।
हीनमूल्यमवेलायां क्रीणांस्तद्दोषभाग्भवेदिति॥

अस्वाम्यनुमतात् स्वाम्यनुमतिहीनात्। दासग्रहणं समानन्यायत्वादस्वतन्त्राणां बालादीनामुपलक्षणार्थम्।

विष्णुरपि। अज्ञानतः प्रकाशं यत्परद्रव्यं क्रीणीयात् तत्रस्यादोषःस्वामी द्रव्यमवाप्नुयात् यद्यप्रकाश हीनमूल्यंवा क्रीणीयात् तदा क्रेता विक्रेता च चोरवच्छास्य इति।

क्रेतुःप्रकाश्य विक्रयाद्यभावादस्वामित्वान्यप्रकाशनादौतु तथाविधविक्रयस्यविक्रेत्रस्वामिनोक्तत्वात्तद्मानमस्तीतिदुष्टत्वात् क्रेतापि दण्ड्यइत्यर्थः। स्वामिना राजानं ज्ञापयित्वैव तद्द्रव्यं ग्राह्यं अन्यथा चोरप्रच्छादकत्वेन स दण्ड्यइत्याहयाज्ञवल्क्यः।

हृतं प्रनष्टं यो द्रव्यं परहस्तादवाप्नुयात्।
अनिवेद्य नृपे दण्ड्यःस तु षण्णवतिं पणानिति॥

यदा पुनः परहस्तादवाप्तुमसमर्थः स्वामी तदा त्वाह स एव।

नष्टापहृत मासाद्य हर्त्तारं ग्राहयेन्न यम्।
देशकालातिपत्तौ च गृहीत्वा स्वयमर्पयेदिति।

विनष्टमपहृतं वा स्वकीयं द्रव्यमधिगन्तुरपहर्त्तुर्हस्ते वादृष्ट्वा अधिगन्तारं अपहर्तारं वा राजपुरुषादिभिर्ग्राहयेत्राज्ञोराजपुरुषाणाञ्च दूरदेशावस्थितौ तु विज्ञापनकालात्प्राक् पलायनादिशङ्कायां स्वयमेव गृहीत्वा राज्ञेसमर्पयेदित्यर्थः। हर्त्तृ शब्देनात्रक्रेता विवक्षित आत्मविशुद्ध्यर्थं राजदण्डाप्राप्तार्थञ्च इति मिताक्षरायां विज्ञानेश्वरः। नष्टधनस्वामिना तद्धने परस्वत्वनिवृत्तिपूर्वक स्वस्वत्वसिद्ध्यर्थं प्रथमंसाक्ष्यादिभिः प्रतिग्रहादिकं साधनीय मित्याह कात्यायनः।

अभियोक्ता धनं कुर्य्यात् प्रथमं ज्ञातिभिः स्वकमिति।

ज्ञातिभिः साक्षिभूतैरितिशेषः। साक्ष्यादिभिः स्व स्वहेतुभूत प्रतिग्रहाणामसाधने दण्ड्यता माह व्यास एव।

यदि स्वं नैव कुरुते ज्ञातिभिर्नाष्टिको धनम्।
प्रसङ्ग विनिवृत्त्यर्थं चौरवद्दण्ड मर्हति॥

नाष्टिको नष्टधनस्वामिप्रसङ्गः स्वत्वसन्देहः।व्यासोऽपि।

वादी चेन्मार्गितन्द्रव्यं साक्षिभिर्न विभावयेत्।
दाप्यः स्याद्द्विगुणं दण्डंक्रेता तद्द्रव्यमर्हतीति॥

साक्षिग्रहणं प्रमाणान्तरोपलक्षणार्थं मिति केचित्। यत्तूक्ंत साक्षिग्रहणं अस्वामिविक्रयविवादे स्वत्वमाधने प्रमाणान्तर निवृत्त्यर्थ मिति मदनरत्ने तदयुक्तम्। वस्तुतः स्वत्वहेतुभूत प्रतिग्रहादि स्वत्वे तत्माक साक्षिणामभावे दिव्याद्यवकाशस्य विद्यमानत्वात्। अलेख्यमाक्षिके दैवीव्यवहारेविनिर्दिशेदिति कात्यायनवचनविरोधापत्तेश्च। न च तद्यत्रदिव्यनिषेधकस्मृत्यभावस्तत्रदिव्यविधायकं अत्रतु प्रकाशंच क्रयंकुर्यात्साधुभिर्ज्ञातिभिः स्वकैः। न तथान्या क्रियाप्रोक्ता दैविकीन च मानुषीति दिव्य निषेधकस्मृतेः सत्त्वादितिवाच्यम्। एतद्वचनस्य क्रेत्रा क्रयसाधनं साक्षिसत्वे साक्षिभिरेवकर्त्तव्यं नान्यमानुषेण न दिव्येन वेत्येतत्परत्वात्। नन्वेतद्वचनस्यैतादृश विषयपरत्वे मानाभावः।न चालेख्यसाक्षिकेदैवीमिति वचनविरोधो मानम्।तस्य सामान्यशरूत्वेनैतद्वचनानुरोधे तस्यैतदतिरिक्तविषयताया न्यायत्वादिति चेन्न साक्ष्याद्यभावे दिव्यस्य च निषेधे अनिर्णय प्रसङ्गस्यैव मानत्वात्अन्यथा स्थावरेषु विवादेषु दिव्यानि परिवर्जयेदिति वचनस्यसाक्ष्यादिसत्वे दिव्य निषेधपरत्वन्त्वदभिमतन्नसिद्ध्येत्। यत्तु -

तेनैव वक्ष्यमाणप्रमाण हीने पादेति वचने प्रमाणहीनत्वापादानमपि अत्र दिव्याभावज्ञापकम्। दिव्याङ्गीकरणे प्रमाणहीनताया असम्भवादित्युक्तन्तत्र तत्प्रमाणहीने मानुष प्रमाणहीनेअन्यतरेण दिव्याङ्गीकरणहीने चेति व्याख्येय मन्यथा अनिर्णयःस्यात्। तस्मादन्यत्रापि साक्ष्याद्यभावे दिव्यम्भवत्वेवेति।अतएव मिताक्षरायामित्युक्तं यदापुनः साक्ष्यादिभिर्दिव्येन वाक्रयं न शुद्ध्यति शोधयतीत्यादि। केचित्तु स्थावरविवादे स्थावरेषु विवादेष्विति वचनाद्दिव्याभाव एव। एवं अकृतेऽपि प्रमाणहीने पादेति वचनाद्दिव्याभाव एवमनिर्णयप्रसङ्गानुरोधेन वचनान्यथाकरणस्यानुचितत्वादित्याहुसञ्चिन्त्यम्।अदृष्टार्थत्वप्रसङ्गात्। याज्ञवल्क्योऽपि।

आगमेनोपभोगेन नष्टम्भाव्यमतोऽन्यथा।
पञ्चबन्धो दमस्तस्य राज्ञेतेनाविभाविते इति॥

पञ्चबन्धः नष्टद्रव्यस्य पञ्चमांशसमानोदण्डःअत्र दण्डविप्रतिपत्तिरपराधाल्पत्व महत्त्वानुसारेण व्यवस्थापनीया।स्वत्वहेतवः पूर्वमेव निरूपिताः कृतस्वकीयस्य धनस्य स्वकीयत्वानपगतिरपि दानविक्रयाभावे साधनीयेत्याह।

कात्यायनः।नाष्टिकस्तु प्रकुर्वीत तद्धन ज्ञातिभिः स्वकम्।

अदत्तयक्तविक्रीतं कृत्वा स्वं लभते धनमिति॥

अथैतदत्त सम्प्रदानभूताय विध्युक्तप्रकारेण त्यक्तं पारितोषिकादि रूपेण। विक्रीतञ्च न भवतीति प्रमाणैःप्रसाध्यस्वकीयं धनन्नष्टस्वामी विक्रेत्रादेः सकाशाल्लभत इत्यर्थः।राजपुरुषानीतेन क्रेत्रायत्कर्त्तव्यं तद्दर्शयति बृहस्पतिः।

पूर्वस्वामी तु यद्द्रव्यं यदागत्य विचारयेत्।
तत्र मूलं दर्शनीय क्रेतुः शुद्धिस्ततो भवेदिति॥

मूलमत्र यत्प्रात्क्रीतमसावुच्यते। शुद्धिर्योज्यत्वनिवृत्तिःअतएव व्यासः। मूल्ये समाहृते क्रेता नाभियोज्यः कथञ्चन।

मूल्येन सहवादस्तुनाष्टिकस्य विधीयते इति।

समाहृते अस्मान्मया क्रीत इति निर्दिष्टे।

याज्ञवल्करोऽपि। विक्रेतुर्दर्शनाच्छुद्धिः स्वामीद्रव्यन्नृपोदमम्।

क्रेता मूल्य मवाप्नोति तस्माद्यस्तस्य विक्रयी॥

अत्रस्वामीद्रव्यमित्यभिधानं यदि विक्रेता नष्टधनस्वामिना सह विवादन्न कुर्याद्यदिवाकृते पराजयी स्यात्तदा नाष्टिकस्यस्वामित्व मवधारितमिति नाष्टिकादिभ्यो विक्रीत द्रव्यादीनिदातव्यानि नान्यथेति सूचनार्थम्। अतएवाह बृहस्पतिः।

विक्रेता दर्शितो यत्र ह्रीयते व्यवहारतः।
क्रेतेराज्ञेमूलदण्डौ प्रदद्यात् स्वामिने धनमिति॥

यदातु मूलभूतो विक्रेता देशान्तरङ्गतस्तदा कात्यायन आह।

मूलानयन कालश्च देयो यो जनसख्ययेति।

तत्र देयोऽध्व सख्ययेति मदनरत्ने पाठः। यदातु बहुकालेनापि मूलं दर्शयितु मक्षमस्तदा साक्षिभिः क्रयसाधन कुर्य्यादित्याह तु नारद मनू। असमाहार्यमूलस्तु क्रयमेव विशोधयेत्।

विशोधिते क्रयेराज्ञा वक्तव्यः सन किञ्चनेति॥

क्रये विशोधिते साक्षिभाषणेन प्रकाशिते सति राज्ञा नकिञ्च न वक्तव्यो न दण्ड्य इत्यर्थः।

यत्तु, अभियोक्ता धनं कुर्यात् प्रथमं ज्ञातिभिः स्वकम्।
पश्चादात्प्रविशुद्ध्यर्थं क्रयंक्रेता स्वबन्धुभिरिति॥

अभियोक्ता स्वत्वे साधिते सति पश्चात् क्रेता क्रयसाधनंकर्त्तव्यमित्युक्तन्तेनैव तदसमाहार्य्यमूलस्त्वित्यस्मादेव वचनात्मूलदर्शनाभावे मन्तव्यम्। नष्टधन स्वामी क्रीतन्तुक्रेताक्रयेसाधितेऽपि गृह्णीयादिति प्रदर्शयितुमाह मनुः।

अथ मूलमनाहार्य्यंप्रकाशक्रयशोधितम्।
अदण्ड्योमुच्यतेराज्ञा नाष्टिको लभते धनमिति॥

अनाहार्यःअनानीयः। प्रकाशक्रयशोधितन्त्राष्टिको लभतेक्रेता त्वदण्ड्योभूत्वाराज्ञोऽपराधान्मुच्यत इत्यर्थः। क्वचित्क्रेतुः सकाशाद्धन ग्रहणधर्ममूल्यं दत्वैवेत्याह कात्यायनः।

वणिग्वीथी परिगतं विज्ञातं राजपूरुषैः।
अविज्ञाताश्रयात्क्रीतं विक्रेता यत्न वा मृतः॥

स्वामी दत्त्वर्द्धमूल्यं तु प्रगृह्णीयात् स्वकं धनमिति।वणिग्वीथीपरिगतं वणिग्वीथ्यांप्राप्तम्। अनेन रहःक्रयो नास्तीति दर्शितम्। विज्ञातं राजपुरुषैरित्यनेनाप्रकाशक्रयोनास्तीति दर्शितम्। अविज्ञाताश्रयात्। अविज्ञातस्थानकात्। यद्रहःक्रयादिरहितं सदविज्ञाताश्रयात्क्रीतं मृतं विक्रेतृकं वा तदर्द्धंमूल्य दत्त्वा ग्राह्यमित्यर्थः।उभयोरर्द्धहानौ कारणमाह स एव।

अर्द्धं द्वयोरपहृतं तत्र स्याद्व्यवहारतः।
अविज्ञातक्रयोदोषस्तथा चापरिपालनम्॥
एतद्द्वय समाख्यातं द्रव्यहानिकरम्बुधैरिति।

हृतं नाशितम्।व्यवहारतः स्वापराधात् अविज्ञातक्रयःअविज्ञात स्थानकात्क्रयःअपरिपालनमरक्षणम्। उपेक्षेति यावत् मरीचिरपि। अविज्ञात निवेशत्वाद्यत्रमूल्यन्नलभ्यते।

हानिस्तत्र सकल्प्याच केतृनाष्टिकयोर्द्वयोरिति।

यत्र क्रेता मूलोपस्थापन करिष्यामीत्युक्त्वा पश्चात् क्रयंसाधयिष्यामीति वदति तत्र मूलोपस्थापनमेवादरणीयं नक्रयसाधनमित्याह

कात्यायनः। यदा मूलमुपन्यस्य पुनर्वादी क्रयं वदेत्।

अहरन्मूलमेवासौ न क्रयेण प्रयोजनमिति॥

यदा मूलदर्शनं क्रयप्रकाशनं वा न करोति तदा दण्ड्यतामाह स एव।अनुपस्थापयन्मूल क्रयं वाथ विशोधयन्।

यथाभियोगं धनिने धनं दाप्यो दमश्च स इति॥

यत्तु प्रकाशितेन क्रयेण क्रेतुः स्वत्वप्रतिपादक मरीचिवचनं, वणिग्वीथीपरिगतं विज्ञातं राजपुरुषैः।

दिवा गृहीतं यत्क्रेतं वास शुद्धोलभते धनमिति।

यच्च मनु वचन विक्रयाद्यो धनं किञ्चिद्गृह्णीयात् कुलसन्त्रिधौ।

क्रयेण स विशुद्धो हि न्यायतो लभते धनमिति।

तद्वचनद्वयमपिनाष्टिक स्वत्वसाधनाभाव विषयम्। अन्यथा अथ मूलमनाहार्यमिति पूर्वोदाहृत मनु वचनविरोधःस्यात्। यदा तु क्रेता साक्ष्यादिभिः क्रयं न साधयति नाष्टिको वा स्वकीयत्व तदा निर्णयमाह बृहस्पतिः।

प्रमाणहीने वादे तु पुरुषापेक्षया नृपः।
समन्यूनाधिकत्वे च स्वयं कुर्य्याद्विनिर्णयमिति॥

अस्वामिविक्रेतुरिवास्वाम्यदत्तं स्वाम्यनुमतिमन्तरेणोपभुञ्जानस्य दण्ड्यतामाह नारदः।

उद्दिष्टमेव भोक्तव्यं स्त्रीपशुर्वसुधापि वा।
अनर्पितन्तुयो भुङ्क्तेभुक्तभोगं प्रदापयेत्॥

अनुद्दिष्टन्तु, यद्द्रव्यं दासक्षेत्रगृहादिकम्।
स्वबलेनैव भुञ्जानश्चौरवद्दण्डमर्हति॥
अनड़्वाहन्तथा धेनुन्नावं वामन्तथैव च।
अनिर्दिष्टन्तु भुञ्जानो दद्यात्प्रणचतुष्टयम्॥
दासीनौका तथा धुर्य्योबन्धकन्नोपभुज्यते।
उपभोक्ता तु यद्द्रव्यम्पण्यैनैव विशोधयेत्॥
दिवसे द्विपणन्दासींधेनुमष्टपणन्तथा।
त्रयोदशन्त्वनड्वाहमश्वं भूमिञ्च षोड़शः॥
नौकामश्वाञ्च धेनुञ्च लाङ्गलं कार्मिकस्य च।
बलात्कारेण यो भुङ्क्तेदाप्यश्चाष्टगुणन्दिने॥
उलूखले पणार्द्धन्तु मुमलस्य पणद्वयम्।
सूर्पस्य च पणार्द्धन्तु, जैमिनिर्मुनिरब्रवीदिति॥

पण्येन पणसमूहेन अत्रैको धेनुशब्दोगामभिधत्ते। अपरो दोग्धीमहिष्यादिकम्। कार्मिकस्य कर्मोपजीविनः। यदविज्ञातस्वामिकन्नष्टमपहृतं वा राजपुरुषैः कथञ्चित्प्राप्य राज्ञेसमर्पितन्तत्स्वामी यदि वर्षमध्ये आगत्य स्वत्वं साधयतितदाप्नोतीत्याह याज्ञवल्क्यः।

शौक्तिकैः स्थानपालैर्वा नष्टापहृतमाहृतम्।
अर्वाक् संवत्सरात्स्वामी हरेत परतो नृप इति॥

यत्तु मनुवचन, प्रनष्टस्वामिकं द्रव्यं राज्ञा त्यब्दं निधापयेत्।

अर्वाक्त्यब्दाद्धरेत् स्वामी परतो नृपतिर्हरेदिति।

तद्वहुश्रुतवृत्तसम्पन्न ब्राह्मणविषयमिति। मदनरत्नेब्राह्मणमात्रविषयमिति केचित्। इत्यस्वामिविक्रयाख्यव्यव-

हारपदम्। अथ सम्भूयसमुत्थानाख्य व्यवहारपदम्। तस्यस्वरूपमाह नारदः।

वणिक् प्रभृतयो यत्र कर्म सम्भूय कुर्वते।
तत्सम्भूय समुत्थान व्यवहारपद स्मृतमिति॥

वणिक् प्रभृतय इत्यनेन ऋत्विङ्टनर्त्त ककर्षकादीनां ग्रहणम्। यद्यपि लयभूतस्य स्वर्गस्य ऋत्विग्गामित्वाभावादात्मनेपदस्यानुपयन्त्रत्वेन प्रभृतिशब्देन ऋत्विग्ग्रहणमनुचितम्। तथापि आत्मनेपदाऽविवक्षयेदमुक्तन्त्र च ऋत्विङ्मात्रेआत्मनेपदाविवक्षणे अन्यांशे च विवक्षणे वैरुप्यप्रसङ्ग इति वाच्यम्।सम्भूयकर्त्तृत्वमात्रस्य लक्षणत्वेनान्यत्र वास्तवतत्सत्त्वेऽपि लक्षणवैयर्थ्यप्रसङ्गेनाप्रवेशात्। न च चिन्तामणिकृता कर्त्रभिप्रायइत्यस्य कर्त्रभिप्रायविषये कर्त्रिच्छाविषये क्रियाफल इतिव्याख्यातत्वादृत्विजामपि सफल यजमानस्य कर्म भवत्वितिवेतनोपरागेणोच्छा सम्भवत्येवेत्यात्मने पदविवक्षायामपि काक्षतिरिति वाच्यम्। कर्त्रभिप्राये कर्त्तृगामिनीत्यस्यैव व्याख्यानस्य महाभाष्याद्यनेकग्रन्थसम्मतत्वे नान्यादृशव्याख्यानस्य महाभाष्यादिविरुद्धत्वात्। सहवाणिज्यादिकरणे अधिकारिणोदर्शयति बृहस्पतिः।

कुलीनदक्षानलसैः प्राज्ञैर्नाणकवेदिभिः।
आयव्ययज्ञै शुचिभिः शूरैः कुर्य्यात्सह क्रियामिति॥

क्रियां क्रतु कृषिशिल्पस्तेयवाणिज्यरूपाम्। नाणकविज्ञानेन वाणिज्यक्रियायामुपयुज्यते। आयव्ययङ्काममात्रंकृषिक्रियायाम्। शिल्पिक्रियायां सङ्गीतक्रियायां च प्राज्ञत्वम्। क्रतौ कुलीनत्वप्राज्ञत्वशुचित्वानि। स्तेयेतु शूरत्वमात्रमु-

प्रयुज्यते। दक्षत्वानलमत्वे सर्वत्रोपयुज्यते। अतएव दक्षादीन्निषेधयति स एव।

अमक्तालसरोगार्त्त मन्दभाग्या निराश्रयाः।
वाणिज्याद्या सहैतैस्तु न कर्त्तव्या बुधैः क्रियेति॥

निराश्रयाः मूलधनरहिताः। ये तु सम्भूय वाणिज्यादिक्रियां कुर्वन्ति ते द्रव्यानुरोधेन लाभादिभाजो भवन्तीत्याहनारदः। समोऽतिरिक्तों हीनो वा तत्रांशो यस्य यादृशः।

क्षयव्ययौ तथा वृद्धिस्तत्रतस्य तथाविधा इति॥

बृहस्पतिरपि। प्रयोगं कुर्वते ये तु हेमधान्यरसादिना।

समन्यूनाधिकैरंशैलाभस्तेषां यथाविधः।
समोन्यूनोऽधिकोवांशो येन क्षिप्तस्तथैव सः।
व्ययन्दद्यात्कर्म कुर्य्याल्लाभं गृह्णीत चैवहीति॥

यत्र पुनरस्य द्वौभागो अस्यैक इति सम्वित्कृता तत्रतदनुरोधेन व्ययलाभौ प्रकल्पावित्याह याज्ञवल्क्यः।

समवायेन वणिजां लाभार्थं कर्म कुर्वताम्।
लाभालाभौ यथाद्रव्यं यथावासं विदाकृताविति॥

सम्भूयकारिणां कर्त्तव्यमाहव्यासः।

समक्षमसमक्षंवा वञ्चयन्तः परस्परम्।
नानापण्यानुसारास्ते प्रकुर्य्युःक्रयविक्रयौ॥
अगोपयन्तो भाण्डानि दद्यः शुल्कञ्च तेऽध्वनिः।
अन्यथा द्विगुणन्दाप्याःशुल्कस्थानाद्बहिःस्थिता इति॥

नारदोऽपि। भाण्डपिण्डव्ययोद्धारसारासारत्ववीक्षणम्।
कुर्युस्ते व्यभिचारेण समये स्वेव्यवस्थिता इति॥

अथ वा सर्वानुज्ञया सर्वेषां कार्य्यमेक एव कुर्य्यात्।

अतएवबृहस्पतिः। बहूनां सम्मतो यस्तु दद्यादेको धनन्नरः।

करणं कारयेद्वापि सर्वेणैवकृतम्भवेदिति॥

करणं लेख्यादिकम्।सम्भूयकारिणाम्मिथोविवादेनिर्णयप्रकारमाह स एव।

परीक्षकाः माक्षिणश्चत एवोक्ताः परस्परम्।
सन्दिग्धेऽर्थेवञ्चनाया नचेद्विद्वेषसंयुता इति॥

यदातु विद्वेषसंयुक्तास्तदाप्याह स एव।

यः कश्चिद्वञ्चकस्तेषां विज्ञातः क्रयविक्रये।

शपथैः सोऽपि शोध्यःस्यात्सर्ववादेष्वथविधिरिति॥

सर्ववादेऽपि वचनरहितवादेऽपि वञ्चकत्वे सिद्धे सति किंकार्यमित्यपेक्षिते आह। याज्ञवल्क्यः।जिह्मं त्यजेयुर्निर्लाभमिति। जिह्य वञ्चकन्त्रिर्लाभ कृत्वा त्यजेयुर्बहिः कुर्य्युरितरेसम्भूयकारिण, इत्यर्थः। सम्भूयकारिण्यसमर्थं प्रत्याह स एव।अशक्तोऽन्येन कारयेदिति। स्वांशानुरूपं कर्मेति शेषः दैवराजकृतद्रव्यहानिविषये सर्वान् प्रत्याह बृहस्पतिः।

द्रव्यहानिर्यदा तत्र दैवराजकृताद्भवेत्।
सर्वेषामेव सा प्रोक्ता कल्पनीया यथांशत इति॥

सम्भूयकारिभिः सर्वैरिति शेषः। क्षयहानिरिति पाठे क्षयायैव हानिः क्षयहानिरुपक्षर्य्यार्थव्यतिरिक्तो हानिरित्यर्थः।प्रातिस्विञ्दोषेण द्रव्यनाशे स एवाह।

अनिर्दिष्टो वार्य्यमाणः प्रमादाद्यस्तु नाशयेत्।
तेनैव तद्भवेद्देयं सर्वेषां समवायिनामिति॥
अनिर्दिष्टः समवाय्यननुज्ञातः।

याज्ञवल्क्योऽपि। प्रतिषिद्धमनादिष्टं प्रमादाद्यच्च नाशितम्॥

स तद्दद्यादिति। पालने त्वाह स एव।विप्लवाच्च रक्षिताद्दशमांशभागिति।

बृहस्पतिरिति। दैवराजभयाद्यस्तु स्वशक्त्या परिपालयेत्।

तस्यांशन्दशमं दत्त्वा गृह्णीयुस्तेंऽशतोऽपरमिति॥

तस्य तस्मै दशममंशन्ते समवायिद्रव्यमिति शेषः। समाहरेत् स्वशक्त्या प्रत्याहरेदित्यर्थः।

नारदोऽपि। दैवतस्करराजाग्निव्यसने समुपस्थिते।

यस्तत् स्वशक्त्या रक्षेत तस्यांशो दशमः स्मृत इति॥

यस्तु समवायिद्रव्यं समवायिभिः सह प्रतियाचनादिनान साधयति तस्य लाभहानिरित्याह।

बृहस्पतिः।ममवेतै स्तु यद्दत्तं प्रार्थनीयं तथैव तत्।

**न याचते च यः कश्चिल्लाभात् स परिहीयत इति।
**

याचनग्रहणं येन यत्कर्म स्वांशानुरूपं कर्त्तव्यं तस्याप्युपलक्षणार्थं तेन तत्कर्माकरणेऽपि लाभहानिरित्यस्मादेव वचनात् प्रतिपत्तव्यमिति स्मृतिचन्द्रिकायाम्। सम्भूयकारिणांऋत्विजाङ्कर्त्तव्यमाह मनुः।

ऋत्विजः समवेतास्तु यथा सर्वेनिमन्त्रिताः।
कुर्युर्यथार्हं तत्कर्म गृह्णीयुर्दक्षिणान्तथेति॥

अत्रसत्रशब्दो यज्ञमात्र विवक्षया प्रयुक्तोन पुनर्बहुयजमानकसत्राख्ययज्ञविशेषविवक्षया। तत्र यजमानानामेवाध्वर्य्यादिकर्मकारित्वे दक्षिणार्द्धाणामृत्विजामभावात्। तथा कर्मानुसारेण दक्षिणां गृह्णीयुरित्यर्थः। तथा च स एव।

सम्भूय स्वानि कर्माणि कुर्वद्भिरिह मानवैः।

अनेन कर्मयोगेन कर्त्तव्यांशप्रकल्पनेति ॥

स्वानि कर्माणि यजमान व्यतिरिक्तानीतिशेषः। इयं चांशकल्पना द्वादशशतं गावो दक्षिणे त्येवं क्रतुसम्बन्धित्वेन विधीयमानायां दक्षिणायामेवन ऋत्विग्विशेषोल्लेखने विहितायास्तद्विधायकश्रुतिविरोधापत्तेःअतएवाहतुर्मनु बृहस्पती।

रथं हरेद्यथाध्वर्युर्ब्रह्माधाने च वाजिनम्।
होता निविद्वरं चाश्वमुद्गाता चाप्यनःक्रये इति॥

निविद्वरं निविच्छंसन् लब्धं वरं उद्गात्रशब्देनोद्गातृगणमध्यस्थःसुब्रह्मस्योगृह्यत इति मदनरत्ने अनः शकटम्। क्रयेसोमक्रये। दक्षिणांशकल्पनायाः प्रकारमाहमनु बृहस्पती।

सर्वेषामर्द्धिनो मुख्यास्तदर्द्धनार्द्धिनोऽपरे।
तृतीयिनस्तृतीयांशाश्चतुर्थांशाश्च पादिन इति।

सर्वेषां षोडशानामृत्विजां मध्येये मुख्या गणस्याग्राः होतृब्रह्म ध्वर्यूद्गातरोऽर्द्धिनः क्तदक्षिणायाःकिञ्चितन्यूनमर्द्धं गृह्णीयुः।समग्रार्द्धग्रहणे वक्ष्यमाण विभागकल्पनाविरोधःस्यात्। अपरे द्वितीया मैत्रावरुणं प्रतिप्रस्थातृब्राह्मणाञ्छन्दसिप्रस्तोतारस्तदर्द्धेन मुख्यभागार्द्धेनार्द्धिनोऽर्द्धग्राहिणः तृतीयिनोऽच्छावाकाग्नीध्रनेष्ट प्रतिहर्त्तारोमुख्यभागांस्तृतीयां शभाजः।पादिनोन्त्याः ग्रावस्तोतृयोतृनसुब्रह्मण्याख्यामुख्यभागस्य चतुर्थांशग्राहिण इत्यर्थः। मुख्यानां चतुर्णां मिथोविभागः समः एवंद्वितीयादीनामपि स एव विभागः तथा च गोशतं दक्षिणेतिपक्षमाश्रित्य कात्यायन सूत्रम्।द्वादशद्वादशेभ्यः षट्षट्द्वितीयेभ्यश्चतस्रोद्वौतृतीयेभ्यस्तिस्रस्तिस्रइतरेभ्य इति। सगृहीतमेतद्बौधायन कारिकायामपि। पञ्चविंशतिधा कृत्वा व-

र्गीया दक्षिणा क्रमात्। द्वादशैवाथषट्कं चतस्त्रएवचेतिद्वादशाधिकगोशतरूपा दक्षिणायाःप्रथमञ्चत्वारोभागाः कर्त्तव्याः।तत्रैकोभागोहोतृवर्गस्यापरोभागो ब्रह्मवर्गस्यापरोध्वर्युवर्गस्यापरउद्गातृवर्गस्य।पुनरेकैकस्य भागस्य पञ्चविंशतिर्भागाः कर्त्तव्याः।तेष्वाद्यानां होत्रादीनां द्वादशभागाः द्वितीयानां षट् तृतीयानाञ्चत्वारश्चतुर्थानां त्रय इत्यर्थः। पशुबन्धादौ तुविषम विभागानभिधानात्। समं स्यादश्रुतत्वादिति न्यायेनममत्वेनैव विभाग इति मन्तव्यम्। स्वकीयकर्म कलायांशकर्त्तृक कृतानुसारेण भागो देय इत्याह मनुः।

ऋत्विग्यदि वृतो यज्ञ स्वकर्म परिहापयेत्।
तस्य कर्मानुरूपेण दौंऽशः सह कर्त्तृभिरिति।

सह कर्त्तृभिः सम्भूयकारिभिरित्यर्थः। यद्वाकर्त्तृभिः सहदेयःदक्षिणाकालो देयो यजमानेनेत्यर्थः। अथ वा कर्म परित्यक्तं सकर्त्तृभिरित्यर्थः। यदा तु ऋत्विक् कर्मैकदेशदक्षिणादानानन्तरं त्यजति तदाऽवशिष्टन्तद्गणवर्त्तिनां मध्ये सन्निहिते नान्येन कारयेदित्याह स एव।

दक्षिणासु च दत्तानु स्वकर्म परिहापयेत्।
कृत्म्नश्नेव लभेतांशमन्येनैव च कारयेदिति ॥

कर्ममध्ये ऋत्विङ्मरणे कर्त्तव्यमाह नारदः।

ऋत्विजां व्यसनेऽप्येवमन्येन कर्म निस्तरेत्।
लभेत दक्षिणादानं स तस्मात् सम्प्रकल्पितमिति॥

अन्धेन स्वस्वगण मध्यवर्त्तिनां मध्ये प्रत्यासन्नेन येनकेनचिदन्येन कार्यमाणे त्वध्वर्य्यादि समाख्यावाधापत्तेरितिध्येयम्। यत्तु शङ्खलिखितयोर्वचनम्। अथ चेद्नु प्राप्ते स-

वने ऋत्विक्म्रियते तस्य स गोत्रोऽथ शिष्योवा तत्कार्य मनुपूरयेत्। अथचेदबान्धवस्ततोऽन्य मृत्विजंवृणुयादिति॥यच्च बृहस्पतिवचनम्। एवं क्रियाप्रवृत्तानां यदा कश्चिद्विपद्यते।

तद्बन्धुना क्रिया कार्या सर्वैर्वा सहकारिभिरिति।

तदेकान्तरगण रहितर्त्विक्कर्त्तृकदर्श पौर्णमासादियागविषयमित्यभिहितं स्मृतिचिन्द्रिकायाम्।जीवत्येव तु ऋत्विजि यजमानेन ऋत्विगन्तरकरणे कस्य दक्षिणेतिवीक्ष्यामाहशङ्खः। अथ ऋत्विजि वृते पश्चादन्यंवृणुयात्पूर्वाहूतस्यैवदक्षिणां पश्चादाहूतः किञ्चिल्लभत इति। यदात्वकारणमृत्विग्याज्यत्यजतियाज्यो वा ऋत्विजं तदातयोर्दण्डमाह मनुः।

ऋत्विजं यस्त्यजेद्याज्यो याज्यमृत्विक् त्यजेद्यदीति।
शक्तं कर्मण्यदुष्टञ्च तयोर्दण्डःशत शतमिति॥

नारदोऽपि। ऋत्विक्च विविधो दृष्टः पूर्वैर्जुष्टः स्वयं कृतः।

यहच्छ्रयाच यः कुर्यादार्त्विज्यं प्रीतिपूर्वकम्॥
ऋत्विग्याज्यमदुष्टं यस्त्यजेदनपकारिणम्।
अदुष्टञ्चर्त्विज याज्यो विनेयौ तावुभावपीति।

ये कृषिसाधने स्वसमानास्तैः सह कृषिकार्येत्याह।बृहस्पतिः।

बाह्यकर्षक बीजाद्यैः क्षेत्रोपकरणे न च।
ये समानास्तुतैः सार्द्धंकृषिः कार्या विजानतेति॥

बाह्याःलाङ्गलादिवाहका बलिवर्दाः।कृष्याःकर्षकाःकृष्यर्थं स्वीकृताः पुरुषाः आदिशब्देन कृषिसाधनानामन्येषांग्रहणम्। सम्भूय कारिणां कृषिकाणां कर्त्तव्यमाह।बृहस्पतिः।

पर्वते नगराभ्यासे तथा राजपथस्य च।
ऊषरं मूषकव्याप्तं क्षेत्रं यत्नेन वर्जयेदिति॥

पर्वते पर्वतसमीपे कल्पतरुकृता तु विवीत इति पठित्वाविवीतशब्देन यवसाद्यर्थं रक्षितः प्रदेश इति व्याख्यातम्।नगराभ्यासे नगर समीपे। राजपथस्य समीप इति शेषः। एतदुक्तं भवति। पर्वताद्यासन्नमनासन्नमपि ऊषर मूषकव्याप्तञ्चक्षेत्रं वर्जयेदिति।बाह्येऽपि वर्जनीयानाह स एव।

कृशातिवृद्धंक्षुद्रञ्च रोगिणं प्रपलायिनम्।
काणं खञ्जञ्च नादद्याद्वाह्यं प्राज्ञः कृषीवल इति॥

काणः एकाक्षः खञ्जः भग्नचरणः क्वचिदत्रैकस्य हानिमाह स एव।बाह्यवीजात्ययाद्यस्य क्षेत्रहानिः प्रजायते।

तेनैव सा प्रदातव्या सर्वेषां कृषिजीवनामिति॥

सम्भूयकारिणामितिशेषः। बाह्यबीज ग्रहणं कृषिसाधनानामुपलक्षणार्थम्। सम्भूयकारिणां शिल्पिनां स्वरूपन्दर्शयंस्तषां लाभविभागेंऽशपरिकल्पनाप्रकारमाह स एव।

हिरण्यकुप्य सूत्राणां काष्ठपाषाण चर्म्मणाम्।
संस्कर्त्ता तत्कलाभिज्ञः शिल्पीप्रोक्तो मनीषिभिः॥
हेमकारादयो यत्र शिल्पं सम्भूय कुर्व्वतः।
कर्मानुरूपं निर्वेशं लभेरंस्ते यथांशत इति॥

कुप्यंहेमरूप्यव्यतिरिक्तत्रपुसीसादिकम्।हेमरूप्य इतिप्रस्तुत्य ताभ्यां यदन्यत्तत्कुप्यमित्यमर सिंहेनोक्तत्वात्। निर्वेशोभृतिः। कात्यायनोऽपि।

शिक्षकाभिज्ञकुशलाआचार्याञ्चेति शिल्पिनः।
एकद्वित्रिचतुर्भागान् हरेयुस्ते यथोत्तरमिति॥

हर्म्यादिनिर्मातॄणां मध्ये मुख्य भागद्वयमाह बृहस्पतिः।

हर्म्यन्देवगृहं कपिवाचिकोपस्कराणि च।

सम्भूय कुर्वतान्तेषां प्रमुख्यो द्वंशमर्हतीति॥

नर्त्तकेष्वपि मुख्यस्यांशद्वयभागित्वमतिदिशन् विशेषान्तरमप्याह स एव।नर्त्तकानामेष एव धर्मःसद्भिरुदाहृतः।

कालज्ञो लभतेऽध्यर्द्धं गायनास्तु, समांशिन इति॥

अध्यर्द्धं अर्धाधिकमेकमंशं सम्भूयकारिणाञ्चौराणां लाभभागेऽशपरिकल्पनाप्रकारमाह कात्यायनः।

परराष्ट्राद्धनं यत्स्याच्चौरैः स्वाग्यज्ञया हृतम्।
राज्ञेदशांशमुद्धृत्य विभजेरन् यथाविधि॥
चौराणां मुख्यभूतस्तु चतुरोंऽशांस्ततो हरेत्।
शूरोऽशांस्त्रीन्समर्थो द्वौशेषास्त्वेकैकमेव चेति॥

एतद्धनं दुर्बलवैरिदेशादाहृत विषयम्। प्रबलतर वैरिदेशादादृते त्वाह बृहस्पतिः।

स्वाम्याज्ञया तु यच्चौरैः परदेशात् समाहृतम्।
राज्ञेदत्त्वा तु षड्भागम्भजेयुस्ते यथांशतः॥
चतुरोंऽशान्भजेन्मुख्यः शूरस्त्यंशमवाप्नुयात्।
समर्थस्तु, हरेत्द्वंशं शेषास्त्वन्ये समांशिन इति॥

समर्थः शक्तः। एतेषां हानिरप्येव मेवेत्याह कात्यायनः।

तेषां चेत्प्रसृतानाञ्च ग्रहणं सममाप्नुयात्।
तन्मोक्षणार्थं यद्दत्तं वहेयुस्तेयथांशत इति॥

इयमंशपरिकल्पना ऋतिग्भिन्नसम्भूयकारिणां समयाभाव विषयाकृते तु समये तदनुसारेणैव। अतएव तेनैवोक्तम्।

वणिजांकर्षकाणाञ्च चौराणां शिल्पिनान्तथा।
अनियम्यांशकर्तृणांसर्वेषामेव निर्णय इति॥

अनियम्य लाभहान्योःसमयेन प्रतिपुरुषमंशमहत्वेत्यर्थः।

इति सम्भूयसमुत्थानाख्य व्यवहारपदम्। अथ दत्ताप्रदानिकाख्य व्यवहारपदम्। तत्र बृहस्पतिः।

एवाऽखिलेनाभिहिता सम्भूयोत्थान निष्कृतिः।
अदेय देय दत्तानामदेयस्य च कथ्यते इति॥

अदेयादीनां स्वरूपादिक मधुना कथ्यत इत्यर्थः। तस्यस्वरूपमाह नारदः।

दत्त्वा द्रव्यमसम्यग्यः पुनरादातु मिच्छति।
दत्त्वा प्रदानिकं नाम व्यवहारपदं हि तदिति॥

असम्यक् अशास्त्रीयमार्गाश्रयणेनेत्यर्थः। दान प्रकारस्यादेयादिभेदैश्चतुर्विधत्वमाह स एव।

अदेयमथ देयञ्च दत्तम्वाऽदत्तमेव च।
व्यवहारेषु विज्ञेयो दानमार्गश्चतुर्विध इति॥

तत्र तावद्देयस्य स्वरूपभेदानाह बृहस्पतिः।

सामान्यं पुत्रदाराधि सर्वस्वन्न्यासयाचितम्।
प्रतिश्रुतमथान्यस्य न देयं त्वष्टधास्मृतमिति॥
सामान्यं साधारणं प्रतिश्रुतंवा चावृत्तम्।

नारदोऽपि। अन्वाहितं याचितकमाधिः साधारणञ्च यत्।

निःक्षेपः पुत्रदारांश्च सर्वस्वञ्चान्वयेसति।
आपत्स्वपि हि कष्टासु वर्त्तमानेन देहिना।
अदेयान्याह्नराचार्य्यायच्चान्यस्मै प्रतिश्रुतमिति॥

साधारणबहुस्वामिकं रिक्थादिकं न त्वविभक्तस्वामिकंसुवर्णादिकन्तस्याविभक्त सर्वसम्मतौ देयत्वेन वक्ष्यमाणत्वात्।अत्र पुत्रादानमेक पुत्त्रविषयन्तद्दाने सन्ततिविच्छेद प्रसङ्गात्।अतएव विष्णुः, शुक्रशोणित सम्भवः पुरुषो मातापितृनिमित्तक

स्तस्य प्रदानविक्रय परित्यागेषुमातापितरौप्रभवतोन्त्वेकंपुत्रं दद्यात्प्रतिगृह्णीयाद्वास हि सन्तानाय पूर्वेषामिति। अतश्चसुतस्य सुतदाराणां वशित्वन्त्वनुशासनम्। विक्रये चैव दानेच वशित्वं न सुते पितुरित्यादीनि स्मृत्यन्तरोक्त वचनानि सुतस्यादेयत्व प्रतिपादकानि एकपुत्त्र विषयाणीतिज्ञेयानि, अनेकपुत्त्रेष्वपि मातापितृवियोग सहनक्षम एव देयः। अतएवकात्यायनः। विक्रयञ्चैव दानञ्च न नेयाः स्वरनिच्छवः। दाराःपुत्राश्चेति यथादाराःपुत्राश्च विक्रयं दानं वा भर्त्ता न नयेत्तथामातापितृभ्यां पुत्राअपि पितृवियोगानिच्छवो न नेया इत्यर्थःउक्तः स्मृतिचन्द्रिकायाम्। न नेयाः स्वरनिच्छव इत्येतदनापद्विपयम्।आपत्काले तु कर्त्तव्यं दानं विक्रयमेव वा।

अन्यथा न प्रवर्त्तेत इति शास्त्रविनिश्चय इति॥

तानेवाधिकृत्य तेनैवाभिधानात्। मात्रापि पत्यनुज्ञयादेय मित्याह विष्णुः। न तु स्त्रीपुत्त्र दद्यात्प्रतिगृह्णीयाद्वान्यत्रानुज्ञानाद्भर्त्तुरिति। अन्वाहितादिवत् स्त्रीधनमदेयम्।अत एव दक्षः। सामान्यं याचितं न्यास आधिर्दाराश्च तद्धनम्।

अन्वाहितञ्च निःक्षेपःसर्वस्वं चान्वये मति।
आपत्स्वपि न देयानि नव वस्तूनि पण्डितैः।
यो ददाति स मूढात्मा प्रायश्चित्तीयते नरः इति॥

अदेयदाने प्रतिग्रहे च दण्डमाह मनुः।

अदेयं यश्च गृह्णाति यश्चादेयं प्रयच्छति।
तावुभौचौरवच्छास्यौ दाप्यौ चोत्तममाहस मिति॥

अदेय ग्रहणमदत्तस्याप्युपलक्षणार्थम्। अतएव नारदः।

गृह्णात्यदत्तं यो मोहाद्यश्चादेयं प्रयच्छति।

दण्डनीया वुभावेतौधर्मज्ञेन महीक्षितेति॥

अदत्तादेय ग्रह्णाद्गृहीतस्य परावर्त्तनमपि कार्यमितिगम्यते। अदत्तग्रहणे दाने च दानसिद्ध्यभावात्परस्वत्वानुत्पत्तेरित्युक्तं स्मृतिचन्द्रिकायाम्।देवस्वरूमाह स एव।

कुटम्बभरणाद्द्रव्यंयत्किञ्चिदतिरिच्यते।
तद्देयमुपहृत्यान्यन्नतद्दोषमवाप्नुयादिति॥

अन्यदुपहृत्य भर्त्तव्य कुटुम्बमनवरुद्व्येत्यर्थः। उपरोधश्च भोजनाच्छादनादिराहित्यनिबन्धनतोऽत्राभिमतो न तुताम्बूलादिभोगसाधनवैकल्य निबन्धनः। अतएव बृहस्पतिः।

कुटुम्ब भक्तवसनाद्देयं यदतिरिच्यत इति।

भक्तं भोजनं वसनं आच्छादनम्।भक्तवसनाद्यदतिरिच्यतइत्यन्वयः। याज्ञवल्क्योऽपि।

स्वंकुटम्बाविरोधेन देयं दारसुतादृते इति॥

कुटुम्बाविरोधेन कुटुम्बानुरोधेन कुटुम्बाभरणावशिष्टंस्वन्देयमित्यर्थः। स्थावर विषये देयमादृतुःप्रजापति बृहस्पती। सप्तागमाद्गृह क्षेत्राद्यद्यत्क्षेत्रं प्रदीयते।

पित्र्यंवाथ स्वयं प्राप्तं तद्दातव्यंविवक्षितमिति॥

सप्तागमात्पूर्वोक्त सप्तविधागमयुक्तात्। क्षेत्रग्रहणमुपलक्षणम्। पित्र्यंवंशपरम्परायातम्। स्वयम्प्राप्तं स्वयमर्जितम्। पित्र्यंस्वयम्प्राप्तयोरुपादानं क्रीतादीनामुपलक्षणार्थम्। पित्र्यंवा स्वयम्प्राप्तं वा यद्गृहक्षेत्रादिकम्प्रदीयते तत्सप्तागप्रान्विताद्गृह क्षेत्रादुद्धृत्य दातव्यमितिस्मृतिशास्त्रं विवक्षित मित्यर्थः। अत्रसप्तागमाद्गृहं क्षेत्रादित्यभिधानं गृहक्षेत्रादिदानं कुटुम्बपर्याप्ते सागमके गृहेक्षेत्रा-

द्यन्तरे सत्येव नान्यथेत्येत्र मर्थम्।यत्तुकात्यायेनेनोक्तम्।सर्वस्वं गृहवर्ज्जंतु कुटुम्बभरणाधिकम्।

यद्द्रव्यन्तत् स्वकन्देयमदेयं स्यात्ततोऽन्यथेति।

तद्गृहाद्यन्तराभाव विषयम्। स्वकंस्वकीयम्।यथेष्टविनियोगार्हद्रव्यमिति यावत्। स्वयं प्राप्तं त्वविभक्तधनैर्भ्रातृभिरननुज्ञातमपि देयम्।स्वेच्छादेयं स्वयं प्राप्तं बन्धाचारेणबन्धकमिति बृहस्पति स्मरणात्।स्वेच्छादेयं भ्रात्राद्यनुज्ञामन्तरेणापि देयम्।वञ्चकंबन्धाचारेणाधिरूपेण देयमित्यर्थः। यत्तुतेनैवोक्तम्। विभक्ता अविभक्ता वा दायादाः स्थावरे समाः।

एकोऽप्यनीशःसर्वत्र दानाधमनविक्रये इति॥

तत् समानाधिकाविभक्त स्थावरविषयम्। आधमनमाधीकरणं विभक्ता अपि स्थावरे समाः किमुताविभक्ता इति दण्डापूपन्यायेन व्याख्येयम्। अन्यथा विभागो निरर्थकःस्यात्।अतश्चयदुक्तं स्मृत्यन्तरे।

एकोऽपि स्थावरे कुर्य्याद्दानाधमनविक्रयम्।
आपत्काले कुटम्बार्थे धर्मार्थे च विशेषत इति।

तत्क्रमायातविभक्तस्थावरविषयं सप्तानधिकस्थावर विषयं वेति मन्तव्यम्। स्वार्जित मपि किञ्चित् प्राप्त व्यवहारेपुत्रेषु सत्सु तदनुमत्यैव दातव्यमित्यभिप्रेत्याह भगवान् व्यासः।

स्थावरं द्विपदञ्चैव यद्यपि स्वयमर्जितम्।
असम्भूय सुतान् सर्वान्न दान्नच विक्रयः॥
ये जाता येऽप्यजाताश्चये च गर्भेव्यवस्थिताः।
वृत्तिञ्च तेऽभिकाङ्क्षन्ति न दानन्नचविक्रय इति॥

अत्रोत्तरपदं पूर्वप्रदर्शित बृहस्पति वचनार्थस्य दण्डा-

पूपन्यायप्रदर्शनेन दृढीकरणार्थम्। किञ्चिद्धर्त्रापत्नानुज्ञातमेव देयम्। किचिन्मुख्येनापि भ्रात्राद्यनुज्ञातमेव देयम्। यथा च वृहस्पतिः।

सौदायिकं क्रमायातं शौर्य्यप्राप्तं च यद्भवेत्।
स्त्रीज्ञातिस्वाभ्यनुज्ञात दत्तं सिडिमवाप्नुयादिति॥

सौदायिक वैवाहिकं यस्याः परिणयने लब्धं तस्याः।अनुज्ञयैव दातव्यम्। क्रमायातम्पितृपितामहादि क्रमायातम्।स्त्रीज्ञात्यनुमतं न सकलन्देयम्। वैवाहिके क्रमायाते सर्वदानन्नविद्यत इति तेनैवोक्तत्वात्। देयोक्तिप्रसङ्गेन प्रतिग्रहे प्रकारविशेषं दर्शयति याज्ञवल्क्यः।

प्रतिग्रहःप्रकाशःस्यात् स्थावरस्य विशेषत इति॥

प्रकाशःप्रकटःससाक्षिक इति यावत्। पुत्रप्रतिगहे प्रकारविशेष उक्तो वसिष्ठेन। पुत्रं ग्रहीष्यन्वन्धूनाहूय राजनि चावेद्य निवेशनस्य मध्ये व्याहुतिभिर्हुत्वाऽदूरबान्धवमसन्निकृष्टमेव गृह्णीयादिति। अदूरबान्धवं सन्निहित मातुलादिबान्धवं असन्निकृष्टं असनिकृष्ट भ्रातृ पुत्रादिव्यतिरिक्तमेव प्रतिगृह्णीयादित्यर्थः ।प्रासङ्गिकमुक्का प्रकृतमप्याह याज्ञवल्क्यः।

देयं प्रतिश्रुतञ्चैव दत्त्वा नापहरेत् पुनरिति

इदन्ते दास्यामोति यत् प्रतिश्रुतन्तदवश्यं तस्मै दातव्यं यदि धर्म्मप्रच्युतो न भवति। प्रच्युते पुनर्न दातव्यं प्रतिश्रुत्याप्यधर्म्म संयुक्ताय न दद्यादिति गौतमस्मरणात्। दत्त्वा नापहरेत्पुनः। न्यायमार्गेण यत् दत्तं सप्तविधमपि पुनर्नापहर्त्तव्यम् किन्तु तथैवानुमन्तव्यमित्यर्थः । यत्पुनः प्रतिश्रुतञ्चददातिदत्तंवाऽपहरति तस्य दोषमाहहारीतः।

प्रतिश्रुतार्थादानेन दत्तस्य छेदनेन च।
विविधान्नरकान्याति तिर्यग्योनौच जायते॥
वाचैत्र यत्प्रतिज्ञातं कर्म्मणा नोपपादितम्।
ऋणं त्तधर्म्म संयुक्तमिह लोके परत्र चेति॥

यह्वनं धर्म्म संयुक्तं प्रतिगृहीतुः प्रवृत्त धर्म्म सम्पत्त्यर्थं वाचा प्रतिज्ञातञ्चपश्चादर्पितन्तदिह परत्र च ऋणवन्नापैतीत्यर्थः। प्रतिश्रुतमदद्राज्ञा तद्दाप्योदण्डाश्च त्याह कात्यायनः।

स्वेच्छया यः प्रतिश्रुत्य ब्राह्मणाय प्रतिग्रहम्।
नदद्यादृण वद्दाप्यः प्राप्नुयात्पूर्व साहसमिति॥

मत्स्यपुराणेऽपि। प्रतिश्रुत्याप्रदातारं सुवर्णं दण्डयेन्नृप इति॥

अनयोर्दण्डयोरपराधानुसारेण व्यवस्थादत्त सप्तविधमदत्तं षोड़शप्रकारमित्याह नारदः।

दत्तं सप्तविधं ज्ञेय मदत्तं षोड़शात्मकमिति।

तत्र दत्तभेदानाह स एव।

पण्यमूल्यं भृतिस्तु ष्ट्यास्नेहात्प्रत्युपकारतः।
स्त्रीशुल्कानुग्रहार्थञ्च दत्तं दानविदो विदुरिति॥

पण्यमूल्यं क्रीतद्रव्यस्य मूल्यम्। भृति स्वरूपं कात्यायनेन दर्शितम्।

अविज्ञातोपलब्ध्यर्थं दानं यत्र निरूपितम्।
उपलब्धिकियालब्धं सा भृतिः परिकीर्त्तितेति॥

प्रयोजनक्रिया सम्पादनार्थं भृतिरिष्यत इत्यर्थः। तुष्ट्यापरितोषेण वन्दिप्रभृतिभ्यो दत्तमितिशेषः। स्नेहात् प्रीत्यादुहित्रादिभ्यो दत्तम्। प्रत्युपकारतः कृतोपकाराय प्रत्युपकारिणा दत्तम्। तत्प्रदर्शनार्थमाह। कात्यायनः।

भयत्राणोपरक्षार्थात्तथाकार्य प्रसाधनात्।
अनेन विधिना लब्धं भयत्राणादिकं धनम्।
उपकार करणेन लब्धमिति यावत्॥

स्त्रीशुल्कं विवाहार्थं कन्याबन्धुभ्योदत्तम्। अनुग्रहार्थं परोपकारः कर्त्तव्य इति विधिबलाद्यत्रकुत्राप्यनुग्रहार्थं दत्तं सफलं भवतीति दर्शयितुन्नारद आह।

मातापित्रोर्गुरौ मित्रे विनीते चोपकारिणि।
दीनानाथविशिष्टेभ्यो दत्तं तु सफलम्भवेदिति॥

उपकारिणि परोपकारे सफलं फलातिशयोपेतमित्यर्थः। तदेतत्पण्यादि सप्तविधंदत्तमेव दान विदोविदुः अपरावर्त्तनीयम्बिदुरित्यर्थः। वृहस्पतिरपि।

भृतिस्तुष्ट्यापण्यमूल्यं स्त्रीशुल्कमुपकारिणे
श्रद्धानुग्रहसंप्रीत्यादत्तं सप्तविधं विदुरिति।

अदत्तानि दर्शयति नारदः।

अदत्तन्तु भयक्रोध शोकवेग रुगन्वितैः।
तथोत्कोच परीहास व्यत्यासछलयोगतः॥
बालमूढा स्वतन्त्रार्त्त मत्तोन्मत्तापवर्ज्जितम्।
कर्त्ताममायं कर्मेति प्रतिलाभेच्छया च यत्॥
अपात्रे पात्रमित्युक्ते काये वा धर्म्म सहिहते।
यद्दत्तं स्यादविज्ञानाददत्तमिति तत्स्मृतमिति॥

रुक् उपतापः भयादिकृतोय उपतापस्तदन्वितैरित्यन्वयः । अपवर्ज्जितं दत्तं बालादिभिरपवर्ज्जितमित्यन्वयः । एतदुक्तं भवति भयोपतप्तेन वन्दि ग्राहादिभ्यो दत्तं क्रोधोपतप्तेनक्रोधविषयीभूतानां पुत्त्रभ्रात्रादीनां व्ययं कर्त्तुमितरे-

भ्यो दत्तम्। पुत्रादिवियोग जनित शोकवेगादुपतप्तेन किंस्थितेन धनेनेति तात्कालिकया बुद्ध्या दत्तम्। उत्कोचेन राजकीयादिभ्यो दत्तम्। उपहासेन दत्तम्। व्यत्यासेन एकःस्वद्रव्यमन्यस्मै ददाति अन्योऽपि स्वीयन्तस्मै ददातीति दान व्यत्यासेन दत्तम्। छलयोगतः शतदानमभिसन्धाय सहस्रमिति परिभाष्य दत्तम्। बालेनाप्राप्तव्यवहारेण दत्तं मूढेन लोकवेदानभिज्ञेन दत्तम्। अस्वतन्त्रेण दामादिना दत्तम्। आर्त्ते न रोगोपहतेन दत्तम्। मत्तेन धुस्तूरादि भक्षणादिना मत्तेन दत्तं उन्मत्तेन वातपित्ताद्युद्रेकादिना चलितविया दत्तम्। अयं मदीयं कर्म करिष्यतीति प्रतिलाभेच्छया प्रतिलाभमकुर्व्वणाय दत्तम्। अपात्रायायोग्याय योग्योऽहंइत्युक्तिमात्रेण दत्तम्। यज्ञादिं करिष्यामीत्युक्त्वा धनं गृहीत्वा द्यूतादिकर्म्मणिविनियुञ्जानाय दत्त इत्येवंषोड़श प्रकारमपिदत्तं पुनःप्रत्याहरणीयत्वाददत्तमुच्यत इत्यर्थः। पुनः प्रत्याहरणीयत्वमेवं विधानमाह कात्यायनः।

कामक्रोधास्वतन्त्रार्त्तक्लीवोन्मत्त प्रमोहितैः।
व्यत्याप्तपरिहाराय यद्दत्तन्तत्पुनर्हरेत्।
यातुकार्य प्रसिद्ध्यर्थ मुत्कोचा स्यात्प्रतिक्रिया।
तस्मिन्नपि प्रसिद्धऽर्थेन देया स्यात्कथञ्चन॥
अथ प्रागेव दत्ता स्यात्प्रतिदाप्यस्ततोबलात्।
दण्डं चैका दशगुण माहुर्गार्गीयमानवा इति॥

उत्कोचा स्वरूपमाह स एव।

स्तेय साहसिकोद्वृत्त पारदारिक शंसनात्।
दर्शनादवृत्त नष्टस्य तथा सत्यप्रवर्त्तनात्॥

प्राप्तमेतैस्तु यत्किञ्चिदुत्कोचाख्यंतदुच्यते।
न दाता तत्र दण्ड्यःस्यात्मध्यस्थश्चैव दोषभागिति

एतदुक्तं भवति यदि मह्यं न प्रयच्छसि तदा त्वत्कृतं स्तेयादि कथयामीति भीतिमुत्पाद्य स्तेयादिकर्त्तृ सकाशाद्धनमादत्ते। तथा त्वं यदि न मह्यन्न प्रयच्छसि तदा पलायमानं त्वां दर्शयामीति भीतिमुत्पाद्य पलायिनः सकाशाद्यत्किञ्चिदात्तेतथा तत्र सत्यमपि स्वामिनिकटेसत्यमिति वदिष्यामीत्युक्त्वायत्किञ्चिदादत्ते तदुत्कोचाख्यं तद्राज्ञा दात्रेदाप्यं उत्कोचापादकग्राहकौ च दण्डनीयाविति। पुनः प्रत्याहरणीयमिति।वृहस्पतिरप्याह। प्रतिलाभेच्छया दत्त मपात्रे पात्र शङ्कया।

कार्येवाधर्म्मसंयुक्ते स्वामी तत्पुनराप्नुयादिति॥

आर्त्तदत्तस्यादत्तत्वं धर्म्मकार्य्य व्यतिरिक्त विषयम्।

तथा च कात्यायनः।

स्वस्थेनार्त्तेनवा दत्तं श्रावितं धर्मकारणात्।
अदत्त्वा तु गृहे दाप्य स्तत्सुतो नात्रसंशय इति॥

मनुरपि सोपाधिकदानादेर्निवर्त्तनमाह।

योगाधमनविक्रीतं योगदान प्रतिग्रहम्।
यस्य वाप्युपधिम्पश्येत्तत्सर्वं विनिवर्त्तयेदिति॥

योग उपाधिः येनागामिनोपाधि विशेषेणाधि विक्रयादानप्रतिग्रहाः कृतास्तदुपाधिविगमे तं सर्वेऽपिनिवर्त्तेरन्नित्यर्थः। इति दत्ताप्रदानिकाख्य व्यवहार पदम्। अथाभ्युपेत्या शुश्रूषाख्य व्यवहार पदम्। तस्य स्वरूपमाह नारदः।

अभ्युपेत्य च शुश्रूषां यस्तान्नप्रतिपद्यते।
अशुश्रूषाभ्युपेत्यैतद्विवादपदमुच्यत इति॥

शुश्रूषामाज्ञाकारित्वम्। तत्र पञ्चविधःशुश्रूषकः। शिष्यः अन्तेवासी भृतकः अधिकर्म्मकृत् दासश्चेति। तेषाम्मध्ये दासभिन्नाः कर्म्मकराः। ते च शुभकर्म्मकृतः। दासाः पुनः पञ्चदशविधा गृहजातादि भेदेन तेत्व शुभकर्म्मकृतः तदेतत्सर्वं मनसि निधाय स ए वाह।

शुश्रूषकः पञ्चविधः शास्त्रे दृष्टो मनीषिभिः।
चतुर्विधः कर्मकरस्तेषां दासास्त्रिपञ्चकाः॥
शिष्यान्तेवासि भृतकाश्चतुर्थस्त्वधिकर्म्मकृत्।
एते कर्मकरा ज्ञेया दासास्तु गृहजातयः॥
सामान्यमस्वतन्त्रत्वन्तेषामाहुर्म्मनीषिणः।
जातिकर्म्म कृतस्तूक्तो विशेषो वृत्तिस्तस्तथा॥
कर्म्मापिद्विविधं ज्ञेयमशुभं शुभमेव च।
अशुभं दासकर्म्मोक्तंशुभं कर्मकृतां स्मृतम्॥
गृहद्वाराशुचिस्थान रथ्यावस्कर शोधनम्।
गुह्याङ्गत्पर्शनोच्छिष्ट विण्मूत्र ग्रहणोक्तनम्॥
इच्छतः स्वामिनश्चाङ्गैरुपस्थान मतान्ततः।
अशुभं कर्म विज्ञेयं शुभमन्यदतः परमिति॥

तेषामिति निर्धारणे षष्टी॥ त्रिपञ्चकाः पञ्चदशः। शिव्यो वेदविद्यार्थी। अन्तेवासी शिल्पशिक्षर्थी। मूल्येन यः कर्मकरोति स भृतकः। अधिकर्मकृत्। कर्मकुर्वतामधिष्ठाता। वृत्तितः जीवनोपायतः। अशुचिस्थान मुच्छिष्ट प्रक्षेपणार्थं गत्तादिकम्। अवस्करो गृहमार्जित पांस्वादि निचयस्थानम्। चतुर्भिरपि गृहद्वारादिभिः शोधनपदं सम्बध्यते। उज्यन्त्यागः। अत्ततः स्वामिनः। इच्छतः स्वाम्यनुज्ञया मूत्र-

पूरीषादिस्थले निर्मार्जनार्थमङ्गै रुपस्थानं हस्ताद्यर्पणं तेषां कर्मकराणां दासानां चास्वतन्त्र वलक्षण धर्मं मनीषिणः साधारणमाहुः। जातिकर्मकृतः कर्म्म कृतो वृत्तिकृतश्च विशेषः शिष्यान्तेवासिनामेवोक्त इत्यर्थः। तत्र शिष्याणान्त्रैवर्णिकान्यतमलक्षणीजातिकृतो विशेषो वसन्ते ब्राह्मणोऽग्नीनादधीतेत्यादि शास्त्र सिद्धोऽवगन्तव्यः। कर्मकृतविशेषन्त्वाहवृहस्पतिः।

विद्या त्रयी समाख्याता ऋग्यजुः सामलक्षणा।
तदर्थं गुरुशुश्रूषां प्रकुर्याच्छास्त्रचोदितामिति॥

शिष्य इतिशेषः। तथा च नारदः।

अविद्याग्रहणाच्छिष्यः शुश्रूषेत्प्रयतो गुरुम्।
तद्वृत्तिर्गुरुदारेषु गुरुपुत्त्रे तथैवचेति॥

वृत्तितोविशेषमाह स एव।

समावृत्तश्चगुरुवप्रदाय गुरुदक्षिणाम्।
प्रतीयात् स्वगृहानेषा शिष्य वृत्तिरुदाहृतेति॥

वृत्तिरत्रधर्म्मः। मनुरपि।

प्रतिगृह्येप्सितं दण्डमुपस्थाय च भास्करम्।
प्रदक्षिणं परीत्याग्निं चरेत् भैक्षं यथाविधि॥
भवत्पूर्वञ्चरेङ्भैक्षमुपनीतो द्विजोत्तमः।
भवन्मध्यन्तु राजन्यो वैश्यस्तु भवदुत्तरमिति॥

कः पुनरन्तेवासिनां जातिकर्मकृतोविशेष इत्यपेक्षिते वृहस्पतिराह।

विज्ञान मुच्यते शिल्पे हेमकुप्यादि संस्कृतिः।
भृत्यादिकञ्च तत्प्राप्तुं कुर्यात्कर्म गुरोर्गृहइति।

कङ्गणकटकादि निर्माण विषयं नृत्यगीतादिकरण विष-

यञ्च आदिशब्दात् स्तम्भकुम्भादि विरचन विषयञ्च। विज्ञानं शिल्पविज्ञानमुच्यते तत्प्राप्त्यर्थ्यंअन्तवासी गुरोर्गृहे कङ्कणकरणादिकं कुर्यादित्यर्थः। अनेन हेमकारादि जातिकृतः कङ्कणकरणादिकर्मकृतश्च विशेषोऽन्तेवासिनां दर्शितः। तेषां कर्मकृतंवृत्तिकृतश्च विशेषं दर्शयति नारदः।

स्व शिल्पमिच्छन्नाहत्तुम्बान्धवानामनुज्ञया।
आचार्यस्य वसेदन्त कालंकृत्वा सुनिश्चितमिति॥

अन्ते समीपे कृत्वा सुनिश्चितं एतावन्तङ्कालं मत्समीपेस्थातव्यमित्याचार्य्योक्तकालपरिमाण सुनिश्चितं कृत्वेत्यर्थः।आचार्य्यस्यापि कर्त्तव्यमाह स एव।

आचार्यः शिक्षयेदेनं स्वगृहे दत्तभोजनम्।
न चान्यत्कारयेत्कर्म पुत्त्रवच्चैनमाचरेदिति॥

अन्यच्छिल्पकर्म व्यतिरिक्तं कर्म। एवञ्चान्ते वासिना कङ्कणकरणादिकर्मफलार्पणमात्रेण शुश्रूषा कार्येत्यवगन्तव्यम्। स्वगृहे दत्तभोजनमिति वृत्तिर्द्दशिता। अन्यत्कर्मकारकमाचार्यं प्रत्याह कात्यायनः।

यस्तु न ग्राहयेच्छिल्पं कर्म्मण्यन्यानि कारयेत्।
प्राप्नुयात् साहसं पूर्वें तस्माच्छिष्यो निवर्त्तत इति॥

शिष्योऽत्रान्तेवासी। परिभाषित कालात्प्रागेव विद्या प्राप्तावपि परिभाषितकाल समापनं कार्यमित्याह नारदः।

शिक्षितोऽपि कृतं कालमन्तेवासी समापयेत्।
तत्र कर्म्मच यत्कुर्यादाचार्यस्यैव तत् फलमिति॥

याज्ञवल्क्योऽपि। कृतशिल्पोऽपि निवसेत्कृतकालं गुरोर्गृहे।

अन्तवासी गुरुप्राप्त भोजनस्वफलप्रद इति॥

दुष्टमन्तेवासिनं प्रत्याह नारदः ।

शिक्षयन्तमदुष्टञ्च यस्त्वाचार्यंपरित्यजेत्।
बलाद्वासयितव्यः स्याद्वधबन्धौ च सोऽर्हतीति।

वासयितव्यः स्थापनीयः। आचार्यपार्श्वेइतिशेषः। वधोऽत्रताडनन्नप्राणच्छेदः। अपराधल्पत्वात् । शुश्रूषासमाप्तनन्तरमन्तेवासिनःकृत्यमाह स एव।

गृहीतशिल्पः समये कृत्वाचार्यंप्रदक्षिणाम्।
शिक्षितश्चानुमान्यैन मन्तेवासी निवर्त्तत इति॥

भृतकानान्त्वन्तेवात्पिवन्न जातिकृतो वृत्तिकृतो वा विशेषः। कित्तु भृतिकृतः कर्म्मकृतः कालकृतश्च विशेषः। तदेतदाह वृहस्पतिः। यो भुंक्ते परदासीन्तुस ज्ञेयो वनिताभृतः।

कर्म्म तत्स्वामिनः कुर्यााद्यथान्योऽर्थ भृतोनरः॥
बहुधार्थकृतः प्रोक्तस्तथाभाग भृतोपरः।
हीनमध्योत्त मत्वञ्च सर्वेषामेव चोदितम्॥
दिनमसार्द्ध्वषण्मास त्रिमासाच्च भृतस्तथा।
कर्म्मकुर्यात्प्रतज्ञातं लभते परिभाषितमिति।

अयमर्थः। यः परदास्यपभोगेन तत् स्वामिनः कर्म करोति स वनिताभृतः। यो धनग्रहणेन कर्मकरोति स अर्थभृतः। यः परिकल्पितांशग्रहणेन कर्म्म करोति स भागभृतः। एतावन्तङ्कालमेतत् कर्म्मकरिष्यामीति प्रतिज्ञातं कर्म तावन्तङ्कालंकुर्य्यात् एवञ्च परिकल्पिता भृतिंलभत इति। अर्थभृतस्यबहुविधत्वमर्थाल्पत्वमहत्त्वाभ्यां ज्ञेयम्। ते चाल्पत्वमहत्त्वेशक्तिभक्त्यानुसारेण द्रष्टव्यम्।

भृतकस्त्रिविधो ज्ञेय उत्तमोमध्यमोऽधमः।

शक्तिभक्त्यानुरूपा स्यादेषां कर्माश्रयाभृतिरिति॥

नारद स्मरणात्। भागभृतकस्य विभागमाह स एव।

द्विप्रकारो भागभृतः कृषिगोजीविनां स्मृतः।
जातशस्यात्तथा क्षीरात् स लभेत न संशय इति॥

हीनमध्योत्तमत्वलक्षणः कर्मकृतो भेदोरक्षणादिकर्मनिबन्धन इत्याह स एव।

आयुधी तूत्तमः प्रोक्तो मध्यमस्तु कृषीबलः।
भारवाहोऽधमः प्रोक्तस्तथा च गृहकर्मकृदिति॥

कृषीबलः कर्षकः। अधिकर्म कृतस्तु स्वरूपमाह नारदः।

सर्वेष्वधिकृतो यः स्यात् कुटुम्बस्य तथोपरि।
सोऽधिकर्मकृतोज्ञेयः स च कौटुम्बिकः स्मृत इति॥

सर्वेषु भूतकेषु अधिकृत उपरिकृतोऽधिष्ठातृत्वेन कृत इति यावत्। अर्थेष्वधिकृत इति केचित्पठन्ति। अर्थेषु क्षेत्राज्ञण्यादिषु अधिकृतः पालकत्वेन नियुक्त इति। कुटुम्बस्योपरीत्यत्राधिकृत इत्यनुषङ्गः। सर्वभूतकेष्वधिष्ठातृत्वेन नियुक्तो यः सोऽधिकर्मकृतो ज्ञेयः। कुटुम्बरक्षणाय व्ययकारित्वेन स्थापितोयः स तु कौटुम्बिन इत्यर्थः। शिष्यान्तेवामिभृतकाधिकर्मकरेभ्यो दासानाम्भेदन्दासशब्दव्युत्पत्तिप्रदर्शनमुखेनाह। कात्यायनः। स्वतन्त्र स्यामनोदानाद्दासत्वं दारवद्भृगुरिति।

यथा भर्त्तुः सम्भोगार्थं स्वशरीरदानाद्दारत्वम्। तथा स्वतन्त्रस्यात्मनः परार्थत्वेन दानाद्दासत्वमिति भृगुराचार्योमन्यत इत्यर्थः।

अनेनात्यन्तपारार्थ्य मासाद्यशुश्रूषकादासाः।
पारार्थ्यमात्र मासाद्य शुश्रूषकास्तुकर्मकरा इति॥

क्षत्रियञ्चैव वैश्यञ्च ब्राह्मणोवृत्तिकर्षितौ।
विभृयादानृशंस्येन स्वामी कर्म्माणि कारयन्निति।

आनृशंस्थेन अक्रोर्येण। अयमर्थः। वृत्तिकर्षितं क्षत्रियं वैश्यञ्च दासीभूतमक्रोर्येण खानि कर्म्माणि कारयन् स्वामीपोषयेदिति। अत्र स्वामीत्यनेन न सम्बन्धिजनककर्माणि कारयेदित्याह। कर्म्माणीति सामान्याभिधानेन जघन्यकर्माण्येव कारयितव्यानीति नियमो नास्तीति सूचयति। वृत्तिकर्पितावित्यननेगत्यन्तराभावे एव क्षत्रियवैश्ययोर्दासत्वाङ्गीकारः कार्यो न तु गत्यन्तरसम्भव इति दर्शयति। बलाद्दासीकरणे दण्डमाह मनुः।

दास्यन्तु कारयंल्लोभाद्ब्राह्मणः संस्कृतान् द्विजान्।
अनिच्छतः प्रभावत्वाद्राज्ञा दाप्यः शतानि षडिति॥

प्रभवतो भावः प्रभवत्वं तस्मात् प्रभुत्वादित्यर्थः। साधारणादिभ्यः स्वाथे अञ्वक्तव्य इति वार्त्तिकादञ्त्व। द्विजातिपदन्न दण्डः शूद्रविषय इति दर्शयति। अत एव हि।

शूद्रन्तु कारयेद्दास्य क्रीतमक्रीतमेव वा।
दास्यायैव हि सृष्टोऽसौ ब्राह्मणस्य स्वयम्भुवेति॥
स च दासः पञ्चदशप्रकार इत्याह नारदः।
गृहजातस्तथा क्रीतो लब्धोदायादुपागतः।
अनाकालभृतश्चैव आहितः स्वामिना च यः॥
मोक्षितो महतश्चर्णात् युद्धप्राप्तः पणे जितः।
तवाहमित्युपगतः प्रव्रज्यावसितः कृतः॥
भक्तदासञ्च विज्ञे यस्तथैववड़वाहृतः।
विक्रेता चात्मनः शास्त्रे दासाः पञ्चदशः स्मृता इति॥

गृहजातः स्वगृहेदास्याञ्जातः। क्रीतो मूल्येन स्वाम्य-

न्तरात् प्राप्तः। लब्धः तत एव प्रतिग्रहादिना। दायादुपागतः रिक्थग्राहित्वेन लब्धः। अनाकालभृतदुर्भिक्षे यो मरणाद्दासत्वायरक्षितः। आहितः स्वामिना ऋणदातर्याधितां नीतः। ऋणमोचनेन दासत्वमभ्युपगतो ऋणदासः। युद्धप्राप्तः समरे विजित्यगृहीतः। पणे जितः दासत्वपणके द्यूतादौ जितः। तवाहमित्युपगतः तवाहन्दासोऽस्मीति स्वयमेवोपगतः। प्रब्रज्यावसितः प्रव्रज्यातश्च्युतः। कृतः एतावन्तं कालं तव दासोभबामीत्यभ्युपगतः। भक्तदासः सर्वकालम्भक्तार्थमेव दासत्वमभ्यपगम्य यः प्रविष्टः। भक्षितं यावत्तेमूल्यद्वारेण ददामि तावद्दास इत्यभ्युपगत इति स्मृतिचन्द्रिकायाम्। वडवाहृतः बडवागृहदासीतया हृतस्तल्लोभेन तामुद्वाह्य दासत्वेन प्रविष्टः। यश्चात्मानं विक्रीणीते असावात्मविक्रेतेत्येवं धर्मशास्त्रे दासभेदाः पञ्चदशः प्रकाराः स्मृताइत्यर्थः। अत्राद्यानां गृहजातक्रीतलब्धदायागतानाञ्चतुर्णांदासत्वापगमः स्वामिप्रसादादेवनान्यथेत्याह स एव।

तत्रपूर्वश्चतुर्वर्गो दासत्वान्नविमुच्यते।
प्रसादस्वामिनोऽन्यत्रदास्य मेषां क्रमागतमिति॥

आत्मविक्रेतुरपि दासत्वं स्वामिप्रसादादन्यतो नापैतीत्त्याह स एव। विक्रीणीते स्वतन्त्रः सन् य आत्मानन्नराधमः।

सजघन्यतमस्तेषां सोऽपिदास्यान्न मुच्यत इति॥

अत्र प्रसादात् स्वामिनोऽन्यत्र इत्यनुषज्यते। ततश्चायमर्थः। आत्मविक्रेतापि गृहजातादिवत् स्वामिप्रसादं विनादास्यान्न विमुच्यत इति एवञ्च गृहदासादयोऽप्यात्मविक्रेटपञ्चमाः स्वामिप्रसादादकालभृता इव दास्यान् मुच्यन्त इति

वचोभङ्ग्यादर्शितमिति मन्तव्यम्। स्वामिणरक्षणादगृह जातादयोऽकालभृताश्च सर्वेऽपि दास्यान् मुच्य इत्याह स एव।

यञ्चैषां स्वामिनं कश्चिन्मोचयेत् प्राण संशयात्।
दासत्वात् स विमुच्येत पुत्रभागं लभेतचेति॥

एषामिति निर्धारणेषष्ठी। पञ्चदशानांमध्ये अन्यतम इत्यर्थः। यत्तु। ध्वजाहृतोभक्तदासोगृहजः क्रीतदत्रिमैः। पैत्रिकोदण्डदासश्च सप्तैतेदासयोनयरिति मनु वचने सप्तविधत्वमुक्तत्तेषां दामत्व प्रतिपादनार्थ न परिसंख्यार्थम्।ध्वजागृहदासी एतच्च स्वामिप्रसादात् प्राणरक्षणात् वा दास्यापगममनं प्रब्रज्यावसितभिन्न दासेषु द्रष्टव्यम्। तस्य दासत्वीन्मोकाभावात्। अत एव याज्ञवल्क्यः।

प्रव्रज्यावसितोराज्ञोदास अमरणान्तिकैरिति।

राज्ञोदासःपार्थितवस्यैवदासो नान्यस्येत्यर्थः। अनाकाल भृतादीनां प्रवज्यावसितात्म विक्रेतृव्यतिरिक्तानान्नबानान्दास्थापनयन प्रकारमाह नारदः।

अनाकाल भृतोदास्यान् मुच्यते यो यु गन्ददत्।
आहितोऽपिधनं दत्वास्वामी यद्येन मुद्धरेत्।
ऋणं तु सोदयं दत्वाऋणी दास्यात् प्रमुच्यते।
तवाहमित्युपगतो युद्धमाप्तः पणेजितः॥
प्रतिशीर्ष प्रदानेन मुच्येरं स्तुल्यकर्मणा।
कृतकालव्यपगमात् कृतोदासोविमुच्यते॥
भक्तस्योत्क्षेपणात् सद्यो भक्तदासः प्रमुच्यते।
निग्रहाद्वडवायास्तु मुच्यते वडवाभृत इति॥

एतदुक्तं भवतिदुर्भिक्षेपोषणेन कारितो दासो गोयुग्भार्प्पणान् मुच्यते। आहित दासस्तु स्वामिना गृहीत ॠणे प्रत्यर्पिते सति उत्तमर्णदास्याद्विमुच्यते ऋणदामस्तु स्वकृतमृण येनोत्तमर्णाययावद्धनन्दत्त्वापाकृतं तस्मै तावद्धनंसवृद्धिकं दत्त्वा विमुच्यते। तवाह मित्युपगतादय स्त्रयोदासाः स्वनिर्वर्त्त्यायस्वीय व्यापारनिवर्त्तक दासान्तरप्रदानाद्विमुच्यन्ते। कृतकालस्तु दासी दास्यावधित्वेन परिभाषितकालस्यातिक्रप्रणाद्विमुच्यते। भक्तदासस्तु भक्तस्योत्क्षेपणाद्भक्षितभक्तमूल्यसमर्पणाद्विमुच्यते। गृहदासीलोभेन दासत्वं प्राप्तस्तत्सम्भोगत्यागाद्विमुच्यत इति। दासाभावानान्त्यागमाहयाज्ञवल्क्यः।

बलाद्दासीकृतश्चौरैर्विक्रीतश्चापि मुच्यत इति ॥

अपिशब्देन दत्ताहितौ गृह्येते। ततश्चायमर्थः। बलात्कारेण यो दासकृतःयश्च चौरैरपहृत्य दासत्वेन विक्रीत आहितोदत्तो वा स यस्य पार्श्वेदासभावेन तिष्ठति तेन प्रागुक्त मोचनहेतु मन्तरेणैव शीघ्रं मोचनीय इत्यर्थः। यदि तेन लोभादिवशादसौ न मुक्तस्तदा राज्ञा मोचयितव्य इत्याह नारदः।

चौरापहृतविक्रीता ये च दासीकृता बलात्।
राज्ञा मोचयितव्यास्ते दास्यन्तेषु हि नेष्यत इति॥

चौरापहृत्याश्च ते विक्रीताश्चेति कर्म्मधारयः। यस्त्वेकस्यदास्यं पूर्वं मङ्गीकृत्यापरस्यापि दासत्वमङ्गीकरोति असावपरेणापि विवर्जनीय इति वचः स एवाह ।

तवाहमिति चात्मानं योऽस्वतन्त्रः प्रयच्छति।
न स तं प्राप्नुयात्कामं पूर्वस्वामी लभेत तमिति॥

अस्वतन्त्रः परदासत्वेनास्वतन्त्रः। कामं नुतनस्वामिदास्यं काम्यमानं इतरदासीभवन्तं दासं पूर्वस्वामी गृह्णीयादित्यर्थः। एवं यदेतद्दास मधिकृत्योक्तन्तत्सर्वं दास्यामपि समानन्यायत्वाद्योजनीयम्। दासीस्वामिनमधिकृत्य विशेषमाह कात्यायनः।

स्वां दासीं यस्तु सङ्गच्छेत् प्रसूताच भवेत्ततः।
अवेक्ष्यवीजं कार्य्या स्याददासी सान्वया तु सेति॥

स्वकृतगर्भाधानमनु सन्धाय सा दासी सन्तानसहिता दासत्व विमोकविधिना स्वकृतगर्भादेर्दास्त्वपरिहारार्थं अदासीत्वेन कार्या स्यादित्यर्थः। कः पुनर्दासत्वविमोचकोविधिरित्याकाङ्क्षायामाह नारदः।

र्खन्दासमिच्छेद्यः कर्त्तुमदासं प्रीतमानसः।
स्कन्धादादाय तस्यासौ भिन्द्यात्कुम्भं सहाम्भसा॥
साक्षताभिः स पुष्पाभिर्मूर्ध्वन्यद्भिरवाकिरेत्।
अदास इति चोक्क्वात्रिः प्राङ्मुखन्तमथोत्सृजेदिति।

अत्रापि दासशब्देन दास्या अपि ग्रहणम्। लिङ्गस्योद्देश्य विशेषणत्वेन ग्रहाधिकरणन्यायेन्यविवक्षितत्वात्। एव मुत्सर्गे सतियद्भवति तदाह स एव।

ततः प्रभृति वक्तव्यः स्वाम्यनुग्रहपालितः।
भोज्यान्नोऽप्यप्रतिग्राह्यो भवत्यभिमतः सतामिति॥

स्वाम्यनुग्रहेण दासापाकरणरूपेण वक्तव्यः सम्भाषणार्हः।अदास्या अपि दासेन परिणीता या सा दासीत्वमेव भवतीत्याह कात्यायनः। दासेनोढा त्वदासी या सापि दासीत्वमाप्नुयात्।

यस्माद्धर्त्ताप्रभुस्तस्याः स्वाम्यधीनः प्रभुर्यत इति॥

दातधनस्यापि तत्स्वामिधनत्वमित्याह स एव।

दासस्य तु धनं यत्म्यात् स्वामी तस्य प्रभुः स्मृत इति

ब्राह्मण्यादिषु दासीकरणे दण्डमाह कात्यायनः।

आदद्याद्ब्राह्मणीं यस्तु विक्रीणीय तथैव च।
राज्ञातदकृतं कार्य्यंदण्ड्याःस्युः सर्व एव ते॥
कामात्तु मश्रितां यस्तु कुर्य्याद्दासींकुलस्त्रियम्।
सक्रामयन् तवान्यत्र दण्ड्यस्तच्चाकृतम्भवेत्॥
बालधात्रीमदासीञ्च दासीमिव भुनक्ति यः।
परिचारकपत्नींवा प्राप्नुयात्पूर्व साहसमिति।

तत्कर्त्तव्यं अकृतं निवर्त्तनीयमित्यर्थः। तेन राज्ञादण्ड्याः । स्युरित्यन्वयः। विष्णुरपि। यस्तूत्तमर्णं दास्येनियोजयति तस्योक्षप्रमाह सोदण्ड इति। क्वचिद्दासीविक्रयणे दण्डमाह । कात्यायनः। विक्रोशमाणां यो भक्तां दासींविक्रेतु मिच्छति।

अनापदिस्थःशक्तः सन् प्राप्नुयात् द्विशतं दममिति।

द्विशतंपणानामितिशेषः। भक्ताभित्यनेन दुष्टाया विक्रयणे दण्डाभाव इति दर्शितमिति। इति अभ्युपेत्याशुश्रूषाख्यव्यवहारपदम्। अथ वेतनानपाकर्म्माख्य व्यवहारपदम्। तत्र मनुः।

अत ऊर्ध्वंप्रवक्ष्यामि वेतनस्याऽनपक्रियामिति॥

तत्स्वरूपमाह नारदः।

भृतानां वेतनस्योक्तोदानादान विधिक्रमः।
वेतनस्यानपाकर्म तद्विवादपदं स्मृतमिति॥

वेतनं कर्ममूल्यं तस्यानपाकर्म भृत्याय समर्पणं समर्थितस्य वा परावर्त्तनम्। तत्र समर्पणे विशेषमाह स एव।

भृत्याय वेतनं दद्यात्कर्म्मस्वामी यथाक्रमम्।
आदौ मध्येऽवसाने तुकर्मणो यद्विनिश्चितमिति॥

तुभ्यमेतावदहं दास्यामीति यद्वेतनं परिमाणतो निश्चितं तत्त्रिधाविभाज्य कर्मण आदिमध्यान्तेषु त्रिषुकालेष्वन्यतमकाले दद्यादित्यर्थः एतच्चैतावद्वेतनं दास्यामीति भाषायाः सत्वे। असत्वेत्वाह स एव।

भृतावनिश्चितायां तु दशभागमवाप्नुयुः।
लाभं गोवीर्य्यशस्यानाम्वणिग्गोपकृषीबला इति॥

दशभागं दशमम्भागङ्गोवीर्य्यंपाल्यमानगवादिभवम्पयोदध्यादि। यदि कर्मस्वामी भृत्याय दशमम्भागन्नप्रयच्छति तदाऽसौ राज्ञा दाप्य इत्याह याज्ञवल्क्यः

दाप्यस्तुदशमम्भागंवाणिज्यपशुशस्यतः।
अनिश्चित्य भृति यस्तु कारयेत्समहीक्षितेति॥

यस्तु स्वामीवेतनपरिच्छेदमकृत्वैव भृत्यं कारयति स तस्माद्वाणिज्य पशुशस्यलक्षणात्कर्मणः सकाशाद्यल्लब्धं तस्य दशमं भागंभृत्याय महीक्षिता राज्ञा दापनीय इत्यर्थः। यत्तु त्रिभागं पञ्चभागंवा गृह्णीयात्सीरवाहक इति वृहस्पति वचनम् तद्वह्वायाससाध्याकृष्ट क्षेत्रविषयम्। व्यवस्थित विकल्पश्चायम्। कथमत्रव्यवस्थेत्याकाङ्क्षायामाह स एव।

भक्ताच्छादभृतः सीराङ्भागंगृह्णीत पञ्चमम्।
जातशस्यात्रिभागस्तु प्रगृह्णीयादथाभृत इति॥

अशनाच्छादनाभ्यां भृतः कृषीवलो लाङ्गलविकृष्टं क्षेत्रजात शस्यालञ्च मम्भागं गृह्णीयात्। ताभ्याप्रभृतस्तु तृतीयं

भागमित्यर्थः। अथवा यत्रैतावद्दास्यामीति नास्ति परिभाषा तत्रवृद्धमनूक्तं द्रष्टव्यम्।

समुद्रया न कुशला देश कालार्थ दर्शिनः।
नियच्छेयुर्भृतिं यांन्तु सा स्यात्प्रगकृता यदीति॥

एतावद्दास्यामीति परिभाषितेऽपि क्वचिच्छतान्न्युनमपि स्वबुद्धिमात्र परिकल्पितं देयं क्वचित्ततोऽधिकमपि देयमित्याह। याज्ञवल्क्यः। देशं कालश्च योऽतीयाल्लाभं कुर्य्याच्च योऽन्यथा।

तत्र स्यात् स्वामि मञ्छन्दोऽधिकं देयं कृतेऽधिके इति॥

योभृत्यः स्वाम्यनुज्ञां विना स्वातन्त्र्येण वाणिज्यादिकर्मणः फलसाधकत्वापादकं देशं कालं चातिक्रामतिलाभं वा बहुतर व्यस्तेन स्वल्पं करोति तस्मैपूर्वपरिभाषित भृतिमध्ये स्वामीस्वेच्छानुसारेण किञ्चिद्दद्यात्। यस्तु स्वातन्त्र्येण बहुलाभं करोति तस्मै परिभाषित मूल्याधिक किञ्चिद्देयंस्वामिना पारितोषिक मित्यर्थः। अनेक भृत्यसाध्यकर्मणि वेतनार्पणप्रकारमाह स एव।

यो यावत्कुरुते कर्म तावत्तस्य तु वेतनम्।
उभयो रप्यसाध्यं चेत्साध्ये कुर्याद्यथाश्रुतमिति॥

उभयोरपीत्यपिना बहूनां ग्रहणं अस्मिन् गृहादौ कृते भवतामेतावद्दास्यामीति परिभाषिते द्विबद्धभिरारब्धं कर्म यदि व्याध्यादिवशान्नसमापित तदा तेषु यो यावत्कर्म करोति तस्मै तत्कर्म्मानुसारेण मध्यस्य परिकल्पितं वेतनन्देयम्। न तु साम्येन दानन्नच परिसमाप्ताभावाददानम्। यदि तैः समापितं तदा यथा परिभाषितं देयन्नतु प्रत्येकं कृत्स्नदा-

तव्यं नापि कर्मानुसारेण परिकल्प्यदातव्यमित्यर्थः। यस्तु वेतन गृहीत्वा समर्थोऽपि न कर्म करोति तं प्रत्याह वृहस्पतिः।

गृहीतवेतनः कर्म न करोति यदा भृतः।
समर्थश्चेद्दमन्दाप्यो द्विगुणन्तंञ्च वेतनमिति॥

दमं शक्त्यनुसारेण राज्ञेदद्यात्। गृहीतश्च वेतनं द्वैगुण्येन स्वामिने दद्यादित्यर्थः। नारदोऽपि।

भृति गृहीत्वाऽकुर्वाणो द्विगुणां भृतिमावहेदिति।

याज्ञवल्क्योऽपि।

गृहीतवेतनःकर्म त्यजन् द्विगुणमावहेदिति॥

अस्मिन्नेव विषये वेतनाग्रहणे त्वाह स एव। अगृहीते समन्दाप्प इति यावता वेतनेन भृत्यत्वमङ्गीकृतं तावदेव स्वामिने देयन्नतु राज्ञे दण्डमित्यर्थः। यद्वाङ्गीकृताम्मृतिं दत्त्वा बलात्कारयितव्य इत्याहनारदः।

कर्माकुर्वन् प्रतिश्रुत्यकार्यो दत्वाभृतिम्बलादिति॥

प्रतिश्रुत्येति प्रारम्भस्याप्युपलक्षणार्थम् अतएव कात्यायनः। कर्म्मारम्भंतु यः कृत्वा सिद्धिन्नेव तु कारयेत्।

बलात्कारयितव्योऽसावकुर्वन् दण्डमर्हतीति॥

कियद्द्रव्यंदण्डा इत्यपेक्षायामाहतुर्वृद्ध मनु वृहस्पती।

प्रतिश्रुत्य नकुर्य्याद्यः स कार्यः स्याद्बलादपि।
स चेन्न कुर्य्यात्तत्कर्म प्राप्नुयाद्विशतं दममिति॥

द्विशतं कार्षापणद्विशतमित्यर्थः। यत्तु मनु वचनम्।

भृतोनार्त्तो न कुर्य्याद्यो दर्पात्कर्म यथोदितम्।
स दण्ड्यःकृष्णलान्यष्टौ न देयं तस्य वेतनमिति॥

तदल्पदण्डत्वाद्भागासिद्धि विषयमिति स्मृतिचन्द्रिकायाम्

अद्धन्यून कर्म करण विषयमिति मदनरत्ने। किचिन्न्यूनकर्म करणे त्वाह स एव।

ययोक्तमार्त्तः सुस्थोवा यस्तत्कर्म न कारयेत्।
न तस्य वेतनं देयमल्पोनस्थापि कर्मण इति॥

सुस्थोवा कर्म कारयेदिति वदता सुस्थेऽपि स्वयं कर्त्तृत्व नियमो नास्तीति दर्शयति। आर्त्तोयदि आर्त्त्युपशमानन्तरं स्वाङ्गीकृतंकर्म करोति तदार्त्ते दीर्घकालतया कालक्षेपेऽपि भृत्यदोषाभावाद्वेतनमसौ निर्विवाद लभतइत्याह स एव।

आर्त्तस्तुकुर्यात्सुस्थःसन् यथाभाषित मादितः।
सुदीर्घस्यापि कालस्य तल्लभेतैववेतनमिति॥

आदितःआदौयथा भाषितं यथा प्रतिज्ञातं तथा कुर्यादित्यर्थः। सुदीर्घस्यापि कालस्य अत्ययेऽपोतिशेषः। यस्तु कालविशेषावधिकं कर्म प्रतिज्ञाय तत्कालपूर्त्तावेव कर्म त्यजति तं प्रत्याहनारदः।

कलेऽपूर्णे त्यजन् कर्म भृते र्नाशमवाप्नुयादिति।

अत्रदण्डमप्याह विष्णुः। भृतकश्चापूर्णे काले त्यजन् सकलमेवमूल्यजह्यात् राज्ञेच पणशतं दद्यादिति। मूल्यं वेतनम्। स्वामिदोषात्यागेतु यावति काले कर्म कृतं तत् कालानुसारेण कल्पित्तं वेतनं लभत इत्याह नारदः।

स्वामिदोषादपक्रामन् यावत् कृतमवाप्नुयादिति।

स्वामिदोषो विनापराधं निष्ठुरभाषणादिः। अत्र दण्डमप्याह विष्णुः। स्वामी चेद्भृतकमपूर्णे काले जह्यात् तस्य सर्वमेव मूलं दद्यात् पणशतञ्चराजन्यत्रभृतदोषादिति। स्वामिद्रव्यस्य भृत्यदोषेण नाशयत् कर्त्तव्यं तदाह स एव। तद्दो-

षेण यद्विनश्येत्तत् स्वामिने देयमन्यत्र दैवोपघातादिति। दैवोपघातो राज कृतस्याप्युपलक्षणम्। स्वामिने देयं मूल्यद्वारेणेतिशेष। अवदामविशेषाद्विशेषमाह वृहन्मनुः।

प्रमादान्नाशितं दाप्यः समं द्विद्रोहनाशितमिति।

प्रमादान्नाशित मनवधाननाशितं सममेवदद्यात्। द्रोहनाशितन्तीव्रप्रहारादिना द्रोहेण नाशितं द्विर्दाप्योद्विगुणं दाप्य इत्यर्थः। भृत्यदोषाभाषे यदन्यत एव नष्टं तन्नदेयमित्याह स एव।

न तु दाप्यो हतञ्चौरैर्दग्धमूढ जलेन वेति।

ऊढं नीयम्। यस्तु वाहकोवाह्यं द्रव्यं प्रज्ञाहीनत्वादिना स्वदोषेण नाशयति तं प्रत्याह नारदः।

भाग्डंव्यमनमागच्छेद्यदि वाह कदोषतः।
दाप्यो यत्तत्र नश्येन्नुदैवराज कृतादृत इति॥

भाण्डं वहनीय द्रव्यं मुक्तकादि। व्यमनन्नाशम्। अत्रभाण्डवाहकयोर्ग्रहणक्रमेण वलीवर्दकृषीबलयोरुपलक्षणमिति मदनरत्ने। अत्रापि प्रमादान्नाशितं दाप्यः समं द्विर्द्रोहनाशितमिति वृद्धमनूक्तो विशेषोऽवगन्तव्यः। यस्तु वाहकः स्वदोषेण प्रस्थानविघ्नङ्करोतीति स द्विगुणां भृतिन्दाप्य इत्याह कात्यायनः।

विघ्नं यो वाहको दाप्यः प्रस्थाने द्विगुणाम्भृतिमिति।

विघ्नं करोतीतिशेषः। वाहकग्रणणं प्रदर्शनार्थं न तु विवक्षितन्तेनायुधीयादि विघ्नकारिणोऽप्येतदिति मन्तव्यम्। अतएव नारदः।

द्विगुणां तु भृतिन्दाप्यः प्रस्थाने विघ्नमाचररन्निति।

सामान्येनोक्तवान्। याचवल्क्योऽपि।

प्रस्थानविघ्नकृच्चैव प्रदाप्यो द्विगुणां भृतिमिति।

एतच्च भृत्यन्तरसम्पादनकालासम्भवविषयम्। अङ्गीकृतकर्माकरणस्यापि यदा सहायान्तरलाभेन प्रस्थानविघ्नानापादकत्वन्तदा त्वाह स एव।

प्रक्रान्ते सप्तमम्भागञ्चतुर्थम्पथि सन्त्यजन्।
भृतिमर्द्धपथे सर्वां प्रदाप्यस्त्याजकोऽपिचेति॥

प्रक्रान्ते कर्मणि स्वाङ्गीकृतं कर्म त्यजन् भृत्यो भृतेः सप्तमम्भागन्दाप्यः। गमने प्रारब्धे पथि त्यजन् भृतेश्चतुर्थं भागम्। अर्द्ध्वेपथे त्यजन् सर्वाभृतिमित्यर्थः। त्याजकोऽपिचेत्यस्यायमर्थः गमनारम्भानन्तरं स्वामी यदि त्याजयति तदा पूर्वोक्तक्रमेण भृत्याय सप्तमभागादिकं दापनीय इति। एतच्चाव्याधितादि विषयम्। व्याधितस्यापराधाभावात्। यच्च स्वामिनात्याजनेचतुर्थभागदापन मुक्तं तदविक्रीतम्भाण्ड स्वामिविषयम्। विक्रीतभाण्डस्वामिना यत् कर्त्तव्यं तदाह वृहन्मनुः।

पथि विक्रीय तद्भाण्डम्वणिक् भृत्यं त्यजेद्यदि।
अथ तस्यापि देयं स्याङ्भृतेरर्द्धंलभेत स इति॥

पथि भाण्डस्य चौरादिभिः प्रतिरोधेराजादिभिरपहृते स्वामिनः कर्त्तव्यमाह।

कात्यायनः। यदा च पथि यद्भण्डामारुद्ध्येत ह्रियेत वा।

यावानध्वागतस्तेन प्राप्नुयात्तावतो घनमिति।

भारवाहकस्वीकृतेन यानादिना भाण्डनेतारं प्रत्याह नारदः।

अनयद्भाटयित्वा तु भाण्डवान्यानवाहनम्।
दाप्योभृतिचतुर्भागं सर्वामर्द्ध्वपथे त्यजन्निति॥

यानं शकटादि वाहनं अश्वादि अयमर्थः। यो यानादिना भाण्डनयनं कर्तुम्परकीयं यानादिकम्भाटयित्वा प्रापणादिकार्योपाधिक परिक्रयं कृत्वा तन्ननयति स यान स्वामिने परिकल्पितस्य भाटकस्य चतुर्थांऽशन्दाप्यः। यस्तु तन्नीत्वाऽर्द्धमार्गेत्यजति स सर्वां भृतिन्दाप्य इति। यस्तुशकटादिकं भाटदित्वा तमेवोपकारशून्यमादाय देशान्तरङ्गच्छति भाटक च न प्रयच्छति तं प्रत्याह वृद्धमनुः।

यो भाटयित्वा शकटं नीत्वा वान्यत्र गच्छति।
भाटं न दद्याद्दाप्यः स्यादनूढस्यापि भाटकमिति॥

अनूढस्थापि अकृतोपकारस्यापीत्यर्थः। यस्तु कृते कृत्ये समनन्तरं वाहनादेः समर्पण न करोति तस्य समर्पणपर्य्यन्तभाटकदानमाह। कात्यायनः।

हस्त्यश्वगोखरोष्ट्रादीन् गृहीत्वा भाटकेन यः।
नार्पयेत् कृतकृत्यः संस्तावद्दाप्यसभाटकम्॥
गृहवार्यापणादीनि गृहीत्वा भाटकेन यः।
स्वामिने नार्पयेद्यावत्तावद्दाप्यः सभाटकमिति॥

वारिशब्देन तदाधारभूतं पात्रंलक्ष्यते। नार्पयेत् कृतकृत्यः सन्नित्यनुषङ्ग। परभूमौ गृहनिर्माणाय भाटकदातारं प्रदाह नारदः।

परभूमौ गृहं कृत्वा स्तोमन्दत्त्वा वसेत्तु यः।
स तद्गृहीत्वा निर्गच्छेत्तृणकाष्ठेऽष्टकादिकमिति॥

स्तोमम्भाटकं स्तोमाप्रदानेऽप्याह स एव।

स्तोमाद्विना वसित्वा तु परभूमावनिश्चितः।
निर्गच्छ स्तृणकाष्ठानि न गृह्णीयात् कथञ्चन॥

यान्येव तृणकाष्ठानि त्विष्टकाविनिवेशिताः।
विनिर्गर्च्छंस्तुतत्सर्वं भूमिस्वामिनि वेदयेदिति॥

स्वामिने निवेदयेदित्यर्थः। अनिश्चित इति वदता तृणकाष्ठादि ग्रहणाग्रहणपरिभाषाविहीनविषयमेतदिति दर्शितम्। परिभाषाविषये तु यथा परिभाषितं कर्त्तव्यम्। भाटके गृहीतानां जलपात्रादीनां भङ्गे नाशे च विशेषमाह स एव।

स्तोमवाहीनि भाण्डानि पूर्णकालान्युपानयेत्।
गृहीतुराभवेद्भग्नं नष्टञ्चान्यत्र संप्लवादिति।

स्तोमवाहीनि भाटकगृहीतानि पूर्णपरिभाषितभाटकालानि तत्स्वामिनं प्रापयेदिति पूर्वाद्धार्थः। भग्नमेकदेशेन विकृतम् नष्टम्। कार्त्स्र्येनविकृतम्। संप्लवः परस्परसङ्घर्षः तद्भिन्नप्रकारेण यद्भग्ननष्टञ्च तद्भाटकगृहीतुर्भवति। संप्लवेन तु यद्भग्ननष्टञ्च तद्भाटकदात्रापूर्ववत्कृत्वा मूल्यद्वारेण चादेयमित्यर्थः। व्याधितस्यभृत्यस्य स्वामिना पथित्यागे दण्डमाह कात्यायनः।

त्यजेत्पथि सहायं यः श्रान्तं रोगार्त्तमेववा।
प्राप्नुयात् साहसं पूर्वं ग्रामे त्यह मपालयन्निति॥

स्वाम्यनुज्ञातेन भृत्येनापराधे कृते सोऽपराधः स्वामिनएवेत्याह वृहस्पतिः।

प्रभुणाविनियुक्तः सन् भृतको विदधाति यः।
तदर्थमशुभं कर्मस्वामी तत्रापराघ्नुयादिति॥

स्वामी कृतकर्मणे भृतकाय यदि न वेतनं ददाति तदाऽसौ राज्ञा दापनीयः। इत्याह स एव।

कृते कर्मणि यः स्वामी न दद्याद्वेतनं भृते।

राज्ञा दापयितव्यः स्याद्वेतनञ्चानुरूपत इति॥

वेश्यातदुपभोक्तृ विषये नारद आाह।

शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विगुणं वहेत्।
अनिच्छन् शुल्कदातापि शुल्कहानि मवाप्नुयादिति॥

एतदव्याधितादि विषयम्। व्याधितादि विषयेत्वाह। वृहस्पतिः।

व्याधिता सश्रमा व्यग्रा राजकार्यपरायणा।
आमन्त्रिता च नागच्छेदवाच्या वडवा मृतेति॥

आमन्त्रिता आहूता। वडवा दासी तद्ग्रहणमत्रपण्यस्त्री प्रदर्शनार्थम्। उपभोक्तारं प्रत्याह नारदः।

अप्रयच्छन्तया शुल्कमनुभूय पुमान् स्त्रियम्।
अक्रमेण तु सङ्गच्छेद्यातदन्तनखादिभिः॥
अयोनौ यः समाक्रामेद्वहुभिर्वापिवासयेत्।
शुल्कं सोऽष्टगुणं दाप्यो विनयन्तावदेवत्विति॥

वेश्यायास्त्वपराधे दण्डादिकं मत्स्यपुराणे दर्शितम्

गृहीत्वा वेतनं वेश्या लोभादन्यत्र गच्छति।
तान्दमन्दापयेद्दद्यादितरस्यापि भाटकमिति॥

इतरस्य दत्तशुल्कस्य। तत्रैव विशेषान्तर मुक्तम्।

अन्यमुद्दिश्य वेश्यां यो नयेदन्यस्य कारणात्।
तस्य दण्डो भवेद्राज्ञःसुवर्णस्य च माषकम्॥
नीत्वा भोगन्न यो दद्याद्दाप्यो द्विगुण वेतनम्।
राजश्च द्विगुणं दण्डं तथा धर्मो न हीयते॥
बहूनां व्रजतामेकां सर्वे तद्विगुणं धनम्।

तस्यै दद्युःपृथक् राज्ञेदण्डञ्च द्विगुणम्परमिति॥ अत्रनिर्णेतृनाह नारदः।

वेश्याप्रधाना यास्तत्रकामुकास्तद्नुहोषिताः।
तत् समुत्थेषु कार्येषु निर्णयं संशये विदुरिति॥

इति वेतनादानाख्यव्यवहार पदम्॥ अथ सम्बिह्यतिक्रमाख्यव्यवहार पदम्। तस्य स्वरूपं व्यतिरेकमुखेन दर्शयति।
नारदः।

पाखण्डनैगमादीनां स्थितिः समयउच्यते।
समयस्यानपाकर्म तद्विवादपदं स्मृतमिति॥

पाखण्डाः वैदिकमार्गद्वेषिणः क्षपणकादयः। नैगमाः सार्थिका वणिज इति मदनरत्ने। नैगमाः वेदप्रामाण्याभ्युपगन्तारः पाशुपतादय इति मिताक्षरायाम्। आदिशब्देन विद्ब्राह्मण समूहादीनां ग्रहणम्। समयस्यानपाकर्म प्रव्यतिक्रमः। समयपरिपालनमिति यावत् तद्व्यतिक्रम्यमाणं विवादपदम्भवतीत्यर्थः। तद्रूपयोग्यार्थमाह। वृहस्पतिः।

वेदविद्याविदो विप्रान् श्रोत्रियानग्निहोत्रिणः।
आहृत्य स्थापयेत् तत्रतेषां वृत्तिं प्रकल्पयेदिति॥

याज्ञवल्क्योऽपि।

राजा कृत्वा पुरे स्थानं ब्राह्मण्यं न्यस्य तत्र तु।
त्रैविद्यं वृत्तिमद् ब्रूयात् स्वधर्मः पाल्यतामिति॥

ब्राह्मणानां समूहो ब्राह्मण्यम्। ब्राह्मण मानववाडवाद्यदिति सूत्रेण यत्। विद्या वेदाः तिसृणां विद्यानां समाहारस्त्रिविद्यम्। त्रिविद्यमधीते इति त्रैविद्यम्। तदधीते तद्देदेति अण् प्रत्ययः। ननु द्विगोर्लुगनपत्ये इति सूत्रणाणोलुक्कस्मान्नभवति द्विगुनिमित्तत्वाभावादिति गृहाण। तेषां वृत्तिं प्रकल्पयेदित्यस्याऽर्थो वृहस्पतिनैव विवृतः।

अनाच्छेद्य करास्तेभ्य प्रदद्याद्गृहभूमयः।
युक्तभाव्यश्चनृपतिर्लेखयित्वा स्वशासनमिति॥

अनाच्छेद्यकराः। अग्राह्यकराः। एतदुक्तम्भवति। आगामि नृपतिभिरग्राह्यकराः तेभ्य विसृष्टकराश्च गृहभूमयः प्रदद्यादिति। एवं नियुक्तैर्यत्कर्त्तव्यं तदाह याज्ञवल्क्यः।

निजधर्माविरोधेन यस्तु सामयिको भवेत्।
सोऽपि यत्नेन संरक्ष्योधर्मो राजकृतश्च य इति॥

निजधर्माविरोधेन श्रैतस्यार्त्ताकर्माविरोधे नासामयिकः समयान्निष्पन्नोयो धर्मो गोप्रचारोदकरक्षणदेवगृहपालनादिरूपः सोऽपि यत्नेन पालनीयः। यश्च राज्ञा कृतोनिजधर्माविरोधैनैव यः सामयिको धर्मो यावत्पथिकम्भोजनन्देयमस्मदरातिमण्डले तुरगादयो न प्रस्थापनीय इत्येवं रूपंसोऽपि यत्नेन रक्षणीय इत्यर्थः। वृहस्पतिरपि।

नित्यं नैमित्तिकं काम्यं शान्तिकम्पौष्टिकन्तथा।
पौराणं कर्मकुर्य्युस्ते सन्दिग्धे निर्णयं तथेति॥

पौराणां पुरवासिनामित्यर्थः। एवं राजनियुक्तसमुदायविशेषस्य कार्य्य विशेषउक्तः। सर्वसमुदायानाञ्च कार्य्यमाह स एव।

ग्रामश्रेणिगणानाञ्च सङ्केतः समयक्रिया।
बाधाकाले तु सा कार्य्याधर्मकार्ये तथैव च॥
चाटचौरभये बाधाः सर्वसाधारणः स्मृताः।
तत्रोपशमनं कार्य्यंसर्वेनेकेन केनचिदिति॥

गणानाञ्चेत्यत्र च शब्दः पाषण्डनैगमादीनां समुच्चयार्थः। ततश्च गणपाषण्डनैगमादीनां समयकरणमन्तरेण यद्युपद्रवो दुःपरिहरः धर्मकार्य्यंच दुःसाध्यन्तदा पारिभाषिकीसमयक्रिया सर्वैर्मिलितैः कार्य्या। चाटोवृकः। चाटचौरादिभ्यो भये प्राप्ते तदुपशमनं सर्वैःकार्यमित्यर्थः।

धर्मकार्यमपि सम्भूय कार्यमित्युक्तं तेनैव।
सभाप्रपादेवगृहतटाकाराममंस्कृतिः॥
तथानाथ दरिद्राणां संस्कारो यजनक्रिया।
कुलायननिरोधश्च कार्यमस्माभिरंशतः॥
यत्रैतल्लिखितं पत्रे धर्म्या सा समयक्रिया।
पालनीयाः समस्तैस्तैर्यः समर्थो विसम्वदेत्॥
सर्वस्वहरणं दण्डस्तस्य निर्वासनं पुरादिति।

सभा मण्डपः। प्रपापानीयशालिका। आरामः उपवनम्। संस्कृतिः जीर्णोद्वारः, संस्कार उपनयनादिकः प्रेतदहनादिकञ्च। यजनक्रिया सोमयागादिकर्त्तृभ्यो दानम्। कुलायननिरोधः। कुलायनदुर्भिक्षाद्यपगमपर्यन्तस्य धारणम्। कुल्यायनानिरोधश्चेति कल्पतरौ पाठः। कुल्यायननिरोधः कुल्यायाः प्रवर्त्तन प्रतिबन्धौ। एवं कृता समयक्रिया न केवलं समुदायिभिरेव पालनीया अपि तु राज्ञापि आाहनारदः।

पाषण्डनैगमश्रेणि पूगभ्रातगणादिषु।
संरक्षेत्समयं राजा दुर्गे जनपदे तथेोरे॥

पाषण्डा वेदोक्तलिङ्गधारण व्यतिरिक्ताःसर्वे लिङ्गिनः। तेषु विहितभिक्षाचरणाद्याः सन्ति। नैगमाः सार्थिका वणिक् प्रभृतयः। तेषु सकुञ्चकसन्देशहर पुरुषतिरस्कारिणोदण्ड्या इत्येवमादयोबहवः समया विद्यन्ते। अथ वा नैगमाः आप्त प्रणेतृत्वेन ये वेदं प्रामाण्यमिच्छन्ति पाशुपतादयः। श्रेणयः एकशिल्पोपजीविनः। तास्विदमनयैवश्रेण्या विक्रेयमित्येव मादिकाः समया वरीवर्त्तन्ते। पूगा हस्त्यखारोहादयः। ब्रातगणशब्दयोरर्थमाह।

कात्यायनः।

नानायुधधरा ब्राताःसमवेतास्तु कीर्त्तिताः।
कुलानां हि समूहस्तु गणः सम्परिकीर्तित इति॥

पूगे व्राते वास्त्र मुत्सृज्य समरेन गन्तव्यमित्येवमादयः समया न वर्त्तन्ते। गणे तु पञ्चमे दिने पञ्चमे वर्षे वाकर्णवेधः कर्त्तव्य इत्येवमादिः समयासमस्ति। गणादित्यत्रादिशब्देन ब्रह्मपुरीनिविष्टस्य महाजनादेःपरिग्रहः। तत्र गुरुर्दक्षिणाद्यर्थमागतो माननीय इत्यादि समयोऽस्ति। दुर्गे तु धान्यादिकं गृहीत्वा अन्यत्र न तद्विक्रेयमित्यादिरस्ति समयः। जनपदे तु क्वचिद्विक्रेतृसकाशाच्छुल्क ग्रहणमित्याद्यनेकविधः समयो वरीवर्त्तते। तदेतं समयजातं यथा न भ्रश्यति तथा राजा कुर्य्यादित्यर्थः। समूहादि पुरुषविषये विशेषमाह। वृहस्पतिः।

कोशेन लेख्यक्रियया मध्यस्थैर्वा परस्परम्।
विश्वासं कृत्वा यः कुर्य्युःकार्याणि समनन्तरमिति।

कोशेन देवतास्नानोदकपानेन। लेख्यक्रियया समयपत्रेण। मध्यस्थैःप्रतिभूमिःकार्याणि समूह कार्याणि। एतदुक्तंभवति। समुदायिभिः परस्परं समयातिक्रमाभावायकोशादिभिर्विश्वासमुत्पाद्य सामयिककार्याणि कर्त्तव्यानीति। कात्यायनोऽपि।

समूहानां तु यो धर्मस्तेन धर्मेण ते सदा।
प्रकुर्युःसर्वकर्माणि स्वधर्मेषु व्यवस्थिता इति॥

सामयिकधर्मनिजधर्मानतिक्रमेण समूहकार्याणि समुदायिनः कुर्युरित्यर्थः। याज्ञवल्क्योऽपि।

निजधर्माविरोधेन यस्तु सामयिको भवेत्।
सोऽपि यत्नेन सं रक्ष्योधर्मो राजकृतश्चय इति॥

निजधर्माविरोधेनेत्यनेन निजधर्म्माविरोधी सामयि-

को धर्मोयथा सन्ध्यावन्दन वेलायां सर्वैरेव स्वव्यापारपरिहारेण राजभवनं प्रत्यागन्तव्यं यो नायास्यति तस्य प्रथम साहतो दण्ड इति नासौरक्ष्यइत्यर्थादुक्तम् कात्यायनोऽपि।

अवरोधन धर्म्मस्य निर्जितं राजशासनम्।
तस्यैवाचरणं पूर्वं कर्त्तव्यन्तु नृपाज्ञयेति॥

धर्म्मस्य श्रौतस्मार्त्तादिधर्मस्य निर्जितं कृतमित्यर्थः।

राज्ञाप्रवर्त्तितान् धर्म्मान्यो नानुपालयति तस्य दण्ड्यतामाह। स एव।

राज्ञाप्रवर्त्तितान् धर्म्मान्यो नरो नानुपालयेत्।
गह्यःस पापो दण्डाञ्च लोपयन् राजशासनमिति॥

विचित्र बुद्धिभिः समुदायिभिरनेकैरेकमन्येन कार्य्यकरणसम्भवात् द्वित्राःपञ्च वा कार्यचिन्तकाः कर्त्तव्या इत्याह। वृहस्पतिः।

द्वौ त्रयः पञ्च वा कार्याः समूहहितवादिनः।
कर्त्तव्यं वचनन्तेषां ग्रामश्रेणिगणादिभिरिति।

कार्य्यचिन्तकेषु हेयोपादेयान्दर्शयति स एव।

विद्वेषिणो व्यसनिनः शालीनालसभीरवः।
लुब्धाति वृद्धबालाश्च न कार्य्याःकार्य्यचिन्तकाः।
शुचयो वेद धर्मज्ञाः दक्षा दान्ताः कुलोद्भवाः॥
सर्व कार्य्यप्रवीणाश्च कर्त्तव्याश्च महत्तमा इति॥

शालीनाः। अधृष्टाः। कार्यचिन्तकाः। समुदाय कार्यसाधक विचारकाः। कार्यचिन्तकानामपि समूह हितवादिनां वचनं सर्वैः समूहिभिः कार्य्यमित्याहयाज्ञवल्क्याः।

कर्त्तव्यं वचनं सर्वैः समूहहितवादिनामिति॥

समूहन प्रतिकूलस्य प्रथम साहसंदण्ड इत्याह स एव।

यस्तत्रविपरीतः स्यात्स दाप्यः प्रथमं दममिति॥

प्रथमं पूर्वसाहसम्। कात्यायनोऽपि।

युक्तियुक्तं वचो द्वन्याद्वक्तुर्योऽनवकाशतः।
अयुक्तञ्चैव यो ब्रूयात्मदाप्यः पूर्वसाहसमिति॥

वृहस्पतिरपि।

यस्तु साधारणं हिंस्यात् क्षिपेत्रैविद्यमेव वा।
सन्धिक्रियां विहन्याच्चस निर्वास्यस्ततः पुरादिति॥

साधारणम्। समुदाय ग्राह्यं दण्डादि द्रव्यम्। हिंस्यात्। दण्ड्यादेः साहाय्यकरणान्नाशयेत्। क्षिपेत् तिरस्कुर्यादित्यर्थः। समूहिनामप्य धर्म्मेण द्वेषादिना कार्य्यकरणे दण्डमाह स एव। बाधां कुर्युर्स्त्रैविकस्य सम्भूता द्वेष संयुताः।

राज्ञा तु विनिवार्यास्ते शास्याश्चैवानुबन्धत इति॥

अनुबन्धतः निग्रहतारतम्यानुसारेण मुख्यानामपराध विशेषे दण्डर्विशेषमाह याज्ञवल्क्यः।

मणद्रव्यं हरेद्यस्तु सम्बिदं लङघयेच्च यः।
सर्वस्व हरणं कृत्वा तं राष्ट्राद्विप्रवासयेदिति॥

मुख्य दण्डने समूहस्यैवाधिकारः। अत एव कात्यायनः।

साहसीभेद कारी चगण द्रव्य विनाशकः।
उच्छेद्याः सर्व एवैते विख्याप्यैव वृद्धे भृगुरिति॥

नृपे विख्याप्यगणेनोच्छेद्या इत्यर्थः। समूहाशक्तौ तस्य दण्डो राज्ञाविधेयः। अत एव मनुः।

यो ग्राम देशसङ्गानां कृत्वा सत्येन सम्विदम्।
विसम्विदेन्नरो लोभाप्त राष्ट्राद्विप्रवासयेत्॥
निगृह्य दापयेच्चैनं समय व्यभिचारिणम्।
चतुः सुवर्णान् षणिष्काञ्चतमानञ्च राजतम्॥
एवं दण्डविधिंकुर्याद्धार्मिकः पृथिवीपतिः।

ग्रामजातिसमूहेषु समय व्यभिचारिणामिति॥

एतेषां प्रवासेन चतुः सुवर्णपणिष्कशत मानरूपाणाञ्चतुर्णांदण्डानाञ्चाति विद्यागुणाद्यपेक्षया व्यवस्था कल्पनीया। यत्तु कश्चिदेतेषाञ्चतुर्णांदण्डानांक्रमेण ब्राह्मणादि चतुर्वर्णविषयत्वमित्याह तदज्ञानविलसितम्। एतादृश व्यवस्थायां प्रमाणाभावात्। ब्राह्मणस्य प्रवासनं क्षत्रियादीनाञ्च तुः सुवर्णादि दण्ड इत्यस्यानुचितत्वाञ्च। मर्मोद्घाटकादीनां पुरान्निर्वासनमेव दण्ड इत्याह बृहस्पतिः।

अरुन्तुदः सूचकश्च भेद कृत्साहसी तथा।
श्रेणपुगनृपद्विष्टः क्षिप्रंनिर्वास्यते तत इति॥

अरुन्तुदः मर्मोद्घाटक। सूचकः पिशुनः। पिशुनौ। खलसूचकावित्यभिधानात्। भेदकृत् समुदायिषु वैमत्यकृत्। समूहस्थानान्निर्वास्यते समूहेनेतिशेषः न च समूहस्य दण्डकरणेऽनधिकारात्समूहेतिशेषकरणमयुक्तमिति वक्तव्यम्। पूर्वोक्त कात्यायन वचनेन समूहस्यैव मुख्यदण्डनेऽधिकारस्य प्रतिपादितत्वात्।

पूगश्रेणिगणाध्यक्षाः पुरदुर्ग निवासिनः।
वाग्धिग्द्ण्ड परित्यागं प्रकुर्युः पापकारिणाम्॥
तैः कृतं यत्सधर्म्मेणनिग्रहानुग्रहं नृणाम्।
तद्राज्ञायनु मन्तव्यं निसृष्टार्थाहि ते स्मृता इति॥

वृहस्पतिनाप्यभिधानाञ्च। वाग्दण्डःपापिष्ठोऽसीत्यादि भाषणम्। धिग्दण्डोधिक्वाभि भाषणम्। परित्यागोऽसद्व्यवहार्य्यत्व करणं निर्वासनं वा। उभयत्रापि लोके परित्याग शब्दप्रयोग दर्शनात्। एतच्चार्थ दण्डा देरुपलक्षणार्थम्।

निग्रहानुग्रहमित्येते पुनः साम्येनाभिधानात् निसृष्टार्थाअनुज्ञातकार्य्याः। नारदोऽपि।

पृथग्ग्णांस्तुये भिन्द्युस्ते विनेया विशेषतः।
आवहेयुर्भयं धोरंव्याधिवत्तेह्युपेक्षिता इति॥

गणान् श्रेण्यादिरूपान् समुदायान्। बृहस्पतिरपि।

तत्र भेदमुपेक्षां वा यः कश्चित्कुरुते नरः।
चतुः सुवर्णवणिकां स्तस्य दण्डो विधीयत इति॥

सुवर्ण चतुष्टयत्रणिष्कयोः शक्त्यादितारतम्यानुसारेण गुणबदगुणवद्विषयत्वेन वा व्यवस्था मन्तव्या। पाषण्ड्यादि सर्वसमूहेषु राज्ञा यथा वर्त्तितव्यन्तदाह नारदः।

यो धर्मः कर्म यच्चैषामुपस्थान विधिश्च यः।
यच्चैषां प्रत्युपादान मनुमन्येत तत्तथेति॥

धर्मः सत्यवदनादिः। कर्मप्रातःपर्युषितभिक्षाटनादिः उपस्थानविधिः समूहकार्यार्थं मृदङ्गादि ध्वनिमाकर्ण्य मण्डपादौ मेलनम्। प्रत्युपादानञ्जीवनाय तापसवेष परिग्रहः। एषां पाषण्डिनामित्यर्थः। अन्यदपि राजकृत्यमाह स एव।

प्रतिकूलञ्च यद्राज्ञः प्रकृत्या च मतञ्चयत्।
वाधकञ्च यदर्थानां तत्तभ्योऽविनिवर्त्तयेदिति॥

यद्राज्ञः प्रतिकूलम्।

यथा यस्य राज्ञस्तु कुरुते शूद्रोधर्म विवेचनम्।
तस्य प्रक्षुभ्यतेराष्ट्रं बल कोशश्चनश्यति इति॥

एवञ्च सार्थिकादि शूद्र कर्तृकयोर्विवादे धर्म्म विवेचनं च यद्राज्ञ इत्यस्योदाहरणम्मन्तव्यम्। प्रकृत्या स्वभावत एव। मतं अवज्ञातार्थं पाषण्डादिषु ताम्बूलभक्षणा दिकम्। यच्चा-

र्यानां बाधकन्धन नाशकरादिकं रसवाधादिकं तन्तेभ्योपि निवर्त्तयेत्। यथा तेन कुर्वन्ति तथा कुर्यादित्यर्थः। अन्यदपि निवर्त्यमाह स एव।

दोषवत्करणं यत्स्यादनाम्नाय प्रकल्पितम्।
प्रवृत्तमपि तद्राजा श्रेयस्कामो निवर्त्तयेत्॥

लोभादिदोषवत्करणं श्रुतिस्मृति विरुद्धं विधवादौ वेश्यात्वादिकं पाषण्डादिभिः प्रकल्पितम्। तद्बहुकाल प्रवृत्तमपि राज्ञानिवर्त्तनीयमित्यर्थः। त्रैविद्यानां प्रतिपादितं धर्मं श्रेण्यादिष्वतिदिशति याज्ञवल्क्यः।

श्रेणिनैगम पाषण्डिगणानामप्ययं विधिः।
भेदञ्चषां नृपो रक्षेत्पूर्ववृत्तिं च पालयेदिति॥

समूहकार्यार्थमागताय यद्राज्ञा समूह पूजार्थं दत्तन्तद्यदि समूहायासौ न ददाति तदा एतद्दत्तं एकादश गुणं दाप्य इत्याह स एव।

समूह कार्य आयातान् कृतकार्यान् विसर्जयेत्।
स दानमानसत्कारैः पूजयित्वा महीपतिः॥
समूहकार्य्यंप्रहितो यल्लभेत तदर्पयेत्।
एकादशगुणं दाप्यो यद्यसौ नार्पयेत् स्वयमिति॥

यल्लभेत समूहं सम्माननार्थमितिशेषः। यतो राजदत्तं सर्वसाधारणमतो यथांशतो विभागं कृत्वाग्राह्यं निःस्वादिभ्यो वा दातव्यमित्याह बृहस्पतिः।

ततो लभ्येत यत्किञ्चित् सर्वेषामेव तत्समम्।
षण्मासिकं मासिकं वा विभक्तव्य यथांशतः॥

देयं वा निःस्ववृद्धान्धस्त्री बालातुररोगिषु।
सान्तानिकादिषु तथा धर्म्मएष सनातन इति॥

एकस्य पुरुषस्य षण्मास निर्वाहाय पर्य्याप्तं कुटुम्बस्य वैकस्य षण्मासनिर्वाहाय पर्य्याप्तं लब्धं वा यथांशतः स्वस्वांशानुरूपेण विभजनीयन्निःस्वादिभ्यो वा देयमिति तात्पर्यार्थः राजप्रसादलब्धव दृणमपि सर्वेषां सममित्याह स एव।

यत्तैः प्राप्तं रक्षितं वा गणार्थं वा ऋणं कृतम्।
राजप्रसाद लब्धञ्च सर्वेषामेव तत्सममिति॥

अयमर्थः। तैः समूहकार्य्यार्थं प्रहितैर्यत्सीमाविवादावधिं क्षेत्रारामादिकं धर्म्माधिकरणेन्यायतः प्राप्तम्। यच्च परैरपद्ध्रियमाणं रक्षित यच्च समूहप्रयोजनार्थमुपात्तमृणम्। यच्च राजप्रसादलब्धं तत्सर्वं सर्वेषां समुदायिनां सममिति। गणकृतमृणं सर्वेषां सममित्यस्य क्वचिदपवादमाह कात्यायनः।

गणमुद्दिश्य यत्किञ्चित्कृत्वर्णं भक्षितम्भवेत्।
आत्मार्थंविनियुक्तं वा देयं तैरेव तद्भवेदिति॥

तैः मुख्यैः ये तु समुदायानुग्रहात्तदन्तर्भावं प्राप्ताः ये च समुदायक्षोभादिना ततोवहिर्भुतास्तान् प्रत्याह स एव।

गणानां श्रेणिवर्गाणां गताः स्युर्य्येपि मध्यताम्।
प्राकृतस्थघनर्णस्य समांशाः सर्वएवेति॥
तथै व भोज्य वैभव्य दानधर्म क्रियासु च।
समूहस्थोऽशंभागीस्यात् प्राग्गतस्त्वं शभाङ्गत्विति॥

इति सम्विद्व्यतिक्रमाख्यं व्यवहार पदम्। अथ क्रीतानुशयाव्यवहारपदम्। तत् स्वरूपमाह नारदः।

कीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते।
क्रीतानुशय इत्येतद्विवाद पदमुच्यत इति॥

न बहु मन्यते। सम्यगसम्यगिति पूर्वं विचार्य न गृहीतमित्यर्थः। क्रीतं परीक्षणीयमित्याह बृहस्पतिः।

परीक्षेत स्वयं क्रीत मन्येषाञ्च प्रदर्शयेत्।
परीक्षितं बहुमतं गृहीता न पुनस्त्यजेदिति॥
अन्येषां पण्यगुणदोष विदामितिशेषः नारदोऽपि।
क्रेता पण्यं परीक्षेत प्राक्स्वयं गुणदोषतः।
परीक्ष्याभिमतं क्रीतं विक्रेतुर्नभवेत्पुनरिति॥

चर्मादीनां परीक्षा सद्यः कार्या। तथा च व्यासः।

चर्म्मकाष्ठेऽष्टकासूत्र धान्यासवरसस्य च।
वसु कुप्य हिरण्यानां सद्य एव परीक्षणमिति॥

अत्र वसुशब्देन रूप्य गृह्यते। कुप्यं हेमव्यतिरिक्तं त्रपुसीमादिकम्। तथा च हेमरूप्ये प्रस्तुत्यामर सिंहः। ताभ्यां यदन्यत्तत्कुप्यमिति क्रीतपण्य द्रव्य विशेषण परीक्षणकालावधिमाह नारदः।

त्र्यहाद्दोह्यं परीक्षेत पञ्चाद्वाद्वाह्यमेव तु।
मुक्तावज्जप्रबालानां सप्ताहं स्यात्परीक्षणम्॥
द्विपदामर्द्धमासन्तु पुसान्तद्द्विगुणं स्त्रियाः।
दशाहः सर्ववीजानामेकाहोलोहवाससाम्॥
अतोऽर्वाक्पण्य दोषस्तु यदि सञ्जायते क्वचित्।
विक्रेतुः प्रतिदेयं तत् क्रेता मूल्यमवाप्नुयादिति॥

त्र्यहात् क्रयदिना दारभ्येतिशेषः। पञ्चाद्वादित्यादावप्येवमेव शेषोऽवगन्तव्यः। त्र्यह विक्रेतृप्रतिदेयमित्यादि विधि-

दर्शनात् त्र्याहाद्दोह्यमित्यादि परीक्षणं प्रीतिदोह्यादि द्रव्यविषयमिति गम्यत इति स्मृति चन्द्रिकायाम्। दोह्यं महिव्यादिकम्। वाह्यं बलीवर्द्दादिकम्। मुक्ताग्रहण रत्नोपलक्षणम्। द्विपदाम्पुसान्दामानामित्यर्थः। तद्द्विगुणं मासेत्यर्थः स्त्रिया दास्या इत्यर्थः। पूर्वोदाहृत चर्मकाष्ठेत्यादि व्यासवचनेन भक्षणाद्यर्थं गृहीतानां धान्यादीनां सद्यः परीक्षणाभिधानात्सर्ववीजानामित्यत्र वीजशब्दोवाद्यर्थ गृहीतधान्यपरः। अन्यथा सद्यः परीहृत्व प्रतिपादक व्यासवचन विरोधः स्यात् अतोऽर्वाक् त्र्याहादेरभ्यन्तर इत्यर्थः। कात्यायनोऽपि।

भूमेर्दशाहोऽनुशयः क्रेतुर्विक्रेतुरेवचेति।

भूमेर्गृहक्षेत्रादिरूपायाअनुशयः परावर्त्तनयोग्यः कालःपरीक्षाकाल इति यावत्। यथोक्त परीक्षाकालादतिक्रमेदोष दर्शनेन प्रतिदानमित्याह स एव।

अविज्ञानन्तु यत् क्रीतं दुष्टं पञ्चाद्विभावितम्।
क्रीतन्तत् स्वामिने देयम्पण्यकालेऽन्यथा नत्विति।

अविज्ञातं परीक्षाशैथिल्यात्तत्वतोऽपरिज्ञातम्। दुष्टं विभावितं दोषवत्तथाज्ञातमित्यर्थः। काले परीक्षाकाले। अन्यथा तत्कालात्यये दुष्टतया परिभावितमपि तत् स्वामिने देयम्। अविज्ञानन्तु यत्क्रीतमित्यनेन यत् क्रयात् प्राक् अपरीक्ष्य क्रीतन्तत् परीक्षा समये दोषदर्शने परावर्त्तनीयम्। यत्तुपरीक्ष्यागृहीतं तन्नपरावर्त्त नीयमिति दर्शितमर्थं नारद आह।

क्रीत्वा नानुशयंकुर्य्याद्वणिक्पण्य विचक्षणः।
क्षयं वृद्धिश्च जानीयात् पण्यानामागमन्तथा।

क्रेता पण्यं परीक्षेत प्राक् स्वयं गुणदोषतः।
परीक्षामिमतं क्रीतं विक्रेतुर्न भवेत् पुनरिति॥

अनुशयं पश्चात्तापम्। पण्यानां अश्वादीनां अस्मिन्देशेमूल्यहानिरस्मिन्देशे तदाविष्यमिति क्षयवृद्धीएतद्देशसम्भवमित्यागमञ्च क्रयात् प्रागेव जानीयादित्यर्थः। दोषदर्शनमन्तरेण परीक्षाकाल एव प्रत्यर्पणे विशेषमाह कात्यायनः।

क्रीत्वाचानुशयं पश्चात् त्यजेद्दोषादृते नरः।
अजुष्टमेव काले तु स मूल्याद्दशम वहेत्॥
क्रीत्वा गच्छन्ननुशयं क्रयीहस्तमुपागते।
पद्भागन्तस्य मूल्यस्य दत्त्वा क्रीतं त्यजेन्नर इति॥

अजुष्टमनभियुक्तम्। काले परीक्षाकाले। अन्नमूल्य दशमभागदानं यदुपभुज्यमानमपि न नश्यति भूम्यादिक तद्विषयं उपभोगविनश्वरवीजादिविषयं षड्भागदानमिति व्यवस्था ज्ञेया। ननु, विजानताऽप्यनुशयो नकार्यः क्रीत्वा नानुशयं कुर्य्यादिति निषेध सद्भावादिति चेत्सत्यं अपवादस्य सत्त्वात् स चापवादोदर्शितो नारदेन।

क्रीत्वा मूल्येन यत्पण्यं दुष्क्रीतं मन्यते क्रयी।
विक्रेतुः प्रतिदेयंतत्तस्मिन्नेवाह्यविक्षतमिति॥

मन्यत इत्यनेन वस्तुतो दोषाभाव उक्तः द्वितीयादिदिवसम्प्रत्यर्पणे विशेषमाह स एव।

द्वितीयेऽह्नि ददत क्रेता मुल्यात्तिशांशमाहरेत्।
द्विगुणं तत्तृतीयेऽह्निपरतः क्रेतुरेव तदिति॥

परतः तृतीयाह्नःपरतः क्रेतुरेव तत्क्रीत्वा अनुशयादि कञ्जानन्नपिनकुर्य्यादित्यर्थः। यत्तु मनुवचनम्।

क्रीत्वा विक्रीय वा किञ्चिद्यस्येहानुशयो भवेत्।
सोऽन्तर्दशाहात्तद्द्रव्यं दद्याच्चैवाददीत चेति।

तदुपभोगे नश्वरक्षेत्र गृहयानशयनादि विषयम्। यत्तूपभोगेन सदोषमपि विकार प्रापितं तत् परीक्षाकालमध्येऽपि न प्रतिदेयमित्याह नारदः।

परिभुक्तन्तु यद्वासः कृष्णरूपं मलीमसम्।
सदोषमपि तत् क्रीतं विक्रेतुर्नभवेत्पुनरिति॥

वासोग्रहणमुपलक्षणमिति मदनरत्ने वासो विषयतैवास्येति माधवीये। पण्यानां देशकाल उपचयापचयौ ज्ञातव्यावित्याह नारदः। क्षयं वृद्धिञ्च जानीयात्पण्यानामागमन्तथेति।

अश्वादि पण्यानामस्मिन् कालेऽस्मिन्देशे च क्षयं वृद्धिं वा जानीयात्तथागमं कुलीनत्वादिज्ञानार्थं उत्पादकजन्मभूम्यादिकञ्च जानीयादित्यर्थः। क्रयकाले मूल्यक्षयवृद्धिदोष दर्शनमन्तरेण क्रीतविक्रीतयोः प्रत्यर्पणे पुनर्ग्रहणे दण्डमाह। याज्ञवल्क्यः।

वृद्धिं क्षयं वा वणिजा पण्यानामविजानता।
क्रीत्वा नानुशयः कार्यः कुर्वन् षट्भाग दण्डभागिति॥

वृद्धिं मूल्यवृद्धिं अविजानता क्रोत्रा। एवं मूल्य क्षयमविजानता विक्रेत्रेत्यर्थः। परीक्षाकालातिक्रमेण प्रत्यर्पणे दण्डमाह। मनुः।

ग्रहणेतु दशाहस्यन दद्यान्नापि दापयेत्।
आददानोददच्चैव राज्ञा दण्ड्यःशतानि षडिति॥

दशाहग्रहणं परीक्षाकालस्य पूर्वोक्तस्योपलक्षणम्। सर्वमेतत्परिभाषणेऽपरिभाषणे तु तदनुसारेणैव प्रतिदानं तदभावादिकं मन्तव्यम्। इति क्रीतानुशयाख्य व्यवहारपदम्।

अथ विक्रीयासम्प्रदानाख्य व्यवहारपदम्। तत् स्वरूपमाह। नारदः।

विक्रीय पण्यं मूल्येन क्रेतुर्यन्नप्रदीयते।
विक्रीयासंप्रदानं तद्विवाद पदमुच्यत इति॥

तत्रविक्रेय द्रव्यस्य द्वैविध्यषद्विधित्वे क्रमेणाह स एव।

लोकेऽस्मिन् द्विविधम्पण्यं जङ्गमं स्थावरं तथा।
षड्विधस्तस्य तु बुधैर्दानादानविधिः स्मृतः।
गणिमन्तुलिमं मेयं क्रियया रूपतः श्रियेति॥

दानम्विक्रयः। आदानं क्रयः। गणयित्वा यस्य क्रयःतद्गणिमम्। गणिमंसंख्येयं क्रमुकफलादिकं एवं तुलिमादिकं तुलिमन्तुलाघृतं हेमचन्दनादिकम्। मेयम्व्रीह्यादिकम्। क्रियया वाहनदोहनादि रूपया युक्तमिति शेषः। रूपतः रूपेण युक्तं वस्तु पण्याङ्गनादि। श्रिया दीप्त्यायुक्तं पद्मरागादिकम्। यदा विक्रेता मूल्यं गृहीत्वा याचमानाय क्रोत्रे विक्रीतवस्तु ददाति तदा यत्कर्त्तव्यं तदाह स एव।

विक्रीय पण्यमूल्येन क्रेतुर्यो न प्रयच्छति।
स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रियाफलमिति॥

यो गृहीत मूल्यो विक्रेता अजातानुशयाय क्रेत्रेप्रार्थयमानाय नार्पयति तच्च पण्यं यदि स्थावरात्मकं तदा क्षयेणसहितमसौदाप्यः। यदा तु जङ्गमात्मकं तदा क्रियाफलेन सहितं इत्यर्थः। विक्रयानन्तरं जात उपभोगो ऽत्रक्षयः। क्रियाफलं दोहनादि क्रियाफलं क्षीरादिकम्। इदञ्च क्रयकालापेक्षया अर्पणकाले मूल्याधिक्येवेदितव्यम्। मूल्यह्रासे त्वन्यथाभिधानात्। तथाच स एव।

अर्थश्चेदवहीयेत सोदयम्पण्यमावहेदिति॥

चेदपचीयेतेति कल्पतरौ पाठः। अर्वाक् विक्रीसमर्पणात्पूर्वंअपचीयेत हीन मूल्यं भवेत्सोदयम्पण्यहेत्। विक्रयकाले यावन्मूल्यं गृहीतं तावता मूल्येनार्पणसमये मूल्यह्रासवशायाद्यावदुपचय सहित लभ्यते तावद्दद्यादित्यर्थः। यदा तु मूल्यसाम्यं तदा पण्योपचय रूपस्यासम्भवात्।

निक्षेपं वृद्धिशेषञ्च क्रयं विक्रयमेव च।
याच्यमानमदत्तञ्चेद्वर्द्धते पञ्चकं शतमिति॥

वचनोक्त वृद्धि सहितम्पण्यं दाप्यः। अत एव याज्ञवल्क्यः।

गृहीत मूल्यं यः पण्यं क्रेतुर्नैव प्रयच्छति।
सोदयं तस्य दाप्योऽसौ दिग्लाभं वा दिगागते इति॥

गृहीत मूल्यम्पण्यं विक्रेता यदि प्रार्थयमानाय स्वदेश वणिजे क्रेत्रे न समर्पयति तच्च पण्यं यदि क्रयकाले बहुमूल्यं मत्कालान्तरे अल्पमूल्येनैव लभ्यते तदा सोदयंवृद्ध्यासहितं विक्रेता क्रेत्रेदापनीयः। यदा मूल्याह्रासकृतः पण्यस्योदयो नास्ति किन्तु क्रयकाले यावदेव यतोमूल्यस्ययत्पण्यमिति प्रतिपन्नम् तावदेव तदा तत्पण्यमादाय तस्मिन्देशे विक्रीणीतस्य यो लाभस्तेनोदयेन सहितं दापनीयाः वचनत्रयस्यार्थः। चतुर्थस्य तु यो देशान्तरात्क्रयणार्थमागत्य क्रीणाति तस्मै देशान्तरे तत्पण्य विक्रये यो लाभस्तेन सहितं तत्पण्यंदापनीय इत्यर्थः।देशान्तरलाभ सहितपण्यदानन्नकेवलमाद्यंशसाम्यएव किन्तु मूल्यस्यवृद्धौक्ष्येऽपीत्याह नारदः।

स्थायिनामेष नियमोदिग्लाभं दिग्विचारिणमिति। स्थायिनां विक्रेतृदेश स्थायिनां एष नियमः स्थावरस्य क्षयदाप्यइत्यादिवचनेक्तोनियम इत्यर्थः। विष्णुर्विक्रेतुर्दण्ड-

मप्याह। गृहीतमूल्यं यः पण्यं क्रेतुर्नैव दद्यात्तत्तस्य सोदयं दाप्यो राज्ञा च पणशतं दण्डा इति। एतच्चानुशय रहिततृप्त विक्रेतृविषयमिति मदनरत्ने। यस्तु विक्रीयानुशयवशान्नार्पयति यश्च क्रीत्वाऽनुशयवशांन्नगृह्णाति तौप्रत्याह कात्यायनः।

क्रीत्वा प्राप्तान्न गृह्णीयाद्यो न दद्याददूषितम्।
स मूल्याद्दशभागन्तुदत्त्वा स्वन्द्रव्यमाप्नुयात्॥
अप्राप्तेऽथ क्रियाकाले कृते नैव प्रदापयेत्।
एष धर्मो दशाहात्तु परतोऽनुशयो नत्विति॥

अदूषितं जलादिनेतिशेषः। दोह्यबाह्यादिपण्यस्य दोहन वांहनादिरूपः कालोऽल्पक्रियाकालस्तस्मिन्नप्राप्तेसति अग्रहणेऽदाने वाकृते सति न दशमभागं प्रदापयेत् किन्तु तमदत्त्वैष स्वीयं द्रव्यं प्राप्नुयादिति। एष धर्म्मोदशाहात्प्राग्वेदितव्यः तत ऊर्द्ध्वमनुशयो न कर्त्तव्यः। विक्रीयासम्प्रयच्छतो यद्विक्रीतंपण्यविक्रेतृपार्श्वेस्थितं तस्य यदि नाशः स्यात्तदा विक्रेतुरेव हानिरित्याहयाज्ञवल्क्यः।

राजदैवोपघाते न पण्ये दोषमुपागते।
हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छत इति॥

अत्र याचितस्येतिविशेषणोपादानात् याचनाभावेन विक्रेतुर्हानिरित्यर्थाङ्गम्यते। नारदोऽपि।

उपहन्येत वा पण्यंदह्येतापह्रियेत वा।
विक्रेतुरेव सोऽनर्थो विक्रीयासम्प्रयच्छत इति॥

यथा याचितस्याप्रयच्छतो विक्रेतृहानिस्तथा दीयमानं पण्यमगृह्णतः क्रेतुरपीत्याह स एव।

दीयमानन्न गृह्णाति क्रीतम्पण्यञ्च यः क्रयी।

स एवास्य भवेद्दोषो विक्रेतुर्यो प्रयच्छत इति॥

अप्रयच्छतः विक्रेतुर्यो दोषः स एवास्य भवेदित्यन्वयः। क्रेतुर्दोषाभिधानस्य फलं पण्यस्य मूलं क्रेत्रे विक्रेत्रान प्रत्यर्पणेयमिति। दीयमानन्नगृह्णातीति वदता दीयमान ग्रहणेन मूल्यहानिरिति दर्शितम्। क्रयानन्तरं क्रेत्रान याचितं विक्रेत्राच न समर्पितं जातश्चौराद्युपद्रवस्तत्रद्वयोः समाहानिः। क्रेतृविक्रेत्रोरुभयोरपि याचनानर्पण शैथिल्येनसापराधत्वादित्युक्तं देवलभट्टैःस्मृतिचन्द्रिकायाम्। याज्ञवल्क्योऽपि।

हानिश्चेत् क्रेतृदोषेण क्रेतुरेव हि सा भवेदिति॥

केतृदोपोदीयमानस्याग्रहणं यत्र पुनर्जातानुशयः। क्रेताविक्रेत्रा दीयमानन्नगृह्णाति तत्राप्याह नारदः।

दीयमानन्नगृह्णाति क्रीत्वा पण्यंच विक्रयी।
विक्रीणानस्तदन्यत्र विक्रेता ना पराघ्नुयादिति।

क्रयीजातानुशय इतिशेषः। याज्ञवल्क्योऽपि।

विक्रीतमपि विक्रेयं पूर्वक्रेतर्थ्यगृह्णतीति।

यस्त्वदुष्टं पण्यं दर्शयित्वा सदोषं विक्रीणीते यश्चान्य हस्ते विक्रीतं तत्क्रेत्रनुशयाभाव एवान्यत्रविक्रीणीते तयोः समानोदण्ड इत्याह नारदः।

निर्दोष दर्शयित्वा तु सदोषं यः प्रयच्छति।
स मूल्यादुद्विगुणं दाप्यो विनयं तावदेवतु॥
तथान्यहस्ते विक्रीय योऽन्यस्मै तत्प्रयच्छति।
द्रव्यन्तदुद्विगुणं दाप्यो विनयं तावदेव त्विति।

याज्ञवल्क्योऽपि। अन्य हस्ते च विक्रीतं दुष्टं वा दुष्ट वद्यदि।

विक्रीणीते दमस्तस्य मूल्यात्तु द्विगुणो भवेदिति॥

बुद्धि पूर्व विषयमेतत्।

ज्ञात्वा सदोष यः पण्यं विक्रीणीते विचक्षणः।
तदैव द्विगुणं दाप्यस्तत्समंविनयं तथेति।

बृहस्पतिनोक्तत्वात्। अबुद्धिपूर्वक विक्रये तु क्रयपरावर्त्तनमेव। अन्यत्रापि विषय विशेषे परावर्त्तनमाह बृहस्पतिः।

मत्तोन्मत्तेन विक्रीतं हीनमूल्यंभयेन वा।
अस्वतन्त्रेण मूढेन त्याज्यन्तस्य पुनर्भवेदिति॥

एतत्सर्वंदत्तमूल्ये पण्ये द्रष्टव्यम्। अत एव नारदः।

दत्तमूल्यस्य पण्यस्य विधिरेष प्रकीर्त्तित इति॥
यत्र पुनर्मूल्यं न दत्तं तत्रापि स एवाह।
अदत्तोऽन्यत्रसमयान्नविक्रेतुरविक्रय इति॥

अदत्त मूल्ये तु पण्ये वाङ्मात्रेण क्रये कृते न परावर्त्तनीय मित्येवमादिसमयाभावे सति प्रवृत्तौनिवृत्तौ न कश्चिद्दोष इत्यर्थः। यत्र पुनर्वाङ्मात्र क्रयपरिहारार्थं विक्रेतुर्हस्ते क्रेत्रा वा किञ्चिद्द्रव्यं दत्तंतत्र क्रेतृदोष वशेन क्रयसिद्धौत्वाह। व्यासः।सत्यङ्कारं च यो दत्त्वा यथा कालं न दृश्यते।

पण्यं भवेन्निसृष्टन्तद्दीयमानमगृह्णतइति॥

निसृष्टंभवेत् उत्सृष्टंभवेदित्यर्थः। अत्रपण्य द्रव्यस्योत्सर्गः सत्यङ्कारद्रव्योत्सर्गेऽभिमतः। अन्यथा वाङ्‌मात्र क्रयकर्त्तृतुल्यत्वेन विक्रेतुः सत्यङ्कारद्रव्यग्राहकत्व कृत मन्यत्र विक्रयणाद्यपराधनिमित्तकं सत्यङ्कारद्रव्यस्यद्वैगुण्येन प्रतिदानं न स्यात्। अत्रापि विक्रीतमविक्रेय मित्यनुसन्धेयम्। अस्मिन्नेव विषये विक्रेतृदोषवशेन क्रियासिद्धौत्वाहयाज्ञवल्क्यः।

सत्यङ्कारकृतं द्रव्यं द्विगुणं प्रतिदापयेदिति॥

सत्यङ्कारः सत्यायनं कृतस्य क्रयस्य सत्प्रतीकरणमिति यावत्। क्लीवे सत्यायनं सत्यङ्कारः सत्याकृतिः स्त्रियामित्यमर कोषाभिधानात्। सत्यङ्काराय कृतं समर्पितं सत्यङ्कारकृतं क्रयं सत्यं कर्तुंयद्विक्रेतृहस्तेकृतमित्यर्थः। इति विक्रयासम्प्रदानाख्य व्यवहारपदम्। अथ स्वामिपाल विवादाख्य व्यवहारपदम्। तत्र मनुस्तदभिधान प्रतिज्ञां करोति।

पशुषु स्वामिनां चैव पालानाञ्च व्यतिक्रमे।
विवादं सम्प्रवक्ष्यामि यथा षड्वर्म्मतत्वत इति॥

स्वामिपालयोः प्रतिदिन कृत्यमाह नारदः।

उपानयेङ्गा गोपाय प्रत्यहं रजनीक्षये।
चीर्णा पीताश्च ता गोपः सायाह्नेप्रत्युपानयेदिति॥

चीर्णास्तृणापादिकं भक्षितवतीः। पीताः पीतवतीः। स्वामिना प्रातर्यावन्तः समर्पितास्तावन्तो गोपालेन मायं प्रत्यर्पणीयाइत्यर्थः। गोग्रहण पशुमात्रोपलक्षणार्थम्। तथाच याज्ञवल्क्यः।

यथार्पितान् पशून् गोपः सायं प्रत्यर्पये त्तथेति॥
गवादि परिपालकस्य भृतिपरिमाणमाह नारदः।
गवां शताद्वत्सतरी धेनुः स्याद्विशिताभृतिः।
प्रति सम्वत्सरं गोपे संदोहश्चाष्टमेऽहनीति।

प्रतिसम्वत्सरं सम्वत्सरे सम्वत्सरे गोशतपरिपालने वत्सतरीद्विहायनी गौर्भृतिः। द्विशत परिपालने धेनुर्द्दोग्ध्रीसवत्सेति यावत्। अष्टमे दिवसे सन्दोहः सर्वासां गवान्दोहश्च भृतित्वेन कल्पनीय इत्यर्थः।बृहस्पतिरपि।

तथा धेनुभृतः क्षीरं लभेताद्यष्टमेऽहनीति।

धेनुभृतः धेन्वाभृतः द्विशतपालक इत्यर्थः। तथा च सन्दोहो धेन्वा समुच्चीयते न वत्सतर्य्येति मदनरत्ने। कल्पतरौ तु धेनुभृतो गोपाल इति व्याख्यातन्तेन वत्सतर्यापि समुच्चीयत इति गम्यते। गोगृहणं महिष्यादीनामुपलक्षणम्। न्यूनाधिक परिपालनत्वे तदनुसारेण भृतिकल्पना द्रष्टव्या। इयञ्च वत्सतर्यादि भृतिकल्पना परिभाषित भृत्यभाव विषया परिभाषिते तु परिभाषानतिक्रमेणैव देया। मनुस्तु प्रकारान्तरेण भृतिपरिमाणमाह।

गोपः क्षीरभृतो यस्तुस दुह्याद्दशतो वराम्।
गोखाग्यनुमतो भृत्यः सा स्यात्यालेऽतेभृतिरिति॥

दशानान्दोग्ध्रीणां मध्येवरामुत्कृष्टां स्वीकृत्य तत्क्षीर भृतो भृत्यो गोपो दशदोग्ध्रीपालन कृद् गृह्णीयाद्भृत्यर्थम्। सैषाभृतिः पूर्वं द्रव्यान्तरेणाभृते ज्ञेया। यस्तु द्रव्यान्तरेण भृतः तत्रतदेव भृतिरित्यर्थः। यस्तुभृतिं गृहीत्वा पशून्मारयेत् विनाशयति वा तं प्रत्याह याज्ञवल्क्यः।

प्रमाद सृतनष्टांश्च प्रदाप्यः कृतवेदनः इति॥

प्रमादग्रहणं पशुपालकदोषोपलक्षणार्थम्। मनुना प्रमादनाशः स्पष्टीकृतः।

नष्टं विनष्ट कृमिभिः श्वहतं विषमे स्मृतम्।
हीनं पुरुषकारेण प्रदद्यात्पाल एवत्विति॥

श्वहतम्। शुनाहतम्। विषमे दुर्गमप्रदेश। पुरुषकारः पुरुष प्रयत्नः। यत्पुरुषप्रयत्नेन न हीनं सन्नाशादिकं प्राप्तं तद्दातव्यमित्यर्थः। पुरुषकारश्च बृहस्पतिना दर्शितः।

कृमि चोरव्याघ्रभयाद्दरीश्वभ्राच्चपालयेत्।
व्यायच्छे व्यक्तितः क्रोशे स्वामिने वा निवेदयेदिति॥

व्यायच्छेत् व्यसनाभावाय यतेतेत्यर्थः।चौरेर्वलात्कारेणापहृते न दाप्या इत्याह मनुः।

विद्युव्यतु हृतञ्चौरैर्न पालोदातु मर्हति।
यदि देशे च काले च स्वामिनः स्वस्य शंसतीति॥

विघुव्य श्रृङ्गकादिभिर्घोषं कृत्वा। देशे स्वाम्यवस्थानदेशे। काले अपहरणकालाव्यवहितकाले। विषयविशेषे। पशुपालस्य दण्डमाह व्यासः।

गृहीतमूल्यो गोपालस्तांस्त्यक्क्वानिर्जने वने॥
ग्रामचारी नृपैर्बाध्यः शलाकी च वनेचर इति॥

शलाकी नापित इति कल्पतरौ।पुरुषेण प्रयत्नाकरणे दण्डमाह नारदः॥

स्याच्चेद्गोव्यसनं गोपोऽव्यायच्छेत्तत्र शक्तितः।
अशक्तस्तूर्णमागम्य स्वामिने चानिवेदयेत्॥

अव्यायच्छेत्।विक्रोशन् स्वामिने चानिवेदयन्॥

वोढुमर्हति गोपस्तम्बिनयञ्चेव राजनीति॥

तङ्गवादिकम्।पशूनान्दैवान्मरणे पालकस्य दोषाभावत्वज्ञानोपायमाह व्यासः।

भृतेषु च विशुद्धः स्याद्बालश्रृङ्गादि दर्शनात्।

आदिशब्देन कर्णादीनां ग्रहणम्।तथा च मनुः।

कर्णै चर्म च वालांश्च वस्तिं स्रायुञ्च रोचनाम्।
पशुषु स्वामिनान्दद्यान्भृतेष्वङ्गानि दर्शयेदिति॥

अङ्कादि दर्शयेदिति क्वचित्पाठः।अङ्कुःशृङ्गकर्णादि-

रूपञ्चिह्नम्। आदिशब्दः साक्षिसंग्रहार्थः। पशुषु मृतेष्वङ्कादिकं स्वामिने दर्शयेत्। रोचनादिकं यत्सप्रयोजनं तत्तस्मै दद्याच्चेत्यर्थः। नष्टगवादिदानञ्च तत्स्वामिने मूल्यद्वारेण ज्ञातव्यम्। अतएव विष्णुः। ह्येको वा पशूनां वृकाद्युपघाते पालेत्वऽनायति पालक दोषो विनष्ट पशूनां मूल्यं स्वामिने दद्यादिति। अनायति। अनागच्छति। विनय द्रव्य प्रमाणमाह याज्ञवल्क्यः।

पालदोषविनाशे तु पाले दण्डो विधीयते।
अर्द्ध त्रयोदशपणः स्वामिनो द्रव्यमेव चेति॥

अर्द्धत्रयोदशपणः अर्द्धरहितत्रयोदशपणः। सार्द्धद्वादशपण इति यावत्। तास्तृतीय पूर्वपदाः समानाधिकरणेन समस्यन्त उत्तरपदलोपश्चेति वार्त्तिकादुत्तरपदलोपी कर्म्मधारयः। यत्तु केनचिदर्द्धाधिक त्रयोदशपणोदण्ड इति व्याख्यातं तत्सार्द्धद्विमात्रादिषु अर्द्ध त्रिमात्रादि महाभाष्यकार शब्दप्रयोग दर्शनादुपेक्ष्यम्। पालदोषमाह मनुः।

अजाविके तु संरुद्धे वृकैः पाले त्वनायति।
यां प्रसह्य वृको हन्यात् पाले तत् किल्बिषम्भवेदिति॥

अनायति। उपद्रव निवारणाय अनागच्छतीत्यर्थः। यां अजाविक जातीयाम्। सुगमस्थलस्यविषयमेतत्। दुर्गमस्थलस्य विषये त्वाह स एव।

तामाञ्चेदवरुद्धानां चरन्तीनां मिथोवने।
यामुत्प्लुत्य वृको हन्यान्नपालस्तत्रकिल्बिषीति॥

अवरुद्धानां पालकेन स्थापितानामित्यर्थः। गवादिप्रचारणार्थं भूमिमाह याज्ञवल्क्यः।

ग्राम्येच्छया गोप्रचारोभूमी राजवशेन वा।

ग्राम्येच्छया ग्रामीण जनवशेन राजेच्छया वा। गोप्रचारो गवां तृणदिभक्षणार्थंकियानपि भूभागोऽकृष्टः परिकल्पनीय इत्यर्थः। गवां स्थानासनसौकर्य्यायग्रामक्षेत्रयोरन्तरमाह स एव।

धनुः शतं परीणाहो ग्रामक्षेत्रान्तरम्भवेत्।
द्विशते खर्वटस्यस्यान्नगरस्य चतुःशतमिति॥

परीणाह शब्देनात्रसर्वासु दिक्षुअनुप्तशस्यस्थलं गृह्यते। एतादृशन्धनुःशतम्परिमितं ग्रामक्षेत्रयोरन्तर कार्यम्। खर्वटस्य शतद्वयपरिमितन्नगरस्य शतचतुष्टयपरिमितमित्यर्थः। खर्वटः अनेन कारु कृषीबलयुक्तो ग्राम इति मदनरत्ने। माधवाचार्य्यैस्तु प्रचुरकण्डक सन्तानो ग्राम इति व्याख्यातम्। तत्रशस्योत्पत्तेःप्रागेवावरणंकार्य्यमित्याह कात्यायनः।

अजातेष्वेव शस्येषु कुर्य्यादवरणं महत्।
दुःखेन विनिवार्य्यन्ते लब्धस्वादुरसा मृगा इति॥

एवं पशुनिवारणार्थं कृतेऽप्यावरणे तमतिक्रम्य पशुभिः शस्यादि विनाशे कृते कर्त्तव्यमाह मनुः।

पथिक्षेत्रे परिवृते ग्रामान्तीयेऽथ वा पुनः।
स पालः शतदण्डार्हो विपालं वारयेत्पशुमिति॥

पथिक्षेत्रे। मार्ग समीपे क्षेत्रे। ग्रामान्तीये ग्रामसमीपवर्त्तिनि। सपालः पशुः पणशदण्डाहः तत्पशुपालः पणशतं दण्डनीय इत्यर्थः। अयञ्च दण्डः पशुपालेन समर्थेन सता पशावनिवार्य्यमाणे वेदितव्यः। अतएव नारदः।

उत्क्रम्यतु वृतिं यः स्याच्छस्यघातो गवादिभिः।
पालः शास्यो भवेत्तत्र न क्षेच्छक्तोनिवारयेदिति॥

आवरणाभावेनापरिहार्ये शस्योपघातेऽपि न पालस्यदण्डः। तथा च मनुः।

तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि।
न तत्रप्रणयेद्दण्डं नृपतिः पशुरक्षिणामिति॥

अनेनावृत क्षेत्रशस्योपघाते पशुरक्षिणां दण्ड इत्यर्थादुक्तम्भवति। अदीर्घकालप्रचारविषय मेतत्। दीर्घकालप्रचारे तुअपरिवृतेऽपि पशुपालो दण्डार्होभवति। अतएवाल्पकाल प्रचारे दोषाभावं दर्शयति विष्णुः। पथि ग्रामविवीदेव दोषोऽल्पकालमिति। पशु विशेषे दण्ड परिमाणमाहयाज्ञवल्क्यः।

माषानष्टौ तुमहिषी शस्यघातस्य कारिणी।
दण्डनीया तदर्द्धंतु गौस्तदर्द्धमजाविकम्॥
भक्षयित्वोपविष्टानां यथोक्ताद्विगुणो दमः।
सममेषां विवीतेऽपि खरोष्ट्रं महिषीसममिति॥

परशस्य घातकारिण्या महिष्याः स्वामी अष्टौ माषान् दण्ड्यः। गोः स्वामी चतुरः। छागस्वामी द्वौ द्वौमेषस्वामी च द्वौद्वौ। एतेषां पशूनां शस्य भक्षणादारभ्य तत्रैव उपविष्टानां स्वामीं यथोक्त दण्डाद्विगुणं दण्डं ग्रह्यः। विवीतस्य तृणाद्युपघातेऽपि शस्योपघातवद्दण्डनीयः। खरस्वाम्युष्ट्र स्वामी महिषीस्वामी स्वामिवद्दण्डनीयः। अत्रपशुस्वामिनो दण्ड इत्यभिघातव्ये महिष्यादि ग्रहणं प्रतिपशु दण्ड प्राप्त्यर्थम्। भक्षयित्वोपविष्टतवत्सविषये यथोक्ताच्चतुर्गुणोदण्डः। तथा च स्मृत्यन्तरम्। वसतांद्विगुणः प्रोक्तः सवत्मानां चतुर्गुण इति॥

अत्रापराधानुसारेण दण्डनार्थंताम्रिकमाषो ग्राह्यः न

पुनः सौवर्णो राजतो वेति स्मृतिचन्द्रिकायाम्। तान्त्रिकमाषञ्च कर्षपरिभाषितस्य कार्षात् षोड़शो भागो भवति। अयमेवपणस्य पञ्च वापि प्रकीर्त्तिता इति याज्ञवल्क्योक्तपञ्च सुवर्णपरिमितत्व पक्षेपण चतुर्थोऽशस्य विंशतिमाषात्म कार्षापणस्य “माषोविंशतिमोभागः पणस्य परिकीर्तित” इति नारदोक्तो विंशोभागोऽपि भवति। एतेन स्मृतिचन्द्रिकायाम् अपराधानुसारेण दण्डनार्थं माषो “विंशतिमो भागः पणस्य परिकीर्त्तित" इति नारदोक्तमाषः कैश्चित् स्वीकृत इत्येकीयमतत्वेनोपन्यस्य “सङ्ख्यारश्मिरजोमूला मनुना ससुदाहृता"। “कार्षापणान्ता सा दिव्येनियोज्या विनये तथे"ति बृहस्पतिवचनविरोधेन दूषितं तदुभयथाप्यर्थ भेदाभावेन विरोधाभावान्निरस्तं मन्तव्यम्।यत्तु, मनुनोक्तंसपादं पणमर्हतीति तत्स्वामिमतिपूर्वं पशुव्यतिक्रमविषयम्। याज्ञवल्क्यवचनन्त्वबुद्धिपूर्व विषयमिति न तयोर्विरोधः। यत्तु,

पणस्य पादौ द्वौगान्तु द्विगुणं महिषींतथा।
तथाजाविकवत्सानां पादोदण्डः प्रकीर्त्तित इति॥

स्मृत्यन्तरं तङ्कक्षयित्वोपविष्टगवादिविषयम्। यत्पुनर्नारदेनाभिहितम्।

माषङ्गां दापयेद्दण्डं द्वौमासौमहिषीन्तथा।
तथा जाविकवत्सानां दण्डः स्वादर्द्धमाषिक इति॥

तन्मुहूर्त्तमात्रभक्षण विषयं अतएवाहतुः शङ्खलिखितौ। रात्रौ चरन्ती गौः पञ्चमाषान्दिवा त्रीन्मुहूर्त्तेमाषं ग्रामेत्वदण्डमिति। ग्रामेत्वदण्ड इत्यस्यायमर्थः। महिष्यादिभिः परशस्येषु कबलप्रात्रभक्षणे कथञ्चित्कृते पालस्वामिनो वा

स्वल्पोऽपि दण्डो नास्तीति। आतुरपशुविषये बहुशस्यनाशेऽप्येवमेव दण्डाभाव प्रतिपादन मुखेनाह नारदः।

राज ग्रहगृहीतो वा वज्जाशनिहतोऽपि वा।
अथ सर्पेण दष्टो वा वृक्षाद्वापतितो भवेत्॥
व्याघ्रादिभिर्हतो वापि व्याधिभिर्वाप्युपद्रुतः।
न तत्र दोषः पालस्य न च दोषोऽस्ति गोमिनामिति॥

गोमिनां गोस्वामिनाम्। आतुराणामनिवार्यत्वादित्यभिप्रायः। अनातुराणामपि केषाञ्चित्पशूनां दण्डाभावमाह स एव।

गौः प्रसूता दशहात्तु महोक्षावाजि कुञ्जराः।
निर्धार्याः स्युः प्रयत्नेन तेषां स्वामी न दण्डभागिति॥

दशदिनपर्य्यन्तम्प्रसूताया निरोद्धुमशक्यत्वान्न स्वामी दण्डभाक्। महोक्षस्य सर्वासाङ्गर्भाधानार्थं सर्वदा बन्धनायोगात् तत्स्वामी न दण्ड्यभाक्। वाजि कुञ्जराणां स्वामिनोऽदण्डभागित्वे हेतुमाहोशनाः।

अदण्डा हस्तिनो ह्यश्वाप्रजापालाहि ते स्मृता इति॥

स्वामि ग्रहण पालकस्याप्यु पलक्षणार्थम्। यदाह मनुः।

अनिर्दृशाहां गां सूतां वृषान्देवपशूं तथा।
सपालान्वा विपालान्वा अदण्ड्यान्मनुर ब्रवीदिति॥

वृषा महोक्षाः। यद्वावृषोत्सर्ग विधानेनोत् सृष्टाः। देवपशवः देवालयेषु देवोपभोगार्थं स्थापिताः पशवः। याज्ञवल्क्योऽपि।

महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः।
पालोयेषान्न ते मोक्ष्यादेवराज परिप्लुताः॥

अनिर्दृशाहा आगन्तुकः स यूथात्पपिभ्रष्टः सन् देशान्तरात्समागतः। येषां पालो नास्ति तेऽपि दैवराजोपहताः शस्यादि-

नाशकारिणो न दण्ड्याइत्यर्थः। आदि शब्देन मृतवत्सादीनां ग्रहणम्। अतएवोशनाः।

अदण्ड्यामृतवत्साच संज्ञा रोगवती कृशा।
अदण्ड्याः काणकूटाश्च वृषाश्च कृतलक्षणाः।
अदण्ड्यागन्तुका गौश्च सूतिका चाभिसारिणीति॥

कूटः एकशृङ्गः। कृतलक्षणः प्रतप्तायसेन कृतलाञ्छनः। अभिसारिणी स्वयूथात्प्रच्युता पुन स्वयूथगामिनी परशस्य विनाशेन केवलंपशुस्वामी दण्डनीयः स दमपि दापनीय इत्याह बृहस्पतिः।

शस्यान्निवारयेङ्गास्तु चीर्णे दोषो द्वयोर्भवेत्।
स्वामी सददमन्दाप्यः पालस्ताडनमर्हतीति॥

सदश्च समश्चसददमम्। समूलशस्यनाशविषयमेतत्। अतएव नारदः।

सशूलशत्यनाशेतु तत् स्वामी प्राप्नुयात् सदम्।
बवेन नौ र्यो मुच्येत दण्डं स्वामिनि पातयेदिति॥

तत् स्वामी शस्यस्वामी सदं प्राप्नुयात्। पशुस्वामिनः सकाशादितिशेषः। बहवोऽत्र कथादिना ताडनम्। न प्राणच्छेदः। पालस्ताडनमहतीति वचनात्। सदश्च सामन्तादिभिः परिकल्पितो देयः। अत एवस एवाह।

गोभिस्तु भक्षितं शस्यं यो नरः प्रतियाचते।
सामत्तानुभसन्देयं धान्य यत्तत्रवापि तमिति॥

यत्तु उदयाचननिषेधकम्।

गोभिर्विनाशित धान्यंयो नरः प्रतियाचते।
पितरस्तस्यनाश्ननि ना वापि त्रिदिवौकसः॥

इत्युशनोवचनन्तद् ग्रामादिसमीपस्थानावृत्तक्षेत्र विषयमितिमाधवाचार्याः। श्राद्धकालादौ गोभक्षित विषयमिति मदनरत्नकृतः। सर्वासाङ्गवामु- त्सवे श्राद्धदिवसे चादण्ड्यत्वमाह स एव।

अदण्ड्याश्चोत्सवे गावः श्राद्धकाले तथैवचेति।

गोभिः श्राद्धकालादौ भुक्तमतिश्रेयस्कर मित्याशयेनाह। व्यासः।

आक्रम्य च द्विजैर्मुक्तं परिक्षीणञ्च बान्धवैः।
गोभिश्च नरशार्दूल ! वाजपेयाद्विशिष्यत इति॥

एतत्पदमुपसंहरति मनुः।

एतद्विधान मातिष्ठेद्धार्मिकः पृथिवीपतिः।
स्वामिनाञ्च पशूनाञ्च पालानाञ्च व्यतिक्रम इति॥

इति स्वामिपालविवादाख्यव्यवहारपदम्।

अथ सीमा विवादाख्य व्यवहारपदम्। तत् स्वरूपमाह नारदः।

सेतुकेदारमर्यादाविकृष्टाकृष्टनिश्चयः।
क्षेत्राधिकारी यत्र स्याद्विवादः क्षेत्रज्ञस्तु सः।

तस्यार्थसेतुर्जल प्रवाहबन्धः। केदारः क्षेत्रम्। मर्य्यादा सीमा। विकृष्टो लाङ्गलप्रहतो देशः अकृष्टस्तद्रहितः एतेषां निश्चयो यत्रविवादे स्यात् सक्षेत्राधिकारः क्षेत्रविषयको विवादः क्षेत्रज्ञउच्यतइति। अयं विवादः षड्विधः तथा च। कात्यायनः। आधिक्यं न्यूनता चांशे अस्तिनास्तित्वमेव च।

अनरोगमभुक्तिः सीमाच षड्भूवादस्य हेतवः।

ममैषाधिका भूरस्तीत्युक्तेनेति विवाद आधिक्यविवादः एतावती भूस्तव नेत्युक्ते ममैतावतीति यो विवादः स न्यूनता विवादः अत्र ममांशोऽस्तीत्युक्ते सति यो विवादः सोऽस्तित्वविवादः अत्र तवांशोनास्तीत्युक्ते विद्यत इत्येवंविधो विवादो नास्तित्वविवा-

दः। सीमाविवाद इति षड्विधो विवाद इत्यर्थः। तत्र सीमा चतुर्विधा। देशसीमा ग्रामसीमा क्षेत्रसीमा गृहसीमाचेति। तस्याश्चतुर्विधाया अपि यथासम्भभंपञ्चविधत्वमाह। नारदः।

ध्वजिनी मत्सिनी चैव नैधानी भयवर्ज्जिता।
राजशासननीता च सीमा पञ्चविधा स्मृता॥

ध्वजिनी वृक्षादिचिह्निता वृक्षाश्च न्यग्रोधादयः। तदाह। मनुः।

सीमावृक्षांस्तु कुर्वीत न्यग्रोधाश्वत्यकिंशुकान्।
शाल्मलीन् सालतालांश्च क्षीरिणश्चैव पादपानिति॥

मत्सिनी जलचिह्निता। नैधानी निखाततुषाङ्गारादिलक्षिता। भयवर्जिता। अर्थिप्रत्यर्थि परस्पर सम्प्रतिपत्तिनिर्मिता। राजशासननीता ज्ञातृचिह्नाद्यभावे राजेच्छया निर्मिता। तथा च व्यासः।

ग्रामयोरुभयोः सीम्निवृक्षा यत्र समुन्नताः।
समुच्छ्रिता ध्वजाकारा ध्वजिनौ सा प्रकीर्त्तिता॥
स्वच्छन्दगा बहुजला कपकूर्मसमन्विता।
नित्यप्रवाहिणीयत्रसीमा सा मत्सिनी मता॥
तुषाङ्गारकपालैस्तु कुम्भैरायतनैस्तथा।
सीमा प्रचिह्निता कार्य्या नैधानी सा निगद्यते इति।

नित्यप्रवाहिणीत्यनेन कूपवाप्यादीनि प्रकाशचिह्नान्युपलक्ष्यन्ते। तानि च बृहस्पतिना दर्शितानि।

वापीकूपतडागानि चैत्यारामसुरालयाः।
स्थलन्निम्नं नदी स्रोतः शरगुल्मनगादयः॥
प्रकाशचिह्नान्येतानि सीमायां कारयेत् सदा।
निहितानि तथान्यानि यानि भूमिर्न भक्षयेत्॥
अश्मनोऽस्थीनि गोबालांस्तुषान् भस्मकृपालिकाः।

करीषमिष्टकाङ्गारशर्करा बालुकांस्तथा॥
तानि सन्धिषु सीमाया अप्रकाशानि कारयेत्।
चैत्यं इष्टकादिभिः रचितञ्च त्वरादिकम्॥

स्थल उन्नतोभूप्रदेशः। निम्नं परिखा। नगा अश्वत्थादयो वृक्षाः। आदिशब्देन मार्गादीनां कार्पासवीजानाञ्च ग्रहणम्। अस्थीनिपशुमनुष्याद्यस्थीनि। तुषाङ्गारकपालैरिति करीषादीनामन्येषां लिङ्गानामप्युपलक्षणम् तानि निधापयेत्।

ततयोगन्तु बालानां प्रयत्नेन प्रदर्शयेत्।
वार्द्धकेच शिशूनान्ते दर्शयेयुस्तथैव च॥

एव परम्पराज्ञाने सीमाभ्रान्तिर्नजायत इति। प्रदर्शयेदिदन्तु च्छान्दसम्बद्धत्वएवकवचनम्। एतेषां लिङ्गानां कथञ्चिदभावे निश्चयोपायमाह नारदः।

निम्नगापहृतोत्सृष्ट नष्ट चिह्नासुभूमिषु।
तत् प्रदेशानुमानैश्च प्रमाणैर्भोगदर्शनैः॥

निम्नगाया नद्या अपहृतेन अपहरणेन उत्सृष्टानि स्वस्थानान्नष्टानि चिह्नानि यासान्तास्तथोक्ताः। प्रमाणैः साक्षिसामन्तादिभिः एवं निरूपितैलिङ्गैनिर्णयं कुर्य्यादित्याह मनुः।

एतैर्लिङ्गैर्नयेत् सीमां राजा विवदमानयोः।
यदि संशय एव स्याल्लिङ्गानामपि दर्शने॥
साक्षिप्रत्यय एवस्यात्सीमावाद विनिर्णयः।

साक्षिप्रत्ययः साक्षिहेतुकः। लिङ्गाभावपक्ष परिग्रहार्थोऽपिशब्दः ते च साक्षिणः सीमाविषयाः सीमालिङ्गविषया वा। साक्षिषु विशेषमाह बृहस्पतिः।

आगमञ्च प्रमाण च भोगकालञ्च नाम च।

भूभागलक्षणञ्चैव ये विदुस्तेऽत्र साक्षिणः॥

प्रमाणमियन्त उभयेषामपि साक्षिणामभावे सामन्तवशान्निर्णयं कुर्यादित्याह मनुः।

साक्ष्यभावे तु चत्वारो ग्रामाः सामन्तवासिनः।
सीमाविनिर्णय कुर्य्युःप्रयता राजसन्निधौ॥

यदा पुनर्लिङ्गानि न सन्ति वर्त्तमानानि वा सन्दिग्धानि तदा निश्चयोपायमाह याज्ञवल्क्यः।

सामत्ता वा समग्रामाश्चत्वारोऽष्टौ दशापि वा।
रक्तस्रग्वसनाः सीमान्नयेयुः क्षितिधारिणः॥

सामन्ताः सन्निहितग्रामक्षेत्राद्युपभोक्तारः। समग्रामाश्चत्वारोऽष्टौ इत्यादि प्रकारेण समसङ्ख्याकाः। तथा च कात्यायनः। ग्रामो ग्रामस्य सामन्तः क्षेत्रं क्षेत्रस्य कीर्त्तितम्।

गृहं गृहस्य निर्दिष्टं सामन्तात्परिरभ्य हि।

ग्रामस्य समन्ताच्चतसृषु दिक्षु परिरभ्य सम्बध्य स्थितो ग्रामः सामन्तः क्षेत्रादप्येवंज्ञेयम्। सामन्तानां यदा रागद्वेषादिना प्रकटदोष सद्भावस्तदा सामन्त वशान्निर्णयः कार्यःतदाह। कात्यायनः।

स्वार्थमिद्धौप्रदुष्टेषु सामन्तेष्वर्थगौरवात्।
तत् संसक्तैस्तु कर्त्तव्य उद्धारो नात्र संशयः॥

तत् संसक्तैः सामन्तसंसक्तैः। सीमायाउद्धारः सीमायानिर्णय इत्यर्थः। तथा चैतदुक्तम्भवति। चतसृषु दिक्षु स्थितसामन्त ग्रामादिभ्योऽनन्तरत्वेन तद्दिशि स्थित ग्रामादि भोक्तारस्तत्संवक्तास्तत्प्रदर्शित सीमालिङ्गैर्ग्रामादेः सीमाग्निर्णयेदिति। यदा तु सामन्त सामन्तानामपि प्रकट दोषस्तदा तत् सामन्तैर्निर्णयस्तदाहकात्यायनः।

संसक्त सक्तदोषे तु तत् संसक्ताः प्रकीर्त्तिता इति।

तत् संसक्ताः ससक्तसंसक्तमक्ता इत्यर्थः। एवं चैतदुक्त भवति चतसृषु दिक्षुस्थित संसक्तुग्रामादिभ्योऽनन्तरत्वेन तद्दिशिस्थितग्रामादि भोक्तारः संसक्तास्तैः प्रदर्शित सीमालिङ्गैर्ग्रामादेः सीमान्निर्णयेदिति। यदा पुनरेतेषामपि प्रकटदोषत्वन्तदा मौलादि वशान्निर्णयः कार्य इत्यप्याह स एव।

कर्त्तव्या न प्रदुष्टास्तु राज्ञा धर्मं विजानता।
त्यत्क्वादुष्टांस्तु सामन्तानन्यान्मौलादिभिः सह॥
सम्मिश्र्यकारयेत्सीमामेवं धर्मविदो विदुः।

अन्यान् सामन्तव्यतिरिक्तान् सीमालिङ्गाभिज्ञान् नगरादीनित्यर्थः। नगरायश्च दर्शिता नारदेन। नगरग्रामगणितोयेच वृद्धतमानराः। सीमालिङ्ग ज्ञातार इति शेषः। मौलादिभिः मौलवृद्धोद्वृतैः। सम्मिश्र्यामेलयित्वा। मौलादीनाञ्च लक्षणं दर्शितं कात्यायनेन।

ये तत्र पुर्वं सामन्ताः पश्चाद्देशान्तरङ्गताः।
तन्मूलत्वात्तु ते मौला ऋषिभिः परिकीर्त्तिताः॥
निष्पाद्यमानं यैर्दृष्टं तत्कार्य्यंनृगुणान्वितैः।
वृद्धावा यदि वाऽवृद्धास्तेच वृद्धाः प्रकीर्त्तिताः।

नृगुणान्वितैः पुरुषगुणान्वितैः। वाकारोऽनास्थायां वयोवृद्धत्वस्याप्रयोजकत्वात्। ये परम्परया कार्यज्ञातारस्ते ऊर्द्ध्वर्त्तारःइत्याशयः। तथा च संसक्तसंसक्तेषु स्फुटदोषदुष्टेषु पूर्वसामन्ताद्युपेतनागरिकग्राम्यजनश्रेणि वयोवृद्ध दशितैः सम्यक् लिङ्गैःसीमानिर्णयःकार्य्यः। यदा तु प्रतिवादिनासामन्तेषु कश्चिद्दोष उद्भावितः ते च न प्रकटदोष-

युक्तास्तदोक्तोविशेषो मनुना।

सामन्ता साधनं पूर्वमनिष्टोक्तौ गुणान्विताः।
द्विगुणास्तूत्तरा ज्ञेयास्ततोऽन्ये त्रिगुणा मताः॥

अनिष्टोक्तौ प्रतिवादिना गुप्तदोषाभिधाने तत्सामन्तास्ततो द्विगुणा ग्राह्यास्तेष्वपि दोषाभिधाने तत्सामन्तास्ततो द्विगुणग्राह्याः। तत्रापि तथात्वे मौलवृद्धादयः सामन्तत्रिगुणा ग्राह्या इत्यर्थः। साक्ष्यादीनामेतेषां यदा अभावस्तदात्वाह मनुः।

सामन्तानामभावे तु मौलानां सीम्निसाक्षिणाम्।
इमानप्यनुयुञ्जीत पुरुषान्वनगोचरान्॥
व्याधान् शाकुनिकान् गोपान् कैवर्त्तान् मूलखानकान्।
व्यालग्राहानुच्छवृत्तीनन्यांश्चच वनगोचरान्॥

वनगोचराणां ग्रहणं सीमासन्निहित देशकर्षकाणामसत्वे विज्ञेयम्। अतएवोक्तंनारदेन।

सीमासु च वहिर्ये स्युर्येऽपि तत्कृषिजीविनः।
गोपाः शाकुनिका व्याधा ये चान्ये वनगोचरा इति॥

अत्र च सर्वत्र स्थावरविवादे सेत्वादि विवादे च सामन्तादयो निर्णायकाः तथा च कात्यायनः।

तेषामभावे सामन्ता मौल वृद्धोद्वृतादयः।
स्थावरे षट्प्रकारेऽपि कार्य्या नात्रविचारणा॥

क्षेत्रवास्तुतडागेषु आरामवन सेतुषु।

समेतभावात् सामन्तैः कुर्यादत्र विनिर्णयम्।
ग्रामसीमासु च तथा तद्वन्नगरदेशयोः॥

तेषां साक्षिणाम्। याज्ञवल्क्योऽपि।

आरामायतन ग्रामनिपानोद्यानवेश्मसु।

एष एव विधिर्ज्ञेयोवर्षाम्बुप्रवहादिषु॥

आयतनन्निवेशनन्निपानं पानीयस्थानं वर्षाम्बुप्रवहो वृष्ट्युद्भूत जलप्रवाहःपुनः कात्यायनोऽपि।

क्षेत्रकूपतडागानां केदारारामयोरपि।
गृह प्रसदावसथनृपदेव गृहेषु च।

केदारःक्षुद्रसेतुयुक्तः क्षेत्रविशेषः। गोवलीवर्दन्यायेन भिन्नोक्तिःप्रमदः प्रसादः। बृहस्पतिपि।

सर्वत्र स्थावरे वादे विधिरेष प्रकीर्त्तितः।

राज्ञाग्रामीणानां वादिप्रतिवादिनोश्च समक्षं सामन्दादयः प्रष्टव्याः तैर्यदुक्तं तत्पत्रेलेखनोयमित्याह मनुः।

ग्रामीयक कुलानान्तुसमक्षं सौम्नि साक्षिणः।
प्रष्टव्याः सीमलिङ्गानि तयोश्चैव विवादिनोः॥
ते पृष्टास्तुयथा ब्रूयुः समस्ताः सीम्निनिर्णयम्।
निबघ्नीयात्तथा सीमां सर्वास्तांश्चैव नामतः॥

सीमलिङ्ग साक्ष्यभिप्रायेण सीमलिङ्गानीत्युक्तम्। सीमासाक्षिणस्तु सीमां ब्रूयुः। तथा च वृहस्पतिः।

शपथैः शापिताः स्वैःस्वैर्ब्रूयुः सीमाविनिर्णयम्।
दर्शयेबुश्च लिङ्गानि तत्प्रमाणमिति स्थितिः।

स्वैः स्वैः। सत्येन शापयेद्विप्रक्षत्रियं वाहनायुधैरित्यादिनोक्त व्यवस्थानतिक्रमेणेत्यर्थः। यदा तु ये सीमालिङ्ग साक्षिणः सीमाचिह्नानि दर्शयितुन्न शक्नुवन्ति केवलं सीमामात्रं जानन्ति तदा ते कथ ब्रूयुरित्याकाङ्क्षायामाह मनुः।

शिरोभिस्ते गृहीत्वोर्वींस्रग्विनो रक्त वाससः।
सुकृतैः शापिताः स्वैः स्वैर्नयेयुस्ते समञ्चसमिति॥

उर्वीम्मृदम्। सीमाक्रममाणाइति शेषः।नयेयुरिदं द्वयोर्निरासार्थं बहुवचनन्नत्वेकस्य।नारदेन।

एकश्चेदुन्नत्सीमां मां सोपवासः समुन्नयेत्।
रक्तमाल्याम्बरधरोभूमिमादाय मूर्द्धनीति॥
एकस्याभ्यनुज्ञानात्। वृहस्पतिरपि।
ज्ञातृचिह्नैर्विना साधुरेकोऽप्युभयसम्मतः॥
रक्तमाल्याम्बरधरोमृदमादाय मूर्द्धनि॥
सत्यव्रतः सोपवासः सीमां तां दर्शयेन्नरः।

ज्ञातृचिह्नैर्विना सीमायाः ज्ञातॄणां लिङ्गानाञ्चा सत्वे। ननु कथमेकस्य सीमानिर्णायकत्वं नैकः समुन्नयेत्सीमामान्नरःप्रत्ययवानपि।

गुरुत्वादस्य कार्य्यस्य क्रियैषा बहुषु स्थिता।

इत्येकस्य नारदेन निषेधादिति चेन्मैवम्। स उभयानुमतधर्मविद्यतिरिक्त विषय इति न काप्यनुपपत्तिः। अयञ्च निर्णयःसीमाक्रम- णदिनादारभ्य पक्षत्रय पर्य्यन्तंसाक्षिसामन्तादीनान्दैविकराजिकोपद्रवाभावे अवसेयः न तु सीमाक्रमणाव्यवहितोत्तरमेव।तथा च कात्यायनः।

सीमा चंक्रमणे कोशे पादस्पर्शे तथैव च।
त्रिपक्षपक्ष सप्ताहं दैवराजिक मिष्यते॥

यथासङ्ख्यमिति शेषः। यदा तु साक्ष्यादीनां पक्षत्रयाभ्यन्तरे दैविकराजिकोपद्रवः अन्यथा वा मिथ्यावादित्व निश्चयस्तदा ते पणशतद्वयं दण्डंप्रत्येकं दाप्याः। तथा च मनुः।

यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः।
विपरीतन्नयन्तस्तु दाप्याः स्युर्द्विशतन्दमम्॥

यथोक्तेन शिरोभिस्ते गृहीत्वोर्वोमित्यादिनोक्त प्रकारेण नयन्तो निर्णयं कुर्वन्तः यथाभूतेनार्थेनेतिशेषः। द्विशतं पणशतद्वयम्।पणशतद्वयंदण्ड प्रत्येकम्। यथोक्तेन शिरोभिस्ते गृहीत्वा दाप्या इत्यर्थः। सामन्तानां मित्यावादित्वे राज्ञा मध्यम साहसिकाख्येन दण्डेन दण्डनीया। तथा चाह याज्ञवल्क्यः। अनृते तु पृथक् दण्ड्याराज्ञा मध्यम साहतम्।सामन्ता यद्यनृतं मिथ्याभूतं सीमानिर्णयं कुर्युःतदा मध्यमसाहसं कार्षापणानां चत्वारिंशत् अधिकानि पञ्चाशतानि दण्डनीयाः। नारदोऽपि।

अथचेदनृतं ब्रूयुः सामन्ताः सीम्नि निर्णये।
सर्वे पृथक् पृथक् दण्ड्याराज्ञामध्यम साहसम्।

सामन्त व्यतिरिक्तानां तत्संसक्तादीनां मिथ्यावादित्वे पूर्व साहसाख्येन दण्डेन प्रत्येकं ते दण्डनीयाः। तथा च नारदः।

शेषाश्चेदनृतं ब्रूयुर्नियुक्ता भूमिकर्मणि।
प्रत्येकन्तु जघन्यास्ते विनेयाः पूर्व साहसमिति॥
मौलादीनामनृतवादित्वे तमेव दण्डं स एवाह।
मौल वृद्धादयश्चान्ये दण्डनीयाः पृथक् पृथक्।
विनेयाः प्रथमेनैव साहसेनानृते स्थिता इति॥

आदि ग्रहणेन गोपशाकुनिकादि वन गोचराणां ग्रहणम्। दण्डनीयाःमिथ्यावादित्वेन दण्डयितु मर्हाः मौल वृद्धादयःपृथक् पृथक् प्रथमेन साहसेन विनेया दण्ड्याइत्यर्थः। यद्यपि सामन्तादीनां साक्ष्यपेक्षया दण्डाल्पत्व मुक्तंतथापि तेषां वाचनिकं दण्डाधिक्यमिति न कोऽपि दोषः। यद्यपि शाकुनिकाद्रयो बहुधा पापरतत्वाल्लिङ्ग प्रदर्शनोपयोगे-

नान्यथा सिद्धा न साक्षात् सीमानिर्णये उपयुज्यन्ते तथापि वृक्षादिलिङ्ग प्रदर्शन एव मिथ्याभावितत्वे सम्भवात्तदभिप्रायेणैवदण्डविधानम्। लोभादिना भेदेनोक्तौअनुक्तौ च साक्ष्यादीनां दण्डमाह कात्यायनः।

बहुनान्तु, गृहीतानां न सर्वे निर्णयं यदि।
कुर्युर्भयाद्वालोभाद्वादाय्यास्तूत्तम साहसम्॥

एवमज्ञानादिना अनृत वचने साक्षादीन् दण्डयित्वा पुनः सीमाविचारःप्रवर्त्तयितव्यः। तथा च स एवाह।

अज्ञानोक्तौ दण्डयित्वा पुनः सीमां विचारयेत्।
कीर्त्तिते यदिभेदः स्यादण्ड्यास्तू त्तम साहसम्॥

साक्ष्यादीनां सर्वेषां अज्ञानोक्तौ भेदेनोक्तौ च पुनर्विचारणं लेख्य प्रमाणेन कर्त्तव्यम्। अतएव शङ्खलिखितावपि। सामन्त विरोधे लेख्य प्रत्यय इति। यदा पुनः सामन्त प्रभृतयो ज्ञातारञ्चिह्नानि च न सन्ति तदा राजा स्वेच्छया निर्णय कुर्यात्। तथा च याज्ञवल्क्यः।

अभावे ज्ञातृचिह्नानां राजा सीम्नः प्रवर्त्तिता॥

ज्ञातृणां सामन्तादीनां लिङ्कादीनाञ्च वृक्षादीनामभावे राजैव स्वातन्त्र्येण सीमानं प्रवर्त्तयेत्। नारदोऽपि।

यदा च न स्युर्ज्ञातारः सीमाया न च लक्षणम्।
तदा राजा द्वयोः सौमामुन्नयेदिष्टतः स्वयम्॥

इष्टतःइच्छया सार्वविभक्तिकस्तसिः। ग्रायद्वय मध्यवर्त्तिनींविवादास्पदीभूताम्भुवं समं प्रविभज्यास्ये यम्भूरित्युभयोः समर्प्यतन्मध्ये सीमालिङ्गानि कुर्य्यात्।यदा तस्यां भूमावुपकारातिशयो दृश्यते तदा तत्रैव सा सकला भूर्योजनीया न

तूभयत्र। तथा च मनुः।

सोमायामविषह्यायां स्वयं राजैव धर्मवित्।
प्रदिशेद्भूमिमेतेषामुपकारादिति स्थितिरिति।

अविषह्यायां ज्ञातृचिह्न रहितायाम्। प्रदिशेत् प्रवेशयेदित्यर्थः। अयञ्च निर्णयो राज्ञा निर्णयान्तरवदव्यवहितोत्तरमेव न कर्त्तव्यःकिन्तु सीमालिङ्गानि यदा आवदकाद्यभावात् स्फुटं दृश्यन्ते तदा कर्त्तव्यः तथा च मनुः।

सीमां प्रति समुत्पन्ने विवादे ग्रामयोर्द्वयोः।
ज्यैष्ठे मासि नयेत् सीमां सुप्रकाशेषु सेतुषु॥

द्वयोर्ग्रामाधिपयोर्विवादे सीमां प्रति समुत्पन्ने ज्येष्ठे मासीत्युपलक्षणं मासान्तरेऽपि सेतु वृतिषु सीमालिङ्गेषु व्यक्तेषु विवादाध्यासितां सीमा- न्निर्णयेदित्यर्थः। ग्रामग्रहणं नगरादेरुपलक्षणार्थम्। अतरव कात्यायनः।

सामन्ताश्चेत्तु सामन्तैःकुर्यात् क्षेत्रादि निर्णयम्।
ग्रामसीमादिषु तथा तद्वन्नगरदेशयोरिति॥

यदा पुनः ग्रामादीनां सीमात्वेन परिकल्पितानदी कदाचित् ग्रामान्तरं भित्वा प्रावहन्ती दक्षिणभागे स्थितां पूर्वं काञ्चिद् भूमिं वामभाग- निविष्टां करोति तथा यत्रैकग्राप्तसम्बन्धिनी भूरन्यत्र राज्ञा योज्यते तत्र निर्णयोपायमाह वृहस्पतिः।

अन्य ग्रामात् समाहृत्य दत्ताऽन्यस्य यदा मही।
महानद्यथ राज्ञा च कथन्तत्र विचारणा॥
नद्योत्सृष्टा राजदत्ता यस्य तस्यैव सा मही।
अन्यथा न भवेल्लाभो नराणां राजदैविकः॥
क्षयोदयौ जीवनञ्च दैवराजवशान्नृणाम्।

तस्मात् सर्वेषु कार्येषु तत्कृतन्नविचालयेत्॥

न च नदीकृतस्य दैवकृतत्वाभावः शङ्कनीयः। दैव शब्दस्य भाग्यवाचित्वान्नदीकृतमपि दैवकृतम्भलवत्येव। तथा चाह स एव

ग्रामयो रुभयोर्यत्र मर्यादा कल्पिता नदी।
कुरुते दानहरणं भाग्या भाग्यवशान्नृणाम्॥
एकत्र कूलपातन्तु भूमेरत्यत्र संस्थितिम्।
नदीतीरे प्रकुरुते तस्य तान्नविचालयेत्॥

तस्य नदीवशात्प्राप्तभूमिकस्य तां प्राप्ताम्भूमिन्न विचालयेत् नान्यथा कुर्यात्पूर्व स्वामी नापच्छिन्द्यादित्यर्थः। एतदनुप्तशस्यतीर विषयम्।उप्तशस्यविषये पुनः स एवाह।

क्षेत्रं सशस्यमुल्लङ्घ्य भूमि श्छिना यदा भवेत्।
नदीस्रोतः तःप्रवाहेण पूर्वस्वामी लभेत ताम्॥

तां सशस्या भूमिं पूर्वस्वामीयावदुत्पन्नस्य शस्यफल प्राप्तिस्तावल्लभेतेत्यर्थः। फलप्राप्ते रूर्ध्वं पुनः पूर्ववचन विषय समानता। राजदत्त विषये क्वचित् प्रतिप्रसवमाह स एव।

या राज्ञा क्रोधलोभेन छलन्यायेन वा हृता।
प्रदत्ताऽन्यस्य दुष्टेन न सासिद्धिमवाप्नुयात्॥

स्वत्व हेतु प्रतिग्रहादि लब्धक्षेत्रविषयमेतत्। स्वत्व हेतु प्रतिग्रहादि प्रमाणाभावे पुनः स एवाह।

प्रजाणरहितां भूमिं भुञ्जानो यस्यया हृता।
गुणाधिकाय वैदत्ता तस्य तान्न विचालयेत्॥

प्रमाण रहितां स्वत्वहेतु प्रतिग्रहादि प्रमाण रहिताम्। गृहादि विषयक निर्णयमाह स एव।

निवेश कालादारभ्य गृहचर्यापणादिकम्।
येन यावद्यया भुक्तं तस्य तन्नविचालयेत्॥

येन स्वामिना यावत् प्रचार भूम्यादियुक्तंयथा येन पूर्वादिदिगभिमुखद्वारादि युक्तत्वादि रूपेणोपभुक्तं तत्तस्य स्वामिनः सकाशान्नविचालयेत् नान्यथा कुर्यादित्यर्थः। अत्र निवेशकालादारभ्येत्यभिधानान्मध्ये कृताया व्यवस्थाया निर्वर्त्त्यत्वं दर्शितम्। निवेशकालादारभ्य स्थितानि गवाक्षादिकानि प्राति वेशिकाद्यनिष्टकारिण्यपि न निवर्त्त्यन्ते इत्युक्तं तेनैव।

वातायनं प्रणाली च तथा निर्व्यूहवेदिका।
चतुःशालस्यन्दनिकां प्राङ्निविष्टां न चालयेत्॥

वातायनं गवाक्षः।प्रणाली पाषाणादि निर्मित जलनिर्गमोपायः। निर्व्यूहो द्वारनिर्गतकाष्ठ विशेष इति कृत्यकल्पतरौ। निर्व्यूहोगृहकोण इति स्मृतिचन्द्रिकायाम्। वेदिका रथ्यादि प्रदेश संस्कृतोत्तरा भूमिः। चतसृणां शालानां समाहारः चतुः शालम्। तस्मात् स्यन्दनिका वृष्टिजल- निपातः। कात्यायनोऽपि। मेखलाभ्रमनिष्काशगवाक्षान्नोपरोधयेत्।

प्रणालींगृहवास्तुञ्च पीड़य न्दण्डभाग्भवेत्॥

मेखला कुड़ब मूलबन्धः। भ्रमञ्जलनिर्गमः। निष्काशः हर्म्यादिभित्तिषु निर्गतं काष्टादिनिर्मितमस्पृष्ट भूमिकमुपवेशनस्थानम्।नोपरोधयेत् न निरुन्ध्यात्। गृहवास्तुः वासभूमिःपूर्वमविद्यमानाःपरानिष्टकारिणएतेन कर्त्तव्या इत्यप्याह स एव।

निवेशन भयादूर्ध्वनैते योज्याः कदाचन।
दृष्टिपातं प्रणालीञ्च न कुर्य्यात्परवेश्मसु॥

दृष्टिपातो गवाक्षः।परवेश्मसु परवेश्माभिमुख्येन। परकुड्यनिकटे पुरीषोत्सर्गादिकमपि न कर्त्तव्यम्। तथा च वृहस्पतिः।

वर्चःस्थान वह्निचयङ्गर्त्तोच्छिष्टाम्बुसेचनम्।
अत्यारात्यरकुड्यस्य न कर्त्तव्यं कथञ्चन॥

वर्चःस्थानम्।पुरीषोत्सर्गस्थानम्। अत्यारादतिसमीपे।अरत्निद्वयसम्मित प्रदेश इत्यर्थः। तथा च कात्यायनः।

विण्मूत्रोदकमेकञ्च वह्निश्वभ्रनिवेशनम्।
अरत्निद्वयमुत् सृज्य परकुड्यान्निवेशयेत्॥

संसरण शब्दार्थनिर्वचनपुरःसरन्तस्यानिरोद्धव्यत्वमाह। बृहस्पतिः।यान्त्यायान्ति जना येन पशवश्चानिवारिताः।

तदुच्यते संसरणन्नरोद्धव्यन्तु केनचित्॥

तथां च सम्यगनिवारितं सरन्त्यस्मिन्नितिसंसरणन्निर्वचनमित्यर्थः।चतुष्पथादयोऽपि न निरोद्धव्याः। तथा च नारद।

अवस्करस्थलश्वभ्रभ्रमंस्यन्दनिकादिभिः।
चतुष्पथ सुरस्थान राजमार्गान्नरोधयेत्॥

अवस्करः पुरीषम्। गृहादि शोधनार्थं पांशु समूह इति हरिहरादयः। स्थलं वेदिका श्वभ्रङ्मर्त्तः।भ्रमो जल निर्गममार्गः। स्यन्दनिका पटल प्रान्तः।अन्यदपि आदि शब्देन तादृशंग्राह्यम्। रथ्यामार्गो राजमार्गः न तु चतुष्पथ इति कल्पतरुः। न चतुष्पथ राजमार्गयोरभेद इति शङ्कनीयं तयोर्भेदात्। तथा च कात्यायनः।

सर्वे जनाः सदा येन प्रयान्ति स चतुष्पथः।
अनिषिद्धायथाकालं राजमार्ग स उच्यते॥

अनिषिद्धा इत्यस्य पूर्वेणान्वयः। यत्रराजकीयैरकाले गमनं प्रतिषिध्यते स राजमार्ग इत्यर्थः । क्षेत्रस्य समीपे मध्ये वा यस्य सर्वदा मार्गोऽस्ति तत्र निरोधो न कर्त्तव्यः। तथा च शङ्खलिखितौ। मार्ग क्षेत्रे पथिविसर्गो राजमार्गे रथस्य परिवर्त्तनमिति। पथिविसर्गःपथोविसर्गः। राजमार्गे यावता प्रदेशेन रथैः परिवर्त्तते तावान् प्रदेशस्त्यक्तव्य इत्यर्थः। संसरणानामवरोधकारिणान्तु दण्डो माषैको दाप्यः। तथाह वृहस्पतिः। यस्तत्रसङ्करं श्वभ्रंवृक्षारोपण मेवच।

कामात्पुरीषं कुर्याच्च तस्य दण्डस्तुमाषकः॥

सङ्करोऽत्रशकटादि सङ्कीर्णता।वृक्षोपादानं लतादीनामप्युप लक्षकम्। माषोऽत्र ताम्रिकःदण्डस्य अपराधानुसारेण कल्पयितु मुचितत्वात्। येतु राजमार्गे पुरीषोत्सर्गादिकं कुर्वते तेषामधिकोदण्डः। तथा च मनुः।

समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि।
स द्वौकार्षापणौ दद्यादमेध्यं चाशु शोधयेत्॥

आपद्गतादिषु तु दण्डस्तेनैवोक्तः।

आपद्गतस्तथा वृद्धा गर्भिणी बाल एव च।
परिभाषणमर्हन्ति तच्च शोध्यमिति स्थितिः॥

परिभाषणं क्रूरभाषणम्।तडागादो ततोऽप्यधिकोदण्डः। तथा च कात्यायनः।

तडागोद्यानतीर्थानि यो मेध्येन विनाशयेत्।
अमेध्यं शोधयित्वा तु दण्डयेत् पूर्वसाहसम्॥

ये पुनर्मलिनवस्त्र प्रक्षालनादिना तीर्थानि दूषयन्ति तस्याप्ययमेव दण्ड इत्याह। स एव।

दूषयेत्सिद्धतीर्थानि स्थापितानि महात्मभिः।
पुण्यानि पावनीयानि प्राप्नुयात् पूर्वसाहसम्॥

मर्यादा प्रभेदनादौ दण्डमाह। याज्ञवल्क्यः।

मर्य्यादायाः प्रभेदे तु सीमातिक्रमणे तथा।
क्षेत्रस्यहरणे दण्डाः अधमोत्तममध्यमाः॥

अनेकक्षेत्र व्यवच्छेदिका साधारणी भूर्मर्य्यादा सीमा तस्याः प्रकर्षेण भेदने सीमातिक्रमणे सीमामतिलङ्घ्यकर्षणेक्षेत्रस्य च भयादिप्रदर्शनेन हरणेयथाक्रमेणाधमोत्तममध्यमसाहसदण्डा वेदितव्याः। यत्तु विष्णु वचनम्। सीमाभेत्तारमुत्तप्तसाहसं दण्डयित्वा पुनः सीमां कारयेदिति। तत्र हि सीमामतिलङ्घ्यकर्षकःपुनःसीमाकरणम्युनस्तत्र कर्षकस्याकरणमित्येवं व्याख्येयम्। तेन न पूर्ववचनविरोधः क्षेत्रग्रहणं गृहाद्यपलक्षणार्थम्। अज्ञानात् क्षेत्रादिहरणेऽधर्मएव।यथाह मनुः।

गृह तडागमारामं क्षेत्रं वा भीषया हरन्।
शतानि पञ्च दण्ड्यःस्यादज्ञानाद्विशतो दमः॥

वृद्ध मनुः। स्थापितां चैव मर्यादामुभयोर्ग्रामयोस्तथा।
अतिक्रामन्ति ये पापास्त दण्ड्यद्विशतं दमम्॥

अपह्रियमाणक्षेत्रादि भूयस्त्वेउत्तमोऽपि दण्ड्यप्रयोक्तव्यः।

बधः सर्वस्वहरणं पुरान्निर्वासनाङ्कने।
तदङ्गच्छेद इत्युक्तो दण्डउत्तमसाहसमिति॥

स्मरणात्। यत्तु, शङ्खलिखिताभ्यां सीमातिक्रमणे दण्डाधिक्यमुक्तम् ।सीमाव्यतिक्रमेत्वष्ट सहस्रमिति तत् सम्पूर्ण सीमातिक्रम विषयम्। सीमासन्धिषूत्पन्न वृक्षादिफलं नैव

ग्राह्यं यथाह कात्यायनः।

सोमामध्ये तु जातानां वृक्षाणां क्षेत्रयोर्द्वयोः।
फलं पुष्पञ्च सामान्यं क्षेत्रस्वामिषु निर्द्दिशेत्॥

सामान्यं साधारण क्षेत्रयोःस्वामिषु क्षेत्रस्वामिषु।तथा चान्यतरेणैव तद्वृक्षीययफलादि ग्रहणे तदनुरूपेण दण्ड्य इति ध्वनितम्। यदा पुनरन्य क्षेत्रे वृक्षादिरुत्पन्नोऽन्य क्षेत्रे शाखादि प्रसृताः तत्र कः स्वामीत्याकाङ्क्षायाँ स एवाह।

अन्य क्षेत्रे तु जातानां शाखा यत्नान्य संस्थिताः।
स्वामिनं तं विजानीयाद् यस्य क्षेत्रस्य संश्रिताः॥

संश्रिताः प्ररूढाः। परक्षेत्रे प्रार्थनया क्रियमाण सेतु कूपादिकं क्षेत्र स्वामिना निषेद्धव्यंतथाह याज्ञवल्क्यः।

न निषेध्योऽल्प वाधस्तुसेतुः कल्याणकारकः।
परभूमिं हरन्कूपः स्वल्पक्षेत्रो बहुदकः॥

अल्पबाधः अल्पपीड़ाकारः कल्याणकारको बहुपकारकः। स्वल्पक्षेत्रस्वल्पक्षेत्रवर्ती आभ्यां विशेषणाभ्यां यः सेतुक्षेत्रमध्यवर्त्ति तयाबहुपीड़ाकर स्तदा दिक्षु सन्निहित क्षेत्रवर्त्तितयाअल्पोपकारको वा तदा निषेद्धव्य इति दर्शितम्। तत्र नारदोऽपि।

परक्षेत्रस्य मध्ये तु सेतुर्न प्रतिषिध्यते।

महागुणोऽल्पदोषश्चेद्वृद्धिरिष्टाक्षये सति॥

क्षये अल्पक्षेत्रक्षये सत्यपि वृद्धिर्यत इष्टा अतो महागुणः स्वक्षेत्रेऽपि उपकारकरोऽल्प दोषश्चेत्तदान प्रतिषेद्धव्य इत्यर्थः। अन्य क्षेत्रे सेतुकूपादिवर्त्तन तत्स्वाम्याद्याज्ञालाभपूर्वकं कर्त्तव्यमित्याह याज्ञवल्क्यः।

स्वामिने योऽनिवेद्यैवक्षेत्रे सेतुंप्रवर्त्तयेत्।

उत्पन्ने स्वामिनो भोगस्तदभावे महीपतेः॥

यस्तु क्षेत्रस्वामिनं तद्वंश्य तदभावे राजानं वा प्रार्थ्यअर्थादानेन वातत्क्षेत्रेसेत्वादिकं करोति स सेत्वाद्युत्पन्ने फलोपभोगं दृष्टमदृष्टं वा न लभते किन्तु, तत्साम्येव तल्लभते तदभावे राजा। अतस्तदाज्ञां गृहीत्वा सेत्वादिकं कर्त्तव्यमित्यर्थः। जीर्णानां अन्यदीय सेत्वादीनां उद्धारोऽपि तत् स्वाम्याद्यनुज्ञां गृहीत्वा कार्य्यइत्याह नारदः।

पूर्व प्रवृत्तमुत्यन्नमपृष्ट्वा स्वामिनन्तु यः।
सेतुं प्रवर्त्तयेद्यस्तु न स तत्फलभाग्भवेत्॥
मृते तु स्वामिनि पुन स्तद्वंश्ये वापि मानवे।
राजान मामन्त्र्य ततः कुर्यात् सेतुप्रवर्त्तनम्॥
अतोऽन्यथा क्लेशमायान् मृगव्याध निदर्शनात्।
मृगव्याध दृष्टान्तः स्फुटीकृतस्तैनैव,
इषवस्तस्य नश्यन्ति यो विद्ध मनुविद्ध्यति।
तस्य मृगव्याधस्य।कात्यायनोऽपि।
अस्वाम्यनुमतेनैव संस्कारं कुरुते तु यः।
गृहोद्यान तड़ागानां संस्कर्त्ता लभते न तु॥
देय स्वामिनि चायाते तन्निवेवेद्य नृपे यदि।
अथावेद्य प्रयुक्तस्तुतद्गतं लभते व्ययम्॥

नृपे अनावेद्य हृतं यत्तडागादि संस्कारार्थं व्ययन्तत् स्वामिनि ग्रामान्तरादागते तेन देयमपि न प्राप्नोति। नृपे निवेद्य संस्करणे तदर्थं व्ययं प्राप्नोति। फलन्तु स्वाम्यनु मत्यलाभेन प्राप्नोतीत्यर्थः। यः परक्षेत्र महमिदं कृषामीत्यूरीकृत्य पश्चाद्यो न कृषति नाप्यन्येन कर्षयति तं प्रत्याह याज्ञवल्क्यः।

फालाहतमपि क्षेत्रं यो न कुर्य्यान्नकारयेत्।
स प्रदाप्यः कृष्टफल क्षेत्रमन्येन कारयेत्॥

यद्यपि फालाहतं किञ्चिद्वलेन विदारित सम्यग्वीजावापयोग्यं न भवति तथाप्यकृष्टक्षेत्रस्य फलं यावत्तत्रोत्पत्ति योग्यं सामन्तादि कल्पितं तावदसौ स्वामिने दापनीयः।

**तच्च पूर्व कर्षकदाच्छिद्य परेण कारयेत्। **

व्यासोऽपि। क्षेत्रं गृहीत्वा यः कञ्चिन्न कुर्य्यान्नच कारयेत्।

स्वामिने स शदं दाप्यो राज्ञेदण्डञ्च तत्समम्॥
शदं क्षेत्रफलम्। तत्समं तदनुरूपमित्यर्थः।

स्वामिग्राह्यं क्षेत्रफलमपि किं यदित्याकाङ्क्षायां स एवाह।

चिरावसन्ने दशमं कृष्यमाणे तथाष्टकम्।
सुसंस्कृतेऽपि षष्ठं स्वात्परिकल्प्यं यथास्थितिरिति॥

चिरा बसन्ने चिरकाल संकृष्टे क्षेत्रोऽहमिदं कृषामीत्यूरीकृत्योपेक्षिते सामन्तैर्य्यथास्थिति क्षेत्रस्थित्यनुसारेणैतावदत्रोत्पत्तुंयोग्यमिति परिकल्प्यक्षेत्र स्वामिने तस्य दशमभागं कृष्यमाणे अचिरावसन्त्रे स्वीकृत्यानुपेक्षिते तु अष्टमसम्भागं सुसंस्कृतेतुपेक्षितंषष्ठं भागन्दाप्य इत्यर्थः। यस्तु क्षेत्र स्वामिनः सामर्थ्यवैकल्यादिनाऽधोलाघवावस्थां प्राप्तेक्षेत्रे स्वाम्यनिवारितः सन् स्वयमेव तत्कर्षणादिकं करोति तदा स क्षेत्रखामिने फलं न दापनीयः। किन्तु तस्य फल स्वयमेव गृह्णीयादित्याह नारदः। अशक्तप्रेतनष्टेषु क्षेत्रिकेष्वनिवारितः।

क्षेत्रं चेद्विकृषेत्कश्चिदश्रुवीत स तत्फलम्।

प्रेतामृताः।नष्टाः कुत्रगता इति चिरमपरिचिताः॥क्षेत्रिकेषु क्षेत्र स्वामिषु तेन क्षेत्रस्वामिना तत्पुत्रादिना वा स-

मागतेनैवं विधाय कर्षादिखिलभञ्जनार्थं वयन्दत्त्वैवस्वीय क्षेत्रं ग्राह्यमिति स एवाह।

विकृष्यमाणे क्षेत्रे तु क्षेत्रिकः पुनराब्रजेत्।
खिलोपचारन्तत्सर्वं दत्त्वा क्षेत्रमवाप्नुयात्॥

अर्द्धखिलाद्यवस्था कदा क्षेत्रस्य भवतीत्याकांक्षायां स एवाह।

संवत्सरेणार्द्धखिलमितः स्याद्वत्मरैस्त्रिभिः।
पञ्चवर्षावसन्नान्तु क्षेत्रं स्यादचटवीसम्॥

कर्षणरहितं सम्वरेणाऽर्द्धखिलम्भवति यत्नसाध्यम्भवतिवर्षत्रयेतु ईहितं खिलं महायत्न साध्यं भवति। वर्षपञ्चकेतु ईहितक्षेत्रं अटवीततुल्यंस्यात् अतिदुष्कर्षम्भवेदित्यर्थः। खिलभञ्जनार्थं व्ययदानासामर्थ्येक्षेत्रे स्वामिनः क्षेत्रफलस्याष्ठमोभागःकर्षकेण वर्षाष्टकं स्वामिने देयः अवशिष्टं सर्वंस्वयमेव ग्राह्यम्। क्षेत्रं च वर्षाष्टकानन्तरन्तत् स्वामिनेदेयम्। तथा च कात्यायनः।अशक्तितो न दद्याच्च खिलार्थेयः कृतोव्ययः।

तदष्टभागहीनन्तुकर्षकः फलमाप्नुयादिति॥
वर्षाण्यष्टौ स भोक्ता स्यात्परतः स्वामिने तु तदिति॥

इति सीमाविवादाख्य व्यवहारपदम्।

अथ दण्डपारुष्याख्य व्यवहार पदम्। तत् स्वरूपं दर्शयति। नारदः।

परगात्रेष्वभिद्रोहो हस्त पादायुधादिभिः।
भस्मादिभिश्वोपघातो दण्डपारुष्य मुच्यते इति॥

परगात्रेषु स्थावरजङ्गमात्मकेषु। आदिग्रहणात् पाषाणादीनां ग्रहणम्। तथा अभिद्रोहो हिंसनं दुःखोत्पादनं अस्मादिभिरित्यादि ग्रहणाद्रजः पङ्कपुरीषादीनां ग्रहणम्। उपघातःसंस्पर्शनरूपं मनोदुःखोत्पादनम्। तदुभयंदण्डपा-

रुष्य मित्यर्थः। तस्य व विध्यमाह स एव।

तस्यापि दृष्टन्त्वेविध्यं हीनमध्योत्तमक्रमात्।
अवगोरण निःशङ्गपातन क्षतदर्शनैः॥
हीनमध्योत्तमानाञ्च द्रव्याणां समतिक्रमात्।
त्रीण्येव साहसान्याहु स्तत्रकण्टकशोधनमिति॥

अवगोरणं ताडनाद्युद्योगः।निःशङ्गपातन न्निशङ्कग्रहणम्। त्रीण्येव साहसानि त्रिप्रकाराण्येव साहसकृतानि दण्डपारुष्याणीत्यर्थः। अन्यानपि भेदानाहपरिशिष्टकारः। दुःखं रक्तंव्रणं भङ्गंछेदनं भेदनन्तथा। कुर्य्यादयः प्राणिनां तद्धि दण्डपारुष्यमुच्यत इति। स्थावर जङ्गम प्राणिनां प्राण्यन्तरकृतनखादिना छेदनादिभवं दुःखं रक्तव्रणादिकञ्च दण्डपारुष्यमुच्यतइत्यर्थः। व्यासोऽपि।

अस्मादिना प्रक्षिपणी ताडनञ्च करादिना।
आवेष्टनञ्चांशुकाद्यैर्दण्डपारुष्यमुच्यत इति॥

आदि ग्रहणाद्दुःखकरं कर्द्दभपांशुमलादि द्रव्यं गृह्यते। करादिनेत्यादि शब्देन पाषाणेष्टकायुधादि द्रव्यम्। अंशुकाद्यैरित्यादिशब्देन रज्जुशृङ्खलादि द्रष्टव्यम्। दण्डपारुष्यस्य पञ्चप्रकारा विधयो नारदेन दर्शिताः।

विधिः पञ्च विधस्तूक्त एतयोरुभयोरपि।
पारुष्ये सति संरम्भादुत्पन्ने क्रुद्धयोर्द्वयो॥
स मान्यते यः क्षमते दण्डभाग्योऽतिवर्त्तते।
पूर्व साक्षारयेद्यस्तुनियतं स्वात्मदोषभाक्।
पश्चाद्यः सोऽप्यसत्कारी पूर्वे तु विनयो गुरुः।
द्वयो रापन्नयोस्तुल्यमनुबध्नाति यः पुनः॥

स तयोर्दण्ड माप्नोति पूर्वो वा यदि चेतरः।
पारुष्य दोषावृतयोर्युगपत्सम्प्रप्रवृत्तयोः॥
विशेषश्चेन्न लक्ष्येत विनयः स्यात्सममस्तयोः।
श्वपाकषण्ड चाण्डालव्यङ्गेषु बधवृत्तिषु॥
हस्तिपब्रात्यहासेषुगुर्वाचार्यनृपेषु च।
मर्य्यादातिक्रमेसद्यो घात एवानु शासनम्॥
यमेव ह्यति वर्त्तेरन्नेते सन्तञ्जनं नृषु।
स एवनिर्स्मयंकुर्य्यात् न तद्विनयभाङ्नृपः॥
मला ह्येते मनुष्याणां धनमेषां मलात्मकम् ।
अतस्तान् घातये द्राजा नार्थ दण्डेन दण्ड्येदिति॥

अयमर्थः।वाग्दण्ड पारुष्ययोरुभयोरपि हयोःप्रवृत्तकलद्वयोर्मध्येयः क्षमते न तस्य केवलं दण्डाभाव एवकिन्तु पूज्यत्वमपि। तथा पूर्वं कलहे प्रवृत्तस्य दण्डगुरुत्वम्। कलहे च बृद्ध वैरानुसन्धातुरेव दण्डभाक्त्वम्। तथा तयोर्द्वयोरपराध विशेषापरिज्ञाने सम एंव दण्डः। तथा श्वपचादिभिरार्याणामपराधे कृते सज्जना एव दण्डदाने अधिकारिणस्तेषामशक्यत्वे तान् राजा घातयेदेव नार्थं गृह्णीयादिति। यत्तु वृहस्पति वचनम्।

आक्रुष्टस्तु समाक्रोश ताड़ितः प्रतिदापयन्।
हत्वापराधिनञ्चैवनापराधी भवेन्नर इति॥

तत्पूर्व प्रवृत्तसमं दण्डम्। पश्चात् प्रवृत्तस्य नेत्येवं परन्नतु दण्डाभावपरम्। दण्डपारुष्यस्वरूप सन्देहे निर्णायकमाह याज्ञवल्क्यः।

असाक्षिक हते चिह्नैर्युक्तिभिश्चागमेन च।
द्रष्टव्यो व्यवहारस्तु कूटचिह्नकृतो भयादिति॥

यदा कश्चिद्रहस्यहमनेनाहत इति राज्ञेनिवेदयति तदाचिह्नैर्व्रणादिभिस्तत् स्वपगतैर्लिङ्गैः युक्तिभिः कारण प्रयोजनपर्य्यालोचनादिभिः आगमेन जनप्रवादेन च शब्दाद्दिव्येनवाकूट चिह्नकृत् सम्भावनभयात् परीक्षा कार्येत्यर्थः। एवं निश्चिते साधन विशेषेन दण्ड विशेषमाह स एव।

भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः।
अमेध्यपार्ष्णिनिष्ठूतस्पर्शने द्विगुणस्ततः।
समेष्वेवं परस्त्रीषु द्विगुणस्तूत्तमेषु च।
हीनेष्वर्द्धदमो मोहमदादिभिरदण्डनमिति॥

अमेध्यानि अश्रु श्लेष्मादीनि। पार्ष्णिःपादस्य पश्चिमोभागः। निष्ठूतं मुखनिःसारितञ्जलम्। मोहश्चित्तवैकल्यंमदोमद्यपान जन्योऽवस्थाविशेषः। आदिशब्देन ग्रहावेशादीनां ग्रहणम्।पुरीषादिस्पर्शने त्वाह कात्यायनः।

छर्दि मूत्र पुरीषाद्यैः स्पर्शने स चतुर्गुणः।
षड्गुणः कायमध्ये स्यान्मूर्द्ध्नित्वष्टगुणः स्मृत इति॥

ताड़नाय हस्तस्योद्गूरणे दण्डमाह स एव।

उद्गूरणे तु हस्तस्य कार्योद्वादशकोदमः।
स एव द्विगुणः प्रोक्तः पातने त सजातिष्विति।

बृहस्पतिरपि। उद्यतेऽश्म शिलाकाष्ठे कर्त्तव्यः प्रथमोदम इति॥

विष्णुरपि। हस्तेनोद्गूरयित्वा दशकार्षापणान् पादेनविंशतिं काष्ठेन प्रथमसाहसं शस्त्रेणोत्तममिति।दण्ड इत्यनुवर्त्तते। अधमः शस्त्रेणोत्तमस्य यदोद्गूरणं करोति तदा

सावुत्तमसाहसं दण्ड्य इत्यर्थः। बृहस्पतिरपि।

मध्यमः शस्त्रसम्पाते संयोज्य त्तुब्धयोर्द्वयोः।
कार्यः कृतानुरूपस्तु लग्नेघाते दमो बुधैः॥
इष्टिकोपलकाष्ठेन ताड़ने तु द्विमाषकः।
द्विगुणः शोणितोद्भेदे दण्डः कार्योमनीषिभिरिति।

विष्णुरपि। शोणितेन विना दुःखमुत्पादयित्वा द्वात्रिंशत्पणान् सहशोणितेन चतुःषष्ठिमिति। अत्र सर्वत्र दण्डभेदोऽपराधाल्पत्वमहत्त्वानुसारेण व्यवस्थापनीय इति। ताड़नार्थंहस्तपादाद्युद्योगे दण्ड विशेषमाह याज्ञवल्क्यः।

उद्गूर्णे हस्तपादे तु दशविंशतिकौ दमौ।
परस्परन्तु सर्वेषांशस्त्रे मध्यम साहसमिति॥

हस्त पदे वा ताड़नार्थमुद्यते यथाक्रमं दशविंशति पणकौदमौ। परस्परं वधार्थशस्त्र उद्यते सर्वेषां वर्णानां मध्यम साहसोदण्ड इत्यर्थः। काष्ठादिभिस्ताड़ने योग्याह स एव।

शोणितेन विना दुःखं कुर्वन् काष्ठादिभिर्नरः।
द्वात्रिंशतं पणं दण्ड्योद्विगुणो दर्शनेऽसृजइति॥

त्वङ्मासास्थि भेदे मनुराह।

त्वग्भेदकःशतं दण्ड्यो लोहितस्य च दर्शकः।
मांसभेत्ता तु षणिष्कान् प्रवास्यस्त्वस्थि भेदक इति।

मांसभेत्ता व्रणकर्त्ता।कात्यायनोऽपि।

कर्णोष्ठ घ्राणपादाक्षि जिह्वाशिश्नकरस्य च।
छेदने चोत्तमोदण्डो भेदने मध्यमो भृगुरिति॥

पादाद्याघर्षणादौत्वाह याज्ञवल्क्यः।

पादकेशांशुककरोल्लुञ्चनेषु पणान्दश।

पीड़ाकर्षांशुकावेष्ट्यपादाध्यासे शतं दमः॥

पाद केश कराणामन्यतमं गृहीत्वा य उल्लुञ्चति झटित्याकर्षयत्यसौदशपणान् दण्ड्य। यो वस्त्रेणावेष्ट्यगाढं संपीड्याकृष्य पादेन घट्टयति स शतं पणान् दण्ड्य इत्यर्थः। करादिभङ्गेत्वाह स एव।

करपाददन्तभङ्गे छेदने कर्णनासयोः।
मध्योदण्डी व्रणेद्भेदेमृतकल्पहते तथा॥
चेष्टा भोजन वाग्रोधे नेत्रादि प्रतिभेदने।
कन्धरा बाहुशक्न्याञ्च भङ्गेमध्यमसाहसः॥
एकघ्नतां बहूनाञ्च यथोक्ताद्दिगुणोदम इति।

करपाददन्तानां प्रत्येकं भेदे कर्णनासिकयोश्च छेदनेमृतकल्पहते च मध्यम साहसोदण्डः। गमन भोजन भाषणनिरोधे नेत्रादि प्रतिभेदने च ग्रीवा वाहूरुभङ्गेच मध्यम साहसएव दण्डः।मिलित्वैकास्याङ्गभङ्गङ्कुर्वतां बहूनां यस्मिन्नपराधे यो दण्ड उक्तस्तत्र तत्र तस्माद्दि्वगुणोदण्डःप्रत्येकंमन्तव्य इत्यर्थः।

कात्यायनोऽपि। मनुष्यानां पशूनाञ्च दुःखाय प्रहते सति।

यथा महत्तरं दुःखं दण्डं कुर्य्याद्यथातथेति॥
प्रातिलोम्यापराधेदण्डमाह याज्ञवल्क्यः।
विप्रपीडाकरज्छेद्यमङ्गमब्राह्मणस्य तु।
उद्गूर्णे प्रथमोदण्डः संस्पर्शे तु तदर्द्धिक इति॥

अब्राह्मणस्य क्षत्रियादेः। संस्पर्शे शस्त्रादिस्पर्शे। तदर्द्धिकःप्रथमसार्द्धदण्ड इत्यर्थः। ब्राह्मणबधार्थमुद्यते शस्त्रे प्रथमसाहसाभिधानं न शूद्रविषयम्। अतएव मनुः।

येन केनचिदङ्गेन हिंस्याच्छ्रेयांसमन्त्यजः।
छेत्तव्यन्तत्तदेवास्य तन्मनोरनु शासनम्॥
पाणिमुद्यम्य दण्डं वापाणिच्छेदन मर्हतीति।

अत्र क्षत्रियवैश्ययोः पीडाकारिणोऽपि शूद्रस्यायमेव दण्डः।श्रेयांसमिति सामान्येनोपादानात्। समानन्यायत्वाच्चक्षत्रियपीडाकारिणो वैश्यस्यतु याज्ञवल्क्यप्रतिपादित एवदण्डः।भस्मादिसंस्पर्शे पुनः क्षत्रियवैश्ययोः प्रातिलोम्यापवादेषु द्विगुणत्रिगुणदमा इति वक्ष्यमाण वाक्पारुष्यन्यायेन स कल्प्यः।नारदोऽपि।

येनाङ्गेनापरोवर्णोब्राह्मणस्यापराघ्नुयात्।
तदङ्गन्तस्य छेत्तव्यमेवं बुद्धिमवाप्नुयात्।
राजनि प्रहरेद्यस्तु कृतागस्यपि दुर्मतिः।
शूल्यं तमग्नौविपचेद्ब्रह्महत्याशतानिचेति॥

कृतागसिकृतापराधे। शूलमारोपयेत् संश्रियेत तच्छूल्यम्। प्रातिलोय्यानु लोम्यविषये वाक्पारुष्ये उक्तान्दण्डानत्रिष्वातिदिशति कात्यायनः॥

वाक्पारुष्ये यथैवोक्ताः प्रातिलोम्यानु लोमतः।
तथैव दण्डपारुष्ये पात्या दण्डा यथाक्रममिति॥

शूद्रस्य तत्राप्यङ्गच्छेद एव। तथा चाहतुर्मनु नारदौ।

अवनिष्ठीवतोदर्पात् द्वावोष्ठौ छेदयेन्नृपः।
अवमूत्रयते मेढ्रमव श्रद्वयतो गुदम्।
केशेषु गृह्णतो हस्तौछेदयेदविचारयन्।
पादयोर्दाढिकायां च ग्रीवायां वृषणेषु चेति॥

ताडने दुःसहव्रणाद्युत्पत्तौ त्वाह कात्यायनः।

देहेन्द्रिय विनाशे तु यथा दण्डं प्रकल्पयेत्।

तथा तुष्टिकरं देयं समुत्थानञ्च पण्डितैरिति।

तुष्टिकरं व्रणितुष्टिकरम्। समुत्थानं व्रणारोपणं तन्निमित्तकञ्च व्ययः व्रणगौरवाद्नु सारेण पण्डितैरौषधार्थं पथ्यार्थञ्च कल्पितमाव्रणशोषणं देयम्। समुत्थानव्ययञ्चासौ दद्यादाव्रणरोपणमिति तेनैवोक्तत्वात्। यत्कलहकालेऽपहृतन्तत्तत् स्वामिने दातव्यमित्याह बृहस्पतिः।

अङ्गावपीडने चैव भेदने छेदने तथा।
तत्तद्रव्ययन्दाप्यःस्यात्कलहापहृतञ्च यदिति॥

याज्ञवल्क्योऽपि।कलहापहृतन्देयं दण्डश्चद्विगुणस्ततः।

दुःखमुत्पादयेद्यस्तु स समुत्थानजं व्ययम्।
दाप्यो दण्डञ्च यो यस्मिन् कलहे समुदाहृत इति॥

ग्राम्यपश्वभिद्रोहे दण्डमाह विष्णुः। ग्राम्यपशुघातीकार्षापणन्दण्ड्यःपशुस्वामिने तु तन्मूल्यन्दद्यांदिति।मूल्यदानंमृतपशुविषयम्। मरणाभावे तु समुत्थान व्ययन्दद्यात्। तथा च स एव। सर्वे पुरुषपीडाकराःसमुत्मानव्ययन्दाप्याःग्राम्यपशु पीडाकराश्चेति। बहुभिरेकस्य हजनेदण्डमाह स एव। एकं बहूनां घ्नतां प्रत्येकश उक्तोदण्डो द्विगुणइति॥ सम्भूय ताडन उच्चैः क्रोशन्तन्ताड्यमानमुपेक्ष्यमाणानांतत्समीपवर्त्तिनामपि तमेव दण्ड स एवाह।द्विगुणः उक्तःक्रोशन्तमनभिधां वता तत्समीपवर्त्तिनां सताञ्चेति। क्वचिदशक्य प्रतीकारविषये प्राणिघातनिबन्धनो दण्डो नेत्याह मनुः।

छिन्नेनास्ये भग्नयुगे तिर्य्यक् प्रतिमुखागते।
अक्षभङ्गे च यानस्य चक्रभङ्गेतथैव च॥
छेदने चैव यन्त्राणां योक्तरश्मो स्तथैव च।

आक्रन्दे चाप्यपैहीति न दण्डं मनुरब्रवीदिति॥

छिन्नेनास्ये वलीबर्दादेर्नासिकास्थरज्वादौ त्रुटिते।युगे भग्ने शकटादि युगकाष्ठभग्ने।यन्त्राणां शकटादिकाष्ठानां बन्धनानां रज्वादीनाम्। शक्यप्रतीकारे तु प्रेक्षकस्याह स एव। यत्राप्रवर्त्तते युग्मंवैगुण्यात्प्राजकस्य तु।

तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्विशतन्दममिति॥

प्राजकःशकटादिनेता द्विशतग्रहणं तत्प्राणिहिंसायांविशेषविहितदण्डोपलक्षणार्थमिति स्मृतिचन्द्रिकायाम्। यत्रसमर्थप्राजकदोषेण प्राणिहिंसा न तत्र स्वामिनो दण्डः किन्तु प्राजकस्येत्याह स एव।

प्राजकश्चेद्भवेदाप्तः प्राजको दण्डमर्हतीति।

आप्तःसमर्थ इत्यर्थः। स्थावरप्राणिपीडायां स एवाह।

वनस्पतीनां सर्वेषामुपभोगो यथा यथा।
तथा तथा दमःकार्य्योहिंसायामिति धारणेति॥

वनस्पतिग्रहणं स्थावरंप्राणिमात्रोपलक्षणम्। उपभोगोयथा यथेत्यनेन येषामाम्रादीनां फलमुपभुज्यते तेषां हिंसायामधिको दण्डः।येषाञ्चम्पकादीनां पुष्पमुपभुज्यते तेषान्ततोन्यूनः। येषां पत्रमुपभुज्यते तेषान्ततोऽपि न्यून इतिदर्शितम्। एतदेव विवरणपूर्वक विष्णुराह फलोपभोगद्रुमच्छेदी तूत्तमसाहसम्पुष्पोपभोगच्छेदी मध्यमसाहसं वल्लीगुल्मलताच्छेदी कार्षापणशतं तृणछेद्येकं सर्वे तत्स्वामिनांतदुत्पत्तिमिति। दण्ड इत्यनुवर्त्तते। सर्वे फलोपभोगद्रुमछेद्यादयः तत्स्वामिनां छिन्नद्रुमादिस्वामिनां तदुत्पत्तिंफलभोगद्रुमाद्युत्पत्तिं पुनःप्रतिरोपितभोगकालपर्य्याप्तां दद्यु-

रिति शेषः। पश्वभिद्रोहे दण्डमाह याज्ञवल्क्यः।

दुःखे च शोणितोत्पादे शाखाङ्गच्छेदने तथा।
दण्डः क्षुद्रपशूनाञ्च द्विपणप्रभृति क्रमात्॥
लिङ्गस्य छेदने मृत्यौ मध्यमो मूल्यमेव च।
महापशूनामेतेषु स्थानेषु द्विगुणो दम इति॥

क्षुद्रपशूनाम् अजाविकप्रभृतीनाम्। ताडनेन दुःखोत्पादने। शोणितोत्पादे रक्तस्रावणे। शाखाशब्देनात्रश्रृङ्गादिकं गृह्यते अङ्गानि करचरणादीनि तेषां छेदने च यथाक्रमं द्विपणप्रभृतिर्दण्डः। द्विपणञ्चतुष्पणः षट्पण इत्येवं रूपः।तेषां लिङ्गच्छेदने मारणे च मध्यमसाहसो दण्डः स्वामिनेमूल्यदानञ्च।महापशूनाङ्गोगजवाज्यादीनाम् एतेषु स्थानेषु पूर्वोक्ताद्दण्डाद्विगुणो दण्डोवेदितव्य इत्यर्थः। विष्णुरपि।पशूनां पुंस्त्वोपघातीति कार्षापणशतमन्त्रप्रकृताम्। स एव। गवाश्वोष्ट्रगोघातीत्वेककरण दुष्कार्यो विमांसविक्रयी ग्रामपशुघाती कार्षापणशतं दण्ड्यः। पशुस्वामिने च तन्मूल्यंदद्यात्। अरण्यपशुघाती पञ्चाशत् कार्षापणान्। पक्षिघातीमत्स्यघाती च दशकार्षापणान्।कौटोपघाती कार्षापणमिति। विमांसं श्रृगाला दिमांसमिति कल्पतरौ कात्यायनोऽपि।

द्विपणी द्वादशपणो वधेतु मृगपक्षिणाम्।
सर्पमार्जारनकुलशूकराश्ववधे नृणाम्॥
गोकुमारीदेवपशुमुक्षाणं वृषभं तथा।
वाहयन् साहसं पूर्वं प्राप्नुयादुत्तमं वध इति॥

परकुड्याभिघाते परगृहेकण्टकादि प्रक्षेपे च दण्डमाहयाज्ञवल्क्यः।

अभिघाते तथा छेदे भेदे कुड्यावपातने।

पणान्दाप्यःपञ्चदशविंशतिन्तद्व्ययन्तथा।
दुःखोत्पादि गृहेद्रव्य क्षिपन् प्राणहरन्तथा।
षोड़षाद्यः पणान्दण्ड्योद्वितीयो मध्यमन्दम इति॥

मुद्गरादिना कुड्यस्याभिघाते विदारणे द्वैधीकरणे च यथाक्रमम्पञ्चपणोदशपणोविंशतिपणोदण्डः। कुड्यस्यावपातने तुसमुच्चिता एते त्रयोदण्डाःग्राह्याः।कुड्यसम्पादनार्थञ्च धनमपि तत् स्वामिने दद्यात्। परगृहे कण्टकादिप्रक्षेपणे षोडशपणोदण्डः। विषभुजङ्गादि प्रक्षेपणे मध्यमसाहसोदण्डइत्यर्थः। स्थावराभिद्रोहेदण्डमाह स एव।

प्ररोहिशाखिनां शाखास्कन्धसर्व विदारणे।
उपजीव्यद्रुमाणान्तु विंशतेर्द्विगुणोदमः॥
चैत्यश्मशान सीमासुपुण्यस्थाने सुरालये।
जातद्रुमाणां द्विगुणोदमो वृक्षेऽथ विश्नुते॥
गुल्मगुच्छक्षुपलता प्रतानौषश्विवीरुधाम्।
पूर्वस्मृतादर्द्धदण्डःस्थानेषूक्तेषुकर्त्तने इति॥

प्ररोहिशाखिनां वटादीनां शाखाच्छेदने स्कन्धच्छेदनेसमूलवृक्षच्छेदने च यथाक्रमं विंशतिपणदण्डादारभ्य पूर्वस्मादुत्तरोत्तरं द्विगुणोदण्डः। विंशतिपणश्चत्वारिशत्पणोऽशीतिपण इत्येवंरूपः। अप्ररोहि शाखिनामाम्रादीनां उपजीव्यद्रुमाणां पूर्वोक्तेषु स्थानेषु छेदने पूर्वोक्ता एव दण्डाःचैत्यादि स्थानेषूत्पन्नानां वृक्षाणां शाखादिछेदने पूर्वोक्ताद्दण्डाद्विगुणाः विश्रुते चाश्वत्थपलाशादिके द्विगुणो दण्डाः।गुल्मामालत्यादयः कुरण्टकादयः क्षुपाः करवीरादयः लताः द्राक्षातिमुक्तादयः। प्रतानाः काण्ड प्ररोहरहिताः। ओषध्यः फल-

पाक्रान्ताः शालिप्रभृतयः। वीरुधः गुडूचीप्रभृतयः। एतेषुपूर्वोक्तेषु स्थानेषु विकर्त्तने छेदने पूर्वोक्ताद्दण्डादर्द्धदण्डो वेदितव्य इत्यर्थः।भार्य्यादीनामपराधे रज्जुवेणुदलाभ्यामधमाङ्गेताड़येत्। अन्येनोत्तमाङ्गे च ताड़यन् दण्ड्यइत्याह यमः।

भार्या पुत्रश्चदासश्च दासी शिष्यश्च पञ्चमः।
प्राप्तापराधास्ताड्याः स्यूरज्ज्वा वेणुदलेन वा।
अधस्तात्तु प्रहर्त्तव्य नोत्तमाङ्गे कथञ्चन।
अतोऽन्यथा प्रवृत्तस्तु यथोक्तं दण्डमर्हतीति ॥
भार्या पुत्रश्च शिष्यश्च दासो भ्राताऽथ सोदरः।
प्राप्तापराधास्ताड्याः स्यूरज्ज्वा वेणुदलेन वा॥
पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथञ्चन।
अतोऽन्यथा तु प्रहरन्प्राप्तः स्याच्चौर किल्विषमिति॥

शिष्यानुवृत्तावापस्तम्बोऽपि। अपराधेषु चैनं सततमुपालभेत अतित्रास उपवास उदकोपस्पर्शनमिति दण्डाःयथातन्मात्रनिवृत्तिरिति अपराधनिवृत्ति पर्य्यन्तं अपराधानुरूपं दण्डपातनं कर्त्तव्यमित्यर्थः। यत्र तु आत्मनःकश्चिद्वेषात्ताड़नादि चिह्नं विधाय परमभिद्रवति तत्र साक्ष्यादिभिर्दिव्येनवा परीक्षणं कर्त्तव्यमित्याहतुर्नारदबृहस्पती।

कश्चित् कृत्वात्मनश्चिह्नंद्वेषात्परमभिद्रवेत्।
हेत्वर्थ मतिसामर्थ्यैस्तत्र युक्तं परीक्षणमिति॥

याज्ञवल्क्योऽपि। असाक्षिकहते चिह्ने युक्तिभिश्चागमेन च।

द्रष्टव्यो व्यवहारस्तु कूटचिह्न कृताद्भयादिति॥

कात्यायनोऽपि।हेत्वादिभिर्नपश्येच्चेद्दण्डपारुष्य कारणम्।

तदा साक्षिकृतन्तत्र दिव्यं नाविनियोजयेदिति।

इति दण्डपारुष्याख्यव्यवहारपदम्।

तथा वाक्पारुष्याख्य व्यवहारपदम्।

तस्य च स्वरूपमाह नारदः।

देशजाति कुलादीनामाक्रोशं न्यङ्ग संयुतम्।
यद्वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते इति॥

आक्रोशःआक्षेपःभर्त्सनमिति यावत् कलहप्रियाःगौडाइति देशाक्रोशः। अत्यन्तलोलुपा ब्राह्मणा इति जात्याकोशः।क्रूरचरिता वैश्वामित्रा इति कुलाक्षेपः। न्यङ्गमवद्यन्तदुभययुक्तं यदुद्वेगजननार्थं वाक्यं तद्वाक्पारुष्यमित्यर्थः। तस्य त्रैविध्यमाह स एव। निष्ठुराश्लीलतीव्रत्वादपि त्रिविधं स्मृतम्

गौरवानुक्रमात्तस्य दण्डोऽपि स्यात् क्रमाद्गुरुरिति।

निष्ठुरादीनां स्वरूपमाह स एव।

साक्षेपन्निष्ठुरं ज्ञेयमश्लीलं न्यङ्गसंयुतम्।
पतनीयैरुपाक्रोशैस्तीव्रमाहुर्मनीषिण इति॥

धिङ्मूर्ख ! जाल्म ! इत्यादि साक्षेपम्भाषणं निष्ठुरम्।न्यङ्गसंयुतं अवद्यम्भगिन्यादिगमनसंयुतम्। अश्लीलं पतनीयैःसुरापानादिभिरुपाक्रो- शैस्तीव्रं वाक्पारुष्यमित्यर्थः।

कात्यायनोऽपि। यत्त्वसत्सज्ञितैरङ्गैः परमाक्षिपति क्वचित्।
अभूतैर्वाथभूतैर्वा निष्ठुरा वाक् स्मृता तु सा॥
न्यग्भावकरणं वाचा क्रोधात्तु कुरुते यदा।
वृत्तदेश कुलानान्तु अश्लीलासा बुधैः स्मृता॥

महापातकयोक्त्रीच रागद्वेषकरी च या।
जातीभ्रंशकरी वाथ तीव्रासा प्रथिता तु वागिति॥

कल्पतरौ न्यङ्गावगूरणमिति पठित्वा निकृष्टाङ्गप्रकाशनेन तिरस्करणमिति व्याख्यातम्। न्यग्भावकरणमिति तुमाधवादिसंमतः पाठः। प्रथममध्यमोत्तमभेदेन त्रैविध्यप्राह। बृहस्पतिः।

देश ग्राम कुलादीनां क्षेपःपापेन योजनम्।
द्रव्यं विना तु प्रथमं वाक्पारुष्यं तदुच्यते॥
भगिनी मातृसम्बन्धमुपपातक शंसनम्।
पारुष्यं मध्यमं प्रोक्तं वाचिकं शास्त्रवेदिभिः॥
अभक्ष्यापेय कथनं महापातक दूषणम्।
पारुष्यमुत्तमं प्रोक्तं तीव्रं मर्माभिघट्टनमिति॥

द्रव्यं विनेत्यत्रद्रव्यशब्दोऽभिधेयपरः। तेनोच्यमानार्थव्यतिरेकेणैवविधमभिधानं वाक्पारुष्यमित्यर्थ इति कल्पतरौ। द्रव्यं विना द्रव्यवैशिष्ट्यंविनेति मदनरत्ने।अभिघट्टनंउत्पाटनम्। निष्ठुराकोशे दण्डमाह याज्ञवल्क्यः।

सत्यासत्यान्यथास्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणाम्।
क्षेपं करोति चेद्दण्ड्यःपणानर्द्धत्रयोदशानिति॥

अन्यथास्तोत्रन्निन्दास्तुतिः। न्यूनाङ्गाः करादिरहिताः।न्यूनेन्द्रियाः नेत्रादि रहिताः। रोगिणः कुष्ठ्यादयः अर्द्धत्रयोदशान्। अर्द्धाधिक द्वादशपणानित्यर्थः। एतत् सवर्णविषयम्। अतएव बृहस्पतिः।

समजाति गुणानान्तु वाक्पारुष्ये परस्परम्।
विनयोविहितः शास्त्रेपणा अर्द्धत्रयोदशाइति॥

विष्णुरपि। समवर्णाक्रोशने द्वादशपणान्दण्ड्यइति। पर-

स्परमिति शेषः। मनु नारदावपि।

समवर्णे द्विजातीनां द्वादशैवव्यतिक्रमे।
वादेष्ववचनीयेषु तदेव द्विगुणं भवेदिति॥

शङ्खलिखितावपि।समवर्ण व्यतिक्रमे द्वादशपणा यथारूपविशिष्टाक्षेपेषु विशिष्टस्य चतुर्विंशतिरविशिष्टस्यातिक्रमेच विशिष्टस्य ततोऽर्द्धमिति। अत्र द्वादशसार्द्धद्वादशयोरुत्कृष्टानुत्कृष्टत्वेन व्यवस्था द्रष्टव्या। कात्यायनोऽपि।

यो गुणान् कीर्त्तयेत् क्रोधान्निर्गुणे वा गुणज्ञताम्।
अन्य संज्ञानियोजीच वाग्दुष्टं तन्नरं विदुरिति॥

नारदोऽपि।दुष्टस्यैव तु यो दोषान् कीर्त्तयेत् क्रोध कारणात्।

अन्यायदेशवादी च वाग्दुष्टं तन्नरंविदुरिति॥

अत्रक्रोधकारणादित्यनेन दुष्टपरित्यागार्थंदोषकीर्त्तनेनदोष इति सूचितम्। अतएवोक्तं कात्यायनेन।

यत्र स्यात्परिहारार्थं पतितस्तेन कीर्त्तितम्।
वचनात्तत्र न स्यात्तु दोषो यत्रविभावयेदिति।

वचनात् दोष कीर्त्तनात्। यत्राभियोगादौ पातित्यादिकंसाधयेत्तत्रापि वचनाद्दोषो न स्यादिति यन्नविभावयेदित्यस्यार्थउक्तः स्मृति चन्द्रिकायाम्। अत्रापि दण्डपारुष्य न्यायेन युगपत्प्रवृत्तयोर्दण्ड तुल्यत्वं अयुगपत् प्रवृत्तयोः पूर्वप्रवृत्तस्य दण्डाधिक्यमिति द्रष्टव्यम्।जाति गुणकृते विशेषे दण्डवैषम्यमाह बृहस्पतिः।

समानयोः समो दण्डोन्यूनस्य द्विगुणोदमः।
उत्तमस्याधिकः प्रोक्तो वाक्पारुष्ये परस्परमिति॥

हीनस्योत्तमाक्षेपे द्विगुणः।उत्तमस्य हीनाक्षेपेऽर्द्धपरिमितोदण्ड इत्यर्थः। याज्ञवल्क्योऽपि।

अर्द्धोऽधमेषु द्विगुणः परस्त्रीषूत्तमेषु च।
दण्ड प्रणयनं कार्यं वर्णजात्युत्तराधरैरिति॥

अर्द्धःसार्द्धद्वादशपणात्मक इत्यर्थः। पूर्ववाक्ये पञ्चविंशतिको दमइति पञ्चविंशतेःप्रकृतत्वात्। वर्णाब्राह्मणादयः।जातयो मूर्द्धाभिषिक्तादयः। ते च ते उत्तराधराश्चवर्णजात्युत्तराधरास्तैरन्योन्याक्षेपे क्रियमाणे दण्डस्य प्रणयनं ऊहनीयंज्ञातव्यम्। उत्तराधरभावमा- लोड्य दण्डः कल्पनीय इत्यर्थः।तमेव कल्पनीयं दण्डं प्रदर्शयति मनुः।

शतं ब्राह्मण माक्रुश्य क्षत्रियोदण्ड मर्हति।
वैश्योऽध्यर्द्धशतं द्वेवा शूद्रस्तु वधमर्हति॥
विप्रःपञ्चाशत दण्ड्यःक्षत्रियस्याभिशंसने।
वैश्ये स्यादर्द्धपञ्चाशच्छूद्रे द्वादशको दम इति॥

बृहस्पतिरपि।

क्षिपन्विप्रादिकं दद्यात् पञ्चाशत्पणिक दममिति॥

शङ्खलिखितावपि। आक्रोशे ब्राह्मणस्य क्षत्रियःपणशतंदण्ड्यःशतार्द्धंवैश्यस्य पञ्चविंशतिं शूद्स्येति। बृहस्पतिरपि।

विप्रे शतार्द्धंदण्डतुक्षत्रिस्याभिशंसने।
विशस्तथार्द्धंपञ्चाशच्छ्रूद्रस्यार्द्धंत्रयोदश॥
सच्छूद्रस्याय मुदितो विनयोऽनपराधिनः।
गुणहीनस्य पारुष्ये ब्राह्मणो नापराघ्नुयात्॥
वैश्यस्तुक्षत्रियाक्रोशे दण्डनीयः शतम्भवेत्।
तदर्द्धंक्षत्रियो वैश्यंक्षिपन् विनयमर्हति॥
शूद्राक्रोशे क्षत्रियस्य पञ्चविंशतिको दमः।
वैश्यस्य चैतद्द्विगुणः शास्त्रविद्भिरुदाहृतः॥

वैश्यमाक्षारयन् शूद्रीदाप्यः स्यात् प्रथमं दमम्।
क्षत्रियं मध्यमञ्चैव विप्रमुत्तमसाहसमिति॥

जिह्वाच्छेदनरूपोऽत्रोत्तमसाहसो द्रष्टव्यः। तथा च सएव।

धर्म्मोपदेशकर्ताच वेदोदाहरणान्वितः।
आक्रोशकस्तु विप्राणां जिह्वाछेदेन दण्ड्यते इति॥

शूद्र इत्यनुषङ्गः। आपस्तम्बोऽपि।

जिह्वाछेदनं शूद्रस्यार्थंधार्म्मिकमाक्रोशत इति।

गौतमोऽपि। शूद्रो द्विजातीनभिसन्धायाभिहत्य च वाग्दण्डपारुष्याभ्यामङ्गम्मोच्यो येनोपहन्यादिति। अभिसन्धायबुद्धिपूर्वं वा चातिक्रम्य अभिहत्य उग्रेण दण्डेन ताड़यित्वा अङ्गंमोच्यते नाङ्गेन वियोजनीय इत्यर्थः। गुर्वाद्याक्रोशेत्वाहतुः शङ्खलिखितौ। तथाऽधिकृतान् विप्रान् गुरुंश्चनिर्वासनम्मुण्डनं ताड़नं वा गोमयानुलेपनं’ खरारोहन दर्पहरणं वा दणडोवेति। दण्डःकार्षापणशतरूपः। अतएव विष्णुः। गुरूनाक्षारयन् कार्षापणशतमिति। पुत्रादिभिर्मात्रादीनामाक्रोशे दण्डमाह मनुः।

मातरं पितरं जायां भ्रातरं श्वशुरं गुरुम्।
आक्षारयन् शतन्दाप्यः पन्थानञ्चाददद्गुरोरिति॥

भ्रातर ज्येष्ठभ्रातरम्। एतच्च सापराधेषु मात्रादिषुनिरपराधायां जायायामिति मिताक्षरायामभाणि। श्वश्रुःआद्यविक्षेपे दण्डमाह बृहस्पतिः।

क्षिपन् शश्र्वादिकं दद्यात् पञ्चाशत्पणिकं दममिति।

बाह्वादिच्छेदन निष्ठुर भाषाभिभाषणे दण्डमाह याज्ञवल्क्यः।

बाह्वग्रीवा नेत्रसक्थि विनाशे वाचिके दमः।

शत्यस्तदर्द्धिकः पादनामाकर्णकरादिष्विति॥

बाह्वादिविनाशे वाचिके करिष्यामीति वाचा प्रतिपादितं शत्यः शतपरिमितो दण्डः।पादादिभङ्गं करिष्यामीत्याक्षेपे पञ्चाशत्परिमितो दण्ड इत्यर्थः। एवंवादिनोऽशक्तस्यदशपणा दण्डनीया इत्याह स एव।

अशक्तस्तु वदन्नेवं दण्डनीयःपणान्दशेति।

यः पुनः शक्तोऽशक्तस्य बाह्वादिभङ्गाक्षेपं करोति न केवलंस दण्ड्यःकिन्तु अशक्तक्षेपार्थं प्रतिभुवमपि दापनीय इत्याह। स एव।

तथाशक्तः प्रतिभुवन्दाप्यःक्षेमायतस्य त्विति।

अश्लील भाषणेदण्डमाह स एव।

अभिगन्तास्मिभगिनींमातरं वा तवेति ह।
शपन्तन्दापयेद्राजा पञ्चविंशतिकं दममिति॥

तीव्राक्रोशे दण्डमाह स एव।

पतनीय कृते क्षेपे दण्डमुत्तमसाहसः।
उपपातक युक्ते तु दाप्यः प्रथमसाहसमिति।

पतनीयैःपातित्यहेतुभिर्ब्रह्महत्यादिभिः। उपपातकानिगोवधादीनि।मनु रपि।

ब्राह्मणक्षत्रियाभ्यान्तु दण्डःकार्यो विजानता।
ब्राह्मणे साहसः पूर्वः क्षत्रिये त्वेष मध्यमः॥
विट्शूद्रयोस्त्वेवमेव स्वजातिं प्रतितत्त्वतः।
छेदवर्जं प्रणयनं दण्डस्येति विनिश्चयः॥
पापोपपातवक्तारो महापातकशंसकाः।
आद्यमध्योत्तमान्दण्डान्दद्युस्त्वेते यथाक्रममिति॥

विष्णुरपि। परस्पर पतनीये क्षेपे कृतेतूत्तमसाहसं उप-

पातकयुक्तन्तु मध्यमम्। त्रैविधवृद्धानां क्षेपे जातिपूगानाञ्चग्रामदेशयोः प्रथममिति।देशाद्याक्रोशे दण्डमाह बृहस्पतिः।

देशादिकं क्षिपन्दाप्यःपणानर्द्धं त्रयोदश।
पापेन योजयन् दर्पाद्दाप्यःप्रथमसाहसम्॥
एष दण्डःसमाख्यातः पुरुषापेक्षया मया।
समन्यूनाधिकत्वेन कल्पनीयो मनीषिभिरिति॥

याज्ञवल्क्योऽपि।

मध्यमो जाति पूगानां प्रथमो ग्रामदेशयोरिति।

राज्ञ आक्रोशे दण्डमाह नारदः।

अवकृश्य च राजानं वर्त्मनि स्वेव्यवस्थितम्।
जिह्वाच्छेदाद्भवेच्छुद्धिः सर्वस्वहरणेन वेति॥

याज्ञवल्क्योऽपि। राज्ञोऽनिष्ट प्रवक्तारन्तस्यैवाक्रोशकन्तया।

तन्मन्त्रस्य च भेत्तारञ्छित्त्वा जिह्वाम्प्रवासयेदिति॥

सत्यदोषाभिधानेऽपि वाक्पारुष्यदण्डोऽस्त्येव। तथा चनारदः।

पतितंपतितेत्युक्त्वा तथाचौरेति वा पुनः।
वचनात्तुल्यदोषःस्यान्मिथ्याद्विर्दोषतां व्रजेदिति॥

मनु नारदावपि। काणं वाप्यथवा खञ्जमन्यं वापि तथाविधम्।

तथ्येनापि ब्रुवन्दाप्योदण्डङ्कार्षापणावरमिति॥

विष्णुरपि। काणखञ्जादीनान्तथ्यवाच्यपि कार्षापणद्वयमितिएतच्च दुर्वृत्तविषयमिति माधवीये विद्यारण्यश्रीपादैरभ्यधायि। मिथ्यावदनशीलानां दण्डमाह कात्यायनः।

अनृताख्यानशीलानाञ्जिह्वाछेदो विशोधनमिति।

हारीतोऽपि। मिथ्याभाषिणां मेलकानाञ्च राजा जिह्वाञ्छिन्द्याद्दण्डयेद्वेति मेलकोभक्षकः। कस्यचिद्वाक्पारुष्य

कृतोऽर्द्धदण्डमाहोशनाः।

मोहात्प्रमादात्सङ्घर्षात् प्रीत्या वोक्तं मयेति यः।
नाहमेवं पुनर्वक्ष्ये दण्डार्द्धन्तस्य कल्पयेदिति॥

वक्ष्ये इत्यत्रवक्तीतिशेषः इति वाक्पारुष्याख्यव्यवहार पदम्

———————————

अथ स्तेयाख्यव्यवहार पदम्।

तल्लक्षणमाह मनुः। स्यात्साहसं त्वन्वयवत् प्रसभङ्कर्म यत्कृतम्।

निरन्वयम्भवेत् स्तेयं हृत्वापह्नुयते च यदिति।

अस्यायमर्थः। अन्वयवद्द्रव्यरक्षकराजाद्यध्यक्षादि समक्षंबलावष्टम्भेन यत्परधनापहरणादिकं क्रियते तत् साहसम्।स्तेयं पुनर्निरन्वयं स्वाम्याद्यसमक्षंयद्वञ्चयित्वा परधनाद्यपहरणं तदुच्यते। यच्च राजाद्यध्यक्षादि समक्षमपहृत्य नमयेदंकृतमिति भयान्निह्नुते तदपि स्तेयमिति। अतएव नारदः।

उपायैर्विविधैरेषां छलयित्वापकर्षणम्।
सुप्तमत्तप्रमत्तेभ्यः स्तेयमाहुर्मनीषिण इति॥

एषामित्येतच्छूद्रनिर्दिष्टान्याह स एव।

मृद्भाण्डासन खड्वास्थिदारुचर्मतृणादि यत्।
शमीधान्यं कृतान्नञ्च क्षुद्रं द्रव्यमुदाहृतम्॒॥
वासः कौशेयवर्ज्जञ्च गोवर्जम्पशवस्तथा।
हिरण्यवर्ज्जं लोहञ्च मध्यं व्रीहियवादि च॥
हिरण्यरत्न कौशेयस्त्री पुङ्गोगजवाजिनः।
देवबाह्मणराज्ञाञ्चविज्ञेयन्द्रव्यभुत्तममिति॥

बलात्कार कृतमपहरणं साहसान्तर्गतं स्तेयमित्याह।स एव।

तस्यैव भेदः स्तेयः स्याद्विशेषस्तत्रतूच्यते।
आधिसाहसमाक्रम्य स्तेयमाधिञ्छलेनत्विति।

तस्यैव साहसस्यैव। आधिः पीड़ा धनापहरणादिद्वारा आक्रम्य प्रसह्य परस्य क्रियमाण क्लेशः साहसरूपं स्तेयम्।छलेनक्रियमाण आधिःकेवलस्तेयमित्यर्थः। तस्करज्ञानोपायमाह याज्ञवल्क्यः।

ग्राहकैर्गृह्यते चौरो लोप्त्रेणाथ पदेन वा।
पूर्वकर्म्मापराधी च तथा चाशुद्धवासकः॥
अन्येऽपि शङ्कया ग्राह्या जातीनामादिनिह्नवैः।
द्यूतस्त्रीपान सक्ताश्च शुष्कभिन्नमुखस्वराः॥
परद्रव्यगृहाणाञ्च पृच्छका गूढचारिणः।
निराया व्ययवन्तश्च विनष्टद्रव्यविक्रया इति॥

ग्राहकैराज पुरुषैर्लोप्त्रेणापहृत भाजनादिना चौर्य्यः।अशुद्धवासः अज्ञातस्थानवासी। जातिनिह्नवो नाहं शूद्रइत्येवंरूपः। नामनिह्नवो नाहंडित्थइत्येवं रूपः। आदि ग्रहणात् स्वदेशग्राम कुलाद्यपलापेन च लक्षिता ग्राह्याः घृतपण्याङ्गनामद्यपानादिष्वति प्रतक्ताः तथा कुतस्त्योऽसित्वमिति चोरग्राहिभिः पृष्टो यदि शुष्कमुखोभिन्नस्वरो वा भवति। बहुवचनात् खिन्नललाटादीनां ग्रहणम्। तथा ये निष्कारणङ्कियदस्य द्रव्यं किंवास्य गृहमित्येवं पृच्छति। ये वेषान्तरधारणेनात्मानङ्गूढयित्वा चरन्ति। ये चायाभावेऽपि बहुव्ययकारिणः येच विनष्टद्रव्याणाञ्जीर्णवस्त्रभिन्न भाजनादीनामनिर्ज्ञात स्वामिकानां विक्रयकारिणः ते सर्वेऽपि चौर्यसम्भावनया ग्राह्याइत्यर्थः। एवं विधलिङ्गयुक्तान् पुरुषान् गृहीत्वैते चौरा भ-

वन्ति नवेति सम्यक् परीक्षेत न तावन्मात्रेण निश्चिनुयात्। चौरस्यापि लिङ्गसम्बन्धसम्भवात्। अतएव नारदः।

अन्यहस्तात्परिभ्रष्ट सकासादुस्थितम्भुवि।
चौरेण वा प्रतिक्षिप्तं लोप्त्रं यत्नात्परीक्षयेत्॥
असत्याः सत्यसङ्काशाः सत्याश्चासत्यसन्निभाः।
दृश्यन्ते विविधा भावास्तस्माद्युक्तं परीक्षणमिति॥

स्तेयस्य त्रैविध्यमाह स एव।

तदपि त्रिविधं ज्ञेयं द्रव्यापेक्षम्मनीषिभिः।
क्षुद्रमध्योत्तमानां तु द्रव्याणामप्रकर्षणादिति॥

चौरस्य द्वैविध्यमाह वृहस्पतिः।

प्रकाश्चाप्रकाशाश्च तस्करा द्विविधाः स्मृताः।
प्रज्ञासामर्थ्यमायाभिः प्रभिन्नास्ते सहस्रधेति॥

प्रकाशतस्करानाह स एव।

नैगमा वैद्यकितवाः सभ्योत्कोचकवञ्चकाः।
दैवोत्पातविदो भद्राः शिल्पज्ञाः प्रतिरूपकाः॥
अक्रियाकारिणश्चैव मध्यस्थाः कूटसाक्षिणः।
प्रकाशतस्करा ह्येते तथा कुहकजीविन इति॥
प्रतिरूपकाः प्रतिरूपकाराः। अतएव नारदः।
प्रकाशवञ्चकास्तत्र कूटमानतुलाश्रिताः।
उत्कोचकाः सोपधिका वञ्चकाः परयोषितः॥
प्रतिरूपकराश्चैवमङ्गलादेशवृत्तयः।
इत्येवमादयो ज्ञेया प्रकाशस्तस्करा भुवीति॥

नैगमादिव्याजेन ये परद्रव्यापहारकास्ते नैगमाद्याःअप्रकाशे तस्कर स्वरूपभेदानाह व्यासः।

साधनाङ्गान्विता रात्रौ विचरन्त्यविभाविताः।
अविज्ञातनिवासाश्च ज्ञेयाःप्रच्छन्नतस्कराः॥
उत्क्षेपकःसन्धिभेत्ता पान्थंमुद्ग्रन्थिभेदकः।
स्त्रीपुङ्गोश्च पशुस्तेयी चौरीनवविधः स्मृत इति

रात्राविति प्रायिकम्। अरण्यादौ दिवापि सम्भवात्।उत्क्षेपकःधनिनामनवधानतान्निश्चित्य तत् समीपस्थं धनमुत्कृत्य ग्राहकः।सन्धिभेत्ता गृहयोःसन्धौ स्थित्वा तत्रत्यभित्तिभेत्ता।पान्थमुदककान्तारादौ पथिकानान्धनप्रत्यापहारकः।ग्रन्थिभेदकः परिधानीयादिग्रथितं धनं गृहीतुंतद्ग्रन्थिमोचका इति। प्रकाशतस्कराणां दण्डमाह स एव।

स्त्रीपुंसौ वञ्चयन्तीह मङ्गलादेश वृत्तयः।
गृह्णन्ति छद्मनाचार्थ मनार्य्यस्त्वार्यलिङ्गनः॥
नैगमाद्या भूरिधना दण्ड्यादोषानुरूपतः।
यथा तेनानिवर्त्तन्ते तिष्ठन्ति सन्नये तथेति॥

दोषानुरूपतो दण्ड्यानतु धनानुरूपत इत्यभिप्रायः। केषाञ्चित् प्रकाशतस्कराणां दण्डमाह बृहस्पतिः।

प्रच्छाद्य दोषं व्यामिश्रा पुनःसंस्कृत्य विक्रयी।
पण्यं तद्द्विगुणं दाप्यो वणिग्दण्डञ्च तत्समम्॥
अज्ञातौषधिमन्त्रस्तु यश्च व्याधेरतत्ववित्।
रोगिभ्योऽर्थं समादत्ते स दण्ड्यश्चोरवद्भिषक्॥
कूटाक्षदेहिनः क्षुद्रा राजभाव्यहराश्चये।
गणका वञ्चकाश्चैव दाण्ड्यास्ते कितवाः स्मृताः॥
अन्यायवादिनः सभ्यास्तथैवोत्कोचजीविनः।
विश्वस्तवञ्चकाश्चैव निर्वास्याःसर्वएव ते॥

ज्योतिर्ज्ञानन्तयोत्पातमविदित्वा तु ये नृणाम्।
श्रावयन्त्यर्थलोभेन विनेयास्ते प्रयत्नतः॥
दण्डाजिनादिभिर्युक्त मात्मानं दर्शयन्ति ये।
हिंसन्ति छद्मना नृृणां बध्यास्ते राजपूरुषैः॥
अल्पमूल्यन्तु, संस्कृत्य नयन्ति बहुमूल्यताम्।
स्त्रीबालकान्वञ्चयन्ति दण्ड्यास्तेऽर्थानुसारतः।
हेमरत्नप्रवालाद्यान् कृत्रिमान् कुर्वते तु ये॥
क्रेतुर्मूल्यं प्रदाप्यास्ते राज्ञा तद्द्विगुणं दमम्।
मध्यस्थंवञ्चयन्त्येकं स्नेहलोभादिना यदा।
साक्षिणश्चान्यथा ब्रूयुर्दाप्यास्ते द्विगुणन्दममिति॥

भाव्यं करविशेषः। मनुरपि।

सर्वकण्टकया पिष्टं हेमकारन्तु पार्थिवः।
अवर्त्तमान मन्याये छेदयेल्लवशः क्षुरैरिति॥

विष्णुरपि। द्यूते च कूटाक्षदेविनां करछेद इति। अप्रकाशतस्कराणां दण्डमाह स एव।

उत्क्षेपकस्य सन्दंशश्छेत्तव्यो राजपूरुषैः। सदंशोऽत्र करः।

तथा च याज्ञवल्क्यः।

उत्क्षेपक ग्रन्थिभेदौ करसन्दंशहीनकौ।
कार्य्यौद्वितीयापराधे करपादैकहीनकाविति॥

अङ्गुष्ठ तर्जन्योर्ग्रन्थिमोचने साधकतमत्वेनात्र सन्दश शब्देन तयोर्ग्रहणम्।प्रमापराधे तौ क्रमेणपाणि सन्दंशाभाववन्तौ कर्त्तव्यौ। द्वितीयापराधे उभावप्येकपाणिपादाभावावेतौ कर्त्तव्यावित्यर्थः। सन्धिभेतृृणां दण्डमाह मनुः।

सन्धिम्भित्वा तु ये चौर्य्यंरात्रौ कुर्वन्ति तस्कराः।

तेषां छित्वा नृपो हस्तो तीक्षाशूले निवेशयेदिति॥

तानितिशेषः। वृहस्पतिरपि।

सन्धिछेदकृता ज्ञात्वा शूलमाग्राहयेत् प्रभुरिति।
आाग्राहयेत् आरोपयेदित्यर्थः। पान्थमुखे दण्डमाह॥

स एव। तथा पान्थमुखं वृक्षं गले वद्धावलम्वयेदिति॥

पान्थ मुखं पथिलुण्ठकान्। ग्रन्थिभेदकस्य दण्डमाह मनुः।

अङ्गुली ग्रन्थिभेदस्य छेदयेत् प्रथमे ग्रहे।
द्वितीये हस्त चरणौ तृतीये वधमर्हतीति ॥

अङ्गुली तर्जन्यङ्गुष्ठौ। द्वितीये हस्तस्य छेदः चरणस्य च तृतीये वध इत्यर्थः। अतएव नारद आह।

प्रथमे ग्रन्थिभेदाना मङ्गुष्ठहस्तयोर्वध इति ॥

स्त्रीहर्त्तुर्द्दण्डमाह व्यासः।

स्त्रीहर्त्तालोहशपथे दग्धव्यो वै कराग्निनेति॥

पुंहर्त्तुदण्डमाह स एव।

मरहर्त्तुर्हस्तपादौ च्छित्वा स्थाप्यश्चतुष्पथइति॥

गोहर्त्तुर्दण्डमाह वृहस्पतिः।

गोहर्त्तुर्नासिकाच्छित्वा बद्धाम्भसि निमज्जयेदिति॥
नारदः। सर्वस्वं हरतो नारींकन्यां तु हरतो वधः।
वाजिवारण लोहानां चाददीत वृहस्पतिरिति।
सर्वस्व मित्यनुषङ्गः। पशुहर्त्तुर्दण्डमाह व्यासः।
पशुहर्त्तु स्त्वर्द्धपादं तीक्ष्णशास्त्रेण कर्त्तयेदिति।
पशुहर्त्तापश्वनुसारेणदण्डनीय इत्याह नारदः।
महापशून् स्तेनयतो दण्डमुत्तमसाहतम्।
मध्यम पशून्पूर्वन्तुक्षुद्रपशुन् तथा हृत इति॥

हृत इति षष्ठी। वन्दिग्रहादीनां दण्डमाहयाज्ञवल्क्यः।

वन्दिग्रहांस्तथा वाजि कुञ्जराणां च हारिणः।
प्रसह्यघातिनश्चैव शूलान्नारोपयेन्नर इति॥

अङ्गछेदादयः उत्तमसाहसत्वाद्ब्राह्मण व्यतिरिक्तेषुत्तम द्रव्यापहार विषयाः।

साहसेषु य एवोक्त स्त्रिषु दण्डमनीषिभिः।
स एव दण्डः स्तेयेऽपि द्रव्येषु त्रिष्वनुक्रमादिति॥

नारदेनोत्तमसाहसस्योत्तमद्रव्यविषयत्वेन व्यवस्थापनात्तेन क्षुद्रमध्यम द्रव्योऽक्षेपकादीनां तदनुरूपो न करच्छेदादिः।तस्करस्यापहृतं घनन्तत्स्वामिने दापयित्वा दण्डः। कर्त्तव्य इत्याह याज्ञवल्क्यः।

चौरं प्रदाप्यापहृतं घातयेद्विविधैर्बधैरिति।

धान्याद्याहरणे दण्डमाह मनुः।

घान्यं दशभ्यः कुम्भोभ्यो हरतोऽभ्यधिकं बधः।
शेषेऽप्येकादेशगुणं दाप्यस्तस्य च तद्धनमिति॥

कुम्भो विंशतिप्रस्थाः शेषे दशकुम्भाधिकान्न्युने।तस्य धान्य स्वामिनः। रत्नहरणेदण्डमाह स एव।

मुख्यानाञ्चैव रत्नानां हरणे बधमर्हतीति।

स एव।

सुवर्णरजतादीनामुत्तमानाञ्च वाससाम्।
पञ्चाशतस्त्वभ्यधिके हस्तछेदन मिष्यते॥
शेषे त्वेकादश गुणं मूल्याद्दण्डं प्रकल्पयेत्।
पुरुषाणां कुलीनानान्नारीणाञ्च विशेषत इति॥

अत्रसुवर्णादीनां संख्याकर्षकृतेत्याहुःवृद्धा इति मदन रत्ने।अत्राङ्गच्छेदादिदण्डोब्राह्मण व्यतिरिक्त विषयः।

सचिह्नं ब्राह्मणं कृत्वा स्वराष्ट्रादिप्रवासयेदिति॥

याज्ञवल्क्यस्मरणात्। चिह्नंललाटे श्वपदाकाराङ्कनम्। तथा च मनुः।

गुरुतल्पेभगः कार्यः सुरापाने सुराध्वजः।
स्तेये च श्वपदं कार्य्यंब्राह्मण्यस्य शिरः पुमानिति॥

एतच्च प्रायश्चित्तमकुर्वतां दण्डोत्तरकालं नतु प्रायश्चित्त चिकीर्षताम्। प्रायश्चित्तञ्च कुर्वाणाः पूर्वे वर्णा यथोदितम्।

नाङ्क्याराज्ञा ललाटे तु दाप्यमुत्तमसाहसमिति। मनुस्मरणात्।जात्यादि भेदेन च दण्डतारतम्यमाह स एव।

अष्टापाद्यन्तु शूद्रस्य स्ते ये भवति किल्विषम्।
षोड़शैवतु वैश्यस्य द्वात्रिंशत् क्षत्रियस्य तु॥
ब्राह्मणस्य चतुःषष्ठिः पूर्णं वापि शतम्भवेत्।
द्विगुणा वा चतुःषष्ठि स्तद्दोषगुणवेदिन इति॥

यस्मिन्नपराधे यो दण्ड उक्तः स शूद्रकर्त्तृके तस्मिन्नष्टगुणः दापनीयः वैश्यकर्त्तृके षोडशंगुणः क्षत्रियकर्त्तृके द्वात्रिंशद्गुणः। ब्राह्मणकर्त्तृके चतुःषष्ठि गुणः। शतगुणो वा अष्टाविंशत्युत्तरशतगुणोवेत्यर्थः। भाषान्यून मूल्यानां क्षुद्राणां मूल्यात् पञ्चगुणोदम इत्याह नारदः।

काष्ठ भाण्ड तृणादीनां मृन्मयानान्तथैव च।
वेणुवैणवभाण्डानां तथा स्नाय्व स्थिचर्म्मणाम्॥
शाकानामार्दूमूलानां हरणे फलमूलयोः।
गोरसेक्षुविकाराणां तथा लवणतैलयोः॥
पक्काम्नानां कृताम्नानां मत्स्यानामौषधस्य च।
सर्वेषामल्पमूल्यानां मूल्यात्पञ्च गुणो दम इति॥

यत्पुनः क्षुद्रद्रव्य विषये द्विगुणदण्ड प्रतिपादक मनु वचनम्। सूत्रकार्पासकिण्वानाङ्गोमयस्य गुडस्य च।

दघ्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च।
वेणुवैदलभाण्डानां लवणानान्तथैव च।
मृन्मयानां च हरणे मृदोभस्मन एव च॥
अजानां पक्षिणाञ्चैव लवणस्य घृतस्य च।
मांसस्य मधुनश्चैव यच्चान्यत् पशुसम्भवम्॥
अन्येषाञ्चैवमादीनां मद्यानामोदनस्य च।
पक्कान्नानाञ्च सर्वेषां तन्मूल्याद्विगुणोदम इति॥

तदल्पप्रयोजन विषयम्। पान्थादीनामल्पप्रयोजन द्रव्यापहारेण दण्डः। तथाच स एव।

द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू द्वेच मूलके।
आददानः परक्षेत्रान्नदण्डं दातुमर्हति॥
चणक ब्रीहिगोधूमयवानां मुद्गमाषयोः।
अनिषिद्धैर्ग्रहीतव्यो मुष्टिरेका पथि स्थितैः॥
तथैव सप्तमे भक्ते भक्तानि षडनश्नता।
अश्वस्तनविधानेन हर्त्तव्यं हीनकर्मण इति॥

न केवलं चौरस्यैव दण्डःकिन्वचौरस्यापि चौरोपकारिण इत्याह याज्ञवल्क्यः।

भक्तावकाशाग्न्युदकमन्त्रोपकरणव्ययान्।
दत्त्वा चौरस्य वा हन्तु र्जानतो दम उत्तम इति॥

भक्तंअशनम्। अवकाशोनिवासस्थानम्। अग्निश्चौरस्य शीतापनोदनाद्यर्थः ।उदकन्तुषितस्य। मन्त्र श्चौर्यप्रकारोपदेशःउपकरणं चौर्यसाधनम्। व्ययः अपहारार्थन्देशान्तरङ्गच्छतः पाथेयम्। एतानि चौरस्य हन्तुर्वा दुष्टत्वं जानन्नपि

सचिह्नं ब्राह्मणं कृत्वा स्वराष्ट्राहिप्रवासयेदिति॥

याज्ञवल्क्यस्मरणात्। चिह्नं ललाटे श्वपदाकाराङ्कनम्। तथा च मनुः।

गुरुतल्पे भगःकार्यःसुरापाने सुराध्वजः।
स्तेये च श्वपदं कार्य्यंब्राह्मण्यस्य शिरः पुमानिति॥

एतच्च प्रायश्चित्तमकुर्वतां दण्डोत्तरकालं नतु प्रायश्चित्तंचिकीर्षताम्। प्रायश्चित्तञ्च कुर्वाणाः पूर्वे वर्णा यथोदितम्। नाङ्क्याराज्ञाललाटे तु दाप्यमुत्तमसाहसमिति। मनुस्मरणात्। जायादि भेदेन च दण्डतारतम्यमाह स एव।

अष्टापाद्यन्तु शूद्रस्य स्तेये भवति किल्विषम्।
षोडशैवतुवैश्यस्य द्वात्रिंशत् क्षत्रियस्य तु॥
ब्राह्मणस्य चतुःपष्ठिः पूर्णं वापि शतम्भवेत्।
द्विगुणा वा चतुःषष्ठि स्तद्दोषगुणवेदिन इति॥

यस्मिन्नपराधे यो दण्ड उक्तः स शूद्रकर्त्तृके तस्मिन्नष्टगुणः दापनीयःवैश्यकर्त्तृके षोडशंगुणः क्षत्रियकर्त्तृके द्वात्रिंशद्गुणः। ब्राह्मणकर्त्तृके चतुःषष्ठिगुणः। शतगुणो वा अष्टाविंशत्युत्तरशतगुणोवेत्यर्थः। भाषान्यून मूल्यानां क्षुद्राणां मूल्यात् पञ्चगुणोदम इत्याह नारदः।

काष्ठ भाण्डतृणादीनां मृण्मयानान्तथैव च।
वेणुवैणवभाण्डानां तथा स्राय्वस्थिचर्म्मणाम्॥
शाकानामर्द्मूलानां हरणे फलमूलयोः।
गोरसेक्षुविकाराणां तथा लवणतैलयोः॥
पक्वाम्लानां कृतान्नानां मत्स्यानामौषधस्य च।
सर्वेषामल्पमूल्यानां मूल्यात्पञ्च गुणो दम इति॥

यत्पनः क्षुद्रद्रव्य विषयेद्विषयेद्विगुणदण्ड प्रतिपादक मनु वचनम्।

सूत्रकार्पासकिण्वानाङ्गोमयस्य गुडस्य च।
दघ्नः क्षिरस्य तक्रस्य पानीयस्य तृणस्य च।
वेणुवैदलभाण्डानां लवणानान्तथैव च।
मृन्मयानां च हरणे मृदोभस्मन एव च॥
प्रजानां पक्षिणाञ्चैव लवणस्य घृतस्य च।
मांसस्य मधुनश्चैव यच्चान्यत् पशुसम्भवम्॥
अन्येषाञ्चैवमादीनां मद्यानामोदनस्य च।
पक्वान्नानाञ्चसर्वेषां तन्मूल्याद्द्विगुणोदम इति॥

तदल्पप्रयोजन विषयम्। पान्थादीनामल्पप्रयोजन द्रव्यापहारेण दण्डः। तथाच स एव।

द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू द्वेच मूलके।
आददानः परक्षेत्रान्नदण्डंदातुमर्हति॥
चणक ब्रीहिगोधूमयवानां मुदुगमाषयोः।
अनिषिद्धैर्ग्रहोतव्यो मुष्टिंरेका पथि स्थितैः॥
तथैव सप्तमे भक्तेभक्तानि षडनश्नाता।
अश्वस्तनविधानेन हर्त्तव्यं हीनकर्मण इति॥

न केवलं चौरस्यैव दण्डः किन्त्वचौरस्यापि चौरोपकारिण इत्याह याज्ञवल्क्यः। भक्तावकाशाग्न्युपद-कमन्त्रोपकरणव्ययान्।

दत्त्वा चौरस्य वा हन्तुर्जानतो दम उत्तम इति॥

भक्तंअशनम्। अवकाशोनिवासस्थानम्। अग्निश्चोरस्य शीतापनोदनाद्यर्थः। उदकन्तृषितस्य। मन्त्र चौर्यप्रकारोपदेशः उपकरणं चौर्यसाधनम्। व्ययः अपहारार्थन्देशान्तरङ्गच्छतः पाथेयम्। एतानि चौरस्य हन्तुर्वा दुष्टत्वंजानन्नापि

यः प्रयच्छति तस्योत्तप्रसाहसोदण्ड इत्यर्थःकात्यायनोऽपि।

चौराणाम्भक्त्तदा ये स्युस्तथाग्न्युदकदायिनः।
छेत्तारश्चैव भाण्डानां प्रतिग्राहिण एव च॥

समदण्डाः स्मृता ह्येते ये च प्रच्छादयन्ति तानिति। चौरोपेक्षाकारिणं प्रत्याह नारदः।

शक्ताश्च यदुपेक्षन्तेतेऽपि तद्दोषभागिनः।
उत्क्रोशताञ्जनानान्तुह्रीयमाणे घने तथा॥
श्रुत्वायेनाभिधावन्ति तेपि तद्दोषभागिन इति।

इति स्तेयाख्यव्यवहारपदम्।

** ————————**

अथ साहसाख्यं व्यवहारपदम्।

तस्यस्वरूपमाह। नारदः।

सहसाक्रियते कर्म यत्किञ्चिद्वलदर्पितैः।
तत्साहसमिति प्रोक्तं सहोबलमिहोच्यते इति॥

तस्य चातुर्विध्यमाह बृहस्पतिः।

मनुष्यमारणञ्चौर्यें परदाराभिमर्शनम्।
पारुष्यमुभयञ्चेति साहसं स्थाच्चतुर्विधनिति॥

उभय पारुष्यग्वाग्दण्डपारुष्ये। तस्य त्रौविध्यमाह। नारदः। तत्पुनस्त्रीविधं ज्ञेयम्प्रथमं मध्यमन्तथा।

उत्तमञ्चेति शास्त्रेषु तस्योक्तं लक्षणं पृथगिति॥

एतेषां स्व स्वरूपमाह स एव।

फलमूलोदकादीनां क्षेत्रोपकरणस्य च।
भङ्गाक्षेपोपमर्द्दाद्यैः प्रथमं साहसं स्मृतम्॥

वासःपश्वन्नपानानां गृहोपकरणस्य च।
एतेनैव प्रकारेण मध्यमं साहसं स्मृतम्॥
व्यापादो विषशस्त्राद्यैःपरदाराभिमर्शनम्।
प्राणोपरोधि यच्चान्यदुक्तमुत्तमसाहसमिति॥

भङ्गः फलादि स्वरूपनाशनम्। आक्षेप आक्रोशः वाक्तिरस्करणमिति यावत्। अपमर्द्दःस्वरूपावशेषेण पीडनम्। एतेनैव प्रकारेणेत्यर्थः। त्रिविधेऽपि साहसे दण्डमाह नारदः।

तस्य दण्डःक्रियापेक्षःप्रथमस्य शतावरः।
मध्यमास्यतु शास्त्रज्ञैर्दृष्टः पञ्चशतावरः॥
उत्तमे साहसे दण्डः सहस्रावर इष्यते।
बधः सर्वस्वहरणं पुरान्निर्वासनाङ्कने॥
तदङ्गच्छेद इत्युक्तोदङ्ग उत्तमसाहस इति॥

ब्राह्मणस्य तु महत्यप्यपराधे शारीरदण्डाभावमाह स एव।

अविशेषेण सर्वेषामेष दण्डविधिः स्मृतः।
बधादृतेब्राह्मणस्य न बधेब्राह्मणोऽर्हतीति॥

यमोऽपि। न शारीरो ब्राह्मणस्य दण्डोभवति कस्यचिदिति।

महत्यपराधे ब्राह्मणस्य दण्डमाह स एव।

गुप्ते तु बन्धने बद्ध्वा राजा भक्तं प्रदापयेदिति। नारदोऽपि। शिरसोमुण्डनं दण्डस्तस्य निर्वासनं पुरात्।

ललाटे अभिशस्ताङ्कः प्रयाणङ्गर्द्धभेनचेति॥

परद्रव्थापहरणरूप साहसस्वरूपकन्तत्र दण्डमाह। याज्ञवल्क्यः।सामान्य द्रव्यप्रसभहरणं साहसं स्मृतम्।

तन्मूल्याद्विगुणोदएडोनिह्नवे तु चतुर्गुण इति॥

बहुभिर्जनैः प्रहरादिकालक्रमेण रक्षमाणस्य द्रव्यस्य बला-

त्कारेण हरणं साहसरूपं स्तेयमिति पूर्वार्द्धार्थः। तन्मूल्यादपहृत द्रव्यमूल्यात्। निह्नवे अपलापे यः साहसं करोतितद्विगुणन्दमम्। यस्तु साहसं कृत्वा निह्नुते स चतुर्गुणन्दाप्य इत्युत्तरार्द्धार्थः। साहसिकस्य प्रयोजयितारं प्रत्याह स एव।

यः साहसं कारयति स दाप्यो द्विगुणन्दमम्।
यश्चैव मुक्त्वाहन्दाता कारयेत्म चतुर्गुणमिति॥

द्विगुणन्दमं साहसिकदण्डाद्विगुणं दण्डम्। साहसिक विशेषं प्रत्याह स एव।

अर्ध्याक्रोशातिक्रमकृङ्मातृभार्याप्रहारदः।
संदिष्टस्याप्रदाता च समुद्रगृहभेदकृत्॥
सामन्तकुलिकादीनामपकारस्य कारकः।
पञ्चाशत्पणिको दण्ड एषामिति बिनिश्चयः॥
स्वछन्दविधवागामी विक्रुष्टेनाभिघावकः।
अकारणेन विक्रोष्टा चाण्डालश्चोत्तमान् स्पृशन्॥
शूद्रप्रवजितानाञ्चदैग्वे पित्र्येच भोजकः।
अयुक्तं शपथं कुर्वन् अयोग्यो योग्य कर्मकृत्॥
वृषक्षुद्रपशूनाञ्च पुं स्त्वस्यप्रतिघातकृत्।
साधारणस्यापलापी दानीगर्भ विनाशकृत्॥
पितृपुत्र स्वसृभ्रातृदम्पत्याचार्यशिष्यकाः।
एपामपतितान्योन्यत्यागी च शतदण्डभागिति॥
अज्ञानकर्त्तृके साहसिके पित्रारिबान्धवाः।
प्रष्टव्याराजपुरुषैः सामादिभिरुपक्रमैः॥
विज्ञेयोऽसाधुसंसर्गाच्चिह्नैर्होढेनवा नरैः।
एषोदिता घातकानान्तस्कराणाञ्च भावना॥

गृहीतः शङ्कया यस्तुन तत्कार्यंप्रपद्यते।
शपथेनावबोह्वव्यः सर्ववादेष्वयं विधिरिति।

चिह्नं रक्तलेपादि होढोमृतस्तस्य घनादिकम्। ज्ञानानन्तरकर्त्तव्यमाह व्यासः।

ज्ञात्वा तु घातक सम्यक् ससहायं सबान्धवम्।
हन्याञ्चित्रबादीपायैरुद्देजनकरैर्नृप इति।

वृहस्पतिः। प्रकाशघातका ये तु तथा चोपांशुघातकाः।

ज्ञात्वा सम्यग्धनं हृत्वा हन्तव्या विविधैर्वधैरिति॥

ब्रह्मघ्नक्षत्रियादिविषयमेतत्। यत आह वौधायनः। क्षत्रियादीनां ब्राह्मणस्य बधःसर्वस्वहरणञ्च तेषामेव तुल्यापकृष्टबधेयथाबलमनुरूपं दण्डञ्च कल्पवेदिति। तेषां क्षत्रियादीनान्तुल्यापकृष्टबधे सजातीयहीनजातीयबधे दण्ड शारीरदण्डम्। एकघातार्थप्रवृत्तानां बद्वनान्दोषानुरूपन्दण्डमाह। कात्यायनः।एकञ्चेद्वहो हन्युः संरुद्धाः पुरुषन्नराः।

मर्मघाती तु यस्तेषां स घातक इति स्मृतः॥

यो मर्मघातकः स एव बधापराध दण्डभागित्यर्थः। स एव। आरम्भक्रुत्सहायश्च दोषवक्ताऽनुदेशकः।

आश्रयः शस्त्रदाताच भक्तादायो विकर्म्मिणाम्॥
युद्धोपदेशकश्चैव तद्विनाश प्रवर्त्तकः।
उपेक्षाकार्य्ययुक्तश्च दोषवक्तानुमोदकः॥
अनिषेद्धाक्षमो यः स्यात्सर्वेते कार्यकारिणः।
यथा शक्त्यनुरूपन्तुदण्डमेषां प्रकल्कयेदिति॥

बृहस्पतिरपि। एकस्य बहवो यत्र प्रहरन्ति रुषान्विताः।

सर्मप्रहारको यस्तु घातकः स उदाहृतः॥

मर्मघाती तु यस्तेषां यथोक्तं प्रापयेद्दमम्।
आरम्भकृत्सहायश्चदोषभागी तदर्द्ध तः॥
क्ष्तस्याल्पमहत्त्वञ्च मर्मस्थानञ्च यत्नतः।
सामर्थ्यञ्चानुबन्धञ्च ज्ञात्वा चिह्नैःप्रमाधयेदिति॥

विषयविशेषे मनुष्य बधकत्तुर्दण्डाभावं दोषाभावप्रदर्शन मुखेनाह मनुः। शस्त्रंद्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते।

द्विजातीनाञ्चवर्णानां विप्लवे कालकारिते॥
आत्मनश्च परित्राणे दक्षिणानाञ्च सङ्गरे।
स्त्रीविप्राभ्यु पपत्तौ च घ्नन् धर्मेण न दुष्यतीति॥

यत्र देशे काले च धर्मस्तटाकारादि रूपोभेदनच्छेदनापरुद्ध्यते तेऽत्रतथा शूद्रेतरवर्णसङ्करे परदाराक्रमणादिरूपे राजाभावकालकारिते। तथात्मनः परतः प्राणसंशये। तथा दक्षिणानां सङ्करे गोग्रहणनिमित्तके युद्धे। तथा स्त्रीविप्राभ्युपपत्तौदुर्वलहिंसा निवारणे। धर्म्मद्धेतोर्धर्म दुष्यति यतः। अतस्तत्र द्विजातिभिः क्षत्रधर्माश्रयणरहितैरपि समर्थैः शस्त्रंग्राह्यमित्यन्वयः। अत्रद्विजाति ग्रहणं ब्राह्मणवैश्य विषयम्। प्रजापालनार्थं क्षत्रियस्य च नान्तरेणैवशस्त्र ग्रहणस्य प्राप्तत्वादिभिसन्धायैव वौधायन आह

ब्राह्मणार्थेगवार्थे च वर्णानां वापि सङ्करे।
गृह्णीयातां विप्रविशौशस्त्रं धर्म्मव्यतिक्रमे इति।

यत्तु परीक्षार्थमपि ब्राह्मण आायुधन्नाददीतेत्यापस्तम्बवचनम्। यच्चवौधायनवचनम्। हास्यार्थमपि ब्रह्म आयुधं नाददीतेति। तद्द्वयमपि धर्म्मोपरोधादि भिन्नविषयम्। साहसस्तेयस्य क्रोधलोभकृत्तत्वमाह।

वृहस्पतिः। साम्प्रतं साहस्तेयंश्रुयतांक्रोधलोभजमिति।

स्त्रीसं ग्रहणाख्यसाहस स्वरूपमाह स एव च।
अनिच्छन्त्या यत्क्रियते सुप्तोन्मत्त प्रमत्तया।
प्रलपन्त्या वा रहसि बलात्कार कृतन्तु, तददिति॥

अनिच्छन्त्या परपुरुषेण सहेतिशेषः। अनिच्छन्त्या यानिचिह्नानि तस्याः कर्त्तव्यं राजकर्त्तव्यं चाह सम्बर्त्तः।

नेच्छन्त्या यानि चिह्नानि वलात्कार कृतानि च।
परपुंसः प्रसङ्गेषु नारीणान्तानि शृण्वतः॥
नखदन्तक्षतक्षामासकच ग्रहवीक्षिता।
सद्योविश्वासिता नारी बलात्कारेण दूषिता॥
उच्चैर्विक्रोशयन्ती च रुदन्ती लोकसन्निधौ।
तस्य नामवदन्ती च यथाहन्तेन दूषिता॥
शोचेदेवं विधैर्लिङ्गैर्ब्रणीकृतपयोधरा।
चिह्नालङ्कारकेशैश्च व्याकुलीकृतलोचना॥
राज्ञा सभ्यैः सभांनीत्वा स्वयमन्विष्य तत्क्षणात्।
यद्ब्रुयात् सहजान्तत्रतत् कर्त्तव्यं प्रयत्नतः॥
विवादे साक्षिणामत्र प्रकुर्वीत परिग्रहम्।
प्रार्थनादभिशस्तस्य न दिव्यन्दातु मर्हतीति॥

अत्र दण्डमाह मनुः।

सहस्रंब्राह्मणोदण्ड्योविप्रां गुप्ताम्बलाद्ब्रजन्निति।

गुप्तां स्वनियमेन रक्षिताम्। क्षत्रियादिसबर्णविषयेदण्डमाह वृहस्पतिः। सहसा काम येद्यस्तुधनन्तस्याखिलं हरेत्।

उत्कृत्य लिङ्ग वृषणौ भ्रामयेङ्गर्द्धभेनत्विति॥

कामयेत् परखियङ्गच्छेत्। अयमेव दण्डोऽनुलोमप्रति-

लोमजात्योः सजातीय परभार्यागमने वेदितव्य इति मदनरत्ने। हीनजातीय परस्त्रीगमने ब्राह्मणादिष्वेतदर्द्ध परिमितो दण्डः। उत्कृष्टजातीयपरदारगमने अयमेव दण्डोवधसहितः कार्य इत्याह स एव।

दमोनेयः समायान्त हीनायामधिकस्ततः।
पुंसः कार्योऽधिकायान्तुगमने स प्रमापणमिति॥

दमः सहसाकामयेदिति वाक्योक्तः। नेयः प्रापणीयः। यत्तुबधमात्राभिधायकं कात्यायन वचनम्।

स्त्रीषु कृतोपभोगः स्यात्प्रसह्य पुरुषो यदा।
बधेतत्र प्रवर्त्तेत कार्य्यातिक्रमणं हि तदिति॥
तन्निर्गुणस्य भार्यागमने वेदितव्यम्।
इति साहसाख्य व्यवहारपदम्।

———————

अथ स्त्रोसंग्रहणाख्यं व्यवहारपदम्।

तस्य त्रौविध्यमाह वृहस्पतिः।

पाप मूलं संग्रहणं त्रिप्रकारन्निवोधत।
बलोपधिकृते द्वे तु तृतीय मनुरागजमिति॥

एतेषां स्वरूपं दर्शयति स एव।

अनिच्छन्त्या यत् क्रियते मत्तोन्मत्त प्रमत्तया।
मलपन्त्या वा रहसि बलात्कार कृतन्तुतत्॥
छद्मना ग्टहमानीय दत्त्वा स्वंमदकारणाम्।
संयोगः क्रियते यत्र तत्तूपधिकृतंविदुः॥
अन्योन्यञ्चक्षूरागेण दूतीसंप्रेषणेन वा।

कृतं रूपार्थ लोभेन ज्ञेयं तदनुरागजमिति॥

अनुरागज संगृहस्यविविधत्वं दर्शयति स एव।

तत्पुनस्त्रिर्विधं प्रोक्तं प्रथमं मध्यमोत्तममिति॥

व्यासोऽपि। संग्रहस्त्रिविधोज्ञेयः प्रथमोमध्यमस्तथा।

उत्तमश्चेति शास्त्रेषु तस्योक्तं लक्षणं पृथगिति॥

एतेषां स्वरूपमाहतुर्व्यासवृहस्पती।

कटाक्षावेक्षणं हास्यं दूतीमं प्रेषणं तथा।
स्पर्शोभूषणवस्त्राणां प्रथम संग्रहः स्मृतः॥
प्रेषणं गन्धमाल्यानां फलधूपान्नवाससाम्।
सम्भाषणञ्च रहसि मध्यमं संग्रहं विदुः॥
एकशय्यासनं क्रीडा चुम्बनालिङ्गनं तथा।
एतत् सग्रहणं प्रोक्तमुत्तमं शास्त्रवेदिभिरिति॥

स्त्रीसंग्रहणस्य ज्ञानोपायमाह याज्ञवल्क्यः।

पुमान् संग्रहणे ग्राह्यः केशाकेशि परस्त्रिया।
सद्यो वा कामजैश्चिह्नैःप्रतिपत्तौ द्वयोस्तथेति॥

परभार्यया सह केशाकेशिक्रीडनेन मद्यःअभिनवैः कामजैः कररुहदशनादिकृत ब्राह्मणादिलिङ्गैर्द्वयोः सम्प्रतिपत्त्यावय स्त्रीसंग्रहणवान् इति प्रतिपत्तव्य इत्यर्थः। उपायान्तरमाह स एव।

नीवीस्तन प्रावरण सक्थिकेशावमर्शनम्।
अदेशकाल सम्भाषं सहैकस्थानमेवचेति॥

कुर्वाण इतिशेषः। सक्थि ऊरू। मनुरपि।

स्त्रियं स्पृशेददेशेयः स्पृष्टो वा मर्षयेत्तया।

परस्परस्यानुमते सर्वं संग्रहणं स्मृतमिति॥

यस्तुदर्पादिना मयेयभ्मुक्तेति वदति सोऽपि तथा बिधत्वेन ग्राह्य इत्याहतुर्मनुनारदौ।

दर्पाद्वायदिवा मोहात् श्लाघया वा स्वयं वदेत्।
पूर्वं मयेयं भुक्तेति तच्च संग्रहणं स्मृतमिति॥

बलत्कारकृतस्य स्त्रीसंग्रहणस्य साहसान्तर्भूतत्वेन तत्रैव दर्शितत्वादुपधिकृते दण्डमाह बृहस्पतिः।

दण्डानाकामयेद्यस्तुतस्य सर्वहरोदमः।
अङ्कयित्वा भगाङ्क्तेन पुरान्निर्वासयेत्तत इति॥

सर्वहरः सर्वस्वहरः एतत् सजातीय विषयम्। हीनोत्कृष्ट गमने तु क्रमेणार्द्धंधनं सर्वस्वहरणरूपोबधसहितसर्वस्व हरणरूपोदण्डो वावगन्तव्यः। दमोनेयः समायान्विति साहसवाद निरूपणदर्शितवचनात्। तत्र वचने पुरुषस्यापकर्षणभवे युक्तो दण्डो न स्त्रिया इति नोक्तस्तस्याः दण्डः। तेन साहस स्त्रीसग्रहणवत् प्रकृतेऽपि सजातीयोपभुक्तायाः सव्यवहार्य्यायाःप्रायश्चित्ताचरणानन्तरव्यवहितोपभुक्ताया इति ज्ञातव्यमित्युक्तं मदनरत्ने। अनुरागज त्रिविध संग्रहणे दण्डमाह स एव।

त्रयाणामपि चैतेषां प्रथमोमध्यम उत्तमः।
विनयः कल्पवत्याकाङ्क्षनादधिकोद्रविणाधिक इति॥

अधिकःप्रथम साहसादिभ्योऽधिकः। सम्भोगे दण्ड माह याज्ञवल्क्यः।

स्वजातावुत्तमोदण्ड अनुलोम्येतु मध्यमः।
प्रातिलोम्येबधः पुंसो नार्याःकर्णादिकर्त्तन मिति॥

चतुर्णामपि वर्णानां बलात्कारेण सजातीयपरभार्या गमने साशीतिपणप्तहस्रोदण्डः। यदा त्वानुलोम्येन हीनजातीयागमने मध्यम साहसः। उत्कृष्टजातीयागमने गन्तुर्बधः। तस्याः कर्णादिकर्त्तन मित्यर्थः। एतच्चानुरागजं ग्रहणविषयं स्त्रिया अपि दण्डाभिधानात्। बलात्कारोपधिकृतयोस्तु स्त्रिया अनपराधित्वेन दण्डाभावात्। अस्मादेव प्रातिलोम्येन गमने पुरुषस्य बधं विधाय स्त्रियास्तदर्द्धंतुल्य कर्णनाप्तादिकर्त्तन विधानात् सजातीयागमने पुरुषस्य यावुक्तावुत्तममध्यमसाहसौ दण्डौ तदर्द्ंस्त्रियादण्ड इति सूचितम्। अत्रएव कात्यायनः। सर्वेषुचापराधेषु पुंसोह्यर्थ दमस्तथा।

तदर्द्धंयोषितोदद्युर्बधे पुंसोऽङ्गकर्त्तनमिति॥

स्त्रिया इतिशेषः। यदा पुनः सवर्णाप्रगुप्तां आनुलोम्येनगुप्तां वा ब्रजति तदाविशेषमाह मनुः।

सहस्त्रंब्राह्मणोदण्ड्योगुप्तां विधांबलाद् ब्रजन्।
शतानि पञ्चदण्ड्यःस्यादिच्छन्त्या सह सङ्गतः॥
सहस्रं ब्राह्मणोदण्डंदाप्यो गुप्तेतु ते ब्रजन्।
शूद्रायांक्षत्रियविणोःसहस्त्रन्तु भवेद्दम इति॥

ते क्षत्रियवैश्ये। एतच्च गुरुसखिभार्यादिव्यतिरिक्त विषयम्। तत्र दण्डान्तरविधानात्। तदाह नारदः।

माता मातृष्व सा श्वश्रुर्मातुलानी पितृष्वसा।
पितृव्य सखिशिष्यस्त्री भगिनी तत् सखीस्नुषा॥
दुहिताचार्यभार्य्याच सगोत्रा शरणागता।
राज्ञीप्रव्रजिता घात्री साध्वी वर्णोत्तमा च या॥
असामान्य तमाङ्गच्छन् गुरुतल्पगउच्यते।

शिश्नस्योत्कर्त्तनात्तत्रनान्योदण्डोविधीयत इति॥

यत्तुप्रातिलोम्येगमने क्षत्रियादेः पुरुषस्य बधइत्युक्त योगीश्वर वचने। तद्गुप्ताविषयमन्यथा धनदण्ड्य।

तथा चमनुः। उभावपि हितवेषब्राह्मण्या गुप्तया सह।

विप्लुतौ शूद्रवद्दण्डयौ दग्धव्यौ वा कटाग्निना।
ब्राह्मणींयद्यगुप्तान्तु सेवेतां वैश्यपर्थिवौ।
वैश्यम्पञ्चशतं कुर्य्यात् क्षत्रियन्तुसहस्रिणमिति॥

पञ्चशतम्पणशतपञ्चकदण्डभाजमित्यर्थः। एवं सहस्रिणमित्यत्रापि। क्षत्रियस्य गुप्तवैश्यागमने वैश्यस्य च गुप्ताक्षत्रियागमने क्रमेण पणप्तहस्रपणशतपञ्चकं तयोर्दण्ड इत्याह स एव।वैश्यंश्चेत् क्षत्रियाङ्गुप्तांवैश्यांवा क्षत्रियोव्रजेत्।

यो ब्राह्मण्यामगुप्तायान्तावुभौ दण्डमर्हत इति॥

शूद्रस्यागुप्तोत्कृष्टस्त्रीगमने लिङ्गच्छेदनसर्वस्वापरहरणेगुप्ता गमने तु बधसर्बस्वापहारौ। तथा च स एव।

शूद्रो गुप्तमगुप्त वा द्वैजातं वर्णमाचरन्।
अगुप्तैकाङ्गसर्वस्वो गुप्तौ सर्वेण हीयत इति॥

अयञ्च बघाद्युपदेशः प्रजापालनाधिकाराद्राज्ञ एव न द्विजातिमात्रस्य। ब्राह्मणः परीक्षार्थमपि शस्त्रं नाददीतेति शस्त्रग्रहणस्य निविद्धत्वात्। यदा तु राज्ञो निवेदने कालविलम्बेन कार्य्यातिपातस्तदाद्विजातिमात्रस्यापि शस्त्रग्रहणेऽधिकारोऽस्त्येव। शस्त्रं द्विजातिभिग्रह्यं धर्म्मोयत्रोपरुध्यते।

नाततायिवधेदोषो हन्तुर्भवति कश्चन॥
प्रच्छन्नं वा प्रकाश वा मन्युस्तम्मन्यु मृच्छतीति।

शस्त्रग्रहणाभ्यनुज्ञानात्। परस्त्रिया सह सम्भाषणकर्त्तु-

र्दण्डमाह मनुः। परस्य पत्न्यापुरुषः संलापं योजयेत्सह।

पूर्वमाक्षारितो दोषैः प्राप्नुयात् पूर्वसाहसमिति॥

आक्षारितः अभिशस्तः। दोषैःनानास्त्र्युपभोगवाञ्छाभिः। पापबुद्ध्यायः सम्भाषणं करोति तद्विषयमेतत्। अतएव।

यस्त्वनाक्षारितः पूर्वमभिभाषेत कारणात्।
न दोषं प्राप्नुयात् किञ्चिन्न हि तस्य व्यतिक्रम इति॥

मनुवृहस्पत्युक्तपूर्वसाहसमध्यमसाहसयोरुत्कृष्ट सजातीयासम्भाषणादिविषयत्वेन व्यवस्था परिकल्पनीया। परपुरुषेण सह पित्रादिभिर्निषिद्धं सम्भाषणं या करोति सा पणशतं दण्डया परस्त्रिया सह पित्रादिभिर्निषिद्धं सम्भाषणं यः पुरुषः करोति सपणशतद्वयं दण्डनीयः। द्वयोरपि निषिद्धपरस्परसम्भाषणादिकुर्वतोः सम्भोगे यो दण्डः स एव दण्ड इत्याह
याज्ञवल्क्यः।स्त्रीनिषेधे शतन्दद्याद् द्विशतन्तु दमम्पुंमान्।

प्रतिषेधे तयोर्दण्डो यथा सङ्ग्रहणे तथेति॥

निषिध्यतइति निषेधःकर्मणि हलश्चोति घञ्। चारणादि स्त्रीव्यतिरिक्तविषयमेतत्।

नैष चारणदारेषु विधिर्नात्मोपर्जीविषु।
सज्जयन्ति हिते नारी र्निग्रढाश्चारयन्ति चेति॥

मनुस्मरणात्नटाः आत्मोपजीविनः वेषोपर्जीविनः। एतेषान्दारेषु एष विधिर्न। अभिभाषणादिनिमित्तकदण्डविधिर्न।पररते नारीःस्वभार्य्यासज्जयन्ति पुरुषान्तरे संयोजयन्ति प्रच्छन्नीकृत्य चारयन्ति चेत्यर्थः। साधारणस्त्रीगमने दण्डमाह याज्ञवल्क्यः।

अवरुद्धासु दासीषुभुजिश्ष्यासु तथैव च।

गम्यास्वपि पुमान्दाप्यःपञ्चाशत्पणिकन्दममिति।

स्वामिना या शुश्रूषार्थंगृहे एव स्थातव्यमित्येवं पुरुषान्तरोपभोगतो निरुद्धाःअवरुद्वाः। पुरुषान्तरेणावरुध्यभुज्यमाना भुजिष्याःया दास्यो भुजिष्या अवरुद्धा वा तासु सर्वपुरुषगम्यास्वपि गमने पञ्चाशत्पणन्दण्ड्यः। तासाम्परपरिगृहीतत्वेन परस्त्रीतुल्यत्वात्। चशब्दाद्वेश्यास्वैरिणीनामपि ग्रहणम्। तास्वपि सर्व पुरुष साधारणासुपरपरिगृहीतासु गमनेऽयमेवदण्ड इति मन्तव्यम्। एतदवाभिप्रेत्याह नारदोऽपि।

स्वैरिण्यब्राह्मणी वेश्या दासी निष्कासिनी च या।
गम्याःस्युरानुलोम्येन स्त्रियो न प्रतिलोमतः॥
आस्वेव तु भुजिष्यासुदोषः स्वात्परदारवत्।
गम्यास्वापि हि नोपेयाद्यत्ताःपरपरिग्रहा इति॥

अब्राह्मणीति स्वैरिण्यविशेषणम्। सैरिणी स्वतन्त्रापुंश्चली। निष्काशिनी कुटुम्बान्निर्गतेति यदनरत्ने। साम्यनवरुद्धादामीति विज्ञानेश्वरभषवाचार्य्यप्रभृदयः। भुजिष्यास्वास्वेति सम्बन्धः। व्यासोऽपि।

परोपरूद्धागमने पञ्चाशत्यणिको दमः।
प्रसह्य वेश्यागमने दण्डादशपणाःस्मृत इति॥

प्रसह्य वेतनदानं विना अत्रानवरुद्धासुवेश्यादिषु गम्यत्वाभिधानत्रपापाभावप्रतिपादनार्थंकिन्तु राजदण्डाभाव प्रतिपादनार्थम्। पशुवेश्यादिगमने प्राजापत्यं विधीयत इत्यादिवचनैः प्रायश्चित्तकरणात्बलात्कारेण अनवरुद्धदास्यभिगमने दण्डमाहयाज्ञवल्क्यः।

प्रसह्यदास्यभिगमे दडोदशपणः स्मृतः।

बहूनां यद्यकामासौ चतुर्विंशतिकः पृथगिति॥

पुरुषसम्भोगजीविकासुदासीषु स्वैरिण्यादिषु शुल्कदानमन्तरेण बलात्कारेणाभिगच्छतो दशपणोदण्डः। यद्यनिच्छन्तीमेकाम्बलात्कारेण बहवो गच्छन्ति तर्हि प्रत्येकं चतुर्विंशतिपणात्मकोदण्ड इत्यर्थः। यदि पुनः सा स्वेच्छया भाटकं गृहीत्वा पश्चान्नेच्छतितदा बलाद्व्रजतामपि बहूनामदोषः यदि तस्या व्याध्याद्यभिभवो न भवेत्। अतएव नारदः।

व्याधिता सश्रमा व्यग्रा राजकर्मपरायणा।
अमन्त्रिता क्षेत्रागच्छेददण्ड्यावडवा स्मृतेति॥

पारदार्यप्रसङ्गात् कन्यायामपि दण्डमाह याज्ञवल्क्यः।

अलङ्कृता हरन् कन्या मुत्तम त्वन्यथाधमम्।
दण्डंदद्यात् सवर्णासु प्रातिलोम्येबधः स्मृत इति॥

अलङ्कृतां विवाहाभिमुखी तां सवर्णां कन्यामपहरन् उत्तम साहसं दण्डनीयः। तदनभिमुखींहरन् प्रथमसाहसम्।
उत्कृष्टवर्णजातां हरतः क्षत्रियादेर्बध इत्यर्थः। आनुलोम्येन सकामाहरणे प्रथमसाहसोदण्ड स्तथा च स एव।

सकामास्वनुलोमासु नदोषस्त्वन्यथादम इति॥

कन्यादूषणे दण्डमाह स एव।

दुषणे तु करच्छेद उत्तमायां बधः स्मृतः।
शतं स्त्रीदूषणे दद्याद्द्वेतु मिथ्याभिशंसनमिति॥
पशून् गच्छन् शतं दाप्यो हीनां स्त्रीङ्गाञ्च मध्यसमिति॥

यद्यकामां कन्यान्नखक्षतादिना प्रसह्य दूषयति तदाकरच्छेदः। यदा तु अङ्गुलि प्रक्षेपेन तामेव योनिक्षितां कुर्वन्दूषयति तदा विशेषमाह मनुः।

अभिषह्य तु यः कन्यां कुर्य्याद्दर्पेणमानवः।
तस्याशु कर्त्त्येअङ्गुल्यौ दण्डञ्चार्हति षट्शतमिति॥

सकाम दूषणेऽप्याह स एव।

सकामां दूषयन् कन्यां नाङ्गुलिच्छेद मर्हति।
द्विश्त तु दमं दाप्यः प्रसङ्गविनिवृत्तय इति॥

यदा कन्या विदग्धा वा कन्यां दूषयति तदाप्याह स एव।

कन्यैव कन्यां या कुर्य्यात्तस्यास्तु द्विशतोदमः।
या तु कन्यां प्रकुर्य्यात् स्त्री सा सद्यो मौण्ड्यमर्हति॥
अङ्गुल्योरेव वा च्छेदः खरेणोद्वहनन्तथेति॥

कुर्य्यात् योनिक्षतवतीमिति शेषः।यदा पुनरुत्कृष्टजातीयां कन्यां सकामामकामां वाभिगच्छति तदा हीनस्य क्षत्रियादेर्बधः। यदा सकामां सवर्णामभिगच्छति तदा शुल्कं गोमिथुनं तत्त्पित्रे दद्यात्। अनिच्छति तस्मिन् दण्डरूपेण राज्ञे दद्यात्। सवर्णामकामाङ्गच्छतो बध एव। तदाह मनुः।

उत्तमां सेवमानस्तुजघन्योबधमर्हति।
शुल्क दद्यात् सेवमानः समामिच्छेत् पिता यदि॥
योऽकामां दूषयेत्कन्यां स सद्यो बधमर्हति।
सकामां दूषयंस्तुल्यो न बधं प्राप्नुयात्नर इति॥

चाण्डाल्यादि गमने दण्डमाह याज्ञवल्क्यः।

अन्त्याभिगमनेत्वङ्क्यंकुबर्णेन प्रवासयेत्।
शूद्रस्तथान्त्य एव स्यादन्त्यस्यार्यागमे बध इति॥

अन्त्या चाण्डाली तद्गमने। त्रैवर्णिकां प्रायश्चित्तानभिमुखान् सहस्रं त्वन्त्यजस्त्रियमिति मनुवचनानुसारेण पण सहस्रंदण्डयित्वा कुत्सितवर्णेन भगाकारेणाङ्कयित्वा खराष्ट्रा-

न्निर्वासयेत्। शूद्रःपुनश्चाण्डालीङ्गच्छंश्चण्डाल एव। अङ्क्य एवेतिमाधवीये पाठः।चाण्डालस्यातूत्कृष्टजातिस्त्र्यभिगमने बध एवेत्यर्थः। योनि व्यतिरिक्त स्थले गच्छतोदण्डमाह स एव। अयोनौ गच्छतो योषां पुरुषं वाभिमेहतः।

चतुर्विंशतिको दण्ड स्तथा प्रव्रजितागमे इति॥

यस्त योषां मुखादावभिगच्छति पुरुषं वाभिमुखो मेहति तथा प्रवजितां वा गच्छति असौ चतुर्विंशतिपणान्दण्डनीय इत्यर्थः। स्त्रीकृते संग्रहणे दण्डमाह वृहस्पतिः।

गृहमागत्य या नारी प्रलोभ्य स्पर्शनादिना।
कामयेत्तत्रसा दण्ड्यानरस्यार्द्धदमः स्मृतइति॥

वचसा स्त्रियं प्रलोभ्य गच्छतः पुरुषस्य यो दण्डस्तं ग्राह्याः तद्दण्डार्द्धपुरुषो ग्राह्य इत्यर्थः।

इति स्त्री संग्रहणाख्य व्यवहारपदम्।

** ———————**

अथ स्त्रीपुंयोगाख्य व्यवहारपदम्।

तत्स्वरूपमाह नारदः।

विवाहादि विधिः स्त्रीणां यत्रपुंसाञ्च कीर्त्त्यते।
स्त्रोषुंसयोगसंज्ञ तद्विवाद पदमुच्यत इति॥

विवाहादिशब्देन स्त्रीषुंधर्मा गृह्यन्ते। अतएव मनुर्व्यवहारपदोद्देशकाले स्त्रीषुं धर्मोविभागश्चेत्युद्दिश्य प्रतिज्ञा पूर्वकं तेषां निरूपणं चकार।

पुरुषस्य स्त्रियाश्चैव धर्म्ये वर्त्मनि तिष्ठतोः।
संयोगे विप्रयोगे च धर्मान्वात्यानि शाश्वतान्॥

इत्यादिना संयोगे अन्योन्यप्तधाने। विप्रयोगे। देशतः कालतो वा व्यवधाने। शाखतान्नित्यान् अवश्यानुष्ठेयानिति यावत्। के ते धर्म्माइत्याकाङ्क्षायामाह स एव।

अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम्।
विषयेषु च सज्जन्त्यः संस्थाप्या ह्यात्मनो वश इत्यादि।

पुरुषैः भर्तृपुरुषैः। विषयेदण्डहेतुभूतचाञ्चल्यादि बिषये। नारदोऽपि।

स्वातन्त्र्याद्विप्रणश्यन्ति कुले जाता अपि स्त्रियः।
अस्वातन्त्र्यमतस्तासां प्रजापतिरकल्पयदिति॥

अतोऽन्यैरपि स्वस्त्रीणामस्वातन्त्र्य यथा भवतितथा कल्पयितव्यमित्याशयः। पुरुषेण स्वस्त्रीव्यभिचारादवश्यंरक्षणीया। तथा च हारीतः। एक व्रतस्कन्नभावात् परेन्द्रियो पहतत्वाच्चदुष्टाः कुलसङ्करकारिण्यो भवन्तिजीवति जारजः कुण्डोमृते भर्त्तरि गोलकस्तस्माद्रेतोपाघाताज्जायां रक्षेज्जायानाशे कुलनाशःकुलनाशे तन्तुं नाशस्तत्तुनाशे देवपितृयज्ञनाशो देव पितृयज्ञनाशे आत्मनाशआत्मनाशेसर्वस्वनाश इति। एकव्रतस्कन्न भावात्। स्त्रीणां एकभर्त्तेति नियम नाशात्। परेन्द्रियोपहतत्वात्। परस्मिन् पुंसि इन्द्रियस्य मनसोरागादिना उपहतत्वात्। कुल सङ्करकारिण्यस्तु ज्जाति स्वभावानुगत प्रजोत्पादनेन न कुलसाङ्कय्यम्। अतएव शङ्ख लिखितौ। यस्मिन् भावोऽर्पितः स्त्रीणामार्त्तवे तादृश तन्तु ञ्जनयन्तीति। तन्तुःपुत्रादि सन्ततिः। मनुरपि।

सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्याविशेषतः।
द्वयोर्हिकुलयो शोकमावहेयुररक्षिताः॥

इमं हि सर्ववर्णानां पश्यतो धर्म्ममुत्तमम्।
यतन्ते रक्षितु भार्य्यांभर्त्तारो दुर्बला अपि॥
स्वां प्रसूतिं चरित्रञ्च कुलमात्मान मेव च।
स्वधर्मं हि प्रयत्नेन जायां रक्षन् हि रक्षित इति ॥

द्वयोः कुलयोः भर्त्तुकुल पितृकुलयोः। अनेन कुलद्वय वृद्धैरपि रक्ष्याइति शोककथनमुखेन दर्शितम्। अतएव
बृहस्पतिः। सृक्ष्मेभ्योऽपि प्रसङ्गेभ्यो निवार्या स्त्री स्वबन्धुभिः।

श्वश्व्रादिभिः पालनीया गुरुस्त्रीभिर्दिवानिशम्।

मनुरपि। कालेऽदाता पिता वाच्यो वाच्यश्चानुपयन्पतिः।

मृते भर्त्तरि पुत्त्रस्तु वाच्चो मातुररक्षितेति॥

काले कन्यादानयोग्ये काले। वाच्योनिन्द्यः। अनुपयन्अनुगच्छन्। स एव।

पिता रक्षतिं कौमारे भर्त्ता रक्षति यौवने।
पुत्त्रास्तु स्थाविरे भावे नस्त्री स्वातन्त्र्यमर्हति ॥

याज्ञवल्क्योपि। रक्षेत्कन्याम्पिता विन्नांपतिः पुत्त्रस्तु वार्द्धके।

अभावे ज्ञातयस्तेषान्नस्वातन्त्र्यं क्वचित्स्त्रिया इति॥

विन्नाविवाहिता। पतिपुत्त्रविहीनायास्तु रक्षणं पतिपक्षान्तर्गतेन प्रत्यासन्नेनकार्य्यं। तथा च नारदः।

मृते भर्त्तर्य्यपुत्त्रायाः पतिपक्षः प्रभुः स्त्रियः।
विनियोगात्म रक्षासु भरगोषु च ईश्वरः॥
परिक्षीणे पतिकुले निर्म्मनुष्ये निराश्रये।
तत् सपिण्डेषु चासत्सु पितृपक्षः प्रभुः स्त्रियः ॥

पितृपक्षस्याप्यभावे स एवाह।

पक्षद्वयावसाने तु राजा भर्त्ता स्मृतः स्त्रियः।

स तस्या भरणं कुर्य्यान्निगृह्णीयात्पथश्च्युतामिति॥

विनियोगः कर्मणि नियोजनम्। भर्त्तपोषकःस्त्रीस्वभावं दर्शयति दक्षः।

जलौकावत् स्त्रियः सर्वाभूषणाच्छादनाशनैः।
सुहितापि कृता नित्यं पुरुषं ह्यपकर्षति॥
जलौकारक्त मादत्ते केवलं सा तपस्विनी।
इतरा तु धनञ्चित्तं मांसं वीर्य्यंबलं सुखम्॥
सा शङ्का बालभावे तु यौवनेऽभिमुखी भवेत्।
तृणवन्मन्यते नारी वृद्धभावे स्वकम्पतिम्॥
स्वकाम्ये वर्त्तमाना सा स्नेहान्न च निवारिता।
अपथ्यानुभवेत् पश्चाद्यथा व्याधिरुपेक्षिता इति॥

सुहिता तृप्ता कृतापीत्यन्वयः। अपकर्षति सततमाज्ञामात्रं करोति स्वकाम्येस्वेच्छायाम्। अपथ्याअत्यन्ता हित हेतु भूता मनुरपि। नैता रूपं प्रतीक्षन्ते नासां वयसि संस्थितिः।

सुरूपं वा विरूपं वा पुमानित्येव भुञ्जते॥
पौंश्चल्याच्चलचित्ताच्चनैस्नेह्याच्च स्वभावतः।
रक्षिता यत्नतोऽपीह भर्त्तृष्वेता विकुर्वते॥
शय्यासनमलङ्कारं कामं क्रोधमनार्जवम्।
द्रोहभावं कुचर्याञ्च स्वीभ्योमनुरकल्पयत्॥
नास्ति स्त्रीणां क्रियामन्त्रैरिति धर्म्मो व्यवस्थितः।
निरिन्द्रिया ह्यमन्त्राश्च स्त्रियोऽनृतमिति स्थितिः॥
तथा च श्रुतयोबह्व्योनिगीतानिगमेष्वपि।
स्त्रीलक्षण परीक्षार्थन्तासां शृणुत निष्कृतीः॥
यन्मे माता प्रलुलुभे विचरन्त्यऽपतिव्रता।

तन्मेरेतः पिता वृक्तामित्यस्यैतन्निदर्शनम्॥
ध्यायत्यनिष्टं यत्किञ्चित्पाणिग्राहस्य चेतसा।
तस्यैष व्यभिचारस्य निह्नवः सम्यगुच्यते॥
एवं स्वभावं ज्ञात्वासाम्प्रजापतिनिसर्गज़म्।
परमं यत्नं मातिष्ठेत्पुरुषो रक्षणम्प्रति इति॥

निरिन्द्रिया निर्वोर्य्याधैर्य्यप्रज्ञादिरहिता इति यावत्। स्त्रियोऽनृतमिति प्रायशोऽनृतवदनशीलत्वादुच्यन्ते। श्रुतयः श्रुतिवाक्यानि। निगमेषु वेदेषु स्त्रीलक्षणं स्वरूपन्तासां श्रुतीनाम्मध्येया निष्कृतिरूपा व्यभिचार प्रायश्चित्तरूपास्ताः श्रुती शृणु त स्त्रीस्वभाव ज्ञानार्थ मित्यर्थः। महाभारतेऽपि।

कुलीना रूपवत्यश्चनार्थवत्यश्चयोषितः।
मर्यादासुन तिष्ठन्ति स दोषः स्त्रीषुनारद।
अनर्थित्वान्मनुष्या सा भयात्परिजनस्य च।
मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्त्तृषु॥
यौवने वर्त्त मानानांमृष्टाभरणवाससाम्।
नारीणां स्वैर वृत्तीनां स्पृहयन्ति कुलस्त्रियः॥
यदि पुंसाम्मति ब्रह्मन् ! कथञ्चिन्नोपपद्यते।
अन्योन्यञ्च प्रवर्त्तन्तेन च तिष्ठन्ति भर्त्तृषु॥
अलाभात् पुरुषाणाञ्च भयात्परिजनस्य च।
बधबन्धभयाच्चैव स्वयं गुप्ता भवन्ति ताः॥
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः।
नान्तकः सर्वभूतानान्नपुंसां वामलोचना॥
कामानामपि दातारन्दातारं मानसान्वयोः।
रक्षितारन्नमृष्यन्ति भर्त्तारं यत्नतः स्त्रिय इति॥

श्रीरामायणेऽपि।नैवङ्गनानान्दयितो नापि द्वेष्योऽस्ति कश्चन।

सर्वमेवावलम्बन्तेलतागहनजा इवेति। अथ रक्षणाप्रकारः। तत्रमनुः।

न कश्चिद्योषितः शक्तः प्रसह्य परिरक्षितुम्।
एतैरुपाययोगैस्तु शक्यास्ताः परिरक्षितुमिति॥

प्रसह्य आक्रम्य। अवरुद्धेति यावत्। यद्यप्यवरोधेन शरीरव्यभिचाराद्रक्षणं शक्यन्तथापि मानस व्यभिचाराद्रक्षण मशक्यमित्याशयेन मनुना न कश्चिद्योषितः शक्यः प्रसह्य परिरक्षितुमित्युक्तम्। न च मानसव्यभिचाराद्रक्षणमनर्थक-मन्यजत्वाभावेन प्रजाविशुद्धि विघाताभावादिति वक्तव्यम्। यत आह स एव।

यादृशम्भजते स्त्रीहि सुतं सूतेतथाविधम्।
तस्मात् प्रजाविशुद्ध्यर्थं स्त्रियो रक्षेत् प्रयत्नत इति॥

यादृश पुरुष मृतुकाले स्त्री मनसा भजते तत्त्समानशीलं पुत्रं जनयतीति पूर्वार्द्धार्थः। अतएवाहतुः शङ्ख्यलिखितौ। यस्मिन्‌भावोऽर्पितः स्त्रीणामार्त्तवे तच्छीलं पुत्तं जनयन्तीति। मानस व्यभिचारादपि स्त्रियं रक्षेदिति शेषः। तथा च मनुना तस्मादित्यादिनोत्तरार्द्धेनायमेवार्थो दर्शितः। परिरक्षणोपायानाह मनुरेव।

अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत्।
शौचे धर्म्मेच पत्त्याञ्च परिणाह्यस्य चेक्षणेइति॥

अर्थस्य संग्रहे। स्वेन समानीतार्थ सम्बिधाने। व्यये स्वेनोक्तव्यये। शौचेगृहादिशुद्धिकरसंमार्जनोपलेपनादौ।
धर्म्मे अग्निहोत्राद्यनुकूललौकिकव्यापारे। पक्त्यांपाकव्यापरे। परिणाह्यं पीडादि गृहोपकरणं तस्य इक्षई विचा-

रणे। निरन्तर गृहव्यापार नियोजनादिना पुरुषान्तरचिन्ता राहित्यं यथा भवति भार्यायां तथा कुर्यादिति तात्पर्यार्थः। बृहस्पतिरपि।

आयव्ययेऽथ संस्कारे गृहोपस्कररक्षणे।
शौचाग्निकाय संयोज्याः स्त्रीणां शुद्धिरियं स्मृतेति॥

एवविध व्यापारासक्त चित्ततया साध्य इति व्यपदिश्यन्त इत्याह मनुः।

आत्मानमात्मना वास्तु रक्षेयुस्ताः सुरक्षिता इति॥

आत्मना गृहव्यापारासक्तेनान्तःकरणेन सुरक्षिताः साध्याः। आप्तपुरुषरक्षितास्तुस्त्रियो न सम्यग्रक्षिताइत्याह स एव।

अरक्षिता गृहेरुद्धाःपुरुषैराप्तकारिभिरिति॥

आप्तकारिभिः पुरुषैः गृहेरुद्धाःइत्यन्वयः। आप्ताश्च ते कारिणश्चाप्तकारिणः। अरक्षिताः सम्यग्रक्षाविहीना इत्यर्थः।
भर्त्तुर्द्धर्मनिष्ठत्वमपि स्त्रीणां रक्षणोपाय इति दर्शयितुं सएवाह। यादृग्गुणेन भर्त्ता स्त्री संयुज्येत यथाविधि।

तादृग्गुणा सा भवति समुद्रेणेव निमग्ना॥
अक्षमाला वसिष्ठेन संयुक्ताऽधमयोनिजा।
शारङ्गी मन्दपालेन जगामाभ्यर्हणीयतामिति॥

भार्याया भरणशय्यावश्यकमित्याह स एव।

देवदत्तां पतिर्भार्यांविन्दते नेच्छयात्मनः।
तां साध्वीं विभृयान्नित्यं देवानां प्रियमाचरन्॥

देवैर्दत्ता देवदत्ता दैव वशयातेति यावत्। तां भार्यां स्वयम्बरेपतिर्विन्दते। तत्र स्वव्यापाराद्देवदत्तामित्यनेन

विवाह लक्षणस्य स्त्रीपुंसयोः सम्वन्धस्य न स्वाधीनत्वं किन्तर्हिदेवकृतत्वमिति दर्शितम्। देवदत्तत्वञ्च स्त्रीणां सोमोददङ्गन्धर्वाय गन्धर्वो दददग्नये। रयिञ्च पुत्रांश्चाददग्निर्मह्यमथोइमामित्यादिभ्यः श्रुतिवाक्येभ्योऽवगम्यते। तेन देवैर्दत्ताया अभरणेन दातॄणां देवानां द्रोह आापाद्यत इत्यर्थवाद इत्युक्तं मदनरत्ने। न च साध्वी मित्यस्य पतिब्रतामित्यर्थ परत्वेन व्यभिचारिण्या भरणमनावश्यकमिति वक्तव्यम्। तस्यापि कदन्नादिनाऽवश्यभरणीयत्वात्। तथा च नारदः।

व्यभिचारे स्त्रियामौण्डानधः शयनमेव च।
कदन्नञ्च कुवासश्चकर्म्मचावस्करोजनमिति॥

स्त्रियारत्यर्थ व्यभिचारे जाते मुञ्जनमधः शयनञ्च साधयेत्। कदन्नं कुवासञ्च भरणार्थं दद्यात्। अमेध्यशोधन रूपं कर्म्मकारयेदित्यर्थः। दोषरहिताया भार्यायाः परित्यागिनं प्रत्याह नारदः। अनुकूलामबाग्दुष्टां दक्षां साध्वीं प्रजावतीम्।

त्यजन् भार्यमिव स्थाप्योराज्ञा दण्डन्नभूयमेति॥

विष्णुरपि। निर्दोषां परित्यजन् पत्नीञ्चेति चौरवच्छास्य इत्यनुषङ्गः। निर्दोषान्त्यागहेतु भूतदोष रहिताम्। दण्डेन स्थापयितु मशक्येत्वाह योगीश्वरः॥

आज्ञासम्पादिनींदक्षां वीरसूं प्रियवादिनीम्।
त्यजन् दाप्यस्तृतीयांशमद्रव्योभरणं स्त्रिया इति॥

तृतीयांशन्तद्धनतृतीयांशम्। राज्ञा भार्याया दाप्यः। अल्पधनः भरणमात्र पर्याप्त धनं दाप्य इत्यर्थः।

इति स्त्रीपुंयोगाख्यव्यवहारपदम्।

** —————♦♦—————**

अथ विभागाख्य व्यवहारपदम्।

यत्र मन्वादिवचन व्याख्यासु बहुधाबुधाः।
विवदन्ते दाय भागः स प्रबन्धेन वर्ण्यते।

तल्लक्षणमाह नारदः।

विभागोऽर्थस्य पित्र्यस्य पुत्रैर्यत्रप्रकल्प्यते।
दायभाग इतिप्रोक्तं तद्विवादपदं बुधैरिति॥

पित्रोरयंपित्र्यइति॥ कृतैकशोषात्पितृशब्दाद्यत्। अग्रेमातृधनस्यापि विभागकथनात्। पित्र्यस्यपुत्रैरिति च द्वयमपि सम्बन्धिमात्रोपलक्षणम् पत्नीत्यादिनान्येषामपि भर्त्रादिधने तन्निरूपणात्। अतएवोपक्रमे मनुना पित्रादि पदन्नोपात्तम्। एष स्त्रीपुंसयोरुक्तो धर्म्मोवो रति सहितः।

आपद्यपत्यप्राप्तिश्चदायधर्मं निबोधतेति॥

दायधर्म्मोऽप्यत्रविभागरूपोऽभिप्रेतस्तस्यैवाग्रे लक्षणकथनपूर्वकन्निरूपणात्। उद्देशावसारेऽपि स्त्रीपुन्धर्म्मोविभागश्चेति तस्यैव विवादपदत्वेनोद्देशात्। अतएव बाग्रे यावत् सम्बन्धि धनविभागमेव प्रदर्शितवान्मनुः। दायशब्दश्चायं स्वामिसम्बन्धमात्र द्रव्येस्वत्वन्तद्रूपोबदति। तथा च निघण्टुकारः। “विभक्तव्यं पितृद्रव्यं दायमाद्धर्मनीषिण” इत्याह। अत्रापि पितृपदंसम्बन्धिमात्रोपलक्षण मन्यत्रापि दायशब्दप्रयोगात्। विभक्तव्यं विभागार्हमित्यर्थः। अन्ययैकपुत्त्रादिस्वामिके विभागाभावाद्दायशब्द वाच्यतान स्यात्। यत्तु जीमूतवाहनेनदीयत इति व्युत्पत्त्या दाय शब्दो ददाति प्रयोगश्चगौणः मृतप्रव्रजितादि स्वत्व निवृत्तिपूर्वकपरस्वत्वोत्पत्तिफलसाम्यात्। न तु मृ-

तादीनां तत्र त्यागोऽस्ति। तच्च पूर्वद्रव्यस्वामि सम्बन्धाधीनं तत्स्वाम्योपरमे यत्र द्रव्येऽन्य स्वत्व तत्र निरूढोदायशब्द इत्युक्तं तन्नसुन्दरम्। निरूढत्वाजीकारेदाय ददातिशब्दयोगौर्णत्वोपन्यासानर्थक्यात्। सर्वथाऽवयवार्थ राहित्ये हि निरूढत्वं न च योगरूढत्वम्। अवयवार्थवाधस्य स्वयमेवोपन्यास्यात्। गौणमवयवार्थं परिकल्प्यतदङ्गीकारस्य निष्प्रयोजनत्व मन्योन्याश्रयत्व मनुभवविरोधो व्याघातश्च। तत्स्वाम्योपरम इति च जन्मनापि स्वत्वस्योपपादयिष्य-माणत्वादव्यापकम्। विभाग शब्दस्त्वनेक स्वाम्यानां द्रव्यसमुदायविषयाणां तत्तदेकदेशे व्यवस्थापने शक्तः। अतएवैक पुत्रादीनां पित्रदि धन स्वाम्ये विभागशब्द्यानयोगो दायोऽनेन लब्ध इत्येव च प्रयोगः। यत्रापि चैकं दासीगवादिबहुसाधारणं तत्रापि तत्तत्काल विशेषनियत दास्यदोहनादिना तस्य तस्यादिना व्यञ्जनादस्त्वेकदेश स्वाम्यव्यवस्थापन रूपो विभाग शब्दार्थः। अतएव।

एकां स्त्रींकारयेत्कर्म्मयथांशेन गृहे गृहेइति।
उद्वृत्य कूपवाप्यम्भस्त्वनुसारेण गृह्यते इति॥
युक्त्याविभजनीयं तदन्यथानर्थकम्भवेदिति।

च वृहस्पत्यादि वचनेषु वक्ष्यमाणरीत्या तदुप पादयिष्यते सच दायोद्विविधोऽप्रतिवन्धः सप्रतिन्धश्च। पुत्त्रादीनां पित्रादिधने पुत्त्रवादिनैवसत्यपि स्वामिनि पित्रादौ जन्मनैव स्वत्वोत्पत्तेः स तेषामप्रतिबन्धोदायः। स्वामि सद्भावस्था प्रतिबन्धकत्वात्। यस्तुविभक्तस्याससृष्टिनोऽपुत्त्रस्य मृतस्य पितृभ्रात्रादीनां तद्धनरूपोदायः स सप्रतिबन्धः। स्वामि मद्भावस्यप्रतिबन्धकस्यापगम एव तत्र रूत्वोत्पत्तेः। ननु सर्वोऽपिसप्रतिबन्ध एव

दायः। स्वामि सद्भावे पुत्रादीनामपि जन्ममात्रेण स्वत्वस्य वक्तुमशक्यत्वात्। तथाहि।यदि जन्मनैव पुत्रादीनां पित्रादिधने स्वत्वं स्यात्तर्ह्युत्पन्नमात्रस्य पुत्रादेस्तत् साधारणमिति तदनुमतिं विना द्रव्यसाध्येष्वाधानादिषु पित्रादीनामनधिकारापत्तौ जातपुत्रः कृष्णकेशोऽग्नीनादधीतेति श्रुतिविरोधः। किञ्च। विभागात् प्राक्पित्रादि प्रमादलब्धस्याविभाज्यत्वं वचनं व्यर्थं स्यात्। तद्धि पित्रा पुत्रान्तरानुमत्या यदि दत्तं सर्वेरेव दत्तमिति विभाग प्राप्त्यभावादेव प्रतिषेधोऽनर्थकः। अननुमत्या तु साधारण द्रव्यस्य दानमेव न सम्भवतीति पित्रादि प्रीतिदत्तत्वादिवाच्येयुक्तिरयुक्ता। एवं पुत्त्राद्यनुमति मन्तरेण स्त्र्यादीनामपि भर्त्तादिभिःप्रीतिदानस्यासम्भवात्तदनुमतौ तु तैरपि दत्तत्वात्।

भर्त्राप्रीतेन यद्दत्तं स्त्रियैतस्मिन्मृतेऽपि तत्।
सायथा काममश्नीयाद्दद्याद्वास्थावराहते इति॥

वचने यथा काममश्नीयाद्दद्याद्वेत्यनेनाविभाजृत्वं भर्त्तृ प्रीति लब्धस्य यदभिहितं तदपि व्यर्थम्। न चेदमविभागावस्थायां प्रीतिदानं तस्य चाविभाज्यत्वन्नप्रतिपादयति किन्तु स्थावरादृते यद्दत्तमित्यन्वयाद्विभागोत्तरमपि भर्त्रास्त्रियै स्थावरन्न प्रीत्या देयमज्ञानाद्दत्तमपि तेन पुत्रादिभिरपहृत्य विभजनीयमस्थावरन्तु न प्रत्याहर्त्तव्यमित्यनुवादमात्रम्। स्थावरस्य स्त्रियै प्रीतिदान प्रतिषेधमात्रंतात्पर्य्येण बोधयतीति शङ्कनीतम्। यथा च यस्य व्यवहितयोजना प्रसङ्गेनायुक्तत्वात्। स्थावरप्रीतिदानप्रतिषेधमात्रता समर्पवत्वेऽन्यांशस्यानुवादमात्रंव्यर्थत्वापरपर्य्यायश्चापद्यते।

अथ। मणिमुक्ताप्रवालानां सर्वस्यै पिता प्रभुः।

स्थावरस्य तु सर्वस्य न पिता न पितामहः॥
तथास्य पितृप्रसादाद्भुज्यन्तेवस्त्राण्याभरणानि च।
स्थावरन्तु न भुज्येत प्रसादे सति पेतृक इति॥

वचनमवश्यं विभाग प्राक्कालीनस्थावर प्रसाद दान प्रतिषेधपरं वाच्यं मणिमुक्तादि प्रसाददानानुमति पुरःसरं तत्प्र-
तिषेधाभिधानात्। अन्यथा तस्यानुवादमात्रत्वेन वैयर्य्यापत्तेः। तथा च जन्मना पुत्रादीनां स्वत्वान्मणिमुक्तादिषु तद्नुमतिमन्तरेणापि दानेपितुः खातन्त्र्यम्। स्थावरे तु तदनुमत्यैवेति विशेष इति वचनद्वयार्थस्य वाच्यत्वाज्जन्मना स्वत्वमायातीतिमैवम्। तस्य पितामहोपात्तस्थावर विषयत्वात्। अतीते पितामहे तत् स्वाम्यनाशात्पितापुत्र्योःसाधारणे तदीयद्रव्य स्वत्वेऽपि स्थावर एव पुत्रानुमत्यपेक्षा मणिमुक्तादौ तुनेति तदर्थात्। यत्तु गौतमवचन उत्पत्त्यैवार्थ स्वामित्व
लभतेइत्याचार्य्याइति। जन्मनः स्वत्वहेतुत्वे मिताक्षराकृता प्रमाणत्वेनोपन्यस्तन्तद्दाय भागतत्वकृतां व्याख्यातमेव।पितृस्वत्वोपरमे तज्जन्यत्वस्य हेतुभूतेनोत्पत्तिमात्रसम्बन्धेनान्य सम्बन्धाधिकेन जनकधने पुत्राणां स्वामित्वात्तद्धनं पुत्त्रोलभते नान्यः सम्बन्धीत्याय्यी मन्यन्त इति। न तु पितृस्वत्वे विद्यमानेऽपि तत्र पुत्र स्वत्वमिति तदर्थः। नारद देवलवचन विरोधात्। पितर्यूर्ध्वंगते पुत्त्राविभजेयुर्द्धनम्पिनुरिति नारद।

पितुर्द्धन मित्याह। अन्यथा धनम्बिभजेयुरित्येवावक्ष्यत्।

पितर्य्युपरते पुत्त्रात्रिभजेयुर्द्धनम्पितुः।
अस्वाम्यं हि भवेदेषां निर्दोषेपितरि स्थिते इति॥

देवलोऽपि पितुर्द्धनमित्युक्त्वोत्तरार्द्धेनास्वाम्यंहीति स्पष्टमेव तेषामस्वत्वन्तत्रहेतुत्वेनोक्तवान्। निर्दोषे पातित्यादि स्वत्वापगमकदोषरहिते मनुरपि।

ऊर्ध्वं पितुश्चमातुश्च समेत्य भ्रातरः समम्।
भजेरन् पैतृकं रिक्थमनीशास्तेहि जीवतोरिति॥

जीवतोर्म्मातापित्रोस्तद्धने पुत्त्राणामस्वाम्यं व्यक्तमेवाह।यत्तुशङ्खलिखितावाहतुः। न जीवति पितरि पुत्त्रा रिक्थम्भजेरन्। यद्यपि स्वाम्यम्पश्चादधिगतन्तैरनी एव पुत्ता अर्थधर्म योरस्वातन्त्र्यादिति स्मृति चन्द्रिकाकारेण च व्याख्यातम्। यद्यपि तैः पुत्रैःस्वकीयजन्मनः पश्चादनन्तरमेवपितृधने स्वाम्यमधिगतं प्राप्तन्तथापि जीवति पितरि तद्धनं तदिच्छाम्बिना न विभजेरन्नर्थधर्मयोरस्वातन्त्र्यात्पितृपारतन्त्र्याद्विभागकरणेऽनर्हाःपुत्त्राइति। तेनानेन वचनेन जन्मना पुत्त्रादीनां पित्रादि स्वामिकधने स्वत्वमिति तदपि न। मन्वादि वचनानां बहूनामस्वाम्य प्रतिपाकानामनुरोधेनास्यान्यथा-वर्णनोयत्वात्। वर्णितञ्चकल्पतरौ। यद्यपि पश्चादधिगतं पितृधनं व्यापारनिरपेक्षैः पुत्र विद्यादिभिरुपात्ते धने स्वाम्यन्तथापि तत्राप्यस्वाभ्यञ्जीवति पितरि किमुत पितृधने अर्थधर्म्मयोतेषां पितरि जीवत्यस्वातन्त्रादिति किञ्च। स्वत्वं शास्त्रैकसमधिगम्यं तत्र च रिक्थक्रयादिवज्जन्मनः स्वत्वहेतुत्वेनानुक्तेर्जन्मना स्वत्वमप्रमाणकमेव। अतएव यथा भार्य्यादिवचनम्। भार्य्यापुत्त्रश्चदासश्च त्रय एवाधनाः स्मृताः।

यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनमिति॥

पारतन्त्र्य मात्र प्रतिपादनपरन्तथाऽस्वाम्यवचनान्य पीत्यपा-

स्तम्। भर्य्यादिष्वध्यग्न्यादि वचनैः कर्त्तनादिनाचार्यकत्वेन स्वामित्वेसिद्धे युक्तमस्वातन्त्र्यमात्रपरत्वमन्यथा पुत्रादिषु धनसाध्येषु पुराणादिश्रुतन्तेषामधिकारित्वमपि विरुद्ध्येत। अत्र तु प्रत्युत जन्मनःस्वत्वहेतुत्वे प्रमाणा-भावाद्व्यर्थमेवान्यथानेक वचनवर्णनम्। किञ्च यदि स्वत्वं लौकिकं स्यात्तर्हि तदुपायानामपि लौकिकत्वा-त्स्वामिरिक्थक्रयसम्विभागपरिग्रहाधिगमेषु ब्राह्मणस्याधिकं लब्धं क्षत्रियस्य विजितम्। निर्विष्टं वैश्यशूद्रयोरिति गौतमवचनं व्यर्थमेव स्यादनुवादमात्रत्वान्न हि पाकादोदनो भवतीत्यादि शास्त्रेनिष्प्रयोजन मनुवादमात्रमुच्यते। तस्य हि वचनस्यायमर्थः। रिक्थं दायः क्रयः प्रसिद्धः। सम्बिभागो दायस्यैवैकदेशनिष्ठस्वामित्वव्यञ्जकोविभागःपरिग्रहः पूर्वमपरेणास्वीकृतस्यारण्यादि साधारणं प्रदेशसम्वन्धिनस्तृणजलकाष्ठादेः स्वीकारः। अधिगमोऽज्ञात स्वामिकस्य निध्यादेः प्राप्तिः। एतेषु स्वत्वहेतुषु सत्सु स्वामी भवति। जातेषु च जायते। ब्राह्मणस्य लब्धं प्रतिग्रहादि प्राप्तमधिकमसाधारणं रिक्थादयस्तु सर्वसाधारणाः। अधिक मित्युत्तरत्रसर्वत्र सम्बध्यते। क्षत्रियस्य विजितं युद्धविजयदण्डादि प्राप्तमसाधारणम्। वैश्यस्य निर्विष्टं कृषिगोरक्षणादि भृतिलब्धम्। शूद्रस्य द्विजशुश्रूषादि भृतिलब्धम्। निपूर्वस्य विशेर्भृति वाचकत्वम्। निर्वेशोभृति भोगयोरितित्रिकाण्डाभिधानात्। वैश्यशूद्रग्रहणस्योपलक्षण-त्वादन्येषामप्यनुलोमज प्रतिलोमजातानां सूतानामश्वसारथ्यमित्याद्यौशनसादि प्रतिपादितं वृत्तिजातं निर्विष्टशब्देन संगृह्यते। सर्वस्य भृतिरूपत्वात्। किञ्च —

योऽदत्तादायिनो हस्ताल्लिप्सेत न ब्राह्मणोधनम्।
याजनाध्यापनेनापि यथास्तेनस्तथैव सः॥

इत्यदत्तादायिनश्चौरस्य हस्ताद्याजनादि स्ववृत्त्यापि धन मर्ज्जयतो दण्डविधान अनुपपन्नं स्वत्वस्य लौकिकत्वे। स्ववृत्त्यार्ज्जयतोनिरपराधत्वात् मन्मते तु शास्त्र कसमधिगम्यत्वात् स्वत्वस्य चौरदातृकयाजनादावेतद्वचनादेव स्वत्वानुत्पादकत्वात्तद्विधानमुपपन्नतरम्। अपिच ममस्वमनेनापहृतमिति व्यपदेशो नस्यात्स्वत्वस्य लौकिकत्वे। अपहर्त्तुरेवतत्र स्वत्वात्। मन्मते त्वपहारस्य निषिद्धत्वेन स्वत्वानुत्पादकत्वादुपपन्नोऽयं व्यपदेशः। यदि च सुवर्णत्वादि कमिव तत्र स्वत्वमपि प्रत्यक्षप्रमाणकन्तर्हि सुवर्णत्वादौ यथा न सन्देहस्तथास्य स्वमिदमस्य वेत्यपि सन्देहो नस्यान्निर्णीतत्वात्। इदमेवोक्तं संग्रहकारेण।

वर्त्तते यस्य यद्धस्ते तस्य स्वामी स एव न।
अन्य स्वमन्यद्धस्तेषु चौर्य्याद्यौःकिन्न दृश्यते।
तस्माच्छास्त्रत एव स्यात् स्वाम्यंनानुभवादपि।
अस्यापहृतमेतेन न युक्तं वक्तुमन्यथा।
विदितोऽर्थागमः शास्त्रेतथाऽवर्णिपृथक् पृथगिति॥

शास्त्रेस्वामी रिक्थकयेत्यादौ साधारणामाधारणरूपोऽर्थागमः स्वत्वोपायःपृथक् पृथग्वर्णितस्तथा विदितो लोकिकत्वे तच्छास्त्रानर्थक्यं स्याद्विदित इत्यर्थः। अन्यत् स्पष्टम्। यथावर्णमिति स्मृति चन्द्रिकायां पाठः। पूर्वपाठस्तुमदनरत्नलिखितः। अथ यद्यस्य यथेष्टं विनियोज्यं तत्तस्य स्वमिति लोकप्रसिद्धेरयेथेष्टविनियोज्यत्व स्वत्व-

मिति चौर्य्याद्यर्ज्जितेनातिप्रसङ्गस्तत्र चौरादेर्य्यथेष्टविनियोज्यत्वाभावाद्विनियोगकाले त्रासादिदर्शनात्। अतएव सन्देहोऽप्युपपन्नःसुवर्णत्वादिति तुल्यत्वाभावात् स्वत्वस्य मैषम्। असम्भवात्। शास्त्रेण सर्वस्य कुटुम्बभरण्यादौ बिनियोगविशेषनियमादैच्छिकविनियोगविषयत्वस्य कुत्राप्यप्रसिद्धेः। तदप्याह संग्रहकारः, सङ्लोपन्यास पुरःसरम्।

न च स्वमुच्यते तद्यत् स्वेच्छया विनियुज्यते।
विनियोगोऽस्य सर्वस्य शास्त्रेणैव नियम्यते इति॥

अत्रपूर्वार्द्धेशङ्कोपन्यास उत्तरार्द्धेतत्परिहारः। न च रिक्थादिवदुत्पत्त्यैवार्थस्वामित्वमिति गौतमवचन उत्पत्तेरपि जन्मापरपर्य्याययेःस्वत्वहेतुत्त्वोक्तेःसत्यपि स्वत्वस्य तदुपायानाञ्च शास्त्रैकसमधिगम्यत्वे जन्मना पुत्रादेः पित्रादिधने स्वत्वमक्षतंमेवेति वाच्यम्। तस्यानेकदूषणैरन्यथा व्याख्यानस्य प्रागेवोक्तत्वात्। इदमेवाभिसन्धाय घारेश्वरेणापि शास्त्रैकसमधिगम्यमेव स्वत्वमिति सिद्धान्तितम्। अपि च। जीवत्यपि पित्तादौ पुत्रादेस्तद्धने जन्मना स्वत्वे तदनिच्छायामपि पुत्रादीच्छयैव विभागःस्यात्। अस्वातन्त्र्यवचनान्नैवमिति चेत् न। तथा सति दृष्टादृष्टविरोधमात्र भवेद्व्यवहारस्तुसि सिध्व्येदेव। यथा पित्रादिभिः सह पुत्रादिभिश्चतुष्पाद्व्यवहारे प्रवर्त्त्यमाने तेषां दृष्टादृष्टयोःश्रेयो विघातमात्रं शिष्य पितुः पुत्र इत्यादि वचनार्थ इति प्राक्प्रपञ्चितं तथात्रापि स्यात्। अस्त्विति चेन्नसकलनिबन्धविरोधात्। क्वचिज्जन्मनैवेति प्राचीनग्रन्थलिखनमपि जन्मनि बन्धनत्वात्पितापुत्रादिसम्बन्धस्य पितृमरणस्य च तत्स्वत्वापगमहेतुत्वेन परम्परया वर्ण-

नीयम्। किञ्च। ऊर्द्धंपितुश्चेत्यादि मनुवचनं जन्मना पुत्राणां स्वत्वपदे जीवति पितरि सत्यपि पुत्राणां स्वाम्ये तदिच्छया विना तद्विभाग ऊर्ध्वन्तु स्वेच्छयेति विभागनिषेधार्थंप्रागिति वाच्यं तच्चान्याय्यअस्वाम्यपरत्वापत्तेः। न च पितुरुपरमकालविधानार्थं विभाग विधानार्थं चेति युक्तम्। दृष्टार्थत्वाद्विभागस्योभयस्याप्यनुपपत्तेः। नापि नियम विधिर्विभागस्य ‘एव सहबसेयुर्वा पृथग् वा धर्मकाम्यये” ति मनुना विकल्पाभिधानात्। कालविधौ च पित्रु परमानन्तरकाल एव विभागो नैमित्तिकस्य निमितानन्तर्य्यवाधोऽय स्यात्। जातेष्टिवज्जातप्राणवियोगापत्ति सरूपविशेष विरोधस्यात्राभावात्। अतो जीवतोः पित्रोस्तद्धने स्वाम्यं नास्ति किन्तुपरतयोस्तयोरिति तत्कालीनस्वत्व-ज्ञापनार्थंमन्वादिवचनं विभागस्तु स्वातन्त्र्यात्तत्कालीन इच्छाप्राप्तोऽनुद्यते। तथाचैतद्वचनविरोधादपि न जन्मना सत्व वक्तुं शक्यम्। उपरमवत्पतितत्वादिकमपि पित्रादि स्वत्वनाश कारणं दक्ष्यते। तस्मात्पित्रादि स्वत्वनाश एव तद्धने पुत्त्रादीनां स्वाम्यं न तत्स्वत्व समकालीनमिति स्वाम्यादि सद्भावस्य सर्वत्र प्रतिबन्धकत्वात्सर्वोऽपि सप्रतिबन्ध एव दाय इति द्वैविध्यमदुपपन्नमिति। अत्रोच्यते। यदि स्वत्वापगम एव पुत्रादीनां तद्धने स्वत्वं तर्हि निर्दोषे पित्रादौ जीवति तेषां धनसाध्य वैदिक कर्मस्वनधिकारप्रसङ्गेजातपुत्त्रःकृष्णकेशोऽग्जीनादधीतेत्यादि श्रुतिविरोधस्तुल्यः स्वकपोलकल्पितहेत्वाभास समर्थित स्मृत्यर्थानुरोधेन श्रुति सङ्कोचोऽयुक्तः। आहिताग्नाविष्ट प्रथमयज्ञेपित्रादौ जीवत्यपि पुत्रादीन्प्रति तत्त्प्रद्दत्त्यविशेषात्।

सकलयाज्ञिक शिष्टानां तदनुष्ठानदर्शनाच्च। जातपुत्र कृष्ण केशपदाभ्यांवयोवृद्धानतिक्रमस्यैवविवक्षान तु तथोरव्यवस्थिततयोः स्वरूपेणेति विरोधाधिकरणे भाष्यवार्त्तिकादौ स्थितत्वात्। न च यथा पुत्तानुमत्या पितुर्भवन्मते तदधिकारस्तथा मन्मतेऽपि पुत्रादीनामपि पित्राद्यनुमत्येति वाच्यम्। यतो द्वयोरपि मते पितुः स्वत्वस्य धने विद्यमानत्वात् स्वत्वत्यागरूप प्रधान निष्पत्तिरविहता भवन्मते तु पुत्रादीनां स्वत्वस्यैवा भावाद्नुमतेश्च सत्वाजनकत्वाद्यागादि प्रधान निष्पत्तिः एव कथम्। वस्तु तस्तु पितुः पुत्त्रानुमतिरपि नापेक्षिता स्वातन्त्र्यात्। पित्राद्यनुमतिस्तुपुत्रादेरपेक्षिता पारतन्त्र्यादित्येतावाग्विशेषो यथा स्त्रियाःस्वधनेनापीष्टापुर्त्तादिव्रतादौ भर्त्रादेरनुमतिस्तत्परतन्त्र्यवचनात्। अनुमतौ तु स्वतन्त्रः प्रत्यवायो बैगुण्यं वा कर्मणि न तु प्रधानस्वरूपा निष्पत्तिः। पित्राद्यनुमतेःस्वत्वोत्पादकवञ्चैतदनुरोधा-त्कल्प्यमानमलौकिकमशास्त्रीयञ्च। तस्माच्छास्त्रैकसमधिगम्येऽपि सत्वे कथञ्चिज्जन्मनोऽपि रिक्थादि वचनाद धिगमादिपदेन संग्राह आवश्यकः श्रुति स्मृतिपुराणशिष्टाचारसिद्धस्य निर्दोषे जीवत्यपि पित्रादौ पुत्रादियज्ञाद्यनुष्ठानाधिकारस्यानुरोधात्। वस्तुतस्तुलौकिकमेव स्वत्वं लोके च जातमात्राणामेव पुत्रादीनां पित्रादिवने सरस्व व्यवहारोऽन्येषामपीति साधयि व्यामः। यच्च पित्रादीना मनुसत्ययोग्यपुत्रादिसाधारणस्वत्वे कथमनुमति मन्तरेणाधानादिकंस्वादित्युक्तन्तदनुमतियोग्येष्वापि पुत्रादिषु स्वातन्त्र्यात्पित्रादीनांन तदनुमत्यपेक्षाकिमुतानुजत्य-योग्योष्वित पारहु प्रात्यमेनतद्विधिबलादेवाधिकारो

ऽवगम्यत इति तु विज्ञानेश्वराचार्य्यः। अतश्चोत्पत्यैवार्थस्वामित्वमिति गौतमवचनस्य यज्जीमूतवाहनरघुनन्द-नाभ्याम्पारम्परिकोत्पत्तिस्वत्वहेतुत्वेन व्याख्यानं कृतन्तदपि व्यर्थमेव। यत्तु शङ्खवचनन्तस्यापि स्मृतिचन्द्रिकोक्तव्याख्यैव साधीयसी। कल्पतरूक्तव्याख्यायान्तु विद्याद्युपात्ताध्याहारेऽनुपस्थितभूयः पदाध्याहारः प्रसज्येत। जन्मपदाध्याहारस्तुपुत्रत्वाद्यक्षेपोपस्थितेरल्पाध्याहाराञ्च नायुक्तः। तेन श्रुत्युपष्टब्धस्मृत्यनुरोधान्मनुनारद-देवलादिवचनानामेवास्वातन्त्र्यपरत्ववर्णनमुचिततरम्। यदप्युक्तं प्रीतिदत्तस्याविभाज्यत्ववचनानि जन्मना स्वत्वाभ्युपगमेऽनुपपन्नानीति। तदपि न। अनुमत्यभिप्रायेण स्थावरप्रीतिदानाभावस्थिरीकरणार्थतयोपपत्तेः। स्वातन्त्र्याद्वा पितुरनुमति मन्तरेणापितेनदत्ते स्थावरव्यतिरिक्तेपुत्राणामविभाज्यत्वमुच्यते। अतएव स्थावरेविशेवचनम्। स्थावरं द्विपदञ्चैव यद्यपि स्वयमर्जितम्।

अपम्भूयमुतान् सर्वान्न दानन्नच विक्रय इति॥

मणिमुक्ता प्रबालानामित्यादि ववनन्तु जन्मना स्वत्वपक्ष एवोपपन्नतरम्। न च पितामहोपात्तस्थावर मात्रविषयत्वमिति युक्तम्। न पिता न पितामह इति द्वयग्रहणात्। पितामहस्य हि स्वार्जितमपि पुत्रेपौत्रेच सत्यपि न देयमिति वचनं जन्मना स्वत्वङ्गमयति। यथा परमते मणिभुक्ताप्रवालादीनां पैतामहानामपि पितुरेव स्वत्वन्तत् स्मरणात्तथास्मिन्मतेऽपि पुत्रादीनान्तत्रजन्मना स्वत्वे साधारणेऽपि पितुर्दानाधिकार इत्य विशेषः। तस्मात्पैतृके पैतामहे च द्रव्ये पुत्त्रादीनां यद्यपि जन्मनैव स्वत्व तथापि पितुरावस्यकेषु धर्म

कृत्येषु वाचनिकेषु च प्रसाददानकुटुम्बभरणापद्विमोक्षादिषु च स्थावरव्यतिरिक्त द्रव्यविनियोगे स्वातन्त्र्यमिति ध्येयम्। स्थावरादौ तु स्वार्जिते पित्रादि परम्पराप्राप्तेच पुत्रादिपारतन्त्र्यं तुल्यमेव।

स्थावरं द्विपदञ्चैव यद्यपि स्वयमर्जितम्।
असम्भूय सुतान् सर्वान्न दानन्नच विक्रयः॥
ये जातायेऽप्य जाताश्च ये च गर्भे व्यवस्थिताः।
वृत्तिञ्च तेऽभिकाङ्क्षन्ति नदानन्नच विक्रयः॥

इत्यादि वचनात्। अस्याप्यपवादो वज्ञ्यते यच्च स्वत्वस्य शास्त्रैकसमधिगम्यत्वाच्छास्त्रच जन्मनः क्वापि स्वत्वहेतुतानाभिधानात्। कथञ्जन्मना पुत्रादीनाम्पित्रादि धने स्वत्वस्वीकार इत्युक्तम्। तत्तु शास्त्रैकसमधिगम्यत्व-मभ्युपेत्यापि गौतमादिवचन उत्पत्तेरपि स्वत्वोक्तेःपरिहृतमेव प्राक्। वस्तुतस्तु न स्वत्वस्य शास्त्रैकसमधिगम्यत्व युक्तियुक्तम्। सर्वथा शास्त्र ज्ञानगन्धरहितानां प्रत्यन्तवासिनां म्लेच्छादीनामपि समस्तमिदमन्यस्य स्वमिति व्यवपदेशस्तत्कृतश्च क्रयविक्रयादि व्यवहारो दृश्यते। तेनान्वयव्यतिरेकाभ्यां क्रयाद्युपायक स्वामित्वमपि तैर्यथेष्ट विनियोगार्हत्वरूपं पदार्थात्पररूपं वा प्रत्यक्षादि प्रमाणादेवावगामित्यवश्यं वाच्यम्। एतत्तर्कोपष्टब्धोऽनुमानवाक्य प्रयोगोऽपि विज्ञानयोगिनोक्तः। स्वत्वं लौकिक लौकिकार्थक्रियासाधनत्वाव्रीह्यादि वदगत्यन्वय दृष्टान्तः। आहवनीयादीनां हि शास्त्रैकसमधिगम्यानां न लौकिकार्थक्रियामाधनत्वमस्तीति व्यतिरेक दृष्टान्तः। तेनान्वय व्यतिरेकोहेतुः। यद्यथाहवनीयादीनामपि यागादिलौकिक क्रियासाधनत्वमप्यस्ति।

तथापि तल्लोक प्रमाणकाग्न्यादिरूपेण नालौकिकाहवनीयादिरूपेणेति न व्यभिचारः। इह तु सुवर्णादिरूपेण न क्रयादि साधनन्वमपि तु स्वत्वेनैवेति सुवर्णात्वादिना भरणाद्यर्थक्रिया साधनत्वात्तद्यथातौकिकं रुपमेवं स्वत्वमपि सर्वानुगतं लौकिकमेव न स्वत्वेन क्रयादि क्रियानिर्वाहोलोके। न चैवं स्वामी रिक्थेत्यादि स्मृतीनां लोकसिद्धार्थानुवादकत्व नानर्थक्यापत्तिरिति वाच्यम्। धर्माधर्मोपयोगितया व्याकरणस्मृतावनादि वाचकत्वन्तदद्भावरूपं साधुत्वामाधुत्व-विवेकस्येव तस्योपपत्तेः। साधुशब्दाधिकरणे ह्येतदवस्थितं यत्सङ्कीर्णव्यवहारिणांलोकानामविविक्तं लौकिकमेव साधुत्वं शास्त्रेण विविच्यते। नत्वलौकिक माधुत्वं साधुभिर्भाषेतेत्यादि विधावन्योन्याश्रय प्रसङ्गादित्यादि। एव मत्रापि तथा च नय विवेके भवनाथः। लोक सिद्धञ्चार्जनञ्जन्मादि अतएवानिन्द्यंप्रथमलोकधीविषय व्यवस्थितं तन्निवन्धनार्था स्मतिर्व्याकरणादि स्मृतिवदिति। जन्मादीत्यादिपदेन क्रयादि ग्रहणम्। व्याकरणादित्यादिपदेन सङ्गीतरत्न परीक्षा सामुद्रिकाणां ग्रहणम्। रागादीनामपि हि लोकसिद्धानामेवानभियुक्तां प्रति विवेकार्थमेव तल्लक्षऋणकथनमित्युक्तं स्मृत्यधिकरण्ये आचार्य्यचरणैः स्वामीरिक्थेत्यादि वचनन्तु प्रागेव व्याख्यातम्। रिक्थशब्दस्तु निष्प्रतिबन्ध दायपरःसंविभाग शब्दश्च स प्रतिबन्धदायपर इति मिताक्षरायां विज्ञानेश्वरेण व्याख्यातम्। स्मृतिचन्द्रिकाकृता तु रिक्थं पित्रादि धने पुत्त्रादीनां स्वामित्वापादकं जन्मनैवेति व्याख्याय सविभागःपित्रादिधने विशेषनिष्ठ स्वामित्व सम्पादको विभाग

इति संविभागशब्दो व्याख्यातस्तन्न। स्वस्य सतो विभागात्स्वत्वहेतुत्वेन तत्प्रतिपादनानौचित्यात्। एकदेश-व्यवस्थापनमात्रं हि स्वविभागेन क्रियते। मुख्यामुख्यहेतुत्व ग्रहणे स्वामिपदे वैरुप्यापत्तेः। अतएवाह मिताक्षरायां विज्ञानेश्वराचार्य्यः। विभाग शब्दश्चानेक स्वामिकधनविषयःप्रसिद्धोनान्यदीय विषयो न प्रहीण विषय इति। लोके पुत्त्रादीनां जन्मनैव स्वत्व प्रसिद्धतरमिव। यदपि पत्नी दुहितरश्चेत्यादिवचनं तदपि स्वामि सम्बन्धनिबन्धनानेकदायहर प्राप्तौ लोक प्रसिद्धेपि स्वत्वे व्यामोहनिरासार्थम्। प्रायेण व्यवहार स्मृतीनां लोकसिद्धार्थानुवादकत्वमिति सकलनिबन्धृभिरभिधानात्। नियतौपायिक स्वत्व लोकसिद्धमेवेति भगवतोगुरोरपि समतम्। लिमानये हि तृतीये वर्णके द्रव्यार्ज्जननियमानां क्रत्वर्थत्वेस्वत्वमेव न स्यात् स्वत्वस्यालौकिकत्वादिति पूर्वपक्षा सम्भवमासाद्ध्यद्रव्यार्जन-प्रतिग्रहादीनां स्वत्वसाधनत्वं लोकसिद्धमेवेति पूर्वपक्षःसमर्थितस्तेन। न च द्रव्यार्जनस्य क्रत्वर्थत्वेस्वमेव न भवतीति याग एवन संवर्त्तेति। प्रलपितमिदङ्केनापि। वर्जनं स्वत्वंनापादयतीति विप्रतिषिद्धमिति ग्रन्थेन। अस्यार्थष्टीकाकृता विवृतएवम्। यदा द्रव्यार्जन नियमानां क्रत्वर्थत्वन्तदानियमानां स्वत्वोपायतामिदं शास्त्रं न बोधयति। क्रत्वयैता बोधने व्यावृतत्वात्। तथा सति प्रतिग्रहादि प्राप्तस्य स्वात्वमित्यत्रप्रमाणाभावादस्वेन च स्वत्यागात्मकयागासम्भवात्कस्येदम्। द्रव्यार्जननियनाभवेयुरिति पूर्वपक्षासम्भव इति शङ्कार्थः। प्रलपितमित्याद्यत्तरस्तस्यार्थः। अर्जन प्रतिग्रह्वादेः सत्वहेनुताया लोकसिद्धत्वेन शास्त्रस्य तत्राव्यापारान्नियमानां

क्रत्वर्थतैवतेन गम्यत इति न यागासम्भवो नियमानर्थक्यञ्चेति। सिद्धान्तेऽपि तेन स्वत्वस्य लौकिकत्वाभ्युपगमेनैव विचार प्रयोजन मुक्तम्। अतो नियमातिक्रमः पुरुषस्य न क्रतोरिति। अस्याप्यर्थ एवं विवृतः। यदाद्रव्यार्जननियमानांक्रत्वर्थत्वन्त-दानियमार्जितेनैवक्रतुर्न्ननियमाति क्रमार्जितेन द्रव्येण। न तु पुरुषस्य नियमातिक्रमदोषः पूर्वपक्षे। सिद्धान्ते वर्जननियमस्वक्रत्वर्थत्वाभावात्केवलपुरुषार्थत्वादति क्रमार्जितेनापि द्रव्येण क्रतुसिद्धिरप्रत्यूहा। पुरुषस्यैव तु नियमातिक्रमदोष इति। अनेन नियमातिक्रमार्जितस्थापि स्वत्वमभ्युपगतमन्यथाक्रतुसिद्ध्यभिधानविरोधात्। तत्रैवाधिकरणे कुमारी स्वामिनोऽप्यत्रभवतः स्वत्वं लौकिकमित्येवाभिमतमिति। तत्रत्यवार्त्ति तन्त्ररत्नाभियोगभाजं सुलभमेव। अतएवाहशास्त्रदीपिकायां, पार्थ सारथिः रागप्राप्तस्तावदर्जनन्नशास्त्रीयम्। रागतश्चपुरुषार्थतया प्राप्तिः प्रत्यक्षेणैवार्जितं द्रव्यं पुरुषम्प्रीणयत्पुरुषार्थं विज्ञायते न तदनुमाने क्रत्वेकशेषतया शक्यं विज्ञातुम्। तस्मात् पुरुषार्थंद्रव्यं क्रतुरपि पुरुषकार्य्याणामन्यतम इति कार्य्यान्तरवत्क्रतावप्युपयुज्यत इत्येतावान् विशेषः। न तु तस्यैवाङ्गन्तथासति जीवन लोपात्क्रतुरेव न सम्वर्त्तेतेति प्रघट्टकेन। अत्रार्जनस्य शास्त्रीयत्वन्निरस्यतास्वत्वस्य तदुपायानाञ्च लोक-सिद्धत्वंस्पष्टतरमेवोक्तम्। अन्यदपि तेनैवोक्तम्। तस्मात्पुरुषार्थन्द्रव्यार्जनमेवञ्च दृष्टार्थम्भवति। नियमस्तु दृष्टाभावात्काममदृष्टार्थःस्यात्। अदृष्टमपि पुरुषार्थार्जन विषयंत्वात्। नियमस्य पुरुषगतमेव कल्प्यते। तेनासावु-पायान्तरेणार्जयन्प्रत्यवेतीति गम्यत इति। ततश्च स्वामी रिक्थेत्यादि वचसां

लौकिकमेवरिक्थदीनां स्वत्वोपायत्वमनूद्यतदतिरिक्तोपाय निवृत्तौतात्पर्य्यन्नियमविधयेति नानार्थशङ्कापि। तृप्ति साधनभोजनाश्रित दिङ्गियमवत्। द्रव्यार्जनमेव क्रत्वर्थ पुरुषार्थ त्वविचारोदाहरणन्नियमस्तु पूर्वपक्षयुक्तितयोपन्यस्तः। स एव तत्रोदाहरणमित्येवभट्टगुरुमतयोर्भेदः स्वत्वस्य लौकिकत्वं तूभव्यसम्मतमिति निष्कर्षः। तत्तद्दूषणभूषणादि तु तन्त्रानियोगवतामाकरे एव व्यक्तं प्रस्तुतानुपयोगादिह नोच्यते। एतेन चौर्य्यादि प्राप्तस्यपि स्वत्वं स्यादिति यत्संग्रहकारधारेश्वराभ्यां स्वत्वस्य लौकिकत्वे दूषणमभिहितं तदपिपरास्तम्। चौर्य्यादिषु स्वत्वोपायत्वस्य लोकरवा प्रसिद्धेरन्यस्य स्वमिदन्नास्येत्येवं व्यवहारात्। क्रयाद्युपाय सन्देहादेवस्वत्व सन्देहोऽपीदमस्य वास्य वेत्याकारको नानुपपन्नः। ममस्वमनेनापहृतमिति न ब्रूयादपहर्त्तुरेव स्वत्वादिति च यत्स्वत्वस्य लौकिकत्वे दूषणमभिहितं तदप्येतेनालूनविशीर्णम्। यच्चोक्तं संग्रहकृता। शास्त्रोण सर्वस्य तत्र विनियोगनियन्त्रणाद्यथेष्टवियोगजत्वरूपस्वत्वा सम्भवः। इच्छया क्कापि नियोगासम्भवादिति। तद्प्यापाततः। नहि वयमैच्छिकविनियोगोपहितत्वं ब्रूमोऽपितु तदर्हत्वमात्रम्। अन्यथा राजादिभयादिच्छा प्रतीघातेऽपि तत्र स्याद्विनियोगेच्छानिच्छादशयोश्च स्वत्वतद्भावौविरुद्धौ प्रसज्येयाताम्। राजादिनियन्त्रणादिव शास्त्रनियन्त्रणादन्यत्रैच्छिकविनियोगाभावेऽपि तदर्हत्वस्थान पायात्। अतएव दुर्वृत्तेमाशास्त्रीयविनियोगेऽथस्वव्यवहारो नास्ति। प्रत्यवायनात्रपर शास्त्रातिक्रमात्। तदर्हता च तद्र्जितत्वप्रयुक्तमस्त्येव। तथा च नयविवेकेऽप्युक्तम्। तच्च तस्य

तदर्हंयद्येनार्जितमिति। तदर्हंयथेष्टविनियोगार्हमित्यर्थः। प्रतिबन्धादङ्कुरमजनयतोऽपि कुसूलस्यवीजस्थ वीजत्वप्रयुक्तमङ्कुरोत्पादनार्हत्वभि। वस्तु तस्तुवीजवाङ्कुरार्हत्वयोरिव स्वत्वत्वयथेष्टविनियोगार्हत्वयोरपि भेद एव। अन्यथार्हतावच्छेदकापरिचयेऽर्हताया दुर्न्निरूपत्वात्। तेन ब्राह्मण्यमिव स्वत्वमपि तदुपायज्ञान-व्यङ्ग्यंपदार्थान्तरमेवोत्पत्तिविनाशशालि। ब्राह्मण्यन्तुजातिरूपं नित्यमित्येतावान् परभेदः। इदञ्चाकरे व्यक्तं लीलावत्यादौ च। अत्र मिताक्षरायां स्वत्वलौकिकालौकिकत्वविचारप्रयोजनमुक्तं शास्त्रैकसमधिगम्ये स्वत्वे। मनुः।

यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम्।
तस्योत्सर्गेण शुद्ध्यन्ति दयनेह एवगृह्यति॥

स्मरात इत्यन्यदेव। अतएवा लौकिक स्वत्ववादिन इदद्धन्तदर्जितं तस्य स्वैर्त्वभिवाच्चार्य्याद्यजितवत्तत्पुत्राणामपि तदविभाज्यमेव। लौकिकत्वे तु स्वत्वस्य तदर्जितेऽपि पितुः स्वत्वात्तत्पुत्राणां पितृघनत्वेन तद्विभाज्यम्। अर्जयितुरेव प्रतिषेधातिक्रमनिमित्तप्रत्यवायात्प्रायश्चित्तम्। तत्पित्रादीनान्तुदायरूपधर्मोपायतस्तत्स्वमिति न प्रायश्चित्तमपि।

सप्तवित्तागमा धर्म्या दायो लाभः क्रयो जयः।
प्रयोगः कर्मयोगश्च सत् प्रतिगृह एव वेति॥

मनुस्मरणात्। प्रयोगो वृद्ध्यर्थन्द्रव्यप्रयोगः कर्मयोग आर्त्विज्यादिकरणम्। तत्र दायादीनां त्रयाणां वर्णचतुष्टयसाधारण्येन जयस्य क्षत्रियं प्रतियोगस्य स्वयं कृतस्य वैश्य शूद्रश्च प्रतिधर्म्यत्वम्। अस्वयंकृतस्यापदि च स्वयं कृतस्यापि सर्वान्

प्रति। कर्मयोगस्य तु विप्रंप्रत्येवेति विशेष इति। अत्र मदनरत्नकरोदुषणमाह। स्वत्वस्य शास्त्रैकसमधिगम्यत्वेऽप्यसत्प्रतिग्रहादिनिषेधो न स्वत्वानुत्पादकतान्तेषां वदन्ति। किन्तु प्रत्यवायमात्रहेतुताम्। इतरथा।

आपङ्गतःसम्प्रगृह्णन् भुञ्जानो वा यतस्ततः।
न लिप्येतैनसा विप्रो ज्वलनार्कसभी हि सः॥
कुमीदं कृषि वाणिज्यं प्रकुर्वीता स्वयङ्कृतम्।
आपत्काले स्वयं कुर्य्यान्नैनसा युज्यते द्विज इति॥

वचनैरेनसान युज्यत इत्यभिधानेनापदिप्रत्यवायाभावावगमेनापदि प्रत्यवायस्यैवावगमात्। प्रतिषेध प्रतिप्रसवयोः समानविषयत्वौचित्यात्। अतएवानापदि तत्र द्रव्यपरि-………………………..मित्रमेव व विदधाति। न चौर्या- …………………………………………………तैनासत्प्रतिग्रहादेः पूर्वपक्षसिद्धान्तयोद्वेयारापतषा स्वत्वात्पादकत्वाविशेषात्तदर्जितस्य पुत्रादिविभाज्यत्वमपि तुल्यमिति नैतत्प्रयोजनं विचारस्यास्य युक्तमिति। अत्र वदामः। शास्त्रैकसमधिगम्य स्वत्ववादिनो मते यथा चौर्य्यादि निषेधस्य स्वत्वानुत्पादकत्वदण्डप्रयोजनं विचारस्यास्य युक्तमिति। अत्रकर्त्तुः प्रायश्चित्तार्हता ता प्रयोजकत्वपरता। तयाऽसत्प्रतिग्रहादिनिषेधस्याप्यस्तुयथा चापदुपधिना।

तथैव सप्तमे भक्तेभक्तानि षडनश्नता।
अश्वस्तनविधानेन हर्त्तव्यं हीन कर्मणः॥

आख्यातव्यश्च तत्तस्मै पृच्छतेयदि पृच्छतीत्यादि प्रतिप्रसवबलाच्चौर्य्येतत्त्रितयाभावस्तथाऽसत्प्रतिग्रहादेरप्यस्तु। अ-

न्यथोभयत्रापि ततः पञ्चमहायज्ञाद्यनिष्पत्तिप्रसङ्गः शास्तीयत्वे स्वत्वस्याप्रसक्तचौर्य्योपायकत्वनिषेधः कथमिति चेत्। अधिगमान्तर्भावेन कथञ्चत्तत्प्रसक्तेस्तेनावश्यवक्तव्यत्वात्। अपरथा प्रतिषेधानुपपत्तेः। शास्त्रप्राप्तप्रतिषेधे च विकल्पापत्तिभिया दीक्षितो न जुहोतीत्यादिवद्भाष्यकारमतेन पर्य्युदासत्वं सामान्य विशेषभावेन विशेषनिषेधसामान्य दिव्योर्वाध्य वाधक भावोऽपि वा मतान्तरेणेत्यपि स्वीकार्य्यमेवागत्या। प्रतिग्रहादेस्तुप्रसक्तिर्ब्राह्मणादेरस्त्येवेत्यपत्त-दभावोपाधिकौ प्रति प्रसव प्रतिषेधावप्युपपन्नतरौ। तर्ह्य स्वत्प्रतिग्रह स्वयं कृतवाणिज्यादावनापदि ब्राह्मणस्य राजदण्डोऽपि स्वादितिचेन्न इष्टापत्तेः। नहि स्वधर्म्मत्यागिनो राजदण्डाभावः कस्यापि सम्मतः। स च क्वचित् सामान्य रूपेणोक्त एव गृह्यते क्वचिद्विशेषान्नात इत्यन्यदेव। अतएवा लौकिक स्वत्ववादिन इदमप्यपर दूषणम्। चौर्य्यदि निषेधस्य त्रितयप्रयोजकतागौरवम्। पर्य्युदासत्वादि स्वीकार गौरवश्च लौकिक स्वत्ववादिनस्तु दण्ड प्रत्यवायमात्र परत्वम्। तेषां स्वत्वानुपायत्वस्य लोकसिद्धत्वादिति रागप्राप्त निषेधे पर्य्युदासादि स्वीकारानापत्तिश्चेति लाघवमिति। तस्माच्छास्त्रैक समधिगम्येस्वत्वेऽसत् प्रतिग्रहादेस्तदनुपायत्वात्तदर्जिते पितुः स्वत्वाभावः स्यादेवेत्यापास्वचौर्य्याद्यर्जित पितृधनाविभागवद सत्प्रतिग्रहाद्यर्जितस्याप्यविज्यत्वम्। लौकिकेतु तस्मिन् लोके तेषामपि तदुपादत्वा-सिद्धंतद्विभाज्यमिति मिताक्षरोक्तं साध्वेव प्रयोजनम्। इदञ्चोपलक्षणम्। पूर्वपक्षेचौर्य्याद्यर्जितपितृधन स्वीकारे यथा पुत्त्रादीनामपि दण्ड प्रायश्चित्तं भवत्येवतथा

ऽसत्प्रतिग्रहाद्यर्जित तद्ग्रहणेऽपीत्यपि प्रयोजनमवसेयं अर्जयितुरेव प्रायश्चित्तमित्यभिधानेनोचितत्वात्। इदन्त्विह विचार्य्यम्। स्वत्वस्य लौकिकत्वेचौर्य्यस्य लेाके तदनुपायत्वेसिद्धे षड्भक्तान शनाद्यापदि यच्चौर्य्यमनुमतन्तेन चोरिते स्वत्वमुत्पद्यते न वा। नाद्यः लोकेऽनुपायत्वेनाव घारितात्तदुत्पत्ते रभ्युपगन्तुमशक्यत्वात्। नहि प्रत्यक्ष विरुद्धं शास्त्र सहस्त्रेणापि जलादेर्दविजनकत्वादि वोध्यते। न द्वितीयः अस्वेन पञ्चमहायज्ञादि प्रधानानिष्पत्तेः। न च क्षुत् प्रतिघातमात्रमेव तेन क्रियतां नान्यद लौकिकमिति वाच्यम्। शिष्टाचार विरोधात् नहि “शिष्टाः पञ्चमहायज्ञाद्यकृत्वा तदुपयुज्यते। यदन्नः पुरुषो लोके तदन्नास्तस्य देवता" इति स्मरणाच्च। अतएव विश्वामित्रश्च। अश्वयाजनों श्वपच गृहात् हृत्येन्द्रादि देवोद्देशेन त्यक्त्वा भोक्ष्यामीतिमजसिकृत्य यदा यथा देवतान्तद्भागां स्त्र्यक्त्तुं’ प्रवृत्तस्तदानुष्टैरिन्द्रादिभिर्वृष्टिः सृष्टा। शस्यञ्च तत्क्षणमेव प्रभूतमभूदित्याख्यायिंका पुराणेषु स्मर्य्यते।शास्त्रैक समधिगम्येतुस्वत्वेयथा शास्त्रञ्चौर्यादेरपि स्वत्वोत्पादकत्वतदभावौ न विरुद्धौ। लौकिक स्वत्व तदुपायवादिनस्तुभयतः पाशारज्जुरियमिति। अत्र प्रतिविदध्यः। यद्यपि चौर्य्यस्य स्वत्वोत्पादकत्वन्न लोकसिद्ध तथाप्यनेनैव समभक्ताशनकाले षड्जक्तान शिनोऽप्य विधानाद्गम्यते। स्वत्वमात्रस्यहिशास्त्रीयत्व विरुद्धत्वमतज्ज्ञानानां क्रयादि स्वत्वसाध्य व्यवहारानुपपत्तेः। अतश्चौर्य निषेधोदण्ड पापमात्रबोधक एव। चौर्यस्य स्वत्वोत्पादकत्वा प्रसक्तेर्न तदभावपरः। यथा ब्राह्मण्यस्य सर्वत्रप्रत्यक्षत्वेऽपि जात्युत्कर्प स्थले शास्त्रीयत्वमेव। पुरुषेयन्ता नियमस्य शास्त्रैक गम्यत्वात्। यथाहराचार्य्यः। एतावन्मा-

त्रन्त्विहागमिकं प्रत्येतव्यम्। नह्ययं परुषेयं तानि यमीलोकप्रमाणगम्य इति। तत्रापि तावत् पुरुषपरम्पराजन्य व्यक्तौ ब्राह्मण्यमभिव्यज्यत इति व्यङ्ग्यव्यञ्जकभाव एव परं शास्त्रीयव्यञ्जके ज्ञानवतस्तादृशव्यक्तौ ब्राह्मण्यप्रत्यक्षमेव। व्यक्तिप्रत्यक्ष प्रमुखजाति प्रत्यक्ष सामग्रीसम्भारादित्यपि वदन्ति। इह तु चौर्य्यमात्रस्यैव स्वत्वानुत्पादकत्वग्रहात्तादृशस्य तस्य स्वत्वोत्पादकतैव शास्त्रेण बोध्यते। न च प्रत्यक्षविरोधः। नहि प्रत्यक्षविरुद्धं शास्त्रसहस्रेणापि बोधयितुं शक्यमिति वाच्यम्। नह्यनुत्पादकत्वमपि लोकात्। तादृशेन व्यवहाराभावादन्वयव्यतिरेकगम्यास्वत्वस्यचौर्य्योपायकता नावगम्यत इत्येतावत्। तथा च पुत्रेष्ट्यादीनां लोकानवगत पुत्त्रादि जनकता यथाशास्त्रादवगम्यते तेषां दृष्टोपायान्तरजन्यतायामपि तथेहाप्यस्तु। स्वर्गाहवनीयादीनामलौकिकमात्ररूपाणां दृष्टोपायाभावोऽप्यधिक इत्यन्यदेतत्। प्रतिबन्धक प्रतिबद्धदाहादि जनकतां यथोत्तेजकमन्त्राणामथर्वादि शास्त्रगण्यालोकप्रमाणगम्यत्यात् उत्तेजकतायाश्च प्रतिबन्धकप्रतिबद्धकार्यजनक-तातिरिक्ताया अनिर्वाच्यत्वात्। शक्तिनाशतदुत्पत्तिकल्पनायामतिगौरवात्। यत्तुजन्मनास्वत्वन्निराकुर्वता जीमूतवाहनेन क्वचिज्जन्मनैवेति। जन्मनिबन्धनत्त्वात्पिता पुत्त्रस्य सम्बन्धस्य पितृमरणस्य च कारणत्वात्परम्परया वर्णनमिति प्राचीनलिखनाभिप्रायमुक्त्वा कथमुत्पादनरूपेण पितृगतव्यापारेण पुत्रेस्वत्वोत्पत्तिरित्याशङ्क्योक्तंअन्यव्यापारेणाप्यन्य-स्य स्वत्वमविरुद्धं शास्त्रमूलकत्वादत्य।दृष्टञ्च लोकेऽपि हाने हि चेतनोद्देश्यकत्यागादेव दानव्यापारात् ‘स-

म्प्रदानस्य द्रव्ये स्वामित्वम्। न च स्वीकरणात स्वत्वं स्वीकर्त्तुरेव दातृत्वापत्तेः। परस्वत्वापत्तिफलेन हि दानरूपता तच्च फलं सम्प्रदानाधीनम्। यथा हि देवतोद्देशेन त्यागं कुर्वन्नपि यजमानो न होता किन्तु तस्यैव यागस्य होमाभिधाननिमित्त भूतम्प्रक्षेपं कुर्वन्नृत्विगेव होतेत्युच्यते तद्वदत्रापि स्यात्। किञ्च। मनसा पात्र मुद्दिश्येत्यादिशास्त्रेस्वीकारात्प्रागेव दानपदं दृष्टम्। ननु ग्रहणं स्वीकारः। अभूततङ्मावेच्चि प्रयोगादस्वं स्वं कुर्वन् व्यापारः स्वीकारो भवति कथन्ततः प्रागेव स्वत्वम्। उच्यते। उत्पन्नमपि स्वत्वं सम्प्रदानव्यापारेण ममेदमिति ज्ञानेन यथेष्ट व्यवहारार्हंक्रियते इति स्वीकारशब्दार्थः। याजनाध्यापनसाहचर्याच्च प्रतिग्रहस्य स्वत्वमजनयतोऽप्यर्ज्जन रूपता न विरुद्धा। याजनादौ दक्षिणादानादेव स्वत्वात्। पितृनिधन कालीनञ्जीवनमेव वा पुत्त्रस्यार्जनम्भविष्यति। किञ्च। भ्रात्रादि धने तन्मरणात्तन्मरणकालीनजीवनाद्वाभ्रात्रन्तरादेःस्वत्वमकामेनापि वाच्यन्तद्वदिहाप्यस्त्विति। तदेतदुत्तानमति बिलसितम्। तथा हि शास्त्र मूलत्वादस्येति तावत् स्वत्वस्य लौकिकत्वसाधनादेव निराकृतम्। यदपि दृष्टश्च लोकेऽपीत्यादि तदप्यापातसुन्दरम्। न हि प्रतिग्रहीतर्य्यस्वीकुर्वत्यपि तस्य स्वत्वमुत्पद्यते। पात्रविशेषोद्देशेन त्यागे तेनास्वीकृतेऽपि तत् स्वत्वोत्पत्तौ परस्मै तस्य प्रतिपादनासम्भव प्रसङ्गात्। यदपि स्वीकर्त्तुरेवदातृत्वापत्तेरिति तदप्ययुक्तम्। परस्वत्वापत्तिफलकव्यापारस्य दानत्वात्सम्प्रदानस्वीकारानु कूलानुमानादिव्यापारस्य दानपदार्थत्वात्तत्फलोपहितता तु तस्य सम्प्रदानस्वीकारमन्तरेण न सम्भव-

तीति सम्प्रदानव्यापारस्तद्घटकः। न तु सएव दानशब्दार्थः। यदपि यथा हीत्यादि तदपि न। यजमान कर्त्तृ काग्निहोत्रहोमादौ तदविरोधात्। यत्रापि दर्शपूर्णमासादौ त्यागमात्रं यजमानेन क्रियते। चरुहवत्तस्य प्रक्षेपोऽध्वर्यादिभिस्तत्रापि विविक्तकर्तृकत्वाद्यथास्वन्तद्व्यवहाराविरोधात्। अत्यक्तस्य प्रक्षेपपरं होमशब्दवाच्यता नास्ति। स तु त्यागःस्वकर्त्तु कोऽन्यकर्त्तृ को वाऽवच्छेदकोऽस्तु। न तावता कश्चिद्दोषः। अतएव यागस्य न प्रक्षेपापेक्ष आत्मलाभो होमस्य तु तदपेक्षएव। दानस्य तु प्रतिग्रहीतव्यापार सापेक्षतैव। तदभावे दान पदार्थानिष्पत्तेः। यच्च किञ्चेत्यादि। तदपियत्किञ्चित्। उत्सर्गस्यैव तत्रविधानात् न तु दानस्य। अतएव दाता तत्फलमाप्नोतीत्युक्त मन्यथा तस्यानुवादत्वापत्तेः। दानत्वेहितस्य तत् फलाभावाप्रसक्तेस्तु तत् फलमाप्नोतीति व्यर्थमेव स्यात्। अतस्तत्र जलप्रक्षेपरूपः पात्रोद्देश्यकमुत्सर्गएव ददातिनाविवक्षितोदानत्वनिष्पत्तिस्तु तस्य सम्प्रदानकर्त्तक स्वीकारेसत्येवेति परमार्थः। अतएवोत्सृजे इत्येव तत्र सङ्कल्पवाक्यं शिष्टानान्नतु दास्येइति सम्प्रददे इति वा। अतः प्रतिग्रहादेव दानस्य फलेऽपि सम्प्रदानस्य स्वत्वमिति प्रतिग्रहस्यार्जन रूपत्वमविरुद्धम्। स्वत्वजनकोहि व्यापारोऽर्जनशब्दार्थः। अतएवाह प्रभाकरः। प्रलपितमिदं केनापि। अर्जनं स्वत्वं नापादयतीति विप्रतिषिद्धमिति। अथास्य ग्रन्थः प्रागेव विवृतः। किञ्च। प्रतिग्रहस्यममेदमिति ज्ञानरूपस्य दातृव्यापारमात्रोत्पन्नस्वत्वव्यवहारार्थतामात्र सम्पादक तायामर्जनशब्दस्य तत्र गौणता स्यात्। अन्यस्मैतत्प्रतिपादनासु

पपत्तिश्च पूर्वयुक्ता। तदस्वीकारे प्रागुत्पन्न तत् स्वत्वनाशश्च कल्प्यःस्यात्। न च दातृव्यापारात्तत् स्वत्वनाशात्साधारण सम्प्रदानस्वत्वोत्पत्तिरवश्याभ्युपेया त्वयापि। अपरथैतत्स्वत्वनाशेऽन्यस्य च स्वत्रानुत्पत्तेर्मध्यकस्य तस्य परिग्रहादिनाऽन्यस्य यस्य कस्यापि वनगतास्वामिकतृण काष्ठादाविव तत्र स्वत्वं स्यात्परिपालनाप्रसक्तिश्च। तथा मन्मतेऽपि पात्र विशेषोद्देश्यकत्यागे पात्र विशेषस्योत्पन्नमपि स्वत्वन्तदस्वीकारे नश्यत्यन्यस्य स्वीकारान्तत्योत्पद्यत इति न कोऽपि विरोधःसाधारण स्वत्वविनाशामाधारण स्वत्वोत्पत्तिरिति वाच्यम्। यतस्तत्र साधारण स्वत्वव्यवहाराभावेन तदुत्पत्तिरप्रमाणिका नैव स्वीकियते गौरवाच्च। किन्तु दातुरेव यथेष्टविनियोगार्हस्वत्वापगमेऽपि परस्वत्वापत्ति फलाभावे दानशब्दार्थानिष्यत्तेर्विधिशिरस्कफलार्थिनः प्रतिपादनावधिपरिपालनीयत्वरूपं स्वत्वमस्त्येव। यथाहुते हविषि भस्मसाद्भावावधि अस्पृश्यस्पर्शादिनिषेधाश्रयणनिमित्तदोषश्रयणानुरोधेन तथा चान्यस्वत्वानुत्पत्तावपि न मध्यकत्वपरिग्रहाद्यनिवारणादिदोषः। शिष्टाचारोऽप्युभयत्र परिपालनरूपस्तन्मुलकएव। न चोत्सगमात्रस्य तत्रत्ववाविध्यभ्य, पगमात्परस्वत्वापादनादरएव न स्यादिति वाच्यम्। तादृशोत्सर्गस्यैव विधितात्पर्यविषयत्वात्। होमस्थलेऽप्यन्यथा भस्मसाद्भावानादापत्तेः। यच्च याजनाध्यापन साहचर्य्यात्प्रतिग्रहस्यापि स्वत्वाजनकत्वेऽपि गौणमेवार्जनत्वमिति। तदप्यबोधात्। तत्र हि ये ये द्विजप्रभृतीनाम्भागास्तेषान्तेषा न्तेभ्यो भृतिरूपेणैव दक्षिणाकाले प्रतिपादनम्। परिकृत्यव्यवहारोऽप्यतएव स्वामिकर्म्मपरिक्रय इति जैमिनिसुत्रा-

दौ विस्तरेण निर्णीतएव विस्तरन्तु तत्रैव द्रष्टव्यम्। कर्म्मकरानतिजनिका भृतिरेव हि परिक्रयः। एवमध्यापनेऽपि शिष्योऽध्यापकायाध्यापनभृतिमेव तत् सन्तोषजननीमध्ययनात्तेऽर्पयन्ति। नियतभृतिकरणे तु भृतकाध्यापनमुपपातकम्। अतएव याजनाध्यापनयोः प्रतिग्रहाद्भृतिशब्दवाच्यनिर्वेशाच्च प्रुथगभिधानमुभयमिश्रितत्वात्। तेन तयोरपि मुख्यमेवार्जनत्वम्। दक्षिणात्वव्यवहारोऽप्यतएव ऋत्विगध्यापकदेये। यदपि भ्रात्रादि धनेभ्रात्रन्तरादि स्वत्वोत्पादकत्वन्तन्निधनस्य तत्कालीनभ्रात्रन्तरादि जीवनस्य वा क्लृप्तमिति पुत्रादावपि पित्रादि निधनन्तत्कालीनञ्जीवनं वा स्वत्वोत्पादकमस्तु नत्वक्लृप्तंपुत्त्रादि जन्मनैवेत्युक्तम्। तदपि जन्मनोऽपि स्वत्वोत्पादकत्वस्यावश्यकत्वोपपादनादेव परिहृतम्। यच्चोक्त मूर्द्ध्वम्पितुश्चेत्यादि मनुवचनमपि जन्मनःस्वत्वापादकत्वेनघटते। प्राग्विभागनिषेधार्थत्वे तस्यास्वार्थपरत्वापत्तेःविभागदृष्टार्थत्वेन तद्विधानकालविधानयोरसम्भवात्। विभागस्य पक्षप्राप्तस्य नियमार्थत्वसहवामविधिविरोधाद्यापत्तेः। तस्मात्पितरिसति मातरिच सत्यान्तद्धन स्वाम्याभाव उपरतयोरेव तयोः पुत्त्रादे स्तद्धनस्वाम्यमिति प्रतिप्रादनार्थमेव तद्वाच्यमिति। तदत्युत्तानाभिधानम्। अस्वार्थविधानापत्तेस्तुल्यत्वात्। प्रागस्वातन्त्र्येण कालविधिपरत्वेवाधकाभावात्। इच्छाप्राप्त कालानुवादेऽपि व्यवहारशास्त्रत्वेनाविरोधात्। एतेन जातेष्टिवच्छेषिविरोधादि निमित्तानन्तर्यवाधकाभावात्पित्रुपरमानन्तरचणएव विभागः प्रसज्येतेत्यप्यपास्तम्। कालंविधानेन पित्रुपरमस्य निमित्तत्वाबोधनाच्च। अन्यथा निमित्ते-

सति नैमित्तिकस्यावश्यकत्वात्पित्रोरुर्द्धंविभागकरणे प्रत्यवायोऽपि प्रसज्येत। पतितत्व गरिबाज्ययोःपितृस्वत्वनाशोऽप्यधिकःजन्मना स्वत्वन्तुल्यमेव। पातित्वे तु प्रायश्चित्तानाचरण एव स्वत्वनाशी विभागानर्हता च। अन्यथा द्रव्य साध्यं प्रायश्चित्तमपि पित्रोःस्वद्रव्येण न स्यात्। अतएव मातुर्निवृत्तेरजसीत्याद्यपि कालविधिपरमेव। न तु पातित्यादिवत्तत्र स्वत्वाभावः। सतु लोकत एव विभागनिषेधाच्च भ्रात्रादाविक्रेत्यादि वक्ष्यते। किञ्च। तदेवं पितृस्वत्वापगमएकः कालः अपरश्चानपगत एव पितृस्वाम्येपितुरिच्छयेति कालद्वयमित्युक्त्वामध्ये मिताक्षरोक्तं विभागकालत्रय दूषयित्वा। तस्मात्पतितत्वनिस्पृहत्योपरमैः पित्तृस्वत्वापगमएकः कालः अपरश्चमति स्वत्वेतदिच्छात इति कालद्वयमेव युक्तमित्युपसंहरता जीमूतवाहनेनैव पितृस्वत्वानपगमेऽपि पुत्राणांविभागो हीनकृतस्तत्र पुत्राणाम्पितृघने स्वत्वोत्पादः कथम्। कथञ्च जीवतोः पित्रोरस्वाम्याप्रतिपादकवचनेःसह न विरोधः। अस्वस्य विभागासम्भवात्कथन्तेषांविभागः। पितृस्वत्वापगमएवोद्धं पितुश्चेत्यनेन विवक्षितोऽतएव मृतपदम्परित्यज्योर्द्धमित्युक्तम्। पितृस्वत्वापगमोद्धेमित्यर्थः पितृस्वत्वागमश्च तन्निधनादिवत्तस्य पतितत्वनिस्पृहत्वाभ्यामपीत्यादिस्वग्रन्थेपूर्वापरविरोधश्चन कथम्। अत्राप्युपरतस्पृहत्वादिना पुत्राणां स्वत्वम्पितृधने भवतीति ज्ञापनादयमेकःकाल इति उक्तम्। तत्राप्यु परतस्पृहत्वादिनेत्यनेन पितृस्वत्वापगमएव यदि विवक्षितस्तर्ह्यनपगतेपितृस्वत्वेतदिच्छाऽपरः काल इत्यभिधानविरुद्धम्। पितृस्वत्वापगमकालीनपुत्रादि-जीवनस्यैवार्जनस्य तदीयस्य

स्वीकारात्पितृस्वत्वे सति पुत्त्राणान्तद्धन स्वत्वस्वीकारः कथम्। नह्यनाश्रमित्वमातृरजोनिवृत्तिमात्रेणपितुः स्वत्वापगमपूर्वद्रव्यस्वामिसम्बन्धाधीनन्तत् स्वाम्योपरमे यत्तद्द्रव्येस्वत्वन्तत्रानिरूढोदायशब्द इति स्वोक्तदायशब्दार्थाभावात्पितृस्वत्वानपगमे यत्रबिभागस्तत्र दायशब्दप्रयोगोऽपि दुस्य इत्यादि बहुव्याकुली स्यात्। जन्मना स्वत्वस्विकारेतु सर्वमनाकुलमित्यादिसुधीभिरुन्नेयम्। अतएव मिताक्षरादौ पूर्वस्वामिसम्बन्धाधीनं यद्धनन्तत्रस्वत्वमन्यस्य तदेव दाय शब्दवाच्यमित्युक्तन्न तु पूर्वस्वाम्योपरमोऽपि तत्र प्रवेशितः। तत्सिद्धंद्विविधो दाय इति मिताक्षरोक्तविभागकालत्रयसमर्थनन्तु तत् प्रस्तावे प्रपञ्चयिष्याम इत्यलम्प्रसक्तानुप्रसक्तविचारेणेति। यच्च जीमूतबाहनेनैब मिताक्षरोक्तम्। विभागो नाम द्रव्यममुदायविषयाणामनेक स्वाम्यानान्तदेकदेशेषुव्यवस्थापनमिति विभागशब्दार्थः। न च सम्बन्धविशेषात् सर्वेषां सर्वधनोत्पन्नस्य स्वत्वस्य द्रव्य विशेषेव्यवस्थापनं विभाग इति वाच्यमित्याशङ्क्यसम्बन्ध्यन्तरसद्भावप्रतिपक्षस्य सम्बन्धस्यावयवेष्वेव विभागव्यङ्ग्यस्वत्वापादकत्वात्। कृत्स्त्रपितृवनगतास्वत्वोत्पादविनाशकल्पनागौरवात्। यथेष्ट विनियोगफलाभावेनानुपयोगाच्चेति दूषयित्वा उच्यते। एकदेशोपात्तस्यैव भूहिरण्यादानुत्पन्नस्य स्वत्वस्व विनिगमना प्रमाणाभावेन वैशेषिक्व्यवहारानर्हतया अव्यवस्थितस्य गुटिंकापातादिना व्यञ्जनं विभागः। विशेषेण भजनं स्वत्वज्ञापनं वा विभाग इति व्युत्पत्त्ये त्युक्तम्। तद्दायतत्व ऊतोपन्यस्य दूषितम्। यत्रास्य स्वत्वन्तत्रेवगुटिकापात इति कथं वचनाभावान्निश्चेतव्यम्। यत्र हि पितुर्निधनानन्तरन्तदीयाश्वयोरेक-

मादाय भ्रात्रा यदर्जितन्तत्रार्जकस्य द्वौभागावपरस्यैकः सर्वसंमतः। तत्र यदि प्राचीनधनविभागकाले गुटिकापातादर्जकेन स एवाश्वःपश्चाल्लब्धस्तदाप्रादेशिक स्वत्ववादिमते प्रागर्ज्जकस्यैव सोऽश्व इति तेनार्जितधने कथं भ्रात्रन्तरस्य विभागः। तत्रैवास्वत्वेन तदुत्पन्ने सुतरां स्वत्वाभावादश्वस्य चाविभाज्यत्वात्। यदि वार्जकेतरेण सोऽश्वोलब्धस्तदा तेनार्जितधनस्य समभाग एव युक्तः। एकस्य स्वायासेनापरस्याश्वायासेनार्जकत्वादिति दूषिते। बस्तुतस्तु सम्बन्धाविशेषात् सर्व सम्बन्धिनां सर्बधनोत्पन्नस्य स्वस्य गुटिकापातादिना प्रादेशिकव्यवस्थापनविभागः। कृत्स्नधनगत स्वत्वोत्पादविनाशावप्य गत्या कल्पेते। संसृष्टतायां प्रादेशिकस्वत्वोत्पादकृत्स्नधन-स्वत्वोत्पादविनाशविवतच्चविभक्तोयः पुनः पित्रा भ्रात्राबैकत्र संस्थितः “पितृव्येणाथबाप्रीत्या सतु ससृष्टउच्चत” इति वृहस्पति वचने येषामेवहि पितृभ्रातृपितृव्यादीनाम्पितृपितामहोपार्जित-द्रव्येणाविभक्तं स्वत्वमुत्पत्तितः सम्भवति। तएव विभक्ताः सन्तः पुनः परस्परप्रीत्या पर्वकृतविभागन्धते। यत्तन्ममापि यन्ममधनन्तत्तवापीत्येकस्मिन् कार्य एकरूपतया स्थितास्ते संसृष्टाः। नत्वनेकरूपाणान्धनसंसर्गमात्रेण सम्भूयकारिणां वणिजामपि संसर्गित्वम्। नापि विभक्तानान्द्रव्यसंसर्गमात्रेण। प्रीति पूर्वकतादृगभिसन्धिं विनेत्यभिदधता दायभागकृतापि स्वहस्तितम्। साधारण सत्वादेवहि “बन्धुनामविभक्तानाम्भोगन्नैबप्रदापयेत्।" इति कात्यायन वचनं यथा श्रुतमेव सङ्गच्छते। यावद्भुक्तधनमात्रेस्वं स्वत्वस्यापि सत्वात्। अतएवात्रपरस्परस्य चौर्यमपि नायं धत्ते। एवञ्च।

माक्षित्वम्प्रातिभाव्यञ्च दानं ग्रहणमेव च।
विभक्ताभ्रातरः कुर्य्युर्न्नाविभक्ताः परस्परमिति।

नारदवचने परस्परनिरूपितदानादिनिषेधोऽपि न्याय मूलकएव। दानादेर पूर्वमपि देयादौ प्रतिग्रहीत्रादेः स्वत्वसत्वाद्दानप्रतिग्रहादेरसम्भवात्। अविभक्तत्वादेव चाविभक्त द्रव्येणयत्कृतं दृष्टादृष्टार्थंकर्म तत्र सर्वेषां फलभागित्वम्। तथा च नारदः। भ्रातृणामविभक्तानामेको धर्मः प्रवर्त्तते।

विभागे सति धर्मोऽपि भवेत्तेषां पृथक् पृथक्॥

व्यासोऽपि स्थावरस्य समस्तस्य गोत्रमाधारणस्य च।

नैकः कुर्य्यात्क्रन्दानं परस्परमत विना॥

अत्रसमस्तस्योति विशेषणोपादानात्कृत्स्नधनगतमेव प्रत्येकस्वत्वंक्रीयते। तस्मात्तुल्य धनसम्बन्ध्यन्तरमत्वेन सम्बन्धि सकाशात्संक्रान्तन्धनं तस्यापि ममापीति सम्बन्धिना प्रतीयते तद्विमितौ दानादिकं प्रतिषिद्धंस्वार्थम्। अतोनैकदेशगतं स्वत्वमिति। इदञ्च द्रव्यसमुदायविषयाणामनेक स्वाम्यानामेकदेशे व्यवस्थापनंविभाग इति वदतोमिताक्षराकृतोऽप्यभिमतमिति लक्ष्यते। इदन्त्विह विचार्यम्। द्रव्यसमुदायनिरूपितं स्वामिगतं स्वाम्यम्। स्वामिनिरूपितञ्च द्रव्यसमुदाये स्वत्वं व्यासज्यवृत्ति प्रत्येक वृत्तिवा। नाद्यः। एकैकस्वामित्वस्वत्वाश्रयनाशे तन्नाशस्यावशिष्टसमुदायगततदुत्पत्तेश्चकल्पनायामतिगौरवापत्तेःप्रत्येकस्य प्रत्येकद्रव्ये दानक्रयादि यथेष्ट-विनियोगानर्हत्वापत्तौव्यवहारविसम्वादापत्तेश्च। नद्वितीयः विभागे सति तावतान्नाशोत्पादकल्पनापत्तेः। स्वस्य सतोविभागो नतु विभागात् स्वत्वमिति ग्रन्थविरोधाच्च। अत्र

ब्रूमः। प्रत्येकव्रुत्तीनि सम्बधाविशेषात् स्वाम्यनि च सन्त्येव। परस्परविभागागते परस्परस्यान्यान्यदीयद्रव्येतानि नश्यन्ति परमरणपारिब्रज्यादिनेवेति न काप्यनुपपत्तिः। व्यवस्थापनमपीदमेव अन्यथैकदेश उत्पादनमित्येव वदेत्। अतएव विनाशमात्रकल्पना न तु स्वत्वान्तरोत्पाद कल्पना। जीमूतवाहनमते च कुत्र वास्तवं ममस्वत्वमिति विभागात्प्रागनि रूपणात्तदधीनश्रौतस्मार्त्तलौकिककर्म्मोच्छेदः। अनुमत्याविभागोत्तर कृतयापरस्पर द्रव्येपरस्पर स्वत्वान्तरोत्पत्ति स्वीकारे तदुत्पादविनाशकल्पनागौरवं यत्त्वयामिताक्षराकृते प्रत्यापादित ततोऽपि तवाधिकमापन्नम्। व्यवहारानुपयोगेन समुदायस्वत्वस्य निष्प्रयोजनता चयोपन्यस्ता साप्येकदेशगतस्वत्वाभ्युपगमे तुल्येवेति कृतमतिदूरंगत्वा।

                         —————♦♦—————

अथ विभागकालकर्त्तृनिरूपणम्।

तत्रमनुः। उर्द्धंपितुश्च मातुश्च समेत्य भ्रातरः समम्।

भजेरन् पैतृकं रिक्थमनीशास्तेहि जीवतोः॥

पैतृकम्पित्रोःसम्बन्धिप्रागुभयोपादानात्। अतएव पितुरुर्द्धमिति पितृवनमिभागकालः। मातुरूर्द्धमिति मातृधनविभागकालोऽभिहितः। च शब्दस्तु कालान्तरसमुच्चयार्थः नतु द्वयोरूर्द्धमिति नियमार्थः। पितृधनविभागे मातृजीवनस्थाप्रतिबन्धकत्वात्। मातृधनविभागे पितृजीवनस्य। तथा चाह संग्रहकारः।

पितृद्रव्य विभागःस्याज्जीवन्त्यामपि मातरि।

न स्वतन्त्रतया स्वाम्यंयस्मान्मातुः पतिं विना॥
मातृद्रव्यविभागोऽपि तथा पितरि जीवति।
मत्स्वपत्येषु यस्मान्न स्त्रीधनस्य पतिःपतिरिति॥

पत्युरभावेऽपि पुत्रेषु सत्सु यतोमातुस्तद्धने स्वातन्त्र्येण स्वाम्य नास्त्यतस्तस्यां जीवन्त्यामपि पितृघनविभागोयुक्तः। यतश्चापत्येषु सत्सु भार्याधने पत्युःस्वाम्याभावस्ततस्तस्मिन्जीवत्यपि पुत्राणां मातृघनविभागाधिकार इति भावः। अत श्वानीशास्तेहि जीवतोरित्यपि तत्तद्धने व्यवस्थाया अस्वातन्त्र्य प्रतिपादकन्नत्वस्वत्वप्रतिपादकं जन्मना स्वत्वस्य पुत्राणाम्पितृधने व्यवस्थापनात्। याज्ञवल्क्यः।

बिभागञ्चेत्पिता कुर्य्यात् स्वेच्छया बिभजेत्सुतान्।
ज्येष्ठं वाश्रेष्ठभागेन सर्वे वास्युःसमांशिनः॥

अत्रेच्छया पिता सुतान्बिभजेदिति बदन् जीवत्यपि पितरि पितुरिच्छा यदा सोऽपिविभागकाल इति सूचयति। तदाच पितैव विभागकर्ता। “अस्वाम्यं हि भवेदेषां निर्दोषे पितरि स्थिते” इत्यनेन पुत्राणामस्वातन्त्र्यप्रतिपादनात्। निर्दोषे इति विशेषणात्पादित्यादिर्निर्दोषवति सत्यपि पितरि पुत्राणान्तत्यारतन्त्र्याभावात्तदिच्छा यदा सोऽपि विभागकालः पुत्राणाञ्च तदाविभागकर्त्तृत्वमित्युक्तम्भवति। अन्योऽपि पुत्रेच्छया विभागकालःपितरि द्रव्यनिस्पृहे निवृत्तरमणे मात रि च निवृत्तरजस्कायाम्। यथाह नारदः।

अत ऊर्द्धम्पितुः पुत्राबिभजेयुर्द्धनं सममिति।
पित्रोरुर्द्ध्वंविभागमुक्त्वा।
मातुर्न्निवृत्तेरजसि प्रत्तासु भगिनीषु च।

निवृत्तेवापि रमणात्पितर्य्युपरतस्पृहे॥

इति जीभूतवाहनेन तु विनष्टेवाप्यशरण इति पाठोलिखितः विनष्टेपतिते अशरणे गृहस्थाश्रमरहित इति व्याख्यातञ्च। निवृत्तेवापि रमणादिति पाठान्तरमनाकरमित्यप्युक्तम्तदयुक्तं मिताक्षरादिबहुनिबन्धलिखितत्वात् पुत्रा धनं विभजेयुंरित्यनुषङ्गः। गौतम्योप्यूर्द्धंपितुः पुत्त्रारिक्थं विभजेरन्नित्युक्ता" निव्रुत्तेचापि रजसि मातुर्ज्जीबतिचेच्छतीत्याह। वृहस्पतिरपि। पित्रोरभावे भ्रातॄणां विभागः सम्प्रदर्शितः।

मातुर्निवृत्तेरजसि जीवतोरपि हास्यत इति॥

तथा सरजस्कायाप्नपि मातर्यानिच्छत्यपि पितरि दीर्घरोगग्रस्तेऽधर्मवर्त्तिनि पुत्रेच्छया विभागः। यथाह शङ्खः। अकामे पितरि ऋक्थविभागोवृद्धेविपरीतचेतसि रोगिणि चेति। नारदोऽपि। व्याधित.. कुपितश्चैव विषयासक्तमानसः।

अयथा शास्त्रकारीच न विभागे पिता प्रभुरिति॥

अत्रपित्र्युपरमएकःकालो निवृत्तेचापिरजसीतिद्वितोयो जीवति चेच्छतीति तृतीय इति मिताक्षरायाञ्जिमूतवाहनोक्तं दूषणम्। मातृरजोनिवृत्तेःपित्रुपरतस्पृहत्वबिशेषणत्वे।

त्रिंशद्वर्षो बहेकन्यां हृद्यां द्वादशवार्षिकीम्।
त्र्यष्टवर्षोऽष्टवर्षां वा धर्मेसीदति सत्वरः॥

इति मनुना विवाहकालविधानात्। वनम्यञ्चाणती व्रजेदित्याश्रमान्तरगमनशालविधानाच्च। तदारजोनिवृत्तेर्म्भातुर सम्भवे पितरि वोपरतस्पृहेवानप्रस्ये तत्पुत्राणामिच्छया विभागाभावप्रसङ्गात्। निर्विशेषणमुपरतस्पृहत्वमेव पितृधन-

विभागकाल इति तूच्यमाने अनुपरतस्पृहे पितरि पतितेऽप्यविभाग प्रसङ्गात्। अयमप्यपरःकाल इत्यभिधाने कालचतुष्टयापत्तिः पितुरुपरमः पतितत्वं निःस्पृहत्वमिच्छा चेति। तस्मात् पतितत्व निःस्पृहत्वोपरमैः पितुः स्वत्वापगम एकः कालोऽपरश्च सति तत् स्वत्वतदिच्छात इति कालद्वयमेव युक्तमिति। तन्मिताक्षराकृदाशयापरिज्ञानात्। नहि तेन कालत्रय नियमोऽभिहितः। तथेत्यादि ग्रन्थेन कालान्तरस्यानुपदमेव प्रतिपादनात्। नियमस्य निर्बीजत्वात्। पितृस्वत्वापगम एकः कालोऽपरश्चानपगत एवपितृस्वाम्ये तदिच्छात इति कालद्वयमित्यप्यशुद्धम्। निवृत्त रजस्कायां मातरित्वनन्वयापत्तेः नहि मातृनिवृत्तरजस्कतामात्रेण पित्रुस्वत्वापगमः। जन्मना स्वत्वावस्थापनात्पितृस्वत्वापगमस्य कालोपलक्षणत्वासम्भवाच्च। एवं दीर्घरोगग्रस्तत्वेऽपि न स्वत्वापगम इति कालद्वयनियमस्तवापि दुःसमाधः। इष्टापत्तौ तद्वचनविरोधः। यच्चोक्तं तेनैव। मातुर्निवृत्ते रजसीतिपितामहादिधनाभिप्रायम्। निवृत्ते रजसि पुत्त्रान्तरसम्भवाभावात्त दानीमपि पितुरिच्छयैव पुत्राणां विभागः। अनिवृत्ते रजसि क्रमागत धनविभागे पञ्चाज्जातानां वृत्तिलोपापत्तेः।

नचासौ युक्तः। ये जाता येऽप्यजाताश्च येच गर्भे व्यवस्थिताः।

वृत्तिञ्च तेऽभिकाङ्क्षन्ति वृत्तिलोपो न विद्यत इति॥

वचनात्। यतएव पितृधने कालद्वयमतएव मनु गौतमादिभिर्मृतपदम्परित्यज्योद्ध्वमित्युक्तम्। ऊर्द्ध्वाम्पितुः स्वत्वापगम इत्यर्थः। यदि चास्य पितृधन विषयता स्वात्तर्ह्यूर्द्ध्वं विभागाज्जातस्तु पित्यमेव हरेद्धन मित्यस्य निर्विषयता

भवेत्। निवृत्त रजसि पुत्त्रोत्पत्त्यसम्भवात्। मातृधन गोचरत्वञ्चास्य नाशङ्कनीयमेव। मातुरेव निर्द्धनतापत्तेः। अतो निवृत्तेरजसीति पैतामहधन विषयम्। नचेच्छामनपेक्ष्य रजोनिवृत्तिमात्रं विभागनिमित्तं सम्भवत्यनिच्छया विभा गाभावात् कस्येच्छयेत्यपेक्षायामूर्द्ध्वंपितुः पुत्त्रा रिक्थं विभजेयुर्न्निवृत्ते रजसि मातुर्जीवति चेन्च्छतीति गौतमवचनात्प्रितुरेवेच्छात इति निर्णीयत इति पितामहादि धनविभागस्थापि पित्तोरभाव इत्येकःकालः। मातुर्निवृत्ते रजसि पितुरिच्छात इति कालद्वयमेवेति। तदप्यनभियुक्त प्रमोदनम्। वृत्तिलोपापत्तेः पितृधनेऽपि तुल्यत्वात्। ऊर्द्ध्वंविभागादि त्यस्य निर्विषयत्वापत्तेरपि पितामहादि घनेऽपि तुल्यत्वात्। मस्पृहे पितरि पातित्यादि दुष्टेपितामहधनेऽपि पुत्त्रेच्छया विभागस्य सकलसम्मतत्वादवश्यवाच्यत्वाच्च। वस्तुतस्तु पितामहादिधने भूर्या पितामहोपात्तेत्यादि नासदृशस्य पितापुत्त्र स्वाम्यस्य वक्ष्यमाणत्वात् पुत्त्रेच्छयापि तस्य विभा उचित एव। यत्त्वत्रव्याख्यानान्तरमनीशत्वस्य तद्धनगोचरत्वादि कल्पनन्तत् सर्वन्तद्वचनविवेचने निराकरिष्यामः। वयन्तु स्वातन्त्र्यार्हेपितरि जीवति तदिच्छैव विभागनिमित्तम्। पातित्यपारिव्रज्यादिभिस्तदनर्हेपुत्रेच्छापि। तदुपरमे तु स्वेच्छाया निमित्तत्वमर्थसिद्धमिति कालत्रयमेवानेनप्रकारेण। अन्यथा बहूनानुपरतस्पृहत्वादीनां विकल्प समुच्चयादिककल्पमानुपपत्तौ विशेपणविशेष्यभावाद्यव्यवस्था-पत्तौबहुव्याकुलीभावः। अतएव क्वचिद्वचने केषाञ्चिदेवोपादानजनु पादानञ्चकेषाञ्चित् सङ्गच्छते। एकमूल कल्प्रनामाघवे-

नोपरतस्पृहत्वादिभिः पितुः स्वातन्त्र्याभावस्यैकस्य सर्वेरूपलक्षणात्। अनीशास्त्रेहि जीवतोःनिर्द्दोषेपितरि स्थिते। जीवतोरपि शस्यते इत्यादि वचन स्वरसोऽप्येवमेव। अतएव पित्रोर्ज्जीवतोर्भ्रातृणां सहवासोमुख्यस्तदनुमत्यादिना ज्येष्ठस्य कार्य्यक्षमस्यान्यस्य वा पुत्रस्य स्वातन्त्र्यमन्येषान्तदनुरोध वृत्तित्वमिति च पक्षद्वयमुक्तवन्तो व्यासादयः। “भ्रातृणां जीवतोःपित्रोःसहवासो विधीयते" इति व्यासः। जीवति पतरि पुत्राणामर्थादान विसर्गाक्षेपेषु न स्वातन्त्र्यम्। कामन्दीने प्रोषिते आर्त्तिङ्गतेज्येष्ठो वार्थांश्चिन्तयेदिति हारीतः। शङ्खलिखितौ तु स्पष्टतममाहतुः। पितर्य्यशक्तेकुटुम्बव्यवहारान् ज्येष्ठःप्रतिकुर्यादनन्तरो वा कार्यज्ञस्तदनुमतो नत्वकामे पितरि रिक्थविभागो वृद्धेविपरीत चेतसिदीर्घरोगिणि वा ज्येष्ठ एव पितृवर्थान्पालयेदितरेषामृक्थमूलं हि कुटुम्बमस्वतन्त्राः पितृसन्तो मातुरप्येवसवस्थितायाइति। तस्माद्यथोक्तरीत्या विभागस्य कालत्रयमेवेति ब्रूमः। अत्र मनु वचने समेत्येत्यनेन पाक्षिकं साहित्यमनूद्यते बहुत्ववत्। अन्यथैकेच्छया द्वयोश्च भ्रात्रोर्विभागो न स्यात् सममिति तु नियम्यते। यच्च विवक्ष्यामः। यत्तुपित्रोरिति द्विवचन निर्देशात्सोदरभ्रातृणां पितृधन विभागोऽपि मातुरभाव एवं कार्यः। न तु मातृधन विभागार्थं मातुरभावोपादानम्। जोवतोरपीत्यस्य मातृधन गोचरत्वानुपपत्तेरन्य धनगोचरत्वमवश्यंवाच्यमतोयत्रैवपित्रोरभावो निमित्तं तत्रैव जीवतोरपीत्यपि शब्देन जीवनस्यापि प्रशस्तत्वकीर्त्तनान्नमातुरभावो मातृधने व्याख्येयइति जीमूत वाहन आह तदसम्बद्धम्। पि-

तुश्च मानुश्चोति मनु वचने पृथङ्निर्देशादन्यथापि द्विवचनस्य विभाग सम्बन्धविवक्षामात्रेण व्याख्यानं युक्तम्। इतरथैकतरधनेऽन्यतरभावास्यादृष्टार्थत्वापत्तेः। यच्चोक्तं जीवतोरित्यादेर्म्मतृधनगोचरत्वानुपपत्तेरित्यादि। तस्यापि कोऽभिप्रायः। मातुः पितरि जीवत्यस्वातन्त्र्यान्नतद्धनगोचरत्वमिति यदि तर्हि मत्स्वपत्येषु भार्य्याधनेऽपि पितुः स्वास्यन्तदभावस्थापि तत्रानुपयोगादन्य विषयत्वापत्तिः। अभिप्रायान्तरन्त्वसम्भवदुक्तिकमेवेति वक्ष्यामः। तस्मादृष्टार्थत्वात्तत्तद्धन विषय एव तद्भावः। संग्रहकाराद्युक्तो युक्तः। यथा च पित्रोर्जीवतोभ्रातृणां सहवासो मुख्यस्तथा तदूर्द्ध्वमपि। तथा च शङ्खलिखितौ। कामं सहवसेयरेकतःसंहता वृद्धिमापद्येरन्निति। संहताःसहवसन्तो द्रव्योपचयसाहाय्यादिना परस्पर कृतेन वृद्धिमाप्नुयुरित्यर्थः। नारदोऽपि।

विभृयाद्वैकतः सर्वान् ज्येष्ठोभ्राता यथा पिता।
भ्राताशक्तः कनिष्ठो वा शक्त्यपेक्षा कुलस्थितिः॥

मनु रपि। ज्येष्ठएवतुगृह्णीयात्पित्र्यन्धनमशेषतः।

शेवास्तमुपजीवेयुर्यथैव पितरंतथा॥
ज्येष्ठेन जातमात्रेण पुत्त्री भवति मानवः।
पितृणामनृणञ्चैव स तस्मात्सर्व्वमर्हति॥
यस्मिन्नृणं संनयति येन चान्यन्त्यमश्नुते।
स एव धर्मजः पुत्रः कामजानितरान् विदुः॥
पितेव पालयेत् पुत्रान् ज्येष्ठम्भ्रातृन् यवीयमः।
पुत्त्रवच्चापि वर्त्तेरन् ज्येष्ठे भ्रातरि धर्म्मतः॥
ज्येष्ठःकुलं वर्द्धयति विनाशयति वा पुनः।

ज्येष्ठ पूज्यतमो लोके ज्येष्ठः सद्भिरिहार्हितः॥
यो ज्येष्ठो ज्येष्ठवृत्तिःस्यान्मातेव स पितेव सः।
अज्येष्ठवृत्तिर्य्यस्तु स्यात्ससम्पूज्यस्तु बन्धुवत्॥
यो लोभाद्विनि कुर्वीत ज्येष्ठो भ्रातृन्यवीयसः।

सोऽज्येष्ठः स्यादभागश्च नियन्तव्यश्च राजभिरित्यादि। वचनानि च यद्गुण ज्येष्ठवशवर्त्तितयासर्वेषां सहवासः प्रशस्तः। धर्मवृद्धि कामनया तु विभागः कार्य्यइत्याहतुर्मुनु प्रजापती।

एवं सहवसेयुर्वा पृथग्वा धर्मकाम्यया।
पृथग्विवर्द्धते धर्म स्तस्माद्धर्म्यापृथक् क्रिया॥

धर्मश्च देषाद्यर्च्चनरूपस्तस्यैव सहवासे पृथक्त्व श्रवणात्। तथा च वृहस्पतिः। एकपाकेन बसताम्पितृदेव द्विजार्च्चनम्।

एकम्भवेद्विभक्तानान्तदेव स्याद्गृहे गृहे इति।

यत्तु संग्रहकारेण अग्निहोत्रादि धर्मव्रुद्धिरपि धर्मबुद्धिशब्दोन गृह्यत इत्युक्तम्।

यदाह। क्रियते स्वं विभागेन पुत्त्राणाम्पैत्रुकन्धनम्।
स्वत्वे सति प्रवर्त्तन्ते तस्माद्धर्म्याः पृथक् क्रिया इति॥
प्रवर्त्तन्ते साध्यन्तेअग्निहोत्रादि क्रिया इति विशेष इति।

तत्तु जन्मनैव पुत्राणाम्पितृधन स्वत्वाद्विभागात्प्रागपि श्रौतस्मार्त्तकर्माधिकार प्रतिपादयद्भिरस्माभिः प्रागेव प्रत्यासि। तस्मात्पञ्चमहायज्ञादि धर्मएव धर्मशब्देनात्रग्राह्यः।

दत्तानु भगिनीषु चेतितु न कालार्थङ्किन्तु तासामवश्यं दानार्थम्। यथा

यच्छिष्टम्पिदायेभ्यो दत्तर्णम्पैतृकन्ततः।
भ्रातृभिस्तद्विभक्तव्य मृणीन स्याद्यथा पितेति।

^(_()) नारदवचन मृणादानावश्यकत्वार्थं न विभागकालार्थम्। पिता च यदि स्वेच्छया पुत्त्रान् विभजति तदापि निरङ्कुशेच्छा नोपादेया किन्तु।

ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिन इति।

पक्षयोर्मध्येयः पक्षइष्टः स ग्राह्य इति योगीश्वर वचनार्थः। ज्येष्ठं श्रेष्ठभागेन मध्यमं मध्यमभागेन। कनिष्ठं कनिष्ठभागेन। सर्वे वा ज्येष्ठादयः समांशभाजःकार्य्याइति विज्ञानेश्वराचार्य्याः। प्राच्यास्तुस्वेच्छयेति पृथक्पक्षान्तर ज्येष्ठादिभागसमभागौ च द्वौपक्षाविति पक्षत्रयमतएव ज्येष्ठं वेति प्रथमो वा शब्दःस्वेच्छयेतिपक्षापेक्षया समञ्जसो वक्ष्यमाणपक्षापेक्षत्वे क्लिष्टःस्यादित्याहुरुपपत्तिञ्च तत्रवदन्ति।

पितैव वा स्वयं पुत्त्रान् विभजे द्वयसि स्थितः।
ज्येष्ठं वा श्रेष्ठभागेन यथा वास्य मतिर्भवेदिति॥

नारदवचने। ज्येष्ठं वेत्यादिनैकं विषमविभागप्रकारमुपन्यस्य यथा वास्येत्युक्तेरन्योऽपि न्यूनाधिक भागः पितुरिच्छयास्तीति गम्यते। हारीतोऽपि। जीवन्नेव वा विभज्य वनमाश्रयेद्वृद्धाश्रमं वा गच्छेत्स्वल्पं वा संविभज्य भूयिष्ठमादाय वसेद्यद्द्युपदस्येत्पुनस्तेभ्यो गृह्णीयादिति। वृद्धाश्रमः पारिव्रज्यम्। उपदस्येद्द्रव्याभावे न क्षिणोभवेत्। अत्रापि स्वल्पं वेत्यादि पक्षान्तरसुक्तम्। तस्मात्तदेकमूलकतानुरोधेन योगीश्वरवचनेऽपि तत्संग्रहायेच्छयेति पृथकपक्षएव युक्त इति। तदस्त्। वा शब्द स्तावद्द्वेधापि व्युत्पत्तेर्न्नासञ्जसःया चोपपत्तिरुक्ता साप्ययुक्ता। यदि वचनान्तरोपात्त पक्षान्तर संग्रहार्थमिच्छयेत्यस्य

भवेदुत्तरार्द्धंव्यर्थमेवस्यादुक्त पक्षद्वयस्यापि वचनान्तरोपात्तत्वादिच्छयेत्यनेन तयोरपि संग्रह सम्भवात्। तदितरपक्षसंग्रहार्थत्वे मन्दप्रयोजनता स्यादेक। इच्छाया निरङ्कुशत्वेना नियमवारणाय वचनान्तरालोचनं विना तदर्थानिर्वाहात्। स्वोपात्त पक्षद्वये व्यवस्थानिरासार्थतयेच्छयेति व्याख्यायमाने वचनान्तरालोचनावश्यकत्वात्। न च विकल्पोक्त्यैवेच्छालाभे इच्छयेति निरर्थकमिति वाच्यम्। उत्तरार्द्धवैयर्थ्यापेक्षया व्यवस्थित विकल्प निरासाय स्ववाक्योपात्तपक्षद्वय विषयतया तदनुवादस्यैवोपपन्नतरत्वात् नारदाद्येक मूलकता तु विज्ञानेश्वर व्याख्यानेऽपि नापैति। तदुक्तपक्षद्वयस्य वचनान्तरेष्वप्युपादानात्। न च निरर्मालेच्छामात्रमेव पक्षान्तरं योगीश्वरवचनार्थोऽस्त्विति वाच्यम्।

अयथा शास्त्रकारी च न विभागे पिता प्रभरित्यस्य। निर्विषयतापत्तेः। इच्छामत्रस्य शास्त्रीयत्वेऽयथा शास्त्रकारित्वाप्रसक्तेः।

जीवद्विभागे तु पिता नैकं पुत्रं विशेषयेत्।
निर्भाजोन्नचैवैकमकस्मात्कारणं विनेति।

कात्यायनवचसोऽपि निर्विषयता स्यात् इच्छाया एककारत्वात्। न विशेषयेच्छास्त्रीय ज्येष्ठभागाद्यतिरिक्तैच्छिक-विशेषवन्तन्नकुर्य्यात् कारणञ्च शास्त्रोक्तं पातित्यादिकं विनाऽकस्मात् क्रोधात् सुभगा पुत्त्र स्नेहादिना वा न निर्माजयेद्भागरहितं न कुर्य्यादित्यर्थः। यत्तु

न्यूनाधिकविभक्तानान्धर्म्यःपितृकृतःस्मृतः।

इति योगीश्वरवचनन्तदपि धर्म्योधर्म्मादनपेतश्चेत्पित्राकृतः

कृतएव स्मृतीन निवर्त्तते। अधर्मस्त्वयथाशास्त्रकृतो निवर्त्तत एवेत्यभि प्राय इनि विज्ञानयोगिभिरेव व्याख्यातं। व्याधितः कुपितश्चैवेत्यादि वचनानुरोधात्। एवम्।

समन्यूनाधिका भागःपित्रा येषां प्रकल्पिताः।
तथैव ते पालनीया विनेयास्तेस्युरन्यथा।
पित्रैव तु विभक्ताये समन्यूनाधिकैर्द्धनैः।

तेषां स एव धर्म्यः स्यात्सर्वस्य हि पिता प्रभुरिति। वृहस्पति नारद वचने अपि व्याख्येये। श्रेष्ठादि विभागेऽपि पित्रा ज्येष्ठादिभ्योदत्तेऽन्यैरनुशयो न कार्य्यः। समांश विभागे वा ज्येष्ठदिभिरिति तात्पर्य्यार्थः अतएव नारदस्तेषां स एव धर्म्यःस्यादित्याह। श्रेष्ठादि भागश्च मनुनोक्तः।

ज्येष्ठस्यविंश उद्धारःसर्व द्रव्याच्च यद्वरम्।
ततोऽर्द्धम्मध्यमस्य स्यात्तुरीयन्तु यवीयम इति॥

सप्रांश पक्षं बौधायन आह। पुत्त्रेभ्यो दाय व्यभजदिति सोंऽशःसर्वेषामविशेषादिति मनुः। पुत्त्रेभ्यो दायंव्यभजदिति श्रुतौविशेषाश्रवणात् सर्वेषाम्पुत्त्राणां समोंऽशइत्यर्थः यदि पिता स्वेच्छया समांशेन पुत्त्रान्विभजते तदा स्वपत्नीभ्यः पुत्त्र सममशंदद्यादित्याह याज्ञवल्क्यः।

यदि कुर्य्यात् समामंशान् पत्न्यःकार्य्यःसमांशिकाः।
न दत्तं स्त्रीधनं यासाम्भर्वा वा श्वशुरेण वा॥

यासां भर्त्रा श्वशुरेण वा स्त्रिधनं प्रीत्यादिना न दत्तम्भर्त्रादि ग्रहणमुपलक्षणञ्च वक्ष्यमाण स्त्रीधनशून्या इत्यर्थः। तासाम्पत्नीनां पुत्त्र समांश भागमात्रं नियम्यते। तथा च यदा श्रेष्ठभागादिनापि पिता पुत्त्रान् विभजति तदापि श्रेष्ठभा-

गाद्युद्धृत्योद्धृतोद्धाराद्द्रव्यसमुदायात् पुत्त्र समाने वांशान् पत्न्योलभन्ते न स्वज्येष्ठभागादिकमित्यर्थः पर्य्यवस्यति। यस्तु पत्न्याःस्वोद्धारः परीभाण्डादिस्तमपि पत्नी लभते। तथा चापस्तम्बः। परीभाण्डञ्च गृहेऽलङ्कारो भार्य्यायाइति। परीभाण्डम्भोजन पात्रादि यदसाधारणं यस्या अलङ्कारोऽप्य साधारणस्तद्विवेचयिष्यते। न च पक्षद्वयेऽप्येतावता पुत्त्र समांशित्वंपत्नीनां विज्ञानेश्वरेणोक्तन्तर्हि यदि कुर्य्यात् समानंशानिति समांशानुवादो व्यर्थः पत्न्योज्येष्ठाशादि न लभन्ते इत्येतावन्मात्रमेव वाच्यमिति युक्तम्। यतः।

एवं समुद्धतोद्धारेसमानंशान् प्रकल्पयेत्।
उद्धारेऽनु द्धृतेत्वेषामियं स्यादशकल्पना॥
एकाधिकं हरे ज्ज्येष्ठः पुत्त्रोऽध्यर्द्ध्यन्ततोऽनुजः।
अंश मशंयवीयांस इति धर्म्मोव्यवस्थित इति॥

मनुना द्व्यंशीवा पूर्वजः स्यादेकैकमितरेषामिति। गौतमेन अथ भ्रातृणांदायभागोद्व्यंशां हरेज्ज्येष्ठोगवश्वस्य चात्रदशनमजावयो गृहश्चकनिष्ठस्य कार्णाय संगृहोपकरणानि चमध्यमस्येति। वशिष्ठेन।

ज्येष्टस्यां शोऽधिको देयः कनिष्ठस्य वरः स्मृतः।
समांशभाजःशेषाः स्युर प्रत्ता भगिनी तथेति ॥

नारदेन चोद्धारमृते विषमभागमात्र मुक्तन्तद्यदाद्रियतेतदा पत्नीनामंशाभाव प्रतिपादनार्थंयदि कुर्य्यात्समानं शनित्युक्तमिति न दोषः। अतएव

भ्रातृणाम विभक्तानां यद्युत्थानम्भवेत्सह।
न तत्रविषमम्भागम्पिता दद्यात्कथञ्चनेति।

मनु ना सर्वेषां भ्रातॄणान्द्रव्यार्जने यदि सह समानमेवोत्थानमुद्योगो भवेत्तदापितुर्विषमविभागदान प्रतिषेधकमनुवचन व्याख्याने जीमूतवाहनेनोक्त मुद्धारस्तु पित्रा दातव्यएव। तस्य विभागरूपत्वाभावात्। न्यूनाधिक विभागस्यैव निषेधादिति। तस्माञ्ज्येष्ठं वा श्रेष्ठभागेनेति याज्ञवल्क्याद्युक्त उद्धारेऽपि समांश भागिता पुत्राणामस्त्येवेति तत्रापीदं वचनं प्रवर्त्तत एव। द्व्यंशादि पक्षेपरं न प्रवर्त्तत इति विज्ञान योगिनामाशयः दत्ते तु स्त्रीधने दत्तेत्वर्द्धंप्रकल्पयेदित्यत्रार्द्धदानं वक्ष्यते। यद्यपि तदाधिवेदनिके भर्त्रादीयमानेवक्ष्यते तथाप्याकाङ्क्षायां समानन्यायत्वादत्रापि योज्यम्। बौधायनः॥

बहूनामेकधर्म्माणामेकस्यापि यदुच्यते।
सर्वेषामेव तत् कुर्य्यादेकरूपाहि ते स्मृता इति॥

भ्रातृणाम विभक्तानामित्यादि मनु वाक्यं सहोत्थानं सर्वेषां विभाग प्रार्थना यदि भवतीति जीमूतवाहनेनतदनुयायिना दायतत्व कृता च व्याख्यातम्। यदि पुनःपितरि जीवति पुत्त्राएव विभागमर्थयन्ते तदा विषमविभागःपित्रान दातव्य इति वदता तत्र सहशब्दवैयर्थ्यंउत्थान शब्दस्य चोद्योगवाचिनोऽपि भाग प्रार्थनापरत्वमन्याय मित्यस्मद्व्याख्यान मेवादर्त्तव्यम्। तथा च।

सामान्यार्थ समुत्थाने विभागस्तु समः स्मृतः।

इति योगीश्वरवचः सम्वादोऽपि लभ्यते। तस्यास्मदभिमतार्थ तयैवोपपत्तेः। दत्तेत्वर्द्धमित्यत्राप्यर्द्धशब्दः समप्रविभागवचनो न भवति अतश्चयावता पूर्वदत्तमिदानीन्दीयमानञ्च

समम्भवति तावद्देयमिति मिताक्षरायामुक्तं तत्रायमाशयः यद्यपि नपुंसकस्यार्द्धशब्दस्य पुंस्यर्द्धोऽर्द्धंसमेंऽशक इति कोषात्ममांश वाचित्वमस्ति। तथापि कदाचित्तासां पुत्त्राधिक धनत्वङ्कदाचित्तदूनधनत्वमव्यवस्थित मर्द्धनियमस्य चादृष्टार्थत्वं मा प्रमाङ्क्षीदिति पुत्त्र समांशितायामेवतात्पर्य्यमिति। अत्र मदन रत्नाकर आह। पत्न्यइति बहुवचनात्प्रतिपत्नि समानंशान् पिता गृह्णीयान्नतु ताभ्यः पृथक् कृत्यांशो दातव्यः। जायापत्योर्विभागो न विद्यत इति हारीतवचन विरोधापत्तेरिति। तन्न।नात्र जायापत्योर्विभाग उच्यते येन हारीतवचन विरोधःस्यात्किन्तु पत्यैव पुत्रविभाग समये ताभ्यस्तत्समांशदानम्प्रीति दानवत्। अतएव स्त्रीधने दत्तेत्वर्द्धमित्युक्तमिति न कोऽपि दोषः। यस्तु जीवति पितरि पुत्रेच्छया विभागः स वैषम्याश्रवणान्मातुर्निवृत्तेरजसीति मनुवचने समशब्दामुषङ्गाच्च समएवोऽपि पितुरुर्द्ध्वंविभागः सोऽपि समएव पूर्वोदाहृतेमनुवचने सममित्यभिधानात्। हारीतोऽपि। समानोमृते पितरि रिक्थविभागः पैठीनसिरपि। पैतृके विभज्य माने दायाद्येभ्रातृणां समोविभागः याज्ञवल्क्योऽपि

विभजेरन् सुताः पित्रोरुर्ध्वमृक्थमृणंसमम्।

पित्रोरुर्द्ध्वमिति कालःसुता इति कर्त्तारः सममिति प्रकारनियम इति मिताक्षरा। ननु मनुनैव पितुरुर्द्ध्वंविभागमुपक्रम्य।

ज्येष्ठएव तु गृह्णीयात्पित्र्यंधनमशेषतः।
शेषास्तमुपजीवेयुर्यथैव पितरन्तयेति॥

सहवासपक्षं मुख्यमुक्त्वा ज्येष्ठस्यविंशउद्धार इत्यादिना

विषमविभागोऽप्युक्तस्तत्कथं समनियम इति चेत्। उच्यते। यद्यप्ययं विषमभागोजीवत्यजीवति च पितरि शास्त्र दृष्टस्तथापि वचनान्तरानुरोधात्कलौ सम एवेति नियमः।

अस्वर्ग्यंलोकविद्विष्टं धर्ममप्याचरेन्नत्विति।

योगीश्वर वचनात्। अत्रलोकपदेन युगमुच्यते। युगान्तरे धर्म्यमपि युगान्तरे यद्विद्विष्टं प्रतिषिद्धन्तन्नाचरेदित्यर्थः। अन्यथा धर्म्य त्वास्वर्ग्यत्वयोर्व्याघातः। शास्त्र विहिते तदभिज्ञ विद्वेषोवाधित एव। तदन भिज्ञया मरजनविद्वेषस्तु ना स्वर्ग्यत्वापादकोऽग्नीसोमादि हिंसादावति प्रसङ्गादित्यादि दूषणं स्यात्। अतएव मिताक्षरायाम्मधुपर्क्वपशुबध-गवालम्मादिकलिवर्ज्यमिव लोक विद्विष्टत्वेनोदाहृतम्। कलिवर्ज्येषु च पुनरुद्वाहादि कमक्षतादीनां यत्त्रोक्तन्तत्र ज्येष्ठांशाद्यृद्धारादिकमपि। यथा चादिपुराणे।

ऊढायाःपुनरुद्वाहो ज्येष्ठांशो गोबधस्तथा।
कलौ पञ्च न कुर्वीत भ्रातृजाया कमण्डलुः।

स्मृति संग्रहेऽपि।

यथा नियोगधर्म्मोनो नानुवध्न्याबधोपि वा।
तथोद्धार विभागोऽपि नैव संप्रतिवर्त्तते।

नियोगधर्मोभ्रातृभार्यायां वाग्दत्तायां मृतपतिकायां गुर्वादिनियोगेन विधिनागमनम्। मैत्रावरुणीङ्गामनु वध्न्यां वशामालभेतेति विहितोगोबधः। सम्प्रति कलौ अतएवापस्तम्बो जीवन् पुत्रेभ्योदायं विभजेत्सममिति स्वमतमुक्त्वाज्येष्ठोदा याद इत्येक इति कृत्स्नधनग्रहणं ज्येष्ठस्येत्येकीयमतमुपन्यस्य देशविशेषे सुवर्णाङ्गावः कृष्णम्भौमं ज्येष्ठस्य रथः परीभाण्डम्पितु-

गृहेऽलङ्कारोभार्य्यायाज्ञाति धनञ्चेत्येकमतत्वेनैवोद्धार विभागं दर्शयित्वा तच्छास्त्रविप्रतिषिद्धमिति निराकृतवान्। शास्त्रवि प्रतिषेधञ्च स्वयमेव विवृतवान्। मनुः।

पुत्त्रेभ्योदायं व्यभजदित्य विशेषेण श्रूयत इति।

तस्मान्न विषमविभागः शास्त्र दृष्टोऽपि कलावनुष्ठेयः। यत्तु मिताक्षराकृता श्रुतिविरोधेत्युक्तं तद्विचार्यम्। श्रुतिविरोधेहि सति युगान्तरेऽपि तस्याननुष्ठाने तद्बोधक वचनानां सर्वथाऽप्रामाण्यमेव स्यादिति कलिवर्ज्य तयोपन्यासो विरुद्धः। नवात्यन्तं श्रुतिविरोधोऽपि। अविशेष श्रवणे सति समंस्याद श्रुतित्वादितिन्याय सभ्यत्वात्समत्वस्य। स्मृति चन्द्रिकायान्तु बौधायनोदाहृतं विषमविभाग प्रतिपादकमपि युत्यन्तरं लिखितम्। ज्येष्ठत्वादाधिक्येऽपि श्रुत्यन्तरमित्याह स एव।धनमेक मेकमुद्धरेत्ज्येष्ठः तस्मात्ज्योऽष्ठं पुत्त्रं धनेन निरवसाययतीति श्रुतेरिति। धनमेक मेकमिति वदन् श्रुतिवाक्यगतं धनेनेत्येकवचनं विवक्षितमिति सूचयति निरवसाययतीति श्रुतेरिति। धनमेक मेकमिति वदन् श्रुतिवाक्यगतंधनेनेत्येकवचनं विवक्षितमिति सूचयतिनिरवसाययति तोषयतित्यर्थ इति ग्रन्थेन। जीमूतवाहनादयस्तु यदा भक्त्यतिशयादिनाभ्रातृृणामनुमति स्तदोद्धारादि र्विषमभागोऽतएवाद्यतनानाम्भक्त्याद्यभावादुद्वाराद्यर्हज्येष्ठाभावाच्च समभागएव लोके दृश्यते इत्यादिना ग्रन्थेनानुमत्यननुमतिभ्यां विषम समभागयोर्व्यवस्थामाहुःतत्तुतथा सति पुत्रेच्छाया एवं प्रयोजकचापत्तेःपूर्वार्द्धविरोधादमादेयम्।

पित्रिच्छायाःस्वतन्त्रपक्षान्तर परत्वन्तु प्रागेव निरासि।

पिता पुत्रेभ्यः स्वार्जितधनविभागन्ददता स्वयमंशद्वयं ग्राह्यमित्याह नारदः।

द्वावंशौ प्रतिपाद्येत विभजन्त्रात्मनः पितेति।

बृहस्पतिरपि। जीवद्विभागे तु पिता गृह्णीतांशद्वयं स्वयमिति। पितुरंशद्वय ग्रहणमेकपुत्र विषयमित्याहतुः शङ्ख लिखितौ।

स यद्येकपुत्रःस्याद्वौभागावात्मनः कुर्य्यात्।

व्यवहार पारिजातकारइदं वचन मेवं व्याचष्ट। एकशब्दोऽत्रश्रेष्ठवाची। तथा च यदि पुत्रो गुणवत्तया धनार्ज्जन शक्तस्तदा तेन सह विभागे पित्रांशद्वयं ग्राह्यमिति। जीमुतवाहनस्तु एकस्य पुत्रःएकपुत्र एकपितृक औरस इति यावत्। न पुनः एकः पुत्रोयस्येति बहुव्रीहि स्तस्यान्यपदार्थ प्राधान्येन षष्ठीतत्पुरुषाद्दुर्वलत्वात्। तथा च क्षेत्रजस्य व्यावृत्तिस्तस्य द्विपितृकत्वात्।

तथाचौरसपुत्ररूपः पिता व पितृधने भागद्वयं गृह्णीयान्नतु क्षेत्रजा इति व्याचस्त्र्यौ। तदसत्। तथा सति पितामहधनगोचरतास्य स्यात्तत्र च सदृशं स्वाम्यम्पितापुत्रयोरित्यौ रमस्यापि पितुः पुत्र समांशताया व्यवस्थापयिष्यमाणत्वात्। तथा चागत्या बहुब्रीहिरेवास्थेयः। मिताक्षराकृता त्विदं वचनमनादृतमेव।

कात्यायनः।द्व्यशहरोऽर्द्धहरो वा पुत्र वित्तार्ज्जनात्पिता।

मातापि पितरि प्रेते पुत्रतुल्यांश भागिनीति॥

अत्र जीमूतवाहनः। पुत्र्स्य वित्तार्ज्जनात् पुत्रार्जितेऽपि पित्त्रे स्वार्जित इव पितुरंश द्वयमित्यस्यार्थो न तु पुत्रश्च वित्तञ्चतयोरर्जनादिति। अनर्जित पुत्रस्यापि भ्रातृभिर्विभागे

वित्तार्जकतयांशद्वयस्येष्टत्वात्। अतो विभागार्हसम्बन्धिनि विद्यमानेऽर्जकस्य द्व्यंशादि हरत्वममति तु सर्व्व हरत्वमिति वाच्यन्तथा सति पितृपुत्रपदयोः प्रमत्तगीतता स्यात्। किञ्चार्ज्जनं स्वत्वहेतुभूतो व्यापारः। अर्ज्जनं स्वत्वन्नापादयतीति विप्रतिषिद्ध मित्यभिधानात्। नच पुत्रेषुस्वत्वमस्तीति सर्वस्वदाने दर्शितमतस्तत्र गौणमर्ज्जनपदं वित्तेच मुख्यमिति सकृदुच्चरिते वैरूप्यमयुक्तम्। न च पुत्रस्यार्ज्जकत्वादेवांशद्वयप्राप्तेःपितुषास्माद्वचनादृतेऽपि वचनान्तरादेव भागद्वय सिद्धेर्वचनमिद मनर्थकमिति वाच्यम्। एतद्वचनमन्तरेणापि पुत्रधने पितुर्भागद्वयाप्राप्तोरस्य सार्थक्यात् इत्याह। तन्न। द्वन्द्वापेक्षया षष्ठ्यर्थ लक्षणावतो भवदुक्तसमासस्यायुक्तत्वात्। यच्चानर्जित पुत्रस्येत्यादि द्वन्द्वदूषणत्तदत्यसम्बन्धम्। भ्रातृभागाद्य विषयकत्वादस्य। पितृधन प्रस्तावात्। न चैवम्पुत्रपदं व्यर्थं वित्तार्जनस्येव द्व्यंश हरत्वे हेतुत्वोपपत्तेरिति वाच्यम् अस्वातन्त्र्यार्थत्वात्। यतः पुत्रोऽपि वित्तवत्तेनैवार्जितस्तेन परतन्त्रःस्वार्जितधने पितु रंशद्वय ग्रहणावग्रहो न भवतीत्यत्र तात्पर्य्यम्। यच्चार्जनपद वैरुप्यन्तप्यसत्। पुत्रेऽपि पितृस्वस्येष्टत्वात्। न च सर्वस्वदाननय विरोधः। पित्राद्यस्वत्वे तस्य तात्पर्य्यात्। पुत्राद्यदानस्य तन्नय सिद्धान्तस्य भाष्य प्रदर्शित श्चोदकविरोध युक्ति सिद्धत्वात्। अतएव पुत्र कन्यादानादि विधयो मुख्यार्था एव न पुत्रादिपरतन्त्रीकरणरूप गौणदानाद्यर्थः। इदञ्च पितु रंशद्वयोपादानं स्वार्जितविषयन्न पित्रार्जितविषयम्।

भूर्या पितामहोपात्ता निबन्धो द्रव्यमेव वा।

तत्रस्यात्मदृशंस्वाम्यं पितुः पुत्रस्य चोभयोरिति। याज्ञवल्क्येन तत्रपितापुत्रयोः समस्वाम्याभिधानात्समांशभागित्वमेव। तस्य ह्ययमर्थः। भूः शालिक्षेत्रादिका। निबन्धो राज्ञाममुकस्यैकस्मिन् पर्णभरकक्रमुक भरकादावियन्ति पर्णादीनि देयानीति शासनारूढतया यद्वृत्तित्वे न दीयते तदुच्यते। तथा द्रव्यं सुवर्णादि तत्रपितुः पुत्रस्य च स्वाम्यंहि शब्दोन प्रसिद्धमित्युच्यते। जन्मनैव स्वत्वात्। तदपि सदृशन्तुल्यमपोऽत्र पुत्राणां न पित्रर्जित इव पितृपारतन्त्र्यमिति तदनिच्छयापि विभागांशद्वयनियमश्चपितुर्नास्तीति वृहस्पतिः। द्रव्येपितामहोपात्ते स्थावरे जङ्गमे तथा।

सममंशित्व माख्यातं पितुः पुत्रस्य चैव हि॥

पित्रासम एवांशो ग्राह्यो न तु स्वार्जितवदंशद्वयं विषमविभाग पक्षात्रयणं वेत्यर्थ इति मदनरत्नकारः। जीमूतवाहनस्तु यत्र द्वयो भ्रार्त्रोर्ज्जीवत्येव पितर्य्येकः पुत्रमुत्पाद्य नष्टोऽन्यश्चजीवति। पश्चात्पितापि मृतस्तत्र पितृधर्न प्रत्यासत्तेः पुत्रस्यैव प्राप्नोति न तु प्राङ्मृतपितृक पौत्रस्य विप्रकर्षात्तद्वाधार्थं सदृशं साम्यमिति वचनम्। यथा पैतामहधने पितुः साम्यं तत्पुत्रस्य साम्यन्तथा तत्पौत्रस्यापि न तु सन्निकर्ष विप्रकर्षयुक्तो विशेषः। पार्वणविधिना पिण्डदातृत्वेन द्वयोरविशेषादित्यभिप्रायः। अतएव मृतपितृकः प्रपौत्रोऽपि प्रपितामहधने पुत्र पौत्राभ्यां सह तुल्यवदेव स्वामी। पिण्डदानाद्यविशेषात्। जीवति तु पितरि पुत्राणान्तद्धन स्वाम्ये सपुत्र भ्रातृद्वय विभागे तत्पुत्राणामपि विभागःस्यात् स्वामित्व साम्यात्। तस्मान्मृतपितृक पौत्रविषयकमिदं न पौत्र-

विषयकन्न चाप्रक्रान्तत्वादनर्थकत्वप्रागनेकपितृकाणामेव प्रक्रमात्। सादृश्यवचनन्तु स्वार्जितवत्पित्तिच्छया विभागा भावार्थम्। यथाह विष्णुः। पिता चेत्पुत्रान् विभजेत्तस्य स्वेच्छा स्वयमुपात्तोऽर्थे।

पैतामहे तु पिता पुत्रयोस्तुल्यं साम्यमिति॥

अतः स्वोपात्ते पिता न्यूनाधिकभागैः पुत्रानिच्छया विभजतु पैतामहे तु तुल्य स्वच्छन्दवृत्तिता। एतावतैवैतद्वचनोपपत्तौ सामान्य प्राप्तम्पित्रिच्छाया विभागकालत्वं पितुश्चभागद्वयं न निषिध्यते। जीवत्पितृक पौत्रविषयतापिवाधारेश्वरानुमत-स्यास्तान्तथापीच्छाकृत न्यूनाधिकभागनिशमार्थतैव। न तु पुत्रेच्छया विभागोंऽशद्वयाभावश्च पितुरनेन बोध्यते।

किञ्च जन्मविद्यागुण ज्येष्ठेह्यंशन्दायादवाप्नुयात्।
समांशभागिनस्त्वन्ये तेषां पितृसमस्तुस इति।

बृहस्पतिवचनात्पितापि स्वपितृकृत नरकनिवर्त्तको गुणज्येष्ठः स्वभ्रातृभिःसह विभागे पितृसमत्वेन यत्रांशद्वयभाक्तंत्र पुत्रैःसह विभागे पितैवांशद्वयं पैतामहधनेनाप्नोति स्वद्वारकएव पुत्राणान्तद्धन सम्बन्धवेशनीति भवतो सुमीनाञ्च वचनमनुचितम्। तस्मादिच्छया विभजेत्सुतानिति पित्रिच्छाया विभागकालत्वंद्वावंशौप्रतिपद्येतेत्यादि बचनोक्तं पितुर्भागद्वयञ्चाविशिष्टं पितामहधनेऽपि। न्यूनाधिक भागमात्रन्तु पुत्रेषु स्वाछन्देन भवति।

द्रव्ये पैतामहोपात्तेस्थावरे जङ्गमे तथा॥
सक्षमं शित्वराख्यापितुःपुत्रस्य चैवहीति।

वृहस्पतिना पितापुत्रयोरंशसाम्यस्यैवाहत्य विधानात्कयम्पि तुरत्राप्यंशद्वयमिति चेन्न। अंशित्वमंग कर्त्तृत्वंसमन्नतु स्वेच्छया स्वार्जितवन्न्युनाधिकांशकर्त्तृत्वमिति तदर्थात्। नत्वंशवत्त्व सममिति। स यद्येकपुत्रःस्यादित्येकपुत्र पदस्योरस परत्वस्योक्तावाद्द्विपितृकक्षेत्रजादिरूपपित्राभिप्रायं वा समांशित्वाभिधानमित्याह। तदनादेयम्। सन्दर्भ विरोधात्। तथाहि। अनेकपितृकाणाम्पितृद्वारकभागकल्पना मभिधायानन्तरं भूर्या पितामहोपात्तेत्युक्तन्तत्रास्वाम्यमेव पौत्राणाम्पैतामहे धने पितरि जीवति विभागाभावो वा। तदिच्छूयैव वा स्वार्जितवद्विभाग इति शङ्कात्रयमेवोत्तिष्ठति। यन्मिताक्षरायामुक्तं तन्निराकरणार्थमेवेदम्बचनन्तद्व्याख्यानरीत्या सङ्गच्छते। प्रमीतपितृक पौत्रविषयकत्वेन सङ्कोचोऽस्य कुतः। न च धारेश्वरावधारितरीत्या पौत्रमात्रविषकतायामपि न्यूनाधिकभागमात्रस्य पित्रिच्छाकृत निरामायेदं न पित्रिच्छाकाचतदियभागद्वयस्याविशेष प्रवृत्तस्येति विवाच्यम् विनिगमनाविरहात्। किञ्च। पित्रिच्छाया हेतुत्वमिच्छया विभजेदिति तृतीया निर्देशाच्छाब्दमार्थिकन्तुतस्याविभागकालोपलक्षणत्वम्। तत्र शाब्दं हेतुम्बाधनानेनानेनार्थिकं कालोपलक्षणत्वन्नवाध्यन्त इति चित्रम्। सति च स्वाम्यासाम्ये पुत्रेच्छाया निमित्तत्वन्त कृतश्चतस्याः कालोपलक्षणचङ्गले पातिकपाय तद्दुर्वारम्। ननु पितुरंशद्वयम्पितृत्व प्रयुक्तन्नस्वाम्याधिक्यप्रयुक्तं नाप्यर्जकत्वप्रयुक्तं तस्य येन चैषां स्वयमुपार्जितं स्यात्सद्व्यंशमेवलभेतेति वाशिष्ठ साधारणवचनादेव सिद्धे द्वावंशौप्रतिपद्येते इति विशेषत्वचनानर्थक्य प्रसङ्गात्। तस्मात्पित्रर्जि-

तेऽपि ज्येष्ठपुत्रत्वप्रयुक्तं यथा तस्यांशद्वयं विशेष वचनात्तया पैतामहे पितुरपि। अतएवास्मन्मते पुत्रार्जितेऽपि पितुरंद्वयमिति चेत्। सत्यम्।

परन्तुनिःसङ्कोच प्रवृत्तस्वाम्यसाम्यवचने न तद्वध्यते॥

पुत्रार्जिते तु पितुरंशद्वयाभावो भवदुदाहृत पुत्रवित्तार्जनादिति वचनस्य भवदुक्तार्थ दूषणात्प्रागेव व्यवस्थापितः। न च तद्वचनादश द्वयाभावेऽपि सामान्यवचनादेव पुत्रार्जितेऽपि पितुरंशद्वयमायात्विति वाच्यम्। वित्तार्जनस्य तत्र हेतुत्वोपन्यासवैयर्थ्य प्रसङ्गात्। न च तदर्थवादमात्रमन्यथार्जकत्वप्रयुक्त भागद्वयस्य वशिष्ठवचनादेव सिद्धेर्विशेषे वचनानर्थक्यापत्तिरिति वाच्यम्। यतस्तथार्जकत्वप्रयुक्त पुत्रांशद्वयस्यावारणात् पितृत्वप्रयुक्त पित्रं शद्वयेऽपि भागसाम्यएव पर्य्यवसनम्भवेन्न तु भवदभिमत् पुत्रापेक्षया पितुरंशाधिक्यन्तथाहत्य वचनाभावात्॥ यच्च किञ्चेत्यादिनानौचित्य-मुक्तन्तन्नकिञ्चित्।

वाचनिक साम्येऽनौचित्याप्रसक्तेः। ज्येष्ठस्य ज्येष्ठत्व प्रयुक्तमंशद्वयं पितृत्वप्रयुक्तञ्च पितुरिति ज्येष्ठपुत्र साम्यापत्तेस्त्वयाप्यनौचित्यस्य दुर्वारत्वात्। मदनरत्नधृत कात्यायनवचनानान्तु सर्वेषां भातृणाम्पिता पुत्राणाञ्च समांशग्रहणमेव मुख्यमिति प्रतीयते।

सकलं द्रव्यजातं यद्भागैर्गृह्णन्ति तत्समैः।
पितरौ भ्रातरश्चैव विभागी धर्म्य उच्यत इति॥

अतएव योगीश्वरोऽपि सर्वेवा स्युःसमांशिन इति सर्वपदं प्रायुङ्क्त अन्यथा समांशिनो वा कुर्वीत सुतानिति वदेत्।

यस्तु दिभागिनां मध्येस्वव्यवसायेन जीवन समर्थःपितृवनादि विभागन्न जिवृक्षति तम्प्रप्रत्याह मनुः।

भ्रातॄणां यस्तुनेहेत धनं शक्तः स्वकर्मणा।
स निर्वास्यःस्वकादंशात्किञ्चिद्दत्त्वोप जीवनम्॥

याज्ञवल्क्योऽपि। शक्तस्थानीहमानस्य किञ्चिद्दत्त्वा पृथक् क्रिया।

निर्वास्यो निःसम्बन्धी करणीयः। पृथक् क्रियेत्यस्याप्य यमेवार्थः। किञ्चिद्दत्त्वेति विभागचिह्नत्वेन किञ्चिदसारमपि दत्त्वेत्यर्थः। तत् पुत्राणां दायजिवृक्षानिवृत्त्यर्थञ्चेदम्। हलायुधस्तु।

कुटुम्बार्थेषु चोद्युक्तस्तत्कार्य्यंकुरुते तु यः।
स भ्रातृभिर्वृहणीयोग्रासाच्छादन वाहनैरिति।

नारद वचनैकवाक्यतालाभेन मनु वचने स निर्वात्य इति पाठंप्रकल्प्य सभ्रातृभिर्गृहीतभागैःस स्वभागाद्धननाकृष्य पूरणीय इत्यर्थ इति व्याख्यातवान्। तत्तुनेहेतेत्यादि पदवैयर्थ्यापत्तेरुपेक्ष्यम्। मेधातिथि प्रमुखाचार्यानाहततया पाठकल्पनानौचित्याच्च। पृथक् क्रियेति स्पष्टवचन सम्बादाच्च। प्रकाशकारस्तुयो भागिषु धनार्थं व्यापृतेषु प्रमादालस्यादिना नेहेत न व्या प्रियेत साहाय्यन्नकुर्य्यात्। स्वकर्मणा स्वव्याव्यापारेण शक्तः साहायक्षमोऽपि सन्म स्वकादंशात् स्वव्यापारजनिताद्धनाद्वहिःकार्य्यःकिञ्चिदुपजीवनं दत्त्वा मूलधनमात्र भागीकरणीय इतीदम्मनु वचनन्निर्वास्येत्याकरपाठनङ्गीकृत्यैव व्याचष्टे। तदपिन युक्तम्। अपिशब्दाद्यध्याहार प्रसङ्गात्। योगीश्वर वचनं सम्वादिनोऽर्थ स्पष्टतर प्रतितिकत्वाच्च। भवदुक्तार्थस्यवचनान्तरवगत्वाच्च। कात्यायनः।

अविभक्तेनिजे प्रेते तत् सुतं रिक्थभागिनम्।
कुर्वीत जीवनं येन लब्धन्नैव पितामहात्॥
लभेतांशं सपित्र्यन्तु पितृव्याद्वापि तत् सुतात्।
स एवांशस्तुसर्वेषां भ्रातृणां न्यायतोभवेत्॥
लभते तत् सुतो वापि निवृत्तिः परतो भवेत्।

निजे भ्रातरि तत् सुतं भ्रातृपुत्रम्। जीवनम्भागः। स कीदृशम्भागं लभत इत्यपक्षिते आह पित्र्यमंशमिति। तत्सुतो यस्य धनं विभज्यते तस्य प्रपौत्रः। पौत्रस्य प्रस्तुतत्वात्। परतस्तत्सुतान्निवृत्तिर्भाग निव्रुत्तिर्भवेत्प्रपौत्त्र पुत्त्रो भागन्नलभेतेत्यर्थः। अतएव देवलोऽपि

अविभक्त विभक्तानां कुल्यानां वसतां सह।
भूयो दायविभागः स्यादाचतुर्थादिति स्थितिरिति ॥

वीजि चतुर्थमभिव्याप्य दायभाग इत्यर्थः। विभक्तानामपि सं सर्गादिना सहवासे सतीयं व्यवस्था। वसतां सहेति वचनात्। पिल्यमंशमिति कात्यायनोक्तः। पितृद्वारकोग इति सूचितम्। अतएवाह याज्ञवल्क्यः।

प्रमीत पितृकायान्तु पितृतो भाग कल्पनेति।

पैतामहे घने जन्मना स्वत्वम्पौत्राणां पुत्रेः सहाविशिष्टमेव यद्यपि तेन पुत्रवत्पौत्राणामपि पुत्रसम एव भाग उचितः। तथापि तेषाम्पितृद्वारेण भागं प्रकल्प्यस्वस्वपितृभागाधिकारो न तु पैतामहे धने स्वतो भागित्व मित्यर्थः। एतदुक्तं भवति अविभक्ता भ्रातरी यदा पुत्त्रानुत्पाद्य दिष्टङ्गतास्तत्रैकस्य द्वौ पुत्त्रावन्येषान्त्रि चतुराद्या इति पौत्त्राणां वैषम्यन्तदा द्वावेकं स्वपितृभागं द्वेधा विभज्य गृह्णीतस्त्रिचतुराद्या अपि स्वस्वापितृ-

भागमेकैकन्त्रेवादि रूपेण विभज्य गृह्णन्ति न तु पौत्त्र संख्यया पैतामह धनभागाः। अनयैव रीत्या केषुचिद्भातृषु जीवत्सुकेषु चिच्चपुत्रानुत्पाद्य विनष्टेषु प्रियमाणाःस्वस्वांशभागिनोऽन्येषां पुत्त्राःस्वस्वपित्रं शभागिन इति वाचनिकोऽयम्भेदः। अतएव वचनमिदमन्यवत्तानुवादकम् उद्धारादि विषमविभागोऽपि वाचनिकः समांशत्वं तु स्वाम्यात्प्राप्तमेवानुद्यते। यच्च पैत्रामहमपहारादिना नष्टम्पित्रोद्व्रयिते तत्र पित्रिच्छयैव पित्रर्जित इव पौत्राविभागभाज इत्याह मनुः

पैतृकन्तुपिता द्रव्यमनवाप्तंयदाप्नुयात्।
न तत्पुत्त्रैर्भजेत्सार्द्धमकामः स्वयमर्जितम्॥

स्वयमर्जितमिवेतीवशब्दाध्याहारेण योज्यम्। यद्वातत्पितामहाङ्गा मनेनैवोद्धृतमतः स्वार्जितमेव जातं यत इति हेतुतया योज्यम्। अकाम इति वचनात्पित्रिच्छयैव तादृशेपैतामहेऽपि विभागो न पुत्रेच्छयेति गम्यते। तथा स्मृत्यन्तरमपि।

पैतामहं हृतम्पित्रास्वशक्त्या यदुपार्जितम्।
विद्याशौर्य्यादिना प्राप्तन्तत्रस्वाम्यम्पितुः स्मृतम्॥
प्रदानं स्वेच्छया कुर्य्याद्भागञ्चैव ततो धनात्।
तदभावे तु तनयाः समांशाः परिकीर्त्तिता इति॥

हृतमपरैरपहृतंपितामहेन न प्रत्याहृतम्पित्रातु प्रत्याहृतमित्यर्थः। स्वशक्त्येत्युक्तेःपितामह द्रव्यानुपश्लेषेणेत्यर्थः। तदुपश्लेषेण तूद्धृतेऽर्जकत्वनिमित्तमंशद्वयं येन चैषां स्वयमुपार्जितं स्यात्सद्व्यंशमेव लभेतेति वशिष्ठ वचनत्पिता भजते। इदञ्चविद्यादिष्वपि योज्यन्तच्चविस्तरेण विवे-

क्ष्यते। अयमत्र निर्गलितोऽर्थः। यद्यपि जन्मनैव पैतृके पैतामहे चधने पुत्त्र पौत्त्राणां स्वाम्यन्तथापि पूर्वोक्तवचनैः पैतृक पुत्त्राणाम्पितृपरतन्त्रतया पितु श्चार्जकतया प्राधान्यात्पित्रा स्वार्जिते विनियुज्यमाने। स्थावरं द्विपञ्चैवेत्यादि प्राक्प्रदर्शित वचनात्तद्व्यतिरिक्त्र्पुत्रैरनुमतिरवश्यं कार्य्या। पैतामहे तु निषेधाधिकारोऽप्यस्ति। तदनुद्धृते पित्राद्धृते तु तदिच्छावशवर्त्तितैव पैतामहेऽपीति। मणिमुक्तादौ तु पैतामहेऽपि पितुरेव स्वातन्त्र्यंमणिमुक्ताप्रबालानामित्यादि प्राग्लिखित वचनेभ्यः। अत्रपित्रुपरमानन्तरं यो भ्रातॄणां विभागः स पित्रोरिति द्विवचनादुभयोपरम एव पितृवनेऽपि न तु मातुरुपरमोमातृधनगोचर इति संग्रहकाराद्युक्त मादर्त्तव्यम्। पैतृकमित्यत्रपित्रोरिदमित्येकशेष कल्पनायां प्रमाणाभावात्।

जनन्यां संस्थितायान्तुसमं सर्वे सहोदरा इत्यादिना मातृधन विभागस्याग्रेवक्ष्यमाणत्वाच्चत्रमातृधन विभागविधौ पौनरुक्त्यापत्तेश्च। याज्ञवल्क्येनापि मातुर्दुहितर इत्यादिना मातृधन विभागस्य विभजेरन्सुताः पित्रोरिक्थमिति सम्बन्धो नाभिमतः किन्तु पित्रोरूर्द्ध्वमित्येव। पितुर्ऋक्थमृणमिति तु सम्बन्धीऽर्थान् मातृऋक्थ ऋणविभागस्योत्तरार्द्धेनोक्तेः। अतएव प्रागुक्तशङ्खलिखितवचने रिक्थमूलं हि कुटुम्बमित्यादौ मातुरप्येवमवस्थिताया इत्यनेन मातुरपेक्षयाप्य स्वातन्त्र्यं विभागानधिकारःसोदराणां तस्यामपि जीवन्त्यामित्येतदर्थमेवोक्तम्॥

अतश्च भ्रातृणाञ्जीवतोः पित्तोः सहवासो विधीयते।
तदभावे विभक्तानां धर्मस्तेषां विवर्द्धतइति॥

व्यासवचने सहवासविधानमुखेन पृथग्भाव निषेधात् पितृ मातृजीवनवतश्च विभाग निषेधाज्जीवतोरिति साहित्यमविवक्षितम्। अतएव एकस्मित्रपि जीवति विभागो न धर्म्यः किन्तुभयोपरमे। पित्रोरभाव इत्यादि वृहस्पतिवचनेऽपि निवृत्तरजस्कायां मातरि जीवन्त्यां विभागस्य मातृधनगोचरत्वानुपपत्तेरुभयाभावोक्त विभागस्यैवजीवतोरपीत्यपि शब्देन निर्दिष्टस्य शस्तत्व कीर्त्तनादुभयोर भावेभ्रातृविभागःपितृधनगोचरएवेत्यवधार्य्यते। अतएव व्यासो मातरि जीवन्त्यां यो विभागस्तस्य मातृप्रधानकत्वं दर्शयति।

यथाह। समानजातिसङ्ख्यायेजातास्त्वेकेन सूनवः।

विभिन्न मातृकास्तेषां मातृभागःप्रशस्यते॥

वृहस्पतिरपि। यद्ये कजाता बहवः समाना जातिसङ्ख्यया।

सापत्नास्तैर्विभक्तव्यं मातृभागेन धर्मत इति॥

अत्रजातिसङ्ख्यया साम्येसापत्नानामपि भागविशेषःस्वरूपकृतो नास्तीति मातृभागत्वविधानं मातृप्राधान्यपरमेवेति नायं पुत्राणां विभागःकिन्तु तन्मातृणामित्युद्दिश्य विभागः कर्त्तव्य इत्यत्र तात्पर्य्यम्। तेनैतन्मातृधन इवात्रापि मातृजीवने पुत्राणान्नपरस्परं विभागो धर्म्यः। यतो गौतमाद्य क्ताविभागे धर्मवृद्धिरपि मात्रुपरमएव वेदितव्येति जीमूतवाहन आह। तत्पितृधने मात्रभावापेक्षया अदुष्टार्थत्वापत्तेः प्रागेव निरस्तम्। यत्र पैतृकमित्येकशेषस्याप्रमाणकत्वात्पौनरुक्त्यापत्तेश्च नास्य मातृधनपरत्वमित्युक्तन्तदप्यदृष्टार्थतापत्ति भयादेकशेषस्य स्वीकर्त्तव्यत्वादयुक्तम्। पौनरुक्त्यन्त्वयुक्तम्। पूर्व्वोक्तस्यापि मातृधनविभागस्य विशेषविधामायानु-

वादोपपत्तेः। याज्ञवल्क्यवाक्ये तु मिताक्षराकृता च मातापित्रोर्द्धनं सुता विभजेरन्नित्युक्तम्। तत्र मातृधनेऽपवादमाहेत्युत्तरार्द्ध्वमवतारयतान पौनरुक्त्यम्परिहृतम्। ताभ्यक्तृतेऽन्वय इति च दुहित्रभावेऽन्वयः पुत्रादिर्मातृधनमृणाद्वशिष्ट गृह्णीयादिति व्याख्याय इदञ्च।

विभजेरन् सुताः पित्रोरूर्द्ध्वमृक्थमृणं सममिति।

अनेनैव सिद्धमपि स्पष्टार्थमुक्तमित्युक्तम्। न चात्र पित्रोरूर्द्ध्वमित्येवास्तु सम्बन्धः मातृधनविभागस्योत्तरार्द्धेऽभिधानात्पित्रोक्थमृणमिति पर्य्यवस्यति। तथा च ताभ्य इत्यादेर्निरर्थकानुवादत्वमपि न प्रसम्भवतीति वाच्यम्। क्तृक्थऋणपदयोः ससम्बन्धिकार्य्यत्वात्तदाकाङ्क्षायां स्ववाक्योपात्तपित्रोरिति पदानुषङ्गस्यैव परिशेषावगतार्थिकपितुः पदान्वयापेक्षयाभ्वर्हितत्वात्। तदंशे न तु ताभ्य इत्यस्यानुवादत्वस्याप्यभ्युपगमौचित्यात्।

ये त्वन्वयपदं दुहित्रन्वय दौहित्रादिपरत्वेन व्याचक्षते तन्मते तुं वैयर्थ्यशङ्कैव नास्ति। तदेतद्विस्तरेण स्त्रीधनविभाग प्रस्तावे प्रपञ्चयिष्यामः।

शङ्ख्यलिखितोक्तंमातरि जीवन्त्यामस्वातन्त्र्यन्तुमानवर्द्धनं तद्धनगोचरमपि सङ्गच्छतएव। भ्रातृणामित्यादि व्यासवचनमपिसहवास प्राशस्त्यमात्रमुभयजीवन आहेतिजीवतोरिति साहित्य विवक्षायामपि न दोषः। वस्तुतस्तु पित्रोरूर्द्ध्वमपि ज्येष्ठएव तु गृह्णीयादिति सहवासस्य मुख्यत्वाद्विभागस्य च धर्म वृद्ध्वार्थत्वान्मातरि जीवन्त्यामपि धर्मस्य पञ्चमहायज्ञादेरावश्यकत्वात्तद्वृद्ध्वार्थं विभाग उचितएव। यत्तु पित्रोरभाव इति वृहस्पतिवचने निवृत्तेरजस्कायांमातरि जीवन्त्यामित्याद्युक्तन्त

त्रोच्यते। उभयजीवने सहवासः प्रशस्तस्तदभागे विभाग इति पूर्व्वार्द्धेनाभिहिते। मातर्य्यनिवृत्तरजस्कायां सन्तानसम्भवात्तद्वृतिलोपस्य च ये जातायेऽप्यजाताश्चेत्यादि वचनेन गर्हितत्वान्निवृत्तरजस्कायान्तु तस्यान्तदप्रसक्तेरुपरतस्पृहे पितरीव विभागःप्रशस्त इति तस्यार्थः। तथा सति निवृत्तरजस्कायां तस्यान्तदीय ऋक्थाधिकारि कन्या सन्तानस्यासम्भवात्सुतरान्तदिच्छया तद्धनविभागोऽपि पुत्राणामुचित इति मातृधनगोचरताप्यस्य वचमः सम्भवतीति न किञ्चिदेतत्। यदपि व्यासवृहस्पतिवचमो र्मातृप्राधान्यं सापत्नविभागस्येक्तन्तन्ममाप्य विरुद्धम्। यथा हि॥

जीवतोरस्वतन्त्रः स्याद्धारयामि समन्वितः।

इत्यादि वचनवशाद्विभागोत्तर पितृ मातृपारतन्त्र्यं तथैतद्वचनवशान्मातृभाग एवायमिति बुद्ध्यातदाज्ञावशम्बदतयातज्जीवनावधि स्थेयमित्येतावता पितृधनविभागेऽपि तस्याञ्जीवन्त्यामनधिकारःकुतस्त्य इत्यलमधिकेन। जीवत्पितृकविभागे पित्रायथा स्वपुत्त्रांशसमांशभागिन्यः स्वपत्न्यःकार्य्यास्तथा तदुपरमविभागेऽपि पुत्रैस्ताः स्वसमांशभागिन्यः कार्य्या इत्याह याज्ञवल्क्यः।

पितुरुर्द्ध्वंविभजतां माताप्यंशंसमं हरेत्।

यदि स्त्रीधनन्दत्तन्न भवति। दत्ते त्वशार्द्धहारिणी कार्य्येति वचनादप्यत्रार्द्धशब्दो न समविभागवचनः। किन्तु यावता पुत्त्रसमांशिता भवति तावदेव विवक्षितम्। अत्र मातृपदस्यजननीवाचकत्वान्नापुत्त्र सपत्न मातृपरत्वमपि। सकृच्छ्रुतस्य मातृपदस्य मुख्यगौणोभयार्थत्वानुपपत्तेः।

यत्तु, असुतास्तु पितुः पत्न्यः समानांशाः प्रकल्पिताः।
पितामह्यश्चसर्व्वास्ता मातृतुल्याः प्रकीर्त्तिता इति॥

व्यासवचनात् योगीश्वरवचने पत्नीग्रहणाच्च जीवत्पितृकविभागे पत्नीमात्रस्य पुत्त्र समांशत्वम्। पुत्त्र पत्नीपदयोः पितृ-
प्रतियोगिकसम्वन्धार्थकतया गौणमुख्यार्थकत्वानापत्तेः। पित्रोरूद्ध्वंविभागे तु पुत्त्रकर्तृकतया तत्सम्बन्ध मातृप्रतीतेवैरुप्यादुभयपरत्वासम्भवात् पुत्रवतीनामेव स्वपुत्त्रसमांशित्वं अपुत्त्राणान्तुग्रासाच्छादनमात्रभाक्त्वम-विभक्तसंसृष्टपत्नीनामिव। युक्तञ्चै तज्जीवद्विभागे पितुः स्वातन्त्र्यात्। अजीवद्विभागे पुत्त्राणां स्वातन्त्र्यात्। मातृपद पत्नीपद स्वरसाच्च। युक्तञ्चापुत्राणां ग्रासाच्छादनमात्रभाजनत्वमिति बहुतर निबन्ध स्वरसः। मिताक्षराकृतस्तु जीवद्विभागे पुत्त्रसमांशित्व पत्नीनामुक्तमिदानीं पितुरूर्द्ध्वंविभजतामपि पुत्र समभागित्वं पत्नीनामाहेत्यवतारणिकं पितुरूर्द्ध्वंविभजतामित्यस्य योगीश्वरवचसः प्रयच्छतोऽत्रापि सपुत्रापुत्त्रसकल पितृपत्नीनां पुत्त्रसमांशित्वमभिप्रेतमिति प्रतीयते। मदनरत्नकृताप्यत एवोक्तम्। जननी ग्रहणमपुत्त्राणामपि मातृ सपत्नीनामुपलक्षणं पितामहीनाञ्च। अतुताश्च पितुः पन्त्य इत्यादि व्यासवचनादिति। युक्तञ्चैतत्पितुः पत्न्यइति पुत्त्र प्रतियोगिक पितृग्रहणस्यान्यथा वैयर्थ्यात्। पुत्त्र समांशित्वस्य पितृकृत विभागविषये पत्न्यः कार्य्याःसमांशिका इति वदन्नपि मातर इत्येव वदेत्। तस्मात्पितृपत्नीत्वप्रयुक्तमेव जीवडद्विभाग साधारणं पुत्त्र समांशभाक्त्वमिति मिताक्षरा मदनरत्नकारकृतोरभिप्रायः। पितुरिति कर्त्तरि षष्ठी। तेन पितृकर्त्तृके दिमागे पत्न्यःसमानांशा इत्यु-

क्तेऽर्थात्तत्प्रतियोगिकस्यैव पत्नीत्वस्यलाभाज्जीवद्विभाग विषयतैवास्योचिता। तत्रमातृपदे मुख्यामुख्य मातृपरत्वानौचित्यात्प्रतिसम्बन्धितया च पुत्त्राणामेव स्ववचनोपात्तानामुपस्थितेर्जननी परत्वमेव मातृपदस्य मुख्यार्थ लाभायोचितम्। शिष्टाचारोऽप्येवम्। यदत्रयुक्तन्तद्ग्राह्यमित्यलमधिकेन। बृहस्पतिः। तदभावे तु जननी तनया वा समांशिनी।

अत्रप्रक्रमात्तच्छब्देन पिता गृह्यते। पितरि प्रेते यदि केऽपि भ्रातरोऽसंस्कृताः सन्ति तदा तत्संस्कारं रुमुदायद्रव्येण विधायावशिष्टं यथांशेनविभजनीयमित्याह याज्ञवल्यः।

असंस्कृतास्तुसंस्कार्य्या भ्रातृभिः पूर्वसंस्कृतैः।
भ्रातृभिरित्यभिधानाद संस्कृता भ्रातर इति प्रतीयते॥

संस्कार्य्यत्वमात्रविधानस्य दायभाग प्रस्तावासम्बन्धात्समदाय द्रव्यादिति विवक्षितम्। तथाच व्यासः

असंस्कृतास्तु ये तत्र पैतृकादेव तद्धनात्।
संस्कार्य्या भ्रातृभिज्येष्ठैः कन्यकाश्च यथाविधि॥

अविद्यमाने पितॄधनेऽसस्कृतः संस्कारावश्यकतामाह नारदः।

अविद्यमाने पित्रर्थेस्वांशादुद्धृत्यवा पुनः।
अवश्यकार्य्याः संस्कारा भ्रातृभिः पूर्वसंस्कृतैः॥

असंस्कृत भगिनी संस्कारोऽप्यावश्यकः। सति पितॄद्रव्ये ताभ्योंऽश दानमपीत्याह याज्ञवल्क्यः।

भगिन्यश्चनिजादंशद्दत्त्वांशन्तुतुरीयकमिति।
असस्कृताः संस्कार्य्या इत्यनुपङ्गः।

मनुः। स्वेभ्योऽशेभ्यस्तु कन्याभ्यः प्रदद्युभ्रातरः पृथक्।

स्वात्स्वादं याच्चतुर्भागं पतिताः स्युत्दित्सवः॥

अत्रोभयत्रप्रत्येक परिकल्पितान्निजादंशादुद्धृत्य सर्वैर्भ्रातृभिर्भगिनीभ्यः प्रत्येकं चतुर्थोऽंशो देय इत्यर्थो न भवति। तथा सति बहुभ्रातृकाया बहुधनत्वं बहुभगिनीकस्य भ्रातुर्न्निर्द्धनतापत्तेः। तस्मात्संस्कारोपयुक्तद्रव्य दानमात्रं विवक्षितमिति रत्नाकरचिन्तामण्यादौ व्याख्यातम्। अनूढानान्तु कन्यानाम्बित्तानुरूपेण संस्कारं कुर्य्यादिति विष्णुवचनञ्च तत्रोपोद्वलकमुपन्यस्तम्। तद्युक्तम्। अंशदानाविवक्षायाःस्मृतिद्वयेऽप्यन्याय्यवात्।

संस्काराकरण प्रत्यवायात्पृथगदान प्रत्ययश्रवणाच्च अन्यथा पतिताः स्युरदित्सव इत्यदान प्रत्यवाय वचनमप्यसंस्कार प्रत्यवाय पर स्यात्। अतो मेधातिथि मिताक्षराकारादिभि र्व्याख्यातमेवम्। निजादंशात् स्वात्स्वादशादिति नापादाने पञ्चम्यपि तु ल्यप्लीपे। तथा च तमपेक्ष्येति यावत्। एवञ्च यज्जातीया कन्या तज्जातीय पुत्त्र भाग चतुर्थांशभागिनी सा कार्य्या। तथा चायमर्थो बाह्मणजातीया या कन्या वक्ष्यमाणो ब्राह्मणीपुत्त्रभागो यावांस्तच्चतुर्थांशस्तस्याः। एवं क्षत्रियादि जातीय कन्यापि। तच्चयथा। यदि कस्यचिद्ब्राह्मण्येवैका पत्नी तस्या कः पुत्त्रः कन्यकाचैका। तत्र पित्र्यन्द्रव्यं सर्वमेव द्विधाविभज्य तत्रैकम्मागच्चतुर्द्धाकृत्वैको भागो भगिन्यै तेन देयोऽवशिष्टंस स्वयङ्गृह्णीयात्। एवं पुत्त्रद्वये कन्यैक्येच त्रेधा विभागं सर्वद्रव्यस्य विधायैकस्य चतुर्द्धाकृतस्य भागस्य चतुर्थभागम्भगिन्यैदत्त्वा शेषं द्वाभ्यां यथांशम्बिभज्य ग्राह्यम्। पुत्रैक्येकन्याद्वित्वेत्रेधाकृतस्य द्रव्यस्यैकम्भागञ्चतुर्द्धाकृत्वा द्वावं-

शौ द्वाभ्यां कन्याभ्यादत्त्वाऽवशिष्टन्तेन ग्राह्यम्। एवं समान जातीयेषुसाम्योऽपि सर्वथा भगिनीनां भ्रतृजात्युचितभाग तुरीयांशभागिता यथा भवति तथोह्यम्। यदा तु ब्राह्मणीपुत्र एकःक्षत्रियकन्या चैका। तत्त्र पितृधनं सप्तधा विभज्य क्षत्रिया पुत्त्रभागांस्त्रींश्तुर्द्धाविभज्य तुरीयमशंक्षत्रियाकन्यायै दत्त्वा शेषं ब्राह्मणी पुत्त्रो गृह्णीयात्। यदातु द्वौब्राह्मणपुत्रौ क्षत्रियाकन्या चैका तदा पितृधन मेकादशधा कृत्वा क्षत्रिया पुत्रभागांस्त्रींश्चतुर्द्धाविभज्यैकमंशं क्षत्रियकन्यायै दत्त्वा ब्राह्मणी पुत्रावन्यत्सर्वं विभज्यगृह्णीयाताम्। एवं सर्वत्र जातिवैषम्ये भ्रातृभगिनी संख्यासाम्यवैषम्यं योज्यम्। विष्णुरपि। मातरः पुत्रभागानुसारभाग हारिण्योऽनूढाश्च दुहितरः पुत्रभागानुसारेण यथावर्णक्रमेण पुत्राणाञ्चतुस्त्रिद्व्येकभाग-भागिता तथा तत्तज्जातीय पत्नीनामपि। अनूढाश्च दुहितरःपुत्रभागानुसारभागहारिण्य इत्यनेन यद्यपि चतुराद्यंशानां सर्वेषां दुहितृभ्योदानं प्रतीयते तथापि स्वेभ्योंऽशेभ्यः स्वात्स्वादशादिति मनुयोगीश्वराभ्याञ्चतुर्थांशदानस्योक्तेस्तथैव पुत्रभागानुसारो न सजातीय भ्रातृसमभागहारित्व मित्यविरोधः। स्पष्टमाह बृहस्पतिः।

समांशा मातरस्त्वेषाञ्चतुर्थांशाश्च कन्यका इति।
कन्यकानान्वदत्तानाञ्चतुर्थो भाग इष्यते।
पुत्राणाञ्च त्रयोभागाः साम्यंत्वल्पधने स्मृतमिति।

वदतः कात्यायनस्याप्येतदेवाभिमतम्। साम्यमित्यादेस्त्वयमर्थः। यदि संस्कारपर्याप्तमपि पितृधनं नास्ति तदा पुत्रसमभागितैव दुहितृणामिति। अनूढानां त्वित्यादि विष्णुवचनमपि

मेधातिप्यादीनान्नप्रतिकूलम्। पित्तानुसारेण संस्कारमनूढानाम्पितुः कन्यानां स्वभगिनीनां कुर्य्यादित्यनेन संस्कारावश्यकतामात्रमत्रोच्यते न तु भागदानादाने। स्मृतिचन्द्रिकाकारस्तु। कन्याभ्यश्च पितृद्रव्यन्देयं वैवाहिकञ्च वस्विति देबलवचनानु सारेण संस्कारमात्रोपयोगिद्रव्यदान मेव मन्यते। वैवाहिकं वसुदेयमिति वैवाहिक विशेषणस्यान्यथा-वैयर्थ्यापत्तेरिति तदाशयः। अत्र वदामः। कन्याभ्यः पितृ द्रव्यन्देयमिति पृथग्विधिः। तच्चमन्वाद्यनुरोधाच्चतुर्थांशरूपमेव। वैवाहिकम्बसु चदेय मित्यपि पृथगेव विधिः विभज्यमाने दायाद्येकन्याऽलङ्कारं वैवाहिकञ्च स्त्रीधन लभेतेति शङ्खवचन समानार्थतया व्याख्यातञ्चेद शङ्खवचन विद्यारण्य श्रीचरणैःपराशरास्मृति टीकायाम्। पैतृक द्रव्य विभागवालेस्वधृतालङ्कारादिकमपि कन्या प्राप्नोतीत्याह शङ्ख इति। यदि तुवैवाहिक विवाहोपयोगिपितृद्रव्यं कन्याभ्योदेयमित्यर्थःस्याद्वसुपदम्पुन रुक्तं स्यादिति पृथग्विधिद्वयमेवात्रयुक्तम्। दायतत्वकृता तु कन्याभ्यश्च पितृ द्रव्याद्देयंवाकिंवस्विति पठितन्तत्रापि शङ्खेन समानार्थकतालाभायास्मदुक्तमेव व्याख्यान मादर्त्तुमर्हं न तु विवाहोपयुक्त द्रव्यपरतेत्यवसेयम्। अत्रच मन्वदिवचनेषु भगिनिपदं क्वचित् क्वचिच्चकन्यादि पदं यद्यपि श्रूयते तथापि भ्रातृकर्त्तृक विभागाधिकारात्पितृप्रतियोगिकं कन्यात्वन्दुहितृत्वं भ्रातृप्रतियोगिकञ्च भगिनीत्वमादायैकार्थकतावसे या। तस्मादजीवत्पितृकविभागे भगिनीनामपि पितृद्रव्यांशभागित्वन्न तु सस्कार्य्यतामात्रम्। पूर्वन्तु यत्किञ्चित्पिताददाति तदैवलभते विशेष वचनाभावादिति। जीमूत वाहनेन तूक्तम्।

प्रदद्युभ्रातरः दत्त्वांशन्त्विति मनु योगीश्वराभ्यामभिधानान्न भगिनीभिरधिकार बुद्ध्याचतुर्थोऽंशोग्राह्यः। न ह्यधिकारिण एकास्मैभ्रात्रेऽन्योऽभ्राता स्वांशाद्दद्यादित्युच्यते तथा चतुर्थां शदानमपीति तददाने भ्रातृणामेव दोषो न तु तासाम्प्रसह्य कारितेति। तदप्ययुक्तम्। उक्तिवैचित्र्यमात्रस्यास्याप्रयोजकत्वात्। इच्छयाविभजेत्सुतान् उद्धारं ज्यायसेदत्त्वेत्यादि वत्। यदपि तेनैवोक्तम्।

येषान्तु न कृताः पित्रा संस्कार विषयः क्रमात्।

कर्त्तव्या भ्रातृभिस्तेषां पैतृकादेव तद्धनादिति। नारदवाक्येयेषामितिपुंलिङ्गनिर्द्देशात्तदनन्तरमेव चाविद्यमान इति वचनारम्भाद्भ्रातृसंस्कारार्थमेवेद वचनमिति सति पितृद्रव्ये मन्वादि वचनेभ्योभगिनी संस्कारावश्यकत्व प्रतीतेः सस्कारोपयोगि द्रव्यदानमेव विवक्षिततमिति तद्धेयम्। वचनान्तरेषु भगिनी संस्कारस्यावश्यकत्व प्रतीतेः।

पिता पितामहो भ्राता सकुल्यो जननी तथा।
कन्याप्रदःपूर्वनाशे प्रतिस्थः परः परः॥
अप्रयच्छन् समाप्नोति भ्रूणहत्या मृतावृताविति।

भ्रातुरपि योगीश्वरेण भगिनीविवाह संस्काराकरणे भ्रूणहत्या दोषश्रुते स्तदेकमूलकतया येषान्तेषामित्यस्य सामान्यलिङ्गन्नपुंसकमिति वचनात्सामान्य विवक्षान्यायाञ्च नपुंसक षष्ठ्यन्तत्व विरूपैकशेषोऽपि वाभ्युपगन्तुमुचित एवेति। यवीयस इति नुम् दीर्घयोरभावञ्छान्दसमभिप्रेत्य॥

असंस्कृता भ्रातरस्तु ये स्यस्तत्र यवीयसः।
संस्कार्य्याःपूर्व्वजैस्तेवै पैतृकान्मध्यकाद्धनादिति।

वृहस्पतिवचनं पठित्वा भ्रातृग्रहणं भगिनीनामप्युपलक्षणमिति मदनरत्नकता व्याख्यातम्। अत्र च संस्कारसाहचर्य्यादनूढानां दुहितॄणाम्। कन्यकानान्त्वदत्तानामित्यनूढत्व विशेषणोपादानाच्चापरिणीता एव चतुर्थांशभागिन्यो भगिन्योऽन्यास्तुयत्किञ्चिदौचित्याल्लभन्त इति बोध्यम्। मातृधने चेदम्प्रपञ्चनीयम्। स्थावरस्य स्वार्जितस्य पैतामहस्य वा पुत्त्रानुमत्यैव पिता दानादि कुर्य्यात्। स्थावरं द्विपदञ्चैवेति प्रागुदाहृत वचनात्। यद्यपि स्वयमर्जितमित्यनेन पैतामहे कैमुतिकन्यायेन पुत्रानुमत्यावश्यकताप्रदर्शिता। कुटुम्बव्यापिन्यामापदि तु यः कश्चिदन्यानुमतावपि कुटुम्बभरणस्यावश्यकत्वात् स्थावरदानविक्रयादावधिकारी

एकोऽपि स्थावरे कुर्य्याद्दानाधमन विक्रयम्।
आपत्काले कुटुम्बार्थे धर्मार्थे च विशेषतः इति।

वचनात् धर्मार्थ इत्यनेनावश्यकः पितृश्राद्धादिरूपोधर्मो गृह्यते। यत्तस्मरणम्। विभक्ता अविभक्ता वा सपिण्डाःस्थावरे समाः।

एको ह्यनीशः सर्वत्र दानावमन विक्रय इति॥

तत्राविभक्तानां मध्यकद्रव्ये स्वाम्यासाम्यादनीशत्वमत्यानुमतिंविनासिद्धमपि स्थावरे विशेषतस्तदादरार्थमुच्यते। अविभक्तानान्तु व्यवहारसौकर्य्यार्थम्। कालान्तरे हि विभक्तविभक्तसशये विभाग भावनावश्यं साक्ष्यादि प्रमाणेन तथा सति कार्य्यास्वादन्यथा साधारणद्रव्य दानाद्यसम्भवात्। अनुमतौ तु सत्यां तदनपेक्षएव व्यवहारःसिद्ध्यति। ननु यथा श्रुतं
स्थावरे विभक्तानामपि समं स्वाम्यम्। विभागस्यादृष्टार्थता प्रस-

ङ्गात्। अतश्चान्यानुमति मन्तरेणापि दानादि स्वरुपं सिद्ध्यत्येव। विभागभावनायां व्यवहारोऽपि।

यथा, स्वग्राम ज्ञातिसामन्तदायादानुमतेन वा।
हिरण्योदकदानेन षड्भिर्गच्छति मेदिनीति।

वचने ग्रामानुमतिः मामन्तानुमतिश्च। सामन्तानुमतिस्तु सीमाविप्रतिपत्ति निरासायापि ज्ञानि दापादानुमतेस्तु पूर्वदेव व्यवस्था।

अतएवस्मृत्यन्तरम्।

प्रतिग्रहःप्रकाशःस्यात् स्यावरस्य विशेषत इति॥

अन्यथात्रापि ग्रामसामन्तानुमति मन्तरेण दानाद्यसिद्धिः प्रसज्येत हिरण्योदकदानेनेति स्थावरे विक्रयो नास्ति कुर्य्यादाधिमनुज्ञ्येति स्थावरस्य विक्रय प्रतिषेधात्तु।

भूमिं यत्प्रतिगृह्णाति भूमिं यश्च प्रयच्छति।
तावुभौ पुण्यकर्माणौनियतं स्वर्गगामिनाविति।

दान प्रशंसनाच्च कुटुम्बभरणाद्यर्थमवश्यकर्त्तव्येऽपि विक्रये स हिरण्यमुदकंक्रेत्रेदत्त्वा दानांशोऽपि कश्चिद्यथातत्त्र भवति तथा दानरूपेण स्थावरविक्रयं कुर्य्यादिति सूचितम्। जीमूतवाहनस्तु।

स्थावरस्य समस्तस्य गोत्र साधारणस्य च।
नैकः कुर्य्यात्क्रयन्दानं परस्परमतं विना॥

विभक्ता वा ऽविभक्ता वेत्यादि व्यासीय वचनद्वयमुपन्यस्य नेदमेकस्य क्रयदानाद्यनधिकार प्रतिपादनार्थम्। यथेष्ट विनियोगार्हत्व लक्षणस्य स्वत्वस्य द्रव्यान्तरइव स्थावरेऽप्यविशेषात स्वत्वत्यागाद्यनिष्पत्तेर्वचनशतेनापि वस्तुतोऽन्यथाकरणा-

शक्तेर्बोधयितु मशक्यत्वात्। किन्तु दुर्वृत्तपुरुषम्प्रति कुटुम्बात्त्यादि निमित्ताभावे कुटुम्बविरोधादधर्मभागिता ज्ञापनार्थं निषेधरूपम्। अतएव नारदः।

यद्येकजाता बहवः पृथग्धर्माः पृथक् क्रियाः।
पृथक्कर्म गुणोपेता नचेत्कार्य्येषु संयुताः॥
स्वभागान् यदि दद्युस्तेविक्रीणीयुरथापि वा।
कुर्य्युर्यथेष्टं तत्सर्वमीशास्तेस्वधनस्य हीति।

सामान्यत एव विक्रयाद्यनुमन्यते। ईशास्तेस्वधनस्य हीति हेत्वभिधानात् स्थावरगोचरमपीदं वचनम्। अपरथा तदा नर्थक्यापत्तेरित्याह। तत्सम्यगेव परं त्वधर्मभागिता ज्ञापनार्थमित्युक्तम्। वृथा स्थावरविक्रयस्य बहून् प्रत्यपि निषेधादेक ग्रहणापार्थक्यापत्तेः। व्यवहारशास्त्रस्य व्यवहारसौकर्य्यादि दृष्ट प्रयोजनसम्भवेऽदृष्ट कल्पनानुपपत्तेः। अन्यथाऽनुमतावपि तदापत्तेः। कुटुम्बविरोधजन्य वचनान्तर प्रतिपादिता धर्मप्रयोजकतार्परमस्तु। अत्र च पुत्रेच्छया यो जीवद्विभागो यश्चाजीवद्विभागः स एकेच्छयापि भवत्यविशेषात्। अतएव विभागं प्रक्रम्य यत्कात्यायनेनोक्तम्।

अप्राप्त व्यवहाराणां चधनं व्य यविवर्जितम्।
न्यसेयुर्बन्धु मित्रेषु प्रोषितानां तथैव चेति॥

तदपि सम्मतम्। अन्यथा तद्नुमतिमन्तरेण विभागाभावे तद्धनस्य बन्धुमित्रेषु न्यासविधानमनुपपन्नं स्यात्। तथा विष्णुरपि। तथा रक्ष्यं बालधनमाव्यवहार प्राप्तेरिति। अयञ्च पुत्राणां विभागःपुत्त्र पौत्त्रप्रपौत्त्रपर्यन्तः समोनात्रोत्पत्तितः प्रत्यामत्तिक्रमेणाधिकारक्रमः। पुत्त्रादीनान्त्र-

याणामेव पार्वणे पिण्डदानाधिकारात्। अतएव देवलः।

पिता पितामहश्चैव तथैव प्रपितामहः।
उपासते सुतं जातं शकुन्ता इव पिप्पलम्।
मधु मांसैश्च शाकैश्च पयसा पायसेन च।
एष नोदास्यति श्राद्धंवर्षासु च मघांसु चेति ॥

तथा च श्लोकाः शङ्ख लिखित गौतमानां।

पिता पितामहश्चैव तथैव प्रपितामहः।
जातम्पुत्त्रंप्रशंशन्ति पिप्पले शकुनाइव॥
मधुमांसेन खड्रेन पयसा पायसेन वा।
एष दास्यति नस्तृप्तिं वर्षासु च मघासु चेति॥

एवं तुल्याधिकारात् जन्मना स्वत्वस्यापि तुल्यत्वात्तुल्यभाग भागिता प्रसक्ताप्यनेक पितृकाणान्विति वचनेन निवर्त्तते। जीवत्पितृकयोःपौत्त्र प्रपौत्त्रयोः पार्वणानधिकारेण पिण्डदातृत्वाभावात्पितामह प्रपितामहघनेऽधिकारः। यदा चैकस्य पुत्त्राःसन्त्येकश्चपुत्त्र एवास्ति। तदा पुत्त्रस्यैकोभागोऽपरश्चैकः सर्वेषां पौत्त्राणाम्। स्वपित्रधीन जन्ममूलकत्वत् पितामहधनसम्बन्धस्य यावत्येव धने तस्य स्वामित्वार्हत्वन्तावत्येव तेषामपीति जीमूतवाहनो-क्तन्त्वनादेयम्। जन्मना पौत्राणामपि पितामहधने स्वत्व व्यवस्थापनात्। तस्मात् पौत्राणां पितामहधने वाचनिकमेव भाग,वैषम्यंनत्वौपपत्तिकम्। यत्त तेनैवोक्तम्। यत्रैकस्य भ्रातुरनेकसङ्ख्याः पुत्त्रा अन्यस्य च ततोऽल्प-सङ्ख्यास्तत्रेदमनेकपित्रुकाणामिति वचन पौत्त्रत्वे न सर्वेषां समभागनिवृत्त्यर्थञ्जीवति तु पितरि पौत्त्राणाम्पितामह धनस्वाम्येसपुत्त्रापुत्त्रभ्रात्रुद्वयविभागे

तत्पुत्त्राणामपि विभागःस्यात् स्वाम्याविशेषादिति तत्प्रागेव निरस्तम्। उक्तोऽति प्रसङ्गोऽप्यनेनैव परास्तः। अतएव पितृभ्रातृपुत्त्रसमवाये पितृव्य पितृधनन्तदिति भातृपुत्राणान्तत्र स्वाम्या भावाद्विभागएव न स्यादित्यप्यपास्तम्। यच्च जीवत्पितृकयोरित्यादि तदपि मन्दम्। न हि पिण्डदानाधिकारएव दायग्रहणे प्रयोजकःज्येष्ठे सति कनीयसामनधिकारोऽपि दायग्रहणात्। तदर्हतायाश्चात्राप्यनपायात्। गोत्रजादीनां दायहराणामनेकेषां समवाये पिण्डदानाद्युपकारित्वं धनस्वामिनो यत्तद्नुपकारि व्यावर्त्त कम्परन्नतुतदत्र प्रयोजकम्। जीवाद्विभागेऽजीवद्विभागे वा कस्याञ्चित्पितृपत्न्यां भ्रातृपत्न्यांवा स्पष्टगर्भायामाप्रसवम्प्रतीक्ष्यविभागः कार्य्यः।

अथ मातृणान्दायविभागो याश्चानपत्याः स्त्रियस्तासा मापुत्रलाभादिति वशिष्ठस्मरणात्। अपुत्त्रलाभादिति वचनात्स्पष्टगर्भासु प्रतीक्षाऽस्पष्टगर्भासु तु नेत्यवगम्यते। अतएव तत्र पश्चादुत्पन्नस्य विभागप्रकारमाह योगीश्वरः।

विभक्तेषु सुतोजातः सवर्णायां विभागभाक्।

पित्रिच्छया पुत्त्रेच्छया वा जीवतोःपित्रोर्विभक्तेषुपश्चात्सवर्णायां भार्य्यायामुत्पन्नोविभागभाक्। विभज्यत इति विभागःपित्रोर्भागस्तम्भजत इति विभागभाग्गवति। पित्रोरुर्द्धंस एव तयोरंशं लभत इत्यर्थः। असत्यां दुहितरि मातृभागमिति विशेषः। सवर्णायामिति विशेषणादमवर्णायां जातस्तु पित्र्याद्धनात्स्वांशमेव लभते दुहित्रभावे मातृभागं सर्व्वमेव। अनेनैवन्यायेन जीवद्विभागेऽपिविभक्तजोऽसव-

र्णापुत्त्रःस्वजात्युचित्तभागेव। न सकलपित्र्यभागित्वमवसेयम्। एतदेवाभिप्रेत्य मनुः।

ऊर्द्ध्वंविभागाज्जातस्तु पित्र्यमेव हरेद्धनमिति।

पित्रोरिदम्पित्र्यन्धनं यथोक्त व्यवस्थया हरेत् एवकारेण भ्रातृभिःस्वांशादाकृष्य स्वभागसमभागभाक् स न कार्य्यः। गौतमोऽपि। विक्तक्तजःपित्र्यमेवेति। जीवति तु पितरि मातरि तत्सपत्न्याञ्चाऽविस्पष्टगर्भायां विभक्तै-र्विभागानन्तरोत्पन्नोऽयं स्वभागादाकृष्य स्वभाग समभागभाक्स कार्य्यः। तथा च विष्णुः। पितृविभक्ता-विभागानन्तरोत्पन्नाय विभागन्दद्युरिति। तञ्चभ्रातृदत्तं तद्विभागं पितैव गृहीत्वा तम्परिपालयेत्। तस्यैव तत्राधिकारात्। अप्राप्तव्यवहाराव्यामित्यादि प्रायुक्तवचनाच्च। यच्च वचनम्।

अनीशःपूर्वजः पित्रोर्भ्रातुर्भागे विभक्तज इति।

तस्याप्ययमेव विषयः। पूर्वजो विभागात्पूर्व्वमुत्पन्नःप्राप्त पितृधनविभागःपित्रोर्विभागेऽनीशो न स्वामी। विभक्तजंश्च पूर्वविभक्तस्य भ्रातुर्भागेऽनीश इत्यर्थः। विभागोत्तरञ्च यत्पित्रर्जतं तदपि विभक्तजस्यैव।

पुत्रैःसह विभक्तेन पित्रा यत्स्वय मर्जितम्।
विभक्तजस्य तत्सर्व मनीशास्तत्र पूर्वजाः॥
यथाधने तथर्णे च दानाधानक्रयेषु च।

परस्पर मनीशास्तेमुक्त्वाशौचोदक क्रियामिति दृहस्पति स्मरणात्। स एव।

पित्रा सह विभक्ता ये सापत्ना वा सहोदराः।
जघन्यजास्तु ये तेषाम्पितृभाग हरास्तूते॥

अत्रहेतु रनीशपूर्वजःइत्यादितंद्वचनोक्त एव। ये तु विभक्ताःपित्रा संसृष्टाः पुत्रास्तैःसह तु तस्य विभागो न सकल पित्र्यधन ग्रहणमित्याह मनुः।

संसृष्टास्तेन वा ये स्युर्विभजेत स तैः सह।

तेन पित्र्यापितुरूर्ध्वम्पितृधने भ्रातृभिर्विभज्य गृहीते विभागसमयेऽस्पष्टगर्भायाः पितृपत्न्याःपश्चात्पुत्रेजाते स्वस्वभागादायव्यय विशोधितान्तैः स्वस्वभागसमभागभाक् करणीय इत्याह याज्ञवल्क्यः।

दृश्याद्वातद्विभागः स्यादायव्यय विशोधितात्।

दृश्याद्भ्रातृभिर्गृहीतात्। आयःप्रतिमासं प्रतिदिनं प्रत्यब्दंयत्तदुपरिवृद्धम्। व्ययः पितृकृतर्णापाकरण भ्रातृ भगिनीसंस्कारकरणञ्च। तस्य सर्वसाधारण्येन कर्त्तव्यत्वात्। नतु भ्रातृ कर्त्तव्यव्ययस्तस्यैतत् सम्बन्धाभावात्। ताभ्यामायव्ययाभ्यां विशोधितात्पितृ धनात्तस्य विभागोत्तरोयन्नस्य विभागःपूर्वविभक्तसमः स्थादित्यर्थः। एतदुक्तम्भवति। प्रातिस्विकेषु स्वस्वभागेषु तदुत्थमायम्प्रवेश्यावश्यकञ्च साधारणं व्ययन्निष्काश्याविशिष्टं स्वस्वभागेभ्यः किञ्चित्किञ्चिदुद्धृत्य विभक्तजः स्वभागसमभाक्कार्य्यइति। वा शब्दस्तुविभक्तेषु सुतोजात इति पूर्वार्द्धेन सह व्यवस्थित विकल्पार्थः व्यवस्थाचोक्तैव। हलायुधस्तु। दृश्यात् प्रत्यक्षान्नतु गुप्तात्पितृधनादित्यर्थ मुक्त्वा। विभक्त भ्रात्रपेक्षयां योऽल्पगुणो विभक्तजस्तद्विषयोऽयम्पक्षइत्याह। तन्निर्वोजत्वात् गुप्तस्यापि विभागानन्तरे ज्ञातस्य समभागेन विभजनीयत्वादत्रतद्प्रवृत्तौ प्रमा-

याभावान्नियमकल्पनेऽदृष्टार्थतापत्तेर्विज्ञानेश्वरोक्तार्थकतयाच वचनसामञ्जस्यादुपेक्ष्यम्।

असवर्णानां भ्रातृणां विभाग प्रकारमाह योगीश्वरः।
चतुस्त्रिद्व्येकभागाः स्युर्वर्णशोब्राह्मणात्मजाः।
क्षत्रजास्त्रिद्व्येकभागाविड्जास्तुद्व्येकभागिन इति ॥
तिस्रोवर्णानुपूर्वेण द्वेतथैका यथा क्रमम्।
ब्राह्मण क्षत्रिय विशाम्भार्य्यास्वाशूद्रजन्मन इति ॥

योगीश्वरेण ब्राह्मणस्यासर्वणास्तिस्रःक्षत्रियस्य द्वे। विश एका भार्य्याइति। सवर्णामादाय तेषां मध्ये ब्राह्मणस्य चतस्त्रक्षत्रियस्य तिस्रेवैश्यस्य द्वेइत्युक्तम्। सवर्णासवर्ण सर्वभार्य्याभिप्रायेण त्यादि संख्याने वैश्यस्यापि द्वेशूद्रापरिहारे च स्वैवेति स्वा शूद्रजन्मन इति वैश्याद्वैलक्षण्यासङ्गतेरेवस्यवर्णाभिधायैवेयं संख्योति विज्ञानयोगिभिर्व्याख्यातम्। तथा च ब्राह्मणाद्ब्राह्मण्यादिषु स्त्रीषु जाताः पुत्त्रायथाक्रमं वर्णशोमातृवर्णानुसारेण। संख्यैकवचनाच्छम्वी-स्मायामित्यधिकरण कारके शम् प्रत्ययः वर्णेवर्ण इत्यर्थः। ब्राह्मणदिभ्यः क्षत्रियादिषु जातानां मूर्द्धाभिषिक्तादि-जातिसंज्ञत्वे तद्वर्ण शब्देन ग्रहणासम्भवान्मातृवर्णश इत्यर्थः। चतु स्त्रिद्व्येकभागाः स्युः। एतदुक्तम्भवति ब्राह्मणेन ब्राह्मण्यामुत्पन्ना एकैकशश्चतुरश्चनुरोभागान् लभते। तेनैव क्षत्रियायामुत्पान्नांस्त्रीं स्त्रीन्। तेनैव वैश्यायामुपन्नां द्वौद्वौ। तेनैव शूद्रायामुत्पन्ना एकमेकमिति। वर्णशइति सर्वत्रोत्तरोत्र सम्बध्यते। तथा च क्षत्रात् क्षत्रियादिषु जाता यथाक्रमन्त्रीं स्त्रीन् द्वौद्वावकैकञ्च लभन्ते। विट्वैश्यादिषुजाता यथाक्रमं द्वौद्वावेकमेकत्वं

लभन्त इति। शूद्रस्यासवर्णाभार्य्याभावात्तत्पुत्त्राणां सजातीयपुत्रभागः पूर्वोक्त एव। यद्यपि शूद्रापरणयने द्विजातेर्भूर्य्याक्षेपः पुत्रार्थ विवाहस्तु सर्वथा शूद्रायां निषिद्ध एव। तथा च मनुविष्णू।

हीनजातिं स्त्रियं मोहादुद्वहन्तो द्विजातयः।
कुलान्येव नवत्त्य शु ससन्तानानि शूद्रताम्॥
शुद्रावेदी पतत्यत्रेरुतय्यतनयस्य च।
शौनकस्य सुतोत्पत्त्या तद्पत्यतया भृगोः॥

तदपत्यतया शूद्रामात्रजनितापत्यवत्तया ब्राह्मणस्य तु क्षत्रविडुपेक्षयाप्यधिक दोषतामाहतुस्तत्परिणये तावेव।

शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम्।
जनयित्वा सुतन्तस्यां ब्राह्मण्यादेव हीयत इति॥

योगीश्वरोऽपि। यदुच्यते द्विजातीनां शूद्रादारोपसंग्रहः।

नैतन्मम मतं यस्मात्तत्रात्मा जायते स्वयमिति॥

तेन विवादि जातशूद्रापुत्ताभावात्कथन्तस्यांशाभिधानमिति प्रतिभाति। तथापि रतिधर्मार्थविवाहयोरनुकल्पत्वेन परिणीतायां शूद्रायामनुषङ्गाज्जातस्य विभागाभिधान मुपपन्नमेव। शूद्र्याञ्जातो निषादो यः पारशवेतिजातिकथनमिव। आचारःमिताक्षरायामेव व्यवस्थापितः। अतएव मनुना।

कामतस्तु प्रवृत्तानामिनाःस्युः क्रमशोऽवराइति। कामत इत्यवरा इति च वदता सवर्णापरिणयनमेव मुख्यमित्युक्तम्। शङ्खलिखिताभ्यामपि। भार्याःकार्याःसजातीयाः सर्वेषां श्रेयस्यः स्युरिति पूर्वःकल्पस्ततोऽनु कल्प-

श्च तिस्रेब्राह्मणस्यानुपूर्व्येणतिस्रोराजन्यस्य। द्वेवैश्यस्य। एका शूद्रस्येति। आनुपूर्व्येणेत्युक्तेरुत्तरीत्तरञ्जन्यता सूचिता। यत्तु मनु ना चातुर्वर्ण पुत्रविभागे प्रकारह्वय मुक्तम्।

अंशन्दायाद्धरेद्विप्रोद्वा वंशौ क्षत्रियासुतः।
वैश्याजोऽध्यर्द्ध मेकांशमंश शूद्रासुतो हरेत्॥
सर्वंवा रिक्थजातन्तु दशधा परिकल्प्यतत्।
धर्म्यं विभागं कुर्वीत विधिनानेन धर्मवित्॥
चतुरोंऽशान् हरेद्विप्रस्त्रीनंशान् क्षत्रियासुतः।
वैश्यापुत्त्रो हरेद्व्यंशमंशं शूद्रासुतो हरेदिति॥

तत्रोत्तरप्रकारो योगीश्वरसंवादी। तद्गुणवदगुण वत्क्षत्रियादिपुत्रविषयतया व्यवस्थापनीयम्। अतएव ब्राह्मण जातोराजन्यापुत्त्र एव यदि जन्मज्येष्ठो गुणवांश्च तदा ब्राह्मणी पुत्रः समांशभाक्। ब्राह्मणेन क्षत्रियेण च वैश्यायाञ्जनितस्तादृक क्षत्रिया पुत्त्र समांश भागित्याह वृहस्पतिः।

विप्रेण क्षत्रियाजातो जन्मज्येष्ठो गुणान्वितः।
भवेत् समांशोविप्रेण वैश्याजातस्तथैव च॥

तथा बौधायनः। सवर्णा पुत्त्रानन्तरापुत्रयोरमन्तरा पुत्त्रश्चेद्गुणवान् स ज्येष्ठांशंहरेत्। गुणवान् हि शेषायाम्मर्त्ता भवतीति।ऐतद्वचनेऽनन्तरोत्पन्नमात्रस्य गुणवत्त्वज्येष्ठता प्रयुक्तोत्कृष्ट पुत्त्र समांशभाक्तोक्तेःवैश्यजशूद्रा पुत्रस्याप्येवं विधस्य वैश्यापुत्त्र समांशिता द्रष्टव्या वृहस्पत्यनुक्तापि। ज्येष्ठांशं हरेदित्यस्योत्कृष्ट समांश हरणमेवार्थो वृहस्पति संवादादुत्तमजातीयापेक्षयाधिकांशानौचित्याच्च। यदा तु शूद्रा एवैकः पुत्त्रो ब्राह्मणास्य। तदा स तद्धन तृतीयांशहारी भाग-

द्वयं सपिण्डनां तद्भावे सकुल्यानान्तेषामप्यभावे श्राद्धकर्त्तुः। यदाह देवलः।

निषाद एकःपुत्रस्तुविप्रस्य स तृतीयभाक्।
द्वौसपिण्डःसकुल्यो वा स्वधादाताथवा हरेत्।

ब्राह्मणाच्छूद्रायां जातो निषादः स एकश्चासौ पुत्त्रश्चेदित्यर्थः। क्षत्रिय वैश्ययोस्तु शूद्र एवैकः पुत्त्रःसधनार्द्धहरोऽपरमर्द्धमपुत्त्रधन ग्रहणाभिकारिणस्तद्वत्क्रमेण गृह्णीयुः। तथा च विष्णुः। द्विजातीनां शूद्रस्त्वेकपुत्त्रोऽर्द्धहरोऽपुत्र र्क्थस्य या गतिः साऽर्द्धस्य द्वितीयस्येति। द्विजाति पदेनात्र क्षत्रियवैश्यमात्र ग्रहणम्। देवलेन ब्राह्मणे विशेषाभिधानात्। एक पुत्त्र इति कर्मधारयः इदमपि सवृत्तातिगुणवच्छूद्रापुत्त्रविषयम्। अन्यथा। यद्यपि स्यात्तु सत्पुत्रइत्यादिना। ब्राह्मण क्षत्रिय विशामित्यादिनाच वक्ष्यमाणमनु वचनेन विरोधापत्तेः। यद्यपि सामान्यत इयम्भागक्लृप्तिरुक्ता। तथापि प्रतिग्रह प्राप्त भूमिव्यतिरिक्त विषयाक्षत्रियादि सुतानान्तत्र भाग प्रतिषेधात्। तथा च वृहस्पतिः।

न प्रतिग्रहभूर्देया क्षत्रियादि सुताय वै।
यद्यप्येषां पिता दद्यान्मृते विमासुतोहरेत्॥

अत्रप्रतिग्रहोपादानात्क्रयादि प्राप्तायार्म्भवत्येव तेषामपिभागः स्वजात्वर्हइति सूचितम्। अतएव भूमिमात्र विषये शूद्रा पुत्तस्य ध्थनिषेधो देवलेमोक्तः।

शूद्र्यांद्विजातिभिर्जातो न भूमेर्भाग मर्हति।

सजाता वा यासर्वमिति धर्मो व्यवस्थित इति। यत्तु। ब्राह्मणक्षत्रियविशां शूद्रापुत्रोन रिक्थभाक्।

यदेवास्यपिता दद्यात्त देवास्य धन स्मृतमिति मनु वचनम्। तत्पितृप्रीतिइत्तधन सद्भावविषयमिति दाक्षिणात्याः। निर्गुणापरिणीतशूद्रा पुत्त्र विषयमिति तु पौरस्त्यास्तन्मन्दम्। यदेवास्येत्यादि वाक्यशेषोपात्तव्यवस्थामपहायानु-पात्तसगुण निर्गुण व्यवस्थायाः कल्पयितुमनर्हत्वात्। अपरिणीतशूद्रापुत्त्र भागस्य च दासप्रस्तावेऽभिवास्य-मानत्वात्प्राच्येवव्यवस्था सुस्था। मुख्यामुख्य पुत्राणां विभाग व्यवस्थां वक्तुंतत्स्वरूपं निरूप्यते तत्र याज्ञवल्क्याः।

औरसोधर्मपत्नीजस्तत्समः पुत्रिकासुतः।
क्षेत्रजःक्षेत्रजातस्तु सगोत्रेणेनरेण वा॥
गृहेप्रच्छन्न उत्पन्नो गुढजस्तुसुतः स्मृतः।
कानीनःकन्यकाजातो मातामहसुतो मतः॥
अक्षतायां क्षतायां वा जातः पौनर्भवः सुतः।
दयान्माता पिता वा यं स पुत्त्री दत्तकः स्मृतः॥
क्रीतश्चताभ्यां विक्रीतः कृत्रिमः स्यात् स्वयं कृतः।
दत्तात्मा तु स्वयन्दत्तो गर्भे बिन्नः सहोढजः॥
उत्सृष्टेगृह्यते यस्तुसोऽपविद्धोभवेत् सुतः।

सवर्णा धर्म विशाहोढाधर्मपत्नी तस्यांजात औरसः पुत्त्र इति मिताक्षरां। वस्तु तस्तु नेदमेव बेद्धव्यम्। अनुलोमजानाम्मूर्द्धाभिषिक्तादीनामौरसेष्वन्तर्भावादिति स्ववचन विरोधात्। न हि ते सवर्णायामुत्पन्ना ब्राह्मणादिषु येषां येन धर्म विवाहास्तदूढोत्यत्रानाननौरसत्व प्रसङ्गे तेषुसत्स्वप्यन्येषान्दायग्रहण प्रसङ्गाच्च। तस्मादुत्कर्षा-भिरायंसवर्णाग्रहण धर्मपत्नीजत्वमात्रंवाक्योपात्तेक्षेत्रजादि व्यावर्त्तकंलक्षणाम्।

अतएव मनुः।

संस्कृतायां स्वभार्य्यायां स्वयमुत्पादयेत्तु यम्।
औरसन्तंविजानीयात्पुत्रं प्रथमकल्पिकम्॥

बशिष्ठोऽपि। द्वादशैव पुत्त्राःपुराणदृष्टाः स्वयमुत्पादिताः स्वक्षेत्र संस्कृतायामौरसःप्रथम इति। विष्णुरपि। अथ द्वादश पुत्त्राभवन्ति स्वक्षेत्रेसंस्कृतायामुत्पादितः स्वयमौरसः प्रथम इति। अत्र वचनद्व्येऽपि सक्षेत्रेसंस्कृतायामिति व्याख्यान व्याख्येयभावोऽन्यथा पौनरुक्त्यापत्तेः। देवलः।

संस्कृतायां स्वभार्य्यायां स्वयमुत्पादितो हि यः।
औरसोनाम पुत्त्रःस प्रधानःपितृवंशधृक्।

आपस्तम्बः। सवर्णांशास्त्रविहितां यथर्त्तु गच्छतः पुत्त्रास्तेषां धर्माभि सम्बन्धः दायेनाव्यक्तिक्रमश्चोभयोर्मातापित्रोः। बौधायनः। सवर्णायां संस्कृतायां स्वयमुत्पादितमौरसं पुत्त्रं विद्यात्। अथाप्युदाहरन्ति॥

अङ्गादङ्गात्सम्भवसि हृदयादभिजायते।
आत्मा वै पुत्त्रनामासि स जीवेत् शरदः शतम्॥
आाधत्त पितरो गर्भकुमार पुष्करस्रजम्।
यथेह पुरुषस्यामा तथा त्वमिह जायसे॥
आत्मा पुत्त्र इति प्रोक्तः पितुर्मातुरनुग्रहात्।
पुन्नाम्नस्त्रायसेयस्मात्पुत्त्रस्तेनासि संज्ञित इति॥

आपस्तम्बीयबोधायनीययोः सवर्णाग्रहणमुत्कर्षाभिप्रायकमेव।अतएवासवर्णासूत्पन्नानामप्यौरसपुत्त्रप्रस्तावएव विभागप्रकार उक्तः सङ्गच्छते। आपस्तम्बवचने सवर्णामपूर्वा मिति रत्नाकरे धृतः पाठोऽपूर्व्वोऽनपूर्व्वः पतिर्य्यस्याः सा वाग्दत्तापि या न भवतीत्यर्थ इति प्रकाशकारइति व्याख्यातञ्च।

पारिजातेऽप्युक्तम्। सवर्णात्र द्विजस्य द्विजा। शूद्रस्य शूद्रा। न तु ब्राह्मणस्यब्राह्मणी क्षत्रियस्यक्षत्रिया वैश्यस्य वैश्या। अन्यथा ब्राह्मणादि परिणीत क्षत्रियादि पुत्राणां द्वादशपुत्त्रान्तर्भावो न स्यादिति। पुत्त्रिकायाः सुतः पुत्त्रिकासुतः स तत्समः।

यथाह श्लोकं वशिष्ठः। अभ्रातृकां प्रदास्यामि तुभ्यङ्कन्यामलङ्कृताम्।

अस्यांयो जायते पुत्त्रःस मे पुत्त्रोभवेदिति॥

मनुरपि। अपुत्त्रोऽनेन विधिना सुतां कुर्व्वोत पुत्रिकाम्।

यदपत्यं भवेदस्यात्तम्मम स्यात् स्वधाकरम्॥
अनेन तु विधानेन पुरा चक्रेऽथ पुत्त्रिकाम्।
विवृद्धार्थंस्ववंशस्यस्वयं दक्षः प्रजापतिः॥
ददौ स दशधर्माय कश्यपाय त्रयोदश।
सोमाय राज्ञेसत्कृत्य प्रीतामासप्तविंशतिम्॥

अत्र परिभाष्य दत्तायामुत्पन्त्रःपुत्रिकापुत्त्रोमातामहस्येत्युक्तम्। अपरिभाषितदत्तायामपि सम्भवतीति भ्रातृमतीमिति विशेषणम्पुत्त्रिकाकरणशङ्कानिवृत्त्यर्थम्। अनेन चापरिभाषितापिपुत्त्रिका भवतीत्याक्षारमिताक्षरायां निरूपितम्। अतएव गौतमोऽपि।

पितोस्मृजेत्पुत्त्रिकामनपत्यो मदर्थमपत्यमिति सम्वाद्य।
अभिसन्धिमात्रात्पुत्त्रिकेत्येकेषामिति। ब्रह्मपुराणेऽपि॥
अपुत्त्रेण तु या कन्या मंनसा पुत्त्रवत्कृता।
राजाग्नि बान्धवेभ्यश्च समक्षं वाथ कुत्रचित्॥
प्राग्गर्भ मथवा शुल्कयुक्ता पित्त्रावराय वा।
स्मृते पितरि वा दत्ता सा विज्ञेया तु पुत्त्रिका॥

पित्र्यादृक्थात्समम्भागं लभेत तादृशी सुतेति।

मनुः। मातुः प्रथमतः पिण्डं निर्वपेत्य त्त्रिकासुतः।
द्वितीयन्तु पितुस्तस्यास्तृतीयन्तुपितुः पितुरिति॥

अथवा पुत्त्रिका चासौ सुतश्च पुत्त्रिका सुत इति पुत्त्रिकैव पुत्त्रस्थानीयेत्यर्थः। तस्याश्चौरसो जातत्वेऽपि कन्यात्वात्पुत्त्रसमत्वमिति वयम्। पित्रवयवानामल्पत्वान्मात्रवयवानां बाहुल्याच्चौरससमत्वमिति मिताक्षरा। यथाह वशिष्ठः। द्वितीयःपुत्त्रःपुत्त्रिकैवेति। द्व्यामुष्यायणस्तु।

अपुत्रेण परक्षेत्रे नियोगोत्यादितः सुतः।
उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मत इति॥

याज्ञवल्क्योऽपि। सवीजिनो यद्यप्यौरसस्तथाप्यन्यक्षेत्रोत्पन्नत्वादौरसादपकृष्टव। अतएवौरसो धर्म्मपत्नीज इत्यौरसलक्षणं तेनैवाभिहितम्। अस्माभिरपि क्षेत्रजत्वानपायात्क्षेत्रजपुत्त्र मध्यएव व्याख्यास्यते। मनुरपि॥

क्रियाभ्युपगमात् क्षेत्रं वीजार्थं यत्प्रदीयते।
तस्येहभागिनौ दृष्टौ वीजी क्षेत्रिकएव च॥

यथा लोके क्रियाकर्षणाख्यातादभ्युपगमात्। एकस्यवा पार्थं वीज व्रीह्यादिनास्ति क्षेत्रमस्ति अपरस्थ क्षेत्रं नास्ति वोजमस्ति। तत्र तौ मदीयं वीजन्त्वदीयं क्षेत्रं तत्र तदा वामे न कृषिं कुर्वंस्तवोत्पन्नफलमावयोरस्त्वित्यभ्युपगमं सम्विदं यदि कुरुतस्तथासति द्वावपि तत् फलभागिनौ दृष्टौ। तथा द्व्यामुष्यायण स्थलेऽप्यत्रोत्पन्न मावयोरखिति संविदा यद्येकस्य क्षेत्रेऽपरः स्ववीजमावपति तदुत्पन्नमप्यपत्यमुभयोर्भवतीति तस्य क्षेत्रजस्य द्विपितृकत्वेन द्व्यामुष्यायण संज्ञा। अत्रयाज्ञ-

वल्क्येन नियोगोत्पादित इत्युक्तेर्गुरु नियुक्तस्यैव देवर सपिण्डादेर्भ्रात्रादि भार्य्यायां घृताभ्यङ्गादिविधितः पुत्रोत्पादनमितरथा प्रत्यवाय उभयो रित्युक्तं भवति। तथा च मनुः।

अपुत्राङ्गुर्वनुज्ञातो देवरः पुत्रकाम्यया।
सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋतावियात्॥
अनेन विधिना जातः क्षेत्रजोऽस्य भवेत्सुतः।

यदा त्वनभिसन्धाय द्वयोरपत्यं परक्षेत्रे देवरादिना वीजमुप्यते तदा क्षेत्रिणएव तद्पत्यम्। तद्प्याह मनुः॥

फलन्त्वनभिसन्धाय वीजिनां क्षेत्रिणान्तथा।
प्रत्यक्षं क्षेत्रिणामर्थो वीजाद्योनिर्बलीयसीति॥

फलमपत्यरूपमनभिसन्धाय यत्र परक्षेत्रेयदपत्यमुत्पाद्यते तत्क्षेत्रवस्वामिनएव भवति। यथा लोके परक्षेत्रेव्रीह्यादि वीजं क्षेत्रस्वामिना सह सम्बिदमकृत्वैव यद्यादौपरकायेऽन्यदीयो न दुदश्चादि र्वीर्य्यमावपति यत्रोभयत्रापि क्षेत्रस्वामिनएव तदुत्पन्ने फलं स्वाम्यं दृश्यत इति प्रत्यक्षमित्यस्यार्थः तत्र हेतुर्वीजाद्यो निर्बलीयसीति। गवाश्वादौ तथा दर्शनादिति भावः। तथा चाभिमन्धौसत्येव क्षेत्रजस्य वीजिस्वाम्येन द्व्यामुष्यायणत्वं क्षेत्रस्वामि स्वाम्यन्तु क्षेत्रजउभयतापीति फलितोऽर्थः। अतएव यद्यपि याज्ञवल्क्येनापुत्त्रेणेत्यादिवचने वीज्यभिसन्धिर्नोपात्तस्तथापि सम्वाद्येकमूलकतयानुसन्धेयः। अतएव। क्षेत्रजःक्षेत्रजातस्तु सगोत्रणेतरेण वा। इत्यनभिसन्धि साधारणं क्षेत्रजलक्षणमुक्तमन्यथा पौनरुक्त्यापत्तेः। सगोत्रेण देवरसपिण्डादिना। इतरेणा सगोत्रेणेत्त्यनुकल्पःमनुना सपिण्डो वा सगोत्रो वा इत्यभिधानात्

नियोगश्च वाग्दत्ता विषय एवेत्याचार्याः।
यस्या भ्रियेत कन्याया वाचा सत्ये कृते पतिः।
तामनेन विधानेन निजो विन्देत देवर इति॥

मनुना तत्रैव नियोगविधिना पुत्त्रोत्पादनस्य निर्यामतत्वात्। विधवानियोगस्य प्रत्युत प्रतिषिद्धत्वाच्च। तथाहि॥

देवराद्वासपिण्डाद्वास्त्रिया सम्यङ्गियुक्तया।
प्रजेप्सिताधिगन्तव्या सन्तानस्य परिक्षये॥
विधवायां नियुक्तस्तु घृताक्को वाग्यतो निशि।
एकमुत्पादयेत् पुत्त्रंन द्वितीयं कथञ्चनेति।

इत्यादि विधवानियोगमुपन्यस्य निषेधयति स्वयमेव मनुः।

नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः।
अन्यस्मिन् हि नियुञ्जाना धर्मं हन्युः सनातनम्॥
नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्त्यते क्वचित्।
न विवाहविधावुक्तं विधवावेदनं पुनः॥
अयं द्विजैर्ह विद्वद्भिःपशुधर्मो विगर्हितः।
मनुष्याणामपि प्रोक्तो वेणौराज्यं प्रशासति॥
स महीमखिलाम्भुञ्जन् राजर्षिप्रवरः पुरा।
वर्णानां सङ्करञ्चक्रे कामोपहतचेतनः॥
ततः प्रभृतयो मोहात्प्रमीतपतिकां स्त्रियम्।
नियोजयत्यपत्यार्थन्तं विगर्हन्ति साधव इति॥

अत्रवाग्दत्ताशब्देन तुभ्यमहं सम्प्रदद इत्यादि सङ्कल्पवाक्येन कन्या दात्रादत्ता गृह्यते। विधवाशब्देन तु सप्तपदीपर्य्यन्त विवाहोढापश्चान्मृतपतिका। न तु विवाहात्प्रागनियतकाल प्रतिश्रवणरूप वाग्दानदत्तायाः।

अव्यङ्गेऽपतितेऽक्लीवे दशदोषविवर्जिते।
इमां कन्यां प्रदास्यामि देवाग्नि गुरुसन्निधाविति॥

वाक्येन प्रतिज्ञायते। अतएव पतिरिति मनुनोक्तम्। प्राग्भाविप्रतिश्रवणस्य विवाहप्रयोग वहिर्भावेन प्रतिश्राव्यस्य पतित्वाग्नि गुरुसन्निधाविति वाक्येन प्रतिज्ञायते। यद्यपि सङ्कल्पिताया अपि न स पतिर्ज्ञातः।

भार्य्यात्ववत्पतित्वस्याप्यलौकिकसंस्कारात्मकत्वेन विवाहभावनाभाव्यस्य सततं प्रागनुत्तेः। तथापि प्रयोगोपक्रमे तत्फलीभूततद्व्यवहारसम्भवः। यजमानेष्टितः प्रागप्याहवनीय व्यवहारवत्। प्रतिश्रवणमात्रेतु न तदुपक्रमोऽपीति सर्व्वथा पतित्व व्यपदेशोऽनुपपन्नः। अतएव प्रतीच्योदीच्यादीनां विवाहाददवीयःप्राक्काले वाग्दत्तायास्तदुद्देश्ये मृतेऽपि पुनरविगीत शिष्टैरन्येन सह विवाहः क्रियते। अन्यथा कलौ नियोगविधेरपि निषिद्धतया पुनरक्षताविवाहस्य दूरापास्ततथा स दूराचारएव स्यात्। तथा चायमर्थः। वाचां सत्ये कृते सङ्कल्पवाक्येन दाने कृते सति यस्याः पतिः पतित्वभाव्यकविवाहभावनाविषयीभूतः पुरुषो भ्रियेतेति। न च विहितप्रतिषिद्धत्वाद्विकल्पएव विधवानियोगस्यास्त्विति वाच्यम्। वस्तुनि विकल्पासम्भवात्। नहि विधवायां नियोगात्प्रवृत्तस्य प्रत्यवायो भवति न भवति वेति सम्भवति। नियोगविधेर्य्यस्या भ्रियेतेत्यादि वचनेन वाग्दत्ताविषयत्वे नियन्त्रिते विधवाविषये प्रवृत्त्यभावाच्चनियोजयितृणा-न्निन्दाश्रवणात् स्त्रीधर्मेषु व्यभिचारस्य बहुदोषजनकत्व श्रवणात् संयमस्यातिप्रशंसनाच्च तुल्य बलत्वस्यापिविधि प्रतिषेधयोरभावात्। तथा चमनुरेव।

कामन्तु क्षपयेद्देह पुष्पमूलफलैःशुभैः।
न तु नामापि गृह्णीयात्पत्यौ प्रेते परस्यत्विति॥

जीवनार्थं पुरुषान्तराश्रयणे निषिद्धेः।

आसीतामरणात् क्षान्ता नियता ब्रह्मचारिणी।
यो धर्म एकपत्नीनां काङ्क्षान्ति तमनुत्तमम्॥
अनेकानि सहस्त्राणि कुमारब्रह्मचारिणाम्।
दिवं गतानि वित्राणामकृत्वा कुलमन्ततिम्।
स्मृते भर्त्तरि साध्वी स्त्री ब्रह्मचर्य्येव्यवस्थिता॥
स्वर्ग्गङ्गच्छत्यपुत्त्रापि यथा ते ब्रह्मचारिणः।
अपत्यलोभाद्या तु स्त्री भर्त्तारमतिवर्त्तते।
सेह निन्दामवाप्नोति पतिलोकाच्च हीयत इति॥

पुत्त्रार्थामपिपुरुषान्तराश्रयणं निन्दातिशयपुरःसरम्प्रतिषिद्धवान्। पश्चात् स्वयमेव यस्या म्रियेतेत्यनेन वाग्दत्ताविपयनियोगस्य च धर्मत्वमुक्तवान्। अनेन विधानेनेत्युक्त्वाऽन्यथां।

यथा विध्यधिगम्यैनां शुक्लवस्त्रां श्युचिव्रताम्।
मिथो भजेताप्रसवात्सकृत्सकृदृतावृताविति॥

विधानमपि दर्शितवान्। घृताभ्यङ्ग गुर्वनुज्ञादिःपूर्व्वोक्तः स्मृत्यन्तरोक्तश्चयो विधिः सोऽप्यनेनेति सर्वनाम्ना परामृश्यते। देवरग्रहणं सपिण्डादेरुपलक्षणम्। वचनान्तरानुमारात्। पतिपदं वाचा सत्य इति च व्याख्यातमेव।

यस्मैवाग्दत्ता सप्रतिग्रहमन्तरेणेव तस्याः पतिरित्यस्मादेवावागम्यत इति मिताक्षराग्रन्थोऽप्यस्मदुक्तार्थाभिप्रायकतयै व नेयः। यथा श्रुते दोषस्योक्तवात्। अतएवाग्नेतनो-

ग्रन्थः। अयञ्च विवाहो यज्ञघृताभ्यङ्गादि नियमवान्नियुक्तागमनाङ्गमेवेति न देवरस्य तस्याम्भार्य्यात्वमापादयति। अतस्तदुत्पन्नमपत्यं क्षेत्रवामिन एवासत्यां सम्बिदि। सम्बिदि। सम्बिदैव तूमयोरपीति। नारदः॥

क्षेत्रिकानुमते वीजं यस्य क्षेत्रेप्रसिच्यते।
तदपत्यं द्वयोरेव वीजिक्षेत्रिकयोर्मतम्॥

शङ्खलखितौ। मन्त्र संस्कारकर्त्तुरपत्यमित्याङ्गिरसो वीजियक्षेत्रिकयोरनुमते यद्वीजम्प्रकीर्य्यते तत् द्विधा स्वस्येत्यु शनाः। कात्यायनः। क्षेत्रिकस्य मतेनापि फलमुत्पादयेत्तु यः।

तस्वेह भागिनौ तौ तु न फलं हि विनैकतः॥

हारीतः। जीवति क्षेत्रजमाहुरस्वातन्त्र्यान्मृते द्व्यामुष्यायणमनुप्तवीजत्वात्। नावीजं क्षेत्रंफलति। नाक्षेत्रंवीजं रोहत्युभयदर्शनादुभयोरपत्यमित्यपरे। तेषामुत्पादयितुः प्रथमः प्रवरो भवति। द्वौपिण्डौ निर्वापे दद्युरेकपिण्डो वा द्वावनुकीर्त्तयेत्। द्वितीये पुत्त्रस्तृतीये पौत्रो लेपिर्नश्चत्रीन्वाचक्षाण आसप्तमादित्येके। जीवति क्षेत्रपतौ तस्यैव क्षेत्रजं पुत्त्रमाहुः। अत्र हेतुरस्वातन्त्र्यात् स्त्रिया इत्यर्थः। मृतेतु क्षेत्रपतौ। अपुत्त्राशयनं भर्त्तुरित्यादि वक्ष्यमाण ममुवचनाद स्वातन्त्र्यसविशिष्टं यद्यपि तथापि न क्षेत्रिणएव तत्र हेतुरनुप्तवीजत्वात् क्षेत्रिणो वीजिनम्प्रत्यनुमत्यवश्यं भावादित्यर्थः। तत्रोपपादकता वीजमित्यादि निर्वापे निरूप्यतेऽस्मिन्निति निर्वापः पिण्डपितृयज्ञस्तत्रद्व्यामुष्ययनाःपितृद्वयाय द्वौपिण्डौ पृथग्दद्युः। एकपिण्डेवा द्वौपितराबनुकीर्त्तयेत्। एकैकस्मिन् द्वौद्वाविति बीप्साबोध्या। यदि द्विपिता स्यादेकैकस्मिन्

पिण्ड द्वौद्वावुपलक्षयेदित्यापस्तम्बस्मरणात्। त्रयाणामपि द्वित्वादिति भावः। द्वितीय इत्यादि। द्वितीयं तृतीयं चारभ्येत्यर्थः। लेपिनश्च त्रीणित्यादि। तत्कीर्त्तनेऽपि द्वौ द्वाबमुकीर्त्तयेदित्यर्थः। नारदोऽपि।

द्व्यामुष्यायणका दद्युर्द्वाभ्यांपिण्डोदके पृथक्।
ऋक्थादर्द्धंशमादयुर्वीजिक्षेत्रिकयो स्तथा॥

अर्द्धांशमिति यथोचितभागोपलक्षणम्। बौधायनः। अथाप्युदाहरन्ति।

द्विपितुःपिण्डदानं स्यात् पिण्डे पिण्डे च नामनी।
त्रयश्चपिण्डाः षणांस्युरेवं कुर्वन्न दुष्यतीति॥

षणां पितृपितामह प्रपितामहानाम्। स एव।

मृतस्य प्रसूतो यश्च क्लीवस्य व्याधितस्य वा॥

तेनानुमतस्य क्षेत्रेस क्षेत्रजः स च द्विपिता द्विगोत्रश्च द्वयोरपि स्व धाऋक्थभाग्भवति। मनुः।

यस्तल्पजः प्रमीतस्य क्लीवस्य व्याधितस्य वा।
स्वधर्मेण नियुक्तायां स पुत्त्रःक्षेत्रजः स्मृतः॥

अत्र सर्वत्र जीवति क्षेत्रिणि व्याध्यादिप्रतिरुद्ध पुत्रोत्पादने यथा योगं गुरूणाम्भर्त्तुरपि नियोगः सम्बिच्च।मृतेतु गुरूणामेव। तथा च क्षेत्रजो द्विविधो द्विपितृकः क्षेत्रिकपितृकश्च।

गृहे प्रच्छन्न उत्पन्नो जारात्पश्चात्सवर्णजातित्वेन निर्णीतःक्षेत्रस्वामिनो गूढजो नाम पुत्रः। मनुः।

उत्पद्यते गृहे यस्य न च ज्ञायेत कस्य सः।
स गृहे गूढ उत्पन्नस्तस्य स्याद्यस्य तल्पजः॥

नचेत्यादि। पुरुषविशेष जन्यत्वेनाइतोऽपि सवर्णजारजन्यत्वेनज्ञातः।

सजातीयेष्वयम्प्रोक्तस्तनयेषु मया विधिरिति।

योगीश्वरोक्तेस्तच्चव्याख्यास्यते। कानीनःकन्यकायामपरिणीतायां सवर्णाज्जातः स मातामहसुतो यस्य सा कन्या तस्यैव पुत्र इत्यर्थः।

परिणीतायान्तु जातो बोढुरेव तु गूढजः।

यथाह मनुः। पितृवेश्यनि कन्या तु यम्पुत्रञ्जनयेद्रहः।

तं कानीनं वदेन्नाम्नावोढुः कन्या समुद्भवमिति ॥

एतैर्वाक्यैरपरिणीतायां पितृगृहावस्थितायां सवर्णजारजःकानीनः स च मातामहसुत इत्युक्तं तद्विरुद्धंब्रह्मपुराणीयं कल्पतरुलिखितं वाक्यम्।

अदत्तायान्तु यो जातः सवर्णोन पितगृहे।
स कानीनः सुतस्तस्य यस्मैसा दीयते पुनः॥

नारदवाक्यमपि तत्रैव।

कानीनश्चसहोढश्चगूढायां यश्च जायते।
तेषां वोढापिता ज्ञेयस्ते च भागहराःस्मृता इति॥

अत्रादत्तायां सवर्णात् पितुर्गृहे जातस्य कानीनत्वमविरुद्धम्। यस्मै सापुन दीयते तस्यासौ सुत इति विरुद्धं नारदवचनेऽपि गूढोत्पन्न सहोढकानीनस्यापि वोढैब पितेति प्रतिपादितम्। मनुनापि वोढुरित्युक्तं न मातामहस्येति। या तु मिताक्षरकृता यद्यनूढायामुत्पन्नस्तर्हि मातामहसुतोऽप्यूढायान्तदा वोढरेवेति व्यवस्था कृता। सापि मनसि न चमत्कारमादधाति। तथा सति हि कन्याशब्दवाच्यायाम-

परिणीतायामजातत्वात् तस्य कानीनत्वन्दुर्वचम्। नच कन्याशब्दः अपत्यमात्रपरोविशेषणवैयर्थ्यात्। गूढनादीनामपि तत्रोत्पन्नत्वेनाव्यावर्त्तकत्वात्। सर्वाहि कस्यचित्कन्यैव। ब्रह्मपुराणबचनविरोधश्च दुष्परिहरस्तत्रादत्तायामित्युक्तत्वात्। अतएव मानवविरोधोऽपि दुःसमाध एव। कल्पतरुकारेणापि परसरविरुद्धवचनानि लिखितवता हृदय-शून्यवद्व्यवस्थानभिधानाद्विरोध एव न प्रतिसंहितः। तेनहि मातामह सुतत्वङ्कानीनस्यबोधयत्ति बहूनि वचनान्युपन्यस्य तद्विरुद्धे ब्रह्मपुराणनारदवचने तद्नुपदमेव लिखिते। तत्र वशिष्ठस्य वचः। कानीनः पञ्चमः या पितृगृहेऽसंस्कृता कामादुत्पादयेत्सकानीनो मातामहस्य पुत्त्रो भवतीत्याह। अथाप्य दाहरन्ति।

अपुत्रादुहिता यस्य पुत्रं विन्देत तल्पजः।
पौत्रो मातामहस्तेन दद्यात्पिण्डं हरेद्धनमिति॥

नारदस्यैवम्।

अज्ञात पितृको यस्तुकानीनोमूढमातृकः।
मातामहस्य दद्यात्सपिण्डं रिक्थं हरेत्ततः॥

बौधायनस्यापि। असंस्कृतामनतिसृष्टां यामुपगच्छेत्तस्यां यो जातः स कानीन इति। अव प्रतिविदध्मः। मातामह सुतत्वं कानीनस्य प्रतिपादयता वचनानां सर्वथा यां न दत्तातस्याः सवर्णजातविषयत्वम् वेढुःसुतत्वं प्रतिपादयतान्तु सङ्कल्पितायां सप्तपदीपर्य्यन्तं विवाहभावनाभाव्यभार्य्यात्वमप्राप्तायां यः सवर्णादुत्पन्नस्तद्विषयत्वम्। अदत्तायामिति नारदवचने बौधायनवचने चानतिसृष्टामिति यदाभ्यामसमाप्त विवाहभावनोच्यते न तु सर्वथा दत्ता युक्तञ्चैतत्। सङ्क-

ल्पेन पितृस्वत्वापगमपरिणेतृस्वत्वोत्पत्त रूपक्रमात्। पितुः सर्वथा स्वत्वापगमाभावाच्च कानीनत्वव्यपदेशस्य परिणेतृस्वत्वोपक्रमेण तदीयत्वस्य च सम्भवात्। पूर्णपतृस्वत्वेतु सत्पन्नस्य मातामहसुतत्वोपपत्तेः। मनु वचनस्याप्ययमर्थः या सङ्कल्पितासमाप्तविवाहभावना अतएवकन्यापरिणेतृभार्यात्वस्यानिष्पत्तेः। तादृश कन्यासमुद्भवं कानीननामानं वोढुर्येन विवाह्यते तस्य वदेदिति। अतरव पितृवेश्मनीत्यपि सङ्गत मनुवादतया। विवाहानन्तरमेव भर्तृगृहप्रवेशात्। मिताक्षरा ग्रन्थस्याप्ययमर्थः। अनूढायां वोढु मनुपक्रान्तायाम्। ऊढायां वोठुमुपक्रान्तायामिति। आदिकर्मणि क्तः। न तु भूते। समाप्त विवाह भावनायान्तु सवर्णजारजातो गूढजः। अतएवगृहे प्रच्छन्न उत्पन्नोभर्त्तृगृहेतेनाज्ञातो जात इत्युक्तम् पुनर्भूर्द्विविधा। विवाहमात्रेणावताप्यन्येन परिणीयमानैका। अन्यातु विवाहात्प्रागेव पुरुषसम्भोगदूषिता। तस्याञ्जातः पौनर्भवः। अतएवाक्षताया क्षतायां वा जात इत्युक्तम्।

मनुः।

या तु पत्या परित्यक्ता विधवा वा स्वयेच्छया।
उत्पादयेत्पुनर्भूत्वा स पौनर्भव उच्यते॥

कात्यायनः।

क्लीवं विहाय पतितं या पुनर्लभते पतिम्।
तस्याम्पौनर्भवोजातो व्यक्त मुत्पादकस्य सः॥

वशिष्ठ विष्णु। पौनर्भवश्चतुर्थ इति। चतुर्थत्वन्तदनुक्रमापेक्षया। माता भर्त्राज्ञया पिता वा यमन्यस्मै दद्यात्सतस्य दत्तकः पुत्रः। तथा च मनुः।

माता पिता वा दद्यातां यमद्भिः पुत्त्रमापदि।

सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्रिमः सुतः॥

आपदीयुक्ते रनापदि दातुः प्रत्यवायः। मातापितरौ प्रत्येकं मिलितौवा। अद्भिरिति दान प्रतिग्रह प्रकारोपलक्षणम्। सदृशंसवर्णं प्रीति संयुक्तमिति क्रियाविशेषणम्। एकः पुत्त्रश्च न देयो न प्रतिग्राह्यः। तथा च वशिष्ठः। शुक्रशोणितसम्भवः पुरुषो माता पितृनिमित्तकस्तस्य प्रदान विक्रय परित्यागेषु मातापितरौप्रभवतः। नत्वेकं पुत्त्रन्दद्यात्प्रतिगृह्णीयद्वा। स हि सन्तानाय पूर्वेषान्नतु स्त्रीपुत्त्रंदद्यात्प्रतिगृह्णीयाद्वान्यवानुज्ञानार्द्वर्त्तुरिति। अत्रभर्त्रनुज्ञां विना स्त्रियाः पुत्रप्रतिग्रह निषेधाददत्तानुज्ञे भर्त्तरि मृते विधवया कृतः पुत्रोदत्तको नभवतीत्याजस्तन्न अपुत्रस्यगत्यभावात्पुत्रकरणस्यावश्यकत्व- श्रवणाच्छास्त्रमूलक तदनु ज्ञायास्तत्राप्यक्षतेः। नचैव मनुज्ञानादन्यत्रेति व्यर्थम्। व्यावर्त्त्याभावाच्छास्त्रीयानुमतेः सर्वत्रावश्यकत्वादिति वाच्यम्। मुमुक्षोःपत्न्यन्तरे पुत्त्रवतो वानुज्ञया अंसम्भवाद्भार्य्यायदि स्वपुत्रार्थमेव तं प्रतिषेधस्य।

सर्वासां एकपत्नीनामेका चेत्पुत्रिणीभवेत्।
सर्वास्तास्तेन पुत्रेणप्राह पुत्त्रवतीर्मनुरिति॥

पुत्त्रकार्य्यश्राद्धादेः सपत्नीपुत्रेण सिद्धेर्भर्त्रनुज्ञां विना तादृश्याःपुत्त्रो न कार्य्यः। उभयोरपि तत्र कार्य्यस्य तेन निष्पत्तेः। भर्त्तुर्हिस औरस एव मुख्यः तस्या अपि दत्तवद्गौण इति तादृश्या भर्त्रेनुमति मन्तरेणेतरो न प्रतिग्राह्य इति तात्पर्य्यार्थः वस्तुतस्तु।

भ्रातृणामेकजातानामेकश्चेत् पुत्त्रवान् भवेत्।
सर्वास्तास्तेन पुत्त्रेण पुत्त्रिणो मनुरव्रवीदिति।

वचनवदेतस्यापि भ्रातृपुत्रस्य गौणदत्तक पुत्त्रत्वादि सम्भवेऽन्य पुत्त्र्यतिनिधिर्न्नकार्य्यइत्यर्थकतया मिताक्षरास्मृति चन्द्रिकादौ व्याख्यातत्वाद्भर्त्तरि जीवति भार्य्यया स्वातन्त्र्येण तदननुमतो न पुत्त्रीकरणीय इति भर्त्तुरनुज्ञानादन्यत्रेत्यस्यार्थः। मृते तु तस्मिन् यत्पारन्त्र्यन्तदनु स्मृते तु तस्मिन् पारतन्त्र्यन्तदनुमतिरेवापेक्षिता। एवं सति दृष्टार्थता भवतिप्रतिपेधस्य।

तस्माददत्तानुज्ञे मृतेऽपि भर्त्तरि भार्य्याया दत्तकादिकरणमविरुद्धम्। मनुवचनद्वयस्य पुर्व्वोक्तार्थकत्वे उपपत्तिरपि मिताक्षरादावेवोक्ता। यदपुत्ररिक्थग्रहणाधिकारिक्रमपरे पत्नी दुहितर इत्यत्राप्रजः स्त्रीधनमित्यत्र च भ्रातृपुत्र सपत्नीपुत्रयोः पत्न्यादि भर्त्राद्यभावेऽधिकार प्रतिपादनविरोधापत्तेरिति। तच्चतत्रैव प्रपञ्चयिष्यते। अनेकपुत्र सद्भावेऽपि ज्येष्ठः पुत्रो न देयः। ज्येष्ठेन जातमात्रेण पुत्री भवति मानव इति। पुत्रकार्य्यकरणे तस्यैव मुख्यत्वाभिधानात्।

क्रीतस्वयंदत्त कृत्रिमेष्वपि समानन्यायत्वादेकपुत्र ज्येष्ठपुत्रयोर्न्निषेधः। अतएव बहुच ब्राह्मणे हरिश्चन्द्रोपाख्याने क्रीतेऽपि ज्येष्ठपुत्रप्रतिषेध लिङ्गदर्शनं सज्येष्ठपुत्रंनिगृह्णीत उवाचेति।

पुत्र प्रतिग्रहप्रकारश्च। पुत्त्रम्प्रतिग्रहीष्यन्बन्धूनाहूय राजनि चावेद्य निवेशनस्य व्याहृतिभिर्हुत्वाऽदूरबान्धवं बन्धु सन्निकृष्टएव प्रतिगृह्णीयादिति वशिष्ठोक्तः।

अदूरबान्धवमित्यत्र देशभाषाविप्रकृष्टस्य प्रतिषेधः।

एवं क्रीतादिष्वपि। रमानन्यायत्वात्। कल्पतरौ त्वदूर-

बान्धवमसन्निकृष्टमेवेति पाठ लिखित्वाऽदूरबान्धवं सन्निहितमातुलादिकम्। असन्निकृष्टमेव। अविज्ञात गुण दोपमपि। अप्यर्थएव रत्नाकार इति व्याख्यातम्। सन्देहे चोत्पन्ने दूरबान्धवे शूद्रमिव स्थापयेद्विज्ञायते ह्येकेन च बहूस्त्रायतामितीति च वशिष्ठवचनमधिकं लिखित्वैवं विवृतम्। सन्देहे बान्धवानामसन्निधानाज्ज्ञाति सन्देह उत्पन्ने शूद्रमिव संस्कारहीनमेव स्थापयेत्। शोद्रोऽपि हि कृतपुत्रो भवतीत्यभिप्राय इति।

क्रीतस्तुपुत्रस्ताभ्यां विक्रीत इति। ताभ्यां मातापितृभ्यां मात्रा भर्त्रनुज्ञया पित्रावा मूल्यग्रहपरस्य दत्तः। एकपुत्रः ज्येष्ठपुत्रं वर्ज्जयित्वा आपदीत्येव। सजातीयेष्वित्युपसंहारात्सवर्णएव। यत्तु मनुनोक्तम्।

क्रीणीयाद्यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात्।
स क्रीतकः सुतस्तस्य सदृशोऽसदृशोऽपिवेति॥

तद्गुणैः सदृशोऽसदृशो वेति व्याख्येयन्नतु जात्याऽसदृश इतिसजातीयेष्वित्यनेन विरोधापत्तेः। बौधायनोऽपि। मातापित्रोहस्तात्क्रीतोऽन्यतरस्य वा योऽपत्यार्थे गृह्यते स क्रीतक इति। कृत्रिमस्तुपुत्वार्थिना स्वयं धनक्षेत्रादि प्रदर्शनादिना प्रलोभ्य त्वं मे पुत्त्रोभवेति यः सवर्णः पुत्त्रिकृतः स उच्यते। मातापितृविहीनश्चेत्।

तत्सद्भावे तत्परत्रतयातेन पुत्त्री भवितुमशक्यत्वात्।

मनु विष्णू अपि। सदृशं यम्प्रकुर्य्यातां गुणदोष विचक्षणम्।

पुत्त्रं पुत्त्रगुणैर्युक्तं स विज्ञेयस्तुकृत्रिम इति॥

सदृशं सवर्णम्। प्रकुर्य्यातां मातापितरौ मिलितौप्रत्येकं वा।

दत्तात्मा तु स्खयन्दन्तः खयमेव खात्मानन्यस्मै दत्तवास्तवा-

हम्पुत्त्रोभवामीति स्वयमुपगतो मातापितृविहीनस्ताभ्यां त्यक्तो वा सवर्णे पतितः स उच्यते। तथा च मनुः।

माता पितृविहीनो यस्त्यक्तो वा स्यादकारणात्।
आत्मानं स्तर्शयेद्यस्मै स्वयन्दत्तस्तु स स्मृत इति।

अकारणात् पातित्यादि कारणमन्तरेणैव दुर्भिक्षादौ पोषणाद्यसामर्थ्यादिना मातापितृभ्यान्त्यक्तः स्वतन्त्र इत्यर्थः। यस्तुगर्भेस्थितोऽपरिणीतावस्थायां सवर्णाज्जाराज्जातो गर्भिण्यान्तस्यां परिणीयमानायां विन्नःप्राप्तः विद्मलाभ इत्यस्य निष्ठान्तं रूपम्। दुदविदेत्यादि सूत्रेण निष्ठासम्बन्धितकारस्य न कारः। स सहोढज उच्यते। स वोढुः पुत्त्रः। तथा च मनुः। या गर्भिणी संस्क्रियते ज्ञाताऽज्ञातापि वा सती।

वोढुः स गर्भो भवति सहोढ इति चोच्यते॥

विष्णुरपि। सहोढःसप्तमः। गर्भिणी या संस्क्रियते तस्याः पुत्त्रः स तु पाणिग्रहस्येति। सप्तम इति तदीयपाठक्रमापेक्षया। उत्सृष्टो माता पितृभ्यान्त्यक्तो योंह्यते पुंत्त्रार्थिना सोऽपविद्धोनाम ग्रहीतुः पुत्त्रः। एतावपि सवर्णावेव। तथा विष्णुरपि। अपविद्धस्त्वेकादशः पिता मात्राच परित्यक्तः स येन गृहीतः। वशिष्ठः। अपविद्धःपञ्चमोऽयं माता पितृभ्यामपास्तं गृह्णीयात्। एकादशत्वं पञ्चमत्वं तत्तत्पाठक्रमापेक्षया।

यस्तुमनुना गौणपुत्त्रमध्ये पारशवाख्यः शूद्रापुत्रः परिगणितः स योगीश्वरेण सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिरित्युक्तोपसंहारव्याजेन नियमकारणात्तस्य च कथञ्चिदपि सजातीयत्वासम्भवान्नोक्तः। अतएव जातोऽपीत्यादिना

ग्रन्थेन स उक्तः। द्विजातस्य शूद्रापुत्त्रस्यान्याभावेऽपि पित्र्यऋक्थहरत्वाभावाच्च। तच्च वक्ष्यते। तथा च मनुः।

यं ब्राह्मणस्तु शूद्रायां कामादुत्पादयेत्सुतम्।
स पारयन्नेव शवस्तस्मात् पारशवः स्मृत इति॥

बौधायनोऽपि। द्विजाति प्रवराच्छूद्रायां जातः कामात्पारशव इति। तत्रौरमादयो गौणाः पुत्त्रा मुख्यस्त्वौरसएव।

तथा च मनुः।

क्षेत्रजादीन् सुतानेता नेकादश यथोदितान्।
पुत्त्र प्रतिनिधीनाहुःक्रियालोपान्मनीषिणः॥

क्रियालोपात्परिणयादि क्रियालोपादि क्रियालोपादिति प्रतिनिधित्वे हेतुः। स्मृति चन्द्रिकायान्तु। औरसाभावे तत्कर्तृकश्राद्धादि क्रियालोपाद्विभ्यतो मनीषिण ऋषय एकादश पुत्र प्रतिनिधीन् कर्त्तव्यत्वेनाहुरिति व्याख्यातम्।

बृहस्पतिः।

पुत्रास्त्रयोदश प्रोक्ता मनुनायेऽनुपूर्वशः।
सन्तानकारणन्तेषामौरसःपुत्रिका दश॥
पुत्र प्रतिनिधी कर्त्तव्येनाहुरिति व्याख्यातम्।

वृहस्पतिः।

आज्यं विना यथा तैलं सद्भिः प्रतिनिधिः स्मृतः।
तथैकादश पुत्रास्तु पुत्रिकौरसयोर्बिना॥

ब्रह्मपुराणे।

दत्तकश्च स्वयन्दत्तः कृत्रिमः कृतएव च।
अपविद्धाश्चये पुत्राभरणीयाः सदैव हि॥
भिन्नगोत्राःपृथक् पिण्डाः पृथग्व शकरास्तथा।
सूतके मृतके वा पित्र्यहाशौचस्य भागिनः।
अपि वस्त्रान्नदातृणां क्षेत्रवीजवतान्तथा।
शूद्रो दासःपारशवो विप्राणां विद्यते क्वचित्॥
राज्ञातु शापदग्धानां नित्यं क्षयवतान्तथा।

अथ संग्रामशीलानां कदाचिद्वा भवन्ति ते॥
औरसो यदि वा पुत्रस्त्वथवा पुत्रिका सुतः।
न विद्यते तत्र तेषां विज्ञेयाः क्षेत्रजादयः॥
एकादश पृथग्भावा वंशमात्रकरास्तु ते।
श्राद्धादि दासवत्सर्वे तेषां कुर्वन्ति नित्यशः॥
गूढोत्पन्नश्च कानीनः सहोढःक्षेत्रजस्तथा।
पौनर्भवश्चवैश्यानां राजदण्ड भयादपि॥
वर्जिताः पञ्च घनिनां शेषाः सर्वे भवन्त्यपि।
शूद्राणां दासवृत्तीनां पर पिण्डोपजीविनाम्॥
परायत्त शरीराणान्न क्वचित् पुत्र इत्यपि।
तस्माद्दासस्य दास्याश्चजायते दास एव हीति॥

एवमेतेषां पुत्राणां स्वरूपन्निरूप्य तेपान्दायग्रहणं निरूप्यते। तत्र योगीश्वरः।

पिण्डदोऽंशहरश्चैषां पूर्वाभावे परः परः।

परःपर इति वीसादर्शनात् पूर्वपूर्वभाव इत्यपि बीस्मावसेया।

औरसपौत्रिकेय समवायेऽप्येवमौरसे सति पुत्रिकासुतस्य दायग्रहणाभावे प्रसक्तेमनुरपवति।

पुत्रिकायां कृतायान्तु यदि पुत्रोऽनुजायते।
समस्तंत्र विभागःस्याज्ज्येष्ठता नास्ति हि स्त्रिया इति॥

वृहस्पतिरपि।

एक एवौरसःपित्र्येधने स्वामी प्रकीर्त्तितः।
तत्तुल्या पुत्रिका प्रोक्ता भर्त्तव्या स्त्वपरे सुताः॥

नच पुत्रिकाया एव प्रथमपुत्रेजाते पश्चादौरसोत्पत्तौ पुत्रिका पुत्रस्य ज्येष्ठत्वादस्त्रीत्वाच्चज्येष्ठांशभागिता भवेदिति युक्तम्। तस्य पौत्रत्वात्। तदाह मनुः।

अकृंता वा कृता वापि यं विन्देत्सदृशात्सुतम्।
पौत्री मातामहस्तेन दद्यात् पिण्डं हरेद्धनमिति।

पुत्त्रिका हि पुत्तस्तत्पुत्त्रो दौहित्रोऽपि पौत्त्रस्तद्वान्पौत्री भवति। पौत्त्रस्य च ज्येष्ठत्वेनांशातिरेकेा नैव श्रुतः। न च अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति पुत्रिकापुत्रस्यापि पुत्रत्वाभिधानात्तद्विरोध इति वाच्यम्। मनु विरोधेन तस्य गौण्य पिण्डदातृत्वनिमित्त पुरुत्वाभिप्रायकत्वात्। पुत्रिकायाः पुमपत्यत्वाभावाद्यथागौणं पुत्रपदप्रतिपाद्यत्वं तथा स्वजन्य पुत्रिकाजन्य पुत्रस्यापि। पुंस्त्वे सत्यपि जन्यत्वाभावात्। जन्यपुंस्त्वस्यैव पुत्रपदशक्यत्वात्। तथान्येषामपि पुत्राणां पूर्वपूर्वसत्वे सर्वभागानईत्वमनेन प्रसक्तमपवदति। वशिष्ठः। तस्मिंश्चेत्प्रतिगृहीत औरस उत्पद्येत चतुर्थभागभागी स्याद्दत्तक इति। दत्तकग्रहणं क्रीतादीनामुपलक्षणं पुत्रीकरणाविशेषात्।

उत्पंन्ने त्वौरसे पुत्त्रे चतुर्थांशहरःसुताः।
सवर्णा असवर्णास्तु ग्रासाच्छादनभाजना इति॥

कात्यायनवचनाच्च। सवर्णाःक्षेत्रजदत्तकादयस्ते सत्यौरमे चतुर्थशहराः। असवर्णाः कानीनगढोत्पन्न सहोढपौनर्भवास्तेतु सत्यौरसे न चतुर्थांशहरा अपि। किन्तु ग्रासाच्छादनमात्रभागिन इत्यर्थःकात्यायनवचनस्य।

अतएव विष्णुः।

अप्रशस्तास्तु कानीन गुढोत्पन्न सहोढजाः।
पौनर्भवश्च नैवैते पिण्डरिकथांशभागिन इति॥

औरसे सति कानीनादीनां चतुर्थांशभागित्वं प्रतिषेधति।

कानीनादीनामप्यौरसाद्यभावेऽस्त्येव पित्र्यसकल धनग्रहणम्। पूर्व्वाभावे परः पर इति वचनात्। यच्च मनुवचनम्॥

एक एवौरसः पुत्रः पित्र्यस्यवसुनः प्रभुः।
शेषाणामानृशं स्यार्थं प्रदद्यात्तु प्रजीवनमिति।

तदपि दत्तकादीनामौरस प्रतिकुलत्वोत्पन्न निर्गुणत्वे च चतुर्थांशादि निषेधपरङ्कानीनादिपरञ्च। तेषां सत्यौरसे ग्रासाच्छादनमात्रमागित्वस्योक्तत्वात् तदेकमूलकत्व कल्पनात्। चेत्रजस्य तु सत्यौरसे पञ्चम पष्ठांशो मनुनैवोक्तौ।

षष्ठन्तु क्षेत्रजस्यांशं प्रदद्यात् पैतृकाद्धनात्।
औरसो विभजन् दायंपित्र्यंपञ्चममेववेति॥

प्रतिकूलत्व निर्गुणत्व समवाये षष्ठमेकतर सद्भावे पञ्चममिति व्यवस्था।

यस्तुसमग्र धनभोक्ता स्यादौरसोऽपि जघन्यजः।
त्रिभाग क्षेत्रजं भुङ्क्तेचतुर्थं पुत्रिका सुतः॥

इत्यादि ब्रह्मपुराणादि वचनैः समभागार्हतया मन्वादिभिरुक्तस्य पुत्रिकापुत्रस्य चतुर्थांश उक्तः पञ्चम षष्ठांशार्हतयोक्तस्य क्षेत्रजस्य तृतीयांशश्चोक्तः सपुत्रिका पुत्रस्यात्यन्तनिर्गुणत्वे सवर्णवेच। क्षेत्रजस्य चात्यन्तसगुणत्वानुकूल्ययोर्व्यवस्थापनीयः औरसाभावे दत्तकस्याखिलधन ग्रहणार्थं पृथगारब्धं मनुना।

उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्रिमः।
सह तैरेव तद्रिक्थंसंप्राप्तोऽप्यन्यगोत्रतः॥

स्वगोत्र संप्राप्तः किमुतेति किमुत्पत्त्यर्थोऽपि शब्दः। जनक धनग्रहणञ्च तस्य प्रतिषिद्धन्तेनैव।

ग्रोत्ररिक्थे जनयितुर्न्न भजेद्दत्रिमः सुतः।

गोत्र रिक्थानुगः पिण्डोव्यपैति ददतः स्वधेति॥

ददतः सम्बन्धी पिण्डस्ततोव्यवैति। स्वधा पितृतृप्तिहेतुरिति पिण्डविशेषणम्। गोत्र रिक्थानुग इति हेतुगर्भम्। दत्तकमात्र विषयकमपि सत्यौरसे चतुर्थांशहरत्व प्रतिपादकं पृथगारब्धं वशिष्ठेन। तस्मिंश्चेत्प्रतिगृहीत औरसउत्पद्येत चतुर्थ भागभागी स्याद्दत्तक इति। क्रीतादि साधारणन्तु कात्यायनीयं प्रागेव पठितम्। तत्र तृतीयांशहरा इति कल्पतरूलिखितःपाठो यदि साकरस्तर्हिदत्तकादीनामौरसापेक्षया सगुणत्वेतृतीयांशहरत्वमिति व्याख्येयः। मनुनैव क्षेत्रजस्यौरससमभागभागित्वमप्युक्तम्।

यवीयान् ज्येष्ठभार्य्यायां पुत्र मुत्पादयेद्यदि।
समस्तत्रविभागःस्यादितिधर्मो व्यवस्थितः॥
उपसर्ज्जनं प्रधानस्य धर्मतो नोपपद्यते।
पिता प्रधानं प्रजने तस्माद्धर्मेण तम्भजेत्॥
धनं यो विभृयाद्भ्रातुर्मृतस्य स्त्रियमेव वा।
सोऽपत्यं नातुरुत्पाद्य दद्यात्तस्यैव तद्धनम्॥
यद्येकरिक्थिनौ स्यातामौरसक्षेत्रजौ सुतौ।
यस्य यत्पैतृकं रिक्थं स तद्गृह्णीत नेतरः॥

याद्यप्यौरस प्रक्रमात्समभागभागित्वं क्षेत्रजंस्य पित मेवोक्तमित्याभाति। तथापि वाक्यविरोधे प्रक्रमस्य वाध्यत्वाद्वीजिसमभागित्वपरन्तदिति बोध्यम्। अतएवोत्तर वचने पितुर्वीजिनःप्राधान्य मुपन्यस्यति। सोऽपत्यं भ्रातुरुत्पाद्यत्यनेनापि यस्य क्षेत्रजस्तदीयन्धनन्तस्मैदद्यादिति भ्रातृ स्थानीयत्वात्तस्य स्वसप्रभागितां प्रतिपादयति। एवमन्यान्य-

प्युच्चावचभागान् क्षेत्रजादीनां प्रतिपादयन्ति वृहस्पत्यादि वचनानि कथञ्चिद्व्यवस्थापनीयानि। तत्र वृहस्पतिः।

क्षेत्रजाद्याः सुताश्चान्येपञ्च षट् समभागिनः।

हारीतः।

विभजिष्यमाण एकविंशङ्कानीनाय दद्यात्॥

विंशम्पौनर्भवाय। एकोनविंशं द्व्यामुष्यायणाय। अष्टादशंक्षेत्रजाय। सप्तदशं पुत्रिकापुत्त्राय। इतरानौरसाय पुत्त्राय दद्युः। ब्रह्म पुराणे।

समग्रधनभोक्ता स्यादौरसेऽपि जघन्यजः।
त्रिभागं क्षेत्रजं भुङ्क्तेचतुर्थं पुत्रिकासुतः॥
कृत्रिमः पञ्चमम्भागं षड्भागङ्गूढसम्भवः।
सप्तांशश्चाप विद्धस्तुकानीनश्चाष्टमांशकः॥
नवभागंसहोढश्चक्रीती दशममश्नुते।
पौनर्भवस्तुपरतो द्वादशं स्वयमागतः॥
त्रयोदशमभागन्तु शौद्रो भुङ्क्तेपितुर्द्धनात्।
तद्गोत्रजो वा धर्म्मिश्ठोब्रह्मचार्य्यप्यथ वा पुनः॥

अत्रौरसेसनौति सर्वत्र ज्ञेयः। पूर्वाभावे परः पर इति वचनात् ब्रह्मपुराणीयस्य समग्रेत्यादि प्रथमश्लोकस्य पूर्वमेव विषयव्यवस्थोक्ता। अन्येषामपि गुणतारतम्येन देशाचारानुसारेण वा यथायथं व्यवस्था दृष्टव्या षट्भागं षष्ठम्भागम्। नवभागं नवमं भागमित्यर्थ। अन्यथार्थासङ्गतेःप्रक्रमभङ्ग प्रसङ्गाच्च।

परतोदशमात्परमेकादशम्। त्रयोदशमेत्यार्षम्। शौद्रः शूद्रापुत्रः। यदपि मनुना पुत्त्राणां षट्कद्वयमुक्त्वापूर्वषट् कस्य दायादस्य चााद्याद बान्धवत्व मुक्तम्।

औरसःक्षेत्रजश्चैव दत्तः कृत्रिम एव च।
गूढोत्पन्नोऽपविद्धश्च दायादा बान्धवाच षट्॥
कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा।
स्वयं दत्तश्च शौद्रश्च षड़दायादबान्धवा इति॥

तदपि स्वपितृसपिण्ड समानोदकानां सन्निहित रिक्थहरान्तराभावे पूर्वषट्कस्य तद्रिक्थहरत्वन्तुमुत्तरषट्कस्य तु तन्नास्ति। पितृऋक्थहरत्वन्तुसर्वेषामपि पूर्वपूर्वाभावे ममानमेवेति तद्दायादादायादत्वविभागो नोपपद्यते। पूर्वाभावे परः पर इति वचनात्।

एकएवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुरित्यक्त्वा।
न भ्रातरो न पितरः पुत्तारिक्थहराः पितुरिति।

वचनस्य गौण पुत्त्राणामेव सर्वेपाम्पितृरिक्थहारित्व प्रतिपादन परत्वाच्च। दायाद शब्दस्यदायादानपि दापयेदित्यादौ पुत्त्रव्यतिरिक्तरिक्थहारिष्वेव प्रचुर प्रयोगाच्च। बान्धवत्वं संपिण्डसमानगोत्रत्वाभ्यामुदकदानादिकार्य्यकरत्वं षट्कद्वयस्यापि ममानमेवेत्येतदर्थकम्। यत्तु हारीत वचन। षड्बन्धुदायादाः साध्व्यां स्वयमुत्पादितः क्षेत्रजःपौनर्भवःकानीनः। पुत्रिकापुत्त्रो गूढोत्पन्नो गृह इति। बन्धु दायादाःदत्तः क्रीतोऽपविद्धःसहोढःस्वयमुपगतः सहसांदृष्टश्चेत्यबन्धुदायादा इति। साध्व्यांस्वयमुत्पादित औरस इत्यर्थः। सहसा दृष्टो यो मातापित्रादिविहीनोऽकस्मादृष्टः केनचित् परितोष्य मम त्वं पुत्रोभवेत्युक्तस्तथाति प्रतिपद्यते। कृत्रिम इति यावत्। तत्र मनु विरोधःस्पष्टः। तेन कानीन पौनर्भवयोरबन्धुदायादमध्ये परिगणनात्। हारीतेन बन्धु-

दायादमध्येदत्तकृत्रिमापविद्धेषु च व्यत्ययात्। तस्मादेवं सवर्णादि भेदेन देशाचारभेदेन वा विरोधः परिहरणीयः। बौधायनस्तुमन्वनुसारेणैवाह।

औरसंपुत्त्रिका पुत्त्रं क्षेत्रजन्दत्त कृत्रिमौ।
गूढजं वापविद्धञ्च ऋक्थभाजःप्रचक्षते॥
कानीनञ्चसहोढञ्चक्रीतम्पौनर्भवन्तथा।
स्वयन्दत्तन्निषादञ्च गोत्रभाजः प्रचक्षत इति॥

औरसपुत्रिकापुत्त्र क्षेत्रजकानीनगूढोत्पन्नापविद्धसहोढपौनर्भवदत्तक स्वयमुपगत कृतकक्रीतानभिधायाह देवलः।

एते द्वादशपुत्त्रास्तु सन्तत्यर्थमुदाहृताः।
आत्मजाःपरजाश्चैव लब्धा यादृच्छिकास्तथा॥
तेषां षड्बन्धुदायादाः पूर्वेऽन्ये पितुरेव षट्।
विशेषश्चापिपुत्त्राणामानुपूर्व्या विशिष्यते॥
सर्वे ह्यनौरस्यैस्ते पुत्त्रादायहराः स्मृताः।
औरसे पुनरुत्पन्नेतेषु ज्यैष्ठ्यन्नविद्यते॥
तेषां सवर्णा ये पुत्त्रास्तेतृतीयांशभागिनः।
दीनास्तमुपजीवेयु र्ग्रासाच्छादनसंभृताः॥

आत्मजत्वादिकं परिगणितेषु यथायथं स्पष्टमेव अनौरसस्य न विद्यते औरसो यस्य तस्येति बहुब्रीहिः। नारदोऽपि।

औरसः क्षेत्रजश्चैव पुत्रिका पुत्र एवच॥
कानीनश्च सहोढश्चगूढोत्पन्नस्तथैव च।
पौनर्भवोऽपविद्धश्चदत्तः क्रीतः कृतस्तथा॥
स्वयञ्चोपगताः पुत्रा द्वादशैते प्रकीर्त्तिताः।
एषां षड्बन्धुदायादाः षड़दायादबान्धवाः॥

पूर्वः पूर्वः स्मृतः श्रेष्ठो जघन्यो योह्यनुत्तरः।
क्रमायाते प्रवर्त्तन्ते मृते पितरि तद्धने॥
ज्यायसो ज्यायसोऽभावे जघन्यस्त दवाँप्नुयात्।

मनुः।

श्रेयसः श्रेयसोऽलाभे पापीयान् रिक्यमर्हति॥
बहवश्चेत्तु सदृशाः सर्वेरिक्थस्य भागिनः॥

वृहस्पतिः।

दत्तोऽपविद्धः क्रीतश्च कृतः शौद्रस्तथैवच।
जाति शुद्धामध्यामास्तेसर्वे रिक्थसुताः स्मृताः॥
क्षेत्रजो गर्हितः सद्भिस्तथा पौनर्भवः सुतः।
कानीनश्च सहोढश्च गूढोत्पन्न स्तथैव च॥

हारीतः।

शूद्रा पुत्त्राःस्वयदत्ता ये चैते क्रीतकाःसुताः।
सर्वेतेगोत्रिणः प्रोक्ताःकाण्ड पृष्ठान संशयः॥
स्वकुलं पृष्ठतः कृत्वायोवैर कुलं ब्रजेत्।
तेन दुश्चरिते नासौ काण्डष्टष्ठो न संशयः॥

यमः।

आपद्दत्तो ह्युपगतो यश्च स्याद्वैष्णवी सुतः।
सर्वे ते मनुना प्रोक्ताःकाण्डपृष्ठा स्त्रयस्तथा॥
कुलं काण्डमिति ख्यातं यस्मात् पूर्वाणि ते जहुः।
तत्र ज्येष्ठतरोयः स्यात्तं वै काण्डे विनिर्द्दिशेत्॥
स्वकुलं पृष्ठतः कृत्वा योवै परकुलं व्रजेत्।
तेन दुश्चरितेनाप्तौ काण्डपृष्ठ इति स्मृतः॥

वैष्णवी शूद्रोति कल्पतरौ। उक्तोपसंहार मुखेन नियमाहात्र योगीश्वरः।

सजातीयेष्वय म्प्रोक्तस्तनयेषु मथा विधिः।

अयं पूर्वाभावे परः परोधनभागित्युक्तो यो मयाविधिः स स जातीयेषूत्पादक सजातीयेष्वेव क्षेत्रजादिषु ज्ञेयो न वि-

जातीयेषु तत्र कानीनगूढोत्पन्नसहोढपौनर्भवानां सवर्णत्वञ्जनकद्वारेण न स्वरूपेण तेषु वर्णजातिलक्षणात् वर्णजातिविवेकमभिधाय विन्नास्वेवविधिः स्मृत इति योगीश्वरेणैवाभिधानात्। अनुलोमजानां मुर्द्धाभिषिक्तादीनामौर-सेष्वेवान्तर्भावाच्चतुस्त्रिद्व्येकभागा इत्यादिना भागक्लृप्तिरुक्ता। तेन तेषामप्यभावे क्षेत्रजादयः पित्र्यऋक्थहारिणः। शुद्रापुत्रस्यत्वौरसत्वेऽपि न कृत्स्नपित्र्यधनभागित्वमन्याभावेऽप्यस्ति। यथाह मनुः।

यद्यपि स्यात्तु सत्पुत्त्रोयद्यपुत्रोऽपि वा भवेत्।
नाधिकं दशमादृृद्याच्छुद्रा पुत्राय धर्मतः॥

यदि सत्पुत्रोविद्यमानः सवर्णापुत्रो यदि वाऽपुत्रोऽविद्यमानः सवर्णापुत्रो भवेत्तस्मिन्मृते क्षेत्रजादिः पुत्रोऽन्योवा रिक्थहारी शुद्रापुत्राय तद्धनाद्दशमांशादधिकं न दद्यात् अस्मादेव वचनात्मवर्णापुत्राभावे क्षत्रियावैश्यापुत्रयोः सकल विप्रपितृधनग्रहणं गम्यते। यत्तु प्राक् चतुस्त्रिद्व्येकभागा इत्यादि वा शूद्रापुत्रस्यैकभागभागित्वं योगीश्वरादिभिरुक्तन्तदति सद्वृत्त शूद्रापुत्रविषयं वेदितव्यमन्यथामानवविरोधात्। ब्राह्मणक्षत्रियविशामिति मनु वचनन्तु प्रागेव व्याख्यातम्। शूद्रधनविभागे विशेषमाह। याज्ञवल्क्यः। जातोऽपि दास्यां शूद्रेण कामतोंऽश हरो भवेत्।

मृते पितरि कुर्युस्तं भ्रातरस्त्वर्द्वभागिकम्॥
अभ्रातृको हरेत्सर्वं दुहितृणांसुतादृतेति।

शूद्रेण दास्या सुत्पन्नः पुत्रः कामतः पितुरिच्छया भागं लभते। पितुरूर्ध्वंन्तु भ्रातरः परिणीताः शूद्रापुत्रा स्तन्दासी-

पुत्त्रं स्वभागार्द्धभागिनं कुर्युः। अत्र बहुवचनात्सर्वेस्वस्वभागादर्द्धन्दाद्यूरिति न भ्रमितव्यम्। तथा सति बहुभ्रातृकस्य ततोऽप्यतिहुधनत्वापत्तेरव्यवस्था स्यात्। किन्त्वेक पुत्त्रस्य यावान् भागस्तत्तदर्द्धभागं शूद्रापुत्रा लभन्ते व्यक्त्यभिप्रायेण जात्यभिप्रायेण च बहुचवनैकवचने। परिणीत शूद्रा पुत्त्रस्तत्पुत्राद्यभावेतु दासीपुत्रोऽपि कृत्स्नं शूद्रस्य पितुर्द्धनं लभत इत्यर्थाद्गम्यते। शूद्रग्रहणाद् द्विजातिभ्यो दास्यामुत्पन्नः पित्रिच्छयाप्यं शमर्द्धभागं वा तदूर्द्धन्नलभते कृत्स्नन्तवद्धनग्रहणं दूरापास्तमेव किन्त्वप्रतिकुलश्चेज्जीवन मात्रमिति प्रतीयते। मुख्यगौणपुत्राभावे मृतपतितपरिब्राजकादि धनग्रहणाधिकारिण उच्चन्ते। तत्र योगीश्वरः।

पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा।
तत्सुतो गोत्रजो बन्धुः शिष्यः स ब्रह्मचारिणः॥
एषामभावे पूर्वस्य धनभागुत्तरोत्तरः।
स्वर्य्यांतस्य ह्यपुत्रस्य सर्ववर्णेष्वयं विधिरिति॥

अपुत्रस्य पूर्वोत्तद्वादशविध पुत्ररहितस्य स्वर्य्यातस्य मृतस्य पत्न्यादयःपूर्वपूर्वाभावे पाठक्रमेणोत्तरोत्तरन्धनं गृह्णीयुरित्यर्थः। अयं विधिः सर्वेषु मूर्द्धभिषिक्तावसिक्ताद्यनुलोमज प्रतिलोमजादिषु वर्णेषु च ब्राह्मणादिषु वेदितव्यमित्यर्थः। तत्र प्रथमं पत्नी धनहारिणी। पत्नीशब्देनैव विवाहसंस्कृता। पत्युर्नोयज्ञसयोगे इति पाणिनि सूत्रात्। जात्यभि प्रायेण चैकवचनं तेन बह्व्यश्चेत्पत्न्यएकस्य तदा सर्वाःसजातीयाविजातीया क्रमेण यथायथं भर्त्तृधनं विभज्य गृह्णीयुः। पत्नी शब्दादासुरादि विवाहोढाया धन ग्रहणं धर्म्य विवाहो-

ढपत्न्यन्तर सद्भावे नास्तीति गम्यते। तथा च स्मृतिः।

क्रयक्रीता तु या नारी न सा पत्नी विधीयते।
न सा दैवे न सा पित्र्येदासीन्ताङ्कवयो विदुरिति॥

अत्र च दासीत्वकथनमदृष्टार्यकर्मसु सहाधिकाराभावाभिप्रायेण न तु दासीवद्गम्यत्वाभिप्रायेण। विवाहितात्वेन परदारत्वावाधात् अतएव मनुर्धर्म्याधर्म्य विवाहाननुक्रम्य सन्तानगतावेव गुणदोषावाह।

अनिन्दितैः स्त्रीविवाहै रनिद्या भवति प्रजा।
निक्षितैर्न्निन्दितान्नृणान्तस्मान्ति न्यान्विवर्जयेदिति॥

प्रजाया निन्दितत्वमपि सद्वृत्त स्वभावत्वाभावो न तु वर्णजात्यभावः। परिणेतुः परिणीताया मुत्पन्नत्वमात्रस्य वर्ण जाति व्यञ्जकत्वात्। विन्नास्वेष विधिः स्मृत इत्युक्तेः। अतएव न सा दैवे न सा पित्र्यदति सहाधिकारण एवप्रतिषिद्धः। तथा च पित्र्यादि कर्म्माहितापि पतिदायहरत्वप्रयोजिकेति पत्नीपदेन ज्ञापितम्। अतएव श्रौतस्मार्त्तसहाधिकारिणी- पतिव्रतैव भर्तृधनभागिनीत्याह प्रजापतिः।

पूर्वं मृता त्वग्निहोत्रं मृते भर्त्तरि तद्धनम्।
लभेत् पति ब्रता नारी धर्मएष सनातनः॥

वृद्ध मनुरपि।

अपुत्राशयनम्भर्त्तुःपालयन्ती ब्रते स्थिता।
पत्न्येव दद्यात्तत्पिण्डंकृत्स्नमंशलभेत चेति॥

अत्रोत्त रार्द्धोक्तपाठक्रमस्यांर्थ क्रमेण वाघात् प्रथमं कृत्स्न मंशंलभते। पश्चात्पिण्डंदद्यादिति स्मृतिचन्द्रिकाकारेणोक्तं तद्धेयम्। क्रमे तात्पर्य्याभावात्। उभयाधिकार प्रतिपादनमात्र परत्वाद्वचनस्य। अन्यथा यावदंशलाभं भर्त्रन्त्ये

ष्टिविलम्बोऽपि प्रसज्येत। सचानेकस्मृतिनिषिद्धः। अद्रुष्ट कल्पनापत्तिश्च। पत्न्यैवेत्येवकारेणापुत्त्रस्यान्त्यकर्मण्यप्यपुत्त्र पुत्रवत् पत्नीत्यादि वचनाद्भ्रात्रादि सत्वेऽपि सैवाधिकारिणीति दर्शितम्। अयमेवार्थः प्रपञ्चितः प्रजापतिना।

जङ्गमं स्थावरं हेमं कुप्पन्धान्यं रसाम्बरम्।
आदाय दापयेच्छ्राद्धंमासषाण्मासिकादिकम्॥
पितृव्यगुरु दौहित्रान् भर्तुः स्वस्त्रीयमातुलान्।
पूजयेत्कव्य पूर्त्ताभ्यां वृद्धांश्चाप्यतिथीन् स्त्रियः॥

कुप्यन्त्रपुसीसादि। कव्यम्पित्रर्थंसङ्कल्पित मन्नादि। पूर्त्तङ्खातादि कर्म्माङ्गदक्षिणादि। एतदुक्तम्भवति। स्थावरेणापि सहितं सर्वंभर्त्तृधन मधिगत्य धनसाध्यं स्त्र्यधिकाकारिकं पत्युरात्मनश्च श्रेयः साधन कर्म पतिपक्षीय पुरस्कारेण पत्न्या कार्य्यमिति। एवं वर्त्तमानाया ये पौड़ाकारिणस्तेराज्ञाचौरवद्दृण्या इत्याह। स एव।

सपिण्डा बान्धवा ये तु तस्याः स्युःपरिपन्थिनः।
हिंस्युर्द्धनानि तान् राजा चौरदण्डेन शासयेत्॥

स्मृति चन्द्रिकायां वार्हस्पत्यत्वेन पत्न्याःस्थावरग्रहण निषेधकम्।

यद्विभक्तेधनङ्किञ्चिदाध्यादि विविधं स्मृतम्।
तज्जाया स्थावरं भुक्त्वा लभते मृतभर्त्तृकेति॥

वचनं लिखितम्। जङ्गमं स्थावरमित्यादि प्रजापति बचन विरोधपरिहाराय वृत्तविहीन पत्नीपरत्वमविभक्तपत्यंशविषयत्वं वान्योक्तम्।

वृत्तस्थायि कृतेऽप्यंशेन स्त्री स्थावरमर्हतीति।

तच्छेषविरोधेनापास्य दुहितृरहित पत्नी विषयत्वेन व्यवस्थापितञ्च। तत्र मदनरत्नकारेण मिताक्षराकल्पतरुहलायुधादि सर्व ग्रस्थान्तरेष्वलिखनान्निर्मूलत्वमस्य। जङ्गमं स्थावरमिति प्रजापत्यस्य च सर्वत्र लिखनात्समूलत्वमिति दूषणमुक्त्वा तदुक्त व्यवस्थायाश्च स्वोत्प्रेक्षामात्र कल्पितत्वेना युक्तत्वमभिधाय समूलत्वेऽपि स्थावरादि समग्रधनग्रहणं ब्राह्मादि विवाहोढाविषयन्तद्वचनेषु पत्नीशब्दप्रयोगात्। स्थावर ग्रहण प्रतिषेधक वृहस्पति वचनन्तु जाया स्त्री शब्दमात्र प्रयोगादासुरादि विवाहोढाविषयमिति स्वयं व्यवस्था कृता। आसुरादि विवाहोढायाःपत्नीशब्देनाग्रहणाज्जायादिशब्दोपेत वचनानामपि तदेक मूलकतया तत्परत्वात् स्मृतिचन्द्रिकायामेव निरस्ता।यत्तुतदुक्त व्यवस्थायामौत्प्रेक्षिकत्वमुक्तं तदपि न दुहितृसत्वे तत् सन्तानद्वारेण स्थावरस्योपभोगधन स्वाम्युपकारयोः सम्भवाद्दुहितरमपिग्राह्यं तद्रहितायास्तु तदभावान्न तद्ग्रहणमिति तत्रापि वीजसम्भवात्। अतएव पितुरपि स्थावरे स्वार्जितेऽपि पुत्त्रानुमतिमन्तरेणानधिकारःप्रागुक्तः। यत्तु गृहीतघनायाःपत्न्यास्तद्धनेन जीवनमात्रन्दानाधीकरणविक्रयेषु तु नाधिकार इति।

मृते भर्त्तारि भर्त्रशंलभेत कुलपालिका।
यावज्जीवन्नहि स्वाम्यन्दानाधमन विक्रय इति।

कात्यायनवचनात्प्रतीयते। तदपि दृष्टार्थ नट नर्त्तकादिदानास्वातन्त्र्यपरम्। अदृष्टार्थदाने तदुपयोगिनो राधीकारण विक्रयोश्च तेनैवाधिकाराभिधानात्।

ब्रतोपवास निरता ब्रह्मचर्य्येव्यवस्थिता।

दमदानरता नित्यमपुत्त्रापि दिवं व्रजेदिति॥

दिवं व्रजेदित्यनेन काम्येऽपि दानादौ तस्या अधिकारः प्रतीयते किमुत नित्ये नैमित्तिके च। जङ्गमं स्थावरं हेमेत्यादिपूर्व्वोदाहृत प्रजापतिवचनाच्च। तत्रापि पूर्व्वग्रहणात्काम्येष्वष्यधिकार आयातीति स्मृति चन्द्रिकाकारादयः। यच्चापरमपि कात्यायनवचनमेव।

अपुत्ताशयनम्भर्त्तुःपालबन्ती गुरौ स्थिता।
भुञ्जितामरणात्क्षान्ता दायादा ऊर्द्धमाप्नुयुरिति॥

तत्र स्मृतिचन्द्रिकाकार आह। क्षान्ता। दायादकारित धन विनियोग प्रतिबन्धं सहमाना सत्यामरणाद्भुञ्जीतेत्यर्थः। इदञ्चरक्षणाभरणाद्यसमर्थेषु कार्यान्तर व्यग्रेषु श्वशुरादिषु पत्न्या यत् स्वयमेव खजीवनार्थमुपात्तमविभक्तं तद्विषियम्। विभक्त द्रव्यविषयत्वे मन्वारिपरिनिष्ठितार्थवाधापत्तेरिति। पौरस्त्यास्त गुरौ श्वशुरादि समीपे स्थिता भर्त्तृधनं भुञ्जितेव। न तु स्त्रीधनवद्यथेच्छन्दानाधानविक्रयादि कुर्व्वीत तस्या ऊर्द्ध्वंदायादा दुहित्रादयस्तद्धनाधिकारिणो गृह्णीयुर्न्न तुज्ञातयः। तेषां दुहित्रादिभ्यो जघन्यत्वात् तद्वाधकत्वानुपपत्तेः। पत्नी हि तेषां वाधिका। तदधिकार प्रागभाव प्रध्वंसयोरविशेषाद्वाधका-भावस्य तद्वाधान्नुपपत्तेः। नापि स्त्रीधनाधिकारिणो गृह्णीयुः। कात्यायनवचनेनैव स्त्रीधनाधिकारिणां वचनान्तरैरुक्तत्वात् पौनरुक्त्यापत्तेः। पत्नी दुहितरश्चेत्यादिना ये पूर्वस्थाभावे परभूताश्च अपुत्त्रासंसृष्टिविभक्त मृतधनाधिकारिणोनिर्दिष्टास्ते यथा पत्न्याधिकार प्रागभावं गृह्णीयुस्तथापत्न्या जाताधिकारायाः प्रध्वंसेऽपि

भोगावशिष्टं गृह्णीयुः। तदानीं दुहित्रादीनामेवान्यापेक्षया मृतोपकारकवात्। दानधर्मेषु महाभारतवचनमप्येतदु-पोद्बलकम्।

स्त्रीणां स्वपतिदायस्तुउपभोगफलः स्मृतः।
नापहारं स्त्रियः कुर्य्युःपतिवित्तात्कथञ्चनेति॥

उपभोगोऽपि न सूक्ष्मवस्त्रादिना। किन्तु पत्युरुपकाराय देहधारण पात्रोपयोग्युपभोगानुज्ञातम्। एवञ्च वृहस्पतिना पितृव्यगुरु दौहित्रानित्यादिना पितृव्यपदेन भर्त्तृसपिण्डोपलक्षणाद्दौहित्रपदेन तद्दुहितृसन्तानोपलक्षणान्मातुल स्वस्रीयपदाभ्यान्तन्मातृकुलोपलक्षणन्तेभ्य एवार्थानुरूपं भर्त्तुःश्राद्धाद्यौर्द्ध्वदेहिकोपकारकं दद्यात्। न तु स्वपितृकुलसम्बन्धि भ्यस्तदनुमत्या तु तेभ्योऽपि। तथा च नारदः।

मृते भर्त्तर्य्यपुत्त्राया पतिपक्षःप्रभुः स्त्रियाः।
विनियोगेषु रक्षासु भरणेषु स ईश्वरः॥
परिक्षीणे पतिकुले निर्मनुष्ये निराश्रये।
तत्सपिण्डेषु चामत्सु पितृपक्षःप्रभुः स्त्रिया इति॥

सम्मुखमेव वचनार्थमादाय नास्त्येव स्त्रिया भर्त्तृ रिक्थे दान विक्रयाद्यधिकार इत्याहुः। तत्रेदं वाच्यम्। किन्तस्य तथा कृतेऽपि दानादौ तत्स्वरूपानिष्पत्तिरेव। न तावदेकं युक्तम्। मन्वादिवचनैः सकलभर्त्तृधनग्रहणे तस्या उक्तेमति तस्यास्तत्रस्वत्वे दानादिस्वरूपानिष्पत्तेर्वाधितत्वात्। अतएव जीमूतवाहनेनैव स्थावरस्य समस्तस्य। विभक्ता वाऽविभक्ता वा स्थावरं द्विपदञ्चैबेत्यादीनि स्थावरविषयाणि दानादि निषेधवचनान्युपन्यस्याधर्मभागिता-ज्ञापनार्थमेतानि दुर्वृत्तं

पुरुषं प्रति कुटुम्बदुःखदानार्थमेव दानक्रियादि प्रवृत्तंप्रतिषेधकानि न तु दानादिस्वरूपानिष्पत्तिप्रतिपादकानि। यथेष्ट विनियोगार्हत्व लक्षणस्वत्वस्य द्रव्यान्तरइव स्थिरेऽप्यविशेषाद्वचन शतेनापि वस्तुनोऽन्यथाकरणाशक्त्या तत्प्रतिपादनानुपपत्तेरिति निरूपितम्। तदुक्तरीत्यात्रापि दुर्वृत्ततया दायाददुःखदानार्थमेव भर्त्तृरिक्थदानादि प्रवृत्ताया अस्तु प्रतिषेधातिक्रमादधर्मः। धर्मार्थन्दान प्रवृत्तायाःस्वजीवनाद्यर्थं विक्रयाधाने कुर्वन्त्याश्च नास्त्येवाधर्मोऽपि। नच भुञ्जीतैवेति नियमाद्दायादा ऊर्द्ध्वमाप्नुयुरित्यभिषानाच्च दानाद्यनधिकारएव तस्या अविभक्तधनइव तत्रेति वाच्यम्। साधारणस्वत्वाश्रया विभक्तधनेनासाधारण स्वत्वाश्रयस्यास्य वैषम्यात्। नच स्वभोगस्य प्राप्तत्वेनाविधेयत्वाद्दानादि परिस ईर्ष्यार्थएव विधिस्तथा चानधिकारस्तत्रागत एवेति वाच्यम्। वस्त्वन्यथाकरणाशक्तेर्नियमस्य वृथा दानादिना द्रव्यनाशनिवृत्त्यर्थतयैवोचपत्तेरवश्यवाच्यत्वात्। अन्यथाऽनधिकारे दमदानरता पूजयेत्कव्यंपूर्त्ताभ्यामित्यनेन दानविधिना विरोधोऽपरिहार्य्य। यच्चदायादाः पत्यनन्तराधिकारिणः पत्नी दुहितर इत्यत्र निर्दिष्टाते गृह्णीयुः प्रागभाव प्रध्वंसयोः प्रतिबन्धक पत्न्यभावत्वस्याविशेषात्तदधिकारोद्भवादित्युक्तन्तदति स्थवीयः। दायादपदेन स्त्रीधनाधिकारिग्रहणे यथावचनान्तरोक्तत्वात्पौनरुक्त्ःतथा तेषामपि कात्यायनेन वचनान्तरोक्तचात्पौनरुक्त्यऽविशेषात्। वस्तुतस्तु जात स्वत्वे स्वामिनि मृते तत्प्रत्यासन्नानामेव तद्धनग्रहणमुचितम्। पत्न्यादिशब्दानां सम्बन्धशब्दत्वेन द्रव्यस्वामित्वे पत्न्या उपजाते पूर्वस्वामिदुहितादीनाङ्कः

प्रसङ्गः। तेन यद्यपि पूर्वाभावःप्रागभावः प्रध्वंसश्चात्यन्ताभावश्च प्रतिबन्धकससर्गाभाव उभयाभावश्च तुल्यस्तथापि यो द्रव्यस्वामी तस्मिन् मृते तत्सम्बन्धि पत्न्यादिकमपुत्त्रस्य तस्य धनं लभेतेत्येव वाक्यार्थः। अन्यथा दुहित्रादिभिरपुत्त्रपितृधने लब्धेतन्मरणे तत्सन्तत्यतिलङ्छनेन तद्धनं पूर्वस्वामिनः पितुर्येपित्रादयस्तएव लभेरन्निति महत्यव्यवस्था प्रसज्येत। तस्माद्भर्त्तृरिक्थं पत्न्या लब्धन्तस्यां मृतायां तद्भोगावशिष्ट मातुर्दुहितर इत्यादि वचनाद्दुहित्रादि ग्राह्यत्वेन प्रसक्त दायादा ऊर्द्ध्वमाप्नुयुरित्यनेनापोद्यते। अयञ्च वचनार्थः। दायादा इत्यत्र कस्येत्यपेक्षायां शयनान्वितम्भर्त्तुरित्येवोपस्थित-त्वादनुपज्यते। तथा चैवं वचनव्यक्तिःतस्या ऊर्द्ध्वम्भर्त्तुर्द्दायादा अविभक्ततद्धनाधिकारिणोविभक्तभ्रातृधनमपि तत्पत्नी भोग्यावशिष्टं गृह्णीपुर्न्नपत्नीरिक्थहरा दुहित्रादय इति एवञ्चापूर्वार्थत्वाच्चतुर्थचरणस्यार्थवत्त्वं भवति अन्यमते वचनान्तरोक्तार्थानुवादमात्रमनर्थक स्यात्तस्माददृष्टार्थे दाने दृष्टादृष्टावश्यक कार्य्यार्थमाधौ विक्रये चास्त्वेव पत्न्याः सकलभर्त्तृधनविषयोऽधिकारःनियमस्तुनटनर्त्तकादि दानानावश्टकाधिविक्रयनिवृत्त्यर्थ इति सिद्धम्। अतएव क्षान्तेत्युक्तम्। द्रव्यं प्राप्तुंसिक्ता वृथा द्रव्यव्ययकारिणी न भवेदित्यर्थः। दानधर्मस्यमहाभारतवचनन्तु सुतरामस्मदुक्त-मेवार्थमुपोद्बलयति।

तथा हि स्त्रीणां स्वपतिदायः स्वभर्त्तृरिक्थमुपभोग फलः।

उपभोगो धर्मप्रत्यासन्नोभोगो नत्वसद्भोगः फलम्प्रयोजनं यस्य तादृशः स्मृतउक्त्वोमन्वादिभिः। उत्तरार्द्धेतदेव व्यनक्ति। स्त्रियः पतिवित्तादपहारं वृथा व्ययं न कुर्य्युः।

कथञ्चनेत्यनेनावहारस्य सर्वथै वाश्रेयस्करतामाह। अपहारो हि चौर्य्यम्। नट नर्त्तकादौ वृथादानम्। सूक्ष्मावस्त्रादि परिधित्सामृष्टभक्षादि बुभुक्षेत्येवमाद्यपि संयताया अनौचित्याच्चौर्य्यतुल्यमित्यपहारशब्दो गौणः। धर्माद्यर्थदानादिकन्तु न तथेति नापहारशब्देन बोधयितुं शक्यते। तस्मात्सर्वंसुस्थम्। पत्न्याअपुत्त्राविभक्ता संसृष्टि पतिस्वापतेय ग्रहणे प्रथमाधिकार प्रतिपादकान्यपराण्यपि भूयांसि स्मृतिवचनानि तत्रवृहस्पतिः।

शास्त्राये स्म तितन्त्रे च लोकाचारे च सूरिभिः।
शरीरार्द्धंस्म ता जाया पुण्यापुण्यफले समा॥
यस्य नोपरता भार्य्यादेहार्द्धंतस्य जीवति।
जीवत्यर्द्ध शरीरेऽर्थं कथमन्यः सप्राप्नुयात्॥
सकुल्यैर्विद्यमानैस्तुपितृमातृसनाभिभिः।
अपुत्त्रस्य प्रमीतस्य पत्नी तद्भागहारिणीति॥

योगीश्वरोऽपि पूर्वाभावेऽपराधिकारं वदन् सर्वप्राथम्येन पत्न्या एवाधिकारमभिधत्ते। विष्णुरपि। अपुत्त्रस्य धनं पत्न्याभिगामि तदभावे दुहितृगामि तदभावे पितृगामि तदभावे मातृगामि तद्भावे भ्रातृगामि तद्भावे भातृपुत्त्रगामि तद्भावे बन्धुगामि तदभावे सकुल्यगामि तद्भावेशिष्यगामि तदभावे सहाष्यायिगामि तदभावे ब्राह्मणधनवर्ज्जं राजगामीति। बन्धुरत्रसपिण्डःसकुल्यः सगोत्रः। बन्धुपदेन वक्ष्यमाण पितृबन्धादि ग्रहणे योगीश्वरोक्त क्रमविरोधापत्तेः। कात्यायनोऽपि। पत्नी पत्युर्द्धनहरी या स्यादव्यभिचारिणी।

तद्भावे तु दुहिता यद्यनूढा भवेत्तदा॥

स्मृत्यन्तरमपि।

अपुत्त्रस्याय कुलजापत्नी दुहितरोऽपि वा।
तद्भावे पिता माता भ्राता पुत्त्राश्च कीर्त्तिता इति॥

एतैर्वचनैः सर्वतः पूर्वत्पत्नी पतिधनभागिनीति प्रतिपादितम्। एतद्धि एद्धान्यपि बचनानिलक्षन्ते। तथा च नारदः।

भ्रातृण मप्रजाःप्रेवात्कश्चिच्चे प्रव्रजेत वा।
विभजेरन्धनन्तस्य शेषास्तेस्त्रोवनं विना॥
भरणञ्चास्य कुर्व्वोरन् स्त्रीणामाजीवनक्षयात्।
रक्षन्ति शय्याम्भर्तुश्चेदाच्छिन्द्युरितरामुत्विति॥

पत्नौसद्भावेति भ्रातॄणान्धनग्रहणम्भरणञ्च तत्पत्नीनामाह। मनुरपि। पिताहरेदपुत्त्रस्य रिक्थं भ्रातरएव चेति।

पितृ भ्रात्रोर्विकल्पेना पुत्त्रधनग्रहणाधिकारं वदति न तु पत्न्याः।

अनपत्यस्य पुत्त्रस्य माता दायमवाप्नुयात्।
भ्रातर्य्यपिच वृत्तायां पितुर्माताहरेद्धनमिति च॥

स्मृतिर्मातृपितामह्योरपुत्त्रधनाधिकारमभिदधाति। शङ्ख्यालिखतपैठीनसियमोऽपि। अपुत्त्रस्य स्वर्य्यातस्य भ्रातृगामिद्रव्यन्तदभावे पितरौ हरेयातां ज्येष्ठा वा पत्नीति भ्रातुः पितोश्चाभावे पत्न्यधिकारं कथयन्ति। देवलोऽपि।

ततो दायमपुत्त्रस्य विभजेयुः सहोदराः।
तुल्या दुहितरो वापि प्रियमाणः पितापि वा॥
सवर्णा भ्रातरो माता भार्य्याचेति यथा क्रममिति।

सर्व पूर्व्वाभावेन योगीश्वरेणाभिहितायाः पत्न्या भ्रात्राद्यभावेऽधिकारमाचष्टेभ्रातृशब्देनात्र भिन्नोदराः। सहोदराणां पृथगुपादानात्। कात्यायनोऽपि।

विभक्तेसंस्थिते द्रव्यं पुत्त्राभावे पिता हरेत्।
भ्राता वा जननी वाथ माता वा तत्पितुः क्रमादिति॥

पित्रादिषु ग्राहकेषु पत्न्यानिर्द्देशमपि न करोति। एतेषामन्येन्यविरुद्धानां वचनानान्धारेश्वर इत्थंव्यवस्थामाह। विभक्ता संसृष्ट भ्रातुरपुत्त्रस्य पत्नी यदि नियोगमङ्गीकुरुते तदैव पतिधनं लभते। अनियोगार्थिन्यान्तु त्स्यामविभक्त संसृष्ट पत्नीद्भरणमात्रमेव नियोगद्वारैवा पुत्त्रपत्न्याः पतिस्वापतेय स्वामित्वत्र च बीजमनेक स्मृतिष्वपत्यद्वारैव तस्या धनसम्बन्ध बोधनम्। तथा च गौतमः। पिण्डगोत्रर्षिसम्बद्धा रिक्थम्भजेरन्स्त्री वानपत्यस्य वीजं वा लिप्सेतेति। अनपत्यस्यरिक्थम्पिण्डगोत्रर्षि सम्बद्धभजेरन्तस्य स्त्री वा रिक्थम्भजेत्। यदि बीज लिप्सेत। वा शब्दो यदिशब्दार्थोऽन्यथा रिक्थग्रहणवीज लिप्सयोरत्तुल्यत्वेन विवाल्पार्थत्वानुपपत्तेः। तथा मनुरपि।

धनंयो विभृयाद्भ्रातुर्मृतस्य स्त्रियमेववा।
सोऽपत्यं भ्रातुरुत्पाद्य दद्यात्तस्येव तद्धनमिति॥

विभक्त धनसम्बन्धमप्यात्यद्वारेणैव पत्न्यादर्शयति। तथा विभागाभावेऽपि।

कनीयान् ज्येष्ठभार्य्यायां पुत्त्रमुत्पादयेद्यादि।
समस्तत्रविभागः स्यादिति धर्मो व्यवस्थित इति॥

वदन्नपत्यद्वारा धनसम्बन्धोऽस्तीत्याह। तेनान्वयव्यतिरेकाभ्यामपत्य द्वारकएव पत्न्या धनसम्बन्धोनान्यथेति सिद्धम्। वशिष्ठोऽपि। रिक्थलोभान्नास्ति नियोग इति रिक्थलोभप्रयुक्तं नियोगं प्रतिषेधन्नक्नीकृतनियोगाया एव धनसम्बन्धो

नेतरस्या इति स्पष्टमेवाचष्टे। तथा च भ्रातृणामप्रजा इत्यादीनि नारदादिवचनान्यनियोगार्थिनी विषयाणि पर्य्यवस्यन्ति।

अपुत्त्रायोषितश्चैषां भर्त्तव्याः साधुवृत्तयः।
निर्वास्या व्यभिचारिण्यः प्रतिकूलास्तथैव चेति॥

योगीश्वरोऽप्य पुत्त्राणामन्वादि योषिताम्भरणं भाषमाणः पुत्त्रस्यैवधनसम्बन्ध प्राधान्यात्तत्कृतएव तत् स्त्रीणां धनसम्बन्ध इति सूचयन्न्याय साम्यात् तत्सर्वत्रापत्यमूलकमेव स्त्रीणां रिक्थग्रहणं ज्ञापयति।

यज्ञार्थं द्रव्यमुत्पन्नं तत्रानधिकृतास्तु ये।
अरिक्थभाजस्ते सर्वे ग्रासाच्छादनभाजना इति स्मृतिः॥

पुरुषाणामपि पुत्त्रादीनां यज्ञानधिकृतानां रिक्थानधिकारंबदन्तो दण्डापूपन्यायेन सुतरामभर्तृकाणान्त-दनधिकारिणीनां धनसम्बन्धं निरस्यति। तथा स्मृत्यन्तरमपि।

यज्ञार्थं विहितं वित्तं तस्मात्तद्विनियोजयेत्।
स्थानेषु धर्मयुक्तेषु न स्त्रीमुर्खविधर्मिष्विति॥

स्त्र्यादिषु धनविनियोगमपि प्रतिपेधत्साक्षात्तस्याएव कृत्स्नधनग्रहणं सुदूरं दूषयतीति। तदिदं विज्ञानेश्वरादयो नानुमन्यन्ते पत्नी दुहितर इत्यादिषु साक्षान्नियोगानुपादानात्। प्रस्तावाभावाच्च। किञ्च नियोगएवपत्न्यारिक्थसम्बन्ध प्रयोजकस्तदुत्पन्नमपत्यं वा। प्रथमेऽनुत्पादितपुत्राया अपि स्वीकृत नियोगाया धनाधिकारः स्यान्नियोगोत्पन्न पुत्त्रस्य च न स्यान्नियोगमात्रेणैव भर्त्तृधनस्वाम्यात्। द्वितीये वचनान्तरैरेवापत्यस्य धनसम्बन्धसिद्धेः पत्नीवचनमनर्थकम्।

अथ स्त्रीणां पतिमात्रद्वारको धनसम्बन्धो न प्रकारान्तरेणाजीवति पत्यौ तद्वारको मृतेत्वपत्य द्वारक इति बोधनार्थं नियोगार्थिनी पत्नीपरम्पत्नी वचनमितिमतम्। तदसत्। अध्यग्न्यध्यावहनिकमित्यादि वक्ष्यमाणवचनैरन्यथा पितासान्धन-सम्बन्ध बोधनात्। भर्त्तृधने द्वेधैव सम्बन्धोनियम्यत इति चेत्। तर्हि जीवति पत्यौ तद्धनसम्बन्धस्य पाणिग्रहणाद्धि महत्वमित्यादि गौतमवचनेनैव सिद्धेर्मृते तु तस्मिन्नियोगनिमित्ततद्धनसम्बन्ध उच्यमानः क्षेत्रजपुत्त्रस्यैवोक्तो भवति सोऽपि प्रायुक्त इत्यपुत्रप्रकरणे पत्नीत्यनारभ्यमेव। यच्च गौतमवचनं वीजं वा लप्सेतेति यदि वीजं लिप्सेतेत्यर्थकतया नियोगद्वारकएव धनसम्बन्धोऽपुत्रपत्न्या इत्यत्र प्रमाणमित्युक्तं तदप्ययुक्तम्। वा शब्दस्य पक्षान्तर वाचित्वेन यद्यर्थाप्रतीतेः। धनग्रहणवीज लिप्सयोरतुल्यार्थतया विकल्पार्थकत्वासम्भवे निपातानामनेकार्थ-त्वात्मकृतान्वयोपयोगी यद्यर्थएव कल्प्यत इति चेत्। न वीजं वा लिप्सेत संयता वा भवेदिति प्रासङ्गिक धर्मान्तरो यद्देशरूपतया विकल्पार्थकताया एव सम्भवात्। तथा च गौतमवचसापि नियोग निरपेक्षमेव भर्त्तृरिक्थग्रहण-मुक्तम्भवति। किञ्च विधवानियोगस्य निषिद्धत्वादपुत्राशयनं भर्तुः पालयन्तीत्यादि मन्वादिवचनैः संयताया एव धनाधिकार प्रतिपादनान्निर्वास्याव्यभिचारिण्य इत्यादिना भरणमात्रस्याप्यसंयतानामभावात्कृत्स्नभर्तृरिक्थग्रहणं दूरापासमेव। यच्चाभिहितं धनं यो विभृयाद्धातुः कनीयान् ज्येष्ठभार्य्यायांरिक्थलोभान्नास्तिनियोग इति मन्वादिवचनैर्विभक्ताविभक्त धनसम्बन्धोऽन्वय व्यतिरेकाभ्यामपत्य द्वारकएव

पत्न्या आयातीति। तदपिवार्त्तम्। अविभक्तेसंसृष्टिनि वाभर्त्तरि प्रेते पुत्रद्वारकएव तस्यास्तद्धनसम्बन्धेति। धनलोभेन नियोगो नाभ्युपेय इति। तत्तात्पर्य्यात्। अतएव।

संसृष्टानान्त यो भागः स तस्या नेष्यते बधैरिति। अभिधाय तत् स्त्रीणामनपत्यानाम्भरणमात्रंनारदेन प्रतिपादितम्। न चैवं भ्रातृणामप्रजाःप्रेयादित्यस्यापि संसृष्टाविभक्तविषयत्वे संसृष्टानान्तु भागइत्यनेन पौनरुक्त्यं स्यादिति वाच्यम्। तदश्विवरणपूर्वकंस्त्रीधनाविभाज्यत्व तद्भरणयोरपूर्वयोर्विधानात्। यत्त्व पुत्रा योषितश्चैषामिति योगीश्वरवचनं तन्तु क्लीवादीनां प्रक्रान्तानामेषामिति सर्वनाम्ना परामर्षात्तत् स्त्रीविषयमिति विभागानधिकारि निरूपण प्रस्तावेवक्ष्यते। यदपि द्विजातिधनस्य यज्ञार्थत्वात्तदनविकारिण्या प्रमीतपतिकया तद्गुणमनर्हमित्युक्तन्तदप्ययुक्तं यज्ञशब्दस्य दानाद्युपलक्षकत्यात्तत्र च तस्या अप्यधिकारात्। यथा श्रुते यज्ञभिन्नदानहोमादिष्व प्यविनियोग प्रसङ्गः। वस्तुतस्तु केवलधर्मार्थवमपिधनस्य नास्ति।

घर्ममर्थञ्चकामञ्च यथाशक्ति न हापयेत्।

तथा पूर्वाह्णमध्यन्दिनापराह्लान फलान्नकुर्य्याद्धर्मार्थ कामेभ्य इत्यादिभिरर्थ कामयोरपि तत्साध्ययोरावश्यकत्वात्। यज्ञार्थत्वञ्च द्रव्यस्य यदि स्याद्धिरण्यधारणस्य क्रत्वव्यभिचारि हिरण्यसम्बन्धेन क्रत्वर्थतैव स्यादिति पुरुषार्थत्वं यत्तस्य स्थापितन्तत्रैव विरुध्येत। न स्त्री स्वातन्त्यमर्हतीत्यादि वचनात्पारतन्त्र्यमात्रमस्तु स्त्रियाःन तु धनग्रहणेकोऽपि विरोधः। यज्ञार्थन्द्रव्यमुत्पन्नमिति तु धर्मविनियोगप्रशंसार्थम्। अतएव

स्थानेषु धर्मयुक्तोषु न स्त्रीमूर्खविधर्मिष्विति। वाक्यशेषः। मिताक्षराकृतस्तु।

यज्ञार्थं लब्धमदद्भासः काकोऽपि वा भवेदिति।

दोषश्रवणस्य पुत्रादिष्वप्यविशेषेण पित्रा यद्यज्ञार्थमर्जितं तत्पुत्रादिभिरपि तत्रैव विनियोज्यं नान्यत्रेत्येवं परमेतदित्याहुः। श्रीकरादयस्तु। भार्य्याभरणमात्रपर्य्याप्तं यदि भर्तृधनन्तदा सर्वमेव गृह्णाति। अतिरिक्तञ्चेद्भ्रात्रादय इति विषय व्यवस्थामाहुः। कृत्स्नमंशं लभेत चेत्येतदपि तत्परमेव। वर्त्तनदानस्यावश्यकत्वात्॥ तेन सर्ववाक्यानामविरोध इति च तत्रोपपत्तिङ्कल्पयन्ति। वार्त्तमेतत्। सकृच्छ्रुतधनपदस्य पत्न्यपेक्षञ्जीवनपर्य्याप्तिधनपरत्वं वात्राद्यपेक्षञ्च धनमात्र परत्वमिति तात्पर्य्यभेदस्य सति सारूप्यसम्भवेऽन्याय्यत्वात्। मनुवचने कृत्स्नपदवैयर्थ्यापातात्किञ्च। सत्व प्यौरसेषु पुत्रेषु तत्समांशग्रहणं जीवदजीवद्विभागयोरुक्तं।

यदि कुर्य्यात्ससानंशान् पत्न्यःकार्य्याःसमांशिकाः।
पितुरूर्द्धं विभजतां माताप्यशंसमं हरेत्॥

इत्याभ्यां वचनाभ्याम्। असत्सु पुत्रेषु पत्नीभरणमात्रंलभत इति सहान् व्यामोहः। तत्रापि जीवनपर्य्याप्तमेवांशशब्दो न विवक्षितमिति चेन्न। अंशशब्द समशब्दयोरानर्थक्यप्रसङ्गात्।

दत्तेत्वर्द्धम्प्रकल्पयेदित्यत्रापि जीवनोपयुक्त परत्वावश्यग्भावे सर्वथार्द्धपदार्थत्यागापत्तेश्चं। अल्पधने पुत्र समांशं बहुधने जीवनोपयुक्तमात्रं विवक्षितमिति तु विधिवैषम्यापत्तेरत्ययुक्तम्। तथाहि। तविव समांशशब्दौवाक्यान्तरमपेक्ष्य बहुघने जीवनमात्रपर्य्याप्त घनपरौ कदाचित्। अल्पधने तु

यथा श्रुतार्थकावित्येकस्मिन्विधौ वाक्यार्थभेदेन वाक्यभेदापत्ते रयुक्तम्। युगपच्छक्ति लक्षणावृत्तिद्वयापातश्च।
यथा चातुर्मास्य प्रकरणे द्वयोः प्रणयन्तीति वाक्येन पूर्वपक्षिणासौमिक प्रणयनातिदेश उत्तरवेदि मुपकिरन्ति न सुनासीरीय इत्युत्तरवेदि प्रतिषेधेऽप्राप्तस्य प्रतिषेधायोगाद्धेतुत्वेनोक्तेराद्धान्तैकदेशिना नातिदेश प्राप्तायाः सौमिकोत्तर वेदेरयं प्रतिषेधः किन्तु पात्र वपन्तीति प्राकरणिकवचन प्राप्ताया इत्युपन्यस्ते प्राकरणिकं वचनं प्रथमोत्तमयोः पर्वणोः प्रतिषेधमपेक्ष्य पक्षिकों प्रापयति मध्यमयोस्तुनिष्प्रतिपक्षमेव पाक्षिकामुत्तरवेदेः प्राप्तिं करोतीति विधिवैषम्यप्रसङ्गेन पूर्वपक्षिणा तन्मते दुषिते परमसिद्धान्तिना पूर्वपक्ष्युक्त विधिवैषम्य भयादेव प्रथमोत्तमयोः पर्वणोरप्राप्त प्रतिषेधायोगान्नवैश्यदेव इत्ययं नित्यानुवादः उपात्र वपन्तीति तु द्वयोः प्रणायन्तीत्याद्यर्थवादसहकृतं मध्यमयोरेव वरुण प्रद्याससाकमेधपर्वणोरुत्तरवेदिं विधत्ते न तु वचनातिदेशोऽयंमिति प्रतिपादितम्। अत्र कश्चिदाह। भ्रातॄणामपुत्रधन ग्राहित्वन्भरणं वास्य कुर्वीरन् स्त्रीणामाजीवनक्षयादिति भरणोपयुक्तधनदानञ्च तत् स्त्रीणामुक्तं यदा भरणमात्रोपयुक्तमेवापुत्त्रधनं ततोऽपिन्धूनं वा। तदापिकिं भ्रातर एव गृह्णन्ति पत्नी वेतिविरोधे पत्न्याएवधनग्रहणं पत्नी दुहितर इत्यादिना पूर्व पत्नी यस्त्वज्ञापनयोच्यत इतिं। तदपि मन्दम्। पूर्वोक्तविधि वैषम्यस्यात्रापि ताद्वस्थ्यात्। धनभागिति पद वाक्यान्तरमपेक्ष्याल्पधने जीवनमात्रपर्य्याप्तधन भाक्त्वंपत्नीविषये वदति पित्रादिषु तु सकलधन भाक्त्वामिति। कथन्तर्हि विरोध

_()परिहार इति चेत्। शृणु। पिता हरे दित्यादिषु क्रमाप्रतीतेरपुत्रधनग्रहणाधिकार मात्र प्रदर्शकानि तानि। योगीश्वर वचसि त्वेषामभावे पूर्वस्य धनभागुत्तरोत्तर इति क्रमपरत्वात्पत्न्यादिगणस्य निबद्ध कमस्याभावेऽपि तेषामर्थाविरोधा-त्पत्न्याद्यभावे पित्रादयोऽपुत्तधनग्राहिणइति। शङ्कित व्यभिचारायास्तुपत्न्याःहारीतेन धनग्रहणं निषिद्धम्।

विधवा यौवनस्या चेन्नारी भवति कर्क्कशा।
आयुषःक्षयणार्थं तु दातव्यञ्जीवनन्तदेति॥

अस्मादेव वचनादनाशङ्कितव्यभिचारायाः सकलभर्त्तृधन ग्रहणङ्गम्यते। अतएव शङ्खवचने ज्येष्ठा वा पत्नीत्युक्तं ज्येष्ठागुणैः प्रशस्था। न तु वयोज्येष्ठा। मनुनापि वर्णक्रमेण ज्येष्ठ्यं कथितम्। यदाह।

यदि स्वाश्च पराश्चैव विन्देरन्योषितो द्विजाः।
तासां वर्णक्रमेणैव ज्यैष्ठ्यंपूजा च वेश्म चेति॥

अतः परिणयनवयोभ्यां कनिष्ठापि सवर्णेवा सवर्णातोज्येष्ठा सवर्णास्वपि गुणवती तथा च मनुः।

भर्त्तुःशरीरशुशूषां धर्मकार्य्यञ्च नैत्यकम्।
स्वा चैव कुर्य्यात्सर्वेषान्नासजातिः कथञ्चन॥
यस्तु तत्कारयेन्मोहात् सजात्या स्थितयांऽन्यथा।
यथा ब्राह्मणचाण्डालःपूर्वदृष्टस्तथैव सः॥

योगीश्वरोऽपि। सवर्णासुविर्धौधर्म्येज्येष्ठया नविनेतरा।

तथा च यज्ञसंयोगात्पत्नी शब्देनापि सैवोच्यते॥ सवर्णाया अभावेतु याऽनन्तरवर्णा सैव।

तथां च विष्णुः। सवर्णाभावे त्वतन्तरैवापदि नत्वेव द्विजः

शूद्रया धर्मकार्यमिति। या कुर्य्यादित्यनुवर्त्तते। तथा च ब्राह्मणस्य ब्राह्मण्यभावे क्षत्रियैवापदि न तु वैश्य शूद्रेपरिणीते अपि। क्षत्रियस्य क्षत्रियाया अभावे वैश्यैव। वैश्यस्यानन्तरापि शूद्रा न किन्तस्वैव। शूद्रायाः सर्वथा निषेधात्। तथा चानाशङ्कितव्यभिचारावर्ण क्रमेण भर्त्तृ धनङ्गृहीत्वान्याः सपत्नीः परिपालयेत्। वपुः सादृश्यस्तु यथा स्वं विभज्य गृह्णीयुः। अतः पत्नीत्येक वचन ज्यात्यभि प्रायेण॥

तस्मादपुत्त्रस्यामसृष्टितो विभक्तस्य प्रमीतस्य साध्वीभार्य्याकृत्स्नधनाधिकारिणी विभक्तसंसृष्टिनोरपुत्त्रयोः साध्वापि भरणमात्रं भ्रातृणामप्रजा इत्यादिनारदादि वचनाल्लभते व्यभिचारिणी तु भरणमपि न। आच्छिन्द्युरित रास्वित्यभिधानात्। यत्तुव्यभिचारिणीनामध्यशन वसन दान मुक्तम्।

एवमेव विधं कुर्य्याद्योषित्सुपतितास्वपि।
वस्त्रान्नमामां देयन्तुवसेयुश्चगृहान्ति के इति॥

तत्तु। दूताधिकाराम्मलिनाम्पिण्ड मात्रोपजीविनीम्।
परिभूतामधःशय्यां वासयेद्व्यभिचारिणीमिति।

भर्त्तारंप्रस्तुत्ययोगीश्वरेणाभिधानात्तददिसंवादेन भर्त्तृविषयकम्। तदपि प्रायश्चित्तावधि। अत्यौद्धत्यात्तद कुर्बन्तीनां त्वनेनापि निष्कासनमित्यादि प्रायश्चित्ततकारोविवेक्ष्यामः। पत्नीदुहितर इत्यस्य विभक्तासंसृष्टिविषयत्वं विभागस्य पुर्यमुक्तत्वात् संसृष्टिविभागस्य च सर्वापवादेनापोवक्ष्यमाणवादर्थाद्व्यवतिष्ठत इति विज्ञानेश्वर लक्ष्मीधरस्म्रुतिश्चन्द्रिकाकार विश्वरूप मेधातिथि मदनरत्न कारादीनां भूयसांसंजतम्।

अपुत्त्रपदंपत्नीत्यादिषु श्रूयमाणं पौत्त्रप्रपौत्त्राभावोपलक्षणम्। प्रपौत्त्रपर्यन्ताभाव एव पत्न्याधनग्रहणौचित्यात् पुत्त्र पौत्त्रैर्ॠणं देयमिति वचने पौत्त्रस्यापि ऋणदानेऽधिकाराभिधानाद्रिक्थग्राहकान्तरसत्वेऋक्थग्राहऋणन्दाप्य इति वचनात् तस्यैवर्णदानाधिकारेसत्यपि पौत्त्रे तं प्रति तद्विधानासम्भवाङ्गोत्रजवादिना ऋक्थग्रहणे रिक्थग्राह इत्येतेनैव तस्यापि तत्सिद्धेर्बैयर्थ्यंपौत्त्रबिधेरतः पौत्त्रेण पितामह ऋक्थाग्रहणेऽपि पुत्र वदृणन्देयमित्युक्ते दण्डाषूपिकया सति तद्रिक्थेऽन्यस्य तद्ग्रहणाधिकारोदूरनिरस्तः। एष एव प्रपौत्रेऽपि न्यायः। अतएव प्रपौत्रसंग्रर्हार्थं पुत्त्र पौत्रयो रिति बहुवचन मितरथा द्वि वचनं व्यक्त्यभिप्रायकं बहुवचनमिति वा कल्प्यंस्यात्। एवञ्चायमर्थः। पुत्त्रश्चपौत्रश्च पुत्रस्य पौत्रःपुत्रपौत्रःसचेति षष्ठीतत्पुरुषोत्तरमवृत्तपुत्त्रपौत्रपदे पुत्रश्चपौत्त्रश्चतावितिद्वन्द्वेपुत्रपौत्त्रौच पुत्र पौत्त्रश्चेति द्वन्द्वतत् पुरुषरूप पुत्र पौत्त्रपदे सरूपैकशेषे बहुवचनोपपत्तिः। पुत्रपौत्त्रप्रपौत्रौरिति। यावत्। पौत्त्रपदं प्रपौत्त्रोपलक्षणं वा। पुत्रापेक्षया पौत्रस्य तदपेक्षया प्रपौत्रस्य ऋणदाने विशेष प्रकारविधिरप्यत एव सङ्गच्छते। अन्यथा प्रपौत्त्रे विशिष्टविधि कल्पनापत्तिः। त्रयाणान्तुल्योपकारित्वञ्च पार्वणविधिना पिण्डदानेनास्पष्टम्। तथा च मनुः।

त्रयाणामुदकङ्कार्य्यन्त्रिषुं पिण्डः प्रवर्त्तते।
चतुर्थःसंप्रदातैषां पञ्चमो नोपपद्यते॥

बौधायनोऽपि। पुत्त्रपौत्र प्रपौत्राननु क्रम्याह प्रपितामहः पितामहः पिता स्वयं सौदर्याभ्रातरः सवर्णायाः पुत्त्रः प्रपौत्र

एतानविभक्तदायादान् सपिण्डानाचक्षते। विभक्तदायादांश्चसकुल्यानाचक्षते। सत्स्वङ्गजेषु तद्गामी ह्यर्यो भवतीतिअस्यार्थः। पित्रादि पिण्डत्रयेषु सपिण्डनेन भोक्तृत्वात्पुत्त्रादिनिस्तात्पिण्डस्यैव दानात्। यो हि जीवन् पिण्डदाता स मृतः सन् सपिण्डनेन तत्पिण्डभोक्ता। एवं मध्यस्थितः पुरुषो जीवन् पूर्वेषां पिण्डदातामृतश्चतत्पिण्डभोक्ता परेषाञ्जीवतां पिण्ड संप्रदाननं मृतैश्चतैः सह दौहित्रादिदेय पिण्डभोक्ता अतो येषामयं पिण्डदाता ये वा तद्दत्त पिण्डभोक्तारस्तेऽविभक्तं पिण्डरूपं दायमश्नन्तीत्यविभक्त दायादाः सपिण्डा एकपिण्डसम्बन्धात्पञ्चमस्य तु पूर्वस्य मध्यमः पञ्चमो न पिण्डता न च तत्पिण्डभोक्ताएवधस्तनोऽपि पञ्चमो नमध्यमस्य न पिण्डदाता नापि तद्भोक्ता। एतेन वृद्ध प्रपितामहात् प्रभृति पूर्व पुरुषास्त्रयः प्रति प्रणत्पृप्रभृत्यधस्तन पुरुषास्त्रय एकपिण्डभोक्तृत्वाभावाद्विभक्ता दायादाःपञ्चम प्रभृतय उभयतः सकुल्या इत्याचक्षते मुनिः कुलमात्र सम्बन्धात्। इदं सपिण्डत्वं सकुल्यत्वं दायग्रहणोपयोगित्वेनोक्तं तत्प्रकरण पाठात्।

अशौच विवाहाद्यर्थन्तुपिण्डलेपभुजामपि।
लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः॥

पिण्डदःसप्तमस्तेषां सापिण्डतंसाप्त पौरुषमिति॥ स्मरणात्।

सपिण्डता तु पुरुषे सप्तमे विनिविर्त्तत इति च।

पञ्चमात् सप्तमादूर्ध्वंमातृतःपितृस्तथेति। योगीश्वर वाक्यैक वाक्यया।

सप्तमे पुरुषे स्थित्वाऽष्टमे विनिवर्त्तत वा इति व्याख्येयम्। तेन यथा प्रत्तामान्तुस्त्रीयान्त्रिपुरुषं विज्ञाय तद्वत्या शौच

प्रकरणठितं तन्मात्रोपयोगित्रिपुरुषं सापिण्ड्यंतथेदं विभागमात्रोपयोगीति ध्येयम्। कात्यायनस्तुस्पष्टमेव। पुत्त्र पौत्त्र प्रपौत्राणां घनग्रहणमाह।

अविभक्तेमृतेपुत्रेतत्सुतं रिक्थभागिनम्।
कुर्वीत जीवनं येन लब्धं नैव पितामहात्॥
लभेतांशं स पित्न्यन्तुपितृव्यात्तस्य वा सुतात्।
स एवांशस्तु सर्वेषां भ्रातृणां न्यायतोभवेत्॥
लभेत तत् सुतो वापि निवृत्तिः परतो भवेत्।

इति प्रपौत्रानन्तरमुक्तो यः प्रणप्तृप्रभृत्यनधिकारःस सपिण्डत्वेन ध्येयः। सकुल्यत्वेन त्वस्य व यथा प्रत्यासत्तिः। भ्रातृृणामेक जातानामित्यादि तु दायातिरिक्त श्राद्धादिपुत्रकार्य्यकारित्वपरं भ्रातृपुत्रस्य पुत्रीकरण सम्भवेनान्यः पुत्रीकरणीय इति नियमार्थम् अन्यथा भ्रातृपुत्त्रस्य भ्रात्रनन्तरमभिधानमपुत्त्र रिक्थहार्य्यभिधायके वाक्ये क्रमपरें न सङ्गच्छेत। पुत्रादीनान्त्रयाणाम्पित्रादि त्रिकमहोपकार कारित्वात् पुत्त्रादिभिर्गृहीतं धनं स्वामिन एवोपकारक मुपकार प्रत्यामत्या तदीयमेव। उपकारप्रत्यासत्त्रिश्चाभ्यार्हिता। यथाह।

ज्येष्ठेन जातमात्रेण पुत्त्री भवति मानवः।
पितृणामनृणश्चैव स तस्माल्लब्धुमर्हति॥

तस्मादिति हेतुत्वेनोपकारकत्वस्योपन्यासाद्दायभाग प्रकरणे धन स्वाम्युपकारकत्वातिशयो यत्र स्थितस्य तद्दनस्य भवति स एव तद्धनग्राहीति प्रत्यासत्तिरौत्सर्गिक्यभ्यर्हिता चेति सूचितम्। पुत्रादीनां महोपकारकत्वञ्चानेकश्रुतिस्मृति पुरा-

णादि प्रसिद्धम्। तत्र श्रुतिर्हरिश्चन्द्रोपाख्याने बहु च ब्राह्मणे

यंत्विमं पुत्र मिच्छन्ति ये विजानन्ति येच न।

किंस्वित्पुत्रेणविन्देत तन्ममाचक्ष्व नारदेति। गाथया हरिश्चन्द्रेण पृष्टोनारदो दरभिर्गाथाभिः पुत्त्र माहात्म्यपराभिः प्रबोधितवानित्युक्तम् स एकवा पृष्टो दशभिः प्रत्युवाच

ऋणमस्मिन् सन्न्रयत्वमृतत्वञ्च गच्छति।

पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतोमुखमित्यादिना स्मृतयश्च। मनु विष्णु।

पुन्नाम्नोनरकाद्यस्मात्पितरन्त्रायते सुतः।
तस्मात्पुत्त्र इति प्रोक्तः स्वयमेव स्वयम्भुवा॥

शङ्खलिखितौ।

पितॄणामनृणो जीवन्दृष्ट्वा पुत्त्र मुखम्पिता।
स्वर्ग्गोसुतेन जातेन तस्मिन् संन्यस्य तदृणम्॥
अग्निहोत्रन्त्रयो वेदा यज्ञाश्चैव सदक्षिणाः।
ज्येष्ठ पुत्र प्रसूतस्य कलां नार्हन्ति षोड़शीम्॥

मनु लिखित वशिष्ठहारीताः।

पुत्रेण लोकान् जयति पौत्रेणानन्त्यमश्नुते।
अथ पुत्रस्य पौत्त्रेण व्रध्नस्याप्नोति पिष्टपम्॥

याज्ञवल्क्यः।

लोकानन्त्यन्दिवः प्राप्तिः पुत्र पौत्र प्रपौत्रकैः।
यस्मात्तस्मात्स्त्रियःसेव्याःकर्त्तव्याश्च सुरक्षिता इति।

पुराणादिषु तूपाख्यानानि पुत्त्रादि प्रशंसाशंसीनि बहूनि। तस्मात् प्रपौत्रपर्यन्ताभावे विभक्तासंसृष्टपति रिक्थहारिणी पत्नीति सिद्धम्। अजीमूतवाहनः वृहस्पति विरोधान्नेयं व्यवस्था यदाह।

विभक्ता भ्रातरी ये च संप्रीत्यैकत्र संस्थिताः।

पुन र्विभाग करणे तेषां ज्येष्ठ्यंन विद्यते॥
यदा कश्चित्प्रमीयेत प्रव्रजेद्वाकथञ्चन।
न लुप्यते तस्य भागःसोदर्य्यस्य विधीयते॥
या तस्य भगिनी सातु ततोऽंशं लब्धुमर्हति।
अनपत्यस्य धर्म्मोऽयमभार्य पितृकस्य च॥
संसृष्टानान्तु यः कश्चिद्विद्या शौर्य्यादिना धनम्।
प्राप्नोति तस्य दातव्यो द्व्यशःशेषाः समांशिन इति॥

अत्रोपक्रमोपसहारयोः संसृष्टत्व कीर्त्तनात्तत्सन्दंश पतितन्नलुप्यते तस्य भागःसोदर्य्यस्य विधीयत इति वचनं संसृष्टि विषयमवश्यं वाच्यन्तत्र चानपत्यस्यधर्मोऽयमभार्य्य पितृकस्य चेत्यभिधानान्मत्पुत्त्रदुहितृपत्नी पितृृणामभावे सस्सृष्ट सोदराधिकारः प्रतीयत इति कथमस्यपत्नीबाधकत्वम्। किञ्च न लुप्यत इति संसृष्टाविभक्तभ्रात्रन्तरीय द्रव्यस्य मिश्रीभूतस्य लोपाशङ्कायामुपपद्यते। अविभक्तासंसृष्टधने तु विभक्तेका लोर्पशङ्का तस्मात्संसृष्टविषयत्वमेवामीषां लिङ्गादपि। किञ्च। पत्नीतः पूर्वं भ्रात्राधिकारबोधक शङ्खादि वचनानां संसृष्टाविभक्तविषयत्वं विस्पष्टवचनान्तरान्यायाद्वाप्रबलादुच्यते। नाद्यः विस्पष्टविशेषवचनाभावात्। संसृष्टिस्त संसृष्टीत्यादि वक्ष्यमाणवचन्न्तु भ्रात्राधिकारावसरे विशेषकथनं नामुमर्धमवगमयति। वृहस्पतिवचनन्तु पुत्त्रादि पितृपर्य्यन्ताभावे संसृष्ट सोदराधिकारबोधक प्रत्युतासंसृष्टविषयकतामेवावगमयति। न द्वितीयः। न्यायोह्ययं वाच्यः। अविभाग संसर्गयोर्य्यदेकस्य धनं तदेवापरस्यापीति मृतस्य तत्र स्वत्वेऽपगतेऽपि जीवतस्वत्स्वत्वात्तगामिता युक्ता न स्वाम्यन्तर कल्पनेति। न चासौ युक्तः।

अविभाग ससर्गवतामप्यविज्ञातैकदेश व्यवस्थिति प्रतिनियता अयमेव स्वत्वं नत्वेकैकन्न सर्वेषां नापि समग्रेअनेकस्वत्वोत्पाद विनाशकल्पनाप्रसङ्गात्। किञ्च। परिग्रहणाद्धिसहत्वमित्यादि प्राग्लिखित गौतमादि वचनेभ्यः पत्न्याःपरिणयादुत्पन्नम्पतिधने सत्वमविभक्तसंसृष्ट भर्तृमरणे नश्यत्यन्यत्र च न नश्यतीति कल्पनायाम्प्रमाणाभावः। पुत्त्रादिषु सत्सुतदधिकार शास्त्रवलादेव पत्नी स्वत्वनाशःकल्प्यते। अत्रापि संसृष्टाविभक्त भ्रात्रधिकार शास्त्रात्तन्नाशःकल्प्यत इति चेत्। अन्यस्य तादृशशास्त्रस्यादर्शनात्। अस्य चेतरथा अन्योन्याश्रय प्रसङ्गादसिद्धे। सिद्धेहि संसृष्टाविभक्त भर्तृमरणे पत्नी स्वामित्वनाशे भ्रात्रधिकारशास्त्रस्य तद्विषयकत्वम्। सिद्धेच तस्मिन्पत्नी रूत्वनाश कल्पनेति।

अतएव योगीश्वर वष्ण्वादि वचने पुत्त्रराहित्यमेवोपात्तं न तु विभक्तत्वासंसृष्टत्वे। विभागस्योक्तत्वात्संसृष्टिनाञ्च वक्ष्यमाणत्वादर्थादुपात्तेएवेति चेत्। तर्हि मुख्यगौण पुत्त्रेषु रिक्थग्राहितयोक्तेषु तदितरविषयत्वमप्यर्थात्सिद्व्यतीत्य-पुत्त्रत्वमपि नोपादेयम्। अपुत्त्रस्यैत एवानेनैव क्रमेणेति नियमार्थतथा तत्सार्थक्यमन्ययोरपि तुल्यम्। विभागोक्त पर्य्यवसानन्तु न जातमेव। संसृष्टिचनं भ्रात्रधिकारावसरे विधानार्थन्नपत्न्याद्यपवादार्थमित्युक्तमेव। किञ्च। शङ्ख-लिखितादि वचनानामविभक्त संसृष्टभ्रातृपरत्वे तादृशस्यापुत्त्रस्य घनन्तद्विध भ्रातृगामि तद्भावे पितरौहरेतामित्यस्य कोऽर्थः तदा च विकल्पनीयम्।

किं विभक्तासंसृष्टौ पितरौ गृह्णीयातामिति। उत विभक्तमंसृष्टाविति

तत्र न प्रथमः कल्पः। तादृशयोःपित्रोःपत्नीबाध्यत्वात्कथं भ्रात्रभावे पत्नीतः पूर्वन्तयोरधिकारबोधः। नापि द्वितीयः। अविभक्त संसृष्ट पितृग्राह्यत्वे सर्वेषामविवादाद्वचनवैयर्थ्यात्। अपि च। यथा पित्राभ्रात्रा च विभक्तासंसृष्टधने शरीर दातृतयाआत्मा वैजायते पुत्त्रःयथैवात्मा तथा सुत इत्येकत्व स्मृतेर्द्धनदेहयोश्च पौत्रयोः पितुः प्रभुत्वात्तत्पितृदेय पितामह प्रपितामह पिण्डयोर्द्वये सपिण्डनेन मृतस्य पुत्त्रस्य भोक्तृत्वाज्जीवति च पितरि पुत्त्राणां पार्वण पिण्डदानाभावाद्भातृभ्यःपूर्वम्पित्रोरधिकारस्तथेतरत्रापि युक्तः। अविभागसंसर्गयोरविशेषाद्वातुल्याधिकारी युक्तो न तु मात्रभावे पितुरिति। किञ्च। पित्रोरविभक्त संसृष्टत्वविशेषण मनुपपन्नं मात्रा सह विभागाभावेनाविभक्त विशेषणानर्थक्यात्। अतएव संसर्गाभावोऽपि। विभागपूर्वकत्वात्तस्य। यथाह वृहस्पतिः।

विभक्तो यः पुनः पित्रा भ्रात्राचैकत्र संस्थितः।
पितृव्येणाथवा प्रीत्या स तत्संसृष्ट उच्यत इति॥

एतेन येषामेव हि पितृभ्रातृपितृव्याणां पितृपितामहार्जित द्रव्येणाविभक्तत्वमुत्पत्तितः सम्भवति तएव विभक्ताः सन्तः परस्परमीत्या पूर्वविभागध्वंसेन यत्तव धनन्तन्मम यच्च मम तत्तवेथाभिन्नतयैकपाकेन पूर्ववदेकगृहितया स्थिताः संस्सृज्यन्ते। न पुनरनेवम्भूता द्रव्यसंसर्गमात्रेणावणिजामपि सम्भूय समुत्थाने संसृष्टत्व व्यर्वहारापत्तेः। प्रीतिपूर्वोक्ताभिसन्धिरहितानां सौकर्य्यादिवशाद् द्रव्यमिश्रणेन व्यवहारादि कुर्वतां भ्रात्रादीनामप्यतएव न संसृष्टि व्यवहारः। तस्मान्मातृगतो भ्रातृ सद्भावाधिकारविरोधो दुःसमाघः। अतः प्र-

पौत्त्र पर्य्यन्ताभाव एवाविशेषेणापुत्त्रप्रमीत भर्त्तृधने समस्तेऽधिकारिणी पत्नीत्येव रमणीयम्। नत्वश्रुतासंसृष्टविभक्त गोचरत्व कल्पना। जितेन्द्रियादयोऽप्येवमाहुः। प्रपौत्र पर्य्यन्ताभावे तस्या अपि भर्त्तुःश्राद्धादिनोपकारकत्वातिशयात्। पत्न्येव दद्यात्तत्पिण्डं कृत्वस्रमंशं हरेत चेति मनुवचनादिभ्यः। व्यासोऽपि। मृते भर्त्तरि साध्वी स्त्री ब्रह्मचर्य्ये व्यवस्थिता।

स्नाता प्रतिदिनम्भक्त्या भर्त्रेदद्याज्जलाञ्जलीन्॥
कुर्य्याच्चानुदिनम्भक्त्या देवतातिथिपूजनम्।
विष्णोराराधनञ्चैव कुर्य्यान्नित्य मनुव्रता॥
दानानि विप्रमुख्येभ्यो दद्यात्पुण्यविवृद्धये।
उपवासांश्च विविधान् कुर्य्याच्छास्त्रोदितान् शुभे॥
लोकान्तरस्थम्भर्त्तार मात्मानञ्च वरानने !।
तारयत्युभयं नारी नित्य धर्मपरायणेत्यादि॥

तस्मात्पत्न्याअपि पतिनरकनिस्तारकत्वाद्वनहीनतयावाऽकार्य्यंकुर्बन्ती स्वीया पुण्येनार्द्धशरीर-संस्तवांपत्यर्द्धशरीरस्य यस्य भार्य्यासुराम्पिवेदित्यादि लिङ्गदर्शनात्पतिमपि पातयेदिति तथा गृहीतं स्वाम्यर्थमेव तद्धनं भवतीति सर्वेभ्योऽन्येभ्यःपूर्वं पत्न्या एवपतिधन ग्रहणं युक्तम्। शङ्खादि वचने तु व्यवहित योजना कार्य्या।

 अपुत्रस्य पुत्त्रपौत्त्रप्रपौत्त्ररहितस्य स्वर्य्यातस्य धनः ज्येष्ठा प्रशस्यतमा पत्नी लभते। तदभावे दुहितृदौहित्रयो श्चाभावे पितरौ लभेयातान्तदभावे भ्रातृगामीति। तद्भाव इति मध्यपठितं पूर्वोत्तराभ्यामविरोधान्न्यायस्य पूर्वमुक्तत्वाच्च सम्बध्यते। भ्रातृष्णामप्रजाःप्रेयादित्यादीनि नारदादि

बचनान्य पत्नी रूपपरिणीत स्त्रीविषयाणि। स्त्रीशब्दमात्रोपादानात्तन्न। अत्रच पत्नीशब्दोपादानात्। परिणीतानामपि-चापत्नीत्वं प्राक् प्रपञ्चितम्। अतएव नारदस्यैव वचनान्तरे।

अन्यत्र ब्राह्मणात्किन्तु राजा धर्मपरायणः।
तत् स्त्रीणां जीवनं दद्यादेष दायविधिः स्मृत इति॥

स्त्रीशब्दश्रवणादपत्नीनामब्राह्मण स्त्रीणां वर्त्तनदानमाह। पत्नीनान्त्वब्राह्मण स्त्रीणामपि कृत्स्नभर्तृधनाधिकार माह। वृहस्पतिः।

येऽपुत्त्राःक्षत्रविट्शूद्राःपत्नी भ्रातृविवर्जिताः। तेषां धनं हरेद्राजा सर्वस्याधिपतिर्हि सः। पत्नी भ्रातृविवर्जिता इति स ब्रह्मचारिपर्यन्ताभावोपलक्षकम्। तेषा बद्धक्रमत्वान्मध्येराज्ञोऽननु प्रवेशात्। प्रदर्शित विष्णु वचने सहाध्यायिपर्य्यन्ता-नभिधाय तदभावे ब्राह्मणधन वर्जं राजगामीति कथनाति तत्वं विविनक्तिस्मतत्रेदमालोचनीयं। नारदशङ्खादि वचनानामविभक्तसंसृष्टि विषयत्वेन या व्यवस्था तत्र न्याय विरोधोवा दूषण वचनविरोधो वा। न तावन्न्याय विरोधः। बाघकन्यायस्याभावात्। प्रत्युत साधको न्यायोऽस्ति। तथाहि अविभक्तप्रमीते तावत्तस्यांशएव नाभूत्किमियं गृह्णातु संसृष्टे जातोऽप्यंशः पुनः साधारण स्वत्वात्पत्न्यापगतः। न च साधारण स्वत्वाश्रयोऽप्यविविक्तंस्तद्धागोऽस्त्येवेति वाच्यम्। अस्तुतावतापि यत्प्रतियोगिकं साधारणं स्वत्वन्तदपगमे विद्यमानस्वत्वकः संक्रम एवोचितोनत्वन्य स्वत्वोत्पत्तिकल्पना। पाणिग्रहणाद्धिसहत्वङ्कर्मसु तत्फलेषु द्रव्य परिग्रहेषु चेति-

गौतमवचनात्मत्न्याअपितद्भागेऽविविक्तेऽपि स्वत्वमुत्पन्नंतन्नाशःकिमिति तत् स्वत्वेकल्प्यत इति चेत्न औपपत्तिकोऽस्ति न तु तात्विकः। पत्न्याःपतिद्रव्ये स्वत्वं क्षीरनीरवदेकलोलीभावापन्नं सहाधिकारि कर्म्मोपयोगि न तु भ्रातृृणामिवपरस्परम्। तत एव तेषां विभागो न तु जायापत्योः। एतन्न्यायमूलकमेव जायापत्योर्नविभागोविद्यत इति वचनम्। तथा च पत्युः स्वत्वापगमे तस्याः स्वत्वापगमस्तत्रावश्यकः एवञ्चाविभक्तसंसृष्टिपति स्वापतेये पत्न्याः। स्वत्वोत्पत्तिः कल्प्यतामविभक्त संसृष्टि स्वत्वस्य सतोऽसाधारण्यं वेतिवीक्षायामुत्तरपक्षकक्षीकरणमेवोचितं लाघवात्। नच पत्न्येव विभाग प्रतियोगिनी। प्रापक प्रमाणाभावात् नचैतान्येत्रवचनानि प्रापकानि। तेषां विषय विवादाद्विभक्ता संसृष्टि विषयत्वेनाप्युपपत्तेः। अतएवान्योन्याश्रयोऽपि दवीयान्। विमर्शदशायान्तदप्रसङ्गात्। सति विमर्शो तद्विषत्वनिश्चयादेव। अविभाग संसर्गवतामपीत्यादि च यदुक्तन्तन्नास्मत्पक्ष क्षतिक्षमम्। प्रतिनियताविविक्तस्वत्वीकारेऽपि संसृष्टाविषयताया न्यायान्तर सिद्धत्वात्। नचाश्रुतविभक्तासंसृष्टविषयत्वं पत्नीत्यादि वाक्यानामप्रमाणकम् विरुद्धनारदादि वचनानां व्यवस्थान्तरामम्भवे पूर्वोपपादित न्यायोपष्टब्धार्थापत्तरेव प्रमाणत्वात्। व्यवस्थान्तरामम्भवश्च वक्ष्यामः। न च यथाविभागस्योक्तत्वात्स्ंसृष्टिनाञ्च वक्ष्यमाणत्वादर्थाद्विभक्ता संसृष्टिधनपरत्वं पत्नीत्यादेरायातीति तदनुपादानन्तथा मुख्यगौण पुत्त्रविभाग मुक्त्वापत्नीत्यादि वचनारम्भाद पुत्रधनविषयत्वमपि सिद्ध्यति तेषामित्यपुत्त्रस्येत्यपि

न वाच्यमिति वाच्यम्। एक एवौरमःपुत्त्रःनभ्रातरो न पितरौ पुत्त्रारिक्थहराःपितुरित्यस्यार्थस्य स्मृत्यन्तरोक्तस्य योगीश्वरेण वचनान्तरेणानुक्तेस्तदवबोधनार्थत्वात्। अन्यथा जीवदजीवद्विभागयोः सत्स्वपि पुत्रेषु पित्रुपत्नीनां यथांशभाक्त्वत्तथात्रापीति शङ्का स्यात्। पुत्र विभागपर्यवसान उक्त्वत्वान्न तच्छङ्कावसर इति यदि तर्हि स्मृत्यन्तरेष्वेक एवौरसो न भ्रातरो न पितर इति स्वतन्त्रस्य मुख्यगौण पुत्त्र सत्वे पत्न्या धनाधिकार प्रतिपादक शास्त्रस्य सुतरामानर्थक्यंस्थात् स्पष्टीकरणार्थंअर्थन्याय सिद्धमपि निबध्यते व्यवहार शास्त्र इति समाधिः पदमात्रेसुतरां सुवदः। स्पष्टार्थं विभक्तासंसृष्टत्वे अपि कुतो नोपान्तरेति चेत्। स्वतन्त्रेच्छत्वान्मुनीनाम्। आरोपे सति निमित्तानु सरणमिति न्याये चयत्र न्यायार्थसिद्ध निबन्धनमस्ति। तत्र सिद्धस्य गतिश्चिन्तनीयेति रीत्या स्पष्टी करणार्थ तयावैयर्थ्यंपरिह्रियते नतु तदभिधानापादनं सर्वत्रोचितम्। यच्च संसृष्टिनस्तु संसृष्टीत्यस्य भ्रात्रधिकारावसरे विशेष विधानमात्रार्थत्वन्न पत्न्याद्यपवादकत्वमित्युक्तन्तदतिवार्त्तम्। तु शब्दविरोधात्। उत्तरोत्तर पूर्वापवाद सन्दर्भाच्च। अतएव प्रतिवाक्यं तु शब्दोपादानम्। क्लीवादि वाक्यं पुत्रादि सकजदाय ग्रहणाधिकारिणं क्लीवत्वादिनाधिकारापवादकमिति। अतएव मिताक्षरायां विज्ञानेश्वरेणाचार्य्येकृता तथैव तानि वचनान्यवतारितानि व्याकृतानि च। यत्तु किञ्चेत्यादिना शङ्खलिखित वचने भ्रात्रभावे पित्रोरधिकारी विकल्प्यखण्डितस्तदप्यतिफल्गु। भवद्वन्मयापि व्युत्क्रमेण विभक्तासंसृष्ट पितृपरत्वे तस्य व्याख्या-

तुं शक्यत्वेनैकापर्य्यनुयोगात्। यच्चापि चेत्यादि। तदपि तुल्ययोगक्षेमनित्युपेक्ष्यम्। यदपि किञ्चेत्यादि। तदपि मात्रंशे विशेषणासम्बन्धेऽपि योग्यतया पित्रंशे सम्बन्धादचोद्यम्। वस्तुतस्तु साक्षान्मात्राविभागाभावे जीवद्विभागे पित्रिच्छया तस्या अपिभाग सम्भवादनीवद्विभागे तु साक्षादेव विभागोक्तेः प्रीत्याऽभिसन्धिविशेष पूर्वकं पुत्रैःसह संसर्गासम्भवात्। नचैषं विभक्तो य इत्यादि वृहस्पतिवचनविरोधः। अतएव मिताक्षरा कृताप्यतम्। संसर्गश्च न येन केनापि। किन्तु पित्रापितृव्ययेणवेत्यत्रसम्मतित्वेन तद्वचन सुपन्यस्यतेति वाच्यम्। यतस्तथा सति सकललोक व्यवहारसिद्धोदौहित्रादि संसर्गोप्यन्याय्यः स्यात्। तस्माद्येषां परस्परविभाग स्तेषामेवतत्पूर्वकः परस्पर संसर्गोऽप्यभिसन्धिविशेष पूर्वको न परस्पर द्रव्य मिश्रीकरणमात्रेण वणिगादीनामिवेत्यत्र गृहस्पतिवचन तात्पर्य्यन्नमात्रादि निवृत्तौ। त्रिदोषपरि संख्यापत्तेः। अतएव भ्रात्रावा पितृव्येणाथवेत्यनास्थायां वादिशब्दस्तत्रोपात्तः। रत्नाकरे चण्डेश्वरेनाप्युक्तम्। अनास्थायां वाकारः। तेन पितृव्यजेनांशिना कृतविभाग एकत्र स्थितः संसृष्टःसर्वलोक गृहीतो लभ्यत इति। वाचस्पति रप्येवमेवाह। यत्तुतेनोक्तं पृथग्धनानामेकत्रमेलनमेव संसर्गोलाघवात्। ननु विभागपूर्वकत्वन्तत्र विशेषण परस्परानुमतिश्च तत्व हेतुरिति। तन्न। पुनःशब्दविरोधात् विभागेऽपि संसर्गशब्द प्रयोगापत्तेः जन्मना स्वत्वानङ्गीकारेण तत्रापि धनसम्बन्धाभावेन पुत्रद्वारैव तत् सम्बन्धात्प्रसक्तोरिक्थलोभेन नियोगस्वीकारः प्रतिषिध्यते। नचात्रापि पत्नीभिन्नाया भार्य्याया भर्तुर्धनानधिकारा-

त्तस्याएव रिक्थलोभेन प्रसक्तोनिषिध्यते नियोगस्वीकार इति न भवदुक्त प्रसक्ति प्रतीक्षेति वाच्यम् पत्न्याएव तत्र प्रस्तुतत्वात्तद्भिन्न भार्य्यापरत्वानुपपत्तेः। अतएव धारेश्वरादि भिर्नियोगार्थिपत्नीपरत्वेपत्नीत्यादिवाक्यस्येदमेव वशिष्ठवचनं प्रमाणतयोपन्यस्तम्। तस्मान्नारद वशिष्ठ वाक्य बलात्संसृष्टिभर्त्तृधन ग्रहणप्रतिषेधः पत्न्या वृहस्पतिवचने चानपत्यस्य धर्मोऽयमभार्य्यापितृकस्य चेति कथनात्पत्न्यांसत्यां सोदरस्यापि संसृष्टिभ्रातृधन ग्रहणप्रतिषेध इति विरोध आवश्यकः कथञ्चिद्विषय व्यवस्थया परिहर्त्तर्व्योपरिहृतौन्यैः परिह्रियते सन्दं शोथित प्रकरणबलात्प्रसक्त मप्यभार्य्यापितृकस्य संसृष्टि विशेषणत्वमन्यथासिद्ध नारदादि वाक्यानुरोधाद संसृष्टि परत्वाबश्यक तथा वाध्यते। वाक्यविरोधे प्रकरणस्याप्रयोजकत्वात्।

नचायमिति सर्वनाम्ना संसृष्टिधन ग्रहण रूपधर्म्मस्य प्रक्रान्तस्यानेनविशेषाभिधानादनपत्यस्येतिवदभार्य्या पितृकस्येत्यस्यपि संसृष्टि प्रमीतविशेषणत्वमिति वा क्ययोरेवायं विरोधःन वाक्यप्रकरणयोरिति वाच्यम्। सर्वनाम्नः संसृष्टि धन ग्रहणपरामर्शकत्वेऽपि सोऽयमनपत्यसंसृष्टि स्वामिधग्रहणरूपोधर्म्मो भार्य्यापितृरहितस्या-संसृष्टिनोऽप्यनपत्यस्य प्रमीतस्य। असंसृष्टिविभक्त प्रमीतस्वधनन्तु भार्य्यापितृसहितस्यैवानपत्यस्य सोदरो गृह्णीयान्नभार्य्यापित्रन्यतरवदिति वाक्यार्थोपपत्तेः। चकारोऽप्येव मनुक्तासंसृष्टि समुच्चयार्थोव्याख्येयः अतश्चासंसृष्टविषयेणानेन प्रकरणविच्छेदे जाते संसृष्टानान्तु यः कश्चिदित्यग्रिमवाक्येसंसृष्ट पदोपादानमपि

सार्थकम्भवति अन्यथा प्रक्रमादेवात्रापि तल्लाभे तन्मन्द प्रयोजनं स्यात्। अतएव तार्त्तेयये निविदधिकरणे-ऽम्बद्धनिविद्विछिन्नामभिधेन्यवान्तर प्रकरनाग्राह्य मुपवीतं नसामिधेन्यङ्गमपि तु महाप्रकरणद्दर्शपुर्णमासाङ्गम्। ये तु पश्चात्तना गुणस्ते पुनर्वचनादेव दूरस्थानुवादेनैव द्वादशोपसान्त्ववत्सामिधेन्यनुवादेन विधीयत इति भद्वमतेन सिद्धान्तितम्। दस्ततस्तु यातस्य भगिनीत्यनेन सोदराभावेयो भगिन्यधिकारः संसृष्टिधने प्रतीयते। तस्यैवाव्यवहितस्यानपत्यस्येति वाक्यशेषस्थेनायमिति सर्वनाम्नापरामर्षस्तवचन कोऽपिपविरोधः। चन्द्रिकायामप्येव मेवोक्तम्। अविभक्तापुत्त्रपति स्वामिककृत्स्नधन ग्रहणन्तुपत्न्याकात्यायन वचन विरुद्धम्। यदाह।

स्वर्याते स्वामिनि स्त्री तु ग्रामाच्छादनभागिनी।
अविभक्तेधनांशे तु प्राप्नोत्यामरणान्तिकम्॥

तु शब्दोबाशब्दार्थेतथा चायमर्थः। ग्रामाच्छारनमेव साक्षाल्लभते आमरणान्तिकं यांवज्जीवं यावतां धनेंन जीवनं स्त्र्यधिकारिकमावश्यकञ्च कर्म सिद्ध्यतितावत्तं धनांशं वा प्राप्नोति। धनांशमामरणान्तिक मित्युक्तेःकृत्स्नन्धनमविभक्तस्य पत्युर्ल्लभत इति निरस्तम्। न च स्त्री शब्दश्रवणात्पत्नीव्यतिरिक्तं स्त्रीपरमिदमपीति वाच्यम्। अविभक्त इति विशेषणानर्थक्यापत्तेः। विभक्तेऽपि भर्त्तंरिपत्नीभिन्नाया अपुत्राया भरणमात्रोक्तेः। अतएव कृतेऽप्यंश इत्यनुवृत्तौ। वृहस्पतिः।

प्रदद्यात्त्वेवपिण्डञ्च क्षेत्रांशं वा यदीच्छति।

अस्य व्याख्यानं स्मृतिचन्द्रिकायाम्। पिण्डग्रहण मशना-

च्छादनोपलक्षणार्थन्तत्पर्य्याप्तं धनन्तत्साम्यादेकं क्षेत्रांशं वा स्वच्या भर्त्रंशर्हपत्नी व्यतिरिक्तविधवायै भ्रात्रादिस्तद्धनग्राही प्रदद्यात्। एवकारःप्रदानस्यावश्यकत्वार्थ इति। एतद्विषयकमेव नारदवचनम्।

यावत्यो विधवाः साध्व्योज्येष्ठेन श्वशुरेण वा।
गोत्रजेनापि वान्येन भर्त्तव्याश्छादनाशनैरिति॥

भर्तृधन ग्राहिणीति सर्वत्रशेषं। धनग्रहण निमित्तत्वाद्भरणं स्यात्। साध्व्य इत्यनेन सर्वत्र साध्वीनामेव भरणमसाध्वीनान्तुपत्नीनाञ्च न तदपि। अच्छिन्द्युरितरासुत्विति प्रागुक्त नारदवचन वाक्यशेषादिभ्यः। अतएव साध्वीनां जीवनार्थं श्वशुरादिभिर्द्दत्तमन्यैरपि दायादैर्नापहरणीयमित्यप्याह बृहस्पतिः। स्यावरादि धनं स्त्रीभ्यो यद्दत्तं श्वशुरेण तु।

न तच्छक्यमपार्त्तुन्दायादैरिह कर्हिचिदिति॥

अन्यादृशीनान्तु दत्तमप्यपहर्त्तव्यमित्याह कात्यायनः।

भोक्तुमर्हति क्लृप्तंशं गुरुशुशूषणेरता।
न कुर्य्याद्यदि शुशूषाञ्चैल पिण्डेनियोजयेत्॥
अपकार क्रियायुक्ता निर्लज्जा चार्थनाशिका।
व्यभिचार रता याच स्त्रीधनन्नच सार्हति॥

नार्हतीत्यनेन नदेयञ्जीवनपर्य्याप्तमपि। दत्तमपिच तादृश्याः सकाशादपहरणीयमिति द्वयमप्युक्तम्भवति। यत्तु तस्मात्स्त्रियोऽनिन्द्रिया अदायां इति श्रुतिवचनन्तन्मूलकञ्च अनिन्द्रिया ह्य दायादाः स्त्रियोनित्यमिति स्थितिरिति मनु वचनन्तद्वयमपि यासां श्रुङ्गग्राहिकया धनग्रहणं नोक्तन्तद्विषय मवक्षेयम्। गौतममिताक्षरायां हरदत्तोऽप्येवमेवाह।

केचित्तु निरिन्द्रीयपद समभिव्याहारान्निन्दामात्र परन्तदित्याहुस्तत्रदायादत्वांशे निन्दायानिषेधकल्पनाश्यम्भावात्। रागाद्दाय ग्रहण प्राप्तेर्न्नित्यानुवादासम्भवात्। अनिन्द्रियत्वन्तु पुम्पारतन्त्र्यात्कथञ्चिदनुवादः। वस्तुस्वभाव विपरीत निषेधकल्पनस्य बाधात् तस्मात्पूर्वोक्त एव समाधिः। पराशरस्मृतिटीकायां विद्याशौर्य्यादिना यद्धनं प्राप्तन्तदविभाज्यमिति व्याचख्युःपत्नीवतग्रहे पत्न्या अंशोनास्तीत्यदायादपदस्यार्थः। तत्र हेतुरनिन्द्रिया इति इन्द्रियं वै सोमपीथइत सोमेऽपीन्द्रियशब्द प्रयोगात्ततोनिर्गाता इति सोमपानानधिकृता इति पत्नीवतग्रह प्रशंसेति। इति पत्न्याधिकार विचारः।

पत्न्यभावे दुहितरोऽपुत्त्रविभक्तासंसृष्टिधनभाजः।

तथा च मनुः।

यथैवात्मा तथा पुत्त्रःपुत्रेण दुहिता समा।
तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत्॥

वृहस्पतिरपि।

अङ्गादङ्गात्सम्भवति पुत्त्रवद् दुहिता नृणाम्।
तस्मात् पितृधनन्त्वन्यः कथं गृह्णित मानव इति॥

अत्रपुत्त्रेणसमा पुत्त्रवदिति च साक्षाज्जन्यत्वेऽपि पुत्त्रे पित्रवयवानां बाहुल्येन संक्रान्तेर्दुहितरि च पत्नीनां।

पुमान् पुंसोऽधिके शुके स्त्री भवत्यधिके स्त्रियाः। इत्यादिवचनैः स्मृतिष्वायुर्वेदे च प्रतिपादनात्पुत्त्रतुल्यत्वं दुहित रक्तमिति द्रष्टव्यम्। आत्मनि। आत्मावैजायते पुत्त्र इत्यात्मभूतपुत्त्रतुल्यायामित्यर्थः। तिष्ठस्थमित्यनादरे सप्तमी तामनादृत्येत्यर्थः।
यद्यप्यनेनौरसपुत्त्राभावे दुहितुर्द्धनग्रहणमित्यत्र न्याय उक्तस्तथापि गौणपुत्त्र पत्न्योरभावे दुहितुर्द्धनग्रहणमिति को-

न्यायः। उच्यते। नारदेन मन्दानुग्रहाय सोऽपि स्पष्टीकृतः। यदाह। पुत्त्राभावे तु दुहिता तुल्य सन्तानदर्शनादिति।

विवृतञ्चेदन्तेनैव।
पुत्त्रश्च दुहिता चोभौ पितृसन्तानकारकाविति।

अयमाशयः। पुत्त्र दुहितरावुभौ पितुः पोत्त्रदौहित्राख्य सन्तानकारकावतःसन्तान प्रवर्त्तकत्वस्य तुल्यत्वात्दुहितुरपि पुत्त्रबदधिकारः। पौत्त्रदौहित्राख्य सन्तानयोश्च स्वरूपतस्तुल्यत्वाभावात्कार्य्य-तस्तुल्यत्वमभिप्रेतम्। कार्य्यमपि नर्णापकरण रिक्थग्रहण लक्षणाम्पुत्त्र पोत्त्रैऋणं देयम्। पितामहद्रव्यमधिकृत्य च।

तत्र स्यात्सदृशंसाम्यम्पितुः पुत्त्रस्य चोभयोरिति। वचनाभ्यां पौत्त्रे सति दौहित्रस्य तदनधिकारात्। तेनादृष्टमत्र कार्य्यंश्राद्धकर्त्तृत्वम्।

पूर्वेषान्तु स्वधाकारे पौत्त्रादौहित्रका मता इति।

विष्णूक्तेः। एवञ्च दृष्टादृष्टोपकारक स्वसन्तान मुखेनोपकारकपुत्त्रात्केवलादृष्टोपकारक स्वसन्तानमुखेनोपकारिका दुहिता न्यूना। न चैवम्पत्यपेक्षया प्रत्यासन्नाजन्यादुहितेति पत्नीतः पूर्वंसैव धनमर्हतीति वाच्यम्। यतः सहाधिकारेणाग्निहोत्रादिवैदिक कर्मोपकारिका कामख्य पुरुषार्थसाधनतया सन्तानसाधनतया च दृष्टादृष्टोपकारकर्त्रोदेहार्द्धसस्तु ता पत्न्येव ततोऽधिका ततश्च पुत्त्राभाव इति पत्न्यभावस्याप्युपलक्षकं प्राग्लिखित विष्णुवचनादस्माच्च योगीश्वरवचनात्। यद्यपि पुत्त्रकर्तृक श्राद्धे सम्प्रदानतथा स्वयमेवादृष्टोपकारकःपिता दुहित्रपेक्षयाप्रत्यासन्न इति पिता हरेदपुत्त्रस्य रिक्थमिति

वचनस्यावसर उचितो दुहितुः प्राक्। तथापि तस्यामात्मनि तिष्ठन्त्यामित्यनेन शरीर प्रत्त्यासत्या सैवाग्रे सरीति तद्भावे तद्वचनस्यावसरः। वा शब्दोपादानेन तस्य क्रमपरत्वाभावात्। जीमूतवाहनस्तुदुहितुरधिकारे सन्तानकारकत्वस्य हेतोर्न्निर्देशान्तामस्य च पिण्डदस्यैवोपकारकत्वादपिण्डदस्यासुपकारकत्वेनान्य सन्तानादसन्तानाच्चाविशेषात् पुत्त्रवती सम्भावितपुत्त्रा वा दुहिता धनाधिकारियो। विधवा त्वबन्ध्यात्व दुहितृप्रसूत्वादिना विपर्यस्तपुत्त्रापुनर्न्नधिकारिण्येवेति दीक्षितमतमादरणीयमित्याह। तदपि चिन्त्यम्। प्राथमिककन्याधिकारस्य। अपुत्त्र मृतस्य कुमारोऋक्थं गृह्णीयात्तदभावे चोढा। हेतुनिर्देशस्य प्रत्यासत्त्यतिशयामात्र प्रदर्शकतयाप्युपपत्तेः। किञ्च। स्वयमेव कन्याया असम्भवे सम्भावितपुत्त्रायाः पुत्त्रवत्याश्चाधिकार इति वदन्हेतोर्व्यभिचारितां दर्शयति। तस्मादस्मदुक्तरीत्यैव प्रत्यासत्त्यर्थतया हेतुर्व्याख्येयः। धारेश्वर देवस्वामि देवशत प्रमृतयस्तु। पिता हरेदपुत्त्रस्येत्यादि वचनविरोधपरिहाराय दुहित्राधिकार प्रतिपादक वचसां पुत्रिकाविषयत्वं तदभावे तु पित्रादयएव यथोक्त क्रमेणाधिकारिण इत्याहुस्तदतिपेशलम्। पुत्रिकाया औरसो धर्मपत्नीजस्तत्समःपुत्त्रिका सुतः। तृतीयःपुत्रिका पुत्त्रः विज्ञायत इति योगीश्वर वशिष्ठादिवचनै र्गौणपुत्त्र कोटि निविष्टायाःक्षेत्रजादि पुत्रवन्न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुरिति गौणपुत्त्रविषयेणमानवेन वचनेन पत्न्यां सत्यामपि रिक्थग्राहिण्यास्तदभावे रिक्थग्राहित्वं दण्डापूपिक्रयेव सिद्धमिति वचनारम्भानर्थक्यापत्तेः। दुहित्रुमात्र

वाचकानां वचनानां विना कारण विशेषपरत्व कल्पनानुपपत्तेश्च। किञ्च। भवन्मते अङ्गादङ्गात्सम्भवतीत्यादिना पुत्रिका विषयेण वचसा पुत्रिकाया धनग्रहणेउक्तेपुनः।

सदृशी सदृशेनोढासाध्वी शुश्रूषणे रता।
कृताऽकृता वा पुत्त्रस्य पितुर्द्धनहरी तु सा॥

इत्यनेन पुनर्द्धनहरत्व प्रतिपादनन्तेनैव मुनिना क्रियमाणं विवरणमात्रतयाऽपुनरुक्तङ्कर्त्तव्यं स्यात्। सामान्य विशेष विषयातु स्पष्टमेवा पौनरुक्त्यम्। सहशो पितृसवर्णा। सदृशेन सवर्णेनोढेति प्रकृष्टापकृष्ट वर्णसम्बन्ध निरासाय। तज्जातस्योत्तमवर्ण मातामह श्राद्धादि निषेधादिति जीमूतवाहनोक्त मनादेयम्। ऊढापदेनैवाधमवर्ण सम्बन्ध निरासात्। नह्यधमवर्णोढत्वमुत्तमवर्णायाः सम्भवति।तस्मादुत्तमवर्ण निरासार्थमेव सदृशग्रहणम्। ननु नारदेन कन्यारूपाणां पितृभ्रातृरहितानां सर्वासामेव दुहितृणां पितृधनाप्राप्ति संसर्गतोऽभिहिता। यथाह।

स्यात्तुचेत् दुहिता तस्याः पित्र्योंशोऽभरणे मतः।
असंस्काराद्धरेद्भागम्परतो विभृयात्पतिरिति ॥
तस्या इति पतिपुत्रविहीन पत्नीमधिकृत्साह।

तेन तादृश्या यदि दुहिता विद्यते तस्याभरणनिमित्तमात्र पित्र्योंऽशस्तस्मात् विवाह संस्काराद्भरणार्थमेव सा पितृधनभागं हरेत्परतो विवाहादूर्द्ध्वंपतिस्तां विभृयात्। तेन तावत्कालभरणावशिष्टमपि ततो गृह्णीयात्। यथेष्ट विनियोगार्थन्तु कन्यायाःपितृधनग्रहणं दूरापास्तमेव। ततश्चास्यापवादकानि दुहितुः पितृधनप्राप्ति प्रतिपादकानि वचनानि सर्वाणि पु-

त्त्रिका विषयाण्येव वाच्यानि। अन्यथा द्वयोरपि दुहितृसामान्य विषयतयोत्सर्गापवादत्वानुपपत्तेः। तस्माद्धारेश्वरादिमत मनुमन्तव्यमिति चेन्न। स्यादेवं यदि नारदवचनं विभक्तविषयं स्यात्। पौर्वापर्य्यपर्य्यालोचनथा संसृष्टाविभक्त-विषयन्तत्स्फुटमवगम्यते। ततश्च विभक्तविषये दुहितृमात्रस्य पत्न्यभावे पितृधने ग्रहण प्रतिपादकानि प्रापकाण्येव नापवादकानीति पुत्रिकामात्र विषयत्वे तेषां किमपि वीजम्पश्यामः। यत्तु सकल पितृधनग्रहणाधिकार प्रतिपादकतया कन्याभ्य इत्यादि देवलवचनं जीमूतवाहनेनोपन्यस्तं तत्पूर्वापरविरुद्धम्। जीवद्विभागे कन्याभ्यः विवाहमात्रोपयुक्त धने तस्य प्रमाणतयोपन्यासात्। तदपि चास्माभिः प्राङ्गिरस्तम्। दुहितृष्वपि प्रथममप्रत्त्राःपितृधनं गृह्णीयुस्तद्भावे प्रत्त्राःतासामप्रिमध्ये प्रागभाव प्रतिष्ठिता स्तद्भावे प्रतिष्ठिता सर्वा समान रूपास्तु समं विभज्य गृह्णीयुरित्यर्थः सिद्धम्। तथा च कात्यायनः।

पत्नी पत्युर्द्धनहरी या स्यादव्यभिचारिणी।

तदभावे तदेति। गौतमः स्त्रीधनं दुहितृणामप्रत्तानामप्रतिष्ठितानाञ्चेति। अप्रतिष्ठिता निर्धनाः। यद्यपि स्त्रीधनमित्युक्तं तथापितुल्यन्यायतया पितृधन विषयमप्येतत्। बन्ध्यवादिना सन्तानरहिता प्रतिष्ठितेति तु न युक्तम्। तस्याः सन्तानमुखेनादृष्टोपकाराभावे न धनहारित्वायोगात्। सदृशी सदृशेनोढेति प्राक्पठितं वृहस्पतिवचनं स्मृतिचन्द्रिकाकार इत्थंव्याचख्यौ अत्राद्यानि चत्वारि विशेषणानि पत्न्या उर्द्ध्वमर्थग्राहिणी दुहितृविषयाणि। ततः प्राग्धनग्राहिणी दुहितृविशेषणे द्वेअवशिष्टे। कृताऽकृता वेत्यत्र पुत्त्रिकेति

विशेष्याध्याहारः। इतरत्रदुहितेति विशेष्याध्याहारः। वा शब्दश्च व्यवस्थित विकल्पार्थः। एवञ्चायमर्थः। औरसपुत्रविहीनस्य पितुर्द्धनं द्विविधापि पुत्त्रिका पत्न्याःपूर्वं गृह्णीयात्। सवर्णादि विशेषणोपेता तु दुहिता तत ऊर्द्ध्वमिति। एवञ्च पत्न्याऊर्द्ध्वंसवर्णादि विशेषणोपेत प्रतिष्ठिताऽप्रतिष्ठितोढानूढानां दुहितृनांसमवाये प्रागनूढैव गृह्णाति पित्रा भर्त्तव्यत्वात्। तदभावे ऊढाऽप्रतिष्ठिता। भर्त्राभर्त्तव्यत्वेऽपि भर्त्तुर्भरणासामर्थ्येना प्रतिष्ठितत्वात्। तदभावे प्रागुक्तया पत्न्या सवर्णादि विशेषणोपेता प्रतिष्ठितापि धनं गृह्णाति। धन्यैस्तु कृतेति पुत्त्रिका परमकृतेति दुहितृमात्र परमभ्यु पेत्य वाशव्दस्य नास्थापरमास्था या खिलं दुहितृमात्र विषयं विशेष्याध्याहारमन्तरेणैव व्याख्यातम्। सेत्यनेन दुहितृमात्र परामर्शात्। दुहितर इति बहुवचनं सजातीयानां समांशोऽसमानजातीयानां वर्णक्रमेण विशेषांश इति प्रतिपादनाय।

इति दुहितुरधिकारः।
दुहितुरभावे दौहित्रः।

च शब्दादनुक्त समुच्चयार्थात्। तथा च विष्णुः।

अपुत्त्र पौत्र सन्ताने दौहिंत्राघनमाप्नुयुः।
पूर्वेषान्तु स्वधाकारे पौत्र दौहित्रकाः समाः॥

अपुत्रपौत्रोति दुहितृपर्य्यन्ताभावोपलक्षणम्। मनुरपि।

असंस्कृता वा कृता वापि यं विन्देत्सदृशात्सुतम्।
पौत्रीमातामहस्तेन दद्यात्पिण्डं हरेद्धनमिति॥

पौत्रीत्यनेन यथा पुत्राभावे पौत्रःपितामहधनाधिकारी था दुहित्रभावे दौहित्र इत्युक्तम्। वृहस्पतिरपि।

यथा पितृधने स्वाम्यं तस्याः सत्स्वपि बन्धुषु।
तथैव तत्सुतोऽपीष्टेमातृ मातामहे धने॥

यथा येन दौहित्र देयपिण्डेन दुहिता पितृधनाधिकारिणी तथैव तेनैव पिण्डदानेन दुहितृसुतोऽपि मातामहधने स्वामी सत्स्वपि बन्धुषु पित्रादिष्वित्यर्थः। न च पुत्रिका सुत्रविषयमिदं वचनम्। तस्या इति तत्सुत इति च सर्वनामभ्याम्प्रकृत दुहितृमात्र परामर्शात्। अतएव मनुरपिदौहित्रमात्रस्यैव मातामहधनाधिकारं दर्शयति।

दौहित्रो ह्यखिलं रिक्यमपुत्रस्य पितुर्हरेत्।
स एव दद्याद्द्वौपिण्डौ पित्रेमातामहाय च॥
पौत्र दौहित्रयोर्लोके न विशेषोऽस्ति धर्मतः।
तयोर्हिमाता पितरौ सम्भूतौ तस्य देहत इति॥

पितुरिति मातुः पितुरिति व्याख्येयम्। अतएवाग्रे मातामहाय चेत्याह। अथवा यथा स स्वपितुरखिलं रिक्थं गृह्णाति तथाऽपुत्रस्य मातामहस्यापि। स्वयमेव तत्पुत्त्र कार्य्य कारित्वात्। तदेवाह स एवेति। स्वपित्रेमातामहाय चेत्यर्थः। माता पितराविति च न यथाक्रममन्वयः। किन्तु। पौत्त्रस्य पिता दौहित्रस्य माता धन स्वामिनो देहतः सम्भूतावितियथा योग्यम्। केचिदपुत्त्र पौत्रेति यथा श्रुत विष्णुवलचनात्पत्नी दुहितृतः प्राग्दौहित्रस्य धनाधिकारमाहुस्तद्योगीश्वर विरोधात्तथैव तत्सुतोऽपीति वृहस्पतिवचनेऽपि दुहितृतस्तस्य जघन्य भावावगर्भे हेयम्।

इति दौहित्राधिकारः।

दौहित्राभावे पितरौ धनभाजौ।

अत्र मिताक्षरा। यद्यपि युगपदधिकरण वचनतायां द्वन्द्व स्मरणात्तदपवादत्वाच्चैकशेषस्य माता पित्रोर्द्धनग्रहणे क्रमो न प्रतीयते। तथापि विग्रहवाक्ये मातृशब्दस्य पूर्वनिपातादेकशेषाभावपक्षेच माता पितरावित्यत्र मातृशब्दस्य पूर्वश्रवणत्पाठ क्रमादेवार्थ क्रमोऽवगम्यमानः क्रमाकांक्षायां सत्यं न परित्यक्तुमर्हइति प्रथमं माताऽपुत्र पुत्त्रधन भाक्तद्भावे पिता। किञ्च पिता पुत्त्रान्तरेष्वपि साधारणो मातात्वस्यै वा साधारणीति प्रत्यासत्त्यति शयादनन्तरः सपिण्डाद्यस्तस्य तस्य धनम्भवेदिति मनुना प्रत्यासत्त्यति शयेन धनग्रहणाधिकारस्य विनिगमितत्वात्सपिण्ड-समानोदकादिष्वेव विनिगमनाकाङ्क्षायामेतद्वचन प्रवृत्तेरत्राप्यदण्ड वारितत्वादिति अत्र स्मृतिचन्द्रिका कारःप्रगल्भते। सारस्त्वतोभवत इत्यत्रोत्पत्तिवाक्येऽत्रभाव गत्यभावेन याज्यक्रमेण प्रधानानुष्ठान क्रमः पञ्चमे निरूपितो नत्वेकशेषत एव काचित्क्रमात् गतिरुपपादिता। तद्वदत्रापि क्रमार्थमन्यत्प्रमाण मन्वेषणीयन्तद्भाव इत रेतरयोगस्य द्वन्दवदेकशेषेऽप्यवगतेर्विभज्यैव पित्रोतुल्यतयाधन ग्रहणं युक्तम्। यत्तुपिता सपत्नी पुत्रेष्वपि साधारणो मातात्व साधारणेति प्रत्यासत्त्यति शयात्तस्या एव पितृतः प्राग्धन ग्रहणन्न्याय्यमित्युक्तन्तदप्यन्याय्यम्। नहि जननीजनक्योर्जन्यं प्रति प्रत्यासत्तितारतम्यमस्ति। पुत्रान्तरजनकस्याप्येत-ज्जनकताया मातृतुल्यत्वात्। नहि जनकतापि व्यासज्यवर्त्तिनी। न च पितृगृहीतन्धनं भिन्नोदरेष्वपि संक्रामति। मातृगृहीतत्वे तत् सहोदरेष्वेवेति मातुरेव धनग्रहणमिति वाच्यम्। तस्याः

प्रत्यासत्तेर्भ्रातृभगिनी धनाधिकार विनिगमकतयाजनकाज्जनन्या धनग्रहणविनिगमकत्वा सम्भवात्। द्वन्द्वस्थानीयैकशेषात्तुल्यतावगतौप्रत्यासत्तेर प्रयोजकत्वाच्च। सत्यां हि क्रमाकाङ्क्षायां सा क्रमनियामिका नत्व सत्यामपि। तस्मात्पित्रोस्तुल्स्वाम्याद्विभज्यैवानप विधुर पुत्त्रधन ग्रहणमिति। श्रीकरस्तद युक्तम्। पिता हरेद पुत्त्रस्य रिक्थं स्वर्य्यातस्य ह्यपुत्त्रस्य माता दाय मवाप्नुयादित्यादि वचनेषु पितुर्मातुश्च निरपेक्षस्वाम्य प्रतीतेर्युगपद्ग्रहणायोगात्। ब्रीहियवयोर्न्निरपेक्ष साधनत्व प्रतीतौमिश्रत्वायोगवत्। केचित्तुमातुर्गर्भधारणपोषगणादिनात्यन्तोपकारित्वात्सहस्रन्तु पितुर्म्मातागौरवेणारिच्यते इत्यादि स्मरणाञ्च प्रथमं मातुर्द्धनाधिकार माहुस्तदपि तुच्छम्। पितुरपि संस्कार वृत्तिसम्पादनादिनाबहुधा संविधातृत्वात्तयोरपि पिता श्रेयान् वीज प्राधान्यदर्शनादित्यादि स्मरणेन सत्प्रतिपक्षत्वाच्चगौरवमात्रस्य धनग्रहण प्रयोजकत्वे। उत्पादक ब्रह्मदात्रोर्गरीयान् ब्रह्मदः पितेत्यादि स्मरणाच्चपितृतोऽपि पूर्वमाचार्य्यस्याधिकारा-पत्तोर्भ्रातृभ्रातृपुत्त्रयोश्चमतोः पितामहपितृव्यादीनामेव प्रागधिकारापत्तेः। जीमतवाहनस्तु।

पितरावित्यस्मात्पितृकम एव वा गम्यते।

तथाहि पितृप्रातिपदिकात्प्रथमम्पितुरवगतौ द्विवचनाच्च तेनैकशेष कल्पनायां सरूपैकशेषा सम्भवे विष्णुमन्वादि वचनसम्बादाच्च विरूपैकशेषत्वनिश्चये मातुरवगमात्। अतः क्रमज्ञानं क्रमाभिधान व्याप्तं क्रमाभिधाने व्यापकेति वर्त्तमाने निवर्त्त त इति श्रीकरोक्तिर्विपरितक्रमोक्तिश्चविज्ञानेश्वराया न युक्तेत्याह। तस्मात्रैयायिक कमस्यात्राव्यवस्थितत्वाद्वह

द्विष्णुवचनोक्तः क्रम आदरणीयः। तत्रच दुहितृगामीत्युक्त्वातदभावे पितृगामि तदभावे मातृगामीत्युक्तम्। मिताक्षराकारस्य तु प्रथमत एव तादृश पाठेनैव वृहद्विष्णु वचनं लिखतस्तद्विरुद्धन्यायमात्रा वलम्बनेन पितरावित्यत्रपितृतः प्राङ्मातुः पुत्त्रधनाधिकारं सिद्धान्तयतो महत्येव हृदय शून्यता प्रतिभाति। दौहित्रस्यापि दुहितृकोटिनिविष्टत्वाद्वृहद्विष्णुना पृथगनभिधानन्तेन दौहित्राभावोऽपि दुहित्रभावेनोपलक्ष्यत इति मन्तव्यम्। तस्मात् स्मृतिचन्द्रिकामदन रत्न कारकल्पतरु रत्नाकर पारिजातकार प्रभृतीनाम्बहूनाम्पितुरभावे मातुः पुत्त्रधनाधिकारइत्येव सिद्धान्तः। वाचस्पतिना तु तदभावे मातृगामि तद्भावे पितृगामीति वृहद्विष्णुवचनंपठित्वा यथा मिताक्षरायामेव सिद्धान्तित तत्तु कुत्रापि तदतिरिक्त ग्राम्ये तथा पाठस्या लिखनाद्भ्रान्ति बिलसितमेव। विग्रहवाक्येमातृशब्दस्य पूर्वनिपातादित्यपि मिताक्षराग्रन्थोदुष्टःविग्रहवाक्येपूर्वनिपात नियमाभावात् समासे हि तन्नियमः शाब्दिकैः स्मर्य्यतेन तु विग्रह वाक्यइत्यादि विज्ञानेश्वरोक्तन्याये यद्दूषणमन्यैरुक्तं तत्परिहाराय पराक्रम्यते। युगपदधिकरण वचनता तावत् द्वन्द्वस्य वचनाधिकरणे वार्त्तिके तन्त्र रत्नेच महता प्रवन्धेन निरस्ता। इतरेतरयोगोऽपि पदान्तरान्वये द्वन्द्वाच्छाब्दरीत्या प्रतीयते तेन पितरौ धन भाजावित्यनेन युगपदन्वयोऽपि वस्तु गत्या तयोः क्रमेऽपिन वाक्यदोषः। सर्वैश्च श्रीकरमिश्रैस्तदभ्युपगमात्सर्व समाधेयमिदम्। एकशेषाभाषपक्षेच मातापिरौ मातरपितरावित्यत्र मातृशब्दस्यपूर्व श्रवणात्सनासैकशेषयोश्च तुल्य प्रतीतिजनकत्वाभावे

विकल्पायोगादत्रापि तथा प्रतीतेरभ्युपेया विग्रहवाक्येष्वपि पूर्वनिपातनियमो नानुनाशन सिद्धस्तथापि व्याख्यातृसम्प्रदाय सिद्धोऽस्त्र्येव। न हि क्वापि पिता च माता च पितराविति विग्रहं दृश्यते किन्तु माता पिता स्वपितरावित्येवेत्यणुरपि विशेषोऽध्यवसायकर इति न्यायेन तस्यापि विनिगमकता सम्भवतीत्यने नाशयेन तथोक्तेःसम्भवः। पितुः पुत्रान्तरसाधारण्यंमातुस्त्वसाधारण्यमिति प्रत्यासत्तिरपि जनकताया अव्यासज्यवृत्तित्वेऽपि तदभिप्रायेणैवोक्ता। साधारण्यासाधारण्ये हि सम्बन्धकुते व्यपदेशप्रतीतिविलम्बाविलम्बने भवत एव तथानुभवात्। वाक्यार्थबोधे क्रमाभावे किमिति वस्तु क्रम आश्रीत इति श्रीकरोक्तिस्तुवचनान्तरे निरपेक्ष स्वाम्या वगत्या क्रमापेक्षया स्मृतिचन्द्रिकाकारादिभिरप्यवश्यंनिरस्यैव। वृहद्विष्णु वचनविरोधः परन्दुरुत्तरोऽवशिष्यते तत्रापि यथाशक्ति प्रतिविधीयते। गौरव प्रतिपादकानि वचनानि तावन्माता पितृविषयाणि विरुद्धानि दृश्यन्ते। तानि विषयव्यवस्थयावश्यसविरोधन्नेयानि। तथाहि।

उपाध्यायाद्दशाचार्य्यआचार्य्याणां शतम्पिता।
सहस्रन्तु पितुर्माता गौरवेणातिरिच्यते॥

गर्भधारणपोषाभ्यान्तेन माता गरीयसीत्यादीनि मातुरभ्यर्हितत्व प्रतिपादकानि। तयोरपि पिता श्रेयान्वीजप्राधान्यदर्शनादित्यादि स्मृतिवचनानिं पित्राज्ञया परशुरामेण मातुः शिरश्छिन्नम्। रघुनाथेन कौशल्यया निवारितेनापि पत्राज्ञया राज्यं विहाय वनवास आदृत इत्यादि पौराणिकान्यार्थ दर्शनानि च पितृपूज्यता प्रत्यावकानि। तेषाञ्चायमविरोधः

प्रकारो यः पिता महागुरु लक्षणोपेतः स गुरुर्य्यःक्रियाः कृत्वा वेदमस्मै प्रयच्छतीत्यादि योगीश्वरादि वचोभिः प्रतिपादितो माता च तदाज्ञावशवर्त्तित्वादि पतिव्रतात्व प्रयोजक समस्तलक्षणरहिता। तयोर्मध्ये मातुरपेक्षया पितै वाधिकाभ्यर्हितः। यत्र तु मातारुन्धत्यादिवत्समस्त पतिब्रता गुणोपेता पिता तु जन्ममात्रप्रदः सतत्र मातैव पितुरपेक्षयाभ्यधिकमान्या। चिरकारि कोपाख्यानादौ महाभारतादप्येवमुपाख्यान स्वरसादयमर्थ उत्तीर्य्यते तदत्रापि मन्वादिवचनेष्वपुत्त्र पुत्त्रधनग्रहणाधिकारःक्वचित् मातुः प्रथमं क्वचित्पितुः प्रतीयमान एवमेव व्यवस्थापयितुमर्हः। तथाहि।

अनपत्यस्य पुत्त्रस्य माता दायमवाप्नुयात्।
मातर्य्यपि च वृत्तायां पितुर्माता हरेर्द्धनमिति मनुः।
भार्य्यासुत विहीनस्य तनयस्य मृतस्य च।

माता रिक्थहरी ज्ञेया भ्रातावा तदनुज्ञयेति वृहस्पतिः। पुनर्मातुरेव। पिता हरेदपुत्रस्य रिक्थं भ्रातरएव वेति॥

तदभावे पिता तदभावे मातेति प्राग्रदर्शितं वृहद्विष्णुवचनानि। योगीश्वरवचने तु पितरावित्यत्र विज्ञानेश्वरोक्त रीत्या प्राङ्माता तदनु पिता। अन्यमते सम्भूयविभागः पितुर्वा प्राथम्यमिति विप्रतिपत्तौ पितुरधिकमान्याया माता सा पितुरपेक्षया प्रथमाधिकारिणी। यातु पितुरपेक्षया न्यूनमानभाक् सा पितुः पश्चात्। युक्तञ्चैतत्। वृत्त्यादि सम्विधानमकुर्वतः पितुरपेक्षया मातुरेवाधिकोपकारकत्वाद्धनग्रहणम्। वृत्त्यादि सम्बिधानकर्त्तुस्तुतस्य यावज्जीवम्भरण पोषणादिनातिशयितोपकारका-स्य धनग्रहणमिति सर्व स्मृतीनां

सर्व निबन्धानाञ्चादुस्थाता भवतीत्यादि सुधीभिर्विभाष्यम्।

पित्रोरभावे भ्रातरो धन भाजः।

यद्यप्य पुत्त्रधनं भ्रातृगामि अपुत्रस्य स्वर्य्यातस्य भ्रात्रुगामि द्रव्यन्तदद्भावे पितरावित्यादि शङ्खपैठीन सिवचनयोः भ्रातर एवेति। मनुश्च। पितृतः प्राक् भ्रातृणान्धन ग्रहणं प्रतीयते। मातर्य्यपि च वृत्तायां पितुर्माताहरेद्धनमिति च मनु बचने भ्रातृतः प्राक् पितामह्यस्तथापि क्रमपरयोगीश्वर वृहद्विष्णु वचनाविरोधाय तेषान्धनाधिकारमात्र परत्वमेतत्क्रमाविरोध सूचनार्थमेव मनुना भ्रातर एववेति पैठीनसिनापि ज्येष्ठा वा पत्नीति वा शब्दः प्रयुक्तोऽन्यथातुल्यकक्ष्याधिकारिषु तत् प्रयोगोऽत्यन्तमयुक्तः स्यादिति मिताक्षराकारादयो बहवः। कल्पतरुकारस्तु पत्नी भ्रातृस्थले श्रद्धाद्यधिकारिणी साध्वी पत्नी प्रथमाधिकारिणी तदन्या तुभ्रातृ पितृतोऽनन्तरम्। पितृभ्रातृस्थले तु पितृपितामहाद्युपार्ज्जितं यद्विभागेन पुत्रे संक्रान्तधनन्तर्स्मन्नपुत्रैप्रमीतोपित्रोः पितृद्रव्याविरोधेन यत्तेनोपार्जितन्तत्पित्रोःसतोरपि भ्रातृणामेवेत्याह मम तु प्रतिभाति मातर्य्यापि च वृत्तायामिति मनु वाक्ये। तदभावे मातापितराविति शङ्खपैठीनसिवचनयोः।

ततो दीयम पुत्त्रस्य विभजेरन् सहोदराः।
तुल्या दुहितरी वापि ध्रियमाणः पितापि वा।
सवर्णा भ्रातरोमाता मार्य्याचेति यथा क्रमम्॥

तेषामभावे गृह्णीयुःकुल्यानां सहवासिन इति देवलवचने। रावेत्रापि वृत्तायान्तदभावे। यथा क्रममित्यादिपदैः क्रमप्रतीतेर्योगीश्वर व्रुहद्विष्णुवचनयोरेव क्रमपरत्वमितरेषा-

न्त्वविकारमात्र परत्वेन तदविरोधेन तत्तत् स्थान निवेशेऽप्यक्षतिरिति समाधिर्नैव साधुः किन्तु क्षेत्रजादि पुत्र स्थले यथा स्मृति वचन क्रमविपर्य्यास औरसानु कूल्यप्रातिकूल्य गुणवत्त्वागुणवत्त्वादिभिर्व्यवस्थापित स्तथात्रापि दायभाग प्रकरणे पुत्रादीनाम्पित्राद्युपकारकत्वकीर्त्तनस्य गुणवत्त्वादि कीर्त्तनस्य वा नन्य प्रयोजनत्वात्प्रयासत्तितारतम्यवत्। धन स्वाम्युपकाराति शयानतिशय गुणवत्त्वागुण वत्वादिभि र्यथा वचनं स सर्वोऽपि क्रमविपर्य्यासःसमाधयोऽन्येतु समाधरःकुशकाशावलम्बन मात्रतुल्या अनुपादेया इति। एवमग्रेऽपीति सर्वं सुस्थम्। भ्रातृष्वपि प्रथमं सहोदराः।

अनन्तरः सपिण्डाद्यस्तस्य तस्य धनम्भवेदिति मनुना।
बहवोज्ञातयो यस्य सकुल्या बान्धवाऽस्तथा।
यस्त्वासन्नतरस्तेषां सोऽनपत्यधनं हरेदिति॥

वृहस्पतिना च।

प्रत्यासत्त्यतिशयस्यैवा सति विशेष वचने विनिगमकत्वेनोक्तेः। भिन्नोदराणां मातृकृत विप्रकर्षात्। भ्रातर इति सामान्य ग्रहणात्सोदराभावेभिन्नोदराः। इदमेव व्यक्त सुतं संग्रहकारेण।

सोदर्याः सन्त्यसोदर्य्याभ्रातरोद्विविधा यदि।
विद्यमानेऽप्य सोदर्य्येसोदर्य्याधनभागिन इति।

** इति भ्रात्राधिकारः।
भ्रात्रभावे तत्सुताः भ्रातृसुता धनभाजः।**

न च तथा तत्सुता इति तथा शब्देन भ्रातृपुत्त्रयोःसादृश्य प्रतिपादनात्। अनेकपितृकाणान्तु पितृतो भाग कल्प-

नेति वचनाच्चानयोः पित्रभावे विभज्यधन ग्रहणमस्त्विति वाच्यं विष्णु वचनाविरोधन्नतथा शब्दस्य च शब्दार्थत्वात्। अन्यथा तथा पदस्य पूर्वत्राप्यन्वयसम्भवेन पित्रोर्भ्रातृणाञ्च विभज्यग्रहणमित्यपि कुतो न स्यात्। ततेद्विष्णु वचन विरोधान्नेत्युच्यते सोऽत्रापि तुल्यः। अनेक पितृकाणान्त्विति वचने भ्रात्रभावे तेषामधिकार सम्पन्ने कस्मिश्चिदप्यपुत्त्रे भ्रातरि प्रमीतेविद्यमानानां भ्रातृणां सर्वेषान्तद्धन सम्बन्धेजाते तद्विभागात् प्रागेव तन्मध्येऽपि यदि कश्चिन्मृतस्तदात-त्पुत्त्राणाम्पितृव्यैः महममविभागेप्रसक्तेस्वपितृविभगमेवते विभज्यगृह्णोयुर्न सर्वे पितृव्यसममित्येतदर्थम् भ्रातृमन्वे तत्पुत्राणाम्पितृव्यधनेऽनधिकारात्। पूर्वाभावे परः पर इति योगीश्वर वचनात्तदभावे भ्रातृ पुत्त्रगामीति विष्णुवचने भ्रातृपरामर्षकतत्पदेन भ्रात्रभावाभिधानाच्च। भ्रातृ पुत्रेष्वपि प्रत्यासत्त्यति शयात्पूर्वं सोदरम्भ्रातृजास्तदभावे भिन्नोदरजाःयुक्तञ्चैतत्। असोदरभ्रातृ पुत्त्रोहि धनिनो मातरं विहाय स्वपितामही विशिष्टस्य धनिपितुः पिण्डन्ददातीति सोदरभ्रातृपुत्त्राज्जघन्यस्तदनन्तरमेवाधिकारीति। न च सपत्नीकत्वेत्रयाणां श्राद्धदेवतात्वात्सपत्न मात्रादीनामप्यस्ति तत्रानु प्रवेश इति वाच्यम्। मात्रादि शब्दानां स्वजननी पितृ जननी पितामह जननीष्वेव मुख्यत्वात्तेनैव च रूपेण श्रद्धानुप्रवेशस्मरणात्। यथा स्मरन्ति।

स्वेन भर्त्रासह श्राद्धं माता भुंक्तेस्वधाकरम्।
पितामही च स्वेनैव स्वेनैव प्रपिताहीति॥
सपत्नमात्रादीना मनु प्रवेशःप्रत्युतः।
अपुत्रा ये मृताः केचित्पुरुषा वा स्त्रियोऽपि वा।

तेषामपि च देयंस्यादेकोद्दिष्टन्नपार्वणमिति स्मरणादायाति। किञ्च। सपत्नीकदेवताक श्राद्धविधेः पुत्रादि सर्व जनाधिकारिकत्वात्सपत्न मात्रादीनाञ्चानित्यत्वान्नित्यानित्य संयोगाविरोधान्मात्रादि सापेक्षमेव सपत्नीकत्वविधायकत्वं युक्तं।

इति भ्रातृपुत्त्राधिकारः।
भ्रातृपुत्त्राभावे गोत्रजाः।

पूर्वोक्त पितृभ्रातृतत्सुत भिन्ना गृह्यन्तेगोवलीवर्धन्यायात् तेच पितामही। सपिण्डाःसमानोदकाश्च। तत्र प्रथमम्पितामही धनभाक्। मातर्य्यपि च वृत्तायां पितुर्माताहरेद्धनमिति मानवान्मात्रनन्तरम्पितामह्याधन ग्रहणे प्रसक्तेपित्रादीनां भ्रातृ सुतपर्यन्तानाम्बद्धक्रमाणामन्तस्तदनुप्रवेशासम्भवादुत्कर्षोऽप्यग्रे तदुत्कालनकारणाभावात्तदनन्तर म्पितामहादयोऽन्ये गोत्रजा इति विज्ञानेश्वरः। अत्रस्मृति चन्द्रिकायाङ्गोत्रजा इत्यत्र सरूपैकशेषेण पुमांस एव गोत्रजा न तु स्त्रीरूपाः। विरूपैकशेषोहि कुक्वुटावानय मिथुनङ्करिष्याम इत्यादि वाक्यशेषादि समभिव्याहारादि प्रप्राणान्तरावगत तात्पर्य्यग्रहनिवन्धीनी न चात्रप्रमाणमस्ति। प्रत्युत भ्रातृसूतादि साहचर्य्यंपुङ्गोत्रज ग्रहण एव साधकमस्ति। किञ्च पत्नी दुहित्रादीना शृङ्गग्राहीकधन ग्रहणाधिकारोक्तेस्तस्मात् स्त्रियो निरिन्द्रिया अदायादा इति श्रुतेरस्तुतद्व्यतिरिक्त विषयंतागोत्रजादिस्थले तद्विरोधादि रूपैकशेषकल्पनैव हातु मर्हा। अतएव जीवत्पुत्त्रेभ्यः पितादायं विभजेदित्यापस्तम्बसूत्रव्याचक्षाणेन तद्भाष्यकारेण पुत्रेभ्य एव दायं विभजेतन स्त्रीभ्योदुहितृभ्य इत्युक्त्वोक्तं यद्यपि

भ्रातृपुत्त्रौ स्वसृदुहितृभ्यामिति पाणिनिस्मरणात्पुत्त्रेभ्य इत्यत्र पुत्त्राश्च दुहितरश्चेति विगृह्य विरूपैकशेषेण दुहितृणामप्यत्र पुत्त्रेऽनु प्रवेशः शक्यते कर्त्तुन्तथापि पुमांसोदायादान स्त्रियः। तस्मात्स्त्रियोनिरिन्द्रिया अदायादा इति श्रुतेरिति। श्रुतिविरोधात्तात्पर्यग्राहकमानाभावाच्च विरूपैकशेषोऽनुशिष्टोऽप्यत्रचग्राह्य इति भाष्यकाराभिप्रायः। जीमूतवाहनोऽपि याज्ञवल्क्येन च पित्रादिदौहित्रस्यापि तद्गोत्र जातस्य पिण्डदानानन्तर्य्यक्रमेणाधिकार प्रतिपत्त्यर्थं गोत्रजपद ग्रहणं कृतम्। सपिण्डस्त्रीणाञ्च व्युदासार्थञ्च तासामतङ्गोत्रजातत्वात्। अतएव अर्हति स्त्रीत्यनुवृत्तौ बोधायनः। न दायन्निरिन्द्रिया अदायादाश्च स्त्रियोमता इति श्रुतेरिति। नायमर्हस्त्रीत्यन्वयः। पत्न्यादी नान्त्वधिकारोविशेष वचनाद विरुद्ध इति। तत्र साधुः मन्वादि वचनेषु प्राग्लिखितेषु पितामह्या धनाधिकारस्य शृङ्गग्राहियैव विधानात्तदेकवाक्यतया योगीश्वर वचनस्यापि विरूपैऋशेषेण तत् संग्रहेऽपि श्रुतेस्तदन्यपरत्वेनाविरोधात्। जीमूतवाहनस्य तु मात्रधिकार विचार प्रस्तावे पितामह सन्तानात्पूर्वम्पितामहाच्चपरतः पिहामह्या धनाधिकारः। पितृतः परतोमात्रधिकारवत्। याज्ञवल्क्येन मात्राधिकार प्रदर्शनेनैव पितृव्यादिभ्यः पूर्वम्पितामह्योरधिकारस्य सूचितत्वात्पृथङ्गोक्त इति वदतोऽत्रच सपिण्डस्त्रीव्युदासार्थङ्गोत्रज ग्रहण बदतः पूर्वापर विरोधानु सन्धानमपि नास्ति।शृङ्गग्राहिकया योगीश्वर वचने पितामह्याः पितृव्यादि पत्नीवदनभिधानस्य तुल्यत्वात्तद्वदेवादायाद श्रुतिप्रवृत्तेर विरोधात्। विद्यारण्य श्रीचरणोक्त प्राग्लिखितं तस्मान्निरिरिन्द्रया इत्यादि

श्रुतिव्याख्याने तु स्त्रीणान्दायग्रहणप्रतिषेधकत्वमेवास्याःश्रुते र्न्नस्तीति न वा शङ्का नचोत्तरम्। परन्तु बौधायनमुनि वचनविरोधे तद्व्याख्यानङ्कथमुपपद्यताम्। अस्तु वा इन्द्रिय पदस्य वाक्यशेषात्सामान्य परता तथापि दायादत्वाभावाभिधाना बलम्बनस्यान्यस्यासत्वान्निरालम्बन श्रुतेश्चात्सम्मपात्सिद्धवत्कीर्त्त नानुपपत्ति प्रसूत प्रतिषेध कल्पनावश्यम्भावात्। तत्माङ्गर्भेणाविज्ञातेन हतेन ब्रह्महेत्यत्रेवेति ध्येयम्। पितामह्या अभावे पितासहादयः। सगोत्राःसपिण्डा धन भाजः। भिन्नगोत्राणां सपिण्डाना बन्धुशब्देन ग्रहणात्। तत्रापि पितृसन्तानाभावे पितामही पितामहः पितृव्यास्तत्पुत्राश्च क्रमेण धन भाजः। पितामह सन्तानाभावे प्रपितामही प्रपितामहस्तद्भ्रातातत्सू नवश्चेत्येव मासप्तमात्समानगोत्राणां सपिण्डानामपुत्त्रधन भाक्त्वम्। सपिण्डाभावे समानोदकानाम्। ते च सपिण्डानामुपरि सप्त। जन्मनामज्ञानावधिका वा। यथाह मनुः। सपिण्डता तु पुरुषे सप्तमे विनिवर्त्तते।

समानोदकभावस्तु निवर्त्तेता चतुर्द्दशात्।
जन्मनाम्नोः स्मृतेरेके तत्परं गोत्र मुच्यत इति॥

विष्णु वचने बन्धुसकुल्य पदाभ्यांसपिण्ड सगोत्रौगृह्येते इति प्रागेव प्रतिपादितम्। सप्रानोदका अपि प्रत्यासत्ति क्रमेण धन भाजः। समानोदकाभाव्रे बन्धवो धन भाजः। बन्धवश्च त्रिविधा आत्मवन्धवः पितृबन्धवो मातृ बन्धवश्च। तथा च स्मृतिः।

आत्मपितृष्वसुः पुत्त्रा आत्ममातृष्वसुः सुताः।
आत्मामातुल पुत्त्राश्च विज्ञेया ह्यात्मबान्धवाः॥
पितुः पितृष्वसुः पुत्त्राःपितुर्म्मतृष्वसुःसुताः।

पितुर्म्मतुल पुत्त्राश्चविज्ञेयाः पितृ बान्धवा॥
मातुः पितृष्वसुः पुत्त्रामातुर्म्मतृष्वसुः सुताः।
मातुर्मातुल पुत्त्राश्च विज्ञेया मातृबान्धवा इति॥

तत्रापि प्रत्यासन्नत्वात्प्रथम मात्मबन्धवस्तदनन्तरम्पितृबन्धवस्तदंनु मातृबन्धव इति क्रमः। मनुस्मृतौ तदभावे सकुल्यः स्यादाचार्य्यःशिष्यएव वेत्यत्र सकुल्यशब्देन सगोत्र समानोदकानां मातुलादीनां बन्धुत्रयस्य च ग्रहणं योगीश्वर वचनेऽपि बन्धुपदेन मातुललक्षणमन्यथा मातुलादीनामग्रहणमेव प्रसज्येतेति तत् पुत्त्राणान्धनाधिकारस्ततः प्रत्यासन्नानान्तेषामेव स नेति महदनौचित्यमापद्येत। बन्धूनामभावे आचार्य्योधन भाग्यद्यपि योगीश्वर वचनस्याचार्य्योनोपात्तस्तथापि शिष्य उपात्तस्ततः प्रधान तमः प्रत्यासन्नतमश्चाचार्य्य औचित्यादुपलक्षणीयः। आचार्य्यःशिष्य एववेति मनुना। पुत्त्राभावे प्रत्यासन्नःसपिण्डस्तदभावे आचार्य्य स्तदभावेऽन्तेवासीत्यापस्तम्बेन च स्पष्टमेवाचार्य्याभावे शिष्यस्याधिकार बोधनाच्च। शिष्याभावे स ब्रह्मचारी सहाध्यायीधन भाक्। यस्यैकस्मादाचार्य्यादुपनयनाध्ययने। स ब्रह्मचारिणोऽभावे ब्राह्मण द्रव्यव्यतिरिक्तं राजा गृह्णीयात्। सहाध्यायिपर्य्यन्तमधिकार मुक्त्वा तद्भावे ब्राह्मणधनवर्जंराजगामीति प्रागुदाहृत वशिष्ठ वचनात्। सर्वेषामप्यभावे तु ब्राह्मणा रिक्थ भागिनः।

त्रैविद्याः शुचयो दान्तास्तथा धर्म्मोन हीयते॥
अहार्य्यंब्राह्मणधनं राज्ञा नित्यमिति स्थितिः।

इतरेपान्तुबर्णानां सर्वाभावे हरेन्नृप इति मनु वचनाच्च। बाह्मण द्रव्यं स ब्रह्मवारिपर्य्यन्ताभावे श्रोत्रियो ब्रा-

ह्मणः प्रथमं गृह्णाति। तद्भावे ब्राह्मणमात्रम्। यथाह गौतमः। श्रोत्रिया ब्राह्मणस्यात्पत्यस्य रिक्थम्भजेरन्निति।

ब्राह्मणमात्रन्तु मनु बचने ब्राह्मणमात्र ग्रहणात्॥

नारदोऽपि।

ब्राह्मणार्थस्य तन्नाशे दायादश्वेन्नकश्चन।
ब्राह्मणस्यैव दातव्यमेनस्वीस्यानृपोऽन्यथेति॥

पुत्त्रादीनां पत्नीपर्य्यन्तानान्दायहराणां वानप्रस्थादि विषयेऽपवादमाह योगीश्वरः।

वानप्रस्थयति ब्रह्मचारिणां रिक्थभागिनः।
क्रमेणाचार्य्यसच्छिष्यधर्म भ्रात्रेकतीर्थ न इति।

ब्रह्मचार्य्यत्रनैष्ठिको यति साहचर्य्यात्। तेनोप कुर्वाणस्य धनं पुत्त्रादिदौहित्रान्तानाम सम्भवात्पित्रादय उक्त क्रमेण गृह्णीयुः। क्रमश्चात्र प्रतिलोमो ज्ञेयः। तथा चनैष्ठिकस्य मृतस्य धनमाचार्य्यस्य यतेःसच्छिष्यस्य वानप्रस्थस्य धर्मभ्रात्रेकतीर्थिनः। धर्मभ्राता प्रतिपन्नो भ्राता। तीर्थशब्दस्या श्रमवा चित्वादेकतीर्थ्येकाश्रमी। धर्म भ्राताचासावेकतीर्थी-चेत्यर्थः। शिष्यस्य स्वत्वन्तु न सद्वृत्तत्वम्। दुर्वृत्त पुत्त्रादीनामपि धनानधिकारस्य प्रमाणान्तरेणैवप्राप्तत्वात्। तच्च वक्ष्यते। किन्त्वध्यात्मशास्त्र श्रवणधारणतदर्थानुष्ठानक्षमत्वं ग्राह्यम्। मदन रत्नकारस्तु। वानप्रस्थधन माचार्य्योगृह्णीयाच्छिष्यो वेति विष्णु वचनं लिखित्वानु लोममेव क्रमं मत्कावानप्रस्थधनमाचार्य्याभावे शिष्योगृह्णीयादित्याह। नत्वनंशास्त्वाश्रमान्तरगता इति वशिष्ठादि वचनैर्नैष्ठिकादीनान्धन सम्बन्धाभावस्य वक्ष्यमाणत्वात्तद्धन ग्रहणाधिकारिकथनमत्रानुप पन्नंच रिक्थग्रहणस्य तेषां वसिष्ठादिभिर्निषेधेऽपि प्रकारान्तरार्ज्जिततदीयधनाधि-

कार प्रतिपादकमिदम्भविष्यतीति वाच्यम्। ब्रह्मवारी यति श्चैव पक्वान्नस्वामिनावुभावितिस्मृतेब्रह्मचारिणश्चप्रति-ग्रहादिनिषेधात्। अनिपेधाद्वाधनमिति चेत्। न वानप्रस्थस्य तावत्

अह्नोमासस्य पणां वा तथा संवत्सरस्य वा।
अर्थस्य निचयं कुर्य्यात्कृत माखजेत्यजेदिति॥

वचनाद्भोजनादि पर्याप्त यत्किञ्चिद्धन संग्रहोऽस्त्येव यतेरपि।

कौपीनाच्छ दानार्थंहिवामोवैभृयाद्यतिः।
योगमम्भारभेदाश्च गृह्णीयात्पादुके तथेति॥

वचनाद्वस्त्रपुस्तकादिकिञ्चिदस्त्येव। नैष्ठिकस्यापि शरीरयात्रार्थं वस्त्रादि सम्बन्ध आवश्यकः। तेन मातृनान्तेषान्तत्तत्केन ग्राह्यमित्यपेक्षादायादात्तरापवादेनैतेऽधिकारिणउच्यन्तइति

अथसंसृष्टिधन विभागः।

तत्र मतुः।

विभक्ताः सःजीवन्तो विभजेरन् पुनर्यदि।
समस्त विभागःस्यात् ज्यैष्ठ्यत्तत्र न विद्यत इति॥

अत्रसमविभाग नियमादेव विषमविभाग प्रकारनिरा से सिद्धिज्यैष्ठ्यन्तत्रन विद्यत इति पुनर्वचनं ज्यैष्ठ्यादि कृत एव विषमविभागो न भवति। वह्नल्पधन संसर्गानुरोधीत विषम विभागो भवत्येवेति सूचनार्थम्। केचित्तु संसृष्ट द्रव्यापचयां शज्यैष्ठ्यादिकृतो विषमविभागो भवत्येव। मंसृष्ट द्रव्यविभागस्तु सम एवेत्येतज्ज्ञापनाय ज्यैष्ठ्यमिति वाक्यशेष इत्याहुः।

तत्र एतादृशव्यवस्थाया अस्माद प्रतीतेः।

समस्त्यविभागः स्यादियुक्त्याद्रव्योपचयेऽपि साम्यमियम प्रतीतेः। संसृष्टि विभागेऽप्यविभक्त विभाग वत्संसृष्ट द्रव्याविरोधेन विद्यादि लब्धस्याविभाज्यत्वन्तुल्यनेवप्राप्तमपददति।

बृहस्पतिः।

संसृष्टिनान्तुयः कश्चिद्विद्या शौर्य्यदिनाधिकम्।
प्राप्नोति तस्य दातव्यो द्व्यंशः शेषाः समांशिनः ॥

संसृष्टिनाच पित्रादिनैव कर्त्तव्या नान्येन विभक्तो यः पुनः पित्रेत्यादि प्राक्लिखित वृहस्पति वचनादिति बहवः वयन्तूपलक्षणम्पित्रदि ग्रहणमित्यादि प्रायश्चित्तम्। अविभक्त विभागात्ससृष्टिष्वपि मिथो विभाग करणात्प्राग्योमृतस्तस्य पुत्त्राःप्रमीतपितृकाणान्तृपितृतोभाग कल्पनेति वचनात्स्वस्वपित्रं शंविभज्य गृह्णीयुः। यस्य तु संसृष्टिनो मृतस्य पुत्रादयो न सन्तितद्धन ग्रहणेपत्नीत्यादि वचनात्पत्न्यादीनां प्राप्ते तदपवादत्वेन स्वर्य्यातस्य ह्य पुत्त्रस्यैवेत्यनु वृत्तावाह योगीश्वरः संसृष्टिनस्तु संस्सृष्टीति। तु शब्दात्पूर्वापवादः। अपुत्रस्यसंसृष्टिनो मृतस्यधनं संसृष्ट्येव गृह्णीयान्नपत्न्यादिरित्यर्थः। एतेनपत्न्याद्य पुत्त्रधन ग्रहणाधिकारिगणे भ्रात्राधिकारावसरे वचनमिदंप्रवर्त्तत इति व्याचक्षाणो जीमूतवाहनो भ्रान्तएवेत्यव सेयम्। अस्याप्य पवादः। सोदरस्य तु सोदरः।

दद्याच्चापहरेच्चांशञ्जातस्य च मृतस्यचेति।

संसृष्टिनः संसृष्टीत्यस्यात्रापि सम्बन्धः। तथाचाषमर्थः। सोदरःसंसृष्टी संसृष्टिनःसोदरस्य जातस्य पुत्ररूपेणोत्पन्नस्यां शन्दद्यात्त त्तत्पुत्राय दद्यादिति यावत्। मृतस्य पुत्त्रादित्रयरूपेणाप्य जीक्तोरंशमपहरेदात्मनाकुर्य्यात् स्वयमेव गृह्णीयादित्यर्थ। पदद्वयानु षङ्गं विनैव व्याख्याने तु शब्दबलायातमस्य पूर्वापवादत्वं भज्येत। एवञ्च सोदरामोदर संसृष्टिसद्भावे सोदर एव संसृष्टीसोदरसंसृष्टिधनग्रहणाधिकारी न भिन्नोदर इति पूर्वोक्तापवादः।

यत्र तु भिन्नोदर एव संस्ष्टीसोदराश्च।
तत्र द्वयोर्विभज्य पुत्रादिरहित भ्रातृधन ग्रहणमित्याहः॥
अन्योदर्य्यस्तु संसृष्टी नान्योदर्य्योधनं हरेत्।
असंसृष्ट्यपि चादद्यात्संसृष्टो नान्य मातृज इति ॥

अत्रासंसृष्टिपदङ्काकाक्षिवत्पूर्व्वोत्तरार्द्धयोरपि संबध्यते। तथा संसृष्ट इत्यपि। तच्च पूर्वार्द्धेएकोदर संसृष्टः सोदर इत्यर्थकः। उत्तरर्द्धेतु संसृष्टित्वार्थकं अन्य मातृज इत्यनन्तरश्चैवकारोऽध्याहार्य्यः। ततश्चायमर्थः।

अन्योदर्य्योसोदरोऽपि संसृष्टी चेद्धनं हरेत्।

असंसृष्टी चेद्धनं हरेत्। असंसृष्टी चेद्न्योदर्य्योन हरेत्। तथा चान्वय व्यतिरेक प्रदर्शनेन भिन्नोदरस्य संसृष्टित्वमेवैकं धनग्रहणकारणं न भ्रातृत्व मात्रमित्युक्तं भवति। तथा संसृष्टःसोदरो संसृष्ट्यापि चेद्धनं हरेत्किमुत संसृष्टी। संसृष्ट संसृष्ट्यप्यन्य मातृज एवैको धनन्न हरेत्। किन्तु सोदरेण संसृष्टिनापि सहविभज्य गृह्णीयात्। अत्रायं पर्य्यवसितोऽर्थः। असंसृष्टिसोदरे संसृष्टि भिन्नोदरे च सत्यपुत्त्रभ्रातुर्द्धनं सोदरत्व संसृष्टित्व रूपैकैक धनग्रहणकारणयोगात्समं विभज्य गृह्णीयाताम्। सदरोऽपि चेत्संसृष्टीकारणद्वययोगेन बलवत्त्वात्सर्वं स एव गृह्णीयादिति। अत्र चैकैकनियमेनार्थदपरकारण निरास सिद्धावपि दृढीकरणाय पुनस्तन्निरासः। उभयथापि वाक्यव्युत्पत्तेः। पुंलिङ्गश्चसंसृष्टीत्यादावविवक्षितमतएव मनुना सोदर भगिनीनामपि तद्धनग्रहणमुक्तम्। यथाह।

विभक्ताः सहजीवन्तो विभजेरन् पुनर्य्यदीति।

संसृष्टिविभागम्प्रकम्य। येषां ज्येष्ठः कनिष्ठो वा हीयेतांश प्रदानतः।

म्रियेतान्यतरी वापि तस्य भागो न लुप्यते॥
सोदर्य्याविभजेयुस्तं समेत्य सहिताः समम्।
भ्रातरोये च ससृष्टा भगिन्यश्च सनाभय इति॥

येषां संसृष्टिनां मध्येऽन्यतरः संसृष्टी ज्येष्ठःकनिष्ठोऽपि मध्यमोवांश प्रदानतो हीयेतानधिकार्य्यंश प्रदाने स्यात्। सार्वविभक्तिकत्वात्सप्तम्यर्थे तसिः। विभागकाले पातित्येनाश्रमान्तर परिग्रहेण वा म्रियेत वाऽगृहीतभागएव। तर्हि तस्य भागो न लुप्यते पृथगुद्धरणीयः। स च प्रथमं तत्पुत्त्रादिभ्यो देयः।

तदभावे सोदर्य्या भ्रातरो संसृष्टा अपि।

समेत्य देशान्तरगतास्ततआगत्य सहता मिलिताः। ये च भ्रातरो भिन्नोदरा अपि संसृष्टाःसंसृष्टिनःस नाभयो मृतस्य सहोदरा भगिन्यश्चसममवैषम्येण विभजेयुर्विभज्य गृह्णीयुरित्यर्थः। अत्र सोदर भ्रातर भगिनीनामसंसर्गोऽपि संसर्गे च भिन्नोदराणामपि धनाधिकारमभिदधता मनुना योगीश्वरोक्त एवार्थःस्पष्टमुक्तो भवति। अत्रश्रीकरः। संसृष्टिनस्तु संसृष्टीत्यस्यासोदर ससृष्टिमात्रविषयत्वेऽन्यानपेक्षत्वात् सोदरस्य तु सोदर इत्यस्याप्य ससृष्ट सोदरमात्र विषयत्वे तथात्वाद सोदरे संसृष्टिनि सोदरे चासंसृष्टिन्युभयोःप्राप्तौ यदि द्वयमेव प्रवर्त्तते तदान्योऽन्य सापेक्षयोरुभयो विधायकत्वं स्यात्। नचैकस्य सापेक्ष निरपेक्षोभयरूपतया विधायकत्वं विधिवैषम्यादापादकमुचितम्। पर्वद्वये विकल्प सापेक्षं विधानम्। पर्वद्वये च निरपेक्षमिति उत्तरवेदिविधि वैषम्यापत्तेःयथा द्वयोःप्रणयन्तीत्यस्य न वैश्वदेव उत्तरवेदि मि-

त्यादि निषेधकृत विकल्प सापेक्षं पर्वद्वयं विधानमन्य पर्वद्वये तु निरपेक्षमिति सप्तमाधिकरणे विधि वैषम्यभयादन्यथा सिद्धान्तितम्। तथा सिद्धान्तितम्। तथा चासोदरे संसृष्टिन्य संसृष्टिनि च सोदरे उभयोरप्रवृत्तोन कोऽपि तद्धनंगृह्णीयादित्यापतेत्। अतः संसृष्टिनस्वित्यनेन संसृष्टिधने संसृष्टिनोऽधिकार उक्तेतदपवादोऽयं सोदरस्यत्विति। तथा च संसृष्टिनोऽप्य सोदस्य सोदरे संसृष्टित्वरहितेऽपि सति नाधिकार इत्याह। तन्मीमांसानयतत्वालोचन निबन्धमभिधाने हि द्वयोः क्वचिन्निरपेक्षयोः प्रवृत्तयोः शास्त्रयोः क्वचिदुभयविषयसमावेशवशादेकत्र प्रवृत्तिमात्रेण वैरुप्यम्भवति तथा सति केवलोद्गातृप्रतिस्त्रेत्रापच्छेदे निरपेक्षयोः सर्वस्व दाक्षिण्यशास्त्रयोर्युगपदुभयानच्छेदे प्रवृत्त्यभावाद्विरोधाभावेनकिङ्केन वाध्यत इति विचारी निर्मूलःस्यादपच्छेदनये। तस्मत् क्वचिद्विध्यन्त बाध निरपेक्ष विधानं क्वचित्तद्वाध सापेक्षंचेत्तदा वैरूप्यं यथोपात्रवपन्तीत्यत्र प्राङ्गिरूपितम्। अन्यथा चतुर्होत्या पौर्णमासीमभिमृशेल्पञ्चहोत्राभावास्यामित्यनयो रुपांशु यागाग्नीपोमोय विषय ऐन्द्रदध्यैन्द्रपयो विषये चैकैकशःप्रवृत्तयोरुभयो साधारणयो र्हविषि विषय समावेशेऽप्येकमपि न प्रवर्त्तेत। यदपिस्वयमुपवर्णितं संसृष्टिनस्त्वित्यस्यापवादः। सोदरस्यत्वित्यादिरिति। तदत्यसम्वद्धं।

विनिगमकाभावेन वैपरीत्यस्यापि सम्भवात्।

पौर्वापर्य्यमात्रस्याप्रयोजकत्वात्। तच्चान्येदर्य्यवचनं संसृष्टिनस्त्वित्यस्यैवविवरणार्थमित्युक्तं तेन ववोभङ्ग्यानर्थक्यमेव तस्योक्तम्। किञ्च सोदरेऽसंसृष्टिनि संसृष्टानोदरापवादार्थं सोदर

वचनस्यवर्णनात्सोदरा सोदरयोरुभयोरप्यमंसृष्टित्वे प्रवृत्त्यभावात् तुल्याधिकारो वा द्वयोरपि स्यात्। अथात्रापि सोदर वचनमेव प्रवर्त्तते तर्ह्योकत्रसंसृष्टिवचनबाध सापेक्षमन्यत्र तु स्थिरपक्षमिति प्रत्युत तवैवविधि वैरूप्यम्। यथा सोमिकीवेदिपादि दीक्षणीयादिष्वति देशप्राप्तदर्श पौर्णमासिकवेदि बाँधेन विधियेततर्हि तत्रातिदेशबाध सापेक्षस्तद्विधिरन्यत्र तन्निरपेक्ष इति वैरुप्यादवेदिमद्विषयकत्वमेव तस्यव्यपस्थापितं तन्त्रे। अस्मन्मते तु व्याख्यातरीत्या द्वयोर्भिन्नविषयत्वेनानर्थक्य बैरुप्ययोर्न्नप्रसक्तिरिति वृतं विस्तरेण। स्मृतिचन्द्रिकाकारस्त्वाह येषाज्येष्ठःकनिष्ठो वेत्यादि मनुवचने च शब्देन सोदर भ्रातृभगिन्य सोदर संसृष्ट भ्रातृणामितरेतरयुक्तानां विभागकर्त्तृतायाः समेत्य सहित शब्दाभ्यामवगतेर्योगीश्वरवचः संसृष्टि सोदर सद्भावे भिन्नोदरस्यानधिकारावगतेरस्ति तावदनयोर्विरोधेतद्र्विरोधपरिहारार्थं केचिदेवं मानवं व्याचक्षते। तमलुप्तभागं सोदरा यदि संसृष्टास्तदात एव गृह्णीयुर्नासृष्टिनः सोदरा अपि। संसृष्टसोदराभावे सर्वे सोदराःसमेत्य मिलित्य सहिताः समप्रधानभावेन समन्यूनाधिकं विभजेरन् सोदराणामभावे सनाभयो भगिन्यस्तासामप्यभावेऽन्योदर्य्याइति। तदेतदनेक ध्याहार दोषादति क्लिष्टत्वाच्चोपेक्षणीयम्। विज्ञानेश्वरेनापि मानव संवादायान्योदर्य्यस्तु संसृष्टिनान्दोदर्योधनं हरेदिति पठेन योगीश्वरवचनस्य यत्तदप्यावृत्त्यव्याहारादिना क्लिष्टमत्यन्ताप्रतीयमानार्थकं स्वप्रज्ञाविलसितमात्रम्। तस्माद्यथा प्रतीयमानार्थकयोरेव मनु योगीश्वरवाक्ययोविषय व्यवस्थयै वा विरोधो वाच्यो नाति-

क्लिष्टैकार्थैर्तेति सैवोच्यतेस्थावर जङ्गमात्मकोभयविध धनसद्भावे मनुवचनं संसृष्टासंसृष्टानां भ्रातॄणां भगिनीनाञ्च विभज्यग्रहणं बोधयति। योगीश्वरवचस्तु केवलस्याचा रसद्भावे केवल तदि तरद्रव्यसद्भावे वा तद्विषयम्।

अन्तर्द्धनन्तु यद्द्रव्यं संसृष्टानान्तु तद्भवेत्।

भूमिं गृह्णन्त्वससृष्टाः प्रगृह्णीयुर्यथांशत इति प्रजापतिस्मृतेः।

द्रव्यमिति गो वलिवर्द्दन्यायेन प्रकटस्य द्विपद चतुष्पदादि रूपस्य जङ्गम द्रव्यस्य ग्रहणम्। संसृष्टानां भिन्नोदराणामिति शेषः। योगीश्वरवचसि नान्योदर्य्यादिति पाठः। तस्मात् केवल स्थावर सद्भावे केवल जङ्गम सद्भावे च योगीश्वरवचनादससृष्टोऽपि सोदरस्तद्गृह्णीयान्नतु ससृष्टोऽपि भिन्नोदरः। उभयविध धनसद्भावे तु प्रजापतिवचनोक्त व्यवस्थाया। संसृष्टाःसोदराभ्रातृभगिन्यः संसृष्टा भिन्नोदराश्चविभज्य गृह्णीयुः। मनुवचन स्याप्येतदर्थतैवेति। तदसत्। अध्याहार क्लिष्टतादि दोषस्य तवाप्यन पायात्। प्रजापति वचनोक्त व्यवस्थाया विज्ञानेश्वरीय व्याख्यानेऽप्यविरोधात्। अतएव मदनत्नकृता तद्व्याख्यानमभ्युपेत्यैव प्रजापतिवचनमपि व्यवस्थापकतया पठितम्प्रत्युत भवद्व्याख्याने योगीश्वरवचने पौनरुक्त्यं दुष्परिहरमापद्यते। अन्योदर्य्यस्तु संसृष्टी नान्योदर्य्यो धनं हरेदित्यनेनोक्तस्यैवार्थस्य संसृष्टो नान्य मातृज इत्यनेना न्यूनानतिरिक्तस्य प्रतिपादनात्। मानव संवादिनों पुनरुक्तस्वार्थस्य क्लेशेनापि वक्तुं शक्यत्वे मूलभूत श्रुत्यन्तर कल्पना गौरवापादकस्यार्थान्तरस्य कल्पयितु मनुचितत्वाच्च। याज्ञवल्क्यस्मृतिटीकायां शूलपाणिः।

अन्योदर्य्यःसंमृष्टीनान्योदर्य्यधनं गृह्णीयात्।

असंसृष्ट्यपि सोदरएव गृह्णीयात्। न तु संसृष्टःसा पत्न भ्राता। नान्योदर्य्योधनं हरेदिति पाठे अन्योदर्य्यः सत्संसृष्ट्यापि धनं न गृह्णीयादिति व्याख्या। असंसृष्टि सोदराधिकारार्थमिदं वचनमतो न पुनरुक्ततेत्याह तत्तु श्रीकरमत समानयोग क्षेमम्। रत्नाकरकृत्त्वाह यस्तुकल्पतरौ नान्योदर्य्यधनं हरेदिति पाठो दृश्यते समूलभूत याज्ञवल्क्यमिताक्षरा पारिजात हलायुध ग्रन्थेषु नान्योदर्य्योधनं हरेदिति पाठदर्शनात्त दनुसारि व्याख्यानदर्शनाञ्च लिपिप्रमाद एवेति। दायतत्वकारस्तु सोदरे ससृष्टिनिसंसृष्टिन्य सोदरे च कतरस्तावद्गृह्णीयात्। एवं सोदरा सोरयो, संसृष्टिनोः सद्भावेकतर इत्यत्रप्रथम आह अन्योदर्य्यस्त्विति। अन्योदर्य्यःपुनःसंसृष्टी स नगृह्णीयान्नान्योदर्य्यमात्र। किन्त्वसमृष्ट्यपि पूर्ववचनस्थ सोदरपदानु-षङ्गात्सोदरो गृह्णीयात्। तेनैकत्र विषये पूर्ववचनोक्तं सोदरुत्वं संसृष्ठित्वयोरेकशः सम्बन्धेन तुल्यत्वाद्विभज्य ग्रहण मेतदुभय सत्त्वेवासोदरस्या संसृष्टिनोतुल्यरूपत्वान्नोति द्वितीय आह संसृष्टोनान्यमाटज इति। सोदरे ससृष्ट सत्यन्यमातृजः संसृष्ठोपिन गृह्णीयात्। अर्थात्तत्रसांसृष्टी सोदर एवं गृह्णीयात्। संसृष्टत्वाविशेषेऽपि सोदरत्वेन तस्यैव बलवत्त्वादित्याहतदपिमिताक्षरादि सम्बाद्येव व्याख्याना कौशलन्त्वधिकम्। यदा तु संसृष्टः पिता पितृव्यो वा नास्तितदाऽ संसृष्टभिन्नोदरो गृह्णीयात्। तदभावे त्वसंसृष्टः पिता। तद्भावे तत् पत्नी। तथा च शङ्खः। स्वर्य्यातस्य ह्य पुत्त्रस्य भ्रातृगामि द्रव्यं तदभावे पितरौ हरेयातां ज्येष्ठा वा

पत्नीति। स्वर्यातस्यापुत्रस्यससृष्टस्य संसृष्ट्यभावे भिन्नोदरा संसृष्ट भ्रातृगामि व्यमित्यर्थः। तेन संसृष्टधन विषये यथा स्थितमेवेद वा चनमिति स्मृतिचन्द्रिकामदनरत्नकारावाहतुः। संसृष्ट भ्रातृविषयमेवैतत्त्रेनपितृ पत्न्योस्तदभाव इति न विरुद्धमिति मिताक्षराकागदयः। स्मृति चन्द्रिकायां शङ्खवचने ज्येष्ठग्रहणं सुसंयतत्वादि गुणवत्वकथनार्थं न तु मध्यमादिनिवृत्त्यर्थम्। पुनरपि तदभाव इति वक्तव्येवाशब्दः प्रयुक्त फलसाम्यात्। तथाहि। वा शब्दाद्विकल्पःप्रतीयते। न चात्र स्वाम्यरूपे बस्तुनि तुल्यागतेः फलसाम्यमस्त्येव। एवं चायं क्रमः भ्रात्रभावे पिता। तदभावे माता तद्भावे ज्येष्ठा पत्नीति मदनरत्नेतु मातापित्रोर्विपरीतक्रमः। मिताक्षरोक्तन्यायाद्विभक्ता संसृष्टविषय विष्णु वचन वदत्रन्यायवाधक वचनाभावादिति तदाशयः। अतएव पत्नीदुहितर इति वचने विष्णु वचनानुरोधेन स्मृतिचन्द्रिकावत्पितरावित्यत्र प्राक् पिता तद्भावे मातेत्येव तत्रोक्तम प्रपञ्चित ञ्चैतद्विस्तरेणास्माभिः प्रागेव। ततश्च मदनरत्नोदुहत्रादि क्रमविरोधाद विरोधायै तत् संसृष्टभाग विषयमिति कल्प्यते विभक्तोक्तनैयायिक पत्नादुहित्रादि क्रमोऽत्रबाचनिक क्रमेण वाध्यते। अस्मिन् क्रमे कस्य चिन्न्यायस्याभवाद्वाचनिक एवाय क्रमः। नारदोऽपि।

मृतेपत्यौ तु भार्य्यास्तु अभ्रातृपितृ मातृकाः।
सर्वे सपिण्डास्तु धनं विभजेयुर्थथांशत इति॥

अस्यार्थः। भार्य्याःपत्न्यः। अभ्रातृ पितृमातृका याः पत्यु र्भ्रातृ पितृमातरस्तद्वद्भाव विशिष्टा इत्यर्थः। अत्र द्वन्द्वसमासे

भ्रात्रापेक्षयाभ्यर्हितपित्रादिपद पूर्वनिपातं परित्यज्य वैपरीत्येन समासरचनां कुर्वता नारदेन संसृष्टापुत्र द्रव्यं प्रथमं भ्रातृगामि तदभावे पितृगामि तदभावे मातृगामि तदभावे वृत्तस्थपत्न्यभिगामीति दर्शितम्। एवञ्च संसृष्टपत्नीनां मुख्यगौण पुत्त्राभावेन प्रथमन्दायहरत्वं किन्तु संसृष्टि सोदरभिन्नोदर भ्रातृ पितृ मातृणामप्यभावे इति। द्रष्टव्यम्। सर्वे सपिण्डास्त्वित्यादेस्त्वयमर्थः। संसृष्टा पुत्त्रस्य ये भ्रातृ पितृ मातृ व्यतिरिक्ताः सपिण्डाभ्रातृ पुत्त्रादयस्तेस्वधनम्पूर्वम पुत्रधनेन सह स्वपित्रादिना संसृष्टन्तदूर्ध्वन्तत्पत्नीभिः सह यथांशतो भ्रातृ पुत्राणां भ्रात्रंशो भार्य्याणाम्भर्त्रंश इत्येवमंशानति क्रमेण विभजेयुरिति। पत्न्यभावे संसृष्टा पुत्रांशन्तद्भगिनी लभते। तथा च बृहस्पतिः।

या तस्य भगिनी सातु ततोऽशंलब्धुमर्हति।
अनपत्यस्य धर्मोऽयमभार्य्यापितृकस्य च॥

अमातृंकस्यं चेति च शब्दार्थः। भगिन्यभावे केबलाः सपिण्डा अनन्तराः सपिण्डास्तद्दायं विभजेरन् यथांशतः। तदाप्तस्य तस्य धनम्भवेदिति मनूक्त प्रत्यासत्तिक्रमेण लभेरन्। प्रतिपदोक्तानाम भावात्। तथा च स एव।

मृतोऽनपत्योऽभार्य्यश्चेदभ्रातृ पितृ मातृकः।
सर्वे सपिण्डास्तद्दायं विभजेरन् यथां शतः॥

तद्दायं संसृष्टिदायम्। मृतोऽनपत्य इत्यादेःप्रतिपदोक्त संसृष्टधन ग्राहिरहितश्चेदित्यर्थः। सपिण्डाभावे तु विभक्त मृतधन वदेव संसृष्टः स्वर्य्यात द्रव्यमपि प्रागुक्तक्रमेण प्रत्यासत्तितारतम्येन समानोदकादिगामीति द्रष्टव्यम्। संसृष्टेद्र-

व्यमधिकृत सपिण्डेभ्य ऊर्ध्वं विशेषास्मृतिरिति। ननु सत्यपि पत्न्यादौ वचनान्मृत संसृष्टिधनस्य संसृष्टि भ्रात्रादिग्राह्यत्ववत्संसृष्टासस्सृष्ट पुत्त्रसद्भावेऽपि पितृधनस्याप्येतद्वचन बलात् संसृष्टि पुत्त्रमात्र ग्राह्यत्वमस्त्विति चेत्। न अपुत्रस्येति पूर्ववचनस्थस्यानुपङ्गादपुत्त्र संसृष्टिमरणस्य धनग्रहणकारणत्वात्संसृष्टिनश्च पुत्त्रेणापुत्त्रत्वाभावात्संसृष्टिनस्त्वित्यस्या प्रवृत्तेर्विभजेरन् सुताः पित्त्रोरिति वचनात्पित्रंशे पुत्रयोद्वयोरत्रापि समभागभागित्वम्। प्राक्तनः स्वांशः पर संसृष्ट पुत्रेण भुक्तावशिष्टः पृथगुद्धरणीयः। पितुर्य्यावांस्तदानीं विद्यमानोंऽशःससमृष्टा संसृष्टाभ्यां विभज्य ग्राह्यः। न च संसृष्टिनस्त्वित्यत्रा पुत्त्रपदानुषङ्गोऽस्त्विति वाच्यम्। सपुत्र संसृष्टि भ्रात्रादिधनेऽपि पुत्रादिवाधेन तदंशस्य भ्रात्रादि ग्राह्यतापत्तौ सकलदेशीयानादिव्यवहार विरोधाय। अन्यथा पुत्रवद पुत्त्रसाधारणस्या पुत्रमात्रविषय पत्नीत्यादि वाक्यापादकत्वानुपपत्तेस्तद्बोधकतु शब्दविरोधापत्तेश्च। न च धात्रादि संसृष्टिन एवायं विशेषणं व्यावर्त्तकत्वात्पुत्रसंमृष्टिनस्तु न व्यावर्त्त्याभावात्। असम्भवाञ्चसम्भवेव्यभिचारे च स्याद्विशेषणमर्थवदित्यभियुक्तोक्तेरिति वाच्यम्। पृथग्वाक्यद्वयाभावादेकत्रच वाक्ये क्वचिद्विशेषण पुरस्कारेण क्वचिच्च तद पुरस्कारेण विधिप्रवृत्तौविशेषण घटिताघटितं वाक्यार्थद्वयनिबन्धन विधिवैषम्यरूप वाक्यभेदापत्तेः। किञ्च पित्रादि द्रव्यम्वाम्ये पुत्त्रत्वादिकमेवा पतितत्वादि विशिष्टं प्रयोजकन्नतु संसृष्टत्वविशिष्टमपि गौर वात् तच्च सर्वेषां संमृष्टानाम संसृष्टानाञ्चतुल्यमिति सर्वेपामेव पुत्रादीनां विशेषेण तद्धनग्रहण मुचितम्।

न च विभागेन पित्रादि द्रव्यार्हत्वापगमः।

सर्वेषु पुत्त्रेषु विभक्ता संसृष्टिष्व पुत्रवद्भार्य्यादीनामेव तत्र धनाधिकारापत्तेः। प्रत्युतापस्तम्बेन हारीतेन च विभागोत्तरमपि पिता पुत्त्रयोः परस्परधनाधिकार प्रतिपादनाच्च। यथाहतुस्तौ। जीवन्नेव वा विभज्य वनमाश्नयेत्। वृद्धाश्रमं वा गच्छेत् स्वल्पेन वा संविभज्य भूपृष्ठमादाय वसेत् यद्युदृश्येत्। पुनस्तेभ्यो गृह्णीयात् क्षीणाञ्च विभजेदिति।वृद्धाश्रमं पारिव्राज्यम्। उपदृश्येङ्भ्रक्ष्याभावेन क्षीयेत्। विभक्तजे तु सतिपूर्वविभक्तानां पुत्त्राणां प्राप्नोति पितृधनाधिकारोवृहस्पतिवचनेनापोद्यते। यथाह सः।

अनीशाःपूर्वजाः पित्रो र्भ्रातुर्भागे विभक्ततः।
पुत्रैसहविभक्तेन पित्रा यत्स्वयमर्जितम्॥
विभक्तजस्य तत् सर्वमनीशाःपूर्वजाः स्मृताः।
यथा धने तथार्णेच दानाधान क्रयेषु च॥
परस्पर मनीशास्ते मुक्त्वा शौचोदक क्रियामिति।

संसृष्टी धनहारकेण तस्त्रियः परिपालनीयास्तत्कन्याश्च विवाहपर्य्यन्तं पोषणीया संस्कर्त्तव्याश्चेत्याहतुः शङ्खनारदौ। संसृष्टिनं प्रक्रम्य भ्रातृणाम प्रजाः प्रेयात्कश्चिच्चेत्प्रब्रजेत वा।

विभजेरन् धनन्तस्य शेषास्ते स्त्रीधनं विना।
भरणञ्चास्य कुर्वीरन् स्त्रीणामाजीवनक्षयात्॥
रक्षन्ति शय्यां भर्त्तुश्चेदांच्छिन्दुरितरासु च।
या तस्य दुहिता तस्याः पित्र्योंऽशो भरणे मतः॥
आसंस्काराद्धरेद्भागं परतो विभृयात्पतिरिति।

इतरासु भर्त्तृशय्यामरक्षन्तीषु दुवृत्तास्विति यावत्। आसंस्कारादि त्यभिविधावाङ् तेन विवाह करणमपि लभ्यते।

इति संसृष्ट विभागः।

अथ स्त्रीधनविभाग वक्तुन्तत्स्वरूपन्तावन्निरूप्यते तत्र मनुः।

अध्यग्न्यध्यावह निकन्दत्तञ्च प्रीतिकर्मणि।
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतमिति॥

षड्विधमितिन्यून संख्याव्यवच्छेदपरन्नाधिक्यनिरासाय। अतएव योगीश्वरेण।

पितृमातृपति भ्रातृदत्तमध्यग्न्युपागतम्।

आधिवेदनिकाद्यञ्च स्त्रीधनं परिकीर्त्तितम्। इत्याद्यशब्द उपात्तः। विष्णुनापिषडधिकानि स्त्रीधनान्युक्तानि स यथाह।

पितृमातृसुत भ्रातृदत्तमध्यग्न्युपागतम्।

आधिवेदनिकंबन्धुदत्तं शुल्कमन्वाधेयमिति स्त्रीधनमिति। नारदः।

अध्यग्न्यध्यावहनिकम्भर्त्तृदायस्तैव च।
भ्रातृदत्तं पितृभ्याञ्च षड्विधं स्त्रीधनं स्मृतमिति॥

षड्विधत्वंमानववदेवव्याख्येयम्। स्त्रीधनशब्दश्चायं यौगिकः। स्त्रीस्वामिकन्धनमिति न तु पारिभाषिकः।योगसम्भवे परिभाषाया अन्याय्यत्वात्। अतएव योगीश्वरेण रिक्थ क्रयादि साधारण स्वत्वोपाय संग्रहायाद्यपदंप्रयुक्तम्। ननु च क्वचित् स्त्रीधनत्वनिषेधोऽनुपपन्नएवं सति स्यात्। नहि स्त्रीस्वामिकत्वं तत्र निषेद्धं शक्यते। बाधात्। यथाह कात्यायनः।

तत्र मोपधि यद्दत्तं यच्च योग वशेन वा।
पित्राभ्रात्राथवापत्या न तत् स्त्रीधन मुच्यत इति॥

उपधिरुत्सवादावेवेदमस्य दत्तं त्वया धार्य्यमलङ्कारादि-

नान्यदेति नियम स्तत्पूर्वकदत्तंसोपधि योगोवशश्चनन्दायादानं कन्यायै दत्तमिदन्तद्धनङ्कथं विभाज्यमिति। शिल्प प्राप्तं सख्यादिभ्यः प्रीत्याप्राप्तन्तदपि न स्त्रीधनमित्यप्याह। स एव।

प्राप्तंशिल्पैस्तु यत्किञ्चित्प्रीत्या चैव यदन्यतः।
भर्त्तुःस्वाम्यन्तदा तत्र शेषन्तु स्त्रीधनं स्मृतमिति॥

पारिभाषिकत्वेभ्रात्रादिदत्वेन प्राप्तं स्त्रीधनं प्रतिषिध्यते। तेनैतस्माद्भिन्नमेव पित्रादिदत्तं शिल्पादि प्राप्तभिन्नं वा स्त्रीधनमिति परिभाष्यत इति चेत्। उच्यते। नात्र स्त्रीधनत्वनिषेधः। किन्तु तत्कार्य्यविभागादि निषेधः। अतएवोत्तरश्लोके तत्रभर्त्तुः स्वाम्यमित्युक्तम्। भर्त्तुस्तद्विनियोगे स्वातन्त्र्यन्नस्त्रिया इत्यर्थः। प्रथमश्लोकेतु स्त्रीस्वत्वनिषेधोऽपि सम्भवति उपधियोग पदयोरुपादानात्। तादृशदाने च स्वत्वाभावस्य प्रसिद्धत्वात्। योगाधमन विक्रीतयोगदान प्रतिग्रहम्। यत्र चाप्यु पधिम्पश्येत्तत्सर्वं विनिवर्त्तयेदिति मनु वचनात् भार्या पुत्त्रश्च दासश्च त्रय एवाधनाः स्मृताः। यत्तेसमधिगच्छन्ति यस्य तेतस्य तद्धनमित्यपि वचनम्भार्य्याविषये शिल्पादि प्राप्त परमेव। एकमूल कल्पनालाघवात्। अध्यग्न्यादि स्वरूपन्निरूपित कात्यायनेन।

विवाहकाले यत् स्त्रीभ्यो दीयते ह्यग्नि सन्निधौ।
तदध्यग्निकृतं सद्भिःस्त्रीधनं परिकीर्त्तितम्॥
यत्पुनर्ल्लभते नारी नीयमाना पितुर्गृहात्।
अध्यावहनिकन्नाम स्त्रीधनन्तदुदाहृतम्।
प्रीत्यादत्तं तु यत्किञ्चिच्छूश्रावा श्वशुरेण वा॥
पादवन्दनिकाञ्चैव प्रीतिदत्तन्तदुच्यते।
विवाहात्परतो यन्तु लब्धंभर्त्तृकुलात् स्त्रिया॥

अन्वाधेयन्तु तत्प्रोक्तं यल्लब्धं स्वकुलात्तथा।
गृहोपस्कार बाह्यानां दोह्याभरण कर्मणाम्॥
मूल्यं लब्धन्तुयत्किञ्चित्तच्छुल्कं परिकीर्त्तितम्।
ऊढया कन्यया वापि पत्युः पितृगृहेऽपि वा॥
भ्रातुः सकाशात्पित्रोर्वा लब्धं सौदायिकं स्मृतम्।

भर्त्तुःसकाशादिति कल्पतर्वा दौपाठः। अध्यग्न्यादि शब्दास्तु योगरूढास्तादृश स्त्रीधनादावप्रयोगात्। गृहोपस्करणादीनाय्यँन्मूल्यं कन्यार्पणोपाधित्वेन वरादिभ्यः कन्याभरणरूपेण गृह्यते तच्छुल्कमिति मदनरत्ने व्याख्यातम्। मिताक्षरायान्तुयद्गृहीत्वा कन्या दीयते तच्छुल्कमित्युक्तम्। उभयत्रापि पित्रादीनां कन्याया इदमित्युद्देशो विवक्षितः। अन्यथा तत्स्वत्वाभावेन स्त्रीधनत्व व्यपदेशत्वानुपपत्तेःजीमूतवाहनेन तु कर्मणामितिं पठित्वा गृहादिकर्मिभिः शिल्पिभिस्तत्कर्मकरणे भर्त्रादि प्रेरणार्थं स्त्रियै यदुत्कोचदानं तच्छुल्कं तदेव मूल्यम्प्रत्यर्थत्वादिति व्याख्यातम्। पुनश्चोक्तम्।

यदा नेतुम्भर्त्तृगृहे शुल्कन्तत्परिकीर्त्तितमिति व्यासोक्तं वा।

भर्त्तृगृहगमनार्थमुत्कोचादि यद्दत्तं तच्छुल्कमित्यर्थ इति। तदुभयमपि स्त्री स्वामिकं भवत्येव तस्या एव दत्तत्वादिति तत्र स्त्रीधनत्व व्यपदेशोऽन्य स्त्रीधनवत् सुगमएव। आधिवेदनिकं स्त्र्यन्तर विवाहकाले पूर्वभार्य्यायै यद्दीयते। यदाह याज्ञवल्क्यः।

अधिविन्नं स्त्रियै दद्यादाधिवेदनिकं समम्।
न दत्तं स्त्रीधनं यासान्दत्तेत्वर्द्धंप्रकल्पयेदिति॥

पित्रादिभिर्ज्जीवनाद्यर्थं स्त्रीभ्यो धनदाने विशेषमाह कात्यायनः।

पितृ मातृपति भ्रातृ ज्ञातिभिः स्त्रीधनं स्त्रियै।

यथा शक्त्या द्विसाहस्राद्दातव्यं स्थावरादृते॥

स्थावरेतरद्धनं यथाशक्ति कार्षापण सहस्रद्वयपर्य्यप्तं देयमित्यर्थः। व्यासोऽपि।

द्विसहस्रःपरो दायः स्त्रियै देयो धनस्य तु।

आद्विसहस्रादिति कात्यायनेन पर इति च व्यासेनोक्तेरितोऽधिकमिति धनिनापि न स्त्रीभ्यो देयमिति दर्शितम्। अयञ्च नियमः प्रतिवत्सरमसकृदर्पणे ज्ञेयस्तेनानेक वत्सरेषु जीवनार्थंदीयमानमितोऽधिकमपि भवति चेन्न दोषः। जीवनार्थत्वाद्दानस्य यावज्जीवञ्च हद्विसाहस्रमात्रेण तन्निर्वाहा सम्भवात्। स्त्रीधनेऽपि भर्त्रानुमतिमन्तरेण स्त्रीणान्न स्वातन्त्र्यमित्याह मनुः।

ननिर्हारं स्त्रियः कुर्युःकुटुम्बाद्बहुमध्यकात्।
स्वकादपि च वित्ताद्धि स्वस्थ भर्त्तुरनाज्ञयेति॥

निर्हारो व्ययः। क्वचित्तु स्त्रीधने तासां स्वातन्त्र्य मस्ति। यदाह सौदायिक स्वरूपमुक्त्वाकात्यायनः।

सौदायिकं धनं प्राप्य स्त्रीणां स्वातन्त्र्यमिष्यते।
यस्मात्तदा नृशंस्यार्थं तैर्द्दत्तमुपजीवनम्॥
सौदायिके सदा स्त्रीणां स्वातन्त्र्यं परिकीर्त्तितम्।
विक्रये चैव दाने च यथेष्टं स्थावरेष्वपि॥

भर्त्तृदत्तेतु स्थावरेतर एवं स्वातन्त्र्यमित्याह नारदः।

भर्त्राप्रीतेन यद्दत्तं स्त्रियै तस्मिन् स्मृतेऽपि तत्।
सा यथा काममश्नीयाद्दद्याद्वास्थावरादृते॥

स्थावरे भतृदत्त स्त्रिया निवासाद्युपभोगमात्रं न दान विक्रयादिकमित्यर्थः। अपुत्त्राशयनं भर्त्तुरित्यादि कात्यायन-

वचोऽपि भर्त्तृदत्तस्थावरविषयमेवनारदैकवाक्यतयेति केचित्। अस्माभिस्तु पत्नी दुहितर इति व्याख्यानावसरे-ऽस्यविषयं प्रपञ्चितम्। पुरुषाणामपि कस्मिन्नपि स्त्रीधने न स्वातन्त्र्य स्वाम्याभावादित्याह कात्यायनः।

न भर्त्रा नैव च सुतो न पिता भ्रातरोनच।
आदाने वा विसर्गे वा स्त्रीधने प्रभविष्णुवः॥
यदित्वेकतरोऽप्येषां स्त्रीधनं भक्षवेद् बलात्।
स वृद्धिकं स दाप्यः स्याद्दण्डञ्चैव समाप्नुयात्॥
तदेव यद्यनुज्ञाप्य भक्षयेत् प्रीतिपूर्व्वकम्।
मूलमेवतदा दाप्यो यदा स धनवान् भवेत्॥
अथ चेत्सद्विभार्य्यःस्यान्नच तां भजते पुनः।
प्रीत्या विसृष्टमपि चेत् प्रतिदाप्यः स तद् बलात्॥
ग्रासाच्छादनवासानामुच्छेदो यत्रयोपितः।
तत्र स्वमाददीत स्त्री विभागं रिक्थिनान्तथा।

स्त्रिया धनं गृहीत्वा यद्यपरभार्य्ययासह वमत्येनाञ्चावमानीते तदा गृहीतं तद्धनं राज्ञा बलाद्दाप्यः। भक्ताच्छादन निवासान् यदि भर्त्ता न ददाति तदा तेऽपि स्त्रिया बलाद्ग्राह्यास्तप्तर्य्याप्तंधनं वा ग्राह्यमिति श्लोकद्वयस्याथ चेदित्यस्यार्थः। इद मपि तस्य दोषराहित्ये बोध्यं दुष्टा पुनः किमपि स्त्रीधनं न लभत इत्याह स एव।

अपकार क्रियायुक्ता निर्लर्ज्जाचार्थनाशिका।
व्यभिचाररता या च स्त्रीधनं न तु मार्हति॥

नार्हतीत्यमेन तयालब्धमप्याच्छिद्यग्राह्यमिति सूचितम्। अपकार क्रिया युक्ता सदा भर्त्तृप्रतिकूलाचरणपरा।

निर्मर्य्यादार्थनाशिकेत्यपि पाठःदेवलः।
वृद्धिराभरणं शुल्कं लाभश्च स्त्रीधनं भवेत्।
भोक्त्रीतत् स्वयमेवेदं पतिर्नार्हत्यनापदि।
वृथा मोक्षे च भोगे च स्त्रियै दद्यात् स वृद्धिकमिति॥

वृर्द्धिर्बर्द्धनार्थं पिवादिना दत्तमिति स्मृतिचन्द्रिकायाम्। मदनरत्ने तु वृद्धिरिति पठितम्। वृत्तिर्ज्जीवनार्थं पित्रादिभिर्दत्तमिति व्याख्यातञ्च। लाभो गौर्य्यादिप्रीत्यर्थं यल्लभ्यते कुतश्चित्। वृथा आपदमन्तरेण। मोक्षस्त्यागोदानमिति यावत्। अननुज्ञातत्याग भोगविषयमेतत्। तदनुज्ञत्या त्वनापद्यपि न दोषः।

स्वयमेवेत्येवकारः स्वापत्यानां व्युदासार्थः
भर्त्तृव्युदासस्य पतिर्नार्हतीत्यनेनाभिधानात्॥

भर्त्तृ व्युदासे ततो बहिरङ्गानां भ्रात्रादीनां व्युदारुस्यापि दण्डापूपिकया सिद्धत्वात्। अनापदीत्यभिधानादापदि न दोषः। अतएव पुत्त्रार्त्तिहरणे चापि स्त्रीधनम्भुक्तमर्हतीति तस्यैव वाक्यशेषः। पतिरित्यनुषङ्गः। पुत्त्रग्रहणं कुटुम्बोपलक्षकं तस्यार्त्तिर्भक्ष्याद्यभावद्यनिमित्तापीड़ा तस्या हरणे। च शब्दादन्यस्मिन्नपि धनाभाव निमित्तेसङ्कटे स्त्रीधनमनुज्ञातरूपिपतिस्त्यक्तुंभोक्तुञ्चार्हतीत्यर्थः। ननु परधने त्यागभोगयोः स्वाम्यनुज्ञया विना कथमर्हता बाधितानेन बोध्यते। अनुज्ञायान्वनापद्यपि न विरोधः। उच्यते। वचनवलात्तादृशविषये व्यये स्वयमेव तस्य तत्रेत्यदोषः। अतएव योगीश्वरोऽपि।

दुर्भिक्षेधर्मकार्य्येच व्याधौ सम्प्रतिरोधके।
गृहीतं स्त्रीधनं भर्त्ता नाकामो दातुमर्हति॥

^()धर्मकार्य्येआवश्यके नित्ये नैमित्तिके च सम्प्रतिरोधके दण्डाद्यर्थं राज्ञावरोधे कृते।

वाचस्पतिस्तु सम्प्रति रोधक इति व्याधिविशेषणं कार्य्यानुष्ठान बाधक इति च तदर्थ इत्याह। नाकामो दातुमर्हतीत्यपि दारिद्र्यादिकृत दानासामर्थेदुर्भिक्षादि गृहीतमप्यवश्यं देयमेतावतैव वचनोपपत्तौ सामर्थ्येऽप्यदानमिच्छयेत्यस्य कल्पयितु मनर्हत्वात्। पति ग्रहणादापद्यपि पत्युरेव पत्नी धनग्रहणाधिकारो प्रति दाञ्चेच्छया नान्यस्येति ज्ञेयम्। भर्त्रा दातुं प्रतिश्रुतंभार्य्यायै तस्मिन् मृते पुत्त्रादिभिस्तस्यै देयमित्यप्याह स एव। भर्त्राप्रतिश्रुतं देय मृणवत् स्त्रीधनं सुतैरिति। सुतग्रहणं पौत्त्रप्रपौत्त्रयोरुपलक्षण मृणवदित्यभिधानात्। अनेन स्त्रीधने जीवन्त्यान्तस्यां सुतानां जन्मना स्वत्वेऽपि नास्ति विभाग इति गम्यते। एवं स्त्रीधनमुक्तम्।

अथ तद्विभागो निरूप्यते।

तत्र मनुः।

जनन्यांसंस्थितायान्तु समं सर्वे सहोंदराःं।
भजेरन् मातृकं रिक्थं भगिन्यश्च सनाभयः ॥

अत्रद्वन्द समानार्थक च शब्दोपादानात् सोदर भ्रातृभगिनीनां मिलितानां मातृधनाधिकारोगम्यते। सोदरग्रहणं भिन्नोदर व्यावृत्त्यर्थः। देवलः।

सामान्यं पुत्त्र कन्यानां मृतायां स्त्रीधनं स्त्रियाम्।
अप्रजायां हरेद्भर्त्ता माता भ्राता पितापि वा ॥

अत्र तु द्वन्दस्यैवश्रवणात्पुत्त्राणां कन्यानाञ्च सहाधिकारः प्रतीयते। इदञ्चान्वाधेय पति प्रीतिदत्त द्विविध स्त्रीधनविषयम्। यथाह मनुरेव।

अन्वाधेयञ्च यद्दत्तं पत्या प्रीतेन चैव यत्।
पत्यौ जीवति वृत्तायाः प्रजायास्तद्धनम्भवेत्॥

अन्वाधेयं पूर्वलक्षितं यच्च पत्या प्रीत्या दत्तं तत् स्त्रीधनं वृत्तायाः मृतायाः स्त्रियाःप्रजा पुत्त्र दुहितृरूपा तस्याः स्वम्भवति। पत्यौ जीवतीत्यनादरे सप्तमी। जीवन्तमपि पति मनादृत्येत्यर्थः। तस्यानधिकारस्तत्रेति यावत्। अत्र च प्रजाया इति सामान्याभिधानात् स्त्री पुं स प्रजायाः समसाम्यवगतेस्तुल्यवद्विभज्य मातृधनग्रहणं न पुनः पूर्वं भगिनीनां तदभावे भ्रातृणामिति। भगिन्यश्च मनुवचनेऽनुढाग्राह्याः। तथा च बृहस्पतिः।

स्त्रीधनं स्यादपत्यानां दुहिता च तदंशिनी।
अप्रत्ता चेत् स मूढा तु लभते मानमात्रकम्॥

अपत्यानां पुत्राणाम्। दुहितुः पृथगुपादानात्। तदंशिनी पुत्त्र समांशिनी। मानमात्रकामिति गौरवार्थं तदनुसारेणकिमपि लभते न तु पुत्त्र समांशमित्यर्थः। अप्रत्तानामभावे प्रत्तानामपि स भर्त्तृकाणां भ्रातृ समभागित्वमित्याह कात्यायनः।

**भगिन्यो बान्धवैः सार्द्धंविभजेरन् सभर्तृकाः।
विभागकाले दौहित्र भ्योऽपि किञ्चिद्देयम्। **तथा च मनुः।
यास्तासांस्यु र्दुहितरस्तासामपि यथार्हतः।
मातामह्या धनात्किञ्चिदेयं प्रीतिपूर्वकम्॥
यथार्हत इत्युपयोग दारिद्र्याद्यपेक्षयेत्यर्थः।

नच दौहित्रीणां तदा धन स्वाम्याभावात् किमिति। दानमिति वाच्यम्।

यथा पैतृके पुत्त्रसत्वे कन्यानां दायार्हत्वेऽपि वचनबलात्तुरीयांश दानमेवमत्राप्युपपत्तेः। अतएव प्रीतिपूर्व्वकमित्युक्तम्। प्रीतिपूर्व्वकत्व वचनादेवानावश्यकत्वमपि सूचितमत्र। तत्र तु पतिताः स्युरदित्सव इति दोषकीर्त्तनादावावश्यकत्वमिति भेदः।यौतुकन्तु कुमारीणामेव मातृधनम्। न पुत्त्राणां नापि प्रत्तदुहितृणामित्याह मनुरेव।

मातुस्तु यौतुकं यत्स्यात् कुमारीभागएव स इति।

युमिश्रण इति धात्वनुसाराद्विवाहकाले एकासनोपविष्टयो र्बधूवरयोर्य्यद्वान्धवै दीर्यते तद्युतयोरिदं यौतकमिति व्युत्पत्या यौतकमित्युच्यते। केचित्तु विवाहे स्त्री पुंसयोरेक शरीरतया मिश्रता भवति। अस्थिभरस्थीनि मांसैर्मांसन्त्वचा त्वचमितिः श्रुतः। मर्तुर्बध्वस्थ्यादिभिरस्थ्यादन्येकी भवन्तीत्यर्थ इत्याहुः। यदेत्हृद्वृदयन्तव तदस्तु हृदयं मम तदस्तु हृद यन्तवेति अत्रलिङ्गाद्विवाहे मिश्रतेत्यन्ये। युतयोर्यौतकमिति निघण्टौ। यौतकं यौतुकञ्च तदिति कोशाद्यौतुकमित्याप पाठः। भर्तृगृह लब्धात्पृथग्धनतया पितृगृहलब्धं मातृधनं यौतुकम्। यौतशब्दस्या मिश्रणमप्यर्थः। युमिश्रणामिश्रणयोरिति धातुपाठात्। युतसिद्धाविति प्रयोगाच्चेति देव स्वाम्याह तदसत् पितृगृह लब्धात्पृथग्धनतया भर्तृगृहलब्धं यौतकमित्यस्यापि विनिगमकाभावे वक्तुं शक्यत्वेनास्य कल्पना मात्रत्वात्। कुमारीणामनेकत्वे समं स्यादश्रुतत्वादिति न्यायेन स एव विभागो विशेषाश्रवणात्। एतत्त्रिविधभिन्नं मातृधनं दुहितॄणाम्। तत्रापि प्रथममप्रत्तानां तद्भावे प्रत्तानां त-

त्रापि प्रथममप्रतिष्ठितानां तद्भावे प्रतिष्ठितानां सधवानां तदभावे विधवानाम्। तथा च गौतमः।

स्त्रीधनं दुहितॄणामप्रत्तानाम प्रतिष्ठितानाञ्चेति।

अप्रतिष्ठिता अनपत्या निर्द्धनां दुर्भगा विधवा बेत्यपरार्क्वेण कल्पतरुकारेण च व्याख्यातम्। प्राक्तनं द्वयमेव विज्ञानेश्वरादिभिः। अत्र च स्त्रीधनमिति सामान्योक्तिरपि त्रिविध प्रागुक्त स्त्रीधन भिन्नविषया स्मृतिचन्द्रिका मदनरत्नयोरेवमुक्तम्। जीमूतवाहन स्मार्त्त भट्टाचार्याभ्यान्तु प्रयुक्तं गौतमवचनं मातुर्दुहितुरभावेदुहितॄणां तदन्वय इति नारदवचनम्।

दुहितृणामभावे तु रिक्थं पुत्त्रस्य तद्भवेत्।

इति कात्यायनवचनम्।

मातुर्दुहितरः शेषमृणात्तेभ्य ऋतेऽन्वयं इति योगीश्ववचनम्।

एव मन्यान्यपि स्त्रीधनस्य दुहितृ ग्राह्यत्वपराणि स्मृति वचनानि प्रागुक्त मन्वादिवचनविरोधान्मातुस्तुयौतकमिति
प्रांगुक्त मनुवचनानुरोधान्मातुः पारिणय्यंस्त्रियो बिभजेरन्निति वाशिष्ठानुसाराच्च यौतकमात्र विषयाणीत्युक्तम्। पारिणय्यंपरिणयनलब्ध यौतकमिति यावदिति ताभ्यां व्याकृतम्। कल्पतरौ विवाद चिन्तामणौ च पारिणाय्यमिति पठित्वा स्त्री परिच्छदादर्शकङ्कतिकादीति व्याख्यातम्। विज्ञानेश्वरस्तु सर्वमेव स्त्रीधनं पुत्त्रादि सत्वेऽपि प्रथमं दुहितृदौहित्री दौहित्रगामि। तदभावे पुत्त्रादिगामि। अप्रजः स्त्रीधनन्तु व्यवस्थापयिष्यते। मातुर्दुहितरः शेष मृणात्ताभ्य ऋतेऽन्वय इति योगीश्वरवचने दुहितृमात्रन्ताभ्य इत्यनेन न परामृश्यते

किन्तु दौहित्रीदौहित्रावपि। मातुर्दुहितरोऽभावे दुहितृृणां तदन्वय इति नारदवचनात्। अत्रतदन्वय इत्यनेन तच्छब्देन दुहितरोऽनन्तराःपरामृश्यते। तथा च दुहित्रन्वयो दोहित्री दौहित्ररूपः।

तत्रापि प्रथमं दौहित्रीतदभावे दौहित्रः।

दुहितॄणां प्रसूता चेदिति वक्ष्यमाण योगीश्वरवाक्येदुहिर्तृशब्देन दुहितरो गृह्यन्ते। साक्षाद्दुहितृणां मातुर्दुहितर इत्यत्र तेनैवोक्तत्वात् पुत्त्रत्वात् पुनरुक्त्यापत्तेः। दुहितृणा मन्वय इति सामान्योक्तेर्दौहित्राधिकारोऽपि। पुत्त्राधिकारस्तु विभजेरन् सुताः पित्रोरूर्द्धं रिक्थमृणं सममित्यत्रपित्रोरित्येकशेषाल्लभते तच्च प्रागेव प्रपञ्चितम्।ताभ्य ऋतेऽन्वय इत्यत्राप्यन्वयपदेन योग्यतया षष्ठ्यान्त मातृपदान्वयात् दुहितृणाञ्च पृथगुपादान्यात् पुत्त्रादिरेव गृह्यते। दुहित्रभावे तदधिकार प्रतिपादनार्थत्वञ्च न पौनरुक्त्यम्। जनन्यां संस्थितयान्विति मनुवचनस्य त्वयमर्थः। सर्वे सहोदरा मातृकं रिक्थं स्वाधिकारावसरे समं भजेरन् सनाभयः सोदरा भगिन्यश्च स्वाधिकारावसरे। न तु द्वयेऽपि सम्भूय विभजेरान्नित्यर्थः। इतरेतर योगस्य द्वन्द्वैकशेषयोरभावादप्रतीतेः। च शब्दस्य तु विभागकर्तृत्वान्वयमात्रेणाप्युपपत्तेः। यथा देवदत्तःकृषि कुर्य्याद्यज्ञदत्तश्चेत्युक्तेनेतरेतरयोग प्रतीतिः। वाक्यान्तरेण च द्वयोरपि मातृधनाधिकारेप्राप्तेऽपि सममित्यनेनात्रोद्धारादि विषमविभागनिवृत्त्यर्थं वचनम्। सोदर स नाभिग्रहणमसोदर भ्रातृभगिनी निवृत्त्यर्थम्। अतएवाध-

मजाति स्त्रीधनं भिन्नोदरापि प्रकृष्टजातीय सपत्नी पुत्त्री तदभावे च तदपत्यं गृह्णातीत्युक्तं मनुना।

स्त्रियास्त यद्भवेद्वित्तम्पित्रादत्तं कथञ्चन।
ब्राह्मणी तद्धरेत्कन्या दंपत्यस्यवा भवेदिति॥

अत्रानपत्यक्षत्त्रियादि जातीय स्त्रिया इति विवक्षितं ब्राह्मणीपदञ्चोत्तमजात्युप लक्षणम्। अप्रजस्त्रीधनं भर्त्तुरित्यस्य चायमपवादः।अतश्चान पत्यवैश्याधनं क्षत्रिया दुहितानपत्यशुद्राधनञ्चवैभ्या दुहिता गृह्णाति। तदभावे तदपत्यानि तदभावेऽप्रजास्त्रीधनमित्यस्य तत्रप्रवृत्ति। तस्मात् स्त्रीधने पित्त्र्यप्राग्दुहित्राद्यधिकारस्तदनु पुत्रादीनामित्याहुः। अत्र जीमूतवाहनः। मनु वृहस्पति शङ्खलिखित वचनेषु द्वन्द्वाश्रवणेऽपि समुच्चयवाचिचशब्डेन तदर्थ लाभाद्देबलचने तु पुत्त्रकन्यानामिति द्वन्द्वस्यापि श्रवणात्सवादेन तत्रापि च शब्दस्येतरेतर योगार्थकत्वोचित्याद्भ्रातृभगिनीनां सोदराणां विभज्य सहैव धन ग्रहणं युक्तम्। किञ्च। केबलदुहितृणामेव सकलमातृधनाधिकारे यौतके विशेष वचनमनर्थकम्। न च कुमारीपदोपादानात्प्रत्तदुहितृव्यात्त्यर्थन्तदिति युक्तम्। तद्व्यावृत्तेःसर्वस्त्रीधन एव गौतमादि वचनेपूक्तत्वात्। कुमार्य्यभावे प्रत्ताद्यविकारस्यात्राप्य वर्जनीयत्वात्। तस्मात्पुत्त्र पत्न्योस्तुल्य वदधिकारएव मन्वाद्यभिप्रतोऽध्यग्ननादि स्त्रीधनविषयो यौतकविषयस्तु पुत्त्रीमात्राधिकार इत्येव व्यवस्था। अन्वाधेय पति प्रीतिदत्तमात्र ग्रहणन्तुमनु वचनान्तरेऽध्यग्नाद्युपलक्षणमितरथा यौतके पृथगागारम्भस्यानर्थक्यापत्तेरित्याह।दायतत्त्वकृदादीनामप्येतदेव मतं। अत्रेदं प्रतिभाति

अन्वाधेयादि ग्रहणस्योपलक्षणत्व प्रमाणाभावात्तेदुभयव्यतिरिक्त सर्व मातृधने दुहित्राधिकारःप्रथमन्तदनु पुत्त्राधिकारः। यौतके विशेष वचनन्तु, प्रत्तादिनिवृत्त्यर्थम्। अन्यत्रापि सा समैवेति चेत्सत्यम्। किन्तु। न नियता यौतकेतु नियता। ते न यौतकं कुमार्य्यभावे विवाहभेदेन स्त्रीधनम्भर्तादीनामेव भवति न प्रत्तादीनामितिस्मृति चन्द्रिकाकारादीनामाशयः। विज्ञानेश्वराचार्य्याणान्त्वयमभि प्रायः। सामान्यतः स्त्रीधनमात्रस्य दुहितग्राह्यताबोधकमनन्यथा सिद्धवचनानु रोधेन सङ्कोचः कर्त्तव्यो न च मन्वादि वचन मनन्यथा सिद्धपुत्त्रकन्यानां सहाधिकार प्रतिपादकम्। पुत्त्राधिकार मात्र प्रतिपादन मात्र परत्वात्। नच चशब्दद्वन्द्वभ्यां सहाधिकारः। विभाग कर्त्तत्वान्वयेनापि तदुपपत्तेः। अन्यथा पितरावि त्यादौ माता पित्रोस्तदिष्यत इत्यादौ च द्वन्द्वैकशेष श्रवणे सकल निबन्धसम्मतः क्रमो माता पित्रोर्न स्यात्। विष्णु वचनाद्यनु रोधात्तत्रशब्दान्वयसाहित्यमात्रेणः तदुपपत्तिरर्थक्रमस्त्वन्यथाप्यविरुद्ध इत्युच्यते। तर्ह्यत्रापि ताभ्य ऋतेन्वयः दुहितृणामभावे तु रिक्थंपुत्त्रेषु तवेदित्यादि योगीश्वर कात्यायन वचनावगतार्थ क्रमान्यथा भावे द्वन्द्वच शब्दादीनां शाब्दान्वयः साहित्यमात्रेणोपपत्तिरस्तु न तु तदनुरोधेन तेषामेवान्य विषयत्वम्। सिद्धेसहाधिकारे तेषां सङ्कोच-स्तत्सङ्कोचेचैषां सहाधिकारपरत्वनिश्चय इतो तरेतराश्रयत्वञ्चेति। अन्वाधेयादौ विशेष वचनमनर्थक्रमितिचेत्। नायौतके चन्द्रिकाकारादि मतवदेव सार्थकत्वात्। अन्वाधेय ग्रहणस्योपलक्षणतयामजामात्राधिकारे तेज्ञप्रतिपादिते जनन्यांसंस्थिता-

यान्त्वित्यादि वचनैः साम्यादिविधान मित्येवंसर्वेषां सार्थकत्वात्। तस्मात्सर्वं सुस्थमिति। श्रीविद्यारण्यश्रीचरणैस्तु स्मृति चन्द्रिकामिताक्षरयोर्द्वयोर्द्वयोरप्यनुसारेण द्वयमपि लिखितन्नतु विविक्तम्। पुत्रादिभ्यः प्राग्दुहितृदुहितुस्त-दनुदौहित्राणामधिकार इति तु मिताक्षरा चन्द्रिकामदनरत्न काराणाग्विद्यारण्य श्रीचरणानां च विसम्बादेन सम्मतः। जीमूतवाहन दायतत्त्वकारौतु दुहित्रभावे पुत्त्राणामेवाधिकारो न तु दौहित्र्याद्यधिकारानन्तरम्। तथाहि नारदवचने दुहितृणान्तदन्वय इत्यत्र दुयितुरन्वय पदेनान्वय पुत्त्रादि वाचकेन नान्वयः सम्भवति। दुहितृपदस्य जन्यविशेष वचनस्य जन्यान्तरे समत्वेन निराकाङ्क्षतयान्वया सम्भवात्। तच्छब्दस्यापि दुहितृत्वरूपेणैव तदुपस्थापकस्य नैराकाङ्क्ष्याविशेषात्। किञ्च। याज्ञवल्क्यवचने तावत्। दुहितर इति प्रथमन्तस्यताभ्य इति च पञ्चम्यन्तस्य च षष्ठ्यन्तान्वयपदेनान्वयाद्व्यवहितस्यापि मातुरित्यस्यैवान्वयस्तदेकवाक्यतयात्रापि मातुरन्वय एव पुत्त्रादि र्गृह्यते न दुहित्रन्वयः। किञ्च। सत्स्वङ्गजेषु तद्गमीह्यर्थोभवतीति बौधायन वचनादनन्तराङ्गज पुत्राधिकार एवं प्रत्यासत्तेरुचितो न तु व्यवहिताङ्गजदौहित्रादेरित्याहतुस्तन्मन्दम्। जन्यवाचकस्य जन्यान्तरेणान्वये पुत्र इत्यादाप्यन्वयो न स्यात्। तज्जन्य प्रतिसम्बन्धितया विरोधस्त्वत्र्यपि तुल्यः। अन्यथा दु हितुः पुत्त्र इत्यत्राप्यन्वयो न स्यात्। तस्माच्छाब्दव्युत्पत्त्यज्ञानमेबेदम्। याज्ञवल्क्यवचनेच यद्यपि मातुरन्वयः पुत्रादिरेवोक्तस्तथापि विभजेरन् सुताः पित्रोरित्यनेन प्राप्ताधिकाराणामेव ऋणदान दुहित्रभवोपाधिकत्वज्ञापनार्थोऽनुवादः सचदौहित्रा

नन्तरमप्यविरुद्धः। सत्स्वङ्गजेष्विति वौधायन वचनन्तु मातृ साधारण्येन पुत्त्राणान्धनाधिकारमात्रमङ्गजपदस्य चापत्यमात्रवाचकत्वात् पुत्र दुहितृसाधारणमधिकारं प्रतिपादयद्वचनान्तराविरुद्ध प्रत्यासत्त्यैव व्याख्यातुं युक्तमिति न किञ्चिदेतत्। सन्तानाभावे त्वाह योगीश्वरः।

अतीतायामप्रजसि बान्धवास्तदवाप्नुयुः।

अप्रजसि दुहित्रादि प्रपौत्रपर्य्यन्तरहितायामतीतायां मृतायां बान्धवा वक्ष्यमाणश्लोकोक्ता तत्स्त्रीधनमवाप्नुयुः। विवाहभेदेन व्यवस्थया वान्धवाना मधिकारमाह स एव।

अप्रजः स्त्रीधनम्भर्त्तुर्ब्राह्मादिषु चतुर्ष्वपि।
दुहितॄणां प्रसूता चेच्छषेषु पितृ गामि तदिति॥

चतुर्षु ब्राह्मदैवार्ष प्राजापत्येषु। अपिशब्दाङ्गान्धर्व परिग्रहः। यद्वाअतद्गुणप्तंविज्ञान बहुब्रीहिणा ब्राह्मभिन्नादैवार्ष प्राजापत्य गान्धर्व्वाश्चत्वारः।

तेन ब्राह्मदैवार्ष गान्धर्व्व प्राजापत्येषु यद्धनम्।
अप्रजाया मतीयां भर्तुरेव तदिष्यत इति।
मनुवचनविसम्बादः।

ब्राह्म्यादि विवाहोढाया धनमनपत्याया भर्तुर्भवति। तदभावे भर्तुः प्रत्यासन्नानाम्। स्वामिप्रत्यासत्तेभवान्तराये भर्तृप्रत्यासत्तोरेव पुरस्करणीयत्वात्। शेषेष्वासुरादिषु परिणीतायास्तु पितृगामि। एकशेषेण माता पितृगामि। तत्रापि प्राङ्मातृगामि तदनु पितृगामि। पितरावित्यत्रोक्तान्न्यायात्। विरुद्धवचनान्तराभावाच्च। अतएव मनुना।

यत्त्वस्याःस्याद्धनं दत्तं विवाहेष्वामुरादिषु।

अतीतायामप्रजसिमाता पित्रोस्तदिव्यत इति।

द्वन्द्वेमातृशब्द पूर्वनिपातेन मातुः प्राथम्यम वगमितम्। कन्याधने च मातुरभावे पितुरधिकार श्रवणादत्रापि तथैवौचित्यात्। यथाह वौधायनः।

रिक्थंमृतायाः कन्याया गृह्णीयुः सोदराःस्वयम्।
तदभावे भवेन्मातुस्तदभावेभवे त्पितुरिति॥

माता पित्रोरभावे तत्प्रत्यासन्नगामि। पूर्वोक्तेषु सर्वेष्वेव विवाहेषु प्रसूतापत्यवती चेत् दुहितॄणां तद्धनम्। दुहितृशब्देन चात्रदुहितृदुहितरोलक्ष्यन्ते इति प्रागेवेक्तम्। तत्राप्यनूढादि क्रमो गौतमादितो दुहितृधनग्रहणकाले दौहित्रीभ्योऽपि प्रीत्या किञ्चिद्दानमिति च प्रागेव निरूपितम्। दौहित्रीणाञ्च मातामही धनग्रहणं भिन्न मातृकाणां विषममातृद्वारेणपौत्त्राणां पितृद्वारेणैव पितृ मातृ वा स्ववर्गो भाग इति गौतमस्मरणात्। जीमूतवाहनस्तु। बाह्मादि विवाहेषु यद्धनं तदेवानेन व्यवस्थाप्य तेन तु तत्तद्विवाहो- ढायाः सर्वं धनम्। ब्राह्मादिषु यद्धनमिति सम्बन्धे वर्त्तमान सम्बन्धे कृतकाल लक्षणातस्तदूढस्त्री परत्वेऽतीत विवाहक्रिया द्वारकसम्बन्धे कृतलक्षणाया जघन्यत्वादित्याह। तद्नुगामी दायतत्व कुदप्येवम्। तदपेशलम्। पूर्ववचने अप्रजः स्त्रीधनं बान्धवा गृह्णीयुरिति सामान्यत उक्तेःकीदृश्याअप्रजसःके बान्धवा गृह्णीयरित्येवाकाङ्क्षोदयाद्ब्राह्मादिपदानां तद्विशेषणत्व स्यौचित्यात्। यच्चवर्त्तमान भूतसम्बन्धकृतं विनिगमकमुक्तं तदपि तुच्छम्। विभागकालेऽतीतत्वस्योभयत्रा विशेषात्। धनलाभकाले वर्त्तमानत्वस्य चापयोजकत्वात्। विवाहजन्य

भार्य्यात्वसम्बन्धस्यान्तरङ्गत्वाच्च। यत्तु सर्वेष्वपि विवाहेषु पित्रोःस काशात्तया प्राप्तं विवाहोत्तरं तद्भ्रातृणामेव। यदाह कात्यायनः।

पितृभ्याञ्चैव यद्दत्तं दुहितुः स्थावरं धनम्।
अतीतायामप्रजसि भ्रातृगामि तु सर्व्वदा॥

विश्वरूप जीमूतवाहनौ तु कन्यादशायां यत्पितृभ्यां दत्तं तद्भातृगामि। विवाहात्परतो लब्धस्यान्वाधेयत्वात्। विवाहकाल लब्धस्य च विवाहभेदेन भर्तृगामित्वान्माता पितृगामित्वाच्चेत्याहतुः। तन्न।स्थावरविषयत्वादस्याविरोधात्। न च दण्डापूपिकया स्थावरग्रहणे जङ्गमग्रहणं भ्रातॄणामायात्येवेति वाच्यम्। अपवादे तन्न्याया प्रवृत्तेः। शुल्कन्तु सोदराणामेव। भगिनी शुल्कं सोदर्य्याणामिति गौतमवचनात्सोदराभावेमातुः। ऊर्द्ध्वंमातुरिति तद्वचनादेव। पूर्वञ्चैक
इति तु परमतम्। बन्धुदत्तं प्रथममप्रजसो मृताया बन्धूनां तद्भावे भर्तुः। बन्धुदत्तन्तु बन्धुनामभावे भर्तुगामि तदिति कात्यायनवचनात्। पूर्वोक्ताप्रजः स्त्रीधनाधिकार्य्यभावे त्वाह वृहस्पतिः।

मातृष्वसामातुलानी पितृष्यस्त्री पितृष्वसा।
स्वश्रूःपूर्वजपत्नी च मातृतुल्याः प्रकीर्तिता॥
यदासांमौरसो न स्यात् सुतो दौहित्रएव वा।
तत्सुतोवा धनन्तासां स्वस्रीयाद्याः समाप्नुयुः॥

अत्रौरसपदेन पुत्त्र पुत्र्योरुपादनन्तयोः सर्वापवादकत्वात्। अपवादक्रमश्चप्रागुक्त एव। सुतपदेन च सपत्नी पुत्त्रस्य।

सर्वासामेकपत्नीनामेका चेत् पुत्त्रिणी भवेत्।

सर्वास्तास्तेन पुत्त्रेण प्राह पुत्रवतीर्मनुरिति मनुवचनात्। न तु सुतपदमौरस विशेषण मानर्थक्यात्। सपत्नी पुत्त्र सद्भावेऽपि स्वस्रीयाद्यविकारापत्तेरनादि व्यवहारविरोधाच्च। तथा च दौहित्राभावे औरसपुत्त्रादिस्तदभावे सपत्नीपुत्त्रः। तत्सुत इति तच्छब्देन व्यवहितयोरौरस सपत्नी पुत्त्रयोरुपादानं नानन्तरस्यापि दौहित्रस्यदौहित्रपुत्त्रस्य तस्य पिण्डदाने वहिर्भावात्। तथा च दौहित्रपर्य्यन्ताभावे प्रथममौरसस्तदनु तत्पुत्त्रपौत्त्राः। पुत्त्र पौत्त्रैर्ऋणं देयमिति ऋणापकारणाधिकारिणांपिण्डदानाधिकारिणाञ्च तेषामेव रिक्यग्रहणौचित्यात्। तद्भावे सपत्नीपुत्त्र तत्पुत्त्रतत्पुत्त्राणाम्। तेषामेव तदा पिण्डदातृत्वादृणापाकर्तृत्वाच्च। प्रागुक्त मनुवचनाच्च। तदेषामभावे सत्स्वपि श्वशुरादिषु सपिण्डेष्वनन्धमतिकैतद्वचनबलाद्भगिनीपुत्त्राद्यानामेव मातृष्वस्रादि धने प्रत्यासत्तितारतम्येनाधिकारः। स्नुषादीनां तु ग्रासाच्छादन मात्रभाक्तम्। वचन विरोधेसपिण्डवत्प्रत्यामत्तेर प्रयोजकत्वात्। तस्मात्स्त्रियोनिरिन्द्रिया अदायादा इति श्रुतेः। अनिन्द्रियाह्य दायाश्च स्त्रियोनृतमिति स्थितिरिति तन्मूलक मनु वचनाच्च।शृङ्गग्राहिकया यत्र कण्ठोक्तंपत्नीदुहितर इत्यादौ यासां स्त्रीणान्धनाधिकारस्तासामेव। अन्यासान्तुश्रुतिमनु बचनाभ्यां दायग्रहणनिषेध एवेतिस्मृति चन्द्रिककारहरदत्तादीनान्दाक्षिणात्यनिवन्धृणाञ्जीमूतवाहनादि पौरस्त्यसर्वनिबन्धृणां सिद्धान्ताच्च। इति स्त्रीधनविभागः।

अथविभाग काले केनचिदपह्नुतस्य पश्चाद् ज्ञातस्य विभाग प्रकारः। तत्रमनुः।

पर्य्यायेण कर्म कारयितव्याः पित्रवरुद्धास्तु समा अपि न विभाज्याः। स्त्रीष्ववरुद्धासु न विभाग इति गौतमवचनात्। योगक्षेमशब्दाभ्यामिष्टापूर्त्तेउच्येते। तयोरविभाज्यत्वं पितृद्रव्यविरोधेनार्जितयोरपि दृष्टान्तंतयोच्यते। न हि स्वतः फलतो वातस्य विभागः सम्भवति पैतृकस्य तु सुतराम्। तथा चाह लौगाक्षिः।

क्षेमम्पूर्त्तं योगमिष्टमित्याहुस्तत्त्वदर्शिनः।
अविभाज्येच ते प्रोक्तेशयनासनमेवच॥

इति योगक्षेमशब्देन तत् कारिणोराजमन्त्रि पुरोहितादय उच्यन्ते इति केचित्। शस्त्र चामरोपानत्प्रभृतय इत्यन्ये। प्रचारो गृहारामादि प्रवेश निर्गममार्गाः। तस्याप्यविभाज्यत्वम्। पितृधृतं वस्त्रादिकं श्राद्धभोक्तेदातव्यम्। यथाह बृहस्पतिः।

वस्त्रालङ्कार शय्यादि पितुर्य्यद्वाहनादिकम्।
गन्धमाल्यैः समभ्यर्च्य श्राद्धभोक्ते तदर्प्य येदिति॥

स्त्री धृतोऽप्यलङ्कारो न विभाज्यः।

पत्यौ जीवति यः स्त्रीभिरलङ्कारो धृतो भवेत्।
न तम्भजेरन्दायादा भजमानाः पतन्ति ते इति।

धृत इत्यनेनाधृतस्य विभाज्यत्वमेव। पत्यौ जीवतीत्यनेन प्रतिजीवनचिह्नतया यत्र देशे यो धार्य्यते स न विभाज्य इति सूचितम्। पितृप्रसाद लब्धस्यापि न विभागः।

पितृप्रसादाद्भुज्यन्ते वस्त्राण्याभरणाणि च।

भुज्यन्ते इति वचनाद विभाज्यत्वम्। तथा पितृदत्तस्यापि पितृभ्यांयस्य यद्दत्तन्तत्तस्यैवधनम्भवेदिति च स्मरणात्।

दोषवशात्। यद्येनन्ननाशयति तस्य पुत्त्रं पौत्त्रंवा नाशयतीति श्रुतेरर्थः श्रत्यज्ञास्तु प्रलपन्तु नाम साधारणद्रव्यस्यापि पर-स्वत्वेनापहारपदार्थीऽनपायादित्युक्तमेव। यथा मौद्गेचरौविपन्नेसादृश्यात्प्रतिनिधितयामाषेषु गृह्यमाणेषु मुद्गावयवबुद्ध्यागृह्यमाणत्वादयज्ञिया वैमाषा इति निषेधोन प्रवर्त्तते मुद्गावयवबुद्ध्या गृह्यमाणत्वादिति पूर्वपक्षितेनिषेधस्य प्राप्ति मात्रापेक्षित्वात्तत्रापि माषाबयवानामप्य वर्जनीय ग्रहणं यज्ञसाधनत्वञ्चेति निषेध प्रवृत्त्यनपायात्प्रतिनिधितयापि तदनुपादानं सिद्धान्तितम्। राज्ञेतु भागिभिर्न्ननिवेदनीयं राज्ञेनिवेदितमपि तेन सामादिनैव दापनीयमिति प्रीत्यविच्छेदादि दृष्टप्रयोजनकमेव कात्यायन आह।

बन्धुनापहृतं द्रव्यम्बलान्नैव प्रदापयेत्।

अविभागकालेऽनेन बहुभुक्तमित्यपि नदक्तव्यं भुक्तमपि राज्ञा न ग्राह्यमित्याशयेनाह स एव।

बन्धूनामविभक्ताम्भोगन्नैव निवर्त्तयेदिति।

नहिन्यूनाधिक भोगो वारयितुं शक्योऽवर्जनीयत्वादिति भावः एवं दृष्टार्थतथैवोपपत्त्रौनास्यापि स्तेयदोषाभाव परत्वमदृष्टार्थत्वापत्तेस्तस्मादत्रापिस्तेय प्रायश्चित्तं राजदण्डश्च भवत्येवेत्यवधेयम्। अथाविभाज्यम्।

तत्र योगीश्वरः।

पितृद्रव्याविरोधेन यदन्यत् स्वयमर्जितम्।
मैत्रमौद्वाहिकञ्चैव दायादानान्नतद्भवेत्॥
क्रमादभ्यागतं द्रव्यं हृतमभ्युद्धरेत्तु यः।
दायादेभ्यो नतद्द्द्याद्विद्य या लब्धमेवच॥

पितृद्रव्याविरोधेनेति सर्वशेषः। स्वातन्त्र्येपितृद्रव्यो-

पघातेन यन्मैत्रादिकं तस्याप्य विभाज्यत्वापत्तौ महाजनाचार विरोधो विद्यालब्धेनारद वचन विरोधश्च।

कुटुम्बम्बिभृयाद्भातुर्य्योविद्यामधिगच्छतः।
भागं विद्याधनात्तस्मात्सलभेता श्रुतोऽपि सन्निति॥

कात्यायनस्त्वविभाज्यविद्याधनलक्षणमुखेनैतदेव द्रढयति यथाह।

परभक्तोपभोगेन विद्याप्राप्तान्यतस्तुया।
तथा प्राप्तन्धनं यत्त्रुविद्याप्राप्तं तदुच्यत इति॥

मनुरपिस्पष्टमाह।

अनुपघ्नन्पितृद्रव्यं श्रमेण यदुपार्ज्जयेत्।
दायादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च॥

श्रमेणसेवादिना क्रमादम्यागतायाम्पितृद्रव्याविरोधेनोद्धृतायामपि भूभ्यां विशेष उक्तः शङ्खेन।

पूर्वनष्टान्तुयोभूमिमेकश्चेदुद्धरन्क्रमात्।
यथा भागं लभन्तेभ्योदत्वां शन्तु तुरीयकमिति।

उद्धर्त्तेचतुर्थांश मुद्धरण मूल्यमधिकन्दत्वांश त्रयं सर्वे समं विभजेरन्नित्यर्थः। यद्यप्ये तादृशाविभाज्यत्वं यद्येन लब्धन्नतत्तस्यैवेति न्यायादेव प्राप्तं तथापि प्रायो व्यवहारशास्त्रेन्याय सिद्धानु वादकान्येववचनानीति परिभाषा प्रकारोक्त प्रायश्चित्तमिति न दोषः। अविभाज्यान्तरमप्युक्तं मनुना।

वस्त्रम्पत्रमलङ्कारं कृतान्नमुदकं स्त्रियः।
योगक्षेमं प्रचारञ्चन विभाज्यं प्रचक्ष्यते॥

पत्रं वाहनम्। बस्त्रादि यद्येन धृतं तत्तस्यैव। अधृतन्तु विक्रयाद्यर्थं विभाज्यमेव। कृतान्नं पक्वान्नंसर्वैर्यथाशक्ति भोक्तव्यं न तु तोलयित्वा विभाज्यम्। उदकमुदकाधारःकूपादिः सर्वैर्यथोपयोगमुपभोज्यः। स्त्रियोदास्यो विषमा नविभाज्याः।

पर्य्यायेण कर्म कारयितव्याः पित्रवरुद्धास्तु समा अपि न विभाज्याः। स्त्रीष्ववरुद्धासु न विभाग इति गौतमवचनात्। योगक्षेमशब्दाभ्यामिष्टापूर्त्तेउच्यते। तयोरविभाज्यत्वं पितृद्रव्यविरोधेनार्जितयोरपि दृष्टान्ततयोच्यते। न हि स्वतः फलतो वातस्य विभागः सम्भवति पैतृकस्य तु सुतराम्। तथा चाह लौगाक्षिः।

क्षेमम्पूर्त्तं योगमिष्टमित्याहुस्तत्त्वदर्शिनः।
अविभाज्येच ते प्रोक्तेशयनासनमेवच॥

इति योगक्षेमशब्देन तत् कारिणोराजमन्त्रि पुरोहितादय उच्चन्ते इति केचित्। शस्त्र चामरोपानत्प्रभृतय इत्यन्ये। प्रचारो गृहारामादि प्रवेश निर्गममार्गाः। तस्याप्यविभाज्यत्वम्। पितृधृतं वस्त्रादिकं श्राद्धभोक्त्रेदातव्यम्। यथाह बृहस्पतिः।

वस्त्रालङ्कार शय्यादि पितुर्य्यद्वाहनादिकम्।
गन्धमाल्यैःसमभ्यर्च्यश्राद्धभोक्त्त्रेतदर्प्ययेदिति॥

स्त्रीधृतोऽप्यलङ्कारो न विभाज्यः।

पत्यौ जीवति यः स्त्रीभिरलङ्कारो धृतो भवेत्।
न तम्भजेरन्दायादा भजमानाः पतन्ति ते इति।

धृत इत्यनेनाधृतस्य विभाज्यत्वमेव। पत्यौजीवतीत्यनेन पतिजीवनचिह्नतया यत्र देशे यो धार्य्यते स न विभाज्य इति सूचितम्। पितृप्रसाद लब्धस्यापि न विभागः।

पितृप्रसादाद्भुज्यन्ते वस्त्राण्याभरणाणि च।

भुज्यन्ते इति वचनाद विभाज्यत्वम्। तथा पितृदत्तस्यापि पितृभ्यां यस्य यद्दत्तन्तत्तस्यैवधनम्भवेदिति च स्मरणात्।

पितृप्रसाददानप्रीतिदाने अथौचित्यानुरोधेनैव ज्ञेये। नतु यथा कामम्। महाजनाचारविरोधात्। पितृद्रव्याविरोधोपार्जित प्रपञ्चोभूयःसुशौर्य्यादि विषयमादाय स्मृति वचःसुदृश्यते स ग्रन्थविस्तर भिया न लिख्यते।

अथ विभागानधिकारिणः।

तत्र योगीश्वरः।

क्लीवोऽथ पतितस्तज्जः पङ्गुरुन्मत्तकोजडः।
अन्धोऽचिकित्सरोगाद्या भर्त्तव्याः स्युर्न्निरंशकाः॥

तज्जः। पतितजः। क्लीवान्धौ यदि जन्मत आरभ्य तदा विभागानर्हावेव यदित्वन्तरा। तदा तदपगमथेदौपधादिना तर्हिदृश्यातद्विभागः स्यादायविशोधितादिति रीत्यविभागार्हावेवेति ध्येयम्। आद्यशब्देनाश्रमान्तर गतपितृद्वेव्युपपातकि-बधिर मूकनिरिन्द्रियाणां ग्रहणम्। यथाह वशिष्ठः॥ अनंशास्त्वाश्रमान्तरगता इति। नारदोऽपि।

पितृद्विट् पतितः षण्डो यश्च स्यादौपपातिकः।
औरसा अपि नैतेंऽशं लभेरन् क्षेत्रजाः कुत इति॥

मनुरपि।

अनंशी क्लीव पतितौ जात्यन्ध बधिरौतथा।
उन्मत्त जड़मूकाश्च ये च केचिन्निरिन्द्रिया इति॥

व्याधिना निर्गतमिन्द्रियं यस्य स निरिन्द्रियः। तेन क्लीवाद्भेदः। कश्चित्तु निरिन्द्रियाःपाणिपादादिहीना इत्याह। एते क्लीवादयोंऽशभाजो न भवन्ति किन्तु ग्रासाच्छादनदानादिना भर्त्तव्याः पोषणीयाः। अभरणेतु महान्दोष। यथाह मनुः।

सर्वेषामपि चैतेषां दातुन्न्याय्यं मनीषिणा।
ग्रासाच्छादनमत्यन्तं पतितोऽह्यददद्भवेदिति॥

अत्यन्तं यावज्जीवम्। तत्रापि पतितोपपातकिनोर्य्याबत्प्रायश्चित्ताचरणमनंशित्वम्। औद्धत्यादिना प्रायश्चित्तमर्कुर्वतोऽस्तु निपतनमेव। एतेषाञ्च विभागात्प्रागेव दोषभाक्त्वेऽनंशित्वम्। न पुनर्विभागोत्तरमपि दत्तविभागापहरणं प्रमाणाभावात्। पश्चादप्यौषधादिना दोष निर्हरणेऽस्त्येवांशभागितेति विज्ञानेश्वराचार्य्याः। युक्तञ्चैतत्। दोषप्रयुक्तत्वाद्विभागानर्हतायाः।विभक्तेषु सुतो जातः सवर्णायां विभागभागिति न्यायसाम्यात्। पतितादिषु लिङ्गमविवक्षितमनुपादेयत्वात्। ब्राह्मणो न सुराम्पिवेदित्यादिवत्। तेन यथा सम्भवे पत्नी दुहितर इत्यादेरप्ययमपवादः। क्लीवादीना मनंशत्वेऽपि तत्पुत्त्राणामंशोऽस्तीत्याह योगीश्वरः।

औरसाःक्षेत्रजास्त्वेषां निर्दोषा भागहारिणः।

निर्दोषाःपूर्व्वोक्तानंशत्व प्रयोजक दोषशून्याः। तत्र क्लीवस्य क्षेत्रजपुत्त्रःसम्भवत्यन्येषामौरसोऽपि पुत्त्रद्वय ग्रहणमितरपुत्त्रव्युदासार्थम्। पतिततत्सुतयोर्न भरणम्। तथा च देवलः।

मृते पितरि न क्लीव कुष्ठ्युन्मत्त जड़ान्धकाः।
पतितःपतितापत्यं लिङ्गी दायांशभागिनः॥
तेषां पतितवर्जेभ्योभक्तं वस्त्रञ्च दीयते।
तत्सुताः पितृदायांशं लभेरन् दोषवर्जिता इति॥

लिङ्गी प्रब्रजितादिः। पतितपदेनात्र पतितसुतस्यापि ग्रहणं पतितोत्पन्नत्वेन तस्यापि पतितत्वात्। पतितापत्यं पतितमेवान्यत्रस्त्रियाः सा हि परगामिनी भवतीति स्मृतेः।

मृत इति विभागकालोपलक्षणं जीवद्विभागेऽप्यनर्हत्वात्। कात्यायनोऽपि।

अक्रमोढा सुतश्चैव सगोत्राद्यश्चजायते।
प्रब्रज्यावसितश्चैव न रिक्थन्तेषु चार्हति॥

हीन स्त्री परिणयानन्तरमुत्तमस्त्रीपरिणयने द्वयोरप्य क्रमोढात्वन्तयोः सगोत्रादनियोगोत्पन्नः क्षेत्रजःपुत्रोनार्हति धनम्।

अक्रमोढासुतस्त्वृक्थी सवर्णश्च यदा पितुः।
असवर्ण प्रस्तुतस्तु कमोढायाञ्चयो भवेत्॥
प्रतिलोम प्रसूतायास्तस्याः पुत्त्रो न रिक्थभाक्।
ग्रासाच्छादनमात्रन्तु देयं तद्बन्धुभिर्मितम्॥
बन्धूनामप्यभावे तु पित्र्यद्रव्यंतदाप्नुयात्।
स्वपित्र्यंतद्धनम्प्राप्तं दापनीया न बान्धवाः॥
क्लीवादीनामपि दारपरिग्रहेण पुत्त्र सम्भव उक्तो मनुना।
यद्यर्थिता तु दारैः स्यात् क्लीवादीनां कथञ्चन।
तेषामुत्पन्नतन्तूनामपत्यं दायमर्हति॥

तन्तु रपत्यम्। नच क्लीवादेरुपनयनाभावेन पतितत्वात् कथं दारसम्बन्ध इति वाच्यम्। उपनयनानर्हतया उपनीतत्वे शूद्रवदनत्तितत्वात्। एतेषां क्लीवादीनां दुहितरोविवाहपर्य्यन्तंभर्त्तव्याः संस्कर्त्तव्याश्च। तत्स्त्रियस्तु पुत्ररहिताः साध्व्योभरणीया अप्रतिकूलाश्चेत्। अन्यथा वहिष्करणीयाः। तदाह योगीश्वरः।

सुताश्चैषांप्रभर्त्तव्या यावन्तो भर्तृमात्कृताः।
अपुत्त्रायोषितश्चैषां भर्त्तव्याः साधुवृत्तयः॥

निर्व्वास्याव्यभिचारिण्यः प्रतिकूलास्तथैवच।

आपस्तम्बः। अबपात्रितस्य रिक्थपिण्डोदकानि निवर्त्तन्ते। अवपात्रितो भिन्नोदकीकृतः। तथा वृहस्पतिः।

सवर्णाजोऽप्यगुणवान्नार्हः स्यात् पैतृके धने।
तत्पिण्डदाः श्रोत्रिया ये तेषां तदभिधीयते॥
उत्तमर्णाधमर्णेभ्यः पितरन्त्रायते सुतः।
अतस्तद्विपरीतेन नास्ति तेन प्रयोजनम्॥
तया गवा किं क्रियते या न धेनुर्न्नगर्भिणी।
कोऽर्थः पुत्रेण जातेन यो न विद्वान् न धार्मिकः॥
शास्त्र शौर्य्यार्थरहितस्तपोज्ञानविवर्जितः।
आचारहीनः पुत्त्रस्तु मूत्रोच्चारसमः स्मृतः॥

अयमर्थः। पित्रादेरौर्द्ध्वदेहिक कर्म्मण कर्त्ता सुतोऽसंस्कृतोऽपि वरः श्रेष्ठः। ज्येष्ठो वेदपारगोऽप्यपरो न वर इति।

पुन्नम्नोनरकाद्यस्मात् पितरन्त्रायते सुतः।
तस्मात्पुत्त्र इति प्रोक्तः स्वयमेव स्वयम्भुवेति।

स्मृतेः पुत्त्रकर्म्मकर्तुः पितृधन स्वाम्यनेव चेतनमतस्तद्कुर्व्वतः कुतो वेतनाधिकार इति भावः। मनुरपि।

सर्व एव विकर्मस्या नार्हन्ति भ्रातरी धनमिति।

श्रौतस्मार्त्तकर्मानधिकारिणोविकर्मासक्ताश्चभागानर्हा इति भावः।

इति विभागानधिकारिणः।

अथ विभक्तकृतम्।

तत्र नारदः।

यद्येकजाता बहवः पृथग्धर्माः पृथक् क्रियाः।
पृथक्कर्म्मगुणोपेता नचेत्कार्य्येषु संमताः॥

स्वभागान्यदि दद्युस्ते विक्रीणीयुरथापि वा।
कुर्युर्य्यथेष्टं तत्सर्वमीशास्तेस्वधनस्यहीति॥

अस्यार्थः। एकस्माज्जाताबहवो भ्रातरो यदि विभक्ता इति शेष इति केचित् वयन्तु प्रुथग्धर्म्माइत्यादेरेव विभक्ता इत्यर्थः। तद्विधानस्यात्राप्रतीतेरानर्थक्याच्च। पृथग्विभिन्नो धर्मोदेवपितृद्विजार्च्चनरूपो वेषां नत्वग्निहोत्रादि रूपः। तस्य द्रव्यसाध्यत्वेऽप्य विभागेऽपि ध्यक्त्वात्।

तथा च बृहस्पतिः।

एकपाकेन वसतां पितृदेवद्विजार्च्चनम्।
एकं भवेद्विभक्तानां तदेव स्याद्गृहे गृहे।

एतच्च प्राङ्निरूपितम्। पृथक्क्रिया लौकिककृप्यादि रूपा येषां पृथग्विभिन्ना ये कर्मणां कण्डनपेषणादीनां गुणाउपसर्जनभूता मुसलोलूखल दृषदुपलादयस्तेयेषाम्। ते चेत्कार्य्येषु न संमताः परस्परमनुमतिं यद्यपि न कुर्वन्ति। तथापि ते स्वभागान्यदि दद्युर्विक्रीणीयुर्वा। तत्सर्व्वमन्यदप्याधीकरण ऋणादानादि यथेष्ट खेच्छया कुर्य्युः। विभक्ता यद्यनुमतिं कुर्व्वन्ति व्यवहारसौवर्य्यमात्रं भवति। अथ न कुर्व्वन्ति। तथापि न दानाद्यनिष्पत्तिः। तत्र हेतुःहि यस्मात्तेस्वधनस्यासाधारण स्वत्वापन्नस्य धनस्येशाःस्वामिनः। साधारणे स्वत्वे हि परस्परानुमत्यपेक्षा नत्वसाधरणेऽपीति भावः। यत्तु वृहस्पतिनोक्तम्।

विभक्ता वाऽविभक्ता वा सपिण्डाः स्थावरे समाः।
एको ह्यनीशःसर्वत्र दानाधमन विक्रय इति॥

तदप्य विभक्तानुमतिं व्यवहार सौकर्य्यार्थमेव प्रतिपादयति ग्रामाद्यनुमति वदित्यवसेयं स्थावरे हि चिरकालस्यापि

नियतसाक्ष्यादिविगमे विभागाविभागनिर्णयो दुःशङ्कःस्यात्कालान्तरे। सत्यान्त्वनुमतौ विभागनिर्णयानपेक्षएव व्यवहारःसिद्ध्यति सर्व्वानुमत्या दत्तत्वादित्याशय इति विज्ञानेश्वरा बहव आहुः। स्मृतिचन्द्रिकाकारस्तुयदि विभक्ता अपि स्थावरविभागं दुष्करं मन्यमानास्तत्फलमेव फलकाले विभज्य भोक्ष्याम इत्यभिसन्धिना नादितर धनमेव पृथक्विभज्य गृहीत्वा स्थावरं मध्यकमेव स्थापयन्ति तादृश स्थावरविषयमिदमित्याह। तत्कल्पना मात्रम्। अविभक्तत्वादेव तत्रानुमत्यपेक्षणात्।

स एव येनांशो यादृशो लब्धःप्राप्य तन्नविचालयेदित।

प्राप्य स्वीकृत्य। विभागकाले मत्वा पश्चाद्विप्रतिपद्यमानो राज्ञा वारणीयोऽत्याग्रहे दण्ड्यश्चेत्याह सएव।

स्वेच्छागत विभागोऽयः पुनरेव विसम्बदेत्।
सराज्ञांशे स्वके स्थाप्यःशासनीयोऽनुबन्ध कृत्॥

अनुबन्धी निर्बन्ध आग्रह इति यावत्।

इति विभक्तकृत्यम्।

अथ विभागप्रकारे उक्तेतत्सन्देहे निर्णयप्रकार उच्यते। तत्र याज्ञवल्क्यः।

विभागनिह्नवे ज्ञाति बन्धु साक्ष्यभिलेखितैः।
विभाग भावना ज्ञेया गृहक्षेत्रैश्चयौतकैः॥

विभागस्य निह्नवेऽपलापेविभक्तमध्ये केनचित्कृते ज्ञातिभिः पितृबन्धुभिः। वन्धुभिर्मातुलादिभिः साक्षिभिश्चोदासीनैःसाक्षिलक्षण लक्षितैः। यद्यपि ज्ञातिबन्धवोऽपि साक्षिविधयैव निर्णयकारणं तथापि बहिरङ्गसाक्ष्यपेक्षयान्तरङ्गास्ते श्राद्धादि पृथग्भाव रूपविभाग लिङ्गरत्व ज्ञातिभागकर्त्तार-

श्चोति बलीवर्द्दन्यायेन पृथगुपात्ताः। लेख्येन विभागपत्रेण च विभागस्य भावनानिर्णयो ज्ञानव्यः। तथा यौतकैः पृथक्कृतैः। युमिश्रणामिश्रणयोरिति धात्वनुसारात्। गृहैः क्षेत्रेश्च। नारदः।

विभाग धर्मसन्देहे दायादानां विनिर्णयः।
ज्ञातिभिर्भागलेख्येन पृथक्कार्य्यप्रवर्त्तनात्॥

ज्ञाति ग्रहणात्तेषु सत्सु यान्य साक्षिपुरस्कार इत्येतदर्थम्।कार्य्यंकृप्यादि तस्य पृथक्प्रवर्त्तनात्। शङ्खः।

गोत्रभाग विभागार्थे सन्देहे समुपस्थिते।
गोत्रजैश्चाप्यविज्ञाते कुलं साक्षित्वमर्हति ॥

कुलंबन्धवोमातुलादयः। अतएव नारदेन मुख्यत्वाज्ज्ञातय एव निर्दिष्टाः। ज्ञातृभिरिति पाठस्त्वनाकरः पुरातन पुस्तकेषु निबन्धेषु चादर्शनात्। लिखितन्तुसाक्षिभ्योवलनदिति परिभाषायां निरूपितम्। नारदः।

दान ग्रहण पश्वन्न गृहक्षेत्र परिग्रहाः।
विभक्तानां पृथग्ज्ञेयाःपाकधर्म्मागमव्यथाः॥
साक्षित्वं प्रातिभाव्यञ्चदानग्रहणामेव च।
विभक्ता भ्रातरः कुर्युर्न्नाविभक्ताः कथञ्चन॥
येषामेताः क्रिया लोके प्रवर्त्तन्ते स्वरिक्थतः।
विभक्ता न वगच्छेर्युर्ल्लेख्यमप्यन्तरेण तान् ॥

धर्म्मोवैश्वदेवादिः एकपाकेन वसतामिति। प्राक् उक्त वचनात्।

भ्रातृृणामविभक्तानामेको धर्म्मःप्रवर्त्तते।
विभागे सति धर्मोऽपि भवेत्तेषां पृथक् पृथगिति।
नारदेनैवोक्तत्वाच्च। वृहस्पतिः।

साहसं स्थावरं न्यासः प्राग्भिभागश्चरिक्थिनाम्।
अनुमानेन विज्ञेयं न स्याताम्पत्र साक्षिणौ॥

नस्यातामित्यत्र यदीत्यध्याहारः।
पृथगायव्ययधनाःकुसीदञ्च परस्परम्।

वणिक्पथञ्च ये कुर्य्युर्विभक्तास्तेन संशयः। आयोव्ययोधनञ्च पृथग्येषामिति विग्रहःकुसीदं वृद्ध्वर्थं धनप्रयोगः। वणिक्पथोवाणिज्यम्। परस्परमिति। एकोभ्रातोत्तमर्णः परश्चाधमर्णः। एकोविक्रीणीते परश्चक्रीणाति। इत्येवमादि-भिर्ल्लिङ्गैर्विना विभाग मनुपपद्यमानैर्विभागःप्रमातव्य इत्यर्थः। एताः क्रिया इति बहुवचनान्मिलितानामेवैषां लिङ्गत्वमिति न भ्रमितव्यम्। व्यस्ततमस्तानामपि तद्विधानात्। न्यायमूल कत्वाच्चवचनस्य अनुमानेनाप्यनिर्णये दिव्यैःक्षशपथैश्च विषयाल्पत्वभूयस्त्वानुसारेण निर्णयः। युक्तिष्वप्यसमर्थासु शपथैरेन मर्द्दयेदिति परिभाषायां निरूपितंयत्र तु मानुपं निर्णायकन्नास्ति युक्तयश्चाभासाः। दिव्यगपथाध्यवसायश्चान्यतरस्य न भवति। तत्र पुनर्विभाग कार्य्य इत्याह मनुः।

विभागे यत्र सन्देहो दायादानां परस्परम्।
पुनर्विभागः कर्त्तव्यः पृथक् स्थानस्थितैरपीति॥

सच परिशोध्योभयव्यय मित्यादि संसृष्टिविभागादि रीत्येत्यनुसन्धेयम्। यच्चमनुनैवोक्तम्।

सकृदंशोनिपतति सकृत्कन्याप्रदीयते।
सकृदाह ददानीति त्रीण्येतानिसकृत्सकृदिति॥

तत् परावृत्तिकारणाभावे। कन्यादानदानान्तरयोर-

प्येवम्। इति विभाग सन्देहे निर्णयः। समाप्तञ्चेदन्दायभागाख्यं विवादपदम्।

अथ द्यूतरमाह्वयाख्यंव्यवहार पदम्।

तस्य स्वरूपमाह नारदः।

अक्षवध्नशलाकाद्यैर्देवनं जिह्मकारितम्।
पणक्रीडावयोभिश्चपदन्द्यूत समाह्वयमिति॥

अक्षाःपाशाः। वध्नश्चर्म पट्टिका। शलाकादन्तादिमय्यो दीर्घचतुरस्राः।आद्य ग्रहणाच्चतुरङ्गादि क्रीडासाधनं करितुरगादिकं गृह्यते। तैरप्राणिभिर्य्यापणापूर्विका क्रिया। तथा वयोभिः पक्षिभिःपारावतादिभिः च शब्दान्मल्लमेषादि भिश्चप्राणिभिर्यापण पूर्विका क्रीडा क्रियते तदुभयं यथा क्रमन्द्यूत समाह्वयाख्यं व्यवहारपदमित्यर्थः। द्यूतञ्च समाह्वयश्चद्यूतसमाह्वयम्। अतएव मनुः।

अप्राणिभिर्यत्क्रियते तल्लोके द्यूत मुच्यते।
प्राणिभिः क्रियमाणस्तुसविज्ञेयः समाह्वय इतिः॥

तत्रसभिकं प्रत्याह नारदः।

सभिकः कारयेद्यूतन्देयन्देयाच्च तत् कृतम्।
दशकन्तुशतं वृद्धिस्ततः स्याद्व्यूतकारिता॥
अथ वा कितवो राज्ञेदत्त्वा लाभं यथोदितम्।
प्रकाशन्देवनं कुर्य्यादेवन्दोषोन विद्यत इति॥

तस्य वृत्तिमाह याज्ञवल्क्यः।

ग्लहेशतिकवृद्धेस्तुसभिकः पञ्चकं शतम्।
गृह्णीयद्धूर्त्तकितवादितराद्दशकं शतमिति॥

परस्परं सम्प्रतिपत्त्याकितवः परिकल्पितः पणोग्लहस्तत्र

ग्लहे तदाश्रया शतपरिमिता तधिक परिमिता वा वृद्धिर्यस्यासौ शतिक वृद्धिस्तस्मात्कितवात्पञ्च शतञ्जितस्य ग्लहस्यात्मवृद्ध्यर्थं विंशतितमम्भागङ्गृह्णीयादित्यर्थः। पञ्चकं शतं पञ्चपणा आयो यस्मिन्शते तत्पञ्चक-न्तदस्मिन्वृद्ध्येतिकन्। सभाकितवनिवासार्था यस्यास्त्यसौसभिकः सभापतिस्तु कल्पिताक्षादिनिखिल क्रीडो-पकरणस्तदुपचित द्रव्योपजीवी। इतर स्मादपूर्णमतवृद्धेःकितवाद्दशकं शतञ्जितस्य दशमभागं गृह्णीयादित्यर्थः। एवं क्लृप्रवृत्तेः सभिकस्य यत्कर्त्तव्यन्तदाह। स एव। स सम्यक्पालितो दद्यात् राज्ञेभागं यथा कृतम्।

जितमुद्ग्राहयेज्जेत्रेदद्यात्सत्यम्बचः क्षमीति॥

यः क्लृप्तवृत्तिर्द्यूताधिकारी सराज्ञाधूर्त्तकितवेभ्योरक्षितस्तस्मैराज्ञेयथा प्रतिपन्नमंशन्दद्यात्। तथा जितन्द्रव्यं पाराजित सकांशादासेधादिना उद्धृत्य क्षेत्रेजयिने दद्यात्। तथा क्षमी भूत्वाद्यूतकारिणीति विश्वासार्थं सत्यं वचोवदेदित्यर्थः। नारदोऽपि।

** सभिकः कारयेाद्यूतन्देयन्दद्याच्चतत् कृतमिति।**

बृहस्पतिरपि। सभिकोग्राहकस्तत्र दद्याज्जेत्रेनृपायवेति द्यूतपराजित कितवानां बन्धनादिना पणग्राहकोभवेत्। पणग्रहणात्प्रागेव स्वकीयं द्रव्यंयत्र नृपायच यथाभागं सभिकोदद्यादित्यर्थः। तथा च कात्यायनः।

जेतुर्द्दद्यात् स्वकन्द्रव्यञ्जितं ग्राह्यं त्रिपक्षिकम्।
सद्योवा कितवेनैव सभिकात्तुन संशय इति॥

त्रिपक्षिकमित्यनेन यथा सामर्थ्यमात्रिपक्षात्कालोदेय इति दर्शितमिति स्मृतिचन्द्रिकायाम्। यदातु जेत्रेजितन्द्रव्यं

सभिकोदापयितुमशक्तस्तदा राजादापयेदित्याह। याज्ञवल्क्यः।

प्राप्तेनृपतिना भागे प्रसिद्धेधूर्त्त मण्डले॥
जितं ससभिके स्थाने दापयेदन्यथा नत्विति॥

प्रसिद्धेअन्यथा प्रच्छन्नेसभिकरहितेऽदत्तराजभागेद्यूतेजित पणे जेत्रेन दापयेदित्यर्थः। प्राणिद्यूते प्राणिनाञ्जय पराजयौ तत् स्वामिनोरित्याह वृहस्पतिः।

द्वन्द्वयुद्धेन यः कश्चिदवसादमवाप्नुयात्।
तत् स्वामिना पणो देयोयस्त्वत्र परिकल्पित इति॥

पणपरिकल्पनं कृताकृतमित्याह नारदः।

परिहास कृतं यच्च यच्चाप्यविदितं नृपे।
तत्रापि नप्नुयात्काममथवानुमतन्तयोरिति॥

काम्यत इति कामः पणः। अत्र जयपराजय विप्रतिपत्तौ निर्णय प्रकारमाह याज्ञवल्क्यः।

द्रष्ठारो व्यवहाराणां साक्षिणश्च त एवहीति।

द्यूतव्यहाराणान्द्रष्टारःसभ्याःतएव कितवा एवनियोक्तव्याराज्ञा। न तत्र श्रुताध्ययन सम्पन्ना इत्याद्युक्तनियमोऽस्ति। साक्षिणोऽपित एवद्यूते द्यूतकरा एव कार्याःन तत्र स्त्रीबालवृद्धकितवेत्यादि साक्षिनिरूपणोक्त निषेधोऽस्तीत्यर्थः।

विष्णु रपि।

कितवेष्वेवतिष्ठेरन् कितवाः संशयं प्रति।
य एव तत्र द्रष्टारस्त एवैषान्तुसाक्षिणः इति।

साक्षिणां परस्परविरोधेत्याह वृहस्पतिः।

उभयोरपि सन्दिग्धौ कितवाः स्युः परीक्षकाः।
यदा विद्वेषिणस्तेतु तदा राजा विचारयेदिति॥

अनियुक्त द्य तकारिणो दण्डमाह नारदः।

पर्य्यायेण कर्म कारयितव्याः पित्रवरुद्धास्तुसमा अपि न विभाज्याः। स्त्रीष्ववरुद्धासु न विभाग इति गौतमवचनात्। योगक्षेमशब्दाभ्यामिष्टापूर्त्तेउच्येते। तयोरविभाज्यत्वं पितृद्रव्यविरोधेनार्जितयोरपि दृष्टान्तंतयोच्यते। न हि स्वतः फलतो वातस्य विभागः सम्भवति पैतृकस्य तु सुतराम्। तथा चाह लौगाक्षिः।

क्षेमम्पूर्त्तं योगमिष्टमित्याहुस्तत्त्वदर्शिनः।
अविभाज्ये च ते प्रोक्तेशयनासनमेवच॥

इति योगक्षेमशब्देन तत् कारिणो राजमन्त्रि पुरोहितादय उच्यन्ते इति केचित्। शस्त्र चामरोपानत्प्रभृतय इत्यन्ये। प्रचारो गृहारामादि प्रवेश निर्गममार्गाः। तस्याप्यविभाज्यत्वम्। पितृधृतं वस्त्रादिकं श्राद्धभोक्त्रेदातव्यम्। यथाह बृहस्पतिः।

वस्त्रालङ्कार शय्यादि पितुर्य्यद्वाहनादिकम्।
गन्धमाल्यैः समभ्यर्च्य श्राद्धभोक्त्रेतदर्प्य येदिति॥

स्त्री धृतोऽप्यलङ्कारो न विभाज्यः।

पत्यौ जीवति यः स्त्रीभिरलङ्कारो धृतोभवेत्।
न तम्भजेरन्दायादा भजमानाः पतन्ति ते इति।

धृत इत्यनेनाधृतस्य विभाज्यत्वमेव। पत्त्यौ जीवतीत्यनेन पतिजीवनचिह्नतया यत्र देशे यो धार्य्यते स न विभाज्य इति सूचितम्। पितृप्रसाद लब्धस्यापि न विभागः।

पितृप्रसादाद्भुज्यन्ते वस्त्राण्याभरणाणि च।

भुज्यन्ते इति वचनाद विभाज्यत्वम्। तथा पितृदत्तस्यापि पितृभ्यां यस्य यद्दत्तन्तत्तस्यैवधनम्भवेदिति च स्मरणात्।

राज्ञा द्यूतं एकं मुखं प्रधानं यस्य तत् तथोक्तं कार्य्यम्। राजाध्यक्षाधिष्ठित राज्ञाकारयितव्यमित्यर्थः। तस्करज्ञान कारणात्। ल्यव्लोपे पञ्चमी। तस्कृरज्ञानरूप प्रयोजनं पर्य्यालोच्य यर्थः। प्रायशश्चौर्य्यार्जितधनाएव कितवा भवन्त्यतश्चौर विज्ञानार्थमेकमुखं कार्य्यमित्यादयः। द्यूते विहितं धर्मजात समाह्वये अतिदिशति एव।

एषएव विधिर्ज्ञेयःप्राणिद्यूते समाह्वये इति॥

मभिक वृत्ति कल्पनादि लक्षणो धर्म्मःसमाह्वयेऽपीत्यर्थः। इति द्यूतसमाह्वयाख्यं व्यवहारपदम्। इति श्रीमत्सकल सामन्तचक्रचूड़ामणि मरीचि मञ्जरीनीराजित चरणकमल श्रीमन्महाराजाधिराज प्रतापरुद्रतनूज श्रीमन्महाराज मधुकरसाहसूनुश्रीमन्महाराजाधिराज चतुरुदधिबलय वसुन्धरा हृदय पुण्डरीक विकासदिनकर श्रीवीरसिंह-देवोद्योजित श्रीहसपण्डितात्मज श्रीपरशुराम मिश्रसूनु सकलविद्या पारावारपारीणधुरीण जगद्दारिद्र्यमहागजपारीन्द्रवि द्वज्जनजीवा तु श्रीमन्मित्रमिश्रकृतेवीरमित्रोदयामिधनिबन्धे व्यवहारप्रकाशे समाप्तमष्टादश विवादपद निरूपणाख्य तृतीयं प्रकरणम्।

अथ प्रकीर्णकाख्यञ्चतुर्थं प्रकरणमारभ्यते।

तत्र वृहस्पतिः।

एषवादि कृतः प्रोक्तोव्यवहार समासतः।
नृपाश्रयंप्रवक्ष्यामि व्यवहारं प्रकीर्णकमिति॥

तल्लक्षणभेदावाह नारदः।

प्रकीर्णके पुनर्ज्ञेया व्यवहारा नृपाश्रयाः।
राज्ञामाज्ञा प्रतीघातस्तत्कर्मकरणं तथा॥

पुरः प्रमाणं सम्भेदः प्रकृतीनान्तथैव च।
पाखण्डन्नैगमश्रेणि गणधर्म विपर्य्ययाः॥
पिता पुत्त्र विवादश्च प्रायश्चित्त व्यतिक्रमः।
प्रतिग्रहं विलोपश्चकोप आश्रमिणामपि॥
वर्णसंकरदोषश्चतद्वृत्तिर्नियमस्तथा।
न दृष्टंयच्चपूर्वेषु सर्वन्तस्यात्प्रकीर्णकमिति॥

प्रतोघातो भङ्गः। तत् कर्म्म। सिंहासनारोहणादि राजकर्म। पाखण्डादयःपूर्वमेव व्याख्यातः। प्रकीर्णके विवादपदे ये विवादा राजाज्ञोलङ्घनं तदाज्ञाकरणं तत् कर्मरक्षणादि विषयास्ते नृपसमवायिन एव। तत्रस्मॄत्याचारव्यपेतेन मार्गेण वर्त्तमानां प्रतिकूलतामासाद्य नृपएव व्यवहारनिर्णयं कुर्य्यात्। एवं वदता योनृपाश्रयो व्यवहारस्तं प्रकीर्णकमित्युक्तम्भवति। विषय विशेषेदण्ड विशेषमाह याज्ञवल्क्यः।

न्यूनं वाभ्यधिकं वापि लिखेद्योराजशासनम्।
पारदारिंकचौरं वा मुञ्चतोदण्ड उत्तमः॥

यो राजदत्त भूमिनिबन्धयोर्मध्येऽन्यतरस्य परिमाणात्न्यूनत्वाधिक्यान्यतरं प्रकाशयन् र जशासनत्वेन लिखति। यश्चपादारिकचोर वागृहीत्वाराज्ञोऽनिवेद्य मुञ्चति तावुभावप्युत्तम साहसं दण्डनीयावित्यर्थः। यासोऽपि।

न्यायस्थाने गृहीत्वार्थमधर्मेण विनिर्णयम्।
कुर्वन्त्युत्कोचकास्ते तु राज द्रव्य विनाशकाः॥
उत्कोचजीविनो द्रव्यहीनान् कृत्वाविवायेसदिति॥
राज्ञः कोशापहरणे दण्डमाहमनुः।
राज्ञः कोशापहर्तृंश्चप्रतिश्लेष्ववस्थितान्।

घातयेद्विषिधैर्दण्डैर्हरेत् सर्व स्वमेवचेति॥

सर्वस्वहरणम साधारणं यद्यस्य जीवनोपकरणन्तदत्तिरिक्त विषयम्। अतएव नारदः।

आयुधानायुधीयानां वीजानि कृषिजीविनाम्।
यत्यस्योपकरणं येन जीवन्तिजीविकाम्॥
सर्वस्वहरणेऽप्ये नन्नराजा हनर्त्तुमर्हतीति।

वधस्थानमौण्ड्यब्राह्मणस्य कर्त्तव्यमित्याह मनुः।

ब्राह्मणस्य वधोमौण्ड्यपुरान्निर्षासनङ्कने।
ललाटेवाभिशस्ताङ्कंप्रयाण गर्द्धभेनत्विति॥

तत् कर्मकरणे दण्डमाह याज्ञवल्क्यः।

राजयाना समारोहे दण्डोमध्यमसाहसमिति।

कात्यायनोऽपि।

राज क्रीडासु ये सक्ताराजवृत्त्युप जीविनः।
अप्रियञ्चास्य यो वक्तावधन्तेषांप्रकल्पयेदिति॥

शूद्राणां प्रब्रज्यादि करणेदण्डमाह स एव।

प्रब्रज्याब मितं शूद्रञ्जपहोमपरं तथा॥
वधेन शासयेत्पापन्दण्ड्योवाद्विगुणन्दममिति।

धर्मशास्त्रानुसारेण व्यवहारदर्शिनोराज्ञः फलमाह यमः

एवन्धर्म प्रवृत्तस्य राज्ञोदण्डधरस्य च।
यशोऽस्मिन् प्रथते लोके स्वर्गेवासस्तथा क्षय इति॥

इति प्रकीर्णकाक्षञ्चतुर्थं प्रकरणं समाप्तम्।

प्रत्याशम्परिवर्द्धतेऽर्हजनतान्दैन्यान्धकारापहे।
श्रीमद्वीर मृगेन्द्रदान जलधिर्य्यद्वक्त्रचन्द्रोदये।
राजादेशितमित्रभिःविदुषस्तस्योक्तिभिर्निर्मिते।
ग्रन्थेऽस्मिन् व्यवहार जातिविषयः पूर्णः प्रकाशोऽभवत्।
इति व्यवहारकाण्डं समाप्तम्।

पुरः प्रमाणं सम्भेदः प्रकृतीनान्तथैवच।
पाखण्डन्नैगमश्रेणि गणधर्म विपर्य्ययाः॥
पिता पुत्त्र विवादश्च प्रायश्चित्त व्यतिक्रमः।
प्रतिग्रहं विलोपश्चकोप आश्रमिणामपि॥
वर्णसंकरदोषश्चतद्वृत्तिर्नियमस्तथा।
न दृष्टंयच्चपूर्वेषु सर्वन्तत्स्याप्रकीर्णकमिति॥

प्रतोघातो भङ्गः। तत् कर्म्म। सिंहासनारोहणादि राजकर्म। पाखण्डादयः पूर्वमेव व्याख्यातः। प्रकीर्णके विवादपदे ये विवादा राजाज्ञोल्लङ्घनं तदाज्ञाकरणं तत् कर्मरक्षणादि विषयास्तेनृपसमवायिन एव। तत्र नित्याचारव्यपेतेन मार्गेण वर्त्तमानां प्रतिकूलतामासाद्य नृपएव व्यवहारनिर्णयं कुर्य्यात्। एवं वदता योनृपाश्रयो व्यवहारस्तप्रकीर्ण-कमित्युक्तम्भवति। विषय विशेषेदण्ड विशेषमाह याज्ञवल्क्यः।

न्यूनं वाभ्यधिकं वापि लिखेद्योराजशासनम्।
पारदारिकचौरं वा मुञ्चतोदण्ड उत्तमः॥

यो राजदत्त भूमिनिबन्धयोर्मध्येऽन्यतरस्य परिमाणात्न्यूनत्वाधिक्यान्यतरं प्रकाशयन् राजशासनत्वेन लिखति। यश्चपादारिकचोरं वागृहीत्वा राज्ञेऽनिवेद्य मुञ्चति तावुभावप्युत्तम साहसं दण्डनीयावित्यर्थः। व्यासोऽपि।

न्यायस्थाने गृहीत्वार्थमधर्मेण विनिर्णयम्।
कुर्वन्त्युत्कोचकास्ते तु राज द्रव्य विनाशकाः॥
उत्कोचजीविनो द्रव्यहीनान् कृत्वाबिवायेसदिति॥

राज्ञः कोशापहरणे दण्डमाह मनुः।

राज्ञः कोशापहर्तृंश्चप्रतिकूलेष्ववस्थितान्।

घातयेद्विविधैर्दण्डैर्हरेत् सर्व स्वमेवचेति॥

सर्वस्वहरणम साधारणं यद्यस्य जीवनोपकरणन्तदतिरिक्त विषयम्। अतएव नारदः।

आयुधानाधीत्यानां वीजानि कृषिजीविनाम्।
यत्यस्योपकरणं येन जीवन्तिजीविकाम्॥
सर्वस्वहरणेऽप्येनन्नराजा हर्त्तुमर्हतीति।

वधस्थानेमौण्ड्यंब्राह्मणस्य कर्त्तव्यमित्याह मनुः।

ब्राह्मणस्य वधोमौण्ड्यंपुरान्निर्वासनाङ्कने
ललाटेवाभिशस्ताङ्कं प्रयाण गर्द्धभेनत्विति॥

तत् कर्मकपणे दण्डमाह याज्ञवल्क्यः।

राजयाना सनारोहे दण्डोमध्यमसाहसमिति।

कात्यायनोऽपि।

राज क्रीडासु ये सक्ताराज वृत्त्युप जीविनः।
श्रमियञ्चास्य यो वक्तावधन्तेषां प्रकल्पयेदिति॥

शूद्राणां प्रवज्यादि करणेदण्डमाह स एव।

प्रवज्याब सितं शूद्रञ्जपहोमपरं तथा॥
वधेन शासयेत्पापन्दण्ड्योवाद्विगुणन्दममिति।

धर्मशास्त्रानुसारेण व्यवहारदर्शिनोराज्ञः फलमाह यमः

एवन्धर्म प्रवृत्तस्य राज्ञोदण्डधरस्य च।
यशोऽस्मिन् प्रथते लोके स्वर्गवासस्तथा क्षय इति॥

इति प्रकीर्णकाख्यञ्चतुर्थंप्रकरणं समाप्तम्।

प्रत्याशन्तपरिवर्द्धतेऽर्थिजनतान्दैन्यान्धकारापहे।
श्रीमद्वीर मृगेन्द्रदान जलधिर्य्यद्वक्त्रचन्द्रोदये।
राजादेशितमित्रमिश्रविदुषस्तस्योक्तिभिर्निर्मित।
ग्रन्थेऽस्मिन् व्यवहार जातिविषयः पूर्णः प्रकाशोऽभवत्।
इति व्यवहारकाण्डंसमाप्तम्।

]