[[वीरमित्रोदय-श्राद्धप्रकाशः (नवमो भागः) Source: EB]]
[
THE
CHOWKHAMBÂSANSKRIT SERIES
A
COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS
NO. 435.
वीरमित्रोदय–
श्राद्धप्रकाशः।
महामहोपाध्यायश्रीमित्रमिश्रविरचितः।
भट्टराई–इत्युपपदेन
न्यायाचार्य्यपण्डितपद्मप्रसादोपाध्यायेन
संशोधितः।
<MISSING_FIG href="../books_images/U-IMG-16996011081020.png"/>
VĪRAMITRODAYA
SRĀDDHA PRAKĀS’A
BY
MAHAMAHOPADHYĀYA PANDIT MITRA MIS’RA
Edited By
Nyāyāchārya
PANDIT PADMAPRASĀDA UPADHYĀYA
BHATTARAI
Vol IX FASCICULUS IV-४
———————————
PUBLISHED & SOLD BY THE SECRETARY,
CHOWKHAMBA SANSKRIT SERIES OFFICE
Benares City.
1935
[TABLE]
श्रीः
आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता।
सुवर्णाऽङ्कितभव्याभशतपत्रपरिष्कृता॥१॥
चौखम्बा–संस्कृतग्रन्थमाला मञ्जुलदर्शना।
रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम्॥२॥
स्तबकाः४३५.
Printed by Jai Krishna Das Gupta
at the Vidya Vilas Press, Benares.
THE
CHOWKHAMBA SANSKRIT SERIES
A
COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS.
No’s. 413, 431, 432 & 435.
___________
THE
VĪRA MITRODAYA
SRĀDDHAPRAKĀS’A
By
MAHAMANOPADHYAYA PANDIT MITRA MIS’RA
————————————
Edited with Introduction Index etc.,
By
NYĀYĀCHĀRYA
PANDIT PADMA PRASĀDA UPĀDHYĀYA
Bhattarai,
Vol. IX.
FASCICULAS I-IV. १-४
_____________
PUBLISHED BY
JAI KRISHNA DAS HARIDAS GUPTA
The Chowkhamba Sanskrit Series Office.
BENARES.
_______
1935.
[ Registered According to Aot XXV of 1867,
All Rights Reserved by the Publisher, ]
PRINTED BY
JAI KRISHNA DAS GUPTA
Vidya Vilas Press;
Benares City.
_____
चौखम्बा–संस्कृत–ग्रन्थमाला
ग्रन्थ- संख्या ३०
ग्रन्थाङ्कः ४१३, ४३१, ४३२, ४३५.
<MISSING_FIG href="../books_images/U-IMG-16996037611020.png"/>
॥श्रीः॥
वीरमित्रोदयस्य
श्राद्धप्रकाशः।
श्रीमहामहोपाध्यायश्रीमित्रमिश्रविरचितः।
<MISSING_FIG href="../books_images/U-IMG-1699603822010.png"/>
भट्टराई–इत्युपपदेन
न्यायाचार्यपण्डितपद्मप्रसादोपाध्यायेन
संशोधितः।
<MISSING_FIG href="../books_images/U-IMG-169960387520202.png"/>
प्रकाशकः—
जयकृष्णदास हरिदासगुप्तः—
चौखम्बा संस्कृत सीरिजआफिस,
बनारस सिटी।
_____
१९९१
राजकीयनियमानुसारेणास्य सर्वेऽधिकाराः प्रकाशकेन स्वायत्तीकृताः
प्रकाशकः—
जयकृष्णदास हरिदास गुप्तः–
चौखम्बा संस्कृत सीरिज़ आफिस,
बनारस सिटी।
श्रीगुरुः शरणम्।
विज्ञापनम्।
<MISSING_FIG href="../books_images/U-IMG-16996037611020.png"/>
** **हंहो तत्तत्पदार्थसार्थनिर्णयनिविष्टमतयो विशिष्टशिष्टोपदिष्टनवनवप्रबन्धावलोकनकुतूहलिनो लोकानुग्रहैककृतिनः कृतिनः! विदितमस्तु तत्र भवतां भवतां यत्किल श्राद्धापेक्षितसमस्तवस्तुनिरूपणपरः श्रीमन्महामहोपाध्यायमित्रमिश्रसुधीमहोदयनिर्मितो वीरमित्रोदयाभिधमहाप्रबन्धान्तर्गतः श्राद्धप्रकाशाख्यो निबन्धः सम्प्रति सर्वात्मना मुद्रितभावेन प्रकाश्यत्वं समगच्छत। यद्यपि शतशः सन्ति श्राद्धसम्बन्धिपदार्थसार्थनिरूपणपराणि निबन्धान्तराणि, तथापि नूनं तानि द्युमणेः पुरतः खद्योतखेलनमेवानुकुर्वत इति नास्ति तत्र मात्रयापि विचिकित्सालवलेशः। अभिहितञ्चात्मनैव-
मा कुर्वन्तु मुधा बुधाः परिचयं ग्रन्थेषु नानाविधे-
ष्वत्यन्तं न हि तेषु सर्वविषयः कश्चित् क्वचिद् वर्तते।
पश्यन्तु प्रणयादनन्यमनसो ग्रन्थं मदीयं त्विमं
धर्माधर्मसमस्तनिर्णयविधिर्यस्मिन् दरीदृश्यते॥ इति।
तत्र कोऽयं मित्रमिश्रसुधीः, कदा कुत्र कतमो वा भूभागोऽनेन स्वजनुषा सनाथीकृतः कतमच्च विप्रकुलमनेन विशेषतोऽलङ्कृतमित्यादिका प्रेक्षावतां प्रबन्धकृत्परिचयप्रतिपित्सा स्वयमेव प्रकाशान्तरे परिहृतेति परीक्षकैस्तत एव शक्यमखिलमप्युन्नेतुमिति कृतमात्मनो वाचाढतामात्रप्रकटनकौशलेन। समालोचनायां च वस्तुतस्त एवाधिक्रियन्ते ये ज्ञानविज्ञानसम्पदा भूयसा तपसा च प्रबन्धप्रणेतारमतिशयीरन् अनेवंविधाश्च समालोचमानाःकेवलं चपलतामेव चिरं चिन्वीरन् न तु वस्तुतथ्यातथ्यावधारणदक्षतामिति तत्रानधिकृता एव वयमिति किं सहसा सहासेन साहसेन। एतन्मुद्रणं च काशीस्थगवर्मेण्टपुस्तकालयस्थहस्तलिखितपुस्तकमुपजीव्यैव संम्पादितम्। तत्र च
भूमिका।
तत्र तत्र सन्दिग्धासल्ँलग्नपाठविशेषो प्रन्थान्तरेभ्यो निर्णीय समावेशित्तः, तत्रोपलब्धानि पाठान्तराणि च तत्तद्ग्रन्थनामस्थलनिर्देशपुरःसरं टिप्पण्या मुट्टङ्कितानि। त्रुटितस्थलेषु स्वमनीषाकल्पित एव पाठः( ) [ ] एतचिह्नद्वयान्तर्गततयोन्यस्तः, अधिकतया प्रतिभातो ग्रन्थस्थपाठश्च क्वचित् ( ) एतच्चिह्नमध्य एव निवेशितः, तयोर्युक्तायुक्तत्वे चावहितान्तःकरणैः कुशाग्रधिषणैरेवावधार्येइति। संशोधनेचस्वमतिमान्द्यान्नैशिककरणापाटवात्, व्यासङ्गात्, आयसाक्षरनियोक्तृकृतवर्णवैपरीस्यात्, मुद्रणावस्थायाम क्षरस्खलनप्रभृतिदोषाद्वा बहुत्र ‘व्य’ स्थाने ‘ब्य’ इति, ‘व’ स्थाने ‘ब’ इति ‘ब’ स्थाने ‘व’ इति, ‘त्त’ स्थाने ‘त’ इति, ‘पु’ स्थाने च ‘षु’ इति पतितं तत्र च पाठकमहोदयैरवधातव्यम्। उक्तदोषायत्तानामन्यासां च कतिपयानामशुद्धीनां ज्ञापकं शुद्धिपत्रं, संक्षिप्तविषयानुक्रमणं चोपन्यस्तमिति कृतेऽपि भूयसि परिश्रमे तत्र तत्र बह्वपराद्धं स्यादिति तत्र कृतबुद्धयो विद्वांस एव शरणमिति कृतमनल्पजल्पनेनेति—
संशोधकः।
श्राद्धप्रकाशस्थविषयानुक्रमणिका।
<MISSING_FIG href="../books_images/U-IMG-16993500641020.png"/>
| विषयः |
| मङ्गलाचरणम् |
| ग्रन्थनिर्मितिप्रवृत्तिहेतुकथनम् |
| सङ्खेपतो विषयानुक्रमणिकाकथनम् |
| श्राद्धप्रशंसा |
| श्राद्धस्य कर्तव्यता |
| श्राद्धस्य स्वरूपकथनम् |
| श्रद्धलक्षर्णानरूपणम् |
| मुख्यगौणभेदेन श्राद्धशब्दप्रयोगविचारः |
| श्राद्धस्य यागदानरूपताविचारः |
| पित्रादीनां प्रत्येकं देवतात्वनिर्णयः |
| वस्वादीनां देवतात्वविचारः |
| पार्वण श्राद्धे देवतानिर्णयः |
| जीवत्पितृकश्राद्धे देवतानिर्णयः |
| द्विपितृकश्राद्धे देवतानिर्णयः |
| पुत्रिकापुत्रकर्तृकश्राद्धे देवतानिर्णयः |
| वैश्वदेविकश्राद्धे देवतानिरूपणम् |
| विकिरभुक्तोच्छिष्टयोदेवता निर्णयः |
| सन्न्यासाङ्गश्राद्धदेवतानिणेयः |
| विधवाकर्तृकश्राद्धदेवता निर्णयः |
| विभक्तिनिर्णयः |
| सम्बन्धगोत्रनामोच्चारणक्रमः |
| गन्धादिदाने सम्प्रदाननिर्णयः |
| श्राद्धोचितद्र व्यनिर्णयः |
| अधर्मोपार्जितद्रव्यनिषेधः |
| श्राद्धोचितद्रव्योत्पत्तिकथनम् |
| ग्राह्वाधान्यम् |
| वर्ज्यवान्यम् |
| ग्राह्याणि मूलफलानि |
| वर्ज्यानि " |
| ग्राह्यक्षीराणि |
| बज्यक्षोराणि |
| मांसविचारः |
| मांसविचारः |
| कालविशेषावच्छेदेन |
| ग्राह्यान्ननिरूपणम् |
| वर्ज्यान्ननिरूपणम् |
| श्राद्धीयब्राह्मणनिरूपणम् |
| ब्राह्मणप्रशंसा |
| श्राद्धीयप्रशस्तस्तब्राह्मणनिरूपणम् |
| पङ्क्तिपावननिरूपणम् |
| पङ्क्तिपावनपावननिरूपणम् |
| योगिनां श्राद्धे नियोगकथनम् |
| गृहस्थाद्यपेक्षया योगिनां वैशिष्ट्यकथनम् |
| प्रशस्तब्राह्मणानुकल्पकथनम् |
| सन्निहितब्राह्मणानामनतिक्रमणीयत्वम् |
| श्राद्धे वर्ज्यब्राह्मणकथनम् |
| निमन्त्रणम् |
| निमन्त्रणीयब्राह्मणसङ्ख्या |
| निमन्त्रणपूर्वकालकृत्यम् |
| निमन्त्रितनयमाः |
| कर्तृनियमाः |
| कर्तृभोक्तृनियमाः |
| ब्राह्मणानां श्राद्धभोजननियमाः |
| भोजयितृनियमाः |
| प्राचीनावीतयज्ञोपवीतविचारः |
| श्राद्धीयपदार्थाः |
| यजमानजप्यानि |
| सप्ताचिर्मन्त्रः |
| सप्ताचिस्तोत्रम् |
| पितृस्तवः |
| श्राद्धदेशाः |
| निषिद्धदेशाः |
| श्राद्धदेशादपास्यानि द्रव्याणि |
| श्राद्धोपकरणानि |
| अर्धपात्राणि |
| पाकपात्राणि |
| भोजनपात्राणि |
| परिवेषणपात्राणि |
| गन्धाः |
| वर्ज्यगन्धाः |
| पुष्पाणि |
| वर्ज्यपुष्पाणि |
| धूपाः |
| निषिद्धधूपाः |
| दीपाः |
| आच्छादनम् |
| निषिद्धवस्त्राणि |
| यज्ञोपवीतम् |
| दण्डयोगपट्टौ |
| कमण्डल्वादि |
| छन्नम् |
| उपानत्पादुके |
| आसनानि |
| शय्यादि |
| चामरव्यजनदर्पणकेशप्रसाधनानि |
| हिरण्यालङ्कारादि |
| अलङ्कारविशेषदाने फलविशेषः |
| गोमहिष्यादिदानम् |
| गवां वर्णविशेषात्फलविशेषः |
| भूगृहपुस्तकाभयादिदानम् |
| प्रकीर्णकदानम् |
| श्राद्धदिने पूर्वाह्णकृत्यम् |
| श्राद्धदिनेऽपराह्णकृत्यम् |
| पुण्डरीकाक्षस्मरणादिकृत्यम् |
| ब्राह्मणानामासनदानादिकृत्यम् |
| आवाहनम् |
| अर्व्याद्युपचारविधिः |
| अर्घदानविधिः |
| संस्रवग्रहणम् |
| गन्धादिदानम् |
| मण्डलकरणादयः पदार्थाः |
| अग्नौकरणम् |
| अग्नौकरणे देवतामन्त्रादयः |
| हुतावशिष्टप्रतिपत्तिः |
| परिवेषणम् |
| पानालम्भजपाङ्गठनिवेशनानि |
| अन्नसङ्कल्पः |
| सावित्रीजपादि |
| विकिरदानादि |
| पिण्डदानकालः |
| पिण्डदानदेशः |
| पिण्डदानेतिकर्तव्यता |
| पिण्डदानेऽन्नविशेषः |
| अक्षय्योदकदानम् |
| वस्याचना |
| दक्षिणादानम् |
| विसर्जनम् |
| पिण्डप्रतिपत्तिः |
| उच्छिष्टोद्वासनम् |
| श्राद्धोत्तरकालीनकम |
| श्राद्धानुकल्पः |
| आमहेमश्राद्धम् |
| ब्राह्मणानुकल्पः |
| सांकल्पिकश्राद्धम् |
| विकृतिश्राद्ध निर्णयः |
| वृद्धिश्राद्धम् |
| सामान्यकृष्णपक्षश्रादम् |
| महालयश्राद्धम् |
| भरणिश्राद्धम् |
| अपरपक्षत्रयोदशीश्राद्धम् |
| मघाश्राद्धम् |
| शस्त्रादिहतचतुर्दशीश्राद्धम् |
| दौहित्रकर्तृकश्राद्धम् |
| नित्यश्राद्धम् |
| सांवत्सरिकश्राद्धम् |
| श्राद्धभेदाः |
| श्राद्धविकृतिषूहः |
| श्राद्धाधिकारिनिरूपणम् |
| जीवच्छ्राद्धनिर्णयः |
| संन्यासाङ्गश्राद्धनिर्णयः |
| ग्रन्थसमाप्तिः |
इति संक्षिप्तश्राद्धप्रकाशस्थविषयानुक्रमणिका।
अथ
वीरमित्रोदयस्य श्राद्धप्रकाशः।
<MISSING_FIG href="../books_images/U-IMG-16993500641020.png"/>
॥श्रीगणेशाय नमः॥
गवेषितघनाटवीशिखन्किन्दरो जानकी-
वियोगभरमन्दरोन्मथितचित्तवारांनिधिः।
नवीनघनसुन्दरोल्लसदमन्दरोचिः क्रिया-
द्धनुर्धरधुरन्धरो रघुपुरन्दरो वः शिवम्॥१॥
द्राग्दारिद्र्यवानलव्यतिकरव्यालीढहृद्भिक्षुक
क्षेमाय क्षितिमण्डले समुदितः श्रीवीरसिंहाज्ञया।
विद्वद्वृन्दशिरोमणिर्गुणनिधिः श्रीमित्रमिश्रः कृती
तर्कव्यूहविभावुकः प्रकुरुते श्राद्धप्रकाशं परम्॥२॥
श्राद्धप्रशंसा तत्रादौ ततः श्राद्धस्य लक्षणम्।
श्राद्धस्य यागदानत्वकथनं तदनन्तरम्॥३॥
देवता निर्णयः श्राद्धे विस्तरेण ततः परम्।
विकिरोच्छिष्टसन्त्यागे देवता कीर्त्तिता ततः॥
सन्न्यासस्याङ्गभूते च श्राद्धे ह्युद्देश्यकीर्त्तनम्।
त्यागवाक्यप्रयोगश्च यथावच्च विवेचितम्॥५॥
गन्धादिदाने तदनु सम्प्रदानविनिर्णयः।
श्राद्धद्रव्यार्जनोपायौ कथितौ विहितेतरौ॥६॥
श्राद्धग्राह्याणि धान्यानि श्राद्धवर्ज्यानि चाप्यथ।
ततो मूलफलक्षीरमांसान्युक्तानि च क्रमात्॥७॥
अथ कालविशेषात्तु तृप्तिकारीणि विस्तरात्।
अथान्नानि ततस्तोयं श्राद्धे सम्यग्विवेचितम्॥८॥
श्राद्धे विप्रास्ततस्तत्रानुकल्पाः परिकीर्तिताः।
सन्निकृष्टद्विजत्यागे दूषणं तदनन्तरम्॥९॥
श्राद्धे वर्ज्यास्ततो विप्रा विस्तरेण निरूपिताः।
ततो निमन्त्रणं श्राद्धिविप्रसङ्ख्या ततः परम्॥१०॥
निमन्त्रणात्पूर्वकृत्यं नियमाः कर्तृविप्रयोः।
प्राचीनावीतकथनं जानुपातादिकीर्त्तनम्॥११॥
श्राद्धकाले च जप्यानि कर्त्तुरुतान्यतः परम्।
विहिताश्च निषिद्धाश्च श्राद्धे देशास्ततःस्मृताः॥१२॥
भूमिस्वाम्यन्नदानं च कीर्त्तितं तदनन्तरम्।
श्राद्धदेशादपास्यानि सर्वाण्युक्तान्यतः परम्॥१३॥
दर्भार्घपात्रशय्योपवीतच्छत्रासनादिकम्
श्राद्धोपकरणं सर्वंप्रत्येकमिह कीर्त्तितम्॥१४॥
श्राद्धपूर्वविधातव्यं तदनन्तरमीरितम्।
ततः श्राद्धप्रयोगश्च सप्रमाण उदाहृतः॥१५॥
उच्छिष्टोद्वासनं श्राद्धोत्तरकर्म ततः परम्।
श्राद्धानुकल्पा विप्राणामनुकल्पाश्च कीर्त्तिताः॥१६॥
अथ साङ्कल्पिकश्राद्धं विकृतिश्राद्धनिर्णयः।
अष्टकान्वष्टकावृद्धिश्राद्धानामिह कीर्त्तनम्॥१७॥
कृष्णपक्षेषु सर्वेषु विशिष्य च महालये।
श्राद्धमुक्तंत्रयोदश्यां तत्पक्षे श्राद्धमीरितम्॥१८॥
श्राद्धं शस्त्रहतानां च तदनन्तरमीरितम्।
दौहित्रप्रतिपच्छ्राद्धं शुक्लपक्षे च कीर्त्तितम्॥१९॥
नित्यश्राद्धं वार्षिकं च श्राद्धं समनुकीर्त्तितम्।
श्राद्धप्रभेदा विकृतावूहाश्चाथ निरूपिताः॥२०॥
श्राद्धाधिकारिणां जीवच्छ्राद्धस्य च विनिर्णयः।
सन्न्यासाङ्गस्य तदनु श्राद्धस्येह विवेचनम्॥२१॥
एवमेते पदार्थास्तु मित्रमिश्रेण सूरिणा।
श्राद्धप्रकाशे कथिता विचार्याचार्यसंहिताः॥२२॥
तत्र तावच्छ्राद्धप्रशंसामाह—
सुमन्तुः,
श्राद्धात्परतरं नान्यच्छ्रेयस्करमुदाहृतम्।
तस्मात्सर्वप्रयत्नेन श्राद्धं कुर्याद्विचक्षणः॥
ब्रह्मवैवर्तेऽपि,
देवकार्यादपि सदा पितृकार्यं विशिष्यते।
देवताभ्यः पितॄणां हि पूर्वमाप्यायनं शुभम्॥
पितॄणां पूर्वमाप्यानं च सर्वेषु दैवतकर्मसु कर्माङ्गनान्दीश्राद्धस्य पूर्वमनुष्ठानात् बोध्यम्।
यमोऽपि—
ये यजन्ति पितॄन्देवान् ब्राह्मणांश्च हुताशनान्।
सर्वभूतान्तरात्मानं विष्णुमेव यजन्ति ते॥इति।
ब्रह्मपुराणेऽपि—
यो वा विधानतः श्राद्धं कुर्यात्स्वविभवोचितम्।
आब्रह्मस्तम्बपर्यन्तं जगत्प्रीणाति मानवः॥इति।
नागरखण्डेऽपि—
श्राद्धे तु क्रियमाणे वै न किञ्चिद्व्यर्थतां व्रजेत्।
उच्छिष्टमपि राजेन्द्र ! तस्माच्छ्राद्धं समाचरेत्॥इति।
श्राद्धकर्तव्यतोक्ता ब्रह्मपुराणे—
तस्माच्छ्राद्धं नरो भक्त्या शाकैरपि यथाविधि।
कुर्वीत श्रद्धया तस्य कुले कश्चिन्न सीदति॥इति।
यथाविधि=यथाप्रकारम्।श्राद्धस्वरूपं चाह—
आपस्तम्बः,
अथैतन्मनुः श्राद्धशब्दं कर्म प्रोवाच, प्रजानिश्रेयसार्थंतत्र पितरो देवताः, ब्राह्मणस्त्वाहवनीयार्थे, मासि मासि कार्यम् अपरपक्षस्यापराह्नः श्रेयानिति।
श्राद्धशब्दं = श्राद्धमितिशब्दो वाचको यस्य तत्तथा। त्यक्तद्रव्यप्रतिपत्त्यधिकरणत्वेनाहवनीयकार्यार्थत्वं ब्राह्मणस्य। अपरपक्षस्य = कृष्णपक्षस्य।
बृहस्पतिरपि—
संस्कृतं व्यञ्जनाद्यं च पयोमधुघृतान्वितम्।
श्रद्धया दीयते यस्माच्छ्राद्धं तेन निगद्यते॥इति।
ब्रह्मपुराणे—
देशे काले च पात्रे च श्रद्धया विधिना च यत्।
पितॄनुद्दिश्य विप्रेभ्यो दत्तं श्राद्धमुदाहृतम्॥इति।
दत्तं = प्रतिपादितम्।
मरीचिरपि—
प्रेतान्पितॄनप्युद्दिश्य भोज्यं यत्प्रियमात्मनः।
श्रद्धया दीयते यत्तु तच्छ्राद्धं परिकीर्तितम्॥इति।
प्रेतान्=अकृतसपिण्डीकरणान्। पितॄन्=कृतसपिण्डनान्। दीयते यत्त्विति। अत्र यदिति क्रियाविशेषणम्। तथा च तादृशं यद्दानं तच्छ्राद्धमित्यर्थः। अत्रापस्तम्बादिसकलवचनपर्यालोचनया प्रमीतमात्रोद्देश्यकान्नत्यागविशेषस्य ब्राह्मणाद्यधिकरणकप्रतिपत्यङ्गकस्य श्राद्धपदार्थत्वं प्रतीयते। एव च गन्धादिदानाग्नौकरणविकिरदानानां न श्राद्धत्वं किन्तु तदङ्गत्वमेवेति बोध्यम्।ब्राह्मणप्रतिपत्तेरङ्गत्वं च क्वाचित्कं विवक्षितम्। तेनाग्न्यादिप्रक्षेपाङ्गके श्राद्धविशेषे नाव्याप्तिः। तदङ्गत्वं च वाचनिकातिदेशव्यतिरिक्तप्रमाणविहितं विवक्षितम्। तेन “पिण्डवञ्च पश्चिमा प्रतिपत्तिः” इतिछन्दोगपरिशिष्टवचनातिदिष्टतदङ्गके पित्र्यबलिदाने नातिव्याप्तिः। न च तच्छ्राद्धत्वेन कुतो न सङ्गृह्यत इति वाच्यम्।
श्राद्धं वा पितृयज्ञः स्यात्पित्र्यो बलिरथापि वा।
इति छन्दोगपरिशिष्टस्वरसात्तस्य श्राद्धभिन्नत्वप्रतीतेः। तथाशिष्टव्यवहाराभावाच्च। पिण्डपितृयज्ञस्तु श्राद्धमेव।“तच्छ्राद्धमितरदमावास्यायाम्” इति गोभिलवचनेन तस्यापि श्राद्धत्वोक्तेः। तच्छन्देन पूर्वोक्तपिण्डपितृयज्ञपरामर्शात्। उदाहृतवाक्यैरपि तस्य श्राद्धत्वप्रतीतिः।
पिण्डांस्तु गोजविप्रेभ्यो दद्यादग्नौजलेऽपि वा।
इत्यनेन याज्ञवल्क्यवचनेन तस्यापि ब्राह्मणप्रतिपत्त्यङ्गकत्वसिद्धेः। प्रमीतानामुद्देश्यत्वं च देवतात्वरूपम्। तेन फलभागितया तदुद्देश्यकब्राह्मणसम्प्रदानकान्नत्यागे नातिव्याप्तिः। अन्नपदस्य च भोज्यस्थानीयद्रव्योपलक्षकत्वान्न हिरण्यश्राद्धादावव्याप्तिः। यस्तु नृसिंहपुराणे—
दिव्यपितृभ्यो देवेभ्यः स्वपितृभ्यस्तथैव च।
दत्त्वाश्राद्धमृषिभ्यश्च मनुष्येभ्यस्तथात्मनः॥
इति देवादिश्राद्धे श्राद्धशब्दः स मासाग्निहोत्रवद्गौणस्तद्धर्मप्राप्त्यर्थः। एवं च “दैविकं दशमं स्मृतम्” इतिवक्ष्यमाणश्राद्धविभागोऽपि गौणमुख्यसाधारण एव। न च तत्रापि मुख्यता किं न स्यादितिवाच्यम्। श्राद्धपदव्युत्पादकेषु उदाहृतवाक्येषु प्रेतपदपितृपदयोरेव श्रवणात्प्रमीतमात्रकोद्देश्यकश्राद्धस्यैव मुख्यत्वावगतेः। एवं चान्नोत्सर्गपिण्डदानयोर्द्वयोरपि प्रत्येकं श्राद्धत्वं सिद्ध्यति। अत एव ब्रह्मपुराणेऽ–
नोत्सर्गमुक्त्वा “श्राद्धं कृत्वा प्रयत्नेन” इति अन्नोत्सर्गमात्रे श्राद्धपदप्रयोगो दृश्यते। गयादौपिण्डदानमात्रेऽपि च शिष्टानां श्राद्धपदप्रयोगोऽप्युपपद्यते। अत एवाहिताग्नेः"पित्रर्चनं पिण्डैरेव” इति निगमोऽप्यशक्तौकेवलं पिण्डदानमाह।मघाश्राद्धादौ पिण्डदानं विना श्राद्धसिद्धावपि न तस्य प्राधान्यहानिः। प्रधानस्यैव सतो वचनेन तत्र पर्युदासात्। एतेन—
नित्यश्राद्धमदैव स्यादर्घ्यपिण्डविवर्जितम्।
इतिहारीतवचनान्नित्यश्राद्धे,
भौजङ्गीतिथिमासाद्य यावच्चन्द्रार्कसङ्गमम्।
तत्रापि महती पूजा कर्तव्या पितृदैवते॥
ऋक्षे पिण्डप्रदानं तु ज्येष्ठपुत्री विवर्जयेत्।
इति देवीपुराणान्मघाश्राद्धे च पिण्डदाननिषेधोऽवगम्यते। न चाप्राप्तस्य निषेधो घटते प्राप्तिश्चात्रातिदेशेन स चाङ्गानामेवातः पिण्डदानमङ्गम्। या तु—
अग्नौ हुतेन देवस्थाः पितृस्था द्विजतर्पणैः।
नरकस्थाश्च तृप्यन्ति पिण्डैर्दत्तैस्त्रिभिर्भुवि॥
इतिपिण्डदाने फलश्रुतिः सोऽर्थवादः"अङ्गेषु स्तुतिः परार्थत्वात्” ( अ० ४ पा० ३ अधि० ७ सु० १९ ) इति न्यायात्। गयादौ पिण्डदानमात्रविधिस्तु अङ्गभूतपिण्डदानात्कर्मान्तरं प्रकरणान्तरस्थात्वादिति शूलपाण्याद्युक्तं परास्तम्। पूर्वोदाहृतवाक्यार्थपर्यालोचनया उभयोरपि प्राधान्ये सिद्धे नित्यश्राद्धादौश्राद्धविधिनैवोभयप्राप्तावेकतरपर्युदासोपपत्तेः। तस्मात्सुष्ठूक्तममन्नोत्सर्गपिण्डदानयोः प्राधान्यमिति।
केचित्तु “अग्नौ हुतेन” इत्यादिवचनेऽग्नौकरणस्यापि फलश्रवणात्तदपि प्रधानम्। अग्नौकरणोद्देश्यानां कव्यवाहनादीनां पितृपदेन सङ्ग्रहात्पाणिहोमपक्षे ब्राह्मणाधिकरणकप्रतिपत्तिसम्मवाच्चेत्याहुः।
शूलपाणिस्तु सम्बोधनपदोपनीतान्पित्रादींश्चतुर्थ्यन्तपदेनोद्दिश्य हविस्त्यागः श्राद्धमित्याह। अत्र फलभागित्वरूपोद्देश्यतानिवृत्यर्थं सम्बोधनपदोपनीतानिति विशेषणम्। पित्रादीनित्यादिपदेन देवादयोऽपि विवक्षिताः। तेन देवश्राद्धादावपि श्राद्धशब्दो मुख्य एवेति।
मैथिलास्तु वेदबोधितपात्रालम्भपूर्वकहविस्त्यागः श्राद्धम्। अत्रा-
लम्भो न श्राद्धविशेषणम्। अन्यथा तस्य वेदबोध्यत्वाभावेन तद्घटितश्राद्धस्य वेदाबोध्यत्वापत्तेः किन्तूपलक्षणम्। उपलक्ष्यश्च स्वतो विलक्षणस्त्यागविशेष एव। एतेन यन्मत एकोद्दिष्टे पात्रालम्भो नास्ति तन्मत एकोद्दिष्टश्राद्धे नाव्याप्तिः। नापि सन्न्यासिकर्तृकात्मादिश्राद्धेऽपि सा। “दैविक दशमं स्मृतम्” इति विभागोऽपि च समञ्जसो भवति। पिण्डदानं त्वङ्गमेव।
श्राद्धं कृत्वा प्रयत्नेन त्वराक्रोधविवर्जितः।
उष्णमन्नं द्विजातिभ्यः श्रद्धया प्रतिपादयेत्॥
इत्यादिवाक्येषु आनन्तर्यचाचिक्त्वाप्रत्ययेनान्नोत्सर्गे एव श्राद्धपदप्रयोगात्। “त्रिषु पिण्डः प्रवर्त्तत” इति चाङ्गमुखेन प्रधाननिर्देशः पिण्डपितृयज्ञविषयं वा इत्याहुः।
ननु त्यागो न श्राद्धं किन्तु—
पितॄनुद्दिश्य विप्रेभ्यो दत्त श्राद्धमुदाहृतम्।
इति ब्रह्मपुराणात्,
श्रद्धया दीयते यस्मात्तच्छ्राद्धं परिकीर्त्तितम्।
इति मरीचिवचनात्,
प्रमीतस्य पितुः पुत्रैःश्राद्धं देयं प्रयत्नतः।
इति स्मृत्यन्तरवचनाच्च दानकर्मणो द्रव्यस्यैव श्राद्धत्वावगमात्त्यज्यमानं द्रव्यमेव श्राद्धम्। एवं च—
श्राद्धमामं तु कर्त्तव्यमिति वेदविदां स्थितिः।
इति द्रव्यसामानाधिकरण्यमप्युपपद्यते। न चैवमादिषु श्राद्धशब्दस्य लक्षणया द्रव्यपरत्वं प्रमाणाभावादिति चेत्, न। “श्राद्धं कुर्यात्” इत्यादौ द्रव्यस्य सिद्धत्वेन साक्षाद्भावनान्वयासम्भवात्। क्रियापरत्वेन साक्षादन्वये सम्भवति अनुपस्थितत्यागादिक्रियाद्वारा परम्परान्वयस्थानौचित्यात्। “सोमेन यजेत" इत्यादौ तु बलवत्या प्रसिद्ध्या द्रव्यपरत्वे सोमपदस्यावधारिते सोमस्य श्रौतधात्वर्थद्वारा भावनान्वयो युक्तो भवति। प्रकृते तु श्राद्धशब्दस्य द्रव्ये प्रसिद्ध्यभावादश्रुतधात्वर्थद्वारकपरम्परयान्वयोऽनुचित एव। किञ्च। कुशयवतिलगोधूममांसादिद्रव्यं पित्रादिभ्यः श्रद्धया देयमित्यादिना श्राद्धे विधित्सिद्रव्यस्य प्राप्तत्वात्तत्प्रख्यन्यायेनाग्निहोत्रादिपदवत्कर्मना-
मधेयतैवोचिता। किञ्च नित्यनैमित्तिककाम्यभेदा अग्रे वक्ष्यन्ते ते च प्रायशः कर्मण्येव प्रसिद्धा इत्यतोऽपि कर्मनामता। अत एवाप स्तम्बेन “श्राद्धशब्दं कर्म” इत्युक्तम्।
यत्तु—
प्रमीत पितुः पुत्रैर्देयं श्राद्धं प्रयत्नतः।
इति श्राद्धस्य देयत्वमुक्तम्, यच्च
श्राद्धमामं तु कर्त्तव्यमिति वेदविदां स्थितिः।
इति द्रव्यसामानाधिकरण्यम्, तत् श्राद्धशब्दस्य द्रव्ये लक्षणामभिप्रेत्य। एवं च कर्मनामत्वे सिद्धे—
श्रद्धया दीयते यस्मात्तेन श्राद्धं निगद्यते।
इति बृहस्पतिवाक्यं श्राद्धशब्दस्य योगप्रदर्शनार्थम्। तेनान्यत्र प्रयोगाभावाद्योगवशाच्च योगरूढोऽयं श्राद्धशब्द इति। यद्यपि च—
तस्माच्छ्रद्धां समासाद्य धर्मे धर्मात्समाचरेत्।
इत्यादिविष्णुधर्मोत्तरादिवाक्यैः श्रद्धायाः सर्वकामार्थता तथापि “श्रद्धान्वितः श्राद्धं कुर्वीत” इति कात्यायनेन विशिष्य श्राद्धे श्रद्धायाः पुनरङ्गत्वोक्तेः श्रद्धाविशेषोऽत्राङ्गमिति बोध्यम्। अत एव नन्दिपुराणे—
श्रद्धा माता तु भूतानां श्रद्धा श्राद्धेषु शस्यते।
इति तस्यास्तत्र प्राशस्त्यमुक्तम्। एवं च सकलस्मृत्याद्येकवाक्यतया श्राद्धस्य त्यागरूपत्वे सिद्धे यत्कैश्चिद्ब्राह्मणभोजनस्य श्राद्धपदार्थत्वमुक्तम् तद्विचारणीयम्। न च—
पितृृन्पितामहान्यक्षे भोजनेन यथाक्रमम्।
प्रपितामहान्सर्वांश्च तत्पितॄश्चानुपूर्वशः॥
इति ब्रह्माण्डपुराणे भोजनश्रवणात्तस्यैव श्राद्धत्वमिति वाच्यम्। भोजनपदस्य कर्मव्युत्पत्या—
प्रेतान्पितृृनप्युद्दिश्य भोज्यं यत्प्रियमात्मनः।
श्रद्धया दीयते यत्तु तच्छ्राद्धं परिकीर्तितम्॥
इति मरीच्यादिवचनैकवाक्यतया भोज्यपरत्वात्। अन्यथा प्रपितामहपितॄनुद्दिश्य भोजनाभावेन तत्पितृृंश्चानुपूर्वश इत्यस्यासङ्गतिः स्यादिति। अस्मिन्मते तेषां लेषभागित्वेन त्यागोद्देश्यत्वाच्च विरोधः।
अथ श्राद्धस्य यागदानरूपताविचारः।
तत्र “य एवं विद्वान्पितॄन्यजते” इति यजिप्रयोगदर्शनाद्यागलक्षणसत्वाच्च यागरूपता न च “पितृभ्यो दद्यात्” इतिप्रयोगदर्शनाद्दानरूपताप्यस्येति शूलपाण्युक्तं युक्तम्। श्राद्धस्य परस्वत्वजनकत्वाभावेन तल्लक्षणानाक्रान्तत्वात्। तथाहि। न तावत्तस्य पित्रादिस्वत्वोत्पादकत्वम्। तेषां ममेदमितिस्वीकारासम्भवात्। पित्रादीनां भोक्तृत्वोक्तिस्तु शूलपाणेर्देवताधिकरणविरुद्धैव। वेदान्तमतरीत्या पित्रादीनां भोक्तृत्वस्वीकारेऽपि “नह वै देवा अश्नन्ति न पिबन्ति एतदेवामृतं दृष्ट्वा तृष्यन्ति’ इत्यादिपर्यालोचनया स्वत्वस्वीकारस्त्वप्रमाणक एव। कथमन्यथा वेदान्तमते यागदानयोर्भेदः। नापि ब्राह्मणस्वत्वोत्पादकत्वं श्राद्धस्य। तेषामनुद्देश्यत्वात्। ब्राह्मणस्वत्वं तु त्यक्तद्रव्यप्रतिपत्त्या परमुत्पद्यतां यथा देवोद्देशेन त्यक्तहिरण्यादेः ब्राह्मणे प्रतिपादनादेव ब्राह्मणस्वत्वं न तु देवोद्देश्यकत्यागात्। ददातिप्रयोगस्तु लाक्षणिको व्याख्येयः। अन्ये तु “पितृवदुपवेश्य” इत्याश्वलायनसूत्रेण ब्राह्मणे पित्रभेदबुद्धेरपि श्राद्धाङ्गत्वप्रतिपादनात्पितुरुद्देश्यकत्यागेनापि ब्राह्मणगतस्वत्वोरपत्तेः सुवचत्वात् ददातिरपि मुख्य एव। अतश्च यागदानरूपतेत्याहुः।
अथ पित्रादीना प्रत्येकं देवतात्वनिर्णयः।
तत्र तावत् “असावेतत्त इति यजमानस्य पित्रे, असावेतत्त इति पितामहायासावेतत्त इति प्रपितामहाय” इति श्रुत्या, “नमो विश्वेभ्यो देवेभ्य इत्यन्नमादौ प्राङ्मुखयोर्निवेद्य पित्रे पितामहाय प्रपितामहाय नामगोत्राभ्यामुदङ्मुखेषु” इत्यादिस्मृत्या च प्रत्येकं देवतात्वावगतेः “अथ श्राद्धममावास्यायां पितृभ्यो दद्यात्” इति गौतमोक्तेः “पितृभ्यो दद्याद्ब्राह्मणान् सन्निपात्य” इतिवसिष्ठोक्तेश्च सहितानां तदवगतेस्तुल्यबलत्वाद्विकल्प इति केचित्। वस्तुतस्तु प्रत्येकमेव देवतात्वमुक्तवचनात् न व्यासक्तम्। “पितृभ्यो दद्यात्’’ इत्यस्य पित्रादीनां प्रत्येकंक्रियान्वयेऽपि ‘गर्गा भोज्यन्तां’ ‘ऋत्विग्भ्यो दक्षिणां ददाति’ इत्यादिवदुपपत्तेः। न च गर्गादीनामुद्देश्यत्वात्तद्गतसाहित्यविवक्षाभावेन युक्तः प्रत्येकं क्रियान्वयः। प्रकृते तु देवताया उपादेयत्वात्साहित्यं विवक्षितमेवेतिवाच्यम्। ‘पितृभ्यो दद्यात्’ इत्यत्र पितृपदे देवताविधायित्वस्य तवाप्यसम्मतत्वेन तस्यानुवादत्वात्। अनुवाद्यवि-
पित्रादीनां प्रत्येकं देवतात्वनिर्णयः।
शेषणस्य च साहित्यस्याविवक्षितत्वात् इति बहवः। विश्वेषां देवानां तु मिलितानामेव देवतात्वमुक्तवचनात्।
एतद्वो अन्नमित्युक्त्वा विश्वान्देवांश्च संयजेत्।
इति ब्रह्मपुराणाच्च तथैव प्रतीतेरिति। तदपि देवतात्वं न सपत्नीकानाम्। पित्रे पितामहाय प्रपितामहायेत्यादिदेवताविधिषु तदश्रवणात् निरपेक्षश्रुतिबाधप्रसङ्गाच्च। न च—
सपिण्डीकरणादूर्ध्वं यत्पितृभ्यः प्रदीयते।
सर्वत्रांशहरा माता इति धर्मेषु निश्चयः॥
इति शातातपवचने मातुरंशहरत्वोक्तेस्तस्या अपि देवतात्वमिति वाच्यम्। अत्र हि यजमानेन पित्रुद्देशेन त्यक्तं यद्द्रव्यं तदंशहरत्वं मातुः प्रतिपाद्यते नतु यजमानद्रव्यांशहरत्वम्। तेन यजमानेन पित्रुद्देशेन त्यक्तस्य द्रव्यांशस्यांशं कामं माता पितुः सकाशाद् गृह्णातु न त्वेतावता याजमाने द्रव्यत्यागे तस्या देवतात्वसिद्धिः। अत एव त्रयस्त्रिंशतामग्निमुद्दिश्य त्यक्तेन द्रव्येण माद्यतामपि न देवतात्वमित्युक्तम्—“त्रिंशच्च परार्थत्वात्” (अ० ३ पा० २ अधि० १५ सु० ३६) इत्यत्र। नच—
अन्वष्टकासु वृद्धौ च गयायां च क्षयेऽहनि।
मातुः श्राद्धं पृथक्कुर्यादन्यत्र पतिना सह॥
इति शातातपेन पतिना सहेत्यभिधानात्सपत्नीकानां देवतात्वमिति वाच्यम्। तथा सति “सहयुक्तेऽप्रधाने” (२/३/१९) इति अप्रधानविहिततृतीयया प्रत्युत्तरप्राधान्यापत्तेः सभर्तृके मातरित्यादिप्रयोगप्रसङ्गात्। नचैतदिष्टम्। वचनं—
स्वेन भर्त्रा सह श्राद्धं माता भुङ्क्ते स्वधामयम्।
पितामही च स्वेनैव तथैव प्रपितामही॥
इति भोग एव मातुः पितृसहभावबोधकबृहस्पतिवचनैकवाक्यतयाभोगे साहित्यमात्रपरं व्याख्येयम्। मातुरितिसम्बन्धसामान्याभिधायिन्याः षष्ठ्या भोगत्वरूप सम्बन्धविशेषपरतयोपपत्तेरिति।
न योषिद्भ्यः पृथक् दद्यादवसानदिनादृते।
स्वभर्तृपिण्डमात्राभ्यस्तृप्तिरासां यतः स्मृता॥
इति छन्दोगपरिशिष्टेन केवलभर्तृसम्बन्धिपिण्डभागस्यैव पत्नीतृप्तिहेतुत्वेनाभिधानाच्च न सपत्नीकानां देवतात्वमिति कल्पतरुप्रभृतयः।
हेमाद्रिप्रभृतयो दाक्षिणात्यास्तु “न योषिद्भ्यः पृथक् दद्यात्” इत्यत्र पृथग्दानस्य लोकतोऽप्राप्तेर्निषेधे च विकल्पापत्तेर्न पृथग्दद्यादिति निषेधायोगादपृथग्दद्यादेकस्यामेव श्राद्धव्यक्तौ पितॄन् तद्योषितश्च देवतात्वेनोद्दिशेदिति विधीयते। अतश्च सपत्नीकानां देवतात्वसिद्धिः। यद्यपि च पतिना सहेति तृतीयाबलात्पत्युरुपसर्जनत्वं प्रतीयते तथापि बहुभिः प्रमाणैः पत्न्या एवोपसर्जनत्वप्रतीतेस्तन्नात्र विवक्षितमित्याहुः। एवं चास्मत्पितर्यज्शज्ञदत्तशर्म्मन् अमुकगोत्र सपत्नीकेत्यादि प्रयोगवाक्यमनुसन्धेयम्। वस्तुतस्तु—
सम्बन्धनामगोत्राणि यथावत्परिकीर्तयेत्। इति,
नामगोत्रं पितॄणां हि प्रापकं हव्यकव्ययोः।
इत्यादिवचनैस्तत्पत्नीनामपि गोत्रादि कीर्तनीयमेव। तथा चास्मत्पितर्यज्ञदत्तशर्मन् अमुकगोत्रया सावित्रीनामिकया सहितैतत्तुभ्यमित्यादि प्रयोगोऽनुसन्धेयः। एवं च बहुपत्नीकस्याप्यस्मिन्पक्षे अमुकामुकनामिकाभिः सहितैतत्तुभ्यमित्यादिप्रयोगोऽपि ज्ञेयः। “तृप्तिरासाम्” इत्यनेन सर्वासामेव भोगश्रवणात्। न च “माता भुङ्क्ते” इत्यनेन जनन्या एव भोगोऽभिधीयते न सर्वासामिति वाव्यम्।
बह्वीनामे1कपत्नीनामेका चेत्पुत्रिणी भवेत्।
सर्वास्तास्तेन पुत्रेण प्राह पुत्रवतीर्मनुः॥ (अ०९ श्लो०१८३)
इति मनुवचनेन सपत्नीपुत्रेण सपत्न्यन्तरस्य पुत्रवतीत्वातिदेशे सिद्धे मातृकार्यातिदेशफलकस्य मातृत्वातिदेशस्याप्यर्थात्सिद्धौ पुत्रदत्ते पितृपिण्डे जनन्या इव विमातुर्भोगसिद्धेः। न चैतस्य वचनस्य—
पितृव्यभ्रातृमातृृणामपुत्राणां तथैव च।
मातामहस्यापुत्रस्य श्राद्धादि पितृवद्भवेत्॥
इति हेमाद्रितजातूकर्ण्यवचनैकवाक्यतयाऽपुत्रविमातर्येव पुत्रवतीत्वातिदेशविध्यर्थकत्वमिति वाच्यम्। “सर्वाः पितृपत्न्योमातर” इति सुमन्तुवाक्ये सर्वपदेन सपुत्राया अपि मातृत्वातिदेशाज्जननीवच्छ्राद्धसिद्धेरिति बहवः। अन्वष्टकायां सपत्नमातुरपि श्राद्धमभिदधानो नारायणवृत्तिकारोऽप्येवम्। हेमाद्रिस्तु सुमन्तुवाक्यस्य विवाहप्रकरणस्थत्वेन तत्रैव सापिण्ड्यविधानार्थत्वात् “माता भुङ्क्ते” इत्यत्र
वस्वादीनां देवतात्वविचारः।
च मातृपदस्य जनन्यामेव शक्तेः, “एका चेत्पुत्रिणी” इत्यस्य च जातुकर्ण्यवचनैकवाक्यतयाऽपुत्रविमातृविषयत्वात्सपुत्रायास्तस्याः प्रापकवाक्याभावेन न कुत्रापि श्राद्धप्रसक्तिरस्तीत्याह। वस्तुतस्तु “एका चेत्” इतिवचनस्यापि—
अपुत्रा ये मृताः केचित्स्त्रियो वा पुरुषाश्च ये।
तेषामपि च देयं स्यादेकोद्दिष्टं न पार्वणम्॥
इत्यापस्तम्बवचनेनापुत्राणामपि तासां पार्वणनिषेधान्नपार्वणविषयत्वं किन्तु आवश्यकसांवत्सरिकश्राद्धादिविषयत्वम्। पुन्नामकनरकत्राणरूपफलप्रतिपादनार्थत्वं चेति सर्वमनवद्यम्।
अथ वस्वादीनां देवतात्वविचारः।
ननु न जनकादीनां श्राद्धे देवतात्वं किन्तु वसुरुद्रादित्यादीनां पित्रादिपदोपनीतानाम्। यथाह—
मनुः,
वसून्वदन्ति हि पितॄन् रुद्रांश्चैव पितामहान्।
प्रपितामहांस्तथादित्यान् श्रुतिरेषा सनातनी॥ इति।
याज्ञवल्क्यः—( अ० १ श्रा०प्र०श्लो०२६९)
वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः।
प्रीणयन्ति मनुष्याणां पितॄन् श्राद्धेन तर्पिताः॥
हेमाद्रौ नन्दिपुराणे—
अग्निष्वात्ता ब्राह्मणानां पितरः परिकीर्त्तिताः।
राज्ञां बर्हिषदो नाम विशां काव्याः प्रकीर्तिताः॥
सुकालिनस्तु शूद्राणां व्यामा म्लेच्छान्त्यजादिषु।
तथा—
विष्णुः पितास्य जगतो दिव्यो यज्ञः स एव च।
ब्रह्मा पितामहो ज्ञेयो ह्यहं च प्रपितामहः॥
अहं=रुद्रः। महाभारते विष्णुवाक्यम्—
पिता पितामहश्चैव तथैव प्रपितामहः।
अहमेवात्र विशेयस्त्रिषु पिण्डेषु संस्थितः॥
विष्णुधर्मोत्तरे—
पितुः पैतामहः पिण्डो वासुदेवः प्रकीर्त्तितः।
पैतामहश्चनिर्दिष्टस्तथा सङ्कर्षणः प्रभुः॥
पितृपिण्डश्च विज्ञेयः प्रद्युम्नश्चापराजितः।
आत्माऽनिरुद्धो विज्ञेयः पिण्डनिर्वपणे बुधैः॥
आत्मा=श्राद्धकर्त्ता।
हेमाद्रौ स्मृतिः—
प्रथमो वरुणो ज्ञेयः प्राजापत्यस्तथापरः।
तृतीयोऽग्निः स्मृतः पिण्ड एष पिण्डविधिः स्मृतः॥
अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः।
न्यस्तशस्त्रा महाभागाः पितरः पूर्वदेवताः॥
यस्मादुत्पत्तिरेतेषां सर्वेषामप्यशेषतः।
ये च यैरुपचर्य्याः स्युर्नियमैस्तान्निबोधत॥
मनोर्हिरण्यगर्भस्य ये मरीच्यादयः सुताः।
तेषामृषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः॥
विराट्सुताः सोमषदः साध्यानां पितरः स्मृताः।
अग्निष्वात्ताञ्च देवानां मरीच्या लोकविश्रुताः॥
दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम्।
सुपर्णकिन्नराणां च स्मृता बर्हिषदोऽत्रिजाः।
सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः॥
वैश्यानामाज्यपा नाम शूद्राणां तु सुकालिनः।
सोमपास्तु कवेः पुत्रा हविष्मन्तोऽङ्गिरः सुताः।
पुलस्त्यस्याज्यपाः पुत्रा वसिष्ठस्य सुकालिनः॥ इति।
पूर्वदेवताः अनादिदेवताः। हिरण्यगर्भस्य तदपत्यस्य।
मरीचिमत्र्यङ्गिरसी पुलस्त्यं पुलहं ऋतुम्।
प्रचेतसं वसिष्ठं च भृगुं नारदमेवच॥ ( अ १ श्लो० ३५ )
इत्यनेन मनुना पूर्वमुक्ताः। विराट्सुताःहिरण्यगर्भपुत्रस्य मनुपितुर्विराजः सुताः। सोमषद सोमषन्नामानः। एते साध्यानां देवविशेषाणां पितरो भवन्ति। अग्निष्वात्ता एतन्नामानः मरीच्या मरीचिपुत्रा देवानां पितर इत्यनुषङ्गः। एवमग्रेऽपि। श्राद्धप्रकरण एतेषामुत्पत्त्यादिकथनमेतज्ज्ञानस्यापि श्राद्धाङ्गत्वज्ञापनार्थं ज्ञेयम्। तस्मात्कथं जनकादीनां देवतात्वमितिचेत्, अत्रोच्यते। “असावेतत्तइति यजमानस्य पित्रेऽसावेतत्त इति पितामहायासावेतत्त इति प्रपितामहाय” इत्यादिश्रुतेः “एतत्तेऽसौ ये चत्वामत्रान्विति तस्मै तस्मै य
पार्वणश्राद्धे देवतानिर्णयः।
एषां प्रेताः स्युः” इत्यादिकल्पसूत्रादिभ्यश्च जनकादीनां देवतात्वावगमात् स्मृतिपुराणादौ वस्वादिपदप्रयोगस्तद्रूपतया ध्यानार्थः। तथा च पैठीनसिः,
य एवं विद्वान्पितॄन्यजत इति।
एवं =वस्वादिरूपतया।
गोत्रनामभिरामन्त्र्य पितॄनर्घ्यंप्रदापयेत्। इति,
ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत्। इति,
यस्य पिता प्रेतः स्यात्स पित्रे पिण्डं निधाय पितामहात्परं द्वाभ्यां दद्यात्।
इति छन्दोगपरिशिष्ट- मनु- विष्णुस्मृतिषु पितॄणां नामगोत्रादिभिरामन्त्रणादिविधानाद्वसुरुद्रादीनां च तदभावाज्जनकादीनामेव देवतात्वम्। केचित्तु यस्य पित्रादयस्त्रयोऽपि जीवन्ति पातित्यादिना श्राद्धानर्हा वा तत्कर्त्तृकतीर्थश्राद्धादौ देवता याज्ञवल्क्यादिवचनैर्विधीयन्त इत्याहुः।
अथ पार्वणश्राद्धे देवतानिर्णयः।
तत्र छन्दोगपरिशिष्टम्—
कर्षूसमन्वितं मुक्त्वा तथाद्यंश्राद्धषोडशम्।
प्रत्याब्दिकं च शेषेषु पिण्डाः स्युः षडिति स्थितिः॥ इति।
कर्षूसमन्वितम्=अन्वष्टकाश्राद्धम्।
कर्षूःखनेदिति गोभिलेन तत्र कर्षूविधानात्। कर्षूर्गर्ताः। कर्षूसमन्वितसपिण्डीकरणम्। तत्रापि तत्सत्त्वादिति हेमाद्रिः। तदयुक्तम्। श्राद्धषोडशमित्यनेनैव तत्प्राप्तेः। यद्यपि च स्मृत्यन्तरे सपिण्डकिरणस्य षोडशश्राद्धेभ्यो भेदः स्मर्यते तथापि छन्दोगपरिशिष्टवाक्ये न तद्भेदः।
द्वादश प्रतिमास्यानि आद्यषाण्मासिके तथा।
सपिण्डीकरणं चेति प्रेतश्राद्धानि षोडश॥
इतिछन्दोगपरिशिष्ट एव सपिण्डीकरणस्य षोडशश्राद्धान्तर्भावाभिधानात्। अद्यषाण्मासिके इत्यत्रैकादशाहे क्रियमाण श्राद्धमाद्यशब्दार्थः। आद्यंश्राद्धषोडशमित्यत्र षोडशश्राद्धविशेषणमाद्यमिति। तेषां चाद्यत्वं सकलपार्वणेभ्य आदावनुष्ठेयत्वादिति परिशिष्टप्रकाशः। तथा च श्राद्धषोडशमिति हेमाद्रौ पाठः। सर्वथान्वष्टकादिव्यति-
रिक्तपार्वणेषु षट्दैवत्यता सिध्यति। अत एव मात्स्ये पिण्डान्वहार्यकं प्रक्रम्य—
षट् च तस्माद्धविःशेषात्पिण्डान्दत्वा तथोदकम्। इत्युक्तम्।
विष्णुपुराणेऽपि—
पितृमातामहानां च भोजयेच्चाप्युदङ्मुखान्। इति।
बहुवचनं प्रभृत्यर्थम्।पितॄणां मातामहानां चेत्यर्थः।
तथा देवलः—
एकेनापि हि विप्रेण षट्पिण्डं श्राद्धमाचरेत्।
षडर्घ्यान्दापयेत्तत्र षड्भ्यो दद्यात्तथाशनम्॥ इति।
येषां तु गृह्येऽपि पित्रादित्रिदैवत्यमेव श्राद्धं विहितंतैरपि मातामहश्राद्धं कर्त्तव्यमेव।
पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम्।
अविशेषेण कर्त्तव्यं विशेषान्नरकं व्रजेत्॥
इत्यकरणे धौम्यादिस्मृतौ दोषाभिधानात्।
केचित्तु—
बाहुल्यं वा स्वगृह्योक्तंयस्य यावत्प्रचोदितम्।
तस्य तावति शास्त्रार्थे कृते सर्वः कृतो भवेत्॥
इति छन्दोगपरिशिष्टवचनात्तैरपि पित्रादित्रयस्यैव श्राद्धं कार्यम्। धौम्यवाक्यं तु यच्छाखीयगृह्ये मातामहश्राद्धमुक्तं तद्गृह्यैकवाक्यतया तच्छाखीयपरमित्याहुः। तन्न। तथा सति धौम्यवाक्यस्यानुवादमात्रत्वेनानर्थक्यापत्तेः। वस्तुतस्तु तस्य तावतीत्युत्तरार्द्धेतावन्मात्रकरणस्यानुकल्पत्वं स्वरसतः प्रतीयते सर्वकरणस्य तु मुख्यत्वं तदपि च न सर्वशाखोक्तपदार्थानुष्ठानेन तेषां तच्छाखीयं प्रत्येव प्रवृत्तेः। किन्तु शाखाविशेषमनधिकृत्य प्रवृत्तपुराणस्मृत्याद्युक्तपदार्थानुष्ठानेन, तेन मातामहश्राद्धमपीतरसाधारणपदार्थवत्साधारणमित्युपसंहर्त्तव्यम्।
अन्ये तु मातामहश्राद्धं पुत्रिकापुत्रस्य धनग्राहिणो वा दौहित्रस्यावश्यकं नान्येषाम्। तथा च—
बौधायनः,
पुत्रिकायां न यो जातो यो वा रिक्थं न विन्दति।
न कुर्यादथवा कुर्यान्मातामहपुरः सरम्॥ इति,
यमः—
कुर्यान्मातामहश्राद्धं नियमात्पुत्रिकासुतः। इति,
मनुः—(अ० ९श्लो०१३२)
दौहित्रो ह्यखिलं रिक्थमपुत्रस्य पितुर्हरेत्।
स एव दद्याद् द्वौ पिण्डौ पित्रे मातामहाय च॥
लौगाक्षिरपि—
श्राद्ध मातामहानां च अवश्यं धनहारिणा।
दौहित्रेण विधिज्ञेन कर्त्तव्य विधिवत्सदा॥
इत्याहुः।
पुत्रिकापुत्रश्चाधिकारिनिर्णये वक्ष्यते। इति प्रकृतिपार्वणे देवता। एवं विकृतावपि विशेषवचनाभावे बोध्यम्।
अथ जीवत्पितृकश्राद्धे देवतानिर्णयः।
विष्णुः—
पितरि जीवति यः श्राद्धं कुर्याद्यस्य पिता प्रेतः स्यात्स पित्रे पिण्डं निधाय पितामहात्पराभ्यां द्वाभ्यां दद्यात्। यस्य पिता पितामहश्चप्रेतौ स्यातां स ताभ्यां पिण्डं दत्वा पितामहपितामहाय दद्यात्। यस्य पितामहः प्रेतः स्यात्स तस्मै पिण्डंनिधाय प्रपितामहात्परं द्वाभ्यां दद्यात्। यस्य पिता प्रपितामहश्च प्रेतौ स्यातां स ताभ्यां पिण्डौ दत्त्वा पितामहप्रपितामहाय दद्यादिति।
पितरि जीवति पितर्येव जीवतीत्यर्थः। एवमुत्तरत्र ‘यः श्राद्धं कुर्यात्’ इति यच्छन्दादकरणपक्षोऽपि सूचितः।
यथा च—
कात्यायनः,
सपितुः पितृकृत्येषु अधिकारो न विद्यते।
पितुः पितृभ्यो वा दद्यात्सपितेत्यपरा श्रुतिः॥ इति।
हारीतोऽपि—
जीवे पितरि वै पुत्रः श्राद्धकालं विवर्जयेत्।
येषां वापि पिता दद्यात्तेषामेके प्रचक्षते॥ इति।
अन्तर्हितेभ्योऽनन्तर्हितेभ्यो वा प्रेतेभ्यस्त्रिभ्यः क्रमेण श्राद्धं कार्यमिति विष्णुवचनसमुदायार्थः। मतान्तरमाह—
मनुः,—(अ० ३ श्लो० २२०/२२१/२२२)
ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत्।
विप्रवद्वापि तं श्राद्धे स्वकं पितरमाशयेत्॥
पिता यस्य तु वृत्तः स्याज्जीवेच्चापि पितामहः।
पितुः स नाम सङ्कीर्त्त्य कीर्त्तयेत्प्रपितामहम्॥
पितामहो वा तच्छ्राद्धं भुञ्जीतेत्यब्रवीन्मनुः।
कामं वा तदनुज्ञातः स्वयमेव समाचरेत्॥ इति।
ध्रियमाणे=जीवति। पूर्वेषां=पितुः पित्रादीनाम्। अथ वा स्वपितरमाशयेत्=भोजयेत्। विप्रवत्= गन्धाद्यर्चनपूर्वकम्। विप्रविहितनिमन्त्रणब्रह्मचर्यादिनियमयुक्तमिति मेधातिथिः। पितामहप्रपितामहस्थाने तु ब्राह्मणान्भोजयेत्। पितुर्भोजनपक्षे न पिण्डदानम्—
पितरं भोजयित्वा तु पिण्डौ निवृणुयात्परौ।
इति यज्ञपार्श्वपरिशिष्टात्। अनेन स्वकं पितरमादितो भोजयित्वा तदूर्ध्वंपुरुषत्रयस्य श्राद्धं कर्त्तव्यमिति हलायुधव्याख्यानं प्रशस्तम्। नाम सङ्कीर्त्येति श्राद्धोपलक्षणार्थम्। प्रपितामहमिति वृद्धप्रपितामहस्याप्युपलक्षणम्।
त्रयाणामुदकं कार्यं त्रिषु पिण्डः प्रवर्त्तते।
चतुर्थः सम्प्रदातैषां पञ्चमो नोपपद्यते। (अ० श्लो०१८६)
इति मनुक्तेः। “यस्य पिता प्रेतः स्यात्’ इत्युदाहृतविष्णुवचनाच्च। काम वेति। तदनुज्ञातः तेन जीवता पित्रा पितामहेन वा। उपलक्षणमेतज्जीवमात्रस्य। कामम्=अभिलषितं समाचरेत्। तदयमर्थः। यो जीवति तदाज्ञाग्रहणमेवतच्छ्राद्धस्थानीयम्। तथा च पितरि जीवति पितुः राज्ञांगृहीत्वा पितामहप्रपितामहयोरेव श्राद्धं कुर्यात्। पितामहे जीवति पित्रे श्राद्धं दत्त्वा पितामहाज्ञां गृहीत्वा प्रपितामहायैव श्राद्धं दद्यादिति। एवमन्यत्र। एवं च जीवन्तमतिक्रम्य दद्याज्जीवन्तं वा भोजयेदाज्ञांवा गृह्णीयादितिपक्षत्रयं सिद्धम्। तत्र भोजनपक्षः कलौ निषिद्धः।
प्रत्यक्षमर्चनं श्राद्धे निषिद्धमनुरब्रवीत्।
इति पृथ्वीचन्द्रोदये भविष्योक्तेः। चन्द्रिकायामप्येवम्। एवं जीवन्मातामहस्य।
मातामहानामप्येवं श्राद्धं कुर्याद्विचक्षणः।
इति जीवत्पितृकश्राद्धोक्तक्रमातिदेशकविष्णुवचनात्। पितरि जीवति स्वमातरि मातामहे च मृते पितुः पितृभ्य इव पितुरेव मातृमातामहयोर्दातव्यम्।
जीवत्पितृकश्राद्धे देवतानिर्णयः।
येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः।
इत्यविशेषविधानादिति दाक्षिणात्या। मदनरत्नादौ तु स्वमातृमातामहेभ्य एव दद्यादित्युक्तम्। तस्यायमाशयः। यत्र हि “न जीवन्तमतिक्रम्य किञ्चिद्दद्यात्” इतिवचनेन जीवदतिक्रमदोषात् श्राद्धलोपप्रसक्तिस्तत्रैव “येभ्य एव पिता दद्यात्” इत्यादिवचनैर्देवतान्तरं विधीयते। न च जीवत्पितृकेण स्वमातृमातामहादिश्राद्धकरणे जीवदतिक्रमोऽस्ति, येन पितुर्मात्रादीनां देवतात्वं विधीयेत। “पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम्।” इति मातामहश्राद्धविधायकवृद्धयाज्ञवल्क्यवचनेन श्राद्धकर्तृमातामहानामेव श्राद्धविधानाच्चन पितुर्मातामहानां देवतात्वम्। एवं पितामहादिषु जीवत्स्वपि द्रष्टव्यम्। मृते पितरि जीवन्मातृकः पितामह्यादिभ्यो दद्यादिति स्मृतितत्वादयः प्राच्याः। दाक्षिणात्यास्तु—
पितृवर्गे मातृवर्गे तथा मातामहस्य च।
जीवेत्तु यदि वर्गाद्यस्तं वर्गे तु परित्यजेत्॥
इति वचनात्तद्वर्गमेव स्वजेदित्याहुः।
अत्र “जीवे पितरि” इत्यादिवचनाज्जीवत्पितृकस्य श्राद्धविकल्पे प्राप्ते क्वचित्करणपक्षनियममाह—
कात्यायनः,
ब्राह्मणादिहते ताते पतिते सङ्गवर्जिते।
व्युत्क्रमाच्च मृते देयं येभ्य एव ददात्यसौ॥ इति॥
अत्रादिपदेन चण्डालादिग्रहणम्। पतिते जीवत्यपि। सङ्गवर्जिते=प्रवजिते जीवति। अत्र पतितो महापातकी ब्राह्मणादिहतानां पृथगुपादानात्। व्युत्क्रमः=पितामहादौ जीवति पित्रादिमरणे। अयमर्थः—
व्युत्क्रमाच्च प्रमीतानां नैव कार्या सपिण्डता।
इति वचनेन व्युत्क्रममृतस्य सपिण्डीकरणनिषेधात्तस्य पितृत्वाप्राप्तेः स जीवत्पितृकतुल्यत्वाद्येभ्यः पितामहादिभ्यो ददाति तेभ्यो दद्यादिति। वस्तुतस्तु “यस्य पिता प्रेतः स्यात्स पित्रे पिण्डं निधाय” इत्यादिविष्णुवचने पितुरपि श्राद्धविधानान्नेदृशी व्याख्यायुक्ता, किन्तु ब्राह्मणहतादिसाहचर्यात् व्युत्क्रमाच्छास्त्रमतिक्रम्योवरभेदादिनेति व्याख्येयम्।
यदप्युक्त जीवति पितामहादौ पित्रादेःसपिण्डीकरणं नास्तीति, तदप्यसत्।
मृते पितरि यस्याथ विद्यते च पितामहः।
तेन देयास्त्रयः पिण्डाः प्रपितामहपूर्वकाः॥
तेभ्यस्तु पैतृकः पिण्डो नियोक्तव्यश्च पूर्ववत्—
इति सपिण्डीकरणं प्रक्रम्य ब्रह्मपुराणे तस्यापि सपिण्डीकरणोक्तेः।
मैत्रायणीयपरिशिष्टे त्वन्यत्राप्युक्तो नियमः।
उद्वाहे पुत्रजनने पित्र्येष्ट्यां सौमिके मखे।
तीर्थे ब्राह्मण आयाते षडेते जीवतः पितुः॥
जीवतः पितुः पुत्रस्येति शेषः। अनादरेण वा षष्ठ्यर्थः। जीवन्तमनादृत्य तदूर्ध्वपितृदेवत्यकर्मकाला इत्यर्थः। उद्वाहे=द्वितीयादिविवाहे।
नान्दीश्राद्धं पिता कुर्यादाद्ये पाणिग्रहे बुधः।
अत ऊर्ध्वं प्रकुर्वीत स्वयमेव तु नान्दिकम्॥
इतिस्मृतेः। पुत्रजननं नामकरणादीनामुपलक्षणमिति निबन्धकाराः। पित्र्येष्टिश्चातुर्मास्येषु साकमेधपर्वणि प्रसिद्धा। सौमिके मखे= तृतीयसवने सत्रेषु नाराशंसेषु पुरोडाशशकलपिण्डदाने। तीर्थे =तत्प्राप्तौ। ब्राह्मण आयाते तत्सम्पत्तौ। “द्रव्य ब्राह्मणसम्पत्तिः" इतियाज्ञवल्क्येन तत्सम्पत्तेरपि श्राद्धकालतोक्तेः।
स्मृत्यन्तरमपि,
वृद्धौ तीर्थे च संन्यस्ते ताते च पतिते सति।
येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः॥ इति।
यत्तु सुमन्तुनोतम्—
न जीवत्पितृकः कुर्याच्छ्राद्धमग्निमृते द्विजः।
येभ्य एव पिता दद्यात्तेभ्यः कुर्वीत साग्निकः॥
इति जीवत्पितृकस्य श्राद्धं नास्तीति तद्वृद्धिश्राद्धेतरविषयम्।
अनग्निकोऽपि कुर्वीत जन्मादौ वृद्धिकर्मणि।
येभ्य एव पिता दद्यात्तानेवोद्दिश्य पार्वणम्।
इतिहारीते तस्यापि वृद्धिश्राद्धोक्तेः। पार्वणं तद्धर्मकम्। जीवत्पितृक इति श्राद्धे देवतात्वेनाधिकारी जीवत्पिता यस्य स इत्यर्थः। तेन संन्यस्तपतितपितृकस्य निरग्नेरपि श्राद्धाधिकारसिद्धिः। क्वचित्कर-
द्विपितृकश्राद्धनिर्णयः
णपक्षे नियममाह—
लौगाक्षिः,
दर्शश्राद्धं गयाश्राद्धं श्राद्धं चापरपक्षिकम्।
न जीवत्पितृकः कुर्यात्तिलैः कृष्णैश्च तर्पणम्॥ इति।
द्विपितृकश्राद्धनिर्णयः।
क्र
तुरपि,
अष्टकादिषु सङ्क्रान्तौ मन्वादिषु युगादिषु।
चन्द्रसूर्यग्रहे पाते स्वेच्छया राजयोगतः॥
जीवत्पिता नैव कुर्याच्छ्राद्धंकाम्यं तथाखिलम्। इति।
अथ द्विपितृकश्राद्धनिर्णयः।
मनु.,
तत्र द्विपितृकमाह—बौधायनः,
मृतस्य च प्रसुतो यः क्लोषस्य व्याधितस्य च।
अन्येनानुमते वा स्यात्स्वक्षेत्रे क्षेत्रजः सुतः॥
स एव द्विपिता द्विगोत्रश्च, मृतादीनां क्षेत्रेषु अन्येन यः प्रसूतः स क्षेत्रज इत्यर्थः। अत्रविशेषमाह—
हारीतः.
जीवति क्षेत्रजमाद्दुरस्वातन्त्र्यान्मृते द्व्यामुध्यायणमगुप्तबीजत्वादिति। जीवत्यजीवत्यपि क्रियाभ्युपगमात् द्विपितृको भवतीत्याह—
क्रियाभ्युपगमात्त्वेवं2 बीजार्थं यत्प्रदीयते।
तस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च॥ (अ०९. श्लो५३ )
अपुत्राभ्यां बीजिक्षेत्रिभ्यां मम क्षेत्र तव बीजम् इत्येवंनियोगेनोत्पादित उभयो. पुत्रो भवतीत्यर्थः। तत्र—
साङ्ख्यायनः—उभावेकस्मिन्पिण्डे पितृभेद इति।
उभौ=बीजिक्षेत्रिणौ \। एकस्मिम्पिण्डे सङ्कीर्त्तये दित्यर्थः—
हारीतः,
नाबीजं क्षेत्रं फलति नाक्षेत्र बीजं रोहति उभयदर्शनात् उभयोरपत्यमित्यपरे तेषामुत्पादयितुः प्रथमः प्रवरो भवति द्वौ द्वौ पिण्डौ निर्वापे दयुरेकपिण्डे वा द्वावनुकीर्तयेत् द्वितीये पुत्रस्तृतीये पौत्र इति। उभयोरपत्यमिति क्रियानियमे बोध्यम् \। तेषां=बीजिसेत्रिणां पितॄणां मध्ये उत्पादयितुः बीजिनः प्रथमः प्रवरो भवति ततः क्षेत्रिणः। तदेत–
त्कत्वन्तर्गतार्षेयप्रवरवरणे बोध्यम्। निर्वापे= पितृयज्ञे। एकपिण्डे वेत्यत्र एकैकस्मिन्निति वीप्सा द्रष्टव्या। “यदि द्विपिता स्यादेकैकस्मिन्द्वौ द्वावुपलक्षयेत्” इत्यापस्तम्बवचनानुसारात्। तस्मादेकैकस्मिन्नेव पिण्डे द्वौ पितरौ पितामहौ प्रपितामहौ वानुकीर्त्तनीयावित्यर्थः। द्वितीये=पितामहपिण्डे। द्वितीय इति च प्रपितामहस्याप्युपलक्षणम्। पुत्रो द्यामुष्यायणस्य। द्वौ द्वौ निर्वापे दद्यात् द्वौ द्वावनुकीर्त्तयेद्वेत्यर्थः। तृतीये=प्रपितामहपिण्डे। पौत्रो या द्व्यामुष्यायणस्य।
अथ द्यामुष्यायणस्य पित्रादयोऽपि यदि द्व्यामुष्यायणास्तत्र विशेषः कथ्यते। तत्र यदि द्व्यामुष्यायणस्य पितामह [एक3] एव द्व्यामुष्यायणस्तदा पितृभ्यां पिण्डद्वयं दत्वा पितामहाभ्यामपि पिण्डद्वयं दत्वा प्रपितामहेभ्यः पिण्डत्रयं दद्यादित्येवंसप्त पिण्डान्दद्यात्। यदा तु द्व्यामुष्यायणस्यान्यतरःपिता द्व्यामुष्यायणो भवेत्तदा पितृभ्यां पिण्डद्वयं प्रदाय पितामहेभ्यःपिण्डत्रयं दत्त्वा प्रपितामहेभ्यस्त्रयमित्यष्टौ पिण्डान्दद्यात्। यदा तु तस्यान्यतरः पिता द्व्यामुष्यायणः अन्यतमः पितामहोऽपि द्व्यामुष्यायणः तदा पितृभ्यां पिण्डद्वयं निरूप्य पितामहेभ्यस्त्रीन्पिण्डान्दत्त्वा प्रपितामहेभ्यश्चतुरो दद्यादित्येवं नव। यदा तु द्व्यामुष्यायणस्य द्वावपि पितरौ द्व्यामुष्यायणौ स्यातां तदा पितृभ्यां द्वौ पिण्डौ दत्त्वा पितामहेभ्यश्चतुरो दत्वा प्रपितामहेभ्योऽपि चतुरो दद्यादित्येवं दश। यदा तु द्व्यामुष्यायणस्य द्वावपि पितरौ द्व्यामुष्यायणौ पितामहस्त्वेक एव द्व्यामुष्यायणः तदा पितृभ्या द्वौ पिण्डौ प्रदाय पितामहेभ्यश्चतुरो दत्त्वा प्रपितामहेभ्यः पञ्च दद्यादित्येवमेकादश। यदा तु द्व्यामुष्यायणस्य द्वावपि पितरौ द्व्यामुष्यायणौ द्वावपि पितामहौ द्व्यामुष्यायणौ भवतः तदा पितृभ्यां पिण्डद्वयं पितामहेभ्यश्चतुरः पिण्डान्दत्वाषट् प्रतिमहेभ्यः षड्भ्यो दद्यादित्येवं द्वादश। यदा तु द्व्यामुष्यायणस्य द्वावपि पितरौ द्व्यामुष्यायणौपितामहाश्च त्रयो द्व्यामुष्यायणाः तदा पितृभ्यां पिण्डद्वयं पितामहेभ्यश्चतुरः पिण्डान्दत्वा प्रपितामहेभ्यः सप्तभ्यः सप्त पिण्डान्दद्यादित्येवं त्रयोदश। यदा च द्व्यामुष्यायणस्य द्वावपि पितरौ द्व्यामुष्यायणौपितामहाश्चत्वारोऽपि द्व्यामुष्यायणस्तदापितृभ्यां पिण्डद्वयं पितामहेभ्यश्चतुर्भ्यश्चतुरः पिण्डान्दत्त्वा प्रतितामहेभ्योऽष्ट-
पुत्रिकापुत्रकर्तृकश्राद्धे देवतानिर्णयः
भ्योऽष्ट पिण्डान्दद्यादित्येवं चतुर्दशेभ्याद्यूह्यम्। एकैकस्मिन्पिण्डे द्वौ द्वावनुकीर्त्तयेदित्येतस्मिन्पक्षे तु सर्वेषां त्रय एव पिण्डा भवन्ति नामकीर्त्तनन्तु यथोक्तक्रमेणेति।
याज्ञवल्क्यः।
अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः।
उभयोरप्यसौ ऋक्थी पिण्डदाता च धर्मतः॥
( याज्ञ० अ० २ दायविभागप्रकरणे श्लो० १२७)
नारदः,
द्व्यामुष्यायणका दद्युर्द्वाभ्यां पिण्डोदके पृथक्।
ऋक्थादर्द्धोशमाद्द्युर्बीजिक्षेत्रिकयोस्तथा॥
अर्द्धाशमिति पूर्णोशयोग्यपुत्रान्तरसद्भावे।
मरीचिः,
सगोत्रादन्यगोत्राद्वा योभवेद्विधवासुतः।
पिण्डं श्राद्धविधानं च क्षेत्रिणे प्राक् प्रदापयेत्॥
बीजिने तु ततःपश्चात् क्षेत्री जीवति चेत्क्वचित्।
बीजिने दद्युरादौ तु मृते प्रदीयते॥
उभौ यदि मृतौ स्यातां बीजिन्यादौ तदा ददेत्।
क्षेत्रिण्यादौ न दत्तं स्याद्बीजिने नोपतिष्ठति॥
सगोत्रादन्यगोत्राद्वेति सवर्णमात्रादित्यर्थ इति कल्पतरुः। श्राद्धविधानमिति। श्राद्धे देयत्वेन विधानं यस्य। मृते= क्षेत्रिणि मृते। पश्चात्=क्षेत्रिणे दानानन्तरम्। प्रदीयत इत्यस्य बीजिन इति शेषः, उभयोर्मरणे पूर्वंबीजिने पश्चात्क्षेत्रिणे दाने निन्दामाह–उभाविति। अनियोगजाते व्यवस्थामाह—
नारदः,
जाता ये त्वनियुक्तायामेकेन बहुभिस्तथा।
अॠक्थभाजस्ते सर्वे बीजिनामेव ते सुताः॥
दद्युस्ते बीजिने पिण्डं माता चेच्छुल्कतो हृता।
अशुल्कोपहतायां तु पिण्डदा वोदुरेव ते॥
अऋक्थभाजः = क्षेत्रिण ऋक्थं न भजन्ते इति।
अथ पुत्रिकापुत्रकर्तृकश्राद्धे देवतानिर्णयः॥
तत्र पुत्रिकापुत्रश्चतुर्विधः। पुत्रिकैव पुत्रत्वेन गृहीता एकः पुत्रिकापुत्रः, द्वितीयस्तस्याः पुत्रः, तृतीयस्तु दुहितर्येवोत्पन्नःसंविदा
पुत्रत्वेन परिगृहीतो मातामहमात्रसम्बद्धः, चतुर्थस्तु तादृश एव जनकमातामहोभयसम्बद्धः। एतद्विस्तरेणाधिकारिनिर्णये प्रपञ्चयिष्यते। तत्राद्ये त्वसन्देह एव। द्वितीये बौधायनयज्ञपार्श्वाभ्यामुक्तम्—
आदिशेत्प्रथमं पिण्डं मातरं पुत्रिकासुतः।
द्वितीयं पितरं तस्यास्तृतीये तु पितामहम्॥
यद्यप्येतत्सकलपुत्रिकापुत्रविषयं प्रतिभाति। तथापि द्वितीयस्यैव भवति तस्य मातुः पितृस्थानीयत्वादिति हेमाद्रिः। मदनरत्नादयस्त्वाद्यव्यतिरिक्तानां मातृपूर्वकत्वमित्याहुः। उभयसम्बद्धेन मातामहश्राद्धमादौ कार्यमित्याह—
ऋष्यशृङ्गः,
तस्मादुभयसम्बद्धः पुत्रिकायाः सुतो ह्यसौ।
पूर्वं मातामहश्राद्धं पश्चात्पैतृकमाचरेत्॥ इति॥
अथ वैश्वदेविकश्राद्धदेवतानिरूपणम्।
तत्र विश्वेषां देवानामुत्पत्तिर्ब्रह्मवैवर्तब्रह्माण्डपुराणयोः—
दक्षम्य दुहिता साक्षाद्विश्वा नामेति विश्रुता।
विधिना सा तु धर्मज्ञ ? दत्ता धर्माय धीमते॥
तस्याः पुत्रा महात्मानो विश्वे देवा इति श्रुताः।
विख्यातास्त्रिषु लोकेषु सर्वलोकनमस्कृताः॥
यमसहितायाम्,
विश्वेऽपि विश्वे देवास्तु दक्षिणे वाणपाणयः।
द्विहस्ता वामभागे तु शरासनपरायणाः।
एतेषां श्राद्धदेवतात्वे इतिहासस्तु ब्रह्मवैवर्त्तब्रह्माण्डयोः।
समा नव महात्मानश्चेरुरुप्रं महत्तपः।
हिमच्छिखरे रम्ये देवर्षिगणसेविते॥
शुद्धेन मनसा प्रीताः पितरस्तानथाब्रुवन्।
वरं वृणीध्वं प्रीताः स्मः कं कामं करवामहे॥
ब्रह्मा चाह महातेजास्तपसा तैस्तु तर्पितः।
प्रीतोऽस्मि तपसानेन कं कामं वितरामि वः॥
एवमुक्तास्तदा विश्वे ब्रह्मणा विश्वकर्मणा।
ऊचुस्ते सहिताः सर्वे ब्रह्माणं लोकपावनम्॥
श्राद्धेऽस्माकं भवेद्देयं स ह्येषः काङ्क्षितो वरः।
प्रत्युवाच ततो ब्रह्मा तान्वै त्रिदशपूजितः॥
भविष्यत्येवमेवेति काङ्क्षितो वो वरोऽस्तु यः।
पितृभिश्च तथेत्युक्तमेवमेतत्र संशयः॥
सहास्माभिस्तु भोक्तव्यं यत्किञ्चिस्यज्यते त्विह।
अस्माकं कल्पिते श्राद्धे भवन्तोऽग्राशिनो हि वै॥
भविष्यथ मनुष्येषु सत्यमेतदुदाहृतम्।
माल्यैर्गन्धैस्तथान्नेन युष्मानप्यर्चयन्तु वै॥
दत्ते दत्तेऽथ युष्मभ्यमस्मभ्यं दास्यते ततः।
विसर्जनमथास्माकं पूर्वं पश्चात्तु दैवतम्॥ इति॥
तेषां सविनियोगानि नामान्याह—
बृहस्पतिः,
क्रतुर्दशो वसुः सत्यः कामः कालस्तथैव च।
धुरिश्च रोचनश्चैव तथा चैव पुरुरवाः॥
आर्द्रवश्च दशैते तु विश्वे देवाः प्रकीर्त्तिताः।
इष्टिश्राद्धे ऋतुर्दक्षःसत्यो नान्दीमुखे वसुः॥
नैमित्तिके कामकालौकाम्ये च धुरिलोचनौ।
पुरुरवा आर्द्रवश्च पावणे समुदाहृतौ॥
उत्पत्तिं नाम चैतेषां न विदुर्ये द्विजातयः।
अयमुच्चारणीयस्तैः श्लोकः श्रद्धासमन्वितैः॥
आगच्छन्तु महाभागा विश्वेदेवा महाबलाः।
ये यत्र विहिता श्राद्धे सावधाना भवन्तु ते॥ इति॥
अत्र पुरुरवःशब्दः सान्तः। आर्द्रवशब्दस्त्वाकारादिरकारान्तः, पुरुरवसमार्द्रवमिति शङ्खलिखितोक्ततर्पणविधौ तथा दर्शनात् बहुषु निबन्धेषु तथा पाठदर्शनाच्चेति श्रीदत्तादयः। कामधेनौ तु माकारादिः सकारान्तो माद्रवः शब्दो लिखितः। गौडनिबन्धेषु तु पुरुरवः शब्द उकारादियुक्ताद्यरेफवान् सकारान्तो दृश्यते क्वचित्तु अकारान्त एव पुरुरवशब्दो दृश्यते। इष्टिश्राद्धं “कर्माङ्गं नवमे प्रोक्त” मित्यनेन विश्वामित्रेणोक्तम्। तच्च—
निषेककाले सोमे च सीमन्तोन्नयने तथा।
ज्ञेयं पुंसवने चैव श्राद्धं कर्माङ्गमेवच॥
इत्यादिना भविष्यपुराणादिवाक्येन विवृतम्। नान्दीमुखन्तु वृद्धिश्राद्धम्। तच्च—
वृद्धौ यत्क्रियते श्राद्धं वृद्धिश्राद्धं तदुच्यते।
इति भविष्यपुराणेनोक्तम्। वृद्धिः=पुत्रजन्मादि। कल्पतरुकारादयस्तु इष्टिश्राद्धमिच्छाश्राद्धम्, तच्च “श्राद्ध प्रति रुचिश्चैव” इत्यनेन याज्ञवल्क्येन विहितमिति व्याख्यातवन्तः। तन्मते च कर्माऽङ्गश्राद्धस्य नान्दीमुखश्राद्धेऽन्तर्भावाद्वसुसत्यावेव तत्र देवौ। नैमित्तिके कामकालाविति। नैमित्तिकपदं चात्र नवान्ननिमित्तश्राद्धपरम्।
विश्वे देवाः क्रतुदक्षौ सर्वास्विष्टिषु कीर्त्तितौ।
नित्यं नान्दीमुखे श्राद्धे वसुसत्यौच पैतृके॥
नवान्नलाभे देवौ हि कालकामौ सदैव हि।
अपि कन्यागते सूर्ये श्राद्धे च धुरिलोचनौ।
पुरूरवार्द्रवौ चैव विश्वेदेवाश्च पार्वणे॥
इति हेमाद्र्यादिघृतादित्यपुराणवचनैकवाक्यत्वात्। इष्टिषु कर्माङ्गश्राद्धेषु। नवान्नलाभ इति=नवान्नानां लाभो यस्मादिति व्युत्पत्त्या व्रीहियवपाकौ धान्यपाकश्चोक्तः। कन्यागते सूर्ये इति काम्यश्राद्धस्याप्युपलक्षणम्। “काम्ये च धुरिलोचनौ” इति बृहस्पतिवचनैकवाक्यत्वात्। क्वचित्तु श्राद्धं चेत्यत्र काम्ये चेति पाठ एव। नवान्नश्राद्धस्य नैमित्तिकत्वं शातातपवचने व्यक्तम्।
यथा,
नवोदके नवान्ने च गृहप्रच्छादने तथा।
पितरः स्पृहयन्त्यन्नमष्टकासु मघासु च॥
तस्माद्यद्यात्सदोद्युक्तोविद्वत्सु ब्राह्मणेषु च।
नवोदके=वर्षोपक्रमे। गृहप्रच्छादने=नवगृहसम्पत्तौ। विद्वत्सु ब्राह्मणेषु च प्राप्तेषु। हेमाद्रिस्तु “नैमित्तिके कालकामौ” इत्यत्र यौगिकनैमित्तिकपदश्रवणात्, आदित्यपुराणे नवान्नलाभपदं ग्रहोपरागादिनिमित्तकनैमित्तिकश्राद्धमात्रोपलक्षणार्थमित्युक्तवान्। सर्वथा
एकोदिष्टन्तु यच्छ्राद्धंतन्नैमित्तिकमुच्यते।
तदप्यदैवं कर्त्तव्यमयुग्मानाशयेद् द्विजान्॥
इति भविष्यपुराणवाक्येन परिभाषितैकोदिष्टरूपनैमित्तिके तेनैव दैवनिषेधात्। ‘नैमित्तिके कालकामौ’ इत्यनेन तत्र देवताविशेषविधा
नमनुपपन्नमिति नैमित्तिकशब्देनात्र योगपुरस्कारेण श्राद्धान्तरस्यैवाभिधानमिति द्रष्टव्यम्। श्रीदत्तादयस्तु एकोद्दिष्टरूपे नैमित्तिके देवनिषेधात्, “नैमित्तिके कामकालौ” इत्यत्र नैमित्तिकपदमेकोद्दिष्टरूपनैमित्तिकयोगात्सपिण्डीकरणपरम्।
सपिण्डीकरणश्राद्धं देवपूर्वं निवेदयेत्।
इत्यनेन तस्य सदेवत्वाभिधानादित्याहु। कल्पतरुकारस्तु नैमित्तिकपदमत्र साग्निकक्रियमाणसांवत्सरिकैकोद्दिष्टपरम्। तस्य पार्वणवत् क्रियमाणतया तत्र विश्वेषां देवानां सम्भवादित्युक्तवान्। काम्ये चेति। काम्यस्य निरुक्तिर्भविष्यपुराणे—
कामाय तु हितं काम्यमभिप्रेतार्थसिद्धये॥ इति।
अभिप्रेतं=धनपुत्रादि। तत्सिद्धये=तत्प्राप्तये। तच्चापस्तम्बाद्युक्तं तत्तत्तिथ्यादौ श्राद्धादि। तच्च वक्ष्यते।अत्र विश्वे देवाः क्रतुदक्षात्रित्यादित्यपुराणादिवाक्येषु सर्वत्र द्विवचनश्रवणान्मिलितयोस्तयोः श्राद्धे देवतात्वम्। उत्पत्तिमित्यादि। ये विश्वेषां देवानामुत्पत्तिं नाम च न जानन्ति तैर्मन्त्रलिङ्गादावाहनकाले आगच्छन्त्वित्यादिमन्त्रः पठनीयः, अत्र तत्तच्छ्राद्धे तत्तद्देवताविशेषप्रतिपादनात्तत्तन्नाम सङ्कीर्त्तनपूर्वकमेव निमन्त्रणादिवाक्यं प्रयोज्यं, न तु केवलविश्वदेवपदेन। संज्ञाविधेरुद्देशप्रयोजनत्वात्। अत एव—
“इष्टिश्राद्धे क्रतुदक्षौ सङ्कीर्त्यौवैश्वदेविके।
इतिहेमाद्रिधृतवाक्ये सङ्कीर्त्त्यावित्युक्तम्।
श्रीदत्तस्तु नेदं वाक्यं क्रतुदक्षादिनामनिर्द्देशपरं तथा श्रवणाभावात्, किन्तु योऽसौ गणो विश्वदेवपदनिर्देश्यस्तत्र क्रतुदक्षादियुगस्य इष्टिश्राद्धादौ मुख्यत्वं चिन्तनीयमित्येवम्परम्। मुख्यत्वेन चिन्तनीयत्वमप्यश्रुतमितिचेत्, ‘प्राधान्येन व्यपदेशा भवन्ति’ इति न्यायात्प्राधान्य ऋतुदक्षादिव्यपदेशादेव लभ्यते, चिन्तनीयत्वं तु एतेषामुत्पत्तिनामाज्ञाने आगच्छन्ति्वत्यादिमन्त्रपाठविधानात्कल्प्यते। अत एव सर्वत्र मुनिवाक्ये बहुवचनश्रवणाद्गणस्यैवोद्देश्यता प्रतीयते न तूभयोरेव। यथा “नमोबिश्वेभ्यो देवेभ्य इत्येवमादौ प्राङ्मुखयोर्निवेदयेत्” इति विष्णुः,
विश्वान्देवान् यवैः पुण्यैरभ्यर्व्यासनपूर्वकम्।
इति मत्स्यपुराणम्, “विश्वान्देवानहमावाहयिष्य” इति कात्यायनः,
“विश्वे देवास आगत” इत्यावाहनमन्त्रश्च। न वा विश्वदेवपदेन क्रतुदक्षादिपदेन च समुच्चयान्निर्देशः समुचितः, निरपेक्षश्रवणात्। किञ्च समुच्चये कीदृशं वाक्यं, विश्वाभ्यां देवाभ्यां क्रतुदक्षाभ्यामिति वा, विश्वेभ्यो देवेभ्यः क्रतुदक्षाभ्यामिति वा, विश्वेभ्यो देवेभ्यः क्रतुदक्षेभ्य इति वा, विश्वेभ्यो देवेभ्यः क्रतुक्षसंज्ञकेभ्य इति वा। नाद्यः। विश्वदेवपदस्य बहुवचनान्तस्यैव सर्वत्र दर्शनात्तस्य बहुवचनेनैव निर्देश्यत्वावगतेः। न द्वितीयः। अनन्वयात्। तुल्याधिकरणयोर्विशेषणयोः समानविभक्तिवचननियमात्। उर्वश्र्यप्सरस इतिवत्प्रयोगसा धुत्वेनाम्बयो न विरुद्ध इति चेत्, प्रमाणसिद्धायां प्रयोगावश्यकतत्कल्पनायामुचितत्वात्। न चेह तथा। न तृतीयः। क्रतुदक्षयोर्बहुत्वाभावेन बहुवचनार्थानन्वयात्। अत एव न चतुर्थः। संज्ञाशब्दान्तर्भावेन देवतात्वाभावाच्चेति। तस्माद्यथोक्तैव व्याख्या ज्यायसीत्याह।
वस्तुतस्तु “सकीर्त्यौ वैश्यदेविके” इत्युक्तवाक्यैकवाक्यतया “इष्टिश्राद्धे क्रतुर्दक्ष” इत्यादि बृहस्पतिवाक्यस्य कीर्त्तनपरत्वे सिद्धे विश्वदेवपदस्य सर्वत्र बहुवचनान्तप्रयोगदर्शनेन बहुवचनान्तस्यैव तस्य साधुत्वेनिर्णीते उर्वश्यप्सरल इतिवत् क्रतुदक्षौ विश्वे देवा इत्यादिप्रयोगो नानुपपन्नः। विशिष्य नामाज्ञाने विश्वेषां देवानाम् इत्याद्येव प्रयोक्तव्यम्।
हेमाद्रिस्तु पूजार्थं बहुवचनमिति मन्वानः क्रतुदक्षसंज्ञका विश्वे देवा इति प्रयोगमङ्गीचकार।
अत्र विश्वे देवा इत्यसमस्तमेव प्रयोज्यम् सर्वत्र तथा प्रयोगदर्शनात्। अत एव गणविशेषवाचकस्यापि विश्वशब्दस्य सर्वनामकार्यं न विरुद्धम्। अभिधायां सर्वनामतानिषेधस्मृतिस्तु आधुनिकसङ्केत्तविषयस्यैव विश्वशब्दस्य सर्वनामकार्यनिषेधादुपपन्ना।
अथ विकिरभुक्तोच्छिष्टयोर्देवतानिर्णयः।
तत्र मनुविष्णू—
असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम्।
उच्छिष्टं भागधेयं स्याद्दर्भेषु विकिरस्तु यः॥
(म० अ० ४ श्लोक० २४५ )
कुलयोषितां त्यागिनामित्यन्वयः।
हारीतः,
अरूढदन्ता ये च मृता गर्भाद् य च विनिःसृताः।
विधवाकर्तृकश्राद्धदेवतानिर्णयः।
मृता ये चाप्यसंस्कारास्तेषां भूमौ प्रदीयते॥
मार्कण्डेयपुराण,
अन्नप्रकिरणं यत्तु मनुष्यैः क्रियते भुवि।
तेन तृप्तिमथायान्ति ये पिशाचत्वमागताः॥
ये चादन्ताः कुले बालाःक्रियायोग्या ह्यसंस्कृताः।
विपन्नास्तेऽत्र विकिरसंमार्जनजलाशिनः॥
मनुः,
उच्छेषणं भूमिगतमजिह्मस्याशठस्य च।
दासवर्गस्य तत्पित्र्ये भागधेयं प्रचक्षते॥ (अ०३ श्लो०२४६)
पित्र्ये=पितृकर्मणि॥
वसिष्ठः,
प्राक् संस्कारात्प्रमीतानां सप्रेष्याणामिति श्रुतिः।
भागधेयं मनुः प्राह उच्छिष्टोच्छेषणे उभे॥
आश्वलायनगृह्यपरिशिष्टम्,
उच्छेषणं भूमिगतं विकिरं लेपनोदकम्।
अनुप्रेते च विसृजेदप्रजानामनायुषाम्॥ इति।
अथ संन्यासाङ्गश्राद्धदेवतानिर्णयः।
शौनकः, देवऋषिदिव्यमनुष्यभूतपितृमातृआत्मादीनां पृथक् पिण्डदानैर्युग्मैर्ब्राह्मणैरष्टौ श्राद्धानि कुर्यादिति। तत्राद्ये श्राद्धे ब्रह्मविष्णुमहेश्वराः। द्वितीये देवर्षिब्रह्मर्षिक्षत्रियर्षयः। क्वचितु देवर्षिक्षत्रर्षिमनुष्यर्षय इति पाठः। तृतीये वसुरुद्रादित्याः। चतुर्थे सनकसनन्दनसनातनाः। पञ्चमे पृथिव्यादिभूतानि चक्षुरादीनि करणानि चतुर्विधो भूतग्रामः। षष्ठे पितृपितामहप्रपितामहाः, मातामहप्रमातामहवृद्धप्रमातामहाश्च। सप्तमे मातृपितामहीप्रपितामह्यः। अष्टमे आत्मपितृपितामहाः। एते सर्वे नान्दीमुखविशेषणवन्तो देवताः। जीवच्छ्राद्धादिदेवतास्तत्तत्प्रकरणे वक्ष्यामः।
अथ विधवाकर्तृकश्राद्धदेवताः।
सङ्ग्रहे,
चत्वारः पार्वणाः प्रोक्ता विधवायाः सदैव हि।
स्वभर्तृश्वशुरादीनां मातापित्रोस्तथैव च॥
ततो मातामहानां च श्राद्धदानमुपाक्रमेत्।
अशक्तौ तु—
स्वभर्तृप्रभृतित्रिभ्यः स्वपितृभ्यस्तथैव च।
विधवा कारयेच्छ्राद्धं यथाकालमतन्द्रिता॥
अथ विभक्तिनिर्णयः।
तत्र विभक्तिज्ञानस्यावश्यकत्वमुक्तं नागरखण्डे,
विभक्तिरहितं श्राद्धं क्रियते यद्विपर्ययात्।
अकृतं तद्विजानीयात्पितॄणां नोपतिष्ठते॥
तस्मात्सर्वप्रयत्नेन ब्राह्मणेन विजानता।
विभक्तिभिर्यथोक्ताभिः श्राद्धं कार्यं त्रिभिः सदा॥
विभक्तिरहितम्=विहितविभक्तिरहितम्। तिसृभिरित्यर्थे त्रिभिरिति छान्दसम्। एतच्चैकोद्दिष्टाभिप्रायेण। तत्रावाहनाभावेन द्वितीयाया अप्रयोगात। अन्यत्र चतस्रो वक्ष्यमाणवचनात्। विभक्तीराह—
व्यासः,
चतुर्थी त्वासने नित्यं सङ्कल्पे च विधीयते।
प्रथमा तर्पणे प्रोक्ता सम्बुद्धिमपरे जगुः॥
सङ्कल्पे=अन्नोत्सर्गे
धर्मोऽपि,
पृच्छाक्षयासने षष्ठीचतुर्थी चासने मता।
अर्घ्यावनेजनं पिण्डं तथा प्रत्यवनेजनम्॥
सम्बुद्ध्यैतानि कुर्वन्ति शब्दशास्त्रविशारदाः।
पृच्छा=श्राद्धारम्भे प्रश्नवाक्यम्। अक्षयं तदुदकदानम्। अवनेजनं=पिण्डदानात्प्राक् पिण्डार्थरेखायां, पिण्डदानोत्तरं च पिण्डेषुःजलनिनयनम्।
भृगुः—
आवाहने द्वितीया स्यादेष शास्त्रविनिर्णयः।
सङ्ग्रहकारस्तु क्वचिद्विशेषमाह—
अक्षय्यासनयोः षष्ठी द्वितीयावाहने तथा।
अन्नदाने चतुर्थी स्याच्छेषाः सम्बुद्धयः स्मृताः॥
भविष्योत्तरे तु,
चतुर्थी सर्वकार्येषु प्रथमा तर्पणे भवेत्।
षष्ठीविभक्तिरक्षय्ये पितृकार्ये यथाविधि॥
सम्बन्धगोत्रनामोच्चारणक्रमविचारः।
भृगुस्तु,
गन्धमाल्यं च धूपं च दीपमन्नं सदक्षिणम्।
अपृथक्त्वेन दातव्यं चतुर्थ्या विधिमिच्छता।
अपृथक्त्वेन=अवैषम्येण। अत्र दर्शितवचनेषु यत्र विरोधस्तत्र विकल्पो द्रष्टव्यः, एकार्थत्वात्। स च यथाशाखं व्यवस्थितः। उक्तानुसारेण प्रयोगो गृह्यपरिशिष्टे।
गोत्रं स्वरान्तं सर्वत्र गोत्रस्याक्षय्यकर्मणि।
गोत्रस्तु तर्पणे कुर्यादेवंदाता न मुह्यति॥
सर्वत्रैव पितः प्रोक्तः पिता तर्पणकर्माणि।
अक्षय्ये तु पितुः कार्ये पितॄणां तृप्तिमिच्छता॥
शर्मन्नर्घ्यादिके कार्ये शर्मणोऽक्षय्यकर्मणि।
शर्मा तु तर्पणे कुर्यादेचं कुर्वन्न मुह्यति॥
गोत्रं=तच्छन्दः। स्वरान्तम्=अजन्तम्। सर्वत्र=अपवादादन्यत्र। यद्यपि सप्तम्यन्तमप्यजन्तं भवति, तथापि तस्याविहितत्वात्तद्व्युदासः। एवं गोत्रस्येत्यादि तत्तद्विभक्तिप्रदर्शनार्थं द्रष्टव्यम्। एकवचनपुंल्लिङ्गपित्रादिशब्दाः प्रदर्शनार्थाः। मातृमातामहादिशब्दानामपि तत्र तत्र योज्यत्वात्। उक्तं च नागरखण्डे—
मातर्मात्रे तथा मातुरालने कल्पनेऽक्षये।
गोत्रे गोत्रायै गोत्रायाः प्रथमाद्या विभक्तयः॥
देवि दैव्यै तथा देव्या एवं मातुश्च कीर्त्तयेत्।
इति विभक्तिनिर्णय।
अथ सम्बन्धगोत्रनामोच्चारणक्रमः।
तत्र प्रचेताः,
गोत्रसम्बन्धनामानि यथावत्प्रतिपादयेत्।
व्यासः,
आलप्य नामगोत्रेण कर्त्तव्यं सर्वदैव हि।
** **अत्र सम्बन्धनामगोत्रशब्दानां नानाक्रमदर्शनाद्विकल्पः। स ऐच्छिकः शाखाभेदेन वा व्यवस्थितः। सम्बन्धस्तु पित्रादिशब्दैरेव निर्देष्टव्योनास्मच्छब्देनेति केचित्प्राच्याः। तन्न। “नामगोत्रे उच्चार्य मम पितरेतत्तेऽर्घंमम पितामह; एतत्तेऽर्घंमम प्रपितामहैतत्तेऽर्घम्”
इति मानवसूत्रे स्पष्टप्रयोगविधानात्। अत्र चगोत्रसगोत्रपदयोर्यद्यपि पर्यायत्वं—
“पराशरसगोत्रस्य वृद्धस्य सुमहात्मनः”।
इत्यादिप्रयोगात्प्रतीयते, तथाप्यत्र गोत्रशब्द एव प्रयोक्तव्यः।
“अमुकामुकगोत्रैतत्तुभ्यमन्नंस्वधा नमः”।
इति ब्रह्मपुराणादिवचनादिति।
अथ गन्धादिदाने सम्प्रदानं निर्णीयते।
तत्र “गन्धान्ब्राह्मणसात्कृत्वा” इति मरीचिवचने तदधीनवचनतायां विहितेन सातिप्रत्ययेन दीयमानगन्धादेर्ब्राह्मणस्वामिकत्वावगतेर्गन्धादिभोक्तृत्वाच्च “एतस्मिन्काले गन्धमाल्यधूपदीपाच्छादनानां प्रदानम्” इत्याश्वलायनेन गन्धादेर्दानविधानात्तस्य च प्रतिग्रहीतृव्यापारसाध्यत्वाद्देवतायाश्चाप्रतिग्रहीतृत्वाद्ब्राह्मणानामेव सम्प्रदानत्वम्।
अयं वो धूप इत्युक्त्वा तदग्रेच दहेत्ततः।
इति ब्रह्मपुराणाच्च तथा। अत्र तदग्रेशब्देन पूर्ववाक्यनिर्दिष्टब्राह्मणानामेवाग्रदेश उच्यते, न तु देवतायाः, अमूर्त्तत्वाद् देशान्वयायोगात्। धूपग्रहणं गन्धाद्युपलक्षणम् आश्वलायनसूत्रे प्रायपाठात।
उपवेश्यासने शुभ्रं छत्रं तत्र प्रकल्पयेत्।
आवरणार्थं च तद्वस्त्रं ब्राह्मणाय प्रदापयेत्॥
इति वराहपुराणे चतुर्थीश्रुतेश्च ब्राह्मणसम्प्रदानकत्वावगमः।
विभवे सति विप्रेभ्यो योऽस्मानुद्दिश्य दास्यति।
इति विष्णुपुराणीयपितृवाक्ये स्पष्टं विप्राणां देवतानां च सम्प्रदानत्वोद्देश्यत्वभेदावगतेश्च। उद्देश्यता तु पितॄणामेव सम्प्रदान (१)4 ( न तु सम्प्रदानत्व) मिति हरिहरः।
श्रीदत्तादयस्तु “योऽस्मानुद्दिश्य दास्यति” इति विष्णुपुराणात्,
एतानि श्रद्धयोपेतः पितृभ्यो यो निवेदयेत्।
इति वाराहाच्चस्पष्टं देवताया (२)5 उद्देश्यत्वमवगम्यमानं नापह्नोतुं शक्यम्। किञ्च “ते तृप्तास्तर्पयन्त्येनम्” इत्यादिवचनैः पितृतर्पकता श्राद्धस्यावसीयते सा च तदुद्देशेन द्रव्यत्याग एवोपपद्यते, लोके तथा दर्शनात्।
श्राद्धोचितद्रव्यनिर्णयः
श्वेतचन्दनकर्पूरकुङ्कुमानि शुभानि च।
विलेपनार्थं दद्यात्तु यदन्यत्पितृवल्लभम्॥
इति ब्रह्मपुराणे पितृवल्लभत्वाभिधानात्-
निवेदितं च यत्तेन पुष्पगन्धानुलेपनम्।
तद्भूषितानथ स तान्ददर्श पुरतः स्थितान्॥
इति मार्कण्डेयात्पित्रुद्देशेन निवेदनावगतेः—
लोके श्रेष्ठतमं यच्च आत्मनश्चापि यत्प्रियम्।
सर्वंपितॄणां दातव्यं तदेवाक्षयमिच्छता॥
इति स्पष्टं पित्रुद्देश्यत्वावगतेश्च पितॄणामेवोद्देश्यत्वम्। सातिप्रत्ययस्तु पित्रुद्देशेन त्यक्तमपि द्रव्यं ब्राह्मणेषु प्रतिपद्यमानं भोज्यान्नमिव तत्स्वामिकं भवतीत्युपपद्यते। ब्राह्मणेभ्यो ददातीति वाक्यमपि हविःशेषमृत्विग्भ्योददातीतिवत्समर्पणाभिप्रायं व्याख्येयम्। पितृभ्यो ददातीति प्राधानान्तरङ्गभूतदेवतार्थत्वबोधकश्रुतिविरोधात्, ब्राह्मणानां च बहिरङ्गत्वेन ब्राह्मणेभ्यो ददातीत्यत्रैव गौणताया न्याय्यत्वाच्च। अत एव पितृभ्यो दद्यादित्यत्र मुख्यदानासम्भवात् दानैकदेशत्यागलक्षणाप्यदोष। उपक्रमस्थपितृशब्दानुरोधेनोपसंहारस्थददातिशब्द एव लक्षणाया न्याय्यत्वात्। तदग्रेणेति देशसम्बन्धस्तु पितृब्राह्मणयोरभेदेन चिन्तनादुपपादनीयः। तस्मात्सुष्ठूक्तंपितॄणां देवतात्वंगन्धादिद्रव्यत्याग इति। एवं विश्वेषां देवानामपि।
इदं वः पाद्यमर्घ्यंच पुष्पधूपविलेपनम्।
अयं दीपप्रकाशश्च विश्वान्देवान्समर्पयेत्॥
इति ब्रह्मपुराणात्। अन्ये तु ब्राह्मणानां पित्रभेदेन चिन्तनविधेः सत्वात्पित्रभेदेन तेषामेव सम्प्रदानत्वं घटते, एवं च न ददातिरपि लाक्षणिको भविष्यति अत एव—
यमः,
ब्राह्मणैश्च सहाश्नन्ति पितरो ह्यन्तरिक्षगाः।
वायुभूता न दृश्यन्ते भुक्ता यान्ति परां गतिम्॥ इति।
आचमनीयं दक्षिणादानं च ब्राह्मणार्थमेव शुद्ध्यर्थत्वादानन्त्यार्थत्वाच्चेत्याहुः। इति सम्प्रदाननिर्णयः।
अथ श्राद्धोचितद्रव्याणि।
तत्रापस्तम्बः, एतैस्तीव्रतरा पितॄणां तृप्तिः, द्राधीयांसं कालं तथा धर्मानुहृतेन द्रव्येण।
एतै=पूर्वोक्तैर्द्रव्यैः। द्राघीयांसम् दीर्घम्। धर्मानुहृतेन=धर्मोपार्जितेन—
शङ्खलिखितौ, धर्मेण वित्तमादाय पितृभ्यो दद्यात्।
अतश्च धर्म्यैरेवोपायैरर्जितानि द्रव्याणि श्राद्धे देयानि। तांश्चाह—
मनुः,
सप्तवित्तागमा धर्म्या दायोलाभः क्रयो जयः।
प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च॥
( अ० १० श्लो० ११५ )
वित्तागमाः=वित्तार्जनोपायाः।धर्म्याः=पुरुषस्य प्रत्यवायानुत्पादकाः। स्वस्वामिसम्बन्धेनैव निमित्तेन यदन्यदीयं द्रव्यमन्यस्य स्वं भवति स दायः। अनन्यपरिगृहीतस्य जलतृणकाष्टादेर्धान्यादेर्वाधिगमो लाभः। द्रव्यविनिमयः क्रयः। वैरिपराभवो जयः। वृद्ध्यर्थं परस्य द्रव्यसमर्पणं प्रयोगः। कर्मणा आर्त्विज्याध्यापनपौरोहित्यादिना शिल्पेन शुश्रूषया वा योगः कर्मयोगः। दीयमानद्रव्यस्वीकारः प्रतिप्रहः। स तु अनिषिद्धः। अनिषिद्धत्वं च दायादिष्वपि द्रष्टव्यम्। एतेषु च दायलाभक्रयास्साधारणाः, जयः क्षत्रियस्यैव, स च दण्डाऽऽकरकरादीनामुपलक्षणम्। प्रयोगो वैश्यस्यैव, स च कृषिवाणिज्यादेरुपलक्षणम्। आर्त्त्विज्यादिकर्मयोगः प्रतिग्रहश्च ब्राह्मणस्यैव। शिल्पादिकर्मयोगः कारूणामेव। शुश्रूषालक्षणः शूद्रादेरेवेति विवेकः। तथा च—
गौतमः। स्वामी रिक्थसंविभागपरिग्रहाधिगमेषु ब्राह्मणस्याधिकं लब्धं क्षत्रियस्य विजितं निर्विष्टं वैश्यशूद्रयोरिति।
रिक्थ=पितृपैतामहं धनम्। सविभागः=यत्र भ्रात्रादेर्विभक्तभ्रात्रादि द्रव्यम्। अनन्यपरिगृहीतस्य जलकाष्ठादेःस्वीकारः परिग्रहः। अधिगमो=निध्यादेः प्राप्तिः। एतेषु निमित्तेषु स्वामी भवति। अधिकम्=असाधारणम्। लब्धं=प्रतिग्रहादिभिः। विजितं=विजयादिभिर्लब्धम्। निर्विष्टं= वैश्यकृष्यादिलब्धम्, शूद्रशुश्रूषादिलब्धम्।
नारदोऽपि,
तत्पुनस्त्रिविधं ज्ञेयं शुक्लं शबलमेव च।
कृष्णं च तस्य विज्ञेयो विभागः सप्तधा पुनः॥
श्रुतशौर्यतपःकन्यागतं शिष्यान्वयागतम्।
धनं सप्तविधं शुक्लमुदयोऽस्य तु तद्विधः॥
कुसीदकृषिवाणिज्यशिल्पशुक्लानुवृत्तितः।
श्राद्धोचितद्रव्यनिर्णयः।
कृतोपकाराद्यत्प्राप्तं शबलं समुदाहृतम्॥
पार्श्विकद्यूतचौरार्त्तिप्रतिरूपकसाहसैः।
व्याजेनोपार्जितं यत्तत्सर्वेषां कृष्णमुच्यते॥
यथाविधेन द्रव्येण यत्किञ्चित्कुरुते नरः।
तथाविधमवाप्नोति स फलं प्रेत्य चेह च॥
आगतशब्दः प्रत्येकं श्रुतादिभिः सम्बध्यते। श्रुतं=विद्या। शौर्यं=शौर्यनिमित्तेन यद्विजितम्, अथ च भृतिरूपेण लब्धमिति द्वयम। कन्यागत=कन्याप्रतिग्रहकाले श्वशुरादिभ्यो यल्लब्धम्। शिष्यादध्याप्यात् पणव्यतिरेकेण यत्प्राप्तं गुरुदक्षिणादि। अन्वयागतं=दायप्राप्तम्। अत्र यथाधिकारं शुक्लत्वं ध्येयम्।न्याय्यवृच्या द्रव्यप्रयोगः कुसीदम्। कृषिः=लाङ्कलकर्म। क्रयविक्रयव्यवहारेण धनवर्द्धनं वाणिज्यम्।शिल्प=कारुकर्म। अनुवृत्तिर्द्विजातिशुश्रूषा। राजादिपार्श्वे वर्त्तमानो यत्कश्चित्किञ्चित् ब्रूते त्वयेदं मम देयं मया च त्वदीयं कार्य कर्त्तव्यमिति पणं कृत्वा यदर्जितं तत्पाविकम्। द्यूतम्=अक्षदेवनादि। चौर्यम्=शौर्यनिमित्तेन यद्विजितम् अथ च प्रच्छन्नापहारः। आर्तिः=परपीडा। प्रतिरूपकं परवञ्चनार्थं मणिसुवर्णादेः प्रतिकृतिकरणम्। साहसम्=मारणव्यापाराङ्गीकारेण पश्यतोहरत्वम्। व्याजं=दम्भः।
ब्रह्मपुराणे—
शुक्लवित्तेन यो धर्मं प्रकुर्यात् श्रद्धयान्वितः।
तीर्थं पात्रं समासाद्य देवत्वेन समश्नुते॥
राजसेन च भावेन वित्तेन शबलेन च।
प्रदद्याद्दानमर्थिभ्यो मनुष्यत्वे तदश्नुते॥
तमोवृतस्तु यो दद्यात्कृष्णं वित्तं तु मानवः।
तिर्यक्त्वे तत्फलं प्रेत्य समश्नाति नराधमः॥
एते च यथा सम्भवं स्त्रीपुंसयोरविशेषेण धर्म्याद्रव्यार्जनोपायाः। स्त्रीणामेव तु विशेषत आह—
याज्ञवल्क्यः, ( अ० २ दाय० श्लो० १४३ )
पितृमातृपतिभ्रातृदत्तमध्यग्न्युपागतम्।
(१)6 आधिवेदनिकं चैव स्त्रीधनं परिकीर्त्तितम्॥
अध्यग्न्युपागतम्=विवाहकाले अग्निसमक्षं मातुलादिभिर्यद्दत्तम्। आधिवेदनिकम्=भर्त्रा यत् अधिवेदननिमित्तं दत्तम्।
मनुः, ( अ० ९ श्लो० १९४ )
अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतिपूर्वकम्।
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनम् स्मृतम्॥
अथाधर्मोपार्जितप्रतिषेधः।
शातातपः,
द्रव्येणान्यायलब्धेन यः करोत्यौर्द्धदेहिकम्।
न तत्फलमवाप्नोति तस्यार्थस्य दुरागमात्॥
और्द्धदेहिकम्=श्राद्धादि। विशिष्यं निषेधमाहतुः—
शातातपव्यासौ,
वेदविक्रयनिर्दिष्टं स्त्रीषु यच्चार्जितं धनम्।
अदेयं पितृदेवेभ्यो यच्चक्लीबादुपागतम्॥
वेदविक्रयश्च षड्विध उक्तो भविष्यपुराणे।
प्रख्यापनं च दानं च प्रश्नपूर्वः प्रतिग्रहः।
याजनाध्यापने वादः षड्विधो वेदविक्रयः॥
धनग्रहणार्थमहं वेदविदिति प्रख्यापनम्। दानं=पारायणादीनाम्। श्रोत्रियपराजयपर्यवसानो वादः। स्त्रीषु आर्जितं=स्त्रीव्यापारोपजीवनेनार्जितम्, स्त्रियाऽर्जितं, स्त्रीविक्रयार्जितं वा।
मार्कण्डेयपुराणे।
यच्चोत्कोचादिना प्राप्तं पतिताद्यदुपार्जितम्।
अन्याय्यकन्याशुल्काञ्च7 द्रव्यं चात्र विगर्हितम्॥
पित्रर्थंमे प्रयच्छ स्वेत्युक्त्वा यच्चाप्युपार्जितम्।
वर्जनीयं सदा सद्भिस्तत्तद्वै श्राद्धकर्मणि।
कार्यप्रतिबन्धनिवृत्त्यर्थमापत्प्रतीकारार्थं वा राजाधिकृतेभ्यो यद्दीयते स उत्कोचः। गोमिथुनाधिककन्याशुल्कम्; अन्याय्यकन्याशुल्कम्। रेवाखण्डे।
देवद्रव्यं गुरुद्रव्यं द्रव्यं चण्डेश्वरस्य च।
त्रिविधं पतनं दृष्टं दानलङ्घनभक्षणात्॥
मत्स्यपुराणे,
हस्त्यश्वौ गामनड्वाहं मणिमुक्तादिकाञ्चनम्।
श्राद्धोचितद्रव्योत्पत्तिनिर्णयः।
प्रत्यक्षं हरते यस्तु पश्चाद्दानं प्रयच्छति॥
स दाता नरकं याति यस्यार्थस्तस्य तत्फलम्।
तथा,
परिभुक्तमविज्ञातमपर्याप्तमसंस्कृतम्।
यः प्रयच्छति विप्रेभ्यस्तद्भस्मन्यवतिष्ठते॥
परिभुक्तं=कृतोपभोगम्। अपर्याप्तं=कार्याक्षमं जरद्ववादि।
अत्र हेमाद्रिः—धर्म्यैरेवोपायैरर्जितेन श्राद्धादीनि कर्त्तव्यानि न तु यत्किञ्चिदुपायार्जितेनेत्यत्रैषां वचनानां तात्पर्याद्धर्मोपार्जितद्रव्यस्य श्राद्धाङ्गत्वम्। न च लिप्सासुत्रोक्तपुरुषार्थताविरोधः8, तेन न्यायेन पुरुषार्थत्वे सिद्धे एभिर्वचनैः क्रत्वर्थता बोध्यत इत्याह। तस्माद्धर्मोपार्जितैरेव श्राद्धादीनि कर्त्तव्यानि।
अथ श्राद्धोचितद्रव्योत्पत्तिः।
मार्कण्डेयपुराणे,
व्रीहयश्च यवाश्चैव गोधूमाश्चावाणवस्तिलाः।
प्रियङ्गवोह्युदाराश्च कोरदूषाः सचीनकाः॥
माषा मुद्रा मसूराश्च निष्पावाः सकुलत्थका।
आढक्यश्चणकाश्चैव शणः सप्तदशः स्मृतः॥
इत्येता अभवन् ग्राम्यास्तथारण्याश्च जज्ञिरे।
ओषध्यो यशियास्तासां ग्राम्यारण्याश्चतुर्दश॥
व्रीहयश्च यवाश्चैव गोधूमाश्चाणवस्तिलाः।
प्रियङ्गुसहिता ह्येताः सप्तमास्तु कुलत्थकाः॥
श्यामाकास्त्वथ नीवारा जर्तिलास्सगवेधुकाः।
कुरुविन्दा मर्कटकास्तथा वेणुयवाश्चये॥
ग्राम्यारण्याः स्मृता ह्येते ओषध्यश्च चतुर्दश।
व्रीहयः=षष्ठिका महाब्राह्मादयः। अणवः=वरयिकाः। प्रियङ्गुः=कङ्गुः। उदारः=चीनः=कुरुविन्दो=व्रीहिविशेषः। कोरदूषाः=कोद्रवाः। नीवारा=आरण्यव्रीहयः। जर्तिलाः=कृष्णतिलाः। गवेधुकाः=कुसुम्भबीजतुल्याः। मर्कटा स्तृणधान्यविशेषाः। वेणुयवा=वंशबीजानि।
ब्रह्मवैवर्ते,
त्वष्टा वै यजमानेन वार्यमाणे महात्मना।
पपौ शचीपतिः सोमं पृथिव्यां विप्लुषोऽपतन्॥
श्यामाकास्तु ततो जाताः पित्रर्थमपि पूजिताः।
गोधूमाश्च यवाश्चैव समुद्गारक्तशालयः॥
एते सोमात्समुद्भूताः पितृृणाममृतं ततः।
तस्मात्प्रयत्नतो देया एते श्राद्धेषु वंशजैः॥
मत्स्यपुराणे,
अमृतं पिबतो वक्त्रात्सूर्यस्यामृतबिन्दवः।
निपेतुर्ये तदुत्था हि शालिमुद्गेक्षवः स्मृताः॥
शर्करा परतस्तस्मादिक्षुलारोऽमृतात्मवान्।
इष्टा रवेरतः पुण्या शर्करा हव्यकव्ययोः॥
शर्करा=इक्षुविकारः।
नागरखण्डे,
सृष्टिं प्रकुर्वतो पूर्वं पशवो लोककारिणा।
खड्गवार्ध्रीणशार्दूलाःपूर्वं शिष्टास्ततोऽपरे॥
यो यथा प्रथमं सृष्टः स तथा मेध्यतां गतः।
गोधूमाश्च मसूराश्च माषा मुद्गास्तथाणवः॥
नीवाराश्चापि श्यामाका एवं सृष्टा यथाक्रमम्।
शाकानि सृजता पूर्वं कालशाकः स्वयम्भुवा॥
असृज्यत ततः श्राद्धे स स्यादक्षय्यकारकः।
रसांश्च सृजता पूर्वं मधु सृष्टं स्वयम्भुवा॥
तेन प्रशस्यते श्राद्धे पितॄणां तृप्तिदायकम्।
यच्छ्राद्धं मधुना हीनं तद्रसैः सकलैरपि॥
मिष्टान्नैरपि संयुक्तं पितॄणां नैव तृप्तये।
अणुमात्रमपि श्राद्धं यदि न स्याच्चमाक्षिकम्॥
नामापि कीर्त्तनीयं स्यात्पितॄणां प्रीतये ततः।
पशून्वै सृजता तेन पूर्वे गावो विनिर्मिताः।
तेन तासां पयः शस्त श्राद्धे सर्पिस्तथैव च॥
बङ्गो=गण्डकः। वाणो=निगम उक्तः—
त्रिपिबंत्विन्द्रियक्षीणं यूथस्याग्रेचरं तथा।
रक्तवर्णंतु राजेन्द्र छागं वार्ध्रीणसं विदुः॥
मुखेन सलिलं पिबन् लम्बतया कर्णाभ्यां यो जलं स्पृशति स त्रिपिव इत्युच्यते। इति व्रीह्याद्युत्पतिः।
अथ ग्राह्याणि धान्यानि।
मनुः,
हविर्यच्चिररात्राय यच्चानन्त्याय कल्पते।
पितृभ्यो विधिवद्दत्तं तत्प्रवक्ष्याम्यशेषतः॥ (अ० ३ श्लो० २६६)
तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलेन च।
दत्तेन मासं प्रीयन्ते विधिवत्पितरो नृणाम्॥ (अ०३ श्लो०२६७)
अत्र चिररात्रशब्दो दीर्घकालवचनः। तिलादिगणनं नेतरपरिसंख्यार्थम् फलसम्बन्धार्थत्वात्। वचनान्तरवैयर्थ्यापत्तेश्च।
तथा,
आनन्त्यायैव कल्पते मुन्यन्नानि च सर्वशः।
मुन्यन्नानि=नीवारादीनि।
प्रचेताः,
कृष्णमाषास्तिलाश्चैव श्रेष्ठाः स्युर्यवशालयः।
अत्रिः,
अगोधूमं च यच्छ्राद्धं कृतमप्यकृतं भवेत्।
ब्राह्मे,
यवैर्व्रीहितिलैर्माषैर्गोधूमैश्चणकैस्तथा।
सन्तर्पयेत्पितॄन्मुद्गैःश्यामाकैः सर्षपद्रवैः॥
नीवारैर्हरिश्यामाकैः प्रियङ्गुभिरथार्चयेत्।
सर्षपो=गौरसर्षपः।
मार्कण्डेयपुराणे,
राजश्यामाकको श्राद्धे तद्वच्चैव प्रशान्तिका।
नीवाराः पौष्कराश्चैव वन्यानां पितृतृप्तये॥
यवव्रीही सगोधूमौ तिलाः मुद्गाःससर्षपाः।
प्रियङ्गवः कोविदारा निष्पावाश्चात्र शोभनाः॥
प्रशान्तिका=मध्यदेशप्रसिद्धोधान्यविशेषः। पौष्कराः=पद्मबीजानि। निष्पावाश्चात्र श्वेतवल्लाः।
कूर्मपुराणे,
वीदिभिश्चयवैर्माषैरद्भिर्मूलफलेन वा।
श्यामाकैश्चणकैः शाकैर्नीवारैश्च प्रियङ्गुभिः॥
गोधूमैश्च तिलैर्मुद्गैर्मासं प्रीणयते पितॄन्।
व्यासः,
हवींषि श्राद्धकाले तु यानि श्राद्धविदो विदुः।
तानि मे शृणु काम्यानि फल चैषां युधिष्ठिरः॥
वर्द्धमानतिलैः श्राद्धमक्षय्यं मनुरब्रवीत्।
मार्कण्डेयः—
गोधूमैरिक्षुभिर्मुद्गैःसतीनैश्चणकैरपि।
श्राद्धेषु दत्तैः प्रीयन्ते मासमेक पितामहाः॥
सतीनाः=कलायाः। ‘‘कलायस्तु सतीनक” इत्यभिधानात्। मध्यदेशे वटुरीति प्रसिद्धः।
अथ वर्ज्याणि धान्यानि।
वायुपुराणे,
अकृताग्रयणं धान्यजातं वै परिपाटलाः।
राजमाषानणूंश्चैव मसूरांश्चविवर्जयेत्॥
अन्ननिष्पत्तावाहिताग्नेरिष्टिविशेष आग्रयणम्। अनाहिताग्नेस्तु नवान्नेन स्थालीपाकः। सर्वेषां वा श्राद्धमेवाग्रयणम्।
श्यामाकैरिक्षुभिश्चैव पितॄणां सार्वकामिकम्।
कुर्यादाप्रयणं यस्तु स शीघ्रं सिद्धिमाप्नुयात्॥
इति तत्रैवोक्तेः। धान्यजातं=विहितधान्यमात्रम्। इदं चाहताग्रयणमित्यनेन सम्बध्यते। मसूरो=रोमाङ्गल्यकाख्यश्चिपिटकाकृतिः शिम्बीधान्यविशेषः।
षट्त्रिंशन्मते,
कृष्णधान्यानि सर्वाणि वर्जयेच्छ्राद्धकर्माणि।
न वर्जयेत्तिलांश्चैव मुद्रान्माषास्तथैव च॥
अत्र तिलमुद्गमाषाणामवर्जनं न तज्जातीयमात्रेऽन्वेति। अपि तु पूर्वं कृष्णगुणनिषेधात्तस्यैव प्रतिप्रसवार्थं लाघवात्। इतरेषां वर्जनप्रसक्त्यभावाच्च। अतश्चेतरेषां न विधिर्न निषेधः। राजमाषाणां तु नित्यं निषेध एव वक्ष्यमाणवचनात्। स्मृतिचन्द्रिकाकारस्तु “मुद्गाढकीमाषवर्जं द्विदलानि न दद्यात्” इतिभारद्वाजवचने नञ्युक्तस्य पाठस्य दर्शनादित्याह। आढकी=शिम्बिधान्यविशेषः। मुद्गमाषौ प्रसिद्धौ। पाषाणयन्त्रभ्रमणेन प्रायशो द्विधा भिद्यते तद् द्विदलम्। अत्र च य आढकी चणकनिष्पाबादीनां विधिः स कृष्णेतरविषयः। यश्च निषेधः स कृष्णविषयः पूर्वोदाहृतवचनात्। यद्वा विहितप्रतिषिद्धत्वाद्विकल्पः।
ग्राह्यधान्यादिविचारः।
हारीतः—
माषमसूरकृतलवणानि च श्राद्धे न दद्यात्।
कृतलवणं=क्षारलवणम्। माषाः=कृष्णमाषेतरा राजमाषशब्दवाच्याः, तेषां हि “वर्ज्या मर्कटकाः श्राद्धे राजमाषास्तथैव च " इत्यादिवचनैः प्रतिषिद्धत्वात्। मर्कटा स्तृणधान्यविशेषा मकरा इति प्रसिद्धाः।
चतुर्विंशतिमते,
कोद्रवा राजमाषाश्च कुलत्था वरकास्तथा।
निष्पावाश्च विशेषेण पञ्चैतांस्तु विवर्जयेत्॥
यावनालानपि तथा वर्जयन्ति विपश्चितः।
कुलत्थाः=श्वेताः कृष्णाश्च वर्ज्याः। कृष्णमुद्गादिवत्प्रतिप्रसवाभावात्। वरका=वनमुद्गाः। मधूलिकाशब्दस्य शालिभेदवाचित्वे सर्वे यावनाला वर्ज्याः। यावनालविशेषवाचित्वे तद्वर्जम्। मधूलिकायाः श्राद्धकर्मणि प्रचेतसा विहितत्वात्। निष्पावाः=श्वेतशिम्बिधान्यतया प्रसिद्धाः। ते च कृष्णाः। “कृष्णधान्यानि सर्वाणि वर्जयेत्’ इत्यनुरोधात्। एवं च “निष्पावाश्चात्र शोभना” इतिपूर्वोक्तमार्कण्डेयवचने निष्पाव्राभ्यनुज्ञानं कृष्णेतरविषयम्।
निगमः,
यावनालानपि तथा वर्जयन्ति विपश्चितः।
तैलमप्यापदि प्राज्ञाः सम्प्रयच्छन्ति याज्ञिकाः॥
तैलमपि वर्जयन्ति इत्यन्वयः।
आपदि तु उभयोरभ्यनुज्ञानं “न प्राप्तस्य विलोपोऽस्ति पैतृकस्य विशेषत” इति वचनादिति हेमाद्रिः।
षट्त्रिंशन्मते,
विप्रुषीका मसुराश्च श्राद्धकर्मणि गर्हिता।
विप्रुषीकाः=शालिविशेषाः।
मरीचिः,
कुलत्थाश्चणका श्राद्धे न देयाश्चैव कोद्रवाः।
कटुकानि च सर्वाणि विरसानि तथैव च॥
कटुकानि=पिप्पलादीनि।
विष्णुरपि वर्ज्यान्याह—राजमाषमसूरपर्युषितकृतलवणानि च।
पर्युषितम्, अनिषिद्धमपि।
शङ्खः,
राजमाषान्मसूरांश्च कोद्रवान्कोरदूषकान्।
वर्जयेदिति वक्ष्यमाणेन सम्बन्धः। कोद्रवो=वनकोद्रवः।
व्यासः,
अश्राद्धेयानि धान्यानि कोद्रवाः पुलकास्तथा।
पुलकाः=पुलाकाः, तुच्छधान्यानीति यावत्। छान्दसोऽत्र ह्रस्वः।
** **पद्मपुराणे—
कोद्रवोद्दालवरककुसुम्भमधुकातसीः।
एतानि नैव देवानि पितॄणां प्रियमिच्छता॥
उद्दालः=श्लेष्मातकः। कुसुम्भं=प्रसिद्धम्। मधुक ज्येष्ठीमधु। तच्छाकसंस्कारकत्वेन प्रसज्यमानं प्रतिषिध्यते। अतसी=प्रसिद्धा तस्या अपि शाकत्वेन तैलप्रकृतित्वेन वा निषेधः।
मात्स्ये—
कोद्रवोद्दालवरककपित्थमधुकातसीः।
कपित्थं=दधित्थफलम्।
ब्रह्मपुराणे,
सर्वश्राद्धेऽञ्जनं पुष्पं कुसुम्भं राजसर्षपाः।
तोवरी राजमाषं च कोद्रवं कोरदूषकम्॥
वर्ज्यं चापक्रियं सर्वं निशि यत्वाहृतं जलम्।
अजनपुष्पम्=अञ्जनद्रुमकुसुमम्। तोवरीः=तूवरीति प्रसिद्धा। अपक्रियम्=उचितक्रियारहितमन्नंन्यूनाधिकलवणदानादिना रसादिहीनमिति यावत्।
** **मार्कण्डेयः,
वर्ज्याश्चाभिषवा नित्यं शतपुष्पं गवेधुकम्।
अभिषवाः=सन्धानानि। शतपुष्पं=मिशिः॥
ब्राह्मे,
विप्रुषान्मर्कटांश्चारान्कोद्रवांश्चापि वर्जयेत्।
चारः=चरकः।
कूर्मपुराणे,
आढकीकोविदारांश्चपालक्यं9 मरिचं तथा।
ग्राह्यमूलफलनिर्णयः।
वर्जयेत्सर्वयत्नेन श्राद्धकाले द्विजोत्तमः॥
मरिचान्यार्द्राणि न शुक्राणीति हेमाद्रि।
ब्रह्मवैवर्ते,
मसूराः शतपुष्पाश्चकुसुम्भं श्रीनिकेतनम्।
वर्ज्याश्चातियवा नित्यं यथा वृषयवासकौ॥
श्रीनिकेतनम्=रक्तबिल्वम्। अतियवाः=शालिभेदाः। वृषो वासा। यवासको=दुरालभा। इति वर्ज्यानि धान्यानि।
अथ ग्राह्माणि मूलफलानि।
तत्र शङ्खः—
आम्रान् पालेवतानिक्षून्मृद्वोकाभव्यदाडिमान्।
विदार्यांश्च भरुण्डांश्च श्राद्धकाले प्रदापयेत्॥
दद्याच्छ्राद्धे प्रयत्नेन शृङ्गाटबिसकेनुकान्।
आम्रान्=चूतफलानि। पालेवतं=जम्बीराकारं फलं काश्मीरेषु प्रसिद्धम्। मृद्वोका=द्राक्षा। भव्यं=कर्मरङ्गम्। विदार्यान्=भूकुष्माण्डीकन्दान्। श्राद्धचिन्तामणौ तु विदारीम् इति पाठः। विडालिकन्द इति च व्याख्यानम्। भरुण्डः=काश्मीरदेशे प्रसिद्धो जलप्रभवः कन्दविशेषः। शृङ्गाटकः=सिङ्घाडा इति प्रसिद्धः। मखाणा इति श्राद्धमञ्जर्याम्। बिसं=पद्मिनीमूलम्। केवुक=कवकनामा आर्द्रकसदृशः कन्दविशेषः।
ब्रह्मपुराणे,
आम्रमाम्रातकं बिल्वं दाडिमं बीजपूरकम्।
चीणाकं लकुचं जम्बु भव्यं भूतं तथारुकम्॥
प्राचीनामलक क्षीरं नालिकेर परूषकम्।
नारङ्गं च सखर्जूरं द्राक्षा नीलकपित्थकम्॥
पटोलं च प्रियालैलाकर्कन्धुबद्रराणि च।
वैकङ्कत वत्सकं च एर्वारुर्वारुकानि च॥
एतानि फलजातीनि श्राद्धे देयानि यत्नतः।
आम्रातक=कपीतनस्य फलम् अवाडा इति प्रसिद्धम्। बिल्वं=बालश्रीफलम्। चीणाकम्=अतिदीर्घाकारमेर्वारुकसदृशम्। लकुच=लिकुचफलम् वडहरइति प्रसिद्धम्। जम्बु=राजजम्बुफलम्। भूत=बहिःकेसरावृतं फलं कर्णाटके देशे प्रसिद्धम्। आरुकं=वन्यमेर्वारुकम्।आरुकम्=आरु इति प्रसिद्धमित्यन्ये। प्राचीनामलकं=पानीयामलकम्। क्षीरं=राजादनफलम्। नालिकेलं=प्रसिद्धम्। परुषक=कोङ्कणदेशेप्रसिद्धम्।
नीलकपित्थकं=हरितवर्णकपित्थफलम्।पटोलं=स्वादुपटोलफलम्। प्रियालं=चारवृक्षस्य फलम् चिरोजीतिप्रसिद्धम्। रीफलम्। कर्कन्धु=वनबदरीफलम्।वैकङ्कत=स्रुवद्रुमस्य फलम्। वत्सकं=कुटजस्य फलम्। एर्वारुः=स्वादुकर्कटी। वारुकानि=वालुकीफलानि।
तथा—
कालशाकं तन्दुलीयं वास्तुकं मूलकं तथा।
शाकमारण्यक चैव दद्यात्पुष्पाण्यमून्यपि॥
मागधी दाडिमं चैव नागरार्द्रकतिन्तिडी।
आम्रातकं जीरकं न कुम्बरं चैव योजयेत्।
तन्दुलीयो=ऽल्पमारिषः। वास्तुक=कण्टकवास्तुकमिति हेमाद्रिः। मूलकशब्देन दीर्घमूलं ग्राह्यम्। पिण्डमूलकस्य स्मृत्यन्तरे निषेधात्, कौर्मे“दीर्घमूलकमेव च " इत्युक्तेश्च। आरण्यकानि फलीचुञ्चप्रभृतीनि। अमूनि वक्ष्यमाणानि पुष्पाणि चेत्यर्थः। मागधी=पिप्पली। नागरं=शुण्ठी। तिन्तिडी =तिन्तिणी। जीरकं=गौरजीरकम्। कुम्बरं=कुस्तुम्बुरुः।
कूर्मपुराणे—
बिल्वामकलकमृद्धीकं पनसाम्रातदाडिमम्।
भव्यं पारावताक्षोटखर्जूराम्रफलानि च॥
कसेरुं कोविदारं च तालकन्दं तथा बिसम्।
तमालं शतकन्दं चमध्वालुं10 शीतकन्दली।
कालेयं कालशाकं च सुनिषण्णः सुवर्चला।
मांसं शाकं दधि क्षीरं चुञ्चुर्वेत्राऽङ्कुरस्तथा॥
कट्फलं कौङ्कणी द्राक्षा लकुचं मोचकं तथा।
उष्ट्रग्रीवं कचोरश्च तिन्दुकं मधुसाह्वयम्॥
वैकङ्कत नारिकेलं शृङ्गाटकपरुषकम्।
पिप्पली मरिचं चैव पटोलं बृहतीफलम्॥
सुगन्धगन्धिः सिञ्चन्ती कलायाः सर्व एव च।
एवमाद्यानि चान्यानि स्वादूनि मधुराणि च॥
नागरं चात्र वै देयं11 दीर्घमूलकमेव च।
वर्ज्यमूलफलनिर्णयः।
आमलकं=धात्रीफलम्। पारावतं=पालेवतम्। आक्षोटो द्वीपान्तरीयपीलुफलमिति हेमाद्रिः। कसेरुः=रोमशः कन्दः कसेरुनाम्ना प्रसिद्धः। कोविदारं=काञ्चनारस्य तत्सदृशस्य वा वृक्षस्य फलं पुष्पं च। तालकन्दः=तालमूलकन्दः। तमालं=तापिच्छम्। शतकन्दं=शतावरी। मध्वालुः=मधुरैकरसः कन्दः, मोहालुरिति प्रसिद्धः। शीतकन्दली शीतकन्दः शालूकमितियावत्। कालेय=करालाख्यः शाकः। कालशाकं पूर्वोक्तम्। सुनिषण्णः=चाङ्गेरीसदृशो जलप्रभवः शाकविशेषः, सुणसुणेति प्रसिद्धः। सुवर्चला=आदित्यभक्ता। चुञ्चु=चुञ्चुरिति प्रसिद्धः। वेत्राङ्कुरः प्रसिद्धः। कट्फल=कट्फलाख्यस्य वृक्षस्य फलम्। कौङ्कणी द्राक्षा=कोङ्कणदेशप्रभवा। मोचकं=कदली। उष्ट्रग्रीव=उष्ट्रीग्रीवाकृति फलमुत्तरापथे प्रसिद्धम्। तिन्दुक=शितिशारकस्य फलम। डिण्डिसमिति क्वचित्। मधुसाह्वयं =ज्येष्ठीमधु, मधूकफलं वा। वैकङ्कतादीनि व्याख्यातानि। बृहतीफलं=कण्टकारिकाफलम्। सुगन्धगन्धिः=कर्पूरकचोरकादिः। कन्दविशेषः इत्यन्ये। सिश्चन्ती=रुदन्ती। नागर=शुण्ठी। दीर्घमूलक=पिण्डमूलकादम्यन्मूलकम्।
वायुपुराणे,
अगस्त्यस्य शिखास्ताम्राः कषायाः सर्व एव च।
सुगन्धिःमत्स्यमांसं च कलायाः सर्व एव च॥
देया इत्यनुषङ्गः। अगस्त्यस्य=मुनिद्रुमस्य। शिखाः=किशलयानि। ताम्राः=लोहितवर्णाः। कषायाः =कषायरसाः।
प्रभासखण्डे,
कट्फलं कतकं द्राक्षा लकुचं मोचमेव च।
प्रियालं काकमाची च तिन्दुकं मधुकाह्वयम्॥
आरामस्य तु सीमान्ताः कलायाः सर्व एव तु।
एवमादीनि चान्यानि शस्तानि श्राद्धकर्मणि॥
कतकम्=जलप्रसादनम्। सीमान्ता=नवपल्लवाः। इति ग्राह्यमूलफलानि॥
अथ वर्ज्यानि।
वायुपुराणे,
वर्जनीयानि वक्ष्यामि श्राद्धकर्मणि नित्यशः।
लशुनं गृञ्जनं चैव पलाण्डुं पिण्डमूलकम्॥
कलम्बा यानि चान्यानि हीनानि रसगन्धतः।
पिप्पली मरिचं चैव पटोलं बृहतीफलम्॥
वांशं करीरं सुरसमर्कजं भूस्तृणानि च।
अवेदोक्ताश्च निर्यासा लवणान्यूषणानि च॥
श्राद्धकर्माणि वर्ज्यानि याश्च भार्या रजस्वलाः॥
लशुनं गृञ्जन च पलाण्डोरेव भेदौ। उपलक्षण चैतदन्येषां भेदानाम्। लशुनादीनां पुरुषार्थे निषेधे स्थितेऽपि श्राद्धार्थत्वेन पुनर्निषेधः। गृञ्जनं=हरिद्रक्तवर्णः कन्दः। पिण्डमूलकं=पिण्डाकृतिमूलम्।कलम्बा=वेणुपत्राकृतिपत्रो जलजः शाकः, वर्त्तलफला तुम्बी वा। कटुपिप्पलीमरीचयोरार्द्रयोः स्वतन्त्रशाकत्वेन प्रतिषेधः। यत्तु तयोः “पिप्पली मरिचं चे” त्यादिपुराणेऽभ्यनुज्ञानं तच्छाकसंस्कारकत्वेन शुष्कविषयमिति हेमाद्रिवाचस्पतिमिश्रादयः। पटोलं लताफल न आरण्यं, लतायां नपुंसकप्रयोगानुपपत्तेः। “पटोलस्तिक्तकः पटुः” इत्यनुशासने पुंल्लिङ्गप्रयोगात्। बृहतीफलं=क्षुद्रवार्ताकफिलम्। वाशः करीरो=वंशाङ्कुरः। सुरस=निर्गुण्डीफलं पत्रं वा। अर्जकं=श्वेतकुठेरकपत्रम्। भूस्तृण=भूतीकसंज्ञः शाकभेदःकश्मीरेषु प्रसिद्धः। स्मृतिचन्द्रिकाकारस्तु यस्य तले ग्रन्थिस्थानेषु च परिमण्डला अवयवा भवन्ति स भूस्तृणः। अवेदोक्ता इति=वेदाभ्यनुज्ञातनिर्यासव्यतिरिक्तनिर्यासाः। तथा च
तैत्तिरीयश्रुतिः, अथो खलु य एव लोहितोयोवा व्रश्चनान्निर्येषति तस्य नाश्यं काममन्यस्येति।
व्रश्चन=छेदः। लोहितो अवश्चनजोऽपि व्रश्चनजश्चालोहितोऽपि। निर्येषति=निर्याति। एव च लोहितनिर्यासाश्च श्राद्धे वर्ज्या इत्यर्थः। लवणानि=कृत्रिमाणि अनिषिद्धानि च प्रत्यक्षाणि। तथा च—
विष्णुः, -न प्रत्यक्षं लवणं दद्यात्।
सैन्धवमानससम्भवयोस्तु प्रत्यक्षयोरप्यनिषेध उक्तो ब्रह्माण्डे,
सैन्धवं लवणं चैव तथा मानससम्भवम्।
पवित्रे परमे ह्येते प्रत्यक्षे अपि नित्यशः॥
ऊषणानि=शाकसंस्कारकाणि मरीचाद्यभ्यनुज्ञातवर्जं निषिद्धानि। स्मृतिचिन्द्रिकायां तु लवणान्यूषराणि चेति पाठः। लवणानि ऊषराणि तदा ऊषरमृत्तिकाकृतानि लवणानीत्यर्थः।
विष्णुः। भूतृणशिग्रुसर्षपसुरसार्जककूष्माण्डालाबुवार्त्ताकपालड्योपोदकीतण्डुलीयक कुसुम्भमहिषीक्षीराणि वर्जयेत्। “मालातृणकभूस्तृणे” इत्यमरसिंहे सुडागमसहितस्यैव पाठात्तद्रहितस्यात्र
प्रयोगश्छ्रान्दसः। शिशुः=शोभाञ्जनः स च श्वेतपुष्पः, रक्तपुष्पस्य सामान्यतः प्रतिषेधेन प्राप्त्यभावादिति हेमाद्रिः। वस्तुतस्तु उभयोरपि ग्रहणं रक्तस्य पुरुषार्थत्वेन पृथक् निषेधौचित्यम्। सर्षपोऽत्र राजसर्षपः कृष्णसर्षपापरनामधेयः। ‘कुसुम्भं राजसर्षपा’ इति स्मृत्यन्तरे वर्ज्यत्वेन तस्यैवाभिधानात्, अतश्च गौरसर्षपोऽत्र ग्राह्य एव। कूष्माण्डम्=कर्कारु। अलाबु=तुम्बीफलम्। तच्च वर्तुलम्, ‘अलाम्बु वर्तुलं चेति वचनात्। वार्ताकं=क्षुद्रवार्त्ताकीफलम्। पालङ्क्या=गन्धद्रव्यविशेषः। कुसुम्भशब्देन कण्टकिकुसुम्भस्य ग्रहणम्, अकण्टककुसुम्भस्य सर्वदा प्रतिषेधात्। क्वचितु पिप्पली ससुकभूस्तृणासु. रीसर्षपसुरसाकूष्माण्डलाबुवार्ताकपालकपालङ्क्यतण्डुलयिककुसुम्भपिण्डमूलमहिषीक्षीराणिवर्जयेदिति विष्णुपुराणवचने पाठः। ससुकं=खदिरशाकम्। अत्र वाचस्पतिमिश्रैस्तम्बकमिति पाठोलिखितः, बीजपूरकमिति च व्याख्यातम्। आसुरीसर्षपो=राजसर्षपः। सुरसा=तुलसी। भक्ष्यत्वेनास्याः प्रतिषेध इति वाचस्पतिमिश्रः।
पालाशखदिराश्वत्थतुलसीघातकावटाः।
एतान्याहुः पवित्राणि ब्रह्मज्ञा हव्यकव्ययोः॥
इति पुष्पप्रकरणे देवलोक्तेः पुष्पत्वेन तु आदेयैव। सुरसा=निर्गुण्डीत्यन्ये।
हारीतः,
पालङ्क्यानालिकापोतकाशिनुवार्ताकभूस्तृणकाफल्लमाषमसुरकतलवणानि च श्राद्धे न दद्यादिति।
नालिका=जलोद्भवा शाकत्वेन प्रसिद्धा तमालदला वल्लिः। पोतीका=उपोदकी परपर्याया निद्रातिशयकारिणी शाकत्वेन प्रसिद्धा। काफल्लः=आरण्यशाकः काश्मीरेषु प्रसिद्धः।
उशनाः,
नालिकासणछत्राककुसुम्भालाबुविड्भवान्।
कुम्भीकञ्चुकवृन्ताककोविदाराश्च वर्जयेत्॥
वर्जयेद् गुञ्जनं श्राद्धे कालिकं पिण्डमूलकम्।
करञ्जं येऽपि चान्ये वै रसगन्धोत्कटास्तथा।
छत्राकं=शतपुष्पा, वर्षाकालोद्भवं छत्रं वा। विग्रहणं चापवित्रभूप्रदेशस्योपलक्षणम्। तेन तदुद्भवं न देयम्। कुम्मी=श्रीपर्णिका। कञ्चुकं=वृन्ताकाकारमलाबुफलम्। यत्वस्मिन् वाक्ये पृथक् अलाबु–
ग्रहणं तदलाबुपत्रादेः शाकत्वेन प्रतिषेधार्थम्। बृन्ताकं=श्वेतवृत्ताकम। गृजनं=गाजरमिति प्रसिद्धमिति हेमाद्रिः। काञ्जिकम्=आरनालम्। करञ्जं=चिरबिल्वफलं। “चिरबिल्वोरक्तमालःकरजश्च करञ्जके" इत्यमरेऽभिधानात्।
भारद्वाजः,
नक्तोद्धृतन्तु यत्तोयं पल्वलाम्बु तथैव च।
स्वल्पन्तु कूष्माण्डफलं वज्रकन्दश्च पिप्पली॥
तण्डुलीयकशाकं च माहिषं च पयोदधि।
शिम्बिकानि करीराणि कोविदारगवेधुकम्॥
कुलत्थसणजीराणि करम्भाणि तथैव च।
अब्जादन्यद्रक्तपुष्पं शिग्रुक्षारस्तथैव च॥
नीरसाण्यपि सर्वाणि भक्ष्यभोज्यानि चैव हि।
एतानि नैव देयानि सर्वस्मिन् श्राद्धकर्मणि॥
नक्तोद्धृतं=रात्रौ जलाशयादुद्धृतम्। स्वल्पमिति पल्वलविशेषणम्। एकस्या गोः तृप्तेर्यावत् पर्याप्तजलं तन्न ग्राह्यमित्यर्थः। वज्रकन्दः=आरण्यसूरणः। शिम्बिकानि=शिम्बिसंबन्धिधान्यानि प्रतिषिद्धानि।करीराणि=बदराराकृतिफलानि। जीरकं= कृष्णजीरकम्।
तथा च व्यासः,
कृष्णाजाजी विडं चैव शीतपाकी तथैव च।
कृष्णाजाजी=कृष्णजीरकम्। विड=लवणम्। शीतपाकी=काकजङ्घा। करम्भाणि=दधिमिश्राः सक्तव। क्षार=यवक्षारादि। सर्वस्मिन्=नित्यश्राद्धादन्यत्र। ‘यदन्नं पुरुषोभुङ्गे तदन्नास्तस्य देवता’ इति नित्यश्राद्धं प्रक्रम्य रामायणोक्तेः।
सुमन्तुः। बीजपूरकमाषांश्च श्राद्धे न दद्यात्। बीजपूरो=मातुलुङ्गकः। ‘फल पूरो बीजपूरो रुचको मातुलुङ्गक’ इति अमरसिंहेऽभिधानात्।
ब्रह्मपुराणे,
फले करुणकाकोले बहुपुत्रार्जुनीफलम्।
जम्बीरं रक्तबिल्वञ्च शालस्यापि फलं त्यजेत्॥
अलाबुःतिक्तपर्णी च कूष्माण्डी कटुपत्रिका।
वार्ताकं शिम्बिजातं च लोमशाश्चिर्भटानि च॥
वर्ज्यमूलफलनिर्णयः।
कालिङ्गं रक्तचारं च चीणाकं धृतचारकम्।
श्राद्धकर्मणि वर्ज्यानि गन्धचिर्भटिकं तथा॥
कपालं काचमांची च करक्ष पिण्डमूलकम्।
गृञ्जन चुक्रिकां चुक्र गाजरं पातिकां तथा।
जीवकं शतपुष्पा च नालिकां ग्राम्यशुकरम्।
हलं नृत्यं सर्षपं च पलाण्डुं लशुनं त्यजेत्॥
माणकन्दं विषकन्दं तथैव च गतास्थिगम्।
पुरुषालं सपिण्डालु श्राद्धकर्मणि वर्जयेत्॥
नोग्रगन्धं व दातव्यं कोविदारकशिग्रुकौ।
अत्यम्ल पिच्छिलं रूक्ष अन्यच्च मुनिसत्तम॥
नैवदेयं गतरसं मद्यगन्धं च यद् भवेत्।
हिङ्गूग्रगन्धा पनस भूनिम्बं निम्बराजिके॥
कुस्तुम्बरं कलिङ्गोत्थ वर्जयेदम्लवेतसम्।
पिण्याकं शिग्रुकं चैव मसूरं गृञ्जनं शणम्॥
कोद्रवं कोकिलाक्षं च चुक्रं कम्बुच पद्मकम्।
चकोरश्येनमांसं च वर्तुलालाबुनालिनी॥
फलं तालतरूणां च भुक्त्वा नरकमृच्छति।
दत्वा पितृभ्यः तैः सार्द्धं व्रजेत् पूयवहं नरः॥
तस्मात् सर्वप्रयत्नेन नाहरेत विश्वक्षणः।
निषिद्धानि वराहेण स्वयं पित्रर्थमादरात्॥
करुण=करुणजातीयं वृक्षफलं गुर्जरदेशे प्रसिद्धम्। काकोल=काकोलीफलम् उत्तरापथे प्रसिद्धम्। बहुपुत्रा=शतावरी। अर्जुनीफलं–ककुभताफलम् शालः–सर्जः। अन्ते वर्तुलालाबुनिषेधात् पुनरत्रालाबुग्रहणं उभयालावुनिषेधार्थमिति पृथ्वीचन्द्रः। तिक्तपर्णी=कद्रुकरोहिणी। कटुपत्रिका=राजिका।रोमशानि=कपिजम्बूपलानि। चिर्भटं=गौरक्षाख्यः कर्कटीभेदः। रक्तचारं=लोहितचारफलम्। धृतचारकं=चिरसंगृहीतचारफलम्। गन्धचिर्मटिकम्=गन्धयुक्तचिर्भटम्। कपाल=नारिकेलम्। गृञ्जन=हरिद्रक्तवर्णः पलाण्डुभेदः। चुक्रिका चाङ्गेरी। ‘चाङ्गेरी चुक्रिका दन्तशठाऽम्बष्ठाम्ललोणिका’ इति अमरेऽभिधानात्। गुडमधुकाञ्जिकमस्त्वादिद्रवद्रव्यं धान्याद्यूध्मणित्र्यहं सप्ताहादि कालं वा अवस्थाप्यातिशुक्ततां नीतं चुक्रमुच्यते। गाजरं=गाजरमिति प्रसिद्धं। जीवकः=जीवसंज्ञयैवोत्तरापथे प्र-
सिद्धः। हलं=जलपिप्पली। नृत्यं=नटी। माणकन्दो=महच्छद इति मदननिघण्टुः। विषकन्दः=महिषीकन्दाख्यः, जुचालुरिति राजनिघण्टुः। गतास्थिगं=अस्थिकारहितं यत्किञ्चित् फलम्। पुरुषाल= लक्ष्मणाकन्दः पुस्कन्द इति राजनिघण्टुः। पिण्डालुः प्रसिद्धः। उग्रगन्धा=वचा। भुनिम्बः= किराततिक्तकः। कुस्तुम्बर=कुवरम्। पिण्याण= तिलकल्कः। कोकिलाक्षं=इक्षुरः। पद्मक=पद्मकनाम्ना वैद्यानां प्रसिद्धः। चकोरश्येनौ=
पक्षिविशेषौ।
मार्कण्डेयपुराणे—
गन्धारिकामलाबूनि लवणान्यौषणानि च।
वर्जयेत्तानि वै श्राद्धे यच्च वाचा न शस्यते॥
दात्रा प्रदानकाले सत्कारार्थं वाचा यन्न स्तूयते तदपि श्राद्धसाद्गुण्याय न भवतीत्यर्थः।
तथा—
पूति पर्युषितं चैव वार्ताकाभिषवास्तथा।
वर्जनीयानि वै श्राद्धे तथा वस्त्र च लोहितम्॥
पूति=दुर्गन्धम्। पर्युषितं=गोधूमविकाराद्यपि। क्वचित्तु तथा वसु च लोहितमिति पाठः। तदा लोहितं=
वसुकाख्यं शाकम्। यद्वा लोहितवर्णे वसु द्रव्यं करवीरपुष्पादि।
कूर्मपुराणे—
पिप्पलीं रुचकं चैव तथा चैव मसूरकम्।
कुसुम्भपिण्डमूलं च तण्डुलीयकमेव च॥
वर्जयेदिति वक्ष्यमाणेन सम्बन्धः। रुचक्रं=सौवर्चलम्।
पद्मपुराणे—
पद्मबिल्वकधत्तूरपारिभद्राढरूषकाः।
न देयाः पितृकार्येषु पयश्चाजीविकं तथा॥
पारिभद्रो=निम्बः। आढरूषकः=सिंहास्यः, वासा इति प्रसिद्धः।
व्यासः—
अवक्षुतावरुदितं तथा श्राद्धेषु वर्जयेत्।
ब्रह्माण्डपुराणे—
सुगन्धं पञ्चशिम्बञ्च कलायाः सर्व एव च।
सुगन्धं=गन्धनाकुल्याः पत्रादि। निष्पावमसुरराजमाषमठकुलुत्थाख्यानि पञ्चशिम्बधान्यानि।
अत्रेयं व्यवस्था श्राद्धप्रकरणे यद् द्रव्यं फलविशेषार्थमुपात्तंतत् फलविशेषार्थिना देयं, यस्य तु फलसंयोगोनास्ति केवलं श्राद्धप्रकरणे विधानं तस्य श्राद्धस्वरूपसम्पादकत्वेन श्राद्धाङ्गत्वम्। तदलाभे तु अविहिताप्रतिषिद्धं विहितसदृशं देयम्। यस्य तु प्रकरणे निषेधः तत् प्रतिनिधित्वेनापि नादेयम्। यस्य तु श्राद्धप्रकरणे विधिप्रतिषेधौ, यथा बहुपुत्रापनसचीणाकतण्डुलीयचुक्रिकाज्येष्ठीमधुहिङ्गुकोविदार कुस्तुम्बरनारिकेलबीजपुरकादौ। तत्र ग्रहणाग्रहणषद् विकल्पः। इति वर्ज्यानि मूलफलानि।
अथ ग्राह्याणि क्षीराणि।
पद्मपुराणे—
अन्नं च सदधिक्षीरं गोघृतं शर्करान्वितम्।
मास प्रीणाति वै सर्वान् पितॄनित्यब्रवीदजः॥
मनुः।
संवत्सरं तु गव्येन पयसा पायसेन च।
पायसेन=परमान्नेन।
सुमन्तुः।
पयोदधि घृतं चैव गवां श्राद्धेषु पावनम्।
महिषाणां घृतं प्राहुः श्रेष्ठं न तु पयः क्वचित्॥
देवलः—
अजाविमहिषीणान्तु पयः श्राद्धेषु वर्जयेत्।
विकारान् पयसश्चैव माहिषं तु घृतं हितम्॥
इति क्षीराणि प्राह्याणि।
अथ वर्ज्यानि।
भबिष्यत्पुराणे—
श्राद्धे तु महिषीक्षीरं अजाक्षीरं च वर्जयेत्।
गवां चानिर्दशाहानां सन्धिनीनां पयस्त्यजेत्॥
या कालद्वये प्राप्तदोहा एकदैव दुह्यते सा सन्धिनी। यद्वा वृषेण सन्धिं प्राप्ता सा सन्धिनी। मृतवत्सा वा वत्सान्तरेण सन्धीयमाना।
मार्कण्डेये—
मार्गमाविकमौष्ट्रं च सर्वमैकशफं च यत्।
माहिषं चापरं चैव धेन्वा गोश्चाप्यनिर्दशम्॥
वर्जनीयं सदा सद्भिः तत् पयः श्राद्धकर्मणि।
गौतमः—
स्यन्दिनीयमसूसन्धिनीनां च याश्च वत्सव्यपेताः। क्षीरं अपेयमित्यनुषङ्गः। स्यन्दिनी=स्वयमेव क्षरत्क्षीरा, स्रवद्योनिर्वा। वत्सव्यपेता=अवत्सा, वत्सं विना वा दुग्धा। “न हृतवत्सायाः शोकाभिभूतत्वात्, न दुग्धाया विना वत्सात्”, इति हारीतवचनात्। अत्र शोकापगमे न निषेधः हेतुमन्निगदात्। इति वर्ज्योनि।
अथ मांसानि।
मनुः,
मुन्यन्नानि पयः सोमो मांसं यच्चानुपस्कृतम्।
अक्षारलवणञ्चैव प्रकृत्या हविरुध्यते॥( अ ० ३ श्लो० २५७)
तथा,
पितॄणां मासिकं श्राद्धं अन्वाहार्थंविदुर्बुधाः।
तदामिषेण कर्तव्यं प्रशस्तेन प्रयत्नतः॥ (अ० ३ ३लो० १२३)
मासिकं=प्रतिमासभवममावास्याश्राद्धं तन्मुनयोऽन्वाहार्यमिति विदुः। तदामिषेण मांसेन प्रशस्तेनाप्रतिषिद्धेन विशेषविहितेन वा कर्तव्यमित्यर्थः। अयं च मुख्यः कल्पः। तथा च स्मृत्यन्तरम् सर्पिर्मांसं च प्रथमः कल्पः। अभावे तैलं शाकमिति। मांसं च व्यञ्जनत्वेन देयं न तु स्वातन्त्र्येण, गुणांश्च सूपशाकाद्यान् इति वचनात्।
स्मृत्यन्तरे,
विना मांसेन यच्छ्राद्धं कृतमप्यकृतं भवेत्।
क्रव्यादाः पितरोयस्मादलाभे पायसादयः॥
तथा,
मांसं शाकं दधि क्षीरं मधु मुन्यन्नमेव च।
शङ्खः,
तित्तिरिं च मयूरं च लावकं च कपिञ्जलम्।
वार्घ्रीणसं वर्तकं च भल्यान्याह यमः सदा॥
तित्तिरिः=चित्रपक्षः। मयूरः=शिखण्डी। लावकः=प्रसिद्धः। कपिञ्जलः=बभ्रुवर्णः पक्षी। गौरतित्तिर इति केचित्। वार्घ्रीणसः=पूर्वोदाहृतनिगमोक्तलक्षणः। वर्तकः=वृत्ताकारः पक्षिविशेषः।
मनुः,
पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः।
राजीवसिंहतुण्डांश्च सशल्कांश्चैव सर्वशः॥ (अ० ५ श्लो०१६)
कालविशेषावच्छेदेनतृप्तिकरपदार्थनिर्णयः।
हव्यकव्ययोर्विनियुक्तौ आद्यौ अदनीयौ। पाठीनः=चन्द्रकाख्यः। रोहितो=लोहितवर्णः। राजीवः=पद्मवर्णः। सिंहतुण्डाः=सिंहमुखाः। सशल्काः=पृष्ठप्रतिष्ठितशुक्त्याकारशकलाः।
अथ कालविशेषावच्छेदेन तृप्तिकराणि।
(अ० ३ श्लो० २ आरम्य २७ पर्यन्ताः)
मनुः,
तिलव्रीहियवैर्मोसैरद्भिर्मूलफलेन वा।
दत्तेन मासं प्रीयन्ते विधिवत् पितरोनृणाम्॥
द्वौ मासौ मत्स्यमांसेन त्रीन्मासान् हारिणेन तु।
औरभ्रेणाथ चतुरः शाकुनेनेह पञ्चतु॥
षण्मासान् छागमांसेन पार्षतेनाथ सप्त तु।
अष्टावेणस्य मांसेन रौरवेण नवैव तु॥
दशमासांस्तु तृप्यन्ति वराहमहिषाभिषैः।
शशकूर्मयोर्मांसेन मासानेकादशैव तु॥
संवत्सरन्तु गव्येन पयसा पायसेन तु।
वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी॥
कालशाकं महाशल्काः खड्गलोहामिषं मधु॥
आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः।
उरभ्रो=मेषः। महिषो=लुलायः। आमिषं=मांसम्। एतस्य च विकल्पः, “माहिषाणि च मांसानि श्राद्धेषु परिवर्जयेत्” इति विष्णुपुराणे प्रतिषेधात्। आवश्यकमांसाभावेऽनुकल्पविधानमिति केचित्। तत्रावश्यकहारिणादिभ्योऽधिकप्रशंसानुपपत्तेः।
मार्कण्डेयपुराणे,
विदार्यैस्तु परुषैश्च बिसैःशृङ्गाटकैस्तथा।
कंचुकैश्च तथा कन्दैः कर्कन्धुब्दरैरपि॥
पालेवतैरारुकैश्चाप्यक्षोटैः पनसैस्तथा।
काकोल्या क्षीरकाकोल्या तथा पिण्डालुकैः शुभैः।
लाजाभिश्च सधानाभिस्त्रपुसैर्वारुचिर्भटैः।
सर्षपाराजशाकाभ्यां इङ्गुदैराजजम्बुभिः॥
प्रियालामलकैर्मुख्यैः फल्गुभिश्च विलम्बकैः।
वंशाङ्कुरैस्तालकन्दैश्चुक्रिकाक्षीरिकावचैः॥
वोचैः समोचैर्लकुचैस्तथा वै बीजपूरकैः।
मुञ्जातकैः पद्मफलैर्भक्ष्यभोज्यैस्तु संस्कृतैः।
रागखाण्डवचोष्यैश्च त्रिजातकसमन्वितैः।
दत्तैस्तु मासं प्रीयन्ते श्रद्धेषु पितरोनृणां।
कन्दः=सूरणः। काकोलीक्षीरकाकोल्यौ गौडदेशे प्रसिद्धे। सर्षपेति स्त्रीलिङ्गतया निर्देशःछान्दसः। राजशाकं=राजयक्षबाख्यंशाकम्। इङ्गुदी=तापसतरुः। राजजम्बु=जम्बूविशेषः। मुख्यान्यामलकानि=स्थूलान्यामलकानि। फल्गु=क्षुद्रामलकम्। विलम्बकानि=पटोलानि। मुञ्जातक=
गौडदेशे प्रसिद्धम्। शर्करामध्वादिद्रव्ययोगेन मधुरीकृतारसा रागाः। अम्लसंयोगेन खाण्डवाः।
कात्यायनः—
अथ तृप्तिः, ग्राम्याभिरोषधीभिर्मासं तृप्तिरारण्याभिर्वा, तदलाभे मूलफलैरद्भिर्वा सहान्नेनोत्तरास्तर्पयन्ति छागोस्रमेषा आलब्धव्याः। शेषाणि क्रीत्वा लघ्वा स्वयं मृतानां वा हृत्य, यवेन मासम्, मासद्वयं, मत्स्येन, त्रीन् मासान् हारिणेन मृगमांसेन, चतुःशाकुनेन, पञ्च रौरवेण, षट्छागेन, सप्त कौर्मेणाष्टौ वाराहेण, नव मेषमांसेन, दश माहिषेणैकादश पार्षतेन, सम्बत्सरं तु गव्येन पयसा पायसेन वा, वार्ध्रीणसस्य मासेन द्वादशवर्षाणि अक्षया तृप्तिः। खङ्गः कालशाकं लोहछागोमधुमहाशल्को वर्षांसु मघासु च श्राद्धं हस्तिछायायाम्। अथ तृप्तिरित्यनन्तरं उच्यते इत्यध्याहारः। ग्राम्याभिरोषधीभिः=यवगोधूमादिभिः सकृद्दत्ताभिर्मासं तृप्तिर्भवतीत्यर्थः। सम्पूर्णतृप्तिपर्याप्तग्राम्यारण्यालाभे मूलफलैरद्भिर्वा मासं तृप्तिः। अत्रादिभिर्मासं तृप्तिमुक्त्वामांसैर्द्विमासादितृप्तिं वक्तुं तदुपादानविधिमाह छागइत्यादिना। उत्तरा मूलफलादयोऽन्नेन स्वल्पेन सहैव दत्तास्तर्पयन्ति न केवलाः। उस्नोऽनड्वान्। अन्यौ प्रसिद्धौ। इदं च ग्राम्योपलक्षणम्। ते च प्रोक्षणादिसंस्कारपूर्वकं आलब्धब्याः संज्ञपनीया इत्यर्थः। आरण्यानांपशूनां तु प्रोक्षणादि संस्कारमन्तरेणापि क्षत्रियादिना स्वयं परेण वा हतानां क्रयाद्युपायसम्पादितं मांसं श्रद्धादौदेयम्। तथा च। पुलस्त्यः,
वर्जयेद्दुरतः श्राद्धे यदप्रोक्षितमामिषम्।
कालविशेषावच्छेदेनतृप्तिकरपदार्थनिर्णयः।
राजानुत्यादितं यच्चव्याधिनाभिहताच्च यत्॥
अप्रोक्षितं=प्रोक्षणादिरहितम्। राजानुत्पादितं मृगव्येन स्वयमनुत्पादितं वर्जयेत्। व्याधिनाभिहतात् पशोर्यत् गृहीतं तदपि वर्जयेत् इत्यर्थः। अयं च अप्रोक्षितनिषेधोग्राम्यपशुविषयःआरण्यास्तु प्रोक्षणमन्तरेणापि प्रशस्ता एवेति ब्रह्मपुराणे।
आरण्यानां तु सर्वेषां प्रोक्षणं ब्रह्मणा कृतम्।
अत एव तु ते भक्ष्या ब्राह्मणक्षत्रियादिभिः॥
हारीतः,
क्षत्रियैस्तु मृगव्येन विधिना समुपार्जितम्।
श्राद्धकाले प्रशंसन्ति सिंहव्याघ्रहतं च यत्॥
( अ० ५ श्लो० ३२ )
मनुः,
क्रीत्वा स्वयं वाप्युत्पाद्य परोपहृतमेव च।
देवान् पितृश्चार्चयित्वा खादन् मांसं न दुष्यति॥
अतश्च ग्राम्याणां प्रोक्षणादि कृत्वैवालम्भनम्। आरण्यानां तु प्रोक्षणादिसंस्कारमन्तरेणैव क्षत्रियादिना स्वयं परेण वा हतांक्रियादिभिः सम्पाद्य मांसं देयम्।
उशनाः
तत्र व्रीहियवैर्माषैरर्चिता मासं पितरस्तृप्ता भवन्ति मासार्द्धं मात्स्येन, त्रयं हरिणमृगमांसेन, चतुरोमासान् कृष्णसारङ्गेण, पञ्च शाकुनेन, षट् छागेन, सप्त पार्षतेन, अष्टौ वराहेण, नव रुरुणा, मेषेण दश, एकादश कूर्मेण, पायसेन पयसा गव्येन सम्वत्सरं, वाणसस्य मांसेन तृप्तिर्दश वार्षिकी। खड्गमांसेन आनन्त्यं अपि चोदाहरन्ति।
खड्गश्च कालशाकं च लोहछागं तथैव च।
महाशल्कश्च मध्वन्नं पित्र्येऽनन्त्याय कल्पते॥
यमः,
अद्भिर्मूलफलैः शाकैः पुण्यव्रीहियवैस्तथा।
प्रीणाति मासं दत्तेन श्राद्धेनेह पितामहान्॥
मत्स्यैः प्रीणाति द्वौ मासौ त्रीन् मासान् हारिणेन तु।
शल्यकश्चतुरोमासान् रुरुः प्रीणाति पञ्च च॥
शशः प्रीणाति षण्मासान् कूर्मः प्रीणाति सप्त तु।
अष्टौमासान् वराहस्तु मेषः प्रीणयते नव॥
माहिषं दश मासांस्तु गवय रुद्रसम्मितान्।
गव्यं द्वादशमासांस्तु पयः पायसमेव च॥
वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी।
आनन्त्याय भवेदत्तंखड्गमांसं पितृक्षये॥
पितृक्षयोगया ज्ञेया तत्र दत्तं महाफलम्।
कालशाकश्च खड्गश्च लोहछागस्तथैव च॥
महाशकलमत्स्याश्च पित्र्येऽनन्त्याय कल्पिताः।
यत् किश्चिन्मधुसंयुक्तं तदानन्त्याय कल्पते॥
उपाकृतन्तु विधिना मन्त्रेणान्नं तथा कृतम्।
गवयो=
गो सहशः पशुः तस्य मांसं गावयम्।
नागरखण्डे,
अप्राप्तौ खड्गमांखस्यतथा वार्ध्रीणसस्य वा।
मधुना सह दातव्यं पायसं पितृतृप्तये॥
तेनापि वार्षिकी तृप्तिः पितृणाञ्चोपजायते।
अभावे चापि तस्यापि शिशुमारसमुद्भवम्॥
मांसं तु तृप्तये प्रोक्तं वत्सरं मांसवर्जितम्।
तदभावे वराहोत्थं दशमासप्रतुष्टिदम्।\।
आरण्यमाहिषोत्थेन तृप्तिः स्यान्नवमासिकी।
रुरुश्चैवाष्ट मासान् वै एणे स्यात् सप्तमासिकी॥
छागस्य मासषट्कन्तु शशकस्य व पञ्चवै।
चतुरः शल्य कस्योक्तास्त्रयोविष्किरिकस्य च॥
मासद्वयस्य मत्स्यस्य मांसं कापिञ्जलस्य च।
नान्येषां योजयेन्मांसं पितृकार्ये कथञ्चन॥
एतेषामपि चाभावे पायसेन नराधिप।
अथान्नानि,
प्रचेताः। पायसतिलकृशरब्रह्मसुवर्चलाहरितमुद्गकृष्णमाषश्यामाकप्रियङ्गुयवगोधूमेक्षुविकारान् दद्यात्। पायसं=पयसिसिद्ध ओदनः। तिलतण्डुसिद्धओदनः कृशरम्। ब्रह्मसुवर्चला=आदित्यभक्ता। विकारशब्दः प्रत्येकं सम्बध्यते। इदञ्चोपलक्षणं तेन यावद्विहितं द्रव्यं तस्य सर्वस्य विकारान् दद्यादित्यर्थः। अत्र विकारपदश्रवणान गोधूमब्रीहियवादीनां साक्षात् प्रदेयत्वं किन्तु ब्रीहीणां पुराडाश-
प्रकृतित्ववत् द्विजातिकर्तृकश्राद्धे ब्राह्मणभोजनसाधनीभूतान्नप्रकृतित्वमेव। आमश्राद्धे तु वचनात् साक्षात् प्रदेयता। अत्र च कृशरादीनां सम्भवत् समुच्चयः, भोजनसाधनत्वेन लोके तथैवावगतत्वात्।
देवलः,
ततोऽन्नंबहु संस्कारनैकव्यञ्जनभक्ष्यवत्।
चोष्यपेयसमृद्धं च यथाशक्त्युपकल्पयेत्॥
सस्कारा=मरिचादयः। व्यञ्जनं =सुपादि। दन्तैरवखण्ड्य यद्भक्ष्यते तद् भक्ष्यम्। चोष्यम्=इक्षुखण्डादिक। पेयं =पानकादि।
ब्रह्मपुराणे—
गुडशर्करमत्स्यण्डी देयं फाणितमुर्मुरम्।
गव्यं पयोदधि घृतं तैलं च तिलसम्भवम्॥
शर्कराभेदो=मत्स्यण्डी। ईषत् क्वथितस्येक्षुरसस्य द्रव एव विकारः फाणितम्। गुडमरिचैलामिश्रोगोधूमस्थूलचूर्णविकारो मुर्मुरुः। तैलस्य विधिर्दीपादौ शाकपाकार्थंअभ्यङ्गादौ च ज्ञेयः॥
तथा,
पायसं शालिमुद्गाद्यंमोदकादींश्च भक्तितः।
पूरिकां च रसालां च गोक्षीरं च नियोजयेत्॥
यानि चाभ्यवहार्याणि स्वादुस्निग्धानि भोद्विजाः।
ईषदुष्णकटून्येव देयानि श्राद्धकर्मणि॥
मोदको=लडुकः।
कूर्मपुराणे,
लाजान् मधुयुतान दद्यात् सक्तून् शर्करया सह।
दद्याच्छ्राद्धे प्रयत्नेन शृङ्गाटकबिसे तथा॥
वायुपुराणे,
भक्ष्यान् वक्ष्ये करम्भञ्च इष्टका घृतपूरिका।
कृशरं मधुसर्पिश्च पयः पायसमेव च॥
स्निग्ध उष्णञ्च योदद्यात् अग्निष्टोमफलं लभेत्।
इष्टका=इष्टकाकृतिः खण्डेष्टकाख्योभक्ष्यविशेषः।
सौरपुराणे,
विविधं पायसं दद्यात् भक्ष्याणि विविधानि च।
लेह्यं चोष्यंयथाकाममुष्णमेव फलं विना॥
विविधान्यपि मांसानि पितॄणां पितृपूर्वकम्।
अत्राग्निपाकादनीयात्फलादन्यत् फलम् तस्य तु कटूष्णस्यैव स्वादुत्वात्तादृशस्यैव दानमिति हेमाद्रिः। फलमित्युपलक्षणं अपक्वकन्दमूलफलादीनाम्। अत एव। कौर्मे,
उष्णमन्नंद्विजातिभ्योदातव्यं श्रेय इच्छता।
अन्यत्र फलमूलेभ्यःपानकेभ्यस्तथैव च।
वायुपुराणे,
घृतेन भोजयेत् विप्रान् घृतं भूमौ समुत्सृजेत्।
शर्कराः क्षीरसंयुक्ताः पृथुका नित्यमक्षयाः॥
स्युश्च संवत्सरं प्रीता वर्करैर्मेषकैणकैः।
सक्तून् लाजांस्तथा पूपान् कुल्माषान् व्यञ्जनैः सह॥
सर्पिःस्निग्धानि सर्वाणि दग्धा संस्कृतभोजयेत्।
श्राद्धे श्वेतानि योदद्यात् पितरः प्रीणयन्ति तम्॥
घृतं भूमौ समुत्सृजेदित्यस्यायमर्थः तथा घृतं परिवेष्यं यथा पात्रमापूर्य भूमावुपसर्पति। वर्करैः=स्तरुणैः।
देवलः,
भोजनैः सतिलैः स्नेहैर्भक्ष्यैः पूपविमिश्रितैः।
मैत्रायणीये, तिलवन्मधुमञ्चान्नंसामिषं दद्यात्। पिप्पल्यादयः। प्रभूतमन्नमिष्टं दद्यात्।
कार्ष्णाजिनिः,
यदिष्टं जीवतोस्यासीत्तद्दद्यात् तस्य यत्नतः।
अथवर्ज्यान्यन्नानि।
साद्यायनिः,
वर्ज्यमन्नं त्रिधा प्रोक्त आद्यमाश्चयगर्हितम्।
जातितोगर्हितं यच्च यश्च भावादिदूषितम्॥
अभोज्यान्नंविजानीयात् अन्नमाश्रयगर्हितम्।
लशुनादिकमन्नं यत् ज्ञेयं जातिविगर्हितम्॥
दुष्टं भावक्रियावस्थासंसर्गैस्तु तृतीयकम्।
अभोज्यान्नं=अभोज्यान्नान्नंत्रिविधमपि चाहिक उक्तम्।
गोभिलः,
अतिशुक्तोग्रलवणं विरसं भावदूषितम्।
राजसं तामसञ्चैवहव्ये कव्ये च वर्जयेत्॥
भक्ष्याभक्ष्यनिरूपणम्।
अतिशुक्तं=द्रव्यान्तरसंसर्गेण कालवशाद्वातिकुत्सितरसम्। उग्रलवणं अधिकलवणम्। विरसं=अपगतरसम्। भावदूषितम्=कार्पण्यादिभिरन्तःकरणाधिकारैर्दूषितम्। राजसतामसे भगवद्गीतासु—
कट्वम्ललवणात्युष्णतीक्ष्णरुक्षविदाहिनः।
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः।
यातयामं गतरसं पूति पर्युषितं च यत्॥
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्।
हव्ये कव्येचेति तत्साध्येषु कर्मस्वित्यर्थः।
ब्रह्मपुराणे,
आसनारूढमन्नाद्यंपादोपहतमेव च।
अमेध्यादागतैः स्पृष्टं शुक्तं पर्युषितं च यत्॥
द्विःस्विन्नं परिदग्धं च तथैवाग्रावलेहितम्।
शर्कराकेशपाषाणैः कीटैर्यच्चाप्युपद्रुतम्॥
पिण्याक मथितं चैव तथातिलवणं च यत्।
सिद्धाः कृताश्च ये भक्ष्याः प्रत्यक्षलवणीकृताः॥
वाग्भावदुष्टाश्च12 तथा दुष्टैश्चोपहृता अपि।
वायसैश्चोपभुक्तानि वर्ज्यानि श्राद्धकर्मणि॥
आसनारूढं=भूव्यतिरिक्ताधिकरणस्थापितपात्रस्थितम्। पादोपहतं=साक्षात् भोजनद्वारा वा पादस्पर्शदूषितम्। द्विःस्विन्न=वारद्वयं पक्कम्, तच्च पक्वस्यौदनादेः शुष्कस्य पुनर्मार्दवायोदकं निनीय पाचितम्, यस्य तु सुरणादेरधिश्रयणद्वयेनैव पाकः प्रसिद्धस्तस्य तु तावदवयव एक एवासौ पाक इति तत्रापि न द्विःपक्वता इति हेमाद्रिः। अप्रावलेहित=अग्रे उपरि भागे मार्जारादिभिरवलीढम्। मथित=आलोडितं दधि। सिद्धाः कृताः=चिरसंस्थिताः पर्यटादयः।
वर्ज्यमुदकमुक्तम् ब्रह्माण्डपुराणे—
दुर्गन्धि फोनिलं वर्ज्यं तथा वै पल्वलोदकम्।
न लभेद्यत्र गौस्तृप्तिं नक्तं यच्चैव गृह्यते॥
यन्नसर्वार्थमुत्सृष्ट यच्च भोज्यनिपानजम्।
तद्वर्ज्यंसलिलं तात सदैव पितृकर्मणि॥
निपानजं कूपसमुद्धृतपश्वादिपेयोदकधारणार्थजलाशयजम्।इति श्राद्धीयभक्ष्याभक्ष्यनिर्णयः।
अथ श्राद्धीयब्राह्मणनिरूपणम्।
तत्र ब्राह्मणत्वजातिमान् ब्राह्मणः। ब्राह्मणत्व च विशुद्धमातापितृजन्यत्वज्ञानसहकृतप्रत्यक्षगम्य जातिरूपं रत्नत्वावान्तरजातिवत्। तदेव ब्राह्मणपदप्रवृत्तिनिमित्तम्। न च याजनाध्यापनप्रतिप्रहादि प्रवृत्तिनिमित्तमस्त्विति वाच्यम्। याजनादिविधौ ब्राह्मणस्योद्देश्यत्वेन पूर्वप्रसिद्धिसापेक्षत्वात्, याजनादेर्विधेयत्वेन पश्चाद्भावित्वादवेष्ट्यधिकरणोक्तन्यायेन (१)13 पूर्वप्रवृत्तिनिमितवायोगात् (२)14। आहवनीयादौ त्वनुपपत्या तदाश्रयणम् (३)15। प्रतिग्रहादिनिवृत्तेष्वव्याप्तेरापदिक्षत्रियादिषु प्रतिग्रहादिप्रवृत्तेष्वतिव्याप्तेश्च।
यत्तुयमशातातपाभ्यामुक्तम्।
तपो धर्मो दया दानं सत्यं ज्ञान श्रुतिर्घृणा।
विद्याविनयमस्तेयमेतद्ब्राह्मणलक्षणम्॥
इति न तच्छन्दप्रवृत्तिनिमित्तपर, किन्तु हव्यकव्यसम्प्रदानब्राह्मणप्राशस्त्यपरम्। अत एव—
बौधायने,
विद्या तपश्च योनिश्च एतद् ब्राह्मणलक्षणम्।
विद्यातपोभ्यां यो हीनो जातिब्राह्मण एव सः॥
इति विद्यारहितेऽपि जातिमात्रेण ब्राह्मणत्वं दर्शयति। इति ब्राह्मणलक्षणम्।
अथ ब्राह्मणप्रशंसा।
तैत्तिरीये,
यावतीर्वैदेवतास्ताः सर्वा वेदविदि ब्राह्मणे वसन्ति। इति।
याज्ञवल्क्यः,(अ० १ दानप्र० श्लो० १९८)
तपस्तत्वासृजद्ब्रह्मा ब्राह्मणान् वेदगुप्तये।
तृप्त्यर्थं पितृदेवानां धर्मसंरक्षणाय च॥ इति।
भविष्येऽपि,
प्रशस्तब्राह्मणनिरूपणम्।
ब्राह्मणा दैवतं भूमौ ब्राह्मणा दिवि दैवतम्।
ब्राह्मणेभ्यः परं नास्ति भूतं किञ्चिज्जगत्त्रये॥
अदैवं दैवतं कुर्युः कुर्युर्दैवमदैवतम्।
ब्राह्मणा हि महाभागाः पूज्यन्ते सततं द्विजाः॥
ब्राह्मणेभ्यः समुत्पन्ना देवाः पूर्वमिति श्रुतिः।
ब्राह्मणेभ्यो जगत्सर्वंतस्मात् पूज्यतमाः स्मृताः।
येषामश्नन्ति वक्रेण देवताः पितरस्तथा।
ऋषयश्च तथा नागाः किम्भूतमधिकं ततः॥ इति ब्राह्मणप्रशंसा।
तत्र श्राद्धीयप्रशस्ता ब्राह्मणाः।
तत्र श्रोत्रियस्य प्रशस्तत्वमाह—
वशिष्ठः,
श्रोत्रियायैव देयानि हव्यकव्यानि नित्यशः।
अश्रोत्रियाय दत्तं हि नार्हन्ति पितृदेवताः।
श्रोत्रियलक्षणमाह—
देवलः,
एकां शाखां सकल्पां वा षड्भिरङ्गैरधीत्य वा।
षट्कर्मनिरतो विप्रः श्रोत्रियो नाम धर्मवित्॥
षट् कर्माणि यजनयाजनाध्ययनाध्यापनप्रतिग्रहदानानि।
ब्रह्मवैवर्तेऽपि,
जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते।
विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते॥
अत्रानुस्यूतत्वात् सर्वत्र स्वशाखाध्ययनमेव श्रोत्रियपदप्रवृत्तिनिमित्तम्, इतरत्तु प्राशस्त्यार्थमिति बोध्यम्। “श्रोत्रियश्छन्दोऽधीते” (पा० ५/२/८४) इति स्मृत्या कर्मानुष्ठानाद्यनपेक्ष्यैव छन्दोऽध्येतर्येवश्रोत्रियेति निपातनाश्च। हव्यानि=देवोद्देशेन दत्तानि हवींषि। कव्यानि=पितृृनुद्दिश्य दत्तानि। श्रोत्रियेष्वपि विशेषमाह—
मनुः,
ज्ञानोत्कृष्टेषु देयानि कव्यानि च हवींषि च।
न हि हस्तावसृग्दिग्धौ रुधिरेणैव शुद्धतः॥ इति।
( अ० ३ श्लो० १३२ )
ज्ञानोत्कृष्टा=विद्योत्कृष्टाः। दिग्धौ=लिप्तौ। तथा च स एव श्रो-
त्रियायैवदेयानीत्युक्त्वा—
सहस्रं हि सहस्राणामनृचां यत्र भुञ्जते।
एकस्तान् मन्त्रवित् प्रीतः सर्वानर्हति धर्मतः॥ इति
( अ० ३ श्लो० १३१ )
अनृचाम्=अधर्मज्ञानाम्। अध्ययनस्य “श्रोत्रियायैव” देयानि इत्यत एव प्राप्तेः, अनधीयानानामप्राप्तेः। प्रीतस्तर्पितो भोजित इति यावत्। सर्वान्स्ताननृचानर्हति स्वीकरोति यैरभेदमापद्यते। एव च तेषु सह स्नादिसङ्ख्येष्वपि भोजितेषु यत् फलं तदेकेनापि लभ्यत इत्यर्थ इति हेमाद्र्यादयः। वस्तुतस्तु एतस्य वाक्यस्य पूर्वोक्तश्रोत्रियसम्प्रदानकदानविधेः प्रशंसार्थत्वमेव युक्तम्। मेधातिथिना तु अनृचा इति प्रथमाबहुवचनान्तपाठ उद्धृतः, तस्मिन् पक्षे अनृचाः सहस्र यत्र भुञ्जते इति सम्बन्धः।
गौतमः,
श्रोत्रियान् वाक्रूपवयःशीलसम्पन्नान् युवभ्यो दानं प्रथममेके पितृवदिति। वाक्सम्पन्नाः=वेदशास्त्रविदः। रूपसम्पन्नाः=
सुन्दराः वयःसम्पन्नाः=नातिस्थविरा अपरिणतवयसश्च। शीलसम्पन्नाः=मनोवाक्कायैः सकलप्राणिहितकारिणः। युवभ्यो दानं प्रधानमेके मन्यन्ते ते हि श्राद्धीयनियमसम्पादनक्षमा भवन्ति। पितृवदेके पितरमुद्दिश्य स्थविरं प्रपितामहमुद्दिश्य स्थविरतरमिति।
वशिष्ठः।पितृभ्यो दद्यात् पूर्वेद्युर्ब्राह्मणान् सन्निपात्य यतीन् गृहस्थान् साधूनपरिणतवयसोऽविकर्मस्थान् श्रोत्रियान् शिष्याननन्तेवासिन इति। पूर्वेधद्युःश्राद्धदिनात्, सन्निपात्य=
आमन्त्र्य। यतयः=प्रव्रजिताः। ते च—
मुण्डान् जटिलकाषायान् श्राद्धकाले विवर्जयेत्।
शिखिभ्यो धातुरक्तेभ्यस्त्रिदण्डेभ्यः प्रदापयेत्॥
इति वचनात्। साधुरुक्त आदित्यपुराणे—
अक्रोधना धर्मपराः शान्ता शमदमे रताः।
निस्पृहाश्च महाराज ते विप्राः साधवः स्मृताः॥ इति।
सौरपुराणेऽपि,
गङ्गायमुनयोर्मध्ये मध्यदेशः प्रकीर्तितः।
तत्रोत्पन्ना द्विजा ये वै साधवस्ते प्रकीर्तिताः॥ इति।
प्रशस्तब्राह्मणनिरूपणम्।
अपरिणतवयसः=नातिस्थविरान्, अविकर्मस्थान्=प्रतिषिद्धक्रियावर्जकान्। अनन्तेवासिनः= सेवकभिन्नान्।
कात्यायनः। स्नातकानिति, एके यतीन्, गृहस्थान साधून् वा, श्रोत्रियान्, वृद्धाननवद्यान्, स्वकर्मस्थांश्च। कव्यं च प्रशान्तेभ्यः प्रदीयत इति। स्नातकस्त्रिविधाः।
तथा च यमः—
वेदविद्याव्रतस्नाताः श्रोत्रिया वेदपारगाः।
तेभ्यो हव्य च कव्यं च प्रशान्तेभ्यः प्रदीयते॥इति।
वेदमात्रमधीत्य स्नातो वेदस्नातः। वेदार्थविचारं समाप्य स्नातो विद्यास्नातः। व्रतानि समाप्य स्नातो व्रतस्नात इति।
कात्यायनोऽपि।
त्रयः स्नातका भवन्ति विद्यास्नातको व्रतस्नातको विद्याव्रतस्नातक इति। समाप्य वेदं असमान्य व्रतं यः समावर्तते स विद्यास्नातकः। समाप्य व्रतमसमाप्य वेद यः समावर्तते स व्रतस्नातकः। उभयं समाप्ययः समावर्तते स विद्यावतस्नातक इति। वृद्धो=विद्यातपोभ्यां श्रेष्ठः न तु वयसा, युवभ्यो दानमित्याद्युक्तेः। अवद्यं=
दोषः स स्वतः पितृभ्यो मातृतश्च येषां नास्ति ते तथा। ये मातृतः पितृतश्चेत्याश्वलायनोक्तेः। स्ववर्णाश्रमविहितकर्मनिरताः स्वकर्मस्थाः।
आपस्तम्बः,
शुचीन् मन्त्रवतो विप्रान् सर्वकृत्येषु भोजयेत्।
मनुः,
यत्नेन भोजयेत् श्राद्धे बह्वृचं वेदपारगम्।
शाखान्तगमथाध्वर्युं छन्दोगं वा(१)16 समाप्तिगम्॥ इति।
( अ० ३ श्लो० १४५ )
बह्वृचम्=ऋग्वेदिनम्। अध्वर्यु=यजुर्वेदिनम्। वेदपारगशाखान्तगसमाप्तिगशब्दैः सम्पूर्णशाखाध्यायिन उच्यन्ते।
बृहस्पतिः,
यद्येकं भोजयेत् श्राद्धे छन्दोगं तत्र भोजयेत्।
ऋचो यजूंषि सामानि त्रितयं तत्र विद्यते॥
ऋचा तु तृप्यति पिता यजुषा च पितामहः।
पितुः पितामहः साम्ना छन्दोगोऽभ्यधिकस्ततः॥
शातातपः,
भोजयेद्यद्यथर्वाणं दैवे पित्र्येच कर्मणि।
अनन्तमक्षयं चैव फलं तस्येति वै श्रुतिः॥
अनन्तं=चिरस्थापि। अक्षयं=अन्यूनम्।
यस्त्वन्यंभोजयेच्छ्राद्धेविद्यमानेष्वथर्वसु।
निराशास्तस्य गच्छन्ति देवताः पितृभिः सह॥
तस्मात् सर्वप्रयत्नेन श्राद्धकाले त्वथर्वणम्।
भोजयेद्धव्यकव्येषु पितॄणां च तदक्षयम्॥ इति।
एतेन यथा कन्या तथा हविरिति वचनात् भ्राम्यन्तो यजमानवेद समानशाखा एव श्राद्धे ब्राह्मणा इति वदन्तो निरस्ताः। यथा कन्येत्यादिवाक्यस्य हविःषु निर्ज्ञातकुलशीलत्वादिसम्प्रदानककन्यासा दृश्यपरत्वेनाप्युपपत्तेः न कश्चिद्विरोधः। अत एव कुलवंशादिज्ञानमावश्यकमुक्तम्मात्स्ये, “ज्ञातवंशकुलान्वित” इति। येऽपि “यत्नेन भोजयच्छ्राद्धे” इत्यादिवचनेन बह्वृचादीनां त्रयाणामेव प्राप्तत्वात्, “एषामन्यतमो यस्य भुञ्जीत श्राद्धमर्चितः। पितॄणां तस्य तृप्तिः स्यात् शाश्वती साप्तपौरुषी” इति वाक्यस्याथर्वणनिषेधार्थत्वमाहुस्तेऽप्ये तेनैव निराकृताः। उक्तवाक्यस्य तु ‘अथर्वाणं भोजयेत्’ इति प्रत्यक्षविरोधात् बह्वृचादिप्रशसार्थत्वेन छन्दोगं वा समाप्तिगमिति चकारार्थसमुच्चयनिरासार्थत्वेन चोपपत्तेर्नाथर्वणनिषेधार्थत्वमिति।
याज्ञवल्क्यः, ( अ० १ श्राद्धप्र० श्लो० २१९ )
अग्र्याःसर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद् युवा।
वेदार्थविद् ज्येष्ठसामा त्रिमधुःत्रिसुपर्णकः॥
कर्मनिष्ठास्तपोनिष्ठाः पञ्चाग्निर्ब्रह्मचारिणः।
पितृमातृपराश्चैव ब्राह्मणाः श्राद्धसम्पदः॥इति।
(अ० १ श्राद्धप्र० श्लो० २२१)
चतुर्ष्वषि वेदेषु अध्येतॄणां मध्ये मुख्योऽध्येता अग्र्यः। ब्रह्म=औपनिषदात्मा। त्रिमधुः=त्रिमध्वाख्यव्रतानुष्ठानपूर्वकतदाख्यऋग्वेदैकदेशाध्येता। त्रिसुपर्णः=मधु मेतु मामित्यादि तैत्तिरीयशाखान्तर्गतयजुस्त्रितयाध्येता। य इदं त्रिसुपर्णमितिश्रुतौ तेष्वेव निर्देशात्। कल्पतरुस्तु
‘चतुष्कपदी युवतिःसुपेशा’ इति ऋग्वेदान्तर्गतं सुपर्णपदोपलक्षित। ऋक्त्रयमित्याह। ज्येष्ठसामा=सामवेदभागाध्येता। पञ्चाग्निः=गार्हपत्यदक्षिणाग्न्याहवनीयसभ्यावसथ्याः पञ्चाग्नयो यस्य सन्ति स तथा। अथवा छान्दोग्योपनिषत्पठितपञ्चाग्निविद्याध्येता पञ्चाग्निः। एते ब्राह्मणा श्राद्धस्य सम्पदे समृद्धये भवन्तीत्यर्थः।
ब्रह्माण्डपुराणे,
ये च भाष्यविदः केचिद् ये च व्याकरणे रता।
अधीयानाः पुराण वै धर्मशास्त्रमथापि वा॥
ये च पुण्येषु तीर्थेषु कृतस्नानाः कृतश्रमाः।
मखेषु चैव सर्वेषु भवन्त्यवभृथप्लुताः॥
अक्रोधनाः शान्तिपरास्तान् श्राद्धेषु नियोजयेत्।
भाष्याणि=पाणिनिसुत्रादिभाष्याणि।
मात्स्ये,
आथर्वणो वेदविच्चज्ञातवंशः कुलान्वितः।
पुराणवेत्ता ब्रह्मण्यः स्वाध्यायजपतत्परः॥
शिवभक्तः पितृपरः सूर्यभक्तोऽथ वैष्णवः।
ब्रह्मण्यो योगविच्छान्तो विजितात्मा सुशीलवान्॥
एतांस्तु भोजयेन्नित्यं दैवे पित्र्ये च कर्मणि।
मण्डलब्राह्मणज्ञाये ये सूक्तंपौरुष विदुः॥
तांस्तु दृष्ट्वा नरः क्षिप्रं सर्वपापैः प्रमुच्यते।
शतरुद्रियजाप्येषु निरता ये द्विजोत्तमाः॥
पितॄन् सन्तारयन्त्येते श्राद्धे यत्नेन भोजिताः।
तथा,
गायत्रीजाप्यनिरतं हव्यकव्येषु योजयेत्। इति।
ब्रह्मपुराणे।
षडङ्गविद्याज्ञानयोगी यज्ञतत्वज्ञएव च॥
अयाचिताशी विप्रो यः श्राद्धकल्पज्ञ एव च।
अष्टादशानां विद्यानामेकस्या अपि पारगः॥
अष्टादशविद्याश्च याज्ञवल्क्योक्ताःचतुर्दश—
पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश॥ इति।
(अ० १ उपाद्घातप्र० श्लो० ३)
आयुर्वेदो धनुर्वेदो गान्धर्वञ्चार्थशास्त्रकम्॥
इति स्मृत्यन्तरोक्ताश्चत्वारः। शिक्षा कल्पो व्याकरणमित्यादि षडङ्गानि।
मन्वादिधर्मशास्त्रेतिहासवेत्तापि प्रशस्त इत्याह स एव—
बहुनात्र किमुक्तेन इतिहासपुराणवित्।
अथर्वशिरसोऽध्येता तावुभौ पितृभिः पुरा॥
तपः कृत्वा नियोगार्थं प्रार्थितौ पितृकर्मणि।
अथर्वशिरो= वेदभागविशेषः॥
ब्रह्यववर्ते,
अक्लृप्तान्नंघृणिक्लान्तं कृशवृतिमयाचकम्।
एकान्तशीलं ह्रीमन्तं सदा श्राद्धेषु भोजयेत्॥
न विद्यते क्लृप्तमन्नं यस्यासौ अक्लृप्तान्नः। घृणी=दयावान्। क्लान्तो=व्रतश्रान्तः। घृणी चासौ क्लान्तश्च घृणिक्लान्तः। अथवा घृणिभिः सौरकिरणैः क्लान्तः तीर्थयात्रादौ आतपेन पीडित इत्यर्थः। कृशा=प्रतिग्रहादिसङ्कोचेन वृत्तिर्वर्तनं यस्य स तथा। ह्रीमान्=लज्जावान् वागादिचापलनिवृत्यर्थमेतत्।
तथा,
पत्नीपुत्रसमायुक्तान् श्राद्धकर्मणि योजयेत्।
देहस्यार्द्धं स्मृता पत्नी न समग्रो विना तया॥
नचापुत्रस्य लोकोऽस्ति श्रुतिरेषा सनातनी। इति।
लोकः=अदृष्टजन्यः अभ्युदयः॥
नन्दिपुराणे,
यतीन् वा बालखिल्यान् वा भोजयेछ्राद्धकर्मणि।
वानप्रस्थोपकुर्वाणौ पूजयेत् परितोषयेत्॥
बार्हस्पत्यसंहितायां,
अङ्गिरोनारदभृगुवृहस्पत्युदिताः श्रुतीः।
पठन्ति ये श्रद्दधानास्तेऽभियोज्याः प्रयत्नतः।
वेदान्तनिष्ठाः श्राद्धेषु व्याख्यातारो विशेषतः॥ इति॥
संवर्तः,
प्रयत्नाद्धव्यकव्यानि पात्रीभूते द्विजन्मनि।
प्रतिष्ठाप्यानि विद्वद्भिः फलानन्त्यमभीप्सुभिः॥
पात्रलक्षणमाह वृद्धशातातपः—
स्वाध्यायवान्नियमवांस्तपस्वी ज्ञानविच्चयः।
क्षान्तो दान्तो सत्यवादी विप्रः पात्रमिहोच्यते॥ इति।
स्वाध्यायव=त्वं चाध्ययनाध्यापनार्थशज्ञानप्रवचनादिभिः।
नियमाः,
स्नानमौनोपवासेज्यास्वाध्यायोपस्थनिग्रहाः।
नियमा गुरुशुश्रूषाशौचाक्रोधाप्रमादता॥
( अ० ३ प्रायश्चित्तप्र० श्लो० ३१३ )
इति याज्ञवल्क्योक्ताः। स्नान=नित्यं नैमित्तिकञ्च। मौन=निषिद्धवाक्परिवर्जनम्। उपवासो विहितः। उपस्थनिग्रहः = निषिद्धरेतोविमोकान्निवृतिः। अप्रमादता = विधिप्रतिषेधयोः सावधानता।
याज्ञवल्क्य, (अ० १ दानप्र० श्लो० २०० )
न विद्यया केवलया तपसा वापि पात्रता।
यत्र वृत्तमिमे चोभे तद्धि पात्र प्रचक्षते॥
अस्यार्थः, केवलया विद्यया श्रुताध्ययनमात्रसम्पत्त्या न पात्रत्वं नापि केवलेन तपसा शमदमादिना, अपि शब्दान्न केवलानुष्ठानेन केवलया जात्या वा दाने पूर्णपात्रत्वं किन्तु यत्र ब्राह्मणे (१)17 वृत्तम्, इमे विद्यातपसी चोभे तदेव पूर्णं पात्रंमन्वादयो ब्रुवते। यद्यपि केवलविद्यातपसोरपि पात्रताप्रयोजकतास्त्येव, “किञ्चिद् वेदमयं पात्रं किञ्चित् पात्रं तपोमयम्” इति वचनात्। तथापि नात्र पूर्णपात्रतोक्ता किञ्चित्पात्रमित्युक्तेरिति।
महाभारते
साङ्गाँस्तु चतुरो वेदान् योऽधीते वै द्विजर्षभः।
षड्भ्योऽनिवृत्तः कर्मभ्यस्तं पात्रमृषयो विदुः॥
षड्भ्योयजनादिभ्यः, अनिवृत्तिः सत्यधिकारे प्रवृत्तिः।
देवल,
त्रिशुक्लः कृशवृत्तिश्च घृणालुः सकलेन्द्रियः।
विमुक्तोयोनिदोषेभ्यो ब्राह्मणः पात्रमुच्यते॥
त्रीणि कुलविद्यावृत्तानि शुक्लानि विशुद्धानि पातित्यापादकदोषरहितानि यस्य स त्रिशुक्लः। घृणालुः=दयालुः। योनिदोषा=योनिसाङ्कर्यकारणभूताः।
वशिष्ठः,
स्वाध्यायाढ्य योनिमन्तं प्रशान्त
(१)18 वैतानशं पापभीरुं बहुज्ञम्।
स्त्रीषु क्षान्तं धार्मिकं गोशरण्यं
व्रतैः क्लान्तं ब्राह्मणं पात्रमाहुः॥
स्त्रीषु क्षान्तः=सहिष्णुः, स्त्र्यलाभजानितदुःखसहनशीलः। व्रतक्लान्तः=व्रतानुष्ठानेन शोषितेन्द्रियशरीरः। परमपात्रमाह व्यासः—
किञ्चिद्वेदमयं पात्रं किञ्चित् पात्रं तपोमयम्।
असङ्कीर्णन्तु यत् पात्रं तत् पात्र परमं स्मृतम्॥
असङ्कीर्ण=योनिसाङ्कर्यपतितसंसर्गरहितम्।
बृहस्पत्तिः,
ब्रह्मचारी भवेत् पात्रं पात्रं वेदस्य पारगः।
तथा,
पात्राणामुत्तमं पात्रं शूद्रान्नं यस्य नोदरे। इति।
शूद्रात्पक्वमनतिक्रान्तत्र्यहमामं वा प्रतिगृह्य भुज्यते तत् शूद्रान्नम्।
ऋष्यशृङ्गः,
अतिथिश्च तथा पात्रं तत् पात्रं परमं विदुः।
अतिथिरुक्तो मनुना—
एकरात्रन्तु निवसन्नतिथिर्ब्राह्मणः स्मृतः।
अनित्यं हि स्थितो यस्मात् तस्मादतिथिरुच्यते॥
(अ० ३/श्लो० १०२)
भविष्यपुराणे—
क्षान्त्यस्पृहा दमः सत्यं दानं शीलं तपः श्रुतम्।
एतदष्टाङ्गमुद्दिष्ट परमं पात्रलक्षणम्॥ इति।
अत्र सर्वत्र किञ्चिद्वेदमयं पात्रमित्यादि वचनात् विद्यादीनां प्रत्येकं पात्रता प्रयोजकत्वात्तत्र तत्र गुणाधिक्य पात्रतारतम्यायेति ज्ञेयम्।
यमः।
ऋषिव्रती ऋषीकञ्च तथा द्वादशवार्षिकः।
ब्रह्मदेयतश्चैव गर्भशुद्धः सहस्रदः॥
ऋषीकः=ॠषेः किञ्चिन्यूनगुणः।
ऋषेः किंचिद् गुणैर्न्यूनो ऋषीक इति कीर्तितः॥
इति सुमन्तुस्मरणात्। द्वादशवार्षिकवेदव्रतचारी द्वादशवार्षिकः। सहस्रदो=गोसहस्रद इति मेधातिथिः। सहस्रदक्षिणक्रतुयाजीत्यपरे।
तथा।
चान्द्रायणव्रतचरः सत्यवादी पुराणवित्।
विमुक्तः सर्वतो धीरो ब्रह्मभूतो द्विजोत्तमः॥
सर्वतः-जायमानो वै ब्राह्मण इत्यादिश्रुतिबोधितर्णत्रयादिति शेषः। सर्वतो-ब्रह्मातिरिक्तविषयादिति तु युक्तम्, ‘धीरो ब्रह्मभूत इति उत्तरग्रन्थसमभिव्याहारात्।
तथा।
अनमित्रोऽनचामित्रो मैत्रश्चात्मविदेव च।
न विद्यते अमित्रं शत्रुर्यस्य। न च स्वय कस्यापि शत्रुर्मैत्रीरतश्च भवति।
तथा।
स्नातको जप्यनिरतः सदा पुष्पबलिप्रियः।
स्नातकः=स्नाानोत्तरं प्राग् विवाहात्। परमेश्वरपूजाद्यर्थं पुष्पं बलिरुपहारश्च साधनत्वेन प्रियं यस्य स तथा।
शङ्खलिखितावपि।
अथ पाङ्केयाः। वेदवेदाङ्गवित् पञ्चाग्निररनूचानः साङ्ख्ययोगोपनिषद्धर्मशास्त्रविच्छ्रोत्रियः, त्रिणाचिकेतः त्रिमधुः, त्रिसुपर्णको ज्येष्ठसामगः। साङ्ख्ययोगोपनिषद्धर्मशास्त्राध्यायी वेदपरः सदाग्निको मातृपितृशुश्रूषुर्धर्मशास्त्ररतिरिति।
साङ्ख्य=कापिलम्। योगः=पातञ्जलम्। उपनिषदः=वेदान्ताः। पूवार्द्धे साङ्ख्यादिविदुक्त उत्तरार्द्धे तु तदध्येतेति भेदः। सदाग्निको=नित्याग्निमान्।
हारीतस्तु।
तस्मात् कुलीनाः श्रुतवन्तः शीलवन्तो वृत्तस्थाःसत्यवादिनोऽव्यङ्गाः पाङ्क्तेया इत्युपक्रम्य कुलशीलवृत्तरूपान् पाङ्क्तेयत्वप्रयोजकान् गुणानाह। स्थितिरविच्छिन्नवेदवेदिता योनिसंकरित्वमार्षेयत्वं चेति कुलगुणाः। स्थितिः=सन्तत्यविच्छेदः, आपद्यपि वर्णाश्रमा
दिधर्माविच्छेद वा पित्रादिपारम्पर्येण वेदवेदित्वाविच्छेदवानविच्छिन्नवेदवेदिता, अथवा अविच्छिन्नोवेदो वेदी च यस्य स तथा तस्य भावस्तत्ता।अनतिक्रान्तविहितप्रतिषिद्धयोनिसंसर्गत्वम्-अयोनिसंकरित्वम्। स्वीयप्रवरणीयऋषिज्ञातृत्वमार्षेयत्वम्। एते कुलगुणाः।
तथा वेदो वेदाङ्गानि धर्मोऽध्यात्मं विज्ञानं स्थितिरिति षड्विधं श्रुतम्। पाङ्क्तेयत्वनिमित्तमिति शेषः। वेदाश्चत्वारः। अङ्गानि=शिक्षादीनि षट्। धर्मो=धर्मशास्त्रम्। अध्यात्मम्=आत्मानात्मविवेकशास्त्रम्। विज्ञान=न्यायमीमांसादि। स्थितिः=अधीताविस्मरणम्, वेदाच्छुतस्य प्रमाणप्रमेयाद्यसंभावनापरिहारेण स्थैर्यं तात्पर्यावधारणं येन जायते तत्, पुराणेतिहासं वा।
आह च व्यासः-
इतिहासपुराणाभ्या वेदार्थमुपबृंहयेदिति।
एतेषां वेदादीनां षण्णां श्रवणं श्रुतमित्यर्थः।
तथा ब्रह्मण्यता देवपितृभक्तता समता सौम्यता, अपरोपतापिताऽनसूयता मृदुता=अपारुष्यं मैत्रता प्रियवादित्वं कृतज्ञता शरण्यता प्रशान्तिश्चेति त्रयोदशविधं शीलम्।
ब्रह्मणि साधुत्व ब्रह्मण्यता। दम्भरहितं दैवपितृकर्मानुष्ठातृत्वं देवपितृभक्तता। रागद्वेषराहित्यं समता।सर्वजनहृद्यचरित्रत्वं सौम्यता। परपीडाकारित्वाभावोऽपरोपतापिता। दोषानाविष्करणमनसूयता। अकठिनहृदयत्वं मृदुता। कलहवैमुख्यम्=अपारुष्यम्। मनःप्रसादो=
मैत्रता। शरण्यता=शरणार्हता।विद्याद्यनुत्सेकः प्रशान्तिः।
क्षमा दमो दया दानमहिंसाऽगुरुपीडनं शौचं स्नानं जपो होमः तपः स्वाध्यायः सत्यवचनं संतोषो दृढव्रतत्वमुपव्रतित्वं चेति षोडशगुणं वृत्तम्। स्वत्वनिवृतिपूर्वकपरस्वत्वापादनं दानम्। देवतोद्देशेन द्रव्यत्यागः प्रक्षेपश्च मिलित होमः। दृढव्रतत्वंनाम स्वीकृतव्रताऽपरित्यागः। उपत्रतम्=एकभक्त्याद्याहारलाघवादि,
अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम्।
अप्रमादश्च नियमाः पञ्चैवोपव्रतानि च॥
इति व्यासोक्तेः। इति प्रशस्तब्राह्मणाः।
अथ पङ्किपावनादीननुक्रम्य “यत् किञ्चित् पितृदेवत्यमेभ्यो दत्तं तदक्षयम्” इति नियमेन पङ्क्तिपावनादीनां विनियोगात् पङ्क्ति-
पङ्क्तिपावननिरूपणम्।
पावनादय उच्यन्ते। तत्र पङ्किपावनानां तावल्लक्षणमाहापस्तम्बः-
अपाङ्क्त्योपहता पङ्किःपाव्यते यैर्द्विजोत्तमैः।
तान् निबोधत कार्त्स्न्येन द्विजाग्र्यान् पङ्क्तिपावनान्॥
अपाङ्क्त्याः=अपाङ्केया वक्ष्यमाणा देवलकादयः, तैरुपहतां दूषितां पङ्क्तिं ये पावयन्ति पवित्रां कुर्वन्ति तान् निबोधत। तानाह—
अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च।
श्रोत्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः॥
चतुर्षु वेदेषु, प्रोच्यते निरुच्यते वेदार्थो यैस्तेष्वङ्गेषु चाग्र्याः श्रेष्ठाः संशयविपर्ययव्युदासेनानादिसम्प्रदायतोऽधीतषडङ्गविदः।
(१)19 त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित्।
ब्रह्मदेयानुसन्तानो ज्येष्ठसामग एव च॥
त्रिणाचिकेतः=त्रिणाचिकेताख्यवेदभागः, सच (पूर्ण) “पीतोदका जग्धतृणा” इत्यादिः, तदध्ययनसम्बन्धात् पुरुषोऽपि त्रिणाचिकेत उच्यते आचीर्णत्रिणाचिकेताख्यवेदभागाङ्गभूतव्रतश्च। ब्रह्मदेयानुसन्तानः=ब्राह्मविवाहपरिणीतापुत्रः।
तथा,
वेदार्थवित् प्रवक्ता च ब्रह्मचारी सहस्रदः।
शतायुश्चैव विज्ञेया ब्राह्मणाःपङ्क्तिपावनाः॥
षडङ्गविदित्यनेन वेदार्थविदोप्युपादानेऽपि वेदार्थमात्रवेतृत्वेन पाङ्क्तेयत्वमत्रोक्तमिति न पौनरुक्त्यम्। केचित्तु षडङ्गाध्ययनव्यतिरेकेणापि प्राज्ञतया वेदार्थं यो वेत्ति सोऽत्र वेदार्थविदिति न पौनरुक्त्यमित्याहुः। शतायुः=ज्योतिः शास्त्रादवगतं शतवर्षमायुर्यस्य, स एव न तु शतवार्षिकः। युवभ्यो दानमित्यनेन यूनामेव विधानात् इति केचित्। वृद्धतम इति हेमाद्रि।
देवलः,
अग्निचित् सोमपाश्चैते ब्राह्मणाः पङ्क्तिपावनाः।
ऋग्यजुःसामधर्मज्ञाःस्नातकाश्चाग्निहोत्रिणः॥
ब्रह्मदेयानुसन्तानाः छन्दोगो ज्येष्ठसामगः॥
मन्त्रब्राह्मणविद् चतुर्मेधो वाजसनेयी यः स्वधर्मानधीते यस्य च दशपुरुषं मातृपितृवंशः श्रोत्रियो विज्ञायते विद्वांसः, स्नातकाश्चैते पावना भवन्ति। चतुर्मेधः=सर्वतोमुखयाजी, अथवा चातुर्मास्ययाजी। तयोर्हि चत्वारो यज्ञाः सन्ति। वाजसनेयी=वाजसनेयिशाखाध्येता। धर्मः=प्रवर्ग्यभागः।
यम,
वेदविद्याव्रतस्नाताः ब्राह्मणाः पङ्क्तिपावनाः।
व्रतचर्यासु निरताः ये कृशाः कृशवृत्तयः॥
अनुक्रान्ताः स्वधर्मेभ्यस्ते द्विजाः पङ्क्तिपावनाः।
सत्रिणो नियमस्थाश्च ये विप्राः श्रुतिसम्मताः।
व्रतानि=कृच्छ्रचान्द्रायणादीनि। कृशाः=तपोभिः शोषितशरीराः। कृशवृत्तयोऽश्चस्तनादिवृत्तयः। सत्रिण=इति स्थाने मन्त्रिण इति क्वचित्पाठः, तदा मन्त्रो गायत्र्यादिस्तन्निष्ठा इत्यर्थः।
तथा,
प्राणिहिंसानिवृत्ताश्च ते द्विजाः पङ्क्तिपावनाः।
अग्निहोत्ररताः क्षान्ताः क्षमावन्तोऽनसूयकाः॥
ये प्रतिग्रहनिस्नेहास्ते द्विजाः पङ्क्तिपावनाः।
हारीतः,
दशोभयतः श्रोत्रियास्त्रिणाचिकेतस्त्रिमधुस्त्रिसौपर्णस्त्रिशीर्षा ज्येष्ठसामगः पञ्चाग्निः षडङ्गवित् रुद्रजाप्यूर्ध्वरेता ऋतुकालगामी तत्वविच्चेति पङ्किपावना भवन्ति। अथाप्यत्रोदाहरन्ति।
पचनः पाचनस्त्रेता यस्य पञ्चाग्नयो गृहे।
सायं प्रातः प्रदीप्यन्ते स विप्रः पङ्क्तिपावनः॥
सहस्रसम्मितं प्राहुःस्नातकं पूर्ववत् गुणैः।
पञ्चाग्न्यादिगुणैर्युक्तः शतसाहस्र उच्यते॥
अनृवां यदि वा कृत्स्नां पङ्क्तिंयोजनमायताम्।
पुनाति वेदविद् विप्रो नियुक्तः पङ्क्तिमूर्धनि॥
दशोभयत इति। मातृतः पितृतश्चेत्यर्थः। त्रिशीर्ष=अथर्वरुद्रवैश्वानरशिरसामध्येता। ऊर्ध्वरेता=नैष्ठिकब्रह्मचारी। तत्ववित्=आत्मज्ञानवान् गृहस्थोऽपि। पचनः वैश्वदेवार्थपाकोपयोग्यावसथ्योऽन्योवा, केषां चिच्छाखायामावसथ्यातिरिक्तस्य तस्योक्तत्वात्। पाचनः=सभ्यः। एतस्य च पाकप्रयोजककर्तृत्वमावसथ्यानियतत्वात् गौण्या वृत्त्यो-
पर्च्यते। स्नातकः=पूर्वोक्तस्त्रिविधः। सहस्रसम्मितमिति सहपङ्क्त्युपविष्टब्राह्मणपङ्क्तिपावकत्वात्। केचित्तुसहस्रब्राह्मणभोजनजन्यफलप्रापकत्वात् सहस्रमिति। एवमग्निमान् शतसहस्र लक्षं तन्मितां पङ्क्तिंपावयतीत्यर्थः।
ब्रह्माण्डपुराणे—
षडङ्गवित् ध्यानयोगी सर्वतन्त्रस्तथैव च।
यायावरश्च पञ्चैते विज्ञेयाः पङ्क्तिपावनाः॥
ये भाष्येवैदिके केचित् ये च व्याकरणे रताः।
अधीयानाः पुराणं वा धर्मशास्त्राण्यथापि च॥
चतुर्दशानां विद्यानामेकस्यापि च पारगः।
श्राद्धकल्पं पठेद्यस्तु सर्वे ते पङ्क्तिपावनाः॥
सर्वतन्त्रः=शालीनाख्यो गृहस्थः। यायावरः=वरणवृत्या यातीति (?) यायावरी गृहस्थविशेषः।
विष्णुरपि। अथ पङ्क्तिपावनाः। स्त्रिणाचिकेतः पञ्चाग्निः ज्येष्ठसामगो वेदाङ्कस्याप्येकस्य पारगस्तीर्थपूतो यज्ञपूतःसत्यपूतो दानपूतो मन्त्रपूतो गायत्रीजपनिरतो ब्रह्मदेयानुसन्तानस्त्रिसौपर्णो जामाता दौहित्रश्चेति।
कूर्मपुराणे,
महादेवार्चनरतो महादेवपरायणः।
वैष्णवो वाथ यो नित्यं स विप्रः पङ्क्तिपाचनः।
इति पङ्क्पिावनाः॥
अथ पङ्क्तिपावनपावना उच्यन्ते।
मत्स्यपुराणे।
यश्च व्याकुरुते वाचं यश्च मीमांसतेऽध्वरम्।
सामस्वरविधिज्ञश्च पङ्क्तिपावनपावनः॥
वृद्धमनुः,
पूवार्द्धं तुल्यमेव।
यश्चावैत्यात्मकैवल्यं पङ्क्तिपावनपावनः।
यश्च व्याकुरुते वाचं प्रकृतिप्रत्ययविभागेन वाचः संस्कुरुते वैयाकरण इति यावत्। अध्वरं यज्ञं मीमांसते विचारयति मीमांसक इति यावत्। आत्मकैवल्यम्=आत्मैकत्वम्।
ब्रह्मवैवर्ते।
वेदवेदाङ्गविद् यज्वा शान्तो दान्तः क्षमान्वितः।
वीतस्पृहस्तपस्वी च पङ्क्तिपावनपावनः।
न रज्यते न च द्वेष्टि पङ्क्तिपावनपावनः॥
सौरपुराणे।
यो न निन्दति न द्वेष्टि न शोचति न काङ्क्षति।
आत्मारामः पूर्णकामः पङ्क्तिपावनपावनः॥
यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति।
सर्वभूतेषु वात्मानं स वै पावनपावनः॥
अशनायापिपासाभ्यां शीतोष्णादिभिरेव च।
अस्पृष्टः शोकमोहाभ्यां पङ्क्तिपावनपावनः॥
ओमित्येकाक्षरं ब्रह्म व्याहरत्यानिशं शुचिः।
आत्मैकताववीर्योऽसौ पङ्क्तिपावनपावनः॥
गरुडपुराणे।
साङख्यशास्त्रार्थनिपुणो योगशास्त्रार्थतत्ववित्।
वेदान्तनिष्ठबुद्धिश्च प्रत्याहारपरायणः॥
प्रियाऽप्रियाभ्यामस्पृष्टः पङ्क्तिपावनपावनः।
प्राणायामपरो धीरो मैत्रः करुण एव च॥
अध्यात्मज्ञानपूतात्मा पङ्क्तिपावनपावनः।
साङ्ख्यं वेदान्ताविरोधि।
इति पङ्क्तिपावनपावनाः॥
अथ योगिनां श्राद्धे नियोगः।
ब्रह्मवैवर्ते।
क्रियया गुरुपूजाभिर्योगं कुर्वन्ति योगिनः।
तेन चाप्याययन्ते ते पितरो योगवर्द्धनात्॥
आप्यायिताः पुनः सोमपितरो योगभूषिताः।
आप्याययन्ते योगेन त्रैलोक्यं तेन जीवति॥
पितॄणां हि बलं योगो योगात्सामः प्रवर्तते।
तस्माच्छ्राद्धानि देयानि योगिनां यत्नतः सदा॥
बहुछिद्रः पुरा प्रोक्तो मैत्रो यज्ञोमहर्षिभिः।
निष्प्रत्यूहश्च निश्छिद्रो जायते योगरक्षया॥
जीवपरयोरेकीभावलक्षणः सम्बन्धो योगस्तद्वान् योगी। निष्प्रत्यूहः=यातुधानादिकृतोपघातरहितः। निश्छिद्रः=सकलः।
मार्कण्डेयपुराणेऽपि—
योगिनश्च तथा श्राद्धे भोजनीया विपश्चिता।
योगाधारा हि पितरस्तस्मात्तान् पूजयेत् सदा॥
प्रशस्तब्राह्मणानुकल्पनिरूपणम्।
सदेति, प्रकृतामावास्याष्टकादिकाल इत्यर्थः।
तथा,
ब्राह्मणानां सहस्रेभ्यो योगी त्वग्राशनो यदि।
यजमान च भोक्तॄश्च नौरिवाम्भसि तारयेत्॥
तथा,
पितृगाथास्तथैवात्र गीयन्ते पितृवादिभिः।
या गीताः पितृभिः पूर्वमैलस्यासन्महीपतेः॥
कदा नः सन्ततावग्र्यःकस्य चिद्भविता सुतः।
यो योगिभुक्तशेषान्नाद् भुवि पिण्डान् प्रदास्यति॥
ऐलस्यैलनाम्नः।
इति योगिनां श्राद्धे नियोगकथनम्।
अथ तेषामेव गृहस्थादिभ्योऽधिकत्वमुक्त वायुपुराणे,
गृहस्थानां सहस्रेण वानप्रस्थशतेन च।
ब्रह्मचारिसहस्रेण योगी त्वेको विशिष्यते॥
कूर्मपुराणेऽपि,
तस्माद्यत्नेन योगीन्द्रमीश्वरज्ञानतत्परम्।
भोजयेद्धव्यकव्येषु अलाभादितरान् द्विजान्॥
योग्यतिक्रमणे दोषश्चोक्तः, छागलेयेन,
योगिनं समतिक्रम्य गृहस्थं यदि पूजयेत्।
न तत् फलमवाप्नोति सर्वं गोत्र प्रतापयेत्॥
गृहस्थम्=अयोगिनम्। तत्फलम्=तस्य श्राद्धादिकर्मणः फलम्। गोत्रम्=गोत्रजान्, योग्यतिक्रमजनितप्रत्यवायाग्निना, प्रतापयेत्, दाहयेत्।
वृद्धशातातपोऽपि—
योगिनं समतिक्रम्य गृहस्थं यदि भोजयेत्।
न तत् फलमवाप्नोति स्वर्गस्थमपि पातयेत्॥
तस्माद् गृहस्थाद्यतिक्रमेण योगिभ्योऽग्रेदेयमिति। इति योगिनां श्राद्धे नियोगः।
अथ प्रस्तब्राह्मणानुकल्प उच्यते।
तत्र मनुः—
एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः।
अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः॥ इति।
( अ० ३ श्लो० १४७ )
एष=श्रोत्रियादिरूपो मुख्यः कल्प उक्तः, गौणस्तूच्यते इत्यर्थः। सदा सद्भिरनुष्ठित इति तु प्रशंसामात्रम्।
ब्रह्माण्डपुराणे,
अलाभे योगिभिक्षूणां भोजयेद्ध्यानिनः शुभान्।
असम्भवेऽपि तेषां वै नैष्ठिकान् ब्रह्मचारिणः॥
तदलाभेऽप्युदासीनं गृहस्थमपि भोजयेत्।
उदासीनः=दातुरसम्बन्धी मित्रारिभावशून्योवा। भिक्षवः=त्रिदण्डाः। ध्यानिनो=वानप्रस्थाः। गृहस्थाश्चोक्तश्रोत्रियत्वादिगुणयुक्ताः।
गृहस्थेष्वपि योगिनो मुख्यास्तदभावे वेदार्थज्ञा, तदभावे कृतवेदाध्ययनमात्रा इत्युक्तं ब्रह्मवैवर्ते—
योगिनः प्रथमं पूज्याः श्राद्धेषु प्रयतात्मभिः।
तदभावे वेदविदः पाठमात्रास्ततः परम्॥
विनियोज्या महानेष पात्रसाध्यो विधिर्मतः।
श्रोत्रियश्रोत्रियपुत्रस्यालाभे केवलयोः श्रोत्रियतत्पुत्रयोः प्रसक्तौ कस्यमुख्यत्वमित्यपेक्षायामाह मनुः—( अ० ३ श्लो० १३६)
अश्रोत्रियः पिता यस्य पुत्रः स्याद् वेदपारगः।
अश्रोत्रियो वा पुत्रः स्यात् पिता स्याद् वेदपारगः॥
ज्यायांसमनयोर्विद्याद्यस्य स्याच्छ्रोत्रियः पिता।
मन्त्रसम्पूजनार्थन्तु सत्कारमितरोऽर्हति॥
(अ० ३ श्लो० १३७)
अनयोरिति, [स्वयंश्रोत्रियश्रोत्रियपुत्रयोः प्रसक्तौ कस्य मुख्यत्वमित्यपेक्षायामाह मनुः।] अश्रोत्रियपितृकस्य स्वयं श्रोत्रियस्य, स्वयमश्रोत्रियस्य श्रोत्रियपितृकस्य च मध्य इत्यर्थः। इतरः=पित्रश्रोत्रियः स्वयं श्रोत्रियः। मन्त्रसंपूजनार्थं वेदपारायणाद्यर्थं सत्कारमर्हति न श्राद्धे ब्राह्मणार्थमित्यर्थः। एतच्च श्रोत्रियपुत्रस्य वृत्तस्थत्वे ज्ञेयम्। तथा चाग्निपुराणे–
किं कुलेन विशालेन वृत्तहीनस्य देहिनः।
क्रिमयः किं न जायन्ते कुसुमेषु सुगन्धिषु॥
जातुकर्ण्योऽपि,
किंकुलेन विशालेन वृत्तहीनस्य देहिनः।
अपि विद्याकुलैर्युक्तान् वृत्तहीनान् द्विजाधमान्॥
अनर्हान् हव्यकव्येषु वाङ्मात्रेणापि नार्चयेत्। इति।
वृत्तविद्याकुलानां मध्ये विद्यावृत्ते गरीयसी इत्याह—
मनुः।
किं ब्राह्मणस्य पितरं किं वा पृच्छसि मातरम्।
वृत्तं चेदस्ति विद्या वा तन्मातापितरौ स्मृतौ इति॥
विद्यावृत्तयोर्वृत्तं ज्याय इत्याह स एव—
गायत्रीमात्रसारस्तु वरं विप्रः सुयन्त्रितः।
नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी॥
असम्बन्धिनो मुख्या इत्युक्तं तदलाभे मनुराह—
मातामहं मातुलं च स्वस्त्रीयं स्वसुर गुरुम्।
दौहित्रं विट्पतिं बन्धुं ऋत्विग्याज्यांस्तु भोजयेत्।
( अ० ३ श्लो० १४८ )
गुरुः=उपाध्यायः। विशो दुहितुः पतिर्विट्पतिः, जामातेति यावत्। अतिथिरिति मेधातिथिः।
बन्धुमातुलशालादिरसगोत्रस्तथा गुणी।
कामं श्राद्धेऽर्चयेन्मित्रं नाभिरूपमपि त्वरिम्॥
अभिरूपं=गुणादियुक्तम्।
विष्णुपुराणे।
ऋत्विक्स्वस्रीयदौहित्रजा मातृश्वसुरास्तथा।
मातुलोऽथ तपोनिष्ठः पितृमातृस्वसुः पतिः॥
शिष्याः संबन्धिनश्चैव मातापितृरतश्च यः।
एतान् नियोजयच्छ्राद्धे पूर्वोक्तान् प्रथमं नृप॥
ब्राह्मणान् पितृतुष्ट्यर्थमनुकल्पेष्वनन्तरान्।
पूर्वोक्तान्=श्रोत्रियादीन्। अनन्तरान्=मातामहादीन् अन्यगोत्रान्। एतेषामप्यभावे उक्ताः कूर्मपुराणे—
अभावे ह्यन्यगोत्राणां सगोत्रानपि भोजयेत्॥ इति।
गर्गोऽपि,
मैकगोत्रेहविर्दद्याद् यथा कन्या तथा हविः।
अभावे ह्यन्यगोत्राणामेकगोत्रांस्तु भोजयेत्।
असमप्रवराभावे समानप्रवरांस्तथा॥ इति।
अत्र विशेष उक्तोऽत्रिणा,
षड्भ्यस्तु परतो भोज्याःश्राद्धे स्युर्गोत्रजा अपि।
षड्भ्यः स्ववंशजेभ्यः। एतेन सगोत्रेषु सप्तमादूर्ध्वं भोजनीया इति सिद्धम्।
एतदभावे आह—गौतमः।
भोजयेन्नित्यं ऊर्ध्वं गुणवन्तमिति।
आपस्तम्बस्तु, भोजयेत् ब्राह्मणान् ब्रह्मविदो योनिगोत्रमन्त्रान्तेवास्यसंबद्धान् गुणहान्यां तु परेषां समुदेतः।
मन्त्रसंबद्धः=शिष्यः। समुदेतः=सोदर्यः। अत्र च विशेष उक्तोऽत्रिणा—
पिता पितामहो भ्राता पुत्रो वाथ सपिण्डकः।
न परस्परमर्च्याःस्युर्न श्राद्धे ऋत्विजस्तथा॥
ऋत्विक्पित्रादयोऽप्येते सकुल्या ब्राह्मणाः स्मृताः।
वैश्वदेवे नियोक्तव्या यद्येते गुणवत्तरा इति॥
अयं च पित्रादिनिषेधो न तदुद्देश्यकश्राद्धे, जीवपितृकस्य “विप्रवच्चापि तं श्राद्धे” इत्यादिना पित्राद्युपवेशनविधानात किन्तु अन्योदेश्यकश्राद्ध एवेति बोध्यम्। ऋत्विजोऽपि श्राद्धे न भवन्तीत्यर्थ। अतश्च मनुवचनेऽपि ऋत्विग्विधिर्वैश्वदेवस्थान एवेति बोध्यम्। निर्गुणस्याप्यनुकल्पत्वमाह वशिष्ठः—
आनुशंस्यं परो धर्मो याचते यत् प्रदीयते।
अयाचतः सीदमानान् सर्वोपायैर्निमन्त्रयेत्॥
सीदमानेभ्योऽयाचकेभ्यो देयमिति मुख्यो धर्मस्तदद्भावे याचमानेभ्योऽपीति।
ननु मुख्याभावेऽनुकल्पस्य न्यायलभ्यत्वात् वचनमनर्थकमिति चेत् सत्यम्, अनियमेन प्राप्तस्य नियमार्थानि वचनानि इति नानर्थक्यम्, निषिद्धानामपि वा संबन्धिनामनुकल्पस्वार्थं वचनानीति। इत्यनुकल्पनिरूपणम्।
अथ सन्निहितब्राह्मणानामनतिक्रमणीयत्वमुच्यते।
तत्र तदतिक्रमे दोष उक्तः शातातपपराशराभ्याम्—
संन्निकृष्टमधीयान ब्राह्मण यस्त्वतिक्रमेत्।
भोजने चैव दाने च दहत्यासप्तमं कुलमिति। सन्निकृष्टं=निकटस्थम्। सन्निाहितस्याप्यवैदिकस्यातिक्रमे दोषाभाव उक्तो व्यासवशिष्ठशातातपैः–
ब्राह्मणातिक्रमो नास्ति विप्रे वेदविवर्जिते।
ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते॥
यत्तु भविष्यपुराणे,
सन्निकृष्टेद्विज यस्तु शुक्लजातिं प्रियंवदम्।
मूर्खंवा पण्डितं वापि वृत्तहीनमथापि वा॥
नातिक्रामेन्नरो विद्वान् दारिद्र्याभिहतं तथा।
अतिक्रम्य द्विजो घोरे नरके पातयेत् स्वकान्॥
तस्मान्नातिकमेत् प्राशो ब्राह्मणान् प्रातिवेश्यकान्।
सम्बन्धिनस्तथा सर्वान् दौहित्रं विट्पतिं तथा।
भागिनेयं विशेषण तथा सम्बन्धिनः खग॥
इति मूर्खस्यापि सन्निकृष्टस्याऽनतिक्रम उक्तः, स गुणयुक्तासन्निहितब्राह्मणालाभे। अत एव बौधायनः—
यस्य त्वेकगृहे मूर्खो दूरे वापि बहुश्रुतः।
बहुश्रुताय दातव्यं नास्ति मूर्खे व्यतिक्रमः॥ इति।
एवञ्च सन्निहितानतिक्रमश्रवणं गुणयुक्तासन्निहितालाभे इति ध्येयम्। अथवा सन्निहितानतिक्रमश्रवणं श्राद्धादन्यत्र ज्ञेयम्, तत्र श्राद्धपदाश्रवणात्, शेषभोजनपरं वेति। एष चातिक्रमविचारो सन्निहितस्य वृत्तस्थत्वे।
तथा च भारते,
गायत्रीमात्र सारोऽपि ब्राह्मणः पूजितः खग।
गृहासन्नो विशेषेण न भवेत् पतितः स चेत्॥ इति।
अथ श्राद्धे वर्ज्या ब्राह्मणा।
तत्र वर्ज्येषु हव्यकव्यदानं न फलदमित्याह—
यमः,
ऊषरे तु यथेहोतं बजिमाशु विनश्यति।
तथा दत्तमनर्हेभ्यो हव्यं कव्य न रोहति॥
ऊषरः=क्षारमृत्तिकादेशः। न केवलमनर्हेम्यो दानमफलं किन्तु दोषापादकमपीत्युकं वाराहपुराणे,
न श्राद्धे भोजनीयाः स्युरनही ब्राह्मणाधमाः।
यैर्भुक्ते नश्यति श्राद्ध पितॄन दातृश्च पातयेत्॥
पतनप्रयोजकीभूताधर्मयुक्तान्नकुर्यादित्यर्थः।
भोक्तुरप्यनर्हस्य दोष इत्युक्त मनुशातातपाभ्याम्—
यावतो ग्रसते पिण्डान् हव्यकव्येष्वमन्त्रवित्।
तावतो ग्रसते प्रेत्य (१)20 दीप्तान ऋष्टीरयोगडान्॥
( अ० ३ श्लो १३३ )
अमन्त्रवित्=वेदाध्ययनशून्यः। दीप्तान्=अग्नितुल्यान्।ऋष्टीः=आयुधविशेषान्। अयोगडाः=अयोगोलकाः। तत्र निन्द्यानाह—
मनुः, (अ० ३ श्लो० १३८)
न श्राद्धे भोजयेत्मित्रं धनैः कार्योऽस्य सङ्ग्रहः।
नारिं निमन्त्रयेद्विद्वान् न श्राद्धे भोजयेद् द्विजम्॥
गुणवतोऽपि मैत्रत्वपुरस्कारण प्रतिषेधः। मनोवाक्कायैरानुकूल्यैकप्रवृत्तिमैत्रीसंग्रहोऽनुरोधः। अरिः=शत्रुः। मित्रनिषेधो गुणवदुदातीनातिक्रमणेन मित्रनिमन्त्रणस्य निषेधात्। शत्रुस्तु गुणवदुदासीनाभावे गुणवानप्यनुकल्पत्वेनापि न ग्राह्य इत्युक्तं मनुना—
कामं श्राद्धेऽर्चयेन्मित्र नाभिरूपमपि त्वरिम्।
द्विषता हि हविर्भुक्त भवति प्रेत्य निष्फलम्॥
( अ० ३ श्लो० १४४ )
काममिति पुण्यवद्ब्राह्मणाभावे। अभिरूपा=गुणयुक्तः।एकगोत्रादयो न भोजनीया इत्युक्तं वायुपुराणे,
न भोजयेदेकगोत्रान्समानप्रवरांस्तथा।
एतेभ्यो हि हविर्दत्तंभुञ्जते न पितामहाः॥
असगोत्रब्राह्मणासम्भवेऽपि सगोत्राणां भोज्यत्वं षड्भ्य ऊर्ध्वमेव, अत एव षण्णामेव पुरुषाणां निषेधमाह—अत्रिः–
षड्भ्यस्तु पुरुषेभ्योऽर्वाक् न श्रद्धेयास्तु गोत्रिणः।
षड्भ्यस्तु परतो भोज्या श्राद्धे स्युर्गोत्रजा अपि॥
तस्याप्यसम्भवे गौतम आह—
भोजयेदूर्ध्वं त्रिभ्यो गुणवत्तममिति।
अत्रिः,
पिता पितामहो भ्राता पुत्रो वाथ सपिण्डकः।
न परस्परमर्घ्याःस्युर्न श्राद्धे ऋत्विजस्तथा॥
योनिमन्त्रसम्बद्धा अपि न भोजनीया इत्युक्तं ब्रह्माण्डपुराणे—
न भोज्या योनिसम्बद्धा गोत्रसम्बन्धिनस्तथा।
मन्त्रान्तेवासिसम्बद्धाः श्राद्धे विप्राः कथञ्चन॥
ब्रह्मवैवर्ते,
शिष्याश्च ऋत्विजो याज्याः सुहृदः शत्रवस्तथा।
श्राद्धेषु श्वसुरः श्यालो न भोज्या मातुलादयः॥
मनुः—(अ० ३ श्लो० १६८)
ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति।
तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते॥
कूर्मपुराणे,
यस्य वेदश्च वेदी च विच्छिद्येते त्रिपौरुषम्।
स वै दुर्ब्राह्मणोऽनर्हश्राद्धादिषु कदाचन॥
वेदिः=दशपूर्णमासिकी, सौमिकी था। वेदवेदीविच्छेदस्य प्रत्येक निमित्तत्वं निमित्तविशेषणस्य साहित्यस्य हविरुभयत्ववत्।
विष्णुः,
न वार्यपि प्रयच्छेत बिडालवतिके द्विजे।
म बकवतिके पापे नावेदविदि धर्मवित्॥
बैडालव्रतिकश्चोक्तो मनुना—
धर्मध्वजी सदा लुब्धः साग्निको लोकदाम्भिकः।
बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसन्धकः॥
( अ० ४ श्लो० १९५ )
यश्च धर्मध्वजो नित्यं सुराध्वज इवोच्छ्रितः।
प्रच्छन्नानि च पापानि बैडालं नाम तद्व्रतम्॥
यमस्तु प्रकारान्तरेणाह—
यःकारणं पुरस्कृत्य व्रतचर्यो निषेवते।
पापं व्रतेन प्रच्छाद्य बैडालं नाम तद् व्रतम्॥
अर्थं च विपुलं गृह्य21 हित्वा लिङ्गं निवर्तयेत्।
आश्रमान्तरितं रक्षेत्बैडालं नाम तद् व्रतम्॥
यो ह्यन्यायन विपुलमर्थं संगृह्य राजादिभिस्तदपहारमाशङ्कमानपूर्वाश्रमलिङ्गानि परिवर्ज्याति माननीयाश्रमस्वीकारेण तद्द्रव्यं रक्षति तस्य तद्व्रतं बैडालसंज्ञं भवति।
तथा,
प्रतिगृह्याश्रमं यस्तु स्थित्वा तत्र न तिष्ठति।
आश्रमस्य तु लोपेन बैडालं नाम तद् व्रतम्॥
यतीनामाश्रमं गत्वा प्रत्यायास्यति यः पुनः।
यतिधर्मविलोपेन बैडालं नाम तद् व्रतम्॥
बकवृत्तिश्चोक्तोयमेन,
(१)22 अधोदृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः।
(२)23 स्वयं मिथ्याविनीतश्च बकवृत्तिपरो द्विजः॥
अवेदविन्मन्त्रार्थज्ञानशुन्यो नैकृतिकः। कृतघ्न इति मिश्राः।
वायुपुराणे
प्राह वेदान् वेदभृतो वेदान् यश्चोपजीवति।
उभौ तौ नार्हतः श्राद्धं पुत्रिकापतिरेव च॥
वेदभृतो वेदान् यः प्राहेत्यन्वयः वेदभृतो=भृतकाध्यापकः वेतनग्रहणेन यः पाठयति स इत्यर्थः, तथा यः सपणं वेदपारायणादितो द्रव्यमुपजीवति तौ, पुत्रिकापतिर्जामाता चश्रद्धानर्हा इत्यर्थः।
व्यासशातातपौ—
(३)24 सन्ध्याहीने व्रतभ्रष्टे विप्रे वेदविवर्जिते।
दीयमानं रुदत्यन्नं किं मया दुष्कृतं कृतम्॥
व्रतानि=महानाम्न्यादीनि तद्भ्रष्टे। केचित्तु व्रतात् ब्रह्मचर्याद् भ्रष्ट इति वदन्ति।
यमः,
न प्रतिग्रहमर्हन्ति वृषलाध्यापका द्विजाः।
शुद्रस्याध्यापनाद्विप्रः पतत्यत्र न संशयः॥
वृषलः=शूद्रः। श्राद्धानिमन्त्रणीयब्राह्मणानुक्त्वाह—कात्यायनः—
द्विर्नग्नशुक्लविक्लिधश्यावदन्तविद्धप्रजननव्याधितव्यङ्गश्वित्रिकुष्ठिकुनखिवर्जनमिति। द्विर्नग्नो=दुश्चर्मा, खलतिर्वेति हेमाद्रिः। शुक्लोऽति गौरः। विक्लिधो=हीनौष्ठः।
तथाह। सुमन्तुः,
यस्य नैवाधरोष्ठाभ्यां छाद्यते दशनावली।
विक्लिधः स तु विज्ञेयो ब्राह्मणः पङ्किदूषणः॥
विचर्चिकाबहुल इति कल्पतरुः। गलद्व्रण इति शङ्खधरः। श्यावदन्तः=स्वभावात् कृष्णदन्तः। विद्धप्रजननः=छिन्नशिश्नोपरितनचर्मा। व्याधितः=दुर्विचिकित्स्यव्याधियुक्तः। ताश्च व्याधयो देवलेनोक्ताः। उन्मादस्त्वग्दोषो राजयक्ष्मा श्वासो मधुमेहो भगन्दरो महोदरोऽश्मरीत्यष्टौ महापापरोगाः। श्वित्री=श्वेतकुष्ठी। कुनखी=उपाध्यभावे कुत्सितनखवान्।
शङ्खलिखितौ,
न वैदुष्टान् भोजयेत्। दुश्चर्मकुनखकुष्ठिश्वित्रिश्यावदन्ता ये चान्ये हीनातिरिक्ताङ्गास्तानपि वर्जयेत्। दुश्चर्मा=गजचर्मरोगी। हानातिरिक्ताङ्कः=सङ्ख्यया परिमाणेन वा हीनमतिरिक्तंवाङ्गं यस्य स हीनातिरिक्ताङ्गः।
ब्रह्मपुराणे,
भोक्तुं श्राद्धे न चार्हन्ति दैवोपहतचेतसः।
षण्डो मूकश्च कुनखी खल्वाटो दन्तरोगवान्॥
श्यावदन्तः पूतिनासः छिनाङ्गश्चाधिकाङ्गुलिः।
गलरोगी च गडुमान् स्फुटिताङ्गश्च सज्वरः॥
खञ्जतूवरमण्डाश्च ये चान्ये हीनरूपिणः।
षण्डाश्चोक्ता देवलेन—
षण्डको वातजः षण्डः षण्डः क्लीबो नपुंसकः।
कीलकश्चेति षट्कोऽयं क्लीबभेदो विभाषितः॥
तेषां स्त्रीतुल्यवाक्चेष्टः स्त्रीधर्मा षण्डको भवेत्।
पुमान् भूत्वा सलिङ्गानि पश्चाच्छिन्द्यात्तथैव च॥
स्त्री च पुंभावमास्थाय पुरुषाचारवद्गुणा।
वातजो नाम षण्डः स्यात् स्त्रीषण्डो वापि नामतः॥
असल्लिङ्गोऽपि षण्डः स्यात् षण्डस्तु म्लानमेहनः।
अमेध्याशी पुमान् क्लीबो नष्टरेता नपुंसकः॥
स कीलक इति ज्ञेयो यः क्लैब्यादात्मनः स्त्रियम्।
अन्येन सह संयोज्य पश्चात्तामेव सेवते॥ इति॥
मूकः=वागिन्द्रियरहितः खल्वाटः=शिरसि समूलकेशशून्यः। पूतिनासः=पूतिवन् नासा यस्य सः। गलरोगी=गण्डमालादियुक्तः। गडुमान्=कुब्जः। खञ्जः=पादहीनः। तूवरो=यौवनेऽजातश्मश्रुः। मण्डः=मण्डा
ख्यनेत्ररोगवान्। अथवा जङ्घायां जायमानो व्रणविशेषो मण्डस्तद्वान् मण्डः।
स्कन्दपुराणे।
काणाःकुण्डाश्चमण्डाश्च मूकान्धबधिरा जडाः।
अतिदीर्घा अतिह्रस्वा अतिस्थूलाः भृशं कृशाः॥
निर्लोमानोऽतिलोमानो गौराः कृष्णा अतीव ये।
एतान् विवर्जयेत् प्राज्ञः श्राद्धेषु श्रोत्रियानपि॥
काणः=एकनेत्ररहितः। अन्धः=नेत्रद्वयरहितः। जडः=संकल्पविकल्पात्मकमनोव्यापारशून्यः।
शालङ्कायनः।
अविद्धकर्णैर्यद् भुक्त लम्बकर्णैस्तथैव च।
दग्धकर्णैश्च यद् भुक्तं तद्वै रक्षांसि गच्छति॥
लम्बकर्णश्चोक्तोगोभिलेन,
हनुस्थलादधः कर्णौलम्बौ तु परिकीर्तितौ।
द्व्यङ्गुलौ व्यङ्गुलौ शस्तौ तेन शातातपोऽब्रवीत्॥
तेन द्व्यङ्गुलत्र्यङ्गुलत्वयोर्न लम्बकर्णत्वमित्यर्थः।
भविष्यपुराणे—
नाब्राह्मणाय दातव्यं न देयं ब्राह्मणक्रिये।
न ब्राह्मणब्रुवे चैव न च दुर्ब्राह्मणे धनम्॥
अब्राह्मणाश्चोक्ता व्यासादिभिः—
व्यासः-
ब्रह्मबीजसमुत्पनो मन्त्रसंस्कारवर्जितः।
जातिमात्रोपजीवी च भवेदब्राह्मणस्तु सः।
मनुः,
नानृक्ब्राह्मणो भवति न वणिक् न कुशीलवः।
न शूद्रप्रेषणं कुर्वन् न स्तेनो न चिकित्सकः॥
अनृक्=ऋग्वर्जितः। कुशीलवो=नृत्यगीतवृत्तिः।
शातातपः प्रकारान्तरेणाह—
अब्राह्मणास्तु षट् प्रोक्ता ऋषिः शातातपोऽब्रवीत्।
आद्यो राजभृतस्तेषां द्वितीयः क्रयविक्रयी॥
तृतीयो बहुयाज्यःस्यात् चतुर्थो ग्रामयाजकः।
पञ्चमस्तावकस्तेषां ग्रामस्य नगरस्य वा॥
अनागतां तु यः पूर्वंसादित्यां यश्च पश्चिमाम्।
नोपासीत द्विजः सन्ध्यां स षष्ठोऽब्राह्मणः स्मृतः।
देवलोऽम्यथाह—
कूपमात्रोदकग्रामे विप्रः संवत्सरं वसन्।
शौचाचारपरिभ्रंशाद् ब्राह्मण्याद्विप्रमुच्यते।
इत्यब्राह्मणाः। ब्राह्मणक्रियो=ब्राह्मणस्य क्रियेव क्रिया यस्य स क्षत्रियादिः। ब्राह्मणब्रुवाश्चोक्ताःव्यासादिभिः।
गर्भाधानादिभिर्युक्तःतथोपनयमाप्तवान्।
न धर्मवान् न चाधीते स भवेद् ब्राह्मणब्रुवः॥
दुर्ब्राह्मणाश्चोक्ताःहारीतादिभिः।
पक्षिमीनवृषघ्ना ये सर्पकच्छपधातिनः।
नानाजन्तुवधे सताः प्रोक्ता दुर्ब्राह्मणा हि ते॥
इति दुर्ब्राह्मणाः।
अथ वृषलीपतयः।
तत्रोशनाः।
बन्ध्या च वृषली ज्ञेया कुमारी या रजस्वला।
यस्त्वेतामुद्वहेत् कन्यां ब्राह्मणो ज्ञानदुर्बलः॥
अश्राद्धेयमपाङ्क्तेयं तं विद्यात् वृषलीपतिम्।
चमत्कारखण्डे तु अन्यथोक्तम्।
वृषो हि भगवान् धर्मस्तस्य यः कुरुते त्वलम्।
बृषलं तं विदुर्देवाः सर्वधर्मबहिस्कृतम्॥
तथैव या स्त्री वृषली तत्पतिर्वृषलीपतिः।
अलं=वारणम्। तथैव धर्मनिराकरणकर्त्री।
प्रभासखण्डे।
वृषलीत्युच्यते शुद्रा तस्या यश्च पतिर्भवेत्।
लालोच्छिष्टस्य संयोगात् पतितो वृषलीपतिः॥
स्ववृषं तु परित्यज्य परेण तु वृषायते।
वृषली सा तु विज्ञेया नशूद्रा वृषलीयते॥
चाण्डाली बन्धकी वेश्या रजस्था या व कन्यका।
ऊढा या चस्वगोत्रा स्यात् वृषल्यः संप्रकीर्तिताः॥
आपस्तम्बः।
नीलाकर्षणकर्ता नीलीवस्त्रानुचारकः।
किञ्चिन्न तस्य दातव्यं चाण्डालसदृशो हि सः॥
नीलाक्षेत्रे कर्षणकर्तेस्यर्थः।
मनुः—
अव्रतैर्द्विजैर्भुक्तंपरिवेत्रादिभिस्तथा।
आपाङ्क्तेयैर्यदन्यैश्च तद्वै रक्षासि भुञ्जते॥
(अ० ३ श्लो० १७० )
अव्रताः=असंयताः शौचाचारविवर्जिता इति यावत्। परिवेत्रादय इत्यादिशब्दात् परिवित्तिः। तेषां लक्षणमुक्तं वृद्धयाज्ञवल्क्यादिभिः।
तत्र वृद्धयाज्ञवल्क्यः—
आवसथ्यमनाहत्य त्रेतायां यः प्रवर्तते।
सोऽनाहिताग्निर्भवति परिषेत्ता तथोच्यते॥
आवसथ्यम्=औपासनाग्निम्। अनादृत्य=असंगृह्य। त्रेताह=र्गाहपत्याहवनी यदक्षिणाग्नयः। अनाहिताग्निः=आधानजन्यफलरहितो भवतीत्यर्थः।
मनुः।
द्वाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते।
परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः॥
( अ० ३ श्लो० १७१ )
स्थिते दाराग्निहोत्रसंयोगं विनेति शेषः। अग्निहोत्रशब्दःकर्मवचनोऽपि आधाने लाक्षणिक इति मेधातिथिप्रभृतयः। वस्तुतस्तु यथा श्रुतः कर्मवाचक एव। तेन यथा ज्येष्ठेऽकृतदारे दारसंयोगात दोषः तथा ज्येष्ठेन अग्निहोत्रानारम्भे कनिष्ठस्याग्निहोत्र इत्यर्थः। न च गार्ग्येणाधाने परिवित्त्यादेरुक्तत्वादेकश्रुतिकल्पनालाघवादग्निहोत्रपदमाधानपरमिति वाच्यम्।भिन्नश्रुतिकल्पनस्य फलमुखत्वेनादुष्टत्वान्त दनुरोधेनाग्निहोत्रशब्दे लक्षणायोगात्।
दर्शेष्टि पौर्णमासेष्टि सोमेन्यामन्गिसंग्रहम्।
अग्निहोत्रं विवाहं च प्रयोगे प्रथमे स्थितम्।
न कुर्याज्जनके ज्येष्ठे सोदरे वाप्यकुर्वति॥
इत्यग्निहोत्रस्य त्रिकाण्डमण्डनेन पृथगुपादानाञ्च।
गर्गः—
सोदर्ये सत्यपि ज्येष्ठे न कुर्याहारसंग्रहम्।
भावसथ्यंतथाधानं पतितस्त्वन्यथा भवेत्।
वर्ज्यब्राह्मणनिरूपणम्।
आवसथ्यम्=आवसथ्याधानम्। एतच्च दायविभागकालेऽग्निपरिग्रह इत्येतत् पक्षाभिप्रायम्, विवाहकालीनस्य तु दारसङ्ग्रहमित्यनेनैव निरस्तत्वात्। पतितः=तत्तत्कर्मभ्यो न तु महापातकी परिवेदनादीनामुपपातकेषु पाठात्। अयमेव पर्याहित इत्युक्तं लौगाक्षिणा—
सोदर्ये तिष्ठति ज्येष्ठे योऽग्न्याधेयं करोति हि।
तयोः पर्याहितो ज्येष्ठःपर्याधाता कनिष्ठक॥ इति।
केषु चिदपवादमाह शातातपः।
पितृव्यपुत्रसापत्नपरनारीसुतेषु च।
ज्येष्ठेष्वपि हि तिष्ठत्सु भ्रातॄणां तु कनीयसाम्॥
दाराग्निहोत्रसंयोगे न दोषः परिवेदने।
परनारीसुताः=द्व्यामुष्यायणादयः परक्षेत्रे स्वीयपित्रोत्पादिताः। दत्तक्वादयोऽपीति त्रिकाण्डमण्डनः।
तथा—
क्लीबे देशान्तरस्थे च पतिते भिक्षुके तथा।
योगशास्त्राभियुक्ते च न दोषः परिवेदने।
योगशास्त्राभियुक्ताः=अतिविरक्ताः।
कात्यायनः—
देशान्तरस्थान् क्लीबैकवृषणानसहोदरान्।
बेश्यातिसक्तपतितशूद्रतुल्यातिरोगिणः॥
जडमूकान्धबधिरकुब्जवामनषोडकान्।
अतिवृद्धानभार्यांश्च कृषिसक्तान् नृपस्य च॥
धनवृद्धिप्रसक्तांश्च कामतोऽकारिणस्तथा।
कुहकांस्तस्करांश्चापि परिविन्दन्न दुष्यति॥
एकवृषणो=रोगेण प्रवृद्धैकवृषणः। अतिरोगी=अचिकित्स्यरोगवान्। षोडको=भग्नचरणद्वयः। अभार्यो=नैष्ठिकब्रह्मचारी। कामतोऽकारिणः=स्वेच्छया विवाहमकुर्वाणाः। कुहकाः=वञ्चकाः। तस्कराः=ब्राह्मणसुवर्णव्यक्तिरिक्तपरस्वापहारिणः। इतरस्य पतितपदेनैव सङ्ग्रहात्।
देशान्तरस्थे तु वशिष्ठ आह—
अष्टौ दश द्वादश वर्षाणि ज्येष्ठं भ्रातरमनिविष्टमप्रतीक्षमाणः प्रायश्चित्ती भवतीति।
अनिविष्टम्=अकृतविवाहं देशान्तरावस्थितम्।
गौतमोऽपि—
नष्टे भर्तरीति प्रक्रम्य द्वादशवर्षाणि ब्राह्मणस्य विद्यासम्बन्धेनेति भर्तृप्रतीक्षाकालमुक्त्वाऽभिहितं भ्रातरि चैवं ज्यायसि यवीयान् कन्याग्न्याधेयेष्विति।
नष्टे भर्तरि=कुत्र गत इत्यनिर्णीतेऽत्यन्तदूरदेशस्थित इति यावत्। विद्यासम्बन्धेनेति, विद्याग्रहणार्थं देशान्तरङ्गते भर्तरि ब्राह्मणभार्यया द्वादशवर्षाणि प्रतीक्ष्य भर्त्रौर्ध्वदेहिक कार्यम्। एवं ब्राह्मणे ज्येष्ठे विद्याग्रहणार्थं देशान्तरं भ्रातरि गते द्वादशवर्षंप्रतीक्ष्य यवीयसाऽऽधानविवाहे कार्ये, कार्यार्थं तु गतेऽष्टौ द्वादश वर्षाणि प्रतीक्षणीयानि ततोऽनागमं निश्चित्य कुर्यादिति तात्पर्यार्थः।
अत एव सुमन्तुरप्रतीक्षणीयानाह—
व्यसनासक्तचितो वा नास्तिको वाऽथवाग्रजः।
कनीयान् धर्मकामस्तु आधानमथ कारयेत्॥
षण्डादयस्तु विवाहानर्हत्वादेवाप्रतीक्षणीयाः।
तथा चस्मृतिः—
उन्मत्तः किल्विषी कुष्ठी पतितः क्लीब एव वा।
राजयक्ष्म्यामयावी च न न्याय्यः स्यात् प्रतीक्षितुम्॥
खञ्जवामनकुब्जेषु गद्गदेषु जडेषु च।
जात्यन्धे बधिरे मूके न दोषः परिवेदने॥
एवं विधे ज्येष्ठे सति कनिष्ठेन कृते विवाहे न दोष इत्यर्थः। सत्यधिकारिणि ज्येष्ठे तदनुज्ञायां सत्यां कनिष्ठस्याधाने दोषो नास्तीत्याह वशिष्ठः—
अग्रजश्चयदानग्निरादध्यादनुजः कथम्।
अग्रजानुमतः कुर्यादग्निहोत्रं यथाविधि॥
अत्राग्निहोत्रशब्देनाधानमुच्यते उपक्रमानुरोधात्। एतच्चानुज्ञाग्रहणं विवाहातिरिके सोदराणाम्।
तथा च हारीतः—
सोदराणान्तु सर्वेषां परिवेत्ताकथं भवेत्।
दारैस्तु परिविद्यन्ते नाग्निहोत्रेण नेज्यया।
इति अग्निहोत्रादिष्वनुज्ञाता न परिविद्यन्ते, दारैः पुनरनुज्ञाता अपि परिविद्यन्त इत्यर्थ इति हेमाद्रिः।
त्रिकाण्डमण्डनोऽपि आधान एव विशेषमाह—
ज्येष्ठे श्रद्धाविहीने सत्याधेयं तदनुवया।
पितुः सत्यप्यनुज्ञाने नादधीत कदाचन॥
पितर्यनाहिताग्नावप्यादधीताथवा सुतः।
अग्निहोत्रं च जुहुयादिति लौगाक्षिकारिका॥
पिता यस्याग्रजो भ्राता न कुर्याद्वापितामहः।
तपोऽग्निहोत्रं यज्ञं वा स वा कुर्यात् कटाशयात्॥
देशान्तरस्थे स एव—
प्रोषितस्तु यदा ज्येष्ठो न ज्ञायेताऽऽहितानलः।
षड् वत्सरान् प्रतीक्षेत आदधीतानुजस्तदा॥
यद्वा पापं भवेज्ज्येष्ठात् पूर्वं भार्यापरिग्रहे॥ इति।
न तु आधानादाविति शेष इति कृतं पल्लवितेन।
प्रकृतमनुसरामः। अपाङ्गेयाश्चोक्का मनुना,
ये स्तेनाः पतिताः क्लीवा ये च नास्तिकवृत्तयः।
तान् हव्यकव्ययोर्विप्राननर्हान्मनुरब्रवीत्॥
जटिलं चानधीयानं (१)25 दुर्वालं कितवं तथा।
याजयन्ति च ये पुगान् तांश्च श्राद्धे न भोजयेत्॥
चिकित्सकान् देवलकान् मांसविक्रयिणस्तथा।
विषणेन च जीवन्ति वर्ज्यास्ते हव्यकव्ययोः॥
प्रेष्योग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः।
प्रतिरोद्धा गुरोश्चैव त्यक्ताग्निर्वार्धुषिस्तथा॥
यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः।
ब्रह्मद्विट्परिवित्तिश्च गणाभ्यन्तरगश्च यः॥
कुशीलवोऽवकीर्णी च वृषलीपतिरेव च।
पौनर्भवश्व काणश्च यस्य चोपपतिगृहे॥
भृतकाध्यापको यश्च भूतकाध्यापितश्चयः।
शूद्र शिष्यो गुरुश्चैव वाग्दुष्टाः कुण्डगोलकौ॥
अकारणात् परित्यक्ता मातापित्रोर्गुरोस्तथा।
ब्राह्मैर्यौनैश्च सम्बन्धैः संयोगं पतितैर्गतः॥
आगारदाही गरदः कुण्डाशी सोमविक्रयी।
समुद्रयायी बन्दी च तैलिकः कूटकारकः॥
पित्रा विवदमानश्च किङ्करो मद्यपस्तथा।
पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी॥
धनुः शराणां कर्ता च यश्चाग्रेदिधिषूपतिः।
मित्रध्रुग् द्यूतवृत्तिश्च पुत्राचार्यस्तथैव च॥
भ्रामरी गण्डमाली च शिवत्र्यथो पिशुनस्तथा।
उन्मत्तोऽन्धश्च वर्ज्यास्युर्वेदनिन्दक एव च॥
हस्तिगोऽश्वोष्ट्रदमको नक्षत्रैर्यश्च जीवति।
पक्षिणां पोषको यश्च युद्धाचार्यस्तथैव च॥
स्रोतसां भेदकश्चैव तेषां चावरणे रतः।
गृहसंवेशको दूतो वृक्षारोपक एव च॥
श्वक्रीडश्चोपजीवी च कन्यादृषक एव च।
हिंस्रोवृषलवृत्तिश्च गणानां चैव याजकः॥
आचारहीनः क्लीबश्च नित्ययाचनकस्तथा।
कृषिजीवी च शिल्पी च सद्भिर्निन्दित एक च॥
औरभ्रिको माहिषिकः परपूर्वापतिस्तथा।
प्रेतनिर्यापकश्चैव वर्जनीयाः प्रयत्नतः॥
एतान् विगर्हिताचारानपाङ्क्तेयान् द्विजाधमान्।
द्विजातिप्रवरो नित्यमुभयत्र विवर्जयेत्॥
(अ० श्लो० १५०-१६७)
स्तेना=ब्राह्मणसुवर्णव्यतिरिक्तद्रव्यापहारकाः। पतिताः=द्विजातिकर्मभ्यो हानिः पतनं, तत्प्रयोजककर्मकर्तारः महापातककर्तेति मेधातिथिः। क्लीबः=षण्डः। स च पूर्वमुक्तः। नास्तिकाश्च “ये व्यपेताः स्वकर्मभ्यो नास्तिकास्ते प्रकीर्तिताः” इति यमोक्ताः। अन्ये तु नास्ति परलोक इत्येवमास्थिता नास्तिकास्तेषां वृत्तिराचारोऽश्रद्दधानता तद्वद्वृत्तिर्येषांते नास्तिकवृत्तयः। अथवा नास्तिकेभ्यो वृत्तिर्जीवनं येषान्ते तथा। जटिलं=ब्रह्मचारिणम्। तं चानधीयानम्, अप्रारब्धाध्ययनम्। प्रारब्धाध्ययनस्य तस्य विहितत्वात्। ननु तस्याश्रोत्रियत्वेन कथं प्रसक्तिरिति चेत् “व्रतस्थमपि दौहित्रम्” इत्यनेन कथञ्चित्प्राप्तत्वात्। अमुमेवार्थं सङ्ग्रहकार आह।
निश्चिताध्ययनेनैव गुणेन स्वीकृताखिलः।
मूर्खो यो ब्रह्मचारी तु जटिलस्तं न भोजयेत्॥
दौहित्रवदयं चापि भ्रान्त्या प्राप्तो निषिध्यते।
ईदृशस्य गृहस्थस्य प्राप्त्यर्थमपरे विदुः॥
तन्न युक्तमविद्वांश्च गृहस्थश्व विरुध्यते।
वस्तुतो जटिलो जटावान गृहस्थ एव वैखानसो वा, तथा च जटिलस्य पृथङ् निषेधः। दुर्वालः=कुत्सितकेशः खलतिर्वा। दुर्बलमितिपाठे तु दुर्बलो विकोशध्वजः। पूगयाजकः=बहूनां याजकः। अत्र श्राद्ध इत्युपादानात् यद्यपि पितृमात्रविषयत्वं प्राप्यते तथापि तदङ्गभूतवैश्वदेविकोऽपि निषिध्यत एव, मन्द्रं प्रातः सवन इति वत्। चिकित्सकः=वृत्त्यर्थं धर्मार्थं वा चिकित्साकर्ता। तैत्तिरीयतश्रुतौनिषेधस्याविशेषेण श्रूयमाणत्वात् तस्माद् ब्राह्मणेन भेषजं न कार्यम्। “महतो ह्येषोऽमेध्यो भिषक्” इति स्मृतिचन्द्रिकाकारः। तन्न साम्प्रतम्। निरूपधिक्रियमाणे तस्मिन् शुश्रुतादौ पुण्यश्रवणात्।
देवलक उक्तो देवलेन—
देवार्चनपरो नित्यं वित्तार्थं वत्सरत्रयात्।
असौ देवलको नाम हव्यकव्येषु गर्हितः॥
देवकोशोपजीवी व नाम्ना देवलको भवेत्।
अपाङ्केयः स विज्ञेयः सर्वकर्मसु सर्वदा॥ इति।
विपणोपजीबी=अनापदि वणिग्वृत्तिः। तच्च वाणिज्यं स्वयं कृतं बोध्यम्। कृषिवाणिज्ये चास्वयंकृते इति गौतमेन ब्राह्मणस्य मुख्यवृत्तौ वाणिज्यस्याऽस्वयंकृतस्योपादानात्। मांसविक्रयश्च पृथगुपादानादस्वयंकृतोऽपि निषिद्ध एव। मांसपदं चाविक्रेयोपलक्षणार्थम्।
मेधातिथिस्तु मांसस्य पृथगुपादान विनिमयनिषेधार्थमित्याह।
प्रेष्यः=आज्ञाकरः ग्रामस्य राज्ञश्च। प्रत्येकं निषेधः। त्यक्ताग्निः= बुद्धिपूर्वं विच्छिन्नाग्निः।
वार्धुषिकश्चोक्तो वशिष्ठेन—
समर्घंधनमुद्धृत्य महर्षे यः प्रयच्छति।
स वै वार्धुषिको नाम ब्रह्मवादिषु गर्हितः॥
देवलस्तु,
विप्रं वार्धुषिकं विद्यादन्नवृद्ध्युपजीविनम्।
इत्याह।
यक्ष्मी=क्षयी। पशुपालः= जीवनार्थं यः पशून् पालयति सः। निराकृतिश्चोक्तःकात्यायनेन,
य आधायाग्निमालस्याद्देवादीनेभिरिष्टवान्।
निराकर्ताऽमरादीनां स वै ज्ञेयो निराकृतिः॥ इति।
अधीत्य विस्मृते वेदे भवेद् विप्रो निराकृतिः।
इति देवलोक्तो वा।
ब्रह्मद्विट्=वेदस्य ब्राह्मणानां च द्वेष्टा। परिवित्तिः=पूर्वोक्तः। गणाभ्यतरगः=गणानां सङ्घानामेकवृत्युपजीविनां मध्ये तिष्ठतीत्यर्थः। कुशीलबो=नटः
अवकीर्णी चोक्तो देवलेन,
गूढलिङ्ग्यचकीर्णी स्याद्यश्च भग्नव्रतस्तथा।
गूढलिङ्गी=ब्रह्मचारिलिङ्गत्यागी। भग्नवतः=स्त्रीसङ्गवान्। वृषलीपतयक्ष पूर्वमेवोक्ताः। पौनर्भवः=पुनर्भूः द्विःपरिणीता तस्याः पुरुषः। उपपतिः=जायाजारः स यस्य गृहे स इत्यर्थः। वेतनग्रहणपूर्वकमध्यापको भृतकाध्यापकः। एवं भृतकाध्यापितोऽपि। शुद्रशिष्यो=व्याकरणादिषु। गुरुश्चशूद्रस्यैव।
वाग्दुष्टश्च कात्यायनेनोक्तः—
हुङ्कारं चासनं चैव लोके यश्च विगर्हितम्।
अनुकुर्यादनुब्रूयाद् वाग्दुष्टं तं विवर्जयेत्॥
अभिशस्त इत्यन्ये, तन्न, अभिशस्त इति पृथगुपादानात्। कुण्डगोलकौ “अमृते जारजः कुण्डो मृते भर्तरि गोलक” इति पराशरोक्तौ। न चैतयोरब्राह्मणत्वेन प्राप्त्यभावात् कथं निषेध इति वाच्यम्। ब्राह्मण्यां ब्राह्मणोत्पन्नो ब्राह्मण इत्यपि ब्राह्मणलक्षणस्योक्तेस्तत्प्रसक्तस्यैव निषेधः। अथवाभ्रमप्राप्तस्य निषेध इति। गुरुः= पितृभिन्नः। एतेषां महापातकव्यतिरेकेण त्यागकर्ता। ब्राह्मैर्यजनयाजनाध्यापनैः।पतितसंसर्गोऽर्वाक संवत्सरात्, ऊर्ध्वन्तु तस्यापि पतितत्वात्। आगारदाही चोक्तो देवलेन—
(१)26 आगारदाही स ज्ञेयः प्रेतं दग्धा ह्यनेकशः।
स चाप्यागारदाही स्याद् द्वेषाद्यो वेश्मदाहकः॥ इति।
गरदः=कृत्रिमाकृत्रिमविषदाता।
कुण्डाशी च कुण्डगोलकावुक्त्वोक्तो मनुना,
यस्तयोरन्नमश्नाति कुण्डाशी स निगद्यते॥ इति।
ब्रह्मपुराणे तु,
प्रस्थं षष्टिपलैः शुद्धैः कुण्डं प्रस्थचतुष्टयम्।
भवेत् तद् यस्तु निगिरेत् स कुण्डाशी पतत्यधः॥ इति।
निगरणं चैकस्मिन्नेव भोजने।
सोमविक्रयी=मुञ्जवत् पर्वते जातः औषधिविशेषः सोमः तस्य विक्रेता। केचित्तु सोमयागसाध्याऽपूर्वविक्रेतेति वदन्ति। बन्दी=स्तुतिपाठकः। तैलिकः=तिलनिष्पीडनकर्ता। कितवो=द्यूतस्य कर्ता। केचित्तु कितव इति स्थाने केकर इति पाठः, तदा केकरोऽध्यर्द्धदृष्टिबिंडालदृष्टिर्वा। मद्यपः=सुराव्यतिरिक्तमद्यपाता, इतरस्य महापातकिपदेनोपादानात्। पापरोगी= अपस्मारवान्। अभिशस्तः=लताऽसता वा पातकेन लोके कर्तृत्वेन प्रसिद्धः। दाम्भिकः=छद्मना धर्मकर्ता। रसविक्रय=रसस्य पारदस्य विक्रेता, गुड़क्षौद्रलवणतक्रविक्रेतेति शङ्खधरः। अग्रेदिधिषूपतिरित्यत्र दिधिषूशब्दो देहलीप्रदीपन्यायेन उभयत्र संबध्यते, तेन अग्रेदिधिषूपतिरग्रदिधिषूश्चेति। तौ च मनुनोक्तौ—
परपूर्वापतिं धीरा वदन्ति दिधिषूपतिम्।
द्विजोऽग्रेदिधिषूश्चैव सैव यस्य कुटुम्विनी॥
पूर्वं स्थितेति शेषः।
देवलस्तु—
ज्येष्ठायां यद्यनूढायां कन्यायामुह्यतेऽनुजा।
सा चाग्रेदिधिषूर्ज्ञेया पूर्वा तु दिधिषूर्मता॥
इति प्रकारान्तरेणाग्रेदिधिषूमाह।
तस्या वाग्रेदिधिष्वाः पतिरस्मिन् वाक्ये निषिद्धः।
वृद्धमनुस्तु प्रकारान्तरमाह—
भ्रातुर्मृतायां भार्यायां योऽनुरज्येत कामतः।
धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः॥
मित्रध्रुक्=मित्रं यो द्रुह्यति, मित्रस्य कार्योपघाते वर्तते इत्यर्थः।
द्यूतवृत्तिः=द्यूतोपजीवी। पूर्वन्तु कौतुकात् द्यूतकर्तोक्तः, इदन्तु वृत्यर्थमिति भेदः।
पुत्राचार्य उक्तो नारदेन,
पुत्राचार्यः स विज्ञेयो ग्रामे यो बालपाठकः।
पुत्रादवाप्तविद्यो वा पुत्राचार्यः स उच्यते॥ इति।
पुत्राचार्यः=भ्रामरी च निगद्यते। अपस्मारी भ्रामरीति मेधातिथिः, रोगसाहचर्यात्। श्वित्रि =श्वेतकुष्ठवान्। पिशुनः=परमर्मप्रकाशकः। वेदनिन्दकः=वेदकुत्सनकर्ता। हस्तिगोऽश्वोष्ट्रदमकः=एतेषां विनेता गति शिक्षयितेति यावत्। नक्षत्रजीवी=ज्योतिषिकः। स्रोतसां भेदकः=सेतुभेदनेन त्रीह्याद्यर्थं प्रवाहनेता। तेषां स्रोतसां आवरणम् आच्छादन तस्मिनैरन्तर्येण युक्तः। गृहसंवेशकः=वार्द्धकिवृत्युपजीवी। दूत्यः=प्रेष्यः। वृक्षारोपकः=मूल्येन वृक्षारोपणकर्ता। धर्मार्थं वृक्षारोपणस्य विहितत्वात्। स्वक्रीडी=श्वभिः क्रीडनकर्ता। श्वभिर्जीवति स श्वजीवी। कन्यादूषकः=कन्याया योनिविदारणकर्ता। वृषलवृत्तिः=वृषलाः शुद्धाः तेषां सेवादिरूपा वृत्तिर्यस्य सः। कचिद् वृषलपुत्रेति पाठः। तदा वृषला एव पुत्रा यस्य सः। गणाना याजकः=गणानामहर्गणानां द्वादशादीनां याजकः। क्लीबः=असत्वः। नित्ययाचनकः=नित्यं याञ्चापर इत्यर्थः। कृषिजवी=स्वयं कृषिकर्ता। अस्वय कर्तृका यास्तस्याः गौतमेन ब्राह्मणमुख्यवृत्तित्वेनाभिधानात्। श्लीपदी=श्लीपदः पादोच्छूनताख्यो रोगस्तद्वान्। निन्दितः=विनापि दोष सतां दूष्यः औरभ्रिकः=उरभ्रा मेषास्तैः क्रयाविक्रयादिकर्ता, तद्वृत्युपजीवीति या वत्। माहिषिकोऽप्येवमिति मेधातिथिः।
अन्ये तु—
महिषी तूच्यते भार्या या चैव व्यभिचारिणी।
तस्यां यो जायते गर्भः स वै माहिषिकः स्मृतः॥
इति देवलोक्तो ग्राह्य इत्याहुः। अयं च स्वभर्तुः सकाशाज्जातः, अन्यस्य कुण्डत्वात्।
ब्रह्माण्डपुराणे तु,
महिषीत्युच्यते भार्या या चैव व्यभिचारिणीः।
तस्यां यः क्षमते दोषं स वै माहिषिकः स्मृतः॥
इति उक्तः। परपूर्वापतिः= परपूर्वा पुनर्भूस्तस्याः पतिः। एतान् विगर्हिताचारान् उभयत्र दैवे पित्र्ये चेत्यर्थः।
यमोऽपि।
अश्राद्धेया द्विजाश्चान्ये तान्मे निगदतः शृणु।
येभ्यो दत्त न देवानां न पितॄणां च कर्मकृत्॥
काणाः कुब्जाश्च षण्ढाश्च कृतघ्ना गुरुतल्पगाः।
ब्रह्मघ्नाश्च सुरापाश्च स्तेना गोघ्ना चिकित्सकाः॥
राष्ट्रकामास्तपोन्मत्ताः पशुविक्रयिणश्च ये।
(१)27ग्रामकूटास्तुलाकूटाः शिल्पिनो ग्रामयाजकाः॥
वृषलीभि प्रपीताश्च श्रेणीराजन्ययाजकाः।
राजभृत्यान्धबधिरमूकखल्वाटपङ्गत्रः॥
(२)28कल्पोपजीविनश्चैव ब्रह्मविक्रयिणस्तथा।
दण्डध्वजाश्च ये विप्रा ग्रामकृत्यकराश्च ये॥
आगारदाहिनश्चैव गरदानलदाहकाः।
कुण्डाशिनो देवलकाः परदाराभिमर्षकाः॥
श्यावदन्ता कुनखिनः श्वित्रिणः कुष्ठिनश्च ये।
वणिजो मधुहन्तारो हस्त्यश्वदमका द्विजाः॥
कन्यानां दूषकाश्चैव ब्राह्मणानां च दूषकाः।
सूचकाः पोषकाश्चैव कितवाश्च कुशीलवाः॥
समयानां च भेत्तारः प्रदाने ये च वारकाः।
अजाविका माहिषिकाः सर्वविक्रयिणश्च ये॥
वैष्णवीषु च ये सक्ताः शलाकादाहिनश्च ये।
धनुष्कर्ता द्यूतवृत्तिः मित्रध्रुक् शठ एव च॥
इषुकर्ता तथा वर्ज्यो यश्चाग्रेदिधिषूपतिः।
पाण्डुरोगी गण्डमाली यक्ष्मी च भ्रामरी तथा॥
पिशुनः कूटसाक्षी च दीर्घरोगी वृथाश्रमी।
प्रव्रज्योपनिवृत्तश्च वृथा प्रव्रजितश्च यः॥
यस्तु प्रव्रजिताज्जातः प्रव्रज्यावसितश्च यः।
तावुभौ ब्रह्मचाण्डालावाह वैवस्वतो यमः॥
राज्ञः प्रेष्यकरो यश्च ग्रामस्य नगरस्य च।
समुद्रयायी वान्ताशी केशविक्रयिणश्च ये॥
अवकीर्णी च वीरघ्नो गुरुघ्नः पितृदूषकः।
गोविक्रयी च दुर्वालः पूगानां चैव याजकः॥
मद्यपश्च कदर्यश्च सह पित्रा विवादकृत्।
दाण्डिको बन्धकीभर्ता त्यक्तात्मा दारदूषकः॥
सद्भिश्च निन्दिताचारः स्वकर्मपरिवर्जितः।
परिवित्तिः परिवेत्ता भृत्याचार्यो निराकृतिः॥
शूद्राचार्यः सुताचार्यः शुद्रशिष्यश्च नास्तिकः।
दुष्टस्तु दारकाचार्यो मानकृत्तैलिकस्तथा॥
चौरा वार्धुषिका दुष्टाः परस्वानां च नाशकाः।
चतुराश्रमबाह्याश्च ये चान्ये पङ्किदूषकाः॥
इत्येतैर्लक्षणैर्युक्तांस्तान् विप्रान्न नियोजयेत्।
राष्ट्रकामः=पौरोहित्यार्थं परराष्ट्रं वशीकर्तुं कामयते सः। अलीकणव्यवहारेण ग्रामद्रव्यं यो भक्षयति स ग्रामकूटः। तुलाकूटः=तुलासु कपटकर्ता। वृषल्या असकृच्चुम्बितो वृषलीप्रपीतः। श्रेणीयाजकः=स्वर्णकारादिपङ्क्तियाजकः। ब्रह्म=वेदः। दण्डध्वजाः=अपराधे सति राज्ञा कृतचिह्नाः। मधुहन्ता=मध्वर्थं मक्षिकाहन्ता। सूचकः**, परदोषस्येति शेषः**। पोषकाः=परापवादकथासु दोषपोषकाः। सुचकपदसमभिव्याहारात्। समयाः=शिष्टकृता राजकृता वा नियमाः। वैष्णवीषु च ये सक्ताः=वेश्यानुरक्ता इति यावत्, अथवा वैष्णवीषु=इन्द्रजालादिमायासु। शलाकादाहिनः=ब्रह्मचिकित्सायां लोहशलाकया दाहकाः। कल्पतरौ तु अलाजादाहिन इति पाठः, तदा लाजादाहो लाजाहोमस्तदुपलक्षितो विवाहो यैर्न कृत इत्यर्थः। वृथाश्रमी=य आश्रमान्तरे स्थित्वा आश्रमान्तरधर्मवान् सः, वृथा प्रयासकर्ता वा। प्रव्रज्योपनिवृत्तः=प्रव्रज्या त्यागसङ्कल्पस्ततो निवृत्तः। वृथा प्रव्रजितः=वैराग्यमन्तरेण प्रवजितः। प्रव्रज्यावसितः=यस्तां स्वीकृत्य त्यजति सः।
वान्ताशी चोक्तो विष्णुना—
देशं गोत्रं कुलं विद्यामन्नार्यं यो निवेदयेत्।
वैवस्वतेषु धर्मेषु वान्ताशी स प्रकीर्तितः॥
सर्वज्ञा वयमित्येवमभिमानरता नराः।
वान्ताशिनः परित्याज्याः श्राद्धे दाने च लम्पटाः॥ इति।
वीरघ्नः=वालघ्नः।
कदर्यश्चोक्तो बृद्धगौतमेन,
आत्मनं धर्मकृत्यं च पुत्र दारांश्च पीडयेत्।
मोहान्धः प्रचिनात्येर्थान् स कदर्य इति स्मृतः॥ इति।
** दण्डेऽधिकृतो** दाण्डिकः। बन्धकी=पुंश्चली, तस्या भर्ता। यक्तात्मा आत्मघातार्थं कृतोद्यमः। दारदूषकः=स्वयं पुरुषान्तरसंयोजनेन च यः कुलस्त्रीणां दूषकः। दारकाः अकृतोपनयनास्तेषामाचार्यो दारकाचार्य। सुमन्तुरप्यपाङ्केयानाह।
तस्करकितवाऽजपालगणगणिकाशूद्रप्रेष्यागम्यागामिपरिवेतृपरिवित्तिपर्याहितपर्याधातृपौनर्भवान्धबधिरचारणक्लीबावकीर्णिवार्धुषिकगरदायिकूटसाक्षिनास्तिकवृषलीपतिअहुतादोपसृष्टाग्निसोमविक्रयिविक्रेतृपौस्तिककथककुण्डाशीकुण्डगोलकयन्त्रकारकाण्डपृष्ठदुश्चर्मचण्डविद्धशिश्नदेवलकषण्डारूढपतितप्रायोत्थितकुनखिकिलासिश्यावदन्तवणिशिल्पवादित्रनृत्यगीतवाद्योपजीविमूल्यसांवत्सरिकमहापथिकाश्मकुट्टहीनातिरिक्ताङ्गविरागवाससञ्चापाङ्केयाः।
** गणादीनां त्रयाणां प्रेष्यः सेवकः**। पर्याधातृपर्याहितौ चोक्तौ। चारणो बन्दिविशेषः। अहुतादः=विना पञ्चयज्ञादिक भोक्ता। पौस्तिको=पुस्तकविक्रेता। पुस्तकलेखनकर्मोपजीवी वा। कथकः=बृहत्कथादीनां कथानां वक्ता। (१)29काण्डपृष्ठाश्चोक्ता हारीतादिभि—
शूद्रापुत्राः स्वयं दत्ता ये चैते क्रीतकाः सुताः।
ते सर्वे मनुना प्रोक्ताः काण्डपृष्ठा न संशयः॥
स्वकुलं पृष्ठतः कृत्वा यो वै परकुलं व्रजेत्।
तेन दुश्चरितेनासौ काण्डपृष्ठो न संशयः॥
नारदेन तु ब्राह्मणस्थापदि गतायामापट्व्टत्तित्यागमभिधायोक्तम्—
तस्यामेव तु यो वृत्तौ ब्राह्मणो रमते रसात्।
काण्डपृष्ठश्च्युतो मार्गात् सोऽपाङ्क्तेयः प्रकीर्तित॥ इत्युक्तः।
देवेलस्त्वन्यथाह,
वेश्यापतिः कृष्णपृष्ठः काण्डपृष्ठो भवेदिति।
हेमाद्रौ तु काण्डस्पृष्ट इति पाठः स च “काण्डस्पृष्टः शस्त्रजीवी” इत्यनुशासनात् प्रसिद्ध इत्युक्तम्। चण्डः=छिन्नमेहनचर्मेति हेमाद्रिः। विद्धशिश्नः=शिश्नमुले छिद्रं कृत्वा तत्र सुवर्णघण्टिकाघटितमुक्ताफलादिबन्धनकर्तेति स एव। प्रायोऽनशनं तत उत्थितो निवृतः प्रायोस्थितः। किलासी सिध्मरोगी।
शङ्खलिखितौ, घाण्डिको देवलकः पुरोहितो नक्षत्रादेशवृत्तिः र्ब्रह्मपुरुष इति। अपाङ्क्तेया इति वक्ष्यमाणेन सम्बन्धः।
घाण्टिकश्चोक्त उशनसा।
राज्ञः प्रबोधसमये घण्टाशिल्पस्तु घाण्टिकः॥ इति।
** महतीं घण्टां वादयन् यः प्रतिगृहं भिक्षते स वा** घाण्टिकः। ब्रह्मपुरुष=यो जीवन् मुक्तवेषेण लोकान् प्रतारयन् द्रब्यमर्जयति सः।
शातातपः,
अग्निष्टोमादिभिर्यज्ञैर्ये यजन्त्यल्पदक्षिणैः।
तेषामन्नं न भोक्तव्यमपाङ्क्तेयाः (१)30प्रकीर्तिताः॥
आवेष्टिकपौश्चलवार्धुषिकाहितुण्डिकप्रत्यवसितभृतकाध्यापकाध्यापिततैलिकसूचकनियामककुशीलवादीन् दैवे पित्र्ये च वर्जयेत्। नास्ति कक्लीबकदर्योरभ्रकाक्रीडितानृत-वादिनो जपहोमसन्ध्याविवर्जिताः। स्रौवयौनमौखसङ्करसङ्कीर्णाऽपुण्याब्राह्मणवृत्तिप्लव-बन्धोपजीविवृषलीपतिशूद्रग्रामयाचकतस्करागारदाहिगरदाः सोमविक्रयिगायकनर्तक-धनुःशरयोजककुण्डगोलकनराशंसक पिलदेवघाण्टिकनक्षत्रजीविमहोदधिगामिदीर्घ-रोगिमहापथिकाः पतिताः पतितपुरोहिताश्चानिवर्तमानाः पङ्क्तिदूषकाः इति। मरणफलकं ग्रीवावेष्टनं भावे क्तस्तदर्थं यो यज्ञे परिक्रीयते स आवेष्टिक। पौश्चलः=पुंश्चली शुल्कोपजीवी। आहितुण्डिकः=सर्पक्रीड़ी। प्रत्यवसितः=आश्रमच्युतः। नियामकः=कपोतवाहः परान्नियमयतीति वा। आक्रीडी=क्रीडाशीलः। नराशंसो=मनुष्यस्तावकः। कपिलो=अतिकपिलवर्णः। दीर्घरोगी=अचिकित्स्यव्याधिः। महापथिकः=अतिदूरदेशादागतः। कल्पतरौ तु दीर्घमहाप-
थिक इति पाठः, तदैकमेव पदम्। दीर्घमहापन्था=मरणम्–तत्र कृतोद्यम इत्यर्थः। अनिवर्तमानः=प्रायश्चित्तमनिच्छमानः।
आपस्तम्बः,
श्वित्री शिपिविष्टः परतल्पगम्यायुधी यः पुत्रः शूद्रोत्पन्नो ब्राह्मण्याम्, इत्येते श्राद्धे भुञ्जानाः पङ्क्तिदूषका भवन्ति।
शिपिविष्टः=दुश्चर्मा। यः पुत्रः शूद्रोत्पन्नो ब्राह्मण्यामिति। असवर्णपरिग्रहे ब्राह्मण्यां पुत्रमनुत्पाद्य शूद्रायामुत्पादित इति कपर्दीति कल्पतरुः। हेमाद्रिस्तु शूद्रसमाद् ब्राह्मणात् सत्कुलप्रसुतायां सद्वृत्तायां ब्राह्मण्यामुत्पादित इत्याह।
वायुपुराणे,
यस्तिष्ठेद्वायुमक्षस्तु चातुराश्रम्यबाह्यतः।
अयतिर्मोक्षवादी च उभौ तौ पङ्क्तिदूषकौ॥
उग्रेण तपसा युक्तः श्चित्रवाली ? बहुश्रुतः।
अनाश्रमी तपस्तेपे तं विप्रं न निमन्त्रयेत्॥
तथौपपत्तिकः शाठो नास्तिको वेदनिन्दकः।
ध्यानिनं ये च निन्दन्ति सर्वे ते पङ्क्तिदूषकाः॥
वृथा मुण्डांश्च जटिलान् सर्वकार्पटिकांस्तथा।
निर्घृणान् भिन्नवृत्तांश्च सर्वभक्षांश्च वर्जयेत्॥
प्राह वेदान् (१)31वेदभृतो वेदान् यश्चोपजीवति।
उभौ तौ नार्हतः श्राद्धं पुत्रिकापतिरेव च॥
वृथा दारांश्च यो गच्छेत् यो यजेताध्वरैर्वृथा।
नार्हतस्तावपि श्राद्धं द्विजो यश्चैव नास्तिकः॥
आत्मार्थं यः पचेदन्नं न देवातिथिकारणात्।
नार्हत्यसावपि श्राद्धं पतितो ब्रह्मराक्षसः॥
स्त्रियो रक्ताम्बरा येषां परिवादरताश्च ये।
अर्थकामरता ये च न तान् श्राद्धेषु भोजयेत्॥
सन्ति वेदविरोधेन केचिद् विज्ञानमानिनः।
अयज्ञपतयो नाम ते (२)32ध्वसन्ति यथा रजः॥
मुण्डान् जटिलकाषायान् श्राद्धे यत्नेन वर्जयेत्।
औपपत्तिक =उपपत्तिस्तर्कस्तन्मात्रव्यवहारी हैतुक इति यावत्।
शाठोऽत्र शाठ्यधर्माभिरतः। वृथा मुण्डाः=अविहितमुण्डनकर्तारः। वृथा जटिलाः=अविहितजटावन्तः। वृथा दारांच यो गच्छेदिति। वृथा=निषिद्धदिवसे। रक्ताम्बरधरा=आर्तववती।
महाभारते,
ऋणहर्ता च यो राजन् यश्च वार्द्धुषिको द्विजः।
प्राणविक्रयवृत्तिश्च राजन्नार्हन्ति केतनम्॥
ऋणहर्ता=ऋणं गृहीत्वा यो दातुं नेच्छति सः। प्राणविकयवृत्तिः=प्राणसंशयापादकवृत्तिः।
मत्स्यपुराणे—
कृतघ्नान्नास्तिकांस्तद्वद् म्लेच्छदेशनिवासिनः।
त्रिशङ्कून् बर्षरानान्ध्रांश्चीनद्रविडकुङ्कुणान्(१)33।
कर्णाटकांस्तथा कीरान्(२)34 कलिङ्गांश्च विवर्जयेत्।
अयं च म्लेच्छादिदेशातिरिक्तदेशवासिषु कर्तृषु सति संभवे म्लेच्छादिदेशवासिद्विजनिषेधो न तु तत्तद्देशे, अन्यथा तस्मिन् देशे श्राद्धलोपापत्तेः।
देवलः —
गोभर्तृविश्वस्तान्नदप्रव्रजितबन्धुमित्रघातका मातृपितृपुत्रदाराग्निहोत्रत्यागिनः यज्ञोपहन्ता वृषलीपतिः सोमविक्रयी व्रात्यो निष्क्रियश्चेति पतिताः। जारोपपतिकुण्डगोलकभर्तृदिधिषूपतिमूढभृतकाध्यापकायाज्ययाजकब्रह्मधर्मदुष्टद्रव्यविक्रयिकदर्यवर्णसंभेदकानार्यभ्रष्टशौचाऽधन्यदेवलकवार्धुषिकगोत्रभित्परिवित्तिपरिवेत्तृकृष्णपृष्ठनिकृतिनिराकृत्यवकीर्णिम्लेच्छावरेटकरणागारदाहिनः षड्विधाः क्लीबाश्चेति उपपातकिनः। अनपत्यकूटोपसाक्षिपृष्ठोपघातिस्त्रीजितसेतुभेदकतालावचरणखड्गोपजीविधर्मपाठकनित्ययाचकप्रायश्चित्तवृत्तिधूर्तसाधनिकमृगयुकितवनास्तिकपिशुनशबरवणिक्बन्दिपौनर्भवात्मम्भरिशुक्तिसमुद्रयायिकृत्याभिचारशीलतैलिकशास्त्रिकवैद्यराजभृत्यककन्यादूषकभ्रूणघ्नक्रूरकुहकमित्रध्रुग्दत्तापव्ययिसमयभेदकवाक्दण्डपुरुषाशक्यशिल्पिकहस्त्यारोहकश्चबन्धकाश्चेतिपातनीयकाः। अष्टभिर्महारोगैरभिभूता विकलेन्द्रिया हीनाङ्गा अधिकाङ्गाश्चेति पङ्क्तिदूषकाः। उन्मादस्त्वग्दोषो राजयक्ष्मा श्वासो जलोदरः प्रमेहो भगन्दरमश्म-
रीत्यष्टौ महारोगाः। जडान्धकाणबधिरकुणि इति विकलेन्द्रियाः। उभयभागक्लेदा दुष्टव्रणाः। पापिष्ठतमाश्चेति।
पते पञ्चविधाः प्रोक्ता वर्जनीया नराधमाः।
स्वसंज्ञालक्षणास्ते स्युः विशेषश्चात्र दृश्यते॥
एते दुर्ब्राह्मणाः सर्वे क्रमशः समुदाहृताः।
कर्मणा योनितश्चैव देहदोषैश्च कुत्सिताः॥
(१)35एतेषां कर्मदोषेण पतिता ये नराधमाः।
यान्ति ते निरयान् घोरान् त्यक्ताः सद्भिरिहैव च॥
योनिदोषेण ये दुष्टा ये च दोषैः शरीरजैः।
इहैव वर्जनं तेषां भवेदनपराधिनाम्॥
कृतघ्नः पिशुनः कूरो नास्तिकः कुहकः शठः।
मित्रध्रुक् चेति सर्वेषां विशेषा निरयालयाः॥
सर्वेषूत्तरभोज्याः स्युरदानार्हाश्च कर्मसु।
ब्रह्मभावान्निरस्ताश्च पापदोषवशानुगाः॥
कुण्डगोलकभर्ता=यस्तयोः पुत्रत्वेन स्वीकर्ता। वर्णसंभेदकाऽध न्यावरेटकरणकृष्णपृष्ठाश्चोक्ता। देवलेन—
निकृष्टोत्कृष्टयोर्मध्ये यो वर्णेष्वनवग्रहः।
आचरत्यपराचारं वर्णसंभेदकस्तु सः॥ इति।
एकाकी व्यसनाकान्तो ऽधन्य इत्युच्यते बुधैः।
वेश्यापतिः कृष्णपृष्ठः काण्डपृष्ठोऽथवा भवेत्।
द्वितीयस्य पितुर्योऽन्नं भुक्त्वा परिणतो द्विजः।
अवरेट इति ज्ञेयः शुद्धधर्मा स चेष्यते॥
भवेत् करणसंज्ञश्च यः क्रयव्यवहारवान्। इति।
द्वितीयस्येति=पितुः सकाशाद् द्वितीयस्य तन्मातुर्निरोधकस्य पुरुषान्तरस्येत्यर्थः। पृष्ठोपघाती=पृष्ठमैथुनकर्ता, परोक्षापकरणशीलो वा, चमरी पुच्छच्छेत्ता वा। तालावचरणः=तालोपजीवी। धर्मपाठकः=अधर्मशीलेभ्यो धर्मस्याध्यापकः। साधनिकः=तुरगादिसाधनेष्वधिकृतः। आत्मम्भरिः=पित्रादेरभरणेन स्वोदरमात्रपोषकः। कुहकः=दाम्भिकः। दत्तापव्ययी=धर्मार्थं प्रतिगृह्याऽसद्व्ययकर्ता।
कूर्मपुराणे।
बुद्धश्रावकनिर्ग्रन्थाः पञ्चरात्रविदो जनाः।
कार्पाटिकाः पाशुपताः पाषण्डा ये च तद्विधाः॥
यस्याश्नन्ति हवींष्येते दुरात्मानस्तु तामसाः।
न तस्य तद् भवेत् श्राद्धं प्रेत्य चेह फलप्रदम्॥ इति।
पञ्चरात्रञ्च विरुद्धाचारयुतं पाञ्चरात्रं, न तु नारदपञ्चरात्रादि तस्याविगीतमहाजनपरिग्रहात्।
कश्यपः।
दारर्त्विग्म्रूणहन्तृृंश्च व्यङ्गान्नक्षत्रसूचकान्।
वर्जयेद् ब्राह्मणानेतान् सर्वकर्मसु यत्नतः।
नागरखण्डे।
अनर्हा ये च निर्दिष्टास्तानेतान् श्रृणु वच्मि ते।
दीनाङ्गानधिकाङ्गांश्च सर्वभक्षान्निराकृतीन्॥
श्यावदन्तान् वृथावेदान् वेदविक्रयकारकान्।
वेदविप्लावकान् वापि वेदशास्त्रविवर्जितान्॥
कुनखान् योगसंयुक्तान् द्विर्नग्नान् परहिंसकान्।
जनापवादसंयुक्तान् नास्तिकाननृतानपि॥
वार्धुषिकान् विकर्मस्थान् शौचाचारविवर्जितान्।
अतिदीर्घान् कृशान् वापि स्थूलानप्यतिलोमशान्॥
निर्लोमान् वर्जयेत् श्रद्धे य इच्छेत् पितृतर्पणम्।
परदाररताश्चैव तथा यो वृषलीपतिः॥
शठो मलिम्लुचो दम्भी राजभृच्छूरन्यवृत्तयः।
लगोत्रायां च सम्भूतस्तथैकप्रवरासु च॥
कनिष्ठप्राक्कृताधानाः कृतोद्वाहास्त्वपाङ्क्तयः।
प्रागदीक्षितो यः कनिष्ठः स त्याज्योऽग्रजसंयुतः।
मातापितृगुरुत्यागी तथैव गुरुतल्पगः॥
निर्दोषां यस्त्यजेत् पत्नीं कृतोद्वाहश्च कर्षकः।
शिल्पजीवी प्रमादी च पण्यजीवी धृतायुधः।
एतान् विवर्जयेच्छ्राद्धे येषां न ज्ञायते कुलम्॥ इति।
सौरपुराणे,
अङ्गवङ्गकलिङ्गांश्च सौराष्ट्रान् गुर्जरांस्तथा।
आभीरान् कोङ्कणांश्चैव द्रविडान् दक्षिणापथान्॥
आवन्त्यान्मागधांश्चैव ब्राह्मणांस्तान् विवर्जयेत्।
अपाङ्क्तेयेभ्य एव दत्तं न केवलमफलम्। अपि तु तत् पङ्क्त्युपविष्टानामपि दत्तमफलमिति।
तथा च मनु,
अपाङ्क्त्यो यावतः पाङ्क्त्यान् भुञ्जानाननुपश्यति।
तावतो न फलं तत्र दाता प्राप्नोति बालिशः॥
तथा,
यावतः संस्पृशेदङ्गैर्ब्राह्मणान् शूद्रयाजकः।
तावतां न भवेद्दातुः फलं दानस्य पैतृकम्॥
केषां चिदपाङ्क्तेयानां संख्याविशेषेण सहपङ्क्त्युपविष्टकत्वमाह स एव—
वीक्ष्यान्धो नवतेः काणः षष्टेः श्वित्री शतस्य तु।
पापरोगी सहस्रस्य दातुर्नाशयते फलम्॥
अत्र चान्धस्य वीक्षणासम्भवात् वीक्ष्येत्यनेन संनिधानमात्र लक्ष्यते तेन संनिधानमेव नवत्यादेः फलनाशकमिति ज्ञेयम्। सन्निधिश्च यावान् देशश्चक्षुष्मतो दृष्टिगोचरस्तावति देशेऽवस्थितत्वम्। एतच्च काणादौ संख्यापचये दोषलाघवं प्रायश्चित्तविशेषार्थमिति मेधातिथिः। क्वचिदपवादमाह वशिष्ठः। अथाप्युदाहरन्ति।
अथ चेत् मन्त्रविद्युक्तः शारीरैः पङ्क्तिदूषणैः।
अदूष्यं तं मनुः प्राह पङ्क्तिपावन एव सः॥ इति।
मन्त्रविदा नवत्या मध्यस्थेन युक्त इत्यर्थः। शारीरा अपि दोषाः शिवत्र्याव्यितिरिक्ताः। हीनाधिकाङ्गुलित्वादय इति हेमाद्रिः।
अत्र विशेषमाह कश्यपः।
काणादीन् भोजयेद्देषे श्राद्धे दाने तु वर्जयेत्।
दैवे वैश्वदेवे यदि श्राद्धे भोजयेत्तदेत्यर्थः। दाने तु वर्जयेदेव। यत्तु वशिष्ठेनोक्तम्—
(१)36विद्वत्सु चेत्त्वविद्वांसो यस्य राष्ट्रेषु भुञ्जते।
(२)37तान्यनावृष्टिमिच्छन्ति(३)38 महद् चा जायते भयम्॥ इति।
तत्, यत्र विद्वसु सत्सु श्राद्धे, अविद्वांसः श्रोत्रियाद्यसमिश्रिता भुञ्जते इति व्याख्येयम्।
नन्विदं विहितनिषिद्धस्वरूपज्ञानं न परीक्षणमन्तरेणोपपद्यते तच्च परीक्षणं विश्वामित्रेण निषिद्धम्।
न ब्राह्मणं परीक्षेत कदाचिदपि बुद्धिमान्।
दातृृन् परीक्ष्य दत्तानि नयन्ति नरकं ध्रुवम्॥
भविष्यपुराणेऽपि। आदित्य उवाच।
एवमेव न सन्देहो यथा वदसि खेचर।
ममाप्येतन्मतं वीर ब्राह्मणं न परीक्षयेत्॥
तत् कथं परीक्षणव्यतिरेकेण विहितज्ञानं कार्यमिति। सत्यम्। निषेधस्यान्नदानपरीक्षापरत्वेनाप्युपपत्तेः। श्राद्धे परीक्षायां बाधकाभावात्।
अत एव विष्णुधर्मोत्तरे,
अन्नदाने न कर्तव्यं पात्रावेक्षणमेव तु।
अन्नं सर्वत्र दातव्यं धर्मकामेन वै द्विज॥
सदोषेऽपि तु निर्दोषं सगुणेऽपि गुणावहम्।
तस्मात् सर्वप्रयत्नेन देयमन्नं सदैव तु॥
पित्र्ये कर्मणि तु प्राज्ञः परीक्षेत प्रयत्नतः।
बिष्णुरपि।
दैवे कर्मणि ब्राह्मणं न परीक्षेत यत्नात् परीक्षेत पित्र्ये।
केचित्तु स्वयं परीक्षणस्यायं निषेधोऽन्यद्वारा परीक्षणे न दोष इति वदन्ति।
परीक्षणप्रकार उक्तो मत्स्यपुराणे।
शीलं संवसता ज्ञेयं शौचं सह्यवहारतः।
प्रज्ञा सङ्कथनाद् ज्ञेया त्रिभिः पात्रं परीक्ष्यते॥ इति।
इय च श्राद्धीयब्राह्मणपरीक्षा अतिथिव्यतिरिक्तस्य।
न परीक्षेत चारित्रं न विद्यां न कुलं तथा।
न शीलं न च देशादीनतिथेरागतस्य हि॥
कुरूपं वा सुरूपं वा कुचैलं वा सुवाससम्।
विद्यावन्तमविद्यं वा सगुणं वाथ निर्गुणम्॥
मन्येत विष्णुमेवैनं साक्षान्नारायणं हरिम्।
अतिथिं समनुप्राप्तं विचिकित्सेन्न कर्हि चित्॥
इति नृसिंहपुराणे तत्परीक्षणनिषेधात्।
गुणागुणविचारेण धमन्ते तेऽवमानिताः।
निर्दहत्याशु गृहिणं तादृशेष्वमानना॥
अतोऽतिथेर्न कर्तव्या कापि चर्चा कदाचन॥
इति वायुपुराणे दोषोक्तेश्च। न चायं परीक्षानिषेधः श्राद्धादन्यत्र श्राद्धेऽतिथेर्निमन्त्रणाभावेनाभोज्यत्वादिति वाच्यम्।
काले तत्रातिथिं प्राप्तमन्नकामं द्विजोत्तमम्।
ब्राह्मणैरभ्यनुज्ञातः कामं तमपि भोजयेत्॥
योगिनो विविधैरूपैर्भवन्तीत्युपकारिणः।
भ्रमन्तः पृथिवीमेतामविज्ञातस्वरूपिणः॥
तस्मादभ्यर्चयेत् प्राप्तं श्राद्धकालेऽतिथिं बुधः।
श्राद्धक्रियाफलं हन्ति द्विजेन्द्रोऽपूजितोऽतिथिः॥
इति वाराहे तस्य भोज्यताविधानात्,
अतिथिर्यस्य नाश्नाति तच्छ्राद्धं न प्रशस्यते।
इत्यभोज्यत्वे शातातपेन दोषोक्तेश्च। अत्राविज्ञातस्वरूपिण एवार्चनीयत्वाभिधानात्, यत् केनचिदुच्यते प्रागुदाहृतविष्णुवचनादतिथेरपि श्राद्धपरीक्षणं कर्तव्यमेव, यत्तु तस्यापरीक्ष्यत्वं तच्छ्राद्धा-तिरिक्तविषयमिति, तत्तिरस्कृतं वेदितव्यम्।
अविज्ञातं द्विज श्राद्धे न परीक्षेत् सदा बुधः।
इति वायुपुराणेऽतिथिं प्रक्रम्योक्तेश्च ब्राह्मणैरभ्यनुज्ञात इति वाक्ये ब्राह्मणपदस्य निमन्त्रितार्थकत्वात् तदनुज्ञायामेवातिथिर्भोज्य इति भावः। ब्राह्मणातिरिक्तानामतिथिसमानधर्मिणान्तु श्राद्धोत्तरकालं भोजनम्। तदपि विकल्पेन। तथाच मनुः —
यदि त्वतिथिधर्मेण क्षत्रियो गृहमाव्रजेत्।
भुक्तवत्सु च विप्रेषु काम तमपि भोजयेत्॥
अत्र काममित्युपादानात् सत्यामिच्छायामिति गम्यते न ब्राह्मणातिथिवन्नियमेनेति। ब्राह्मणोऽतिथिश्च ब्राह्मणपङ्क्तावुपवेशनीयः।
न हि विद्यादयस्तस्मिन् पूज्यताहेतवः स्मृताः।
केवलेनातिथित्वेन स भवेत् पङ्क्तिपावनः॥
इति वायुपुराणे पङ्क्तिपावनत्वोक्तेः।
यत्तु—
शेषान् वित्तानुसारेण भोजयेदन्यवेश्मानि॥
इति पुराणवचनं तच्छ्राद्धीयवेश्मन्यवकाशाभाव शते हेमाद्रिः।
यतिरूपातिथिस्तु श्राद्धपङ्क्तोवेवोपवेशनीयः।
श्राद्धकाले यतिं प्राप्त पितृस्थानेषु भोजयेत्।
इति बृहस्पतिना स्थानविशेषोक्तेः। पितृस्थानेष्विति बहुवचनात् पित्रादिस्थानेष्वित्यर्थः। इदं च पितृस्थाने उपवेशनस्थानकल्पनातः पूर्वमागतस्य पश्चादागतस्य त्वतिथिषत्पङ्क्तौ भोजनमात्रं देयमिति हेमाद्रिः। अत्र च यतिस्त्रिदण्डी शेयः।
शिखिभ्यो धातुरक्तेभ्यस्त्रिदण्डिभ्यः प्रदापयेत्।
इति ब्रह्मवैवर्तात्। शिखावन्तो गैरिकारक्तवसनास्त्रिदण्डाश्च तेभ्यः प्रयत्नेन दद्यादिति श्राद्धं प्रक्रम्य बौधायनवचनाच्च।
यस्तु,
मुण्डान् जटिलकाषायान् श्राद्धकाले विवर्जयेत्।
इति निषेधः स त्रिदण्डिव्यतिरिक्तपरः।
न च सवर्तेन—
अष्टौ भिक्षाः समादाय दश द्वादश वा यतिः।
अखिला शोधयेत्तास्तु ततोऽश्नीयाद् द्विजोत्तमः॥
इति भैक्ष्यभोजनविधानात् कथं यतेः श्राद्धनियोग इति वाच्यम्।
असक्तोऽनुग्रहार्थं वा यतिरेकान्नभुग्भवेत्।
इति कार्ष्णाजिनिनैकभिक्षाया अपि विधानात् नियोगोपपत्तेः। नन्वेवमपि न यतेः श्राद्धे प्राप्तिः, श्राद्धस्य मधुमांससाध्यत्वात् यतेश्च तन्निषेधादिति चेन्न। तद्रहिते श्राद्धे तन्नियोगस्य सुवचत्वात्, निषेधमुल्लङ्घ्य प्रवृत्तयतिविषयत्वेनापि नियोगसम्भवाच्चेति। ननु कस्मान् मधुमांसवत्यपि श्राद्धे यतेर्मधुमांसव्यतिरेकेण भोजनं न न भवति ब्रह्मचारिण इवेति चेत्, विधायकाभावात्। ब्रह्मचारिणस्तु,
ब्रह्मचर्ये स्थितो नैकमन्नमद्यादनापदि।
ह्मिणः काममश्नीयाच्छ्राद्धे व्रतमपीडयन्॥
इति याज्ञवल्क्येन तथाविधानादिति हेमाद्रिः।
इति श्रीमत्सकलसामन्तचक्रचूडामणिमरीचिमञ्जरीनीराजितचरणकमलश्रीमन्महाराजप्रतापरुद्र-तनूजश्रीमन्महाराजमधुकरसाहसूनुचतुरुदधिवलयवसुन्धराहृदयपुण्डरीकविकाशदिनकरश्रीमम्महाराजाधिराजश्रीवीरसिंहदेवोद्योजितश्रीहंसपण्डितात्मजश्रीपरशुराममिश्रसूनुसकलविद्यापारावारपारीण-धुरीणजगद्दारिघ्रमहागजपारीन्द्रविद्वज्जनजीवातुश्रीमन्मित्रमिश्रकृतेवीरमित्रोदयाभि-धनिबन्धे श्राद्धप्रकाशे ब्राह्मणनिरूपणम्।
अथ निमन्त्रणम्।
तश्चाहमन्त्र विश्वेदेवादिस्थाने भविष्यामीत्येवं ब्राह्मणस्वीकारफलको यः वक्ष्यमाणप्रयोगवाक्योच्चारणपूर्वको व्यापारः। इदं च श्राद्धपूर्वदिने प्रदोषान्ते कार्यम्।
“प्रार्थयीत प्रदोषान्ते भुक्तानशयितान् द्विजान्”
इति यमोक्ते। भुक्तान् इति च निमन्त्रणोत्तर भोजनव्यावृत्तिमात्रं क्रियते न तु कृतभोजनत्वं वास्तवमपेक्षितमनुपयोगात्। उक्तकाले तदसम्भवे निमन्त्रणं परेद्युरपि कार्यम्,
असम्भवे परेद्युर्वा ब्राह्मणांस्तान्निमन्त्रयेत्।
इति देवलोक्तेः। इद च स्वयमेव कार्यं “दाता विप्रान्निमन्त्रयेत्” इति तस्यैवोक्तेः। तदसम्भवे वा स्वयं प्रेषितेन सवर्णेन। “सवर्णं प्रेषयेदाप्तं द्विजानामुपमन्त्रणे” इति प्रचेतःस्मरणात्,
अभोज्यं ब्राह्मणस्यान्नं क्षत्रियाद्यैर्निमन्त्रितम्।
इति हेमाद्रिघृतनिषेधवचनाच्च \। तत्रापि पुत्रो मुख्यः “यथैवात्मा तथा पुत्र” इति स्मरणात्। तस्याप्यसम्भवे भ्रातृशिष्यादिरिति ज्ञेयम्। “स्वयं शिष्योऽथवा सुत” इति बृहस्पतिवचनात्। अत्र च पाठक्रमो न विवक्षितः सुतस्यान्तरङ्गत्वादिति हेमाद्रिः।
निमन्त्रणप्रकारश्च प्रचेतसा उक्तः —
कृतापसव्यः पूर्वेद्युः पितृपूर्वं निमन्त्रयेत् \।
भवद्भिः पितृकार्यं नः सम्पाद्यं वः प्रसीदत॥
सव्येन वैश्वदेवार्थं प्रणिपत्य निमन्त्रयेत्॥ इति।
भवद्भिरित्यादि च ब्राह्मणोन्मुखीकरणमन्त्रो न तु निमन्त्रणमन्त्र इति हेमाद्रिः। निमन्त्रणं तु अमुकस्य श्राद्धे त्यया क्षणः क्रियतामित्येवं कार्यम्।
ब्राह्मणानां गृहं गत्वा तान् प्रार्थ्य विनयान्वितः।
अमुकस्य त्वया श्राद्धे क्षणो वै क्रियतामिति॥
(१)39वदन्नभ्युपगच्छेयुर्विप्राश्चैर्वोतथेति च।
भूयोऽपि व्याहरेत् कर्ता तान् प्राप्नोतु भवानिति॥
द्विजम्तु प्राप्नवानीति विधिरेष निमन्त्रणे॥
इति नागरखण्डोक्तेः। एवं च ब्राह्मणैरपि सर्वैः सहैवोन्तथेत्युच्चार्य
यजमानेन च प्राप्नोतु भवान् इत्युक्ते प्राप्नवानीति च वक्तव्यमिति हेमाद्रिप्रभृतयः।
केचित्तु,
दक्षिणं जानुमालभ्य त्वं मयाऽत्र निमन्त्रितः।
इति निमन्त्रणवाक्यमित्याहु।
मैथिलास्तु त्वामहमामन्त्रये इति वदन्ति।
शूलपाणिस्तु त्वां निमन्त्रये इति प्रयोगवाक्यमित्याह।
अन्येतु उभयविधप्रयोगदर्शनात विकल्प एवेस्याहुः।
तच्च निमन्त्रण ब्राह्मणेन दक्षिणं जानुमालभ्य कार्यम्, उदाहृतमत्स्यवाक्यात्। यत्तु प्रागुदाहृतप्रचेतोवचने प्रणिपत्येत्युक्तम् तत्, शूद्रविषयम्।
दक्षिणं चरणं विप्रः सव्य वै क्षत्रियस्तथा।
पादावादाय वैश्यो द्वौ शूद्रः प्रणतिपूर्वकम्॥
इति आदित्यपुराणात्। निमन्त्रणस्य क्वचिदपवाहो मार्कण्डेयपुराणे—
भिक्षार्थमागतान् विप्रान् काले संयमिनो यतीन्।
भोजयेत् प्रणिपाताद्यैः प्रसाद्य यतमानसः॥ इति।
सयमिनो=ब्रह्मचारिणः।
अथ निमन्त्रणीयब्राह्मणसङ्ख्या।
तत्र याज्ञवल्क्यः,
दैवे युग्मान् यथाशक्ति पित्रेऽयुग्माँस्तथैव च।
युग्मान्=समसङ्ख्याकान्।
गौतमः,
नवावरान् भोजयेत्, अयुजो वा यथोत्साहमूर्ध्वं त्रिभ्यो गुणवन्तमिति।
नवभ्यः नावरा अधिकसङ्ख्याकाः। नवाद्येकसङ्ख्याका इति तु हेमाद्रिः। इयं च सङ्ख्या प्रत्येकं पित्रादित्रिके सम्बध्यते प्रतिप्रधानं गुणावृत्तेर्न्याय्यत्वात्। नवावरेष्वपि समव्यावृत्यर्थमयुज इत्युक्तम्। यथोत्साहमिति। उत्साहः=शक्तिः। ऊर्द्ध्व=नवभ्योऽपि। यत्र तु ब्राह्मणा अनेके न लभ्यन्त तत्र त्रयाणां पित्रादीनामर्थ एको यदि भोज्यस्तदा गुणवानेवेत्याह। त्रिभ्यो गुणवन्तमित्यादिना। इदं च नवावरत्वं वैश्वदेविकेऽपि ज्ञेयम्। समसङ्ख्यत्वं परं तत्राधिकं ज्ञेयं स्मृत्यन्तरात्। एवं मातामहेष्वपि अनुसन्धेयम्। तेषामपि च वैश्वदेविकस्य तन्त्र-
त्वपक्षे भेदपक्षे वा गणनया तावन्तो ब्राह्मणा अनुसन्धेयाः।
मातामहानामप्येवं तन्त्रं वा वैश्वदेविकम्।
इति वचनात्।
अशक्तं प्रत्याह विष्णुपुराणे।
देवानामेकमेकं वा पितॄणां च नियोजयेत्॥ इति।
यदा तु अत्यन्तमशक्तेन एक एव ब्राह्मणः प्राप्यते तदा तेषां वर्गद्वयस्थाने एकमेव उपवेश्य देवस्थाने देवतां वा दार्भं बटुं वा स्थापयेत्।
एकेनापि हि विप्रेण षट्पिण्डं श्राद्धमाचरेत्।
इति देवलोक्तेः।
यद्येकं भोजयेच्छ्राद्धे दैवं तत्र कथं भवेत्।
अन्नं पात्रे समुद्धृत्य सर्वस्य प्राकृतस्य च॥
देवतायतने कृत्वा यथाविधि प्रवर्तयेत्।
इति वृद्धवशिष्ठवचनात्। तदभावे कुशमयं स्थापयित्वा निमन्त्रयेदिति समुद्रकरधृतभविष्यवचनाच्च। पित्रे विषमसङ्ख्या एव ब्राह्मणा भवन्ती त्युक्तम्। यत्तु आश्वलायनेन एकैकस्य द्वौ द्वौ त्रीस्त्रीन् वा वृद्धौ फलभूयस्त्वं नत्वेवैकं सर्वेषां पिण्डैर्याख्यातं काममनाद्य इति पित्र्ये समसङ्ख्यकब्राह्मणविधानं कृतं तद्वृद्धिश्राद्धविषयमिति कल्पतरुप्रभृतयः। नत्वेवैकं सर्वेषामर्थे एकं न कुर्यादित्यर्थः। पिण्डैर्व्याख्यातं=यथा सर्वेषामर्थे एकपिण्डो न भवति तद्वदित्यर्थः। काममनाद्य=आद्य सपिण्डीकरणं तद्भिन्ने कामं इच्छया एकमपि भोजयेदित्यर्थः। अनाद्ये=अन्नाभावे वा, अथवा अनाद्ये=आमश्राद्ध इत्यर्थः। यदा चैकोऽपि भोज्यते तदा प्रकारविशेषो बृहस्पतिनोक्तः —
यद्यकें भोजयेत् श्राद्धे स्वल्पत्वात् प्रकृतस्य च।
स्तोकं स्तोकं समुद्धृत्य तेभ्योऽन्नं विनिवेदयेत्॥
तेभ्यः=पितृभ्यः। उक्तेषु पक्षेषु विस्तरपक्षं सत्क्रियाविधायकत्वेन अनुकल्पपक्षप्रशंसार्थं निन्दति बृहस्पतिः।
एकैकमथवा द्वौ त्रीन् दैवे पित्र्ये च भोजयेत्।
सत्क्रियादेशकालादि न सम्पद्येत विस्तरे॥ इति।
अयं च निषेधो नादृष्टार्थः। हेतुनिर्देशात् तेन यो ब्राह्मणवाहुल्येऽपि सत्क्रियादि सम्पादनसमर्थः तस्य गौतमीयोक्ताः पक्षाः ज्ञेयाः।
अथ निमन्त्रणपूर्वकालकृत्यम्।
तत्रोशनाः —
गोमयेनोदकैश्च भूमिमार्जनं भाण्डशौच कृत्वा स्वः कर्तास्मीति ब्राह्मणान् निमन्त्रयेत्। अत्र गोमयादिग्रहणं सकलशुद्धिसाधनद्रब्योपलक्षणम्।
देवलः —
श्वः कर्ताऽस्मीति निश्चित्य दाता विप्रान् निमन्त्रयेत्।
निरामिषं सकृद् भुक्त्वा सर्वसुप्तजने गृहे॥
असम्भवे परेद्युर्वा ब्राह्मणांस्तान्निमन्त्रयेत्।
सुप्तेत्यत्र भुक्तेति मैथिलानां पाठः॥
अत्र निश्चित्येत्यभिधानात् यत्र तीर्थश्राद्धादौ निश्चयाभावस्तत्र न निरामिषसकृद्भोजनमङ्गम्, स्फ्याश्लिष्टज्याधिकरणानुरोधादिति। अत्र वचनान्नापूर्वं भोजनं विधीयते किं तु रागतः प्राप्तभो-जनानुवादेन निरामिषत्वसकृत्वरूपगुणमात्रं विधीयते अतश्चोपवासदिने न भोजनमिति गौडाः।
अत्र च निमन्त्रणात् पूर्वं श्वः श्राद्धं करिष्यामीति संकल्प्य ब्राह्मणान् निमन्त्रयेदिति पैठीनसिवचनात् सङ्कल्पः कार्यः। स चाचारादेवं कार्यः, देशकालौ संकीर्त्य अमुकामुकगोत्रनामकानामस्मत्पित्रादीनां सदैवं सपिण्डं पार्वणश्राद्धद्वयं करिष्ये इति। एवं सङ्कल्प्य निमन्त्रयेत्। तच्च पितृपूर्वकं कार्यं “पितृपूर्वं निमन्त्रयेत्” इति प्रचेतः स्मरणात्।
यस्तु—
उपवीती ततो भूत्वा देवतार्थान् द्विजोत्तमान्।
अपसव्येन पित्र्येऽथ स्वयं शिष्योऽथवा सुतः॥
इति बृहस्पतिवाक्ये अथ शब्दो न स क्रमपरः, अथशब्दस्य
पाठक्रमवत्वेन श्रुतिक्रमापेक्षया दुर्बलत्वात्।
अन्येतु अथशब्दानुरोधात् विकल्प इत्याहुः।
निमन्त्रणोत्तरं च नियमश्रावणमुक्तं मात्स्ये—
एवं निमन्त्र्य नियमान् श्रावयेत्पैतृकान् बुधः।
अक्रोधनैः शोचपरैः सततं ब्रह्मचारिभिः।
भवितव्यं भवद्भिश्च मया च श्राद्धकारिणा॥ इति।
अत्र निमन्त्रणीयब्राह्मणसमीपगमनादिनियमश्रावणान्तं प्रतिब्राह्मणमनुसन्धेयमिति हेमाद्रिः। अङ्गीकृतनिमन्त्रणेन तु “आमन्त्रितोजपेद्दोग्ध्रीम्” इति भृगुस्मृतेः “आब्रह्मन् ब्राह्मणो ब्रह्मवर्चसीत्यादि योगक्षेमो नः कल्पताम्” इत्यन्तानि यजूषि जप्तव्यानि। तानि जप्यप्रकरणे वक्ष्यन्ते।
अथ निमन्त्रितनियमाः।
तत्र मनुः —
केतितस्तु यथान्यायं हव्यकव्ये द्विजोत्तमः।
कथं चिदप्यतिक्रामन् पापः शूकरतां व्रजेत्॥
केतितो=निमन्त्रितः। स्वीकृत्य निमन्त्रण यदि कामादिनातिक्रामेत्तदा सुकरयोनिप्रदं पापं प्राप्नुयादित्यर्थः।
केचित्तु प्रार्थ्यमानः सन् यदि अतिक्रामेत् नेच्छेन्निमन्त्रणमितिव्याचख्युः।
ननु लिप्सया श्राद्धभोजने प्रवृत्तिर्न विधितः, तत्र विध्यपराधाभावे कुतो दोष इति चेत्। न। ऋतुगमनवदुपपत्तेः। यथा हि ऋतौ भार्यागमने रागतः प्रवृत्तिसम्मवेऽपि अगमने दोषश्रवणात् क्रोधादिनाऽगच्छन् प्रत्यवैतीति कल्प्यते, एवमिहापि सत्यपि श्राद्धभोजनस्य रागतः प्राप्तत्वे उक्तवक्ष्यमाणनिन्दावचनैर्निमन्त्रणमति क्रामन् प्रत्यवैतीति कल्प्यते।
यतः,
आमन्त्रितस्तु यो विप्रो भोक्तुमन्यत्र गच्छति।
नरकाणां शतं गत्वा चाण्डालेष्वभिजायते॥
अनिन्द्यामन्त्रणमवश्यमङ्गीकर्तव्यमित्याह देवलः —
कर्मप्रतिश्रवस्तेषामनिन्द्यामन्त्रणे कृते।
अनिन्द्येनामन्त्रितानां काममस्त्वित्येवं प्रतिश्रवोऽङ्गीकार एव युक्त इत्यर्थः। इदं च शक्तविषयम्, अशक्तं प्रति विध्यप्रवृत्तेः। तथा च ज्वराद्यभिभवेन भोक्तुमसामर्थ्ये प्रत्याख्यानं कुर्वतोऽपि न दोषः। अनेनैवाभिप्रायेणाह गौतमः।
अनिन्दितेनामन्त्रिते शक्तेन न प्रत्याख्यानं कर्तव्यमिति।
शक्तेन=भोजनसमर्थेनेत्यर्थः।
एवं ब्राह्मण चतुर्मुखं कृत्वा देवताः पितृभ्यः सह तदन्नं समुपा-
श्नन्ति तस्मात् स न व्यतिक्रामेदिति यमवाक्यमपि अनिन्द्यामन्त्रितशक्तविषयमेव व्याख्येयम्।
कूर्मपुराणे,
आमन्त्रितो ब्राह्मणो वै योऽन्यस्मिन् कुरुते क्षणम्।
स याति नरकं घोरं सुकरत्वं प्रयाति च॥
मत्स्यपुराणे,
आमन्त्रितास्तु गुणिनो निर्धनेनापि च द्विजाः।
नान्यमिष्टान्नलोभेन तमतिक्रमयन्ति हि॥
निमन्त्रितास्तु येनादौ तस्माद् गृह्णन्ति नान्यतः।
अन्यस्य पुरुषस्य मिष्टं यदन्नं तल्लोभेनेत्यर्थः॥
अत्र गुणिनेत्युपादानात् पूर्वमविदितदोषस्यामन्त्रणे स्वीकृते पश्चाद्दोषे विदिते प्रत्याख्यानं कुर्वन् नापराध्यतीति सूचितम्। कात्यायनादिवचनेष्वपि निमन्त्रणङ्कर्तुरनिन्द्यताविशेषेण निन्द्यकृतामन्त्रणातिक्रमण न दोषायेत्येवमेवार्थं गमयति। तदेतत् सर्वमाढ्यविषयम्—
विद्यमानधनो विद्वान् भोज्यान्नेन निमन्त्रितः।
कथं चिदप्यतिक्रामन् पापः सूकरतां व्रजेत्॥
इति षड्त्रिशन्मतेऽभिधानात्। अतोऽत्यन्तनिर्धनो बहुदक्षिणादिलोभेन पूर्वनिमन्त्रणमतिक्रामन्नपि न दुष्यतीति गम्यते।
केचित्तु सधनस्य दोषाधिक्यज्ञापनार्थमिदं वचनमिति व्याचख्युः।
निमन्त्रणं गृहीत्वान्यदन्नं न प्रतिगृह्णीयादित्याह कात्यायनः।
आमन्त्रितोऽन्यदन्नं न प्रतिगृह्णीयात्।
यच्छ्राद्धार्थं निमन्त्रितस्तदर्थादन्नादन्यत् श्राद्धव्यतिरेकेणापि येन केन चिद्दीयमानमत्रं तदहर्न प्रतिग्राह्यमिति।
यस्तु स्वीकृतनिमन्त्रणः केन चिन्निमित्तेन कुतुपादिकालातिपत्तिं करोति तस्य दोष आदित्यपुराणे उक्तः।
आमन्त्रितश्चिरं नैव कुर्याद्विप्रः कदा च न।
देवतानां पितॄणां च दातुरन्यन्त्र चैव हि॥
चिरकारी भवेद्द्रोग्धा पच्यते नरकाग्निना।
दोग्ध्रा=द्रोहकारी। देवतादीना द्रोहकारी भवेदित्यर्थः।
याज्ञवल्क्यः,
तैश्चापि संयतैर्भाव्यं मनोवाक्कायकर्मभिः।
देवलः,
तस्मात् दोषान् परित्यज्य त्रीनेतानपरानपि।
ब्रह्मचारी शुचिर्भूत्वा श्राद्धं भुञ्जीत शक्तिमान्॥
त्रीन्=स्त्रीसम्भोगाऽन्यप्रतिग्रहपुनर्भोजनाख्यान्।
यमः,
आमन्त्रितस्तु यः श्राद्धे वृषल्या सह मोदते।
भवन्ति पितरस्तस्य तं मासं शुक्रभोजनाः।
अत्र वृषलीशब्दः स्त्रीमात्रोपलक्षणार्थः। सामान्यत एव ब्रह्मचर्यस्य विधानात्। वृषं भर्तारं लाति स्वीकुरुते इति व्युत्पत्या ब्राह्मण्यपि वृषल्येवेति हेमाद्रौ व्याख्यातम्। शूद्रीगमने दोषाधिक्यपराण्येतानि वचनानीत्यन्ये। अत्र च मैथुनं ऋतुमत्यामपि स्वभार्यायां न कर्तव्यम्। तथा नियुक्तेन देवतादिनापि न कर्तव्यम्।
ऋतुकाले नियुक्तो यो नैवगच्छेत् स्त्रियं क्वचित्।
तत्र गच्छन् समाप्तोति ह्यनिष्टं फलमेव तु॥
इति निमन्त्रितं प्रक्रम्य वृद्धमनूक्तेः।
कूर्मपुराणे—
निमन्त्रितस्तु यो विप्रो ह्यध्वानं याति दुर्मतिः।
भवन्ति पितरस्तस्य तं मासं मलभोजनाः॥
यमोशनसौ—
आमन्त्रितस्तु यः श्राद्धे भारमुद्वहति द्विजः।
पितरस्तस्य तं मासं भवन्ति स्वेदभोजनाः॥
उशनाः—
आमन्त्रितस्तु यः श्राद्धे द्यूतं संसेवते द्विजः।
भवन्ति पितरस्तस्य तं मासं मलभोजनाः॥
आमन्त्रितस्तु यः श्राद्धे आयासं कुरुते द्विजः।
भवन्ति पितरस्तस्य तं मासं पित्तभोजनाः॥
यमः —
अहिंसा सत्यमक्रोधो दूरे चागमनक्रिया।
अभारोद्वहनेक्षान्तिः श्राद्धस्योपासनाविधिः॥
दूरे=सीम्नः परस्तात्। न गन्तव्यमित्यर्थः।
ब्रह्माण्डपुराणेऽपि—
न सीमानमतिक्रामेत् श्राद्धार्थं वै निमन्त्रितः।
पर्यटन् सीममध्ये तु कदाचित्र प्रदुष्यति॥
श्राद्धभुक् पुनर्भोजनादि न कुर्यादित्याह यमः —
पुनर्भोजनमध्वानं भाराध्ययनमैथुनम्।
सन्ध्यां प्रतिग्रहं होमं श्राद्धभुग् वर्जयेत् सदा॥
सदेति, निमन्त्रणक्षणमारभ्य श्राद्धाहोरात्रपर्यन्तम्। सन्ध्याहोमादौ विशेषो भविष्यत्पुराणे—
दशकृत्वः पिवेदापो गायत्र्या श्राद्धभुग् द्विजः।
ततः सन्ध्यामुपासीत जपेच्च जुहुयादपि॥ इति।
अयं निमन्त्रितनियमः पूर्वदिने श्राद्धदिने वा निमन्त्रणमारभ्य भवति निमन्त्रणप्रयुक्तत्त्वान्नियमजातस्येत्ति दिक्। इति निमन्त्रितब्राह्मण नियमाः।
अथ कर्तृनियमाः।
तत्र देवलः —
अक्रोधो निर्वृतः स्वस्थः श्रद्धावानत्वरः शुचिः।
समाहितमनाः श्राद्धक्रियायामसकृद्भवेत्॥
अक्रोधः=क्रोधशुन्यः। उपलक्षणमेतनूमात्सर्यादीनाम्। निर्वृत्तः=सुप्रसन्नः। स्वस्थः=अव्याकुलीकृतचित्तः। असकृत्=श्राद्धसमाप्तिपर्यन्तम्।
विष्णुः —
कोपं परिहरेत् नाश्रुपातयेत् न त्वरां कुर्यात्।
अत्र यस्यामङ्गादिलोपः सम्भाव्यते तादृशी त्वरा निषिध्यते।
प्रयोगप्राशुभावस्तु विध्यनुमत एवेति न निषिध्यते।
पैठीनसिः —
श्राद्धे सत्यं चाक्रोध च शौचं च त्वरां च प्रशंसति।
वाराहपुराणे—
दन्तकाष्ठं च विसृजेत् ब्रह्मचारी शुचिर्भवेत्।
दन्तप्रक्षालनार्थं दन्तकाष्ठं नादद्यादित्यर्थः। ब्रह्मचर्यं चाष्टप्रकारमैथुनवर्जनम्। तदाह गोभिलः।
स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम्।
सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृतिरेव च॥
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः।
विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम्।
केलिः=स्त्रिया सह क्रीडा, आफलप्राप्तेः सुरतसम्पादनं क्रियानिर्वृत्तिः। अष्टाङ्गम्=अष्टप्रकारम् \।
व्यासः —
श्राद्धे यज्ञे च नियमे नाद्यात् प्रोषितभर्तृका।
श्राद्धकर्तुर्निषेधोऽय न तु भोक्तुः कदाचन॥
दन्तकाष्ठनिषेधे सति कर्तव्यं विशेषमाह व्यासः —
अलाभे दन्तकाष्ठानां निषिद्धायां तथा तिथौ।
अपां द्वादशगण्डूषैर्विदध्याद्दन्तधावनम्॥ इति।
आदित्यपुराणे—
तदहस्तु शुचिर्भूत्वाऽक्रोधनोऽत्वरितो भवेत्।
अप्रमत्तः सत्यवादी यजमानोऽथ वर्जयेत्।
अध्वानं मैथुनं चैव श्रम स्वाध्यायमेव च॥
तदहः=श्राद्धीयेऽहनि। अध्वशब्देन लक्षणया सीमातः परस्तात् गमनं कथ्यते। श्रमो=भारवाहनादिजन्यः क्लेशः। स्वाध्यायशब्देनाध्ययनाध्यापने विवक्षिते।
वृद्धमनुः,
निमन्त्र्य विप्रांस्तदहर्वजयेन्मैथुनं क्षुरम्।
प्रमत्ततां च स्वाध्यायं क्रोधाशौचं तथानृतम्॥
क्षुर=क्षुरकर्म।
जाबालः —
ताम्बूलं दन्तकाष्टं च स्नेहस्नानमभोजनम्।
रत्यौषधपरान्नानि श्राद्धकर्ता तु वर्जयेत्॥
स्नेहस्नानम्=अभ्यङ्गस्नानम्। अभोजनम्=उपवासः। आवश्यकोपवासे प्राप्ते पितृसेवितमाध्रायोपवसेत्।
तथा च श्रुतिः “अवध्रेयमेव तन्त्रैव प्राशितं तन्नैवाऽप्राशितम्” इति। निमन्त्रितब्राह्मणपरित्यागे दोषमाह नारायणः।
केतनं कारयित्वा तु निवारयति दुर्मतिः।
ब्रह्मवध्यमवाप्नोति शूद्रयोनौ च जायते॥
एतस्मिन्नेनसि प्राप्ते ब्राह्मणो नियतः शुचिः।
यतिचान्द्रायणं कृत्वा तस्मात् पापात् प्रमुच्यते॥
अयं च निषेधोऽदुष्टब्राह्मणत्याग इति बोध्यम्।
यतिचान्द्रायणं नाम चान्द्रायणविशेषः। श्राद्धकर्त्रा च निम
न्त्रणमारभ्याऽऽश्राद्धसमाप्तेराहारो वर्जनीय इत्याहापस्तम्बः, ‘आरम्भे चाभोजनमासमापनादिति’।
गुरुतरकार्यब्यासङ्गादिना स्वयं श्राद्धं कर्तुमशक्नुवन् यदि कदाचित् पुत्रादिना श्राद्धं कारयेत् तदानेन श्राद्धाधिकारिणा च
नियमा अनुष्ठेया इत्युक्त वाराहपुराणे।
न शक्नोति स्वयं कर्तुं यदा ह्यनवकाशतः।
श्राद्ध शिष्येण पुत्रेण तदान्येनाऽपि कारयेत्॥
नियमानाचरेत् सोऽपि विहितांश्च वसुन्धरे।
यजमानोऽपि तान् सर्वान्नाचरेत्सुसमाहितः॥
ब्रह्मचर्यादिभिर्भूमि ! नियमैः श्राद्धमक्षयम्।
अन्यथा क्रियमाणं तु मोघमेव न संशयः॥
भूमीति सम्बोधनम्। एते च नियमाः श्राद्धभुक्तान्नपाकान्तं कर्तव्याः। तदाह लौगाक्षिः —
बिनीतः प्रार्थयन् भक्त्या विप्रानामन्त्र्य यत्नतः।
श्राद्धं भुक्त्वान्नपाकान्तं नियमानाचरेत्ततः।
इति श्राद्धकर्तृनियमाः।
अथोभयनियमाः।
तत्रादित्यपुराणे—
तां निशां ब्रह्मचारी स्यात् श्राद्धकृत् श्राद्धिकैः सह।
अन्यथा वर्तमानौ तौ स्यातां निरयगामिनौ॥
पद्मपुराणे।
पुनर्भोजनमध्वानं भारमायासमैथुनम्।
श्राद्धकृत् श्राद्धभुक् चैव सर्वमेतद्विवर्जयेत्॥
स्मयं च कलहं चैव दिवा स्वापं तथैव च।
हारीतः।
आमन्त्रिता आमन्त्रयिता च शुचयस्तां रात्रिं वसेयुः।
शुचयो=मैथुन कामक्रोधादिरहिताः। मनुर्यमश्च—
निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत्सदा।
न च च्छन्दांस्यधीयीत यस्य श्राद्धं च तद् भवेत्॥
यस्य च तत् कर्तव्यं श्राद्धं भवेत्सोऽपि नियतात्मा भवेदित्यर्थः।
विष्णुपुराणे।
ततः क्रोधव्यवायादीनायासं च द्विजैः सह।
यजमानो न कुर्वीत दोषस्तत्र महानयम्॥
अयम्=नियमाकरणरूपो महान् दोष इत्यर्थः। तत्र=क्रोधव्यवायादौ, आयासे वा।
श्राद्धे नियुक्तो भुक्त्वा वा भोजयित्वा नियुज्य च।
व्यवायी रेतसो गर्ते मज्जयत्यात्मनः पितॄन्॥
नियुक्तो निमन्त्रितो ब्राह्मणः श्राद्धभोजनात् प्राक् श्राद्धभोजनोत्तरकाल वा व्यवायी मैथुनकर्ता यदि भवति तदा आत्मनः स्वस्य पितॄन् रेतोगर्ते मजयेत्। एवं श्राद्धकर्ताऽपि नियुज्य निमन्त्र्य ब्राह्मण-भोजनात् पूर्वं भोजयित्वा(१)40 ब्राह्मणभोजनानन्तरमपि वा भुक्तान्नपानपरिणामावधि यदि व्यवायी स्यात् तदा सोऽपि तमेव दोषं प्राप्नुयात्।
प्रचेताः —
स्यादन्नपरिणामान्तं ब्रह्मचर्यं द्वयोस्ततः।
अन्नपरिणामान्तं=भुक्तान्नपरिणामान्तम्। तदाह बृहस्पतिः।
भुक्तान्नपरिणामान्तं नियमान्न विवर्जयेत्।
निषिद्धं कुर्वतां दोषस्तद्वद्वैधमकुर्वताम्॥ इति।
वैधं=विहितम्। वायुपुराणे।
श्राद्धदाता च भोक्ता च मैथुनं यदि गच्छतः।
पितरस्तु तयोर्मासं रेतोऽश्नन्ति न संशयः॥
उभयोर्नियमानुष्ठाने हेतुर्हारीतेनोक्तः।
पूर्वेद्युरामन्त्रितान् विप्रान् पितरः संविशन्ति वै।
यजमानं च तां रात्रिं वसेयुर्नियतास्ततः॥
कात्यायनः।
तदहः शुचिरक्रोधनोऽत्वरितोऽप्रमत्तः सत्यवादी स्यात् अध्वमैथुनश्रमस्वाध्यायांश्च वर्जयेत् आवाहनादि वाग्यतः ओपस्पर्शनात्, आमन्त्रिताश्चैवम्।
आवाहनादि=आवाहनप्रभृति। ओपस्पर्शनात=उपस्पर्शनपर्यन्तम्। श्राद्धकर्ता वाग्यतो मौनी स्यात्। उपस्पर्शनशब्देन कात्यायनसूत्रोक्तं विसर्जनान्ते जलस्पर्शनं विवक्षितम्। आमन्त्रिताश्चैवमिति। शुचित्वादियुक्ता आवाहनादि उदस्पर्शनपर्यन्तं वाग्यताश्च भवेयुरित्यर्थः। इति उभयनियमाः।
अथ निमन्त्रित ब्राह्मणानां श्राद्धभोजने नियमा।
तत्र विष्णुः।
अश्नीयुर्ब्राह्मणा न सोपानत्का न पीठोपनिहितपादाः। उपानहौ=चर्मपादुके। पीठात् बहिः कृतपादा अश्नीयुरित्यर्थः।
प्रभासखण्डे।
यश्च फूत्कारवद् भुङ्क्ते यश्च पाणितले द्विजः।
न तदश्नन्ति पितरो यश्च वायुं समुत्सृजेत्॥
फूत्कारवत्=फूत्कारादिशब्दवत्। यश्च पाणितल इति=पाणितले ग्रास गृहीत्वा न भोक्तव्यम्, तेनाङ्गुल्यग्रैर्ग्रासग्रहणं कर्तव्यमिति विवक्षितम्। वायुसमुत्सर्जनम्=अपानवायूत्सर्जनम्। भोजने अन्ननिन्दादि न कर्तव्यमित्याह प्रचेताः।
पीत्वापोशानमश्नीयात् पात्रे दत्तमगर्हितम्।
सर्वेन्द्रियाणां चापल्यं न कुर्यात् पाणिपादयोः॥
अत्युष्णं सर्वमन्नं स्याद् भुञ्जीरंस्ते च वाग्यताः।
न च द्विजातयो ब्रूयुर्दात्रा पृष्ठा हविर्गुणान्॥
सर्वेन्द्रियाणां चापल्यं=भोजनार्थव्यापारातिरिक्तव्यापारः, इन्द्रियग्रहणेन पादयोर्ग्रहणे सिद्धे पुनस्तद्ग्रहणं पाणिपादचापल्यमाधिकदोषजनकमिति ज्ञापनार्थम्। अत्युष्णम्=ईषदुष्णम्। अत्युष्णस्य भोक्तुमशक्यत्वात्। वाग्यताः=वाग्व्यापाररहिताः। तेन शब्दोच्चारण न कर्तव्यमित्यभिप्रेयते। दात्रेत्युपलक्षणम्, अन्येनापि पृष्टा हविर्गुणान् श्राद्धीयान्नगुणान्न ब्रूयुः। वाग्यतानामप्रसक्तं हविर्गुणवचनं न निषेध्यमिति चेदभिनयादिनापि हविर्गुणप्रकाशनं न कर्तव्यमित्येतदर्थत्वादस्य वचनस्य। ततश्च ब्रूयुरिति लक्षणया प्रकाशयेयुरिति व्याख्येयम्।
अत्रिरपि।
अंकारेणापि यो व्रूयाद्धस्ताद्वापि गुणान् वदेत्।
इति वर्जनीयाधिकारे हस्तग्रहणं कुर्वन् इममेवार्थमभ्यसूचयत्।
देवलः।
स्वन्नपानकशीतोदं ददद्भ्यो ह्यवलोकितः।
वक्तव्ये कारणे संज्ञां कुर्वन् भुञ्जीत पाणिना॥
अस्य श्लोकस्यार्थः, हेमाद्रौ इत्थं विवृतः, अपेक्षानुसारेणान्न पानशीतलवार्यादिदातृृभिरपेक्षां ज्ञातुमवलोकितः क्षुत्पिपासालक्षणे
अपेक्षादेः कारणे वक्तव्ये पाणिना संज्ञासङ्केतमपेक्षादिसूचकं कुर्वन् भुञ्जीतेति।
मनुः।
यावदन्नं भवत्युष्णं यावदश्नन्ति वाग्यताः।
तावदश्नन्ति पितरो यावन्नोक्ता हविर्गुणाः॥
( अ० ३ श्लो० २३७ )
अत्रि।
हुङ्कारेणापि यो ब्रूयात् हस्ताद्वाऽपि गुणान् वदेत्।
भूतलाच्चोद्धरेत् पात्रं मुञ्चेद्धस्तेन वा पिवन्॥
प्रौढपादो बहिःकक्षो बहिर्जानुकरोऽथवा।
अङ्गुष्ठेन विनाश्नाति मुखशब्देन वा पुनः॥
पीत्वाऽवशिष्टतोयानि पुनरुद्धृत्य वा पिबेत्।
खादितार्थान् पुनः खादेन् मोदकानि फलानि वा॥
मुखेन वा धमेदन्नं निष्ठीवेद्भाजनेऽपि वा।
इत्थमश्नन् द्विजः श्राद्ध हत्वा गच्छत्यधोगतिम्॥
पात्रमित्यस्य मुञ्चेदित्यत्राप्यन्वयः। प्रौढपादस्तु—
आसनारूढपादस्तु प्रौढपादः स उच्यते॥
इति भविष्यपुराणेऽभिहितः। बहिःकक्षो=बहिर्भूतकक्षद्धयः।
वायुपुराणेऽपि।
यावन्न स्तूयते चान्नं यावदोष्ण न मुञ्चति।
तावदश्नन्ति पितरो यावदश्नन्ति वाग्यताः॥
प्रभासखण्डे।
रसा यत्र प्रशस्यन्ते भोक्तारो बन्धुगोत्रिणः।
राजवार्तादिसंक्रन्दो रक्षःश्राद्धस्य लक्षणम्॥
भोक्तारो=बन्धुगोत्रिणः। पित्रादिस्थाने भोक्तार इत्यर्थः। श्राद्धशेषभोजनं तु तेषां विहितमेव \। रसशंसादि, रक्षःश्राद्धस्य लक्षणसूचकम्, तत् आद्धं पितृतृप्तिकरं न भवतीत्यर्थः। हविर्गुणप्रशंसानिषेधस्तु श्राद्धसमाप्तेः पूर्वमेवेत्यभिप्रेत्याह वृद्धवशिष्ठः,
श्राद्धावसाने कर्तव्या द्विजैरन्नगुणस्तुतिः।
निगमः,
नान्नपानादिकं श्राद्धे वारयेन्मुखतः क्वचित्।
अनिष्टत्वाद् बहुत्वाद्वा वारणं हस्तसंज्ञया॥
अनिष्टत्वात्=अनपेक्षितत्वात्। अपेक्षितस्याऽपि वा पात्रस्थस्य बहुत्वात् यदा अन्नादि वारयेत् तदा न मुखतः – न शब्दप्रयोगेण, किन्तु हस्तसंज्ञया हस्तसंकेतेनेत्यर्थः।
शङ्खलिखितौ।
ब्राह्मणा अन्नगुणदोषौ नाभिवदेयुः, नातृप्तं ब्रूयुरन्योन्यं न प्रशंसेयुरनपान न प्रभूतमिति वदेयुरन्यत्र हस्तसंज्ञया। पात्रे प्रभूतमन्नमस्त्यन्यन्न परिवेष्यमिति भोक्तृभिर्न वक्तब्यं किं तु हस्तसंकेतेन सूचनीयमित्यर्थः। अपेक्षित चावश्यं याचनीयमेवेत्याह वृद्धशातातपः।
अपेक्षितं याचितव्यं श्राद्धार्थमुपकल्पितम्।
न याचते द्विजो मूढः स भवेत् पितृघातकः॥
मनुः।
यद्वेष्टितशिरा भुङ्क्ते यद् भुङ्क्ते दक्षिणामुखः।
सोपानत्कश्च यद् भुङ्क्ते तद्वै रक्षांसि भुञ्जते॥
( अ० ३ लो० २३८ )
वेष्टनमुष्णीषादिना। अत्र दक्षिणमुखताया निषेधात् वचनान्तरविहितोदङ्मुखताया असम्भवे प्रतिनिधित्वेन दिगन्तराभिमुखतेति अवसीयते, निषिद्धस्य प्रतिनिधित्वानुपपत्तेः।
पात्रोद्धरणे दोष उक्तो बाराहपुराणे।
उद्धरेद्यदि पात्रं तु ब्राह्मणो ज्ञानवर्जितः।
हरन्ति राक्षसास्तस्य भुञ्जतोऽन्नं च सुन्दरि॥
भुञ्जानैः बुद्धिपूर्वमितरेतरस्पर्शो न कर्तव्य इत्युक्त वायुपुराणे।
श्राद्धे नियुक्ता ये विप्रा दम्भं क्रोधं च चापलम्।
अन्योन्य स्पर्शनं कामाद्वर्जयेयुर्मदं तथा॥
प्रमादादन्योन्यस्पर्शे किं कर्तव्यमित्यपेक्षित आह शङ्खः।
श्राद्धपङ्क्तौ तु भुञ्जानो ब्राह्मणो ब्राह्मण स्पृशेत्।
तदन्नमत्यजन् भुत्का गायत्र्यष्टशतं जपेत्॥ ब्राह्मण भुञ्जानम्।
वशिष्ठः।
नियुक्तस्तु यदा श्राद्धे दैवे वा मांसमुत्सृजेत्।
यावन्ति पशुरोमाणि तावन्नरकमृच्छति॥
यमः
नियुक्तश्चैव यः श्राद्धे यत्किञ्चित् परिवर्जयेत्।
पितरस्तस्य तं मासं नैराश्यं प्रतिपदिरे॥ नैराश्यम्=अनशनम्॥
प्रचेताः।
न स्पृशेद्वामहस्तेन भुञ्जानोऽन्नं कदाचन।
न पादौ च शिरो वस्ति न पदा भाजनं स्पृशेत्॥
वस्तिं=मूत्रपुरीषस्थानम्।
वसिष्टः।
उभयोर्हस्तयोर्मुक्तं पितृभ्योऽन्नं निवेदितम्।
तदन्तरं प्रतीक्षन्ते ह्यसुरा दुष्टचेतसः॥
तस्मादशून्यहस्तेन कुर्यादन्नमुपागतम्।
भाजनं वा समालभ्य तिष्ठेदोच्छेषणाद् द्विजः॥
उभयोर्ब्राह्मणहस्तयोरन्यतरेणापि यदा तदन्नमनधिष्ठितं भवति तदन्तरालमसुराः सर्वदा प्रतीक्षन्ते, लब्धान्तराश्च तदन्नमपहरन्तीत्यर्थः। तस्मात् पितृभ्यो निवेदितमन्नं भोजनसमाप्तिपर्यन्तं वामहस्तेनाशून्यं कुर्यात् कण्डूयनाद्यर्थं वामहस्तव्यापारसमये तु दक्षिणहस्तेन भाजनं समालभ्य वर्तेत इति तात्पर्यार्थ इति हेमाद्रौ व्याख्या।
अन्ये त्वेवं व्याचक्षते अन्नमुभयोर्हस्तयोरन्यतरेणापि यथा मुक्तं न भवति तथा कर्तव्यम्। ततश्च भाजनस्थेऽन्ने दक्षिणस्य व्यापृतो तेनैवाशन्नममुक्तं भवति, दक्षिणव्यापृत्यमावे तु उक्तप्रचेतोवाक्येन वामेन हस्तेनान्नस्पर्शस्य निषेधाद् वामेन भाजनं समालभ्य वर्तते। क्वचित् उभयोः शाखयोर्मुक्तमिति पाठः। तत्र शाखयोर्हस्तयोरित्येवार्थ।
जातूकर्ण्योऽपि,
भाजने परिशिष्टान्नं हस्तेन ब्राह्मणः स्पृशेत्।
रक्षोभ्यस्त्रायते यस्मात् धरणीयं प्रयत्नतः॥
यस्मात् स्पृशन् ब्राह्मणो रक्षोभ्यः श्राद्धान्नं त्रायते तस्मादित्यर्थः। “ब्राह्मणो हि रक्षसामपहन्ता” इति शतपथश्रुतेः। देवतोद्देशेनान्न त्यागात् प्राक् न परिविष्टान्नं हस्तेन स्प्रष्टव्यमित्याहात्रिः।
असङ्कल्पितमन्नाद्यं पाणिभ्यां य उपस्पृशेत्।
अभोज्यं तद् भवेदन्नं पितॄणां नोपतिष्ठते॥
असंकल्पितं=देवतोद्देशेनात्यकम्।
निगमः —
मांसापूपफलेक्ष्वादि दन्तच्छेदं न भक्षयेत्।
ग्रासशेषं न पात्रेऽस्येत् पीतशेषं तु नो पिबेत्॥
हस्तेन मांसादि धृत्वा स्वल्पं दन्तैश्छित्वा न भक्षयेत्। नास्येत्=न निक्षिपेत्।
प्रचेताः —
दन्तच्छेदं हस्तपानं वर्जयेच्चातिभोजनम्।
इस्तपानं=इस्तेन जलादिपानम्, न कुर्यादित्यर्थः॥
षड्वृचपरिशिष्टे,
यच्च पाणितले दत्तं यच्चान्नमुपकल्पितम्।
एकीभावेन भोक्तव्यं पृथक्भावो न विद्यते॥
पाणितले दत्तमग्नौकरणान्नम्, उपकल्पितं भोजनपात्रेषु पित्राद्युद्देशन निहितं, तत् उभयमपि एकीकृत्य मिश्रयित्वा भोक्तव्यम्। जमदग्निः। न च्छिन्द्युर्नावशेषयेयुः।
छेदनं=दन्तच्छेदनम्। नावशेषयेयुः=तृप्तेः प्राक् क्रोधादिनान्नं न त्यजेयुरित्यर्थः।
तदाह सुमन्तुः।
आतृप्तेर्भोजनं तेषां कामतो नावशेषणम्।
तृप्तौ जातायां तु किञ्चिदवशेषणीयम्।
तदाह जमदग्निः।
अन्यत् पुनरुत्स्रष्टव्यं तस्यासंस्कृतप्रमीतानां भागधेयत्वात्
अन्यद्–दध्यादिभ्यो निरविशेषभोज्येभ्यः।
भोजनपात्रेण जलं न पिबेदित्याह। शातातपः।
अर्धभुक्ते तु यो विप्रस्तस्मिन् पात्रे जलं पिबेत्।
यद् भुक्तं तत् पितॄणां तु शेषं विद्यादथासुरम्॥
इति श्राद्धभोक्तृनियमाः।
अथ भोजयितृधर्माः।
तत्र याज्ञवल्क्यः। ( अ० १ श्रा० प्र० श्लो० २४० )
अन्नमिष्ट हविष्यं च दद्यादक्रोधनोऽत्वरः।
इष्टं=ब्राह्मणानां, स्वस्य, उद्देश्यपित्रादीनां च, वाक्चापल्यराहिनानामपि ब्राह्मणानां हस्तसंकेतादिना यद्यदिष्टं जानीयत्तत्तद्दद्यादित्यर्थः। अपेक्षिताऽप्रदाने दोषमाह—
वृद्धशातातपः।
अपेक्षितं यो न दद्यात् श्राद्धार्थमुपकल्पितम्।
अधः कृच्छासु घोरासु तिर्यग्योनिषु जायते॥
मनुः। ( अ० ३ श्लो० २३३ )
हर्षयेत् ब्राह्मणांस्तुष्टो भोजयेच्चाशन शनैः।
अन्नाद्येनासकृच्चैनान् गुणैश्च परिचोदयेत्॥
भोजयेच्चाशन शनैरिति=मन्दं मन्दं भोक्तव्यमिति ब्राह्मणान् प्रेरयेदित्यर्थः।
तथा,
यद्यद्रोचेत विप्रेभ्यस्तत्तद्दद्यादमत्सरः।
ब्रह्मोद्याश्च कथाः कुर्यात् पितृृणामेतदीप्सितम्॥
ब्रह्मोद्याः=कश्चिदेकाकी चरतीत्याद्याः। अथवा ब्रह्मप्रधाना मन्त्रार्थवादादय इति हेमाद्रौ। ब्राह्मणान् हविर्गुणदोषौ न पृच्छेदिरयाह—
शङ्खः।
श्राद्धे नियुक्तान् भुञ्जानान् न पृच्छेल्लवणादिषु।
उच्छिष्टाः पितरो यान्ति पृच्छतो नात्र संशयः॥
दातुः पतति बाहुर्वै जिह्वा भोक्तुस्तु भिद्यते।
एवं च लवणादिन्यूनाधिकमावस्य ज्ञानार्थं न ब्राह्मणाः प्रष्टब्याः, किन्तु ब्राह्मणकृतहस्तसङ्केतादिना जानीयादित्यर्थः। न च लवणादि भुञ्जानेभ्यो दद्यात्। “दातुः पतति” इत्यादिना दोषश्रवणात्।
स्मृत्यर्थसारे—
ओदनसूपपायसभैक्ष्यपानादिकं च बहु परिवेष्यम्। हिङ्गुशुण्ठीपिप्पलीमरीचानि द्रव्यसंस्कारार्थानि श्राद्धे स्युः प्रत्यक्षेण न भक्षणीयानीति।
यमः —
निराकारेण यद् भुक्तं परिविष्टं समन्युना।
दुरात्मना च यद् भुक्तं तद्वै रक्षांसि गच्छति॥
अवेदव्रतचारित्रास्त्रिभिर्वर्णैर्द्विजातयः।
मन्त्रवत् परिविष्यन्ते तद्वै रक्षांसि गच्छति॥
विधिहीनममृष्टान्नं मन्त्रहीनमदक्षिणम्।
अश्रद्धया हुतं दत्तं तद्वै रक्षांसि गच्छति॥
मनुः —
नास्त्रमापातयेज्जातु न कुप्येन्नानृतं वदेत्।
न पादेन स्पृशेदन्नं न चैतदवधूनयेत्॥
(अ० ३ श्लो० २२९)
अस्रं=रोदनम्। नानृतं वदेदिति पुरुषार्थतया निषिद्धस्याप्यनृतवदनस्य कर्मार्थोऽयं निषेधः। एवं न पादेन स्पृशेदन्नमित्येवमादिष्वपि निषेधेषु बोद्धव्यम्।
ब्रह्माण्डपुराणे,
न चाक्षुपातयेज्जातु न (१)41शुक्ताङ्गिरमीरयेत्।
न चोद्वीक्षेत भुञ्जानान् न च कुर्वीत मत्सरम्॥
शुक्तां=शोकवतीम्। न चोद्वीक्षेत अनवरतमिति शेषः।
यमः —
इष्टं निवेदितं दत्तं भुक्तं जप्तं तपः श्रुतम्।
यातुधानाः प्रलुम्पन्ति शौचभ्रष्टं द्विजन्मनः॥
तथा क्रोधेन यद्दत्तं भुक्तं यत्त्वरया पुनः।
उभयं तद्विलुम्पन्ति यातुधानाः सराक्षसाः॥
पितॄनावाहयित्वा तु नायुक्तप्रभवो भवेत्।
तस्मान्नियम्य वाचं च क्रोधं च श्राद्धमाचरेत्॥
न क्रोधं कस्य चित् कुर्यात् कस्मिंश्चिदपि कारणे।
अक्रुद्धपरिविष्टं हि श्राद्धे प्रीणयते पितॄन्॥
शौचभ्रष्ट=शौचरहितेन कृतं वृथा भवतीत्यर्थः। अयुक्तप्रभवः=अयुक्तं नियमायोगः यथेष्टाचरणं तस्य प्रभव उत्पत्तिर्यस्मादिति स तथोक्तः। कस्मिंश्चिदपि कारणे=क्रोधकारणे सतीत्यर्थः।
विष्णुः।
नान्नमासनमारोपयेन्न पदा स्पृशेत्, नावक्षुतं कुर्यात्। आसनग्रहणं आधारोपलक्षणार्थम्। अन्नम्–अन्नपात्रम्। यन्त्रादिषु नारोपयेदित्यर्थः। नावक्षुतं कुर्यात्=अन्नोपरि क्षुतं न कुर्यादित्यर्थः।
कात्यायनः।
श्रद्धान्वितः श्राद्धं कुर्वीत शाकेनाऽपि।
देवलः।
नाश्रु वा पातयेच्छ्राद्धे न जल्पेन्न हसेन्मिथः।
न विभ्रमेन्न संक्रुध्येन्नोद्विजेच्चात्र कर्हि चित्॥
प्राप्ते हि कारणे श्राद्धे नैव क्रोधं समुच्चरेत्।
आश्रितः स्विन्नगात्रो वा न तिष्ठेत् पितृसन्निधौ॥
न चात्र श्येनकाकादीन् पक्षिणः प्रतिषेधयेत्।
तद्रूपाः पितरस्ते हि समायान्तीति वैदिकम्॥
क्रोधं न समुच्चरेन्न कुर्यात्। आश्रितः=भित्तिस्तम्भाद्याश्रित्यावस्थितः। श्येनका कादिप्रतिषेधनिषेधस्तीर्थश्राद्धविषयः, अन्यथा ‘क्रव्यादाः पक्षिणः श्राद्धं नेक्षेरन्’ इत्यादिवचनविरोधः। तीर्थश्राद्धे च काकादिनिवारणं न कर्तव्यमिति वचनान्तरवशेन प्रमितमिति हेमाद्रौ। इति भोजयितृनियमाः। इति श्राद्धीयनियमाः।
अथ प्राचीनावीतयज्ञोपवीतविचारः।
तत्र श्राद्धे यत्तावदन्नत्यागादि प्रधानं, तत् “प्राचीनावीतं पितृृणाम्” इति श्रुतेः, प्राचीनावीतिनैव कार्यम, तदङ्गभूतास्तु पदार्था द्विविधाः,विहिता अविहिताश्च, द्विविधा अपि पुनस्त्रिविधाः, पितृमात्रसम्बन्धिनो, देवमात्रसम्बन्धिन, उभयसम्बन्धिनश्चेति। तत्र ये तावद्विहितद्रव्याद्यर्थाक्षिप्ताः क्रयादयस्तेषां श्राद्धाङ्गत्वाभावान्न कोऽपि श्राद्धकृतो नियमः। “नित्योदकी नित्ययज्ञोपवीती” इत्यादिना परं तत्र यज्ञोपवीतं प्राप्यते। एवं येषु केवलदेवसम्बन्धिष्वपि पदार्थेषु यज्ञोपवीतमेव “यज्ञोपवीतिना कार्यं दैवं कर्म विज्ञानता” इत्यादिवचनैः प्राप्तं तेष्वपि न पितृदेवत्यश्राद्धाङ्गत्वमात्रेण प्राचीनावीतप्रसक्तिः। येषु तु केवलपितृसम्बन्धिषु न साक्षाद्यज्ञोपवीतप्रसक्तिः, येषु तु केवलपितृसम्बन्धिषु न साक्षाद्यज्ञोपवीतविधानं तेषु प्रयोगविधिबलात् प्रधानद्वारा प्राप्तं प्राचीनावीतमेव कार्यम्।
यत्तु दैवपितृसाधारणं यथा पाकप्रोक्षणादि, तत्र यद्यपि सामान्यतो देवसम्बन्धित्वेन यज्ञोपवीतमपि प्राप्यते तथापि प्रधानधर्मः प्राचीनावीतमेव युक्तः। वस्तुतस्तु एतादृशस्य न दैवत्वम्, अन्यसापेक्षत्वेन “दैवं कर्म बिजानता” इत्यत्र तद्धितोत्पत्ययोगात्।
नन्वेवं निरामिषसकृद्भोजनेऽपि प्राचीनावीतं प्रसज्येत, तस्य पित्र्यत्वात्, नचेष्टापत्तिः, शिष्टाचारविरोधादिति चेत्।
अत्र केचित्। रागतः प्राप्तभोजनानुवादेन गुणमात्रं विधीयते न भोजनमपि, अतश्च भोजने न तत् प्रसक्तिरिति। तन्न। निरामिषत्वसकृत्वाद्यनेकगुणोपादानात् वाक्यभेदापतेर्भोजनस्यैव विधेयत्वात्। तस्मादेवं वर्णनीयं निरामिषसकृद्भोजनस्य सकृद्भोज-
नत्वसामान्यादेकभक्तविकारत्वम्। अत एव एकभक्तशब्दप्रयोगस्तत्र श्रीदत्तादीनाम्। एकभक्तस्य च नित्योदकीत्यनेन यज्ञोपवीतानाङ्गकत्वात्, अत्राप्यतिदेशेन तदेव प्राप्यते। न चौपदेशिकेनातिदेशे कस्य बाध इति वाच्यम्। प्रयोगविध्याश्रितस्यातिदेशिकापेक्षया दुर्बलत्वात्, तस्य प्रयोगबहिर्भूतत्वाच्च। तथा च पाके न तव प्रसक्तिः। तस्य प्रायशः पत्न्यादिकर्तृत्वेन तत्र प्राचीनावीतासम्भवात्। यजमानकर्तृके पाके प्राचीनावीतविधाने नित्यानित्यसंयोगविरोधापत्तेरिति हेमाद्रिः।
वस्तुतस्तु पाके यजमानस्यैव मुख्यत्वात् पत्न्यादेस्तदभावे प्रतिनिधित्वस्य वक्ष्यमाणत्वान्न नित्यानित्य-संयोगप्रसक्तिः, अन्यथा पुत्रकर्तृकौर्ध्वदेहिकेऽपि न प्राचीनावीतत्वप्रसङ्गः तत्रापि तदभावे पत्न्यादेः कर्तृत्वात्, तस्माद्यदि तत्र यज्ञोपवीताचारस्तदा स एव शरणम्, नोचेत् प्राचीनावीतमेव साधु। तथा श्राद्धाङ्गभुतयोः स्नानाचमनयोरपि न प्राचीनावीतम्। अन्यथा तत्र तस्मिन्ननुष्ठीयमाने श्राद्धविकृतिभूतायां प्रेतक्रियायामपि प्राचीनावीतप्राप्तौ प्रयोगविधिवलात्तदङ्गस्नाने तत्प्राप्तेः, तत्र पुनः “एकवस्त्राः प्राचीनावीतिनः” इत्यादिना तद्विध्यानर्थक्यप्रसङ्गात्। अङ्गान्तरपरिसंख्यार्थं स इति चेत्। शेषपरिसंख्यापेक्षया शेषिपरिसंख्याया विधेयगतत्वेन प्रधानाङ्गबाधाभावेन च वक्तुमुचितत्वात्। तस्मात्
प्रेतक्रियायां प्राचीनावीतविधानात्तदतिरिक्तश्राद्धाद्यङ्गभूतस्नानाचमनयोर्यज्ञोपवीतमेवेति सिद्धम्। एवं प्राणायामेऽपि यज्ञोपवीतं कार्यम्, आचारात्, प्रयोगबहिर्भूतत्वाच्च। श्राद्धसंकल्पपूर्वभाविजपस्तु यद्यपि प्रयोगबहिर्भूतत्वादुपवीतिन एव प्राप्तस्तथापि
अपसव्यं ततः कृत्वा मन्त्रं जप्त्वा चवैष्णवम्।
गायत्रीं प्रणवञ्चापि ततः श्राद्धमुपक्रमेत्॥
इति प्रचेतोवचनात् प्राचीनावीतिनैष कार्यम्। परिवेषणं तु पितृपात्रेष्वपि उपवीतिनैव कार्यम्।
अपसब्येन यस्त्वन्नं ब्राह्मणेभ्यः प्रयच्छति।
विष्ठामश्नन्ति पितरस्ते च सर्वे द्विजोत्तमाः॥
इति कार्ष्णाजिनिस्मरणात्। अतियेस्तु सर्वं यज्ञोपवीतेनैव कार्यमिति हेमाद्रिः। एवमन्यत्रापि सर्वत्र।
(१)42यज्ञोपवीतिना सम्यगपसव्यमतन्द्रिणा।
पित्र्यमानिधनात् कार्यं विधिविद्दर्भपाणिना॥
( अ० ३ श्लो० ३७९ )
इति मनुना कर्तव्यपदार्थेष्वेव प्राचीनावीतविधानात्। अत एव ब्राह्मणकर्तृकेष्वपि पदार्थेषु न प्राचीनावीतम्। श्राद्धकर्तारं प्रत्येव प्राचीनावीतविधिप्रवृत्तेः। एव श्राद्धशेषभोजनेऽपि न तत्, प्रयोगबहिर्भूतत्वादिति दिक्।
अथ सामान्यतः श्राद्धेयपदार्थाः।
कात्यायनः.
दक्षिणं पातयेज्जानु देवान् परिचरन् सदा।
पातयेदितरं जानुं पितॄन् परिचरन् सदा॥
प्रदक्षिण तु देवानां पितॄणामप्रदक्षिणम्।
शातातपः,
उदङ्मुखेन देवानां पितॄणा दक्षिणामुखः।
देवानामृजवो दर्भाः पितॄणां द्विगुणाः स्मृताः॥
अथ जप्यानि।
तत्र ताबद्यजमानजप्यानि।
तत्र पद्मपुराणे।
स्वाध्यायं श्रावयेत् पैत्र्ये पुराणानि खिलानि च।
ब्रह्मविष्ण्वर्करुद्राणा स्तोत्राणि विविधानि च॥
खिलानि=श्रीसूक्तमहानाम्निकादीनि। एतानि भुञ्जानान् ब्राह्मणान् भावयेत्।
मनुः,
स्वाध्यायं श्रावयेत् पैत्र्ये धर्मशास्त्राणि चैव हि।
आख्यानानीतिहासांश्च पुराणानि खिलानि च॥
( अ० ३ श्लो० २३२ )
आख्यानानि=सौपर्णमैत्रावरुणपारिप्लवादीनि बाह्वच्ये पठ्यन्ते। इति–हासा=महाभारतादयः। अयं च जप उपवीतिना कार्यः।
तथा च ब्रह्माण्डपुराणे।
कुशपाणिः कुशासनि उपवीतो जपेत्ततः।
वेदोक्तानि पवित्राणि पुराणानि खिलानि च॥
अयं च जपो ब्राह्मणानां पुरतः कार्यः।
यमः,
स्वाध्यायं श्रावयेत् सम्यक् धर्मशास्त्राणि चासकृत्।
इतिहासांश्च विविधान् कीर्तयेत्तेषु चाग्रतः॥
हर्षयेद् ब्राह्मणान् दृष्टो भोजयेदशनं शनैः।
प्रचेताः।
भुञ्जानेषु तु विप्रेषु ऋग्यजुःसामलक्षणम्।
जपेदभिमुखो भूत्वा पित्र्यं चैव विशेषतः॥
पित्र्य=पितृदेवत्यम्।
बौधायनः।
मध्वृचोऽथ पवित्राणि श्रावयेदाशयेच्छनैः।
मध्वृचः=मधुमत्य ऋचः। पवित्राणि=पुरुषसूक्तादि।
मिगमः।
भुञ्जत्सु जपेत् पवित्रमन्त्रान् ऋग्यजुःसामेतिहासपुराणरक्षोध्नीः पावमानीरुदीरतामवरमध्वन्नवतीश्च।
पवित्रमन्त्रान्=द्वादशाष्टाक्षरप्रभृतीन्। रक्षोध्नीः=‘कृणुष्वपाजः प्रसितिं न पृथ्वीम्’ इत्याद्याः पञ्चदशर्चः, ‘रक्षोहणं वाजिनमाजिघर्मी’इति पञ्चविंशतिः, इन्द्रासोमा तपतं रक्ष उब्जतम्’ इति पञ्चविंशतिः, “अग्ने हंसिन् न्यत्रिणम्” इति नव। पावमान्यः=पुनन्तु मा पितर’ इत्याद्याः षोडशर्चः। ‘तरत्समन्दीति वर्गः। ‘पवस्व विश्वचर्षण’ इति द्वात्रिंशत् ऋचः। ‘त्वं सोमासीति द्वात्रिंशदित्येताः। ‘उदीरतामवर’ इत्याद्याश्चतुर्दश। मधुमत्यः=‘मधुव्वाता ऋतायत’ इत्याद्याः, ‘तद्वां नरासनयेदंसमित्येवं प्रकाराश्च। अ
दवत्यः पितुं नु स्तोषम्’ इत्याद्या एकादशर्चः।
जपेदित्यनुतौ। शङ्खलिखितौ—
विविधं धर्मशास्त्रमप्रतिरथं मध्ये गायत्रीमनुश्राब्य इति।
अप्रतिरथं=साम इति माष्यकारः। ‘आशुः शिशान्’ इत्यादि द्वादशर्चमित्यन्ये।
विष्णुः।
ततस्त्वदत्सु ब्राह्मणेषु ‘यन्मे प्रकामा अहोरात्रैर्यद्वः क्रम्यादिति
जपेत्’ इतिहासपुराणे धर्मशास्त्राणि च।
सौरपुराणे।
धर्मशास्त्रपुराणे च तथाथर्वशिरस्तथा।
ऐन्द्रं च पौरुषं सूक्तं भावयेद्ब्राह्मणांस्ततः॥
पाद्ममात्स्यप्रभासखण्डेषु।
इन्द्रेशसोमसुक्तानि पावमानाश्चि शक्तितः।
तत्रैन्द्राणि ‘सुरूपकृत्नुमूतय’ इत्यादिसूक्तत्रयं प्रत्येकं दशर्चम्, ‘इन्द्रमिद्वाथिन’ इत्यादिसुक्तत्रयं च।
ऐशानसूक्तानि=‘इमा रुद्राय तबसे कपार्हिने’ इत्येकादशर्चं, ‘कद्रुद्राय प्रचेतस’ इति नवर्चं, ‘आतोपितर्मरुतां सुम्नमेतु’ इति पञ्चदशर्चम्’ ‘इमा रुद्राय स्थिरधन्वने गिर’ इति चतुर्ऋचम्।
सौम्यानि=‘स्वादिष्ठया’ इत्यादीनि चत्वारि सूक्तानि।
याज्ञवल्क्यः,
मातृप्तेस्तु पवित्राणि जप्त्वा पूर्वजपं तथा।
(अ० १ श्राद्धप्र० श्लो० २४० )
पूर्वजपं=सव्याहृतिकां गायत्रीमित्यादिपूर्वोक्तम्।
तथा बह्वृचाम्—
अग्निमीलं इति नवर्चं सूक्तं ‘वायवा याहि दर्शते’ ते ‘अश्विना यज्वरीरिष’ इति द्वादशर्चम्। ‘गायन्ति त्वा गायत्रिण’ इति ‘इन्द्रं विश्वा अवीवृधन्’ इत्यष्टौ ऋचः। ‘अस्य वामस्य पलितस्य होतुः’ इति द्विपञ्चाशदृचम्। सूक्तम्=आरण्यकं विदामघवन् विदागातुमिति खण्डम्।
साङ्ख्यायनीयानां तु ‘न वा उ देवाः क्षुधमिद्वधं ददुः’ इति नवर्चं सूक्तम्। ‘अग्निमीले पुरोहितम्’ इत्यादीनि एकादशसुक्तानि।
अथ यजुर्वेदिनां जप्यानि।
‘अत्र पितर’ इति यजुः’, ‘नमो वः पितर’ इति यजुः, ‘स्मान्तम्’, ‘मधुब्वाता ऋतायत’ इति तिस्रः ‘पुनन्तु मा पितर इत्यनुवाकः ‘त्वं सोमप्रचिकित’ इति चैषा पित्र्या संहिता, एतान् जपन् पितॄन प्रीणातीति। स्मान्तं=‘वयं तेषां वसिष्ठा भूयास्म’ इत्येतदन्तं यजुः।
बौधायनः।
रक्षोघ्
न्मानि च सामानि स्वधावन्ति यजूंषि च।
रक्षोघ्नानि=रक्षोहननलिङ्गानि च देवव्रतसंज्ञानि सामानि। स्वधावन्ति=स्वधाशब्दयुक्तानि ‘पितृभ्यः स्वधायिभ्यः स्वधानमः’ इत्येवं प्रकाराणि यजूंषि।
मात्स्यपाद्मप्रभासखण्डेषु।
तथैव शान्तिकाध्यायं मधुब्राह्मणमेव च।
मण्डलब्राह्मणं तद्वद् प्रीतिकारि च यत् पुनः॥
विप्राणामात्मनश्चापि तत्सर्वं समुदीरयेत्।
भारताध्ययन कार्यं पितॄणां परमं प्रियम्॥
‘शन्नो वातः पवताम्’ इत्यादिशान्तिकाध्यायः। ‘इयं पृथिवी’ इत्यादिमधुब्राह्मणम्। ‘यदेतन्मण्डलं तपति’ इत्यादि मण्डलब्राह्मणम्।
तथा। भुञ्जानानां च विप्राणां आत्मनश्चापि यत् प्रीतिकारि=प्रीतिकरमितिहासाऽऽख्यानादि वीणावेणुध्वन्यादिकम्। तद्वत्=वेदजपवत् \।
ब्रह्मपुराणे।
वीणावंशध्वनिं चाथ विप्रेभ्यः संनिवेदयेत्।
अन्यान्यपि पवित्राणि शिष्टाचारात् जप्यानि।
तद्यथा तैत्तिरीयाणां ‘दिवो वाजिष्ण उतवा पृथिव्या’ इत्यादि विष्णवे इत्यन्तानि यजूंषि, अग्न उदधियात इषुर्युवानामित्यादि वन्यः पञ्चम इत्यन्तानि च। ‘रक्षोहणो ध्वलगहनो वैष्णवानखनामीत्यनुवाकः। ‘सोमाय पितृमते पुरोडाश षड्कपालं निर्वपेदित्यनुवाकः। ‘उशन्तस्त्वा हवामह उशन्तः समिधीमहीत्यनुवाकः। असौ वा आदित्यो अस्मिन् लोक आसीदित्यनुवाकः। ‘ध्रुवासि धरुणास्मृतेत्यनुवाकः ‘इन्द्रो वृत्रं हत्वेत्यनुवाक’। ‘वैश्वदवेन वा प्रजापतिः प्रजा असृजता वरुणप्रयासैर्वरुणपाशादमुञ्चतेत्यनुवाकद्वयम्। ‘अयं वा वयः पवत इत्यनुवाकत्रयम्। ‘ऋचां प्राचीमहतीदमुच्यत इत्यनुवाकः। ‘अमृतोपस्तरणमसीत्यादयः पञ्चानुवाका। ‘ब्रह्ममेतु माम्’ इत्यनुवाकत्रयम्। ‘अणोरणीयान्’ इत्यनुवाकः ‘मेधां म इन्द्रो ददातु मेधां देवी सरस्वतीत्यादयश्चत्वारोऽनुवाकाः’ नकञ्चनचशतौ प्रत्याचक्षीतेत्यादि य एवं वेदेत्युपनिषदित्यन्तम्।
वाजसनेयिनां तु। सप्रणवां सव्याहृतिकां गायत्रीं द्विः सकृद्वा पठित्वा ‘अग्नये कव्यवाहनाय स्वाहा’ इत्याद्याः षट्कण्डिकाः ‘सुरावन्तमित्याद्याः’सप्तदश, अव्याजास्त्वित्याद्या नवेति पित्र्यमन्त्रान् ‘आ-
शुः शिशान’ इत्यादि सप्तदशर्चमप्रतिरथम् ‘यज्जाग्रत’ इत्यादि षट्ऋचम् ‘शिवसंकल्पः’ ‘प्रजापतिर्वै भूतानि’ इत्यादिपिण्डपितृयज्ञब्राह्मणम्, ‘पञ्चैव महायज्ञा’ इत्यादिब्रह्मयज्ञब्राह्मण ‘इन्द्रस्य वै पत्त्रा’ इत्यादिसुराहोमब्राह्मणमिति।
मैन्नायणीयानां तु—
‘इषेत्वा सुभूतायवीयवदेवो वः सविता’ इत्यादयः पञ्चानुवाकाः।
कठानां तु ‘सोमाय पितृमन्वाज्यं पितृभ्यो बर्हिसद्भ्यः’ इत्यनुवाकाः। ‘उशन्तस्त्वा हवामह’ इत्यनुवाकाः। ‘न प्राक्कृत्यात्पितृयज्ञ’ इत्याद्यनुवाकाः।
अथ छन्दोगानां जप्यानि।
तत्र गोभिलः।
अश्नत्सु जपेत् व्याहृतिपूर्वां सावित्रीं तस्यां चैव गायत्रं पित्र्यां च संहितां माधुच्छन्दसीं वस्वर्लोके महीयते दत्तं चास्याक्षयं भवति।
अश्नत्सु=भुञ्जानेषु। सावित्री=गायत्री, सवितृदेवत्वात्। व्याहृतयश्च महर्जन इति द्वे त्यक्त्वा इतराः पञ्च जप्याः। ताश्च प्राणायामपूर्विकाः। प्राणायामपूर्वकं सत्यान्तं कृत्वा गायत्रीं सप्रणवां सव्याहृतिकां पठेदिति वरतन्तुस्मरणात्। ॐभूः, ॐभुवः, ॐस्वः, ॐतपः, ॐसत्यम् इति पञ्च सत्यान्तं कृत्वा, ॐभूर्भुवः स्वः, इति प्रणवव्याहृति पूर्वां गायत्रीं जपेदित्यर्थः। तस्यां च गायत्र्यां गायत्र=साम गायेत्। ‘तत् सवितुर्वरेणि’उमिति प्रस्तावः, आ इति निधनं, यद्वा उविश्पतिः सनादग्ने अक्षन्नभीमदन्तह्यामेत्रिपृष्टः मक्रां समुद्रः कनिक्रदन्तीति द्वे एषा पित्र्या संहिता। माधुच्छन्दसं=‘इदं ह्यन्वोजसा’ इति प्रथमोत्तमे द्वे ‘त्वामिदेति। ‘स पूर्व्यो महोना’मिति। ‘पुरां भिन्दुरिति। ‘उप प्रक्षे मधुमतीति’ ‘पबस्व सोमेति। ‘सुरुपकृत्नुमिति च प्रचेताः पुरुषव्रतानि ज्येष्ठसामानि विविधानि च। पुरुषब्रतानि=पुरुषसूक्ते गीयमानानि पञ्चसामानि तत्र प्रथमस्य प्रस्तावः ‘सहस्रशीर्षा पुरुषः, निधनं इड् इडा। द्वितीयस्य प्रस्तावः ‘त्रिपादूर्ध्व उदैत्पुरुषः, निधनं ऊ। तृतीयस्य प्रस्तावः ‘पुरुष एवेदं सर्वं, निधनं ई। चतुर्थस्य प्रस्तावः एतावानस्य महिमा, निधनं इट् इडा। पञ्चमप्रस्तावः’ ततो विराडजायत, निधनं ई। छन्दोगानामेव पुष्पग्रन्थे दर्शितानि। ‘इदं विष्णुः’ ‘प्रक्षस्य वृष्णो’ ‘प्रकाव्यमु-
शने बब्रुवाण’ इति ‘बाराहमन्त्यं, पुरुषव्रते चैषा वैष्णवीसंहिता, एतान् प्रयुञ्जन् विष्णुं प्रीणाति। अन्यान्यपि समाचारात् सामानि गेयानि।
शार्दूलशाखिनां तु—
स पूर्व्यो महोनामिति प्रस्तावः स पूर्व्यो महोनां, निधनं मधु
ब्युताः पुरां भिन्दुर्युवा कविरिति। मारुतं प्रस्तावः पुरां भिन्दुर्युवा कविः, निधनं पुरुष्टुताः हो इडा। उप प्रक्षे मधुमति क्षियन्त इति वाचः साम प्रस्तावः उवा, उप प्रक्षे मधुमति क्षियन्तः उवा निधन, षानान्होवाचेत्यादिसतखण्डानि।
कौथुमशाखिनां च।
यद्धा ‘उविश्पनिरित्यादीनि पञ्चदश सामानि, ‘असौ वा आदित्यो देवमध्वित्यध्यायः।
राणायनीयशाखिनां।
महानाम्नीसामप्रस्तावः विदामघवन् विदा, निधनं एवाहिदेवाः। अथाथर्ववेदिनां जप्यानि।
‘इन्द्रस्य बाहू’ इत्यप्रतिरथं सूक्तम्। ‘प्राणायाम् इत्यादीनि त्रीणि प्राणसूक्तानि। ‘सहस्रबाहुः पुरुष’ इति पुरुषसूक्तम्। ‘कालोश्वो वहतु सप्तरश्मिः’ इति कालसूक्तम्। उपनिषदमध्यात्मकम्। प्राणाग्निहोत्रमहोपनिषदम्।
अथ सप्तार्चिर्मन्त्रः।
विष्णुधर्मोत्तरभविष्यत् पुराणयोः।
पाप्मापहं पावनीयं अश्वमेधसमं तथा।
मन्त्रं वक्ष्याम्यहं तस्मादमृतं ब्रह्मनिर्मितम्॥
देवताम्यः पितृभ्यश्च महायोगिभ्य एव च।
नमः स्वधायै स्वाहायै नित्यमेव नमोनमः॥
आद्यावसाने श्राद्धस्य त्रिरावर्तं जपेत्सदा।
अश्वमेधफलं ह्येतद् द्विजैः सत्कृत्य पूजितम्॥
पिण्डनिर्वपणे चापि जपेदेनं समाहितः।
पितरस्तृप्तिमायान्ति राक्षसाः प्रद्रवन्ति च॥
पितॄंश्च त्रिषु लोकेषु मन्त्रोऽयं तारयत्युत।
पठ्यमानः सदा श्राद्धे नियतैर्ब्रह्मवादिभिः॥
राज्यकामो जपेदेन सदा मन्त्रमतन्द्रितः।
वीर्यसर्वार्थशौर्यादिश्रीरायुष्यविवर्धनम्॥
प्रीयन्ते पितरोऽनेन जप्येन नियमेन च।
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च॥
हूयते च पुनर्द्वाभ्यां समे विष्णुः प्रसीदतु।
यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम्॥
आदिमध्यावसानेषु श्राद्धस्य नियमः शुचिः।
जपन् विष्ण्वाह्वयं मन्त्रं विष्णुलोकं समश्नुते॥
न्यूनं चैवातिरिक्तं च यत् किञ्चित् कर्मणो भवेत्।
सर्वं यथावदेव स्यात् पितॄंश्चैव समुद्धरेत्॥
“ओं श्रावय” इति चत्वारि अक्षराणि, “अस्तु श्रौषट्” इति चत्वारि “यज” इति द्वे, “येयजामहे” इति पञ्च, “वौषट्” इति द्वे, एतैर्यो हूयते स विष्णुः प्रसीदत्वित्यर्थः।
अथ सप्तार्चिस्तोत्रम्।
प्रभासखण्डब्रह्माण्डपुराणयोः।
सप्तार्चिषं प्रवक्ष्यामि सर्वकामप्रदं शुभम्।
अमूर्तीनां समूर्तीनां पितॄणां दीप्ततेजसाम्॥
नमस्यामि सदा तेषां ध्यायिनां योगचक्षुषाम्।
इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा॥
सप्तर्षीणां पितॄणां च तान्नमस्याभि कामदान्।
मन्वादीनां च नेतारः सूर्याचन्द्रमसोस्तथा॥
तान्नमस्यामि सर्वान् वै पितॄनप्स्वर्णवेषु च।
नक्षत्राणां ग्रहाणां च वाय्वग्निपितरस्तथा॥
द्यावापृथिव्योश्च सदा नमस्ये तान् पितामहान्।
देवर्षीणां च नेतारः सर्वलोकनमस्कृताः॥
त्रातारो ये च भूतानां नमस्ये तान् कृताञ्जलिः।
प्रजापतेर्गयां वह्नेः सोमाय च यमाय च॥
योगेश्वरेभ्यश्च सदा नमस्ये तान् कृताञ्जलिः।
पितृगणेभ्यः सर्वेभ्यो नमो लोकेषु सप्तसु॥
स्वयम्भुवे नमस्तुभ्यं ब्रह्मणे लोकचक्षुषे।
एतदुक्तं च सप्तार्चिर्ब्रह्मर्षिगणपूजितम्॥
पवित्र परमं ह्येतत् श्रीमद् रक्षोविनाशनम्।
एतेन विधिना युक्तस्त्रीन् वरान् लभते नरः॥
अन्नमायुः सुतांश्चैव ददते पितरो भुवि।
भक्त्या परमया युक्तः श्रद्दधानो जितेन्द्रियः॥
सप्तार्चिषं जपेद्यस्तु नित्यमेव समाहितः।
सप्तद्वीपसमुद्रायां पृथिव्यामेकराड् भवेत्॥
अथ पितृस्तवः।
मार्कण्डेयपुराणे
ब्रह्मा चाह रुचिं विप्रं श्रुत्वा तस्याभिवाञ्छितम्।
प्रजापतिस्त्वं भविता स्रष्टव्या भवता प्रजाः॥
सृष्ट्वा प्रजाः सुतान् विप्र समुत्पाद्य क्रियास्तथा।
कृताकृताधिकारस्त्वं ततः सिद्धिमवाप्स्यसि॥
स त्वं यथोक्तं पितृभिः कुरु दारोपसङ्ग्रहम्।
कामं चेममनुध्याय कुरु तत् पितृपूजनम्॥
एवं च तुष्टाः पितरः प्रदास्यन्ति तवेप्सितम्।
पत्नीं सुतांश्च सन्तुष्टाः किं न दद्युः पितामहाः॥
मार्कण्डेय उवाच।
इत्यृषे र्वचन श्रुत्वा ब्रह्मणोऽव्यक्तजन्मनः।
नद्या विविक्ते पुलिने चकार पितृतर्पणम्॥
तुष्टाव च पितॄन् विप्रस्तवैरेभिरथाऽऽदृतः।
एकाग्रप्रयतो भूत्वा भक्तिनम्म्रात्मको रुचिः॥
रुचिरुवाच।
नमस्येऽहं पितॄन् भक्त्या ये वसन्त्यधिदेवताः।
देवैरपि हि तर्प्यन्ते ये श्राद्धेषु स्वघोत्तरैः॥
नमस्येऽहं पितॄन् स्वर्गे ये तर्प्यन्ते महर्षिभिः।
श्राद्धैर्मनोमयैर्भक्त्या भुक्तिमुक्तिमभीप्सुभिः॥
ममस्येऽहं पितॄन् स्वर्ग्यान् ते च सन्तर्पयन्ति तान्।
श्राद्धेषु दिव्यैः सकलैरुपहारैरनुत्तमैः॥
नमस्येऽहं पितॄन् भक्त्या येऽर्च्यन्ते गुह्यकैर्दिवि।
तन्मयत्वेन बाञ्छद्भिर्वृद्धिमात्यन्तिकीं शुभाम्॥
नमस्येऽहं पितृृन् मर्त्यैरर्च्यन्ते भुवि ये सदा।
श्राद्धेषु श्रद्धयाभीष्टलोकपुष्टिप्रदायिनः॥
नमस्येऽहं पितॄन् भक्त्याऽभ्यर्च्यन्ते भुवि ये सदा।
धन्यैः श्राद्वैस्तथाहारैस्त पोनिर्धूतकिल्विषैः॥
नमस्येऽहं पितृृविप्रैर्नैष्ठिकव्रतचारिभिः।
ये संयतात्मभिर्नित्यं सन्तर्प्यन्ते समाधिभिः॥
नमस्येऽहं पितॄन् श्राद्धे राजन्यास्तर्पयन्ति यान्।
कल्पैरशेषैर्विधिवत् लोकद्वयफलप्रदान्॥
नमस्येऽहं पितॄन् वैश्यैरर्च्यन्ते भुवि ये सदा।
स्वकर्मनिरतैर्नित्यं पुष्पधूपान्नवारिभिः॥
नमस्येऽहं पितॄन् श्राद्धे ये शूद्रैरपि भक्तितः।
सन्तर्प्यन्ते जगत्यत्र नाम्नाख्याताः सुकालिनः॥
नमस्येऽहं पितॄन् श्राद्धे पाताले ये महासुरैः।
सन्तर्प्यन्ते सदाहारैस्त्यक्तदम्भमदैः सदा॥
नमस्येऽहं पितॄन् श्राद्धे ह्यर्च्यन्ते ये रसातले।
भोगैरशेषैर्विविधैर्नागैः कामानभीप्सुभिः॥
नमस्येऽहं पितॄन् श्राद्धे सर्पैः सन्तर्पिताः सदा।
स्तुत्वैवं विविधैर्मन्त्रैर्भोगसम्पत् समन्वितैः॥
पितॄन् नमस्ये निवसन्ति साक्षात् ये देवलोकेषु महीतले वा।
तथान्तरिक्षे च सुरादिपूज्यास्ते संप्रतीच्छन्तु मयोपनीतम्॥
पितॄन् नमस्ये परमाणुभूता ये वै विमानेषु वसन्त्यमूर्ताः।
यजन्ति यानस्तमला मनोभिर्योगीस्वराः क्लेशविमुक्तिहेतोः॥
पितृृन्नमस्ये दिवि ये च मूर्ताः स्वधाभुजः काम्यफलाभिसन्धौ।
प्रदानशक्ताः सकलेप्सितानां विमुक्तिदा येऽनभिसंहितेषु॥
तृप्यन्तु तस्मिन् पितरः समस्ता इच्छावतां ये प्रदिशन्ति कामान्।
सुरत्वमिन्द्रत्वमनोधिकत्वं वस्वात्मजान् क्ष्मामबलागृहाणि॥
सूर्यस्य ये रश्मिषु चन्द्रविम्बे शुक्ले विमाने च सदा वसन्ति।
तृप्यन्तु तेऽस्मिन् पितरोऽन्नतोयैर्गन्धादिना तुष्टिमतो व्रजन्तु॥
येषां हुतेऽग्नौ हविषापि तृप्तिर्ये भुञ्जते विप्रशरीरसंस्थाः।
ये पिण्डदानेन मुदं प्रयान्ति तृप्यन्तु तेऽस्मिन् पितरोऽन्नतोयैः॥
ये स्वङ्गमांसेन सुरैरभीष्टैः कृष्णैस्तिलैर्दैत्यमहोरगैश्च।
कालेन शाकेन महर्षिवर्यैः सम्प्रीणितास्ते मुदमत्र यान्तु॥
कव्यान्यशेषाणि च यान्यभीष्टान्यतीव तेषाममरार्चितानाम्।
तेषां तु सान्निध्यमिहास्तु पुष्पगन्धाम्बुभोज्येषु मयाऽऽहृतेषु॥
दिने दिने ये प्रतिगृह्णतेऽचं मासानुभोज्या भुवि येऽष्टकासु।
ये वत्सरान्तेऽभ्युदयेषु पूज्याः प्रयान्तु ते मे पितरोऽद्य तृप्तिम्॥
पूज्या द्विजानां कुमुदेन्दुभासो ये क्षत्रियाणां च नवार्कवर्णाः।
तथा विशां ये ह्यनलावभासा नीलीनिभाः शूद्रजनस्य ये च॥
तस्मिन् समस्ता मम पुष्पगन्धधूपान्नतोयादिनिवेदनेन।
तथाग्निहोमेन च यान्तु तृप्तिं सदा पितृभ्यः प्रणतोऽस्मि तेभ्यः॥
ये देवपूर्वाण्यपि तृप्तिहेतोरश्नन्ति कव्यानि शुभाहृतानि।
तृप्तास्तु ये भूतिसृजो भवन्ति तृप्यन्तु तेऽस्मिन् प्रणतोऽस्मि तेभ्यः॥
रक्षांसि भूतान्यसुरांस्तथोग्रान् निःसारयन्तस्त्वशिवं प्रजानाम्।
आद्याः सुराणाममरैश्चपूज्याः तुष्यन्तु तेऽत्र प्रणतोऽस्मि तेभ्यः॥
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा।
व्रजन्तु तृप्तिं श्राद्धेऽस्मिन् पितरस्तर्पिता मया॥
अग्निष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे दिशम्।
तथा वर्हिषदः पान्तु याम्यां ये पितरस्तथा॥
प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः।
रक्षोभूतपिशाचेभ्यः तथैवासुरदोषतः॥
सर्वतश्चाधिपस्तेषां यमो रक्षा करोतु मे।
विश्वो विश्वभुगाराध्यो धन्यो धर्मः सनातनः॥
भूतिदो भूतिकृत् भूतिः पितॄणां ये गणा नव।
कल्याणः कल्यतां कर्ता कल्यः कल्यतराश्रयः॥
कल्यताहेतुरनघः षडित्येते गणाः स्मृताः।
वरो वरेण्यो वरदः स्तुष्टिदः पुष्टिदस्तथा।
विश्वपाता तथा धाता सप्त चैते तथा गणाः।
महामहा महावेजा मतिमांश्च फलप्रदः।
गणाः पञ्च तथैवैते पितॄणां पापनाशनाः॥
सुखदो धनदश्चान्यो धर्मदोऽन्यश्च भूतिदः।
पितॄणां कथ्यते चैव तथा गणचतुष्टयम्॥
एकत्रिंशत् पितृगणा यैर्व्याप्तमखिलं जगत्।
ते मेऽत्र तुष्टाः तुष्यन्तु यच्छन्तु व सदा हितम्॥
मार्कण्डेय उवाच।
एवं च स्तुवतस्तस्य तेजसां राशिरुत्थितः।
प्रादुर्बभूव सहसा गगनव्याप्तिकारकः॥
तं दृष्ट्वा सुमहत्तेजः समाच्छाद्य स्थितं जगत्।
जानुभ्यामवनीं गत्वा रुचिस्तोत्रमिदं जगौ॥
मूर्तिभाजाममूर्तीनां पितृृणाममितौजसाम्।
नमस्यामि सदा तेषां ध्यायिनां दिव्यचक्षुषाम्॥
इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा।
सप्तर्षीणां तथान्येषां तान्नमस्यामि कामदान्॥
मन्वादीनां च नेतृृंश्च सूर्याचन्द्रमसोस्तथा।
तान्नमस्याम्यहं सर्वान् पितरश्चार्णवेषु च॥
नक्षत्राणां ग्रहाणां च वाय्वग्निनभसां तथा।
द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः॥
देवर्षीणां च नेतृृंश्च सर्वदेवनमस्कृतान्।
अभयस्य सदा दातॄन् नमस्येऽह कृताञ्जलिः॥
प्रजापतेः कश्यपाय सोमाय वरुणाय च।
योगेश्वरेभ्यश्च तथा नमस्यामि कृताञ्जलिः॥
नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु।
स्वयम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे॥
यदाधाराः पितृगणा योगमूर्तिधरा हि ते।
नमस्यामि ततः सोमं पितरं जगतामहम्॥
अग्निरूपांस्तथैवान्यान् नमस्यापि पितॄनहम्।
अग्नीषोममयं विश्वं यत एतदशेषतः॥
ये तु तेजोमयाश्चैते सोमसूर्याग्निमूर्तयः।
जगत्स्वरुपिणश्चैव तथा ब्रह्मस्वरूपिणः॥
तेभ्योऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः।
नमोनमो नमस्ते मे प्रसीदन्तु स्वधाभुजः॥
मार्कण्डेय उवाच।
एव स्तुता ततस्तेन तेजसो मुनिसत्तम।
निश्चक्रमुस्ते पितरो भासयन्तो दिशो दश॥
निवेदितं च यत्तेन गन्धमाल्यानुलेपनम्।
तद्भूषितानथ स तान् ददृशे पुरतः स्थितान्॥
प्रणिपत्य पुनर्भक्त्या पुनरेव कृताञ्जलिः।
नमस्तुभ्यं नमस्तुभ्यमित्याह पृथगादृतः॥
ततः प्रसन्नाः पितरस्तमूचुर्मुनिसत्तमम्।
वरं वृणीष्वेति स तानुवाचानतकन्धरः॥
साम्प्रतं सर्गकर्तृत्वमादिष्टं ब्रह्मणा मम।
सोऽहं पत्नीमभीप्सामि धन्यां दिव्यां प्रजावतीम्॥
पितर ऊचुः।
अद्यैव सद्यः पत्नी ते भविष्यति मनोरमा।
तस्यां च पुत्रो भविता रुचिरो मुनिसत्तमः॥
मन्वन्तराधिपो धीमांस्त्वन्नाम्नैवोपलक्षितः।
रुचेरौच्य इति ख्यातिं प्रयास्यति जगत्त्रये॥
तस्यापि बहवः पुत्रः भविष्यन्ति महात्मनः।
महाबला महावीर्याः पृथिवीपरिपालकाः॥
त्व च प्रजापतिर्भूत्वा प्रजाः सृष्ट्वा चतुर्विधाः।
क्षीणाधिकारो धर्मज्ञः ततः सिद्धिमवाप्स्यसि॥
स्तोत्रेणानेन हि रुचे योऽस्मांस्तोष्यति भक्तितः।
तस्य तुष्टा वय भोगान् दास्यामो ज्ञानमुत्तमम्॥
शरीरारोग्यमैश्वर्यं पुत्रपौत्रादिकं तथा।
वाञ्छद्भिः सतत स्तव्याः स्तोत्रेणानेन यत्नतः॥
श्राद्धे च य इमं भक्त्या अस्मत्प्रीतिकरस्तवम्।
पठिष्यति द्विजा
ग्याणां भुञ्जतां पुरतः स्थितः॥
स्तोत्रश्रवणसम्प्रीत्या सन्निधाने परे कृते।
अस्माकमक्षयं श्राद्धं तद्भविष्यत्यसंशयः॥
यद्यप्यश्रोत्रियं श्राद्धं यद्यप्युपहृतं भवेत्।
अन्यायोपात्तवित्तेन यदि वा कृतमन्यथा॥
अश्राद्धार्हैरुपहृनैरुपहारैस्तथा कृतम्।
अकालेऽप्यथवाऽदेशे विधिहीनमथापि वा॥
अश्रद्दधानैः पुरुषैर्दम्भमाश्रित्य यत् कृतम्।
अस्माकं जायते तृप्तिस्तथाप्येतदुदीरणात्।
यत्रैतत् पठ्यते श्राद्धे स्तोत्रमस्मत्सुखावहम्।
अस्माकं जायते तृप्तिस्तत्र द्वादशवार्षिकी॥
हेमन्ते द्वादशाब्दानि तृप्तिमेतत् प्रयच्छति।
शिशिरे द्विगुणाब्दानि तृप्तिं स्तोत्रमिदं श्रुतम्॥
वसन्ते षोडशसमास्तृप्तये श्राद्धकर्मणि।
ग्रीष्मे च षोडशैवैतत् पठितं तृप्तिकारकम्॥
विकलेऽपि कृते श्राद्धे स्तोत्रेणानेन (१)43शोधिते।
वर्षासु तृप्तिरस्माकमक्षया जायते (२)44स्तुते॥
शरत्कालेऽपि पठितं श्राद्धकाले प्रयच्छति।
अस्माकमेतत्पुरुषैस्तृप्तिः पञ्चदशाब्दिकी॥
यस्मिन् गृहेऽपि लिखितं एतत्तिष्ठति नित्यदा।
सन्निधानं कृते श्राद्धे तत्रास्माकं भविष्यति॥
तस्मादेतत्त्वया श्राद्धे विप्राणां भुञ्जता पुरः।
श्रावणीयं महाभाग ! अस्माकं प्रीतिहेतुकम्॥ इति।
अत्र ब्रह्मवैवर्तादिपुराणोक्तानि गयाप्रशंसावचनान्यपि शिष्टाचारात् पठनीयानि।
गयायां धर्मपृष्ठे च सरसि ब्रह्मणस्तथा।
गयाशीर्षे वटे चैव पितॄणां दत्तमक्षयम्॥
गयायां पितृरूपेण स्वयमेव जनार्दनः।
तं दृष्ट्वा पुण्डरीकाक्षं मुच्यते च ऋणत्रयात्॥
शमीपत्रप्रमाणेन पिण्डं दद्यात् गयाशिरे।
उद्धरेत् सप्तगोत्राणि कुलमेकोत्तरं शतम्॥
भूमिष्ठास्तु दिवं यान्ति स्वर्गस्था मोक्षगामिनः।
स्वर्गपातालमर्त्येषु नास्ति तीर्थं गयासमम्॥
पितरो यान्ति देवत्वं दत्ते पिण्डे गयाशिरे। इति॥
मत्स्यपुराणे
सप्तम्याधा दशार्णेषु मृगाः कालञ्जरे गिरौ।
चक्रवाकाः सरोद्वीपे हंसाः सरसि मानसे॥
तेऽपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः।
प्रस्थिता दीर्घमध्वानं यूय तेभ्योऽवसीदत॥ इति।
समग्रसप्तव्याधाख्यानपठनासमर्थस्तु तत्संग्रहरूपमिदं श्लोकद्वयं पठेदिति हेमाद्रौ।
नारदीयपुराणे।
आख्यानानि पितॄणां च श्राद्धष्वेक्षय्यतृप्तये।
गाथाश्च पितृभिर्गीता भुञ्जानान् श्रावयेद् द्विजान्॥
पितृगाथाश्च काश्चित् प्रदशर्यन्ते।
आह विष्णुः।
अथ पितृगीते गाथे भवतः।
अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः।
प्रावृट्कालेऽसिते पक्षे त्रयोदश्यां समाहितः॥
मधूत्कटे तु यः श्राद्धं पायसेन समाचरेत्।
कार्तिकं सकलं वापि प्राक्छाये कुञ्जरस्य वा॥ इति।
ग्राज्ञवल्क्यः।
कुलेऽस्माकं स तन्तुः स्यात् यो नो दद्याज्जलाञ्जलिम्।
नदीषु बहुतोयासु शीतलासु विशेषतः॥
अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः।
गयाशीर्षे वटे श्राद्धं यो नः कुर्यात् समाहितः॥ इति।
तथा बृहस्पतिः।
काङ्क्षन्ति पितरः पुत्रान्नरकापातभीरवः।
गयां यास्यति यः कश्चिन् सोऽस्मान् सन्तारयिष्यति॥
करिष्यति वृषोत्सर्गमिष्टापूर्तं तथैव च।
पालयिष्यति गार्हस्थ्यं श्राद्धं दास्यति चान्वहम्॥
वायुपुराणब्रह्माण्डपुराणयोः।
अत्र गाथाः पितृगीताः कीर्तयन्ति पुराविदः।
तास्तेऽहं सम्प्रवक्ष्यामि यथावश्च निबोधत॥
अपि नः स कुले जायेत् यो नो दद्यात् त्रयोदशीम्।
पायसं मधुसर्पिर्भ्यां छायायां कुञ्जरस्य च।
अजेन सर्वलोहेन वर्षासु व मघासु च।
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्॥
गौरीं वाप्युद्वहेत् भार्यां नीलं वा वृषमुत्सृजेत्। इति॥
उक्तसर्वप्रकारजपासम्भवे प्रकारान्तरमुक्तं मत्स्यपुराणे—
अभावे सर्वविद्यानां गायत्रीजपमारभेत्॥ इति।
इति जप्यानि।
अथ श्राद्धदेशाः।
तत्र विष्णुधर्मोत्तरे।
दक्षिणाप्रवणे देशे तीर्थादौ वा गृहेऽथवा।
भूसंस्कारादिसंयुक्ते श्राद्धं कुर्यात् प्रयत्नतः॥
तीर्थं=ऋषिदेवतासेव्यं जलम्। आदिशब्देन ऋषिसेविताश्रमपरिग्रहः। भूसंस्कारो=गोमयोपलेपादिः। आदिपदात् केशाद्यपसारणपरिग्रहः।
तदुक्तं तत्रैव।
गोमयेनोपलिप्तेषु विविक्तेषु गृहेषु च।
कुर्याच्छ्राद्धमथैतेषु नित्यमेव यथाविधि॥
विविक्तेषु=पवित्रेषु।
याज्ञवल्क्यः।
(१)45परिश्रिते शुचौ देशे दक्षिणाप्रवणे तया।
( अ० १ श्रा० श्लो० २२७)
परिश्रिते=परितश्छादिते। शुचौ=गोमयादिनोपलिप्ते। दक्षिणाप्रवणे=दक्षिणोपनते देशे। स्वतो दक्षिणाप्रणत्वासम्भवे तु देशस्य यत्नोतो दक्षिणाप्रवणत्वं कार्यम्।
तथा च मनुः।
शुचिं देशं विविक्तं तु गोमयेनोपलिप्य च।
दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत्॥ (अ० ३ श्लो० २०६)
यमः।
रुक्षं कृमिहतं क्लिन्नं सङ्कीर्णानिष्टगन्धिकम्।
देशं त्वनिष्टशब्दं च वर्जयेच्छ्राद्धकर्माणि॥
रूक्षम्=अस्निग्धम्। क्लिन्नम्=सकर्दमम्। सङ्कीर्णम्=पदार्थान्तरैराकीर्णम्। अनिष्टगन्धिकं=पूतिगन्धिकम्। अनिष्टशब्दम्=अश्राव्यशब्दम्।
मार्कण्डेयः।
बर्ज्या जन्तुमयी रूक्षा क्षितिः प्लुष्टा तथाग्निना।
अनिष्टदुष्टशब्दोग्रा दुर्गन्धा श्राद्धकर्मणि॥
अग्निनाप्लुष्ठा=दग्धा। उग्रा=भयजनिका।
शङ्खः।
गोगजाश्वादिपृष्ठेषु कृत्रिमायां तथा भुवि।
न कुर्याच्छ्राद्धमेतेषु परक्यासु च भूमिषु॥
कृत्रिमायां=वेदिकादौ। परक्यासु=परपरिगृहीतासु। ताश्च गृहगोष्ठारामादयो न पुनस्तीर्थादयः।
तथा चादिपुराणम्।
अटवी पर्वताः पुण्या नदीतीराणि यानि च।
सर्वाण्यस्वामिकान्याहुर्न हि तेषु परिग्रहः॥
वनानि गिरयो नद्यस्तीर्थान्यायतनानि च।
देवखाताश्च गर्ताश्च न स्वामी तेषु विद्यते॥
तीर्थक्षेत्रविशेषेषु कृतं श्राद्धमतिशयफलप्रदं भवतीत्याह—
देवलः।
श्राद्धस्य पूजितो देशो गया गङ्गा सरस्वती।
कुरुक्षेत्रं प्रयागश्च नैमिषं पुष्कराणि च॥
नदीतटेषु तीर्थेषु शैलेषु पुलिनेषु च।
विविक्तेष्वेव तुष्यन्ति दत्तेनेह पितामहाः॥
ब्यासः।
पुष्करेष्वक्षयं श्राद्धं जपहोमतपांसि च।
महोदधौ प्रयागे च काश्यां च कुरुजाङ्गले॥
शङ्खः।
गङ्गायमुनयोस्तीरे पयोष्ण्यमरकण्टके।
नर्मदाबाहुदातीरे भृगुतुङ्गे हिमालये॥
गङ्गाद्वारे प्रयागे च नैमिषे पुष्करे तथा।
सन्निहत्यां गयायां च दत्तमक्षय्यतां व्रजेत्॥
ब्रह्माण्डपुराणे।
नदीसमुद्रतीरे वा ह्रदे गोष्ठेऽथ पर्वते।
समुद्रगानदीतीरे सिन्धुसागरसङ्गमे॥
नद्योर्वा सङ्गमे शस्ते शालग्रामशिलान्तिके।
पुष्करे वा कुरुक्षेत्रे प्रयागे नैमिषे तथा॥
शालग्रामे च गोकर्णे गयायां च विशेषतः।
क्षेत्रेष्वेतेषु यः श्राद्धं पितृभक्तिसमन्वितः॥
करोति विधिवन् मर्त्यः कृतकृत्यो विधीयते।
बृहष्पतिः।
काङ्क्षन्तिपितरः पुत्रान्नरकापातभीरवः।
गयां यास्यति यः कश्चित् सोऽस्मान् सन्तारयिष्यति॥
करिष्यति वृषोत्सर्गमिष्टापूर्तंतथैव च।
पालयिष्यति वृद्धत्वे श्राद्धं दास्यति चान्वहम्॥
गयायां धर्मपृष्ठे च सदसि ब्रह्मणस्तथा।
गयाशीर्षे वटे चैव पितॄणां दत्तमक्षयम्॥
धर्मारण्यं धर्मपृष्ठं धेनुकारण्यमेव च।
दृष्ट्वैतानि पितॄंस्तर्प्य वंशान् विंशतिमुद्धरेत्॥
विष्णुरपि।
अथ पुष्करेष्वक्षयं श्राद्धं जपहोमतपांसि च।
पुष्करे स्नातमात्रस्तु सर्वपापेभ्यः पूतो भवति। एवमेव गयाशीर्षे वटे, अमरकण्टके पर्वते, यत्र क्वचन नर्मदातीरे, यमुनातीरे, गङ्गायां, विशेषतो गङ्गाद्वारे, प्रयागे च, गङ्गासागरसङ्गमे, कुशावर्ते, बिल्वके, नीलपर्वते, कनखले, कुब्जाम्रे, भृगुतुङ्गेकेदारे, महालये ललितिकायां, सुगन्धायां, शाकम्भर्यां, फल्गुतीर्थे महागङ्गायां, तन्दुलिकाश्रमे, कुमाराधारायां, प्रभासे, यत्र क्वचन सरस्वत्यां, विशेषतो नैमिषारण्ये, वाराणस्याम्, अगस्त्याश्रमे; कण्वाश्रमे, कौशिक्यां, सरयूतीरे, शोणस्य ज्योतीरथ्याश्च सङ्गमे, श्रीपर्वते, कालोदके, उत्तरमानसे, मतङ्गवाप्यां, सप्तर्चौ, विष्णुपदे, स्वर्गप्रदेशे, गोदावर्यां, गोमत्यां, बेत्रवत्यां, विपाशायां, वितस्तायां, शतद्रूतीरे, चन्द्रभागायाम्, ऐैरावत्यां, सिन्धोस्तीरे, दक्षिणे पञ्चनदे, औजसे एवमादिष्वन्येषु तीर्थेषु सरिद्धारासु सङ्गमेषु, प्रभवेषु, पुलिनेषु, निकुञ्जेषु, प्रस्रवणेषु, वनेषूपवनेषु, गोमयैनोपलिप्तेषु गृहेषु, मनोज्ञेषु च।
अत्रापि पितृर्गाता गाथा भवन्ति।
कुलेऽस्माकं स जन्तुः स्याद्यो नो दद्याज्जलाञ्जलिम्॥
नदीषु बहुतोयासु शीतलासु विशेषतः।
अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः॥
गयाशीर्षे वटे श्राद्धं यो नकुर्यात् समाहितः।
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्।
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत्॥
प्रभवेषु=नदीनामुत्पत्तिप्रदेशेषु, सरिद्धारासु सङ्गमेषु चेति प्रस्तुत्यप्रभवेष्वित्यभिधानात्। पुलिनं=नदीतोयोत्थितः प्रदेशः। निकुजो=लतादिपरिवेष्टितः प्रदेशः। प्रस्रवणं=निर्झरः। उपवनं=गृहवाटिका।मनोज्ञं=रमणीयम्।
वायुपुराणे।
गयायां धर्मपृष्ठे च सरसि ब्रह्मणस्तथा।
(१)46 गयागृध्रे वटे चैव श्राद्धं दत्तं महाफलम्॥
भरतस्याश्रमे पुण्ये नित्यं पुण्यतमैर्वृते।
मतङ्गस्य पदेतत्र दृस्यते सर्वमानुषैः॥
ख्यापितं धर्मसर्वस्वं लोकस्यास्य निदर्शनम्।
(२)47 यच्चम्पकवनं पुण्यं पुण्यकृद्भिर्निषेवितम्॥
यस्मिन् पाण्डुविशल्येति तीर्थं सद्योनिदर्शनम्।
तृतीयायां तथा पादे (३)48 निश्वीरायाश्च मण्डले॥
महाहदे च कौशिक्यां दत्तं श्राद्धं महाफलम्।
मुण्डपृष्ठे पदं न्यस्तं महादेवेन धीमता॥
बहून् वर्षगणांस्तप्त्वा तपस्तीव्रं सुदुस्करम्।
अल्पेनाप्यत्रकालेन नरो धर्मपरायणः॥
पाप्मानमुत्सृजत्याशु जीर्णांत्वचमिवोरगः।
माम्ना कनकनन्देति तीर्थे जगति विश्रुतम्॥
उदीच्यां मुण्डपृष्ठस्य (४)49 ब्रह्मर्षिगणसेवितम्।
तत्र स्नात्वा दिवं यान्ति स्वशरीरेण मानवाः॥
दत्तं चापि तथाश्राद्धमक्षयं समुदाहृतम्।
स्नात्वा ऋणत्रयं तत्र निष्क्रीणाति नरोत्तमः॥
मानसे सरसिस्नात्वा श्राद्धं निर्वर्तयेत्ततः।
उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमाम्॥
तस्मिन्निर्वर्तयेच्छ्राद्धं यथाशक्ति यथाबलम्।
कामान् स लभते दिव्यान मोक्षोपायांश्च कृत्स्नशः॥
मत्स्यपुराणे ।
नन्दाथ ललिता तद्वत् तीर्थं मायापुरी तथा ।
तथा चित्रपदं नाम ततः केदारमुत्तमम् ॥
गङ्गासागरमित्याहुः सर्वतीर्थमयं शुभम् ।
तीर्थं ब्रह्मसरस्तद्वच्छतद्रूसलिलोद्गमे ॥
तथा ।
कृतशौच महापुण्यं सर्वपापनिषूदनम् ।
यत्रास्ते नरसिंहस्तु स्वयमेव जनार्दनः ॥
तीर्थमिक्षुमती नाम पितॄणां वल्लभं सदा ।
सङ्गमे यत्र तिष्ठन्ति गङ्गायाः पितरः सदा ॥
तथा ।
यमुना देविका काली चन्द्रभागा दृषद्वती।
नदी धेनुमती पुण्या पारा वेत्रवती तथा ॥
नीलकण्ठमिविख्यातं पितॄन् तीर्थं द्विजोत्तमाः ।
तथा भद्रसरः पुण्यं सरो मानसमेव च ॥
मन्दाकिनी तथाऽच्छोदा विपाशा च सरस्वती ।
तीर्थंमित्रपदं तद्वद् वैद्यनाथं महाफलम् ॥
शिप्रानदी महाकालं तथा कालञ्जरं शुभम् ।
वंशोद्भेदं हरोद्भेदं गर्तोद्भेदं महाफलम् ॥
भद्रेश्वरं विश्नुपदं नर्मदाद्वारमेव च ।
गयापिण्डप्रदानेन सामान्याहुर्महर्षयः ॥
तथा ।
ॐकारपितृतीर्थं च कावेरी कपिलोदकम् ।
संभेदं चण्डवेगायास्तथैवामरकण्टकम् ॥
कुरुक्षेत्राच्छतगुणमस्मिन् स्नानादिकं भवेत् ।
शुक्लतीर्थंच विख्यातं तीर्थंसोमेश्वरं परम् ॥
सर्वव्याधिहरं पुण्यं फलं कोटिशताधिकम् ।
तथा।
कायावरोहणं नाम तथा चर्मण्वती नदी ।
गोमती वरणा तद्वत्तीर्थमाशैनसं परम् ॥
भैरव भृगुतीर्थं चगौरीतीर्थमनुत्तमम् ।
तीर्थं वैनायकं नाम वस्त्वेट्श्वरमतः परम् ॥
परं तथा पापहरं पुण्यं प्रतपती नदी।
मूलतापी पयोष्णी च पयोष्णीसङ्गमस्तथा॥
महाबोधिः पाटला च नगतीर्थमवन्तिका।
तथा वेणानदी पुण्या महाशालं तथैव च॥
महारुद्रो महालिङ्ग दशार्णा च नदी शुभा।
शतरुद्रा शताह्ना च तथा विष्णुपदं परम्॥
अङ्गारवाहिका तद्वन्नदौ तौ शोणघर्घरौ।
कालिका च नदी पुण्या पितराधनदी शुभा॥
पतानि पितृतीर्थानि शस्यन्ते स्नानदानयोः।
श्राद्धमेतेषु यद्दन्तं तदनन्तफलं स्मृतम्॥
द्रोणी वादनदी वारा सरःक्षीरनदी तथा।
द्वारकाकृष्णतीर्थं च तथार्वुदसरस्वती॥
नदीं मणिमती नाम तथा च गिरिकर्णिका।
धूतपापा तथा तीर्थं समुद्रो दक्षिणस्तथा॥
गोकर्णो गजकर्णश्च तथा च पुरुषोत्तमः।
एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमुच्यते॥
तीर्थं मद्युकरं नाम स्वयमेव जनार्दनः।
यत्र शार्ङ्गिधरो विष्णुर्मेखलायामवस्थितः॥
तथा मन्दोदरीतीर्थं यत्र चम्पा नदी शुभा।
तथा सामलनामानं महाशालवती तथा॥
पयोष्ण्या दक्षिणे तीर्थे देवदेवेश्वरं तथा।
कोटेश्वरं तथा देव रेणुकायाः समीपतः॥
वक्रकोटं तथा पुण्यं तीर्थं नाम जलेश्वरम्।
अर्जुन त्रिपुरेशं च सिद्धेश्वरमतः परम्॥
श्रीशैलं शाङ्कर तीर्थं नारसिंहमतः परम्।
महेन्द्रं च तथा पुण्यं तथा श्रीरङ्गसंज्ञितम्॥
एतेष्वपि सदा श्राद्धमनन्तफलमश्नुते।
दर्शनादपि पुण्यानि सर्वपापहराणि वै॥
तुङ्गभद्रा नदी पुण्या तथा भीमरथी सरित्।
भीमेश्वरं कृष्णवेणा कावेरी वञ्जुला नदी॥
नदी गोवरी नाम त्रिसन्ध्यार्तार्थमुत्तमम्।
तीर्थं त्रैयम्बकं नाम सर्वतीर्थैर्नमस्कृतम्॥
यत्रास्ते भगवानीशः स्वयमेव त्रिलोचनः।
श्राद्धमेतेषु सर्वेषु दत्तंकोटिगुणं भवेत्॥
स्मरणादपि पापानि व्रजन्ति शतधा द्विजाः।
श्रीपर्णी च नदी पुण्या व्यासतीर्थमनुत्तमम्॥
तथा मत्स्यनदीकारा शिवधारा तथैव च।
भवतीर्थं तु विख्यातं पम्पातीर्थं च शाश्वतम्॥
पुण्यं रामेश्वरं तद्वदेलापुरमलम्पुरम्।
अङ्गारभूतं विख्यातमामर्दकमलम्बुसम्॥
आम्रातकेश्वरं चैव तद्वदेकाम्रकं परम्।
गोवर्द्धनं हरिश्चन्द्रं पुरश्चन्द्र पृथूदकम्॥
सहस्राक्षं हिरण्याक्षं तथा च कदली नदी।
रामाधिवासोऽपि तथा तथा सौमित्रिसङ्गतम्॥
इन्द्रकीलं तथा नादं तथा च प्रियमेलकम्।
एतान्यपि सदा श्राद्धे प्रशस्तान्यधिकानि च।
एतेषु सर्वदेवानां सान्निध्यं पठ्यते यतः॥
दानमेतेषु सर्वेषु भवेत् कोटिशताधिकम्।
बाहुदा च नदी पुण्या तथा सिद्धिवनं शुभम्॥
तीर्थं पाशुपतं नाम तटी पर्वतका तथा।
श्राद्धमेतेषु सर्वेषु दत्तं कोटिशतोत्तरम्॥
तथैव पितृतीर्थं तु यत्र गोदावरी नदी।
पुरलिङ्गसहस्रेण सव्येतरजलावहा॥
जामदग्न्यस्य तत्तीर्थं रामायतनमुत्तमम्।
प्रतीकस्य भयाद्भिन्ना यत्र गोदावरी नदी॥
तीर्थंतद्धव्यकव्यानामप्सरोयुगसंयुतम्।
श्राद्धाग्निकार्यंदानं च तत्र कोटिशताधिकम्॥
तथा सहस्रलिङ्ग च राघवेश्वरमुत्तमम्।
चन्द्रफेना नदी पुण्या यत्रेन्द्रः खदितः पुरा॥
निहत्य नमुचिं शत्रु तपसा स्वर्गमाप्तवान्।
तत्र दत्तं नरैः श्राद्धमनन्तफलदं भवेत्॥
तीर्थन्तु पुष्करं नाम शालग्रामं तथैव च।
शोणापातश्च विख्यातो यत्र वैश्वानरालयः॥
तीर्थं सारस्वतं नाम स्वामितीर्थं तथैव च।
मणिदरा नदी पुण्या कौशिका चन्द्रिका तथा॥
विदर्भा वायुवेगा च पयोष्णी प्राङ्मुखी तथा।
कावेरी चोत्तराका च तथा जालन्धरो गिरिः॥
एतेषु श्राद्धतीर्थेषु श्राद्धमानन्त्यमुच्यते।
लोहदण्डं तथा तीर्थं चित्रकूटं तथैव च॥
विन्ध्ययोगश्च गङ्गायास्तथा नन्दातट शुभम्।
कुब्जाम्रञ्च तथा तीर्थं उर्वशीपुलिने तथा॥
संसारमोचनं तीर्थं तथैव ऋणमोचनम्।
एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमुच्यते॥
अट्टहासं तथा तीर्थं गौतमेश्वरमेव च।
तथावशिष्टतीर्थं तु हारीतस्य ततः परम्॥
ब्रह्मावर्तं कुशावर्तंहयतीर्थं तथैव च।
पिण्डारकं च विख्यातं शङ्खोद्धारं तथैव च॥
खण्डेश्वरं बिल्वकं व नीलपर्वतमेव च।
तथा च वदर्रातीर्थं रामतीर्थं तथैव च॥
जयन्तं विजयं चैव शुक्रर्तार्थं तथैव च।
श्रीपतेश्च तथा तीर्थं तीर्थं रैवतकं तथा॥
तथैष शारदातीर्थं भद्रकालेश्वरं तथा।
वैकुण्ठतीर्थं च तथा भीमेश्वरपुरं तथा॥
अश्वतीर्थेति विख्यातमनन्तं श्राद्धदानयोः।
तीर्थं वेदशिरो नाम तत्रैवौद्यवती नदी॥
तीर्थं वस्त्रपदं नाम छागलिङ्गं तथैव च।
एषु श्राद्धप्रदातारः प्रयान्ति परम पदम्॥
तीर्थं मातृगृहं नाम करवीरपुरं तथा।
सप्तगोदावरीतीर्थं सर्वतीर्थेष्वनुत्तमम्॥
तत्र श्राद्धं प्रदातव्यमनन्तफलमीप्सुभिः।
तथा।
एषु तीर्थेषु यच्छ्राद्धं तत्कोटिगुणमिष्यते।
तस्मात्तत्र प्रयत्नेन तीर्थे श्राद्धं समाचरेत्॥
कुर्याच्छ्राद्धमयैतेषु नित्यमेव यथाविधि।
प्राग्दक्षिणां दिशं गत्वा सर्वकामचिकर्षिया॥
अत्र च श्राद्धे प्रशस्वत्वेन कीर्तितानां नानादेशीयतीर्थानां स्वरूपाणि तत्तद्देशवासिभ्योऽधिगन्तव्यानि। अत्र च तीर्थादिदेशेषु आनन्त्यादिश्रवणाद् गुणफलसम्बन्धपरा एव तद्विधयो न तु तीर्थादीनामङ्गत्वपरराः। अतश्च तदभावेऽपि न श्राद्धवैगुण्यमिति ध्येयम्।
अथ निषिद्धदेशा।
वायुपुराणे।
त्रिशङ्कोर्वर्जयेद्देशं सर्वं द्वादशयोजनम्।
उत्तरेण महानद्या दक्षिणेन तु कीकटम्॥
देशस्त्रैशङ्कवो नाम श्राद्धकर्माणि वर्जितः।
कारस्कराः कलिङ्गाश्च सिन्धोरुत्तरमेव च।
प्रनष्टाश्रमवर्णाश्च देशा वर्ज्याःप्रयत्नतः॥
विष्णुः।
न म्लेच्छविषये श्राद्धं कुर्यात्। न च गच्छेत्।
तथा—
चातुर्वर्ण्यव्यवस्थानं यस्मिन् देशे न विद्यते।
तं म्लेच्छदेशं जानीयादार्यावर्तमतः परम् (१50)॥
ब्रह्मपुराणे।
परकीयगृहे यस्तु स्वान् पितृृँस्तर्पयेज्जडः।
तद्भूमिस्वामिनस्तस्य हरन्ति पितरो बलात्॥
अग्रभागं ततस्तेभ्यो दद्यान्मूल्यं च जीवताम्।
गृह इति भूमिभागोपलक्षणम्।“पारक्यभूमिभाग”इति यमवचनात्। स्वीयभूमेरभावे कथं श्राद्धं कर्तव्यमित्या- काङ्क्षायामुच्यते। अग्रभागमिति। श्राद्धीयद्रव्यस्य प्रथममेकदेशमुद्धृत्य भूमिस्वामिपितृभ्यो दद्यात्। जीवतामिति= जीवत्सु भूमिस्वामिपितृषु मूल्यं दद्यादिति शूल्पाण्यादयः।
अन्येचकारो वार्थेस्वामिपितृभ्यो अग्रभागं मूल्यं वा दद्यादित्याहुः।
इदं च पितृभ्योऽग्रदानं पितृरीत्या कार्यमिति मैथिलाः। देवरीत्येति उपायकारः।
अन्ये तु एतस्य श्राद्धाङ्गत्वात् पार्वणादिश्राद्धे पितृरीत्या नान्दीमुखेतु देवरीत्येस्याहुः ।
इदं च श्राद्धारम्भात् प्राक् कार्यम् । परिवेषणात् प्राक्कार्यमिति उपायकारः ।
यमः ।
अटव्यः पर्वताः पुण्या नदीतीराणि यानि च ।
सर्वाण्यस्वामिकान्याहुर्न हि तेषु परिग्रहः ॥
वनानि गिरयो नद्यस्तीर्थान्यायतनानि च ।
देवखाताश्च गर्ताश्च न स्वाम्यं तेषु विद्यते । इति श्राद्धदेशाः ।
अथ श्राद्धदेशादपासनीयानि द्रव्याणि ।
तत्र देवलः ।
हीनाङ्गः पतितः कुष्ठी व्रणी पुल्कसनास्तिकौ ।
कुक्कुटाः सूकराः श्वानो वर्ज्याः श्राद्धेषु दूरतः ।
वीभत्सुमशुचिं नग्नं मत्त धूर्तं रजस्वलाम् ।
नीलकाषायवसनं छिन्नकर्णं विवर्जयेत् ।
शस्त्र कालायसं सीसं मलिनाम्बरवाससम् ॥
अन्नं पर्य्युषितं वापि श्राद्धेषु परिवर्जयेत् ।
पुरकसो = म्लेच्छविशेषः ।नास्तिकः = परलोकत्रासशून्यः ।सूकर = विड्वराहः । वीभत्सु =जुगुप्सितः । छिन्नकर्णः = सन्धितकर्णः ।इतरस्य हीनाङ्गत्वेनैव निषेधात् । शस्त्रम् = क्षुरकादि । कालायसम् = लोहम् ।सीसं = तागाख्यो धातुः । कालायसादिवत् पर्य्युषितमन्नमपि श्राद्धदेशसन्निहितं न कार्यम् ।
विष्णुः ।
न हीनाङ्गाधिकाङ्गाः श्राद्धं पश्येयुः, न शुद्रा न पतिता न महारोगिणः, अयं च प्रकरणात् श्राद्धाङ्गभूतो निषेधो, न हीनाङ्गादीनां पुरुषार्थः, फलकल्पनापत्तेः ।
आपस्तम्बः । श्वभिरपपात्रैश्च श्राद्धदर्शनं परिरक्षेत् । श्वभिरिति बहुवचनात् ग्रामसुकरादीनां तादृशानां ग्रहणमिति तद्भाष्यम् ।अपपात्रैः = अपभ्रष्टपात्रगुणैः । परिरक्षेत् = निवारयेत् \।
उशनाः ।
विड्वराहमार्जारकुक्कुटनकुलशूद्ररजस्वलाशूद्रमर्त्तारश्चदूरम-
पनेतव्याः, श्राद्धप्रदेशादिति शेषः।
मनुः।
चाण्डालश्च वराहश्च कुक्कुटश्च तथैव च।
रजस्वला च षण्डश्च नेक्षेरन्नश्नतो द्विजान्॥
(अ० ३ श्लो० २३९)
होमे प्रदाने भोज्ये व यदेभिरभिवीक्षितम्।
दैवे हविषि पित्र्ये वा (१51) तद्गच्छत्यसुरान् हविः॥
(अ० ३ श्लो० २४०)
ईक्षणमत्र सन्निधानस्याप्युपलक्षणम्।होमे=अग्निहोत्रादौ शाम्त्यादिहोमे वा।प्रदाने=नवादिदाने।भोज्ये=अदृष्टार्थे ब्राह्मणभोजने। दैवे इविषि=दर्शपौर्णमासादौ। पित्र्ये=श्राद्धे।
यद्यपि च श्राद्धप्रकरणं तथापि वाक्येन तद्बाधित्वा होमादावयंप्रतिषेधो यथा सन्तर्दने (२52)।
अन्ये तु प्रकरणादेवं व्याचक्षते।होमे=अग्नौकरणहोमे।प्रदाने=पिण्डप्रदाने।भोज्ये=भोज्योपकल्पनदेशे।दैवे= विश्वेदेवसम्बन्धिनि \। वाशद्वादन्यस्मिन्नपि स्थाने यदन्नादिकं तदित्यर्थः।
पुनः स एव।
घ्राणेन शूकरो हन्ति पक्षवातेन कुक्कुटः।
श्वा तु दृष्टिनिपातेन स्पर्शेनावरवर्णजः॥
(म० अ० ३ श्लो० २४१)
(३53) खञ्जोवा यदि वाऽश्रोत्रः कारुः प्रेष्योऽपि वा भवेत्।
होनातिरिक्तगात्रो वा तमप्यपनयेत्ततः॥
(म० अ० ३ श्लो० २४२)
अवरवर्णजा = शुद्रः, तस्य द्विजातिश्राद्धे श्राद्धोपकरणस्पर्शप्रतिषेधोऽयं, नारमार्थे।प्रेष्यः =परिचारकः।
हेमाद्रौ स्मृत्यन्तरे।
कुक्कुटो विड्वराहश्च काकः श्वापि विड़ालकः।
वृषलीपतिश्च वृषलः षण्डो (१54) नारी रजस्वला॥
एतानि श्राद्धकाले तु परिवर्ज्यानि नित्यशः।
कुक्कुटः पक्षवातेन हन्ति श्राद्धमसंवृतम्॥
घ्राणेन विड्वराहश्च वायसश्च रुतेन तु।
श्वा तु दृष्टिनिपातेन मार्जारः श्रवणेन तु॥
वृषलीपतिश्च दानेन चक्षुर्भ्यांवृषलस्तथा।
छायया हन्ति वै षण्ड. स्पर्शेन च रजस्वला॥
खञ्जः काणः कुणिः शिवत्री कारुः ग्रेष्यकरो भवेत्।
ऊनाङ्गो वातिरिक्ताङ्गस्तमाशु निनयेत्ततः॥
विडालो = मार्जारः। वृषलः = शुद्रः।असंवृतम् = अनावृतप्रदेशम्। श्रवणेन = शब्दश्रवणेन। दानेन = पात्रीकृतः सन्नित्यर्थः।
व्याघ्रपात।
मद्यपः स्वैरिणी यावत् स्वैरिणीपतिरेव च।
नैव श्राद्धेऽभिवीक्षेरन्।
आवापः पाकं कर्तुं तण्डुलादीनां पठि (पिठ) रादौ प्रक्षेपः तत्प्रभृतिभोजननिष्पत्तिपर्यन्तं यावत् पाकस्थाने भोजनस्थानेऽन्यत्र वा अन्नादिकं किमपि न वीक्षेरन्नित्यर्थः। मद्यपादिग्रहणं अप्रशस्तानामुपलक्षणम्।
गौतमः।
चाण्डालपतितावेक्षणे दुष्टं, तस्मात् परिवृते दद्यात् तिलैर्वाविकिरेत्, पङ्क्तिपावनो वा शमयेत्।
यतः दुष्टं दुष्यति अतः प्रच्छन्ने श्राद्धं कुर्यादित्यर्थः।
बृहस्पतिः।
श्वपाकषण्डपतितश्वानसूकरकुक्कुटान्।
रजस्वलां च चाण्डालान् श्राद्धे कुर्याञ्च रक्षणम्॥
परिश्रितेषु दद्याच्च तिलैर्वा विकिरेन्महीम्।
निनयेत् पङ्क्तिमूर्धन्यस्तं दोषं पङ्क्तिपावनः॥
श्वपाको= निषादः।षण्डो= नपुंसकः। एतान् बहिष्कृत्वा रक्षणं कुर्यादिस्यर्थः। निनयेत् = अपहरेत्।
विष्णुः ।
संवृतं च श्राद्धं कुर्यात् न रजस्वलां पश्येन्न श्वानं न विड्वराहं न ग्रामकुक्कुटं प्रयत्नात् श्राद्धमजस्य दर्शयेत् ।
श्राद्धं = श्राद्धस्थान् पदार्थान् ।अजः = कृष्णच्छागः ।
ब्रह्मपुराणे ।
नग्नादयो न पश्येयुः श्राद्धमेतत् कदा च न ।
गच्छन्त्येतैस्तु दृष्टानि न पितॄन् न पितामहान् ॥
दृष्टानि हवींषीति शेषः ।नग्ना = वेदपरित्यागिनः ।आदिशब्दात्तत्कर्मानुष्ठानत्यागिनो गृह्यन्ते ।
तथा च तत्रैवोक्तं।
सर्वेषामेव भूतानां त्रयीसंवरणं यतः ।
ये वै त्यजन्ति तां मोहात्ते वै नग्नाइति स्मृताः ॥
बौद्धश्रावकनिर्ग्रन्थशाक्तजीवककापिलाः ।
येऽधर्माननुवर्तन्ते ते वै नग्नादयो जनाः ॥
बौद्धाः=सौगताः । श्रावकाः= श्वेतपटाः । निर्ग्रन्था =जैनाः । शाक्ताः= कौलाः । जीवका = बार्हष्पत्याः, चार्वाका इति यावत् । कपिलो = लोकायतैकदेशी तेन प्रणीताः कापिलाः । तान् अधर्मान् = अधर्मपरान् ।येऽनुवर्तन्त इत्यर्थः ।
वायुपुराणे ।
वृथाजटीवृथामुण्डी वृथानग्रोऽपि यो नरः ।
महापातकिनो वेच ये च नग्नादयो नराः ॥
ब्रह्मघ्नांश्च कृतघ्नांश्च नास्तिकान् गुरुतल्पगान् ।
दस्यूंश्चैव नृशंसांश्च दर्शनेन विवर्जयेत् ॥
ये चान्ये पापकर्माणः सर्वांस्तानपि वर्जयेत् ।
देवतानामृषीणां च पापवादरताश्चये ॥
असुरान् यातुधानांश्च दृष्टमेभिर्व्रजत्यधः ।
अपमानपविद्धश्च कुक्कुटो ग्रामशूकरः ॥
श्वा चैव हन्ति श्राद्धानि दर्शनादेव सर्वशः ।
नष्टं भूकृमिभिर्दृष्टं दीर्घरोगिभिरेव च ॥
पतितैर्मलिनैश्चैव न द्रष्टव्यं कदा च न ।
नागरखण्डे।
घरटोलूखलोत्थे च तथा शब्दे व्यवस्थितम्।
शूद्रस्य वा विशेषेण तच्छ्राद्धं व्यर्थतां व्रजेत्॥
व्यवस्थितं = कृतम्। इति अपासनीयानि।
अथ श्राद्धोपकरणानि।
तत्र कुशस्वरूपमाह हारीतः।
अच्छिन्नाग्रान् सपवित्रान् समूलान् कोमलान् शुभान्।
पितृदेवजपार्थं च समादद्यात् कुशान् द्विजः॥ इति।
अत्र च विशेषतः कुशलक्षणं तत्प्रतिनिधयस्तदाहरणप्रकारश्चाह्निकप्रकाशोक्तोशेयः। पिण्डास्तरणकुशेषु विशेषो—
वायुपुराणे।
रत्निमात्राः कुशाः शस्ताः पितृतीर्थेन संहृताः।
उपमूलं तथा लूनाः पिण्डसंस्तरणे मताः॥ इति।
रत्निः = बद्धमुष्टिः करः। तिलाश्चोक्ता—
भारते।
वर्द्धमानतिलश्राद्धमक्षय्यं मनुरब्रवीत्।
सर्वकामैः स यजते यस्तिलैर्यजते पितॄन्॥इति।
मात्स्ये।
तिलान्कृष्णानतिश्लक्ष्णानिति।
इदं च न तिलान्तरप्रतिषेधार्थंकि तु कृष्णतिलप्रशंसार्थम्।
गौराःकृष्णास्तथारण्यास्तथैव विविधास्तिलाः॥
पितॄणां तृप्तये सृष्टा इत्याह भगवान् मनुः। इति ब्रह्मपुराणात्।
वाराहोऽपि।
जर्तिलास्तु निलाः प्रोक्ताः कृष्णवर्णा वनोद्भवाः।
जर्तिलाश्चैव ते ज्ञेया अकृष्टोत्पादिताश्च ये॥
देवलः।
तिलांश्च विकिरेत्तत्र परितो बन्धयेदजान्।
असुरोपहत द्रव्यं तिलैः शुद्ध्यत्यजेन वा॥ इति।
अजेनेत्येकवचनं जात्यपेक्षया। विधौ अजानिति बहुवचनोपादानात्।
यवाश्चोक्ताश्चमlत्कारखण्डे ।
श्राद्धेषु वैश्वदेवानि यानि कर्माणि कानि चित् ।
यवैरेव विधीयन्ते तानि श्रोत्रियपुङ्गवैः ॥
कृष्णाजिनं च नागरखण्डे ।
सन्निधापयिता यश्च श्राद्धे कृष्णाजिनं नरः ।
प्राप्स्यन्ति पितरस्तस्य तृप्तिमाकल्पकालिकीम् ॥
आस्तीर्थदक्षिणाग्रीवमेतदुत्तरलोमकम् ।
सर्वान् श्राद्धस्य सम्भारानस्योपरि निवेशयेत् ॥
रजतञ्च नन्दिपुराणे ।
रजतेन समायुक्तं यद्यत् श्राद्धेषु किञ्चन ।
तत्तदक्षय्यतां यानि रहस्यं पितृसम्मतम् ॥
अलाभे सति रूप्याणां नामापि परिकीर्तयेत् ।
रुप्यहस्तेन दातव्यं यत् किञ्च पितृदेवतम् ॥
रजतं दक्षिणां दद्याच्छ्राद्धकर्मणि चैव हि ।
रजतस्य हस्ते धारणं च तर्जन्याम ।
तर्जन्यां रजतं धृत्वा पितृभ्यो यत् प्रदापयेत् ।
इति वराहपुराणोक्तेः ।
सुवर्णन्तु महाभारते ।
दश पूर्वान् दशैवान्यान् तथा सन्तारयन्ति ते ।
सुवर्णे ये प्रयच्छन्ति इत्येवं पितरोऽब्रुवन् ।
वर्णविशेषस्तु विष्णुधर्मोत्तरे ।
जाम्बूनदं तद्देवानामिन्द्रगोपकसन्निभम् ।
पितॄणां चन्द्ररश्म्याभ दैत्यानामसुरोपमम् ॥
अर्धपात्राणि = अर्धप्रकरणे—
कात्यायनः ।
सौवर्णराजतौदुम्बरस्वङ्गमणिमयानां पात्राणामन्यतमेषु यानि वा विद्यन्ते पत्रपुटेषु वा ।
हारीतः । कांस्यपार्णराजतताम्रपात्राण्यर्घोदकधारणार्थानिसर्वाणयु पकल्प्यानि ।
बैजवापः ।
खादिरौदुम्बराण्यर्धपात्राणि श्राद्धकर्माणि ।
(१)55 आप्याश्ममृन्मयानि स्युरपि पर्णपुटास्तथा॥
अत्र विशेषो ब्रह्मपुराणे।
स्रस्तभाण्डानि वर्ज्यानि पितृदैवतकर्मणि।
सौवर्णताम्ररूप्याश्मस्फाटिक शङ्खशुक्तयः।
भिन्नान्यपि प्रयोज्यानि पात्राणि पितृकर्मणि॥
मत्स्यपुराणे।
पात्रं वनस्पतिमयं तथा पर्णमयं पुनः।
जलजं वापि कुर्वीत तथा सागरसम्भवम्॥
सागरसम्भवम् = शुक्त्यादि।
ब्रह्मपुराणे।
दत्वा हेममये पात्रे रूपवान् स्यात् स मानवः।
दत्वा रत्नमये पात्रे सर्वरत्नाधिपो भवेत्॥
पालाशे ब्रह्मवर्चस्वी अश्वत्थे राज्यमाप्नुयात्।
पात्रमौदुम्बर कृत्वा सर्वभूताधिपो भवेत्॥
दत्वा न्यग्रोधपात्रे तु प्रजां पुष्टिं श्रियं लभेत्।
रक्षोघ्नेकाश्मरीपात्रे दत्वा पुण्यं लभेद्यशः॥
सौभाग्यं चाथमाधूके फल्गुपात्रे च सम्पदः।
श्वेतार्कमन्दारमये दत्वा च मतिमान् भवेत्॥
बिल्वपात्रेधनं बुद्धिं दीर्घमायुरवाप्नुयात्।
अब्जपत्रपुढे दत्त्वा मुनीनां वल्लभोभवेत्॥
सिक्तेमधुघृताभ्यां च यथा सम्भवमेव च।
काश्मरी = गम्भारीः। फल्गु = काकोदुम्बरिका।
ब्रह्मवैवर्ते।
पलाशफल्गुन्यग्रोधप्लक्षाश्वत्थविकङ्कताः।
उदुम्बरस्तथा बिल्वश्चन्दना यज्ञियाश्च ये॥
सरलो देवदारुश्च शालोऽथ खदिरस्तथा।
एते ह्यर्घादिपात्राणां योनयः परिकीर्तिताः॥
तत्रैव—
राजतं रजताक्तंवा पितॄणां पात्रमुच्यते।
पुनस्तत्रैव।
वर्षत्यजस्त्रं तत्रैव पर्जन्यो वेणुपात्रतः।
एषां पात्राणामेकस्मिन् प्रयोगे एकजातीयानि ग्राह्याणि। एषामन्यतम इति कात्यायनोक्ते। इत्यर्घपात्राणि।
अथ पाकपात्राणि।
नागरखण्डे।
शुचीनि पितृकार्यार्थं पिठराणि प्रकल्पयेत्।
सौवर्णान्यथ रौप्याणि कांस्यताम्रोद्भवानि च॥
मार्तिकान्यपि भव्यानि नूतनानि दृढानि च।
न कदाचित्पचेदन्नमयःस्थालीषु पैतृकम्॥
अयसो दर्शनादेव पितरो विद्रवन्ति हि।
अपैतृकं ह्यमङ्गल्यं लोहमाहुर्मनीषिणः॥
दैवेषु चैव पित्र्येषु गर्हितं सर्वकर्मसु।
कालायसं विशेषेण निन्दितं पितृकर्मणि॥
फलानां चैव शाकानां छेदनार्थानि यानि तु।
महानसेऽपि शस्त्राणां तेषामेव हि सन्निधिः॥
दृश्यते नेतरच्छस्तं शस्त्रमात्रस्य दर्शनम्।
अयःशङ्कुमयं पीठं प्रदेयं नोपवेशने॥
आदित्यपुराणे पात्राण्युपक्रम्य—
अच्छिद्रेषु विलेपेषु तथानुपहतेषु च।
नायसेषु न भिन्नेषु दूषितेष्विव कर्हि चित्॥
पूर्वं कृतोपभोगेषु मृन्मयेषु न कुत्रचित्।
पक्वान्नस्थापनार्थंतु शस्यन्ते दारुजान्यपि॥
पात्रेषु फलविशेषश्चमत्कारखण्डे।
स्वर्णभाण्डेषु कुर्वीत पितॄणां पाकमुत्तमम्।
तेन सौभाग्यमतुलं लभते चाक्षयां श्रियम्॥
राजतेषु दि पात्रेषु कुर्वन् पाक हिपैतृकम्।
पितॄणां कुरुते प्रीतिं यावदाभूतसम्प्लवम्॥
पचमानस्तु भाण्डेषु भक्त्या ताम्रमयेषु च।
समुद्धरति वै घोरात् पितॄन् दुःखमहार्णवात्॥ इति पाकपात्राणि।
अथ भोजनपात्राणि।
अत्रि।
भोजने हैमरौप्याणि दैवे पित्र्ये यथाक्रमम्।
हारीत।
रजतकांस्यपर्णताम्रपात्राणि ब्राह्मणभोजनार्थानि महान्ति कार्याणि।
महान्ति=भोज्यान्नपर्याप्तानि।पर्णम्=पलाशः।
‘पलाशेभ्यो विना न स्युरम्यपात्राणि भोजने’
इत्यत्रिवचनात्।
वाराहपुराणे।
सौवर्णानीह पात्राणि सम्पाद्यानि प्रयत्नतः।
तदलाभेतु रौप्याणि कांस्थानि तदसम्भवे॥
पलाशपर्णजानि स्युः श्राद्धे तु द्विजभोजने।
अन्यान्यपि च पात्राणि दारुजान्यपि जानता॥
यथोपपन्नं कार्याणि मृत्मयानि न तु क्वचित्।
नायसानि प्रकुर्वीत पैतलानि न हि क्वचित्।
नवसीसमयानीह शस्यन्ते त्रपुजाम्यपि।
सुवर्णादिविधेरेवाऽऽयसादिनिवृत्तौ पुनस्तन्निषेधः, प्रतिनिधित्वेनापि तन्निवृत्यर्थः।
अङ्गिराः।
न जातीकुसुमानि दद्यात्, न कदलीपत्रमिति।
अत्रापवादः स्मृतिसङ्ग्रहे।
कदली चूतपनसजम्बूपत्रार्कचम्पकाः।
अलाभे मुख्यपात्राणां ग्राह्याः स्युः पितृकर्मणि॥ इति भोजनपात्राणि।
अथ परिवेषणपात्राणि।
कूर्मपुराणे।
काञ्चनेन तु पात्रेण राजतौदुम्बरेण च।
दत्तमक्षयतां याति खड्गेन च विशेषतः॥
परिवेषणं प्रक्रम्य विष्णु।
हस्ते न घृतव्यञ्जनादि।
पात्राभावे आह—
वृद्धशातातपः।
हस्तदत्ताश्च ये स्नेहा लवणं व्यञ्जनानि च।
दातारं नोपतिष्ठन्ति भोक्ता भुञ्जति किल्विषम्॥
तस्मादन्तरितं देयं पर्णेनैव तृणे न वा।
प्रदद्यान्न तु हस्तेन नायसेन कदाचन॥ इति।
पात्रव्यवस्थामाह पैठीनसिः—
दैवे सौवर्णानि पित्र्येषु राजतानि परिवेषणपात्राणीति।
मार्कण्डेये।
नापवित्रेण हस्तेन नैकेन न विना कुशम्।
नायसे नायसेनैव श्राद्धेतु परिवेषयेत्॥
अपवित्रेण=दुर्लेपसंसर्गादिनेति हेमाद्रि; सुवर्णरजतान्यतरहीनेनेस्यपरे। नैकेन=किन्तु वामोपगृहीतेनेति हेमाद्रि; दर्व्यादिशून्येनेत्यपरे। एकत्राऽऽयस इति सप्तमी। इति परिवेषणपात्राणि।
अथ गन्धाः।
भगवतीपुराणे।
यश्चन्दनेन गन्धेन सुश्लक्ष्णेन सुगन्धिना।
अनुलिम्पति वै विप्रान् स कदाचिन्न तप्यते॥
तेनैवागुरुमिश्रेण परं सौभाग्यमश्नुते।
अगुरोश्चापि लेपेन भुङ्क्ते भोगाननुत्तमान्॥
यः श्रीखण्डं सकर्पूरं पितृभ्यः प्रतिपादयेत्।
यशः प्राप्नोति विपुलं स पृथिव्यां महामतिः॥
यः कुङ्कुमसमोपेतं ददाति मलयोद्भवम्।
केवलं कुङ्कुमं वापि रुपवान् स प्रजायते॥
दद्यान् मलयज गन्धं यस्तु कस्तूरिकायुतम्।
कस्तूरीं केवलां वापि स प्राप्नोति महाश्रियम्॥
यो यक्षकर्दमंदत्ते श्राद्धेषु श्रद्धयान्वितः।
स भूपतित्वमासाद्य महेन्द्र इव मोदते॥
यस्तु श्राद्धे ददेद्गन्धान्नानाकुसुमवासितान्।
स सर्वकामसंयुक्तः स्वर्गे वैमानिको भवेत्।
यक्षकर्दमलक्षणम्।
कर्पूरागुरुकङ्कोलदर्पकुङ्कुमचन्दनैः।
यक्षकर्दम इत्युक्तो गन्धः स्वर्गेऽपि दुर्लभः॥
इति विष्णुधर्मोत्तरोक्तमनुसन्धेयम्।
ब्रह्मपुराणे।
श्वेतचन्दनकर्पूरकुङ्कुमानि शुभानि च।
विलेपनार्थं दद्यात्तु यच्चान्यत् पितृवल्लभम्॥
कुष्टं मांसी बालकं च त्वक्कुष्टी जातिपत्रकम्।
नालिकोशीरमुस्तं च ग्रन्थिपर्णंच तुम्बुरम्।
मुरा चेत्येवमादीनि गन्धयोग्यानि पैतृके॥ इति।
कुष्टीः=गन्धद्रव्यभेदः। कुष्टं=कुठ इति प्रसिद्धम्।मांसी=जटामांसी। बालक=सुगन्धिबाला इति प्रसिद्धम्। त्वक्= दारचीणीति प्रसिद्धा। नालिक=तज इति प्रसिद्धम्।
मरौचिः।
कर्पूरकुङ्कुमोपेतं सुगन्धिासतचन्दनम्।
दैविकेऽव्यथवा पित्र्ये गन्धदानं प्रशस्यते॥ इति।
अथ वर्ज्यगन्धाः।
नरसिंहे।
श्राद्धेषु विनियोक्तव्या न गन्धा जीर्णदारुजाः।
कल्कीभाव समासाद्य न च पर्युषिताः क्वचित्॥
न विगन्धाश्च दातव्या भुक्तशेषा विशेषतः।
ब्रह्मपुराणे।
पूतीकां मृगनार्भिच रोचनां रक्तचन्दनम्।
कालीयकं जोङ्गकं च तुतुष्कं चापि वर्जयेत्॥
पूर्तीका=सुगन्धितृणविशेषः, करञ्जो वेति हेमाद्रिः। कस्तूर्या विहितप्रतिषिद्धत्वाद्विकल्पः।तुतुष्क=सिह्लकम्।
अथ पुष्पाणि।
वायुपुराणे।
पितृभ्यो यस्तु माल्यानि सुगन्धीनि च दापयेत्।
सदा दाता श्रिया युक्तः सोऽपि याति दिवाकरम्॥
तथा।
यस्तु श्राद्धे द्विजाग्र्याणां पुष्पाणि प्रतिपादयेत्।
सुगन्धीनि मनोज्ञानि तस्य स्यादक्षयं फलम्॥
अतः पत्रैश्च पुष्पैश्च मञ्जरीभिरथापि वा।
सुकुमारैः किशलयैर्नवदूर्वाङ्कुरैरपि।
न प्रसुनैर्विना पूजा कृता पुण्यतमा भवेत्।
ब्रह्मपुराणे।
शुक्लाः सुमनसः श्रेष्ठास्तथा पद्मोत्पलानि च।
गन्धरूपोपपन्नानि यानि चान्यानि कृत्स्नशः॥
नन्दिपुराणे।
पुष्पजातिर्यदा सृष्टा तदा प्राक्शतपत्रिका।
सृष्टा तेन च मुख्या स्यात् श्राद्धकर्मणि सर्वथा॥
मार्कण्डेयपुराणे।
जात्यश्च सर्वा दातव्या मल्लिका श्वेतयूथिका।
जलोद्भवानि सर्वाणि कुसुमानि च चम्पकम्॥
जात्यो=मालत्यः।मल्लिका=मुकुरपुष्पाणि।
स्मृत्यन्तरे तु ‘जातीदर्शनमात्रेण निराशाः पितरो गता’इति जात्यो निषिद्धा अतो विकल्पः।पीतजातीविषयो निषेध इति केचित्, तत्र; जात्यः सर्वा इत्युक्तेः। जलोद्भवानि रक्तान्यपि देयानि “जलजानि रक्तान्यपि दद्यात्”इति विष्णूक्तेः।
ब्रह्मपुराणे।
शाकमारण्यकं चैव दद्यात् पुष्पाण्यमूनि वै।
जातीचम्पकलोध्राश्च मल्लिका वाणवर्वरी॥
चूताशोकाटरूषं च तुलसीं तिलक तथा।
पाटलीं शतपत्रं च गन्धनेपालिकामपि॥
कुब्जकं तगरं चैव मृगमारं च केतकीम्।
यूथिकामतिशुक्ल च श्राद्धयोग्यानि भो द्विजाः॥
कमल कुमुदं पद्मं पुण्डरीकं च यत्नतः।
इन्दीवर कोकनदं कल्हारं च नियोजयेत्॥इति।
लोघ्नो=गालवः।वाण=आर्तगवः।वर्वरी=कवरीति हेमाद्रिः।तिलक=
तगरः।गन्धनेपालिका =वनमल्लिका।कुव्जक्म् =अजकम्।तगरो=गन्धतगरः। मृगमारः=श्रावेणिकापुष्पमिति हेमाद्रिः।अतिशुक्लं=माधवीलतापुष्पम्।
यस्तु विष्णुना सर्षपसुरसाकूष्माण्डानि वर्जयेदिति तुलस्या निषेध उक्तः स शाकप्रायपाठाच्छाकत्वेनेत्युक्तं द्रव्यनिर्णये।
अथ निषिद्धानि।
वायुब्रह्माण्डपुराणयोः।
जपादिसुमना भाण्डी रूषिका सकुरुण्टिका।
पुष्पाणि वर्जनीयानि श्राद्धकर्मणि नित्यशः॥
यानि गन्धादपेतानि उग्रगन्धीनि यानि च।
वर्जनीयानि पुष्पाणि भूतिमन्विच्छता सदा॥
जपादीत्यादिशब्देन करवीरादि। सुमना = जाति। भाण्डी = मञ्जिष्ठा। कषिका = अर्कः।कुरुण्टिका = पीताम्लातकपुष्पम्।
शङ्खः।
उग्रगन्धीन्यगन्धीनि चैत्यवृक्षोद्भवानि च।
पुष्पाणि वर्जनीयानि रक्तवर्णानि यानि च॥
जलोद्भवानि देयानि रक्तान्यपि विशेषतः॥ इति।
चैत्यवृक्षः = श्मशानवृक्षः।
मात्स्ये।
पद्मबिल्वार्कधत्तूरपारिभद्राटरुषकाः।
न देयाः पितृकार्येषु पय आजाविकं तथा॥ इति।
अत्र पद्मं = स्थलजम्।जलजस्य विहितत्वादिति हेमाद्रिः। पारिभद्रो = रक्तस्तबको मन्दारः।
विष्णुः।
सितानि सुगन्धीनि कण्टकितान्यपि दद्यात्। अनेनानैवंविधानि कण्टकिजातानि न देयानीति गम्यते।
अथ धूपाः।
शङ्खः।
धूपार्थे गुग्गुलुं दद्यात् घृतयुक्तं मधूत्कटम्।
चन्दनं च तथा दद्यात् कर्पूर कुङ्कुम शुभम्॥
ब्रह्मपुराणे।
चन्दनागुरुणी चोभे तथैवोशीरपद्मकम्।
तुरुष्कं गुग्गुलुं चैव घृताकं युगपद्दहेत्॥
ब्रह्मवैवर्ते=धूपं प्रक्रम्य।
चन्दनागुरुणी चैव तमालोशीरपत्रकम्।
वायुपुराणे।
गुग्गुल्वादींस्तथा धूपान् पितृभ्यो यः प्रयच्छति।
संयुज्य मधुसर्पिर्भ्यांसोऽग्निष्टोमफलं लभेत्॥
अथ निषिद्धधुपाः।
विष्णुः।
जीवजं सर्वंन धूपार्थे, तैलघृते च दद्यादिति।
जीवज=नखकस्तूरिकादि। तैलघुते केवले न दद्यात्, संयुज्य मधुसर्पिभ्यांमिति पूर्वोदाहृतवायुपुराणात्,
घृतं न केवलं दद्याद् दुष्टं वा तृणगुग्गुलुम्।
इति मदनरत्नधृतवचनाच्च। तृणगुग्गुलुः=सर्जरस इति तत्रैवव्याख्या।
अथ दीपाः।
स्कान्दे।
स्थाप्याः प्रतिद्विजं दीपाः श्वेतसूत्रजवर्तयः।
गब्येण माहिषेणापि घृतेन भृतभाजनाः॥
अथवा तिलतैलेन पूरिता विमलार्चिषः।
पितॄनुद्दिश्य दातव्याः प्रत्येकं ते यथाविधि॥ इति।
तैलं=घृताभावे। घृताभावे तु यो दीप तिलतैलप्रवर्तितम्, इति पाद्मोक्तेः। तैलाभावे तत्रैव,
अभावे तिलतैलस्य स्नेहैः प्राण्यङ्गवर्जितैरिति।
दीपं दद्यादिति शेषः। स्नेहाः=एरण्डकुसुम्भातसीबीजोद्भवा न वसादयः।
घृतेन दीपो दातव्यस्त्वथवा औषधीरसैः।
वसामेदोद्भवं दीपं प्रयत्नेन विवर्जयत्॥
इति शङ्खोक्तेः
कालिकापुराणे।
दीपिकां धातुसंयुक्तां सालदारुमयमिपि।
अलाभे मृन्मयीं वापि मानाभ्यामधिसस्थिताम्।
यो ददाति पितृभ्यस्तु तस्य पुण्यफलं श्रृणु।
यो धूपदहनं पात्रं पात्रमारार्त्तिकस्य च॥
दद्यात् पितृभ्यः प्रयतस्तस्य स्वर्गेऽक्षया गतिः। इति।
मानं=तैलधारणस्थलम्।
अथाच्छादनम्।
ब्रह्मपुराणे।
अनङ्गलग्नं यद्वस्त्रं सम्भवे (१56) तु युगं शुभमिति।
पद्मपुराणे।
संपूज्य गन्धपुष्पाद्यैर्दद्यादाच्छादनं ततः।
अधौतं सदशं स्थूलमच्छिद्रममलीमसम्॥
तस्याभावे तु देयं स्यात् सवर्णैः क्षालितं च यत्।
प्रदेयं पितृकार्येषु कारुधौतं न कर्हि चित्॥
अधौतस्य दानं मण्डराहित्ये।
स्मृत्यन्तरे।
कौशेयं क्षौमकार्पासं दुकूलमहतं तथा।
आवेष्टनानि यो दद्यात् कामानाप्नोति पुष्कलान्॥
कौशेयं=कृमिकोशोत्थम्। क्षौमम्=आतसम्। अहतलक्षणमाह— प्रचेताः।
ईषद्धौतं नवं श्वेतं सदशे यन्न धारितम्।
अहतं तद्विजानीयात् सर्वकर्मस्वपाबृतम्॥ इति।
ईषद्धौतं=स्वेनेति शेषः।
तथाच वृद्धमनुः।
स्वयं धौतेन कर्तव्याः क्रिया धर्म्या विपश्चिता।
न निर्णेजकधौतेन नोपयुक्तेन वा क्वचित्।
स्वयं ग्रहणादेव निर्णेजकनिवृत्तावपि पुनर्निर्णेजकप्रतिषेधोऽन्ये नापि ब्राह्मणादिना शुद्धिः कार्येत्येव मर्था[न्तरपरत्वात्]। “तस्याभावे तु देयं स्यात् सवर्णैः क्षालितं च यत्”इति मत्स्यपुराणैकवाक्यत्वाच्च।
भगवतीपुराणे।
अधरीयोत्तरीयार्थे उदिश्यैकैकमादरात्।
वासोयुगं प्रदातव्यं पितृकृत्ये विपश्चितैः॥
निष्क्रयो वा यथाशक्ति वस्त्रालाभे प्रदीयते।
स्कन्दपुराणे।
महाधनानि वासांसि पितृभ्यो यः प्रयच्छति।
धनधान्यसमृद्धोऽसौ सुवेषश्चैव जायते॥
रुपवान् सुभगः श्रीमान् वनितानां च वल्लभः।
आयुरारोग्यसंपन्नः कीर्तिं विन्दति चामलाम्॥
चन्द्रिकाजालशुभ्राणि यः क्षौमाणि प्रयच्छति।
स चान्द्रमसमासाद्य लोकं दीव्यति देववत्॥
दत्वा क्षौमाणि शोणानि सूर्यलोक समश्नुते।
पीतानि तानि दत्वा वै याति लोकं मधुद्विषः॥
चित्राणि दत्वा माहेन्द्रे लोके नित्यं महीयते।
पट्टसूत्रमये दत्त्वा वाससी पितृतत्परः।
रूपसौभाग्यसंपन्नो राजराजो भवेदिह॥
कौशेयान्यपि वासांसि पितृभ्यो यः प्रयच्छति।
स नाकपृष्ठे रमते दिव्यैर्भोगैःशतं समाः।
कार्पाससूत्रजं वासः सुसूक्ष्म चातिशोभनम्॥
यो ददाति पितॄणां वै सोऽनन्तसुखमाप्नुयात्।
मञ्जिष्ठाद्यैः शुभैः रङ्गै रञ्जितं च मनोहरम्॥
प्रदाय पितृदेवेभ्यःपरमामृद्धिमृच्छति॥
विष्णुधर्मोत्तरे।
यः कञ्चुकं तथोष्णीषं पितृभ्यः प्रतिपादयेत्।
द्वन्द्वोद्भवानि दुःखानि स कदाचिन्न पश्यति॥
ददाति यः प्रसन्नात्मा पटान् कम्बु [ञ्चु] कबन्धनान्।
विमुक्तः सर्वपापेभ्यः सोऽग्न्यां विदन्ति सम्पदम्॥
स्त्रीणां श्राद्धेषु सिन्दूरं दद्युश्चण्डातकानि च।
निमन्त्रिताभ्बःस्त्रीभ्यो ये ते स्युः सौभाग्यसंयुताः॥
चण्डातकं=स्त्रीपरिधेयवस्त्रविशेषः। “अर्धोरुकं विलासिन्या वासश्चण्डातकं विदुः”इति स्मरणात्।
तथा।
वस्त्रस्थापनभाण्डानि सवस्त्राणि प्रयच्छति।
यः पितृभ्यः स सम्पद्भिःसर्वाभिरपि पूर्यते॥
शीतातपसमुद्भूतां पीडां वारयितुं क्षमान्॥
यः प्रावारानतिश्लक्ष्णान् विशालान् सुदृढान् नवान्॥
दद्यात् पितृभ्यस्तस्यैह द्वन्द्वदुःख न विद्यते।
ऊर्णायुलोमरचितान् विविधांश्च महापटान्॥
विचित्रान् विविधैरागैर्वातप्रावरणोचितान्।
प्रयच्छति पितॄणां यः स सदाऽऽरोग्यवान् भवेत्॥
वायुपुराणे,
वस्त्रं हि सर्वदेवत्यं सर्वदेवैरभिष्टुतम्।
वस्त्राभावे क्रिया न स्युर्यज्ञदानादिकाःक्वचित्।
तस्मात् वस्त्राणि देयानि श्राद्धकाले विशेषत॥
ब्रह्मवैवर्ते विशेषः।
कौशेयक्षौमपत्रोर्णान् तथा प्रावारकम्बलान्।
अजिनं रौरवं यत् स्यात् ऊर्णिकं मृगलोमकम्॥
दत्वा ह्येतानि विप्रेभ्यो भोजयित्वा यथाविधि।
प्राप्नोति श्रद्दधानस्य वाजपेयस्य यत् फलम्॥
बह्यो नार्यः सुरूपाश्च पुत्रा भृत्याश्च किङ्कगः।
वशे तिष्ठन्ति भूतानि वपुर्विन्दत्यनामयम्॥
अलक्ष्मीं नाशयत्याशु तमः सूर्योदये यथा।
विभ्राजते विमानाग्रे नक्षत्रोष्वेवचन्द्रमाः॥
नित्यश्राद्धेषु यो दद्यात् वस्त्रं पितृपरायणः।
सर्वान् कामानवाप्नोति राज्यं स्वर्गं तथैव च॥
अथ निषिद्धवस्त्राणि।
आदित्यपुराणे।
न कृष्णवर्णं दातव्यं वासः कार्पाससम्भवम्।
पितृभ्यो नापि मलिनं नोपयुक्तं कदा च न॥
न च्छिद्रितं नापदशं न धौतं कारुणापि च।
ब्रह्मपुराणे,
कार्पासं नैव दातव्यं पितृभ्यः काममंशुकम्।
कृष्णं चापि प्रदातव्यमन्यत् कार्पाससम्भवात्॥
नामापि न ग्रहीतव्यं नीलीरक्तस्य वाससः।
दर्शनात्कीर्तनात् र्भात्यानिराशाः पितरो गताः॥
इति वस्त्रम्।
अथ यज्ञोपवतिम्।
आदित्यपुराणे।
पितॄन् सत्कृत्य वासोभिर्दद्याद्यज्ञोपवीतकम्।
यज्ञोपवीतदानेन विना श्राद्धं तु निष्फलम्॥
तस्मात् यज्ञोपवीतस्य दानमावश्यकं स्मृतम्॥ इति।
वायुपुराणे।
उपवीतं तु यो दद्यात् श्राद्धकर्मणि धर्मवित्।
पावनं सर्वविप्राणां ब्रह्मदानस्य तत् फलम्॥ इति।
अत्र शूद्रकर्तृकश्राद्धे यज्ञोपवीतस्य श्राद्धाङ्गत्वेन देयत्वावगमाह्वानं भवत्येवेति— हेमाद्रिः। एवं स्त्र्याद्युद्दे- श्यकश्राद्धेऽपि।
भविष्यपुराणे—
दद्याद्यज्ञोपवीतानि पितॄणां प्रीतये सदा।
श्रद्धावान् धार्मिकस्तेन जायते ब्रह्मवर्चसी।
हेमाद्रौ चमत्कारखण्डे।
सितसूक्ष्मेण सूत्रेण रचितं मन्त्रपूर्वकम्।
उपवीतं ददत् श्राद्धं मेधावानभिजायते॥
चामीकरमयं दिव्यं पितॄणामुपवीतकम्।
दत्वा चामीकरमयैर्विमानैर्दिवि दव्यिति॥
राजतान्युपवीतानि पितॄणां ददतः सदा।
आयुः प्रज्ञा च तेजश्च यशश्चैवाभिवर्धते॥
अत्र च यज्ञोपवीतस्य प्राधान्यावगतेः प्रधान्येन दानम्।
वस्त्राभावेऽपि दातव्यमुपवीतं विजानता।
पितॄणां वस्त्रदानस्य फलं तेनाप्नुतेऽखिलम्॥
इति ब्रह्मवैवर्ते वस्त्राभावे यज्ञोपवीतस्मरणाच्च प्रतिनिधित्वेनापि।
अथ दण्डयोगपट्टौ।
विष्णुधर्मोतरे—
दण्डान् श्राद्धेषु यो दद्यात् पितृप्रीत्यै महामनाः।
कदाचित्तं न बाधन्त आपदः श्वापदोद्भवाः।
दण्डांश्च योगपट्टांश्च योगिभ्यो यः प्रयच्छति।
योगिनामुपयुक्तानि वस्तून्यन्यानि यानि च॥
कामैस्तमभिवर्धन्ते पितरो योगवित्तमाः।
पालाशान् वैणवान् वापि यस्तु दण्डान् यथोचितम्॥
व्रतिभ्यो वा गृहस्थेभ्यो यतिभ्यः परितुष्टये।
ददाति योगपट्टांश्च पट्टसूत्रादिनिर्मितान्॥
स योगिनां कुले भूत्वा योगिराजः प्रजायते।
आदित्यपुराणे विशेष—
वैणवान् सुदृढान् दण्डान् ऋजून् सन्नतपर्वणः।
पितृप्रीतिकृते दद्यान्नभय जातु विन्दति॥
आयसेन खनित्रेण मूलदेशे परिष्कृतान्।
मृत्कुशानां यथाकाम खननेषु क्षमान् भृशम्॥
केवलान् वाथ दण्डान् वा
वःश्राद्धे प्रतिपादयेत्।
तस्य श्रद्धां च मेघां च शौचमास्तिक्यमेव च॥
इह जन्मनि चान्यत्र प्रयच्छन्ति पितामहाः॥ इति।
शालङ्कायनः।
प्रदाय वैणवीं यष्टिं नूतनां सुदृढामृजुम्।
श्लक्ष्णामनुल्वणग्रन्थिं द्विजाय श्राद्धभोजिने॥
विजयी जायते नित्यं न पश्यति पराजयम्।
तावद्भवति कल्माषी सर्वंतरति कल्मषम्॥ इति।
अथ कमण्डल्वादि।
अग्निपुराणे।
श्राद्धे कमण्डलून् दद्यात् जलेनापूर्य यत्नतः।
सर्वकामैः स सम्पूर्णश्चिरं स्वर्गेऽभिमोदते॥
प्रभासखण्डे।
चक्रवद्धं तु यो दद्यात् श्राद्धकाले कमण्डलुम्।
काञ्चनेन विमानेन किङ्किणीजालमालिना॥
वसते चिररात्राय सुवृष्णे मेरुमूर्धनि।
वाराहपुराणे।
यः काञ्चनमयं दिव्यं प्रयच्छति कमण्डलुम्।
पितृभ्यः स चिरं भोगैर्मोदते काञ्चनालये॥
यो ददाति पितॄणां हि राजतं वै कमण्डलुम् ।
सम्पन्नः सकलैर्भोगैः स राजा धार्मिको भवेत् ॥
कमण्डलुंताम्रमयं श्राद्धेषु प्रददाति यः ।
स महत्या श्रिया युक्तः कुले महति जायते ॥
काष्ठेन रचितं यस्तु नारिकेलमथापि वा ।
दद्यात् कमण्डलुं श्राद्धे स श्रीमानभिजायते ॥
चर्मणा निर्मितं वापि पात्रं नानाविधं तु यः ।
प्रतिपादयति श्राद्धे स सुखी जायते चिरम् ॥
यो मृत्तिकाविरचितान् श्राद्धेषु च घटान् नवान् ।
प्रयच्छति महामेधाः स दुःख नैव विन्दति ॥
स्कन्दपुराणे ।
यस्तडागान् तथाऽऽरामान् वापीकूपान् प्रपास्तथा ।
उत्सृजेत् पितृतृप्त्यर्थं ब्रह्मलोक स गच्छति ॥
मणिकानम्भसा पूर्णान् प्रदद्याद्वा गलन्तिकाम् ।
प्रदद्यात् करका वापि यदि वा करपत्रिकाः ॥
श्राद्धकाले यथाशक्ति सोऽक्षयं विन्दते सुखम् ।
करपत्रिका=जलपात्रविशेषः ॥
वायुपुराणे ।
दत्वा पवित्रं योगिभ्यो जन्तुवारणमम्भस. ।
श्राद्धे निष्कसहस्रस्य फलं प्राप्नोति मानवः ॥ इति ।
पूयते जलमनेनेति पवित्रम् ॥
अत्र छत्रम् ।
ब्रह्मवैवर्ते ।
छत्रं शतशलाकं यः सितवस्त्रोपशोभितम् ।
पितॄणां प्रयतो दद्यात् सोऽपि राजा भवेदिह ॥
मयूरपिच्छबहुभिर्निर्मितं रुचिराकृतिम् ।
छत्रं ददाति यस्तस्य विहारो नन्दने वने ॥
यःप्रदद्याल्लघुच्छत्रं रम्यमातपवारणम् ।
श्राद्धकाले स मनुजो न क्वचित् परितप्यते ॥
वायुपुराणे ।
(१57) श्रेष्ठच्छत्रं च यो दद्यात् पुष्पमाल्यादिशोभितम् ।
प्रासादो ह्युत्तमो भूत्वा गच्छन्तमनुगच्छति ॥
अथोपानत्पादुके।
ब्रह्मपुराणे।
उपानद्युगलं यस्तु श्राद्धकर्मणि धर्मवित्।
एकैकस्मै द्विजाग्रन्थाय पित्रर्थंसम्प्रयच्छति॥
पितॄणां तत् परे लोके विमानमुपतिष्ठते।
दातापि स्वर्गमाप्नोति सुयुक्तं वडवारथैः॥
सौरपुराणे।
निर्माय सुदृढे दद्याददुर्गन्धेन चर्मणा।
न न्यूने नातिरिक्तेच पादयोः सुसुखे मृदू॥
उपानहौब्राह्मणेभ्यः पितृृणां सुखहेतवे।
प्रीयन्ते पितरस्तस्य प्रीता यच्छन्ति वाञ्छितम्॥
नन्दिपुराणे।
यः पादुके प्रदद्यान्तुपितृतृप्त्यर्थमादरात्।
तस्य पुण्येषु लोकेषु भवेदप्रतिघा गति॥
अप्रतिघा=अप्रत्यूहा।
हेमाद्रो चमत्कारखण्डे।
धात्वादिनिर्मितं दद्यात् पितृभ्यः पादुकायुगम्।
यस्तस्य देवलोकेषु गतिर्वैमानिकी भवेत्॥
गजदन्तकृते यस्तु पादुके सम्प्रयच्छति।
स वै चित्राणि यानानि लभते प्रेत्य चैव हि।
यः पादुके प्रयच्छेत सारदारुमये शुभे॥
पितृभ्यः सोपि मेधावी सुखमत्यन्तमश्नुते।
अथ आसनानि।
ब्रह्मपुराणे।
आसनानि च रम्याणि पितृभ्यो यः प्रयच्छति।
स आस्ते सुचिरं काल त्रिदशैरभिपूजितः॥
देवीपुराणेः।
पीठान्यतिमनोज्ञानिपितॄणां प्रददाति यः।
तस्य पीठेश्वरी नित्यं वरान् यच्छति वाञ्छितान्॥
हेमाद्रौ चमत्कारखण्डे विशेषः,
चामीकरमयं श्राद्धेष्वासनं य. प्रदापयेत्।
तस्यासनं मेरुपीठे समीपे परमेष्ठिनः॥
यः पितॄणां सुघटितं दद्याद्राजतमासनम्।
स स्वर्गे सुखमासीनः क्रीडते कालमक्षयम्॥
येन ताम्रमयं दत्तमासनं पितृकर्मणि।
स वै दिव्यासनारूढो न हि प्रच्यवते चिरम्॥
प्रदद्यादासनं यस्तु निर्मितं सारदारुभिः।
तस्य नाकं गतस्योच्चैःकथ्यते भव्यमासनम्॥
विष्णुधर्मोत्तरे विशेषः।
यस्तु भद्रासनं चारु पितॄणां प्रतिपादयेत्।
स वैसिंहासनासीनः शोभते नरराडिव॥
यस्त्वासनं वस्त्रमयं हंसपिच्छेःसुसम्भृतम्।
प्रयच्छति महीपालास्तमासनिमुपासते॥
तूलैः पूर्णं वरं वस्त्रमासनं यो निवेदयेत्।
पितॄणामादरादेनं प्रत्यासीदन्ति सम्पदः॥
पितॄनुद्दिश्य योगिभ्यो दत्वा कुशमयीर्वृषीः।
सर्वसङ्गविनिर्मुक्तो विमुक्तात्मा स जायते॥
वेत्रासनानि चित्राणि पितृभ्यः प्रतिपादयेत्।
(१58) नीरोगः पुरुषः श्रीमान् पुरुषः सम्प्रदापयेत्॥
यस्त्वासनोपयोगार्थं प्रदद्यात् कम्बलान् नवान्।
अष्टाङ्गयोगसंयुक्तसिद्धिं तस्योपजायते॥
अष्टाङ्गयोगसंयुक्तस्य या सिद्धिः सेत्यर्थः।
यस्तृणैर्मृदुभिः श्लक्ष्णैर्निर्माय दृढमासनम्।
दद्यात् श्राद्धेषु तस्याशु स्थिराः स्युः सर्वतः श्रियः॥
अथ शय्यादि।
कूर्मपुराणे।
सारदारुमयीं शय्यां श्लक्ष्णामास्तरणान्विताम्।
दत्वा सुमनसां लोके दिव्यान् भोगानवाप्नुयात्।
ब्रह्माण्डपुराणे—
शय्यामास्तरणोपेतामुत्तरच्छदसंयुताम्।
उपधानेन संयुक्तां पितॄनुद्दिश्य यो ददेत्॥
मोदन्ते पितरस्तस्य सुखिनः शाश्वतीः समाः।
दातापि स्वर्गमासाद्य विमान दिव्यमास्थितः॥
सेव्यते सुरनारीभिर्गीवमानश्च किन्नरैः।
विष्णुधर्मोत्तरे।
आन्दोलकं सास्तरणं सोपधानप्रसाधनम्।
धातुजाभिः सुरम्याभिः शृङ्खलाभिश्व संयुतम्॥
मत्तवारणशोभाढ्यंग्रथित मृदुभिः पटैः।
ददाति पितृकार्येषु यो हि श्रद्धापरायणः॥
गन्धर्वाप्सरसां लोके गीयमानो निरन्तरम्।
स भुङ्क्तेविविधान् भोगान् त्रिदशैरपि दुर्लभान्॥
चमत्कारखण्डे।
श्राद्धे शय्यां प्रयच्छेद्यः सूर्यलोके स राजते।
गजदन्तमयेदिव्य श्राद्धे दत्वा तु मञ्चकम्।
गत्वा चान्द्रमसं लोकं शरदामयुतं वसेत्॥
पट्टसूत्रमयैः पट्टेर्ग्रथितां च ददाति यः।
शय्यां पितृभ्यो मेधावी देवीलोकेस गच्छतिः॥
कर्पाससूत्रजैः पट्टेः सुदृढांयः प्रयच्छति।
चन्द्रस्य भवने सोऽपि कामान् भुङ्क्तेयथेप्सितान्॥
कृतां शणमये पट्टैःसूत्रजैर्वाऽविजैरपि॥
दत्वा जन्मान्तरे जातः स्त्रियो विन्दति सुन्दरीः।
अविजैः=अविलोमकृतपट्टैः।
हंसपिच्छमयीं तूष्णी पितृभ्यः प्रददाति यः।
गन्धर्वाप्सरसां लोके मोदते स यथा सुखम्।
कर्पासनिर्मितां बूलीं दत्वा ऋद्धिं सुशोभनाम्॥
उपधानेन संयुक्तां लक्ष्मीवान् जायते नरः।
हंसपिच्छमय रम्यमुपधानं ददाति यः॥
कीर्तिमान् जायते नित्य सुखानामपि भाजनम्।
क्षौमं वा पट्टसूत्रं वा यो दद्यादुत्तरच्छदम्॥
लावण्येन सदा युक्तो जायतेऽसौ जनप्रियः।
प्रयच्छेदुत्तरपट सूक्ष्मकार्पाससुत्रजम्॥
तस्याऽऽयुर्विपुलं लोके प्रयच्छति पितामहः।
मृदुचर्ममयीं दद्याद्यो नरः पट्टगण्डुकाम्॥
सोऽपि श्रिया समायुक्तो नीरोगो जायते भुवि।
विचित्रैश्चर्मभिर्युक्तं रचितं मृदुभिस्तृणैः॥
श्राद्धकाले तु योगिभ्यः स दुःखैर्नाभिभूयते।
अथ चामरव्यजनदर्पणकेशप्रसाधनानि।
सौरपुराणे।
चामरं तालवृन्तं च श्वेतच्छत्रं च दर्पणम्।
दत्वा पितॄणामेतानि भूमिपालो भवेदिह॥
वाराहपुराणे।
चामरमधिकृत्य।
पितृभ्यश्चामरं दत्वा स्वर्गे स्त्रीभिस्तु वीज्यते।
तदेव कृष्णवर्णंतु दत्वा भूमिपतिर्भवेत्॥
मयूरपिच्छनिर्माणं हेमदण्ड तु चामरम्।
प्रतिपाद्य पितृभ्यस्तु राजराजो भवेदिह॥
व्यामदीर्घैरतिश्वेतैरश्ववालधिसम्भवैः।
निर्मितं चामरं श्राद्धे दत्वा माण्डलिको भवेत्॥
कृष्णाश्ववालरचित चामरं यस्तु यच्छति।
सोऽपि पुण्येन तेनेह धनी भवति धर्मवान्॥
हेमाद्रौ चमत्कारखण्डे।व्यजनं ये प्रयच्छन्तीत्युपक्रम्य—
रचितं वालकेनाथ यदुशीरेण निर्मितम्।
प्रदाय व्यजनं श्राद्धे मनस्तापं न विन्दति॥
पट्टसूत्रेण रचितं वस्त्रैरन्यैरथापि वा।
प्रयच्छेत्तालवृन्तं यः स भूपालो न संशयः।
तालैर्दलैर्विरचितं कृतं भूर्जत्वचापि च॥
प्रदाय व्यजनं श्राद्धे महदारोग्यमाप्नुयात्।
कृतं च विदलच्छेदैः सुसूक्ष्मैश्चैव गुम्फितम्॥
दत्वा पितृभ्यो व्यजनमनन्तं सुखमश्नुते।
भविष्यपुराणे—
दर्पणं कलधौतेन निर्मलेन सुनिर्मितम्।
प्रतिपाद्य पितृभ्यो वै लोकं चान्द्रमसं व्रजेत्॥
विमलेनाथ कांस्येन पञ्चाशत्प
लिकेन तु ।
कल्पितंदर्पणं दत्वा तेजस्वी जायते ध्रुवम्॥
त्रिंशत्पलेन कांस्येन कृतमादर्शमण्डलम्।
पञ्चविंशति पञ्चापि दत्वा वै कान्तिमान् भवेत्॥
यो दर्पण विरचितं कांस्यस्य दशभिः पलैः।
प्रतिपादयते सोऽपि लभते चक्षुरुत्तमम्॥
स्कन्दपुराणे—
केशप्रसाधनं दत्वा करिदन्तावनिर्मितम्।
पितृकर्मणि धर्मात्मा सोऽश्विनोर्लोकमश्नुते॥
तालस्य नालिकेरस्य वेणोर्वेत्रस्य वा पुनः।
शलाकाभिर्विरचितं दत्वा केशप्रसाधनम्॥
सुभगश्च सुवेषश्च निश्चितं जायते नरः।
दारुणा निर्मितं दत्वा केशसंस्कारसाधनम्॥
प्राप्नोति सुन्दरान् केशान् दीर्घमायुश्च विन्दति।
वराहरोमरचितां सुवैषद्यस्य कारिणीम्॥
पितृभ्यः कुञ्चिकां दत्वा पुरुषः सुभगो भवेत्।
नारदीयपुराणे।
यस्तु भोजनपात्राणि पितृभ्यः प्रतिपादयेत्।
सौवर्णराजतादीनि तथा कांस्यमयान्यपि॥
स पुमान् पात्रतामेति सर्वासामपि सम्पदाम्।
धात्वादिनिर्मिता भुक्तिपात्राधारास्त्रिपादिकाः॥
उत्सृजन् स्वपितृप्रीत्यै प्रापयेत् ब्राह्मणालये।
स ज्ञातीनामशेषाणामाधारत्वं प्रपद्यते ॥
पतत्प्रहं धातुमयं ष्ठीवनाऽऽचमनादिषु।
उपयुक्तंश्राद्धकाले पितृभ्यः परिकल्पयेत्॥
द्विजस्य भवनस्थाने श्रियमाप्नोति पुष्कलाम।
पात्राधाराणां दानमात्रमेव न तु तेषु पात्राणि स्थाप्यानि। तेषां साक्षाद्भूमौ स्थापनविधानात् इति हेमाद्रिः।
वह्निपुराणे।
ताम्बूलं यो ददातीह मुनिकर्पूरसंयुतम्।
ऐश्वर्यंसोऽति विपुलं परत्रेह च विन्दति॥
यश्चूर्णपर्णपूगादिस्थापनार्थानि कृत्स्नशः।
दद्यात् ताम्बूलपात्राणि पूगाद्यैःपूरितानि च॥
तथा कर्पूरभाण्डञ्चकर्पूरेणाभिपूरितम्।
दिव्यं वर्षसहस्रं हि भुङ्क्तेभोगान् दिवि स्थितः॥
वायुपुराणे।पात्रदानानि प्रक्रम्य—
लवणेन तु पूर्णानि श्राद्धे पात्राणि दापयेत्।
रसाः समुपतिष्ठन्ति भक्ष्यं सौभाग्यमेव च॥
तिलपूर्णानि यो दद्यात् पात्राणीह द्विजन्मनाम्।
तिले तिले निष्कशतं स ददाति न सशयः॥
ब्रह्मवैवर्ते।
सुरभिद्रव्यतैलैस्तु गन्धवद्भिस्तथैव च।
पूरयित्वा सुपात्राणि श्राद्धे सत्कृत्य दापयेत्॥
गन्धवहा महानद्यः सुखानि विविधानि च।
दातारमुपतिष्ठन्ति युवत्यश्च पतिव्रताः॥
ब्रह्माण्डपुराणे।
वृक्षैर्मनोहरफलैर्लताभिश्च समाकुलान्।
आरामान् येप्रयच्छन्ति पितृभ्यो जलपूर्वकम्॥
ते चक्रवर्तिनो भूत्वा प्रशासति वसुन्धराम्।
ये पुष्पवाटिकां रम्यां वृक्षैः कतिपयैर्युताम्॥
प्रयच्छन्ति पितृभ्यस्ते भूमिपाला न संशयः।
येप्येकं फलितं वृक्षं लतामण्डपमेव वा॥
प्रयच्छति पितृप्रीत्यै ब्राह्मणानां महात्मनाम्।
बहुपुत्रा बहुधनास्ते दृश्यन्ते महीतले॥
ये तु क्रीत्वा तु लव्ध्वावा फलान्यादाय भक्तितः।
पितॄणां सम्प्रयच्छन्ति धनिनस्तेऽपि निश्चितम्। इति।
अथ हिरण्यालङ्कारादि।
तथा च नन्दिपुराणे। हिरण्यदानमुपक्रम्य—
अतः सम्पूज्य गन्धाद्यैर्वस्त्राद्यैरभिभूष्य च।
हिरण्यं सम्प्रदातव्यमिदमस्मै स्वधेति हि॥
दक्षिणादौ हि रजतं पित्र्ये कर्मणि शस्यते।
अलङ्काराः प्रदातव्या यथाशक्ति हिरण्मयाः॥
केयूरहारकटकमुद्रिकाकुण्डलादयः।
स्त्रीश्राद्धेषु प्रदेयाः स्युरलङ्कारास्तु योषिताम्॥
मञ्जीरमेखलादामकर्णिकाकङ्कणादयः ।
हारमाणिक्यवैडूर्यमुक्तागारुत्मतादिभिः ॥
रत्नैर्विरचिताः स्वच्छेरलङ्कारा मनोहराः ।
पितृभ्यः सम्प्रदातव्या निजवित्तानुसारतः ॥
यानानि शिविकागन्त्रीतुरङ्गादीनि यत्नतः ।
श्राद्धे देयानि विदुषा स्वसामर्थ्यानुसारतः ॥
अन्नानि च विचित्राणि स्वादूनि सतिलानि च ।
दातव्यानि यथाकाम पितृभ्यो ददता सदा ॥
एवं यः कुरुते श्राद्धं श्रद्धया धार्मिकोत्तमः ।
प्रक्षीणाशेषपापस्य तस्य संशुद्धचेतसः ॥
विच्छिन्नक्लेश जालस्य मुक्तिरेवामलं फलम् ।
आदित्यपुराणे ।
पितॄन् सम्पूज्य वासाद्य हिरण्य प्रददाति यः ।
तुलादानसम पुण्यं लभते नात्र संशयः ॥
रजतस्य प्रदानेन गोसहस्रफलं लभेत् ।
दक्षिणार्थं पृथक् देयं स्वर्णं रूप्यमथापि वा ।
तेनास्य वर्द्धते लक्ष्मीरायुर्दीर्घं च विन्दति ॥
अलङ्कारविशेषदाने फलविशेषः ।
स्कन्दपुराणे ।
मूर्द्धालङ्करणं दत्वा श्राद्धे बहुधनोचितम् ।
मूर्द्धाभिषिक्तांभवति पृथिव्यां नात्र संशयः ॥
कर्णभूषणदानेन निश्चितं स्याद् बहुश्रुतः ।
कटकालङ्कृतिदानान्तु वाग्मी स्यान्मधुरस्वरः ॥
मेधावी जायते विद्वान् दन्तैर्हृदयभूषणैः ।
जायते बाहुभूषाभिः प्रदत्ताभिर्महाबलः ॥
हस्तालङ्करणं दत्वा दाता भवति विश्रुतः ।
स विश्ववन्द्यो भवति यो दद्यात् पादभूषणम् ॥
स्वर्गच्युतानि ह्येतानि फलान्युक्तानि सूरिभिः ।
पितृभूषणदानस्य स्वस्वमुख्यतमं फलम् ॥
रत्नजैर्भूषणैर्दत्तैर्न मुक्तिरपि दुर्लभा ।
ब्रह्मपुराणे।
यद्यद् देयं विशिष्टं च तत्तद् देयं पितॄन् प्रति।
तत्राप्यन्नं जलं वस्त्रं भूषणानि विशेषतः॥
यामान्यपि प्रदेयानि पितॄणां परितृप्तये।
यानदाने विष्णुधर्मोत्तरे विशेषः।
शिविकां यः प्रयच्छेतु सर्वोपकरणैर्युताम्।
दोलावाहनकर्मिभ्यो वृत्तिं संवत्सरोचिताम्॥
वर्षपर्याप्तमशनं कुटुम्बार्थं द्विजस्य तु।
छत्रप्रदानमप्येव कर्तव्य पितृकर्माणि॥
यस्तु चित्रगतिं दद्यात् तुरङ्गं लक्षणान्वितम्।
श्राद्धेषु तस्य देहान्ते सूर्यलोकेऽक्षयस्थितिः॥
हेमाद्रौ चमत्कारखण्डे।
दद्यान्मतङ्गजं यस्तु युवानं चारुलक्षणम्।
स लोके लोकपालानामेकैकमयुतं वसेत्॥
तेजस्विनं चारुगतिं लक्षण्यं यस्तुरङ्गमम्।
दद्यात् पितृभ्यो विजयस्तस्याप्रतिहतो भवेत्॥
रथं ददाति यो रम्यं युग्मैर्युक्तं तुरङ्गमैः।
उक्षभिर्वा महाकायैस्तरुणैः सर्वलक्षणैः॥
महाहवेषु कुत्रापि न तस्य स्यात् पराजयः।
गन्त्रीं वा शकटं वापि लोहचक्राक्षकुवराम्॥
दत्वा पितॄणामाप्नोति धनर्द्धिमतिभूयसीम्।
अथ गोमहिष्यादिदानम्।
मत्स्यपुराणे।
श्राद्धेगावो महिष्यश्च बलीबर्दास्तथैव च।
प्रदातव्या महोष्ट्राश्च यच्चान्यद् वस्तु शोभनम्॥
हेमाद्रौ बृहद्विष्णुपुराणे।
तरुणीं सुखसन्दोह्यां जीवद्वत्सां पयस्विनीम्।
ददाति धेनु विप्रेभ्यस्तृप्तिमुद्दिश्य पैतृकीम्॥
यस्तस्यऽसौदिविस्थस्य संर्वकामदुधा भवेत्।
सुशीलां लक्षणवर्ती सवत्सां बहुदोहनाम्॥
दत्वा पितृभ्यः कपिलां घण्टाचामरभूषणाम्।
मुञ्जवल्काद्यथैषीका पृथक् भवति निर्मला॥
एवं स सर्वपापेभ्यः पृथक् भवति निर्मलः।
अयुतानां शतं साग्रब्रह्मलोके महीयते॥
ददाति यस्तु महिषीमव्यङ्गाङ्गीमकोपनाम्।
भूरिक्षीरां गुणवतींसापत्यां बहुसर्पिषम्॥
क्षीरस्य सर्पिषो दध्नः परिपूर्णा दिविह्रदाः।
पितॄनस्योपतिष्ठन्ति यावदाभूतसंप्लवम्॥
दातापि स्वर्गमाप्नोति वर्षाणामयुतानि षट्।
यस्तु धुर्यान् बलीबर्दान् पृष्ठे भारवहानपि॥
अविद्धनासिकान् दद्यात् अक्षुण्णवृषणांस्तथा।
वृषरूपःस्वयं धर्मःतस्य साक्षात् प्रसीदति॥
क्रमेलकान् भारवहान् बहुयोजनगामिनः।
येऽलङ्कृत्य प्रयच्छति राजानस्ते न संशयः॥
अजाश्चैवावयश्चैव महिषा भारवाहनाः।
पितृभ्यः सम्प्रदातव्याः सर्वपापक्षयार्थिना॥
गवां वर्णविशेषात् फलविशेषो नारदीये।
दत्त्वापितृभ्यः श्वेतां गां श्वेतद्वीपे महीयते।
प्रदाय धेनुं कृष्णाङ्गीं यमलोकं न पश्यति॥
पीतवर्णा तु गां दत्त्वा न शोचति कृताकृते।
प्रदाय रोहिणीं धेनुं सर्वंतरति दुष्कृतम्॥
रोहिणीं=रक्ताम्।
नीलां च सुरभिं दत्त्वा वंशच्छेदं न विन्दति।
अन्येन येन येनापि धेनुं वर्णेन लक्षिताम्।
दत्त्वा पितृभ्यो जयति लोके सुखमनुत्तमम्॥
स्कन्दपुराणे।
उष्ट्रीं वेगवहां यस्तु दद्यादुष्ट्रानथापि वा।
तस्येस्वर्गे प्रयातस्य गतिर्नैव विहन्यते॥
पशूनजाविकांश्चैव यस्तु श्राद्धे प्रयच्छति।
प्रज्ञया पशुभिश्चैव गृहं सुपरिपूर्यते॥
अथ भूगृहपुस्तकाभयादिदानम्।
ब्रह्मपुराणे।
यथाशक्त्या प्रदातव्या भूमिः श्राद्धे विपश्चिता।
पितॄणां सम्पदे सा हि सर्वकामप्रसूर्यतः॥
गारुडे विशेषः।
गृहाणि च विचित्राणि पितृभ्यो यः प्रयच्छति।
जाम्बूनदमयं दिव्यं यथाकामगमं शुभम्॥
सर्वसम्पत्समोपेतं विमानं सोऽधिरोहति।
ब्रह्माण्डपुराणे।
ग्रामं वा खर्वटं चापि पितृभ्यः प्रददाति यः।
शक्रस्य भवनं गत्वा यावदिन्द्रं स वर्तते॥
श्राद्धे ददाति यः क्षेत्रं दशलाङ्गलसम्मितम्।
पञ्चलाङ्गलिकं वापि यद्वा गोचर्ममात्रकम्॥
अलाभेद्विहलं वापि हलमात्रमथापि वा।
लाङ्गलैः स बलीबर्दैर्योक्त्रतोत्रादिसंयुतैः॥
अन्वैश्चैवोपकरणैरज्जुफालादिभिर्युतम्।
वाजपेवस्य यज्ञस्य स फलं प्राप्नुयान्नरः॥
काले स्वर्गात् परिभ्रष्टो भूपतिर्धार्मिको भवेत्।
खर्वटो=नृहीनो ग्रामः।दशलाङ्गलसम्मितम्=दशभिर्लाङ्गलैर्यावत्क्रष्टुं शक्यते तावत् क्षेत्रमिति।एवमग्रेऽपि।
गोचर्मलक्षणं तु।
विंशद्धस्तेन दण्डेन त्रिंशद्दण्डानि वर्तनम्।
दश तान्येव गोचर्ममानमाह प्रजापतिः॥
इति स्मृत्यन्तरोकम्।
ब्रह्मपुराण एव।
शालीनामथवेक्षूणां यवगोधूमयोरपि।
माषमुद्गतिलानां च क्षेत्रमुत्पत्तिहेतुमत्॥
पितॄणां यत्नतो दत्वा विष्णोः सालोक्यमाप्नुयात्।
पुनर्मानुषमायातो धनधान्यसमन्वितः॥
तेजसा यशसा युक्तो विद्वान् वाग्मी च जायते।
गृहं पक्वेष्टकचितं सुधामिर्धवलीकृतम्।
मत्तवारणशोभाढ्यं गवाक्षद्वारभित्तिमत्॥
अनेकभूमिसंयुक्तमेकभूमिकमेव च।
पितृभ्यो यो ददातीह स यानि ब्रघ्नविष्टपम्॥
दत्वा गृहं पितृभ्यस्तु तृणच्छन्नमथापि वा।
लभतेऽग्न्याणि वेश्मानि स्त्रीमन्ति धनवन्ति च॥
पुस्तकानि सुवाच्यानि सच्छास्त्राणां ददाति यः।
ब्राह्मणानां कुले यज्वा जायतेऽसौ बहुश्रुतः॥
हेमाद्रौ चमत्कारखण्डे विशेषः।
पुस्तकानि पितृभ्यस्तु वेदाङ्गानां ददाति यः।
स श्रोत्रियान्वये भूत्वा जायते वेदवित्तमः॥
दत्वा व्याकरण तु स्यात् शश्वत् शब्दविदां वरः।
मीमांसायाः प्रदानेन सोमयाजी भवेन्नरः॥
प्रदाय न्यायशास्त्राणि भवेद् विद्वत्तमः पुमान्।
पुराणदाता भक्तः स्यात् पुराणपुरुषे हरौ॥
मन्वादिधर्मशास्त्राणां दानाद् भवति धार्मिकः।
कलाशास्त्रप्रदानेन कलासु कुशलो भवेत्॥
यः श्राद्धदिवसे विद्वान् प्राणिनामभयं दिशेत्।
भयं न तस्य किञ्चित् स्यात् इह लोके परत्र च॥ इति।
सौरपुराणे।
यद्यस्य भयमुत्पन्नं स्वतो वा परतोऽपि वा।
श्राद्धकर्मणि सम्प्राप्ते तत् तस्यापनयेत् सुधीः॥
राजतश्चोरतो वापि व्यालाच्च श्वापदादपि।
सञ्जातमुद्धरेद्भीत पितृकर्माणि शक्तितः॥
एकतः क्रतवः सर्वे इत्यादि अभयदानप्रशंसामभिधायाह स एव।
यथा ह्यभयदानेन तुष्यन्ति प्रपितामहाः।
न तथा वस्त्रपानान्नरत्नालङ्कारभोजनैः॥
एतस्मादभयं देयं श्राद्धकाले विजानता॥ इति।
वामनपुराणे।
बन्दीकृतास्तु ये केचित् स्वयं वा यदि वा परैः।
येन केनाप्युपायेन यस्तान् मोचयते नरः॥
पितरस्तस्य गच्छन्ति शाश्वतं पदमव्ययम् ।
अञ्जनाभ्यञ्जनादयो ब्रह्मवैवर्ते ।
अञ्जनाभ्यञ्जनं चैव पितृभ्यां प्रतिपादयेत् ।
सूक्ष्मं चाभिनवं सूक्ष्मं पिण्डानामुपरि न्यसेत् ॥
तत्र द्रव्यनियमो ब्रह्मवैवर्ते प्रभासखण्डवायुपुराणेषु ।
श्रेष्ठमाहुस्त्रैककुदमञ्जनं नित्यमेव च ।
दीपात् कृष्णतिलोद्भूततैलजाद् यन्न धारितम् ।
त्रिककुदि पर्वतविशेषे भवं त्रैककुद=श्रोताञ्जनमिति यावत् ॥
ब्रह्माण्डपुराणे ।
पेषयित्वाञ्जनं सम्यग् वेद्या उत्तरतो बुधः ।
गृहीतदर्भपिञ्जूलैस्त्रिभिः कुर्याद्यथाविधि ॥
एकं पवित्रं हस्ते स्यात् पितॄणां तु पृथक् पृथक् ।
तैलं पात्रेण दातव्यं पिण्डेभ्योऽभ्यञ्जन हि तत् ॥
ब्रह्मवैवर्ते ।
तिलतैलेन दातव्यं तथैवाभ्यञ्जनं बुधैः ।
असावङ्क्ष्व तथाभ्यङ्क्ष्वेत्यञ्जनादीनि दापयेत् ॥
असावेतत्त इत्येवं सूत्रं चापि नियोजयेत् ।
इत्येवमञ्जनं दत्वा चक्षुष्मान् जायतेनरः ॥
अभ्यञ्जनप्रदानेन लभते रूपमुत्तमम् ।
लभेद् वस्त्राण्यनन्तानि पिण्डे सुत्रप्रदानतः ॥
वायुपुराणे ।
अञ्जनाभ्यञ्जनं चैव पिण्डनिर्वपणं तथा ।
अश्वमेधफलेनैव संमितं मन्त्रपूर्वकम् ॥
क्रियाः सर्वाः यथोद्दिष्टाः प्रयत्नेन समाचरेत ।
ब्रह्मपुराणे ।
क्षौमं सूत्रं नवं दद्याच्छणकर्पासजं तथा ।
पत्रोर्णं पट्टसूत्रं च कौशेय च विवर्जयेत् ॥
पत्रोर्णम्=धौतकौशेयम् ।
वर्जयेत्तु दशाः प्राज्ञोयद्यप्यहतवस्त्रजाः ।
न प्रीणन्ति तथैवाभिर्दातुश्चाप्यफलं भवेत् ॥
आपस्तन्बेन तु दशा देयेत्युक्तम् ।
वाससो दशां छित्वापि निदधात्, ऊर्णास्तुकां वा पूर्वे वयसि, उत्तरे स्वं लोमेति। ऊर्णास्तुका=मेषलोमानि
कात्यायनः।
एतद्व इत्यपास्यति सुत्राणि प्रतिपिण्डं ऊर्णादशा वा, वयस्युत्तरे यजमानलोमानि वेति। उत्तरं वयः, पञ्चाशदुत्तरम्।“पञ्चाशत ऊर्द्धं उरोलोम यजमानस्य”इति शाट्यायनिवचनात्।
ब्रह्मपुराणे।
दद्यात् क्रमेण वासांसि दशां वां श्वेतवस्त्रजाम्॥ इति।
प्रकीर्णकदार्न प्रभासखण्डे।
लोके श्रेष्ठतमं सर्वमात्मनश्चापि यत् प्रियम्।
तत्तत् पितॄणां दातव्यं तदेवाक्षयमिच्छता॥ इति।
स्कन्दपुराणे।
अलङ्कारान्बहुविधान् काञ्चनेन विनिर्मितान्।
इत्यादिपूर्वोक्तसर्वदानान्यनुक्रम्य,
एतान्दद्यात्तु यः श्राद्धे पदार्थान् भोगसाधनान्।
न तस्य दुर्लभं किञ्चिदिह लोके परत्र च॥ इति।
विष्णुधर्मोत्तरे पितृगाथाः।
अपि स्यात् स कुलेऽस्माकं कश्चित् पुरुषसत्तमः।
दद्यात् कृष्णाजिनं यो वः स्वर्णशृङ्गविधानतः॥
अपि वा स्यात् कुलेऽस्माकं कश्चित् पुरुषसत्तमः।
प्रसूयमानां यो दद्यात् धेनुं ब्राह्मणपुङ्गवे॥
बौधायनः।
वापीकूपतडागानि वृक्षानाराममेव च।
शार्लाक्षुक्षेत्रकेदाराः समृद्धाः पुष्पवाटिकाः॥
श्राद्धेषु दत्त्वा प्रयतः पितॄन् आत्मानमेवच।
समुद्धरत्यसौ दुःखात् यावदाभूतसंयुतात्॥
वायुपुराणे—
धेनुं श्राद्धेषु वो दद्यात् गृष्टिं कुम्भोपदोहनाम्।
गावस्तमुपतिष्ठन्ति गवां पुष्टिश्च जायते॥
गृष्टि=प्रथमप्रसूता गौः। अत्रोपकरणेष्वेतेषु यानि श्राद्धाङ्गार्चनाङ्गभूतानि तानि नामगोत्राद्युच्चारणपूर्वकं पितृभ्यो देयानि गन्धादिव-
त्। यनि तु गोभूहिरण्यादीनि अर्चनानुपयोगीनितानि श्राद्धकाल एव दानप्रोक्तप्रकारेण देयानि, तेषां उपरागादिकाला- न्तरवच्छ्राद्धकालस्य तत्कालत्वेन विधानाच्छ्राद्धाङ्गत्वाभावात्। अत एव फलश्रवणमप्युपपद्यते।
तथा वह्निपुराणे।
शक्त्याथ दक्षिणा देया श्राद्धकर्मणि शक्तितः।
ग्रामक्षेत्राण्यथारामा विचित्राः पुष्पवाटिकाः॥
बहुभौमानि रम्याणि गृहाणि शयनानि च।
सुवर्णरत्नवासांसि रजतं भूषणानि च॥
अनडुहो महिष्यश्च विविधान्वासनानि च।
पादुका दासदासीश्च छत्रव्यजनचामरम्॥
लाङ्गलान् शकटान् गन्धान् गृहोपकरणानि च।
येन येनोपयोगोऽस्ति विप्राणामात्मनस्तथा॥
तत्तत् प्रदेयं श्राद्धेषु दक्षिणार्थं हितैषिणा।
यथा हि गुणद् द्रव्यं तच्च भूरि यथा तथा॥
जायते फलभूयस्त्वं श्राद्धकर्तुस्तथा तथा॥ इति।
ब्रह्मपुराणे—
यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे।
दक्षिणार्थं तु तद्देयं तस्य तस्याक्षयार्थिना॥
मत्स्यपुराणेऽपि।
सतिलं नामगोत्रेण दद्यात्शक्त्याथ दक्षिणाम्।
गोभूहिरण्यवासांसि यानानि शयनानि च॥
दद्याद्यदिष्टं विप्राणामात्मनः पितुरेव च।
वित्तशाठ्येन रहितः पितृभ्यः प्रीतिमाचरन्॥ इति।
ब्रह्माण्डपुराणे।
सौवर्णरुप्यपात्राणि मनोज्ञानि शुभानि च।
हस्त्यश्वरथयानानि समृद्धानि गृहाणि च॥
उपानत्पादुकाच्छत्रचामराण्यजिनानि च।
यज्ञेषु दक्षिणा पुण्या सेति संचिन्तयेत् तदा॥
या यज्ञेषु दक्षिणा सेयं दीयमानदक्षिणेति वुद्धिः कार्या।
सौरपुराणे।
वह्निभिर्दक्षिणाभिस्तु यःश्राद्धे प्रीणयेद् द्विजान्।
स पितॄणां प्रसादेन याति स्वर्गमनन्तकम्॥
अशक्तस्तु यथाशक्त्या श्राद्धे दद्यात्तु दक्षिणाम्।
अदक्षिणं तु यत् श्राद्धं ह्रियते तद्धि राक्षसैः॥
यज्ञोपवीतमथवा ह्यतिदारिद्र्यपीड़ितः।
प्रदद्याहक्षिणार्थं वै तेन स्यात् कर्म सहुणम्॥
इति श्रीमत्सकलसामन्तकचक्रचूड़ामणिमरीचिमञ्चरीनीराजितचरणकमलश्रीमन्महाराजाधिराजप्रतापरुद्रतनूजश्रीमन्महाराजमधुकरसाहसूनुचतुरुदधिवलयवसुन्धराहृदयपुरण्डरीकविकासदिनकरश्रीमन्महाराजाधिराजश्रीवीरसिंहदेवोर्जितश्रीहसपण्डितात्मजपरशुराममिश्रसूनुसकलविद्यापारावारपारीणधुरीणजगद्दारिद्र्यमहागजपारीन्द्रविद्वज्जनजीवातुश्री मन्मित्रमिश्रकृते वीरमित्रोदयाभिधनिबन्धे श्राद्धप्रकाशे उपकरणानि॥
<MISSING_FIG href=”../books_images/U-IMG-170019683560.PNG”/>
अथ श्राद्धदिनकृत्यम्।
तत्राह्रिकोक्तविधिना दन्तधावनरहितं प्रातःसन्ध्यान्तं कर्म कृत्वा स्वशाखोक्तविधानेन श्रौतस्मार्तहोमं च कृत्वा पूर्वोक्तंश्राद्धदेशं संस्कुर्यात्। तथाच,
ब्रह्माण्डपुराणे।
श्राद्धे भूमिः पञ्चगव्यैर्लिप्ता शोध्या तथोल्मुकैः।
गौरमृत्तिकथा छन्ना प्रकीर्णा तिलसर्षपैः॥
उल्मुकैः शोध्या=परितः उल्मुकादि निदध्यादित्यर्थः।
तत्र “ये रूपाणी”ति पिण्डपितृयज्ञोपदिष्टो मन्त्रः प्रयोज्य इति हेमाद्रिः। एवं संस्कृतायां भुवि यथोक्तानि पाकपात्राणि यथार्हं प्रक्षालनादिभिः संशोध्य पाकोपक्रमं कुर्यात्।
तथा च देवलः।
तथैव यन्त्रितो दाता प्रातः स्नात्वा सहाम्बरः।
आरभेत नवैः पात्रैरत्वारम्भं च बान्धवैः॥ इति॥
अशक्तः=स्वयं पाकारम्भं कृत्वा बान्धवैरन्वारम्भं समाप्तिं कारयेदित्युत्तरार्द्धार्थः।
पत्न्यां पाककर्तृत्वे लिङ्गं चमत्कारखण्डे।
ततश्च श्रपयामास तदर्थं जनकोद्भवा।
रामादेशात् स्वयं साध्वी विनयेन समन्विता।
अत्र रामादेशादित्यनेनास्यानुकल्पत्वं सुचितम्॥
अत्र विशेषो महाभारते।
रजस्वला च या नारी व्यङ्गिता कर्णयोस्तथा।
निर्वापे नोपतिष्ठेत संग्राह्मा नान्यवंशजा॥
निर्वापे=पाकारम्भप्रभृतिश्राद्धकर्माणि। अन्यवंशजा=मातृपितृवंशव्यतिरिक्तवंशसम्बन्धा। अत्र चौदनपाकोऽग्निमता , पितृभ्यो निर्वपामीति मन्त्रेणायुजो मुष्टीस्तण्डुलान्निरूप्य कर्तव्यः।
तथा च पाद्मे।
अग्निमान्निर्वपेत् पैत्रं (१59) चरु चासप्तमुष्टिभिः।
पितृभ्यो निर्वपामीति सर्वंदक्षिणतो न्यसेत्॥ इति।
अत्र चरुग्रहणादोदन एवाथंविधिः, न सूपादौ। अत एवात्रौदनोऽपि अनवस्त्रावितान्तरोष्मपक्वएव कार्यः, चरुशब्दस्य तत्रैव प्रसिद्धेः। श्राद्धीयद्रव्यस्य च, सकृत् प्रक्षालनं कार्यम्, “सकृत् प्रक्षालितं पितृभ्यः” इति गोभिलोक्तेः। अत्र च साग्निकेन श्राद्धार्थं वैश्वदेवार्थंच पृथक् पृथक् पाकः कर्तव्यः।
पित्रर्थंनिर्वपेत् पाकं वैश्वदेवार्थंमेव च
वैश्वदेवं न पित्रर्थंन दार्शं वैश्वदेविकम्॥
इति साझिकं प्रक्रम्य लौगाक्षिवचनात्। इदं च श्राद्धात् पूर्वं मध्ये वा वैश्वदेवकरणपक्षे सर्वेषां, श्राद्धोत्तरकाले तत्करणे तु (श्राद्धशेषात्।) एवं निरग्नेरपि श्राद्धशेषेणैव।
श्राद्धं निर्वर्त्य विधिवद् वैश्वदेवादिकं ततः।
इति पैठीनसिवचनान्। ततः=श्राद्धीयान्नादित्येवं सकलनिबन्धकाराः।
कर्कस्तु।
वैश्वदेवान्नादेव सर्वदा श्राद्धं कार्यमित्याह।
श्राद्धदिने च परिजनेनापि स्नात्वा शुचितया स्थेयम्॥
तथा च भविष्ये।
… … … … …।
… … … … …।
हारीतोऽपि।
कृतकर्माणः सस्त्रीवालवृद्धाः सुरभिस्नाताः शुचयः शुचिवाससः स्युरिति।
सुरभिस्नाताः=सुगन्धितैलादिद्रव्यस्नाताः। एतच्चाभ्युदयिकविषयमिति हेमाद्रिः। ततो निमन्त्रितानां ब्राह्मणानां पूर्वाह्ने एव श्मश्रुकर्तनं कारयेत्। स्नानाभ्यञ्जनं च दद्यात्।
तदुक्तं भविष्ये।
तैलेनोद्वर्तने स्नानं दद्यात् पूर्वाह्णएव तु।
श्राद्धभुग्भ्यो नखश्मश्रुच्छेदनं चापि कारयेत्॥ इति।
तत्र विशेषो देवलस्मृतौ।
ततोऽनिवृत्ते मध्याह्नेक्लृप्तरोमनखान् द्विजान्।
अभिगम्य यथामार्गं प्रयच्छेद् दन्तधावनम्॥
तैलमुद्वर्तनं स्नानं स्नानीयं स पृथग्विधम्।
पात्रैरौदुम्बरैर्दद्यात् वैश्वदेविकपूर्वकम्॥ इति।
क्ऌप्तरोमनखान्=कृत्तरोमनखान्।अनिवृत्त इति छेदः।
अत एव मार्क्कण्डेयः।
अह्णःषट्सु मुहूर्तेषु गतेषु प्रयतान् द्विजान्।
प्रत्येकं प्रेषयेत् प्रेष्यान् स्नानायामलकोदकम्॥
प्रेष्यप्रेषणं च स्वयं गमनाशक्तौ।अभिगम्येत्यनेन स्वस्यैव गमनप्रतीतेः। तैलदानं चानिषिद्धासु तिथिषु वेदितव्यम्। निषिद्धतैलासु तु आमलककल्कदानमिति हेमाद्रिः। तदपि च नामावास्यायां, “धात्रीफलैरमावास्यायां न स्नायात्” इति निषेधादिति स्मृतिचन्द्रिकाकारः।
अन्ये तु निषेधस्य पुरुषार्थत्वात् श्राद्धार्थत्वे तैलदानादिकं भवत्येवेत्याहुः।
वत्तुप्रचेतसोक्तम्।
तैलमुद्वर्तनं स्नानं दद्यात् पूर्वाह्ण एव तु।
श्राद्धभुग्भ्यो नखश्मश्रुच्छेदनं न तु कारयेत्॥
इति, तत् श्मश्रुच्छेदनं निषिद्धतिथिविषयम्। वस्तुतस्तु कर्तृविषयमिदं व्याख्येयम्।
अत्र चश्मश्रुकरणादि युगपदेव तावतो नापितानुपादाव कार्यं, न तु प्रतिब्राह्मणमावर्तनीयम्। प्रयोगविधिना तथावगमात्। अत्र च तैलोद्वर्तनादि स्नानीयदानान्त एक [एव] पदार्थः तथैव प्रसिद्धेः।
ततः श्राद्धकर्ता कुशजलव्यतिरिक्तं सर्वं द्रव्यजातमुपकल्प्य, नित्यस्नानद्रव्याण्यादाय यथालाभं तीर्थे कर्माङ्गस्नान कुर्यात्। तथा च श्राद्धमधिकृत्य भविष्ये।
कर्तुः स्नानं भवेत्तीर्थेप्रातर्मध्याह्न एव तु।
एताभ्यामेव स्नानाभ्यां प्रातर्मध्याह्निकस्नानयोस्नन्त्रेण सिद्धिर्ज्ञेया।
वाससि विशेषमाह प्रचेताः।“श्राद्धकृच्छुक्लवासाः स्यात्” इति। तिलके विशेषो वक्ष्यते।
ततो मध्याह्नसन्ध्यान्त कृत्वा श्राद्धार्थमुदकं कुशांश्चाऽऽहरेदिति हेमाद्रिः।
अन्ये तु कुशाऽऽहरण पाकात् पूर्वं कार्यम्, पाकोत्तरकरणे माना भावात्, ‘ऊष्णमन्नंद्विजातिभ्यः श्रद्धया प्रतिपादयेत्’इति वचनो कोष्णत्वासम्पत्तेः, दक्षेण सामान्यतो द्वितीयभागे तस्योक्तेश्च।
उदकाहरणे विशेषो भारत।
उदकाऽऽहरणे चैव स्तोतव्यो वरुणःप्रभुः॥ इति।
स्तोत्रे च वरुणदेवत्यो मन्त्रः स्वशाखानुसारेण ज्ञेयः। तीर्थोदकाभावे च शुद्धोदक मणिकादेर्ग्राह्यम्।“कुम्भाद्वा मणिकाद्वे” नि तस्य सर्वार्थत्वेन गोभिलेक्ते। तेनोदकेन कि कार्यमित्यपेक्षायामाह।
योगियाज्ञवल्क्यः।
तेनोदकेन द्रव्याणि प्रोक्ष्याऽऽचम्य पुनर्गृहे।
ततः कर्माणि कुर्वीत विहितानि च कानि चित्॥
ततो नृवराहपूजां कुर्यात्।
तथा च विष्णुधर्मोत्तरे।
श्राद्धानि प्रयतः स्नातः स्वाचान्तः सुसमाहितः।
शुक्लवासाः समभ्यर्च्यनृवराहं जनार्दनम्॥
आरभतेति शेषः।
शिवपुराणे।
पूजयित्वा शिव भक्त्या पितृश्राद्धं प्रकल्पयेत्।
अनयोश्चादृष्टार्थत्वात् समुच्चयः,तदतिक्रमनियमकारणाभा
वात्। उपासकभेदेन व्यवस्थेत्यपरे। उभयोरभिन्नत्वात् ईश्वस्पूजनाभिप्रायमिति तु तत्वम्। इति पूर्वाह्णकृत्यम्।
अथापराह्णकृत्यम्।
प्रभासखण्डे।
ततोऽपराह्णसमये प्राप्यकर्ता समाहितः।
स्वयं समाह्वयेत् विप्रान् सवर्णैर्वा समाप्नुयात्।
विष्णुपुराणे।
पादशौचादिना गेहमागतानर्चयेद् द्विजान्।
देवलः।
ततः स्नानान्निवृत्तेभ्यः प्रत्युत्थाय कृताञ्जलिः।
पाद्यमाचमनीयं च सम्प्रयच्छेद्यथाक्रमम्॥
इदं च पाद्यादि रथ्यारजाऽपनयनार्थम्।
मार्कण्डेयः।
स्नातः स्नातान् समाहूय स्वागतेनार्चयेत् पृथक्।
अत्रपृथगित्यभिधानात् युगपदागतेष्वांपे पृथगेव स्वागतप्रश्नः। अस्मिन्नवसरे पूर्वेद्युः द्वितीयं, तृतीयं च सर्वेषु वृत्तेषु।
वृत्तेषु=उपविष्टेषु। अत्र ब्राह्मणानामलङ्करणं कुर्यादित्याह।
यमः।
समाहूतानलङ्कुर्वीतेति।
अलङ्करणप्रकारश्च कूर्मपुराणे।
यथोपविष्टान् सर्वांस्तानलङ्कुर्वीत भूषणैः।
स्रग्दामभिः शिरोदेशे धूपदीपानुलेपनैः॥ इति।
इदं च मनुष्यसत्कारत्वात् यज्ञोपवीतिना कार्यमिति हेमाद्रिः। तथा प्रागुक्तं पाद्यादिकमपि। निमन्त्रणन्त्वपसव्येनेत्युक्तम्। तदनन्तरं गृहाङ्गणे मण्डलद्वयं गोमयेन [गोमूत्रेण] कार्यम्।
तथाच मात्स्ये।
[सेमार्जितायां कुर्वीत] भवनस्याग्रतो भुवि।
गोमयेनोपलिप्तायां गोमूत्रेण तु मण्डले।
शम्भुरपि ।
सम्मार्जितोपलिप्ते तु द्वारि कुर्वीत मण्डले ।
उदक्प्लव उदीच्यं स्यात् दक्षिणं दक्षिणाप्लवम् ॥
गोमये विशेषमाह जावालिः ।
अमेध्याशनशुन्यानां नीरुजां च तथा गवाम् ॥
अव्यङ्गानां च साद्यस्कं शुचि गोमयमाहरेत् ।
गोमयविशेषे निषेधमाह ।
भृगुः ।
अत्यन्तजीर्णदेहाया बन्ध्यायाश्च विशेषतः ।
आर्ताया नवसूताया न गोर्गोमयमाहरेत् ॥
मण्डलपरिमाणमाह ।
लौगाक्षिः ।
हस्तद्वयमितं कार्यं वैश्वदेविकमण्डलम् ।
तद्दक्षिणे चतुर्हस्तं पितॄणामङ्घ्रिशोधने ॥
संग्रहे तु परिमाणान्तरमुक्तम् ।
प्रादेशमात्रं देवाना मण्डलं चतुरस्रकम् ।
वितस्तिमात्रं पित्र्येतु मण्डलं वर्तुलं भवेत् ॥
मण्डलसमीपे च गर्तः कार्य इत्याह स एव ।
गर्तः पञ्चाङ्गुलो विप्रे जानुमात्रो महीभुजि ॥
प्रःदेशमात्रो वैश्ये स्यात् साधिकः स्यात्तु शूद्रके ॥ इति ।
तिर्यगूर्द्ध प्रमाणेन स्वातव्यो दैवपित्र्ययोः ।
बौधायनः ।
चतुरस्रं त्रिकोणं च वर्तुलं चार्द्धचन्द्रकम् ।
कर्तव्यमानुपूर्वेण ब्राह्मणादिषु मण्डलम् ॥
अयं च प्रकारः सङ्ग्रहोक्तेन वर्तुलत्वादिना विकल्पते । मण्डलयोश्छादनमाह ।
व्याघ्रपादः ।
उत्तरेऽक्षतसयुक्तान् पूर्वाग्रान् विन्यसेत् कुशान् ।
दक्षिणे दक्षिणाग्रांश्च सतिलान् विन्यसेद् द्विजः ॥
अक्षतग्रहणं गन्धपुष्पाद्युपलक्षणार्थम् । “अक्षताभिः सपुष्पाभिस्तदभ्यर्च्य” इति मत्स्यपुराणात् । अत्र च मण्डलकरणं तत्पूज-
नञ्च विधिभेदेन पृथक् पदार्थः। पृथक् पदार्थत्वात् क्रमेणानुष्ठेयम्। एव मण्डलपूजोत्तरं ब्राह्मणपादप्रक्षालन कार्यम्।
तथा च मात्स्ये।
अक्षताभिः सपुष्पाभिस्तदभ्यर्च्याऽपसव्यतः।
विप्राणां क्षालयेत् पादावभिवन्द्य पुनः पुनः॥
तश्च दैवपूर्वम्। “पाद्यं चैव तथार्ध्यंच दैवे आदौ प्रदापयेत्” इति स्मृत्यन्तरात्।
अत्र विशेषो ब्रह्माण्डपुराणे।
इदं वः पाद्यमर्धंच चतुर्थ्यन्तं निवेदयेत्।
अत्र मन्त्रो ब्रह्मनिरुक्तो।
शत्रोदेवीति मन्त्रेण पाद्यं चैव प्रदापयेत्॥
भविष्ये।
अक्रोधनैः पठित्वा तु दद्यात् पाद्यं ततः परम्।
एतत्ते पाद्यमित्युक्त्वा दद्यात् तोयं सपुष्पकम्॥
एतदाचमनीय चेत्याभाष्याचमनीयकम्॥ इति।
इदं पाद्याचमनीयदानं पाद्यासनान्तरभावि भिन्नमेव, अत्रैवाग्रे पुनरभिधानात्। अत्र च पाद्यार्घाचमनीयदानानां पृथक् पदार्थत्वात् पदार्थानुसमयः कार्यः। आचमनीयं च मण्डलादुत्तरत उपविष्टेभ्यो ब्राह्मणेभ्यो दद्यात्।
मण्डलादुत्तरे देशेदद्यादाचमनीकम्।
इति लौगाक्षिवचनात्।
ब्राह्मणैश्च तथाऽऽचान्तव्य यथाऽऽचमनोदकपाद्योदकयोर्मिंथः संसर्गो न भवेत्।
वत्राचमनवारीणि पादप्रक्षालनोदकैः।
सङ्गच्छन्ते बुधाः श्राद्धमासुरं तत् प्रचक्षते॥
इति नारदीयोक्तेः। अत्रावशिष्टपादप्रक्षालनोदकं तन्मण्डलोपरि आचारान्निक्षिपेत्। ततो द्विराचम्य द्विजैः सह श्राद्धभूमिभागत्य श्राद्धसिद्धिरस्तु, इति पृष्ट्वा तैश्चास्तु इति उक्त आसनान्युपकल्पयेत्।
तथा च क्रतुः।
दर्भपाणिर्द्विराचम्य लघुवासा जितेन्द्रियः।
परिश्चिते शुचौ देशे गोमयेनोपलेपिते॥
दक्षिणाप्रवणे सम्यगाचान्तान् प्रणतान् शुचीन्।
आसनेषु सदर्भेषु विविक्तेषूपवेशयेत्॥
यमोऽपि।
ततः सिद्धिमिति प्रोच्य कल्पितेष्वासनेष्वपि।
आसध्वमिति तान् ब्रूयादासनं संस्पृशन्नपि॥
प्रोच्य=वाचयित्वा।
अत्रिः।
विप्रासनानि देयानि तिलांश्चैव कुशैः सह।
पृथक् पृथक् त्वासनानि तिलतैलेन दीपिकाः॥
तैलग्रहणं घृताद्युपलक्षणार्थम्।आसनानि=कुतुपाख्यकम्बलादीनि पूर्वोक्तानि।
देवलः।
ये चात्र विश्वदेवानां विप्राः पूर्वं निमन्त्रिताः।
प्राङ्मुखान्यासनान्येषां द्विदर्मोपहतानि च।
दक्षिणामुखयुक्तानि पितॄणामासनानि च ॥
दक्षिणाग्रैकदर्भाणि प्रोक्षितानि तिलोदकैः।
मुखशब्देन पीठादौ कल्पितं मुखं कम्बलादौ च दशा उच्यते। आसनानि च परस्परासंसृष्टानि स्थापनीयानि “आसनेषु विविक्तेषु सदर्भेषूपेवशयेत्”इतिक्रतुवचनात्।
अत्र हेतुमाह ।गार्ग्यः।
स्पर्शे स्पर्शे भवेत् पापमेकपङ्क्तिनियोगतः।
हीनवृत्तादिपङ्क्तौच युक्त तस्माद्विवेचनम् ॥
विवेचन्=पङ्किभेदः।
तत् साधनमाह। बृहस्पतिः।
एकपङ्क्तयुपविष्टा ये न स्पृशन्ति परम्परम्।
भस्मना कृतमर्यादा न तेषां सङ्करो भवेत्॥
इद चासनदानादि देवपूर्वक कार्यम् “दैवपूर्व श्राद्ध” मिति कातीयोक्तेः।
[ दैवपित्र्य
श्राद्धणानां दिग्विशेषाभिमुख्यप्रकारोऽपि।
द्वौ दैवेऽथर्वणौ विप्रो प्राङ्मुखावुपवेशयेत्।
पित्र्ये तूदङ्मुखांस्त्रींश्च ] बह्वृचाध्वर्युसामगान्॥
इति शातातपोक्तेः।
अत्र विशेषः पैठीनसिनोक्तः।
प्राङ्मुखान् विश्वेदेवानुपवेशयेत्, हविष्मत्सु आसनेषु पितॄन् दक्षिणपूर्वेणेति।
दक्षिणपूर्वेण=दक्षिणपूर्वाभिमुखानित्यर्थः। अथवा देवब्राह्मणापेक्षया दक्षिणस्यां दिशीत्यर्थ।
हारीतेन तु। पित्र्यब्राह्मणानां पूर्वाभिमुखतया दैविकानां चोत्तराभिमुखतयोपवेशनमुक्तम्।
दक्षिणाग्रेषु दर्भेमु प्राङ्मुखान् भोजयेत्।उदङ्मुखान् वैश्व देवे इति।
बौधायनेनाप्युक्तम्।
सदर्भोपक्लृप्तेष्वासनेषु द्वौ द्वौ दैवे, त्रीन् पित्र्ये, एकैकमुभयत्र वा प्राङ्मुखानुपवेशयेदुदङ्मुखान् वेति।
तदेवमत्र दिग्विशेषाभिमुख्ये पञ्च पक्षा भवन्ति। तत्र वैश्वदेविकाःप्राङ्मुखाः, पित्र्यास्तूदङमुखा इत्येकः। [वैश्वदेवि- काप्राङ्मुखाः, पित्र्यास्तु दक्षिणपूर्वाभिमुखा इति द्वितीयः।वैश्वदेविका उत्तराभिमुखाः, पित्र्यास्तु प्राङ्मुखा इति तृतीयः। वैश्वदेविकाः प्राङ्मुखाः, पित्र्यास्तूदङ्मुखा इति चतुर्थः।] वैश्वदेविका उदङ्मुखाः पित्र्याः प्राङ्मुखा इति पञ्चमः। अत्र स्वस्वगृह्यानुसारेण व्यवस्था।स्वगृह्ये विशेषानाम्नाते तु वैश्वदेविकानां प्राङ्मुखत्वं पितॄणामु- दङ्मुखत्वमिति। अयमेव पक्षोऽङ्गीकर्तव्यो बहुस्मृतिसंमतः। अत्र दैवं प्रदक्षिणोपचारेण पितॄणामप्रदक्षिणोपचारेण कार्यम्।“प्रदक्षिण तु देवाना पितृृणामप्रदक्षिण” मिति बौधायनोक्तेः।
तथा च कात्यायने।
पिण्डपितृयज्ञवदुपचारः पित्र्ये।
पित्र्ये=पितृब्राह्मणे।पिण्डपितृयज्ञवदुपचारः =पिण्डपितृयज्ञवत् क्रिया। अपसव्यम् दक्षिणाभिमुखेन कर्तव्यम्, दक्षिणसंस्थ कर्तव्यमिति वा।
तथा च यमः।
दक्षिणसंस्था आसीरन् नस्पृशेयुः परस्परम्॥ इति।
दक्षिणबाहुभागे संस्था येषां ते दक्षिणसंस्था इति विग्रहः। एतश्च ब्राह्मणपङ्क्तेःपश्चिमोपक्रमप्रागपवर्गत्वे एवोपपद्यते। अत एवाह।
छागलेयः।
प्रतीच्यां समुपक्रम्य प्राच्यां निष्ठा यदा भवेत्।
दक्षिणासस्थता ह्येषां पितॄणां श्राद्धकर्मणि॥ इति।
ततश्च प्रादक्षिणविधानात् दक्षिणादिगुपक्रममुदगपवर्गंविश्वेदेवानामुपवेशनम् पश्चिमोपक्रम पूर्वदिगपवर्गंपितृृणाम्।
अत्र विशेषः शङ्खलिखिताभ्यामुक्तः।
ब्राह्मणानुपसंगृह्योपवेशयेदासनमन्वालभ्येति।
यमः।
आसनं संस्पृशन् सव्येन पाणिना दक्षिणेन ब्राह्मणानुपसंगृह्य समाध्वमिति चोक्त्वोपवेशयेत्। इति।
व्यासस्तु।
आसतामिति तान् ब्रूयादासन संस्पृशन्नपि।
उपस्तीर्णेषु चासीरन् न स्पृशेयुः परस्परम्॥
उपवेशने मन्त्रो धर्मेणोक्तः।
अन्वालभ्य ततो देवानुपवेश्य ततः पितॄन्।
समस्ताभिर्व्याहृतिभिरासनेषूपवेशयेत्॥
पैतृकाणामेवोपवेशने व्याहृतय इत्यपरार्कस्मृतिचन्द्रिकाकारौ।
अन्येतु—
उभयेषामपि व्याहृतिभिरुपवेशनमिच्छन्ति॥
श्राद्धकौमुद्यां तु भविष्यपुराणे।
यवोदकेन संप्रोक्ष्य स्पृष्ट्वा च पाणिनाऽऽसनम्।
सव्याहृतिकां गायत्री जप्त्वा तानुपवेशयेत्॥
एवं पित्रादिविप्राणामासनान्युपकल्प्य च।
तिलोदकैश्च संप्रोक्ष्य जप्त्वा तानुपवेशयेत्॥
इत्युभयेषामासनदानात पूर्वं सव्याहृतिजप एवोक्तः। अत्र हेमाद्रौसमन्त्रकमुपवेशनप्रयोगवाक्यं ॐ भूर्भुवः स्वः, समाध्वमिति वा, अत्रास्यतामिति वा, यजमानेनोच्चारणोयम्। तदनन्तरं द्विजेरपि ॐ सुसमास्मह इति प्रतिवद्भिरूपवेष्टव्यम्। एवं पित्रादिश्राद्धार्थान् ब्राह्मणानुपवेश्य मातामहश्राद्धार्थानप्युपवेशयेदित्युक्तम्। तत्र महाव्याहृतिसमाध्व- मित्येतयोः करणमन्त्रत्वेनाऽऽम्नातयोरेकार्थयोर्विकल्प एव युक्तो न समुच्चयो वचनाभावत्। व्याहृतिगायत्र्या
जपार्थत्वे तु भिन्नार्थत्वाद्युक्त एव समुच्चयः। उपविष्टब्राह्मणनि यमानाह।
सुमन्तः।
पवित्रपाणयः सर्वे ते च मौनव्रतान्विता।
उच्छिष्टोच्छिष्टसंस्पर्श वर्जयन्तः परस्परम्॥ इति।
अत्र मौनित्व च ब्रह्मोद्यकथाव्यतिरिक्तविषयम्। तथा च यम। ब्रह्मोद्याश्चकथाः कुर्युः पितृृणामेतदीप्सितम्। इति। इति ब्राह्मणोपवेशनम्।
अथ पुण्डरीकाक्षस्मरणादिकृत्यम्।
तत्रासनोपविष्टब्राह्मणानामग्रतः कुशैरास्तृतायां भुवि यज्ञोपवीती प्राङ्मुख उपविश्याविज्ञाताशुचिश्वनिवृत्यर्थं पुण्डरीकाक्षस्मरणं कुर्यात्।
तथा चाह क्रतुः—
अपवित्रः पवित्रो वा सर्वावस्था गतोऽपि वा।
यः स्मरेत् पुण्डरीकाक्ष स बाह्याभ्यन्तरः शुचिः॥ इति।
एवं पुण्डरीकाक्षस्मरण कृत्वा पृथिवीस्तुतिं कुर्यात् तथा च महाभारतेनिर्मि प्रति अत्रिवाक्यम्।
स्तोतव्या चेह पृथिवी निवापाश्च्योतधारिणी।
वैष्णवी काश्यपी चेति तथैवेह क्षयेति च॥
निवापे पितृदेवत्यद्रव्यत्यागे य आश्च्योतः प्रक्षेप्तव्यं द्रव्यं तस्याधारभूता यस्मात्, तस्मात् पूर्वं पृथिवीस्तोतव्या वैष्णवीत्यादि पृथिवी स्तोतव्या।वैष्णवीत्यादि पृथक् नामपदैः इति करणाम्नानात्। ततश्च ॐ वैष्णव्यै नमः।काश्यप्यैनमः।क्षयायै नमः।क्षयशब्दो निवासवचनः। तथा च मन्त्रे।
रेवतीरमध्वमस्मिन् योनावस्मिन्गोष्ठेऽस्मिन् क्षय इति।
वराहपुराणे तु अक्षयेति पठ्यते।
प्रणम्य शिरसा भूमिं निवापस्य च धारिणीम्।
वैष्णवी काश्यपी चेति अक्षयेति च नामतः॥
तत्रैव पृथिवीं प्रति वराहवाक्यम्।
प्रणम्य शिरसा भूमिं निवापस्थानमागतः॥
स्तुवीतानेन मन्त्रेण त्वां च भक्त्योव्यवस्थितः।
मेदिनी लोकमाता च क्षितिस्तूर्वी धरा मही ॥
भूमिः शैलशिला च त्वं स्थिरा तुभ्य नमो नमः ।
धरणी काश्यपी क्षोणी रसा विश्वम्भरा चभूः ॥
जगत्प्रतिष्ठा वसुधा त्वं हि मातर्नमोऽस्तु ते ।
वैष्णवी भूतदेवी चपृथिवी त्वं नमोऽस्तु ते ॥ इति ।
एवं पृथिवीस्तुतिं कृत्वा श्राद्धभूमिं गयात्मकत्वेनाभिध्याय तत्र चगदाधरं ध्यात्वा तयोश्च नमस्कार कृत्वा तदुत्तरं श्राद्धं कुर्यात् ।
तदुक्तं ब्रह्माण्डपुराणे ।
श्राद्धभूमिं गयां ध्यात्वा ध्यात्वा देवेगदाधरम् ।
ताभ्यां चैव नमस्कारं ततः श्राद्ध प्रवर्तयेत् ॥
ताभ्यामिति=षष्टयर्थे चतुर्थी, नयोन्मस्कारं कृत्वेत्यर्थः । ततश्च ॐ गयायै नमः ।ॐ गदाधराय नमः । एवं गयागदाधरनमस्कारं कृत्वा जप्यान् मन्त्रान् जपेत् । तथा चाह—
प्रचेता ।
अपसव्यं ततः कृत्वा जप्त्वा मन्त्रं तु वैष्णवम् ।
गायत्रीं प्रणवं चापि ततः श्राद्धमुपक्रमेत् ॥
वैष्णवमन्त्रा “इदं विष्णुः”इत्यादयः ।
ब्रह्मपुराणे ।
उपविश्य जपेद् धीमान् गायत्रीं तदनुज्ञया ।
तथा ।
पापापहं पावनीयं अश्वमेधफलं तथा ।
मन्त्रं वक्ष्याम्यह तस्मादमृतं ब्रह्मनिर्मितम् ॥
देवताभ्यः पितृभ्यश्च महायोगिभ्यएव च ।
नमः स्वाहायै स्वधायै नित्यमेव नमो नमः ।
आद्यावसाने श्राद्धस्य (१)60 त्रिरावर्ता जपेत् सदा ॥
अश्वमेधफलं ह्येतद् द्विजः सत्कृत्य पूजितम् ।
पिण्डनिर्वपणे चापि जपेदेतत् समाहितः ॥
पठ्यमानमिदं श्रुत्वा श्राद्धकाल उपस्थिते ।
पितरः क्षिप्रमायान्ति राक्षसाः प्रद्रवन्ति च ॥ इति ।
तथा ।
अमूर्तीनां समूर्तीनां पितॄणां दीप्ततेजसाम् ।
नमस्यामि सदा तेषां ध्यायिनां योगचक्षुषाम्॥ इति।
तथा।
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च।
हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीद तु॥ इति।
अत्र कर्माङ्गभूतदेशकालयोः शिष्टाचारप्रामाण्येन संकीर्तनं कृत्वा ब्राह्मणाभ्यनुशाग्रहणार्थं वक्ष्यमाणेतिकर्तव्यतया पृच्छां कुर्यायत्। तदुक्तं—
ब्रह्माण्डपुराणे।
उभौ हस्तौ समौ कृत्वा जानुभ्यामन्तरे स्थितौ।
सप्रश्रयश्चोपविष्टान् सर्वान् पृच्छेद् द्विजोत्तमान्॥
श्राद्धं करिष्य इत्येवं पृच्छेद्विप्रान् समाहितः।
कुरुष्वेति स तैरुक्तोदद्यात् दर्भासनं ततः॥
सप्रश्रयो=विनयान्वितः। सर्वान् पृच्छेदिति= सर्वप्रश्नपक्षो वैकल्पिकः। तथा च कात्यायनः।
प्रश्रेषु पङ्क्तिमूर्धन्यं पृच्छति, सर्वान् वेति। प्रश्नेष्विति बहुवचननिर्देशात् सर्वप्रश्नविषयता। पङ्क्तिमूर्धन्यः= पङ्क्त्यादौ उपविष्टः। अत्र पृच्छाप्रकारे विशेषो—
ब्रह्मपुराणे।
पितॄन् पितामहान् पक्षे भोजनेन यथाक्रमम्।
प्रपितामहान् सर्वांश्च तत्पितृृंश्चानुपूर्वशः॥
भुज्यते तद्भोजनं तेनेत्यर्थः। सर्वान्=पितृपितामहप्रपितामहान्। तत्पितॄन्=प्रपितामहपितॄन् लेपभाजः।अनुपूर्वशः =अनुक्रमेणेत्यर्थः। अपृच्छायां दोषः—
कालिकाखण्डे।
अपृच्छन् प्रवरेद्यस्तु नरो विप्रांश्च पार्वति।
तस्य प्रियं मत्प्रमुखा नाचरन्ति दिवौकसः॥ इति।
अत्रप्रश्नानन्तरं कुरुष्वेति ब्राह्मणैरनुज्ञातो नीवीबन्धनं कुर्यात्। श्राद्धप्रकृतिभूते पिण्डपितृयज्ञे द्वितीयावनेज- नानन्तरम् ‘अथ नीवीमुद्धृत्य नमस्करोति पितृदेवत्या वै नीविरिति’नीविविस्त्रंसनोपदेशात्। कात्यायनसुत्रे च ‘नीवीं विस्त्रंस्य नमो व इति अञ्जलिं करोतीति’ततश्च विस्रंसनस्य बन्धनपूर्वकत्वात् तद्बन्धनस्याऽनाम्नानेऽपि तद्वन्धनं कर्मादौ कर्तव्यमित्यर्थसिद्धं भवति। तथा च तत्र
कर्काचार्या आहुः। अत्र नीविविस्नंसनविधानात् कर्मारम्भे नीवि बन्धः कर्तव्य इत्यर्थाद्गम्यत इति।
तथा भविष्यपुराणे।
बध्नीयात्तु तथा नीविं न व प्रेक्षेत दुर्जनम्।
स्यात् कर्ता नियतस्त्वेव यावच्छ्राद्धं समाप्यते॥
नीविर्विपरिवर्तिको व्यत ? इति सर्वयाज्ञिकाः। सा च वामभागकक्षा यावर्तनेन सिद्ध्यति।
हेमाद्रिकारास्तु।
नीविर्नाम तिलकुशान्वितानां परिहितवस्त्रोत्तराञ्चलदशानां वामकटिसल्लँग्नवस्त्रबहिर्भागेन संवेष्ट्य गोपनम्।
नीविश्रद्धालवस्तु “निहम्निसर्वंयदमेध्यवत्”इति तिलविकरणे दर्शयिष्यमाणं मन्त्रं नीविबन्धने पठन्ति।
अत्र केचिन्नीविबन्धनं वाजसनेयिनामेवेच्छन्ति। तेषामेव श्रुतिसुत्रयोर्विधानात्।
अपरे तु भविष्यपुराणात् सर्वशास्त्रिनामित्याहुः।
नीविबन्धनानन्तर श्राद्धरक्षार्थं वैश्वदेविकप्रदेशे यवान् विकिरेत्। तदुक्तं—
ब्रह्मपुराणे।
अक्षतैर्देवतानां व रक्षां चक्रे गदाधरः।
अक्षतास्तु यवौषध्यः सर्वदेवास्त्रसम्भवाः॥
रक्षन्ति सर्वंस्त्रिदशान् रक्षार्थं निर्मिता हि ते।
देवदानवदैत्येषु यक्षरक्षःसु चैव हि॥
न कश्चिद् दुष्कृतं तेषा कर्तुं शक्तश्चराचरे।
देवतानां हि रक्षार्थं नियुक्ता विष्णुना पुरा॥
एवं वैश्वदेविकप्रदेशे यवप्रकिरणं कृत्वा पित्र्यब्राह्मणप्रदेशे परितस्तिलान् गौरसर्षपांश्च प्रकिरेदिति। तदुक्तं—
निगमे।
“अपहता असुरा रक्षांसि बेदिषदः”इति तिलान् गौरसर्षपांश्च श्राद्धभूमौ घनं तिलान् विकिरेदिति।
घनम्=निविडम्।
ब्रह्माण्डपुराणे।
रक्षार्थं पितृसत्रस्य त्रिःकृत्वः सर्वतो दिशम्।
तिलांस्तु प्रक्षिपेन्मन्त्रमुच्चार्याऽपहता इति॥
अत्र प्रतीकेन अपहता असुरा रक्षांसि पिशाचा ये क्षयन्ति पृथिवीमनु।अन्यत्रेतो गच्छन्तु यत्रैषां गतं मन इति मन्त्रो विवक्षित इति हेमाद्रिः। मन्त्रान्तरमपि—
ब्रह्माण्डपुराणे।
परितः पितृविप्राणामपेतो यन्त्वितीरयेत्।
असुंय ईयुरितिचापसव्यं विकिरेत् तिलान्॥
अपेतो यन्तु पणयो सुना देवपीयवः।द्युभिरहोभिरक्तुभिर्व्यक्तं वमो ददात्वसानमस्मै।इति एको मन्त्रः। “असुंय ईयु” रिति च तत्प दैरुपलक्षित“उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः। असुय ईयुरवृका ऋतज्ञास्ते नोवन्तु पितरो हवेपु” इति ज्ञेयः।
मार्कण्डेयपुराणे।
रक्षोघ्नांस्तु जपेन् मन्त्रांस्तिलैश्च विकिरेन्महीम्।
सिद्धार्थकैश्च रक्षार्थं श्राद्धे हि प्रचुर छलम्॥
सौरपुराणे।
उपवेश्य ततो विप्रान् दत्वा चैव कुशासनम्।
पश्चाच्छ्राद्धस्य रक्षार्थं तिलांश्चविकिरेत् ततः॥
तथा भविष्यत्पुराणे।
सिद्धार्थकैः कृष्णतिलैः कार्यंवाप्यवकीरणम्।
रुरुसूर्याग्निवस्तानां दर्शनं चापि यत्नतः॥
विष्णुधर्मोत्तरे।
अपयन्त्यसुरा द्वाभ्यां यातुधाना विसर्जनम्।
तिलैः कुर्यात् प्रयत्नेन अथवा गौरसर्षपैः॥
अपयन्त्यसुराः पितृरूपा ये रूपाणि प्रतिमुच्याचरन्ति परापुरो निपुरो ये भरन्त्यग्निष्ठाल्लोँकात् प्रणुदात्वस्मात्।अपयन्त्यसुरा ये पितृषद उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः। असुंय ईयुरवृका ॠतज्ञा स्तेनोऽवन्तु पितरो हवेष्विति द्वौ मन्त्रौतथा तत्रैव।
निहन्मि सर्वंयदमेध्ववद्भवेत् धृताश्च सर्वेऽसुरदानवा मया।
ये राक्षसा ये च पिशाचगुह्यका हता मया यातुधानाश्च सर्वे॥
एतेन मन्त्रेण सुसंयतात्मा तिलान् सुकृष्णान् विकिरेच्चदिक्षु।
द्वारदेशे कुशतिलप्रक्षेपमन्त्रः—
स्कन्दपुराणे।
तिला रक्षन्त्वसुरान् दर्भा रक्षन्तु राक्षसान्।
पङ्क्तिंवै श्रोत्रियो रक्षेदतिथिः सर्वरक्षकः। इति॥
प्राच्यां दिशि दिक्षुमध्ये च तिलविकिरणे मन्त्रो—
भविष्यतपुराणे।
अग्निष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे दिशम्।
तथा बर्हिषदः पान्तु याम्यां ये पितरः स्मृताः।
प्रतीच्यामाज्यपास्तद्वदुदीचीमपि सोमपाः॥
अधोर्ध्वमपि कोणेषु हविष्मन्तश्च सर्वशः।
रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः॥
सर्वतश्चाधिपस्तेषां यमो रक्षां करोतु मे।
वायुभूतपितृृणान्तु तृप्तिर्भवतु शाश्वती॥ इति।
एवं तिलविकरणं कृत्वा दुष्टदृष्टिनिपातादिदूषितपाकादिश्राद्धीयद्रव्यस्य पवित्रमन्त्रैरद्भिःप्रोक्षणं कुर्यात्।
तथा च बशिष्ठ।
शुद्धवतीभिः कुष्माण्डीभिः पावमानीभिश्च पाकादि प्रोक्षेत्। शुद्धबतीभिः=छन्दोगैः पठ्यमानाभिः। कूष्माण्डैः= याजुषैः। पावमानीभिः=बह्वृचैः।ताश्च पूर्वमुक्ता एव।
भविष्ये।
ततः श्राद्धीयद्रव्याणि मृत्तिकातिलवारिभिः।
पितॄणान्तु समभ्युक्ष्य भवेत् कर्तोत्तरामुखः॥
अथ ब्राह्मणानामासनदानादिकृत्यम्।
तत्र देवपूर्वं श्राद्धमित्युक्तत्वात् पूर्वं देवे पश्चात् पित्रे।
तत्र यद्यपि।
पाणिप्रक्षालनं दत्वा विष्टरार्थं कुशानपि।
आवाहयेदनुज्ञातो विश्वे देवास इत्यृचा॥
यवैरन्ववकीर्याथ भाजने सपवित्रके।
शन्नोदेव्या पयः क्षिप्त्वा यवोसीति यवांस्तथा॥
या दिव्या इति मन्त्रेण हस्तेष्वर्घंविनिःक्षिपेत्।
दत्वोदकं गन्धमाल्य धूपदानं सदपिकम्॥
तथाच्छादनदान च करशौचार्थमम्बु च।
अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणम्॥
द्विगुणांस्तु कुशान् दत्वा उशन्तस्त्वेतृचा पितॄन्।
आवाह्य तदनुज्ञातो जपेदायन्तुनस्ततः॥
यवार्थास्तु तिलैः कार्याः कुर्यादर्घ्यादिपूर्ववत्।
दत्वार्धं संस्त्रवास्तेषा पात्रे कृत्वा विधानतः॥
पितृभ्यस्थानमसीति न्युब्जं पात्रं करोत्यधः।
इति याज्ञवल्क्येनासनाद्याच्छादनदानान्तान् काण्डानुसमयेन दैवान् पदार्थानभिधाय ‘अपसव्यं ततः कृत्वे’ त्यादिना काण्डानुसमये नैव पित्र्याः पदार्थाःअभिहिताः,
तथापि प्रयोगविध्यनुमतप्रधानप्रत्यासत्यनुग्रहरूपन्यायानुगृहीतकात्यायनसूत्राहैवपित्र्यक्रियासमवायिन आसनावाह- नादयः पदार्थानुसमयेनाप्यनुष्ठेयाः।
तथा च कात्यायनः।
आसनेषु दर्भानास्तीर्य विश्वान् देवानावाहायेष्येइति पृच्छति आवाहयेत्यनुज्ञातो “विश्वदेवास आगत” इत्यनयावा- ह्यावकीर्य “विश्वेदेवाः शृणुतेममिति जपित्वा”पितॄन् आवाहयिष्यत इति पृच्छति। आवाहयेत्यनुज्ञात “उशन्तस्त्वे” त्यनयावाह्यावकीर्य “आयन्तु न” इति जपित्वा यज्ञियवृक्षचमसेषु पवित्रान्तर्हितेष्वेकैकस्मिन्नप आसिञ्चति “शन्नोदेवी ” रिति। एकैकस्मिन्नेव तिलानावपति “तिलोसि सोमदैवत्यो गोसवो देवनिर्मितः। प्रत्नमद्भिः पृक्तः स्वधया पितॄल्ँलोकान् प्रीहि नः स्वाहे” ति सौवर्णराजतौदुम्बरखङ्गमणिमयानां पात्राणा मन्यतमेषु वा यानि वा विद्यन्ते पत्रपुटेषु वैकैकस्यैकैकेन ददाति, सपवित्रेषु हस्तेषु “या दिव्या आपः पयसा सम्बभूवुर्या अन्तरिक्षा उत पार्थिवीर्याः। हिरण्यवर्णा यज्ञियास्तान आपः शिवाः शं स्योनाः सुहवा भवन्तु इत्यसावेषते अर्ध इति प्रथमे पात्रे स<MISSING_FIG href=”../books_images/U-IMG-1700128485चान्द2.PNG"/>स्रवान् समवनीय “पितृभ्यः स्थानमसी”ति न्युब्ज पात्रं निदधाति। अत्र गन्धपुष्पधूपदीपवाससां च प्रदानमिति। अत्र पदार्थानुसमयपक्षे पूर्वं दैवब्राह्मणासने पश्चात् पित्र्यब्राह्मणासने दर्भास्तरणम्। एवमावाहनादिष्वपि द्रष्टव्यम्। अत्र यद्यपि उपवेशनोत्तरं कुशास्तरणं आम्नातम्। तथापि सामर्थ्याद्यवागूपाकवत् पूर्वमनुष्ठेयम्।
अत्र दर्भानिति बहुवचननिर्देशात् त्रयाणामास्तरणं कार्यम्। अत्रासनदानात् पूर्वं विप्रहस्ते पाणिप्रक्षालनार्थमुदकं देयम्। तथा च—
याज्ञवल्क्यः।
पाणिप्रक्षालनं दत्वा विष्टरार्थ कुशानपि।
आसने इति शेषः। नतु हस्ते। तथा च—
प्रचेताः।
दर्भांश्चैवासने दद्यान्नतु पाणौ कदा च न।
देवपितृमनुष्याणां स्यात् त्वष्टिः शाश्वती तथा॥
तथाक्रियमाणे, हस्ते दर्भासने प्रदीयमाने, तत्र देवपितृमनुष्यप्राजापत्यतीर्थानां सद्भावात् देवादीनां ममेदममेदमिति परस्परंत्वष्टि=कलहः स्यात्।
तथा च नागरखण्डे।
हस्ते तोयं परिक्षेप्यं न दर्भांस्तु कथं च न।
यो हस्ते चासनं दद्यात् तं दर्भंबुद्धिवर्जितः॥
पितरो नासने तत्र प्रकुर्वन्ति निवेशनम्।
अत्र विशेषो ब्रह्माण्डपुराणे।
आसनं चासने दद्यात् वामे वा दक्षिणेऽपि वा॥ इति।
वा शब्दो व्यवस्थितविकल्पार्थ। तेन पितृब्राह्मणस्य वामे=वामभागावस्थिते आसने। वैश्वदेविकब्राह्मणस्य दक्षिणे। तथा च तदुत्तरं तत्रैव पठ्यते।
पितृकर्मणि वामे वै दैवे कर्मणि दक्षिणे।
अत्र काठके विशेषः। प्रदद्यादासने दर्भानिति प्रकृत्य—
देवानां सयवा दर्भाः पितृणां च तिलैः सह॥ इति॥
विशेषान्तरमप्युक्तं बोधायनेन।
प्रदक्षिणं तु देवानां पितृृणाम प्रदक्षिणम्।
देवानां सयवा दर्भाः पितॄणां द्विगुणास्तिलैः॥
द्विगुणा = संश्लिष्टमुलाग्राः।
तथा च ब्रह्मपुराणे।
श्लिष्टमूलाग्रदर्भांस्तु सतिलान वेद तत्र वित्।
तानारोप्यासने तत्र ददौ सव्येन चाऽऽसनम्॥
देवानां तु ऋजव एव दर्भाः।
तथा च बृहस्पतिः।
ऋजून्सव्येन वै कृत्वा दैवे दर्भाःप्रदक्षिणम्।
द्विगुणानपसव्येन दद्यात् पित्र्येऽपसब्यवत्॥
अपसभ्यवत्=अप्रदक्षिणमित्यर्थः।
नागरखण्डे व विशेषः।
ऋजुभिः साक्षतैर्दर्भैःसोदकैर्दक्षिणादिशि।
देवानामासनं दद्यात् पितॄणा त्वनुपूर्वशः॥
विषमैर्द्विगुणैर्दर्भैः सतिलेर्वामपार्श्वगैः।
अत्र पितृणां विषमसख्यदर्भविधानात् देवानां समसंख्याका दर्भा भवन्तीति प्रतीयते। आसने प्रदत्तकुशानां स्वीकरणेऽपि मन्त्रविशेषः प्रचेतसोक्तः।
देवे तु ऋजवो दर्भा प्रदातव्याः पृथक् पृथक्।
धर्मोऽस्मोत्यथ मन्त्रेण गृह्णीयुस्ते तु तान् कुशान्॥
“धर्मोऽस्मि विशिराजा प्रतिष्ठित”इति सोत्रामणोप्रकरणपठितेन मन्त्रेण देविका ब्राह्मणा आसने प्रदत्तान् कुशान् गृह्णीयुः=अङ्गोकुर्युः स्वीकुर्युरिति यावत्, न तु हस्तेन गृह्णीयुः तस्य प्रतिषिद्धत्वात्।
केचित्तु धर्मासीति पाठमाहुस्तत्र धर्मासि सुधर्मेत्यनेन प्रावणिकेन मन्त्रेण गृह्णीयुरिति।
केचित्तु“धर्मासि सुधर्मा मेन्यस्मे नृक्लानि धारय ब्रह्म धारय क्षत्रं धारय विशं धारयेत्यन्तं मन्त्रं पठन्ति।तन्न।धर्मासि सुधर्मेक्षात्रंवाक्यस्य परिसमाप्तत्वात्। समुच्चयस्य चान्याय्यत्वात्। विनियोगश्च धर्मासीत्युत्क्रामत्युत्तरपूर्वार्द्धं ममेन्यस्मेति खरे करोतीति पृथक् पृथक् श्रुतौ दृष्ट इत्यतोऽपि मन्त्रभेदः।
अत्रासनादि दैवोपचरणमुदङ्मुखेन, पित्र्यं दक्षिणामुखेनेत्याह— क्रतुः।
उदङमुखस्तु देवानां पितॄणां दक्षिणामुखः।
आसनार्ध्यादिकं दद्यात् सव्यमेव यथाविधि॥ इति।
अत्रासनदानवाक्ये पित्रादिपदे “अक्षय्यासनयोः षष्ठी”त्यादिवचमेन षष्ठी, “चतुर्थी चासने मता”इत्यनेन चतुर्थी वा। ब्राह्मणा अपि मआसनादि लग्वा स्वासनं सुगन्ध इत्यादि ब्रूयुः। तथा च नागरखण्डे।
गन्धमाल्यासनादीनां प्रदानेषु द्विजोत्तमः।
सुगन्धोऽस्तु सुदीपोऽस्तु चेत्यादि समुदाहरेत्॥
एवमासनं दत्त्वा पुनर्ब्राह्मणहस्ते जल दद्यात्।
तथा चाश्वलायनगृह्यसूत्रे।
अपः प्रदाय दर्भान् द्विगुणभुग्नानासनं प्रदायापः प्रदायेति,
आसनदानानन्तरं पादयोरधस्तादपि कुशान् दद्यादित्युक्तम्।
भविष्यपुराणे।
कुशान्निधाय तत्र द्वौ ब्राह्मणावुपवेशयेत्।
पादयोश्च कुशान् दद्यादिति।
यद्यपि चात्र ब्राह्मणपादयोः कुशदानंदैव एवोक्तम्। तथापि
दक्षिणाग्रास्त था दर्भाविष्टरेषुनिवेशिताः।
पादयोश्चैव विप्राणां येष्वन्नमुपभुञ्जते॥
इति सामान्यतो महाभारतोक्तेःपित्र्येऽपि ज्ञेयम्।
एव देवब्राह्मणेभ्य आसन दत्त्वा पितृब्राह्मणेभ्य आसनं दद्यात्।
तत्र विशेषो बृहष्पतिनोक्तः।
आसने चार्घदाने च पिण्डदानावनेजने।
सम्बन्धनामगोत्राणि यथार्हमनुकीर्तयेत्॥
तथा च मात्स्ये।
आसनेषूपक्लृप्तेषु दर्भवत्सु विधानतः।
उपस्पृष्टोदकान् विप्रानुपवेश्य निमन्त्रेयत्॥ इति।
[नि] मन्त्रणवत् कार्यं, तथा च स एव यथा प्रथममेवं द्वितीयं तृतीयं चेति।
अथावाहनम्।
तत्र कात्यायनः।
आसनेषु दर्भानास्तीर्य विश्वान् देवानावाहयिष्य इति पृच्छति, “आवाहये” त्यनुज्ञातो “विश्वेदेवास आगते” त्यनयाऽऽवाह्यावकीर्य “विश्वेदेवाः शृणुतेम”मिति जपित्वा पितॄनावाहयिष्य इति पृच्छति आवाहयेत्यनुज्ञात “उशन्तस्त्वे”त्यनयावाह्यावकीर्य “आयन्तु न” इति जपित्वेति।
ब्राह्मणोपवेशानन्तरं यज्ञोपवीती उदङ्मुखो विश्वान् देवानावाहयिष्य इति पृच्छति पङ्क्तिमूर्धन्यं सर्वान् वा। “आ
वाहये”ति पङ्क्तिमूर्धन्येन सर्वैर्वानुज्ञातो यजमानो “विश्वेदेवास आगते” त्यनयर्चावाह्यावकीर्य भूमां प्रदक्षिणं ब्राह्मण- दक्षिणपादप्रभृतिशिरःपर्यन्तं प्रकीर्य, स्मृत्यन्तराद् यवान्। “विश्वेदेवाः शृणुतेम”मिति जपित्वा प्राचीनावीनी दक्षिणाभिमुखो भूत्वोदङ्मुख पितृब्राह्मणान् सर्वानेकं वा पङ्क्तिमूर्धन्य पितृृनावाहयिष्य इति पृच्छति, “आवाहये”ति पङ्क्तिमूर्धन्येन सर्वैर्वानुज्ञानो यजमान “उशन्तस्त्वे” त्यनयर्चाऽवाह्यावकीर्याऽप्रदक्षिणं तिलान्, “आयन्तु न” इति जपेदिति सुत्रार्थः।
अत्र यद्यपि सामान्यतोऽवकिरणमुक्तं तथापि दैवे यवैः, पित्र्ये तिलेरिति ज्ञेयम्।
तथा च याज्ञवल्क्य।
आवाहयेत्यनुज्ञातो विश्वेदेवास इत्यृचा।यवैरन्ववकीर्येत्यादि।
भविष्यत्पुराणेऽपि।
आवाहयेद्यवैर्देवानपसव्यं तिलैः पितॄन्।
अतश्च यत् कर्केण दैवेऽपि निलैरेवावकिरणं विशेषानुपदेशा दित्युक्त, तव परास्तम्। अपसब्यमित्यनेन पितृष्वप्रादक्षिण्यविधानात् प्रादक्षिण्येन देवानामिति सिद्धं भवति। तथा च यमेन दैवे समन्त्रकं प्रादक्षिण्येन यवविकरणमुक्तम्।
यवहस्तस्ततो देवान् विज्ञाप्यावाहनं प्रति।
आवाहयेदनुज्ञातोविश्वेदेवास इत्यृचा॥
विश्वेदवाः शृणुतेति मन्त्रं ब्रह्मावतोऽक्षतान्।
ओषधय इति मन्त्रेण विकिरेत्तु प्रदक्षिणम्॥
प्रदक्षिणम्=पादादिमस्तकान्तमित्यर्थः।
तथा च
भर्तृयज्ञः।
विश्वेदेवास आगत मन्त्रेणानेन पार्थिव।
तेषामावाहन कार्यमक्षतैश्च शिरोऽन्ततः इति॥
दक्षिणपादप्रभृतिशिरःपर्यन्तमित्यर्थः। अयमुक्तो यवाक्षतारोपणप्रकारः प्रचेतसा यवस्थाने पुष्पारोपणमुदाहृत्य प्रदर्शितः, “पादप्रभृतिमूर्द्धान्तं देवानां पुष्पपूजन” मिति।मत्स्यपुराणे तु विकरणेमन्त्रान्तरमुक्तम्।
विश्वेदेवास इत्याभ्यामावाह्य विकिरेद्यवान्।
(१)61 यवोऽसि धान्यराजस्वं वारुणो (२)62मधुमिश्रितः॥
निर्णोदः सर्वपापानां (३)63 पवित्रसृषिसयुतम्। इति।
अत्र कात्यायनसुत्रे आसनषु दर्भानास्तीर्य विश्वान् देवानावाहयिष्य इति दर्भास्तरणावाहनयोरानन्तर्यविधानाद् यदासनदानोत्तरकालीनं तृतीयं निमन्त्रणमाम्नातं तदापस्तम्बविषयम् ।हेमाद्रिस्तु दर्भानास्त्रीर्येत्यनेन दर्भासनदानस्य पूर्वकालतायामभिधीयमाना यामपि स्मृत्यन्तरानुसारान्मध्ये निमन्त्रणानुष्ठानऽपि न पूर्वकालताश्रुतिविरोधमीः, इत्याह।
एतदावाहनं च निरङ्गुष्ठं ब्राह्मणदक्षिणहस्तं गृहीत्वा कर्त्तव्यम्।
तदुक्त ब्रह्मपुराणे।
देवानावाहयिष्येतत्प्राहुरावाइयेति च।
निरङ्गुष्ठं गृहीत्वा तु विश्वान् देवान् समाह्णयेत्॥
अपरे तु विप्राङ्गुष्ठं गृहीत्वेति पाठमाहुः।
अत्र विश्वेषा देवाना पुरूरवार्द्रवादिनामाद्यज्ञाने विशेषमाह— शङ्खः।
नाम चैव तथोत्पत्तिं न विदुर्ये द्विजातयः।
श्लोकमेतं पठेयुस्ते ब्राह्मणाना समीपतः॥
आगच्छन्तु महाभागा इति श्लोकात्मकं मन्त्रं वैश्वदेविकं ब्राह्मणसमीपे “विश्वेदेवाः शृणुतेम” मिति जपानन्तरं जपेयुरित्यर्थः।
तथाच पुराणं—
ततो मन्त्री जपेन्मौनी विश्वेदेवास आगत।
विश्वेदेवाः शृणुतेति द्वितीयं तदनन्तरम्॥
तृतीय तु जपन्मन्त्रमागच्छन्त्वित्यतः परम्। इति।
विश्वेदेवास आगतेत्यनया ऋचा प्रथममावाह्य तदनन्तरं ‘“विश्वेदेवाः शृणुते”ति द्वितीयं मन्त्रं जपित्वा अतः परं “आगच्छन्तु महाभागा" इति तृतीय मन्त्रं जपेदित्यन्वयः। एतच्च प्रागुक्तम्। अत्र वैश्व
देविकब्राह्मणानेकत्वेऽपि न प्रतिब्राह्मणमावाहनावृत्तिः, सकृदावादनेनैवानेकब्राह्मणाधिष्ठाने देवताध्याससम्भवात्। आवाहनादूर्ध्वं तु प्रतिब्राह्मणं देवताराधनार्थंक्रियते यवारोपणादि सन्निपत्योपकारकं तत्तत्पुरोडाशप्रथनादिवत् प्रतिब्राह्मणमावर्तनीयम्, सन्निपत्योपकारकेष्वावृतिं विना ब्राह्मणान्तरे कार्यासिद्धेः। “विश्वेदेवाः शृणुते”ति मन्त्रजपस्त्वावाहनोतरकाले क्रियमाणोऽपि आरादुपकारकत्वान्नावर्तते सकृज्जपेनैवादृष्टसिद्धेः, इति हेमाद्रिस्मृति- चन्द्रिकाकारौ।
अन्ये तु।
निरङ्गुष्ठं गृहीत्वा तु विश्वान् देवान् समाह्वयेदित्यनेन निरङ्गुष्ठग्रहणविशिष्टावाहनविधानाद् गृह्यमाणविशेषत्वादा- वृत्तिरित्याहुः।
पितॄणां तु आवाहने विशेषो
मार्कण्डेयपुराणे।
दर्भांस्तु द्विगुणान् दत्वा तेभ्योऽनुज्ञामवाप्य च।
मन्त्रपूर्वं पितॄणां तु कुर्यादावाहनं बुधः॥
ब्रह्मपुराणे।
पितृृनावाहयामीति स्वयमुक्त्वा समाहितः।
आवादयस्वेति परैरुक्तस्त्वावाहयेच्छुचिः।
[पितरो] दिव्या=वसुरुद्रादेत्याः, मानुषाः=यजमानस्य पित्रादयः। मानवे श्राद्धकल्पे तु पितॄन् पितामहान् प्रपितामहा- नावाहयिष्यामीति उक्त्वा ब्राह्मणैरनुज्ञात इति उक्तम्।
अत्र विशेषः श्लोकगोभिलेनोक्तः।
आवाहनेऽमुकगोत्रानस्मत्पितृृत्पितामहान्।
प्रपितामहान् विप्रेन्द्रशर्मणोऽथ भवेत्तदा॥
पित्रावाहनरूपे पदार्थेऽनुष्ठीयमाने तदङ्गभूतप्रयोगवाक्येऽमुकगोत्रानस्मत्पितृृनमुकशर्मण इत्येतत्पदजात भवेत्—
उच्चारयेदित्यर्थः। ब्रह्मपुराणे तु विशेषः।
पितृृनावाहयिष्येऽहं शेषान् विप्रान् वदेत्ततः।
आवाहयस्वेत्युक्तस्तैः सावधाना भवन्त्विति॥
येषु वैश्वदेविकविप्रेष्वावाहनं कृतं तदितरे शेषाः पित्र्यविप्रा इत्यर्थः। इहावाहनप्रश्नोत्तरानन्तरं तान् विप्रान् भवन्तः सावधाना भवन्त्विति यजमानो ब्रूयात्। अनेन चभवामः सावधाना इति विप्राणां प्रत्युत्तरं गम्यते।
अत्र विशेषो ब्रह्मपुराणे।
अपसव्य ततः कृत्वा तिलानादाय सयतः।
पितॄनावाहयामीति पृच्छेद्विप्रानुदङ्मुखान्॥
आवाहयेत्यनुज्ञात उशन्तस्वेत्युचा पितॄन्।
ततः क्षिप्त्वापसव्यं च पितॄन् ध्यायन् समाहितः॥
जपेदायन्तु न इति मन्त्रं सम्यगदोषतः। इति।
“उशन्तस्त्वेत्यूचा पितृपितामहप्रपितामहानावाह्यानन्तरं अप्रदक्षिणं पूर्वोपात्तांस्तिलान् क्षिप्त्वा पितॄन् ध्यायन् “आयन्तु न”इति मन्त्र जपेदिस्यर्थः। अपसव्यम्=अप्रदक्षिणम्।“तिलैरावाहन कुर्यादनुज्ञातोऽप्रदक्षिण”मिति प्रचेतःस्मरणात्।
यत्त्वत्र तिलैरिति तृतीयान्तेन तिलपदेन तिलानामावाहनसाधनत्वमुक्तं तद् यववद्धिकरणद्वारैष ज्ञेयम्।
आवाहनप्रश्नश्च तिष्ठता कर्त्तव्य इत्युक्तं।
वैजवापायनगृह्ये—
तिष्ठपितॄनावाहयिष्यामीत्यामन्त्र्येति।
अनेन ब्राह्मणप्रश्नानुज्ञाग्रहणमपि यजमानेन तिष्ठतैव कार्यं, तिष्टन्नामन्त्र्येत्यत्र अनुज्ञाग्रहणरूपस्वप्रयोजनशिरस्कस्या- मन्त्रणस्य अवस्थानसम्बन्धावगमात्। अनुज्ञाग्रहणानन्तरं—
तिष्ठन्नासीनः प्रह्णोवा नियोगो यत्र नेदृशः।
तदासीनेन कर्त्तव्यं न प्रह्णेण न तिष्ठता॥
इति वचनादुपविश्यावाहनं कार्यम्।
अत्र शङ्खलिखितौ॥
उशन्तस्त्वेत्यावाह्येति। पद्ममात्स्ययोस्तु—
उशन्तस्त्वा तथायन्तु ऋग्भ्यामावाहयेत्पितॄन्।
इति ऋग्द्व्यस्यावाहने करणत्वमित्युक्तम्, तदेतच्छङ्खलिखितो
क्तेन सह वैकल्पिकं बोध्यम्। अत्र विप्रजानुनि हस्तनिवेशनं पित्रादीनां ध्यानं च ब्रह्मपुराणे दर्शितम्।
तथैव जानुसस्थेन करेणैकेन तान् पितॄन्।
आवाहयद्वराहस्तु तदनुध्यानपूर्वकम्॥
करेणेत्यत्र एकैकब्राह्मणजानूपर्युत्तानतया स्थापितेनेति शेषः समाचारादवगन्तव्यः।एकेन=दक्षिणेनेत्यर्थः।पितॄणामप्रदक्षिणोपचा-
रत्वाद्द्विजजानुनो वामत्वमनुसन्धेयमिति हेमाद्रिः। तदनुध्यानपूर्वकमिति तेषां पितृपितामहप्रपितामहानां तत्प्रातिस्वि- कमानुषरूपेण च यदनु ध्यानं तत्पूर्वकमित्यर्थः। अत्र न केवलमनुध्यानपूर्वकमेवाऽऽवाहनं किन्तु पित्रादिसम्बन्ध- नामोच्चारणपूर्वकं तत्, वक्ष्यमाणब्रह्मपुराणवचनात् पूर्वोदाहृतबेजवापायनगृह्योक्तंश्च। तत्र पितृब्राह्मणेषु तावत् पितरं ध्यायन् “आयन्तु न”इत्याद्यावाहनमावर्त्तते। एव पितामहप्रपितामहयोर्मातामहानां च तत्तदावाहनानन्तर तदधिष्ठानभूतद्विजस्य पुरस्ताच्छिरस्तः पादान्तं वा प्रदक्षिणं पूर्वोपात्तान् कुशतिलान् पितृृन्ध्यायन् प्रकिरयेत्।
तदुक्तं ब्रह्माण्डपुराणे।
आवाहयेदनुज्ञात उशन्तस्त्वेत्यृचा पितॄन्।
क्षिप्त्वापसव्य च तिलान् पितॄन् ध्यानसमाहितः॥
जपेदायन्तु न इति मन्त्रं सम्यगशेषतः।
एतत्तिलविकरणं च मन्त्रवत्कर्तव्यमित्युक्तं—
ब्रह्मपुराणे।
अपयन्त्वन्तरे ये वा उच्चरंस्तिलबर्हिषः।
वराहः पितृविप्राणामपेतोयन्त्वितीरयन्॥
असुंय इत्यृचा चैव रक्षणं चापसव्यतः।
ऋत्वा चावाहनं चक्रे पितॄणां नामगात्रेतः॥
एतस्पितरो मनोजवा आगच्छत इतीरयन्।
वर्हिषः=कुशाः। “अपेतोयन्तु””असुय ईयु”रिति मन्त्रद्वयं पूर्व प्रदर्शितमेव। अपयन्त्वन्तरे ये वेति मन्त्रद्वयं कण्वशाखायामुक्तम्। तिलविकरणेऽवयवक्रमस्तु प्रथमं शिरसि ततः सर्व्येशे दक्षिणाशेसव्यहस्ते दक्षिणहस्ते सव्यजानुनि दक्षिणजानुनि सव्यपादे दक्षिणपादे चेत्याचारादनुसन्ध्येय इति हेमाद्रिः।
काठके।
पितॄनावाहयिष्यामीत्युक्वाऽययन्त्वसु इति द्वाभ्यां तिलैः. सर्वतो विकीर्य एवं पितरः आगच्छत पितरः इत्यादि मन्त्राणां जप एव नावाहने करणत्वं, जपित्वा आवाहयोदित्यावाहनस्य पृथक् निर्देशात्।
आह च प्रचेताः।
उशं तायन्तु नोमन्त्राञ्जपेद्वै दक्षिणामुख इति।
तेन कल्पसूत्रस्मृतिपुराणेतिहासोपदिष्टानां जपमन्त्राणामदृष्टार्थत्वात्समुच्चय एव । आवाहने करणमन्त्राणां तु दृष्टार्थत्वाद्विकल्प एव, सति वचने तु तेषामपि समुच्चय एव ।
यथाह विष्णु।
ततो ब्राह्मणानुज्ञातः पितॄनावाहयेदपयन्त्वसुरा इति द्वाभ्यां, तिलैर्यातुधानविसर्जनं कृत्वा एत पितरः सर्वंस्तानग्न आमेय त्वं तर्दध इत्यावाहनं कृत्वेति । अत्रापयन्त्वित्यनयोः समुच्चिततयोर्वचनात् यातुधानविसर्जने करणत्वम् । एत इत्यादीनां चावाहने । ते च मन्त्राः एतत्पितरो मनोजना आगच्छत पितरो जवैयेनिखाता येच प्रपेदिर इत्येकः । आगच्छत पितरो इत्येतस्पदोपलक्षितः सर्वास्तानग्न आवहविषे अत्तवे । आगच्छत पितरो मनोजवस पितरः शुन्धध्वमित्यपरः । आमेयन्तु पितरो भागधेयं विराजाह्वताः सलिलान्समुद्वात् । अस्मिन्यज्ञे सर्वकामानालम्मतामक्षी- यमाणानुपजीवत्वेतानित्यन्यः ।अन्तर्दधे पर्वतैरेतर्मह्यापृथिव्यादिव्याप्तिरसन्ताभिरनन्तरेन्यान्पितृन्दधअन्तर्दधेॠतुभिरहोसिरात्रैः ससध्यकैरर्द्धमासैरिति तिलविकरणे मन्त्रसमुच्चयमाह ।
गोभिलः ।
उशंतस्त्वानिधीमह्युशन्तः समिधीमहि ।
उशन्नुशत आवह पितॄन्हविषे अत्तवे ॥
एतत्पितरः सोम्यास इति “आयन्तु नः पितरः सोम्यासोऽग्निष्वाताः पथिभिर्देवयानैः । अस्मिन् यज्ञे स्वधया मदन्तोऽधिब्रुवन्तु ते वन्त्वस्मान्”। “अपहता”इति तिलान् विकीर्येति । एत पितर इति मन्त्रश्च एत पितरः सोम्यासो गम्मीरभिः पितृयानैः आयुरस्मम्यं दधतप्रजां वरायश्च पौषरभिनः स च ध्वमिति । एवमावाहनं कृत्वा श्राद्धकर्त्ता वाग्यतो भवति कर्मसमाप्त्युत्तरकालनिमुदकोपस्पर्शनान्तम् । तथा श्राद्धमोक्तारो ब्राह्मणाश्च वाग्यता भवन्ति ।
तथा च कात्यायनः ।
आवाहानादिवाग्यत ओपस्पर्शनादामन्त्रिताश्चैवमिति \। उपस्पर्शनं चापां तच्च पितृकर्मसमाप्त्युत्तरकालीनं =परिभाषा- प्राप्तम् । तथा च त्र्यम्बकायां श्रूयते पुनरेत्य अपि उपस्पृशन्ति रुद्रियेणेव वा एतदवारिषु शान्तिरापस्तदद्भिः शान्त्या शमयन्तीति । ओपपस्पर्शनादि-
त्यत्राभिविधावेवाङ् द्रष्टव्यः कर्मविषयत्वात्। आयुष्मादिति कर्मसु कात्यायनवार्त्तिकात्।
केचितु तृप्तान्ज्ञात्वाऽन्नं प्रकीर्य सकृत्सकृदपो दत्वेत्यपां दानमुपस्पर्शनमिच्छान्त।तत् पुनर्नाातीव शोभते। उपस्पर्शनशब्दाभावात्। अत्र श्राद्धकर्त्ता “आयन्तु न”इति जपानन्तरं अपहता असुरा रक्षांसि वेदिषद”इति मन्त्रेण गृहगर्भे सर्वासु दिक्षु त्रिरप्रदक्षिण तिलविकरण कुर्यात्। तदुक्तं।
ब्रह्मपुराणे।
जपेदायन्तु न इति मन्त्रं सम्यगशेषतः।
रक्षार्थंपितृसत्रस्य त्रि कृत्वा सर्वतो दिशम्॥
तिलांस्तु प्रक्षिपेन्मन्त्रैरुच्चार्यापहता इति।
तथा।
नतस्तिलान् गृहे तस्मिन् विकिरेञ्चाप्रदक्षिणम्।
श्रद्धया परया युक्तो जपन्नपहता।इति॥
ततः—आयन्तु न इति जपोत्तरम्। इति आवाहनविधि।
अथार्ध्याद्युपचारविधिः।
कात्यायनः।
यज्ञियवृक्षचमसेषु पवित्रान्तर्हितेष्वेकैकस्मिन्नप आसिञ्चति “शन्नोदेवीरिति” एकैकस्मिन्नेव तिलानावपति।
तिलोऽसि सोमदेवत्यो गोसवो देवनिर्मितः।
प्रत्नमद्भिः पृक्तः स्वधया पितृृल्लोँकान् प्रोणाहि नः स्वाहा।
इति। सौवणराजतौदुम्बरखड्गमणिमयानां पात्राणामन्यतमेषु यानि वा विद्यन्ते पत्रपुटेषु वा एकैकेस्वैकेकेन ददाति सपवित्रेषु हस्तेषु “या दिव्या आपः पयसा सम्बभूवुर्या अन्तरिक्षा उत पार्थिवीर्याः। हिरण्यवर्णा यज्ञियास्तान आपः शिवाः शं स्योनाः सुहवा भवन्तु”। इति। एषतेऽर्घइति। यज्ञियवृक्षाः चमसाश्चोपकरणे व्याख्याताः। तेषां च स्थापन कुशोपरि कार्यं, दक्षिणाग्रेषु कुशेषु निधायेति बैजवापगृह्योक्तेः। दक्षिणाग्रत्वं च पितॄणां, दैवेषु प्रागग्रेषु निधानम् पवित्रान्तर्हितेष्विति। पवित्र च परिभाषायां व्याख्यात्तम्। पवित्राणा च संख्या उक्ताःचतुर्विंशतिमते।
द्वे द्वे शलाके देवानां पात्रे कृत्वा पयः क्षिपेत्।
शन्नोदेव्या, यवोऽसीति यवानपि ततः क्षिपेत्॥
पुष्पधूपादिभिः पूजां कृत्वा पात्रेषु मानवः।
पितृपात्रे विशेषोऽय तिलोऽसीति तिलान् क्षिपेत्॥
तिस्रस्तिस्रः शलाकास्तु पितृपात्रेषु पार्वणे॥
अत्र पवित्रकरणे मन्त्रमर्धपात्रोपरि चपवित्रनिधानमाह— प्रचेताः।
पवित्रे स्थ इति मन्त्रेण पवित्रे कारयेद् बुधः।
ते निधायार्घपात्रेषु शन्नोदेवीत्यपः क्षिपेत्॥
पवित्रे स्थ इति यजुः शाखाभेदेन व्यवस्थितं, पवित्रे स्थो वैष्णवी वायुर्वांमनसा पुनात्विति, तथा पवित्रे स्थो वैष्णब्यौ इति। अत्र च पवित्र स्थ इति द्विवचनान्तोऽपि मन्त्रः, त्रित्वयुक्ते पित्र्यपवित्रेऽपि प्रयोज्य एव, पाशाधिकरणन्यायादिति कर्कः।
अन्तेतु बहुषु द्विवचनस्यासाधुत्वाल्ल प एव, मेष्यधिकरणन्यायेनेत्याहुः।
अत्र कात्यायनादिभिर्दर्शपूर्णमासप्रकरणे समन्त्रकस्य पवित्रकरणस्याम्नातत्वाच्छ्राद्धे चोपदेशातिदेशयोरभावाद- मन्त्रकमेव, प्रयोगात्पूर्वंछेदनमिति मैथिलाः।तन्न।उदाहृतप्रचेतोवचनविरोधात्। अत्र च न ब्राह्मणभेदेन पात्रभेदः, किन्तु देवताभेदेनैव। वैश्वदेविके तु देवतैक्येऽपि पात्रद्वयं तथा च—
पाद्ममात्स्ययोरुक्तं—
विश्वेदेवान् यवैः पुष्पैरभ्यर्च्यासनपूर्वकम्।
पूरयेत् पात्रयुग्मं तु स्थाप्यं दर्भपवित्रके॥
शन्नोदेवीत्यपो दद्याद्यवोऽसीति यवानपि॥ इति।
तथा च “द्वे द्वे शलाके देवानां पात्रे कृत्वा पयः क्षिपेत्”इति द्वे द्वे इति वीप्सा, अर्घपात्रद्वित्वे एव सार्थिका भवति। त्रीणि पात्राप्युपकल्पयेत, वैश्वदेवे एकम्, एकैकमुभयत्र वेति मानवमैत्रायणीववचने एकमप्युक्तम्, अतो विकल्पः। एकैकमुभयत्र वेति पात्रालाभाविषयम्। एकब्राह्मणपक्षे इदमिति तु हेमाद्रिः।अर्घपात्रस्थापनं च ब्राह्मणाग्रेन इति मदनरत्नः। एवं पात्राणि निधाय तेषु पवित्रनिधानं च कृत्वा एकैकस्मिन्पात्रे “शन्नोदेवी”रित्यनयर्चाऽप आसिञ्चति। तथा च भविष्यपुराणे।
शन्नोदेवीरभिष्टय इत्यृचा पूरयेज्जलैः ।
उदङ्मुखो यवोऽसीति देवपात्रे यवान् क्षिपेत् ॥
ॐ तिलोसीति मन्त्रेण प्रत्येकं निर्वपेत्तिलान् । इति ।
अत्र प्रतिपात्रं मन्त्रावृत्तिर्जलासिञ्चने ज्ञेया करणत्वात् ।
आश्वलायनेन तु “शन्नोदेवी”रित्यनेनानुमन्त्रयोदत्युक्तं शन्नोदेवीरभिष्टय इत्यनुमन्त्रितासु तिलानावपतीत्यादिना । तदा तु सकृदेवमन्त्रः शक्यत्वात् ।
नागरखण्डे,
पितॄणामर्घपात्रेषु तथैव च जलं क्षिपेत् ।
तिलोसि सोमदेवत्यो गोसवो देवनिर्मितः ॥
प्रत्नमद्भिः पृक्तः स्वधया पितृृनिमाल्ँलोकान्प्रीणाहीति ।
पृथक् तिलांश्च तत्रैव पितृतीर्थेन यत्नतः ॥ इति ।
तथैव चेति=शन्नोदेवीत्यनेन मन्त्रेणेत्यर्थः । मन्त्रे पाठविशेषश्च यथा गृह्यं व्यवस्थितो ज्ञेयः ।
अत्र यवतिलावापानन्तरं गन्धपुष्पप्रक्षेपः कार्य इत्युक्तं—
सौरपुराणे ।
शन्नो देव्या जलं क्षिप्त्वा सपवित्रे तु भाजने ।
यवान् यवोसीति तथा गन्धं पुष्पं च निक्षिपेत् ॥
गन्धपुष्पप्रक्षेपमन्त्र उक्तः—
चतुर्विंशतिमते ।
द्वे द्वे पवित्रे देवानां पात्रे कृत्वा पयः क्षिपेत् ।
शन्नोदेवीति वै तोयं यवोऽसीति च वै यवान् ॥
तथा,
श्रीश्चतेति च वै पुष्पं गन्धद्वारेति चन्दनम् ।
पुष्पधूपादिभिः पूज्य देवपात्राणि मानवः ।
अत्रादिशब्देन दीपोऽपि संगृह्यते । गन्धाद्युपचारानन्तरं उत्पवनमुक्तं—
मानवे मैत्रायणीयसूत्रे ।
सुमनसश्चोत्पूय यवान् प्रक्षिप्येति ।
उदकप्रक्षेपानन्तरं “यवोऽसी”त्यादिना मन्त्रेण तत्र यवान् प्रक्षिप्य“श्री
मत”इत्यनेन सुमनसः पुष्पाणि निधाय प्रोक्षणीवदुत्पक्तं कृत्वा वक्ष्यमाणप्रकारेणार्घ्यदानं कुर्यादित्यर्थ इति हेमाद्रिः ।
अनन्तरं चैतान्यर्घपात्राणि सावित्र्याभिमन्त्रणीयानि।सावित्र्योदकपात्रमभिमन्त्र्येतिमैत्रसूत्रात्।
पाद्ममात्स्ययोः,
शन्नो देवीत्यपो दद्याद्यवोऽसीति यवानपि।
गन्धपुष्पैस्तु सम्पूज्य वैश्वदेव प्रतिन्यसेत्॥
वैश्वदेवब्राह्मणं प्रति पुरतो न्यसेत्, स्थापयेदित्यर्थः।
बौधायने विशेषः।
दक्षिणेनाग्निंस्वधापात्रं स्थापयेत्। आमागन्तु पितरो देवयानाः, तिलोसि सोमदेवत्यो गोसवो देवनिर्मितः।
प्रत्नमद्भिः पृक्तः स्वधया पितृल्लोँकान्प्रीणाहि नः स्वधा नमः॥ इति तिलानोप्य “मधुव्वाता ऋतायते मधु क्षरन्ति सिन्धवः। माध्वीर्नः सन्त्वोषधीः”मधुनक्तमुतोषसो मधुमत्पार्थिव <MISSING_FIG href="../books_images/U-IMG-1700132356चान्द2.PNG"/>रजः। मधुद्यौरस्तुनः पिता।“मधुमान्नो वनस्पतिर्मधुमां अस्तुसूर्यः। माध्वीर्गावो भवन्तु नः”। “सोमस्य त्विषिरसि”शन्नोदेवीरभिष्टय आपोभवन्तु पीतये।शंयोरभिस्रवन्तु नः। एतैः स्वधां मिश्रीकृत्य निरस्तं नमुचेः शिर इति किञ्चिन्निरस्य गन्धपुष्पाक्षतैः पितृभ्यो नमः पितामहेभ्योनमः प्रपितामहेभ्यो नम इत्यर्चयित्वा दर्भैःप्रस्थापयेत्। अस्याबमर्थः। अग्निंदक्षिणेन अन्वाहार्यपचनस्यावसभ्यस्य वाग्नेर्दक्षिणतः।स्वधापात्रं अर्घ्योदकधारणार्थं पात्रं स्थापयित्वा “आमागन्तु पितरो देवयाना”इत्यादिकं मन्त्रमुच्चारयेत्। तदनन्तरं तिलोसीत्यादिना मन्त्रेण तिलान् प्रक्षिप्य मधुव्वातेत्यादिभिर्मन्त्रैर्मन्त्रलिङ्गान्मधुघृतोदकरूपांस्वधां मिश्रीकुर्यात्। तत्र मधुप्रकाशकत्वात् मधुब्वाता" इति तृचेन मधुप्रक्षेपः।त्विषिस्तेजः, तेजो वै घृतमिति घृतप्रकाशकत्वात् “सोमस्य त्विषि”रित्यनेन घृतप्रक्षेपः।अपःप्रकाशकत्वात् “शत्रोदेवी” रित्यपाम्। ततो निरस्तं नमुचेः शिर" इत्यनेन तस्मादर्घोदकात्किञ्चिदेकदेश बहिर्निरस्य पितृभ्यो नम इत्यादिमन्त्रत्रयेण प्रत्येकं गन्धपुष्पाक्षतं निक्षिप्य तत्र कुशत्रयं स्थापयेत्। निगमपरिशिष्टेकात्यायनेन तु आहिताग्निकर्तृके षट्देवस्ये श्राद्धे च त्यार्थर्धपात्राणि तेषा दक्षिणाभिमुखोल्लिखितलेखायां स्थापनं स्त्रगादिषट्द्रष्वोपेतानामद्भिः प्रपूरणं तत्र च मन्त्रान्तराण्युक्तानि।
यथा।
उल्लिख्यदक्षिणां लेखायां कृत्वा लौहांश्चमसांश्चतुरः स्रक्तिलः
पयोदधिमधुघृतमिश्रान् महाव्याहृत्यापोहिष्ठीयशन्नोदेवीरित्याद्भिः प्रपूर्वेति।
स्रक्=पुष्पमाला। लौहान्=ताम्रमयान्। त्रपुसीसकृष्णायसव्यतिरिक्तैस्तैजसधातुभिर्विरचितान इति हेमाद्रिः। तांश्चतुःसंख्यकान् यथोक्तायां लेखायां समासाद्य अत्र चतुर्थस्य मातामहार्थता वक्ष्यते ‘चतुर्थेन मातामहादीनवनेज्ये’ तिवचनात्।तांश्च स्रगादिषट्द्रव्योपेतान्कृत्वा महाव्याहृत्यादिभिर्मन्त्रैरद्भिः प्रपूरयेत्। महाव्षाहृतयश्चाध्येतृप्रसिद्धाः। आपोहिष्ठीयं आपोहिष्ठेतितृचम्।हारीतेन तु अपांनिषेचने मन्त्रान्तरमपामुत्पवने चोक्तम्।उदपात्रेषु समन्यायन्तीत्यप आसिञ्च्य सुमनश्चोत्पूयेति। समस्यायन्त्यन्याः समानपूर्वं नद्यः पृणन्ति ।तमुशुचिं शुचयोदीविचांसमपान्नपानं परितस्थुराप इति। उत्पवनं च प्रोक्षणीवदित्युक्तं प्राक्।तच्चहस्तद्वयाङ्गुष्ठोपकनिष्ठिकाभ्यां कुशपवित्रं गृहीत्वा तूष्णीमुत्पवनं कार्यम्।
केचितु प्रोक्षण्युत्पवनमन्त्रेणोत्पवनं इच्छन्ति। स च सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिरित्यादिः प्रतिशाखं भिन्नः।
ब्रह्मपुराणे तु अष्टावर्घद्रव्याण्युक्तानि।
एष तेऽर्घइति प्रोच्यतेभ्यो दद्यादथाष्टधा।
जलं क्षीरं दधि घृतं तिलतण्डुलसर्षपान्॥
कुशाग्राणि च पुष्पाणि दत्वाचामेत्ततः स्वयम्॥ इति।
अष्टधेतिउपक्रमात् क्षीराद्यष्टद्रव्योपेतं जलं देयमिति प्रतीयते। इति अर्घसम्पादनविधि।
अथ अर्घदानविधिः।
तत्रार्घसम्पादनोत्तरमाह—
जातूकर्ण्यः।
ततोऽर्धपात्रसम्पत्तिं वाचयित्वा द्विजोत्तमान्।
तदग्रेचार्घ्यपात्रं तु स्वाहार्घ्याइति विन्यसेत्॥
अयमर्थः दैवार्घपात्रसत्पत्तिरस्त्विति कृताञ्जलिदैवब्राह्मणान् पृच्छेत्। अस्तु दैवार्घपात्रसम्पत्तिरिति ब्राह्मणैः प्रतिवचने कृते सति आस्तीर्णदर्भसहितमर्घपात्रमुद्धृत्यं “स्वाहार्घ्या”इत्यनेन वाक्येन वैश्वदेविकब्राह्मणानां पुरतः स्थापयेत् इति। तदनन्तरं च वेश्वदेविकब्राह्मणहस्ते तत्पात्रोदकप्रक्षेपः कर्त्तव्यः। यथाह—
कात्यायनः।
एकस्यैकैकेन ददाति सपवित्रेषु इस्तेषु या दिव्या आपः पयसा सम्बभूवुर्या अन्तरिक्षा उत पार्थिवीर्याः। हिरण्यवर्णा यज्ञियास्तान आपः शिवाः स<MISSING_FIG href="../books_images/U-IMG-1699982235चाँद.PNG"/>स्योनाः सुहवा भवन्त्वित्यसावेषतेऽर्घ इति। अस्थायमर्थः।ब्राह्मणहस्तेषु सपवित्रेषु अर्घंददाति या दिव्या इति मन्त्रेण, पवित्राणि च प्रकृतत्वाद् यानि अन्तर्धानार्थानि तान्येवब्राह्मणहस्ते स्थाप्यानि आग्नेय्याग्रीध्रमुपतिष्ठते इतिवत्। न च विनियुक्तविनियोगविरोधः।
कुशा दर्व्यादयो मन्त्रा ब्राह्मणाश्च बहुश्रुताः।
न ते निर्माल्यतां यान्ति विनियोज्या पुनः पुनः॥
इति वचनेनाग्नेयीमन्त्रवदेव विनियुक्तविनियोगस्यादोषत्वात्। असावित्यत्र यथादेवतं नामादेशः। असावित्यपनोद इति कात्यायनेन परिभाषितत्वात्। अत्र एकदेवतासम्बन्धेन यावन्तो ब्राह्मणाः तावतां हस्तेषु तत्पात्रगतार्घोपवेशः प्रतिपाद्यः तत्र च “या दिव्या”इति मन्त्रस्यावृत्तिः। मन्त्रप्रकाश्यजलावयवभेदात्। न च वेदिप्रोक्षणमन्त्रवत् क्रियाम्यावृतौ विहितत्वात् सकृदेवमन्त्र इति वाच्यम्। तत्र प्रकाश्याया वेदेरभिन्नत्वेन तथा निर्णयात्। इह तु प्रकाश्यप्रकृतजलावयवभेदान्मन्त्रावृत्तिरेव युक्ता।
कैचितु या दिव्या इत्यारभ्य भवन्वितीकारान्तो जपमन्त्रोऽय। असावेष तेऽर्घ इति अर्घदाने करणमन्त्रः, इतिकारद्वयकरणात्। तथा चमानवमैत्रायणीयसूत्रे पवित्रे पाणौ प्रदाय हिरण्यवर्णा इत्युक्त्वा विश्वेदेवा एष वो अर्घइति। तेन करणमन्त्रस्यैव अर्घदाने करणत्वं तत्र प्रतिब्राह्मणं या दिव्या इति अर्घ्यमन्त्रोऽप्यावर्त्तत इत्याहुः।
अपरे तु या दिव्या इति मन्त्रस्य जपार्थत्वेऽपि प्रत्यर्घप्रदानमावृत्तिमाहुः।वक्ष्यमाणब्रह्मपुराणवचनात्।
अत्र “गन्धपुष्पैश्च सम्पूज्ये”त्यर्घपात्रपूजनमभिधाय पुनरुक्तं
पाद्ममत्स्ययोः।
गन्धपुष्पैरलङ्कृत्य या दिव्येत्यर्घमुत्सृजेत्। इति। इदं च ब्राह्मणपूजनम्। तच्च अर्घपात्रस्थितपवित्रप्रदानानन्तरं सविशेषधर्मकं कर्त्तव्यमित्याह—
गार्ग्यः।
दत्वा हस्ते पवित्र च पूजाङ्कृत्वा च पादतः।
या दिव्या इति मन्त्रेण हस्तेष्वर्घंविनिक्षिपेत्॥ इति।
पादतः=पादप्रभृति मूर्द्धान्तम्। तथा च—
प्रचेताः।
पादप्रभृतिमूर्द्धान्तंदेवानां पुष्पपूजनम्।
तश्चपूर्वं दक्षिणपादे ततः सव्यपादे, दक्षिणजानुनि सव्यजानुनि दक्षिणकरे सव्यकरे दक्षिणांशे सब्यांशे शिरसीत्येव क्रमेण, “औबश्वब इति मन्त्रेण विकरेत्तु प्रदक्षिणमिति”दैवे प्रादक्षिण्यदर्शनात्। इति दैवार्घदानम्।
पितॄणां तु विशेषमाह।
जातूकर्ण्यः।
ततोऽर्घपात्रसम्पतिं वाचयित्वा द्विजोत्तमान्।
तदग्रेचार्धपात्राणि स्वधार्घ्याइति विन्यसेत्॥
अर्घपात्रे अर्घद्रव्यनिधानानन्तर “ॐपित्र्यर्धपात्राणां सम्पत्तिरस्त्विति”कृताञ्जलिः पितृब्राह्मणान् पृच्छेत् त्रिः। अस्तु पित्रर्घपात्राणां सम्पत्तिरिति तैः प्रत्युक्ते तेष्वधोनिहितदर्भैः सह पाणिभ्यां एकैकं पात्रमुद्धृत्य ॐस्वधार्घ्याइति मन्त्रेण पित्रादिब्राह्मणानां पुरतो यथाक्रमं दक्षिणाग्रतया स्थापयेदित्यर्थः। ततो वत्यमाणब्रह्मपुराणवचनाद्ब्राह्मणहस्ते प्रथममपः प्रदायार्घपात्रस्थितं पवित्रं च दक्षिणाग्रंदत्वा ब्राह्मणमभ्यर्च्यार्घंदद्यात्।
तदाह गार्ग्यः।
हस्ते प्रादेशमात्रेतु त्रिवृहत्वा पवित्रकम्।
अभ्यर्च्यपूर्वतोऽर्घं वै दद्यात्तु पितृदिङ्मुखः॥
त्रिवृत्=त्रिशलाकम्। पूर्वतो=ऽर्घदानात्पूर्वम्। अत्रार्चनं गन्धपुष्पाशतैः कार्य्यं।तदुक्तं—
वराहपुराणे।
गन्धपुष्पार्चनं कृत्वा दद्याद् हस्ते तिलोदकम्। अत्र विशेषः—
कालिकापुराणे।
अभ्यर्च्यविधिवद्भक्त्या सृष्टिन्यायेन मन्त्रवित्।
अर्ध्यंदद्यात्ततः पात्रैर्ब्रह्मवृक्षदलोद्भवैः॥
सृष्टिन्यायेन शिरस्त आरभ्येत्यर्थः। शिरो हि प्रथमं जायमानस्य जावत इति शतपथश्रुतेः।
यत्तु।
गार्ग्यश्लोकगौतमवचनयोः“शिरस्तः पादतोऽवापि सम्यगम्यर्चयेत्तत”इति विकल्पाभिधानं तद्दैवपित्र्यव्यवस्थया ज्ञेयम्। तथाच
प्रचेताः
पादप्रभृतिमूर्द्धान्तं देवानां पुष्पपूजनम्।
शिरःप्रभृतिपादान्तं नमो व इति पैतृके॥
नमो व इति माध्यन्दिनशाखीयस्तावत् “नमो वः पितरो रसाय नमो वः पितरः शोषाय नमो वः पितरो जीवाय नमो वः पितरो स्वधायै नमो वः पितरो घोराय नमो वः पितरो मन्यवे नमो वः पितरः पितरो नमो व” इति। शाखान्तरीयोऽप्यग्रेदर्शयिष्यते। पूजाक्रमश्च—
स्कन्दपुराण।
शीर्षाणामादितः स्कन्धपाणिजानुपदद्वये।
सतिलैर्गन्धकुसुमैरर्चयीत पितृद्विजान्॥
अत्र विशेषः प्रचेतसोक्तः “पितॄन् ध्यायन् ब्राह्मणेष्वपसव्यंनिनयेदिति। ब्राह्मणशरीरेषु पितॄन् ध्यायन्नित्यर्थः।
शाङ्खायनगृह्ये च।
पैतृके याम्यवक्त्रेण पितॄणां परितुष्टये।
या दिव्या इति मन्त्रेण हस्तेष्वर्धंप्रदापयेत्॥
याम्यवक्त्रेण=दक्षिणाभिमुखेनेत्यर्थः। असावेषतेऽर्घइति उक्तं। असाविति पात्रादिवाचकस्य विशेषनाम्नः परामर्शः।
तथा च पाद्ममात्स्ययोः।
एवं पात्राणि सङ्कल्प्य यथालाभं विमत्सरः।
या दिव्येति पितृनामगोत्रैर्दर्भं करे न्यसेत्॥
इति पित्रादीनां नामगोत्रं चोच्चार्य सपवित्रब्राह्यणकरेऽर्घंनिनयेदित्यर्थः। अत्र करे इत्येकवचननिर्देशादेकस्मिन्नेव दक्षिणकरेऽर्घदानं कर्त्तव्यमिति सिद्धं भवति। बैजवापायनेन तु अञ्जलावर्घदानं कर्तव्यमित्युक्तम्। पात्राण्यनुदिश्यति पितः ! एतत्तेऽर्घ्यंपितामहैतत्तेर्घ्यम, प्रपितामह एतत्तेऽर्घ्यमिति ब्राह्मणाञ्जलिषु निनयेत् इति।
पात्राणीति =पात्रस्थानि उदकानीत्यर्थः।
वसिष्ठः।
अप्रदक्षिणमेतेषामेकैकं तु पितृक्रमात्।
संबोध्य नामगोत्राभ्यामेष तेऽर्घ इतीरयन्॥
इति। अत्र नामगोत्रग्रहणं सम्बन्धस्याप्युपलक्षणम्।
तथा च व्यासः।
गोत्रसम्बन्धनामानि पितॄणामनुकीर्त्तयन्।
एकैकस्य तु विप्रस्य अर्घपात्रं विनिक्षिपेत्॥ इति।
एकैकस्य तु विप्रस्येति एकदेवतासम्बन्धेन यावन्तो ब्राह्मणाः सम्पादिताः तावतां हस्तेषु तत्पात्रस्थमर्घोदकं प्रतिब्राह्मणं पृथक् पृथक्।
दद्यात् मन्त्रं जपंश्चाप्ययादिव्या आप इत्यपि।
अमुकामुकगोत्रैतत्तुभ्यमस्तु तिलोदकम्॥
इति वामहस्तगृहीतपात्रस्थमुदक दक्षिणहस्तपितृतीर्येन विप्रहस्ते निनयेदित्यर्थः। अत्र कात्यायनकृते निगमपरिशिष्टे विशेषः।
चमसपुरणानन्तरं तेभ्यो व्यतिषङ्गमवदानवद्धुत्वा हस्तेष्वपो निषिञ्चत्यमुष्यैति नामग्राहं चतुर्थेन मातामहादीना- मवनेज्येति।
अस्यायमर्थः। ये पूर्वं चत्वारश्चमसा अर्घद्रव्येण पूरितास्तेषां मध्ये ये आद्यास्त्रयश्चमसाः पितृपितामहप्रपितामहानामर्थे परिकल्पितास्तेभ्यस्त्रिभ्यश्चमसभ्य इत्यर्थः। व्यतिषङ्गमवदानवद्धुत्वेति। पितुरर्घदाने कर्त्तव्ये पित्रर्घपात्रस्य पितामहप्रपितामहपात्रयोश्चार्घोदकस्यैकैकदेशमेकस्मिन्पात्रे गृहीत्वा पित्रेऽर्घदानं कार्यम्। ततः पितामहार्घपात्रस्य प्रपितामहपित्रर्घपात्रयोश्चार्घोदकस्यैकैकदेशमेकस्मिन्पात्रे गृहीत्वा पितामहायार्घंदद्यात्। ततः प्रपितामहार्घपात्रस्य पितृपितामहार्घपात्रयोश्चार्घोदकानामेकैकस्मिन् पात्रे गृहीत्वा प्रपितामहायार्घंदद्यात् इत्यर्थः। अयं च प्रकारो महापितृयज्ञे दर्शितः। तत्र पित्रर्थोपक्लृप्तिप्तार्घस्यैव पितृसम्प्रदानके दाने प्राधान्यं इतरार्घोदकयोस्तु तत्र तत्सस्कारकत्वेन गुणभूतता तयोस्तदर्थमनुकपिलेततत्वात्। एव पितामहप्रपितामहार्घयोरपि द्रष्टव्यम्। एवं च सतिसंस्कारकार्घोदकग्रहणविस्मरणेऽर्घावृत्तिर्न भवति प्रधानार्घोदकविस्मरणे तु आवृत्तिर्भबत्येव। अमुष्येति= षष्ठ्यन्तमेकैकस्य पित्रादेर्नाम गृहीत्वा तत्तद् ब्राह्मणहस्तेषु निषिश्चेत्। चतुर्थेनैकेनैव पात्रेण मातामहादि-भ्यस्त्रिभ्योऽर्घदानं कुर्यात्। इद च न नियतम्, अन्यथा “षडर्घ्यान्दापयेत् तत्रे”त्यस्यानुपपत्तेः। तेन मातामहानामर्घत्रयमपि भवत्येव। पात्राणामनुमन्त्रणमन्त्रानर्घदाने मन्त्रान्तरम्।या दिव्या
इत्यस्य ब्राह्मणहस्तगलितोदकानुमन्त्रणे विनियोगं चाह।
आश्वलायनः।
पितरिदन्तेऽर्ध्यं, पितामहेदं तेऽर्ध्यं, प्रपितामहेदं तेऽर्ध्यमित्यनुपूर्वंताः प्रतिग्राहयिष्यन् सकृत्स्वधार्घ्याइति प्रसृष्टा- स्वनुमन्त्रितासु “वादिव्या आपः पयसासम्बभूवुर्या अन्तरिक्षा उत पार्थिवीर्याः। हिरण्यवर्णा यज्ञियास्तान आपः शिवाः शं स्योनाः सुहवा भवन्तु” इति। ता=पात्रस्था आपः, ब्राह्मणान्प्रतिग्राहयिष्यन् सकृत्स्वधार्घ्याइति मन्त्रं जपेत्। पितरिदं तेऽर्ध्यमित्यादिभिः प्रतिमाहयेद्=दद्यात्। तासु प्रसृष्टासु ब्राह्मणहस्तेभ्यो भूमिं गतासु या दिव्या इत्यनयर्चानुमन्त्रयेत्।अनुमन्त्रण च सर्वेषां सकृदेव कार्यं, शक्यत्वादित्युक्तं प्राक्। यमेन तु अर्घदानं तूष्णीं कर्त्तव्यमित्युक्तं “ततः सलिलमानीय तृष्णीं दद्यात् पवित्रवत”इति। पवित्रादिसकलार्घद्रव्यसहितमित्यर्थः।
यत्वत्राश्वलावनगृह्यकारिकायां स्वधार्थ्या इत्यर्थ्यास्तानुपवीती निवेदवेदिति पित्रर्घदाने उपवीतमुक्तं, तत् “तिलाम्बु- नाचापसव्यं दद्यादर्थ्यादिकं द्विज”इति वराहपुराणविरोधान्निर्मूलम्। समूलत्वे वा आश्वलायनशाखिपरम्। इत्यर्घदानम्।
अथ संस्रवग्रहणम्।
तत्र कात्यायनः,
प्रथमे पात्रे संस्रवान् समवनीय पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोतीति। प्रथमे पात्रे न वैश्वदेविके। तथा च—
प्रचेताः,
प्रथमे पितृपात्रे तु सर्वान् सम्भृतसंस्रवान्।
पितृभ्यःस्थानमित्युक्त्वा कुर्याद् भूमावधोमुखम्॥
अत्र सर्वान् इति सर्वशब्देन पितृपात्रगता एव संस्रवा गृह्यन्ते न वैश्वदेविकपात्रस्था अपीति। तथा च याज्ञवल्क्येन काण्डानुसमयेन वैश्वदेविकमर्ध्याद्यर्चनं विधाय पश्चात्पैत्र्यमर्घदानमुक्त्वा “दत्वार्घं संस्रावांस्तेषां पात्रे कृत्वा विधानतः। पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यध”इति तेषामित्यनेन सर्वनाम्ना पितामहपात्रस्थसंस्रवाणामेवोक्तत्वात्। अध इति भूमौ पूर्वलिखितप्रचेतसो वचनात्।संस्रवाः=पात्रसंलग्नाआपः, ब्राह्मणहस्ताङ्गुलिविवरनिःसृतमर्घोदकं वा।
अत्र केचित्।
“दत्वार्घं संस्रवांस्तेषा”मिति बहूनां संस्रवाणां पितृपात्रे करणविघानात् पितामहप्रपितामहपात्रयोरेव सस्रवोपादाने च बहुवचनानथक्यात, “प्रथमे पितृपात्रे तु सर्वान्सम्भृत्य सस्रवा”निति सर्वपदस्यासामञ्जस्याच्च पिनामहादिप्रपिताम हयोमातामहादित्रयाणां चेवं पञ्चार्घपात्रस्रवाणा सम्भरणं कार्यामस्याहुः।
अपरे तु पितृपात्रे पितामहप्रपितामहार्घपात्रसंस्रवानेकीकृत्य ‘पितृभ्यः स्थानमसीति’तत्पात्रस्य न्युब्जीकरणम्, बहुवचन त्ववयवापेक्षम्, मातामहानामप्येवामित्यानिदेशेन मातामहपात्रमपि पितृभ्य स्थानमसीत्यनूहितेनैव न्युब्जकार्यमित्याहुः।
संस्रवग्रहणप्रकारमाह—
यमः।
पैतृकं प्रथमं पात्रं तस्मिन् पैतामहं न्यसेत्।
प्रपितामहं ततोन्यस्य नोद्धरेन्न च चालयेत्॥ इति
एतच्च न्युब्जीकरणं कुशान्तरितायां भूमौ कर्त्तव्यम्।
तथा च स्मृतिः“कुर्याद्दर्भेष्वधोमुख” मिति।
अत्र पात्रन्युब्जीकरणभूमेः समन्त्रक प्रोक्षणमाह—
दक्षः।
शुन्धन्ताल्ँलोका इति तु सिञ्चेद् भूमिं क्षिपेत कुशान्।
पितृभ्यःस्थानमसीति न्युब्ज पात्रं करोत्यधः॥ इति।
शुन्धन्ताल्लोँकाः पितृषदना इत्येतदन्त यजुः, वाक्यपरिपूर्तेः। शङ्खधरप्रदर्शिते तु कात्यायनवचनेऽर्घपात्र- न्युब्जीकरणे मन्त्रान्तरमुक्तं शुन्धन्ताल्लोँकाः पितृषदना इत्वेकदशेमवसिच्यपितृषदनमसीति न्युब्जं पात्रंकरोतीति।
एकदेशं=उत्तरदेशम्। तथा च—
मात्स्यपाद्मयोः।
या दिव्येत्यर्घमुत्सृज्य दद्याद्गन्धादिकं ततः।
वन्त्रोत्तरं चानुपूर्वं दत्वा सस्रवमादितः॥
पितृपात्रे निधायाल्पं न्युब्जमुत्तरतो न्यसेत्।
पितृभ्यः स्थानमसीति निधाय परिवेषयेत्॥
अस्यार्थः। या दिव्या इतिअर्घंदत्वा। पितृपात्रे संस्रवमर्घ्यावशेषम्।आदितः=आदौकृत्या निधायानन्तरं श्राद्ध देशादुत्तरतो न्युब्जं तन्न्यसेत्। पितृब्राह्मणस्योत्तरस्यां दिशीति कल्पतरुः।आख्यातात्कर्त्तु-
सन्निहितत्वाच्च तस्यैववामपार्श्व इति श्राद्धविवेकः। या दक्षिणा सा प्राची या पूर्वा सोत्तरेति पित्र्यामिष्टिमुपक्रम्य ब्राह्मणश्रुतेरुत्तराप्राचीदिगिति गदाधरः।वैश्वदेविकाद्विजपङ्क्तेरुत्तर एवेति हेमाद्रिः।
नागरखण्डे च—
अधोमुखं तु तत्पात्रं विजने स्थापयेत्ततः।
तदिति=यस्मिन्पितृपात्रे संस्रवाःसंगृहीताः। विजने=श्राद्धीयद्रव्यानयनापनयनपरिवेषणादिकर्तृजनसंवरणदोषरहिते। अत्र प्रचेतसा विशेष उक्तः।
अर्घसंस्रवपात्रं तु शुन्धन्तामिति संस्पृशेत्।
पितृभ्यः स्थानमसीति न्युब्ज कुर्यात् पवित्राणि आदाय तैः पवित्रैः सहार्घपात्रं न्युब्ज कुर्यात्।
बैजवापगृह्ये तु अर्घंदत्वा अनन्तरमेव शेषस्य कुशेषु निनयनं उक्तम्। पितृभ्योऽक्षय्यमस्त्यिति शेषं दर्भेष्ववने- जयतीत्युक्त्वा पितामहादिषु अर्घदानस्योक्तत्वात्। दर्भेषु इति=येषु दर्भेषु अर्घपात्राणि स्थापितानि तेष्वित्यर्थः। तदनन्तरं च तानि पात्राणि तथैव स्थापयेत्।
तथा च मैत्रायणीये शिष्टम्।
वर्हिषि निनयेदभ्युक्ष्य प्रत्यासादयेदिति।
यत्र पूर्वमर्धदानार्थमासादितानि अर्घंदत्वा तत्रैवपुनरासाद
येत्, प्रत्यासादनशब्दात्।
अत्रिणा तु संस्रवाणां प्रथमे पात्रे संग्रहं स्त [कृ] त्वा स्वधावाचनात्पूर्वकालं तेषां प्रतिपत्तिरुक्ता।
अपसव्यं ततः कृत्वा पिण्डपार्श्वेसमाहितः।
क्षिप्त्वा दर्भपवित्राणि मोचयेत्संस्रवांस्ततः॥
इदं च संस्रवधारणं पात्रस्योत्तानस्थापने पवोपपद्यते न न्युब्जीकरणे। अतोऽनेनार्थादुत्तानस्यैव संस्रवपात्रस्य स्थापनमुक्तं भवति। अस्मिन्पक्षे संस्नवाधारीकृतस्य पितृपात्रस्य पितामहपात्रेण न्युब्जेनोत्तानेन वा पिधानं कर्त्तव्यं तदुपरि प्रपितामहपात्रम्। तथा च
कात्यायनः।
पैतृक प्रथमं पात्रं तस्मिन् पैतामहं न्यसेत्।
प्रपैतामहं ततोन्यस्य नोद्धरेन्नच चालयेत्॥ इति।
अत्र पुत्रकामस्य विशेष उक्तो वृद्धशातातपेन।
प्रथमे पितृपात्रे तु सर्वान्सम्भृत्य संस्रवान्।
अनक्ति वदनं पश्चात्पुत्रकामो भवेद्यदि॥
अत्र संस्रवाभिमन्त्रणे मुखाञ्जने च मन्त्रः कात्यायनेनोक्तः।
अर्घ्यंस्वधया इत्युक्त्वा संस्रवानभिमन्त्रयेत्।
ये देवा इति मन्त्रेण पुत्रकामो मुखं स्पृशेत्।
ब्रह्मपुराणे तु
तेष्वर्घपात्रस्थेषु संस्रवेषु अन्योदकासेकेन तान्यर्घपात्राणि सम्पूर्यतेषूदकेषु पुत्रकामेन यजमानेन स्वमुखप्रतिबिम्बा- वलोकनं कार्यमित्युतम्।
तेषु संस्नवपात्रेषु जलपूर्णेषु तद्रसः।
पुत्रकामो मुख पश्येन्मन्त्रं पूर्वामुखो जपन्॥
शुन्धन्ताल्ँलोकाः पितृषदनाः पितृषदनमसीति च।
जलपूर्णाः=जलान्तरपूर्णा इति हेमाद्रिः।
नागरखण्डेतु
आयुष्कामस्य यजमानस्य संस्नवोदकेन नेत्राभ्युक्षणमुक्तम्।
पितृपात्रे समाधाय अर्घपात्राणि कृत्स्नशः।
आयुष्कामस्तुतत्तोयं लोचनाभ्यां परिक्षिपेत्॥
प्रथमे पात्रे एकीकृतं संस्रवोदकं हस्ते गृहीत्वा “आपः शिवाः शिवतमाः शान्ताः शान्ततमास्तास्ते कृण्वन्तु भेषज” मिति मन्त्रेण प्राङ्मुखोपविष्टस्य यजमानस्यान्येनाभिषेकः क्रियत इति वाजसनेयिनामाचार इति हेमाद्रिः। एतानि च मुखाञ्जनादीनि काम्यानि कर्माणि पुरुषार्थानि श्राद्धानङ्गभूतानि प्राङ्मुखेन यज्ञोपवीतिना यजमानेन कार्याणि एतन्मुखमार्जनादेः काम्यत्वान्नित्यवत्कृतार्घपात्रसंस्रवप्रतिपत्तेर्बाधः।
अत्रिणा तुगन्धपुष्पादिभिरभ्यर्चितप्रदेशे पात्राण्यपास्य न्युब्जीकरणं, न्युब्जीकृतस्यार्चितस्य मन्त्रेणैवापिधानम् अपिधायकपात्रस्वाप्यर्चनमुक्तम्।
गन्धादिभिस्तदभ्यर्च्य तृतीयेनापिधापयेत्। इत्येव ज्ञेयम्।
ब्रह्मपुराणे तु।
ततस्तेष्वर्धपात्रेषु सापिधानेषु वै पितॄन्।
पूजये त्पितृपूर्वं तु पाघार्घ्यकुसुमादिभिः॥ इति।
एतन्न्युब्जीकृतं प्रागुत्तानकरणान्नचालनीयम्।
अत्राहापस्तम्बः।
नोद्धरेत्प्रथमं पात्रं पितृृणामर्घपातितम्।
आवृतास्तत्र तिष्ठन्ति यावद्विप्रविसर्जनम्॥ इति।
अत्र यावद्विप्रविसर्जनमिति स्वगृह्यसूत्रोक्तपात्रोत्तानकरणकालोपलक्षणार्थम्।उद्धरणे दोष आश्वलायनगृह्ये।
उद्धरेद्यदि तत्पात्रं ब्राह्मणो ज्ञानदुर्बलः।
अभोज्यं तद्भवेच्छ्राद्धं क्रुद्धे पितृगणे गते।
उशनसापि उद्घाटने दोष उक्तः।
उत्तानं विवृतं वापि पितृपात्रं यदा भवेत्॥
अभोज्यं तद्भवेदन्नंक्रुद्धैः पितृगणैर्गतैः।
विवृत्तम्=उद्धाटितम्।
तथा।
पात्रं दृष्ट्वा व्रजन्त्याशु पितरः प्रशयन्ति च।
उद्धृतमिति सम्बन्धः।
अथ गन्धादिदानम्।
वैजवापगृह्ये,
तस्योपरि कुशान्दत्वा प्रदद्याद्देवपूर्वकम्।
गन्धपुष्पाणि धूपं च दीपं वस्त्रोपवीतके॥
तस्य=न्युब्जीकृतस्य पितृपात्रस्योपरि कुशान्कृत्वा गन्धपुष्पादीनि दत्वा अनन्तरं वैश्वदेविकब्राह्मणकरे गन्धादि दद्यात्।
विष्णुनात्वलङ्करणमप्युक्तम्।
निवेद्य चानुलेपनवस्त्रपुष्पालङ्कारधूपैः शक्त्या विप्रान् समभ्यर्च्येति।
विष्णुधर्मोत्तरे—
निवेद्य विप्रेषु ततः पाद्यार्घ्यौप्रयतः क्रमात्।
गन्धैः पुष्पैश्च धूपैश्च वस्त्रैश्चाऽऽप्यविभूषणैः॥
अर्चयेद्ब्राह्मणान् शक्त्या श्रहधानःसमाहितः।
आदौ समर्चयेद्विप्रान्वैश्वदेवनिवेशितान्॥
निवेशिताञ्च पित्रर्थे ततः पश्चात् समर्चयेत्॥ इति।
कौशिकसूत्रे तु अञ्जनादर्शयोरपि प्रदानमुक्तम्।
गन्धमाल्यधूपाञ्जनादर्शप्रदीपस्याहरणमिति।
अत्राहरणस्य दृष्टार्थत्वाद् ब्राह्मणेभ्यस्तद्देयमित्युक्तं भवति। एतद्गन्धादिदानं च देवतोद्देशेनैव तदधिष्ठानभूतद्विजकरे कर्त्तव्यम्। न तु द्विजसम्प्रदानकमित्युक्तं सम्प्रदाननिर्णये।
याज्ञवल्क्येन तु गन्धादिदानस्योदकपूर्वकत्वमुक्तम्।
दत्वोदकं गन्धमाल्यं धूपदानं सदीपकम्।
गौतमेन तु विध्युपदिष्टानां सर्वदानानामुदकपूर्वकत्वमुक्तम्।
अन्नभिक्षादानमप्पूर्वम्। ददातिषु चैवंधर्म्येष्विति। तथा सर्वाप्युदकपूर्वाणि दानानि विहारवर्जमिति। अत्र विशेषो—
ब्रह्मपुराणे—
श्वेतचन्दनकर्प्पूरकुङ्कुमानि शुभानि तु।
विलेपनार्थं दद्यात्तु यच्चान्यात्पितृबल्लभम्। इति।
अत्र मन्त्रं विधिविशेषं चाह—
व्यासः,
विपवित्रकरो गन्धैर्गन्धद्वारेति पूजयेत्।
गन्धद्वारेति मन्त्रेण विप्रे गन्धान्प्रदापयेत्।
र्गन्धौर्विगतपवित्रकरः श्राद्धकर्ता विप्रान् पूजयेत्, ललाटगलवक्षःकुक्षिकक्षाद्यङ्गेषु विलिम्पेदित्यर्थः। अत्र विपवित्र- करविधानं लेपनं कुर्वतः श्राद्धकर्त्तुरेव, न पुनः करगृहीतगन्धैः स्वाङ्गविलेपनं कुर्वतां ब्राह्मणानामपि। अत एव वृद्धशातातपेन।
पवित्रं तु करे कृत्वा यः समालभते द्विजान्।
राक्षसानां भवेच्छ्राद्धं निराशाः पितरो गताः॥ इति।
श्राद्धकर्त्तरि च विलेपनकारिणि सपवित्रकरे दोषोऽभिहितः। समालम्भनम्=विलेपनम्।
केचित्तु ब्राह्मणा अपि स्वाङ्गविलेपनं कुर्वाणाः पवित्राणि विन्यसेयुरित्याहुः।
अत्र विशेषान्तरं देवलस्मृतिभविष्यत्पुराणयोः।
यज्ञोपवीतं विप्राणां स्कन्धान्नैवावतारयेत्।
गन्धादिपूजासिद्ध्यर्थंदैवे पित्र्ये च कर्मणि॥ इति।
यजमानो नावतारयेदित्यर्थः।
शातावपोऽपि,
कट्यां त्रिपुष्करं कृत्वा गन्धैर्यस्तु विलिम्पति।
पितृयज्ञे नवे छिद्रेनिराशैः पितृभिर्गतैः॥ इति।
त्रिपुस्करम्=उपवीतम्। छिद्र=विवरं विध्वंसनमित्यर्थः। त्रिपुष्करग्रहणमुत्तरीयस्याप्युपलक्षकं, तदवतारणे ह्योकवस्त्रता स्यात् सा च प्रतिषिद्धा।
सव्यादंसात् परिभ्रष्टमम्बरं यस्तु धारयेत्।
एकवस्त्रं तु तं विद्याद्दैवे पित्र्ये च वर्जयेत्।
इति वचनेन। तथाशङ्खेनापि दोष उक्तः।
उपवीतं कटौ कृत्वा कुर्याद्गात्रानुलेपनम्।
एकवासाश्च योऽश्नीयान्निराशाः पितरो गताः॥ इति।
विलेपनं चोर्द्ध्वपुण्ड्राकारं कार्यं न तु वर्त्तुलादिपुण्ड्राकारमिति हेमाद्रिः। माल्यधारणप्रदेशस्तु वृद्धमनुनोक्तः।
उपवीतित्वमुत्सृज्य कारयेन्नानुलेपनम्।
न नियुक्तः शिखावर्जंमाल्यं शिरसि धारयेत्॥इति।
नियुक्तः=श्राद्धे निमन्त्रितः। अत्र पुष्पदाने मन्त्र उक्तो विष्णुना। “पुष्पवतीरिति” पुष्पमिति। दद्यादित्यनन्तर- पूर्ववाक्यादनुषज्यते। पुष्पवतीरिति मन्त्रादिप्रतीकोपात्तो मन्त्रः कस्मिन्नपि वेदे न लभ्यते तेन पुष्पवतीपदं यस्मिन्मन्त्रमध्ये वर्त्तते स मन्त्रः पुष्पवतीति प्रतीकोपात्तो ज्ञेयः। स च “या औषधयः प्रतिगृहीत पुष्पवती सुपिष्पलाः। अयं वो गर्भ ऋत्वियः प्रत्न
<MISSING_FIG href=”../books_images/U-IMG-1700108633चाँद.PNG"/>
सधस्थमासदत्”इति। धूपप्रदाने मन्त्र उक्तो व्यासेन धूरसीत्युक्त्वेति धूपं दद्यादित्यर्थः। यद्यपीदं यजुर्दर्शपूर्णमासयोर्लिङ्गेनानोधुरभिमर्शने विनियुक्तं, तथापि विलङ्गकमपि स्मार्त्तेन वचनेन धूपदानेऽपि विनियुक्तम्। ऐन्द्रया गार्हपत्यमुपतिष्ठत इतिषत्।
ब्रह्माण्डपुराणे तु मन्त्रान्तरमुक्तम्।
वनस्पतिरसो दिव्यो गन्धाढ्यः सुमनो हरः।
(१)64 आहारः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्॥ इति।
धूपश्च ब्राह्मणसान्निध्ये व्यजनादिवातेन प्रेरणीयो न हस्तवातेन।
तथा च शातातप,
हस्तवाताहतं धूपं ये पिबन्ति द्विजोत्तमाः।
वृथा भवति तच्छ्राद्धं तस्मात्तं परिवर्जयेत्॥ इति।
धूपदानानन्तरं यथोक्तघृततैलवर्त्यादिना प्रवर्त्तितदीपो देयः।
तत्र व्यासः—
इदं ज्योतिरिति प्रोच्य दीप दद्यात् समाहितः।
एवं दीपं दत्वा वस्त्रं दद्यात्।
तत्र वस्त्रदाने मन्त्रो, वस्त्राभावे प्रतिनिधित्वेन यज्ञोपवीतदानमुक्त शातातपेन ‘युवासुवासा’इति दद्यात्, तदभावे चौपवीतकमिति। “युवासुवासाः परिवीत आगात्सउश्रेयान्भवति जायमानः। तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्त इति।
अत्रिणा तु वस्त्रदाने मन्त्रान्तरमुकम्।“युव वस्त्राणि मन्त्रेण दद्याद्वस्त्राणि भक्तित इति। “युवं वस्त्राणि पीवसा वसाथे युवोरच्छ्रिदामन्तवो ह सर्गाः। अवातिरतमनृतानि विश्वऋतेन मित्रावरुणासचेथे इति।
एतेषां च गन्धादिमन्त्राणां दैवपित्र्यसाधारण्यमुक्तम्—
भविष्योत्तरे,
गन्धद्वारामित्यनेन गन्धं दद्यात्प्रयत्नतः।
पुष्पवत्या च पुष्पाणि धूरसीति च धूपकम्॥
दीपं चेदं ज्योतिरिति दैवे पित्र्येच कर्मणि।
युवं वस्त्राणि मन्त्रेण दद्यात् वासांसि शक्तितः। इति।
विशेषस्तु आदित्यपुराणेऽभिहितः।
अतोऽर्थं प्रदहेद् धूपं पितॄनुदिश्य धर्मवित्॥
सङ्कीर्त्यनामगोत्रादि प्रत्येकं च प्रकल्पयते। इति।
यस्माद् धूपदानेन पितृृणामक्षया तृप्तिः प्रीतिर्जायते अत एतदर्थं नामगोत्राद्युच्चारणपूर्वकं पितॄनुद्दिश्य ब्राह्मणानां पुरतो घृतमधुसंयुक्तं गुग्गुलाद्युक्त धूपं प्रदहेत्। तत्र पित्रादिभ्यः कल्पयेत्, पित्रा द्युद्देशेन दद्यादित्यर्थः। धूपग्रहणं गन्धादीनामुपलक्षणार्थम्। तथाच
पैठीनसिः,
नामगोत्रे समुच्चार्य दद्याच्छ्रद्धासमन्वितः।
पितृृनुद्दिश्य विप्रेभ्यो गन्धादीन् देवपूर्वकम्॥ इति।
आदिना पुष्पधूपदीपाच्छादनानि संगृह्यन्ते। अत एव
हारीतः,
गन्धान् पितृगोत्रनाम गृहीत्वाऽप उपस्पृश्यैवमेवेतरयोर्गन्धधूपदीपमाल्याच्छादनामति। ‘दद्यादिति शेषः।अत्र च गन्धादिदाने म.
न्त्रोच्चारणानन्तरं गन्धादिदानवाक्यप्रयोगो—
ब्रह्मपुराणे,
इदं वचः [वासः] पाद्यमर्ध्यपुष्पधूपविलेपनम्।
अयं दीपः प्रकाशश्च विश्वेदेवाः समर्प्यते॥
तथा,
अयं वो दीप इत्युक्त्वा दीपं हृद्यं निवेदयेत्।
अनङ्गलग्नं सद्वस्रं भवेद्यत्तद्युगं शुभम्॥
इदं वो वस्त्रमित्युक्त्वा त्रितयं वा निवेदयेत्।
अत्र दीयमानगन्धादिस्वीकारकाले ब्राह्मणवाच्यं देवलनोक्तम्। “इदं ज्योतिरितिज्योतिः, सुज्योतिरिति तेऽपि च” ति।
इदं वो ज्योतिरिति ज्योतिः श्राद्धकर्ता निवेदयेत्। तेऽपि चेति। तेऽपि विप्राः सुज्योतिरिति ब्रूयुरित्यर्थः। अत्र चशब्देन आसनादितत्तत्पदार्थस्वीकारकाले स्वासनं स्वर्ध्यं सुगन्धः सुपुष्पाणि सुधूपः सुदीपः स्वाच्छादनमिति ते ब्रूयुरिस्थेतदुक्तं भवति। अत्राच्छादनदानयज्ञोपवीतदानानन्तरं यथाशक्त्यलङ्करणछत्रकमण्डल्वादीनि देयानीति। तद्दाने तु सङ्कल्पमात्रं तदा।सम्पादनं तु ब्राह्मणप्रस्थापनकाल एव कर्त्तव्यमिति हेमाद्रिः। तदेवं गन्धादिदानं कृत्वा कृताञ्जलिः श्राद्धकर्त्ता “आदित्या रुद्रा वसव”इत्येतामृचं जपेत्। तथा च ब्रह्मपुराणे लिङ्गदर्शनम्।
तानार्च्य भूयो गन्धाद्यैर्धूपं दत्वा च भक्तितः।
आदित्या रुद्रा वसव इत्येतामजपत्प्रभुः॥ इति।
आदित्या रुद्रा वसवः सुनीथा द्यावाक्षामा पृथिवी अन्तरिक्षम्।
सजोषसो यज्ञमवन्तु देवा ऊर्ध्वं कृण्वन्त्वध्वरस्य केतुमिति।
विष्णुधर्मोत्तरे तु ब्राह्मणानवलोकयन्निमामृचं जपेदित्युक्तम्।
सम्पूज्य गन्धपुष्पाद्यैर्ब्राह्मणान्प्रयतः सदा।
आदित्या रुद्रा वसवो द्विजान् वीक्षंस्ततो जपेत्॥
सम्पूज्य ततस्तान् वीक्षयेत्। अत्र जपवीक्षणयोरेककालतैव, वीक्षंस्ततो जपेदिति श्रवणात्। विष्णुना तुकरणत्वमस्य मन्त्रस्योक्तम्। “विप्रान्समभ्यर्च्यादित्या रुद्रा वसव इति वीक्ष्ये” ति। अस्मिन्पक्षे वीक्षणाङ्गत्वान्मन्त्रोऽपि प्रतिब्राह्मणमा- वर्त्तते। न च वीक्षणमपि सकृ
देवास्तु इति वाच्यम् । विप्रसंस्कारार्थत्वाद्वीक्षणस्य प्रतिप्रधानमावृतेर्न्यायप्राप्तत्वात् । इति गन्धादिदानविधिः ।
अथ मण्डलकरणादयः पदार्थाः ।
हेमाद्रौ कालिकापुराणे ।
निर्वर्त्त्यब्राह्मणादेशात् क्रियामेव यथाविधि ।
पुनर्भूमिं च संशोध्य पङ्क्तेन्तरमाचरेत् ॥
भाजनानि ततो दद्याद्धस्तशौचं पुनः क्रमात् ।
भूमिशोधनमर्चनप्रसङ्गपतितकुशाद्यपनयनम् । अन्तरं=भस्मादिभिः पात्रस्थापनार्थंपरस्परम्भूमेर्मयार्दाकरणम् ।
अत्र विशेषो भृगुणोक्तः ।
भस्मना वारिणा वापि कारयेन्मण्डलं ततः ।
चतुष्कोणं द्विजाग्र्यस्य त्रिकोणं क्षत्रियस्य तु ॥
मण्डलाकृतिवैश्यस्य शूद्रम्याभ्युक्षणं स्मृतम् ।
बह्वचपरिशिष्टे तु दैवे चतुरस्रंपित्र्ये वृत्तं मण्डल कृत्वा क्रमेण सयवान्सतिलान्दर्भान्दद्यादित्युक्तम् । मण्डलसाधनानि—
ब्रह्मपुराणे,
मण्डलानि च कार्याणि नैवारैश्चूर्णकैः शुभैः ।
(१)65 गौरमृत्तिकया वापि प्रणीतेनाथ भस्मना ।
पाषाणचूर्णसङ्कीर्णं मारुतं च विसर्जयेत् ॥ इति ।
अत्र मण्डलकरणमेव मर्यादाकरणमिति हेमाद्रिः ।
प्रयोगपरिजातस्तु नीवारचूर्णादिना मण्डलानि कृत्वा पात्राणि [सं] स्थाप्य भस्मना मर्यादां कुर्यादित्याह ।
ततः कृतान्तरायां भूमावेव भोजनपात्राणि स्थापयेत् । भूमावेवनिदध्यान्नोपरिपात्राणीति हारीतोक्तेः। उपरि= यन्त्रिकादौ । ततो हस्त शुद्धिं कुर्यात् हस्तप्रक्षालनोदकं च शुचिदेशे प्रक्षिपेत् ।
प्रक्षाल्य हस्तपादादि पश्चादद्भिर्विधानवित् ।
प्रक्षालनजलं दर्भेस्तिलैर्भिश्र क्षिपेच्छुचौ ॥
एतच्च पादप्रक्षालनस्थाने क्षेप्यमिति शिष्टाचारः ।
अथाग्नौकरणम्।
याज्ञवल्क्यः।
अग्नौ करिष्यन्नादाय पृच्छत्यन्न घृतप्लुतम्।
कुरुष्वेत्यभ्यनुज्ञातो हुत्वाग्रौपितृयज्ञवत्॥
घृतप्लुतमन्नमादायेत्यन्वयः। पृच्छारूप च कात्यायनेनोक्तं “उद्धृत्य घृताक्तमन्नंपृच्छत्यग्नौकरिष्ये” इति। कुरु- ष्वेत्यभ्यनुज्ञात इति। कौर्मे तु करोमीति प्रश्नः।
कृत्वा समाहितं चित्तं मन्त्रयेद् वै करोमि च।
अनुज्ञातः कुरुष्वेति।
बौधायने तु अग्नौ करिष्यामीति पृष्ट्वा तैरनुज्ञात इत्यर्थः।
आश्वलायने तु उद्धृत्य घृताक्तमन्नमनुज्ञापयति। अग्नौ करिष्ये, करवै, करवाणीति वा। प्रत्यभ्यनुज्ञा क्रियतां, कुरुष्व, कुर्विति।
आपस्तम्बेन तु सरस्वत्युत्तरवासिना विशेष उक्तः “उदीच्यवृत्तिस्त्वासनगतानां हस्तेषूदकपात्रानयन उद्ध्रयितामग्नौच क्रियतामित्यामन्त्रयते काममुद्ध्रयितां काममग्नौच क्रियतामित्यतिसृष्ट उद्धरेत् जुहुयाच्चेति”।
उदीच्याः=सरस्वत्युत्तरतीरवासिनः।
प्रागुदञ्चौ विभजते हंसः क्षीरोदके यथा।
विदुषां शब्दसिध्यर्थं सा नः पातु सरस्वती॥
इति वृद्धोक्तेरिति हेमाद्रिः।
वृत्तिः=आचारः।
पाणिहोमे तु शौनके विशेषः।
अनग्निश्चेदाज्यं गृहीत्वा भवत्स्वेवाग्नौकरणमिति पूर्ववत् तथास्त्वितीति।
आज्यं=तन्मिश्रमन्नम्। पूर्ववत्=करिष्य इत्यादि प्रकारेण। तथा स्त्विति=क्रियतामित्यादिप्रकारेणेत्यर्थः। अनेन च पाणिहोमेऽनुज्ञानास्तीति स्मृत्यर्थसारोक्तंपरास्तम्।अजकर्णादौहोमे तु अग्नौ करणं करिष्य इत्येव प्रयोग इति हेमाद्रिः। प्रश्नश्च सर्वान् पङ्क्तिमूर्द्धन्य प्रति वा। “अथोद्धृत्याग्निंपङ्क्तिमूर्द्धन्य सर्वान्वा पृच्छति अग्नौ करिष्य” इति हारीतोक्तेः। प्रश्नश्च पित्र्यब्राह्मणानामेव, “पैतृकैरभ्यनुज्ञातो जुहोति यज्ञवदि”ति पारस्करोक्तेः। अत्र विशेषो-
विष्णुपुराणे।
जुहुयाद्यञ्जनक्षारवर्जमन्नंततोऽनले॥ इति।
यत्तु ब्रह्माण्डे।
पुष्पाणां च फलानां च भक्ष्याणां च प्रयत्नतः।
अग्रमुद्वृत्यसर्वेषां जुहुयाज्जातवेदसि॥ इति।
अविशेषेण होमस्मरणं तदन्नाभावे फलपुष्पादिद्रव्यकश्राद्धविषयम्। न चैतादृशविषयेऽग्नौकरणाभाव इति जयन्तमतं युक्तम्।
आमश्राद्धं यदा कुर्याद्विधिज्ञःश्रद्धयान्वितः।
तेनाग्नौकरणं कुर्यात्पिण्डांस्तेनैव निर्व॑पेत्॥
इति मत्स्यपुराणे तत्राप्यग्नौकरणोक्तेः। अथवा आपस्तम्बविषयं, तेषामग्नौकरणहोमोत्तरं तदङ्गतया व्यञ्जनक्षारस- हितान्नहोमस्य न क्षारलवणहोमो विद्यते तथापरान्नसंसृष्टस्याहविष्यस्य होम उदीचीनमुष्णं भस्मापोह्य तस्मिन् जुहुयात्तद्धुतमहुतं चेत्यादिना विहितत्वादिति हेमाद्रिः। अयं च होम आहिताग्नेःसर्वाधानिनो दक्षिणाग्नौ “आहिताग्निस्तु जुहुयाद् दक्षिणाग्नौसमाहितः” इति विष्णुधर्माेक्ते। अर्धाधानिनःकेवलौपासनिनश्चौपासने “अनाहिताग्निश्चोपसद”इति तत्रैवोक्तेः। अत्र चकारादर्धाधानीति स्मृतिचन्द्रिकादयः। अर्धाधानिनोऽपि दक्षिणाग्नावेव, आहिताग्नित्वाविशेषादिति कल्पतरुप्रभृतयः। अपरिग्रहेणासन्निधानादिना वाग्न्यभावे विप्रपाणौ—
अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत्।
इति मनूक्तेःविप्रश्च पित्र्यपङ्क्तिमूर्द्धन्योदेवविप्रमूर्द्धन्यो वा।
पित्र्ये यः पङ्क्तिमूर्द्धन्यस्तस्य पाणावनग्निकः।
कृत्वा मन्त्रवदन्येषां तूष्णीं पात्रेषु निक्षिपेत्॥
इति कात्यायनोक्तेः।
निरग्निको यदा विप्रः श्राद्धं कुर्यात् तु पार्वणम्।
अग्नौकरणवत्तत्र होमो दैवकरे भवेत्॥
इति कश्यपोक्तेश्च। अत्र च विकल्पो न समुच्चयः, अङ्गभूताधिकरणानुराधेन प्रधानावृत्तेरन्याय्यत्वात्। तत्रापि पितृ- मातामहश्राद्धयोर्ब्राह्मणभेद आवृत्तिः, गृह्यमाणविशेषत्वात्, अभेदे तु तन्त्रम्। एव श्राद्धद्वये वैश्वदेविकतन्त्रत्वे वैश्वदेवे- ऽग्नौकरणपक्षे सकृदेव, भेदे तु भेदः। अग्नौ तु तत्करणे सर्वदा तन्त्रम्।अथवा यदा यज्ञोपवीतस्वाहा
कारेतिकर्त्तव्यतया क्रियते तदा दैवे, यदा प्राचीनावीतस्वधाकारेति कर्त्तव्यतया तदा पित्र्ये, इति व्यवस्थासम्भवेऽव्यवस्थाया अन्याय्यत्वादित्याह हेमादिः। आश्वलायनसूत्रे सर्वपित्रादिब्राह्मणेध्वित्युक्तम्। अभ्यनुज्ञायां पाणिषु च वेति बहुवचनात्। अत्राप्येकाहुतिर्विभज्य देया प्रत्येकं वा द्वे द्वे आहुती इति वृत्तिकृत्। ननु—
आहृत्यदक्षिणाग्निं तु होमार्थं वै प्रयत्नतः।
अग्न्यर्थं लौकिकं वापि जुहुयात् कर्मसिद्धये॥
इति वायवीये लौकिकाग्निग्रहणात् कथमग्न्यभावे पाणिविधिरिति चेत्। न।तस्यावसथ्याग्निपरत्वादिति कल्पतरुः।
आहृत्य दक्षिणाग्निंत्विति समभिब्याहारात् सर्वाधानिनः प्रवा सादिना दक्षिणाग्न्यसन्निधाने लौकिकाग्निविधानं इति स्मृतिचन्द्रिकाकारादयः। तस्मादस्त्यग्न्यभावे पाणिविधेरवकाशः।
आपस्तम्बीयास्तु अग्न्यभावे सर्वदा लौकिकाग्न्यावाचरन्ति।
आश्वलायनगृह्यपरिशिष्टे तु
अन्वष्टक्यं च पूर्वेद्युर्मासिमास्यथ पार्वणम्।
काम्यमभ्युदयेऽष्टम्यामेकोद्दिष्टमथाष्टमम्।
चतुर्ष्वाद्येषु साग्नीनां वह्णौहोमो विधीयते॥
पित्र्यब्राह्मणहस्ते स्यादुत्तरेषु चतुर्ष्वपि।
इति अग्निपाण्योर्व्यवस्था उक्ता सा आश्वलायनानामेव द्रष्टव्या। “अग्न्यभावे तु विप्रस्य”इत्यादि वाक्यविरोदिति बहवः।
अत्र अन्वष्टक्यम्-अन्वष्टकाश्राद्धं। पूर्वेद्युः =अष्टकापूर्वेद्युःसप्तम्यां क्रियमाणम्। मासिमासि=प्रतिमासं कृष्णपक्षे क्रियमाणम्।पार्वणम्=अमावास्याश्राद्धम्।काम्यम्=प्रतिपदादिषु धनकामनया क्रियमाणम्।अभ्युदये=पुत्रजन्मादौ। अष्टम्याम्=तत्र विहितमष्टकाश्राद्धम्।एकोद्दिष्टम्=सपिण्डीकरणम्।अंशे तत्र तत्सत्वात्, मुख्यैकोद्दिष्टेऽग्नौक- रणाभावादिति हेमादिः।
वह्वृचभाष्यकारस्त्वविशेषात्सर्वस्मिन्नेकोद्दिष्टेऽपाणिहोममाह।
पाण्यभावे चाजकर्णादिषु कार्यम्।
तथा च मात्स्ये।
अग्यभावे तु विप्रस्य पाणौ वाथ जलेऽपि वा।
अजकर्णेऽश्वकर्णे वा गोष्ठे वाथ शिवान्तिके॥
अजकर्ण इति कल्पतरुकामरूपमदनरत्नादौ पाठः, सोऽपपाठः, शङ्खविरोधात्।
शङ्खः।
अजस्य दक्षिणे कर्णे पाणौ विप्रस्य दक्षिणे।
अप्सु चैव कुशस्तम्बे अग्निंकात्यायनोऽब्रवीत्॥
रजते च सुवर्णे च नित्यं वसति पावकः॥ इति।
अग्निं कात्यायन इत्यभेदोक्तिः स्तुत्यर्था। अत्र यद्यपि तुल्यवद्विकल्पः प्रतिभाति तथापि “अग्न्यभावे तु विप्रस्य पाणावे- वोपपादयेत्”इत्यत्रैवकारग्रहणात्पाणिर्मुख्यस्तदभावेऽजादयइति हेमाद्रिः। समविकल्प इति बहवः। अप्सु होमस्तु जलसमीपे श्राद्धकरणे।
विष्णुधर्मोत्तरे चाप्सु मार्कण्डेयेन यः स्मृतः।
स यदाऽपांसमीपे स्याच्छ्राद्ध ज्ञेयो विधिस्तदा॥
इति मदनरत्नेकात्यायनेनोक्ते।अत्र च याज्ञवल्क्येन पितृयज्ञवदित्यनेनाग्नौकरणहोमे पिण्डपितृयज्ञधर्मातिदेशः कृतः। ते च धर्मा आपस्तम्बेनोक्ताः। “दक्षिणाप्रागग्रैर्दर्भैर्दक्षिणमग्निंपरिस्तीर्य दक्षिणं जान्वाच्य मेक्षणेनोपस्तीर्ये” त्यादिना।
सुयज्ञेनापि परिसमूह्य पर्युक्ष्य परिस्तीर्य दक्षिणं जान्याच्ययज्ञोपवीती प्राङासीनो मेक्षणेन जुहोतीति।
आश्वलायनेनापि। प्राचीनावीतीध्ममुपसमाधाय मेक्षणेनावदाश्चावदानसम्पदा जुहुयादित्यादिना।
हारीतेन तु विशेष उक्तः।समितन्त्रेण प्राङ्मुखो मेक्षणेनाहुतिद्वयं हुत्वेति। समितन्त्रेण=आहुतिद्वयार्थं एकैवसमिदिति स्मृतिचन्द्रिकाकारः।
ब्रह्माण्डपुराणे समित्रयमुक्तम्—
दद्यात्तु समिधस्तिस्रस्तास्मिन्प्रदेशमात्रिकाः।
घृताकाः समिधो हुत्वा दक्षिणाग्राः समन्त्रकाः॥ इति।
समिल्लक्षणमाह्णिके परिभाषायामुक्तम्। समिदर्हावृक्षास्तत्रैव—
पलाशफल्गुन्यग्रोधप्लक्षाश्वत्थविकङ्कृताः।
उदुम्बरस्तथाबिल्वश्चन्दन यज्ञियाश्च ये॥
सरलो देवदारुश्च सालश्च खदिरस्तथा।
प्राह्याकण्टकिनश्चैव यज्ञिया ये च केचन॥
पूजिताः समिदर्थे ते पितॄणां वचनं यथा।
अनर्हास्तु—
श्लेष्मातको नक्तमालःकपित्थः शाल्मलस्तथा।
नीपो विभीतकश्चैव श्राद्धकर्मणि गर्हिताः॥
चिरबिल्वस्तथा टङ्कस्तिन्दुकाम्रातकौ तथा।
बिल्वकःकोविदारश्च एते श्राद्धे विगर्हिताः॥
निवासाश्चैव कीटानां गर्हिताः स्युरयज्ञियाः।
अन्यांश्चैवंविधान् सर्वान् वर्जयेद्वै अयज्ञियान्॥
फल्गु=काकोदुम्बरिका।टङ्कः= हिमारकः।
अथ देवतामन्त्रादयः।
मनुवृहस्पती—
अग्नेःसोमयमाभ्यां च कृत्वाप्यायनमादितः।
हविर्दानेन विधिवत् पश्चात्सन्तर्पयेत्पिपतृृन्। इति।
अग्न्यादीनां प्रथमं होमेनाप्यायनं कृत्वा पश्चात्पितॄन्यजेदित्यर्थः। अत्र यद्यपि सोमयमाभ्यामिति द्वन्द्वोत्तरचतुर्थ्या व्यासक्तं देवतात्वं प्रतीयते, तथापि न तद्विवक्षितं, प्रत्येकदेवतात्वावेदकमन्त्राहुतिसंख्यादीनां बहुलं दर्शनात्। किञ्च षष्ठ्यर्थ एषा चतुर्थी; अन्यथाप्यायनपदानन्वयापत्तेः। दृश्यते च पाठान्तरमपि “अग्निसोमयमानां चेःति, तस्मात्प्रत्येकं देवतात्वम्। अतएव—
यमः—
अग्नये चैव सोमाय यमाय जुहुयात्ततः।
अग्नये हव्यवाहाय स्वाहेति जुहुयाद्धविः॥
सोमाय च पितृमते यमायाङ्गिरसे तथा॥ इति।
मार्कण्डेयेन द्वे आहुती,
अग्नये कव्यवाहनाय स्वाहेति प्रथमाहुतिः।
सोमाय वै पितृमते स्वाहेत्यन्या तथा भवेत्॥ इति।
वैशब्दःपादपूरणार्थो न मन्त्रान्तर्गतः। एतदेवविपरीतमाह—
गोमिला,
मेक्षणेनोपधातं जुहुयात्स्वाहा सोमाय पितृमत इति पूर्वं, स्वाहाग्नये कव्यवाहनायोत द्वितीयम्। अत ऊर्ध्वं प्राचीनावीतीति। ऊर्ध्वमित्युक्तेः पूर्वं यज्ञोपवीतीति गम्यते।
ब्रह्माण्डपुराणे—
अग्नयेकव्यवाहनाय स्वधा नम इति ब्रुवन्।
सोमाय च पितृमते स्वधा नम इति ब्रुवन्॥
यमायाङ्गिरस्वते स्वधा नम इति ब्रुवन्।
इत्येते होममन्त्रास्तु त्रयाणामनुपूर्वशः॥
देशविशेषोऽपि तत्रैव—
दक्षिणतोऽग्नये नित्यं सोमायोत्तरतस्तथा।
एतयोरन्तरे नित्यं जुहुयाद्वै विवस्वत इति॥
आश्वलायनः।
सोमाय पितृमते स्वधा नमः, अग्नये कव्यवाहनाय स्वधा नम इति दक्षिणाप्नौजुहोति, यमायाङ्गिरस्वते पितृमते स्वधा नम इति द्वितीयम्। अग्नये कव्यवाहनाय स्वधा नम इति तृतीयम्। न यमाय जुहोतीत्येक इति।
सांख्यायनः।
अग्नये कव्यवाहनाय स्वाहा, सोमाय पितृमते स्वाहा, यमायाङ्गिरस्वतेपितृमते स्वाहेति।
बैजवापः।
अन्वाहार्यपचने मेक्षणेन द्वे आहुती जुहोत्यग्नये इति पूर्वां, सोमायेत्युत्तरामिति। अत्र केवलयोर्देवतास्वम्। यद्यप्येतदाश्वलाय नादिभिः पिण्डपितृयज्ञमधिकृत्योक्तम्। तथाप्यतिदेशादग्नौकरणेऽपि कर्त्तव्यम्।
आपस्तम्बेन तु त्रयोदशाहुतिकमग्नौकरणमुक्तम्। अन्नस्योत्तराभिजुहोत्याज्याहुतीरुत्तरा इति।
अत्रान्नशब्देन भोजनान्नं विवक्षितम्, षष्ट्या च सम्बन्धः, सौत्रोपादानोपादेयभावः। मन्त्रप्रपाठकमध्ये पूर्वविनि- युक्ताभ्य ऋग्भ्य ऊर्ध्व पठिता ऋच उत्तरास्ताभिः। अत्राहुतीनामुत्तरा, पश्चाद्भाविनीः। आज्या हुतीर्जुहोतीत्यनुषङ्गः। लिङ्गविनियुक्तानामप्यनुष्ठानसौकार्याय विनियोगं भाष्यकारादय आहुः। यन्मे माता प्रलुलोभ चरति यास्तिष्ठन्तीति द्वाभ्याममुष्यै स्वाहेत्यन्ताभ्यां यन्मे पितामही प्रलुलोभ चरत्यन्तर्दधे पर्वतेरिति द्वाभ्यामुग्भ्याममुष्यै स्वाहेत्यन्ताभ्यां यन्मे प्रपितामही प्रलुलोभ चरन्त्यन्तर्दध ऋतुभिरिति द्वाभ्यामृग्भ्याममुध्यै स्वाहेत्यन्त्या-
भ्यामिति। अत्र सर्वत्र जुहोतीत्यनुषज्यते। अमुष्मा इत्यत्र चतुर्थ्यन्तं पितुर्नाम गृहीत्वा द्वे आहुती जुहुयात्। एवमुत्तरत्र द्वाभ्यां द्वाभ्यामृग्भ्यां चतुर्थ्यन्त पितामहस्य प्रपितामहस्य च नाम गृहीत्वा द्वे द्वे आहुती जुहुयात्। एवं मातामहादीनामपि पित्रादिपदस्थाने मातामहादिपदोहेन, मात्रादिपदस्थानेमातामह्यादिपदोहेन चतुर्थ्यन्तं मातामहादिनाम च गृही
तो द्वे द्वे आहुती जुहुयात्। ततो ये चेह पितर इत्पृचान्नादेवैकामाहु जुहोति। ततः षडाज्याहुतीर्जुहोति। स्वाहा पित्रे पित्रे स्वाहेति मन्ताभ्यां द्वे आज्याहुती हुत्वा पुनराभ्यामेवतृतीयचतुर्थ्यौहुत्वा स्वघास्वाहति मन्त्रेण पञ्चमीम्, अग्नये कव्यवाहनायेति षष्ठीं जुहोति। एतच्चधर्मप्रश्नस्थालीपाकगृह्योक्तेतिकर्त्तव्यतासहितं कार्यम्।
तथा च गृह्यभाष्यसङ्ग्रहकारः।
अग्नीन्धनादिप्रतिपद्यकर्म कृत्वाऽऽज्यभागं तथावदाय यन्मेति मन्त्रैः प्रतिमन्त्रमग्नौकार्या, तथा सप्तभिरन्नहोमाः स्वाहादिमन्त्रैरपिसर्पिषा स्युर्होमाः, ततः स्विष्टकृतं तु हुन्वा, भस्माद्यपोह्याहविरन्नहोमोर्त्तेपञ्चदर्व्योश्च समञ्जनादिशेषं च कृत्वा परिषेचनान्तं पात्रेषु दद्याद् हुतशेषमन्नमिति। सप्तभिरन्नहोम इत्यनूहितमन्त्राभिप्रायम्।
अग्नौकरणे च सव्यासव्ययोर्विकल्पः।
अग्नौकरणहोमस्तु कर्त्तव्य उपवीतिना।
अपसव्येन वा कार्यो दक्षिणाभिमुखेन च॥
इति छन्दोगपरिशिष्टे कात्यायनोक्तेः। प्राचीनावीतीध्ममुपसमाधाय मेक्षणेनावदायावदानसम्पदा जुहुयात्, सोमाय पितृमते स्वधा नमः, अग्नये कव्यवाहनाय स्वधा नम इति, स्वाहाकारेण वा, अग्निंपूर्वं यज्ञोपवीतीत्याश्वलायनोक्तोश्च। तदेतत्सर्वं वैकल्पिकं पदार्थजातं यथाचारं यथाकल्पसूत्रगृह्यंवा व्यवस्थितं ज्ञेयम्। अनग्न्यधिकरणहोमपक्षे विशेषः।
स्मृत्यर्थसारे,
अत्र मेक्षणेध्मविप्रानुज्ञा न सन्ति परिसमूहनपर्युक्षणे स्त इति।
स्मृतिचन्द्रिकाकारस्तु अनुज्ञाभावं नेच्छति उक्तशौनकविरोधात्। मेक्षणं तु मेक्षणकार्येऽन्यस्याविधानात्भवस्येव, परिसमूहनपर्युक्षणे तु पांसुनिरसनदृष्टकार्यालोपान्नियमादृष्टमात्रस्यचाप्रयोजकत्वात् ने-
च्छति। अदृष्टार्थकत्वात्कार्ये इत्यन्ये। परिस्तरणं त्वदृष्टार्थत्वाद्भवत्येव।
अग्नौकरणवत्तत्र होमो दैवकरे भवेत्।
पर्यस्तदर्भानास्तीर्य यतो ह्यग्रिसमो हि सः॥
इति यमोक्तेश्च।
पर्यस्तदर्भान्=परितः सर्वतोन्यसनीयान्। ‘पर्युक्ष्य दर्भानास्तीर्ये’ ति क्वचित्पाठस्तदा पर्युक्षणमपि भवत्येव। इध्मस्तु समिन्धनार्थत्वान्न भवत्येव।
कर्कोपाध्यायास्तु—
परिस्तग्णादीनि मेक्षणान्तानि अग्निहोमेऽपि न भवन्ति किं पुनः पाणौ, पिण्डपितृयज्ञवदुपचार इति कात्यायनवचनेन सर्वेतिकर्त्तव्य तायाः प्राप्तौ पिण्डपितृयज्ञवद्धुत्वेति पुनर्वचनस्य परिस्तरणादिपरिसंख्यानार्थत्वादित्याहुः।तन्मतानुसारिणामाचारोप्येवम्।
अथ हुतावशिष्टप्रतिपत्तिः।
यमः।
दैवविप्रकरेऽनग्निः कृत्वाग्नौकरणं द्विजः।
शेषयेत्पितृविप्रेभ्यः पिण्डार्थंशेषयेत् तथा॥
अग्नौकरणशेषं तु पित्र्येषु प्रतिपादयेत्।
हुतशेषं न दद्यात्तु कदाचिद्वैश्वदेविके॥
अत्र कदाचिदित्यनेन यदापि वैश्वदेविकविप्रकरे होमस्तदापि न तत्र हुतशेषप्रतिपत्तिरिति गम्यते। अत एव—
वायुपुराणे।
हुत्वा दैवकरेऽनग्निः शेषं पित्र्ये निवेदयेत्।
न हि स्मृताः शेषभाजो विश्वेदेवाः पुराणगैः॥ इति।
एतेन दैवविप्रकरेऽपि हुतशेषदानमिति गौड़निबन्धोक्तंपरास्तम्। इदं च यदा पाणिहोमस्तदा पङ्क्तिमूर्द्धन्याति- रिक्तेषु पितृपात्रेषु।
पित्र्ये यः पङ्क्तिमूर्द्धन्यस्तस्य पाणावनग्निकः।
हुत्वा मन्त्रवदन्येषां तूष्णीं पात्रेषु निक्षिपेत्॥
इति कात्यायनेनान्येषामित्युक्तोरिति प्रकाशकारः। अत्र चामन्त्रकः पात्रेषु प्रक्षेप उक्तः।
हुत्वा त्वग्नौततः सम्यग्विधिनानेन मन्त्रवित्।
स्वधेत्येव हविःशेषमाददीत समीक्ष्यच॥ इति।
शेषमन्नं हस्तेनहस्तेषु पिण्डवत्प्रदायेति यमनिगमपरिशिष्टयोस्तु स्वधेतिमन्त्रेण हस्तेषु प्रक्षेप उक्तः। अनयोश्च विकल्पः, स यथाशास्त्रं व्यवस्थितः। एतच्चापसव्येन कार्यं।
हुत्वाग्नौ परिशिष्टं तु पितृपात्रेष्वनन्तरम्।
निवेद्यैवापसव्येनेति शौनकोक्तेः। यत्पाणो हुतं यच्च पात्रेषु हस्तेषु वा प्रक्षिप्तं तद् द्वयमपि भोज्यान्नेनसह भोक्तव्यम्।
यश्च पाणितले दत्तं यच्चान्यदुपकल्पितम्।
एकीभावेन भोक्तव्यं पृथग्भावो न विद्यते॥इति।
तथा।
यदन्नं दीयते पाणौपात्रे वापि निधीयते।
भुञ्जीरन् ब्राह्मणास्तत्तुपितृपङ्क्तौनिवेशिताः॥
इति गृह्यपरिशिष्टगार्ग्ययोर्वचनादिति हेमाद्रिः। अत्र पात्रे वापि निधीयत इत्यनेन हुतशेषेमुच्यते पितृपङ्क्ताविति समभिव्याहारात्। भोज्यान्नस्य वैश्वदेविकेऽपि समानत्वात्तद्भोजनविधो वेयर्थ्यात्।
एतेन यदाश्वलायनव्याख्याकृतोक्तं यदि पाणष्वाचान्तेष्वन्यदन्नमनुदिशतीति सूत्रव्याख्याने परिवेषणात्पूर्वं विधीयमानमाचमनं पृथक्पाणिहुतान्नभक्षणनिमित्तमिति तद्पास्तम्।
अन्नं पाणितले दत्तं पूर्वमश्नन्त्यबुद्धयः।
पितरस्तेन तृप्यन्ति शेषान्नं न लभन्ति ते।
इति बह्वचगृह्यपरिशिष्टे निषेधाच्च। आचमनं त्वदृष्टार्थंभविष्यति वचनादिति। हरिहरोऽप्येवम्।
बौधायनस्तु।
हुतशेषं प्रकृत्य “तस्मिस्तु प्राशिते दद्याद्यदन्यत्प्रकृतं भवे” दिति हुतशेषस्य पृथग्भक्षणमाह। एतच्च बौधायनानामेवेति हेमाद्रिः। इति हुत्वावशिष्टप्रतिपत्तिः। इत्यग्नौकरणम्।
अथ परिवेषणम्।
प्रचेताः।
हुतशेषं पितृभ्यस्तु दत्वान्नं परिवेषयेत्।
अत्र हुतशेषप्रदानानन्तरं घृतेन दैवपूर्वकमाभासु पक्वमैरय इति मन्त्रेण तृष्णीं वा पात्राभिधारणमाचरन्ति। परिवेषणेतिकर्त्तव्यतामाह।
** मनुः।**
पाणिभ्यामुपसंगृह्य स्वयमन्नस्य वर्द्धितम्।
विप्रान्तिके पितॄन् ध्यायञ् शनकैरुपनिक्षिपेत्॥
अन्नस्य वर्द्धितम्=पाकपात्रम्।पाकपात्रोद्धृतान्नपूर्णपात्रान्तरमिति मेधातिथिः। स्वयमिति मुख्यः पक्षः। पत्न्या-दिरपि वक्ष्यते। विप्रान्तिक उच्छिष्टस्पर्शादि यत्र न संभाब्यते तत्र।शनकैर्यथा पात्रभेदादि न भवति तथा।उपनि-क्षिपेत् परिवेषणार्थंस्थापयेत्।
मनुः।
उभयोर्हस्तयोर्मुक्तं यदन्नमुपनीयते।
तद्धि प्रलुपन्त्यसुराः सहसा दुष्टचेतसः।
मुक्तम्=आस्थितम्। सप्तमी वा तृतीयार्थे। परिवेषण च दैवपूर्वम्।
“विधिना दैवपूर्वंतु परिवेषणमाचरे” दिति शौनकोक्तेः। एतच्चा द्यपरिवेषणे, द्वितीयादौ त्वनियमः। “यद्यद्रोचेत विप्रेभ्यस्तत्तद्द्द्याद मत्सरी” इति यमेन विप्रेच्छानुविधानोक्तेः। कर्त्तारो धर्मभविष्योत्तरयोः
फलस्थानन्तता प्रोक्ता स्वयं तु परिवेषणे इति।
भार्यया श्राद्धकाले तु प्रशस्तं परिवेषणम्॥इति।
अत्र पत्न्याः प्राशस्त्योक्तेरन्येऽपि पाककर्तृप्रकरणेअनुज्ञायन्ते। पत्नीच सवर्णा, द्विजातिभ्यःसवर्णायानार्या हस्तेन दीयते इति नारायणोक्तेः। कर्त्तुर्धर्मविशेषः—
पाद्ममात्स्ययोः।
उभाभ्यामथ हस्ताभ्यामाहृत्य परिवेषयेत्।
प्रशान्तचित्तः सतिलदर्भपाणिर्विशेषतः॥इति।
मनुरपि।
(१)66 उपनीय तु तत्सर्वं शनकैः सुसमाहितः। परिवेषयेत प्रयतो गुणान् सर्वान् प्रचोदयन्॥ इति मुद्रितमनुस्मृतौ पाठः।")उपनीय सर्वमेतच्छनकैः सुसमाहितः।
परिवेषयेत्प्रयतोऽन्नगुणांस्तु प्रचोदयन्॥इति॥
एतद्=भक्ष्यभोज्यादि।गुणान्=माधुर्यादीन्। पायसादिदाने मन्त्रविशेषा मानवमैत्रायणीयसूत्रे। “पयः पृथिव्या”मिति पायसं दद्यात्। मधुव्वाता ऋतायत”इति मधु “आयुदी"इति घृतं दद्यात्।
कठसूत्रे।
एषा वोर्ग्वामासु पक्वमिति घृतं वासिच्येति। मन्त्रान्तराणि।
स्कान्दे।
पायसं गुड़संयुक्तं हविष्यं गुडपूरितम्।
नमो वः पितरो रसाय परिविषन्नभिमन्त्रयेत्॥
तेजोसि शुक्रमित्याज्यं दधिक्राव्णेति वै दधि।
क्षीरमाप्यायमन्त्रेण व्यञ्जनानि च यानि तु॥
भक्ष्यभोज्यानि सर्वाणि महा इन्द्रेण दापयेत्।
संवत्सरोसि मन्त्रं तु जप्त्वातेनोदकं द्विजः॥इति॥
हारितः।
न पङ्क्यां विषमं दद्यादिति।
परिवेषणं च दक्षिणहस्तेन कर्त्तव्यम्।
कर्मोपदिश्यते यत्र कर्त्तुरङ्गं न तूच्यते
दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः॥
इति छन्दोगपरिशिष्टादिति मिश्राः।
उभाभ्यामपि हस्ताभ्यामाहृत्य परिवेषयेत्॥
एकेन पाणिना दत्तं शूद्रदत्तं न भक्षयेत्॥
इति वचनादुभाभ्यां हस्ताभ्यामिति गौड़ाः। हस्ताभ्यामित्यस्याहृत्येत्यनेनान्वयादेकेनेत्यस्य च केवलेनेत्यर्थान्मिश्रमतमेव श्रेयो भाति। अत एव—
वशिष्टः।
हस्तदत्ताश्च ये स्नेहा लवणं व्यञ्जनानि च।
दातारं नोपतिष्ठन्ति भोक्ता भुङ्क्तेच किल्विषम्॥
तस्मादन्तरितं देयं पर्णेनाथ तृणेन वा॥इति।
ब्राह्मणपरिवेषणसमये च पिण्डार्थमध्येकस्मिन् पात्रे परिवेषयेत्। तथा च ब्राह्मे।
ततोऽन्नंसुरसं स्वाद्वित्युपक्रम्य-
ब्राह्मणानां च प्रददौ पिण्डपात्रे तथैव च इति।
यमः।
ब्राह्मणान्नं ददच्छूद्रःशूद्रान्नंब्राह्मणो ददत्।
तयोरन्नमभोज्यं तु भुक्त्या चान्द्रायणं चरेत्।
ददत्पात्र इति शेषः। उपनयन्निति मिश्राः। इति परिवेषणम्।
अथ पात्रालम्भजपाङ्गुष्ठनिवेशनानि।
तत्र
कात्यायनः।
हुतशेषं दत्वा पात्रमालभ्य जपति “पृथिवी ते पात्र द्यौरपिधानं ब्राह्मणस्य मुखे अमृते अमृतं जुहोमि स्वाहेति”वैष्णव्यर्च्यायजुषा वाङ्गुष्ठमन्नेवगाह्य अपहता इति तिलान्प्रकीर्योष्णं स्विष्टमन्नंदद्यादिति।
इदं विष्णुरित्यृग्= वैष्णवी।विष्णो हव्यं रक्षेति यजुः। अन्ने=पिञ्य पात्रनिहितेऽग्नौकरणशेषे दद्यात्=परिवेषयेत्।
निगमे तु अङ्गुष्ठनिवेशनोत्तरं परिवेषणं ततः पात्रालम्भो जपमन्त्रे पाठान्तरं चोक्तम्। शेषमन्नं हस्तेषुपिण्डवत्प्र- दायाङ्गुष्ठमन्नेऽवगाह्य सोष्णमन्नंबहु च दद्यादमिमृश्यपात्र जपति पृथिवी ते पात्र द्यौरपिधानं ब्राह्मणानां त्वा प्राणा-पानयोर्मध्येऽमृतं जुहोमि स्वाहेति। अत्राङ्गुष्ठनिवेशनं तूष्णीम्।
मैत्रायणीयसूत्रे तु पात्रालम्भेमन्त्रान्तरमुक्तं।
अवशिष्टेऽन्ने ब्राह्मणाङ्गुष्ठमुपयम्यद्यौ पात्रेस्वधा पिधानं ब्राह्मणस्य मुखे अमृते अमृतं जुहोमि स्वधेति।
अवशिष्टेऽन्ने=ग्नौकरणहोमावशिष्टे पितृपात्रदत्ते।
बौधायनसुत्रे तु पित्रादिस्थानभेदेनाङ्गुष्ठनिवेशने मन्त्रविशेषः। अथेतरद्ब्राह्मणेभ्यो निवेद्य ब्राह्मणस्याङ्गुष्ठेना- नस्वेनानुदिशति। पृथिवी सम तस्य तेग्निरुपद्रष्टा ऋचस्ते महिमादत्तस्याप्रमादाय पृथिवी पात्रं द्यौरपिधानं ब्राह्मणस्य मुखे अमृतं जुहोमि ब्राह्मणाना त्वा विद्यावता प्राणापानयोर्जुहोमि अक्षितमसि मा पितॄणा क्षेष्वा अमुत्रामुष्मिन्लोक इति। द्वितीयमनुदिशति अन्तरिक्षसमं तस्य ते वायुरुपश्रोता यजूंषि ते महिमादत्तस्येत्यादि पूर्ववत्।पितॄणामिति शेषः।इतरत्=हुतावशिष्ठम्। निवेद्य=पित्र्यविप्रपात्रेषु निक्षिप्य।अनुदिशति=स्पर्शयति।
प्रचेतसापि परिवेषणोत्तरं पात्रालम्भाद्युक्तंसर्वंच प्रकृतं दत्वा पात्रमालभ्य सञ्जपेदिति।
प्रकृतं=श्राद्धार्थतया सम्पादितम्। दत्वा=परिवेष्य।सजपेत्=पृथिवीतेपात्रमित्यादीति शेषः।
दत्वान्नंपृथिवीपात्रमिति पात्राभिमन्त्रणम् ।
कृत्वेदं विष्णुरित्यन्नेद्विजाङ्गुष्ठं निवेशयेत्॥
इति यज्ञवल्क्योक्तेः ।
पैठनिसिस्त्वन्नउदक्ततङ्गुष्ठनिवेशनमाह—पृथिवी ते पात्रं द्यौरपिधानं ब्राह्मणस्य मुखेऽमृते अमृतं जुहोमि स्वधा इदं विष्णुर्विचक्रम इत्यनेनाङ्गुष्ठमन्नेचोदके चाव
धायेति । उदकं
चान्नवत्पानार्थंपरिवेषणकाल एवोपनीतं अत एव ।
यमः—
विष्णो हव्यं च कव्यं
च ब्रूयाद्रक्षेति च क्रमात्।
वारिष्वपि प्रदत्तेषु
तमङ्गुष्टं निवेशयेत् ॥इति।
प्रदत्तेषु=पा
नार्थंपरिविष्टेषु ।क्रमात्=दैवे हव्यं पित्र्ये कव्यमिति । तम्=पूर्वमन्ने निवेशितम् । जलपरिवेषणं च—
ब्रह्मपुराणे।
अथ दत्वा समग्रं तु जलान्तं भोजनं क्रमादिति ।
भोजनम्=भक्ष्यभोज्यादि ।दत्वा=परिविष्य ।क्रमात्=विश्वेदेवादिक्रमेण । प्रतिपादयेदित्युत्तरवाक्यस्थेनान्वयः । अङ्गुष्ठनिवेशनं च जानु निपात्य का
र्यंअङ्गुष्ठमुपयम्येदं विष्णुरिति जानु निपात्य भूमाविति शङ्खलिखितोक्तेः। तच्चदैवे दक्षिणं पित्र्ये सव्यं “दक्षिणं पातये ज्जानु देवान् परिचरन्त्सदे”त्यादिपूर्वलिखितछन्दोगपरिशिष्टात् ।
कालिकापुराणे=अन्नेऽङ्गुष्ठभ्रामणमुक्तम्—
धृत्वाङ्गुष्ठं द्विजानां तु आवर्त्याज्यं मधुप्लुत इति
आवर्त्य=परिभ्राम्य अङ्गुष्ठनिवेशनमावश्यकं “निरङ्गुष्ठं च यच्छ्राद्धं न तत्प्रीणाति वैपितॄन्”इति हारीतोक्तेः । अङ्गुष्ठग्रहणे मन्त्रान्तरं भ्रामणे च विशेषः—
पिप्पलादेसूत्रे।
अङ्गुष्टमुपयमन्पात्रे प्रदक्षिणं दैवे, अपसव्यं पित्र्येअतो देवा अवन्तु नो यतोविष्णुरिति जपेज्जानुनी निपात्य भूमाविति ।
अपसव्यम्=अप्रदक्षिणम् । जानुनीति द्विवचनं दैवपित्र्याभिप्रायम् ।
अङ्गुष्ठमुपयम्यप्रदक्षिणं दैवे, अपसव्यं पित्र्ये इदंविष्णुरिति जपेज्जानु निषद्यभूमाविति कौशिकेन दैवपित्र्ययोरेकजानुनिपातनोक्तेः। अङ्गुष्टग्रहणं चानुत्तानस्य हस्तस्य अनुत्तानेन हस्तेन कार्यम् ।
परिवर्त्य न
चाङ्गुष्ठं द्विजस्यान्ने निवेशयेत्।
राक्षसं तद्भवेद्दैवं पितॄणां नोपतिष्ठते॥
उत्तानेन तु हस्तेन द्विजाङ्गुष्ठनिवेशनम्।
यः करोति द्विजो मोहात्तद्वै रक्षांसि गच्छति॥
इति बौधायनेनोत्तानहस्ते दोषोक्तेः।
परिवर्त्य=उत्तानीकृत्य। इति पात्रालम्भजपाङ्गुष्ठनिवेशनानि।
अथान्नसङ्कल्पः।
तत्र प्र
भासखण्डे।
पितृपात्रेषु दत्वान्नं कृत्स्नं सङ्कल्पमाचरेत्।
पितृग्रहणं दैवस्याप्युपलक्षणम्। अत्र कृत्स्नमितिग्रहणादन्न सङ्कल्पोत्तरं उच्छिष्टकाले परिवेषणम्।युक्तं चैतत्‚ दाने
सम्प्रदानविशेषणस्य शुचित्वस्यापेक्षितत्वादिति केचित्। तन्न। भोजनपदार्थस्य लौकिकप्रसिध्या तथैवावगतेः। परिवेक्ष्यमाण स्यापि च सम्प्रदानशुचिताकाल एव त्यागोपपत्तेश्च। अतएव परिविष्टं परिवेष्यमाणं चेति सङ्कल्पवाक्यं प्रयुञ्जते शिष्टाः। यद्यद्रोचेत विप्रेभ्यस्तत्तहद्यामत्सरीतियमोक्तेश्चोच्छिष्टकालेऽपि तदुक्तेश्च।सङ्कल्पप्रकारमाह—
विष्णुः।
नमो विश्वेभ्यो देवेभ्य इत्यन्नमादौ प्राप्नुस्वर्योनिवेदयेत्। पित्र्ये पितामहाय प्रपितामहाय नामगोत्राभ्यामुदङ्मुखेषु।
नमो विश्वेभ्य इति च सतिलेनोदकेन च।
प्राङ्मुखेषु च
यद्दत्तंतदन्नमुपमन्त्रयेत्॥
उदङ्मुखेषु यद्दत्तंनामगोत्रप्रकीर्त्तनैः।
मन्त्रयेत्प्रयतः प्राज्ञः स्वधान्तैः सुसमाहितः॥
एवं च यदत्रिणा।
हस्तेनामुक्तमन्नाद्यमिदमन्नमुदीरयेत्।
स्वाहेति च ततः कुर्यात्स्वसत्ताविनिवर्त्तनम् ?॥
इति स्वाहान्तत्वमुक्तं, तद्वैश्वदेविकविषयम्। इदं चवैवर्णिकविषयं स्त्रीशूद्रयोस्तु नम इति प्रयोग इति शूल्पाणिः। पात्रस्यादानं च सध्येन। दक्षिणस्य त्यागे व्यापृतत्वात्।
ब्रह्मपुराणे।
एतद्वो अन्नमित्युक्त्वा विश्वान् देवांश्च संयजेत्।
एतद्वोऽन्नमित्येतदिदमिदमन्नमित्यनेन सह विकल्पते
तुल्यार्थत्वात् ।अत्र एतद्व इति निर्द्देशाच्चतुर्थीविभक्त्या देवता-
निर्द्देशोऽत्र विवक्षितः । अत एव कठसूत्रे पृथिवी ते पात्रमिति सङ्कल्पं कृत्वाऽमुष्मै स्वधा नमोऽमुष्मै स्वधा नम इति यथालिङ्गमनुमन्त्र्य भोज
येतइत्युत्त्कम् ।इत्यन्नसङ्कल्पः ।
अथ सावित्रीजपादि।
तत्र पारस्करः।
सङ्कल्प्य पितृदेवेभ्यःसावित्रीमधुमज्जपः।
श्राद्ध निवेद्यापोशानं जुषध्वं प्रैषभोजनम्॥
सावित्री=सवितृदेवत्या गायत्री;सा च प्रणवव्याहृतिपूर्विका । ॐ भूर्भुवःस्वस्तत्सवितुरिति त्रिरुक्त्वेति मानवमैत्रा-यणीयोक्तेः ।त्रिरिति वैकल्पिकम् ।“अपोशानं प्रदायाथ
जपेद्याहृतिपूर्वांगायत्रीं त्रिः सकद्वे’’ति कात्य ‘यनोक्तेः । मधु
मज्जपोः=मधुवातेत्यृकत्रयजपः।“मधुब्बाता इति तृचं मध्वित्येतत्त्रि
कं तथे”ति प्रचेतः स्मृतेः ।अत्र मधुमज्जपो मधुदानाङ्गं “मधुमन्त्रं ततो जप्त्वा अन्ते दद्याच्चवै मधु”इति भविष्योक्तेरितिगौडा रायमुकुटादयः पितृदयिता च । अन्ये तु भविष्यवचनं कालसम्बन्धार्थमित्याहुः ।
श्राद्धनिवेदनप्रकारमाह—
यमः—
(१)67 अन्नहीनं क्रियाहीनं मन्त्रहीनं च यद्भवेत्।
सर्वमच्छिद्रमित्युक्त्वा ततो जलमपाशयेत् ॥इति।
अच्छिद्रमित्यस्थानन्तरं जायतामिति वाक्यशेषः ।
अपोशान=
तदर्थंजलम् । दद्यादिति शेषः । अत्र पारस्करवचने सावित्रीजपाद्यनन्तरमपोशानदानमुत्त्कम् । उदाहृतकात्यायनेन तु अपोशानदानोत्तरं सावित्रीजपा
द्युक्तंतेन तयोर्विकल्पः‚ स च यथाशास्त्रंव्यवस्थितो द्रष्टव्यः।
अपोशानदानात्पूर्वं तिलादिविकरणमुक्तं—
ब्रह्मपुराणे।
तिलयुक्तं च पानीयं सकुशं तेषु चाग्रतः।
विकिरोत्पितृभ्यः स्वेभ्यो जपंश्चापहता इति॥
तेभ्यो दद्यादपोशानं भवन्तः प्राशयन्त्विति।
इदं पित्र्ये। दैवे तु यवोसीतिमन्त्रेण यवविकरणमिति मिश्राः। अपहतेत्यनेनैव यवविकरणमिति तु पितृदयिता। अत्र ब्राह्मणैर्भूमौ वलिदानं न कार्यम्।
दत्ते वाप्यथवाऽदत्ते भूमौ यो निक्षिपेद्वलिम्।
भोजनात्किञ्चिदन्नाग्रं धर्मराजाय वै वलिम्॥
दत्वाथ चित्रगुप्ताय विप्रश्चौर्यमवाप्नुयात्।
इत्यत्रिणा बलिदाने दोषोक्तेः। अत्र भूमावित्युक्तेः प्राणाहुतयो भवन्त्येव। जुषध्वं प्रैषभोजनम्=जुषध्वमितिप्रैषेण भोजनमित्यर्थः। तत्प्रकारमाह।मार्कण्डेयः—
यथा सुखं जुषध्वं भोरिति वाच्यमनिष्ठुरम्।इति।
अश्नत्सु रक्षोध्नादिजपो जप्यप्रकरणे द्रष्टव्यः।
अथ विकिरदानादि।
कात्यायनः।
तृप्तान् ज्ञात्वान्नं प्रकीर्य सकृत्सकदपो दत्वा पूर्ववद्गायत्रींजप्त्वा मधुमतीर्मधुमध्विति च, तृप्ता स्थेति पृच्छति तृप्ताः स्मेत्यनुज्ञातः शेषमन्नमनुज्ञाप्येति। एतद्व्याख्यास्यते।
याज्ञवल्क्यः।
आतृप्तेस्तु पवित्राणि जप्त्वा पूर्वजपं तथा।
अन्नमादाय तृप्ताः स्थ शेषं चैवानुमान्य च॥
तदन्नंविकिरेद् भूमौ दद्याच्चापः सकृत्सकृत्॥इति।
ब्रह्मपुराणे।
दत्वामृतापिधाने च विप्रेभ्यश्च सकृत्सकृत्।
किञ्चित्सम्पन्नमेतन्मे भो विप्रा इति तान्वदेत्॥
ते च प्राहुः सुसम्पन्नं स च तान्पुनराह च।
अन्नैर्भवन्तस्तृप्ता स्थ तृप्ताः स्मेति वदन्ति ते॥
स तानाह पुनः शेषं क्वदेयं चान्नमित्यपि।
इष्टेभ्यो दीयतां चैव तदिदं प्रवदन्ति ते॥
अथ तृप्तांस्तु तान् ज्ञात्वा भूमावेवान्नमुत्सृजेत्॥इति।
एवं च पदार्थक्रमो यथाशाखंव्यवस्थितो द्रष्टव्यः।
विकिरेतिकर्त्तव्यतामाह—
मनुः।
भुक्तवत्सु ततस्तेषां भोजनोपान्तिके नृप।
सार्ववर्णिकमन्नाद्यं सन्नीयाप्लाव्य वारिणा॥
समुत्सृजेद् भुक्तवतामग्रतो विकिरन् भुवीति।
[अ० ३ श्लो० २४४]
सार्ववार्णिकं=सर्वप्रकारम्।आष्लाव्य=प्रोक्ष्य। अत्र विशेषो—
विष्णुधर्मोत्तरे।
अन्नंसतृणमभ्युक्ष्य मामेक्ष्येष्वेति मन्त्रतः। अत्र देशान्तरमाह—
धूम्रः।
कपित्थस्य प्रमाणेन पिण्डं दद्यात्समाहितः।
तत्समं विकिरं दद्यात्पिण्डान्ते तु षडङ्गुले॥
भूप्रोक्षणं च—
वायवीये।
प्रोक्ष्य भूमिमथोद्धत्येति।
ब्राह्मे।
उच्छिष्टे सतिलान्दर्भान्दक्षिणाग्रन्निधापयेत्।
उच्छिष्टे तत्समीपे, तिलदक्षिणाग्रत्वे पित्र्ये।
दैवविकिरे मन्त्र उक्तो— गोभिलेन।
असोमपाश्च ये देवा यज्ञभागविवर्जिताः।
तेषामन्नंप्रदास्यामि विकिरं वैश्वदेविकम्।
पित्र्ये कठसूत्रे।
अग्निदग्धाश्चये जीवा इत्यन्नंविकिरेद् भुवि।
कात्यायनः।
येऽनग्निदग्धा ये जीवा ये च जाताः कुले मम।
भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम्॥
विकिरप्रक्षेपानन्तरकर्त्तव्यमुक्तं—
ब्रह्मपुराणे।
ततः प्रक्षाल्य हस्तौ च त्रिराचम्य हरिं स्मरेत्।
विकिरप्रतिपत्तिंचाह—
गौतमः।
विकिरमुच्छिष्टैः प्रतिपादयेत्। सहार्थे तृतीया।
भार्गवस्तु प्रतिपत्यन्तरमाह—
पिण्डवत्प्रतिपत्तिः स्याद्विकरस्येति तौल्वलिः।
यदोच्छिष्टसान्निधौ विकिरदानं तदा गौतमोक्ता प्रतिपत्तिः, यदा तु पिण्डसन्निधौ तदा पिण्डवदिति व्यबस्थितं द्रष्टव्यम्।
अथ पिण्डदानकालः।
तत्र ब्राह्मणभोजनात्पूर्वंब्राह्मणेष्वदत्सु वा ब्राह्मणभोजनादुत्तरकालं वा। यदापि पूर्वंतदापि ब्राह्मणार्चनानन्तरम्, अग्नौकरणानन्तरं वा, यदा तु उत्तरं तदापि ब्राह्मणेष्वनाचान्तेषु आचान्तेषु वा। यदापि अनाचान्तेषु तदापि विकिरं प्रक्षिप्य सकृद् गृहीतगण्डूषेषु ब्राह्मणेषु गायत्र्यादि जपं कृत्वा तृप्तिप्रश्नपूर्वकं शेषाभ्यनु ज्ञानन्तरं कर्त्तव्यम्। अथवाऽनाचान्तेषु विकिरदानम्। यदा तु आचान्तेषु तदापि आचमनोत्तरकालम्। अक्षय्यवाचनोत्तरकालं वा इति पक्षाः। अत्र क्रमेण मूलवचनानि।
साङ्ख्यायनगृह्ये।
भुक्तवत्सु पिण्डान् दद्यात्पुरस्तादेके।
अदत्सु ब्राह्मणेष्विस्यनुवृत्तौ—
विष्णुः।
उच्छिष्टसन्निधौ दक्षिणाग्रेषु पृथिवीदर्विरक्षितेत्येकं पिण्डं पित्र्ये निदध्यादित्वादि।
शङ्खः।
उच्छिष्टसन्निधौ कार्यंपिण्डनिर्वपणं बुधैः।
आदौ वापि ततः कुर्यादग्निकार्यंयथाविधि।
मनुः।
[अ० ३ श्लो० २१४]
अपसव्यमग्नौकृत्वा सर्वमावृत्य विक्रमम्।
अपसव्येन हस्तेन निर्वपेदुदकं शुचिः॥
र्त्रीस्तुतस्माद्धविःशेषात्पिण्डान्कृत्वा समाहितः।
** **[अ० ३ श्लो० २१५ ]
हविःशेषात्=अनौकरणशेषात्।
कात्यायनः।
तृप्ताञ्ज्ञात्वान्नं प्रकीर्य सकृत्सकृदपो दत्वा पूर्ववद्गायत्रीं जपित्वा मधुमतीः, “मधुमध्वि”तिच तृप्ताः स्थेति पृच्छति, तृप्ताः स्म इत्यनुज्ञातः। तथा च—
मनुः—
समुत्सृजेद् भुक्तवतामग्रतो विकिरन् भुवि। इति।
पूर्ववत् इति=प्रणवव्याहृतित्रित्वसकृत्वादिप्राप्त्यर्थम्। मधुमतीः=मधुवाता इति तिस्रऋचः। मधुमध्विति चेति प्रावर्गिकमन्त्रस्य प्रतीकेन मधुमधुमधु इति त्रिरुच्चार्यं। तृप्ता स्थेति बहुवचनोपदेशात्सर्वेषाम्। यत्तु पङ्क्तिमुर्द्धन्यं पृच्छतीति वचनं तदबहुवचनाग्तेषु अग्नौ करिष्ये इत्येवमादिषु द्रष्टव्यम्।
केचित्तुतृप्तिप्रश्नस्य दृष्टार्थत्वात्सर्वार्थत्व न बहुवचनोपदेशादित्याहुः।तन्न।अदृष्टार्थत्वात्प्रश्नस्य सकृत्सकृदपां दानेन उन्मुक्तपात्रत्वेन तृप्तिप्रश्नस्य प्रयोजनाभावात्। अतो बहुवचनबलादेव सर्वेवैषां प्रश्न इति युक्तम्। तृप्ताः स्म इत्यनुज्ञापि सर्वैर्दातव्या प्रश्नस्य सर्वार्थत्वादिति कर्कः। शेषान्नानुज्ञाप्रकारस्तु शेषमन्नं किं क्रियतां? इष्टैःसह भुज्यतामित्येवं कार्य इति मदनरत्नः। सर्वशब्दः प्रकृता पेक्षः तेन प्रकृतश्राद्धोपयोगिसाधितद्रव्यात्किञ्चिदादायेत्यर्थः। उच्छिष्टसमीपे शुचिदेश इति यावत्, उच्छिष्टस्य प्रतिषिद्धत्वात्। दर्भेषु सकृदाच्छिन्नेषु पिण्डपितृयज्ञवदुपचार इत्यनेन पितृपिण्ड- यज्ञधर्मातिदेशात्। अवनेज्य=अवनेजनं कृत्वेत्यर्थः। यद्यपि चावनेजनं पिण्डपितृयज्ञातिदेशादेव प्राप्तं तथापि तस्य प्रकृतौ रेखायां विहितत्वादत्र दर्भेषु प्राप्त्यर्थं पुनर्वचनमिति वाचस्पतिमिश्राः।
केचित्तु “पित्रादिक्रमतो दद्याद्रेखायामवनेजन” मिति भविष्यवचनात् रेखायामेवावनेजनं छन्दोगभिन्नानामाहुः।“पिण्डासनंसमास्तीर्य छन्दोगा अवनेजनम्”इति तत्परिशिष्टात्। त्रींस्त्रीनिति वीप्सा मातामहविषया।
याज्ञवल्क्यः।
अन्नमादाय तृप्ता स्थ शेषं चैवानुमान्य च।
तदन्नं विकिरेद् भूमौ दद्यादापःसकृच्छकृत्॥
(अ० १ श्राद्धप्र० श्लो० २४१)
सर्वमन्नमुपादाय सतिलं दक्षिणामुखः।
उच्छिष्टसन्निधौ पिण्डान्दद्याद्वै पितृयज्ञवत्॥
मातामहानामप्येवं दद्यादाचमनं ततः।
(अ० १ श्राद्धप्र० श्लो० २४३-२४४)
अन्न=सर्वमिति विज्ञानेश्वरः।
शङ्खलिखितौ।
तृप्तान् ज्ञात्वा स्वदितमिति पृष्ट्वा शेषमन्नमनुज्ञाप्य प्रकृतादन्नाद्विकिरं कुर्यात् स्वधां वाचयित्वा विष्टरांस्त्रीं-न्निदध्यात्त्रीण्येर्दपात्राणि सतिलानि सपवित्राणि मृन्मयाश्ममयौदुम्बराणि वा। धूपगन्धमाल्यादर्शप्रदीपाञ्जनादीनि चोपहरेत्। सर्वान्नप्रकारमादाय पिण्डान्निदध्यात्। स्वधावाचनप्रकारस्तु वक्ष्यते। विष्टरनिधानं पिण्डा धारत्वेन। विष्टरः पञ्चविंशतिदर्भपिञ्जूलात्मकः। उदपात्रत्रयं अवनेजनार्थं।हेमाद्रौ वृहस्पतिस्तु अनाचान्तेषु “तत्समीपे प्रकुर्याच्च पिण्डनिर्वपणं तत”इत्यादिना पिण्डदानमुक्त्वोपसृष्टोदकानां तु इत्यादिना विकिरदानमाह।
कात्यायनः।
आचान्तेष्वित्येके। आचान्तेष्वित्यत्राचमनोत्तरकालता गम्यते न चात्र सामान्योक्तेर्वक्ष्यमाणयमवचनानुसारादक्षय्यदा- नोत्तरकालत्वेनोपसंहारः किं न स्यात्। कात्यायनसूत्रे अक्षय्योदकदानदेरेतत्सूत्रोत्तरकालविहितत्वात्। एकग्र-हणादस्य पक्षस्य परमतत्वमिति हेमाद्रिः। उभयशास्त्रत्वाद्विकल्प इति कर्कः।
यमः।
स्वधेतिवत्प्रवक्तव्यं प्रीयन्तां पितरस्तथा।
अक्षय्यमन्नदानं तु वाच्यं प्रीतैर्द्विजातिभिः॥
ततो निर्वपण कुर्यात्पिण्डानां तदनन्तरम्।
हारीतस्तु।
वाजे वाजे इत्यनुव्रज्येत्यनुव्रजनमुक्त्वा शेषस्य पिण्डान्पितृयज्ञवन्निदध्यादिति।
एते च कालास्तत्तच्छाखाभेदेन व्यवस्थिताः। भोजनात्पूर्वोत्तरकालयोर्व्यवस्थानन्तरमाह—
लौगाक्षिः।
अप्रशस्तेषु यागेषु पूर्वंपिण्डावनेजनम्।
भोजनस्य प्रशस्ते तु पश्चादेवोपकल्पयेत्॥
अप्रशस्तेषु=सपिण्डीकरणात्पूर्वभाविषु। पिण्डावनेजनम्=अवाचीनपाणिना पिण्डनिर्वपणमिति स्मृतिचन्द्रिकाकारः।
हेमाद्रिस्तु पिण्डनिर्वपणारम्भपदार्थेन अवनेजनाख्येन पिण्डदानं लक्ष्यते इत्याह। भोजनस्य पूर्वंभोजनात्पूर्वमित्यर्थ, इयं च ब्यवस्था यस्यां शाखायां पार्वणादिश्राद्धप्रकरणे पूर्वकालता नोक्तातद्विषयेति हेमाद्रिः।
स्मृतिचन्द्रिकाकारस्तु पार्वणादिश्राद्धे पश्चादेवेत्याह। येषां तु गृह्यादौ पिण्डदानकालो नोक्तः तेषां सौकर्यादाचा न्तेष्वित्येव पक्षो ग्राह्य इति बहवः। इति पिण्डदानकालः।
अथ पिण्डदानदेशा।
तत्र साग्निकेन तावदग्निसद्भावे अग्निसन्निधौ पिण्डदानं कार्यम्।“पिण्डपितृयज्ञवदुपचारः पित्र्ये” इत्यनेन श्राद्धे पिण्डपितृयज्ञधर्मातिदेशात्। पिण्डपितृयज्ञवद्दक्षिणेनोल्लिखति अपरेण वेत्यनेनाग्निसन्निधानस्य विहितत्वात्। अत एव—
देवलः।
हुत्वैवमग्निंपिण्डानां सन्निधौ तदनन्तरम्।
पक्वान्नेन वलिमेभ्यः पिण्डेभ्यो दापयेद्द्विजः॥
पिण्डानां सन्निधौ एवम्=उक्तेन प्रकारेण। अग्निं हुत्वा अनन्तरं एभ्यः पक्वान्नेन वलिं=नैवेद्यं दद्यादित्यर्थः। एवञ्च पिण्डसन्निधानमग्निहोमस्य वदता पिण्डानामग्निसान्निध्यमुक्तं भवति। तस्मादग्निसद्भावे तत्सन्निधावेवसाग्निकेन पिण्डदानं कार्यं अग्न्यभावे तु कात्यायनवचनादुच्छिष्टसन्निधाविति हेमाद्रिः।
अपरार्कस्तु।
अतिदेशप्राप्तस्यापि अग्निसन्निधानस्यौपदेशिकेन उच्छिष्टसन्निधानेन बाघोपपत्तेः सर्वैरपि उच्छिष्टसन्निधावेव कार्यमित्याह। न चाधिकारिभेदेन अबाधोपपत्तौ बाधो न युक्तः। शरैरपि कुशानामबाधापत्तेः, तेषामपि कुशाभावे प्रतिनिधित्वेन विधानोपपत्तेः। यदपि च देवलवचः, तदपि अग्नौकरणहोमात् पूर्वंपिण्डदानकरणे उच्छिष्टसन्निधानस्या-भावादग्निसन्निधानज्ञापकमिति न कश्चिद्विरोध। उच्छिष्टसन्निधिस्तत्समीपे सद्देशो ग्राह्यः। तथा च—
व्यासः।
अरत्निमात्रमुत्सृज्य पिण्डांस्तत्र प्रदापयेत्।
यत्रोपस्पृशतां वापि प्राप्नुवन्ति न बिन्दवः॥
अरत्निमात्रमिति नारात्निनियमार्थं, किन्तु समीपे शुचिदेशोपलक्षणार्थंयत्रोपस्पृशतामिति वाक्यशेषात्‚ अत एवात्रि- णाऽरत्नित्रयमुक्तम्, ‘पितॄणामासनस्थानादग्रतस्त्रिष्वरत्निषु’। उच्छिष्टसन्निधान तत्रोच्छिष्टासनसन्निधानम्। यत् त्रिषु अरत्निषु स्थानं तदेवोच्छिष्टसन्निधान नतु उच्छिष्टासनसन्निधानमेव पिण्डस्थानमित्यर्थः। अग्रतः=पुरस्तात्, न तु पश्चात्पार्श्वयोर्वा, अत एव—
देवलः।
पुरस्तादुपविश्यैषां पिण्डावापं निषेदवेत्।
ततस्तैरभ्यनुज्ञातो दक्षिणां दिशमेत्य सः॥
उपलिप्ते शुचौ देशे स्थानं कुर्वीत सैकतम्।
मण्डलं चतुरस्र वा दक्षिणावनतं महत्॥
पिण्डावापः=पिण्डदानम्।तस्य निवेदनं च पिण्डदानमहं करिष्य इति प्रकारेण। अभ्यनुज्ञानमपि चैवःकुरुष्वेत्येवं कार्यम्। दक्षिणादिक् श्राद्धकर्त्रपेक्षयेति कल्पतरुः। श्रद्धदेशोत्तरस्थदक्षिणाग्न्यपेक्षवेति वाचस्पतिः सैकतम्=वालुका-निर्मितम्। यत्तु—
ब्रह्मपुराणे।
ततो दक्षिणपूर्वस्यां कार्या वेदी यथाविधि।
इति दिगन्तरावधानं तच्छाखान्तरविषयायिति स्मार्त्तभट्टाचार्यः। पिण्डदाने देशविशेषमाह—
देवल।
छायायां हस्तिनश्चैव वस्तदौहित्रसन्निधौ।
वस्तः=छागः। न चेयं हस्तिच्छाया कालविशेषरूपा, देशप्रस्तावे पाठात्। इदं च देशविधानं फलातिशयार्थंन पुनर्नियमार्थं हस्तिच्छायायाः—
भोजयेत्तुकुलेऽस्माकं छाभायां कुञ्जरस्य च।
आकल्पकालिकी तृप्तिस्तेनास्माकं भवेदिति॥
वायुपुराणादौ प्रशस्ततरत्वाभिधानात्। अत एव देवलेन भोजनात्पूर्वमेव पिण्डदानस्य विदितत्वान्न तत्रैवायं दशः। किन्तु स्मृत्यन्तरे
विहितभोजनोत्तरकालीनपिण्डदानेऽपि स भवत्येव, प्रशस्ततरत्वबोधकवाक्ये पिण्डदानसामान्यस्यैव प्रकरणादु-पस्थितत्वात् भोजन पूर्वकालीनस्य पिण्डदानस्यानुपस्थितत्वात्। तस्मात्प्राशस्त्यातिशयार्थमेवेद देशविधानमिति हेमाद्रिः। इति पिण्डदानदेशाः।
अथ पिण्डदानेतिकर्तव्यता।
तत्र पिण्डदानानुज्ञाग्रहणे विशेषमाह—
देवलः।
अथ संगृह्य कलशं सदर्भंपूर्णमम्भस्रा।
पुरस्तादुपविश्यैषां पिण्डावापं निवेदयेत् ॥
सदर्भम्=सपवित्रम्।अम्भसा पूर्णंकलशसंगृह्य गृहीत्वा। ब्राह्मणानां पुरस्तादुपविश्य पिण्डदाननिवेदन कुर्यादित्यर्थः। निवेदनप्रकारस्तु प्राग्दर्शितः। इदं च कलशग्रहणं येषां तज्जलेन “ततः पानीयकुम्भेन तर्पयेत्प्रयतः पितॄन्” इत्यादिना किञ्चित्तर्पणादि कर्म विहित तेषामेव। अन्येषां तु तद्गहणं विनापि अनुज्ञाग्रहणं भवत्येव। अत एव कलशग्रहणमनुक्त्वैवानुज्ञाग्रहणमाह—
शालड्कायनः।
पिण्डावापमनुज्ञाप्य यतवाक्कायमानसः।
सतिलेन ततोऽन्नेन पिण्डान् सर्वेण निर्वपेत्। इति
पिण्डदाने आधारविशेषमाह—
देवलः।
उपलिप्ते शुचौ देशे स्थानं कुर्वीत सैकतम्।
मण्डले चतुरस्रं वा दक्षिणावनतं महत्॥
स्थानं=पिण्डाधारभूतं स्थलम्।मण्डल=वृत्तम्।चतुरस्त्र=चतुष्कोणम्। वेदिपरिमाणं च—
ब्राह्म—
हस्तमात्रा तथा भूमेश्चतुरङ्गुलमुच्छ्रिता।
पिण्डनिर्वपणार्थाय रमणीया विशेषतः॥
मातामहपार्वणे भिन्नावेदिरिति श्राद्धकल्पः। इदं च वेदिकरणं छन्दोगयजुर्वेदिष्यतिरिक्तविषयम्। तेषां वेद्यश्रवणा- दुच्छिष्टसमीप एव पिण्डदानश्रवणाश्चेति केचित्। तन्न। उच्छिष्टसमीपेऽपि वेदेः कर्तुं
शक्यत्वात्। अत एव—
भविष्ये।
मण्डलं चतुरस्रं वा निर्मायोच्छिष्टसन्निधौ।
ॐ निहन्मीतिमन्त्रेण ततोऽव्यपहता इति॥
पठन् रेखां दक्षिणाग्रांकुशमूलेन वै लिखेत्।
अपरार्कसकलमैथिलस्वरसोप्येवं। हेमाद्रिस्तु वेदिकरणं केषाञ्चि देवशाखिनां “सुपालप्ते महीपृष्ठे गोशकृन्मूत्र-वारिणे”ति मत्स्यपुराणे महीपृष्ठस्याऽधारत्वविधानादित्याह। पिण्डसंस्कारमाह—
देवलः।
एकदर्भेण तन्मध्यमुल्लिखेत्त्रिश्च तं त्यजेत्।
एकदर्भः=एकदर्भशिखेति हेमाद्रिः। एकदर्भेणेति सामगातिरिक्तविषयम्।
सामगानां तु—
पिञ्जुल्याद्यभिसंगृह्य दक्षिणेनेतरात्करात्।
अन्वारभ्यच सव्येन कुर्यादुल्लेखनादिकम्॥
इति छन्दोगपरिशिष्टोक्तपिञ्जुल्या रेखाकरणं बोध्यम्।
पिञ्जुली=पवित्रम्।
ब्रह्माण्डपुराणे तु त्रिभिः कुशैः स्फेनापि वा लेखाकरणमुक्तम्।
वज्रेण वा कुशैर्वापि उल्लिखेत् तन्महीं द्विजः।
वज्रो वै स्फ्य इति श्रुतेर्वज्रः स्फ्यः। इदं च देशप्राप्तस्यापि वज्रस्य कुशैर्बाधे प्रतिप्रसवार्थंपुनः श्रवणं, एवं चोभयोर्विकल्पः। स्मृत्यर्थसारेऽप्येवं। हेमाद्रिस्तु स्फ्याभावे कुशविधिमाह—स्फ्यादिग्रहणं च वामेन कार्यं, उल्लेखनन्तु वामान्वारब्धेन दक्षिणेन कार्यम् अत एव छन्दोगपरिशिष्टे।
परिग्रहणमात्रं हि सव्येन स्यादिति ध्रुवम्।
पिञ्जुल्याद्यभिसंगृह्य दक्षिणेनेतरात्करात्॥
अन्वारभ्य च सव्येन कुर्यादुल्लेखनादिकम्।इति॥
कल्पतरौ तु सव्येन गृहीत्वा उमाभ्यां हस्ताभ्यामुल्लिखेदित्युक्तम्। अत एव पारस्करः।
कराभ्यामुल्लिखेत् स्फ्येन कुशैर्वापि महीं द्विजः।
तच्च यथा रेखायां क्रियमाणायां दक्षिणमुष्टेरुपरि वाममुष्टिर्भ-
वति तथा कुर्बात् । अत एव—
वायुपुराणे ।
सव्योत्तराभ्यां पाणिभ्यां कुर्यादुल्लेखनं द्विजः।
तच्चोल्लेखनं आग्नेय्याभिमुख्येन पराङ्मुखतया कर्त्तव्यम् । तथा च पिण्डपितृयज्ञे ।
आपस्तम्बः ।
दक्षिणाप्राचीं पराचीं वेदिमुद्धृत्येति ।
दक्षिणाप्राचीम्=आग्नेयीम् । पराचीम्=पराङ्मुखीम् । सर्वंच आग्नेयाभिमुखोऽवनेजनादिक कुर्यादिति हेमाद्रिः ।
अन्ये तु दक्षिणादिक् पितृृणामिति श्रुतेदक्षिणामुखत्वेनैवेति । रेखाकरणं च त्रिवारम् ।
एकदर्भेण तन्मध्यमुल्लिखोत्त्रिश्च तं त्यजेत् ।
इति देवलवचनात् । इदं च कार्तायभिन्नानां, तेषां सकृदेव “अथ दक्षिणेनान्वाहार्यपचनं सकृदुल्लिखति”इति श्रुतेः । अत एव हलायुधेनसकृदेवेत्युक्तम् हेमाद्रिस्तु त्रिर्ग्रहणं पिण्डत्रयाभिप्रायेण वर्गत्रयाभिप्रायेण वा द्रष्टव्यम् । एवं च यत्र वर्गद्वयं तत्र द्वे रेखे इत्याह । रेखाकरणे मन्त्र उक्तो—
ब्रह्मपुराणे ।
ॐ निहम्नि सर्वं यदमेध्यवद्भवेत्हताश्च सर्वेऽसुरदानवा मया । रक्षांसि यक्षाश्च पिशाचसङ्घा हता मया यातुधानाश्च सर्वे ॥
अनेन मन्त्रेण सुसंयतात्मा वेदीं च सर्वांसकृदुल्लिखेच्च ।
पिण्डपितृयज्ञे कात्यायनेन तु मन्त्रान्तरमुक्तं“तद्दक्षिणेनोल्लिखत्वपहता इत्यादिना ।अनयोश्च समुच्चयः ।
नच दृष्टार्थानां कथं समुच्चयः प्रत्युतातिदेशतः प्राप्तस्यापहता इत्यस्य बाध एव स्यादिति वाच्यं ।
ॐ निहन्मीति मन्त्रेण ततोप्यपहता इति ।
पठन् रेखां दक्षिणाग्रांकुशमूलेन संल्लिखेत् ॥
इति भविष्यपुराणवचनात् समुच्चयः ।
रेखाकरणानन्तरमभ्युक्षणमुक्तमाश्वलायनेन “तामभ्युत्यसकृदाछिन्नैरवस्तीर्ये” त्यादिना ।
अभ्युक्षणानन्तरमभिमन्त्रणमुक्तमापस्तम्बेन ।“अवक्षायन्तु पितरो
मनोयवस इत्यभिमन्त्र्येति।
उल्लेखनानन्तरमुल्मुकनिधाने—
कात्यायनः।
उल्मुकं परस्तात्करोति “ये रूपाणी” ति। परस्तात्=रेखापरस्तात्पुरोभागे। इदं च निरग्नेरुल्मुकनिधानं न भवति अग्नेः प्रतिनिध्य भावेन लौकिकाङ्गारस्य ग्रहीतुमशक्यत्वादिति यज्ञपतिपशुपतिप्रभृतयः। सति निरग्नेःश्राद्धाधिकारे निषादस्थपतीष्टिवल्लाकिकाप्न्युपादानस्याविरुद्धत्वमिति भानूपाध्यायादयः। अत्र दर्भास्तरणं कार्यम्।
तथा च देवलः।
तस्मिँस्थाने ततो दर्भानेकमूलाञ्छिवान् बहून्।
दक्षिणाग्रानुदक्पादान् सर्वांस्तांस्तृणुयात्समम्॥
तस्मिन्=पिण्डस्थाने।दर्भान्=कुशान्।तदभावे काशादि। एकमूलान्=सलूँलग्नबहुशिखान्।शिबान्=साग्रत्यादिगु- णयुक्तान्। ते च समूलाःसकृदाच्छिन्ना इत्याह—
कात्यायनः।
उपमूलं सकृदाच्छिन्नानि रेखायांकृत्वेति।
उपमू=समूलमिति हेमाद्रिः। अत्र लुनातीति शेषः। अत्र च दर्भानिति बहुवचन कपिञ्जलवस्त्रित्वपरमिति न वाच्यम्। दर्भास्तरणस्य दृष्टार्थत्वात्पिण्डाधारत्वेन बहूनामेव प्राप्तेः, अत एव पृथक् बहूनिति ग्रहणमेव कल्पत इति हेमाद्रि। त्रय एवेति पितृभक्तिः। उदक्पादान् =उदङ्मुखान्। स्तृणुय त=विस्तारयेत्। समं=समाग्रतया समूलतया वा। इदं च दर्भास्तरणं यदि रेखा दक्षिणाग्रा तदा दक्षिणाग्रं कर्त्तव्यं यदा तु आग्नेयी दिशमाश्रित्य लेखा क्रियते तदा तदभिमुखमेव कुर्यात्। अत एव वायुपुराणे आग्नेयाभिमुखत्वमुक्तं।
प्राग्दक्षिणाग्रान्नियतो दद्यात् पिण्डाननन्तरम्।
प्राग्दक्षिणा=आग्रेयीति हेमाद्रिः।
दर्भास्तरणे मन्त्र उक्त आपस्तम्बेन।
सकृदाच्छिन्नेबर्हितूर्णामृदुस्योनं पितृभ्यस्त्वा स्तृणाम्यहम्।
अस्मिन्सीदन्तु मे पितरः सोम्याः पितामहाः प्रपितामहाश्चानुगैः सहेति सकृदाछिन्नेन वर्हिषा बेदिं स्तृणाति।
शङ्खलिखिताभ्यां तु पिण्डभूमौ विष्टरत्रयनिधानमुक्तं—
विष्टंराँस्त्रीन्निदध्यात् इति।
अत्र च संख्यासाम्यादेकैकपिण्डाधारत्वेनैकैको विष्टरो निधेय इति हेमाद्रिः। विष्टरनिधाने नामगोत्राद्युच्चारण- पूर्वत्वमुक्तंयमेन।
विष्टरांस्त्रीन् वपेत् तत्र नामगोत्रसमन्वितान्।
अद्भिरभ्युक्ष्य विधिवत्तिलैरभ्यवकीर्य च॥
ततो दर्भेषु तं हस्तं निर्मृजेल्लेपभागिनम्।
नामगोत्रसमन्वितानिति विष्टरविशेषणमिति।
हेमाद्रिः।
वस्तुतस्तु निर्मजेल्लेपभागिनमिति उपसंहारात् पिण्डदानविध्यभावापत्तेः विष्टरांस्त्रीन्निदध्यादित्यध्याहारः, वपेत् पिण्डानितिचाध्याहार इति यमवचनं व्याख्येयम्। कल्पतरुरप्येवम्।
दर्भास्तरणानन्तरं आवाहनपूर्वकं पितॄणां स्थानकल्पनामाह—
देवलः।
अथ साञ्जलिरुत्थाय स्थित्वा चावाहयेत् पितॄन्।
पितरो मे प्रसीदन्तु प्रयान्तु च पितामहाः॥
इति सङ्कीर्त्तयंस्तूष्णीं तिष्ठेत् क्षणमनुच्छ्वसन्।
आवाहयित्वा दर्भाग्रैस्तेषां स्थानानि कल्पयेत्॥
तेषां पितॄणां स्थानानि कल्पयेत्।आस्तृतभूमाविति शेषः। करे दर्भान्गृहीत्वा पित्रे इदं स्थानमित्येवं क्रमेण दर्भाग्रैर्विनिर्दिशेत्।
स्थानकल्पनानन्तरं तत्र मार्जनं तिलविकिरणं चाह स एव।
तेष्वासीनेषु पात्रेण प्रयच्छेन्मार्जनोदकम्।
प्रक्षाल्य विकिरेत्तत्र नानावर्णंस्तिलानपि॥
मार्जनोदकं=अवनेजनोदकमिति कल्पतरुः। अत्रावनेजनसाधनं पात्रं उक्तम्, आपस्तम्बेन तु अञ्जलिरुक्तः, मार्जयन्तां मम पितरो मार्जयन्तां मम पितामहाः मार्जयन्तां मम प्रपितामहा इत्येकरेखायां त्रीनुदकाञ्जलीन्निनयति। आश्वलायनेन तु मन्त्रान्तरमुक्तंप्राचीनावीती रेखां त्रिरुदकेनोपनयेत् शुन्धन्तां पितरः, शुन्धन्तां पितामहाः शुन्धन्तां प्रपितामहा इति।
[ कात्यायनः।
उद्पात्रेणावनेजयनित्यपसव्यं सव्यनाद्धरणं सामर्थ्यात्। ]
स्यान्नावनेजनात्पूर्वमिति वाच्यं । अवनेज्य दद्यादिति कात्यायनसूत्रविरोधादिति मैथिलाः ।
अन्ये तु यथाश्रुतवाक्यात्पिण्डदानात्प्रागवत्याहुः ।
अवनेजनानन्तरं पिण्डाः कार्या इत्याह—
जातूकर्ण्यः ।
कृत्वावनेजनं कुर्यात्त्रीन्पिण्डांस्तु यथाविधि ।
त्रिनिति पित्राद्येकवर्गापेक्षया कात्यायनादिवाक्ये त्रींस्त्रीनिति वीप्साश्रवणात्, श्राद्धे मातामहवर्गेऽपि पिण्डनिर्वा- पस्थावगमात् ।
अथ पिण्डदाने अन्नविशेषः ।
तत्र यदाग्नौकरणात्पूर्वं पिण्डदानं तदाऽग्नौकरणार्थकचरुणा कर्तव्यमित्याह—
देवलः ।
ततश्चरुमुपादाय स पवित्रेण पाणिनेत्यादिना । पिण्डार्थं विभजेदिति वक्ष्यमाणेन सम्बन्धः । अग्नौकरणोत्तरकालं पिण्डदाने तच्छेषेण पिण्डाः कार्या इत्याह—
मनुः ।
त्रींस्तु तस्माद्धविशेषात्पिण्डान्कृत्वा समाहितः ।
[अ० ३ श्लो० २१५ ]
हविःशेषात्=अग्नौकरणशेषात् । भोजनोत्तरकालीनेषु अन्नमाह—
कात्यायनः ।
सर्वमन्नमेकत उद्धृत्य उच्छिष्टसमीपे दर्भेषु त्रींस्त्रीन्पिण्डानवनेज्यदद्यात् ।
व्याख्यातं चेदं वचनं प्राक् । एतच्च सर्वप्रकारमन्नमग्नौकरणावशिष्टेन चरुणा मिश्रणीयमाह—
आश्वलायनः ।
यदन्नमुपभुक्तं तत्स्थालीपाकेन सह पिण्डार्थमुद्धृत्येति ।
उपभुक्तादन्नात्किञ्चिदुद्धृत्य स्थालीपाकेनाग्नौकरणशिष्टेन सह संयोज्य पिण्डान् दद्यादित्यर्थः । इदं च यत्र पिण्डपितृयज्ञकल्पो विहितः । यथा—
अन्वष्टक्यं च पूर्वेद्युर्मासिमास्यथ पार्वणम् ।
काम्यमभ्युदयेऽष्टम्यामेकोद्दिष्टं तथाष्टमम् ॥
इति वाक्योक्तेष्वाद्येषु चतुर्षु तत्रैव तेन संयोजनं अन्यत्र तु केवलेनैव भुक्तशिष्टेन कार्यमिति वृत्तिः । अत्र च स्थालीपाकेन सहेत्य
मिधानात्केवलावसथ्याग्निमता पिण्डपितृयज्ञार्थं स्थालीपाकं श्रपयित्वा आच्छादनदानात्तं श्राद्धं निर्वत्य स्थालीपाकस्यान्नेनाग्नोकरणं होमं कृत्वा ब्राह्मणान्भोजयित्वा श्राद्धशेषेण स्थालीपाकान्नमेकीकृत्य पिण्डप्रदानं कर्त्तव्यमित्यमावास्याश्राद्धे व्यतिषङ्गः फलितो भवतीति कल्पतरुप्रभृतयः। एतच्चान्नं मध्वाज्यतिलयुक्तं कर्त्तव्यमुक्तं—
ब्राह्मे—
मध्वाज्यतिलसंयुक्तं सर्वव्यञ्जनसयुतम्।
उष्णमादाय पिण्डन्तु कृत्वा बिल्वफलोपमम्॥
दद्यात्पितामहादिभ्यो दर्भमूलाद्यथाक्रमम्।
पितामहपदं पितृपरमिति श्राद्धचन्द्रिका। अत्र च मध्वादिभिः पिण्डकरणं न तु अन्नकृतस्य पिण्डस्य मध्वादियोगः।
अतश्च—
मधुसर्पिस्तिलैर्युक्तान् त्रीन्पिण्डान्निर्वपेद्बुधः।
इति देवलवाक्यमपि एवमेव व्याख्येयम्। मूलीभूतश्रुत्यन्तरकल्पनागौरवात्। श्राद्धकल्पे तु मधुसंयुक्तान्ननिर्मितान् पिण्डान्मध्वादियुक्तान्कृत्वा दद्यादित्युक्तम्। एतच्च मध्वादित्रयदानं न नियमार्थं किन्तु फलातिशयार्थं, स्मृत्यन्तरे द्वयोरेकस्थापि वा श्रवणादिति हेमाद्रिः। मधुदानं च कलियुगातिरिक्तविषयं “श्राद्धं मांसं तथा मधु” इति श्राद्धप्रयोगे कलिवर्ज्येषु वर्जनात्। पिण्डप्रमाणमाह—
व्यासः।
द्विहायनस्य वत्सस्य विशत्यास्ये यथासुखम्।
तथा कुर्यात्प्रमाणं तु पिण्डानां ब्यासभाषितम्॥
द्विदायनो=द्विवर्षवयस्कः।प्रमाणान्तरमुक्तं—
ब्रह्माण्डे।
त्रीन्पिण्डानानुपूर्वेण साङ्गुष्टमुष्टिवर्द्धनात्।
साङ्गष्टो मुष्टिर्यावान् तावद्वर्द्धन पुष्टिर्येषां ते इति विग्रहः। इदं च परिमाणं मातामहपिण्डविषयम्।
पृथक् मातामहानां च केचिदिच्छन्ति मानवाः।
त्रीन्पिण्डानानुपूर्वेण साङ्गुष्ठान्मुष्टिवर्द्धनान्॥
इति वायुपुराणे तत्पिण्ड एव एतत्परिमाणस्यो।
कत्वादिति पितृभक्तिः।
अझिरा अपि।
कपित्थबिल्वमात्रान् वा पिण्डान्दद्याद्विधानतः।
कुक्कुटाण्डप्रमाणान्वा यदि वामलकैः समान्।
बदरेण समान् वापि दद्याच्छ्रद्धा समन्वितः।
एषां च शक्तिभेदेन व्यवस्था वेदितव्या।
अत्र व्यवस्थान्तरयुक्तानि कानि चित्परिमाणान्याह—
मरीचिः।
आर्द्रामलकयुक्तांस्तु पिण्डान्कुर्वीत पार्वणे।
एकोद्दिष्टे बिल्वमात्रं पिण्डमेकं तु निर्वपेत्॥
नवश्राद्धे स्थूलतमं तस्मादपि तु निर्वपेत्।
तस्मादपि स्थूलतरमाशौचे प्रतिवासरम्॥
अत्र प्रकरणादेव पार्वणसम्बन्धे सिद्धे पार्वणग्रहणं व्यवस्थार्थम्।
अत्र चामलकमात्रानेवपार्वणे कुर्वीतेति न व्याख्येयम्, किन्तु आमलकमात्रान्पार्वण एवेति।
अतश्च पार्वणेऽप्यामलकाधिकपरिमाणपिण्डनिर्वापः।
अत एवाचारोऽप्येवम्।बिल्वमात्रमित्यनेन बिल्वन्यूनमामलकादिपरिमाणमेव निवर्त्यते नत्वधिकं तथैवाचारात्।नवश्राद्धं=आशौचमध्ये प्रथमतृतीयादिविषमदिनेषु विहितं श्राद्धम्। आशौचमध्ये श्राद्धमन्तरेणैवावयपिण्डदानं ?प्रतिदिवसं यत्क्रियते तस्मिन्।
पिण्डत्रयस्योत्तरोत्तरं आधिक्यमुक्तं मैत्रायणीयसूत्रे।
पितामहस्य नाम्ना स्थवीयांसं मध्यमं, प्रपितामहस्य नाम्ना स्थविष्ठं दक्षिणम्।
स्थवीयासं =पितृपिण्डापेक्षया।
अत्र सव्यजानुनिपातनमुक्तम्—व्राह्मे।
मधुसर्पिस्तिलयुतांस्त्रीन्पिण्डान्निर्वपेद् बुधः।
जानु कृत्वा तथा सव्यं भूमौ पितृपरायणः।
अत्र च श्रुतिक्रमेण पाठक्रमं बाधित्वा पिण्डनिर्वापात्पूर्वंजानु निपातनं कार्यम्। पिण्डदाने पात्रमाह—
मरीचिः।
पात्राणां खङ्गपात्रेण पिण्डदानं विधीयते।
राजतौदुम्बराभ्यां वा हस्तेनैवाथ वा पुनः॥
औदुम्बरं=ताम्रमयम्। पिण्डदाने पितृतीर्थमुक्तं षट्त्रिंशन्मते—
निर्वपेत्पितृतीर्थेन स्वधाकारमनुस्मरन्।
पिण्डदाने मन्त्रमाह—
कात्यायनः।
यथावन्निर्णिक्तं पिण्डान्ददानि असावेतत्त इति। ये च त्वामन्विति चैक्व इति।
यथावन्निर्णिक्त=यत्र यत्र येन क्रमेण यस्यावनेजनं कृतं तत्र तत्र तेनैव क्रमेण तस्य पिण्डं दद्यात। असाविति गोत्रसम्बन्धनाम्नामभिधानं विवक्षितम्। अत एव पारस्करः।
अर्घदाने चसङ्कल्पे पिण्डदाने तथाक्षये।
गोत्रसम्बन्धनामानि यथावत्प्रतिपादयेत्॥
सङ्कल्पे=अन्नत्यागे। अत्र च गोत्रादीनां सम्बोधनान्तानामुच्चारणं कार्यम्। असाविति प्रथमानिर्देशात्, असम्बोधने अवनेनिक्ष्वेत्वस्य वैयधिकरण्यापत्तेश्च। अत एव—
बौधायनः।
एतत्तेततासौये च त्वामत्रान्विति।
तत शब्दस्य सम्बोधनान्तत्वमाह। एतदिति=निर्वप्समानपिण्डनिर्देशः। न च पुंलिङ्गस्य पिण्डशब्दस्य कथं नपुंसकलिङ्गेन निर्द्देश इति वाच्यम्। पिण्डशब्दस्य कुडन्यस्य पिण्डं पततीत्यादौ महाभाष्येनपुंसकलिङ्गेनापि प्रयोगदर्शनात्। अत एव पिण्डशब्दस्य पुंल्लिङ्गत्वाद्यजुर्वेदिनामपि एष ते पिण्ड इत्येव प्रयोग इति मैथिलमतमपास्तम्, पिण्डशब्दस्य नपुंसकलिङ्गेऽपि प्रयोगात्। तेनैतच्छन्देनैव पिण्डस्योपस्थितत्वादध्याहारं विनैवप्रयोगोपपत्तेरिति स्मृतिचन्द्रिकाकारादयः।
हेमाद्रिस्तु “इषे त्वे” त्यादौ छिनद्मीत्यध्याहारवदत्रापि वाक्यपूरणाय अन्नपदं पिण्डपदं वाध्याहार्यं अतएव कर्कभाष्ये अन्नशब्द उपलक्षणार्थः। तयोरपि च व्यवस्थोक्ता लौगाक्षिणा।
महालये गयाश्राद्धे प्रेतश्राद्धे दशाहिके।
पिण्डशब्दप्रयोगः स्यादन्नमन्यत्र कीर्त्तयेत्॥ इति।
एतद्वचनोपात्तेषु श्राद्धेषु एतत्ते पिण्डमिति प्रयोगः।अन्यत्र तु एतत्तेअन्नमिति प्रयोग इत्याह।
अन्ये तु इषे त्वेत्यादौ क्रियाविशेषस्यापेक्षितत्वाद्युक्तः छिनद्मोत्यध्याहारः, प्रकृते तु द्रव्यविशेषस्यैतच्छव्देनैवसम- र्पणादग्नय इदं न मम इतिवन्नाध्याहारः। तेन प्रकृतौ एष ते पिण्ड इति गोभिलवाक्यात् गौभिलीयानामेष ते पिण्ड इत्येवप्रयोगः।वाजसनेयिनामपि “एतत्तेपिण्डमित्युक्त्वा दद्युर्वाजसनेयिन”इति भविष्यपुराणवचनादेतत्ते पिण्डमित्येव प्रयोगः। एतस्यापि वचनस्य प्रकृतावेवाम्नातत्वात्। अन्येषां तु प्रागुक्तलौगाक्षिवचनाद्व्यवस्थेत्याहुः। शाखापरतया वा व्यवस्थेति दिक्। अत्र च स्वधानमःशब्दौ प्रयोज्यावित्याह—
शाठ्यायनिः।
असावेतत्त इत्युक्त्वा तदन्ते च स्वधानमः।
अत्र च नमः शब्दान्तं मन्त्रमुच्चार्य पुनः पित्रादीन् चतुर्थ्यन्तपदेनोद्दिश्येदं न ममेति उच्चार्यं, शिष्टाचारादिति हेमाद्रिः। अतश्चैवं प्रयोगवाक्यं कार्तायानाम्, अमुकगोत्रास्मत्पितरमुकशर्मन् एतत्तेऽन्न पिण्ड वा स्वधा नमः, इदम- मुकगोत्रायास्मत्पित्रेऽमुकशर्मण न ममेति। अत्र आचारावगतवाक्यात्पूर्वंये च त्वामन्विति मन्त्रः पठनीय इत्याह—
कात्यायनः।
ये च त्वामन्विति चैके।
** **एकग्रहणं पक्षप्राप्त्यर्थमिति स्मृतिचन्द्रिकाकारः।
हेमाद्रिस्तु एकग्रहणं परमतत्वसूचनार्थंतेन वाजसनेयिनामयं नभवत्येव। अत एव शतपथे ये च त्वामन्वित्युहैक आहुः तदु तथा न ब्रूयादिति। हलायुधस्वरसोप्येषम्।
बौधायनस्तु मन्त्रान्तरमाह—
एतत्ते तत असौ ये त्वामत्रान्विति।
गोभिलोऽपि।
असावेष ते पिण्डो ये चात्र त्यानुतेभ्यश्च स्वधेत्यनुषजेत्।
विष्णुरपि।
उच्छिष्टसन्निधौ दक्षिणाग्रेषु दर्भेषु पृथिवीदर्विरक्षितेत्येकं पिण्डपित्र्वे निदध्यात्, अन्तरिक्षं दर्वि रक्षितेति द्वितीयं पितामहाय, द्यौर्दविरक्षितेति तृतीयं प्रपितामहाय।एतन्मन्त्रान्तर्गतासौशब्दे नामगोत्रोच्चारणं कर्त्तव्यमिति हेमाद्रिः। शौनकाथर्वणश्राद्धकल्पे त्वैतेरेव मन्त्रैः पिण्डार्थान्नोद्धरणं उक्त्वा एतत्ते प्रपितामहेत्यादिमन्त्रैः
प्रपितामहादारभ्य पितृपर्यन्तं पिण्डदानं उक्तम्। द्यौदर्विरक्षितेति तिसृभिः सर्वान्नप्रकारमुद्धृत्याज्येन सन्नीय त्रीन्पिण्डान् संहतान्निदधात्येतत्ते प्रपितामहेतीत्यादिना।पिप्पलादाथर्वणश्राद्धकल्पे तु विपरीतः क्रमो नोक्तः। एषां च पक्षाणां तत्तच्छाखानुसारेण व्यवस्था द्रष्टव्या।
अत्र च पित्रादीनां नामाज्ञाने—
गोभिलः।
यदि नामानि न विद्यात् स्वधा पितृभ्यः पृथिवीषद्भय इति प्रथमं निदध्यात् स्वधा पितृभ्योऽन्तरिक्षसङ्द्भ्यइति द्वितीयं स्वधा पितृभ्यो दिविषद्भ्य इति तृतीयं निधायेति।
गोत्राज्ञाने काश्यपगोत्रमाह—
व्याघ्रः।
गोत्रनाशे तु काश्यपः, इति।
नाशो=अज्ञानम्। अत्र षड्दैवत्यश्राद्धादौ मातामहवर्गस्थापि गोत्रसम्बन्धनामानि प्रयुज्य प्रयोगोऽनुष्ठेयः। “योज्यः पित्रादिशब्दानां स्थाने मातामहादिक”इत्यापस्तम्बवचनात्। एव नवदैवत्येऽपि मातृवर्गे स्त्रीलिङ्गानि गोत्रसम्बन्धनामानि प्रयुज्य प्रयोगः कार्यः। अत्र चावनेजनमन्त्रे आश्वलायनानां शुन्धन्तां मातामहाः, शुन्धन्तां मातर इत्यादि ऊहो मातामहयोर्ज्ञेयः। अवनेजनमन्त्रे पित्रादिशब्दानां प्रकृत्वंशे समवेतार्थकत्वात्। मातृवर्गे ये च त्वामत्रान्वित्यूह इति हेमाद्रिः।तन्न।एतत्पिण्डरूपमन्नंतुभ्यं, ये चान्ये अत्र त्वामनुयान्ति तेभ्यश्चेत्ययं खलु तस्यार्थः। न चानुयाविनः पुरुषस्य पुरुषा एव स्त्रियो वा स्त्रीणामिति नियमे प्रमाणमस्ति, तेन स्त्रीणामपि पुंसो अनुयायिनः सम्भवन्तीति नाहोसिद्धिः। आपस्तम्बेन तु एतत्ते मातरसौयाश्च त्वामत्रान्वित्येव मन्त्रः पठित इति तेषां तादृश एव। अत्र च नवदैवत्ये सपत्नमात्रादीनामपि श्राद्धं भवत्येव “पितृपत्न्यःसर्वा मातरः”इति सुमन्तुना तास्वपि मातृत्वाद्यतिद्देशात्। तत्रापि च जनन्यादिस्थानीयब्राह्मणे तत्पिण्डे वा वासामुद्देशो न तु पृथक्।
अनेका मातरो यस्य श्राद्धे चापरपाक्षिके।
अर्घ्यदानं पृथक्कुर्यात्पिण्डमेकं तु निर्वपेत्॥
इति गाल्ववचनात्। एवं च पिण्डदाने एतत्तेऽसौ इति मन्त्रे असौशब्दस्थाने वामिति ब्रूयात्। त्वाशब्दस्थाने च युष्मानिति ब्रुयात्। नारायणवृत्तिस्वरसोऽप्येवम्। इदं च मातृश्राद्ध वृद्धिष्यरिक्तश्राद्धेषु तीर्थमहालयान्वष्टकादिषु पितृपार्वणानन्तरमेव।
क्षयाहे केवलाः कार्या वृद्धावादौ प्रकीर्त्तिताः।
सर्वत्रैव हि मध्यस्था नान्त्याः कार्यास्तु मातरः॥
इति छागलेयवचनादिति हेमाद्रिः। शूलपाणि [स्तुपूर्व ] मेव।
क्षयाहे केवलाः कार्या वृद्धावादौ प्रकीर्तिताः।
अष्टकासु च कर्त्तव्यं श्राद्धं हैमन्तिकासु वै॥
अन्वष्टकासु क्रमशो मातृपूर्वं तदिष्यते।
इति ब्रह्मपुराणवचनादन्वष्टकासु मातृश्राद्धं पूर्वमेवेश्याह।
वस्तुतस्तु—
पितृभ्यः प्रथमं दद्यान्मातृभ्यस्तदनन्तरम्।
ततो मातामहेभ्यश्चेत्यान्वष्टक्ये क्रमः स्मृतः॥
इति हेमाद्र्युदाहृतब्रह्माण्डपुराणवचने मध्येऽप्युक्तत्वाद्विकल्पः। एवं “पित्रादिनवदैवत्यं तथा द्वादशदैवत”मित्यग्निपुराणवचनाद्यत्र वैकल्पिकं तीर्थमहालयादौ द्वादशदैवत्यं तत्रापि मातामह्यादीनाम वनेजनमन्त्रादावूहो बोध्यः।निवेशस्तु तासां सर्वान्ते “आगन्तुनामन्ते निवेश”इति न्यायात्, मातृपार्वणे तु वचनादादौ मध्ये वा निवेशः।
स्मृतिरत्नावलीकारादयस्तु षड्दैवत्वमेव गयाव्यतिरिक्ततीर्थमहालवादावित्याहुः।
अमावास्यायान्तु केषां चित् षड्दैवतं केषाञ्चिच्छाखिनां नवदैवत्यं वा तेषां शास्त्रानुसारेण व्यवस्था। अत्र च नवदैवत्ये द्वादशदैवत्ये वा पार्वणानां पदार्थानुक्रम एव, तत्र पदार्थप्रत्यासत्तिलाभात्। एवं च वेदिकरणादयः पदार्था एकस्य कृत्वा अपरस्यापि कर्तव्याः। तत्र वेदिकरणं मातृमातामह्यादीनां न भिन्नंपश्चिमेन तत्पत्नीनां किञ्चिदन्यर्धायेति सांख्यायनगृह्येकिञ्चिदन्तर्धानोक्त्या वेद्यभेदप्रतीतेः। मातामहपार्वणस्य तु भिन्ना वेदिरितिश्राद्धकल्पः। लेखा तु मातापित्रोर्भिन्नैव अत एवान्वष्टकावामाश्वलायनः। लायनः \।
कर्पूष्येके द्वयोः षटूसुपूर्वासु पितृभ्यो दद्यादपरासु स्त्रीभ्यः।
कर्षूः=अवटः। एकग्रहणमतिदेशप्राप्ताया लेखाया अबाधार्थम्। तेन लेखया सह विकल्पः। यदा द्वे कर्ष्वौतदा आयते भवतः, यदा षट् तदा परिमण्डलाः। पूर्वासु=पूर्वा च पूर्वाश्च ताः पूर्वाःतासु। तथा चायमर्थः। पूर्वस्यां लेखायां पूर्वस्यां कर्ष्वांपूर्वकर्षूषु पितृभ्यो दद्यात्। पक्षत्रयेऽपि पूर्वस्यामेव पितृभ्यो दद्यादित्यर्थः। अपरासु=अत्रापि पूर्ववदेकशेषः तेन कर्षूर्वा प्रतिपार्वणे लेखा मातापित्रोर्भिन्ना।यदा तु कर्षूषट्कं तदा प्रतिदैवत कर्षूभेदः।मातामहपार्वणे तु लेखा भिन्नैव वेदेरेव भिन्नत्वात्। एवं मातामह्यादीनामपि लेखाभेदः। दक्षिणाग्राया मातामहलेखायाः पश्चिमेन मातामह्यादीनां पिण्डदानविधानात्। अतश्च दर्भास्तरणावनेजनादिकमपि भिन्नमेव गृह्यमाणविशेषत्वात्। एवं उन्मुकनिधानमपि भिन्नं, रेखापुरोभागस्थ भिन्नत्वेन गृह्यमाणविशेषत्वात्। इदं च नवदैवत्यश्राद्धादौ मातुःपृथक् पिण्डदान यदि माता अकृतसहगमना तदा बोध्यम्। यदा तु सा कृतसहगमनातदा भर्तारं तां चोद्दिश्य [एक] एव पिण्डो देयः।
मृताहनि समासेन पिण्डनिर्वपणं पृथक्।
नवश्राद्धं च दम्पत्योरन्वारोहण एव तु॥
इति लौगाक्षिवचनात्। मृताहनि=मृततिथ्येकत्वे।तेन तिथिभेदे पृथगेव श्राद्धम्।समासेन=एकस्मिन्पिण्डे द्वयोरुपलक्षणरूपेण। पृथक् नवश्राद्धं च=च स्त्वर्थो नवश्राद्धं तु पृथगित्यर्थः। पृथक्त्वं च पूर्वोक्तसमासविपर्ययः तेन प्रधानभेदमात्रम्, अङ्गतन्त्रता न भवत्येव।
अत एव भृगुः। नवश्राद्ध युगपत्तु समापयेदिति। समापनं आरम्भस्योपलक्षणम्। अत्र च नवश्राद्ध एव पृथक्त्व- विधानादन्यत्र तीर्थमहालयादौ पृथक्त्वपरिसंख्यायाः समासोऽवगम्यते। एवं चो यक्रमगतो मृताहशब्दस्तीर्थ- महालयाद्युपलक्षणार्थः। एवं च—
एकचित्यां समारूढौ दम्पती निधनं गतौ।
पृथक् श्राद्धं तयोः कुर्यादोदनं च पृथक्पृथक्॥
इति स्मृत्यन्तरं नवश्राद्धविषयमिति मदनपारिजातादयः। श्राद्धं ब्राह्मणभोजनात्मकं प्रधानं। ओदनं पिण्डरूपं।हेमाद्रिप्रभृतयस्तु मृताहनीति विशेषश्रवणात्सावत्सरिकमात्रविषयमेतत् तेन तीर्थादौ पृथगेवदेयमित्याहुः। न च नवश्राद्धे पृथक्त्वविध्यानर्थक्यं मृताहमात्र एव समासविधानात् अन्यत्र समासाप्राप्तेरिति वाच्यं।अनुवादत्वात्पृ
थक्त्वश्रवणस्य। अत एव नवश्राद्धग्रहणमितरश्राद्धोपलक्षणार्थं। अथ वाऽङ्गतन्त्रताप्राप्त्यर्थंनवश्राद्धे पृथक् ग्रहणं भृगुवचनैकवाक्यत्वात्। पितृपार्वणे पिण्डदानानन्तरं प्रपितामहात्परांस्त्रीनुद्दिश्य तूष्णीं चतुर्थं पिण्डं फलभूमार्थं दद्यादित्यापस्तम्बः।
तूष्णीं चतुर्थं स कृताकृतः प्रपितामहप्रभृतीन्। उद्दिश्येति शेषः।
तूष्णीम्=अमन्त्रकम् कृताकृतो=वैकल्पिकः। अतश्च करणं फलभूमार्थं, अन्यथा अकरणेनैव साङ्गत्वसिद्धौ करणवि- ध्यानर्थक्यापत्तेः। प्रपितमहप्रभृतीनित्यतद्गुणसंविज्ञानो बहुव्रीहिः। तेन प्रपितामहात्परांस्त्रीनुद्दिश्येत्ययमर्थो लभ्यते। देवलेन तु मातृपार्वणपिण्डदानानन्तरं ज्ञातिवर्गस्य सामान्यपिण्डो देय इति उक्तम्।
हविःशेषं ततो मुष्टिमादायैकैकमादितः।
क्रमशः पितृपत्नीनां पिण्डनिर्वपणं चरेत्॥
ततः पिण्डमुपादाय हविषःसंस्कृतं महत्।
ज्ञातिवर्गस्य सर्वस्य सामान्यमिति निर्वपेत्।
पिण्डदानानन्तरं तदन्तिके तच्छेषविकिरणमुक्तं गारुडे—
पिण्डशेषविकिरणं च पिण्डान्तिकं इति गद्यरूपेण।
अत्र च पिण्डदानानन्तरं प्रपितामहात्परांस्त्रीनुद्दिश्य तेषामयं भागोऽस्तु इति ब्रुवन् दर्भमूले करावघर्षणं कुर्यात्। तथा च—
मनुः।
न्युष्य पिण्डान्पितृभ्यश्च प्रयतो विधिपूर्वकम्।
तेषु दर्भेषु तं हस्तं निर्मृज्याल्लेपभागिनाम्॥
लेपभागिनश्च मत्स्यपुराणे दर्शिताः। [अ० ३ श्लो० २१६]
लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः।
पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपुरुषम्॥
निर्मार्जनं च मूलप्रदेशे। अत एव विष्णु, दर्भमूले करावघर्षणम्। अत्र मन्त्र उक्तः मैत्रायणीयसूत्रे बर्हिषि हस्तं निर्माष्टि पात्रपितरः स्वधातया यूयं यथाभागं मादायध्वमिति अत्र पितरोमादायध्वमिति वा।
मानवमैत्रायणीये तु पूर्वमन्त्रस्य जपमात्रमुक्तं दक्षिणां दिशमन्वींक्षमाणो जपतीति। इदं च पित्रादित्रिकदर्भमूल एव करसंमार्जनं वृद्धप्रपितामहादीनामेव लेपभागित्वात्। अत्र च षडदैवत्यश्राद्धादौ सर्वेषां पार्वणानामन्ते करसंमार्जनं कार्यं लाघवात्।
यत्तु विष्णुपुराणम्—
स्वपित्र्येप्रथमं पिण्डं दद्यादुच्छिष्टसन्निधौ।
पितामहाय चैवाथ तत्पित्र्ये च ततः परम्।
दर्भमूले लेपभुजं प्रीणयेल्लेपघर्षणैः॥
पिण्डैर्मातामहांस्तद्वद् गन्धमाल्यादिसंयुतैः।
प्रीणयित्वा द्विजाग्र्याणां दद्यादाचमनं ततः॥
इति, तन्नक्रमकल्पकं, किन्तु दर्भमूलविधायकं, अन्यथा प्रत्यवनेजनादेः प्रागपि तदुक्तब्राह्मणाचमनापत्तेरिति स्मार्त्तभट्टाचार्यः। अत एवपितृदयिताश्राद्धकल्पप्रभृतिभिः षट्पिण्डानन्तरमेव करसंमार्जनं लिखितम्।
रायमुकुटादयस्तु यथाश्रुतविष्णुपुराणवचनात्।
त्रींस्तु तस्माद्धविःशेषात्पिण्डान्कृत्वा समाहितः।
औदकेनैव विधिना निर्वपेद् दक्षिणामुखः॥
[अ० ३ श्लो० २१५ ]
न्युष्य पिण्डांस्ततस्तांस्तु प्रयतो विधिपूर्वकम्।
तेषु दर्भेषु तं हस्तं निर्मृज्याल्लेपभागिनाम्॥
इति मनुवचनाच्च पितृपार्वणे पिण्डदानानन्तरं करसंमार्जन कार्यमित्याहुः। न चैतस्य विष्णुवचनस्य क्रमकल्पकत्वे प्रत्यवनेजनस्यापि ब्राह्मणाचमनोत्तरकालत्वापत्तिः। विष्णुपुराणे प्रत्यवनेजनस्यानुक्तत्यात्।अत्र चैकोद्दिष्टे लेपभुजाम- संभवेऽपि निरुद्देश्यककरसंमार्जनादिकं कर्त्तव्यमेव, साधारणप्रवृत्तप्रागुक्तब्रह्मपुराणवचनादिति स्मार्तभट्टाचार्यः। अत्र च हस्तोन्मार्जनस्य दृष्टार्थत्वाद्यदि हस्तलेपो नास्ति तदा नोन्मार्जन कर्त्तव्यं शकृल्लोहितनिरसनवत्। मेघातिथिहरि- हरप्रभृतयस्तु यद्यपि हस्ते लेपो न भवेत् तथापि उन्मार्जन कर्त्तव्यमेव, नह्यस्य प्रतिपत्तिकर्मत्वं किं तर्हि हस्तान्मार्जनं अदृष्टार्थम्। अत एव विष्णुस्मृतौ करावघर्षणमात्रं श्रुयते अतश्च तादृशस्य लेपाभावेऽपि कर्त्तुंशक्यत्वाद्भवत्येवोन्मार्जनं। न च लेपभागिनामित्यस्यानुपपत्तिः लेपशब्दस्यात्रान्नरसोष्यादिपरत्वात्। पिण्डदाने हि क्रियमाणे अन्नरसोष्यादिकं किञ्चिद्धस्ते संक्रामत्येव अतस्तादृशंसक्रान्तान्नरस एव लेपभागिनामयं भागोऽस्त्विति ब्रुवन् हस्तं निमृज्यादित्याहुः।
पिण्डदानानन्तरम्—
मनुः।
आचम्योदक्परावृत्य त्रिरायम्य शनैरसून्।
षडप्यृतून्नमस्कुर्यात्पितृृनेव च मन्त्रवत्। [अ० ३श्लो० २१७]
आचमनं च हस्तप्रक्षालनपूर्वकं कर्त्तव्यमित्युक्तम्—
ब्रह्मपुराणे,
ततो दर्भेषु तं हस्तं समृज्य चकरौपुनः।
प्रक्षाल्य च जलेनाथ त्रिराचम्य हरिस्मरेत्॥
त्रिरिति च “निर्वर्त्य पितृकर्माणि सकृदाचमनं चरेत्”इत्यस्यापवादार्थमिति हेमाद्रिः। “त्रिः पिबेद्वाीक्षितं तोय” मित्यादिना यत्सामान्यतो विहितं त्रिराचमनं तदत्र त्रिरावर्त्तन इति श्राद्धचिन्तामणिः।एकाचमने त्रिस्तोयपानं यद्विहित तस्यैवायमनुवाद इति श्राद्धदीपिका। उदक्परावृत्य=उदीचीं दिशं परावृत्य, परिवर्त्तनेनोत्तराभिमुखो भूत्वेत्यर्थः। इदं चोदक्परावर्त्तनं पिण्डानामनुमन्त्रणपूर्वकं कर्त्तव्यमित्याह—
आश्वलायनः।
निपृताननुमन्त्रयेतात्रपितरो मादवध्व यथाभागमावृषायध्वमिति सव्यावृदुदगावृत्येति।
निपृतान्=विधिपूर्वकं दर्भेषु निहितान्। सव्यावृत्=सव्यप्रकारमप्रदक्षिणमित्यर्थः। उदगावृत्य=उदगन्तमेवावृत्य।
छन्दोगपरिशिष्टे विशेष उक्तः।
वामेनावर्त्तनं केचिदुदगन्तं प्रचक्षते।
सर्वंगौतमशाण्डिल्यौ शाण्डिल्यायन एव च॥ इति।
वामेन=वाममङ्गं पुरस्कृत्य।उदगन्तम्=यावदुदङ्मुखो भवति तावदित्यर्थः। केचित्=गौतमादिव्यतिरिक्ताः। ते तु सर्वं सव्येनापसव्येन वा परावर्त्तनं प्रचक्षत इत्यर्थः।
उदक्परावर्त्तनानन्तरं च उत्तराभिमुखेन श्वासनियमनं कार्यं प्रागुक्तमनुवचनात्। अत्र च मनुवचने त्रिरिति श्रवणादुक्तलक्षणं प्राणायामं त्रिः कृत्वेत्यर्थ इति मेघातिथिः। विनैव मन्त्रेन प्राणानां नियमनमिति तु कर्कादिबहुसंमतोऽर्थः। श्वासं नियम्य षट् ऋतून्पितृृश्च नमस्कुर्यादित्याह—
स एव।
षट्ऋतूंस्तु नमस्कुर्यात्पितॄनेव च मन्त्रवत्।
तत्र ऋतुनमस्कारे मन्त्र उक्तो—
ब्रह्मपुराणे।
वसन्ताय नमस्तुभ्यं ग्रीष्माय च नमो नमः।
वर्षाभ्यश्च शरत्संज्ञऋतवे च नमः सदा॥
हेमन्ताय नमस्तुभ्यं नमस्ते शिशिराय च।
माससंवत्सरेभ्यश्च दिवसेभ्यो नमो नमः॥ इति।
पितृनमस्कारे तु मन्त्रो “नमो वः पितर इषे” इत्यादिर्द्रष्टव्य इति हेमाद्रिः।
अन्ये तु मनुवचनमेवं व्याचक्षतेऋतूत्पितॄनेव पितृतया ध्यायन्नेव नमस्कुर्यात् मन्त्रवदिति=“वसन्ताय नमस्तुभ्य” मित्यादिमन्त्रेणेत्यर्थः।
यत्तु कात्यायनसूत्रे “नमो वः पितर”इति मन्त्रेण षडञ्जलिकरणमुक्तं, तच्चऋतुनमस्काराद् भिन्नमेव, तत्र ऋतुन- मस्कारस्यानुक्तत्वात्। अतश्च कात्यायनैरपि मनुक्त ऋतुनमस्कारः पितृनमस्कारश्च भिन्नतया कार्य इत्याहुः।
अयं च ऋतुनमस्कार उदङ्मुखेनैव कर्त्तव्य इत्युक्तंमारुडे—
वामेन परावृत्त्योदङ्मुखः प्राणान्नियम्य षड्भ्यो नम इति नमस्कृत्य वामेनैव परावृत्य दक्षिणामुखोऽमीमदन्तेति जपति।
स्मार्त्तभट्टाचार्यस्तु एवमाह, न वसन्ताय नम इत्यनेन ऋतुनमस्कार इत्येवं मनुवचनं व्याख्येयं किन्तु याजुर्वैदिकेन नमो वः पितर इति मन्त्रेण रसादिशब्दप्रतिपाद्यान्वसन्तादीन् ब्राह्मणसर्वस्वे हलायुधव्याख्यातान् षडृतून्नमस्कुर्यादित्यर्थ इति व्याख्येयम्। अतश्च कात्यायनादीनां नमो व इत्यनेनैव ऋतुनमस्कारस्य सिद्धत्वात् न पृथक् सोऽनुष्टेयः प्राप्नोति येषां तु सामगादीनां न कथश्चित् ऋतुनमस्कारप्राप्तिस्तेषां ब्रह्मपुराणवचनान्तत्प्राप्तिः, तथा च ब्रह्मपुराणं—
तेभ्यःसंस्रवपात्रेभ्यो जलेनैवावनेजनम्।
दत्वात्र पितरश्चेति जपच्चोदङ्मुखस्ततः॥
सञ्चिन्तयन् पितृृन्तुष्टान्सर्वान् भास्करमूर्त्तिकान्।
अमीमदन्तपितर इति पश्यन् पितृृन्पठेत्॥
नीवीं विस्त्रस्य च जपेन्नमो वः पितरस्त्विति।
अत्र षट्पुरुषान्तं च मन्त्रं जप्त्वा कृताञ्जलिः॥
एतद्वः पितरो वास इति जल्पन् पृथक् पृथक्।
अमुकामुकगोत्रैतत्तभ्यं वासः पठेत्ततः॥
दद्यात्क्रमेण वासांसि श्वेतवस्त्रभवा दशाः।
गते वयसिवृद्धानि स्वानि लोमान्यथापि वा॥
क्षौम सूत्रं नव दद्यात् शाणं कार्पासमेव च।
कृष्णोर्णा नीलरक्तान्यकौशेयानि विवर्जयेत्॥
मधु चाज्यं जलं चार्ध्यंपुष्पं धूपं विलेपनम्।
वलिं दद्यात्तु विधिवत्पिण्डोऽष्टाङ्गो भवेद्यथा॥
सम्पूजयित्वा विप्रांस्तु पितॄँश्च प्रणमेदृतुन्।
वसन्ताय नमस्तुभ्यं ग्रीष्माय च नमो नमः॥
वर्षाभ्यश्च शरत्संज्ञॠतवे च नमो नमः।
हेमन्ताय नमस्तुभ्यं नमस्ते शिशिराय च॥
माससंवत्सरेभ्यश्च दिवसेभ्यो नमो नमः॥ इति।
एवं च तेषां एतद्वचनानुसारात् ऋतुनमस्कारःपिण्डपूजानन्तरमेव भवति। अत एव श्राद्धचिन्तामणिरपि ब्रह्मपुराणोक्तऋतुनमस्कारस्य सामगपरत्वं तत्सुत्रसंवादादित्याह। क्षौमं=अतसीप्रभवम्। अतसी स्यादुमा क्षमेत्यमरात्। इदं च ब्रह्मपुराणोक्तं ऋतुनमस्करणं दक्षिणाभिमुखेनैव कर्त्तव्यम्। एवं च उदक्परावृत्य श्वासं निरुध्य पुनस्तेनैव पथा परावर्त्येति स्मार्त्तमते अनुष्ठानक्रमः सिद्धो भवति।
उदङ्मुखावस्थानस्यावधिमाह—
कात्यायनः।
उदङ्डनस्ते आतुमनात्। तमन=ग्लानि, तदवधि। अतश्चोदङ्मुखावस्थानमात्रेण ग्लानेरसम्भवात् कात्यायनानु- क्तमपि श्वासनिरोधात्मकं शास्त्रान्तरोपदिष्टं ग्लानिकारणं अवश्यस्वीकर्त्तव्यम्। श्वासनिरोधानन्तरं—
स एव।
आवृत्यामीमदन्तेति जपति।
आवर्त्तनं तेनैव मार्गेणेति कर्कः।
अत एव छन्दोगपरिशिष्टे।
जपंस्तेनैव चावृत्य ततः प्राणं विमोचयेत्।
जपन्=अमीमदन्तेति मन्त्रमिति शेषः। प्राप्यं विमोचयेत्=उच्छ्वसे-
दित्यर्थः। अत्र च जपन्निति श्रवणाज्जपतोऽभ्यावृत्तिः प्रतीयते। कात्यायनादीनां तु अभ्यावृत्युत्तरकालं जप इत्येतावान्विशेषः। अत एव तेषामस्मिन् जपे दक्षिणामुखत्वं प्रागुक्तगरुडपुराणैकवाक्यत्वात्। छन्दोगानां तु [न] दक्षिणामुखत्वं परावर्त्तनसमय एव जपविधानात्। अयं च मन्त्रजप उपांशु कर्त्तव्यः जपत्वात् श्वासानरोधेन व्यक्तजपस्य कर्त्तुमशक्यत्वादिति स्मार्त्तः।
आपस्तम्बेन तु पिण्डविधानानन्तरं मन्त्रान्तरेणोपस्थानमुक्त्या अत्र पितर इत्यनयोर्मन्त्रयोः पाठान्तरेण विनियोगो दर्शितः।
यन्मे माता प्रलुलोभ यच्चचाराननुब्रतम्।
तन्मे रेतः पिता वृक्तां माभ्युरन्योपपद्यताम्॥
पितृभ्यः स्वधायिभ्यःस्वधा नमः पितामहेभ्यः स्वधायिभ्यः स्वधानमः प्रपितामहेभ्यः स्वधायिभ्यः स्वधानम इति उपस्थायात्र पितरो यथाभागं मादयध्वमित्युक्त्वा परागावर्त्तते ओष्मणो व्यावृत्तउपास्तेऽमीमदन्तपितरः सोम्यास इति।
आऊष्मणः=पिण्डोष्मापगमं यावत्।अमीमदन्तेत्यस्यानन्तरं पिण्डावशिष्टान्नाघ्राणमुक्त्वा प्रत्यवनेजनमुक्तम्—
आश्वनायनसूत्रे।
चरोः प्राणभक्षं भक्षयेत्।
चरोः = पिण्डावशिष्टस्य।प्राणभक्षं=अवघ्राणं यथाकृतं भवति तथा भक्षयेत्=अवजिघ्रेत्।
आपस्तम्बेन तु पिण्डावशेषस्य आघ्राणमुक्त्वा तस्य समन्त्रकं काम्यं भक्षणमुक्तम्।यः स्थाल्यांशेषस्तमवजिघ्रति—
ये समानाः सुमनसः पितरो यमराज्ये।
तेषां लोकः स्वधा नमा यज्ञोदेवेषु कल्पताम्। वीरं मे दत्तपितर इति आमयाविना प्राश्यो अन्नाद्यकामेन प्राश्यो योऽलमन्नाद्याय तेन वा प्राश्यः।आमयाबी=रोगी अस्य चौचित्यान्निवृत्तिशेषत्वेनैव काम्यत्वम्।अन्नाद्यं=अन्नं तत्कामोऽपि भक्षयेत्। यो वा अन्नाद्यायालंसमर्थः सन अरुच्यादिना नाद्यात्सतदुत्पत्यर्थंभक्षयेत्।
कात्यायनस्तु अवघ्राणमनुक्त्वा अमीमदन्तेत्यस्य जपस्यानन्तरं कर्त्तव्यमाह।
अवनेज्य पूर्ववन्नीवींविस्रस्य नमो व इत्यञ्जलिंकरोति। इंद
चावनेजनं पूर्वावनेजनजलशेषजलेन। “तेभ्यः संस्रवपात्रेभ्यो जलेनैवावनेजनम्”इति ब्रह्मपुराणवचनात्। संस्रवपात्रेभ्यः=पूर्वदत्तावनेज नपात्रेभ्यः।मनुवचनेऽपि।
उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः।
[अ० ३ श्लो० २१८]
इदं च सामगभिन्नवाजसनेयादिपरं, तेषां तु पिण्डपात्रक्षालनजलेन “तत्पात्रक्षालनेनाथ पुनरप्यवनेजयेत्”इति छन्दोगपरिशिष्ठात्। केचित्तु वाजसनेयिनामपि पिण्डपात्रक्षालनजलेनैवेच्छन्ति। अत्र चावनेजनवाक्यशेषशब्द- प्रतिपत्तिकर्मत्वम्। एवं च दैवादस्य जलस्य नाशे नेदं प्रत्यवनेजनं कार्यमिति मेधातिथिः।
वस्तुतस्तु आश्वलायनसूत्रे नित्यं निनयतमिति नित्यग्रहणात् कर्त्तव्यमेव। हेमाद्रिरप्येवम्।
अपनेजनानन्तरं पिण्डपात्रस्य न्युब्जीकरणमुक्तम्—
गारुडे।
कृत्वावनेजनं कुर्यात्पिण्डपात्रमधोमुखम्।
नावी विस्रस्येति। वामकट्यां वस्त्रदशासङ्गोपनं नीविरिति हेमाद्रिः। तामुन्मुच्य।नीविविस्रंसनानन्तरं आचमनं कार्यंनीवीं विस्रस्य परिधायोपस्पृशेदिति बौधायनवचनात्।
केचित्तुनीविविस्रंसनस्य द्विराचमनप्रकरणे कात्यायनेन पाठाद् द्विराचमनमेव कार्यमित्याहुः।
अन्ये तु न तु कर्मस्थ आचामेद्दक्षिणं श्रवणं स्पृशेदिति वचनात्कर्णस्पर्शमाहुः। किमपि न कार्यमिति पितृभक्तिः। नमो व इति अञ्जलिं करोतीति। अञ्जलिः=करसम्पुटः। अञ्जलिमावध्नन्पिण्डाभिमुखः पितृभ्यो नमस्कारात्कुर्यादित्यर्थः। अत्र च प्रतिमन्त्रं षट्कृत्वो नमस्कारः। “आषद्कृत्वो नमस्करोती“ ति श्रुतेः। अतश्च प्रतिनमस्कारमञ्जलिकरण- मावर्त्तत इति कर्कः। ते च नमो वः पितरो रसायेत्यादि पितरो नमो व इत्यन्ताः। अत्र च तत्तच्छाखान्तरे तत्तत्सूत्रान्तरे च ये मन्त्राः पठितास्ते तत्रैव द्रष्टव्याः।मैत्रायणीयपरिशिष्टेषु तु अञ्जलेः पिण्डोपरि करणमुक्तम्।
निह्णुवतेऽञ्जलिं कृत्वा नमो व इत्त्यादि।
निह्णुवनं=पिण्डोपरि पाण्योः करणम्। अथ प्रस्तरे निह्नुवत इत्यादिषु तथा प्रमितेः। गोभिलस्तु निह्नुवने विशेषमाह।अथ निह्नुवते
पूर्वस्यां दक्षिणोत्तानौ पाणी कृत्वा नमो वः पितरो जीवाय नमो वः पितरः शोषायेति मध्यमायां सव्योत्तानौनमो वः पितरो नमो व इति दक्षिणोत्तानाविति। दक्षिणपाणिभुत्तानं कृत्वा तदुत्तरमुक्तम्। कात्यायनैस्तु नमस्कारानन्तरं वासोदानं कार्यंतथा च—
स एव।
एतद्व इत्यपास्यति सूत्राणि प्रतिपिण्डं ऊर्णां दशां वा वयत्युत्तरे यजमानस्य रोमाणि वा।
सूत्राणीति वहुवचनात्त्रीणि त्रीणीति कर्कः।ऊर्णा=मेषरोमाणि। इयं ऊर्णा श्वेताया ग्राह्या, कृष्णायाः“कृष्णोर्णा नीलरक्तानि अकौशेयानि वर्जये” दिति ब्रह्मपुराणे निषेधात्।दशा=वस्त्राञ्चलसूत्राणि। सूत्राणीत्यनेनैव दशाया अपि सिद्धेः पुनर्दशाग्रहणंदशाया अनुकल्पत्वसूचनार्थम्।
अत एव वायुपुराणे—
वर्जयेत्तु दशां प्राज्ञो यद्यप्यहतकोद्भवामिति निषेध इति हेमाद्रिः। अत एव श्वेतवस्त्रभवादशा इति ब्रह्मपुराणवचनं पित्र्यनुकल्पत्वपरमिति व्याख्येयम्। न चात्र श्वेनदशाया विधानाद्वायुपुराणीयदशानिषेधः कृष्णदशाविषयोऽस्त्विति वाच्यम्। तत्राहतकोद्भवामिति श्रवणादहत कस्य च शुक्लत्वेन तस्या अपि निषेधप्रतीतेः। भानूपाध्येयोऽप्येवम्।अन्ये- त्वहतस्वाहतं यन्त्रनिर्मुक्तमिति वचनान्नूतनपर्यायत्वावगमान्नूतनकृष्णनिषेधार्थं वायुपुराणवचनम्। अत एव शुक्लवस्त्रदशाभवं सूत्रमिति पितृदयिता, वयस्युत्तरे यजमानरोमाणि चेति। शतवर्षस्यायुषः समं भागद्वयं प्रकल्प्य द्वे वयसी कल्पते तत्रोत्तर उपरितने वयसि वर्त्तमानस्य यजमानस्य लोमानि तानि च प्रशस्ताङ्गकत्वादुरस्थितान्येव ग्राह्याणि। उत्तरे वयस्पुरोलोमानीति सूत्रान्तरदर्शनात्। वाशब्दादस्मिन्नपि वयसि सूत्रादिना विकल्पो लोम्नामिति दर्शितमिति हेमाद्रिः। एतच्चसुत्रादिवस्त्राभावे वेदितव्यम्। अथ वस्त्रमभावे दशामूर्णं वेति विष्णुवचनात्। अत्र च प्रतिपिण्डभित्यभिधानादेतद्व इति मन्त्रः प्रतिपिण्ड मावर्त्तते। बहुवचनं प्रयोगसाधुत्वार्थम्। यत्त्वत्र वाचस्पतिनान्यैरपि (१)68 गौडैरुक्तमत एव द्विपाशिकाया विकृतौबहुवचनान्तमेव पाशपदं प्रयोक्तुमुचित मित्युक्तं (२)69 पाशाधिकरण इति, तन्मीमांसानवबोध-
विलसितम्। अत्रापि च तत्तच्छाखाभेदेन सूत्रभेदेन च ये मन्त्रा उक्तास्ते तत्रैव ज्ञेयाः।
मन्त्रपाठोत्तरं वाक्यप्रयोग उक्तो ब्राह्मे—
एतद्वः पितरो वास इति जल्पन्पृथक् पृथक्।
अमुकामुकगोत्रैतत्तुभ्यं वासः पठेत्ततः।
अयं च वाक्यप्रयोगो मन्त्रपाठोत्तरकालीनत्वात्प्रतिपिण्डमावर्त्तते। एतद्वः पितरो वास इत्युक्त्वा वाक्यपूर्वकम्। सम्बोध्य प्रतिपिण्डे तु वस्त्रं वापि विनिःक्षिपेत्” इति भविष्यवचनाच्च। एतेन चामुकगोत्रा अमुकशर्माण एतानि वः पिण्डेषु वासांसि स्वधेत्युक्त्वा एतद्वः पितरोवास इति प्रतिपिण्डे दद्यादिति रायमुकुटकारमतं परास्तम्, पूर्वोक्तवाक्यविरोधात्। अत्र च नवदवस्यश्राद्धादौमातामहपार्वणे वानास्य मन्त्रस्योहः प्रकृतो पिण्डपितृयज्ञे पितृशब्दस्य सपिण्डीकरणसस्कारवचनत्वात् पितामहप्रपितामहयोरपि मन्त्रप्रयोगात्। अत्र च वस्त्रादीनामभ्युक्षणं कृत्वा दानमुक्तमानवमैत्रायणाीयसुत्रे “वास ऊर्णांदशां वाभ्युक्ष्य पिण्डदेशे निदधाति”।
अत्र कैश्चित्सूत्रकारैर्वासोदानात्पूर्वं गृहाद्यवेक्षणाञ्जनदानान्युक्तानि। तत्र गोभिलस्तावद् गृहानवेक्षेन गृहान्नः पितरो दत्तेति पिण्डानवेक्षेत सतो वः पितरो देष्मेति। अत्र गृहशब्देन पत्न्युच्यते गृहाः पत्नोति तेनैवोक्तत्वादिति स्मार्त्तः। अञ्जनाभ्यञ्जने त्वाश्वलायनेनोक्ते। असावभ्यङ्क्ष्वासावङ्क्ष्वेति पिण्डेष्वभ्यञ्जनाञ्जने वालो दद्यादिति। अभ्यञ्जनं तैलम्। अञ्जनं त्रैककुदादि। तदुक्तम्—
ब्रह्मपुराणे।
श्रेष्टमाहुस्त्रिककुदमञ्जनं नित्यमेव च।
तैलं कृष्णतिलोत्थं तु यत्नात्सुपरिरक्षितम्।
श्रेष्टमाहुरित्यभिधानात्तदभावे कज्जलाद्यभ्यनुज्ञा गम्यते। वासः सूत्रदानानन्तरम्।कात्यायनः।
ऊर्जमित्यपोऽभिषिञ्चति।
ऊर्जमितिप्रतीकेन सम्पूर्णो मन्त्रो गृह्यते।
अनेन मन्त्रेण पिण्डानामुपरि दक्षिणाग्रांजलधारां दद्यादित्यर्थः।
पिण्डेषु गन्धादिदानमाह—
विष्णुः।
अर्घपुष्पधूपानुलेपनान्नाद्यभक्ष्यभोज्यं निवेदयेत्।उदपात्रं मधु-
तिलाभ्यां संयुतं च। इदं च गन्धादिदानं तूष्णींकार्यम्, “गन्धादि निक्षिपेत्तूष्णीं तत आचामयेद् द्विजान्”इति परिशिष्टवचनादिति वाचस्पतिमिश्राः।
हेमाद्रिस्तु।
एतद्वः पितरो देवा देवाश्च पितरः पुनः।
पुष्पगन्धादिधूपानामेवं मन्त्रमुदाहृतम् ॥
इति ब्रह्मवैवर्तवचनान्मन्त्रपूर्वकमित्याह—कल्पतरौ ब्रह्मपुराणनाम्नापठितमिद वचनम्। गन्धदानोत्तरं ब्राह्मणाना- चामयेत्प्रागुक्तछन्दोगपरिशिष्टवचनात्।
कात्यायन।
अवधायावजिघ्रतियजमानः।
अवधाय=पिण्डपात्रे पिण्डान् निधाय।अवधानं कृत्वेति भानूपाध्याय। अवजिघ्रति यजमानः, तत्संस्कारकं चेदं, स्तत्संस्कारकत्वं च “स यजमानभाग” इति वचनात्। अतश्चाध्वर्युकर्तृके पिण्डपितृयज्ञे श्राद्धे चाप्रतिनिधि- कर्तृकेयजमानस्यैवेदम्।न चावधानस्याध्वर्य्वादिकर्तृकत्वेन भिन्नकर्त्तृकत्वात् क्त्वाप्रत्ययानुपपत्तिः। पूर्वकालतामात्र एव क्त्वाप्रत्ययोपपत्तेः। निरूप्याजं प्रातर्द्दोहनमितिवदिति कर्कः। वस्तुतस्तु अवधाने यजमानस्य प्रयोजककर्तृत्वेन समानकर्तृकत्वस्याप्युपपत्तिः।मनुनातु प्रत्यवनेजनानन्तरं भूमिस्थानामेव पिण्डानां क्रमेणावघ्राणमुक्तम्—
उदकं निनयच्छेषं शनैः पिण्डान्तिके पुनः।
अवजिघ्रेच्च तान्पिण्डान्यथान्युप्तान् समाहितः ॥
यथान्युप्तानित्यनेन निर्वापक्रमेण पिडानामवघ्राणं दर्शितम्।
अवघ्राणानन्तर कात्यायनः।
उल्मुकसकृदाछिन्नान्यग्नौ।
आदधातीति शेषः। अत्र च सकृदाच्छिन्नं पूर्वं क्षिपेत् सकदाच्छिन्नान्यग्नावभ्याददाति पुनरुल्मुकमपिसर्जति इति शतपथश्रुतेः। सूत्रे त्वजाद्यदन्तत्वादल्पाच्तरत्वाद्वा पूर्वनिपातः। आपस्तम्बेन तु उल्मुकापिसर्जने मन्त्र उक्तः, अभून्नोद्वतो हविषे। जातवेदाःप्रवाहव्यानि सुरभीणि कृत्वा। प्रादात्पितृभ्यः स्वधया ते अक्षन्प्रजानन्नग्ने पुनरप्येतु देवानित्येकोल्मुकं प्रत्यपिसृजति। गोभिलेन तु अनेनैव मन्त्रेणोल्मुकाभ्युक्षणमुक्तम्। इति पिण्डदानम्।
अथाक्षय्योदकदानम्।
विष्णुः।
ततः सुप्रोक्षितमिति श्राद्धदेशं प्रोक्ष्यदर्भपाणिः सर्वंकुर्वात्।
ततः=पैतृकद्विजपुरःसरमाचमनोदकं दत्वा। तत्पुरःसरत्वं च देवलेनोक्तम्। उदङ्मुखेषु घनमादौ दत्वा प्राङ्मुखेषु दद्यात्। सर्व=वक्ष्यमाणम्। आचमनोत्तरं—
कात्यायनः।
आचान्तेषूदकपुष्पाक्षतानक्षय्योदकं च दद्यात्।
अक्षता=यवाः।
आचान्तेषूदक दद्यात्पुष्पाणि सयवानि च।
यवोऽसीति पठन्मन्त्रं श्रद्धाभक्तिसमन्वितः॥
** **इति ब्रह्मपुराणवचनात्। श्राद्धकल्पोऽप्येवम्। इदं च यवदानं देवकरे, पित्रे तु तिलदानम्।
तथा तत्रैव।
सतिलाम्बु पितृष्वादौदत्वा दैवेषु साक्षतम्।
आदावित्यस्य दैवेष्वित्यनेनान्वयः।
आदौ साक्षतमम्बु देवेषु दत्त्वा सतिलाम्बु पितृषु दद्यादित्यर्थः। अत एव कर्केणापि देवपूर्वकत्वमुदकदानादेरुक्तम्।
उदकादिदाने मन्त्राः।
छन्दोगपरिशिष्टे।
शिवा आपः सन्त्विति च युग्मामेवोदकेन वा।
सौमनस्वमस्त्विति च पुष्पदानमनन्तरम्॥
अक्षतं चारिष्टमस्त्वित्वक्षतान् प्रतिपादयेत्।
युग्मानिति विध्यभिप्रायेणेति हलायुधः। शातातपेन तु मन्त्रान्तराण्युक्तानि।
अपां मध्ये स्थिता देवा सर्वमप्सुप्रतिष्ठितम्।
ब्राह्मणस्व करे न्यस्ताः शिवा आपो भवन्तु नः।
लक्ष्मीर्वसतु पुष्पेषु लक्ष्मीर्वसतु पुष्करे।
लक्ष्मीर्वसेत्सदा सोमे सौमनस्यं सदास्तु मे॥
अक्षतं चास्तु मे पुण्यं शान्तिः पुष्टिर्धृतिश्च मे।
बद्यच्छ्रेयस्करं लोके तत्तदस्तु सदा मम॥
अन्नोदकदानादौ यथालिङ्गं मन्त्राणां विमल्य विनियोगः। अत्र
च परिशिष्टशातातपोक्तानां मन्त्राणामैच्छिको विकल्प इति मिश्राभिप्रायः। उदकादिदानं च पित्र्ये अपसव्येनेति कर्कः।
शङ्खधरस्तु।
“ततः पुष्पाणि सव्येन सोदकानि पृथक् पृथक्” इति शातातपवचनात्सव्येनैवेत्याह। न चैतस्य देवपरत्वमिति वाच्यम्। आनर्थक्यापत्तेः। पृथक् पृथगित्यस्यानुपपत्तेश्च।
अक्षय्योदकं च दद्यादिति। दत्तानामन्नादीनामक्षयार्थमुदकमक्षय्योदकम्। इदं चाक्षय्योदकदानं (च) नामगोत्राभ्याम्, “उदङ्मुखेभ्यो दत्वा विश्वेदेवाः प्रीयन्तामिति प्राङ्मुखेभ्यः” इति वचनाप्रथमतः पित्र्येदत्वा पश्चाद्दैवेऽपि अक्षय्योदक देयमित्याहुः। अत एव चनामगोत्रोच्चारणपूर्वकत्वमपि भवति। अत्र गोत्रादिसम्बुद्धिस्थाने षष्ठी उक्ता—
छन्दोगपरिशिष्टे।
अक्षय्योदकदानं तु अर्घदानवदिष्यते।
षष्ठ्यैव नित्यं तत्कुर्यान्न चतुर्थ्याकदाचन॥ इति।
अर्घदानवत्प्रत्येकमक्षय्योदकदानं कुर्यादित्यर्थ इति हलायुधः।
स्मार्त्तस्तु तन्त्रतानिवृत्तेः; “अर्घेऽक्षय्योदक चैव”इत्यनेनेव सिद्धेर्ज्येष्ठोत्तरकरत्वप्राप्त्यर्थोऽतिदेश इत्वाह। एवं च अमुकशर्मणोऽस्मत्पितुर्दत्तान्नादेरक्षय्यमस्त्विति पित्र्येवाक्यं बोध्यम्। दैवे तु पुरुरवार्द्रवसंज्ञका विश्वदेवा दत्तैतदन्नपानादिना प्रीयन्तामिति। अत्र ब्राह्मणहस्ते दत्तानामुदकादीनां धारणप्रयोजकभाविकार्याभावाच्छुचौदेशे प्रक्षेपः कार्य इति हेमाद्रिः।
पुनश्च तेषामुदकादिदानं कार्यमित्युक्तं—
मत्स्यपुराणे।
आचान्तेषु पुनर्दद्याज्जलपुष्पाक्षतोदकम्।
दत्वाशीः प्रतिगृह्णीयाद् द्विजेभ्यः प्राङ्मुखो बुधः।
स्वस्तिवाचनकं कुर्यात्पिण्डानुद्धृत्य भक्तितः॥
पुनः शब्देन चात्रेदं द्वितीयं दानमिति सूचितमिति हेमाद्रिस्मृतिचन्द्रिकाकारप्रभृतयः।आशीर्ग्रहणप्रकारश्च कात्या- यनेनोक्तः अघोराः पितरः सन्तु, सन्त्वित्युक्ते गोत्रंनो वर्द्धतां वर्द्धतामित्युक्ते,
दातारो नोऽभिवर्द्धन्तां वेदाः सन्ततिरेव च।
श्रद्धा च नो मा व्यगमत् बहु देयं च नोऽस्त्विति॥
आशिषः प्रतिगृह्येति। क्वचित्तु वेदैः सन्ततिरेव चेति पाठः। अत्र बहु देयं च नोऽस्त्वीत्यन्तं मन्त्रं पठित्वा।
अन्नं च नो बहु भवेदिति श्रीश्च (१)70 लभेमहि।
याचितारश्च नः सन्तु मा च याचिष्म कं चन॥
इत्यधिकं बौधायनेन पठितम्। अत्र च वरयाचने क्रियमाणे दातार इत्येवमादावपि प्रतिवरं ब्राह्मणैर्यथालिङ्गं प्रत्युत्तरं देयम्।
प्रार्थनासु प्रतिप्रोक्तेसर्वास्वेव द्विजोत्तमः।
इति वचनादिति हेमाद्रिः।अन्यैस्त्वत्रप्रतिवचनं न लिखितम्। यत्तु स्मृतिचन्द्रिकाकारेण कात्यायनगृह्ये दातार इत्यादिकं नोक्तमित्युक्तं तत् (कर्म) कल्पतरुहलायुधादिसकलनिबन्धेषु पाठदर्शनादयुक्तम्। वरग्रहणे कालविशेषः प्रकारविशेषश्चोक्तो मनुना।
विसृज्य ब्राह्मणास्तांस्तु नियतो वाग्यतः शुचिः।
दक्षिणां दिशमाकाङ्क्षन् याचेतेमान् वरान्पितॄन्॥
[अ० ३ श्लो० २७८]
विसृज्य=पीठेभ्यो मन्त्रेणात्थाप्य।आकाङ्क्षन=अवलोकयन् इति टीका। अत्र च पितृृनिति श्रवणात्पितृब्राह्मण एव वरयाचनं कार्यमिति इलायुधः। इदं च दक्षिणाभिमुखत्वं ब्राह्मणविसर्जनोत्तरकालत्वं च। प्रागुक्तमत्स्यपुराणवचनो- क्तप्राङ्मुखत्वब्राह्मणविसर्जनपूर्वकालत्वाभ्यां विकल्पते। स च विकल्पः शाखाभेदेन व्यवस्थितः। अथवा “विसृज्य ब्राह्मणांस्तांस्तु तेषां कृत्वा प्रदक्षिणम्। दक्षिणां दिशमाकाङ्क्षन्” इति मनुवचने आकांक्षन्=अवलोकयन् इति टीकाकृद्याख्यानात् प्रागुदङ्मुखेनैव दक्षिणां दिशमालोचयता याचनीयमित्याहुः। अत्र चाशीः प्रतिग्रहानन्तरं यजमानस्य पुत्रपौत्रादिभिः पिण्डनमस्कारः कार्यः, आचारादिति हेमाद्रिः। यद्यपि चाशीर्ग्रहणानन्तरं प्रागुदाहृतमत्स्य- पुराणवचनात् पिण्डोद्धारणं कृत्वा स्वस्तिवाचनं कार्यमिति प्रतिभाति, तथापि पिण्डोद्धारणानन्तरं पात्रचालनं कृत्वा तत्कार्यम्। पात्रचालनमकृत्वा स्वस्तिवाचनस्य निषिद्धत्वात्। तथा च वृद्ध बृहस्पतिः।
भाजनेषु च तिष्ठत्सु स्वस्तिं कुर्वन्ति ये द्विजाः।
तदन्नमसुरैर्भुक्तं निराशैः पितृभिर्गतैः॥
पात्रचालने कर्त्तार उक्ताः—
प्रचेतसा।
स्वयं पुत्रोऽथवा यश्च वाञ्छेदभ्युदयं परम्।
न स्त्रियो न च बालश्च नान्यजातिर्न चाव्रतः॥
एतेन यत् श्राद्धे भोजनपात्राणि स्वयं न चालयेत् इति हेमाद्रिणोक्तंतन्निरस्तम्। अव्रतो=ऽनुपनीतः। एवं चोपनीत- स्याप्यज्ञस्य निवृत्यर्थं बालग्रहणम्।
स्वस्तिवाचनप्रकारस्तु=पारस्करेणोक्तः, “स्वस्ति भवान् ब्रूही”ति। याज्ञवल्क्येन तु अक्षय्यदानात्पूर्वं स्वस्तिवाचन- मुक्तं, तथा च क्रमभेदः शाखाभेदेन व्यवस्थितो द्रष्टव्यः।
कात्यायनः।
स्वधावाचनीयान्सपवित्रान्कुशानास्तीर्य स्वधां वाचयिष्य इति पृच्छति, वाच्यताभित्वनुज्ञातः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो मातामहेभ्यः प्रमातामहेभ्यो वृद्धप्रमातामहेभ्यः स्वधोच्यताम्, अस्तु स्वधेत्युच्यमाने स्वधावाचनीयेष्यपो निषिञ्चति।
स्वधावाचनीयसंज्ञका ये कुशास्ते सपवित्राः साग्रत्वादिगुणविशिष्टाःकार्या इति कर्क।हलायुधहेमाद्रिशूलपाणिप्र- भृतयस्तु सपवित्रान्=अर्घसम्बन्धिपवित्रसहितानित्याहुः।मैथिलास्तु नार्घसम्बन्धिपवित्र ग्रहणं, विना वचनं विनियुक्त- विनियोगस्यायुक्तत्वात्, अन्यथा पिण्डरेखायामपि अर्घसम्बन्धिपवित्रस्य ग्रहणापत्तेः, तस्मात्पवित्रान्तरमे वात्र ग्राह्यमित्याहुः।आस्तीर्य=भूमावितिशेषः। पिण्डानामुत्तरतो दक्षिणाग्रानिति हेमाद्रिः। अत्र पितृभ्य इत्यादौ एकत्वेऽपि बहुवचनं प्रयोगमात्रं (१)71 पाशवत्।प्रकृत्यंशस्य तु समवेतार्थकत्वान्नवदैवत्यादावूहसिद्धेः। स्वधोच्यतामिति च प्रत्येक- मनुषञ्जनीयम्।“स्वधावचन एव च”इति छन्दोगपरिशिष्टे तन्त्रतानिषेधात्। अत एव अस्तु स्वघेति प्रत्युत्तरमपि प्रत्येकमेवोक्तम्।
भविष्ये।
अस्तु स्वघेति षड्वारान्कुर्युर्विप्राः सुसम्भ्रमा इति।
मैथिलास्तु यथाश्रुतसुत्रानुसारात्सकृदेव स्वधोच्यतामस्तु स्वधेति वक्तव्यमित्याहुः।
अपां निषेचनं “ऊर्जंवहन्तीत्यनेन मन्त्रेण कार्यमित्युक्तम्।
ब्रह्मपुराणे।
सपवित्रान्कुशान्साग्नानास्तीर्य सतिलांस्ततः।
ततः सम्भवपात्रेभ्यो जलमादाय चार्चितः॥
ऊर्जं वहन्तीति जपन्पिण्डांश्चाप्यवसिञ्चति।
पिण्डांश्वेति। चकारो दर्भसमुच्चयार्थः। अतश्चेदं शाखिविशेषव्यवस्थितम्। वाजसनेयिनां तु दर्भेष्वेव, कर्कहेमाद्रिरायमुकुटादिस्वरसोऽप्येवम्।मैथिलास्तु तेषां पिण्डेष्वेवेत्याहुः। छन्दोगानां तु पिण्डेषु पवित्राच्छादितेषुः“पवित्रान्तर्हितान्पिण्डान् सिञ्चेदुत्तानपात्रकृत्” इति छन्दोगपरिशिष्टात्। इदं व निषेचनं प्रागुक्तब्रह्मवचनादर्घसंस्त्रव जलेन कार्यमिति हेमादिः। मिताक्षराकारस्तु कमण्डलुजलेनेत्याह।निषेचनानन्तरम्।
कात्यायनः।
उत्तानं पात्रं कृत्वा यथाशक्ति दक्षिणां दद्यात् ब्राह्मणेभ्यः।
न्युब्जीकृतं पितुरर्घपात्रमुत्तानीकृत्य दक्षिणां दद्यात्। एवं च “पवित्रान्तर्हितान्पिण्डान्सिञ्चेदुत्तानपात्रकृत्”इति उत्तरत योज्यम्। अत एव।
गोभिलोऽपि।
अपो निषेचनानन्तरमुत्तानं पात्रं कृत्वा यथाशक्ति दक्षिणां दद्यादित्याह।
भट्टनारायणस्मार्त्तभट्टाचार्यादयस्तु उत्तानपात्रकृत्सिञ्चेदिति परिशिष्टवचनं व्याख्यायोत्तानं पात्रं कृत्वा निषेचनं कुर्यादित्याहुः।
अत्रचयेषां मातामहपात्रस्यापि पूर्वं न्युब्जीकरणं कृतं तेषां मते तस्यापि उत्तानता कार्या। यदा तु शूलपाण्यादिम- तमाश्रित्य केवलं पितृपात्रस्यैव न्युब्जीकरणं कृतं तदा तस्यैवोत्तानत्वमिति विवेकः। एवं (च) नवदैवत्यादावपि बोध्यम्। केचित्तु त्रयाणामपि पात्राणां न्युब्जीकरणमिच्छन्ति तन्मते सर्वेषामप्युत्तानत्वम्।
अत्र च पित्र्युद्देशेन दक्षिणादाने कृतेऽपि “ब्राह्मणान्भोजयित्वा तु दद्याच्छक्त्याच दक्षिणाम्”इति वचनात्कर्मकरत्वाच्चब्राह्मणानां स्वत्वमुत्पद्यते, यथा देवताप्रतिष्ठादौ “प्रतिष्ठाप्य देवतायै सङ्कलिते वस्त्राभरणादौ सर्वमुपकरणमाचार्याय दद्यात्”इति वचनात् कर्मकरत्वाच्चाचार्यस्य स्वत्वमुत्पद्यते एवमिहापीति स्मृतिचन्द्रिका।माधवमद-
नरत्नादयस्तु ब्राह्मणोद्देशेन वा दक्षिणादानं पित्र्युद्देशेन वा। अत एव देवलपारस्कराभ्यां पक्षद्वयमुक्तं “आचान्तेभ्यो द्विजेभ्यस्तु प्रयच्छेद्दक्षिणाम्” इति, “हिरण्यं विश्वेभ्यो देवेभ्यो रजतं पितृभ्य इति च” तत्र यदा ब्राह्मणोद्देशेन तदा यज्ञोपवीतिना कार्यं “सर्वंकर्मापसव्येन दक्षिणा दानवर्जितम्” इति जमदग्निवचनात्। यत्तु तेनैवोक्तंअपसव्यं तत्रापि, “मत्स्यो हि भगवान्मेने” इति, तत्पितॄनुद्दिश्य दानपक्षे इत्याहुः। एतच्च दक्षिणादानम्।
यत्र यत्क्रियते कर्म पैतृकं ब्राह्मणान्प्रति।
तत्सर्वंतत्र कर्त्तव्यं वैश्वदेवत्यपूर्वकम्॥
इति देवलवचनाद्देवपूर्वकं कार्यमिति वाचस्पतिः। तन्न। “दक्षिणां पितृविप्रेभ्यो दद्यात्पूर्वं ततो द्वयोः” इति देवलेनैव दक्षिणापुरस्कारेण विपरीतक्रमविधानात्।
पितृभ्यः प्रथमं भक्त्या तन्मनस्को नरेश्वरः।
सुस्वधेत्याशिषा युक्तां दद्याच्छक्त्या च दक्षिणाम्॥
इति विष्णुस्मरणाच्च। न च देवलवचने पितृविप्रेभ्य इति श्रवणात्ब्राह्मणोद्देश्यकत्वावगतिः, तदुद्देश्यकदक्षि- णादानपक्षेऽपि एतस्योक्तत्वात् तस्मादुभयथापि पित्राद्यैव देया, शूलपाणिपितृदयितादिष्वेवम्। अत्र च दक्षिणा- द्रव्यपरिमाणादिकं द्रव्यनिर्णयप्रकरणे प्रागुक्तं वेदितब्यम्। अत्र च ब्राह्मणोद्देशेन दक्षिणादानपक्षे अयं प्रयोगक्रमः, इदं हिरण्यमग्निदैवतममुकगोत्रायामुकशर्मणे ब्राह्मणाय सम्प्रददे इति पित्रादिसम्बन्धिब्राह्मणेभ्यः प्रत्येकं दद्यात्। “दद्याच्चैव द्विजातिभ्यः प्रत्येकं वाक्यपूर्वक” मिति भविष्योक्तोः, यदा तु पित्र्युद्देशेन दक्षिणादानं तदा अमुकगोत्रायास्म- त्पित्रेऽमुकशर्मण इदं रजतं चन्द्रदैवतं स्वधेत्यादि वाक्यं बोध्यम्।
दक्षिणादानानन्तरं—
कात्यायनः।
विश्वेदेवाः प्रीयन्तामिति दैवे वाचयित्वा वाजे वाजेऽवत इति विसृज्य आमावाजस्येत्यनुव्रज्य प्रदक्षिणीकृत्योपविशेत्।
वाचनं च विश्वदेवाः प्रीयन्तामिति ब्रहीति देवब्राह्मणप्रेरणरूपं कार्यमिति भानूपाध्यायहलायुधप्रभृतयः।
श्रीयन्तामिति तैश्चोक्तेदेवताभ्य इति त्रिः पठनीयम्।आद्यावसान इति प्रागुक्तब्रह्मपुराणवचनात्।
भविष्येऽपि।
ततो देवद्विजाभ्यां तु प्रार्थयेद् वचनं त्विह।
विश्वेदेवाः प्रीयन्तामिति ब्रूतां युवामिति॥
तौ वदेतां प्रीयन्तामोमित्येव तु सकृद्वचः।
ततः पठेद्देवताभ्यः पितृभ्यश्चेत्यमुं त्रिशः॥
स्मार्त्तपितृदयितादयोऽप्येषम्।
विसर्जनात्पूर्वकृत्यमाह—
याज्ञवल्क्यः।
इत्युक्त्वोक्त्वा प्रिया वाचः प्रणिपत्यविसर्जयेत्।
[अ० १ श्राद्धप्र० श्लो० २४७]
भवद्भिरहं कृतार्थीकृत इत्यादि प्रिया वाचश्चोक्त्वा प्रणिपत्य विसर्जयेदित्यर्थः।
विसर्जनं च पितृपूर्वं कार्यमित्याह—
स एव।
वाजे वाज इति प्रीतः पितृपूर्वं विसर्जयेत्। इति।
अत्र च विसर्जनमुदकपात्रं गृहीत्वा कार्यमित्युक्तं—
मत्स्यपुराणे।
ततस्तानग्रतो स्थित्वा प्रतिगृह्योदपात्रिकम्।
वाजे वाज इति जपन् कुशाग्रेण विसर्जयेत्॥
अत्र प्रतिब्राह्मणं मन्त्रावृत्ति। कुशाग्रस्पर्शपूर्वकविसर्गस्य सर्वविप्रविषवस्य युगपत्कर्तुमशक्यत्वादिति अपरार्कः। इति विसर्जनं [च] ब्राह्मणस्थपितॄणां न ब्राह्मणानां येषामावादनं तेषामेव विसर्जनस्य युक्तत्वात्, अतश्चापात्रकश्राद्धेऽपि विसर्जनं भवत्येवेति स्मार्त्तः। इति विसर्जनम्।
अथ पिण्डप्रतिपत्तिः।
तत्र वायुपुराणे।
पिण्डमग्नौ सदा दद्याद् गोत्रार्थी सततं नरः।
पत्न्यै प्रजार्थी दद्यातु मध्यमं मन्त्रपूर्वकम्॥
उत्तमां गतिमन्विच्छन् गोभ्यो नित्यं प्रयच्छति।
आज्ञांप्रज्ञां यशः कीर्त्तिमप्सु नित्यं निधापयेत्॥
प्रार्थयेद्दीर्घमायुश्च वायसेभ्यः प्रयच्छति।
आकाशं गमयेद् दिक्षु स्थितो वा दक्षिणामुखः॥
पितॄणां स्थानमाकाशं दक्षिणादिक् तथैव च।
गोत्र=कुलम्। मन्त्रश्च अपां त्वौषधीनां रसं प्राशयामि भूतकृतं गर्भंधत्स्वेति पितृभक्तौ लिखितः। पिण्डानां मध्यमं पत्नीं प्राशयेत्। “आधत्त पितरो गर्भं कुमारं पुष्करस्रजम्।यथायमरपा असदित्याश्वलायनोक्तोवा।
यमः
अप्स्वेकं प्लावयेत्पिण्डमेकं पत्न्यैनिवेदयेत्।
एकं च जुहुयादग्नौत्रयः पिण्डाः प्रकीर्त्तिताः।
पिण्डस्तु गोजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा।
विप्रान्ते वाथ विकिरेद् वयोभिरथवाऽऽशवेत्॥
तीर्थश्राद्धे तु विशेषो—
विष्णुधर्मोत्तरे।
तीर्थश्राद्धे सदा पिण्डान्क्षिपेत्तीर्थेसमाहितः।
अथोछिष्टोद्वासनम्।
तत्र मनुः।
ऊच्छेषणं भूमिगतमजिह्यत्याशठस्य च।
दासवर्गस्य तत्पित्र्येभागधेयं प्रचक्षते॥
[अ० ३ श्लोक २४६]
दासा=मृताः।
ब्राह्मे।
अस्तङ्गते ततः सूर्ये विप्रपात्राणि चाम्भसि।
निक्षिपेत्प्रयतो भूत्वा सर्वाण्यधोमुखान्यपि॥
द्वितीयेऽहनि सर्वेषां भाण्डानां क्षालन तथा।
परदिने क्षालनं च पात्रान्तरसत्वे।अस्तं गत=इत्यपि गृहान्तरसत्वे।
याज्ञवल्क्यः।
सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत्।
[अ० १ श्राद्धप्र० श्लो० २५७]
ब्रह्माण्डे।
शूद्राय चानुपेताय श्राद्धोच्छिष्टं न दापवेत्।
कामं दद्याच्चसर्वंतु शिष्याय च सुताय च॥
जातूकर्ण्यः।
द्विजभुक्तावशिष्टं तु सर्वमेकत्र संहरेत्।
शुचिभूमौ प्रयत्नेन निखन्याच्छादयेद् बुध।
अथ श्राद्धोत्तरं कर्म।
तत्र—देवलः।
निवृत्ते पितृमेधे तु दीपं प्रच्छाद्य पाणिना।
आचम्य पाणिं प्रक्षाल्य ज्ञातीञ्छेषेण तोषयेत्॥
प्रच्छाय=निर्वाप्य।अत्र विशेषो—
मात्स्ये।
निवृत्य प्रणिपत्याथ पर्युर्क्ष्याग्निंसमन्त्रवित्।
वैश्वदेवं प्रकुर्वीत नैत्यक बलिमेव च॥
इदं च श्राद्धोत्तरं वैश्वदेवकरणेनिरग्निविषयम्।
पक्षान्तं कर्म निर्वर्त्य वैश्वदेवं च साग्निकः।
पितृयज्ञं ततः कुर्यात्ततोऽन्वाहार्यकं बुधः॥
इति लौगाक्षिणा साग्निकस्य श्राद्धात्पूर्वमेव वैश्वदेवस्य विहितत्वात्पक्षान्त=अन्वाधानम्।अन्वाहार्य=दर्शश्राद्धम्। अत्र च साग्निकपदं श्रौताग्निपरमिति हेमाद्रिः। साग्निकस्यापि क्वचिदपवाद उक्तः—
परिशिष्टे।
सम्प्राप्ते पार्वणे श्राद्ध एकोदिष्टे तथैव च।
अग्रतो वैश्वदेवः स्यात्पश्चादेकादशेऽहमि॥
यद्यपि चात्र न सान्निकश्रवणं, तथापि निरग्निकस्य सर्वदेव श्राद्धोत्तरं वैश्वदेविकविधानादिदं साग्निकपरमेव युक्तम्।
निरग्निकस्य वैश्वदेवे कालान्तरमुक्तम्—
ब्रह्माण्डे।
(१)72 वैश्वदेवंहुतेत्वग्नौअर्वाग् ब्राह्मणभोजनात्।
जुहुयाद् भूतयज्ञादि श्राद्धं कृत्वा तु तत्स्मृतम्॥
हुते अग्नौ=अग्नौकरणोत्तरमित्यर्थः।
भविध्येऽपि।
पितृृन्सन्तर्प्यविधिवद् बलिं दद्याद्विधानतः।
वैश्वदेवं ततः कुर्यात् पश्चाद् ब्राह्मणवाचनम्।
बलिः=विकरबलिः। अस्मिन्नपि पक्षे वैश्वदेवमात्रं तस्मिन्काले,
भूतयज्ञादिकं श्राद्धान्त एवेति हेमाद्रिः। यद्यपि चास्मिन्पक्षद्वये निरग्निकग्रहणं नास्ति, तथापि साग्निकस्य लौगाक्षिणा पक्षान्तरस्योक्तत्वान्निरग्निकविषयमेवेति हेमाद्रिप्रभृतयः।
मार्कण्डेयपुराणे।
नित्यक्रियां पितॄणां हि केचिदिच्छन्ति सत्तमाः।
नित्यक्रिया=नित्यश्राद्धम्। अयं च विकल्पो यत्र षट्पुरुषश्राद्धं तत्र न भवति, यत्र तु एकोहिष्टादौ ततो न्यूनं, तत्र भवतीति व्यवस्थितो ज्ञेयः। अत एव—
चमत्कारखण्डे।
नित्यश्राद्धं न कुर्वीत प्रसङ्गाद्यत्र सिध्यति॥
श्राद्धान्तरे कृते ऽन्यत्र (१)73 नित्यत्वात्तन्न हापयेत्।
मैथिला अप्येवम्।गौडास्तु षट्पुरुषतृप्तेर्जातत्वादकरणे दोषाभावमात्रं, करणे तु अभ्युदयः, षोडशिग्रहणवदि- त्याहुः।
मात्स्ये।
ततस्तु वैश्वदेवान्ते सभृत्यसुतबान्धवः।
भुञ्जीतातिथिसंयुक्तः (२)74 सर्वं पितृनिषेवितम्॥
शातातपोऽपि।
शेषमन्नमनुज्ञातो भुञ्जीत तदनन्तरम्।
अत्र च यदि ते अभ्यनुज्ञानं प्रयच्छन्ति तदा तत्तेभ्यो दत्वाऽन्नान्तरेण स्वयं भुञ्जीतेति हेमाद्रिः। अतश्चैकादश्यादौ भोजनाभावेऽपि न वैगुण्यमिति चिन्तामणिः।
गौडास्तु रागतः प्राप्तभोजनस्यैवायं नियमोनार्यनुगमनवत्।तस्य च प्रकरणात् श्राद्धाङ्गभूतस्योपकाराकाङ्क्षायां प्रतिपत्त्यर्हकृतार्थश्राद्धीयद्रव्यार्थता विज्ञायते। अतश्च यस्यैव प्रतिपत्तिर्न क्रियते तस्यैव वैगुण्यापत्तेः सर्वमेव भोक्तव्यम्। मांसेषु निमन्त्रितवत्यजमानस्य न नियमः।“देवान्पितॄन्समभ्यर्च्य खादन्मांस न दोषभाक्”इत्युक्तत्वात्। कृतान्वाधाने तु व्रताविरोधेन भोक्तव्यं तस्य श्रौतत्वादिति हेमाद्रिः। एवं फलार्थेन तत्तद्वस्तुत्यागरूपेण
व्रतेनाप्येतस्य शेषभोजनस्य बाधो ज्ञेयः। एकादश्यां तु “आघ्राय पितृसेवित” मिति वचनादाघ्राणमित्याहुः।
अन्येतु शेषगुणकमर्थकर्मैवेद भोजन, न तु प्रतिपतिकर्म, तथा सति ब्राह्मणानुमति वैयर्थ्यापत्तेः। अन्यदीयस्यान्यत्र विनियोगे हि अनुमतिरपेक्षते न तु तेष्वेव विनियोगोपयोगिनि संस्कारे, तस्मादर्थकर्मैवैतदित्याहुः।
इति श्रीमच्छकलसामन्तचक्रन्चूडामणिमरीचिमञ्जरीनीराजितचरण कमलश्रीमन्महाराजाधिराजप्रतापरुद्रतनूजश्री- महाराजमधुकरसाहसूनुचतुरुदधिवलयवसुन्धराहृदयपुण्डरीकविकासदिनकरश्रीमन्महाराजाधिराजश्रीवीरसिंहोद्योज-तहंसपण्डितात्मजपरशुराममिश्रसूनुलकलविद्यापारावारपारीणधुरीणजगद्दारिद्र्यमहागजपारीन्द्रविद्वज्जनजीवातुश्रीमन्- मित्रमिश्रकृते विरमित्रोदयाभिधाननिबन्धे श्राद्धप्रकाशे प्रकृतिभूतपार्वणश्राद्धनिर्णयः॥
<MISSING_FIG href="../books_images/U-IMG-170029793992.PNG"/>
अथ तद्नुकल्पः।
तत्रामहेमश्राद्धम्॥
कात्यायनः।
आपद्यनग्नौ तीर्थे च प्रवासे पुत्रजन्मनि।
आमश्राद्धं द्विजैः कार्यं शुद्रेण तु सदैव हि॥
तथा—
हेमश्राद्धं प्रकुर्वीत भार्यारजसि संक्रमे।
बौधायनोऽपि।
संक्रमेऽन्नद्विजाभावे प्रवासे पुत्रजन्मनि।
हेमश्राद्धं सग्रहे च द्विजः शूद्रः सदा चरेत्॥
अत्र सर्वत्र हेमविधिरामाभावे शेयः। अत्र प्रकृतित्वेनाऽऽमस्यान्तरङ्गत्वात्। “आमान्नस्याप्यभावेतु श्राद्धं कुर्वीत बुद्धिमान्।
धान्याच्चतुर्गुणेनैव हिरण्येन सुरोचिषा" इति मरीचिवचना
थ। पुत्रजन्मनि तु विशेषः संचर्तेनोक्तः।
पुत्रजन्मनि कुर्वीत श्राद्धं हेम्नैव बुद्धिमान्।
न पक्वेन न चामेन कल्याणान्यभिकामयन्॥
अत एव पुत्रजन्मनि हेम्नोऽनुकल्पत्वम्। ग्रहणप्रसवादिषु तु अन्नाद्यभाव एतद्विधिर्ज्ञेयः। संक्रमाग्न्यभावयोस्तु स्वतन्त्रयोरेव तन्निमित्तत्वम्। केचित्तु अग्न्यभावस्यापि पाकासम्भवकृतमेव निमित्तत्वमित्याहुः।
आमपरिमाणमाह धर्मः।
आमं तु द्विगुणं प्रोक्तंहेम तद्वच्चतुर्गुणम्।
अन्नाभावे द्विजातीनां ब्राह्मणस्य विशेषतः॥
व्यासोऽपि।
आमं ददतु कौन्तेय तदामं द्विगुणं भवेत्।
त्रिगुणं चतुर्गुणं वापि नत्वेकगुणमर्पयेत्॥
अत्र हेम्नश्चतुर्गुणत्वमामापेक्षयेति हेमाद्रिः। अन्नापेक्षयेत्यन्ये।स्मृत्यर्थसारे तु सममपि आमादि देयमित्युक्तम्। आमश्राद्धे च पिण्डदानाद्यपि आमेनैव कार्यम्, “तेनाग्नौकरणं कुर्यात्पिण्डांस्तेनैव निर्वपेदिति”शातातपवचनादिति गौडाः।
अन्ये तु।
आमश्राद्धं यदा कुर्यात्पिण्डदानं कथं भवेत्।
गृहपाकात्समुद्धृत्य सक्तुभिः पायसेन वा॥
पिण्डदानं प्रकुर्वीत हेमश्राद्धे कृते सति॥
इति भविष्योत्तरादामहेमश्राद्धे भवत्येव द्रव्यान्तरेण पिण्डदानम्। यत्तु शातातपवचनं तत् तत्राप्यन्नाभावे वेदितव्यमित्याहुः।
एवं शुद्रकर्तृकेऽप्यामश्राद्धेअन्नेनैव पिण्डदानं कार्यम्।
शूद्रस्तु गृहपाकेन तत्पिण्डान्निर्वपेत्तथा।
सक्तुर्मूलं फलं तस्य पायसं वा भवेत्स्मृतम्॥
इति हेमाद्रिधृतभविष्यवचनात्। अत्र पिण्डदानग्रहणाद्विकिरादावाममेवेति केचित्।
वस्तुतस्तु।
नामन्त्रणं नाग्नौकरणं विकिरो नैव विद्यते।
तृप्तिः प्रश्नोऽपि नैवात्र कर्तव्यः केनचिद्भवेत्॥
तु विकल्पो विहितप्रतिषिद्धत्वाज्ज्ञेयः। अत्र ब्राह्मणाल्लव्धमामं स्वगृहे पक्त्वा स्वयमेव भोक्तव्यं न तु कार्यान्तर उपयोक्तव्यम्। क्षत्रियादिलब्धं तु यथेष्टं विनियोज्यं, शुद्रलब्धस्य तु भोजन एव स्वीये परकीये वा विनियोगो न तु यथेष्टम्। तथा च व्यासः षट्त्रिंशत्मते।
हिरण्यामं तु श्राद्धीयं लब्ध्वं यत्क्षत्रियादितः।
यथेष्टं विनियोज्यं स्याद् भुञ्जीयाद्ब्राह्मणः स्वयम्॥
आमं शूद्रस्य यत्किञ्चिच्छ्राद्धिकं प्रतिगृह्यते।
तत्सर्वंभोजनायालं नित्यनैमित्तिके न तु॥
आमादिश्राद्धे च प्राणाहुत्यादिकं लुप्यते।
आमश्राद्धे मन्त्रेषु केषु केन चिदुहो मरीचिनोक्तः।
आवाहने स्वधाकारे मन्त्रा ऊह्या विसर्जने।
अन्यकर्मण्यनूह्याः स्युरामश्राद्धविधिः स्मृतः॥ इति।
आवाहनमन्त्रे पितॄन्हविषे अत्तव इत्यत्र स्वीकर्तव इत्यूहः। विसर्जनमन्त्रे तृप्ता यातेत्यत्र तर्प्स्वतेत्यूहः।
स्वधाकारमन्त्रे “नमोवः पितर इष इत्यत्रामायेस्यूहइति हेमाद्रिः।
अन्ये तु।
रसादिपदवदेतस्याशास्यान्नप्रतिपादकत्वान्न प्रदेयान्नप्रतिपादकत्यं तेन स्वधाकारपदेन त्यागमन्त्रो गृह्यते। तत्र चान्नपदस्थाने धान्यादिपदेनोहः कार्य इत्याहुः।
इदं चामश्राद्धं ग्रहणादन्यत्र मृताहे द्विजानां न भवति।
श्राद्धविघ्ने द्विजातीनामामश्राद्धं प्रकीर्त्तितम्।
अमावास्यादिनियतं माससंवत्सरादृते॥
इति हारीतवचनात्।
दर्शेरविग्रहे पित्रोः प्रत्याब्दिकमुपस्थितम्।
अन्नेनासम्भवे हेम्ना कुर्यादामेन वा सुतः॥
इति गोभिलेन ग्रहणे आमादेः प्रतिप्रसूतत्वाश्च। अत्र दर्शादिपदानि उपलक्षणं पौर्णमास्यादेः। इत्यामादिश्राद्धम्।
अथ ब्राह्मणानुकल्प।
तत्र ब्राह्मणाभावे अपात्रकं श्राद्धमिति मैथिलाः। तन्न\।
निधाय वा दर्भबटुनासनेषु समाहितः।
प्रैषामुप्रैषसंयुक्तं विधानं प्रतिपादयेत्॥
इति देवलवचनविरोधात् ।
ब्राह्मणानामसंपत्तौ कृत्वा दर्भमयान् द्विजान्।
श्राद्ध कृत्वा विधानेन पश्चाद्विप्रे प्रदापयेत् ॥
इति समुद्रकरधृतभविष्यवचनाच्च ।प्रैषानुप्रैषम्=उत्तरप्रत्युत्तरम् ।कुशबटुप्रमाणं चोक्तं व्यासेन ।
पञ्चाशद्भिर्भवेद् ब्रह्मा तदर्द्धेन तु विष्टरः।
तदर्द्धेनोपनयनं तदर्द्धेन द्विजः स्मृतः ।
राजमुकुटनिबन्धे ।
नवभिः सप्तभिर्वापि कुशपत्रैर्विनिर्मितः ।
सावित्र्यावर्त्तितग्रन्थिः कुशब्राह्मण उच्यते ।
ॐकारेण तु बध्नीयाद् द्विजः कुर्यात्कुशद्विजम् ।
यत्तुछन्दोगपरिशिष्टे ।
यज्ञवास्तुनि मुष्ट्यां च स्तम्बे दर्भबटौ तथा ।
दर्भसंख्या न विहिता विष्टरास्तरणेषु च ॥
इत्यनियमः, सोऽपि विभवे सति पक्षान्तरमिति परिशिष्टप्रकाशः । कुशब्राह्मणे च निमन्त्रणं लुप्यत इति शूलपाणिः, तत्तु तदभावे कुशमयं स्नापयित्वा निमन्त्रयेदिति गौडनिबन्धोदाहृतभविष्यविरोधादुपेक्षणीयम् । इति ब्राह्मणानुकल्पः ।
अथ सांकल्पिकश्राद्धम् ।
संवर्तः ।
समग्रं यस्तु शक्नोति कर्तुं नैवेह पार्वणम् ।
अपि संकल्पविधिना काले तस्य विधीयते ॥
पात्रभोज्यस्य चान्नस्य त्यागः सङ्कल्प उच्यते ।
व्यासः ।
सांकल्पिकं यदा कुर्यान्न कुर्यात्पात्रपूरणम् ।
नावाहनं नाग्नौकरणं पिण्डं चैव न दापयेत् ।
पात्र=अर्ध्यार्थम् ।
तथाङ्गनुष्ठानासमर्थं प्रत्याह—
व्याघ्रः ।
अङ्गानि पितृयज्ञस्य यदा कर्त्तुं न शक्नुयात् ।
अनुकल्पान्तरमाह देवलः।
पिण्डमात्रं प्रदातव्यमलाभे द्रव्यविप्रयोः।
श्राद्धेऽहनि तु संप्राप्ते भवेन्निरशनोऽपि वा।
अद्भिर्वा विप्रसंवादात्पितॄणां तृप्तिमावहेत्।
हारीतः।
अपि मूलफलैर्वापि तथाप्युदकतर्पणैः।
अविद्यमाने कुर्वीत न तु प्राप्तं विलङ्घयेत्। प्राप्तं=कालम्।
** **भविष्ये।
किञ्चिद्दद्यादशक्तश्चेदुदकुम्भादिकं द्विजे।
अग्निना वा दहेत्कक्षं श्राद्धकाले समागते॥
तस्मिन्नोपवसेदह्णिजपेद्वाश्राद्धसंहिताम।
तिलैः सप्ताष्टभिर्वापि समवेतं जलाञ्जलिम्॥
यतः कुतश्चित्संप्राप्य गोभ्यो वापि गवाह्णिकम्।
सर्वाभावे वन गत्वा कक्षामूलप्रदर्शकः।
पूर्वादिलोकपालानामिदमुच्चैः पठन्बुधः \।\।
न मेऽस्ति वित्तं न धनं न चान्यत्।
श्राद्धोपयोग्यं स्वपितृृन्नतोऽस्मि॥
तृप्यन्तु भक्त्या पितरौ मयैतौ।
कृतौ भुजौ वर्त्मनि मारुतस्य॥इति। इत्यनुकल्पाः।
अथ विकृतिश्राद्धनिर्णयः।
तत्र श्राद्धं तावद् द्विविधं पावर्णमेकोद्दिष्टं च। तत्र पावर्णभेदास्तावद् याज्ञवल्क्येन—
अमावास्याष्टका बृद्धिः कृष्णपक्षोऽयनद्वयम्।
द्रव्यं ब्राह्मणसंपत्तिर्विषुवत्सूर्यसंक्रमः॥
व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः।
श्राद्धं प्रति रुचिश्चैव श्राद्धकालाः प्रकीर्तिताः॥
इत्यनेनोक्ताः। अत्र चामावस्याश्राद्धस्येतरश्राद्धप्रकृतित्वं तत्रैव प्रायशो बहूनामङ्गानामुपदिष्टत्वात् “पार्वणेन विधानेन तदप्युक्तंखगाधिप”इत्यादौवचनातिदेशाच्च नावाहनमित्यादि लिङ्गाच्च ज्ञेयम्। अष्टकाः=अमावास्यान्तमा- र्गशीर्षादिमासचतुष्टयभाद्रपदकृष्णावृम्यः। यद्यपि चाश्वलायनेन भाद्रपदकृष्णाष्टम्यां हेमन्तशि-
शिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टका इति, एतेन माध्यावर्षं व्याख्यातमित्यादिना संज्ञान्तरं कृतं, तथापि “प्रोष्ठपद्यष्टका भूयः पितृलोके भविष्यती” त्यादीना तस्या अपि अष्टकात्वसिद्धिः ।
अत्र द्रव्यविशेष उक्तो ब्रह्मपुराणे ।
ऐन्द्र्यां तु प्रथमायां च शाकैः संतप्येयेत्पितृृम्।
प्राजापत्यां द्वितीयायां मांसैःसंतर्पयेत्पितॄन ॥
वैश्यदेव्यां तृतीयायामपूपैश्च यथाक्रमम् ।
वर्षासु मेध्यशाकैश्च चतुर्थ्यांचैवसर्वदा।
एतस्य च द्रव्यस्य प्राधान्यमात्रं न तु निरपेक्षसाधनत्वं शाकादीनां केवलानामभोज्यत्वात् घृतश्राद्धाङ्गघृतवत । अत्र यत्साग्निकं प्रति आश्वलायनादिभिः पशुना स्थालीपाकेन वेत्यादिना होमप्रकार उक्तः, स संस्कारप्रकाश उक्तः । अत्र च कामकालौविश्वेदेवौ । “अष्टम्यां कामकालौ”इति शङ्खोक्तेः । अष्टकापूर्वोत्तरदिनयोरपि च श्राद्धं कार्यं, पूर्वेद्युः पितृभ्यो दद्यादपरेद्युरन्वष्टक्यमित्याश्वलायन वचनात् । अन्वष्टकासु विशेष उक्तः कात्यायनेन ।
अन्वष्टकासु नवभिः पिण्डैःश्राद्धमुदाहृतम् ।
पित्रादि मातृमध्यं च ततो मातामहान्तकम् ॥
यत्तु ब्रह्मपुराणे ।
“अन्वष्टकासु क्रमशो मातृपूर्वं तदिष्यते" इति मात्रादित्वमुक्तं, तच्छाखाभेदेन व्यवस्थितिमिति पृथ्वीचन्द्रोदयः । इदं च जीवन्पितृकेणापि सपिण्डमेव कार्यं“अन्वष्टकासु च स्त्रीणां श्राद्धं कार्यं तथैव च” इत्युपक्रम्य—
पिण्डनिर्वपणं कार्यं तस्यामपि नुसत्तम ।
इति हेमाद्रौविष्णुधर्मोत्तरे पुनः पिण्डदानविधानस्य श्राद्धविधिनैव पिण्डदानप्राप्तौ जीवत्पितृकत्वादिना पिण्डनिवृ- त्तिप्रसक्तौ पिण्डदान प्राप्त्यर्थत्वात्, अन्यथाऽऽनर्थक्यापत्तेरिति ।
अत्र सुवासिन्यपि भोजनीया ।
भर्तुरग्रे मृता नारी सह दाहेन वा मृता ।
तस्या स्थाने नियुञ्जीति विप्रैः सह सुवासिनीम् ॥
इति अन्वष्टकां प्रक्रम्यवचनात् । अत्र च सपत्नमातुरपि श्राद्धं
पिण्डश्च, नामैक्ये तु द्विवचनादिप्रयोग इति नारायणवृत्तिः। एतच्च जीवति भर्तरि कार्यम, मृते तु तस्मिन् लुप्यते “श्राद्धं नवम्यांकुर्यात् तन्मृते भर्तरि लुप्यत”इति वचनादिति दाक्षिणात्याः। तदसत्।अस्य वाक्यस्य क्वापि महानिबन्धेऽदर्शनात्। एतच्चानुपनीतोऽपि कुर्यात्। तथाचेदमेव प्रक्रम्य—
मात्स्ये।
एतच्चानुपनीतोऽपि कुर्यात्सर्वेषु पर्वसु। इत्यष्टकान्वष्टकाश्राद्धनिर्णयः।
अथ वृद्धिश्राद्धम्।
तन्निमित्तान्याह वृद्धगार्ग्यः।
अग्न्याधानाभिषेकादाविष्टापूर्त्ते स्त्रिया ऋतौ।
वृद्धिश्राद्धं प्रकुर्वीत आश्रमग्रहणे तथा॥
ऋतावाद्य एव।
गार्ग्योऽपि।
पुत्रोत्पत्तिप्रतिष्ठासु तन्मौञ्जीत्यागबन्धने।
चूड़ायां च विवाहे च वृद्धिश्राद्धं विधीयते।
विष्णुपुराणेऽपि।
कन्यापुत्रविवाहेषु प्रवेशे नववेश्मनः।
नामकर्माणि बालानां चूड़ाकर्मादिके तथा॥
सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने।
नान्दीमुखान्पितृगणान्पूजयेत्प्रयतो गृही॥ इति।
अत्र चूड़ाकर्मादिक इत्यादिपदात्, अनुक्तानां गर्भाधानोपनयनादीनामपि ग्रहणम्। पुत्रस्यादिमं मुखदर्शनं जन्म पुत्रजन्मेति यावत्। पूर्वोक्तगार्ग्यादिवचनेषु साक्षात्पुत्रजन्मन एवोपादानात्।
वसिष्ठः।
पुत्रजन्मविवाहादौ वृद्धिश्राद्धमुदाहृतम्। इति।
जाबालिः।
यज्ञोद्वाहप्रतिष्ठासु मेखलाबन्धमोक्षयोः।
पुत्रजन्मवृषोत्सर्गे वृद्धिश्राद्धं समाचरेत्॥ इति।
ब्रह्मपुराणे।
कर्मण्यथाभ्युदयिके माङ्गल्ये चातिशोभने।
जन्मन्यथोपनयने विवाहे पुत्रकस्य च॥
पितृृन्नान्दीमुखानेव तर्पयेद्विधिपूर्वकम्॥ इति।
आभ्युदयिकं=स्वाभ्युदयार्थकर्म, राज्याभिषेकनवग्रहमखमहादानादि। माङ्गल्यं=गर्भाधानसीमन्तोन्नयनादि। अतिशोभन इति माङ्गल्यविशेषणं, तेन ब्राह्मण्यश्च वृद्धा जीवत्पत्यो जीवत्प्रजा यद्यदुपदिशेयुस्तत्तत्कुर्युः, अथ खलूच्चावचा जनपदधर्मा ग्रामधर्माश्च, तान् विवाहे प्रतीयादित्याश्वलायनसूत्रानुमतस्याचारप्रातस्य फलवस्त्रादिभि- र्गर्भिणीपूजनोत्सवादेर्विवाहाङ्गद्दरिद्रावन्दनादेश्चव्यावृत्तिः।
मत्स्यपुराणेऽपि।
उत्सवानन्दसंताने यज्ञोद्वाहादिमङ्गले।
मातरः प्रथमं पूज्याः पितरस्तदनन्तरम्॥
ततो मातामहा राजन्विश्वेदेवास्तथैव च॥
उत्सवः=पुत्रजन्म। आनन्दः=पुंसवनादिः।यज्ञो=ज्योतिष्टोमादिः। मातरः प्रथममिति मातॄणां पित्रादिश्राद्धात्पूर्वंकर्त्तव्यता। विश्वेदेवा इति न क्रमपरम्। इदं चोपलक्षणं वैदिककर्ममात्रस्य, अत एवोक्त तत्रैव, “नानिष्ट्वातु पितॄन् श्राद्धे कर्म वैदिकमाचरेत्”इति। उपलक्षणत्वेऽपि च पूर्वोक्तगार्ग्यवचने पुत्रोत्पत्तीति ग्रहणात्पुत्रोत्पत्तिरेव निमित्तं न तु जातकर्म, तत्र—
नाष्टकासु भवेच्छ्राद्धंन श्राद्धे श्राद्धमिष्यते।
न सोप्यन्तीजातकर्मप्रोषितागतकर्मसु॥
इति छन्दोगपरिशिष्टे तन्निषेधात्। अतश्च ग्रहणवन्नैमित्तिकं श्राद्धं पुत्रजन्मन्यपि भवत्येव न तु कर्माङ्गम्। अत एव—
निषेककाले सोमे च सीमन्तोन्नयने तथा।
ज्ञेयं पुंसवने श्राद्धं कर्माङ्ग वृद्धिवत्कृतम्॥
इति पारस्करवचने कर्माङ्गश्राद्धविषयत्वेन जातकर्म नोपात्तं किन्तु वृद्धिवदिति पुत्रजन्मनिमित्तंश्राद्धं दृष्टान्तत्वेन पृथगेवोपान्तम्। अतएव—
यज्ञोद्वाहप्रतिष्ठासु मेखलाबन्धमोक्षयोः।
पुत्रजन्मवृषोत्सर्गे—
इति जाबालिवचनेऽपि पुत्रजन्मैव गृहीतम्।
अत्राधिकारी विष्णुपुराणे।
जातस्य जातकर्मादि क्रियाकाण्डमशेषतः।
पुत्रस्य कुर्वीत पिता श्राद्धं चाभ्युदयात्मकम्॥
कात्यायनः।
स्वपितृभ्यः पिता दद्यात् सुतसंस्कारकर्मसु।
पिण्डानोद्वाहनात्तेषां तस्याभावे तु तत्क्रमात्॥ इति।
तेषां=सुतानाम्। ओद्वाहनात्=प्रथमविवाहपर्यन्तम्। पिता स्वपितृभ्यपिण्डान्=तदुपलक्षितं वृद्धिश्राद्धं कुर्यात्। तस्य पितुरभावे तु तस्य संस्कार्य[स्य] पितॄणां यः क्रमः तेन क्रमेण पितृव्याचार्यमातुलादिः आर्द्धं दद्यात्, न स्वपितृभ्य इति हेमाद्रिणा व्याख्यातम्। तत्र कालमाह— वसिष्ठः।
पूर्वेद्युर्मातृकं श्राद्धं कर्माहे पैतृकं तथा।
उत्तरेद्युः प्रकुर्वीत मातामहगणस्य तु॥ इति।
अत्रिः।
पूर्वाह्णे वै भवेद् वृद्धिर्विना जन्मनिमित्तकम्।
पुत्रजन्मनि कुर्वीत श्राद्धे तात्कालिकं बुधः॥ इति।
अग्न्याधाननिमित्ते श्राद्धे विशेषकाल उक्तो गालवेन—
पार्वणं चापराहे तु वृद्धिश्राद्धं तथानिकम्। इति।
आग्निकम्=अग्न्याधाननिमित्तं वृद्धिश्राद्धमपराह्णे कुर्यादिति। एकस्मिन्नपि दिने क्रियमाणानां कालभेदेनानुष्ठानं कार्यमित्याह—
शातातपः।
पूर्वाह्णे मातृकं श्राद्धमपराह्णे च पैतृकम्।
ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतम्॥
एवंविधस्यापि कालभेदस्यासम्भवे आह—
वृद्धमनुः।
अलाभे भिन्नकालानां नान्दीश्राद्धत्रयं बुधः।
पूर्वेद्युर्वै प्रकुर्वीत पूर्वाह्णे मातृपूर्वकम्॥ इति।
बौधायनसूत्रे।
वेदकर्माणि प्रयोज्यन्पूर्वेद्युरेव युग्मान् ब्राह्मणान् भोजयेदिति। नान्दीमुखा नबैता उक्ता भवन्ति, नैकाहेनैव दैवं पित्र्यं च कुर्वीत यस्यैका
ह्णा दैवं पित्र्य च कुर्वीत प्रजा अस्य प्रमायुका भवन्ति तस्मात्पितृभ्यः पूर्वेद्युः करोति पितृभ्य एव तद्यज्ञं निःक्रीय यजमानः प्रवनुत इति ब्राह्मणम्।
अत्र ब्राह्मणवाक्येऽपि वृद्धिश्राद्धस्यास्य प्रजाः प्रमायु का अल्प-
कालजीवनाः भवन्तीति निन्दया एकाहेन कर्त्तव्यताया अप्रशस्तत्वादिनद्वयकर्त्तव्यतायामतिप्राशस्त्यम्। महत्सु कर्मसु पूर्वेद्युरल्पेषु तदहरेव—
तथा च गृह्यपरिशिष्टम्—
महत्सु पूर्वेद्युस्तदहरल्पेष्विति।
यदा तु पृथक्करणशक्त्या एकस्मिन्नेव वासर एकोपक्रमेण कर्त्तव्यं तदा वैश्वदेविकमिति प्रकृतिभूते दर्शे।
शातातपः।
पृथद्गिनेष्वशक्तश्चेदेकस्मिन्पूर्ववासरे।
श्राद्धत्रयं प्रकुर्वीत वैश्वदेवं तु तान्त्रिकम्॥
“अत्र च तन्त्रं वा वैश्वदैविक” मिति प्रकृतिभूते दर्शश्राद्धे वैश्वदेविकस्य तन्त्रत्वे विकल्पाभिधानात्तद्विकृतिभूते वृद्धिश्राद्धे तन्त्रविकल्पप्राप्तौ विकल्पनिरासेनात्र तन्त्रतैव नियम्यते” वैश्वदेवन्तु तान्त्रिकम्” इति।
मातृपूजने विशेषः —
कूर्मपुराणे।
पूर्वं तु मातरः पूज्या भक्त्या वै सगणेश्वरा इति।
मातृणां पूजनं नामानि चोक्तानि—
चतुर्विंशतिमते।
तिस्रः पूज्या पितृपक्षे तिस्रः पूज्यास्तु मातृके।
इत्येता मातरः प्रोक्ताः पितृमातृष्वसाष्टमी॥
ब्रह्मण्याद्याः स्मृताः सप्त दुर्गाक्षेत्रगणाधिपाः।
वृद्धौ वृद्धौ सदा पूज्याः पश्चान्नान्दीमुखान् पितॄन्॥
गौरी पद्मा शची दक्षा सावित्री विजया जया।
देवसेना स्वधा स्वाहा मातरो लोकमातरः।
एतास्त्वभ्युदये पूज्या आत्मदेवतया सह॥
लोकमातर इति सर्वासां विशेषणमिति मदनरत्नः। पितृपक्षे=पितृवर्गे। तिस्रो=मातृपिता-महीप्रपितामह्यः पूज्याः। तथा मातृके=मातामहवर्गे। तिस्रो=मातामहीमातुःपितामहीमातुः प्रपितामह्यः। पितृमातृष्वसाष्टमी=पितृष्वसा सप्तमी मातृष्वसाष्टमी च पूज्या इत्यष्टौ मनुष्यमातरः प्रोक्ताः। एताश्च प्रत्यक्षाः प्रत्यक्षमेव कुङ्कुमकुसुमवस्त्राभरणभोजनैः पू-
जनीयाः। ब्रह्मण्याद्यास्तथा सप्त=ब्राह्मी वैष्णवी माहेश्वरी ऐन्द्री बाराही कौमारी चामुण्डेत्येताः सप्त देवमातृृः। तथा दुर्गाक्षेत्रगणाधिपान्=दुर्गां क्षेत्राधिपं गणाधिपं च वृद्ध्यादौ वृद्धिश्राद्धात्प्राक् षोडशभिरुपचारैः पूजयित्वा पश्चान्नान्दीमुखान्पितॄन्=श्राद्धेन पूजयेदिति। आत्मदेवता=स्वकीयकुलदेवता। तया सहिताः पूज्याः। अन्यत्र स्मृत्यन्तरे ब्रह्माण्या द्यास्त्वष्टौ दर्शिताः। ब्रह्माणी माहेशी कौमारी वैष्णवी च वाराहीन्द्राणी चामुण्डा महालक्ष्मीश्च मातरः प्रोक्ताः।
शातातपोऽप्याह।
गौरी पद्मा शची मेधा सावित्री विजया जया।
देवसेना स्वधा स्वाहा मातरो लोकमातरः॥
धृतिः पुष्टिस्तथा तुष्ठिरात्मदेवतया सह।
आभ्योऽर्धं गन्धपुष्पं च धूपं दीपं निवेदयेत्।
तत्र
मातृपूजनं कर्माङ्गश्राद्धेऽपि कार्यमिति षट्त्रिंशन्मत एवोक्तम्।
कर्मादिषु च सर्वेषु मातरः सगणधिपाः।
पूजनीयाः प्रयत्नेन पूजिताः पूजयन्ति ताः॥
आसां च पूजाधिष्ठानं वसोर्धारानिर्माणादिकं च तत्रैवोक्तम्।
प्रतिमासु च शुभ्रासु लिखित्वा च पटादिषु।
अपि वाक्षतपुञ्जेषु नैवेद्यैश्च पृथग्विधैः॥
अत्र प्रतिमालेखाक्षतपुञ्जानां पूर्वं पूर्वं फलातिशयार्थम्।
कुड्यलग्ना वसोर्धारा पञ्चधारा घृतेन तु।
कारयेत् सप्त वा धारा नातिनीचा न चोच्छ्रिताः॥
आयुष्याणि च शान्त्यर्थं जप्त्वा तत्र समाहितः।
आयुष्याणि=आनो भद्रा इति ऋग्वेदोक्तानि। तथा यानि आशीः
प्रधानानि सूक्तानि, तथाविधमन्त्राधाराणि सामानि च।
एतन्मातृपूजनस्याकरणे भविष्यत्पुराणे दोषो दर्शितः।
अकृत्वा मातृयज्ञं तु यः श्राद्धं परिवेषयेत्॥
तास्तस्य क्रोधसंपन्ना हिंसां कुर्वन्ति दारुणाम्।
आसां स्वरूपं प्रोक्तम्—
मार्कण्डेयपुराणे।
हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः।
आयाता ब्रह्मणः शक्तिर्ब्रह्माणी साभिधीयते॥
माहेश्वरी वृषारूढा त्रिशूलवरधारिणी।
महाहिवलया प्राप्ता चन्द्ररेखाविभूषणा॥
कौमारी शक्तिहस्ता च मयूरवरवाहना।
योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी॥
तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता।
शङ्खचक्रगदाशार्ङ्गखड्गहस्ताभ्युपाययौ॥
यज्ञवाराहमतुलं रूपं या विभ्रतो हरेः।
शक्तिः साप्याययौ तत्र वारहीं विभ्रती तनुम्॥
वज्रहस्ता तथैवेन्द्री गजराजोपरि स्थिता।
प्राप्ता सहस्रनयना यथाशक्रस्तथैव सा॥
ब्रह्मपुराणे।
महालक्ष्मीश्च कर्त्तव्या नृत्यमाना कपालिनी।
अत्र गौरीस्वरूपं—
कार्त्तिकी तुङ्गखट्वाङ्गत्रिमालाम्बुजधारिणी।
कूष्माण्डा पातु प्रेतस्था दन्तुरा वर्वरंशिरः ?॥
सिद्धार्थपृच्छायाम्—
चन्द्रार्द्धनवचक्षुर्भ्यां मास्करेणाविषयेण ? च।
विद्योतन्ते करा यस्याः पद्मा सा च प्रकीर्त्तिताः।
कीरक व्यजनीं चैव व्यजनं समिधं तथा।
या बिभर्त्ति कराग्रे सा शची नाम्ना प्रकीर्त्तिता॥
धत्ते या समिधं हस्तैः व्यजनकिरिकावपि।
क्रमतस्तालवृत्तं च सा च मेधाभिधीयते॥
अक्षसूत्रं स्रुवं चैव शक्तिकाञ्च कमण्डलुम्।
कलयन्ति करा यस्याः सावित्री सा प्रकीर्त्तिता॥
कार्मुकं चार्धपात्रं च योगमुद्रां कृपाणिकाम्।
पाणिभिर्या क्रमाद् धत्ते सा दुर्गा परिगीयते॥
योगमुद्रां च चापं च क्रमेणैवार्धभाजनम्।
कृपाणीं चैव या धत्ते सा चामुण्डा प्रकीर्त्तिता॥
या कपालं च कौशं च पीयूष पाशमेव च।
आबिभतिं कराम्भोजैर्विजया सा प्रकीर्त्तिता॥
क्रमात्कोशकपाले च पीयूषं च सपाशकम्।
आश्रित्य यत्कराग्राणि विजयन्ते जया च सा॥
तस्वस्रागरसहितायाम्।
दर्पणं पङ्कजं पद्मं पुष्टिक दधतीं स्मरेत्।
पुष्टीं लक्ष्मीं सितां सौम्यां पङ्कजासनसंस्थिताम्॥
बज्रं पद्मं तथा दर्शं पीयूष दधती स्मरेत्।
सा या तुष्टिर्महालक्ष्मीः स्थिता बीरासनोपरि॥
विनायकप्रतिमास्वरूपं मत्स्यपुराणे—
स्वदन्तं दक्षिणकरे उत्पन्नं [ चाक्षसूत्रं ] तथापरे।
लड्
डुकं परशु चैव वामतः संप्रकल्पयेत्।
संयुक्तं बुद्धिऋृद्धिभ्यामधस्तान्मूलकान्वितम्।
तदेवं विशेषतः कासांचिन्मातॄणां स्वरूपं प्रदर्शितम्।
सामान्याकारेण तु सर्वासां स्वरूप पञ्चरात्र उक्तम्।
पूज्याश्चित्रे तथार्चायां वरदाभयपाणय.॥
इति।
एवं मातृकापूजनं वसोर्घारापर्यन्तं कृत्वा नान्दीश्राद्धं कार्यम्। त
डच नवदेवत्यम्।
मातरः प्रथमं पूज्याः पितरस्तदनन्तरम्।
ततो मानामहानां च वृद्धौ श्राद्धत्रयं स्मृतम्॥
इतिमात्स्यात् \। कात्यायनवचने—
षड्भ्यः पितृभ्यस्तदनु श्राद्धदानमुपक्रमेत्।
वसिष्ठोक्तो विधिः कृत्स्नो द्रष्टव्योऽत्र निरामिषः॥
इत्यत्र षड्भ्य इति षड्ग्रहणं मातृवर्गस्याप्युपलक्षणं मातरः प्रथममिति वाक्यात्। आभिषं=मांसं, तद्वर्ज्जित इति। अत्र नान्दीमुखान्पितृन्पूजयेदित्यत्र नान्दीमुखाः=स्वपितृपितामह प्रपितामहाः।
अत्र केचिन्नान्दीमुखानां पितॄणां देवतात्वाभिधानाद्येषां नान्दीमुखसंज्ञा विहितास्ति ब्रह्मपुराणे तेषामेव देवतात्वम्। तथा च—
ब्रह्मपुराणम्।
पिता पितामहश्चैव तथैव प्रपितामहः।
त्रयो ह्यश्रुमुखा ह्येते पितरः संप्रकीर्त्तिताः॥
तेभ्यः पूर्वतरा ये च प्रजावन्तः सुखैधिताः।
ते तु नान्दीमुखा नाम पितरः परिकीतर्त्तिताः।
अत्र पित्रादीनां त्रयाणामश्रुमुखा इति संज्ञा, प्रपितामहपित्रादीनां त्रयाणां नान्दीमुखा इति संज्ञा, तस्माद्वृद्धिश्राद्धे वृद्धप्रपितामहादय एव नान्दीमुखास्त एव च देवता इत्याहुः।
तन्न। “स्वपितृभ्यः पिता तद्यात्सुतसंस्कारकर्मसु” इति छन्दोग परिशिष्टवचनात् “पूर्वेद्युमातृक श्राद्धं कर्माहे पैतृकं स्मृत” मिति वसिष्ठोक्तत्वत्, “एवं प्रदक्षिणावृत्को वृद्धौ नान्दीमुखान्पितृृन्” यजेतेति याज्ञवल्क्यवचनात्, नान्दीमुखाः पितरः पितामहाः प्रपितामहश्चेतिका त्यायनवचनात् नान्दीमुखेभ्यः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यश्चेति गोभिलवचनात्, नान्दीमुखं पितृगणं पूजयेत्प्रयतो गृहीति विष्णुपुराणात्, तस्मारिपतृभ्यः पूर्वेद्युः करोति पितृभ्य एव तद्यज्ञमिति पूर्वोदाहृतब्राह्मणाच्च, पित्रादित्रिकस्यैव देवतात्वप्रतीतेः। नान्दीमुखसंज्ञा परं तेषामपि वाचनिकी। तेन पित्रादीनां त्रयाणामेव वृद्धौ देवतात्वं नान्दीमुखत्वं चेति। अत्र च पित्रादीनां देवतानां नान्दीमुस्वत्वस्य गुणत्वात्तद्विशिष्टानामे-
वोल्लेखः यथाग्नये दात्र इन्द्राय प्रदात्रे विष्णवे शिपिविष्टायेत्यत्राग्न्यादीनां देवतानां दात्रादिगुणविशिष्टा-नामेवोल्लेख इति। प्रपितामहपित्रादीनां तु नान्दीमुखत्वस्य गुण
त्वभावान्नोल्लेख इत्यग्रे स्फुटम्।
किञ्च।
माता पितामही चैव संपूज्या प्रपितामही।
पित्रादयस्त्रयश्चैव मातुः पित्रादयस्त्रयः॥
एते नवार्चनीयाः स्युः पितरोऽभ्युदये द्विजैः।
इत्याश्वलायनवचने स्पष्टमेव मात्रादीनां पितृपितामहप्रपितामहानां मातामहादीनां नवानामभ्युदये देवतात्वाभिधानात्। तथा “मातृपूर्वान्पितृन्पूज्य ततो मातामहानपि” इति चतुर्विंशतिमते, तथानान्दीमुखा पितर इति कात्यायनवचनेऽपीति कः प्रसङ्ग उत्तरत्रिकस्य।
किञ्च—
नान्दीमुखे विवाहे च प्रपितामहपूर्वकम्।
नाम संकीर्तयेद्विद्वानन्यत्र पितृपूर्वकम्॥
इति वृद्धवसिष्ठवचने पितृपितामहप्रपितामहानामेव देवतात्वे प्रातिलोम्यक्रमो घटते वृद्धौ प्रपितामहपितामहपितर इति ब्यु-
त्क्रमः, आमावास्यादौ तु पितृपूर्वकं पितृपितामहप्रपितामहा इति क्रमः। उत्तरत्रिकस्य तु देवतात्वे प्रपितामहपदं प्रपितामह [प्रपितामह] परं स्यात् पितृपदं च वृद्धप्रपितामहपरं स्यादिति। किञ्च पितृ-पितामहप्रपितामहानामेव देवतात्वे भवति जीवत्पितृकस्याप्यधिकारः। तथा हि। “येभ्य एव पिता दद्यात्तेभ्यो दद्यात्तु तत्सुतः” इत्यनेनाधिकारे सिद्धे विष्णूक्तः पितरि जीवति यः श्राद्धं कुर्याद्येषां पिता कुर्यादित्युक्त्वा त्रिषु जीवत्सु नैव कुर्यादिति निषेधोऽनर्थक एव, त्रयाणां देवतात्वपक्षे तेषां जीवित्त्वे भवत्यर्थवान्निषेधः। यदा तूत्तरेषां देवतात्वं तदा त्रयाणां जीवनेऽजीवने वा उत्तरेषामेव प्राप्तत्वादय निषेधोऽनर्थक एव। किञ्च विष्णूक्तः प्रयोगनियमोऽपि पूर्वेषां देवतात्वे घटते नोत्तरेषां यथा “यस्य पिता प्रेतः स्यात्स पित्रे पिण्डं निधाय पितामहात्पराभ्यां द्वाभ्यां दद्यात्” इत्यत्र पित्रे प्रपितामहाय च पिण्डदानं तयोर्देवनात्वे सङ्गच्छते नान्यथेति किम्भूयो विस्तरेण। वृद्धप्रपितामहादीनां संज्ञाकरणं तु प्रौष्ठपदीश्राद्ध एव देवतात्वार्थ, तेषामन्यत्र देवतात्वे प्रमाणाभावात्। उक्तं च तत्रैव।
नान्दीमुखानां प्रत्यब्द कन्याराशिगत रवौ।
पौर्णमास्यां तु कर्त्तव्यं वराहवचनं यथा॥ इति।
अत उदाहृतेषु वचनेषु मातामह्यादित्रिदेवत्वमुक्तम्। चतुर्थमपि पार्वणं कर्त्तव्यतयोक्तं—
चतुर्विंशतिमते।
पूजयेच्च ततः पश्चात्तत्र नान्दीमुखान् पितॄन्।
मातृपूर्वान्पितॄन् पूज्य ततो मातामहानपि॥
मातामहीस्ततः कोचिद्युग्मा भोज्या द्विजातयः।
मातृवर्गे चतुरादियुग्मसंख्याका ब्राह्मणा भोजनीयाः। तथा च मातृवर्गे चत्वारो मातामहीवर्गे चत्वारः। उक्तं च—
भविष्यपुराण्।
भोजयेच्च द्विजानष्टो मातृश्राद्धे खगेश्वर। इति।
असम्भवे त्वेकैकस्मिन्वर्गे द्वौ द्वावपि भोजनीयौ—
तथा च पद्मपुराणे।
युग्मा द्विजातयः पूज्या वस्त्रकार्तस्वरादिभिः।
कार्त्तस्वरं=सुवर्णं—
छागलेयः।
एकैकस्य तु वर्गस्य द्वौ द्वौ विप्रौ समर्चयेत्।
वैश्वदेवे तथा द्वा च न प्रसज्येत विस्तरः॥ इति।
एवं चाष्टौ ब्राह्मणाः सम्पद्यन्ते।
भविष्यत्पुराणे तु नवमोऽप्युक्तः —
पूर्वाह्णे भोजयेद्विप्रानष्टौ सर्वं प्रदिक्षणम्।
तथैव नवमं विप्रं चतुरस्रे खगोत्तम॥ इति।
विप्राणां चरणक्षालनार्थं गोमयेन क्रियमाणे चतुरस्रे मण्डले तत्काले यः कश्चिदतिथिरागच्छन् स नवमोऽपि भोजनीय इत्यर्थः। मातृवर्गे मतामहीवर्गे वा ब्राह्मणालाभ पतिपुत्रान्विताश्चतस्रश्चतस्रः सुवासिन्यो भोजनीया इत्युक्त वृद्धवशिष्ठेन।
मातृश्राद्धे तु विप्राणामलाभे पूजयेदपि।
पतिपुत्रान्विता भव्या योषितोऽष्टौ मुदामन्विताः॥
इति।
नान्दीश्राद्धस्य वैश्वदेविकपूर्वकत्वमुक्तं वृद्धशातापेन। “प्रदक्षिणं तु सव्येन भोजयेद्देवपूर्वक"मिति। वृद्धिश्राद्धे च सत्यवसुसंज्ञका विश्वदेवाः। अत्र कल्पतरुकारेणाभिहतमाभ्युदयिकप्रस्तावे—
मार्कण्डेयपुराणे।
वैश्वदेवविहीनं तु केचिदिच्छन्ति मानवाः। इति।
हलायुधस्तु मातृश्राद्धं देवरहितमेव च कार्यमित्याह इति शूलपाणौ। वृद्धिश्राद्धेऽन्येऽपि धर्माविशेषाः प्रतिपाद्यन्ते। तत्राह—
शातातपः।
कर्तव्य चाभ्युदयिकं श्राद्धमभ्युदयार्थिना।
सब्येन चोपवीतेन ऋजुदर्भैश्च धीमता॥
पितॄणां रूपमास्थाय देवा ह्यन्नं समश्नुते।
तस्मात्सव्येन दातव्यं वृद्धिश्राद्धे तु नित्वशः॥
यथैवोपचरेद्देवांस्तथा वृद्धौ पितॄनपि।
समश्नुते=समश्नुवत इत्यर्थः।
अत्र तिलकार्ये यवविनियोगः कार्यः। तथा च।
विष्णुधर्मोत्तरे।
वृद्धिश्राद्धेषु कर्तव्यास्तिलस्थाने यवास्तथा॥ इति।
पित्र्यधर्मस्थाने धर्मान्तरप्रयोगस्तूक्तो—
ब्रह्माण्डपुराणे।
स्वाहाशव्दंं प्रयुञ्जीत स्वधास्थाने तु बुद्धिमान्।
कुशस्थाने तु दूर्वाः स्युर्मङ्गलस्याभिवृद्धये॥
इति।
मार्कण्डेयपुराणे।
उदङ्मुखः प्राङ्मुखो वा यजमानः समाहितः।
वृद्धिश्राद्धं प्रकुर्वीत नान्यवक्त्रः कदाचन॥
इति।
अत्रोदङ्मुखत्वप्राङ्मुखत्वयोर्ब्यवस्थोक्ता आश्वलायनगृह्यपरिशिष्टे।
अभ्युदये युग्मा ब्राह्मणाः, अमूला दर्भा, प्राङ्मुखेभ्य उदङ्मुखो दद्यात् उदङमुखेभ्यः प्राङ्मुखो द्वौ दर्भौ पवित्र इति।
आह— शातातपः।
अपसव्यं न कुर्वीत न कुर्यादप्रदक्षिणम्।
अपसव्येन यो दद्याद्वृद्धौ किञ्चिदतिक्रमात॥
न तस्य देवास्तृप्यन्ति पितरश्च यथाविधि।
एतच्च पित्र्यधर्मविवर्जितदैवधर्मयुक्तं नान्दीश्राद्धमित्थं कार्यम्।
आह— जातुकर्ण्यः।
पूर्वेद्युस्तद्दिने वाथ दैवपूर्वं निमन्त्रणम्।
कृत्वा विप्रान्समाहूय पूर्वाह्णेनियतः शुचिः॥
कृत्वा मण्डलकं तेषां क्षालयेच्चरणांस्ततः।
आचान्तान्कृतसत्कारानासनेषूपवेशयेत्॥
श्लोककात्यायनोऽपि।
अतः परं प्रवक्ष्यामि विशेष इह यो भवेत्।
प्रातरामन्त्रितान्विप्रान्युग्मानुभयतस्तथा॥
उपवेश्य कुशान्दद्यादृजुनैव हि पाणिना।
अस्यार्थः पूर्वेद्युस्तदहर्वा निमन्त्रितान्विप्रान्प्रातरेव पूर्वाह्णे एवाहूय चरणक्षालनानन्तरमृजुदर्भोपकल्पितासने उपवेशयेत्। उभयत इति=चतुरः पूर्वाभिमुखानेकत उपवेश्य, अन्यतश्चतुर उदङ्मुखानुपवेशयेत्।
तथा च भविष्यत्पुराणे।
प्राङ्मुखांश्चतुरश्चैव चतुरश्च उदङ्मुखान्।
निवेश्य ऋजुमिर्दर्भैदद्यादासनमादरात्॥
इति।
कल्पतरुकारस्तु। “प्रातरामन्त्रितानिति वचनाद्वैकल्पिकमपि सायमामन्त्रणं निवर्त्तते। उभयत =पितृपक्षे वैश्वदेवपक्षे चेत्याह।
उभयत=पितृकृत्ये मातामहकृत्ये चेत्यर्थः। दैवे युग्मस्य प्राप्तत्वाद्विशेषासम्भवादिति शुलपाणि। अथवा सर्वेऽपि प्राङ्मुखा एवोपवेशनीयाः।
आह छागलेयः।
सर्वानेव तु तान्विप्रान्प्राङ्मुखानुपवेशयेत्।
ब्रह्मपुराणे।
विप्रान्प्रदक्षिणावर्त्तं प्राङ्मुखानुपवेशयेत्॥
शक्राग्नियमयात्वम्भोऽनिलचन्द्राशिवांशकान्।
समान्प्रशस्तान्सुभगान्पुष्पमालाविभूषितान्॥
दर्द्याहर्भासनं देवान्पितृृनुद्दिश्य तेषु च।
यातुः=रक्षोऽधिपः।
वृद्धपाराशरः।
मालत्या शतपत्र्या वा मल्लिकाकुब्जयोरपि।
केतक्या पाटलाया वा देया मालानुलोहिताः॥
तथा।
सुवेषभूषणैस्तत्र सालङ्कारैस्तथा नरैः।
कुङ्कुमाद्यनुलिप्ताङ्गैर्भाव्यं तु ब्राह्मणैः सह॥
स्त्रियोऽपि स्युस्तथा भूता गीतनृत्यादिहर्षिताः। इति।
दर्भेषु ऋजुत्ववदमूलत्वमप्युक्तमाश्वलायनकारिकायाम्।
ऋजुन्दर्भानमूलांस्तु दत्वैषामासनेष्वथ इति।
छान्दोग्यग्रन्थेऽर्द्यपात्रसंख्या उक्ताः। “चत्वार्येवार्धपात्राण्याभ्युदयिके” इति। एतानि मात्रादिश्राद्धत्रये त्रीणि वैश्वदेविके वैकमित्येव विभजनीयानि।
पात्राणा पूरणादीनि दैवेनैव हि कारयेत्।
गोत्रनामभिरामन्त्र्य पितॄनर्धं प्रदापयेत्॥
नात्रापसव्यकरणं न पित्र्यं तीर्थमिष्यते।
ज्येष्ठोत्तरकरान्युग्मान्कराग्राग्रपवित्रकान्॥
कृत्वार्ध्यं सम्प्रदातव्यं नेकैकस्य प्रदीयते।
दैवेन=वैश्वदेविकधर्मेण, स च धर्मो दर्भाणामृजुत्वं, यवोपादानं
यज्ञोपवीतित्वं, देवतीर्थं चेति। ज्येष्ठस्य प्रथमोपवेशितस्य उत्तर उपरि करो हस्तो येषां प्रथमोपवेशित-विप्रस्य करः पश्चादुपवेशितविप्रकरस्योपरि यथा भवति तथा कृत्वेत्यर्थः। कराग्राग्रपवित्रकान्=कराग्रेऽग्रं पवित्रस्य येषां विप्रकरे प्रागग्रं पवित्र धृत्वेत्यर्थं। द्वयोर्द्वयोर्हस्तौ संयोज्य तत्र प्रागग्रं पवित्रं स्थापयित्वा एकैकस्मिन्मातृपित्रादिवर्गे वैश्वदेविके च सकृदेवार्घः प्रदेयो नैकैकस्य विप्रस्य कर इति निष्कृष्टोऽर्थः। अर्धपात्रे तिलस्थाने यवप्रक्षेपे तिलोऽसीत्ययं मन्त्रो यवोऽसीत्यूहविशिष्टः प्रयोक्तव्य इत्युक्तमाश्वलायनगृह्यपरिशिष्टे। द्वौ दर्भौ पवित्रे सोपयामानि पात्राणि चत्वारि। उपयाम=उपग्रहः, पात्राधस्तात्कुशधारणरूपः। शन्नो देवीत्यनुमन्त्रितास्वप्सु मवानावपति। “यवोऽसि सोमदेवत्यो गोसवो देवनिर्मितः। प्रत्नमद्भिः पृतः पुष्ट्या नान्दीमुखान्लोकान्प्रीणयाहि नः स्वाहेति। विश्वेदेवा इदं वोऽर्ध्यं नान्दीमुखाः पितर इति यथालिङ्गमर्थ्यदानं पितरः प्रीयन्तामित्यपां प्रतिग्रहणं विसर्जन च, एवमुत्तरयोरपि पितामहप्रपितामहयोः, नित्यं चाग्नौ करणं स्वाहाकारेण होमश्च “अतो देवा अवन्तु न” इत्यङ्गुष्ठग्रह इति।
अत्राश्वलायनकारिकापि।
तिलोऽसीति पदस्थाने यवोऽसीति पदं वदेत्।
स्वधयेति पदस्थाने पुष्ट्या शब्दं वदेदिह॥ इति।
अर्घदानं चावाहनपूर्वकं कार्यम्।
आवाहनप्रकारे—
ब्रह्मपुराणे।
नान्दीमुखान्पितृृन्भक्त्या साञ्जलिश्च समाह्नयेत्।
पठेत्पवित्रं मन्त्रं तु विश्वेदेवास आगत॥ इति।
अर्घदानं च सत्यवसुसंज्ञका विश्वेदेवाः इदं वोऽर्धं नान्दीमुखाः पितरः इदं वोऽर्घमित्येवं रूपं कार्यम् आश्वलायनगृह्यवचनात्। “अपः प्रथमपात्रस्थाः स्वाहा इति मन्त्रिता” इति प्रयोगपारिजातकार-लिखनात्स्वाहार्ध्या इत्येवं रूपं चार्घदानम्। अर्घदानानन्तरं गन्धपुप्यादिकं देयम्।
भविष्यपुराणे।
कृत्वा यवैस्तिलार्थं तु दद्यादर्घं विधानतः।
गन्धपुष्पादिकं सर्वंकुर्बाद्वीरप्रदक्षिणम्॥
ब्रह्मपुराणेऽपि।
अर्घं पुष्पं च धूपं च प्रशस्तमनुलेपनम्।
वासश्चाप्यहतं शुद्धं देयं च सदृशं समम्॥
अत्र दीपमित्यपि वक्तव्यम्। गन्धमाल्यपुष्पधूपदीपाच्छादनाना प्रदानमित्याश्वलायनसूत्रितत्वात्। इदं च गन्धादिकमेकैकस्य हस्ते द्विः र्द्विर्देयम्।
तथा चाश्वलायनगृह्यपरिशिष्टे।
प्रदक्षिणमुपचारो यवैस्तिलार्थः सर्वं द्विर्द्विरिति।
अत्र च सर्वं द्विर्द्विरिति वचनाद्गन्धादिपञ्चकस्यापि द्विर्द्विर्दानमित्येव प्रतीयते द्विर्भुंड्क्त इत्यत्रेव द्विर्द्विरिति सुचः क्रियाया आवृत्तौ विहितत्वाद् द्वव्यावृत्तिं बिना तु क्रियावृत्तेरनुपपन्नत्बात्तेन गन्धादिवद्वासोद्वयमपि देयम्। सममिति वस्त्रविशेषणादपि द्वित्वप्रतीतिरिति केचित्। अन्यच्च—
भविष्यत्पुराणे।
रक्तपुष्पतिलांश्चैव अपसव्य च वर्जयेदिति।
इदं च गन्धादिभिरभ्यर्चनं पदार्थानुसमयेन काण्डानुसमयेन वेति बोध्यम्।
गन्धादिदानानन्तरं चाग्नौकरणं कर्त्तव्यम्।
गृह्यपरिशिष्टे।
नित्यं चाग्नौ स्वाहाकारेण होमश्चेति।
तत्रैव पाणौ होमः, अग्नये कव्यवाहनाय स्वाहा। सोमाय पितृमते स्वाहा इति। तथा पृषदाज्यमिश्र उष्णो हविः सर्वत्र तस्यार्द्धेन द्वे द्वे आहुती जुहुयादिति। सर्वत्रेत्यग्नौकरणद्विजभोजन-विकिरणपिण्डदानेषु दधिमिश्रमाज्यं पृषदाज्यं तन्मिश्र ओदनो हविः श्राद्धद्रव्यं तस्यौदनस्य पूर्वापरार्द्धे विभागं कल्पयित्वा द्विरवदाय, होमः कार्य– इत्यर्थः। अत्र च कश्चिद्विशेषो—
ब्रह्मपुराणे।
रक्षोन्धीर्जुहुयाद्वह्नौ समिदर्थे महौषधीः।
तिलार्थं तत्र विकिरेत् प्रशस्तांश्च तथा यवान्॥
अत्र तिलकार्ये यवविधानवत्समित्कार्ये औषधीविधानं “घृताक्ताः समिधो हुत्वा दक्षिणाग्राः समन्त्रका” इत्यनेन प्रकृतिश्राद्धे वि-
हितो यः समित्साधनको होमस्त[स्य]रक्षोध्न्यौषधीनां साधनत्वं विधीयत इति। रक्षोध्न्यश्च पलाशशाङ्खिनीविष्णुकान्ताद्याः। अग्नौकरणानन्तरं पात्रपरिवेषणीयमन्नमुक्तं—
भविष्यपुराणे।
पृषदाज्येन संयुक्तं दध्यादोदनमादितः।
पायसं च यथाभव्यं मोदकादिरसोत्तरम्॥
मधुरं भोजनं दद्यान्न चाम्लं परिवेषयेत्।
ब्रह्माण्डपुराणेऽपि।
मङ्गल्यं भक्ष्यभोज्यादि दद्यादन्नं पृथग्विधम्।
गुडमिश्रं खगश्रेष्ठ साज्यं चैवौदनं परम्॥
रसालान्मोदकांश्चेव न चाम्लकटुकादिकम्।
आदिशब्दादुद्रजकतिक्तादिरससंग्रहः “मधुरं भोजन दद्यात्” इति प्राग्लिखितवचनात्।
ब्रह्मपुराणे।
अन्नं दद्याच्च दैवेन तीर्थेन च जपेत् स्वधाम्।
तथा।
द्राक्षामलकमूलानि यवांश्चाथ निवेदयेत।
मूल=आद्रकादीति कल्पतरुः। सव्यजानुनिपातनं च [न] कर्त्तव्यमित्याह—
श्लोककत्यायमः।
निपातो न हि सव्यस्य जानुनो विद्यते क्वचित्।
अत्र च “अतो देवा” इति मन्त्रेणाङ्गुष्ठग्रहणम्। उक्तं चाश्वलायनगृश्ये “अतो देवा अवन्तु न” इत्यङ्गुष्ठग्रहणमिति। भुञ्जानेषु विप्रेषु जपोऽपि तत्रैवाभिहितः, पावमानीः शंवती रौद्री चाप्रतिरथं च श्रावयीत। शंवतीः=रान्न इद्राग्नी इत्यादि। रौद्री=रुद्राध्यायादि। अप्रतिरथम्=आशुः शिशान इति।
ब्रह्मपुराणे।
पठेत्तु शाक्रसूक्तं तु स्वस्तिसूक्तं शुभं तथा।
युक्तमश्रुमुखानां तु न पठेत्पितृसाहेताम्।
शाक्रसूक्तम्=आशुः शिशान इत्यादि। स्वस्तिसूक्तं= स्वस्तिशब्दयुक्तस्वस्थ्ययनं तार्क्ष्यमित्यादि। शुभं=नराशंसप्रधानं किञ्चिदृग्यजु प्रभृ
तिको तदपि पठेदिति हेमाद्रौ। तथा पठेच्छकुनिसूक्तं त्विति ब्राह्मे। शकुनिसूक्त=कनिक्रदजुनुषमित्यादिकम्।
श्लोककात्यायनः।
न चाश्नत्सु जपेदत्र कदाचित्पितृसंहिताम्।
अन्य एव जपः कार्यः सोमसामादिकः शुभः॥ इति।
सोमसामादिकः=सोमसामत्वेनैव प्रसिद्धः। आह—
प्रचेताः।
न जपेत्पैत्तृकं आपं न मांसं तत्र दापयेत्।
अत्र जपशब्दाद् भुञ्जानेषु द्विजेषु यः पितृलिङ्गकानां मन्त्राणां जपः स एव निषिध्यते न पदार्थानुष्ठान-करणीभूतानां मन्त्राणां निवृत्तिः। यस्मिन्कर्माणि यस्य मन्त्रस्य करणता नियम्यते तन्मन्त्रनिवृत्तौ तत्कर्मसाद्गुण्ये प्रमाणाभावात्। तेन पितृलिङ्गकमन्त्रकरणकं कर्म तन्मन्त्रेणैव कार्यं अन्यथा तदकृतमेव स्यादिति। इदमेवाभिप्रेत्योक्तं—
जातूकर्ण्येन—
पितृलिङ्गेन मन्त्रेण यत्कर्म मुनिभिः स्मृतम्।
तैनैव तद्विधातव्यममन्त्रमकृतं यतः॥ इति।
कात्यायनः —
सम्पन्नमिति तृप्ताः स्थ प्रश्नस्थाने विधीयते।
सुसंपन्नमिति प्रोक्ते शेषमन्न निवेदयेत्॥
तृप्तास्थेति प्रश्नस्थाने सम्पन्नमित्येवं रूपः प्रश्नः।
आह श्लोककात्यायनः।
मधुमध्विति यस्तत्र त्रिर्जपोऽशितुमिच्छताम्।
गायत्र्यनन्तरं सोऽत्र मधुमन्त्रविवर्जितः॥ इति।
अस्यार्थः अशितुमिच्छतां विप्राणां सन्निधो गायत्र्यनन्तर मधुमती पाठानन्तरं यो मधुमधुमधुइति त्रिवारं शब्दप्रयोगरूपो जपो विहितः स मधुमन्त्रविवर्जितः=मधु
ब्यता इति पाठविवर्जितः। गायत्रीपाठोत्तरं मधुमतीस्थाने उपास्मै गायता नर इति पञ्चर्चं अक्षन्नमीमदन्तेति च षष्ठीमृचं श्रावयित्बा ततो मधुमधुमध्विति त्रिजपेत्। तथाचोक्तमाश्वलायनेन।
मधुव्वाता ऋतायत इति तृचस्थाने उपास्मै गायता नर इति पञ्च, मधुमतीः श्रावयेत्। अक्षन्नमीमदन्तेति च षष्ठीमिति।
ब्रह्मपुराणे।
क्वचित्संपन्नमेतन्मे तान्पृच्छेच्च प्रहर्षितान्।
सुसम्पन्नं च ते बूयुः सर्वंसिद्ध ततः क्षिपेत्॥
सर्वजातीयसिद्धमन्नमेकपात्रे समुद्धृत्य विकिरं कुर्यादित्यर्थः। दैवे तु तृप्तिप्रश्ने रोचत इति विशेषो लिखितो—
वृद्धवसिष्ठेन।
तृप्तिप्रश्नेतु सम्पन्नं दैवे रोचत इत्यपि।
भविष्यत्पुराणे।
एवं भुक्तेषु विप्रेषु दधात्पिण्डान्समाहितः।
दध्यक्षतैर्विमिश्रांस्तु बदरैश्च खगाधिप।
अक्षताः=यवाः। “अक्षताश्चं पवा” इतिकोशात्।
विष्णुधर्मोत्तरेऽपि।
दधिकर्कन्धुसंमिश्रान्तथा पिण्डांश्च निर्वपेत्।
याज्ञवल्क्यः।
एवम्प्रदक्षिणावृत्को वृद्धौ नान्दीमुखान्पितॄन्।
यजेत दधिकर्कन्धुमिश्रान् पिण्डान्यवैः क्रियाः॥
[ अ १ श्राद्धप्र० श्लो० २५० ]
प्रदक्षिणा आवृदनुष्ठानपद्धतिर्यस्यासौ प्रदक्षिणावृत्कः प्रदक्षिणमुपचार इति यावत्।
ब्रह्मपुराणेऽपरो विशेषः।
शाल्यन्नं दविमध्वक्तं बदराणि यवांस्तथा।
मिश्रीकृत्यानुचत्वारि पिण्डान् श्रीफलसन्निभान्॥
दद्यान्नान्द्रीमुखेभ्यश्च पितृभ्यो विधिपूर्वकम्।
कात्यायनः।
सर्वस्मादन्नमुद्धृत्य व्यञ्जनैरुपसिच्य च।
उपसेचनम्=उपरि प्रक्षेपः।
संयोज्य ववकर्कन्धुदधिभिः प्राङ्मुखस्ततः।
अवनेजनवत्पिण्डान्कृत्वा बिल्वप्रमाणकान्॥
तत्पात्रक्षालनेनाथ पुनरप्यवनेजयेत्।
पिण्डपात्रस्याधोमुखस्थापनं न कर्त्तव्यमित्याह—
वसिष्ठः।
प्राङ्मुखो देवतीर्थेन प्राक्कूलेषु कुशेषु च।
दत्वा पिण्डान्न कुर्वीत पिण्डपात्रमधोमुखम्॥ इति।
प्राक्कूलाः प्रागग्राः। पिण्डदानं चोच्छिष्टसन्निधौ न कुर्यात्।
प्रदद्यात्प्राङ्मुखः पिण्डान्वृद्धौ नाम्ना स बाह्यतः।
बाह्यत इति भोजनशालाया बहिर्नतूच्छिष्टसन्निधावित्यर्थः। पिण्डार्थे गोमयादिना चतुरस्रं मण्डलं कर्त्तव्यमिति भविष्यत्पुराणे।
निर्बपेन्मण्डले बीरे चतुरस्रं विचक्षणः।
पवित्रपाणिराचान्त उपविष्टः समाहितः॥
नामोच्चारणं चात्र प्रथमपिण्ड एव न द्वितीये। यहुक्तम—
चतुर्विंशतिमते।
द्वौ द्वौ चाभ्युदये पिण्डौ एकैकस्मै विनिक्षिपेत्।
एकं नाम्नाऽपरं तूष्णीं दद्यात्पिण्डान्पृथक् पृथक्॥
एकैकस्मै द्वौ द्वौ पिण्डौ तत्राद्यं नामगोत्रसहितं दद्यादपरं तूष्णीं दद्यादित्यर्थः। वृद्धिश्राद्धे च पिण्डदानवैकल्पिकमुक्तम्—
विष्णुपुराणे।
दध्यक्षतैः सबदरैः प्राङ्मुखोदङ्मुखोऽपि वा।
देवतीर्थेन वै दद्यात्पिण्डान्कामेन वै नृप॥
कामेन=इच्छाया। इच्छाभावे न दद्यात्। भविष्यत्पुराणे तु पिण्डदानकरणाकरणयोर्व्यवस्था कुलधर्मापेक्षिकोक्ता।
पिण्डनिर्वपणं कुर्यान्न[ वा कुर्यान् ]नराधिप।
वृद्धिश्राद्धे महाबाहो कुलधर्मं निवेक्ष्यवै॥
तेन येषां कुले बृद्धपरम्परया वृद्धिश्राद्धे पिण्डदानानुष्ठानं तैर नुष्ठेयमेव येषां तु कुले नानुष्ठानं तैर्नानुष्टेयमेवेति। इयन्तु व्यवस्था निरनिकानामेव। साग्निकैस्तु सर्वदा सपिण्डकमेव कर्त्तव्यमित्युकं—
ब्रह्मपुराणे।
योऽग्नौ तु विद्यमानेऽपि वृद्धौ पिण्डान्न निर्वपेत्।
पतन्ति पितरस्तस्य नरके स च पच्यते॥
इति।
आह— कात्यायनः।
अथाग्रेभूमिमासिञ्चेत् सुसुप्रोक्षितमस्त्विति।
शिवा आपः सन्त्विति च युग्मानेवोदकेन च
सौमनस्यमस्त्विति च पुष्पदानमनन्तरम्।
अक्षतं चारिष्टं चास्त्वित्यक्षतान्प्रतिपादयेत्॥
अक्षय्यं च ततः कुर्य्याद्देवपूर्वं विधानतः।
षष्ठ्यैव नित्यं तस्कुर्यान्न चतुर्थ्या कदाचन॥
प्रार्थनासु प्रतिप्रोक्ते सर्वास्वेव द्विजोत्तमैः।
पवित्रान्तर्हितान्पिण्डान् सिञ्चेदुत्तानपात्रकृत्॥
प्रार्थनासु प्रोक्षितमित्यादिप्रतिप्रोक्ते अस्तु सुप्रोक्षितमित्युत्तरिते सति अर्घपात्रसम्बन्धिपवित्राच्छादितान्पिण्डान् “ऊर्जं वहन्ती”रित्यनेन सिञ्चोदित्यर्थः।
युग्मानेव स्वस्तिवाच्यानङ्गुष्ठग्रहणं सदा।
कृत्वा धुर्यस्य विप्रस्य प्रणम्यानुव्रजेत्ततः॥
धुर्यः=पङ्क्तिममूर्द्धन्यः।
ब्रह्मपुराणे।
प्राङ्मुखांस्त्वथ वै दर्भान्दद्यात्क्षीरावनेजनमिति॥
इदमवनेजनं विप्रहस्ते जलस्थाने क्षीरदानमात्रमिति, क्षीरम्फलातिशयार्थमिति शूलपाणिः।
शातातपः।
नान्दीमुखास्तु पितरस्तृप्यन्तामिति वाचयेत्। अत्रान्योऽपि विशेषः कात्यायनेनोक्तः।
प्रागग्रेषु च दर्भेषु आद्यमामन्त्र्यपूर्ववत्।
अपः क्षिपन् मूलदेशेऽवनेनिक्ष्वेति निस्तिलाः॥
निस्तिला इत्यस्माद्विशेषणात्सयवाः कार्या इत्यर्थः। तिलकार्येयवविधानात्।
द्वितीयं च तृतीयं च मध्यदेशाग्रदेशयोः।
पूर्वाग्रेषु दर्भेषु दर्भमूले पितॄन्, दर्भमध्यभागे पितामहान् दर्भाप्रदेशे प्रपितामहानित्यर्थः।
मातामहमप्रभृतींस्तु एतेषामेव वामतः।
उत्तरोत्तरदानेन पिण्डानामुत्तरोत्तरः॥
भवेदधश्च करणादधरः श्राद्धकर्मसु।
तस्माच्छ्राद्धेषु सर्वेषु वृद्धिमत्स्वितरेषु च॥
मूलमध्याग्रदेशेषु ईषत्सक्तांश्च निर्वपेत्।
गन्धादीन्निक्षिपेत्तूष्णीं तत आचमयेद् द्विजान्॥
पिण्डानामुत्तरोत्तरदानेन=प्रागपवर्गप्रदानेन, यजमान उत्तरोत्तरो भवेदधिकेभ्योऽधिको भवेत्। पिण्डानामधःकरणात्=प्रत्यगपवर्गदानात्
अधरो=नचिः पापीयान्भवेदित्यर्थः। ईषत्सक्तान्=ईषत्परस्परं लग्नान्। तूष्णीमिति=पिण्डे गन्धादिदाने मन्त्रनिवृत्तिः। अन्यत्र वृद्धिश्राद्धातिरिक्ते आद्धे यवराहित्यात्तिलसहितो विधिः दक्षिणाप्रवणोदेशो दक्षिणाभिमुखो यजमानः दक्षिणाग्राः कुशाः। वृद्धिश्राद्धे तु यवसहितो विधिः। प्राक्प्रवणादिर्द्वेशः। प्राङ्मुख उदङ्मुखो वा यजमानः। प्रागग्राः कुशाः। “मातामहप्रभृतींस्तु एतेषामेव वामत” इत्यत्र यजमानस्य प्राङ्मुखत्वे पितृृपिण्डानां वामती दक्षिणस्यां दिशि मातामहादिपिण्डाः। तेन प्रादक्षिणोपचारोऽनुगृहीतो भवति। यदोदङ्मुखो यजमानो ददाति तदा पितृपिण्डानां प्राग्दिशि मातामहादीनां पिण्डदानम्। तत्रापि पितृपिण्डानां प्राग्दिगेव वामो भागः। एवं सति तत्रापि प्रदक्षिणमुपचारोऽनुगृहीतो भवति। अत एव पिण्डदाने पितॄणां ध्यानप्रस्तावे।
आत्माभिमुखमासीना ज्ञानमुद्रा निरायुधाः।
वसवः पितरो ज्ञेया रुद्रास्तत्र पितामहाः॥
पितुः पितामहाः ग्रोक्ता आदित्या बर्हिषि स्थिताः।
इति वाक्यात्प्राङ्मुखस्थस्य कर्त्तुराभिमुख्येनोपविष्टानां पितॄणां दक्षिणादिगेव वामभागो भवति। एवमुदङ्मुखस्य कर्त्तुराभिमुख्येनोपविष्टानां पूर्वदिगेव वामभागो भवति। तेन पितृपिण्डेभ्यो दक्षिणदिश्येव मातामहपिण्डदानमिति।
तथा स एव—
अक्षय्योदकदानं च अर्घदानवदिष्यते।
षष्ठयैव नित्यं तत्कुर्यान्न चतुर्थ्वा कदाचन॥
प्रपितामहसंज्ञाश्च नान्दीमुख्यश्च मातरः।
मातामह्यः पितामह्यः प्रमातामह्य एवं च॥
मातामहेभ्यश्च तथा नान्दीवत्क्रेभ्य एव हि।
प्रमातामहसंज्ञेभ्यो भवद्भिश्चस्वधोच्यताम्॥
अस्तु स्वधेति ते तं च जल्पन्ति प्रहसन्ति च।
विश्वेदेवाश्च प्रीयन्तामिति दाता ब्रवीति तान्॥
प्रीता भवन्तु वे तं च वदन्ति मधुराक्षरम्।
त्यमूषु वाजिनमिति पठंस्तांश्च विसर्जपेत्॥
अर्घदानवदिति ज्येष्ठोत्तरकरत्वातिदेशार्षन तु तन्त्रतावि
हत्यर्थः।
अर्घेऽक्षय्योदके चैव पिण्डदानेऽवनेजने।
तन्त्रस्य विनिवृत्तिः स्यात्स्वधावाचन एव च॥
इत्यनेनैव प्राप्तत्वात्।
प्रचेताः।
प्राङ्मुखो देवतीर्थेन वृद्धौ परिचरेत्पितॄन्।
सव्येनैवोपनीतेन क्षिप्रं विप्रविसर्जनम्॥
क्षिप्रमित्यतः पार्वणवत् न सूर्यास्तं प्रतीक्षेतेति। स्वधेस्यत्रापि स्वाहाशब्दः प्रयोज्यः, न स्वघेति। “न स्वधां प्रयुञ्जीत” इति कात्यायनवचनात्। शूलमाणिस्तु स्वधेति शाखाभेदव्यवस्थितमित्याह।
य[त]त्तु बहुषु कात्यायनाश्वलायनगोभिलाद्युक्तसूत्रेषु बहुषु स्मार्तवचनेषु च स्वधाशब्दस्य निषिद्धत्वाद्विचार्य श्रद्धातव्यमिति।
ब्रह्मपुराणे।
द्राक्षामलकमूलानि यवांश्चाथ निवेदयेत्।
तान्येव दक्षिणार्थं तु दद्याद्विप्रेषु सर्वदा॥
इत्यत्र यवानां तिलार्थेऽपि दानं भक्षणार्थे दक्षिणार्थेऽपि दानं प्रसक्तं तद्यथायोगं भृष्टरूपेण स्वरूपेणैव वा विधेयम्। दधेिबदराक्षतमिश्राः पिण्डा इत्यत्रापि अक्षता=यवाः। “अक्षताश्च यवाः प्रोक्ता भृष्टा धाना भवन्ति ते” इति वाक्यात् तान्येव दक्षिणार्थमित्यत्र द्राक्षामलकादीनां दक्षिणार्थे विधानादनयौपदेशिक्या दक्षिणयातिदेशिक्या दक्षिणाया निवृत्तिः। अन्योऽपि विशेषः।
सङ्ग्रहे—
शुभाय प्रथमान्तेन वृद्धौ सङ्कल्पमाचरेत्।
न षष्ठ्या यदि वा कुर्यान्महादोषोऽभिजायते।
तथा।
अनस्मच्छन्दवृद्धानामरूपाणामगोत्रिणाम्।
अनाम्नां चातिलाद्यैश्च नान्दीश्राद्धं न सव्यवत्।
बहुचकारिका च।
सम्बन्धनामरूपाणि वर्जयेदत्र कर्माणि। इति।
अत्र च यद्यपि नामगोत्राणां वर्जनमुक्तं तत्तु “गोत्रनामभि रामन्त्र्य पितॄनर्घं प्रदापये”-दितिकात्यायनवचनेन विरुद्धं, तथापि शाखाभेदव्यवस्थितं सदविरुद्धमेवेति। प्रयोगपारिजाते तु शुभाय प्रथमान्तेन वृद्धौ सङ्कल्पमाचरेत्” इत्युपक्रम्य अनस्मच्छब्दानामित्युक्तेगोत्र-
नामादिनिषेधः सङ्कल्पश्राद्धे सपिण्डके तु तन्निषेधो नास्तीत्युक्तम्।
यच्च वृद्धवसिष्ठेनोक्तं।
नान्दीमुखे विवाहे च प्रपितामहपूर्वकम्।
नाम सङ्कीर्त्तयेद्विद्वानन्यत्र पितृपूर्वकम्॥ इति
स्मृत्यर्थसारे च—
वृद्धमुख्यास्तु पितरो वृद्धिश्रद्धेषु भुञ्जत इति।
तच्छाखान्तरविषयम्। कात्यायने तु नान्दीमुखाः पितरः पितामहाः प्रपितामहा इत्युक्तेः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्य इति बहृचपरिशिष्टोक्तेराश्वलायनादीनामानुलोम्येनैव विधानादनुलोमक्रम एव।
ननु आश्वलायनव्यतिरिक्तानां सर्वेषामनुलोमक्रम एव आश्वलायनानामेव केवलं प्रातिलोम्यक्रमः “नान्दीमुखे विवाहे च” इति वाक्यात्। इदं हि वृद्धवसिष्ठवाक्यमाश्वलायनविषयकमेव— “वासिष्ठं बहृचैरेव” इति होलाधिकरणे वार्त्तिककारैरुक्तत्वात्, “माता पितामही चैव” इत्याश्वलायनवचनं तु न क्रमपरं किन्तु पदार्थमात्रपरम्। न च वासिष्ठे प्रपितामहपूर्वकालोक्त्या तत् त्रिदेवत्यमात्रे प्रातिलोम्यविधानमस्तु न मात्रादित्रिके न वा मातामहादित्रिक इति वाच्यम्। तस्योपलक्षणत्वेन वर्गत्रयेऽपि प्रातिलोम्यविधानस्योचितत्वात्। तस्मात्सिद्धं नान्दीमुखे विवाहे च आश्वलायनानां प्रतिलोमक्रम् इति चेत्।
माता पितामही चैव सम्पूज्या प्रपितामही।
पित्रादयस्त्रयश्चैव मातुः पित्रादयस्त्रयः।
एते नवार्घनीयाः स्युः पितरोऽभ्युदये द्विजैः॥
इत्याश्वलायनाचार्यवचने, तथा नान्दीमुखाः पितर इदं वोर्ध्यं पितामहाः प्रपितामहा इति यथालिङ्गमर्थ्यदानं पितरः प्रीयन्तामि त्यपां प्रतिग्रहणं विसर्जनं च एवमुत्तरयोः पितामहप्रपितामहयोरित्याश्वलायनगृह्मपरिशिष्टे,
शौनकीयेऽपि—
तत्रेदं तेऽर्घ्यमित्येष पितृनामपदादिकः।
पितमहार्थविप्रेभ्यो दत्वार्घं च यथा पुरा।
प्रपितामहशब्दादिमिदं तेऽर्ध्यमितीरयेत्॥
इत्याश्वालायनशाखाप्रवर्त्तकाश्वलायनादिवाक्येषु प्रतीतो यो-
ऽनुलोमक्रमस्तस्यैवाश्वलायनैरन्तरङ्गत्वेनाङ्गीकार्यत्वात्। न वाशिष्ठोक्तस्य, तस्य बहिरङ्गत्वात्। अतश्चाथर्वणानां शाखाविशेषे प्रातिलोम्यक्रमस्य प्रत्यक्षपठितत्वात्। तद्विषयो वासिष्ठोक्तः क्रम इति ध्येयम्।
यच्चोक्तं वासिष्ठं बहृचैरेवेति होलाकाधिकरणे वार्त्तिककारेणोक्तमिति, तदपि, तत्रत्यपूर्वपक्षमूलकं न सिद्धान्तमूलकं। तथा च पूर्वपक्षे वार्तिकं तद्यथा गौतमीये गौभिलीये, छान्दोग्यैरेव परिगृहीते, बासिष्ठं बहृचैः शङ्कलिखितोक्तं वाजसनेयिभिः आपस्तम्बबौधायिनीये तैतिरीयैरेव प्रतिपन्ने इत्येवं तत्र तत्र गृह्यग्रन्थव्यवस्थाभ्युपगमादिदर्शनाद्विचारयितव्यं, किं तानि तेषामेव प्रमाणानि, उत सर्वाणि सर्वेषामिति।
किं तावत्प्रतिपत्तव्यं व्यवस्थैवेति पाठतः।
नह्यन्यत्र स्थिताल्लिङ्गाल्लिङ्गयन्यत्रानुमीयते॥
“अनुमानाह्यवस्था” इति पूर्वपक्षसूत्रे अनुमानं=लिङ्गम् “आचारात्मकाल्लिङ्गालिङ्गिनो विधिप्रतिषेधौ अनुमीयमानौ तद्विषयावेवानुमातव्यावित्यादिना पूर्वपक्षमुक्त्वा “अपि वा सर्वधर्मः स्यात्” इत्यनेन शक्तमात्राधिकारित्वाद्राजा राजसूयेन, वैश्यो वैश्यस्तोमेनेत्यादिवत्कर्त्तृव्यावर्त्तकविशेषणाभावात्, तत्तदाचाराणामनुवृत्तव्यक्त्याकृतिप्राव्यत्वदाक्षिणात्यत्वादिजातिवचनत्वाभावाच्च गृह्यधर्मसू-त्रनिवद्धधर्माणामपि सर्वधर्मस्वमिति हि सिद्धान्ते वार्त्तिकम्। तेन वासिष्ठं बहृचैरेवेति पठितवार्त्तिको नेदं वक्तुं क्षमते। यच्चोक्तं “माता पितामही चैव” इत्यत्र न क्रमावेधिः, किन्तु पदार्थमात्रं तदपि न साधु, पाठस्याषि क्रमनियामकत्वमुक्तं “क्रमेण वा नियम्येत” इत्यत्राधिकरणे। समिधो यजति, तनूनपातं यजतीति क्रमेण पठितानां बागानामनियमेनानुष्ठानमुत पाठक्रमेणेति श्रुत्यर्थयोरभावा-त्पाठक्रमस्याविधायकत्वाद्विधीनां च पदार्थमात्रपर्यवसानादनियम इति पूर्वपक्षयित्वा राद्धान्तितं।
यथा पाठमनुष्ठानं तथैव प्रतिपत्तितः।
स्मृतिप्रयोगवेलायां वाक्यैरेव च कर्मणाम्॥ इति।
यथापाठं क्रियमाणं स्मरणं विहितक्रमं भवतीति पाठक्रमस्य बलवत्वम्। न च प्रतिलोमक्रम औपदेशिक प्रति वाच्यम्। “एते न-
वार्चनीयाः स्युः पितरोऽभ्युदये द्विजैः” इत्यभ्युदयपुरस्कारेणानुलोमक्रमस्याप्यौपदेशिकत्वात्। न हीतोऽधिकमधप्यस्ति शृङ्गान्तरमुपदेशस्य, एवं सति यदा पित्रादित्रिके प्रातिलोम्यक्रमो निरस्तः तदा कैव कथाअपरस्मिन्वर्गद्वये। अत एव प्रयोगपारिजातकारेण अनुलोमक्रमाश्रयणं कृतम्। यच्च “नान्दीमुखे विवाहे च” इति विवाहेऽपि प्रातिलोम्यविधानं तत्तु वत्सगोत्रोद्भवाममुष्य [प्रपौत्रीममुष्य]पौत्रीममुष्यपुत्री च वसिष्ठगोत्राद्भवायामुष्य प्रपौत्रायामुष्यपौत्रायामुष्यपुत्रायेत्यादि परिशिष्टोक्तेर्भवत्याश्वलायनपरमिति सिद्धो विवाहे प्रतिलोमक्रम इत। न च
पुत्रायास्य च पौत्राय नप्त्रेऽस्यामुकगोत्रिणे।
इति कारिकोक्तानुलोमक्रमण स बाधित इति वाच्यम्। परिशिष्टस्याषित्वेनाधुनिककृतकारिकया बाधायोगात्।
कात्यायनः।
असकृद्यानि कर्माणि क्रियेरम् कर्मकारिभिः।
प्रतिप्रयोगं(१)75 नैव स्युर्मातरः श्राद्धमेव च।
कर्मावृत्तावपि कुत्र श्राद्धं कार्यं कुत्र नेत्युक्तं तेनैव—
आधाने होमयोश्चैव वैश्वदेवे तथैव च।
बलिकर्मणि दर्शे च पौर्णमासे तथैव च॥
(२)76नवयज्ञे च यज्ञज्ञा वदन्त्येवं मनीषिणः।
एकमेव भवेच्छ्राद्ध मेतेषु न पृथक् पृथक्॥
एतेषु प्रतिप्रयोगं नावर्त्तते, एतद्भिन्ने तु सोमयागादौ प्रतिप्रयोगमावर्त्तत एव। क्वचिदादावपि श्राद्धनिषेधः।
नाष्टकासु भवेच्छ्राद्धं न श्राद्धे श्राद्धमिष्यते।
न सोष्यन्तीजातकर्मप्रोषितागतकर्मसु।
विवाहादिः कर्मगणो य उक्तो
गर्भाधानं शुश्रूमो यस्य चान्ते।
विवाहादावेकमेवात्र कुर्यात्
छ्राद्धं नादौ कर्मणः कर्मणः स्यात्॥
प्रदोषे श्राद्धमेकं स्यात् गोनिष्कमप्रवेशयोः।
न श्राद्धं युज्यते कर्त्तुं प्रथमे पुष्टिकर्माणि॥
हलाभियोगादिषु तु षट्त्सु कर्म पृथक् पृथक्।
प्रतिप्रयोगमन्येषामादामेकं तु कारयेत्।
बृहत्पत्रक्षुद्रपशुस्वस्त्यर्थं परिविष्यतोः।
सुर्येन्द्वो कर्मणी ये तु तयोः श्राद्धं न विद्यते॥
न दशाग्रन्थिके नैव विषवद्दष्टकर्माणि।
कृमिदष्टचिकित्सायां नैव शेषेषु विद्यते
गणशः क्रियमाणेषु मातृभ्यः पूजन सकृत्॥
सकृदेव भवेच्छ्राद्धमादौ न पृथगादिषु।
यत्र यत्र भवेच्छ्राद्धं तत्र तत्र तु मातरः॥
असकृदिति=प्रतिदिनं प्रतिमासं प्रतिसंवत्सरं च यानि क्रियन्ते वैश्वदेवबलिकर्मदर्शपूर्णमासश्रावण्यादीनि तेषु प्रथमप्रयोग एव श्राद्धं मातृपूजा च, प्रत्यब्दं येन पशुयागादि क्रियते तेनापि प्रथमप्रयोग एव श्राद्धं कार्ये। आधाने च “वसन्ते ब्राह्मणोऽग्नीनादधीत” इत्यादिनोक्ते। होमयोः=सायंप्रातर्होमयोः। सोष्यन्त्या आसन्नप्रसवायाः बध्वाः सुखप्रसवार्थं सोष्यन्तीमभ्युक्ष्येत्यादिना होमादिकर्मोक्तं गोभिलेन तत्र, तथा व्रीहियवपिष्टेन कुमारजिह्वामार्जनाख्ये जातकर्मणि, तथा प्रोषतागतकर्माणि=प्रवासादेत्य “प्रोष्यैत्य गृहानुपतिष्ठते” “पुत्रं दृष्ट्वा जपती"त्यादिके कुमारमुर्द्धाभिघ्राणादिके च गोभिलोक्ते, न भवतीत्यर्थः। विवाहादिरिति=(१)77समनीयचरुहोमगृहप्रवेशयानारोहणचतुष्पथामन्त्रणाक्षभङ्गसमाधानार्थहोमचतुर्थीहोमानामादिशब्देन ग्रहणं, एषु विवाहादिगर्भाधानान्तकर्मसु सकृदेव श्राद्धं कार्यम्। प्रदोष इति। गोनिःसरणप्रवेशन-कर्मणोर्गोभिलोक्तयोरुभयतन्त्रेणैकं श्राद्धम्। तथा गवां पुष्टिकर्मत्रये गोभिलोक्ते प्रथमे पुष्टिकर्मणि, श्राद्धं न कर्त्तव्यम्। हलाभियोगादिषु=हलस्याभिमुखेन योगः। पक्वेषु धान्येषु सीतायज्ञः, कृष्टक्षेत्रमध्ये खलयज्ञः, प्रवपनं, प्रस्रवणं, धान्यच्छेदनं, पर्याणं धान्यानां गृहगमनं, पषु हलाभियोगादिषट्त्सु कर्मसु एकैककर्मणि पृथक् पृथक् प्रतिप्रयोगं श्राद्धं कार्यम्। अन्येषां श्रावणीकर्मादीनामादावेकं श्राद्धं कार्यम्। बृहत्पत्रेति=वृहत्पत्रं=हस्त्यश्वादिः॥क्षुद्रपशवः=अजाव्यादयः, तेषां स्वस्त्यर्थम्। परिविष्यतोः=परिविष्यमाणयोः सूर्येन्द्वोर्ये कर्मणी गो-
भिलप्रोक्ते तयोः श्राद्धं न कार्यम्। यथा गोभिलः।
वृक्ष द्रवेति पञ्चर्व इति प्रकृते द्वितीयया आदित्ये परिविष्यमाणे अक्षततण्डुलान् जुहुयात्, बृहत्पत्रस्वस्त्ययनकामः तृतीयया चन्द्रमसमिति तण्डुलान्क्षुद्रपशुस्वस्त्ययनकाम इति।
न दशाग्रन्थिक इति=प्रतिभये ध्वनि वस्त्रदशायां ग्रन्थीन्वयादुपेत्य वसनवतः स्वाहाकारान्ताभिर्माभैषीर्न मरिष्यसीति, विषवता दष्टमाद्भिरभ्युक्षयेत् हतस्तु अत्रिणा कृमिरिति कृमिमन्तं देशमद्भिरभ्युक्षयेदिति गोभिलोक्तकर्मत्रये। नैव शेषष्विति। अर्हणीयऋत्विगादीनां पाद्यार्घविष्टरमधुपर्कदानादिषु श्राद्ध नास्ति। गणश इति। यथा यजनीयेऽहनि नवयज्ञवास्तुमनोयशाश्च यज्ञेषु समुदायेन क्रियमाणेषु मातृपूजा श्राद्ध व सकृदेव गणादौ न कर्मानुसारेणेति शूलपाणिः। प्रयोगपारिजाते तु गणश इत्यस्य व्याख्या एवं कृता, देशान्तरगतस्य चिरकालादश्रुयमाणसद्भावस्य मृत इति बुध्या पुत्रादिना कृतौर्द्धदेहिकस्य पुनरागतस्य यानि पुनर्जातकर्मादीनि संस्कारकर्माणि क्रियन्ते। तथोपनयनात्प्राकू स्वस्वकाले कथञ्चितकृतचौलपर्यन्तसंस्कारस्य यानि जातकर्मादीनि उपनयनकाले सम्भूय क्रियन्ते तेषु गणशः सम्भूय क्रियमाणेषु जातिकर्मादिसंस्कारेषु मात्रादिपूजायां नान्दीश्राद्धस्य च सकृत्तन्त्रेण प्रथमं क्रियमाणस्य संस्कारकर्मण आदौ अनुष्ठानं न पृथगादिषु नावृत्त्या संस्कारकर्मणामादिष्विति। अङ्गवङ्गकलिङ्गेषु तीर्थयात्रां विना गमने कर्मनाशाजलस्पर्शादौ च प्रायश्चित्ततया पुनः संस्काराणां युगपदनुष्ठानम्। आदौ मातृपूजा श्राद्धं च सकृदेवेत्यपरे। यत्र यत्रेति। श्राद्धनिषेधोऽष्टकार्दौ तत्र मातृपूजानिषेधोऽपीति वचनार्थः। अत्र साग्निरनग्निर्वा वैश्वदेवमादौ कुर्यात्। उक्तं च—
स्मृतिसङ्ग्रहे।
वृद्धावादौ क्षये चान्ते दर्शे मध्ये महालये।
आचान्तेषु च कर्त्तव्यं वैश्वदेवं चतुर्विधम्॥
इति वचनात् ये वा भद्रं दूषयन्ति स्वधाभिरिति कथञ्चिल्लिङ्गदर्शनादपि वृद्धिश्राद्धोत्तरं वैश्वदेवनिषेधात्। शिष्टा अपि बहवो वैश्वदेवं चतुर्विधमिति वचनात्कृत्वाभ्युदयिकमनुतिष्ठन्तीति। तदाचारदर्शनाच्छ्राद्धात्पूर्वमेव कर्त्तव्यमिति।
हेमाद्रौ तु।
शेषमन्नमनुज्ञाप्य वैश्वदेवक्रियां ततः।
श्राद्धाह्नि श्राद्धशेषेण वैश्वदेवं समाचरेत्॥
इति वृद्धिश्राद्धप्रयोगे लिखितचतुर्विंशतिवचनाच्छ्राद्धान्ते कर्तव्यता यद्यपि प्रतीयते तथाप्यत्र वाक्ये श्राद्धाह्नीति सामान्येन श्राद्धग्रहणात्प्रकृतिभूत एव श्राद्धे वैश्वदेवस्यान्ते कर्त्तव्यता न वृद्ध्यादौ।
ननु वृद्धिश्राद्धेऽपि विकृतिरूपत्वेन प्राकृतेतिकर्त्तव्यतातिदेशादपि वैश्वदेवस्यान्ते कर्त्तव्यता प्राप्तिरपि पुनः पृष्ठलग्नैवेति चेव। सत्यम्। यद्यत्र वृद्धावादाविति वचनं न स्यात्। तेनोपदेशप्राबल्यादप्यादावेव स इति। अत्रार्थे शिष्टाचारोऽप्यनुसन्धेय इति। वृद्धिश्राद्धे च तदङ्गतिलतर्पणं न कर्त्तव्यमेव।
वृद्धिश्राद्धे सपिण्डे च प्रेतश्राद्ध च मासिके॥
संवत्सरविमोके च न कुर्यात् तिलतर्पणम्।
इति बृहन्नारदीये निषेधात्। नान्दीश्राद्धे ब्राह्मणाभाव आह—
वृद्धवशिष्ठः।
मातृश्राद्धे तु विप्राणामलाभे पूजयेदपि।
पतिपुत्रान्विता भव्या योषितोऽष्टौ मुदान्विताः॥
इति।
पञ्चब्राह्मणपक्षो भविष्ये।
नान्दीमुखान्समुद्दिश्य पितॄन् पञ्चद्विजोत्तमान्।
भोजयेद्विधिवत्प्राज्ञो वृद्धिश्राद्धे प्रदक्षिणम्॥
वृद्धिश्राद्धाकरणे च प्रत्यवायो वृद्धशातातपेनोक्तः।
वृद्धौ न तर्पिता ये वै पितरो गृहमोधीभिः॥
तद्दानमफलं सर्वमासुरो विधिरेव सः॥
इति। इत्याभ्युदयिकम्।
अथ सामान्य कृष्णपक्षश्राद्धम्।
तत्र कात्यायनः।
अपरपक्षे श्राद्धं कुर्वीतोर्ध्वं वा चतुर्थ्याः।
तच्च सकृदेव न तु प्रतितिथ्यावर्त्तते। “अश्वयुक्कृष्णपक्षे तु श्राद्धं कार्यं दिने दिने” इतिवद्वीप्साया अश्रवणात्। वसन्ते ज्योतिष्टोमवत्। तेन प्रतिपदादिदर्शान्तासु तिथिषु मध्ये यस्यां कस्यां चित्तिथौ श्राद्धं कार्यम्। फलविशेषकामनायां तु पञ्चमप्रभृति यस्यां कस्यां चित्, ततोऽपि विशेषकामनायां दशमीप्रभृति, ततोऽपि
विशेषकामनायाममावास्यायाम्। अत एव—
कात्यायनः।
ऊर्द्धं वा चतुर्थ्याः।
मनुरपि।
कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्द्दशीम्।
[ अ ३ श्लो०
५७६ ]
निगमोऽपि।
अपरपक्षे यदहः सम्पद्यते अमावास्यायां विशेषेण।
एवं च निगमवचनैकवाक्यतया मनुकात्यायनोक्तावपि पक्षौ फलविशेषार्थौ, न तु अनुकल्पभूतौ ज्ञेयौ। एते पक्षाः निरग्निकविषयाः। साग्निकस्य तु अमावास्यामेव “न दर्शेन विना श्राद्धमाहिताग्नेर्द्विजन्मन” इति मनुवचनात्। तदा चामावास्याश्राद्धस्य तस्य च तन्त्रेण सिद्धिः। प्रतिपदादिपक्षेषु चतुर्दशीवर्जनं नन्दादिवर्जनं च [न]कार्यम्।
नभस्यस्यापरे पक्षे श्राद्धं कार्यं दिने दिने।
नैव नन्दादि वर्ज्यं स्यान्नैव वर्ज्या चतुर्दशी॥
इति भाद्रपदापरपक्षे तद्वर्जन विषेधात्, ( १ )78अन्यत्र तद्वर्जनप्रतीतेः॥ नन्दादिकं च—
नारदसंहितायाम्।
न नन्दासु भृगोर्वारे रोहिण्यां च त्रिजन्मसु।
रेवयां च मघायां च कुर्यादापरपक्षिकम्॥
नन्दा=प्रतिपत्षष्ठ्येकादश्यः। त्रिजन्मानि= आद्यदशमैकोनविंशानि।
यदपि
भानौ भौमे त्रयोदश्यां नन्दाभृगुमघासु च।
पिण्डदानं मृदा स्नानं न कुर्यात्तिलतर्पणम्॥
इति स्मृत्यन्तरे पिण्डदाननिषेधवचनं तदपि, श्राद्धोपलक्षणार्थम्। इति सामान्यकृष्णपक्षश्राद्धनिर्णयः।
अथ महालयश्राद्धम्।
तत्र शाव्यायनिः।
नभस्यस्यापरे पक्षे तिथिषोडशकस्तु यः।
कन्यागतान्वितश्चेत्स्यात्स कालः श्राद्धकर्माणि॥
अत्र देवता उक्ताश्चतुर्विंशतिमते।
क्षयाहं वर्जयित्वा तु स्त्रीणां नास्ति पृथग्विधिः॥
केचिदिच्छन्ति नारीणां पृथक् श्राद्धं द्विजोत्तमाः।
आचार्यगुरुशिष्येभ्यः सखिज्ञातिभ्य एव च॥
सर्वेभ्यश्च पितृभ्यश्च तत्पत्नीभ्यस्तथैव च।
पिण्डानेभ्यस्सदा दद्यात्पृथक् भाद्रपदे द्विजः॥
अत्र क्षयाहं वर्जयित्वेत्यनेन षड्दैवत्यमुक्तम्। उत्तरार्द्धेन द्वाद दशदैवत्यमुक्तम्। आचार्येत्यादिना सर्वदैवत्यम्। अन्या अपि देवता—
हेमाद्रौ पुराणान्तरे।
उपाध्यायगुरुश्वश्रुपितृव्याचार्यमातुलाः।
श्वशुरभ्रातृतत्पुत्रपुत्रर्त्विक्शिष्यपोषकाः॥
भगिनीस्वामिदुहितृजामातृभगिनीसुताः।
पितरौ पितृपत्नीनां पितुर्मातुश्च या स्वसा।
सखिद्रव्यदशिष्याद्यास्तीर्थे चैव महालये॥ इति।
पितृपत्न्यः=सपत्नमातरः।
धर्मस्तु नवदेवत्यमाह—
महालये गयाश्राद्धे वृद्धौ चान्वष्टकासु च।
नवदेवत्यमत्रेष्टं शेषं षाट्पुरुषं विदुः॥ इति।
पार्वणक्रममाह—
छागलेयः।
क्षयाहे केवलाः कार्याः वृद्धावादौ प्रकीर्तिताः।
सर्वत्रैव तु मध्यस्था नान्त्याः कार्यास्तु मातरः॥
सर्वत्र=महालयादाविति हेमाद्रिः।
सर्वदेवत्यपक्षे पार्वणैकोदिष्टव्यवस्थोक्ता—
जातूकर्ण्येन।
सपिण्डीकरणादूर्ध्वं पित्रोरेव हि पार्वणम्।
पितृव्यभ्रातृमातृृणामेकोहिष्टं सदैव हि॥ इति।
मातरः=सपत्नमातरः।
पित्रोरेव हीति=पितृग्रहणं मातामहस्याप्युपलक्षकम्।
पार्वणैकोद्दिष्टानां पौर्वापर्यमाह—
मरीचिः।
बद्येकत्र भवेयातामेकोद्दिष्टं च पार्वणम्।
पार्वणं त्वभिनिर्विर्त्य एकोद्दिष्टं समापयेत्॥
अत्रान्नपाकस्तन्त्रेण।
महालये गयाश्राद्धे गतासूनां क्षयेऽहनि।
तन्त्रेण श्रपणं कृत्वा श्राद्धं कुर्यात्पृथक् पृथक्॥
इति पुलस्त्योक्तेः।
अत्र विश्वेदेवा धुरिलोचनसंज्ञकाः।
“अपि कन्यागते सूर्ये काम्ये च धुरिलोचनौ” इत्यादिपुराणमत्।
इति भाद्रपदपक्षश्राद्धनिर्णयः।
अस्मिन्पक्षे भरण्यां श्राद्धमुक्तम्।
मात्स्ये—
भरणी पितृपक्षे तु महती परिकीर्त्तिता।
अस्यां येन कृतं श्राद्धं स गयाश्राद्धकद्भवेत्।
इति भरणीश्राद्धम्।
अत्रापरपक्षे त्रयोदश्यां श्राद्धं कार्यम्।
अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः।
प्रावृट्कालेऽसितिपक्षे त्रयोदश्यां समाहितः।
मधुप्लुतेन यः श्राद्धं पायसेन समाचरेत्॥
इति विष्णूक्तेः।
तथा मघास्वपि—
मधुमांसैश्च शाकैश्च पयसा पायसेन च।
एष नो दास्यति श्राद्धं वर्षासु च मघासु च॥
इति बसिष्ठोक्तेः। उभययोगे प्राशस्त्यमुक्तं—
विष्णुधर्मोत्तरे।
मघायुक्ता च तत्रापि शस्ता राजँस्त्रयोदशी।
इति।
प्राच्यास्त्वेतस्मादेव वाक्यात्—
प्रौष्ठपद्यामतीतायां मघायुक्तां त्रयोदशीम्।
प्राप्य श्राद्धं हि कर्त्तव्यं मधुना पायसेन च॥
इति शङ्खवचनाच्च मघायुक्तत्रयोदश्यां श्राद्धमाहुः।
त्रयोदशीश्राद्धं चैकवर्गस्य न कार्यं,
श्राद्ध नैकस्य वर्गस्य त्रयोदश्यामुपक्रमेत्।
न तृप्तास्तत्र ये यस्य प्रजा हिंसन्ति तस्य ते॥
इति कार्ष्णाजिनिवचनात्। एकवर्गस्प=पितृमातृवर्गस्य। किन्तु मातामहवर्गस्यापि कार्यम्। एकवर्गमात्रप्राप्तिश्च भ्रमादाश्वलायनगृ-
ह्याद्वेति ज्ञेयम्।
पितृव्यादीनामपि पार्वणमेव कार्यमित्यन्ये।
एतच्चापिण्डकं कार्यम्।
अयनद्वितीये श्राद्धं विषुवद्वितये तथा।
युगादिषु च सर्वासु पिण्डनिर्वपणाहृते॥
इति पुक्तस्त्योक्तेः,
महालयत्रयोदश्यां पिण्डनिर्वपणं द्विजः।
ससन्तानो नैव कुर्यान्नित्यं ते कवयो विदुः॥
इति बृहत्पराशरोक्तेश्च। अत्र विभागादिपक्षे महालयश्चाद्धं तन्त्रेण तदा सपिण्डमेव, त्रयोदशीश्राद्धे पिण्डपर्युदासस्य कृतत्वात्। केबलत्रयोदशीश्राद्धं त्वपिण्डमेवेति ध्येयम्। एतच्च पुत्रवद्गूद्दस्थव्यतिरिकेन कार्यम्।
“त्रयोदश्यां तु वै धाद्धं न कुर्यात्पुत्रवान्गृही"तिवचनात्।
यस्तु—
कृष्णपक्षे त्रयोदश्यां यः श्राद्धं कुरुते नरः।
पञ्चत्वं तस्य जानीयाज्ज्येष्ठपुत्रस्य निश्चितम्॥
इति ज्योतिर्वृहस्पतिना निषेधः कृतः, स त्रयोदश्यां बहुपुत्रो बहुमित्रो दर्शनीयापत्यो युवमारिणस्तु भवन्ती"ति आपस्तम्बेन त्रयोदशीश्राद्धस्य युवमारित्वदोषोक्तेः काम्यश्राद्धविषय उपसंहर्त्तव्यः, एकवर्गयजनविषयो वा सपिण्डश्राद्धविषयो वा पुत्रवद्गृहस्थकर्तृकश्राद्धविषयो बेति हेमाद्रिः।
अथ शस्त्रहत चतुर्दशीनिर्णयः।
तत्र मरीचिः।
(१)79विषसर्पश्वापदादितिर्यग्ब्राह्मणघातिनाम्।
चतुर्दश्यां क्रियाः कार्या अन्येषां तु विगर्हिता॥ इति।
विषादिभिर्ब्राह्मणान्तैर्घातो येषां ते इति विग्रहः, (ते)न तु तान् ये हन्तीति, विषये [विषादौ] असम्भवात्, “तेषां ये ब्राह्मणैर्हवा” इति। ब्रह्मपुराणाच्च। नागरे—
अपमृत्युर्भवेद्येषां शस्त्रमृत्युरथापि वा।
उपसर्गमृतानां च विषमृत्युमुपेयुषाम्।
वह्निना च प्रदग्धानां जलमृत्युमुवेयुषाम्॥
सर्पव्याघ्रहतानां च शृङ्गैरुद्वन्धनैरपि।
श्राद्धं तेषां प्रकर्त्तव्यं चतुर्दश्यां नराधिप॥
मार्कण्डेय पुराणे—
युवानः पितरो यस्य मृता शस्त्रेण वा हताः।
तेन कार्यं चतुर्दश्यां तेषां तृप्तिमभीप्सता॥ इति।
युवत्वं च षोडशवर्षादूर्ध्वं त्रिंशद्वर्षपर्यन्तमिति श्राद्धकल्पः। यक्षभूतगुह्यादिभिर्मरणमुपसर्गमरणम्।
प्रचेताः —
वृक्षारोहणलोहाद्यैर्विद्युज्ज्वालाविषादिभिः।
नखदंष्ट्रोविपन्नानां तेषां शस्ता चतुर्द्दशी॥
अत्राविधिमृतानामेव चतुर्द्दश्यामिति नियमः। न तु चतुर्द्दश्यामेव तेषामिति, श्राद्धान्तरविलोपप्रङ्गात्
विषसर्पश्वापदादितिर्यक्ब्राह्मणघातिनाम्।
चतुर्दश्यां क्रिया कार्या अन्येषां तु विगर्हिता॥ इति।
मरीचिवचनाक्च। स्त्रीणामपि, उद्देश्यविशेषणस्याविवक्षितत्वादित्युपाध्यायाः। क्वचिद्वैधमरणेऽपि चतुर्दश्यां श्राद्धं कार्यं यथाह—
मनुः।
ज्ञातिश्रेष्ट्यं त्रयोदश्यां चतुर्द्दश्यां तु सुप्रजाः।
प्रीयन्ते पितरस्तस्य ये च शस्त्रहता रणे॥
शस्त्रमुपलक्षणं प्रायश्चित्तानुगमनाद्यर्थानाम्। जलाग्न्यादिभूतेऽपवादमाह—
शाकटायनः।
जलाग्निभ्यां विपन्नानां संन्यासे चागृहे पथि।
श्राद्धं कुर्वीत तेषां वै वर्जयित्वा चतुर्दशीम्॥ इति।
एतच्चैकोद्दिष्टं कार्यम्।
चतुर्दश्यां तु यच्छ्राद्धं सपिण्डीकरणात्परम्।
एकोद्दिष्टविधानेन तत्कार्यं शस्त्रघातिनः॥
इति गार्योक्तेः —
एतच्चाकृतसपिण्डीकरणस्य न भवति सपिण्डीकरणात्पर, मित्युक्तेः एतच्च दैवयुक्तं कार्यं।
प्रेतपक्षे चतुर्द्दश्यामेकोद्दिष्टं विधानतः।
दैवयुक्तं तु यच्छ्राद्धं पितॄणामक्षयं भवेत्॥
इति पारिजातोक्तवचनात्।
शूलपाणिस्तु तत्रापि पार्वणमेवाह— एकोद्दिष्टवाक्यानां निर्मूलत्वात्। अन्ये तु पित्रादीनां पार्वण भ्रात्रादीनामेकोद्दिष्टमित्याहुः। तत्तुच्छम्।
समत्वमागतस्यापि पितुः शस्त्रहतस्य वा।
चतुर्दश्यां तु कर्त्तव्यमेकोद्दिष्टं महालये॥
इति भविष्ये पितुरप्येकोद्दिष्टविधेः।
शस्त्रहतस्य चतुर्दश्यां श्राद्धे कृतेऽपि महालये दिनान्तरे पार्वणमितरतृप्स्यर्थं कार्यमेव, पितरि शस्त्रहते एकमेकोदिष्टं कार्यं, द्वयोः शस्त्रहतयोर्द्वे एकोदिष्टे समानतन्त्रे कार्ये त्रिषु त्रीणि समानतन्त्राणि कार्याणि इति देवस्वामी।
अन्ये तु त्रिषु पार्वणमेव कार्यं।
पित्रादयस्त्रयो यस्य शस्त्रैर्यातास्त्वनुक्रमात्।
स भूते पार्वणं कुर्यात्।
इति बृहत्पराशरोक्तेः।
एकस्मिन्वा द्वयोर्वापि विद्युच्छस्त्रेण वा हते।
एकोद्दिष्टं सुतः कुर्यात्त्रयाणां दर्शवत् भवेत्॥
इति पृथ्वीचन्द्रोदयोदाहृतवचनाच्चेत्याहुः।
चतुर्दश्यामेव शस्त्रादिना मृतस्य पार्वणमेकोद्दिष्टं वा यथाचारं कार्यम्, यस्तु चतुर्दश्यां पार्वणनिषेधः स तन्निमित्तस्यैव न क्षयाइनिमितस्येति तदा चतुर्द्दशीनिमित्तकमेकोद्दिष्ट ‘पृथग्वा कार्यम्। चतुर्द्दश्यां विध्नेनैकोद्दिष्टासम्भवे तत्पक्षे दिनान्तरे पार्वण कार्यमित्युक्तं हेमाद्रौ। इति चतुर्दशीश्राद्धम्।
आश्विनशुक्लप्रतिपदि मातामहश्राद्धमुकं—
हेमाद्रौ।
जातमात्रोऽपि दौहित्रो विद्यमानेऽपि मातुले।
कुर्यान्मातामहश्राद्ध प्रतिपद्याश्विनेऽसिते॥
इति।
एतच्च जीवत्पितृकेण कार्यं सपिण्डञ्चेति दाक्षिणात्याचारः, सर्वैः कार्यमविशेषवचनादिति तु युक्तं, दाक्षिणात्यभिन्नशिष्टाचाराच्च।
इति दौहित्रकर्तृकश्राद्धम्।
अथ नित्यश्राद्धम्।
क्रौर्मे।
एकं तु भोजयेद् विप्रं पितृृनुद्दिश्य सत्तमम्।
नित्यश्राद्धं तुतहिष्टं पितृयज्ञो गतिप्रदः॥
अशक्तं प्रत्याह—
मनुः।
कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा।
पयोमूलफलैर्वापि-इति। [ अ० ३ इलो० ८२ ]
क्रौर्मे।
उद्धृत्य वा यथाशक्ति किञ्चिदन्नं समाहितः।
वेदतत्वार्थविदुषे द्विजायैवोपपादयेत्॥
अहरहः कर्त्तुमसार्थ्य आह—
देवलः।
अनेन विधिना श्राद्धं कुर्यात्संवत्सरं द्विजः।
द्विश्चतुर्वा यथाश्राद्धं मासे मासे दिने [दिने]॥
सवत्सरे-तममध्ये द्विः=षद्सु षट्सु मासेषु, चतुः=मासत्रये मासत्रये। अत्र विशेषमाह—
हारीतः।
नित्यश्राद्धमनर्ध्यं स्यात्।
अनर्ध्यं=पिण्डादिवर्जितम्।
प्रचेताः।
नामन्त्रणं न होमं च नाह्वानं न विसर्जनम्।
भविष्योत्तरे—
आवाहनस्वधाकारपिण्डाग्नौकरणादिकम्।
ब्रह्मचर्यादिनियमो विश्वेदेवास्तथैव च॥
नित्यश्राद्धे त्यजेदेतदिति, तत्रैव—
प्रदद्याद्दक्षिणां शक्त्या नमस्कारैर्विसर्जयेत् इति। यत्तु न विसर्जनमित्युक्तं तद् “वाजे वाज” इति मन्त्रेण।
इति नित्यश्राद्धम्।
[ अथ सांवत्सरिकश्राद्धम्। ]
तन्नित्यम्।
प्रतिसंवत्सरं कार्यं मातापित्रोर्मृतेऽहनि।
पितृव्यस्याप्यपुत्रस्य भ्रातुर्ज्येष्ठस्य चैव हि॥
इति ब्रह्माण्डपुराणोक्तेः। अत्र प्रतिसंवत्सरमिति वीप्सार्थकप्रतिपदोपादानान्नित्यत्वम्। भ्रातुर्ज्येष्ठस्येति=अत्र ज्येष्ठग्रहणात्कनिष्ठस्यानावश्यकम्। अत एव—
न पुत्रस्य पिता कुर्यान्नानुजस्य तथाग्रजः।
अपि स्नेहेन कुर्यातां सपिण्डीकरण विना॥
इति सपिण्डीकरणातिरिक्ते श्राद्धे सति स्नेहेऽधिकार उक्तः।
लौगाक्षिरपि।
श्राद्धं कुर्यादवश्यं हि प्रमीतपितृकः स्वयम्।
इन्दुक्षये मासि मासि वृद्धौ प्रत्यक्षमेव च॥
इति।
स्वयमिति=सति सामर्थ्ये। असामर्थ्ये तु प्रतिनिधिनापि कार्यम्।
असावेतत्त इति यजमानस्य पित्रे ऋत्विगादिः पिण्डान् दद्यादिति स्मृतेः।
केचित्तु प्रतिनिधिविधानमिन्दुक्षयादिव्यतिरिक्तश्राद्धपरम् इह स्वयमित्युपादानादित्याहुः।
अत्र च पार्वणैकोद्दिष्टविधायकानि परस्परविरुद्धानि बहूनि वाक्यानि दृश्यन्ते तत्रैकोद्दिष्टविधायकानि तावल्लिख्यन्ते।
यमः।
सपिण्डीकरणादूर्ध्वं प्रतिसंवत्सरं सुतः।
एकोद्दिष्टं प्रकुर्वीत पित्रोरन्यत्र पार्वणम्॥
गार्ग्यः।
कृतेऽपि हि सपिण्डत्वे गणसामान्यतां गते।
प्रतिसंवत्सरं श्राद्धमेकोद्दिष्टं विधीयते॥
लौगाक्षिरपि।
सपिण्डीकरणात्पूर्वमेकोद्दिष्टं सुतः पितुः।
ऊर्ध्वं च पार्वणं कुर्यात्प्रत्यब्दमितरेण तु॥
इतरेण=एकोद्दिष्टेन। प्रत्यब्दमितरेणेति=प्रत्यब्दं विनेत्यर्थ इति केचित्।
एकोद्दिष्टं परित्यज्य पार्वणं कुरुते यदि।
अकृतं तद्विजानीयात्स मातृपितृघातकः॥
इति यमेन पार्वणे दोषमभिधायैकोद्दिष्ट विहितम्।
व्यासः।
सपिण्डीकरणादूर्ध्वं यत्र यत्र प्रदीयते।
तत्र तत्र त्रयं कार्यं वर्जयित्वा मृतेऽहनि॥
प्रतिसंवत्सरं यत्र मातापित्रोः प्रदीयते।
अदैवं भोजयेच्छ्राद्धं पिण्डमेकं च निर्वपेत्॥
इत्येवमादीनि।
तथा पार्वणविधायकानि।
जमदग्निः।
आपाद्य सहपिण्डत्वमौरसो विधिवत्सुतः।
कुर्वीत दर्शवच्छ्राद्धं मातापित्रोर्मृतेऽहनि॥
शातातपः।
सपिण्डीकरणं कृत्वा कुर्यात्पार्वणवत्सदा।
प्रतिसंवत्सरं विद्वाञ्छागलेयोदितो विधिः॥
इत्यादीनि।
एवं संशये केचिदाहुः।
औरसक्षेत्रजौ पुत्रौ विधिना पार्वणेन तु।
प्रत्यब्दमितरे कुर्युरेकोद्दिष्टं सुता दश॥ इति।
तथा—
यत्र यत्र प्रदातव्यं सपिण्डीकरणात्परम्।
पार्वणेन विधानेन देयमग्निमता सदा॥
इति जाबालिमत्स्यपुराणवाक्याभ्यां साग्न्योरौरसक्षेत्रजयोः पार्वणमितरेषामेकोद्दिष्टमिति व्यवस्थेति। न च सदेत्युपादनात्साग्निकयोर्नित्यं निरग्निकयोरौरसक्षेत्रजयोः पाक्षिकं पार्वणं, न तु नियमेनैकोद्दिष्टमिति वाच्यम्। एवं सति विधेर्वैषम्यं स्यात्, एक एव विधिः साग्निकयोर्नित्यवत्पार्वणंविदध्यान्निरग्निकयोस्तु पाक्षिकमिति। किञ्च यदि प्रत्यब्दपुरस्कारेण पार्वणविधिः स्यात्तदा विसेर्ध्वो[ विरुद्धो ] भयदर्शनेन पार्वणस्यानियमतः प्राप्ताविदं नियमार्थं स्यात् न च तदस्ति।
न च—
ये सपिण्डीकृताः प्रेता न तेषां तु पृथक्क्रिया।
यस्तु कुर्यात्पृथक् पिण्डं पितृहा सोऽभिजायते॥ इति।
तथा।
पार्वणेन विधानेन सांवत्सरिकमिष्यते।
प्रतिसंवत्सरं कार्यं विधिरेष सनातनः॥ इति।
तथा।
सपिण्डीकरणं कृत्वा कुर्यात्पार्वणवत्सदा।
प्रतिसंवत्सरं विद्वानित्येवं मनुरब्रवीत्॥
इति कूर्मपुराणशातातपभविष्यत्पुराणवाक्येषु प्रतिसंवत्सरपदसत्वात्कथं न वार्षिकपुरस्कारेण पार्वणविधिरिति वाच्यम्। नाह्यत्र प्रतिसंवत्सरपदेन क्षयाहश्राद्धमुच्यते, किन्तु संवत्सरं क्रियमाणं युगमन्वाद्यपि, तथा च पार्वणविधिस्तत्रैव सावकाश इति न क्षयाहमास्कन्दति। या त्वेकोद्दिष्टनिन्दा, सापि साग्निकौरसक्षेत्रजविषया, तेषां पार्वणविधानात् तस्मात्साग्न्योरौरसक्षेत्रजयोः पार्वणमन्येषामेको-द्दिष्टम्। तत्रापि पुत्रिकापुत्रस्यौरससमत्वात्तस्यापि साग्नेः पार्वणमिति। न च बृहन्नारदीये “विप्रः क्षयाहपूर्वेद्यु"रित्युपक्रम्य “अग्न्यभावे तु विप्रस्य पाणौ होमो विघीयत” इत्यनेन निरग्नीनां पाणिरूपविशेषाभिधानेन निरग्नीनामपि क्षयाहे पार्वणविधिः कल्यतामिति वाच्यम्। साग्निं प्रत्यपि प्रत्यक्षाग्न्यभावदशायामेतद्विध्युपपत्तेः। अत्र हि विच्छिन्नाग्निरेवाग्न्यभाववानुक्तस्तस्य चाग्निविच्छेददशायामप्यस्त्येव। आधानजन्यसंस्कारवत्वादाहिताग्नित्वम्। एवं—
बह्वग्नयस्तु ये विप्रा ये चैकाग्नय एव च।
तेषां सपिण्डनादूर्ध्वमेकोद्दिष्टं न पार्वणम्॥
इति भृगुवाक्येऽपि एकाग्निमानित्यनेन विच्छिन्नत्रेताग्निमानर्धाधान्येवाभिहितोऽजस्राग्निर्वेति सोऽप्याहिताग्निरेवेति।
यदपि,
कर्त्तव्यं पार्वणं राजन्नैकोद्दिष्टं कदाचन।
सुबहून्यत्र वाक्यानि मुनिगीतानि वक्षते॥
अल्पानि चैव वाक्यानि एकोद्दिष्टं प्रचक्षते।
तस्माद्वचनसामर्थ्यात्पार्वणं स्यात्मृहनि॥
इति सर्वसाधारणं सुमन्तुवचनं तदपि न्यायोपन्यासेन न श्रुतिमूलकम्। न चात्र दर्शितन्यायस्यावकाशः। यदि हि मनुवाक्यानां
परस्परसंवादेनैव प्रामाण्यं स्यात्तदैतत्कथनं युज्यते, न च तदस्ति, मुनिवाक्यानां स्वतन्त्राणामेव श्रुतिकल्पकत्वादिति। न च तस्यैव वाक्यस्य तर्ह्यप्रमाण्यमापद्यतेति वाच्यम्। तस्य पार्वणविधायक-वाक्यशेषत्वेनापि प्रमाणत्वात्। पतच्च साग्न्यौरसक्षेत्रजपुत्रिकापुत्रै रप्यमावास्याप्रेतपक्षयोरेव क्षयाहे पार्वणं कार्यं।
अमावास्यां क्षयो यस्य प्रेतपक्षेऽथवा भवेत्।
पार्वणं तस्य कर्त्तव्यं नैकोद्दिष्टं कदाचन॥
इति तेनैव पार्वणस्मृतौ विहितत्वात्। न चैवं सति तेषामेतत्कालातिरिक्तकाले श्रद्धाधिकारविध्यभावाच्छ्राद्धमेव कालान्तरे क्षयाहे सति न स्यात् “एकोद्दिष्टं सुता दश” इति वचने एकोद्दिष्टस्य तान्प्रत्येव विहितत्वात्पार्वणस्य चैतत्कालमात्रविषयत्वादिति वाच्यम्। न ह्यत्र कालो नियम्यते, किन्तु अमावास्याक्षयादिरूपे काले साग्न्योरौरसक्षेत्रजयोः पार्वणम्। एवं च तदतिरिक्ते काले
सामान्यविहितमेतेषामप्येकोद्दिष्टमेव पूर्वोदाहृतवाक्यैरेकोद्दिष्टस्य सामान्यतो विहितत्वात्। तस्मात्साग्न्योरौरसक्षेत्रजयोरमावास्यायां प्रेतपक्षे वा मृतस्य पार्वणम्। अन्येषामेतेषामपि च कालान्तरे एकोद्दिष्टमिति।
हेमाद्रिस्तु।
आपाद्य सहपिण्डत्वमौरसो विधिवत्सुतः।
कुर्वीत दर्शवच्छ्राद्धं मातापित्रोः क्षयेऽहनि॥
औरसक्षेत्रजौ पुत्रौ विधिना पार्वणेन तु।
प्रत्यब्दमितरे कुर्युरेकोद्दिष्टं सुता दश।
इत्यादिजमदग्निजावालिवाक्यैरौरसक्षेत्रजयोस्तत्समस्वपुत्रिकापुत्रस्य च पार्वणं तदपि साग्नीनाम्।
न पैतृयज्ञियो होमो लौकिकेऽग्नौ विधीयते।
न दर्शेन विना श्राद्धमाहिताग्नेर्द्विजन्मनः॥
[ मनु० अ० ३ श्लो० २८२ ]
इति मनुवचमेनाहिताग्नेर्दर्शेन विना दर्शोपलक्षितविधिं विना श्राद्धाभावकथनात्।
तथा।
अग्निप्रधानं सर्वेषामनुष्ठानं गृहाश्रमे।
तद्योगात्कृतसामर्थ्यात्सर्वत्राहन्ति पार्वणम्॥
इत्यादिकार्ष्णाजिनिप्रभृतिवाक्यैराहिताग्नेः पार्वणविधानाच्च। निरग्नीनां तु औरसक्षेत्रजपुत्रिकापुत्राणां विकल्पः। औरसानां साग्नीनां निरग्नीनां च " एकोद्दिष्ट सुता दश” इति नियमादेकोद्दिष्टमेव। तदुक्तं—
भबिष्यपुराणेऽपि।
निरग्नेरौरसस्योक्तमेकोद्दिष्ट मृताहनि।
प्रत्यब्दं पार्वणं साग्नेरन्येषां तु न पार्वणम्॥
अन्येषां=इत्तकादीनां दशविधानां न पार्वणं किन्तु एकोद्दिष्टमेवेति। अमावास्याप्रेतपक्षमृतानां तु पार्वणमेव, “अमावास्यां क्षय इत्यत्र वाक्ये “नैकोद्दिष्टं कदाचन” इति वाक्यशेषपर्यालोचनया एकोद्दिष्टस्य निषिद्धत्वात् तत्रापि प्रेतपक्षप्रमीतस्य पितुरेव पार्वणम्। अन्येषामेकोद्दिष्टमेव। तथा च हेमाद्रावेव वचनं।
प्रेतपक्षप्रमीतस्य पितुः कुर्वीत पार्वणम्।
पितृव्यभ्रातृमातृृणामेकोद्दिष्टं न पार्वणम्॥ इत्याह।
मित्ताक्षरामदनरत्नयोस्तु। औरसक्षेत्रजयोः साग्नेर्निरग्नेश्च पार्वणैकोद्दिष्टोभयविधिवाक्यपर्यालोचनया विकल्पः। स च “येनास्य पितरो याता” इत्यादिना वंशसमाचाराव्द्यवस्थितः। इति अमावास्या प्रेतपक्षयोर्मृतस्य।
दण्डग्रहणमात्रेण नैक प्रेतो भवेद्यतिः।
अतः सुतेन कर्त्तव्यं पार्वणं तस्य सर्वदा॥
इति प्रचेतोवचनात् यतेश्च पार्वणमेवेति।
नब्यास्तु “प्रतिसंवत्सरं कार्यं” तथा “आद्धं कुर्यादवश्यं हि प्रमीतपितृकः स्वयम्” इत्यादिवाक्यैः सामान्यतः क्षयाहे श्राद्धमात्रे विहिते तताश्चाकाङ्क्षाशात्सर्वप्रकृतिकस्य पार्वणस्य प्रसक्तौ “प्रतिसंवत्सरं श्राद्धमेकोद्दिष्टं सुतः पितुः” इत्यादिनातिदेशप्राप्तपार्वणबाधपुरःसरमेकोद्दिष्टयोर्विकल्पसिद्धौ “औरसक्षेत्रजौ पुत्रौ विधिना पार्वणेन तु” इत्यस्य, तथा “एकोद्दिष्ट हि कर्त्तव्यमारैसेन मृतेऽहनी”त्यस्य पैंठीनसिवाक्यस्य, तथा साग्निनिरग्निपुरस्कारेण पार्वणैकोद्दिष्टविधायकानां वाक्यानां निरर्थकत्वमापद्येत ततश्च विशेषवाक्यानां निरर्थकत्वभयादेव स्वस्ववाक्योपस्थापिता एव विशेषाः परस्पराविशेषणविशेष्यभावापन्ना एभिर्विधीयन्ते, यथौरसस्य
पार्वणविधायकमेकोद्दिष्टविधायकं च, अग्निमतश्च पार्वणविधायमेव। तथानौरसानामेकोद्दिष्टविधायकमेव। एवं चाग्निमद्वाक्यस्यौरसपुरस्कारेण पार्वणविधायकस्य चैकवाक्यतयाग्निमानौरसः पार्वणं कुर्यादित्यर्थः सम्पद्यते, तथौरसपुरस्कारेणैकोद्दिष्टवाक्यानां निरग्निपुरस्कारेण चैकोद्दिष्टवाक्यानां चैकवाक्यतया निरग्निरौरस एकोद्दिष्टं कुर्यादित्यपरोऽर्थः संपद्यते। दप्तकादीनां तु साग्नीनां चैकोद्दिष्टं सुता दशेति वचनादेकोद्दिष्टमेव, सामान्यप्राप्तविकल्पस्तु अपुत्रमातामहश्राद्धादिषु सावकाश इति न किञ्चिदनुपपन्नमिति। तन्न। “ब्रह्मा[बह्व]ग्नयस्तु ये विप्रा” इत्यादिना निरग्नेरपि पार्वणविधानेन निरग्निरौरसः पार्वणं कुर्यादित्यपि वक्तुं शक्यत्वात्। तस्मादविशेषाद्विकल्प एव न्याय्यः स चैच्छिकः,
प्रमीतपितृकः श्राद्धं पर्वकाले यथाविधि।
मृताहनि यथारुच्या वृद्धावभ्युदयक्रिया॥
इति गार्ग्यवचनात्। अत्र सांवत्सरिकाद्रौ पितृपार्वणस्यैव धर्मातिदेशो न मातामहपार्वणस्य स्वस्यापि विकृतित्वात्, न हि भिक्षुको भिक्षुकान्तरं याचते सत्यन्यस्मिन्नामिक्षुक्र इति न्यायात्। एवं च पितृक्षयाहे पित्रादित्रयाणामेव श्राद्धं मातृक्षयाहे मात्रादित्रयाणामेव पितृश्राद्धस्यैकोद्दिष्टत्वपक्षे तु मातुरप्येकोद्दिष्टमेव कार्यम्।
प्रत्यब्दं यो यथा कुर्यात्पुत्रः पित्रे सदा द्विजः।
तथैव मातुः कर्तव्यं पार्वणं वान्यदेव च॥
इति कात्यायनवचनात्। अपुत्राणां मातामहादीनां पार्वणमेकोद्दिष्टं वा कार्यम्।
पितृव्यभ्रातृमातृृणामपुत्राणां तथैव च।
मातामहस्यापुत्रस्य श्राद्धादि पितृवद्भवेत्॥
इतिजातूकर्ण्योक्तेः। मातामहपदं मातामह्या अप्युपलक्षणं दौहित्रत्वेनाधिकारवाक्येऽधिकार्युक्तेः।
यत्तु—
सपिण्डीकरणादूर्ध्वं पित्रोरेव तु पार्वणम् \।
पितृव्यभ्रातृमातृृणामेकोद्दिष्टं सदैव हि॥
इति पितृव्यादीनामेकोद्दिष्टविधानं तत्कर्त्रपेक्षया कनिष्ठपितृव्यादिविषयम्।
पितृव्यभ्रातृमातृृणां ज्येष्ठानां पार्वणं भवेत्।
एकोद्दिष्टं कनिष्ठानां दम्पत्योः पार्वणं मिथः॥
इति चतुर्विंश [न्मतोक्तेः।] मातुलादिश्राद्धं तु एकोद्दिष्टमेव।
मातुःसहोदरो यश्च पितुः सहभवोऽथवा।
तयोश्चैव न कुर्वीत पार्वणं पिण्डनादृते।
यश्च मन्त्रप्रदाता स्याद्यश्च विद्यां प्रयच्छति।
गुरुणामपि कुर्वीत तयोर्नैव तु पार्वणम्।
सपिण्डीकरणादूर्ध्वं यत्र यत्र प्रदीयते॥
श्राद्धं भगिन्यै पुत्राय स्वामिने मातुलाय च।
मित्राय गुरबे श्राद्धमेकोद्दिष्टं न पार्वणम्॥
इति वृद्धगर्गसुमन्तुवसिष्ठवचनेभ्यः। दम्पत्योस्तु परस्परं पार्वणमेव, पूर्वोदाहृतचतुर्विंशन्मतात्। “भर्तृपत्न्योश्चेव"मिति स्मृत्यर्थसारोक्तेः सपत्न्योरपि परस्परं पार्वणम्। तत्र स्त्रीकर्तृकामावास्यादिपावणे
विशेषः।
स्वभर्तृप्रभृतित्रिभ्यः स्वपितृभ्यस्तथैव च।
विधवा कारयेच्छ्राद्धम्–इतिवचनात् भर्तृतत्पितृपितामहानां स्वपित्रादीनां त्रयाणां श्राद्धमिति। अत्र च—
पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम्।
अविशेषेण कर्त्तव्यं विशेषान्नरकं व्रजेत्॥
इति सामान्यवचनात् क्षयाहे यद्यपि मातामहप्राप्तिस्तथापि—
कर्षूसमन्वितं मुक्त्वा तथाद्यं श्राद्धषोडशम्।
प्रत्याब्दिकं च शेषेषु पिण्डाः स्युः षडितिस्थितिः॥
इति कात्यायनेन षट्पिण्डश्राद्धे प्रत्याब्दिकपर्युदासाद्वाध्यते। “पितुर्गतस्य देवत्वमौरस्य त्रिपूरुषम्” इति पारस्करेण त्रिपुरुषश्राद्धविधानात् त्रिपुरुषत्वविधेः षट्पुरुषतानिवृत्यर्थत्वाच्च। देवत्व गतस्य=सपिण्डीकरणेन पितृत्वं प्राप्तस्य। संग्रहकारस्तु क्षयाहे मातामहान्साक्षान्निषेधति। तथा हि।
याज्ञवल्क्येन कालस्तु अमावास्यादि नोदितः।
अविशेषण पित्र्यस्य तथा मातामहस्य च॥
युगपच्च सति ज्ञेयो वाचनाद्वक्ष्यमाणकात्।
कालभेदेन तन्त्रं स्याद् देशभेदो न चैव हि॥
तस्मात्तन्त्रविधानाच्च यौगपद्यं प्रतीयते।
अमावास्यादिकालेषु तद्ज्ञेयं न मृतेऽहनि।
अमावास्यादिकालेषु कालैकत्वात्सहक्रिया।
मृताहनि तु तद्भेदान्न युज्येत सहक्रिया॥ इति।
अत्र न्यायप्रदर्शन यथा तथास्तु “न तद्ज्ञेयं मृतेऽहनी” इति तु स्पष्टो मातामहनिषेधः। त्रिपुरुषत्वविधानादेव च “स्वेन भर्त्रा समं श्राद्धं सा भुङ्क्ते” इति वचनप्राप्तसपत्नीकत्वस्यापि निवृत्तिः, त्रिपुरुषाति,
रिक्तदेवतामात्रव्यावृशत्यर्थत्वात्तस्य। क्रमेण मृतयोर्मातापित्रोर्दैवात्क्षयाहैक्ये तन्त्रेण पाक कृत्वा मरणक्रमेण श्राद्धं कुर्यात्, निमित्तक्रमस्य नैमित्तिकक्रमनियामकत्वात्। क्रमाज्ञाने तु पूर्वं पितुस्ततो मातुः,
पित्रोः श्राद्ध सम प्राप्ते नवे पर्युषिते तथा।
पितुः पूर्वं सुतः कुर्यादन्यत्रासत्तियोगतः॥
इति कर्ष्णाजिनवचनात्। अन्यत्र=पितृमात्रतिरिक्तस्थले। आसत्तिः=सम्बन्धः, सन्निष्कृष्टस्य पूर्वं, ततो विप्रकृष्टस्येत्यर्थः। तथा च—
ऋष्यशृङ्गः।
भवेद्यदि सपिण्डानां युगपन्मरणं तदा।
सम्बन्धासत्तिमालोच्य तत्क्रमाच्छ्राद्धमाचरेत्॥
इति।
यत्तु नैकः श्राद्धद्वयं कुर्यात्समानेऽहनि कुत्रचित्” इति प्रचेतोवचनं तन्निमित्तदैवतैक्ये ज्ञेयम्। तथा च—
जाबालिः।
श्राद्धं कृत्वा तु तस्यैव पुनः श्राद्धं न तद्दिने।
नैमित्तिकं तु कर्त्तव्यं निमित्तानुक्रमोदितम्॥
इति।
अन्वारोहणे तु विशेषः तथा च—
लौगाक्षिः
मृताहनि समासेन पिण्डनिर्वपणं पृथक्
नवश्राद्धं च दम्पत्योरन्वारोहण एव तु॥
इति।
अत्र पृथङ् नवश्राद्धमित्यन्वयः, चस्त्वर्थे। समासेन=संक्षेपेण। द्विपितृकश्राद्ध इवोभयोद्देशेनैकः पिण्डो देयः। नवश्राद्धे तु भेदेनेत्यर्थः। यत्तु—
या समारोहणं कुर्याद्भर्त्तुश्चित्यां पतिव्रता।
तां मृताहनि सम्प्राप्ते पृथग्पिण्डे नियोजयेत्॥
प्रत्यब्दं च नवश्राद्धं युगपत्तु समापयेत्॥
इति, तद्येषां दत्तकादीनामेकोद्दिष्टमुक्तं तद्विषयम्। अनेकमातृ-
भिरेकचित्त्यारोहणे तु प्रथमं पितुः ततः स्वजनन्याः ततः सपत्नमातुः प्रत्यासत्तेः।
केचित्तु मृताहश्राद्धं नवश्राद्धं च पित्रोः समासेन समानतन्त्रेण कार्यं पिण्डनिर्वपणं तु पृथक्।
पूर्वोदाहृतवचनादित्याहुः। इति सांवत्सरिकनिर्णयः।
अथ श्राद्धभेदाः।
विश्वामित्रः।
नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं सपिण्डनम्।
पार्वणं चेति विज्ञेयं गोष्ठ्यां शुध्यर्थमष्टमम्॥
कर्माङ्गं नवमं प्रोक्तं दैविकं दशम स्मृतम्।
यात्रास्वेकादशं प्रोक्तं पुष्ट्यर्थं द्वादशं स्मृतम्॥
तत्र नित्यं नैमित्तिकं चाह—
कात्यायनः।
अहन्यहनि यत्प्रोक्तं तन्नित्यमिति कीर्त्तितम्।
एकोद्दिष्टं तु यच्छ्राद्धं तन्नैमित्तिकमुच्यते॥
तदप्यदैवं कर्त्तव्यमयुग्मानाशयेत् द्विजान्॥
अत्र चैवं “नैमित्तिके कामकालौ” इत्येतद्वचनादेकोद्दिष्टेऽपि तयोः प्राप्तौ “अदैव” मितिवचनाच्च विकल्पः। स च शाखाभेदेन व्यवस्थितः। न च क्वापि शाखायामेकोद्दिष्टे दैवविधानं नास्तीति वाच्यम्। आश्वलायनेन नवश्राद्धेषु दैवविधानात्। काम्यमुक्तं—
वसिष्ठेन।
अभिप्रेतार्थसिध्यर्थं काम्यं पार्वणवत्स्मृतम्।
वृद्धिश्राद्धमुक्तंतेनैव—
पुत्रजन्मविवाहादौ वृद्धिश्राद्धं प्रकीर्तितम्॥
सपिण्डीकरणमपि तेनैव—
नवानीहार्द्यपात्राणि पिण्डश्च परिकीर्त्त्यते।
पितृपात्रेषु पिण्डेषु सपिण्डीकरणं तु तत्॥
पार्वणलक्षणमपि तेनैव—
प्रतिपर्व भवेद्यस्मात्प्रोच्यते पार्वणं तु तत्।
पर्व=अमावास्या, संक्रान्त्याद्यपि—
चतुर्द्दश्यष्टमी कृष्णा [त्व]मावास्याथ पूर्णिमा।
पर्वाण्येतानि राजेन्द्र रविसंक्रमणं तथा॥
इति विष्णुपुराणात्। अत एव भविष्यत्पुराणे द्विविधा पार्वणपदनिरुक्तिः —
अमावास्यां यत्क्रियते तत्पार्वणमुदाहृतम्।
क्रियते पर्वणि च यत्तत्पार्वणमुदाहृतम्॥ इति।
युगादिश्राद्धेषु तत्पदप्रवृत्तिस्तद्धर्मकत्वात्।
गोष्ठ्यां यत्क्रियते श्राद्धं गोष्ठीश्राद्धं तदुच्यते।
बहूनां विदुषां सम्पत्सुखार्थ पितृतृप्तये॥
बहूनां विदुषाङ्गोष्ठ्यां समुदाये तीर्थयात्रादौ युगपत्कर्त्तव्यतया प्राप्तं श्राद्धं पृथक्पाकाद्यसम्भवेन प्रत्येकं कर्त्तुमसामर्थ्ये सम्भूय सामग्रीसम्पादने यत्सुखं तदर्थं तल्लिप्सया यन्मिलितैः क्रियते तद्गोष्टी-श्राद्धमिति शङ्खधरकल्पतरुप्रभृतयः —
केचित्तु श्राद्धस्य गोष्ठ्यां वार्तायां क्रियमाणायां तज्जनितोत्साहेन यत्क्रियते श्राद्धं तद्गोष्टीश्राद्धमित्याहुः।
शुध्यर्थमिति तत्प्रोक्तं श्राद्ध पार्वणवत्कृतम्।
यथा प्रायश्चित्ताङ्गविष्णुश्राद्धादि। कर्माङ्गादीनां लक्षणमुक्तं भविष्यत्पुराणे।
निषेककाले सोमे च सीमन्तोन्नयने तथा।
ज्ञेयं पुंसवने चैव श्राद्ध कर्माङ्गमेव च॥
पतच्च निषेकादिग्रहणं सकलश्रौतस्मार्त्तकर्मोपलक्षणार्थम्।
“नानिष्ट्वा तु पितृृन्श्राद्धे कर्म वैदिकमाचरेत्” इतिशातातपवचनात्।
“इष्टापूर्त्तादिकं श्राद्धं वृद्धिश्राद्धवदाचरेत्” इति भविष्यत्पुराणाच्च।
देवानुद्दिश्य यच्छ्राद्धं तद्दैविकमिहोच्यते।
हविष्येण विशिष्टेन सप्तम्यादिषु यत्नतः॥
बसिष्ठोऽपि।
देवानुद्दिश्य क्रियते तद्दैविकमिहोच्यते।
तन्नित्यश्राद्धवत्कुर्याद्द्वादश्यादिषु यत्नतः॥
गच्छेद्देशान्तरं यत्तु श्राद्धं कुर्यात्तु सर्पिषा।
यात्रार्थमिति तत्प्रोक्तं प्रवेशे च न संशयः॥
गच्छन्=तीर्थयात्रार्थं देशान्तरं गच्छन्। देशान्तरग्रहणात्समानदेशे यात्राश्राद्धं न भवति। प्रवेशे=पर्यागत्य पुनः स्वगृहप्रवेशे। तथाच,
ब्रह्मपुराणे।
यो यः कश्चित्तीर्थयात्रां तु गच्छेत्
सुसयतः सुमनाः सुसमाहितः।
स पूर्वं स्वगृहे कृतोपवासः
सम्पूजयेद्विधिवद्भक्तिनम्रो गणेशम्॥
देवान्पितृृन्ब्राह्मणांश्चैव साधून्
धीमान्प्रीणन्वित[नेति]शक्त्या प्रयत्नात्।
प्रत्यागतश्चाथ पुनस्तथैव
देवान्पितॄन्ब्राह्मणान्पूजयेच्च॥ इति।
शरीरोपचये श्राद्धमन्नोपचय एव च।
पुष्ट्यर्थमिति तत्प्रोक्तमौपचायिकमुच्यते॥
शरीरोपचये=तन्निमित्ते रसायनादावित्यर्थः।
यत्तु कूर्मपुराणे—
अहन्यहनि नित्यं स्यात्काम्यं नैमित्तिकं पुनः।
एकोद्दिष्टं च विज्ञेयं वृद्धिश्राद्धं च पार्वणम्॥
एतत्पञ्चविधं श्राद्धं मनुना परिकीर्तितम्।
इतिकूर्मपुराणे पञ्चविधत्वप्रतिपादनं तद्गोष्ठ्यादिश्राद्धानां पार्वणैकोद्दिष्टान्तर्भावाश्रयणेन।
मत्स्यपुराणे तु,
नित्यं नैमित्तिकं काम्यं त्रिविधं श्राद्धमुच्यते।
इतित्रैविध्यमुक्तम्। तत्तत्र तत्रान्तर्भावेनैवेति बोध्यम्।
तत्र नित्यान्याह विष्णुः।
अमावास्या तिस्रोऽष्टकास्तिस्रोऽन्वष्टका मघा प्रौष्टपद्यूर्ध्वं कृष्णत्रयोदशी व्रीहियवपाकौ चेति।
एतांस्तु श्राद्धकालान्वै नित्यानाह प्रजापतिः।
श्राद्धमेतेष्वकुर्वाणो नरकं प्रतिपद्यते॥ इति।
नैमित्तिकान्याह—
गालवः।
प्रेतश्राद्धं सपिण्डान्तं संक्रान्तौ ग्रहणेषु च।
संवत्सरोदकुम्भं च वृद्धिश्राद्धं निमित्ततः॥
काम्यानपि स एवाह—
तिथ्यादिषु च यः श्राद्धं मन्वादिषु युगादिषु।
अलभ्येषु च योगेषु तत्काम्यं समुदाहृतम्॥
युगादीनां नित्यतापि समयप्रकाशे वक्ष्यते। तिथ्यादीत्यादिपदेन नक्षत्रयोगादिग्रहणम्। इदं च त्रिविधमपि पार्वणैकोद्दिष्टभेदेन द्विविधम्। तदयमर्थः यत्र द्वादशविधमुक्त्वा नित्यादिपुरस्कारकारेण विधिस्तत्र तदन्तर्गतमेव नित्यादि ग्राह्यम्। एवं यत्र पञ्चविधमुक्त्वा नित्यादिपुरस्कारेण विधिस्तत्र तथा, यत्र विभागमनुक्त्वा त्रैविध्यं चोक्त्वा धर्मविधिस्तत्र कात्यायनविष्ण्वाद्युक्तमिति विवेकः। इति श्राद्धभेदाः।
अथ श्राद्धविकृतिषूहो विचार्यते।
तत्र—
अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः।
भवितव्यं भवद्भिश्च मया च श्राद्धकर्मणि॥
सर्वायासविनिर्मुक्तैः कामक्रोधविवर्जितैः।
भवितव्यं भवद्भिर्नः श्वोभूते श्राद्धकर्मणि॥ इति।
एतौ निमन्त्रणानन्तरं श्राद्धाङ्गभूतनियमश्रावणार्थौ मन्त्रौ, प्रकृतावेकैकस्मिन्निमन्त्रितब्राह्मणे प्रयुज्यमानावेकोद्दिष्टे नोह्यौ, प्रकृतौ बहुवचनस्य समवेतार्थत्वात्। प्रकृतौ सद्यो निमन्त्रणपक्षे व्रीहिमन्त्रस्य यवेष्विव द्वितीयमन्त्रस्य लोपः।
केचित्तु श्वोभूत इति पदद्वयस्यैव लोपो समर्थत्वाच्छेषस्य तु तेन विनापि वाक्यार्थपर्यवसानात्प्रयोगो भवत्येव। अत एवाग्निर्मातस्मादेनसो गार्हपत्यः प्रमुञ्चत्वित्यत्रानाहिताग्निकर्तृकेऽपि पितृयज्ञे गार्हपत्यपदस्यैव लोप इत्याहुः।
विकृतौ तु अद्येत्यूहः। प्रकृतौ सद्यः पक्षे मन्त्राभावस्यार्थिकत्वात्। नचार्थिकं चोदकः प्रतिदिशतीति न्यायात्। अत एव विकृतौ प्रकृतौ यवप्रयोगे लुप्तस्यापि व्रीहिमन्त्रस्योह इत्युक्तमाकरे। दर्भबटुपक्षेऽर्थाभावान्मन्त्रलोपे प्राप्ते—
निधाय वा दर्भबटूनासनेषु समाहितः।
प्रैषानुप्रैषसंयुक्तं विधान प्रतिपादयेत्॥
इति हारीतवचनान्मन्त्रप्रयोगः कर्त्तव्य एव। आसनोपवेशने—
यमः।
आसध्वमिति तान् ब्रूयादासनं संस्पृशन्नपि॥ इति।
अत्रासध्वमिति प्रैषपाठस्यासनसंस्पर्शसमानकालीनत्वादासनानां च भिन्नत्वात्प्रतिव्राझणमावृत्तेर्बहुवचनस्या- समवेतार्थत्वादेको-
द्दिष्टादावनूहः। आवाहन उशन्तस्त्वेति मन्त्रे पितॄन् हविषे अत्तव इत्यत्र पितृपदस्य प्राप्तपितृलोकपरतया प्रकृताविव विकृतावपि समवेतार्थत्वान्मातृमातामहादिश्राद्धेऽनूह। एकोद्दिष्टे तु देवतासभिधानार्थं सत्यप्यावाहने वचनेन मन्त्रलोपान्नोहप्रसङ्ग इति मदनपारिजाते। आबाहनस्यैव लोपा[द]नूह इत्यपरे। अत्तव इत्यस्य ब्राह्मणकर्तृकादन, परतया समवेतार्थत्वादामहिरण्यश्राद्धे स्वकिर्त्तवा इत्यूहो यद्यपि न्यायात्प्राप्नोति तथापि तस्मादृच नोहे[दि]ति निषेधादनूह इति केचित्। तदयुक्तम्। “आवाहने स्वधाकारे मन्त्रा ज[ऊ]ह्या विसर्जने” इति निरवकाशपौराणवचनेन मन्त्रान्तरे सावकाशोहानषेधवचनव! धस्यैव न्याय्यत्वात्। अन्यथा “बाजे बाज” इति विसर्जनमन्त्रेऽपि स न स्यात् तस्माद्ह एव न्याय्यः। “आयन्तु नः पितरः सोम्यासोऽग्निष्यात्ता इत्यत्र नोहः, जपमात्रस्यादृष्टार्थत्वात्। यज्ञपर्ति वर्धानितिवदग्निष्वात्तादिपरतया परविशेषणत्वाच्च। “तिलोऽसीति” मन्त्रस्य प्रतिपात्रे तिलावापकरणत्वादेकस्मिंश्च पात्रे पितृबहुत्वानन्वयेन पितॄनिति बहुवचनस्यासमवेतार्थत्वात्पितृशब्दस्य च संस्कारवचनत्वादेकोद्दिष्टे नोहः। एकपवित्र एकोद्दिष्टे “पवित्रे स्थो बैष्णव्यौ विष्णोर्मनसौ पूते स्थ इति पवित्रच्छेदोन्मार्जनमन्त्रौ [नो] ह्यौ,दर्शपूर्णमा- सापूर्वप्रयुक्तयोर्मन्त्रयोरुपदेशातिदेशाभावेन प्रकृतिश्राद्धार्थत्वाभावेन विकृतावप्राप्तेः। गौड़ैस्तु सामान्यतो दर्शनेन प्रकृत्यर्थं त्वमप्युत्प्रेक्ष्यत इति तदुपेक्षणीयमिति मैथिलाः। तन्न। प्रागुदाहृतप्रचेतोवचनेन श्राद्धेऽपि विहितत्वात्, तस्मादूहः। प्रथमे पात्रे संस्रवात्स मानीय पितृभ्यः स्थानमसीति न्युब्जं पात्रं निदधातीति। अत्रैकोद्दिष्टे पात्रान्तरीय- संस्रवाभावान्न्युब्जीकरणं नास्तीति केचित्। एकस्यापि पात्रस्य न्युब्जीकरणं कार्यं, पितृस्थानार्थत्वाददृष्टार्थत्वाश्चेत्यपरे। अतश्च तन्मते पितृभ्य इत्यत्रैकोद्दिष्टे पित्र इत्यूहः। गन्धादिदाने -
शाठ्यायनः।
एष ते गन्धः, एतत्ते पुष्पम्, एष ते धूपः, एष ते दीपः एतत्त आच्छादनमिति।
अत्र पुष्पादीनां बहुत्वेऽपि एकवचननिर्देशो जात्याख्यायाम्।
इदं वः पुष्पमित्युक्त्वा पुष्पाणि च निवेदयेत्।
इतिब्रह्मपुराणवचनात्। चकारो गन्धाद्युपसङ्ग्रहार्थः।
यत्तु अत्र श्राद्धतत्वे अत एव नवमाध्यायेऽपि सूर्यस्य चक्षुर्गमयतादिति मन्त्रः सूर्यस्य चक्षुर्बहुत्वेऽपि एकवचनान्तपदनिर्देशात्संसर्गिद्रब्याणामन्नतोयतेजसां प्रयोग एकवचनान्तः प्रयोग इति विचारितमितीत्युक्तम् तदविचारितमेव रमणीयं गौड़प्रतारणमात्रमित्युपेक्षणीयम्।
यत्तु कामरूपीये एष वो गन्धः, दइं वः पुष्पमित्यादि ब्राह्मे बहुवचनान्तात्सर्गवाक्यानुरोधाच्छक्यत्वाच्च सर्वेभ्यस्तन्त्रेण गन्धादिदानमङ्गीकृत्यैष ते गन्धः, पतत्ते पुष्पमिति शाट्यायनोक्तैकवचनान्तमन्त्राणामेकोद्दिष्ट उत्कर्ष इत्युक्तम्। तदसत्। प्रातिपदिकस्य समवेतार्थत्वेन प्रकरणबाधायोगात्, पाशाधिकरणन्यायेन विकल्पस्यैवौचिस्यात्, न तु सर्वथात्कर्ष इति।
अन्नौकरणे पाणिहोमे पाणौ करिष्य इत्यूह। “अग्न्यभावे तु विप्रस्य पाणावेव जलेऽपि वा” इति मात्स्येऽग्न्यभावे पाणिविधानात्, पूर्वपक्षे सोमाभाव इव पूतीकानाम् अग्निस्थानापन्नत्वेन पाणेर्विकृतित्वात्।
यत्तु श्राद्धतत्बे हस्तजलयोरपि अग्नौ करिष्ये इत्येव वक्तव्यं पाणेः प्रतिनिधित्वादित्युक्तम्। तदयुक्तम्। साहश्याभावेन प्रतिनिधित्वाभावात्।
अग्यभावे तु विप्रस्य पाणौ वाथ जलेऽपि वा।
अजाकर्णेऽश्वकर्णे वा गोष्ठे वाथ शिवान्तिके॥
इति मात्स्यप्रत्यक्षवचनविरोधाच्च’ अश्वकर्णादीनां प्रतिनिधित्वायोगाच्च। बटुपक्षेऽपि जल इत्याद्यूहः। पृथिवी ते पात्रमिति जपे वटुपक्षे ब्राह्मणस्य मुखे अमृते इत्येतत् पदत्रयस्य लोपः, ब्राह्मणमुखकार्यकारिणोऽन्यस्य बटावसम्भवात् अनूहः पदान्तरस्य, अमृतं जुहोमीत्येतदविकृतमेव, निरधिकरणस्यापि होमस्य सम्भवात्। ब्राह्मणस्य मुख इत्यस्य बटावित्यूहो वा। ब्राह्मणस्याहवनीयार्थत्वात्तत्स्थानापन्नत्वाद्वटोः। अत्र वैष्णव्यर्चा यजुषा वेति प्रसङ्गादृक्जु षोर्लक्षणमभिधाय गीयमानेषु सामसंज्ञेति जैमिनिना समर्थितत्वात्। यच्चान्यदुक्तम्—
निरङ्गुष्ठं च यच्छ्राद्धं बहिर्जानु च यत् कृतम्।
बाहिर्जानु च यद् भुक्तं सर्वं भवति चासुरम्॥
इति यमवचने निरङ्गुष्ठश्राद्धे निन्दाश्रुतेर्ब्राह्मणाभावे तत्प्रतिनिधित्वेन श्राद्धकर्त्रङ्गुष्ठं निवेशयेदिति। तदप्यसत्। “एकैकस्याथ विप्रस्य गृहीत्वाङ्गुष्ठमादरात्” इति ब्रह्मपुराणनिन्दाया ब्राह्मणाङ्गुष्ठाभावविषयत्वात्। अथ ब्राह्मणीयत्वस्याङ्गुष्ठाङ्गत्वादङ्गलोपेऽपि प्रधानलोपस्याम्याय्यत्वात् सन्निधानाद्यजमानाङ्गुष्ठग्रहणं तर्हि बटुपक्षे यावत् किञ्चित् ब्राह्मणाङ्गके व्यापारे जान्वालम्भार्धग्रहण-भोजनादावपि यजमान एव सन्निधानाद्यजमानः किं न प्राप्नुयात्। तस्मादङ्गुलनिवेशनलोपः। नचैवमर्धस्थापि लोपः स्यादिति वाच्यम्। द्रव्यत्यागस्य ब्राह्मणं विनाप्युपपत्तेः, हस्तप्रक्षेपप्रतिपत्तेस्तु दृष्टार्थत्वाद्यत्र क्वापि कर्तुमुचितत्वात्। अन्तर्जानुकरणमपि यत् किञ्चित् कर्तृकं कर्तुरसामर्थ्ये सर्वकार्येषु प्राप्नुयान्निन्दाश्रवणादित्यास्तां तावत्। अश्नत्सु जपस्तु बटुपक्षेऽव्यदृष्टार्थत्वाद् रक्षोघ्नत्वाच्च भवत्येव। मधुव्वातेति मधुमतीजपे मधुद्यौरस्तु नः पितेतिपितृशब्दो द्युविशेषणत्वेनादेवतापरत्वादनुह्यः। तृप्तास्थेति प्रश्ने पङ्किमूर्धन्यप्रश्नपक्षे बहुवचनस्य पूजार्थत्वादेकस्मिन्नप्यविरोधः। सर्वप्रश्नपक्षे एकवचनान्तेनैकस्य द्विवचनान्तेन द्वयोरूहः। तृप्तोऽस्मि, तृप्तौ स्व इति च प्रतिवचनोहः। अवनेजनपिण्डदानयोरसौशब्दप्रयोगान्मात्रादिश्राद्धे मातरित्यादि प्रयोक्तव्यम्। अत्र पितरो मादयध्वम्। मीमदन्त पितरः। नमो वः पितरः। गृहान्नः पितर इत्यत्र पितृशब्दस्य सपिण्डनसंस्कारवचनत्वात्, तन्त्रेण प्रयोगाद्वहुवचनस्य समवेतार्थत्वान्मात्रेकोद्दिष्टे मातर्यपि पितरित्यूहः। इत्थं च प्रयोगः। अत्र पितर्मादयस्व यथाभागमावृषायस्वेति श्रीदत्तादयः। आवृषायथा इति अनिरुद्धगुणविष्णू। अमीमदन् पितः, यथा भागमावृषायिष्ठाः। नमस्ते पितः, रसाय। अघोरः पितास्त्वित्यादि पुल्ँलिङ्गन्तु नोह्यं पुल्ँलिङ्गस्यैव पितृशब्दस्य संस्कारवचनत्वात्। एतद्वः पितरो वास इत्यत्र मैथिलाः पितृपदस्य जनकपुरुषशब्दतया मातृश्राद्धे मात्रादिपदेनोह इत्याहुः। तन्न। अत्र पितर इत्येतन्मत्रस्य पितृशब्दसमानयोगक्षेमत्वादस्य पितृशब्दस्य। श्राद्धविवेकादयोऽप्येवम्। स्वधावाचने तु पितामहादिपदसमभिव्याहारात् पितृशब्दस्य जनकपुरुषवचनत्वात्। बहुवचनस्यादृष्टार्थत्वात् मातृश्राद्धे मातृपदोहः कार्यः।
अत्र शूलपाणिः।
अत एव दैक्षे पशौ एकवचनान्तः पाशमन्त्रो बहुवचनान्तश्च श्रुतः, तत्रैकवचनान्तस्य प्रकृतावर्थवत्वात् द्विपाशिकायां विकृतौ द्विवचनोहः कार्यः बहुवचनान्तस्य तु प्रकृता वनर्थत्वाद्विकृतावपि नोहः, किन्तु बहुवचनान्तस्यैव प्रयोग इत्युक्तं मीमांसायामिति स्वस्य मीमांसाभिज्ञत्वमाविष्कृतवान्। कामरूपीयोऽप्येवं, तद्द्वयोरपि मन्त्रयोर्विकृतावूह इति सिद्धान्तापरिज्ञानविजृम्भितमित्युपेक्षणीयं मीमांसकैः। आमश्राद्धे केषुचिन्मत्रेषु मरीचिनोहः उक्तः। तथा च—
मरीचिः।
आवाहने स्वधाकारे मन्त्रा ऊह्या विसर्जने।
अन्यकर्मण्यनूह्याः स्युरामश्राद्धे विधिः स्मृतः॥
आवाहने=आवाहनमन्त्रे उशन्तस्त्वा निधीमहीति मन्त्रे पितॄन् हविष अत्तव इत्यत्र स्वीकर्तव इत्यूहः। विसर्जने=तम्मन्त्रे वाजे बाजे वतेति मन्त्रे तृप्ता यातेत्यत्र तर्प्स्यतेति। स्वधाकार इति। स्वघा=पित्र्यहविर्दानं तत् करणं स्वधाकारस्तदङ्गभूतमन्त्रे इदमन्न सोपस्करमिति अन्नोत्सर्गमन्त्र इत्यर्थः। अत्रेदमन्नमित्यन्नपदस्थाने इदं धान्यमित्यादिरूपेणोहः कार्यः।
हेमाद्रिस्तु स्वधाकारो=नमो वः पितर इष इति मन्त्रः, तत्रेष इति पदस्थाने आमायेत्यूह इत्याह। तदयुक्तम्। रसशुस्मादिपदवत् इष इति पदस्य फलीभूतान्नप्रतिपादकत्वाभावात्। यद्यपि तस्मादृचं नोहेदिति बचनात् ऋच्यूहो निषिद्धस्तथापि वचनादुक्तास्वृक्षु भवत्येवोहः। निषेधस्यान्यास्वृक्षु सावकाशत्वात्। द्विपितृकश्राद्धे तु एतत्तेऽसौ ये च त्वामत्रान्वित्यादेरेकवचनान्तस्य प्रकृतावूहाभावाद् द्वयोश्चैकवचनस्यासाधुत्वाल्लोप इति केचित्। तन्न। एकस्मिन्नपि द्वौ द्वावुपलक्षयोदिति वचनाद् द्विवचनेनोहः कर्तव्य इति धूर्तमातृदत्तादयः।
वस्तुतस्तु नानेन वचनेनोहो विधीयते किन्तु एतत्ते ऽसौ ये च त्वामत्रान्बिति पिण्डान् दद्यादिति बचनेनासौशब्देन सम्बुध्यन्तैकवचनान्तदेवतानामविधानात् द्विपितृके चैकैकस्मिन् इति वचनेन तादृशद्वयविधानादेतत्ते कृष्णशर्मन् नारायणशर्मन्निति प्रयोगे सम्भवति नोहो लोपो वाऽऽश्रयितुं युक्तः। पुत्रिकापुत्रस्तु पुत्रिकैव पुत्रः
पुत्रीकृताया वा पुत्र इति पक्षयोर्मातरं पितृशब्देन तस्पितरं पितामहशब्देन तत्पितरं प्रपितामहशब्देनोद्दिशेत् “पौत्री मातामहस्तेन” इति वचनेन पुत्रिकापितुः पौत्रित्वावधानात्। तथाचेत्थं प्रयोगः, एतत्ते तत रुक्मिणीदेवि ये च त्वामञान्विति। एवं प्रेतश्राद्धेषु पितृपदस्थाने प्रेतशब्दोह इति यथान्यायं द्रष्टव्यं विस्तरभयादुपरम्यते। इत्यूहविचारः।
अथ श्राद्धाधिकारिणो निरूप्यन्ते।
तत्र मरीचि।
मृते पितरि पुत्रेण क्रिया कार्या विधानतः।
बहबः स्युर्यदा पुत्राः पितुरेकत्र वासिनः॥
सर्वेषां तु मतं कृत्वा ज्येष्ठेनैव तु यत्कृतम्।
द्रब्येण चाविभक्तेन सर्वैरेव कृतं भवेत्॥
पुत्रेणेत्याविशेषात् सर्वेषां पुत्राणामधिकारः।
पुत्रेषु विद्यमानेषु नान्यो वै कारयेत् स्वधाम्।
इति ऋष्यशृङ्गचनाद् द्वादशविधपुत्रसद्भावे नान्यस्याधिकारः। तेषां चाघिकारक्रमो वक्ष्यते। अत्र पुत्रेणेत्येकवचनमविवक्षितम्, “प्रमीतस्य पितुः पुत्रैः श्राद्धं देयं प्रयत्नत” इति बृहस्पतिवचनात्। एवं सति सर्वेषां पृथक्श्राद्धानुष्ठानप्राप्तावहि–बहुव इति। एकत्र वासिनः=अविभक्तधनाः। एकत्रवासिन इत्यनेनैव सिद्धेर्द्रव्येण चाविभक्तेनेति [ यत् ] पृथगुक्तं तद्विभक्तधनेनापि साधारणीकृतेन द्रव्येणापृथक्क्श्रा-द्धानुष्ठानप्रदेशनार्थं, अत एव—
लघुहारीतः।
सपिण्डीकरणान्तानि यानि श्राद्धानि षोडश।
पृथक्पृथक् सुताः कुर्युः पृथग्द्रव्या अपि क्वचित्।
शङ्खलिखितावपि।
यद्येकजाता बहवः पृथक्क्षेत्रा पृथक्धनाः।
एकापिण्डाः पृथक्शौचाः पिण्डस्त्वावर्तते त्रिषु॥
पृषक्क्षेत्राः=विजातीयमातृजाताः। पृथक् [धनाः=विभक्ताः। एक] पिण्डाः=सपिण्डीकरणान्तेषु षोडशश्राद्धेषु एकमेव पिण्डं दद्यु, न पुनः प्रतिपुत्रं पृथक्पिण्डदानम्। पृथक्शौचाः=विजातीयमातृ-सम्बन्धात् पृथक्शौचभागिनः। पिण्डस्त्बिति=सपिण्डता त्रिषु पुरुषेषु भवतीत्यर्थः।
सर्वेषामिति=अयमत्र तात्पर्यार्थः।
एकादशाद्याः क्रमशो ज्येष्ठस्य विधिवत् क्रियाः।
कुर्युर्नैकैकशः श्राद्धमाब्दिकं तु पृथक् पृथक्॥
इति प्रचेतोवचनैकवाक्यतया ज्येष्ठेनैव एकादशाहादिसपिण्डीकरणान्तानि श्राद्धानि कार्याणि। कनिष्ठेन तु तत्र अनुमतिद्रव्यार्पणे एव विधेये, एवं च प्रयोगानुष्ठातृत्वरूपं साक्षात्कर्तृत्वं ज्येष्ठस्यैव, अनुमतत्व-रूपमनुग्राहकत्वरूपं वा कर्तृत्वं कनिष्ठस्य इत्यभिप्रायेणोक्तं सर्वैरेव कृतं भवेदिति।
एतेन यत्र वैदेश्यादिवशात्कनिष्ठस्यानुमतत्वद्रव्यसंश्लेषयोरभावः, तत्र (१)80तेन पृथगेव तच्छ्राद्धमनुष्ठेयम्। अन्यथा तस्य प्रत्यवायपरिहारो न स्यादिति यच्छूलपाणिनोक्तं तच्चिन्त्यम्। तस्यानुमतिद्रव्यार्पणयोरेवाधिकारस्य वाचनिकत्वात्र तु साक्षादनुष्ठाने, एवं च देशादागत्य तेन ज्येष्ठाय द्रव्यार्पणमात्रं विधेयम्, शक्यत्वात्, तावतैव स न प्रत्यवैति। अत एव “ज्येष्ठेनैव " इत्यत्र “पृथक् नैव सुताः कुर्युः” इत्यत्र च एवकारौ कनिष्ठस्य साक्षात् कर्तृत्वनिषेधार्थौ, एवं च ज्येष्ठासान्निध्ये कनिष्ठस्य अग्निदातृत्वे तेन दशाहकृत्यमेव कर्तव्यम्, “यस्त्वग्निदाता प्रेतस्य स दशाहं समापयेत्” इति वचनात्। न वैकादशाहादिकमपि, ज्येष्ठष्यैव साक्षात् कर्तृत्वबोधनात्। यदि च शास्त्रार्थभ्रान्त्यादिना कनिष्ठेनैकादशाहादिकमनुष्ठितं तथापि ज्येष्ठेन पुनः कर्तव्यमेव, तस्यैव साक्षादनुष्ठानविधानात्। न च पृथक्करणनिषेधात् तेन कथमनुष्ठेयमिति वाच्यम्। कनिष्ठकृतश्राद्धस्यानधिकारिकृतत्वेनाकृतकल्पतया तत्र पृथक्करणा— [णनिषेधा] भावादिति बहवः।
वस्तुतस्तु “बहवः स्युर्यदा पुत्राः” इत्यादि मरीचिवाक्य एकत्र वासिन इत्यस्य एकदेशावस्थिता इत्यर्थः, तथा च बहूनां पुत्राणां सान्निध्ये ज्येष्ठेन प्रयोगोऽनुष्ठेयः साधारणधनेन, कनिष्ठैस्तु अनुमतिद्रव्यार्पणमात्रं विधेयम्। ज्येष्ठासान्निध्ये तु कनिष्ठेन षोडशश्राद्धानि यथाकालं यथा क्रमं संवत्सरपर्यन्तं कर्तव्यानि, पूर्णे संवत्सरे ज्येष्ठासन्निधाने सपिण्डीकरणमपि तदा कर्तव्यमेव “ग्रमीतस्य पितुः पुत्रैः श्राद्धे देयं प्रयत्नतः” इति बृहस्पतिवाक्ये
सर्वेषामविशेषेण श्राद्धकर्तृकत्वबोधनात्। बहुपुत्रसान्निध्य एव मरीचिना विशेषाभिधानात्।
अत एव—
नवश्राद्धं सपिण्डत्वं श्राद्धान्यपि च षोडश।
एकेनैव तु कार्याणि सविभक्तधनेष्वपि॥
इति दक्षवचने सर्वेषामधिकाराभिप्रायेणाविशेषादेकेनैवेत्युक्तं, न तु ज्येष्ठेनैवेति। अत्र सपिण्ड[त्व]मिश्रणम्, अतो न षोडशान्तर्गतसपिण्डीकरणश्राद्धेन पौनरुक्त्यम्। एतेन “श्राद्धानिषोडशापाद्य विदधीत सपिण्डताम्” इत्यपि व्याख्यातम्। अत एव रामासान्निध्यवशाद्भरतेनैतच्छ्राद्धं कृतम्। तदुक्तम्—
अयोध्याकाण्डे।
समतीते दशाहे तु कृतशौचो विधानतः।
चक्रे द्वादशिकं श्राद्धं त्रयोदशिकमेव च॥
दशाह इति अशौचकालोपलक्षणम्। द्वादशिक= द्वादशाहेन निर्वृत्तम्। यदि पुनरन्तरा ज्येष्ठसान्निध्य तदा तेनैव कनिष्ठकृतावशिष्टानि श्राद्धानि कर्तव्यानि। बहुपुत्रसान्निध्ये मरीचिना ज्येष्ठस्यैव कर्तृत्वनियमनात्। अत एव—
प्रेतसंस्कारकर्माणि यानि श्राद्धानि षोडश।
यथाकालं तु कुर्वीत नान्यथा मुच्यते तु सः॥
इति लघुहारीतवाक्ये ज्येष्ठप्रतीक्षया कालातिक्रमो न कर्तव्य इत्यभिप्रायेण यथाकाल तु कुर्वीतेत्युक्तम्। अन्यथा विधानसामर्थ्यात्तत्प्राप्तेर्यथाकालमिति निरर्थकं स्यात्।यदि कनिष्ठोऽग्निमान् ज्येष्ठो निरग्निस्तदा—
एकादशाहं निर्वर्त्य अर्वाक् दर्शाद्यथाविधि।
प्रकुर्वीताग्निमान् पुत्रो मातापित्रोः सपिण्डताम्॥
इतिछन्दोगपरिशिष्टवचनात् कनिष्ठेन दर्शादर्वाक् कृते सपिण्डीकरणे ज्येष्ठेन पुनर्नावर्तनीयम्। एवं कनिष्ठस्य ज्येष्ठासन्निधाने वृद्ध्यापत्तौ कनिष्ठेन कृतं सपिण्डीकरणं ज्येष्ठेन पुनर्नावर्तनीयम्।“सपिण्डीकरणान्तानी"त्यादिलघुहारीतेन पृथक्करणनिषेधात्।
निर्वर्त्तयति यो मोहात् क्रियामन्यनिवर्तिताम्।
विधिघ्नस्तेन भवति पितृहा चोपजायते॥
तस्मात् प्रेतक्रिया येन केनापि च कृता यदि।
न तां निर्वर्तयेत् प्राज्ञःसतां धर्ममनुस्मरन्॥
इति वायुपुराणवचनाच्च।
दाक्षिणात्यास्तु ज्येष्ठासन्निधाने कनिष्ठेन कृतं सपिण्डीकरणं ज्येष्ठेन पुनरावर्तनीयं किन्तु प्रेतशब्दोल्लेखो न कार्यः—
कनीयसा कृतं कर्म प्रेतशब्दं विहाय तु।
तज्यायसापि कर्तव्यं सपिण्डीकरणं पुनः॥
इतिवचनादित्याहुः।
ज्येष्ठश्चात्र वर्तमानानां मध्ये सर्वज्येष्ठः। न तु—
ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः।
पितॄणां मातृणां चैव स तस्माल्लब्धुमर्हति॥ [अ०९ श्लो०१०६]
इतिमनूक्तः सर्वपूर्वोत्पन्न एव। तस्य विभागप्रकरणीयत्वेन विंशोद्धारादिप्राप्तये ज्येष्ठस्तुतिमात्रपरत्वात्। ज्येष्ठो यद्यौद्धत्यादिवशात् तन्न करोति तदा तत्कनीयसा कर्तव्यमेव। श्राद्धकरणस्वरूपयोग्यज्येष्ठसान्निध्याभावात्। प्रेतत्वविमुक्तये च तदनुष्ठानस्यावश्यकत्वात्। अन्यथा पतितादिज्येष्ठसान्निध्ये का गतिः। सपिण्डीकरणोत्तरं क्रियमाणेषु अमावास्याश्राद्धादिषु तु अविभक्तानामपृथगेव, विभक्तानां तु पृथगेवाधिकारः। तदाह–
बृहस्पतिः।
एकपाकेन वसतां पितृदेवद्विजार्चनम्।
एकं भवेत् विभक्तानां तदेव स्यात् गृहे गृहे।
मनुरपि।
एवं सहवसेयुर्वा पृथग्वा धर्मकाम्यया।
पृथग्विवर्धते धर्मस्तस्माद्धर्म्या पृथक्क्रिया॥
[अ० ९ श्लो० १११ ]
अत्र विभागस्य पृथक्धर्मनिमित्तता प्रतीतेरविभागे धर्मानुष्ठानं पृथङ् नास्तीति प्रतीयते।
यत्तु व्यासवचनं—
अर्वाक्संवत्सराज्ज्येष्ठः श्राद्धं कुर्यात् समेत्य वै।
ऊर्द्धंसपिण्डीकरणात् सर्वे कुर्युःपृथक् पृथक्॥
इति, तत्—
एकादशाद्याःक्रमशो ज्येष्ठस्य विधिवत् क्रियाः।
कुर्युर्नैकैकशः श्राद्धमाब्दिकं तु पृथक् पृथक्॥
इति प्रचेतोवाक्यैकवाक्यतया—
अविभक्ता विभक्ता वा कुर्युः श्राद्धमदैवतम्।
मघासु च ततोऽन्यत्र नाधिकारः पृथग्विना॥
इत्यापस्तम्वस्यैकवाक्यतयाचाब्दिकश्राद्धपरं, विभक्तकर्तव्यामावास्यादिश्राद्धपरं वा, अस्मिंश्च पक्षे प्रचेतोवचने आब्दिकग्रहणं सपिण्डीकरणोत्तरभाविश्राद्धमात्रोपलक्षणार्थमिति ज्ञेयम्।
शूलपाणिस्तु लघुहारीतवाक्ये सपिण्डीकरणान्तानीति विशेषणादपिशब्दस्वरसाञ्चसपिण्डीकरणादूर्ध्वं विभक्तानामविभक्तानामपि पृथक्श्राद्धमिति सिद्ध्यति। अत एव व्यासवाक्ये “ऊर्ध्वं सपिण्डीकरणात् सर्वे कुर्युः पृथक्पृथक्” इति विभक्ताविभक्तसाधारण्येन सर्व इत्युक्तम्। मनुबृहस्पतिभ्यां तु अविभक्तानामपृथग् धर्मः प्रतिपादितस्तस्मात् पृथग्धर्मानुष्ठाने फलातिशयः प्रतीयत इत्याह।
अथ द्वादशविधपुत्राणां स्वरूपं श्राद्धाधिकारक्रमश्चनिरूप्यते।
तत्र याज्ञवल्क्यः।
औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः।
क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणतरेण वा॥
गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः।
कानीनः कन्यकाजातो मातामहसुतो मतः।
अक्षतायां क्षतायां वा जातः पौनर्भवः सुतः॥
दद्यान्माता पिता वायं स पुत्रो दत्तको भवेत्।
क्रीतश्च ताभ्यां विक्रीतः कृत्रिमःस्यात् स्वयंकृतः॥
दत्तात्मा तु स्वयं दत्तो गर्भे विन्नः सहोढजः।
उत्सृष्टो गृह्यते यस्तु सोऽपविद्धो भवेत् सुतः॥
पिण्डदोंऽशहरश्चैषां पूर्वाभावे परः परः।
[ अ० २ प्र० ८ श्लो० १२८-१३२ ]
उरसोजात औरसः= स धर्मपत्नीजः। सवर्णाधर्मविवाहोढा धर्मपत्नी तस्यां जात औरसः पुत्रो मुख्य इति मिताक्षरा।
मनुरपि—
(१)81 संस्कृतायां सवर्णायां स्वयमुत्पादयेत् तु यम्।
तमौरसं विजानीयात् पुत्रं प्रथमकल्पिकम्॥
[ अ० ९ श्लो० १६६ ]
तत्समः=औरससमः।पुत्रिकायाः सुतः पुत्रिकासुतः।
अभ्रातृकां प्रदास्यामि तुभ्यंकन्यामलङ्कृताम्।
अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति॥
[इति] वशिष्ठाद्युक्तविधानेन दत्तायामुत्पन्नः, स च “यदपत्यंभवेदस्यां तन्मम स्यात् स्वधाकरम्” इतिसंवित्कृतो मातामहमात्रसम्बन्धी एकः पुत्रिकापुत्रः। “यदपत्यम्भवेदस्यां तद् द्वयोः स्यात् स्वधाकरम्” इति संविदोत्पन्नोऽपरः। अथवा पुत्रिकैव सुतः पुत्रिकासुतः। स त्रिविधः, औरससमः।औरसक्षेत्रजावुक्त्वाऽऽह—
वसिष्ठः।
तृतीयः पुत्रिकैवेति।
पुत्रिकैव तृतीयः पुत्र इत्यर्थः। क्षेत्रजःक्षेत्रजातास्त्विति=क्षेत्रं=भार्या।
मनुरपि।
यस्तल्पजः प्रमीतस्य क्लीबस्य व्याधितस्य वा।
स्वधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः॥
[ अ० ९ श्लो० १६७ ]
तल्प=भार्या।स्वधर्मेण= घृताभ्यक्तत्वादिना।तदाह—
मनुरेव।
विधवायां नियुक्तस्तु घृताक्तोवाग्यतो निशि।
एकमुत्पादयेत् पुत्रं द्वितीयं न कदाचन॥
[ अ० ९ श्लो० ६० ]
अयं च अस्यां यदपत्यंजायते तदावयोरित्वेवंरूपक्रियाभ्युपगमे बीजिनोऽपि। तदाह—
मनुः।
(१)82क्रियाभ्युपगमात्त्वेवं बीजार्थं यत् प्रदीयते।
तस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च॥[अ०९ श्लो० ५३]
इत्यादि द्विपितृकश्राद्धदेवतानिर्णये तत्प्रपञ्चितम्। बीजिनस्त्वयं नौरसः “औरसो धर्मपत्नीजः” इति याज्ञवल्क्योक्तेः, किन्तु पौनर्भवविशेषः। “अक्षतायां क्षतायां वा जातः पौनर्भवः सुत” इति याज्ञवल्क्यवचनात्। गृह इत्यादि। गूढजः पुत्रो भर्तृगृहे प्रच्छन्न उत्पन्नो हीना-
धिकजातीयपुरुषजत्वपरिहारेण पुरुषविशेषजत्वनिश्चयाभावेऽपि सवर्णजत्वनिश्चये सति बोद्धव्य इति मिताक्षरा। अयं च क्षेत्रिण एव।
तथा च—
मनुः।
उत्पाद्यते गृहे यस्यन च ज्ञायेत कस्य सः।
स गृहे गूढ उत्पन्नस्तस्य स्वाद्यस्य तल्पजः॥ इति।
[ अ० ९ श्लो० १७० ]
कानीन इति। कन्या=अपरिणीता। तथा च
वशिष्ठः।
कानीनः पञ्चमोऽयं पितृगृहे संस्तुता कामादुत्पादयेत् स कानीनो मातामहपुत्रो भवतीत्याह।
अथाप्युदाहरन्ति।
अप्रत्ता दुहिता यस्य पुत्रं विन्देत तुल्यतः।
पुत्री मातामहस्तेन दद्यात् पिण्डं हरेद्धनम्॥
तुस्यतः=सजातीयात्।
ब्रह्मपुराणे।
अदत्तायान्तु यो जातः सवर्णेन पितुर्गृहे।
स कानीनः सुतस्तस्य यस्मै सा दीयते पुनः॥
मनुः।
पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः।
तं कानीन वदेन्नाम्ना वोडुः कन्यासमुद्भवम्॥
[ अ० ९ श्लो० १७२ ]
बोढुः=उत्तरकालं वोढु’, “अदत्तायां त्वि"त्यादि ब्रह्मपुराणैकवाक्यात्। तं कन्यासमुद्भवं पुत्रं नाम्ना कानीनं वदेदित्यन्वयः।कन्यासमुद्भवमिति कानीनशब्दस्य योगकथनाय। अत्र मातामहपुत्रत्वविधायके याज्ञवल्क्यवशिष्ठवाक्ये अपुत्रमातामहविषये। परिणेतृपुत्रत्वविधायके तु ब्रह्मपुराणमनुवाक्ये अपुत्रपरिणेतृविषये। उभयोः सपुत्रत्वे वा उभयोरेवेति सम्प्रदायः।
मिताक्षराकारस्तु कानीनः कन्यकायामुत्पन्नः पूर्ववत् सवर्णात्, समातामहस्य पुत्रः, यद्यनूढा सा भवेत् तथा पितृगृह एव संस्थिता, अथ ऊढा तदा वोढुरेव पुत्रः “पितृवेश्मनी"त्यादिमनुवाक्यादित्याह।तच्चिन्त्यम्। “अदत्तायां तु यो जात ‘इत्यादिब्रह्मपुराणवाक्यवि-
रोधात्। “अक्षतायां क्षतायां वा जातः पौनर्भवः सुत” इति याज्ञवल्क्यचचनेन परिणयोत्तरं परिणेत्रक्षतयोनिकायामुत्पन्नस्य पौनर्भवत्वाभिधानेन कानीनत्वाभावाच्च। अक्षतायामिति। अक्षतायां क्षतायां वा पुनर्भ्वांसवर्णादुपन्नः पौनर्भवः।
विष्णुः।
या तु पत्या परित्यक्ता विधवा स्वेच्छयाथवा।
उत्पादयेत् पुनर्भूत्वा स पौनर्भव उच्यते॥
मनुरपि।
या पत्या वा परित्यक्ता विधवा वा स्वयेच्छया।
उत्पादयेत् पुनर्भूत्वास पौनर्भव उच्यते॥
[ अ० ९ श्लो० १७५ ]
सा चेदक्षतयोनिः स्याद्गतप्रत्यागतापि वा।
पौनर्भवेन भर्त्रा सा पुनः संस्कारमर्हति।
[ अ० ९ श्लो० १७६ ]
पुनर्भूत्वा = पुनरन्यस्य भार्याभूत्वा।सा=स्त्री चेदक्षतयोनिः सती अन्यमाश्रयेत्। तदा तेन पौनर्भवेन पुनर्भूत्वसम्पादकेनान्येन पत्या पुनर्विवाहाख्यसंस्कारमर्हति। यदि वा कौमारं पतिं परित्यज्य अन्यमाश्रित्य पुनः पूर्वपतिं प्रत्यागता भवति, तदापि तेन कुमारेण भर्त्रा पुनर्विवाहाण्यसंस्कारमर्हति। अयं च पुत्रः उत्पादकस्यैव। परित्यागेन मरणेन वा तस्यां परिणेतुः स्वत्वाभावात्। स्पष्टमाह—
कात्यायनः।
क्लीबंविहाय पतितं या पुनर्भजते पतिम्।
तस्यां पौनर्भवो जातो व्यक्तमुत्पादकस्य सः॥
दद्यान्मातेति। अत्र विशेषमाह—
मनुः।
माता पिता वा दद्यातां यमद्भिः पुत्रमापदि।
सदृशं प्रीतिसंयुक्तंस ज्ञेयो दत्रिमः सुतः॥
[अ० ९ श्लो० १६८ ]
सदृशं=सजातीयम्। प्रीतिसंयुक्तं=अविप्रतिपन्नम् “विक्रियं चैव दानं वा न नेयाः स्युरनिच्छव” इत्येकवाक्यत्वात्। श्राद्धचिन्तामणौ प्रीतिसंयुक्ताविति पठित्वा प्रीतिसंयुक्तौ =भयाद्युपाधिरहिताविति व्याख्यातम्। “न स्त्री पुत्रं दद्यात् प्रतिगृह्णीयाद्वान्यत्रानुज्ञान भर्तुरिति वशिष्ठवा-
क्येन स्त्रिया भर्त्रनुज्ञांविना दानप्रतिग्रहनिषेधः। स जीवद्भर्तृकाविषयः। “माता पिता वा” इत्यनेन मनुयाज्ञवल्क्याभ्यां परस्परनैरपेक्षेण तयोर्दातृत्वप्रतिपादनात्। जीवति तु भर्तरि स्त्रिया अस्वातन्त्र्यादनुज्ञाग्रहणावश्यकत्वाभिप्रायेण “अन्यत्रानुज्ञानाद्भर्तुः” इत्युक्तं वसिष्ठेन।
अत एव तेनैव शुक्रशोणितसम्भवः पुरुषो मातापितृनिमित्तकस्तस्य प्रदानविक्रयत्यागेषु मातापितरौ प्रभवत इत्यनेन मातापित्रोस्तुल्यमेव प्रभुत्वमुक्तम्। एव—
क्षेत्रजादीन् सुतानेतानेकादश यथोदितान्।
पुत्रप्रतिनिधीनाहुःक्रियालोपान् मनीषिणः॥
[ अ० ९ श्लो० १८० ]
इति मनुवाक्येन स्त्रीपुंससाधारण्येन क्रियालोपहेतोःपुत्रकरणावश्यकत्वप्रतिपादनेनापुत्राया विधवाया अपि विनापि भर्त्रनुज्ञां पुत्रकरणं न विरुद्धम्। यस्तु वसिष्ठवाक्ये स्त्रियाः प्रतिग्रहनिषेधः स सभर्तृकाविषय इति प्रागेवोक्तम्।
वाचस्पतिमिश्रोऽपि पितुर्मातुश्च द्वयोः प्रत्येकमपि दानाधिकारः, इयां स्तु बिशेषो यत् सति पितरि तदनुज्ञानान्मातुर्दातृत्वं असति तु तदभावेऽपीत्यनेनेदमेवाह।
मनुवाक्ये आपद्ग्रहणादनापदि न देयो, दातुरयं प्रतिषेधः। आपदि प्रतिग्रहीतुः पुत्राभाव इत्यन्ये।
वसिष्ठः।
शुक्रशोणितसम्भवः पुत्रो मातापितृनिमित्तकः तस्य प्रदानविक्रयत्यागेषु मातापितरौ प्रभवतः नत्वेकं पुत्रं दद्यात्, प्रतिगृह्णीयाद्वा स हि सन्तानाय पूर्वेषां, न स्त्री पुत्रं दद्यात् प्रतिगृह्णीयाद्वान्यत्रानुज्ञानाद्भर्तुः। पुत्रं प्रतिग्रहीष्यन् बन्धूनाहूय राजनि वाऽऽवेद्य निवेशनस्य मध्ये व्याहृतिभिर्हुत्वाऽदूरबान्धवं बन्धुसन्निकृष्टमेव प्रतिगृह्णीयात्। सन्देहे चोत्पन्नेदूरे शूद्रमिव स्थापयेत्।विज्ञायते ह्येकेन बहूंस्त्रायत इति। एकं पुत्रमित्युपलक्षणम्। अनेकपुत्रसद्भावे ज्येष्ठो न देयः। “ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः” इति मनुवाक्येन तस्यैव पुत्रकार्यकरणे मुख्यत्वाभिधानात्। बधून्नाहूयेति दत्तकस्य अंशप्राप्त्याद्यर्थं, राजनीत्यपि दृष्टार्थम्, निवेशन=गृहम्। हुत्येत्यत्र संख्यानभिधानादनादेशविहिताष्टोत्तरशहस्त्राष्टशवादिरूपा
संख्या ग्राह्याअदूरवान्धबमित्यत्यन्तदेशभाषाविप्रकृष्टस्य प्रतिषेध इति मिताक्षरा। बन्धुसन्निकृष्टं प्रतिग्राह्यबन्धूनां समीपवर्तिनम्। इदमपि दृष्टार्थम्। परीक्षितस्यापि कथञ्चित् ब्राह्मण्यादि सन्देह उत्पन्ने यावत्तन्निवृत्ति [स्तावद्] दूरे शूद्रवत् स्थापयेत् तेन न व्यवहरेत्। अपुत्रस्य पुत्रकरणावश्यकत्वद्योतनाय श्रुत्युपन्यासो विज्ञायत इति=श्रूयत इत्यर्थः। एकेन= अनौरसेनापि पुत्रेण वहुन्=पित्रादीन् नरकास्त्रायत इति। अत्र दातृप्रतिगृहीतृगोचरो नियमः, क्रीतस्वयंदत्तकृत्रिमापविद्धेष्वपि यथासंभवं द्रष्टव्यो दृष्टार्थत्वात्। स्वयं दत्ते तु होमोऽपि। तत्रापि प्रतिग्रहसत्वात् “प्रतिग्रहष्विन्” इत्युपक्रभ्यवसिष्ठेन होमविधानात्। अत्र तु स्त्रीशूद्रयोर्न होमस्तयोरविद्यत्वात्। पुत्रं प्रतिग्रहीष्यन्नित्यस्य तु स्वर्गकामादिपदवत् सविद्यपरत्वेनाप्युपपत्तेः। प्रतिग्रहस्तु तयोर्वचनादाचाराच्चज्ञेयः। अत्र विशेषः—
कालिकापुराणे। “औरसः क्षेत्रजश्चैवे” त्याद्युपक्रम्य।
दत्ताश्चापि तनया निजगोत्रेण संस्कृताः।
आयान्ति पुत्रतां सम्यगन्यबीजसमुद्भवाः॥
पितुर्गोत्रेण यः पुत्रः सस्कृतः पृथिवीपते।
आचूडान्तं न पुत्रः स पुत्रतां याति चान्यतः॥
चूड़ाद्या यदि संस्कारा निजगोत्रेण वै कृताः।
दत्ताद्यास्तनयास्ते स्युरन्यथा दास उच्यते॥
ऊर्ध्वं तु पञ्चमाद्वर्षान्न दत्ताद्याः श्रुता नृप।
गृहीत्वा पञ्चवर्षीयं पुत्रेष्टिं प्रथमं चरेत्॥
पौनर्भवं तु तनय जातमात्रं समानवेत्।
कृत्वा पौनर्भवं स्तोमं जातमात्रस्य तस्य वै।
सर्वांस्तु कुर्यात् संस्कारान् जातकर्मादिकान्नरः॥
कृते पौनर्भवेस्तोमे सुतः पोनर्भवस्ततः।
एकोद्दिष्टं पितुः कुर्यात् न श्राद्धं पार्वणादिकम्॥
क्रीत इति। मातापितृभ्यां मात्रा पित्रा वा विक्रीतः, अत्रापि दत्तकवदेकं ज्येष्ठं वर्जयित्वा आपदि सवर्णोऽविप्रतिपन्नश्च ज्ञेयः। यत्तु—
क्रीणीयाद्यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात्।
स क्रीतकः सुतस्तस्य सदृशोऽसदृशोपि वा॥
[अ० ९ श्लो० १७४]
इति मनुवाक्ये असदृश इत्युक्तं तत् क्रेतुर्गुणैरसदृश इत्यभिप्रायं न तु विजातीयाभिप्रायम्। “सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः”
इति याज्ञवल्क्योपसंहारविरोधात्।
बौधायनः।
मातापित्रोर्हस्तादन्यतरस्य वा योऽपत्यार्थं गृह्यत स क्रीत इति। कृत्रिम इति। कृत्रिमस्तु पुत्रः स्वयं पुत्रार्थिना धनक्षेत्रप्रदर्शनादिप्रलोभनैः पुत्रीकृतः अय च मातापितृरहितः, तत्सद्भावे तत्परतन्त्रत्वात्।अपविद्धस्तु मातापितृभ्यां त्यक्तः। स्वयंदत्तस्तु स्वात्मानं ददातीति ताभ्यां कृत्रिमस्य भेदः।
मनुः
(१)83 सदृशं यं प्रकुर्वीत गुणदोषविचक्षणम्।
पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयस्तु कृत्रिभः॥
[ अ० ९. श्लो० १६९ ]
गुणदोषविचक्षण=पित्रोरौद्धृर्दोहिकाद्यकरणे दोषस्थ, तत्करणे गुणस्य च विवेचकम्। पुत्रगुणैः=पित्रोराराधनादिरूपैः। दत्तात्मेति। मातापितृविहीनस्ताभ्यामकारणात् त्यक्तोवा तवाहं पुत्रोऽस्मीति स्वमात्मानं यो ददाति स स्वयदत्त इत्यर्थः। तथाच—
मनुः।
मातापितृविहीनो यस्त्यक्तो वा स्यादकारणात्।
आत्मानं स्पर्शयेद्यस्तु स्वयं दत्तस्तु स स्मृतः॥
[ अ० ९ श्लो० १७७ ]
अकारणात्=त्यागकारणं विना।स्पर्शयेत् दद्यात्। गर्भेविन्न इति। विन्न=परम्परया परिणयसंस्कारवान्। सवर्णात्सम्भूतः परिणयनकाले स्थितो गर्भः सहोढः, तस्माज्जातः सहोढजः पुत्रः। तथा च—
मनुः।
या गर्भिणी संस्क्रियते ज्ञाताज्ञातापि वा सती।
वोढुःस गर्भो भवति सहोढ इति चोच्यते॥
[ अ० ९ लो० १७३ ]
ज्ञाता गर्भवत्वेन, तथा अज्ञातापि, वोढुरिति विशेषाभिधानान्नबीजिनो न कानीनवन्मातामहस्यापि। ननु—
पाणिग्रहणिका मन्त्राः कन्यास्वेव प्रतिष्ठिताः।
नाकन्यासु क्वचिन्नृणां लुप्तधर्मक्रिया हि ताः॥
[ अ० ८ श्लो० २२६ ]
इति मनुवचनेन कन्यास्वेवपाणिग्रहणिकमन्त्रविधानात् कथमत्र गर्भिणी संस्क्रियत इत्युक्तम्।कन्यात्वं हि दानेनोपभोगेन वा गच्छति “कानीनः कन्यकाजात” इत्यत्र तु कन्यापदमदत्तापरम्। अस्या अनुपभुक्तत्वासम्भवात्। “कन्यामुपयच्छेत” इत्यत्र तु कन्यापदमनुपभुक्ताऽदत्तापरम्। अत एव “अनन्यपूर्विकाम्” इत्यत्र याज्ञवल्क्यवचने दान उपभोगे वाअन्यः पूर्वो यस्या नास्तीति सर्वनिबन्धृभिर्व्याख्यातम्। एवं च “कन्यामुपयच्छेत” इत्यत्र कन्यापदमेतदेकवाक्यतया अनन्यपूर्विकापरम्। अत एव च कुन्त्या अदत्ताया अपि सम्भोगेन कन्यात्वापगममवगत्य “कन्यैव त्वं भविष्यसि” इति तस्यै सूर्येण वरो दत्तः।
मनुस्मृतौ च।
अकन्येति च यः कन्यां ब्रूयाद् द्वेषेण मानवः।
स शतं प्राप्नुयाद्दण्डं तस्या दोषमदर्शयन्॥
[ अ० ८ श्लो० २२५ ]
इति वाक्ये अक्षतयोनिकायां कन्याशब्दः स्पष्ट एव। एवं च सति सगर्भायाः कथं संस्कार इति चेत्।
अत्रोच्यते। पाणिग्रहणाख्यसंस्कारःभार्यात्वलक्षणः कन्यास्वेवोत्पद्यते नाकन्यासु “अनन्यपूर्विकाम्” इत्यनेनान्यपूर्विकायास्तत्र पर्युदस्तत्वात्। स च संस्कारः पाणिग्रहणिकमन्त्रैरुत्पद्यते।
पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम्।
तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे॥
[ अ० ८ श्लो० २२७ ]
इत्यनेन मनुना पाणिग्रहणिकमन्त्राणां दारत्वनिष्पादकत्वाभिधानात्। तथा सति ते मन्त्राः कन्यास्वेव प्रयोज्या नाकन्यासु तत्र संस्कारानुत्पत्तेः, अत एवोक्तं"लुप्तधर्मक्रिया हि ता” इति। होमादिरूपः संस्कारस्तु तत्राप्यन्यपूर्विकादावनुवर्तत एवेत्यभिप्रायेणोक्तं “या गर्भिणी संस्क्रियत” इति, एवञ्च अन्यपूर्विकायां गर्भिण्यां भार्यात्वानुत्पादेन तस्यां विवाहे तत्सम्पादकाः पाणिग्रहणिका मन्त्रा न प्रयोज्या होमादि संस्कारस्त्वनुवर्तत एवेति प्रागुक्तम्। गान्ध-
र्वादिविवाहे तु भार्यात्वसिद्ध्यर्थं मन्त्राः प्रयोज्या एव।अत एव तेन,
गान्धर्वादिविवाहेषु पुनर्वैवाहिको विधिः।
कर्तव्यश्च त्रिभिर्वर्णैः समयेनाग्निसाक्षिकः॥
इत्यनेन गान्धर्वादिविवाहेषु सर्वोऽपि वैवाहिको विधिरुक्तः। उत्सृष्टोगृह्यत इति।अत्र विशेषमाह—
मनुः।
मातापितृभ्यामुत्सृष्टं तयोरन्यतरेण वा।
यं पुत्रं प्रतिगृह्णीयादपविद्धः स उच्यते।
[ अ० ९ श्लो० १७१ ]
उत्सृष्टं=त्यक्तं भरणासामर्थ्येन, गण्डजातत्वादिदोषेण वा, न तु पातित्येन, तस्य असंग्राह्यत्वात्।एतेषां च द्वादशपुत्राणां यो[गि]नारदस्मृतौ—
औरसः क्षेत्रजश्चैव पुत्रिकापुत्र एव च।
कानीनश्च सहोढश्च गूढोत्पन्नस्तथैव च॥
पौनर्भवोऽपविद्धश्च दत्तः क्रीतः कृतस्तथा।
स्वयं चोपागतः पुत्राः द्वादशैते प्रकीर्तिताः॥
इत्यन्यथा क्रमो दृश्यते।
एवं मनुस्मृतावपि।
औरसःक्षेत्रजश्चैव दत्तः कृत्रिम एव च।
गूढोत्पन्नोपविद्धश्च दायादा बान्धवाश्च षट्॥
[ अ० ९ श्लो० १५९ ]
इति तेषामन्यथा क्रमो दृश्यते।अत्र पुत्रिकापुत्रो नोक्तः।पारशवापरनामा शौद्रश्चोक्तः, तल्लक्षणं चाग्रेवक्ष्यते।स न श्राद्धाद्यधिकारक्रमतात्पर्यकः किन्तु परिगणनमात्रतात्पर्यकः।तत्र याज्ञवल्क्येन"पूर्वाभावे परः परः” इत्यन्यथाक्रमविधानात्।
यद्यपि विष्णुस्मृतौ औरसक्षेत्रजपुत्रिकापुत्रपौनर्भवकानीनगूढोत्पन्नसहोढदत्तकक्रीतस्वयमुपगतापविद्धयत्रक्वचनोत्पादितानां प्रथमद्वितीयतृतीयादित्वेनाभिधानादेतेषां पूर्वः पूर्वः श्रेयान् स एव दायहर इत्युक्तेश्च क्रमोऽभिहित एव, दायहरत्वेन च पिण्डदातृत्वस्यौत्सर्गिकत्वात् पिण्डदाने स एव तदनुमतः क्रम इत्युन्नीयते।तथा च विष्णूक्तयाज्ञवल्क्योक्तक्रमयोर्विकल्प इति प्रतीयते।
तथापि विज्ञानेश्वरादिप्रामाणिकनिबन्धूभिर्याज्ञवल्क्योक्तक्रमाङ्गीकारात् स एवादरणीयः। विष्णुस्मृतौ तु कृत्रिमो नोक्तः, पारशवा परनामा यत्र क्वचनोत्पादित उक्तः। तल्लक्षणमाह—
मनुः।
यं ब्राह्मणस्तु शूद्रायां कामादुत्पादयेत् सुतम्।
स पारयन्नेव शवस्तस्मात् पारशवः स्मृतः॥
[ अ० ९ श्लो० १७८ ]
“विन्नाष्वेषविधिस्मृतः” इति याज्ञवल्क्यदर्शनात् शूद्रायामूढायामिति कुल्लूकभट्टः। यत्र क्वचनोत्पादितस्तु द्वादश इति विष्णुस्मृतिदर्शनात् ऊढायामनूढायां वेति वाचस्पतिमिश्रः। ब्राह्मण इति त्रैवर्णिकोपलक्षणम्। पारयन् पुत्रान्तररहितस्य पितुरुपकुर्वन्। शवः शव इव शवः असंपूर्णोपकारकत्वाच्छवव्यपदेशः। अत्र क्षेत्रजादीन् पारशवान्तान् सुतानुक्त्वा।
क्षेत्रजादीन् सुतानेकानेकादश यथोदितान्।
पुत्रप्रतिनिधीनाहुःक्रियालोपान् मनीषिणः॥
[ अ० ९ श्लो० १८० ]
इति मनुवचनात्।
ब्राह्मणेन न कर्तव्यं शूद्रस्यैवौर्द्धदेहिकम्।
शूद्रेण वा ब्राह्मणस्य विना पारशवात् क्वचित्॥
इति पारस्करवचनाच्च पूर्वोक्तद्वादशविधपुत्राभावे शूद्रापुत्रस्यापि द्विजातिपितृश्राद्धादावधिकार इति प्रतीयते। यत्तु द्वादशपुत्रानुक्त्वा।
य एतेऽभिहिताः पुत्राः प्रसङ्गादन्यबीजजाः।
यस्य ते बीजतो जाता स्तस्य ते नेतरस्य तु॥
[ अ० ९ श्लो० १८१ ]
इति मनुवचनं तत् सत्यौरसेपुत्रे पुत्रिकापुत्रे वा सति ते न कर्तव्या इत्येवं परम्। “अन्यबीजजा” इति क्षेत्रजादिसकलपुत्रोपलक्षणार्थम्। अत एव स्वबीजजातावपि पौनर्भवशौद्रौ न कर्तव्यौ। अत एव—
वृहष्पतिः।
आज्यं विना यथा तैलं सद्भिः प्रतिनिधिः स्मृतः।
तथैकादशपुत्रास्तु पुत्रिकौरसयोर्विना॥
यत्तु—
भ्रातॄणामेकजातानामेकश्चंत् पुत्रवान् भवेत्।
सर्वांस्तांस्तेन पुत्रेण पुत्रिणो मनुरब्रवीत्॥
[ अ० ९ श्लो० १८२ ]
सर्वासामेकपत्नीनामेका चेत् पुत्रिणी भवेत्।
सर्वास्तास्तेन पुत्रेण प्राह पुत्रवती मनुः॥
[ अ० ९ श्लो० १८३ ]
इति मनुवचनद्वयम्। तत्राद्यवचनं भ्रातृपुत्रस्य पुत्रीकरणसंभवेऽन्येषां पुत्रीकरणनिषेधार्थं [न] पुनः पुत्रत्वप्रतिपादनाय, “तत्सुतोगो त्रजो बन्धुः” इति याज्ञवल्क्यवचनेन भातृपर्यन्ताभाव एव भ्रातृपुत्रस्याधिकारप्रतिपादनविरोधात् इति मिताक्षरा।द्वितीयवचनं तु पुत्रत्वप्रतिपादनार्थम्।
विदध्यादौरसः पुत्रो जनन्याऔर्द्धदेदिकम्।
तदभावे सपत्नीजःक्षेत्रजाद्यास्तयादृता॥
तेषामभावे तु पतिस्तदभावे सपिण्डकाः॥
इति कात्यायनवचने तस्यापि पुत्रकार्यकरणश्रवणात्।
अन्ये तु
अयं पुत्रित्वातिदेशो भातृपुत्रसद्भावे सपत्नीपुत्रसद्भावे च प्रतिनिधीभूतपुत्रकरणनिषेधाद्यर्थः, स्त्रियाः सपिण्डनाद्यर्थश्च।
अपुत्रेण सुतः कार्यो यादृक् तादृक् प्रयत्नतः।
पिण्डोदकक्रियाहेतोर्नाम संकीर्तनस्य च॥
इति वचने पुत्ररहितस्यैव पुत्रीकरणविधानात्। “पतिपुत्रविहीनाया स्त्रिया नास्ति सपिण्डनम्” इति वचनेन पुत्रविहीनाया एव सपिण्डननिषेधाच्चेति प्राहुः।
वस्तुतस्तु तेन पुत्रेणेतिश्रवणात् अयं पुत्रत्वातिदेशः, पुत्रित्वोपसंहारदर्शनात्, पुत्रित्वातिदेशश्च। तत्प्रयोजनं च पुत्रामनरकत्राणादि,पुत्रित्वपुरस्कारेण विधिनिषेधप्रवृत्तिश्च। न च तस्य पुत्रीकरणसम्भवे तत्सद्भावे चान्यस्य पुत्रीकरणनिषेधः, अपुत्रेणेत्यादिवाक्येन मुख्यपुत्ररहितस्यैव पुत्रीकरणविधानात्। अत एव मनुनापि औरसादीन् द्वादशाविधपुत्रानुक्त्वा “क्षेत्रजादीन् सुतानेतान्” इत्यादिना पुत्रप्रतिनिधि[धी]भूतक्षेत्रजादिपुत्रीकरणमुक्तम्। तस्मान् मनूक्तक्रि-
वी० मि० ४५
यालोपहतोर्भ्रातृपुत्रसद्भावेऽपि क्षेत्रजादिपुत्रीकरणं न विरुद्धमिति प्रतीमः। अत्र मनुवचने भ्रातृपद सहोदरभ्रातृपरम्। तदाह—
बृहस्पतिः
यद्येकजाता बहवो भ्रातरस्तु सहोदराः।
एकस्यापि सुते जाते सर्वे ते पुत्रिणः स्मृताः।
वह्नीनामेकपत्नीनामेष एव विधिः स्मृतः॥
एका चेत्पुत्रिणी तासां सर्वासां पिण्डदस्तु सः॥ इति।
ओर्ध्वदेहिके चाऽनुपनीतस्यापि पुत्रस्याधिकारः।
न ह्यस्मिन् युज्यते कर्म किञ्चिदामौञ्जिबन्धनात्।
नाभिव्याहारयेद्ब्रह्म स्वधानिनयनादृते॥
[ अ० २ श्लो० १७१॥-१७२ ]
इति मनुवचनात्।
कुर्यादनुपनीतोऽपि श्राद्धमेकस्तु यः सुतः।
पितृयज्ञाहुतिं पाणौ जुहुयाद् ब्राह्मणस्य सः॥
इति वृद्धमनुवचनाच्च। स च कृतचूडस्यैव।त्रिवर्षादूर्द्धंत्वकृतचूड़स्यापि। तथा च—
सुमन्तु।
अनुपेतोऽपि कुर्वीत मन्त्रवत्पैतृमेधिकम्।
यद्यसौ कृतचूड़ः स्यात् यदि स्याच्चत्रिवत्सरः॥ इति।
यत्तु—
कृतचूडस्तु कुर्वीत उदकं पिण्डमेव च।
स्वधाकारं प्रयुञ्जीत वेदोच्चारं न कारयेत्॥
इति व्याघ्रवचनं तन्मत्रोच्चारणासमर्थपुत्रपरम्।
यस्तु श्राद्धाद्यनुष्ठानासमर्थः पुत्रः, तं प्रत्याह—
कात्यायनः।
असंस्कृतेन पत्न्या च ह्यग्निदानं समन्त्रकम्।
कर्तव्यमितरत् सर्वंकारयेदन्यमेव हि॥ इति।
तादृशस्याप्यौरसपुत्रस्य सत्व उपनीतेनापि पुत्रिकापुत्रक्षेत्रजादिना औध्वदेहिकादि न कर्तव्यम्। औरसासद्भाव एव तेषामधिकारात्।
एवं पुत्रिकापुत्रादिक्षेत्रजादिसमवायेऽपि बोध्यम्। तदेवं द्वादशविधपुत्राभावे पौत्रस्तदभावे प्रपौत्रः, विष्णुपुराणादौ तथा क्रमदर्शनात्।
तथा च विष्णुपुराणम्।
पुत्रः पौत्रः प्रपौत्रो वा तद्वद्वा भ्रातृसन्ततिः।
सपिण्डसन्ततिर्वापि क्रियार्हानृप ! जायते॥
छन्दोगपरिशिष्ट च।
पितामहः पितुः पश्चात् प्रेतत्वं यदि गच्छति।
पौत्रेणैकादशाहादि कर्तव्यं श्राद्धषोडशम्॥
नैतत् पौत्रेण कर्तव्यं पुत्रवांश्चेत् पितामहः।
यत्तु।
पौत्रश्च पुत्रिकापुत्रः स्वर्गप्राप्तिकरावुभौ।
रिक्थे च पिण्डदाने च समौ तौ परिकीर्तितौ॥
इति बृहस्पतिवचनं तत् पुत्रीकृतायाः कन्यायाः पुत्रपरम्। “अकृता वा कृता वापि यं विन्देत् सदृशात् सुतम्। पौत्री मातामहस्तेन” इत्यनेन मनुवाक्येन तस्य पौत्रित्वाभिधानात्। अतश्च पौत्रगौणपुत्रयोर्विकल्पार्थं तद्वचनं “पुत्रेषु विद्यमानेषु नान्यं वै कारयेत्स्वधाम्” इति ऋष्यशृङ्गवचने पुत्रेष्विति श्रवणात् गौणमुख्य पुत्राभाव एवान्येषामधिकारप्रतीतेः। क्षेत्रजादिषु पुत्रत्वोक्तेश्वेदमेव प्रयोजन यत् पुत्रग्रहणेन तेषामपि ग्रहणमिति।
कालादर्शे तु—
औरसपुत्राभावे पौत्रस्तदभावे प्रपौत्रस्तदद्भावे क्रमेण पुत्रिका पुत्र क्षेत्रज - दत्तक - क्रीत - कृत्रिम - स्वयं दत्तापविद्धा इत्युक्तम्। पुत्रः पौत्रः प्रपौत्रश्च पुत्रिकापुत्र एव च " इति स्मृतिसंग्रहवचनं तत्र प्रमाणत्वेनलिखितम्। प्रपौत्राभावे पत्नी।
तथा च शङ्ख।
पितुः पुत्रेण कर्तव्या पिण्डदानोदकक्रिया।
पुत्राभावे तु पत्नीस्यात् पत्न्यभामावे सहोदरः।
भार्यापिण्ड पतिर्दद्यात् भर्त्रेभार्या तथैव च॥
श्वश्व्रादेश्व स्नुषा चैव तदभावे सपिण्डकाः॥ इति।
पुत्राभावे त्वित्यत्र पुत्रपदं पौत्रप्रपौत्रयोरप्युपलक्षणम्।
यत्तु—“न भार्यायाः पतिर्दद्यात् पत्ये भार्या तथैव च” इति छन्दोगपरिशिष्टचचनं तत् पुत्रपौत्रप्रपौत्रपर्यन्ताधिकारिसद्भावे बोध्यम्। यद्यपि “अपुत्रस्य तु या पुत्री सापि पिण्डप्रदा भवेत्” इति ऋष्य-
शूङ्गवचने पुत्राभावे पुत्र्या अधिकारःप्रतीयते।
अङ्गादङ्गात् सम्भवति पुत्रवद् दुहिता नृणाम्।
तस्यामात्मनि जीवन्त्यां कथमन्यो हरेद्धनम्॥
इति मनुवचनेन च पुत्राभावे प्रथमतो दुहितुर्धनाधिकारप्रतिपादनेन “गोत्रऋक्थानुगः पिण्ड” इत्यनेन प्रथमतः पिण्डाधिकारः प्रतीयते, तथापि पत्न्यनन्तरं तस्याधिकारो बोद्धव्यः।
पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा।
तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्मचारिणः॥
[ अ० २ प्र० ८ श्लो० १३५ \।
एषामभावे पूर्वेषां धनभागुत्तरोत्तरः।
स्वर्यातस्यह्यपुत्रस्य सर्ववर्णेष्वयं विधिः॥
[ अ० २ प्र० ८ श्लो० १३६ ]
इति याज्ञवल्क्यवचने पत्न्यनन्तर दुहितुर्धनाधिकारप्रतिपादनेन श्राद्धेऽपि तथा प्रतीतेः।
यत्तु—
अपुत्रा स्त्री यथापुत्रं पुत्रवत्यपि भर्तरि।
दद्यात्पिण्डं जलं चैव जलमात्रं तु पुत्रिणी॥
दुहिता पुत्रवत् कुर्यान्मातापित्रोस्तुसंस्कृता।
आशौचमुदकं पिण्डमेकोद्दिष्टं सदा तयोः॥
इति पठ्यमानं वचनद्वयंतदमूलम्। समूलत्वेऽपि बालदेशान्तरितपुत्रसद्भावविषयमिति शूलपाणिः।सांवत्सरिकश्राद्धविषयमिति केचित्। यदपि च “सर्वाभावे स्त्रियः कुर्युःस्वभर्तॄणाममन्त्रकम्” इति मार्कण्डेयपुराणवचनम्।“कुलद्वयेऽपि चोच्छन्नेस्त्रीभिः कार्या सपिण्डता” इति विष्णुपुराणवचनं तदसवर्णविषयमिति शूलपाणिः।
अपरे तु आसुरादिविवाहोढविषयमिदम्। याज्ञवल्क्यादिभिः प्रपौत्रानन्तरं पत्न्या अधिकारप्रतिपादनेन अत्रत्यस्त्रीपदस्य पत्नीव्यक्त[तिरिक्त]स्त्रीपरत्वात्। आसुरादिविवाहोढायास्तु पत्नीत्वाभावमाह—
शातातपः—
धम्यैर्विवाहैरूढा या सा पत्नी परिकीर्तिता।
सहाधिकारिणी ह्येषा यज्ञादौ धर्मकर्मणि॥
क्रयक्रीता च नारी सा न पत्नीत्वभिधीयते।
न सा देवे न सा पित्र्ये दासीं तां मुनयोजगुः॥
अत्र क्रयक्रीतेत्युपादानात् धर्म्या इति विशेषणाच्चासुरादिविवाहिता प्रतीतिरित्याहुः। अपरे तु अपरिणीताविषयमिति। अत्र यद्यपि पत्नी दुहितरश्चैवेत्यादिवाक्यस्य विभक्तासंसृष्टपरत्वेन अविभक्तस्य संसृष्टस्य च सहोदरस्य पत्नीतः पूर्वं धनाधिकारो वक्ष्यते।
अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता।
पत्न्येव दद्यात् तत्पिण्डं कृत्स्नमेशं लभेत च॥
इति मनुवचनमपि विभक्तासंसृष्टभर्तृधनपरम्। तथापि अविभक्तस्यसंसृष्टस्य वा सोदरस्य सत्वे पत्न्याअधिकाराभावेऽपि पत्न्याः श्राद्धाधिकारो वाचनिकः।“गोत्ररिक्यानुगः पिण्ड” इत्यस्यौत्सर्गिकत्वेन प्रकृते अप्रवृत्तेः। पिर्त्रोर्धनग्राहित्वेऽपि भ्रातुः श्राद्धाधिकारः।कालादर्शे तु पूर्वोक्तापविद्धपर्यन्तपुत्राभावे पत्नी, तदभावे गूढकानीनपौनर्भवाश्च इत्युक्तम्।
कानीनगूढसहजपुनर्भूतनयाश्च ये।
पत्न्यभावेतु कुर्युस्ते अप्रशस्ता यतः स्मृताः॥
इति स्मृतिसग्रहवचनमत्र प्रमाणत्वेनोक्तम्।पत्न्यभावे कन्या, “अपुत्रस्य तु या पुत्री सापि पिण्डप्रदा भवेत्” इति ऋष्यशृङ्गवचनात्। याज्ञवल्क्येन पत्न्यनन्तरं तस्या धनाधिकारप्रतिपादनाच्च।
मनुरपि।
यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा।
तस्यामात्मनि तिष्ठन्त्यां कथमन्वाहरेद्धनम्॥
[ अ० ९ श्लो० १३० ]
यत्तु—
पितुः पुत्रेण कर्तव्या पिण्डदानोदकक्रिया।
तदभावे तु पत्नी स्यात् तदभाषे सहोदरः॥
इति शङ्खवचनं, यच्च “भ्रातुर्भाता स्वयं चके तद्भार्या चेन्नविद्यते” इत्यादिपुराणवचनं तद् विभक्तसंसृष्टविषयमिति केचित्।
अन्ये तु पक्षीभार्यापदे कन्याया अप्युपलक्षके। “पुत्रेण दुहिता समा” इत्यनेन मनुना तस्याः पुत्रतुल्यत्वकथनेन सहोदरापेक्षया बलवत्वादिति वदन्ति।
तत्र प्रथमतोऽनूढा, तस्याः सगोत्रत्वात् प्रथमं धनाधिकाराच्च, “गोत्ररिक्थानुगः पिण्ड” इत्यनेन मनुना पिण्डस्य गोत्रानुगत्वाभिधानात्।
दुहिता पुत्रवत् कुर्यात् मातापित्रोस्तु संस्कृता।
अशौचमुदक पिण्डमेकोद्दिष्टं सदा तयोः॥
इति भारद्वाजवाक्यमसंस्कृताया अभावे संस्कृताया अप्यधिकारप्रतिपादकम्। तदभावे दौहित्रः।
दत्तानां चाप्यदत्तानां कन्यानां कुरुते पिता।
चतुर्थेऽहनि तास्तेषां कुर्वीरन् सुसमाहिताः॥
मातामहानां दौहित्राः कुर्वन्त्यहिने चापरे।
इति ब्रह्मपुराणीयपाठक्रमात्।
पौत्रदौहित्रयोर्लोके न विशेषस्तु धर्मतः।
तयोर्हि मातापितरौ सम्भूतौ तस्य देहतः॥
[ अ० ९ श्लो० १३३ ]
इति मनुवचनेन पौत्रदौहित्रयोस्तुल्यविधानाच्च। तेन यथा पुत्राभावे पौत्रस्तथा दुहित्रभावे दौहित्र इति सिद्धम्। दुहितुरनन्तरं दौहित्रस्य धनाधिकाराच्चस एव पिण्डाधिकारी।न च दत्तकन्यादौहित्राभ्यां प्राक् सगोत्रत्वात् सोदराधिकार इति वाच्यम्। पिण्डदानादेर्धनसाध्यतया गोत्रापेक्षया रिक्थस्य बलवत्वेन रिक्थग्राहिणोर्दुहितृदौहित्रयोर्बलवत्वात्।
दौहित्राभावेसहोदरः—
पितुः पुत्रेण कर्तव्या पिण्डदानोदकक्रिया।
तदभावे तु पत्नी स्यात् तदभावे सहोदरः॥
इतिशङ्खवाक्यात्। अत्र पत्नीपदं दौहित्रपर्यन्तोपलक्षणम्। ब्रह्मपुराणमपि।
भ्रातुर्भ्राता स्वयं चक्रे तद्भार्या चेन्नविद्यते।
तस्य भ्रातृसुतश्चक्रे यस्य नास्ति सहोदरः॥
तत्र प्रथमतः कनिष्ठस्याधिकारः, तदभावे ज्येष्ठस्य।“नानुजस्य तथाग्रज” इति छन्दोगपरिशिष्टवचनेनानुजे विद्यमाने अग्रजस्य कनिष्ठभ्रातृश्राद्धनिषेधात्। यद्यप्यनेन ज्येष्ठस्याधिकार एव निषिध्यते।तथापि—
पुत्रो भ्राता पिता वापि मातुलो गुरुरेव च।
एते पिण्डप्रदा ज्ञेयाः सगोत्राश्चैव बान्धवाः॥
इति प्रचेतोवचनेन भ्रातृत्वेन ज्येष्ठभ्रातुरप्यधिकारप्रतिपादनात्
कनिष्ठसद्भाव एवायं निषेध इति सम्प्रदायः।
अन्ये तु—
न जायायाः पतिर्दद्यात् अपुत्राया अपि क्वचित्।
न पुत्रस्य पिता चैव नानुजस्य तथाग्रजः॥
इतिछन्दोगपरिशिष्टवचनेन सामान्यतो यद्यपि पत्यादेर्निषेधः श्रूयते, तथापि—
भार्यापिण्ड पतिर्दद्यात् भर्त्रे भार्यातथैव च।
श्वश्व्रादेश्चस्नुषा चैव तदभावे सपिण्डकाः॥
इतिशङ्खवचनेन पत्युरधिकारप्रतिपादनात् “पुत्रो भ्राता पिता वापी”त्यादिप्रचेतोवचनेन पितुरधिकारप्रतिपादनादधिकार्यन्तरसद्भावेपतिपित्रोर्निषेधकमस्तु छन्दोगपरिशिष्टवाक्यम्, भ्रात्रधिकारप्रतिपादकानां च वाक्यानां कनिष्ठभ्रातृपरत्वेनाप्युपपते “र्नानुजस्य तथाग्रजः” इत्येतस्यापि सङ्कोचे मानाभावः। यदि च—
यदि स्नेहेन कुर्वीतसपिण्डीकरण विना।
गयायां च विशेषेण ज्यायानपि समाचरेत्॥
इति छन्दोगपरिशिष्टनाम्ना पठ्यमान वचनं समूलं, तदाऽस्तु ज्यायसोऽपि सपिण्डीकरणातिरिक्तश्राद्वेष्वधिकार इति वदन्ति।
कनिष्ठवाहुल्ये त प्रथमं मृतानन्तरस्तदभावे तदनन्तरः सन्निकर्षतारतम्यात्, एवज्येष्ठबाहुल्येऽपि बोध्यमिति वदन्ति। सोदराभावे वैमात्रेयः, तस्याप्येकपितृजन्यत्वरूपभ्रातृत्वसद्भावेन भ्रात्रधिकारप्रतिपादकवाक्येन तस्याप्यधिकारप्रतिपादनात्। न चेकोदरजन्यत्वमपि भ्रातृपदार्थान्तर्गतामिति वाच्यम्। तथासत्यसहोदरस्य भ्रातृत्वाभावेन परिवेदनाप्रसक्तोछन्दोगपाराशिष्टिन देशान्तरस्थक्लोबेकवृषणानसहोदरान् इत्युपक्रम्य"परिबिन्दन्न दुष्यति” इत्यनेन सोदरस्य परिवेदनप्रतिप्रसवानुपपत्तेः। तत्रापि ज्येष्ठकनिष्ठयोः क्रमशोऽधिकारः पूर्वोक्तयुक्तेः। न च “तस्य भ्रातृसुतश्चक्रेयस्य नास्ति सहोदरः” इति ब्रह्मपुराणवचनात् सहोदराभावे भ्रातृसुतस्यैवाधिकारो न वैमात्रेयस्येतिवाच्यम्।“भ्रातुर्भाता स्वय चक्रे तद्भार्या चेन्नविद्यते” इति तत्पूर्वाद्धार्थपर्यालोचनया सोदरपदस्य भ्रातृपरत्वप्रतीतेः। तदभावे कनिष्ठः सहोदरस्य पुत्रः, तदभावे ज्येष्ठः सहोदरस्य पुत्रः, तदभावे कनिष्ठवेमात्रेयः, तदभावे ज्येष्ठवैमात्रेयः इति क्रमः,
सहोदरादितुल्यन्यायत्वात्। तदभावे पिता।“पुत्रो भ्राता पिता वापी"त्यादिप्रचेतोवचनोक्तक्रमत्यागे बीजाभावात्। तदभावे माता जननी, “पुत्रो भ्राता पिता वापी"त्यत्रापिशब्देन मातुः समुच्चयात्। “पितरो भ्रातरस्तथा” इत्यत्र याज्ञवल्क्यवचने धनाधिकारे तथा दर्शनात्।
असमाप्तव्रतस्यापि कर्तव्यं ब्रह्मचारिणः।
श्राद्धादि मातापितृभिर्नतु तेषां करोति सः॥
इति ब्रह्मपुराणाच्च। “न च माता न च पिता कुर्यात् पुत्रस्य पैतृकम्” इति कात्यायनवचनन्तु भातृपुत्रपर्यन्तसद्भावे द्रष्टव्यम्।जनन्यभावेऽपि माता। “सर्वा पितृपत्न्यो मातर इति सुमन्तुवाक्येन तस्या अपि मातृत्वस्मरणेन मातृकार्यकारित्वोपपत्तेः। तदभावे स्नुषा। “श्वश्व्रादेश्व स्नुषा चैव " इतिशङ्खवचनात्। आदिपदेन श्वशुरपरिग्रहः, न तु श्वश्व्राअपि श्वश्रूरादिपदार्थः, स्नुषेत्यनुपपत्तेः। तदभावे सपिण्डाः, सन्निधितारतम्येन क्रमशोऽधिकारिणः, तदभावे समानोदकाः"सपिण्डसन्ततिर्वापि” इतिवक्ष्यमाणविष्णुपुराणवचनात्। तदभावेमातामहः।
मातामहानां दौहित्राः कुर्वन्त्यहनि चापरे।
तेऽपि तेषां प्रकुर्वन्ति द्वितीयेऽहनि सर्वदा॥
इति ब्रह्मपुराणात्। तदभावे मातुलः। तदभावे भागिनेयः “स्वस्त्रीयो मातुलस्य” इति शातातपवाक्यात्, तदभावे सन्निधिक्रमेण मातामहसपिण्डाः, तदभावे तत्समानोदकाः। “मातृपक्षस्य पिण्डेन सम्बद्धा ये जलेन वा” इति विष्णुपुराणवाक्यात्। तदभावे सन्निधितारतम्येन स्वबान्धवा, तदभावेपितृबान्धवाः, तदभावे मातृबान्धवाः, “सगोत्राश्चैव बान्धवाः” इत्युदाहृतप्रचेतावाक्येन बान्धवानामप्यधिकारप्रतिपादनात्। “तत्सुतो गोत्रजो बन्धुः” इति याज्ञवल्क्यवाक्येन बन्धूनां धनाधिकारप्रतिपादनाच्च। ते च—
आत्मपितुः श्वसुः पुत्रा आत्ममातुः स्वसुः सुताः।
आत्ममातुलपुत्राश्च विज्ञेया आत्मबान्धवाः॥
पितुः पितृष्वसुः पुत्राः पितुर्मातृष्वसुः सुताः।
पितुर्मातुलपुत्राश्च विज्ञेयाः पितृबान्धवाः॥
मातुः पितुःस्वसुः पुत्रा मातुर्मातुः स्वसुः सुताः।
मातुर्मातुलपुत्राश्च विज्ञेया मातृबान्धवाः॥
तदभावे श्वशुरः, तदभावे जामाता, “जामातुः श्वसुराश्चक्रुः तेषां ते चापि संगताः” इति ब्रह्मपुराणात्, तदभावे मातामहीभ्राता।
“भागिनेयीसुतानां च सर्वेषां त्वपरेऽहनि।
श्राद्धं कार्यंच प्रथमे स्नात्वा कृत्वा जलक्रियाम्॥
इति ब्रह्मपुराणात्। तदभावे यथाक्रम शिष्यर्त्विगाचार्याः, “पुत्राभावे सपिण्डा मातृसपिण्डा वा शिष्याश्च दद्युः, तदभावे ऋत्विगाचार्या.” इति गौतमस्मरणात्। तदभावे सब्रह्मचारिणः, “शिष्यसब्रह्मचारिणः” इति याज्ञवल्क्येन सब्रह्मचारिणो धनाधिकारप्रतिपादनात्। तदभावे स्वसुहृत्पितृसुहृदौ, “मित्राणां तदपत्यानाम्” इति ब्रह्मपुराणवाक्यात्।सर्वाभावे राजा कारयेत् “सर्वाभावे तु नृपतिः कारयेत्तस्य रिक्थत” इति स्कान्दोक्तेः। अधिकारिविशेषेण क्रियाव्यवस्थोक्ता—
विष्णुपुराणे।
पूर्वाः क्रिया मध्यमाश्चतथा चैवोत्तराः क्रियाः।
त्रिप्रकाराः क्रिया ह्येतास्तासां भेदान् शृणुष्व मे॥
आदाहादादशाहाच्च मध्ये याः स्युः क्रिया नृप।
ताः पूर्वा, मध्यमा मासिमास्येकोद्दिष्वसंज्ञिताः॥
प्रेते पितृत्वमापन्नेसपिण्डकिरणादनु।
क्रियन्ते याः क्रियाः पुत्रा [त्रैः] प्रोच्यन्ते ता नृपोत्तराः॥
पितृमातृसपिण्डैश्च समानसलिलैस्तथा।
तत्सङ्घातगतैश्चैव राज्ञा च धनहारिणा॥
पूर्वा मध्याश्च कर्तव्याः पुत्राद्यैरेव चोत्तराः।
दौहित्रैर्वा नरश्रेष्ठ कार्यास्ततनयैस्तथा॥
मृताहनि तु कर्तव्याः स्त्रीणामप्युत्तराः क्रियाः।
[ इति अधिकारिनिर्णयः। ]
अथ जीवच्छ्राद्धनिर्णयः।
तत्र बौधायनः।
अथातो जीवच्छ्राद्धविधिं व्याख्यास्यामः। यस्त्वात्मनः श्रेयसमिच्छति अपरपक्षे त्रयोदशीमुपोष्यतस्मिन्नेवाहनि सम्भारानुपकल्पयते, यान्यौर्ध्वदेहिकानि मृतानां, (१)84 वस्त्रषट्कं सुवर्णसूचीमङ्कुशं कन्यांरज्जुं
पालाशवृन्तं कृष्णाजिनमौदुम्बरीमासन्दींकलशादीन्यपि, तस्मिन्नेवाहनि, श्वोभूते?स्नात्वा मध्याह्ने जले स्थित्वोपोत्थाय (१)85 पुण्याहं स्वस्त्ययनमिति वाचयित्वा वस्त्राङ्गुलीयकं दक्षिणां दद्यात्, सघृतं पायसं दक्षिणामुखोऽश्नीयात्।अथ श्राद्धोक्तविधिनाग्निमुपसमाधाय परिस्तीर्याग्निमुखान् कृत्वा पक्काज्जुहोति “चत्वारि शृङ्गा” इति पुरोनुवाक्यामनूच्यत्रिधा हितमिति याज्ययाजुहोति। तत्सवितुर्वरेण्यमिति पुरोनुवाक्यामनूच्य’योजयित्री सूनृतानाम्’ इति याज्यया जुहोति। ये चत्वार इति पुरोनुवाक्यामनूच्यद्वे स्रुती इति याज्यया जुहोति। (२)86 वसूनि पुरोनुषाक्यामनूच्ययातिरश्चीनिपद्यतेहमिति याज्यया जुहोति। अथाज्याहुतीरुपजुहोति, पौरुषेण सूक्तेनाष्टादशर्चेन घृतं हुत्वागायत्र्या अष्टसहस्रमष्टशतमष्टाविंशतिंवा जुहुयात् स्विष्टकृत्प्रभृतिसिद्धमाधेनुवरप्रदानात्। धार्य एवाग्निरासमाप्तेः। चक्षुष्पथं गत्वा सूचीमङ्कुशंकन्थां रज्जुमिति कृष्णतनवे ह्रस्वाय ब्राह्मणाय दत्वा प्रीयन्तां यमकिङ्करा, इति वाचयित्वा व्रीहिषु कलशान् सादयेत्, तस्तुनावेष्ट्य जलपूर्णान् पुरुषाकृतिं कृत्वात्रीणि शीर्ष्णि, मुखे त्रीणि ग्रोवायामेकविंशतिं शरीरे चतुष्टयं,बाहोर्द्वेलिङ्गस्यैकं, पादयोः पञ्च पञ्चेतिप्रीतोस्तु भगवान् यमः, इति। तत आसन्दीं कृत्वा पञ्चगव्येन प्रक्षाल्य पलाशवृन्तैः कृष्णाजिने पुरुषाकृतिं कृत्वा कलशपुरुषे प्राणानभिनिवेश्य वृन्तशरीरे देहमभिनिवेश्य स्वपेत्।उदितेसूर्ये कलशैर्देहं स्वयमेवाभिषेचयेत् पौरुषेण सूक्तेनपञ्चगव्येन शुद्धोदकेन, सायाह्ने सतिलमन्न सर्पिषाऽश्नीयात्। ब्राह्मणानपि यमकिङ्करतृप्तये भोजयेत्। चतुर्थ्यां यन्त्र दाहः, उदकं पिण्ड चामुकगोत्राय मह्यं पिण्डमामुत्रिकं स्वधेति नमस्कारान्तं कृत्वा समापयेत्।
तत्राशौचं दशाहं स्थात् स्वस्यज्ञातेर्न विद्यते।
एकादश्यामेकोद्दिष्टमिति प्रतिपद्यते। अथाप्युदाहरन्ति।
आपन्नः स्त्री च शूद्रश्च मन्त्रैर्दग्ध्वा स्वकां तनुम्।
तदह्नैवक्रियाः सर्वाः कुर्यादित्येव हि श्रुतिः।
स्त्रीणां तूष्णीं समन्त्रक वा, मासिमास्येवं संवत्सरादूर्ध्वं प्रतिसंवत्सरमाद्वादशाब्दात्, ततो निवृत्तिः, यदा स्वयं न शक्नुयात्, तदा पुत्रादयः कुर्युः।
अथाप्युदाहरन्ति।
जीवन्नेवात्मनः श्राद्धं कुर्यादन्येषु सत्स्वपि।
यथाविधि प्रवृत्याशु सपिण्डीकरणादृते॥ इति।
तस्योक्तं कालं न विलम्बयेत्, यतोऽनित्यम् जीवनमिति शेषं समापयेत् इत्याह—भगवान् बौधायनः।
लिङ्गपुराणे।
जीवच्छ्राद्धविधिं वक्ष्ये समासाच्छुतिसम्मतम्।
मनवे देवदेवेन कथितं ब्रह्मणा पुरा॥
(१)87 वासिष्ठाय वसिष्ठाय भार्गवाय च साम्प्रतम्।
शृण्वन्तु सर्वभावेन सर्वसिद्धिकरं परम्॥
श्राद्धमार्गक्रमं साक्षात् श्राद्धार्हाणामपि क्रमम्।
विशेषमपि वक्ष्यामि जीवच्छ्राद्वेषु यः स्मृतः॥
पर्वते वा नदीतीरे बने देवालयेऽपि वा।
जीवच्छ्राद्धंतु कर्तव्यं मृत्युकाले प्रयत्नतः।
जीवच्छ्राद्धे कृते जीवो जीवन्नेव विमुच्यते॥
कर्म कुर्वन्नकुर्वन् वा अज्ञानो ज्ञानवानपि।
श्रोत्रियोऽश्रोत्रियो वापि ब्राह्मणः क्षत्रियोऽपि वा॥
वैश्यो वा नात्र सन्देहो योगमार्गरतो यथा।
परीक्ष्य भूमिं विधिना गन्धवर्णरसादिभिः॥
शल्यमुद्धृत्य यत्नेन स्थण्डिलं सैकतं भुवि।
मध्यतो हस्तमानेन कुण्डं चैवाग्रतः शुभम्॥
स्थण्डिलं वा प्रकर्तव्यमिषुमात्रं पुनः पुनः।
उपलिप्य विधानेन चोल्लिख्याग्निंनिधाय च॥
अन्वाधाय यथाशास्त्रं (२)88 परिसमुह्य सर्वतः।
परिस्तीर्य स्वशाखोक्तं पारम्पर्यक्रमेण तु॥
समाप्याग्निमुखं सर्वं मन्त्रैरेतैर्यथाक्रमम्।
सम्पूज्य स्थण्डिले वह्नौहोमयेत् समिधादिभिः॥
आदौ कृत्वा समिद्धोमं चरुणा च पृथक् पृथक्।
घृतेन च पृथक्पात्रे शोधितेन पृथक् पृथक्॥
जुहुयादात्मनोद्धृत्य तत्वभूतानि सर्वतः।
ॐ भूर्ब्रह्मणे नमः। ॐ भूर्ब्रह्मणे स्वाहा। ॐ भुवः विष्णवे नमः। भुवः विष्णवे स्वाहा। ॐ स्वः रुद्राय नमः। ॐ स्वः रुद्राय स्वाहा। ॐ महः ईश्वराय नमः। ॐ महः, ईश्वराय स्वाहा। ॐ जनः प्रकृतये नमः। ॐ जनः प्रकृतये स्वाहा।ॐ तपः मुद्गलाय नमः। ॐ तपः मुद्रलाय स्वाहा। ॐ ऋतं पुरुषाय नमः। ॐ ऋतं पुरुषाय स्वाहा। ॐ सत्यं शिवाय नमः। ॐ सत्यं शिवाय स्वाहा। ॐ शर्व धरां मे गोपाय घ्राणे गन्धं शर्वाय देवाय भूर्नमः। ॐ शर्व धरां मे गोपाय घ्राणे गन्धं शर्वाय देवाय भूः स्वाहा। ॐ शर्व धरां मे गोपाय घ्राणे गन्धं शर्वस्य देवस्य पत्न्यैभूर्नमः।ॐ शर्व धरां मेगोपाय घ्राणे गन्धं शर्वस्य देवस्य पत्न्यै भूः स्वाहा। ॐ भव जलं मे गोपाय जिह्वायां रस भवाय देवाय भुवो नमः। ॐ भव जलं मे गोपाय जिह्वायां रसं भवाय देवाय भुवः स्वाहा। ॐ भव जलं मे गोपाय जिह्वायां रसं भवस्य देवस्य पत्न्यै भुवो नमः। ॐ भव जलं मे गोपाय जिह्वायां रसं भवस्य देवस्य पत्न्यैभुवः स्वाहा। ॐ रुद्राग्निं मे गोपाय नेत्रं रूपं रुद्राय देवाय स्वर्नमः। ॐ रुद्राग्निंमे गोपाय नेत्रे रूपं रुद्राय देवाय स्वः स्वाहा। ॐ रुद्राग्निं मे गोपाय नेत्रे रूपं रुद्रस्य देवस्य पत्न्यैस्वर्नमः। ॐ रुद्राग्निं मे गोपाय नेत्रे रूपं रुद्रस्य देवस्य पत्न्यै स्वः स्वाहा। ॐ उग्रवायुं मे गोपाय त्वचि स्पर्शंउग्राय देवाय महर्नमः। ॐ उग्र वायुं मे गोपाय त्वचि स्पर्शं उग्राय देवाय महः स्वाहा। ॐ उग्र वायुं मे गोपाय त्याच स्पर्शं उग्रस्य देवस्य पत्न्यैमहर्नम। ॐ उग्र वायु मे गोपाय त्वाचिस्पर्शं उग्रस्य देवस्य पत्न्यै महः स्वाहा। [ॐ] भीम सुषिर मे गोपाय श्रोत्रे शब्दं भीमाय देवाय जनो नमः। ॐ भीम सुषिरं मे गोपाय श्रोत्रे शब्दं भीमाय देवाय जनः स्वाहा। ॐ भीम सुषिरं मे गोपाय श्रोत्रे शब्दं भीमस्य देवस्य पत्न्यैजनो नमः। ॐ भीम सुषिरं मे गोपाय श्रोत्रे शब्दं
भीमस्य देवस्य पत्न्यैजनः स्वाहा। ॐ ईश रजो मे गोपाय द्रव्ये तृष्णां ईशाय देवाय तपो नमः। ॐ ईश रजो मे गोपाय द्रव्ये तृष्णां ईशाय देवाय तपः स्वाहा। ॐ ईश रजो मे गोपाय द्रव्ये तृष्णां ईशस्य देवस्य पत्न्यै तपो नमः।ॐ ईश रजो मे गोपाय द्रव्ये तृष्णामीशस्य देवस्य पत्न्यै तपः स्वाहा। ॐ महादेव सत्यं मे गोपाय श्रद्धां धर्मे महादेवाय ऋतं नमः। ॐ महादेव सत्यं मे गोपाय श्रद्धां धर्मे महादेवाय ऋतं स्वाहा। ॐ महादेव सत्यं मे गोपाय श्रद्धां धर्मे महादेवस्य पत्न्यै ऋतं नमः। ॐ महादेव सत्यं मे गोपाय श्रद्धां धर्मे महादेवस्य पत्न्यै ऋतं स्वाहा। ॐ पशुपते पाशं मे गोपाय भोक्तृत्वं भोग्ये पशुपतये देवाय सत्यं नमः। ॐ पशुपते पाशं मे गोपाय भोक्तृत्वं भोग्ये पशुपतये देवाय सत्यं स्वाहा। ॐ पशुपते पाशं मे गोपाय भोक्तृत्वं भोग्येपशुपतेर्देवस्य पत्न्यै सत्यं नमः। ॐ पशुपते पाशं मे गोपाय भोक्तृत्व भोग्ये पशुपतेर्देवस्य पत्न्यै सत्यं स्वाहा। ॐ शिवाय सत्यं नमः। ॐ शिवाय सत्यं स्वाहा।
एवं शिवादिहोतव्यं विरिञ्च्यन्तं च पूर्ववत्।
विरिञ्च्यन्त [ञ्च्याद्यं] पुराप्रोक्तंसृष्टिमार्गेण सुव्रताः॥
पुनः पशुपतेः पत्नींतथा पशुपतिं क्रमात्।
सम्पूज्य पूर्ववन् मन्त्रैर्होतव्यंवै क्रमेण च॥
चर्वन्तमाज्यपूर्वं च समिदन्तं समाहितः।
ॐ शर्वधरां मे छिन्धि, घ्राणे गन्धं छिन्धि, मेऽघं जहि। भूः स्वाहा।भुवः स्वाहा।स्वः स्वाहा। भूर्भुवः स्वाहा।
एवं पृथक् पृथक् हुत्वा केवलेन घृतेन च॥
सहस्रं वा तदर्धंवा शतमष्टोत्तरं तु वा।
(१)89पशुपत्यन्तमाज्येन शतमष्टोत्तरं पृथक्॥
प्राणादिभ्यश्च जुहुयात् घृतेनैव तु केवलम्।
ॐ प्राणेनिविष्टोऽमृतं जुहोमि शिवो मा विशाप्रदाहाय प्राणाय स्वाहा।प्राणाधिपतये रुद्राय वृषान्तकाय स्वाहा। ॐ भू. स्वाहा।
ॐ
भुवः स्वाहा।स्वः स्वाहा।भूर्भुवः स्वः स्वाहा।
एवं क्रमेण जुहुयात् श्राद्धोक्तं च यथाक्रमम्।
सप्तमेऽहनि (१)90 विप्रेन्द्रान् श्राद्धार्हानविप्र योजयेत्॥
सर्वेषां चैव विप्राणा वस्त्राभरणसयुतम्।
वाहन शयनं (२)91 कांस्यमासनादि च भाजनम्॥
हैमं वै राजतं धेनुं तिलक्षेत्रं च वै गृहम्।
दासीदासगणं चैव दातव्यं दक्षिणापि च॥
पिण्डञ्चपूर्ववद्देयं पृथगुक्तप्रकारतः।
ब्राह्मणानां सहस्रं च भोजयेच्चसदक्षिणम्।
एकं वा योगनिरतं ब्रह्मनिष्ठं जितेन्द्रियम्॥
प्रत्यहं चैव रुद्रस्य महाचरुनिवेदनम्।
विशेषमेतत् कथितमशेषं श्राद्धचोदितम्॥
मृते कुर्यान्न कुर्याद्वा जीवन् मुक्तो यतः स्वयम्।
नित्यं नैमित्तिक यत्तु कुर्याद्वा सन्त्यजेत वा॥
बान्धवेऽपि मृते तस्य नैवाशौचं विधीयते।
सूतकं च न सन्देहः स्नानमात्रेण शुद्ध्यति।
पश्चाज्जाते कुमारे च स्वक्षेत्रे चात्मनो यदि॥
तस्य सर्वं प्रकर्तव्यं पुत्रोऽपि ब्रह्मविद् भवेत्।
कन्यका यदि सञ्जाता पश्चात्तस्य महात्मनः॥
एकपर्णा इवाज्ञेया अपर्णा इव सुव्रता।
भवत्येव न संदेहस्तस्याश्चान्वयजा अपि॥
मुच्यन्ते नात्र सन्देहः पितरो नरकादपि।
मुच्यन्ते (३)92 सर्वकर्माणो मातरः पितरस्तथा॥
कालङ्गते द्विजे भूमौ खनेद्वापि दहेत वा।
पुत्रकृत्यमशेषं वा कृत्वा दोषो न विद्यते॥
कर्मणा चोत्तरेणैव गतिरस्य महात्मनः।
ब्रह्मणा कथितं सर्वंमुनीनां भावितात्मनाम्॥
पुनः सनत्कुमाराय कथित तेन धीमता॥
कृष्णद्वैपायनायैव कथितं ब्रह्मसूनुना।
प्रसादात्तस्य देवस्य वेदव्यासस्य धीमतः॥
ज्ञातं मया कृतं चैव नियोगादेव तस्य तु।
एतद्वः कथित सर्वंरहस्य सर्वसिद्धिदम्॥
नैव दुष्टाय दातव्यं न चाभक्ताय सुव्रताः।
अत्र कानिचित् पदानि व्याख्यायन्ते॥
वक्ष्ये इति=सूतः श्रोतॄन् प्रत्याह। श्राद्धमार्गेति। जीवच्छ्राद्धाद्यधि कारप्रकारम्। विशेष=देशकालादिरूपम्। मृत्युकाले= मरणकाले समासन्ने। जीवन्नेवेति=सत्वशुद्धिद्वारेण तत्वज्ञानलाभात् मुच्यत एवेत्यर्थः। अग्रत इति। मध्यस्थण्डिलादर्च्यार्चनार्थात् प्राग्दिशि कुण्ड स्थण्डिलं वा होमार्थं कार्यम्। एतैः=वक्ष्यमाणब्रह्मादिमन्त्रैः। स्थण्डिले ब्रह्मादीन् सम्पूज्य तैरेव समिधादीन् जुहुयात्। आत्मनोद्धृत्येति। आत्मस्थानि तत्वानि भूतानि च तत्तन्मन्त्रप्रकाशितानि एकैकशः समुद्धृत्य पृथक् कृतानीति भावयित्वा तां तां देवतामुद्दिश्य जुहुयात्। ततस्तत्तत्तत्वं शुद्धं भावयेत्। अत्र नमोन्तः पूजायां, स्वाहान्तो होमे मन्त्रः। तत्र ब्रह्मादिप्रथमाष्टके तत्तद्देवानां पूजाहोमौ। एवं सृष्टिक्रमेण द्विचतुर्विंशतिमन्त्रानुक्त्वासंहारे तद्विपरीतताप्रदर्शनार्थंप्रथमाष्टकप्रान्तमन्त्रमाद्यत्वेनोदाहरति। ॐ शिवाय सत्यमित्यादि। एवमिति। सृष्टिक्रमेण प्रागुक्तविरिञ्च्यादिशिवान्तदेवताष्टकमन्त्रेषु पुनः संहारक्रमेण ॐ शिवाय सत्यं स्वाहेत्यादि ब्रह्मणे स्वाहेत्यन्तम्। तथा पशुपतिपत्न्यादिशर्वान्तं उक्तक्रमेण सम्पूज्य घृतचतु[रु]समित्क्रमात् प्रत्येकं होतव्यम्। ॐ शर्वेत्यादिकेवलाज्यहोममन्त्राः। तत्र शर्व धरामिति वाक्यत्रयान्ते भुवः स्वाहेति तृतीयो भूर्भुवः स्वाहेति चतुर्थो मन्त्रः। एव पृथक् पृथक्। अथ भूः स्वाहेत्यादिभिरूहितैः श्चतुर्भिर्मन्त्रैः होमः तथा विरञ्चिमन्त्रैश्च तथा प्राणे निविष्ट इत्यादि षण्मन्त्रैश्च श्राद्धोक्तः पितृपितामहप्रपितामहोद्देश्यको होमश्च। एवं सप्ताहं प्रत्यहं हुत्वा सप्तमे दिने भवादितत्वोद्देशेन विप्रानभ्यर्च्य शर्वादिभ्योऽष्टौ पिण्डा देयाः। एवं कृते जीवच्छ्राद्धे स्वबान्धवे मृते नाशौचं न च सूतकम्। तस्मादुत्पन्नः पुत्रोऽपि पित्रादिना जातकर्मादिना संस्कार्यः स च
ज्ञानीभवेत्। एवं दुहिता च। तथा चैतत् सन्ततौ योगिनो जायन्त इति।
आदिपुराणे।
देशकालधनश्रद्धाव्यवसायसमुच्छ्रये।
जीवते चाप्यजीवाय दद्यात् श्राद्धं स्वयं नरः॥
वाशब्दाच्छ्राद्धकर्त्रन्तराभावे स्वयमेव स्वस्य श्राद्धं कर्तव्यमिति।
तथा।
कृतोपवासः सुस्नातस्त्रयोदश्यां समाहितः।
कर्तारमथ भोक्तारविष्णुं सर्वेश्वरं यजेत्॥
जले स्थलेऽम्बरे मूर्तौकलशे पुष्करे रवौ।
चन्द्राग्निगुरुगोविप्रमातापितृषु सर्वगम्॥
सदक्षिणाश्चसतिलास्तिस्रस्तु जलधेनवः।
निवेदयेत् पितृभ्यश्च तदग्रेषु समाहितः॥
एवं विष्णुं सम्पूज्य पितुरुद्देशेन तिस्रो जलधेनूर्दद्यात् कैर्मन्त्रैरित्यपेक्षित आह—
सोमायत्वा पितृमते स्वधा नम इति ब्रुवन्।
अग्नये कव्यवाहनाय स्वधा नम इति स्मरन्॥
दक्षिणे तु निदध्याच्च तृतीयां दक्षिणायुताम्।
यमायाङ्गिरसे वाथ स्वधा नम इति स्मरन्॥
तयोर्मध्ये तु निक्षिप्य विप्रान् पञ्चोपवेशयेत्।
अग्नये कव्यवाहनाय स्वधा नम इतीमं मन्त्रं स्मरन् “दक्षिणेन द्वितीयां निदध्यात्” इत्युक्तेः, अर्थात् प्रथमायाउत्तरतो निधानं सिद्धं भवति। तृतीयान्तु तयोः पूर्वोक्तयोर्धेन्वोर्मध्ये निक्षिप्य पञ्चविप्रानुपवेशयेत् इति योजना।
आवाहनादिना पूर्वं विश्वेदेवान् प्रपूज्य च।
वसुभ्यस्त्वामहं विप्र रुद्रेभ्यस्त्वामहं ततः॥
सूर्येभ्यस्त्वामहं विप्र भोजयानीति तान् वदेत्।
आवाहनादिकं सर्वंकुर्याच्च पितृकर्मवत्॥
सौम्यधेनुस्ततो देया वासवाय द्विजाय तु।
आग्नेयीं चाथ रौद्राय याम्यां सूर्यद्विजाय तु॥
विश्वेभ्यश्चाथ देवेभ्यस्तिलपात्रं निवेदयेत्।
वासबाय= वसुभ्यस्वामहं भोजयानीत्येवंनिमन्त्रिताय।एवमग्रेऽपि—
स्वस्त्युदकमक्षय्यं जलं दत्वा च तान् द्विजान्।
विसर्जयेत् स्मरन् विष्णुदेवमष्टाक्षरं विभुम्॥
ततः कामकुलेशानं निशि नारायणं स्मरेत्।
एतत्सर्वं कृष्णत्रयोदश्यां कृत्वा अपरदिने यत् कर्तव्यं तदाह—
चतुर्दश्यामथो गच्छेत् यथाप्राप्तां सरिद्वराम्।
पूर्वेण विप्रः सौम्बेन राजा वैश्योऽपरेण च॥
दक्षिणेन तथा शूद्रो मार्गेण विकिरन् यवान्।
सौम्येन=उत्तरेण।
वस्त्राणि लोहदण्डांश्च जितं (१)93 तत इति स्मरन्।
दक्षिणाभिमुखो वह्निं ज्वालयेत्तत्र च स्वयम्॥
पञ्चाशता कुशैर्ब्राह्मीं कृत्वा प्रतिकृतिं दहेत्।
तत्र=सरित्तीरे। स्वयमित्यन्यनिवृत्त्यर्थम्। प्रतिकृतिः= शरीराकृतिः।
कृत्वा श्माशानिकं हौत्रं पूर्णाहुत्यन्तमेव हि।
पूर्णाहुत्यन्तश्माशानिकं हौत्रं कृत्वा प्रतिकृतिं संदहेदिति सम्बन्धः। तत्र चायं प्रकारः, उत्सन्नाग्निना पृष्ठोदिविपक्षोत्पादितेऽग्नौ स्वगृह्योक्तविधिना पूर्णाहुत्यन्तं कृत्वाग्निप्रदानमन्त्रेणाज्यं हुत्वा प्रतिकृतिदाहः कार्यः।पृष्ठोदिवि पक्षः कात्यायनेनोक्तः।
अन्वग्निरिति मन्त्रेण ग्रामाग्निंतु समाहरेत्।
पृष्ठोदिवीति चादध्यात् सावित्र्या ज्यालयेदथ॥
तत्सवितुर्वरेण्यं तु विश्वानीति स्मृतोऽपरः।
ग्रामाग्निः=लौकिकाग्निः। स च श्रोत्रियागारादाहर्तव्यः।सावित्र्या= तत्सवितुर्वरेण्यमित्यनया।विश्वानीति च योऽपरो मन्त्रस्तेन च ज्वालयेत्। अकृताग्निपरिग्रहेण तु इत्थं कर्त्तव्यमित्याह—
निरग्निरथवा भूमिं यमं रुद्र च संस्मरन्।
हुत्वा प्राजहिके स्थाने पश्चाद् दाहापयेच्च ताम्॥
ताम्= पूर्वोक्तां कुशप्रतिकृतिम्।
श्रपयेच्चापरे वह्नौमुद्गमिश्रं चरुं ततः।
तिलतण्डुलमिश्रंतु द्वितीयं सपवित्रकम्॥
अपरे=प्रतिकृतिदाहसाधनीभूतादन्यस्मिन्। ततश्चचरुश्रवणार्थमपि पूर्ववदग्निरुत्पादनीयः। सपवित्रकमिति=पवित्रपाणिना कर्तव्यमित्यर्थः। शृतचर्वभिधारणानन्तरकर्तव्यमाह—
मधुक्षीरघृताम्भोभिः पूरयेत्कर्षुकात्रयम्।
तदुपान्ते समुद्गानि पात्राणि त्रीणि पूरयेत्॥
ॐ पृथिव्यै नमस्तुभ्यं इति चैकं निवेदयेत्।
ॐ यमाय नमश्चेति द्वितीयं तदनन्तरम्॥
ॐ नमश्चाथ रुद्राथ श्मशानपतये तथा।
ततो दीप्तं समिद्धाग्निंभूमौ प्रकृतिदाहकम्॥
क्रब्यादवह्नितप्तायै भूम्यै नम इति स्मरन्।
क्षीराक्तंजलकुम्भं तु विकिरेत् तत्प्रशान्तये॥
नाभिमात्रं ततस्तोयं प्रविश्य यमदिङ्मुखः।
सप्तभ्यो यमसंज्ञेभ्यो दद्यात् सप्त जलाञ्जलीन्॥
ॐ नमश्चाथ रुद्राय श्मशानपतये स्मरन्।
अमुकामुकगोत्रैतत्तुभ्यमस्तु तिलोदकम्॥
सूक्ष्मदेहैष ते पिण्डस्त्वर्धपुण्य[ष्प] सुगन्धिमान्।
धूपो दीपो वलिर्वासस्तवैषा तृप्तिरक्षया॥
दश पिण्डान् ततो दत्वा विष्णुं सौम्यमुखं स्मरन्।
निरुष्मणस्तु तत्तोयं नाभिमात्रं प्रविश्य च॥
प्रक्षिपेत् पूर्णकुम्भेन जलमध्ये पृथक् पृथक्॥
प्रदद्यात् पञ्चपञ्चान्यत्कुम्भांश्चाथ जलाञ्जलीन्।
द्वारोपान्ते गृहे चाथ क्षीरं तोयं च निक्षिपेत्॥
जीवात्र स्नाहि दुग्धं च पिबेदं चाप्यनुस्मरेत्।
याम्योन्मुखेषु दर्भेषु स्वपेत् पश्चादुदङ्मुखः।
अमावास्यां प्रकुर्याच्च जीवच्छ्राद्धमतः परम्।
सृतान्नमांसदधिभिः पूरयेत् कर्षुकात्रयम्॥
कुर्याच्च मासिकं मासिसपिण्डीकरणं ततः।
अशौचान्ते यतः सर्वंआत्मनो वापरस्य च॥
कुर्यादस्थिरतां ज्ञात्वा भक्त्यारोग्य धनायुषाम्।
इति जीवच्छाद्धनिर्णयः।
अथ संन्यासाङ्गश्राद्धनिर्णयः।
तत्र संन्यासमधिकृत्य—
बौधायनसूत्रे।
आदौ अग्निमान् पार्वणविधिनाष्टौ श्रद्धानि कुर्यात्। पूर्णमास्याममावास्यायां वा देवश्राद्धम्, ऋषिश्राद्धं, दिव्यश्राद्धं, मानुषश्राद्धं, भूतश्राद्धं, पितृश्राद्धं, मातृश्राद्धम्, आत्मनः श्राद्धं चेति।
देवश्राद्धे देवतात्रय ब्रह्मविष्णुमहेश्वराः। ऋषिश्राद्धे देवतात्रयं देवर्षिब्रह्मर्षिक्षत्रर्षयः। दिव्यश्राद्धे देवतात्रयं वसुरुद्रादित्याः। मनुष्यश्राद्धे देवतात्रयं सनकसनन्दनसनातनाः। भूतश्राद्धे देवतात्रयं पृथिव्यादीनि, [भूतानि] चक्षुरादीनि करणानि, चतुर्विधो भूतग्रामः। पितृश्राद्धे देवतात्रयं पितृपितामहप्रपितामहाः, मातामहमातुःपितामहमातुःप्रपितामहाश्च। मातृश्राद्धे देवतात्रयं मातृपितामहीप्रपितामह्यः। आत्मश्राद्धे देवतात्रयं, आत्मपितृपितामहाः।
अथातः शौनकप्रोक्तं संन्यासविधि व्याख्यास्यामः। पूर्वेद्युर्नान्दी मुखश्राद्धं कुर्यात्। देवर्षिदिव्यमनुष्यभूतपितृ [मातृ] आत्मनश्च पृथक् पृथक् पिण्डदानैर्युग्मैर्ब्राह्मणैः पिण्डोदकं दद्यात्। देवश्राद्धे देवतात्रयं [ब्रह्मविष्णुमहेश्वराः, पिण्डत्रयं दद्यात्। ऋषिश्राद्धे देवतात्रय,] देवर्षिक्षत्रार्षमनुष्यर्षयः, पिण्डत्रयं दद्यात्। दिव्यश्राद्धे देवतात्रयंवसुरुद्रादित्याः पिण्डत्रयं दद्यात्। मनुष्यश्राद्धे देवतात्रय सनकसनन्दनसनातनापिण्डत्रयं दद्यात्। भूतश्राद्धे देवतात्रयं पृथिव्यादीनि भूतानि, चक्षुरादीनि करणानि, चतुर्विधो भूतग्रामः, [पिण्डत्रयं दद्यात्। पितृश्राद्धे देवताषट्कम्, पितृपितामहप्रपितामहाः, मातामहप्रमातामहवृद्धप्रमातामहाञ्च पिण्डषट्कं दद्यात्, मातृश्राद्धे देवतात्रयं मातृपितामहीप्रपितामह्यः] पिण्डत्रयं दद्यात्। आत्मश्राद्धे देवतात्रयं आत्मपितृपितामहाः पिण्डत्रयं दद्यात्। नामगोत्र सम्बधात्पिण्डोदकं दद्यात्, अनन्तरं पुण्याहं वाचयेदिति। इति संन्यासाङ्गश्राद्धनिर्णयः।
प्रत्याशं परिवर्द्धतेऽर्थिजनतादैन्यान्धकारापहे
श्रीमद्वीरमृगेन्द्रदानजलाधिर्यद्वक्त्रचन्द्रोदये॥
राजादेशितमित्रमिश्रविदुषस्तस्योक्तिभिर्निर्मिते
ग्रन्थेऽस्मिन् खलु निर्मितः सुरुचिरःआद्धप्रकाशोऽगमत्॥
इति श्रीमत्सकलसामन्तचक्रचूड़ामणिमरीचिमञ्जरीनीराजितचरणकमलश्रीमन्महाराजाधिराजप्रतापरुद्रतनुजश्रीमन्महाराजमधुकरसाहसुनुचतुरुदाधिवलयवसुन्धराहृदयपुण्डरीकावकासदिनकरश्रीमन्महाराजश्रीवीरसिंहदेवोद्योजितश्रीहंसपण्डितारमजश्रीपरशुराममिश्रसुनुसकलविद्यापारावारपारीणजगहारिद्र्यमहागजपारीन्द्रषिद्वज्जनजीवातु श्रीमन्मित्रमित्रकृते वीरमित्रोदयामिधनिबन्धे
श्राद्धप्रकाशः ‘समाप्तः।
________________
सर्वविधपुस्तकप्राप्तिस्थानम्—
जयकृष्णदास–हरिदास गुप्तः–
चौखम्बा संस्कृत सीरिज आफिस,
विद्याविलास प्रेस, बनारस सिटी।
[TABLE]
[TABLE]
]
-
“अत्र बह्वीनामित्यस्य स्थाने सर्वासामित्यपि पाठः।” ↩︎
-
“क्रियाभ्युपगमात्वेतदिति पाठान्तरम्।” ↩︎
-
“एतत्कोष्ठान्तर्गतःपाठो मूलपुस्तके नास्ति अस्माभिरेव पर्याालोच्य सन्निवेशितः।” ↩︎
-
“अयं कोष्टान्तर्गतः पाठ आदर्शपुस्तके नास्ति।” ↩︎
-
“सम्प्रदानत्वमित्यर्थः।” ↩︎
-
“आधिवेदनिकाद्यश्चेति मुद्रितपुस्तके पाठः, आद्यशब्देन रिक्थक्रयसंविभागपरिग्रहाधिगमप्राप्तमिति विज्ञानेश्वरः।” ↩︎
-
“अन्यायकन्याशुल्कार्थमिति निर्णयसिन्धौ पाठः।” ↩︎
-
“मी० अ० ४ पा० १ सू० २।” ↩︎
-
“पालङ्क्यामिति मयूखे पाठः।” ↩︎
-
“गन्धालूरिति श्राद्धकाशिकायां पाठः। गन्धालू=कर्पूरशाकमिति व्याख्यातम्।” ↩︎
-
“नागरं चार्द्रकं देयमिति निर्णयसिन्धुद्धृत पाठः।” ↩︎
-
“वाससा चावधूतानीति निर्णयसिन्धौ पाठः।” ↩︎
-
“पूर्वमीमा० अ० २ पा० ३ अधि० २।” ↩︎
-
“यथा “राजानमभिषेचयेत्” इत्यभिषेकविधौ राज्ययोगात् पूर्वमेव प्रयुक्तस्य राजशब्दस्य क्षत्रियत्वमेव प्रवृत्तिनिमित्त न तु राज्ययोगः, तथा प्रकृतेऽपि ब्राह्मणशब्दस्यादृष्टविशेषप्रयोज्य ब्राह्मणत्वमेव प्रवृत्तिनिमित्तं न तु याजनादियोग इति ध्येयम्।” ↩︎
-
“आधानसाध्यस्यैवाऽऽहवनीयपदार्थत्वादिति भावः।” ↩︎
-
" समाप्तिकमिति मुद्रितपुस्तके पाठः।” ↩︎
-
" अनुष्ठानमिति विज्ञानेश्वरः।” ↩︎
-
“वैतानस्थमिति हेमाद्रौ पाठः।” ↩︎
-
“कुत्रचित् तृणाचिकेत इति पाठउपलभ्यते। तृणवत् सर्वमाचिकेतिं जानातीति तदर्थः। तथा च ब्रह्मपुराणम्। आचिकेतीति यो विश्वं तृणवत् सर्वनिस्पृहः। तृणाचिकेतः स गृही रागद्वेषविमत्सरः॥ इति।” ↩︎
-
“दीप्तशूलर्ष्ठ्ययोगुडानिति मुद्रितमनुस्मृतौ पाठः।” ↩︎
-
“दत्वेति दानखण्डे पाठः।” ↩︎
-
“अधोदृष्टिर्नैष्कृतिक इति मनुस्मृतौ पाठः।” ↩︎
-
“शठ इति दानखण्डे मनुस्मृतौ च पाठः।” ↩︎
-
“नष्टशोचे, इति दानखण्डे पाठः।” ↩︎
-
" दुर्बलमिति पाठान्तरम्।" ↩︎
-
“अगारदाहीत्यन्यत्र पाठः।” ↩︎
-
“मानकूटा इति कमलाकरोदूधृतः पाठः।” ↩︎
-
“कन्योपजीविन इति युक्तम्।” ↩︎
-
“स्वशाखां त्यक्त्वा परशाखयोपनीतस्तदध्यायी च काण्डपृष्ठ इति कमलाकरः ।” ↩︎
-
“अपाङ्क्तास्ते प्रकीर्तिता इति कमलाकरोद्धृतः पाठः ।” ↩︎
-
“वेदविद इति वायुपुराणे पाठः।” ↩︎
-
“ते श्राद्धेषु यथा रज इति वायुपुराणे पाठः।” ↩︎
-
“कौङ्कणानिति कमलाकरोद्धृतः पाठः।” ↩︎
-
“तथाभीरानिति कमलाकरोद्धृतः पाठः।” ↩︎
-
“एतेषा=कर्मयोनिदेहदोषाणा मध्य इत्यर्थः।” ↩︎
-
“विद्वद्भोज्यान्यविद्वांसो येषु राष्ट्रेषु भुञ्जते इति पु० मुद्रितवशिष्ठस्मृतौ पाठः।” ↩︎
-
“तदन्नं नाशमायाति महच्चापि भयं भवेत् इति पाठान्तरम्।” ↩︎
-
“तान्यनावृष्टिमृच्छन्तीति पाठान्तरम्।” ↩︎
-
“वदेदिति मयूखे पाठः।” ↩︎
-
“एतच्च भोजयित्वेत्यस्यैव विवरणं बोध्यम्।” ↩︎
-
“शुष्कामिति कमलाकरोद्धृतः पाठः।” ↩︎
-
“प्राचीनावीतिनेति मनुस्मृतौ पाठः।” ↩︎
-
“साधिते. इति मार्कण्डेयपुराणे पाठः।” ↩︎
-
“रुचे ! इति मा० पु० पाठः।” ↩︎
-
“परिस्तृते, इति मुद्रितयाज्ञवल्क्ये पाठः।” ↩︎
-
“गयायां गृद्धकूटे चेति मुद्रितवायुपुराणे पाठः।” ↩︎
-
“एवं पञ्चवनमिति बा०पु० पाठः।” ↩︎
-
“निःखरे पावमण्डले इति वा०पु० पाठः।” ↩︎
-
“देवर्षीति वा०पु० पाठः।” ↩︎
-
“आर्यदेशस्ततः पर इति दानखण्डहेमाद्रौपाठः ।” ↩︎
-
“तद् गच्छत्ययथातथमिति मनुस्मृतौ पाठः ।” ↩︎
-
“पूर्वमी० अ० ३ पा० ३ अधि० १६ सू० २४-३१ ।” ↩︎
-
“खञ्जो वा यदि वा काणो दातुः प्रेष्योऽपि वा भवेत् । इति मनुस्मृतौ पाठः ।” ↩︎
-
“षण्डोऽवीरा रजस्वला । इति कमलाकराद्धृतेः पाठः ।” ↩︎
-
“अत्र ‘अपाश्ममृन्मयानीति, आदर्शपुस्तके, ‘अप्यश्ममृन्मयानीति, श्राद्धकाशिकायाम्, अथाश्ममृन्मयानीति, श्राद्धमयूख, पाठ उपलभ्यते, अस्माभिः पुनः “जलजं वापि कुर्वीतेति मत्स्यपुराणवचनात्, अकारपकारघटिता- दर्शपुस्तकपाठानुगुण्याश्च ‘आप्याश्ममृत्मयानीत्येव पाठो युक्त इति मत्वा स एव सन्निवेशित इति ।” ↩︎
-
“तद् युग शुभमिति श्राद्धतत्वे पाठः।” ↩︎
-
“पूर्णशय्यान्तु यो दद्यात् पुष्पमालाविभूषितामिति मुद्रित वायुपुराणे पाठः।” ↩︎
-
“नीरोगःसुभगः श्रीमान् पुरुषः सम्प्रजायते। इति पाठो युक्तः।” ↩︎
-
“चरुं वासममुष्टिभिरिति कमलाकरोद्धृतः पाठः ।” ↩︎
-
“त्रिरावृत्तमिति मयूखे, त्रिरावृत्या, इति श्राद्धतत्वे पाठः ।” ↩︎
-
“यवोऽसि धान्यराजोवा इति अन्यत्र पाठः।” ↩︎
-
“मधुसंयुत इति पुस्तकान्तरे पाठः।” ↩︎
-
“पवित्रमृषिभिः स्मृत इतीतरत्र पाठः।” ↩︎
-
“आघ्नेयः ।” ↩︎
-
“गौरमृत्तिकया वापि भस्मना गोमणेन वा । इति कमलाकरोद्धृतः पाठः ।” ↩︎
-
“(१ ↩︎
-
“मन्त्रहीनं क्रियाहीन भक्तिहीन द्विजोत्तमाः । श्राद्धं सम्पूर्णतां यातु प्रसादाद्भवतां मम॥ इति श्राद्धकाशिकायांपाठः ।” ↩︎
-
“अत्र कश्चिद स्त्रुटित इति ।” ↩︎
-
“पू० मी० अध्या०९ पा० ३अ० ४ सू० १०-१४ ।” ↩︎
-
“अतिथीश्चलभेमहीति अन्यत्र पाठः ।” ↩︎
-
“पूर्वमीमांसा अ० ९ पा० ३ अधि० ४ सु० १०-१४ ।” ↩︎
-
“वैश्वदेवाहुतीग्नौ— इति मयूखोद्धृतःपाठः ।” ↩︎
-
“षड्दैवते पृथङ्नेत्यर्थ इति कमलाकरः । एकोद्दिष्टादौ पितामहादितृप्त्यसभवात्कर्तव्यम् । पार्वणादौ प्रासङ्गिक- तृप्तेर्नेति व्यवस्थेति काशिकाकारः ।” ↩︎
-
“सर्वं पर्वनिषिद्धं मांसमाषाद्यपीत्यर्थ इति कमलाकरः ।” ↩︎
-
“नैताः स्युरिति मयूखोदूक्तः पाठः।” ↩︎
-
“नवयज्ञः, आग्रहायणेष्ठिरित्यर्थः।” ↩︎
-
“समशनीयेति श्राद्धतत्वे पाठः।” ↩︎
-
“सकृन्महालयादावित्यर्थः।” ↩︎
-
“विषशस्त्रश्वापदाहितिर्यग्ब्राह्मणघातिनामित्यन्यत्र पाठः।” ↩︎
-
“कनिष्ठेनेत्यर्थः।” ↩︎
-
“स्वक्षेत्रे संस्कृतायांत्विति मुद्रितपुस्तके पाठः।” ↩︎
-
“क्रियाभ्युपगमात्वेतत् इति मुद्रितपुस्तके पाठः ।” ↩︎
-
“संदृशं तु प्रकुर्याद्यमिति मुद्रितपुस्तके पाठः।” ↩︎
-
“वस्त्रषङ्कं सौवर्णी सूचीमङ्कुशं तान्तवपाशं कन्थां पलाशवृन्तमौदुम्वरीमासन्दीं क्रलशानीति, अन्यान्यपि च। इवोभूते स्नात्वा— इति मुद्रितबौधायनगृह्यसूत्रे पाठः।” ↩︎
-
“पुण्याह स्वस्ति-ऋद्धिम् - इति मु० बौ० पाठः ।” ↩︎
-
“अग्ने नय इति पुरोनुवाक्यामनूच्यया तिरश्चीइति याज्यया जुहोति । इति मु• बौ० पाठः ।” ↩︎
-
“वसिष्ठाय च शिष्टाय भृगवे भार्गवाय च । इति मुद्रितलिङ्गपुराणे पाठः ।” ↩︎
-
“परिगृह्यसर्वत इति मुद्रितलिङ्गपुराणे पाठः ।” ↩︎
-
“विरजा च घृतेनैवेति मुद्रितलिङ्गपुराणे पाठः । विरजा= तत्संज्ञकदीक्षामन्त्रैरिति लिङ्गपुराणटीका ।” ↩︎
-
“योगीन्द्रान्–श्राद्धार्हानपि भोजयेत् । इति मु० लि० पु० पाठः” ↩︎
-
“यानं कास्यताम्रादिभाजनम् । इति मु० लि० पाठः ।” ↩︎
-
“कर्मणानेनेति मु० लि. पाठः ।” ↩︎
-
“त इति संस्मरन् । इति मयूखोद्धृतः पाठः ।” ↩︎