[[वीरमित्रोदय-राजनीतिप्रकाशः (चतुर्थो भागः) Source: EB]]
[
THE
CHOWKHAMBÂSANSKRIT SERIES;
A
COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS.
NOS. 221, 222, 223, 224, & 231.
<MISSING_FIG href="../books_images/U-IMG-1697295541230.png"/>
वीरमित्रोदयः ।
राजनीतिप्रकाशः ।
महामहोपाध्यायश्रीमित्रमिश्रविरचितः ।
साहित्योपाध्यायविष्णुप्रसादशर्मणा
संशोधितः ।
VIRAMITRODAYA,
RAJNITI PRAKÁSÂ
BY
MAHÂMAHOPADHAYA PANDITA MITRA MIŚRA.
EDITED BY
Pandita Vishnu Prasâd.
VOL. VI.
FASCICULUS 1 TO 5.
PUBLISHED & SOLD BY THE SECRETARY,
CHOWKHAMBA SANSKRIT SERIES OFFICE. BENARES.
AGENTS:-
OTTO HARRASSOWITZ, LEIPZIG:
PANDITA JYESHTHARAM MUKUNDAJI, BOMBAY:
PROBSTHAIN & CO; BOOKSELLERS, LONDON.
Printed by Jai Krishna Das Gupta,
at the Vidya Vilas Press.
BENARES.
1916
Registered According to Act XXV of 1867.
<MISSING_FIG href="../books_images/U-IMG-1697295633333333.png"/>
॥ श्रीगणेशाय नमः॥
अथ वीरमित्रोदयस्य
राजनीतिप्रकाशः।
कोपाटोपनटत्सटोद्भटमटव्रभ्रूभीषणभ्रूकुटि
भ्राम्यद्भैरवदृष्टि निर्भरनपद्दर्वीकरोर्विधरम्।
गीर्वाणारिवपुर्विपाटविकटाभोगत्रुटद्घाटक-
ब्रह्माण्डोरुकटाहकोटि नृहरेरव्यादपूर्वं वपुः॥१॥
सटाग्रव्यग्रेन्दुस्रवदमृतबिन्दुप्रतिवल-
न्महादैत्यारम्भस्फुरितगुरुसंरम्भरभसः।
लिहन्नाशाचक्रं हुतवहशिखावद्रसनया
नृसिंहो रंहोभिर्द्दमयतु मदंहो मदकलम्॥२॥
संसारध्वंसिकंसप्रमुखसुररिपुत्रांशुवंशावतंस-
भ्रंशी वंशीधरो वः प्रचुरयतु चिरं शं स राधारिरंसी॥
यच्चूडा रूढगूढस्मितमधुरमुखाम्भोजशोभां दिदृक्षु-
र्गुञ्जभिः सानुरागालिकनिकटनटच्चन्द्रकव्यक्तचक्षुः॥३॥
लीलाभ्रान्तिनिसर्पदम्बरतया व्यग्रार्द्धकान्तं पद-
न्यासन्यञ्चदुदञ्चदद्रिवसुधाभोगीन्द्रकुर्माधिपम्॥
फूत्कारस्फुरदुत्पतत्फाणिकुलं रङ्गज्जटाताडन-
ध्यातव्योमगभीरदुन्दुभि नटन्नव्यात्स वो धूर्जटिः॥४
कुम्भोद्भ्रान्तमधुव्रतावलिवलज्झङ्कारकोलाहलैः
वीरमित्रदयस्य राजनीतिप्रकाशे
शुण्डास्फालनविह्वलैः स्तुत इव व्यालैर्वियत्प्लाविभिः॥
मज्जत्कुम्भमहावगाहनकृतारम्भो महाम्भोनिधौ
हेरम्वः कुरुतां कृताम्बरकरालम्बश्चिरं वः शिवम्॥५॥
समन्तात्पश्यन्ती समसमयमेव त्रिभुवनं
त्रिभिर्नेत्रैर्द्दोर्भिर्दशभिरपि पान्ती दश दिशः॥
दधाना पारीन्द्रोपरि चरणमेकं परपदा
हतारिर्वो हन्यान्महिषमथनी मोहमहिषम्॥६॥
चामान् भिन्दन्नवामान् भुवमनुसुखयन् पूरयन्नर्थिकामान्
श्रीमान् भीमानुकारी बहलबलभरैर्मेदिनीमल्लनामा॥
आसीदाशीविषेन्द्रद्युतिधवलयशा भूपचक्रावतंसः
श्रीकाशीराजवंशे विधुरिव जलधौ सर्वभूसार्वभौमः॥७॥
सङ्ग्रामग्रामकामो निरुपममहिमा सत्त्वविश्रामधाम
क्रामन्नेवारिचक्रं मिहिर इव तमो विक्रमोरुक्रमेण॥
सारैर्मेरोरुदारैरपर इवगिरिर्मेदिनीमल्लनेन
प्रख्यातः क्षोणिचक्रे समजनि नृपतिर्मेदिनीमल्लनामा॥८॥
निर्यद्भिस्तर्ज्जयद्भिर्विधुमिव जगतीमर्ज्जुनाभैर्यशोभिः
सम्पूर्यावार्यवीर्यो विशिखवितरणैरर्जुनो दुर्ज्जनानाम्॥
साम्राज्योपार्जनश्रीरगणितगुणभूरर्जुनमांशुबाहु-
र्नाम्नाऽभूदर्जुनोऽस्मान्नरपतिरतुलो मेदिनीमल्लभूपात्॥९॥
बुद्धिः शुद्धिमती क्षमा निरुपमा विद्याऽनवद्या मनो
गाम्भीर्यैकनिकेतनं वितरणं दीनार्त्तिनिर्दारणम्॥
आसीदर्जुनभूपतेर्विदधतो विद्रावणं विद्विषां
भूमीनामवनं च कारणगुणात्कार्यं यशोऽप्यर्ज्जुनम्॥१०॥
तस्मादाविरभूत्प्रभूतमहिमा भूमीपतेरर्जुनात्
सौजन्यैकनिधिर्गुणैरनवधिर्लावण्यवारां निधिः॥
वंशवर्णनम्
भिन्दन् दुर्ज्जनमर्जयन् बहु यशः प्रौढप्रतापोदयै-
दुर्जेयो मलखाननामनिखिलक्ष्मामण्डलाखण्डलः॥११॥
यस्मिन्शासति नीतिभिः क्षितिमिमां निर्वैरमासीज्जगत्
पारीन्द्रेण समं करीन्द्ररभसारम्भोऽपि सम्भावितः॥
श्येन्नः क्रीडति कौतुकी स्म विहगैश्चिक्रीड नक्रैर्झषः
किं वान्यद्गहनेऽभवत्सह मृगैः शार्दूलविक्रीडितम्॥१२॥
हिमविशदयशोऽभिशोभिताशो
महिमतिरोहितवारिधिप्रभावः॥
समजनि मलखानतः प्रतापै-
स्त्रिजगति रुद्र इव प्रतापरुद्रः॥१३॥
शुचि धनमर्थिनि सहसा यशसा सममानने गुणो जगतः।
पुत्रे भूरभिदध्रेचेतो रुद्रे प्रतापरुद्रेण॥१४॥
जातः प्रतापरुद्रात्ससमुद्रां पालयन्नवनीम्।
कृतरिपुकाननदाहो मधुकरसाहो महीपतिः शुशुभे॥१५॥
पृथुः पुण्याभोगैविहितहितयोगैरनुदय-
त्खलायोगैयोगैः कृतसुकृतियोगैरपि गुरुः॥
भुजस्तम्भालम्बालसशयितविश्वम्भरतया
बभौ प्रौढोत्साहः स मधुकरसाहः क्षितिपतिः॥१६॥
प्रजागणरुजापहो द्युतिमहोदयाविष्कृतः
सुधांशुरिव मांसलो रसभरैः सभारञ्जनः॥
प्रदीप्तकुमुदावलिर्द्विजपतिश्च नक्षत्रपो
नृपो जयति सत्कृपो मधुकरः कृतारित्रपः॥१७॥
विन्यस्य वीरसिंहे भूपतिसिंह महीभारम्।
ज्ञानानलमलदाहो मधुकरसाहो दिवं भेजे॥१८॥
अन्तर्गम्भीरताऽन्धूकृतसलिलनिधिर्लालिताशेषबन्धू-
र्बुन्देलानन्दसिन्धुः सुललितललनालोचनेन्दीवरेन्दुः॥
भ्रूभङ्गीलेशभङ्गीकृतरिपुनिवहो नृत्यसङ्गीतरङ्गी
सन्मातङ्गी तुरङ्गी धरणिपतिरभूद्वीरसिंहो नृसिंहः॥१९॥
अमुष्य प्रस्थाने सति सपदि नानेभनिवहै-
रिहैकोऽपि द्वेषी न खलु रणरोषी समजान॥
परं तस्थौ दुःस्थो गहनकुहरस्थोऽपि भयतः
क्षिपन्नुच्चैर्दिक्षु भ्रमितचकितं चक्षुरभितः॥२०॥
दानं कल्पमहीरुहोपरि यशः क्षीरोदनीरोपरि
प्रज्ञा शक्रपुरोहितोपरि महासारोऽपि मेरूपरि॥
दावारूपार प्रतापगरिमा कामोपरि श्रीरभू-
त्सिंहातिक्रमवीरसिंहनृपतेः किं किं न कस्योपरि॥२१॥
दानैरर्थिनमर्थनाविरहिणं प्रत्यर्थिनं च क्षणा-
त्कुर्वाणे सति वीरासहनिखिलक्ष्मामण्डलाखण्डले॥
कामं चेतसि कामधेनुरतनोत्कल्पद्रुमः कल्पितं
मोघीभूतजनिः समाश्रितखनिश्चिन्तां च चिन्तामणिः॥२२॥
भ्रामंभ्राममसम्भ्रमं त्रिजगतीचक्राणि चक्रे ऽचिरा-
च्चारं शीलितविष्णुपादपदवी ब्रह्माण्डभाण्डोपरि॥
ब्रह्माण्डं निजमण्डमण्डलमिवाच्छाद्यैव सैवाधुना
विश्वेषामपि यस्य भांस्वरयशोहंसी वतंसीयति॥२३॥
नलकणिकामिव जलधिं कणमिव कनकाचलं मनुते।
नृपसिंहवीरसिंहो वितरणरंहो यदा तनुते॥२४॥
यदा भवति कुण्डलीकृतमहाधनुर्मण्डल-
स्तदा नयनताण्डवत्रुटितखाण्डवः पाण्डवः॥
मनो वितरणोत्सुकं वहति वीरसिंहो यदा
तदा पुनरुदारधीरयमवर्णि कर्णो जनैः॥२५॥
शौर्यौदार्यगभीरताधृतिदयादानादिनानागुणा-
नुर्वीदुर्वहभारवत्यहिपतिस्पर्धालदोःशालिनि॥
संयोज्यैव जुहारसिंहधरणीधौरेयचूडामणौ
मज्जन् ब्रह्मणि वीरसिंहसुकृती तस्थौ स्वयं निर्गुणः॥२६॥
दद्युःस्वादुजलां द्रुमाश्चसुफला भूरुर्वरा भूसुरा
वेदध्वानविधूयमानदुरिता लोका विशोका बभ्रुः॥
राजन्नीतिनिरीतिरीति पितरीवोर्वीमिमां शासति
श्रीमद्वीरजुहारसिंहनृपतौ भ्रूभङ्गभग्नद्विषि॥२७॥
सङ्ग्रामोत्कटताण्डवोद्भटभटैरारब्धहेलाहठै-
श्चण्डाडम्बरपूरिताम्बरतटक्षीराब्धिगोध्रावटैः॥
भूभृत्सिंहजुहारसिंहधरणीजानेःप्रयाणे रणे
शौर्यैदार्यधनोऽपि को नु धरणीचक्रे न चक्रे भयम्॥२८॥
तावद्वीरगभीरहुङ्कृतिरवस्ताबद्गजाडम्बर-
स्तावत्तुङ्गतुरङ्गरिङ्गणचमत्कारश्चमूनामपि॥
तावत्तोयमहामहीभुद्टवीदुर्गग्रहो विद्विषां
यावन्नैवजुहारसिंहनृपतिर्युद्धाय बद्धोत्सवः॥२९॥
अयं यदि महामना वितरणाय धत्ते धियं
भियं कनकभूधरोऽञ्चति ह्रियं च कर्णोऽटति॥
दधीचिरपचीयते वलिरलीकरूपायते-
तदाऽतिमलिनायते स किल कल्पभूमीरुहः॥३०॥
प्रासादागतडागनागमणिभूदानादिनानातपः -
प्रागलभ्येन महेन्द्रचन्द्रवरुणब्रह्मेशविष्णुस्थली॥
प्राचण्ड्येन जिता मिता वसुमती कोदण्डदोर्दण्डयो-
र्जागर्तीति जुहारसिंहनृपतेः कुत्र प्रतापो न वा॥३१॥
ब्रह्माभूच्चतुराननः स्मरहरः पञ्चाननः षण्मुखः
स्कन्दो भूपजुहारसिंहयशसो गानोत्सवेऽत्युत्सुकः॥
तस्याभोगमुदीक्ष्य भूधरनभोनद्यस्त्रिलोकी दिशः
सप्तद्वीपभयीमही च विधिना विज्ञेन निर्वाहिताः॥३२॥
तुङ्गत्वादनवाप्य दैवततरोः पुष्पाणि सर्वाः समं
श्रीमद्वीरजुहारसिंहनृपतेर्दानं समानं जगुः॥
व्रीडादुर्बहभारनिर्भरनमद्ग्रीवेतु देवद्रुमे
श्लाघन्ते सुलभायमानकुसुमास्तं भूरि देबस्त्रियः॥३३॥
भीमो यः सहदेव एव पृतनादुर्द्धर्षपार्श्वोलसन्
श्रीभूमीनकुलः सदाऽर्जुनमहाख्यातिः क्षमामण्डले॥
कर्णश्रीः कृतवर्मभीष्मघटनाशौटीर्यदुर्योधनो
रोषादेष युधि स्थिरो यदि भवेत्कः स्यादमुण्याग्रतः॥३४॥
सत्कीर्त्तिग्रामदामाभरणभृतजगद्विक्रमादित्यनामा
धाम्नो भूम्ना महिम्ना विघटितरिपुणा विक्रमोपक्रमेण॥
सुप्रांशुः पीवरांसः पृथुभुजपरिघस्तस्य वंशावतंसो
विश्वोदञ्चत्प्रशंसो गुणिगणहृदयानन्दनो नन्दनोऽभूत्॥३५॥
आशापूर्तिं प्रकुर्वन् करवितरणतः पद्मिनीप्राणबन्धुः
प्रोद्यद्दिव्याम्बरश्रीः स्फुटमहिमरुचिः सर्वदा ध्वस्तदोषः॥
जम्भारातेरिहोच्चैरचलसमुदयात्सुप्रभातप्रकाशी
पुत्रो राज्ञः पवित्रो रचयति सुदिनं विक्रमादित्य एव॥३६॥
सार्थीकुर्वन्निरर्थीकृतसुरविटपी चार्थिसार्थं निजार्थै-
र्व्यर्थीभूतारिपृथ्वीपतिरमरगुरुस्पर्द्धिवर्द्धिष्णुबुद्धिः
मानैर्यानादिदानैर्बहुविधगुणिभिर्गीयते यः सभायां
भ्रातर्जातः स भूयः सुकविकुलमुदे विक्रमादित्य एव॥३७॥
दानं दीनमनोरथावधि रणारम्भोऽरिनाशावधि
क्रोधो वागवधि प्रतापयशसोः पन्था दिगन्तावधि॥
दाक्षिण्यं क्षितिरक्षणावधि हरौ भक्तिश्च जीवावधि
व्यालुप्तावधि वीरविक्रमरवेः श्रेयः परं वर्द्धते॥३८॥
हेमाद्रेः श्रियमन्यथैव कुरुते चक्रे च गौरीं तनुं
कैलासोपरि शोभते पटयति स्पष्टं च दिङ्मण्डलम्॥
भोगीन्द्रं न दधे श्रुतौ वत जटागूढां च गङ्गां व्यथा-
ल्लोकानामयमीश्वरोऽस्य यशसस्त्वैश्वर्यमुज्जृम्भते॥३९॥
श्रीगोपाचलमौलिमण्डलमणिः श्रीदूरवारान्वये
श्रीहंसोदयहंसपण्डित इति ख्यातो द्विजाधीश्वरः॥
यं लक्ष्मीश्चसरस्वती च विगतद्वन्द्वं चिरं भेजतु-
र्भोक्तारं रभसात्समानमुभयोः सान्नाढ्यमाढ्यं गुणैः॥४०॥
पटु दिक्षु विदिक्षु कुर्वतीनां नटलीलां स्फुटकीर्त्तिनर्त्तकीनाम्॥
स्फुरदध्वरधूमधोरणीह च्युतवेणीति जनैरमानि यस्य॥४१॥
ततोऽनल इवारणेरतुलधामभूर्भूभूजां
शिरोमणिरुरोमणिर्धरणिनामामभ्रुवः॥
रणी बहुगुणी धनी भुवि वनीपकश्रीखनी
रमारमणमिश्रणी परशुराममिश्रोऽजनि॥४२॥
येनागत्य पुरा पुरारिनगरे विद्याऽनवद्यार्ज्जिता
श्रीचण्डीश्वरमग्निहोत्रेतिलकं लब्ध्वा गरीयोगुरुम्॥
शुद्धा सैव महोद्यमेन बहुधा भान्ती भवन्ती स्थिरा
तद्वंश्येषु कियन्न कल्पलतिकेवाद्यापि सूते फलम्॥४३॥
आस्यारविन्दमनुपास्य गुरोरपास्य
लास्यं चतुर्मुखमुखेषु सरस्वतीह॥
सालङ्कृतिश्च सरसा च गुणान्विता च
यस्यातनोति रसनोपरि ताण्डवानि॥४४॥
अङ्के लोमलतेव सीमनि दृशारेकेव रेखाञ्जनी
कस्तूरीमकरीव भालफलके धारेव मूर्ध्न्यालकी॥
ऊर्द्धंभृङ्गपरम्परेव कबरी सौरभ्यलोभाकुला
यस्यैवाध्वरधूमधोरणिरभूदाशाकुरङ्गीदृशः॥४५॥
सुभासुरयशोनिधेःसुनिरवद्यविद्यानिधेः
सुचारुकवितानिधेः स्मृतिनिधेः श्रुतिश्रीनिधेः॥
अयं सुकृतगौवात्परशुराममिश्राद्गुणै-
रनूनगरिमा पितुर्जगति मित्रमिश्रोऽजनि॥४६॥
धर्मार्थैकनिकेतनं विधिमयं कर्मावनीदर्शनं
स्मृत्यम्भोजमहोदयं श्रुतिमयं श्रीवीरमित्रोदयम्॥
द्राक्सिद्धीकृतकार्यसिद्धिशतया श्रीवीरसिंहाज्ञया
तेने विश्वमुदे पुरे पुरभिदः श्रीमित्रमिश्रः कृती॥४७॥
आज्ञप्तो वीरसिंहक्षितिपतितिलकेनादरान्मित्रमिश्रः
सङ्ख्यावान् ख्यातकीर्त्तिर्विविधबुधजनग्रामसन्तोषकारी॥
प्राचां वाचां प्रपञ्चैः परिकलितमहाराजधर्मादवान्तः -
सारं निष्कृष्य बुद्ध्या रचयति रुचिरं राजनीतिप्रकाशम्॥४८॥
राजनीतिप्रकाशे प्राग्राजशब्दार्थनिर्णयः।
राजप्रशंसा तदनुप्रोक्ता श्रोत्रसुखावहा॥
राज्याभिषेके कालश्च निषिद्धो विहितस्तथा।
राज्याधिकारी तत्पश्चादभिषेकविधिः स्मृतः॥
ऐन्द्री शान्तिः प्रयोगश्च अभिषेकस्य कीर्त्तितः।
अथाभिषेकमन्त्रेण प्रतिपाद्यैस्तु दैवतैः॥
कीर्त्तितैर्लभ्यते यत्तु फलं तदनुकीर्त्तितम्।
ऐतरेयिब्राह्मणोक्तं राज्ये चैवाभिषेचनम्॥
पुष्पाभिषेको जन्मर्क्षेऽभिषेकस्तदनन्तरम्।
प्रतिसंवत्सरं कार्योऽभिषेकोऽथ प्रकीर्त्तितः॥
राज्ञां गुणस्ततस्तेषां निषिद्धविहितक्रिये।
ततो दैनन्दिनं कृत्यं वर्षकृत्यमतः परम्॥
अथ राज्ञः सहायेषु प्रागमात्यः प्रकीर्तितः।
सेनापतिस्ततो राज्याध्यक्षरत्नपरीक्षकौ॥
प्रतीहारश्च दूतश्च रक्षिणस्तदनन्तरम्।
ताम्बूलधारणाद्येषु नियुक्ताश्चनिरूपिताः॥
अथानुजीविनां वृत्तं राजवासस्थलं ततः।
दुर्गं पुरस्य निर्माणं क्रमेण परिकीर्तितम्॥
राष्ट्रं कोषश्च दण्डश्च मित्रं चेत्युदितं क्रमात्।
सामान्ते कथितो भेदो दानान्ते दण्ड एव च॥
उपेक्षामाययोरन्त इन्द्रजालःप्रकीर्तितः।
मन्त्रश्च पौरुषं पश्चाद्राजपुत्रस्य रक्षणम्॥
सन्ध्यादिचिन्ता परतो राजमण्डलनिर्णयः।
षाड्गुण्यमथ यात्रोक्ता ततः स्वप्नौ शुभाशुभौ॥
अथ स्वप्नविपाकस्य कालः सम्परिकीर्त्तितः।
अभिमन्त्रणमुक्तं च राजचिह्नेषु तत्परम्॥
अथेष्टानिष्टशकुनौ निमित्तानि ततः परम्।
जयाभिषेकस्य विधिः प्रयोगश्चक्रमोदितः॥
अथ सन्नहनं राज्ञः कार्यमत्र पुरोधसा।
युद्धार्थं प्रस्थितस्याथ चातुर्मास्येष्ववस्थितिः॥
विशेषतो देवयात्रा कौमुद्यां च महोत्सवः।
इन्द्रध्वजोच्छ्रायविधिस्ततो नीराजनाविधिः॥
पूजनं भद्रकाल्याश्च तदनन्तरमीरितम्।
राजचिह्नेषु देव्याश्च पूजोक्ता तदनन्तरम्॥
लोहाभिसारिकं कर्म गवोत्सर्गस्ततः परम्।
वसोर्धाराऽथ शत्रूणां नाशकः कृत्तिकाप्लवः॥
राजिकासर्षपाभ्यां च होम उक्तोऽरिनाशनः।
विष्णुधर्मोत्तरप्रोक्तं तत आथर्वणोदितम्॥
घृतकम्बलमुक्त्वा च प्रकीर्णकमुदाहृतम्।
राजनीतिप्रकाशाख्ये ग्रन्थेऽस्मिन् विदुषां मुदे॥
श्रीमित्रमिश्रविदुषा क्रमेणैवं निरूपितम्। इति।
तत्र महाभारते,
युधिष्ठिर उवाच।
श्रोतुमिच्छामि भगवन् विस्तरेण महामुने।
राजधर्मान् द्विजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान्॥
इत्युपक्रम्य राजधर्मा उक्ताः।
अग्निपुराणेऽपि,
अग्निरुवाच।
पुष्करेण च रामाय राजधर्मं हि पृच्छते।
यदादौ कथितं तद्वद्विशिष्टं कथयामि ते॥
पुष्कर उवाच।
राजधर्मं प्रवक्ष्यामि स्याद्राजा राजधर्मतः।
मनुस्मृतावपि,
राजधर्मान् प्रवक्ष्यामि यथावृत्तो भवेन्नृपः।
सम्भवश्च यथा तस्य सिद्धिश्च परमा यथा॥
इत्युपक्रम्य तत्र तत्र राजधर्मा उक्ताः। तत्र राजशब्दार्थस्तावद्विचार्यते। किमयं राजशब्दो यस्मिन् कस्मिंश्चित्प्रजापालके वर्त्तते, उत क्षत्रियजातौ, किंवा अभिषिक्तक्षत्रियजातौ वर्त्तत इति। तत्र अवेष्ट्यधिकरणे “राजा राजसूयेन स्वाराज्यकामो यजेत”
इत्यत्र पूर्वपक्षे लिखितम्—
राज्यस्य कर्त्ता राजेति सर्वलोकेषु गीयते।
महाविषयता चैवं शास्त्रस्यापि भविष्यति॥
तस्माद्ब्राह्मणादयो राज्यं कुर्वाणा राजान इति। राज्यं तु जनपद्परिपालनम्।लोकप्रयोग एव शब्दार्थावधारणे प्रमाणम्।लोके च ब्राह्मणादिषु राज्यकर्तृषु राजशब्दो वर्त्तते।
यास्कोऽपि, राजा राजतेरिति ब्रुवन् यौगिकं राजशब्दमीश्वरवचनमेवाभ्युपैति। राजनोत्कर्षश्च प्रजापरिपालनादिरेव।
वेदेऽपि, “सोमोऽस्माकं ब्राह्मणानां राजा”“यो राजा वर्षणीनां” “सोमो वै राजा गन्धर्वेषु”
इत्यादावपि ईश्वरवचन एव राजशब्दः प्रतीयते।
कोषेऽपि,
राजा तु प्रणताशेषसामन्तः स्यात्।
तथा,
अथ राजकम्।
राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात्॥ इति।
अत्र यदि राजन्यशब्दवद्राजशब्दोऽपि क्षत्रियवचन एव स्यात्तदा राजकं राजन्यकं च क्षत्रियगणे इत्येव ब्रूयान्नतु नृपतिगणे इति पृथुगुपाददीत।तस्माद्राजशब्दो नृपतीनां वाचक इति केचित्।
अपरे त्वाहुः।राजशब्दःक्षत्रियजातिवचनः। मन्वादयो हि राजधर्मान् प्रवक्ष्यामीत्युपक्रम्य जनपदपरिपालनरूपं राज्यं क्षत्रियस्यैव स्मरन्ति। तत्र—
मनुः,
ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि।
सर्वस्यास्य यथान्यायं कर्त्तव्यं परिरक्षणम्॥
ब्रह्म वेदस्तत्कृतः श्रवणाध्ययनजन्यो ग्रहणावबोधलक्षणः संस्कारो ब्राह्मः। यद्वा ब्रह्म वेदस्तत्प्राप्त्यर्थ उपनयनादिः संस्कारो ब्राह्मः। यथाविधि यथाशास्त्रम्। एतच्च प्राप्तेनेत्यनेनान्वितम्।यथान्यायं वक्ष्यमाणदण्डप्रणयनशास्त्रमनतिक्रम्येत्यर्थः। परिरक्षणं दुर्बलानां वलवद्भिरनभिभवः। अनेन क्षत्रिय एव मुख्यो राज्याधिकारीति दर्शितम्। अत एव क्षत्रियस्य क्षितिरक्षाजीवनार्थं शस्त्रास्त्रभृत्त्वं चोक्तम्—
मार्कण्डेयपुराणे,
दानमध्ययनं यज्ञः क्षत्रियस्याप्ययं त्रिधा।
धर्मः प्रोक्तः क्षिते रक्षा शस्त्राजीवोऽस्य जीविका॥
जीविका कराद्यादानद्वारा।
तथा याज्ञवल्क्यः,
प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम्। इति।
प्रधानं धर्मार्थं वृत्त्यर्थं च।
पाणिनिरपि, राज्ञः कर्मणिष्यञंविदधाति –**“गुणवचनब्राह्मणादिभ्यः कर्मणि च”**इति “पत्यन्तपुरोहितादिभ्यां यक्” इति यकं वा। तेन राज्ञः क्षत्रियस्य कर्म राज्यमिति मन्वाद्येकवाक्यत्वात्सिद्धं भवति।
तथा, **“राजश्वशुराद्यत्”“राज्ञोऽपत्ये जातो”**इति सूत्रवार्त्तिकाभ्यां राजशब्दःक्षत्रियवचनोऽवसीयते। तन्निष्पन्नराजन्यशब्दस्य क्षत्रियपर्यायेषु पाठात्। जातिश्चेह क्षत्रियजातिर्गृह्यते राज्ञः क्षत्रियापत्ये यत्, स च जातिग्रहणात् वैश्यापत्ये निवार्यते।
तथा, “राजानमभिषेचयेत्” इत्यत्राभिषेकोऽपि क्षत्रियस्यैव विज्ञायते। दृष्टं हि राजत्वमुद्दिश्याभिषेको विधीयते। तेन राजानं
सन्तमभिषेकेण संस्कुर्यात्। न त्वदृष्टं यूपत्वं “यूपं तक्षति”इत्यत्र यथा विधीयते तक्षणेन यूपं कुर्यादिति तद्वत् अभिषेकेण राजानं कुर्यादिति।यूपशब्दस्यालौकिकत्वात्। राजशब्दस्य तु क्षत्रियवचनत्वेन प्रसिद्धत्वात्। राजधर्मानित्युपक्रम्य–
क्षत्रियस्य परोधर्मः प्रजानां परिपालनम्।
क्षत्रियस्यापराधेन ब्राह्मणः सीदति क्षुधा॥
वेदाभ्यासो हि विप्रस्य क्षत्रियस्याभिरक्षणम्।
क्षत्रियाय ददौ राज्यम्—
इत्याद्युपसंहारस्वरसाच्च क्षत्रियजातावेव राजशब्दः। अत एव–
अनेकार्थकोषोऽपि,
राजा शशाङ्के क्षत्रिये नृपे। इति।
राज्यकर्त्तरि च वर्णान्तरे लाक्षणिकः। ननु ब्राह्मणस्य कथं राज्यकर्तृत्वम् ?।उच्यते।
अजीवंस्तु यथोक्तेन ब्राह्मणःस्वेन कर्मणा।
जीवेत् क्षत्रियधर्मेण स त्वस्य प्रत्यनन्तरः॥
इति मनुवचनात्। वस्तुतस्त्वभिषेकादिगुणयुक्तस्य वक्ष्यमाणधर्माः। तथा च—
मत्स्यपुराणे,
मत्स्यं प्रति मनुरुवाच।
राज्ञोऽभिषिक्तमात्रस्य किं नु कृत्यतमं भवेत्।
एतन्मे सर्वमाचक्ष्व सम्यग्वेत्ति यतो भवान्॥इति।
अत्र मात्रपदेन तमपा च अभिषेकानन्तरमेव प्रजापालनं तदङ्गसम्पत्तिश्च सम्पादनीयेति गम्यते। तदुक्तम्–
तत्रैव,
अभिषेकार्द्रशिरसा राज्ञा राज्यावलोकिना।
सहायवरणं कार्यं तत्र राज्यं प्रतिष्ठितम्॥
सहाया अमात्यादयः। मेधातिथिस्तु राजशब्दश्च नेह क्षत्रियजातिवचनः। किं तर्हि, अभिषेकाधिपत्यादिगुणयोगिनि पुरुषे वर्तते।उल्लूकभट्टोऽपि राजशब्दो नात्र क्षत्रियजातिवचनः किं त्वभिषिक्तजनपदपरिपालनकर्तृवचन इति।
राजा सर्वस्येष्टे ब्राह्मणवर्जमिति गौतमव्याख्याने हरदत्तोऽपि राजा अभिषिक्तः क्षत्रिय इति।
विज्ञानेश्वरोऽपि राजधर्मादावाह
–साधारणान् गृहस्थधर्मानुक्त्वा इदानीं राज्याभिषेकादिगुणयुक्तस्य गृहस्थस्य विशेषधर्मानार्हति।
एष्वपि पक्षेषु “राजधर्मान् प्रवक्ष्यामि” इत्यादिराजधर्मप्रतिपादकवचनेषु राजशब्दो जनपदैश्वर्यवन्नृपतिं लक्षणया प्रतिपादयतीति पक्षः साधुः। उक्तयुक्त्या क्षत्रियसामान्यवाचित्वात्। तथा च—
** बृहत्पराशरः,**
अथातो नृपतेर्धर्मं वक्ष्यामि हितकाम्यया।इति।
तथा विज्ञानेश्वरोऽपि, अभिषेकादिगुणयुक्तस्य राज्ञः प्रजापालनं परो धर्मः।
तथापि नृपग्रहणसमभिव्याहारादनभिषिक्तेऽपि जनपदैश्वर्यवति लोकप्रसिद्धया राजशब्दो वर्त्तते।
तथा, यद्यपि राजानमधिकृत्यायं राजधर्मकलाप उक्तस्तथापि वर्णान्तरस्यापि कियन्मण्डलादिपरिपालनाधिकृतस्यायं राजधर्मो वेदितव्यः। “राजधर्मान् प्रवक्ष्यामि” “यथावृत्तो भवेन्नृप”इति पृथक् नृपग्रहणात्करग्रहणस्य रक्षार्थत्वाच्च रक्षणस्य दण्डप्रणयनायत्तत्वादिति।
तथा, नृप इति न क्षत्रियमात्रस्यायं धर्मः किन्तु प्रजापालनेऽधिकृतस्यान्यस्यापि।तदेवमुक्तदिशा वक्ष्यमाणवैदिकाभिषेकानधिकृतस्य पौराणोऽमन्त्रको वाऽभिषेको विधेयः।तथा चाभिषेकार्द्रशिरसेत्यादि सङ्गच्छते।
अपरार्कस्तु – प्रजापालनादि क्षत्रियस्य राज्यं कुर्वतो विहितम्। यदा पुनरक्षत्रियोऽपि क्षत्रियकार्यं करोति तेनाप्येतत्सर्वमनुष्ठेयम्। तत्कार्यापत्त्या तद्धर्मलाभात् इति वदन् प्रजापालनादिविधिषु राजशब्दोऽभिषिक्तक्षत्रियवचन इति मन्यते।तत्तु पूर्वोक्तयुक्तिनिचयबलादयु- क्तम्।
तदेवं राजधर्मान् प्रवक्ष्यामीत्यत्र राजशब्दःप्रजापालनाधिकृतपरो, धर्मशब्दःकर्त्तव्यतावचनः यद्राज्ञा कर्त्तव्यं दृष्टादृष्टार्थरूपं षाड्गुण्याद्यग्निहोत्रादि तद्वक्ष्यामि। तत्र प्राधान्येनासाधारणं दृष्टार्थमुपदिश्यते। अदृष्टार्थस्य साधारणधर्मेषूक्तत्वात्। अत एवोक्तम्—
मनुव्याख्यायाम्, “साधारणं वेदोक्तसंस्कारं प्राप्यासाधारणं प्रजापालनादि कर्त्तव्यम्” इति। “स यथावृत्तो यथाचारो भवेत् तानाचारान्, यथा च तस्य सम्भवः राजानमसृजत्प्रभुरित्यादिना उत्पत्तिस्तम्, यथा च तस्योत्कृष्टा ऐकाधिपत्यलक्षणा सिद्धिस्तत्सर्वं वक्ष्यामि” इति च।
अथ राजप्रशंसा।
तत्र मनुः,
अराजके हि लोकेऽस्मिन् सर्वतोऽभिद्रुते भयात्।
रक्षार्थमस्य सर्वस्य राजानमसृजत्प्रभुः॥
अराजके राजरहिते। सर्वतः पञ्चम्यन्तात्तसिः सर्वस्माद्वलवतः।अभिद्रुते पीडिते। अस्य लोकस्य। प्रभुर्ब्रह्मा।
विद्रत इति क्वचित्पाठः। विद्रुते धर्मात्प्रचलिते।सप्तम्यन्तात्तसिः। चक्षुर्धर्मस्य सर्वस्येति मेधातिथौ पाठः। तदा भयादधर्मभयात् धर्मस्य चक्षुर्द्रष्टारं प्रवर्त्तकमितियावत्। राजा धर्मस्य कारणमितिवचनात्।
इन्द्रानिलयमार्काणामग्नेश्चवरुणस्य च।
चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः॥
अनिलो वायुः। वित्तेशः कुबेरः। मात्रा अंशान्। निर्हृत्य निष्कास्य।शाश्वतीः सारभूताः स्थिरा वा। तथा —
बृहत्पराशरोऽपि,
सुत्रामानलवायुनां यमस्येन्दोर्विवस्वतः।
वारिवित्तेशयोर्ब्रह्मा मात्राभ्यो निर्ममे नृपम्॥ इति।
तत्रैवेशानमात्राप्यधिकोक्ता।
इन्द्राग्नियमवित्तेशवारीशमातरिश्वनाम्।
शीतांश्वीशानमात्राश्च ब्रह्मादायासृजन्नृपम्॥ इति।
मनुः
यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः।
तस्मादतिभवत्येष सर्वभूतानि तेजसा॥
यस्मादेषां देवश्रेष्ठानामिन्द्रादीनां मात्राभ्योंऽशसमुदायेभ्योंशान् सारभूतान्निर्हृत्य निर्मित उत्पादित इति तेजसा सर्वभूतान्यतिशेते सर्वोकृष्टो भवतीत्यर्थः। अथ वा इन्द्रानिलेत्यस्याराजकेहीत्यनेन सम्बन्धः। मात्रा निर्हृत्य राजानमसृजत् इत्यन्वयः। यस्मादेषामित्यत्र मात्राभिरिति वा पाठः।
तपत्यादित्यवच्चैव चक्षूंषि च मनांसि च।
न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम्॥
अयं स्वतेजसा पश्यतां सूर्य इव चक्षूंषि मनांसि च तापयति।
तपिरन्तर्भावितण्यर्थः। दुर्निरीक्षमुखत्वादेवमुच्यते। तदाह –न चैनमिति। एनं राजानं पृथिव्यां कश्चिदप्याभिमुख्येन वीक्षितुं न क्षमते। अत्र मेधातिथिः –“ब्राह्मणा जात्युत्कृष्टा ब्रह्मवर्चस्विनोऽपि नैनमभिमुखं वीक्षितुं शक्नुवन्ति। तदुक्तम्—
गौतमेन,
तमुपर्यासीनमधस्तादुपासीरन्” इति व्याचरूयौ। तदयुक्तम्। अन्ये ब्राह्मणेभ्य इति वाक्यशेषविरोधात्।
तथा च—
गौतमः,
तमुपर्यासीनमधस्तादुपासीरन्नन्ये ब्राह्मणेभ्यस्तेऽप्येनं मन्येरन्निति।
तं राजानम् उपर्यासीनं सिंहासनस्थितम् अधस्तात् भूमावेव उपासीरन् अन्ये ब्राह्मणेभ्यः ब्राह्मणातिरिक्ताः। ब्राह्मणास्त्वाशीर्वादादिभिरभिपूजयेयुः। वस्तुतस्तु तमुपर्यासीनमित्यस्य विधिरूपत्वात् भिन्नाविषयत्वाच्च “न चैनं भुवि शक्नोति”इत्यस्य सम्मतिरूपत्वमेवायुक्तम्। दृष्टेनापि दोषेण राज्ञोऽवज्ञा न युज्यते इत्येतन्निषेधार्थवादत्वात्पूर्वोक्तश्लोकानाम्। इन्द्रादिमात्रा निर्हृत्य कृतत्वात् तस्यापि तद्रूपतामाह—
सोऽग्निर्भवति वायुश्च सोऽर्कः सोमः स धर्मराट्।
स कुबेरः स वरुणः स महेन्द्रः प्रभावतः॥
धर्मराट् यमः। अग्न्याद्यंशसम्भवत्वात्तत्कार्यकारित्वाच्च ताद्रूप्यम्।प्रभावोऽलौकिकी शक्तिः। ततश्च—
बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः।
महती देवता ह्येषा नररूपेण तिष्ठति॥
एतेन देवतावमानने यो दोषः स राजावज्ञायामित्यदृष्टदोष उक्तः। इदानीं दृष्टदोषमाह—
एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम्।
कुलं दहति राजाग्निः सपशुद्रव्यसञ्चयम्॥
योऽग्नेरतिसमीपमनवहितः समुपसर्पति तमेकमेवाग्निर्दहति न तत्पुत्रादिकमिति। अन्यैस्तु दुःखेन मरणाद्युद्यतम् अग्निसमीपगामिनमिति व्याख्यातम्। एतद्व्याख्याद्वितयादपि दुरुपसर्पिणंस्वापराधं ज्ञात्वापि बलात्तप्तदिव्ये प्रवृत्तमग्निरेकमेव दहति तम्, अन्यायपथगामिनं ज्ञात्वा क्रुद्धो राजा तं तदीयकुलं च पुत्रभ्रात्रादिरूपं पशुभिर्धनसञ्चयैश्च सहितं नाशयतीति व्याख्यानं युक्तम्। एवमेकविषयतापि लभ्यते।
कार्याण्यवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः।
कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः॥
कार्यं सोऽवेक्ष्येति क्वचित्पाठः। कार्यम् अनुग्रहनिग्रहादियोग्यताम्, शक्तिं बलम्, देशं दूरनिकटादिकम्, कालं सुभिक्षदुर्भिक्षादिमवेक्ष्या- त्मानं विश्वरूपंनानारूपं करोति। क्षणे तुष्टः क्षणे रुष्टः। अशक्तौ क्षान्तः शक्तौ उन्मूलकः। स्वकार्यानुरोधेन शत्रुर्मित्र उदासीनो वा भवति। अत एव—
कस्य राजा भवेन्मित्रं कानि मित्राणि राजनि।
राजा मित्रं केन दृष्टं श्रुतं वा।
इत्युक्तम्। तेन मैत्र्यादिनापि नावमन्तव्यः।
यस्य प्रसादे पद्मा श्रीर्विजयश्च पराक्रमे।
मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः॥
श्रीकामेन श्रीप्राप्त्यै शत्रुमता शत्रुहननाय जीवितार्थिना जीवस्थित्यै राजा सेव्यः। अत्र मेधातिथ्यादयः –पद्माशब्दः श्रीपर्यायोऽपि महत्त्वप्रतिपादनाय, अर्थाद्वैयर्थ्यं पद्माशब्दस्य। वस्तुतस्तु पद्मा लक्ष्मीः, श्रीः शरीरशोभा। तथा च –श्रीश्चते
लक्ष्मीश्चपत्न्यौ" इत्यत्र व्याख्यातम् — श्रीः शरीरशोभा लक्ष्मीः प्रसिद्धेति। यद्वा प्रसादे पद्मा, पराक्रमे श्रीर्विजयश्च। दिक्पालरूपत्वात्तस्य तत्कार्यकारित्वमाह—
स एव,
इन्दुस्यार्कस्य वातस्य यमस्य वरुणस्य च।
सोमस्याग्नेः पृथिव्याश्च तेजोवृत्तं नृपश्चरेत्॥
तेजोवृत्तम् इन्द्राद्यंशसदृशमाचरणम्।
वार्षिकांश्चतुरो मासान् यथेन्द्रोऽभिप्रवर्षति।
तथाऽभिवर्षेत्तद्राष्ट्रं कामैरिन्द्रव्रतं चरन्॥
चतुरः श्रावणादीन्।
अष्टौ मासान् यथाऽऽदित्यस्तोयं हरति रश्मिभिः।
तथा हरेत्करं राष्ट्रात्सम्यगर्कव्रतं हि तत्॥
अष्टौ मार्गशीर्षादीन्।
प्रविश्य सर्वभूतानि यथा चरति मारुतः।
तथा चारैःप्रवेष्टव्यं व्रतमेतद्धि मारुतम्॥
यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति।
तथा राज्ञा नियन्तव्यः सर्वस्तद्धि यमव्रतम्॥
वरुणेन यथा पाशैर्बद्ध एव हि दृश्यते।
तथा पापान्निगृह्णीयाद्व्रतमेतद्धिं वारुणम्॥
परिपूर्णं यथा चन्द्रं दृष्ट्वा हृष्यन्ति मानवाः।
तथा प्रकृतयो यस्मिन् स चन्द्रव्रतिको नृपः॥
प्रतापयुक्तस्तेजस्वी नित्यं स्यात्पापकर्मसु।
दुष्टसामन्तहिंस्रश्च तदाग्नेयं व्रतं स्मृतम्॥
यथा सर्वाणि भूतानि धरा धारयते समम्।
तथा सर्वाणि भूतानि बिभ्रतः पार्थिवं व्रतम्॥
यथा सर्वाणि स्थावरजङ्गमानि उत्कृष्टनिकृष्टानि पृथ्वी धारयति तथा सर्वाणिकरदायिदीनानाथार्तादीनि रक्षणादिना धारयतः पृथिवीसम्बन्धि व्रतम्।
एतैरुपायैरन्यैश्चयुक्तो नित्यमतन्द्रितः।
स्तेनान् राजा निगृह्णीयात्स्वराष्ट्रे पर एव च॥
अतन्द्रितोऽनलसः।स्तेनान् चौरान्। इयं च पूर्वोक्तदेवांशरूपता महाराजस्यैव।
पञ्च रूपाणि राजानो धारयन्त्यमितौजसः।
अग्नेरिन्द्रस्य सोमस्य यमस्य धनदस्य च॥
इतीयं नारदोक्तपञ्चरूपता तु कियन्माण्डलिकस्य भूपस्य।
अत एव—
** बृहत्पराशरेण,**
हर्यश्ववह्नयन्तकविश्वनाथशीतांशुरूपाणि हि बिभ्रतीह।
सर्वेऽपि भूपास्त्विह पञ्चरूपास्तत्कथ्यमानं शृणुत द्विजेन्द्राः॥
इत्यत्र सामान्यवाचि सर्वपदमुपात्तम्।हर्यश्व इन्द्रः। अग्न्यादिकार्यकारित्वेन तत्तद्रूपतां द्रढयति—
** नारदः,**
कारणान्निर्निमित्तं वा यदा क्रोधवशं गतः।
प्रजा दहति भूपालस्तदाग्निरभिधीयते॥
बृहत्पराशरोऽपि,
अकारणात्कारणतोऽपि चैष प्रजा दहेत्कोपसमिद्धरोचिः।
यदा तदैनं नृपनीतिविज्ञास्तनूनपातं प्रवदन्ति भूपम्॥ इति।
अकारणादिति दुष्टनृपविषयम्।
नारदः,
यदा तेजःसमालम्बेद्विजिगीषुरुदायुधः।
अभियाति परान् राजा तदेन्द्रःसमुदाहृतः॥
तथा बृहत्पराशरः,
यदा जिगीषुर्धृतशस्त्रपाणिस्त्विषुंसमालम्ब्य सचिह्नसैन्यः।
सर्वान्सपत्नानिह जेतुकामस्तदा स हर्यश्वइवेह भाति॥ इति।
नारदः,
विगतक्रोधसन्तापो हृष्टरूपो यदा नृपः।
प्रजानां दर्शनं याति सोम इत्युच्यते तदा॥
तथा बृहत्पराशरः,
समस्तशीतांशुगुणप्रयुक्तो यदा प्रजामेष शुभाय पश्येत्।
प्रसन्नमूर्त्तिर्गतमत्सरः संस्तदोच्यते सोम इति क्षितीशः॥
नारदः,
धर्मासनगतः श्रीमान् दण्डं धत्ते यदा नृपः।
समः सर्वेषु भूतेषु तदा वैवस्वतो यमः॥
तथा बृहत्पराशरः,
धर्मासनस्थः श्रुतशास्त्रदृष्ट्या शुभाशुभाचारविचारकृत्स्यात्।
धर्मेषु दानं त्वथ कृत्स्नदण्डं तदाऽवनीशस्त्विह धर्मराजः॥
नारदः,
यदा त्वर्थिगुरून् प्राज्ञान् भृत्यादीन् पृथिवीपतिः।
अनुगृह्णाति दानेन तदा धनद उच्यते॥
बृहत्पराशरोऽपि,
यदा त्वमात्यद्विजपावकादीन् प्रहृष्टचित्तश्चयथोचितेन।
धनप्रदानेन करोति हृष्टान् भूभृत्तदाऽसौ द्रविणेशवत्स्यात्
अग्न्यादिपञ्चरूपत्वमुक्त्वाऽनाद्यनन्तात्मकविष्णुरूपत्वमाह—
नारदः,
अनादिश्चाप्यनन्तश्च द्विपदां पृथिवीवतिः।
दीप्तत्वाच्च शुचित्वाच्चयद्यसौ न पथश्च्युतः॥
पथश्च्युतो भ्रष्टाचारः।
अशुचिर्वचनाद्यस्य शुचिर्भवति पूरुषः।
शुचिश्चैवाशुचिः सद्यः कथं राजा न दैवतम्॥
अशुचिरित्यादिः तस्मात्तंनावजानीयादित्यस्याग्रेतनस्यार्थवादः।
तस्मात्तं नावजानीयान्नाक्रोशेन विशेषयेत्।
वस्त्रालङ्कारादिभिस्तमपेक्ष्यात्मानं नाधिकं कुर्यात्।
आज्ञया तस्य तिष्ठेत्तु मृत्युः स्यात्तव्द्यतिक्रमे॥
आज्ञा तेजः पार्थिवानां सा च वाचि प्रतिष्ठिता।
स यद्ब्रूयादसत्सद्वा स धर्मो व्यवहारिणाम्॥
राजा नाम चरत्येष भूमौ साक्षात्सहस्रदृक्।
न तस्याज्ञामतिक्रम्य प्रतिष्ठेरन्निमाः प्रजाः॥
रक्षाधिकारादीशत्वाद्भूतानुग्रहदर्शनात्।
यदेव कुरुते राजा तत्प्रमाणमिति स्थितिः॥
निर्गुणोऽपि यथा स्त्रीणां पूज्य एव पतिः सदा।
प्रजानां निर्गुणोऽप्येवं पूज्य एव नराधिपः॥
राज्ञामाज्ञाभयाद्यस्मान्न च्यवन्ते पथः प्रजाः।
व्यवहारस्ततो ज्ञेयः शंसतो राजशासनम्॥
राजशासनं राजाज्ञाम्।
स्थित्यर्थं पृथिवीपालैश्चारित्रविधयः कृताः॥
चारित्रविधयः राजकृता भागादिव्यवस्थाः।
चारित्रेभ्योऽप्यतः प्राहुर्गरीयो राजशासनम्॥
तपःक्रीताः प्रजा राज्ञः प्रभुरासां नराधिपः।
तस्मात्तद्वचसि स्थेयं वार्ता तासां तदाश्रया॥
वार्ता कृषिपाशुपाल्यादिवृत्तिः।
मनुः,
यस्तु तेद्वेष्टि सम्मोहात्स विनश्यत्यसंशयम्।
तस्य ह्याशुविनाशाय राजा प्रकुरुते मनः॥
तं राजानम्। द्वेष्टि तदाज्ञाभङ्गं करोति। स विनश्यति राजकृतवधभाग्भवतीत्यर्थः।
बृहत्पराशरोऽपि,
आज्ञा नृपाणां परमं हि तेजो यस्तां न मन्येत स शस्त्रवध्यः।
श्रूयाच्च कुर्याच्च वदेच्च भूभृत्तदेष कार्यं भुवि सर्वलोकैः॥
दुर्धर्षतीव्रांशुसमानदीप्तेर्ब्रूयान्मनुष्यः परुषं नृपस्य।
यस्तस्य तेजोऽप्यवमन्यमानः सद्यः स पञ्चत्वमुपैति पापात्॥
योऽह्नाय सर्वं विदधाति पश्येत् शृणोति जानाति चकास्ति शास्ति।
कस्तस्य चाज्ञां न बिभर्त्तिराज्ञः समस्तदेवांशभवः स यस्मात्॥
अह्नाय शीघ्रम्।
तस्माद्धर्मं यमिष्टेषु संव्यवस्येन्नराधिपः।
अनिष्टं चाप्यनिष्टेषु तं धर्मं न विचालयेत्॥
यतः सर्वतेजोमयो राजा तस्माद्धेतोरिष्टेषु वल्लभेषु मन्त्रिपुरोहितादिषु यं धर्मं यां व्यवस्थां स्मृत्याचाराविरुद्धां व्यवस्येत् निश्चित्य स्थापयेत् तां न विचालयेत्। सा तादृशी राज्ञ आज्ञा अनतिक्रमणीया।अद्य सर्वैरुत्सवः कर्त्तव्यः मन्त्रिगृहे विवाहो वर्तते तत्र सर्वैः सन्निधातव्यम्, तथा सौनिकैरद्य पशवो न हन्तव्याः न शकुन्तयो बन्धयितव्याः, नर्णका धनिकैरुपरोधनीया एतावन्त्यहानि। एवमनिष्टेष्वपि —एतेन सह संसर्गो न विधेयः, एतस्य गृहे प्रवेशो न देयः। एवंविधो धर्मः स्पृष्टादोषादिना राजादिष्टो नातिक्रमणीयः। न त्वग्निहोत्रादि —
धर्मव्यवस्थायै वर्णाश्रमिणां राजा प्रभवति स्मृत्यन्तरविरोधप्रसङ्गात्। अविशेधे चास्मिन् विषये वचनस्यार्थवत्त्वात्।
बृहस्पतिः,
बलेन चतुरङ्गेण यतो रञ्जयति प्रजाः।
दीप्यमानः स वपुषा तेन राजाऽभिधीयते॥
बलने सेनया।चतुरङ्गेण हस्त्यश्वरथपादातेन।
अङ्गिराः,
गुरुवद्धेन भूपालःपापं दण्डेन भूयसा।
संस्करोत्यवनाश्चैव तेनासौ गुरुरुच्यते॥
पापं पापकारिणम्। संस्करोति शुद्धं करोति। शुद्धं कृत्वाऽवति च।
बृहत्पाराशरे,
अथातो नृपतेर्धर्मम् — इत्युपक्रम्य।
भूभृत् भूम्यां परो देवः पूज्योऽसौ परदेवन्नत्।
स विधाता च सर्वस्य रक्षिता शासिताऽपि सः॥
परो देवः स्वाराध्यदेवः।
महाभारते,
अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते।
परस्परं च खादन्ति सर्वथा धिगराजकम्॥
इन्द्रमेव प्रवृणुते यद्राजानमिति श्रुतिः।
यथैवेन्द्रस्तथा राजा सम्पूज्यो भूतिमिच्छता॥
नाराजकेषु राष्ट्रेषु वस्तव्यमिति रोचये।
नाराजकेषु राष्ट्रेषु हव्यमग्निर्वहत्युत।
अथ चेदभिवर्तेत राज्यार्थंबलवत्तरः॥
अराजकानि राष्ट्राणि हतवीर्याणि वा पुनः॥
न हि पापात्परतरमस्ति किञ्चिदराजकात्।
स चेत्समनुपश्येत समग्रं कुशलं भवेत्॥
श्रीरामायणे,
नाराजके जनपदे योगः क्षेमं प्रवर्त्तते।
न चाप्यराजके सेना शत्रून् विषहते परान्॥
अराजके राजरहिते। अलब्धलाभो योगः।लब्धस्य रक्षणं क्षेमम्।विषहते तन्निवारणक्षमा भवति।
विपालाश्च यथा गावो यथा चातृणकं वनम्।
विपाला रक्षकरहिताः।
अजलाश्च यथा नद्यस्तथा राष्ट्रमराजकम्॥
अन्धं तम इवेदं स्यान्नेह ज्ञायेत किञ्चन।
राजा चेन्न भवेल्लोके विभाजन् साध्वसाधुनी।
गरुडपुराणे,
धनिनः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः।
पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत्॥
श्रीमहाभारते,
राजा प्रगल्भं पुरुषं करोति राजा कृशं बृंहयते मनुष्यम्।
राजाभिपन्नस्य कुतः सुखानि राजाऽभ्युपेतं सुखिनं करोति॥
राजा प्रजानां हृदयं गरीयो गतिः प्रतिष्ठा सुखमुत्तमं च।
यमाश्रिता लोकमिमं परं च जयन्ति सम्यक् पुरुषा नरेन्द्र॥
राजाभिपन्नस्य राज्ञा अभिपन्नस्य कृताभियोगस्य।
राजधर्म्मे,
बृहस्पतिरुवाच।
राजमूलो महाप्राज्ञ धर्मो लोकस्य लक्ष्यते।
प्रजा राजभयादेव न खादन्ति परस्परम्॥
राजा ह्येवाखिलं लोकं समुदीर्णं समुत्सुकम्।
समुदीर्णम् सम्यक्कृतोदीरणं, समीचीनप्रकारेण स्वस्वदुःखाद्याख्यायकम्। समुत्सुकम् दुःखवशेन देशग्रामादि परित्यक्तुमुत्कण्ठावन्तम्।
प्रसादयति धर्मेण प्रसाधयेति राजते॥
यथा ह्यनुदये राजन् भूतानि शशिसूर्ययोः।
अन्धे तमसि मज्जेयुरपश्यन्तः परस्परम्॥
यथा ह्यनुदके मत्स्या निराक्रन्दे विहङ्गमाः।
निराक्रन्दे आक्रन्दतीत्याक्रन्दो निषेधस्तदभावे।
विहरेयुर्यथाकाम विहिंसन्तः पुनः पुनः॥
न मिथ्यातिक्रमेरंश्च विपद्यापि परस्परम्।
नेति काकुः। विपथ्यातिक्रमेरन् इति पाठस्तु सुगम एव।
अभावमचिरेणैव गच्छेयुर्नात्र संशयः॥
एवमेव विना राज्ञा विनश्येयुरिमाः प्रजाः।
अन्धे तमसि मज्जेयुरगोपाः पशवो यथा॥
हरेयुर्बलवन्तोऽपि दुर्बलानां परिग्रहान्।
इन्युर्व्यायच्छमानांश्च यदि राजा न पालयेत्॥
व्यायच्छमानान् कृतप्रयत्नान्।
ममेदमिति लोकेऽस्मिन्न भवेत्सम्परिग्रहः।
विष्वग्लोपः प्रवर्तेत यदि राजा न पालयेत्॥
यानं वस्त्रमलङ्कारान् रत्नानि विविधानि च।
हरेयुः सहसा पापा यदि राजा न पालयेत्॥
पतेद्वहुविधं शस्त्रं बहुधा धर्मचारिषु।
अधर्मः प्रगृहीतः स्याद्यदिराजा न पालयेत्॥
प्रसाद्य च विराजते इति मुद्रितभारतपुस्तके पाठः।
मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम्।
क्लिश्नीयुरपि हिंस्युर्वा यदि राजा न पालयेत्॥
वन्धबन्धपरिक्लेशो नित्यमर्थवतां भवेत्।
ममत्वं च न विन्देयुर्यदि राजा न पालयेत्॥
अन्ताश्चाकाल एंव स्युर्लोकोऽयं दस्युसाद्भवेत्।
पतेयुर्नरकं घोरं यदि राजा न पालयेत्॥
न योनिदोषो वर्त्तेत न कृषिर्न वणिक्पथः।
योनिदोषः योनिदोषकृताऽव्यवहार्यता, दण्डादिश्च।
मज्जेद्धर्मस्त्रयी न स्याद्यदि राजा न पालयेत्॥
न यज्ञाः सम्प्रवर्त्तेयुर्विधिवत्स्वाप्तदक्षिणाः।
न विवाहाःसमाजो वा यदि राजा न पालयेत्॥
न वृषाःसम्प्रवर्त्तरन्नुन्मथ्येरंश्च गद्गराः।
गद्गराः साहसिकाः।
घोषाः प्राणाशं गच्छेयुर्यदि राजा न पालयेत्॥
त्रस्तमुद्विग्रहृदयं द्दाहाभूतमचेतनम्।
क्षणेन विनशेत्सर्वं यदि राजा न पालयेत्॥
न संवत्सरसत्राणि तिष्ठेयुरकृतोभयाः।
तिष्ठेयुः अनुतिष्ठेयुः।
विधिवद्दक्षिणावन्ति यदि राजा न पालयेत्॥
ब्राह्मणाश्चतुरो वेदान्नाधीयीरंस्तपस्विनः।
विद्यास्नाता व्रतस्नाता यदि राजा न पालयेत्॥
नलभेद्धर्मसंश्लेषं हतविप्रहतो जनः।
हतैः धर्महीनैर्विप्रैर्हतः अनुपदिष्टधर्मः। यद्वा हतः किञ्चित्पीडितो, विप्रहतो विशेषेण प्रहतः प्रपीडितः। धर्मसंश्लेषं धर्मसम्बन्धम्।
हर्त्तासुस्थेन्द्रियो गच्छेद्यदि राजा न पालयेत्।
हस्तो हस्तं परिमुषेद्भिद्येरन् सर्वसेतवः॥
सर्वसेतवो ग्रामश्रेणीधर्ममर्यादाः।
भयार्त्तं विद्रवेत्सर्वं यदि राजा न पालयेत्॥
अनयाः सम्प्रवर्तेरन् भवेद्वै वर्णसङ्करः।
दुर्भिक्षमाविशेद्राष्ट्रं यदि राजा न पालयेत्॥
विवृत्य हि यथाकामं गृहद्वाराणि शेरते।
विवृत्य उद्धाट्य।
मनुष्या रक्षिता राज्ञा समन्तादकुतोभयाः॥
नाक्रोष्टुं सहते कश्चित्कुतो वा हस्तलाघवम्1।
यदि राजा न सम्यक्तान् रक्षयत्यतिधार्मिकः॥
स्त्रियाश्चापुरुषा मार्गं सर्वालङ्कारभूषिताः।
निर्भयाःप्रतिपद्यन्ते यदि रक्षति भूमिपः॥
धर्ममेव प्रपद्यन्ते न हिंसन्ति परस्परम्।
अनुगृह्णन्ति चान्योन्यं यदि रक्षति भूमिपः॥
यजन्ते च महायज्ञैस्त्रयो वर्णाः पृथग्विधैः।
युक्ताश्चाधीयते विद्यां यदि रक्षति भूमिपः॥
वार्त्तामूलो ह्ययं लोकस्त्रय्या वै धार्यते सदा।
तत्सर्वं वर्तते सम्यक् यदि रक्षति भूमिपः॥
यदि राजा धुरं श्रेष्ठामादाय वहति प्रजाः।
महता बलयोगेन तदा लोकः प्रसीदति॥
यस्याभावेन भूतानामभावः स्यात्समन्ततः।
भावे च भावो नित्यं स्यात्कस्तं न प्रतिपूजयेत्॥
तस्य यो वहते भारं सर्वलोकसुखावहम्।
तिष्ठन् प्रियहिते राज्ञ उभौ लोकाविमौ जयेत्॥
यस्तस्य पुरुषः पापं मनसाप्यनुचिन्तयेत्।
असंशयमिह क्लिष्टः प्रेत्यापि नरकं व्रजेत्॥
न हि जात्ववमन्तव्यो मनुष्य इति भूमिपः।
महती देवता ह्येंपा नररूपेण तिष्ठति॥
कुरुते पञ्चरूपाणि कालयुक्तानि यः सदा।
भवत्यग्निस्तथाऽऽदित्यो मृत्युर्वैश्रवणो यमः॥
यदा ह्यासीदतः पापान् दहत्युग्रेण तेजसा।
मिथ्योपचरितो राजा तदा भवति पावकः॥
यदा पश्यति चारेण सर्वभूतानि भूमिपः।
क्षेमं च कृत्वा व्रजति तदा भवति भास्करः॥
अशुचींश्च यदा क्रुद्धः क्षिणोति शतशो नरान्।
सपुत्रपौत्रान् सामात्यांस्तदा भवति सोऽन्तकः॥
यदा तु धनधाराभिस्तर्पयत्युपकारिणः।
आच्छिनत्ति च रत्नानि विविधान्यपकारिणाम्॥
श्रियं ददाति कस्मै चित्कस्माच्चिदपकर्षति।
तदा वैश्रवणो राजा लोके भवति भूमिपः॥
यदा त्वधार्मिकान् सर्वांस्तीक्ष्णैदण्डैर्नियच्छति।
धार्मिकांश्चानुगृह्णाति भवत्यथ यमस्तदा॥
नास्यापवादे स्थातव्यं दक्षैणाक्लिष्टकर्मणा।
धर्म्यमाकाङ्क्षता लोकमीश्वरस्यानसूयता॥
न हि राज्ञः प्रतीपानि कुर्वन् सुखमवाप्नुयात्।
पुत्रो भ्राता वयस्यो वा यद्यप्यात्मसमो भवेत्॥
राजा मुखं मनुष्याणां नदीनां सागरो मुखम्।
कामन्दकीये,
राजाऽस्य जगतो हेतुर्वृद्धेर्वृद्धाभिसम्मतः।
नयनानन्दजननः शशाङ्क इव तोयधेः॥
यदि न स्यान्नरपतिः सम्यङ्नेता ततः प्रजाः।
अकर्णधारा जलधौ विप्लवेतेह नौरिव॥
कात्यायनः,
श्रोत्रिया विधवा बाला दुर्बलाश्च कुटुम्बिनः।
एते राजवला राज्ञा रक्षितव्याः प्रयत्नतः॥
अनाथस्य नृपो नाथस्त्वगृहस्य नृपो गृहम्।
अपुत्रस्य नृपः पुत्रो पितुः पार्थिवः पिता॥
कालिकापुराणे,
अपुत्रस्य नृपः पुत्रो निर्द्धनस्य धनं नृपः।
अमातुर्जननी राजा ह्यतातस्य पिता नृपः॥
अनाथस्य नृपो नाथो ह्यभर्त्तुः पार्थिवः पतिः।
अभृत्यस्य नृपो भृत्यो नृप एव नृणां सखा॥
गरुडपुराणे,
अनायके न वस्तव्यं तथा च बहुनायके।
स्त्रीनायके न वस्तव्यं तथा च शिशुनायके॥
तथा,
अबलस्य बलं राजा बालस्य रुदितं बलम्।
बलं मूर्खस्य मौनं तु तस्करस्यानृतं बलम्॥
मार्कडेयपुराणेऽपि
राज्ञःपञ्चरूपत्वमुक्तम् —
मदालसोपाख्याने।
शक्रार्कयमसोमानां तद्वद्वायोर्महीपतिः॥
रूपाणि पञ्च कुर्वीत महीपालनकर्माणि।
यथेन्द्रश्चतुरो मासान् वार्योद्येणैव भूतलम्॥
राजप्रशंसा
आप्याययेत्तथा लोकान् परिहारैर्महीपतिः।
परिहारैः दानैः।
मासानष्टौ यथा सूर्यस्तोयं हरति रश्मिभिः।
सूक्ष्मेणैवाभ्युपायेन तथा शुल्कादि भूपतिः॥
शुल्कं करः।
यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति।
तथा प्रियाप्रिये राजा दुष्टादुष्टे समो भवेत्॥
पूर्णेन्दुमालोक्य यथा प्रीतिमान् जायते नरः।
एवं यत्र प्रजाः सर्वा निर्वृतास्तच्छशिव्रतम्॥
मारुतः सर्वभूतेषु निगूढश्वरते यथा।
एवं नृपश्चरेच्चारैः पौरामात्यादिबन्धुषु॥
न लोभार्थैर्न कामार्थैर्नार्थार्थैर्यस्य मानसम्।
पदार्थैः कृप्यते धर्मात्स राजा स्वर्गमृच्छति॥
उत्पथग्राहिणो मृढान् स्वधर्माच्चलतो नरान्।
यः करोति निजे धर्मे स राजा स्वर्गमृच्छति॥
वर्णधर्मा न सीदन्ति यस्य राष्ट्रे तथाश्रमाः।
राज्ञस्तस्य सुखं तात परत्रेह च शाश्वतम्॥
एतद्राज्ञः परं कृत्यं तथैतद्वृद्धिकारणम्।
स्वधर्मस्थापनं नॄणां चाल्यते यत्कुबुद्धिभिः॥
पालनेनैव भूतानां कृतकृत्यो महीपतिः।
सम्यक्पालयिता भागं धर्मस्याप्नोति वै यमः॥
तथा,
वत्स राज्येऽभिषिक्तेन प्रजारञ्जनमादितः।
कर्त्तव्यमविरोधेन स्वधर्मस्य महीभृता॥
इत्यादिवचनबलात् राष्ट्रे राजा आवश्यक इति।
इति राजप्रशंसा।
अथ क्षत्रियस्य राज्याभिषेकानन्तरमेव प्रजापालनस्य कर्तव्यत्वेन राजाभिषेके कालो निरूप्यते।
तत्राभिषेकस्य निषिद्धकालेऽकर्त्तव्यत्वेन प्रथमं निषिद्धकालाः प्रदर्श्यन्ते। तत्र —
काठकगृह्ये,
राजाऽभिषेकं काम्यं च न कुर्याद्भानुलङ्घिते।
भानुलङ्घिते असङ्क्रान्तमासे।
तथा,
मलमासे विवर्जयेत्। इत्युपक्रम्य—
राज्ञोऽभिषेकः प्रथमश्चूडाकरणमेखलाः॥
अन्नप्राशनमारम्भो गृहाणां च प्रवेशनम्।
विष्णुधर्मोत्तरे,
नाभिषेच्यो नृपश्चैत्रे नाधिमासे च भार्गव।
न प्रसुप्ते तथा विष्णौ विशेषात्प्रावृषि द्विज॥
न च भौमदिने राम चतुर्थ्यां च तथैव च।
नवम्यां नाभिषेक्तव्यश्चतुर्दश्यां च भार्गव॥
तथा,
नागं चतुष्पदं विष्टिं किंस्तुघ्नं शकुनिं तथा।
करणानि न शस्यन्ते व्यतीपातदिनं तथा॥
नक्षत्रमुल्काभिहतमुत्पाताभिहतं तु यत्।
सोमसूर्यकुजाक्रान्तं परिदृष्टं च भार्गव॥
तथा
कुजहोरास्तथा नेष्टाः सर्वत्र कुलिकोऽस्य च।
इति निषिद्धकालः।
अथ राजाभिषेके विहितकाला निरूप्यन्ते।
विष्णुधर्मोत्तरे,
इति सम्भृतसम्भारो राज्ञः सांवत्सरस्ततः।
कालेऽभिषेचनं कुर्यात्तं कालं कथयामि ते॥
इत्युपक्रम्य —
ध्रुवाणि वैष्णवं शाक्रंहस्तपुष्यौ तथैव च।
नक्षत्राणि प्रशस्यन्ते भूमिपालाभिषेचने॥
इतीति वक्ष्यमाणसम्पादितसामग्रीकः। सांवत्सरो ज्योतिपिकः।
सांवत्सरो ज्योतिषिको दैवज्ञगणकावपि। इत्यमरात्।
ध्रुवाणि रोहिणी उत्तरात्रयं च। वैष्णवं श्रवणः। शाक्रं ज्येष्ठा।
गरुडपुराणे,
रोहिण्यार्द्रा तथा पुष्यो धनिष्ठा चोत्तरात्रयम्।
वारुणं श्रवणं चैव एते चोर्ध्वमुखाः स्मृताः॥
एषु राज्याभिषेकं च पट्टवन्धं च कारयेत्।
वारुणं शतभिषा। पट्टवन्धं वक्ष्यमाणलक्षणोपेतम्।
विष्णुधर्मोत्तरे,
वृषोऽथ कीटसिंहौ च कुम्भो लग्ने प्रशस्यते।
एतेषां जन्मलग्नाभ्यां यस्मादुपचयोऽस्त्वतः॥
तारा द्वितीया षष्ठी तु चतुर्थी चाष्टमी तथा।
नवमी च तथा शस्ता अनुकूलश्च चन्द्रमाः॥
सौम्याः केन्द्रगता लग्नात् शुभाश्चैव त्रिकोणयोः।
पापाश्चोपचयस्थाने शस्तो लग्ने दिवाकरः॥
लग्ने नवांशे स्थितिरस्य वर्गे वर्गस्तथा तस्य महानुभाव।
सूर्यस्य वर्गः सकलःप्रशस्तो राज्ञोऽभिषके स नृपो ग्रहाणाम्॥
स सूर्यो ग्रहाणां नृपः स्वामी।
वृत्तशते
जन्मेशलग्नेशदशेशमूर्ये भौमे बलिष्ठे क्षितिपाभिषेकः।
ज्येष्टाश्रवःक्षिप्रमृदुध्रुवेषु सौम्यग्रहस्याह्नि तिथावरिक्ते॥
लग्ने चरे चोपचयस्थिते च शीर्षोदये च क्षितिपाभिषेकः।
शस्तस्त्रिषष्ठायगतैश्च पापैः सौम्यै षडन्त्यायविवर्जितैश्च॥
कश्यपः,
अथातः सम्प्रवक्ष्यामि भूपानामभिषेचनम्।
सौम्यायने क्षते जीवे नास्तगे न च वृद्धके॥
स्वलग्नराशिगे लग्ने तदंशे वा बलान्विते।
पट्टवन्धनलग्नेशे तदंशेशे च नास्तगे॥
सुहृत्रिकोणस्वक्षेत्रतुङ्गसंस्था ग्रहा यदि।
यस्याभिषेके कुर्वन्ति स्थिरां कीर्तिं श्रियं सुखम्॥
ब्रह्मपुराणे,
मुतिथौ च सुनक्षत्रे स्नानं नक्षत्रनामकम्।
मुहूर्त्ते सुगुणोपेते सर्वोत्पातविवर्जिते॥
स्थिरे राशौ शुभयुते केन्द्रे चोपचयान्विते।
सुतिथौ चतुर्थीनवमीचतुर्दशीभिन्नतिथौ। सुनक्षत्रे
“ध्रुवाणि वैष्णवं शाक्रम्”
इत्यादिना विहितनक्षत्रे। नक्षत्रनामकं स्नानम्, विधायेतिशेषः। तच्च विष्णुधर्मोत्तरे जन्मनक्षत्रे विहितमग्रेऽभिधास्यते। पुष्यस्नानं वा विधाय। मुहूर्ते सुगुणोपेत इत्यनेन गुरुशुक्रास्तादिरहितशु द्धमासादिरूपः काल उपलक्ष्यते। स्थिरे राशौ वृषसिंहवृश्चिककुम्भेषु। शुभयुते शुभग्रहयुते। केन्दे प्रथमचतुर्थसप्तमदशमभवने।
काश्मीरायां तु पार्वत्यां शङ्करात्मा महीपतिः।
सर्वलक्ष्मणसंयुक्तस्त्वभिषेच्यो नवस्तदा॥
तदा पूर्वोक्तेकाले, नवो महीपतिः, पार्वत्यां पर्वतभवायां, काश्मीरायां श्रीपर्ण्यां, तन्निर्मिते भद्रपीटे उपवेश्येत्यर्थः। अत एवाग्रे अभिषेकसम्भांरमध्ये श्रीपर्णीपीठमादृतमस्ति।
इति राजाभिषेके विहितकालाः।
अथ राज्याधिकारिनिर्णयः।
तत्रौरसो ज्येष्ठ एवाधिकारी। तदुक्तम् —
कालिकापुराणे
राजेत्युपक्रम्य—
औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च।
गूढोत्पन्नोऽपविद्धश्च भागार्हास्तनया इमे॥
कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा।
स्वयंदतश्च दासश्च पडिमे पुत्रपांसनाः॥
दासः स्वोत्पन्नो दासीपुत्रः। रागादिना द्विजातीनामपि दास्यामुत्पन्नस्य पुत्रस्य सम्भवात्।
अभावे पूर्वपूर्वेषां परान् समभिषेचयेत्। इति।
मनुः,
ज्येष्ठ एव तु गृह्णीयात्पित्र्यं धनमशेषतः।
शेषास्तमुपजीवेयुर्यथैव पितुरं तथा॥ इति।
आपस्तम्बोऽपि, ज्येष्ठो दायाद इति।
इदं राज्ये विभागाभावस्य वक्ष्यमाणत्वात् राज्यविषयमिति बहुभिर्व्याख्यातम्।
मनुरपि,
ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः।
पितॄणामनृणश्चैव म तस्मात्सर्वमर्हति॥ इति।
कालिकापुराणे तु ज्येष्ठौरमस्य राज्यं स्पष्टमेवाभिहितः
अथोपरिचरं राजा यौवराज्येऽभ्यषेचयेत्।
ज्यायांसमौरसंपुत्रं सर्वराजगुणैर्युतम्॥ इति।
रामायणेऽपि,
मन्थरां प्रति कैकयीवाक्यम् —
धर्मज्ञो गुणवान दान्तः कृतज्ञः सत्यवाक् शुचिः।
रामो राजसुतो ज्येष्ठोयौवराज्यमतोऽर्हति॥
राजसुत इत्यौरसत्वज्ञापनार्थम्।
तथा,
रामं प्रति दशरथवाक्यम् —
आदिष्टो ह्यसि मे ज्येष्ठःप्रसूतः सदृशो गुणैः।
ज्येष्ठायामपि मे पत्न्यां सदृश्यां सदृशः सुतः॥
तन्मत्तस्त्वं गुणज्येष्ठो रामनामाऽत्मजः प्रियः।
त्वया तात प्रजा द्योताः स्वगुणैरनुरञ्जिताः॥
तस्मात्वं पुष्ययोगेन यौवराज्यमवाप्स्यसि। इति।
प्रसूत औरसः। अस्मादपि ज्येष्ठम्यौरसस्यैव राज्यामि गम्यते। ज्येष्ठायामिति। यदा एकदोत्पन्नयोर्ज्यैष्ठ्यं न नि
यं शक्यते तदा ज्येष्टापुत्रस्य प्राप्त्यर्थे, न तु महिष्या अन्यम् वा ज्येष्ठायाः पुत्रस्य कनीयसोऽपि प्राप्त्यर्थम्। यदा ज्येष्ठः या अनभिषिक्ताया वा पुत्रो ज्येष्टस्तदा तस्यैव राज्यमि
त्याचारदर्शनात्,
सदृशस्त्रीषु जातानां पुत्राणामविशेषतः।
न मातृनो ज्यैष्ठामस्ति जन्मतो ज्यैष्ठ्यमुच्यते॥
इति मनुना स्पष्टमभिधानाच्च।
रामायणेऽपि,
जन्मज्येष्ठं प्रियं पुत्रं यौवराज्ये यदीप्सथ।
इति ज्यैष्ठस्य जन्मनैवोक्तत्वाच्च। एवं यमयोरपि जन्मनैव ज्यैष्ठ्यं न निषेकेण। निषेकज्यैष्ठ्ये तु अनेकपत्नीकस्यैकस्यां पूर्वे निषेकः पश्चात्पुर्त्रजन्म, यस्यां पश्चान्निषेकः पूर्वं पुत्रजन्म, तत्पुत्रयोर्मध्ये पूर्वापुत्रस्यैव राज्यं स्यात्। न चेष्टापत्तिः। आचारविरोधात् उक्तवचनविरोधाच्च।
मनुरपि
जन्मनैवज्यैष्ठ्यमाह —
जन्मज्यैष्ठ्येन चाह्वानं सुब्रह्मण्यायामपि स्मृतम्।
यमयोश्चैव गर्भेषु जन्मना ज्यैष्ठयमुच्यते॥
सुब्रह्मण्याख्यो मन्त्रो ज्योतिष्टोम इन्द्रस्याह्वानार्थं प्रयुज्यते। तत्र प्रथमं प्रथमपुत्रेण पितरमुद्दिश्याह्वानं क्रियते— “अमुकस्य पिता यजते” इति तत्र जन्मज्येष्ठतामादृत्यैवाह्वानम्। यस्य च यजमानस्य यमजौ पुत्रौ तत्र गर्भे एककालनिषिक्तयोरपि यमयोर्जन्मना ज्यैष्ठ्यमुच्यते, जन्मज्यैष्ठयेन पुत्रस्य ज्येष्ठतामादृत्यााह्वानं क्रियते इति वाक्यार्थः। गर्भेष्विति बहुवचनं तु लोके स्त्रीबहुत्वमपेक्ष्योक्तं द्रष्टव्यम्। तथा च —
स्मृत्यर्थतत्त्वे देवलः,
यस्य जातस्य यमयोः पश्यन्ति प्रथमं मुखम्।
सन्तानः पितरश्चैव तस्मिन् ज्यैष्ठ्यं प्रतिष्ठितम्॥ इति।
सन्तानो वंशः।
ननु पूर्वे निषिक्तस्य पश्चात्पन्नस्य हिरण्यकशिपोः कथं पूर्वं नामकरणम्। तथा च —
श्रीभागवते,
प्रजापतिर्नाम तयोग्कार्षीद्यः प्राक्स्वदेहाद्यमयोरजायत।
तं वै हिरण्यकशिपुं विदुर्वुधा यं तं हिरण्याक्षममृत साग्रतः॥
स्वदेहात् पितृदेहात्। प्राक् गर्भनिषेककाले। सा अदितिः।
गर्भाधानकाले यथा प्राक्पश्चाद्भवस्तथोक्तः —
पिण्डसिद्धौ,
यदा विशेत् द्विधाभूतं बीजं पुष्पं परिक्षरत्।
द्वौ तदा भवतो गर्भौ सूतिर्वेशविपर्ययात्॥
सूतिः प्रसवः। वेशविपर्ययात् वेशो वीजप्रवेशः, तद्विपर्ययात् तद्वैपरीत्येन। यस्य पूर्वे निषेकः तस्य पश्चादुत्पत्तिः यस्य च पश्चान्निषेकस्तस्य पूर्वमुत्पत्तिरिति चेत्, उच्यते। “
जन्मना ज्यैष्ठ्यमुच्यते”
इति
“तस्मिन् ज्यैष्ठ्यं प्रतिष्ठितम्
” इति मनुदेवलवचनभ्यां विरोधे
“प्रजापतिर्नाम तयोरकार्पीत्”
इति भागवतवचनस्य सिद्धार्थमात्रवोधकस्य ज्यैष्ठविधायकत्वमिति वक्तुमशक्यत्वात्,
“मृतिर्वेशविपर्ययात्
” इत्यस्यापि एकदा निषिक्तयोरुपरिभागनिषिक्तस्य पश्चान्निर्गम् इति दैशिक एव विपर्ययोऽर्थः, न तु गर्भे पूर्वमुत्पन्नस्येत्येतावत्पर्यन्तमर्थः। एकस्यापि सङ्कीर्णवीधीस्थितस्प गजादे पराङ्मुखतथैव परावृत्तौ विपरीतो निर्गत इति प्रयोगत्। न च मनुवाक्ये गर्भेषु जन्मनेत्यन्वयो युक्तः गर्भसम्भूतावपत्यजन्माभृदित्यप्रयोगात्। निर्गमे च तादृशप्रयोगाद्देवलवाक्यैकवाक्यत्वाच्च पूर्वोक्त–मेधातिथ्यादिकृतव्याख्यानस्यैवोचितत्वात्। इ
तरया निषेकक्रमेण ज्येष्ठत्वेऽनेकपत्रीकस्यैकस्यां पूर्वे निषिक्तोगर्भः शल्यीभूतोऽन्यस्यां चानन्तरनिषिक्तः स्वकाले उत्पन्नस्तदपेक्षया शल्यवृद्ध्या विंशतिवर्षानन्तरोत्पन्नस्य ज्येष्ठत्वव्यवहारप्रसङ्गः। यदि चैकगर्भ एव निषेककमेण ज्यैष्ठ्यं न पृथग्गर्भे भागवतवचनानुरोधादित्युच्यते तत्रोक्त एव मनुदेवलवचनविरोधः। अस्तु वा तथा।
तथापि को हि अयोगी तद्वेद यदुपर्यधो वा पूर्वं निषेक एकदैवोभयत्र वेति त्रितयस्यापि वक्तुं शक्यत्वात्।योगी हि प्रजापतिः क्रमं विदित्वा नाम चकारेत्यस्यापि सुवचत्वात्। अत एव यः प्राक्स्वदेहादित्येवोक्तम्, न तृपरिस्थितत्वादेराद्यसम्भूतौ हेतुत्वेनोक्तिः, तस्माज्जन्मनैव ज्यैष्ठ्यमिति दिक्।
अधौरसे कनीयस्यपि सति क्षेत्रजादीनां राज्यदाननिषेधः कालीपुराणे दर्शितः —
न क्षेत्रजादीस्तनयात्राजा राज्येऽभिषेचयेत्।
पितॄणां शोधयन्नित्यमौरसे तनये गति ॥
शोधयन् ऋणमितिशेषः।औरसे तनये सतीति तत्मन्ततेरप्युलक्षणम्। पुत्रेभ्यो राज्यं विभज्य न देयम्।तथा च —
रामायणे,
कैकेयीं प्रति वाक्यम् —
न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि।
स्थाप्यमानेषु सर्वेषु महानविनयो भवेत् ॥
तस्माज्ज्येष्ठेषु पुत्रेषु राज्यतन्त्राणि पार्थिवाः।
आमज्जन्त्यनवद्याङ्गि गुणवत्स्वितरेषु च ॥
तेषु ज्येष्ठेषु पुत्रेषु ज्येष्ठेष्वेव न संशयः।
आमज्जन्त्यग्विलंराज्यं न भ्रातृषु कथंचन ॥ इति।
गुणवत्स्वितरेष्विति ज्यायसि दोपसद्भावे कनीरासां मध्ये एकस्य कस्यचित् राज्यदाने गुणवत्त्वं हेतुत्वेनोपन्यस्तम्। ज्येष्ठम्यान्धत्वादिदोष सद्भावे न राज्यभावकत्वम्। तदुक्तम् —
महाभारते,
नान्धः कुरुणां नृपतिरनुरूपस्तपोधन।
तथा,
धृतराष्ट्रस्त्वचक्षु
ष्ट्रात्तद्राज्यं न प्रपद्यत।
पारशवत्वाच्च विदुरो राजा पाण्डुर्वभूव ह॥
अत्रान्ध्यमुपलक्षणम् वधिरमूकषण्डार्दानाम्। तेषां ग्रामाच्छादनमात्रांशित्वेन राज्यप्राप्तिप्रसङ्गस्याप्यभावात्। यथोक्तम् —
मनुना
अनंशौ क्रीवप
तितौ जात्यन्धवधिरौ तथा।
उन्मत्तजडमूकाश्च ये च केचिन्निरिन्द्रियाः॥
सर्वेषामपि तु न्याय्यं दातुं शक्त्या मनीषिणा।
ग्रामाच्छादनमत्यन्तं पतितो ह्यददद्भवेत्॥
निरिन्द्रियो व्याध्यादिनोपहतेन्द्रियः। अत्यन्तं यावज्जीवम्। अन्धत्वादिदोषेण कृतश्चित्कारणाद्वा त्यक्तराज्यानां ज्येष्ठानां राज्याभावेऽपि तत्पुत्राणां राज्यं भवत्येव। यथाऽसमञ्जः पुत्रस्यांशुमतः। इदं तु राज्याभिषेकान्पूर्वमुत्पन्नस्यान्धादिपुत्रस्य। यदा तु कनीयसोऽभिषेकानन्तरं ज्यायसोऽन्धादेरौरसस्तदा कनीयसोऽभिषिक्तस्यैव पुत्रादेः। यथा पाण्डुपुत्रस्य युधिष्टिरस्य, नान्धपुत्रस्य दुर्योधनादे। तथा च —
महाभारते,
गुणैः समुदितान् दृष्ट्वापौराः पाण्डुसुतांस्तदा।
कथयांचक्रिरे तेषां गुणान् संसत्सु भारत॥
राज्यमाप्तिं च सम्प्राप्तं ज्येष्ठं पाण्डुसुतं तदा।
कथयन्ति स्म सम्भूय चत्वारेषु सभासु च॥
प्रज्ञाचक्षुरचक्षुष्ट्राद्धृतराष्ट्रो जनेश्वरः।
राज्यं न प्राप्तवान् पूर्वं स कथं नृपतिर्भवेत्॥
तथा शान्तनवो भीष्मः सत्यसन्धो महाव्रतः।
प्रत्याख्याय पुरा राज्यं न स जातु ग्रहीष्यति॥
ते वयं पाण्डवं ज्येष्ठं तरुणं वृद्धशीलिनम्।
अभिषिञ्चाम साध्वरन्यं सत्यं कारुण्यवेदिनम्॥
तथा —
अन्यदपि पौरवाक्यम्।
तान राज्यं पितृतः प्राप्तान् धृतराष्ट्रो न मृष्यति।
तथा,
राजपुत्रानिमान् बालान् धृतराष्ट्रो न मृष्यति।
वयमेतदनिच्छामः सर्व एव पुरोत्तमात्॥
गृहान् विहाय गच्छामो यत्र गन्ता युधिष्ठिरः।
तथा,
ततः संवत्सरस्यान्ते याौवराज्याय पार्थिव।
स्थापितो धृतराष्ट्रेण पाण्डुपुत्रो युधिष्टिरः॥
ज्येष्ठपुत्रसुतस्य कनिष्ठपुत्रसमवायेऽपि पौत्रस्यैव राज्यम्। तथा च महाभारत लिङ्गम्,
शन्तनोः सत्यवतीप्राप्त्यै त्यक्तराज्यस्य भीष्मस्य दाशं प्रत्युक्तिः –
योऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति।
इत्युक्तः पुनरेवाथ स दाशः प्रत्यभाषत्॥
यत्त्वया सत्यवत्यर्थे सत्यधर्मपरायण।
राजमध्ये प्रतिज्ञातमनुरूपं तथैव तत्॥
नान्यथा तन्महावाहो संशयोऽत्र न कश्चन।
तवापत्यं भवेद्यस्तु तत्र नः संशयो महान्॥
मद्दौहित्रत्वत्पुत्रसमवाये त्वत्पुत्रस्यैव राज्यमतः संशय इत्यर्थः।
भीष्म उवाच।
राज्यं तावत्पूर्वमेव यथा त्यक्तं नराधिपाः।
अपत्यहेतोरपि च करिष्येऽप्यविनिश्चयम्॥
अद्यप्रभृति मे दाश ब्रह्मचर्यं भविष्यति। इति।
सति पुत्रे स राज्याधिकारी स्यादतो ब्रह्मचर्यमङ्गीकृतं भीष्मेण। असत्यौरसे पुत्रे तन्मन्ततौ च क्षेत्रजादीनां क्षत्रियाजातानामु दाहृतकालीपुराणवचनेनोक्त एवाभिषेकः। तेषामपि मातृसमानजातीयत्वेन व्यासोत्पन्नपाण्डोरिव “राजानमभिषेचयेत्” इति विधिप्राप्तैः तेष्वपि केषां चिन्नाधिकार इत्युक्तम् —
तत्रैव,
पौनर्भवं स्वयंदत्तं दासं राज्यं न योजयेत्। इति।
गौणस्यापि पुत्रस्याभावे भ्रात्रादीनामधिकारस्य दायक्रमलभ्यत्वात्तत्क्रमविचारो नेह विविच्यते।
इति राज्याधिकारिनिर्णयः।
अथाभिषेकः।
तव आथर्वणगोपथब्राह्मणे, अथ राज्ञोऽभिषेकविधिं व्याख्यास्यामो विल्वप्रभृतीन् सम्भारान् सम्भृत्य षोडश कलशान् षोडश विल्वानि बल्मीकस्य च मृतिकां सर्वान्नं सर्वरमान् सर्ववीजानि। तत्र चत्वारः सौवर्णाश्चत्वारो राजताश्चत्वारस्ताम्राश्चत्वारो मृन्मयाः। तान् हृदे सरसि वोर्ध्वस्रुतो नामैनाम इत्युदकेन पूरयित्वा वेदिपृष्ठे संस्थाप्य कुम्भेषु विल्वमेकैकं दद्यात्। सर्वान्नं सर्वरमान् सर्वबीजानि च प्रक्षिप्याभयैरपराजितैरायुष्यैः स्वस्त्ययनैः सौवर्णेषु सम्पातान्, संस्राव्यैः संसिक्तीर्येश्च राजतेषु, भैषज्यवैरंहोमुचैस्ताम्रेषु, संवेशसंवर्गाभ्यां शा–
न्तातीयैः प्राणमूक्तेन च मृन्मयेषु। ततस्तान् कलशान् गृहत्विा स्तोत्रियैः पवित्रियै राजानमभिषिञ्चेत्। भूमिमिन्द्रियं च वर्द्धयित्वा क्षत्रियं स इति सिंहासनमारूढमभिमन्त्रयेत्। एवमभिषिक्तस्तु रसान् प्राश्नीयाद्विप्रेभ्यश्च दद्याद्गोसहस्रं सदस्येभ्यः, कर्त्रे ग्रामवरं, विपुलं यशः प्राप्नोति भूङ्क्ते धरां जितशत्रुः सदा भवेदिति।
अन्नं यदुप्तं न प्ररोहति। वीजं मरोहार्हं ब्रीह्यादि। ऊर्ध्वस्रुत ऊर्ध्वमुखान्। नामेत्यादयो मन्त्राः। तत्र कपिञ्जलाधिकरणन्यायेन बहुवचनेन त्रयाणां त्रयाणामुपादानम्। संवेशसंवर्गप्राणमुक्तेष्वकैकस्य। भूम्यादिमन्त्रः।
ब्रह्मपुराणेऽपि
नगरं तत्र कर्तव्यं पताकाध्वजसङ्कुलम्।
नीरजस्कास्तथा कार्या राजमार्गाः शुभेर्जेलैः॥
पौरैः स्नातैः सुब
श्चैश्च भाव्यं मङ्गलपाणिभिः।
गन्तव्यं वारमुख्याभिस्तथा राजनिवेशनम्॥
पौरमुख्यैस्तथा बाह्यैर्गणमुख्यैस्तथैव च।
शोभनीयं च नगरं सविलासैश्च नर्तकैः॥
स्नानकाले च कर्तव्यो महाकोलाहलस्तथा।
वादित्रशङ्खपुण्याहैः सूतमागधवन्दिभिः॥
सामन्तैर्मन्त्रिभिर्भाव्यं छत्रचामरपाणिभिः।
आदौ कृत्वा महाशान्तिं पुण्यां वैनायिकीं शुभाम्॥
ग्रहशान्तिं तथा श्रेष्ठां तृतीयामाहुतिं तथा।
पुसेधाः सोपवासश्च श्रुतिस्मृतिसमन्वितः॥
त्रयोदश महामन्त्रान् तर्पयेज्जातवेदसि।
गणं चैवाप्रतिरथं सत्याधर्मगणौ तथा॥
______________________________________
१ पू०मी० अ० ११। पा० १। अधि० ८।
आयुष्यमभयं चैव तथा स्वस्त्ययनं परम्।
वैष्णवानथ मन्त्रांश्च तथा पौरन्दरानपि॥
सावित्रब्राह्मरौद्रांश्च वारुणानथ सर्वदा।
ऋनाषाडितित्रयोदश महामन्त्राः। गण इदगत्यामहेत्यादयः। अप्रतिरथःआशुः शिशान इति। सत्यगणः आगात्सत्यमिति। अधर्मगणः यास्ते अग्ने घोरास्तनुव इति। आयुष्यं आयुष्यमिति सूक्तम्। अभयं यत इन्द्रभयामह इति। स्वस्त्ययनं स्वस्तिदा इति।
राजा स्नातः पुनः स्त्राप्यः पञ्चगव्येन देववत्॥
मृत्ताम्रहेमरौप्योत्थैर्जलपूर्णैस्ततो घटैः।
तोयेन शूद्रैः स्नाप्यश्च पश्चिमां दिशमास्थितैः॥
ततः क्षीरेण वैश्यैश्च दक्षिणस्यां दिशि स्थितैः।
क्षत्रियैश्च ततो दध्ना पूर्वस्यां दिश्यवस्थितैः॥
अमृतेन ततो विप्रैघृतेनोत्तरतः स्थितैः।
पर्वतोत्थमृदा पश्चाद्राज्ञः शोध्यं शिरो द्विजैः॥
बल्मीकमृदया कर्णौ शांधितव्यौ प्रयत्नतः।
शक्रस्थानाच्च मृदया ग्रीवा शोध्या च भूभृतः॥
राजवेश्मगृहद्वारमृदया हृदयं तथा।
देवालयमृदा पृष्ठं शोध्यं तस्याथ राजभिः॥
गजदन्तोद्धृतमृदा दक्षिणस्तु तथा भुजः।
शोधनीया शनैर्नासा वृषशृङ्गविलग्नया॥
कटीदेशस्ततो वैश्यैर्वेश्याद्वारमृदा तथा।
नदीकूलमृदा पार्श्वे शोधितव्ये यथाक्रमम्॥
अश्वशालामृदा शुद्रैः शोध्ये तस्याश्च जानुनी।
गोकुलान्मृदया जङ्घे पादौ च सरसो मृदा॥
सर्वौषधैः सर्वबीजैर्गन्धैरन्नैश्च सर्वदा।
सर्वपुष्पैः सर्वफलैः स्राप्यो रोचनया तथा॥
अथ भद्रासनगतः सर्वतोयैः शुभाम्बरैः।
यथाशक्त्या समानीतैः पुरस्कृत्य पुरोहितैः।
नृपतिस्त्वभिषेक्तव्यो दैवज्ञवचनान्नरैः॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शुद्रमुख्यैस्तथैव च।
पतिव्रताभिर्नारीभिः पुत्रिणीभिश्च पुत्रवत्॥
ततः स्नातो विलिप्ताङ्गः कृतदेवाग्नितर्पणः।
आबद्धमुकुटः स्रग्वी बद्धपट्टो विभूषितः॥
मङ्गलानां शतं पश्येत्पुण्यमष्टोत्तरं शतम्।
शान्त्यै प्राधानिके स्थाने सर्वमेतद्यथाक्रमम्॥
कृत्वा शेपं ततो हुत्वा दद्यात्पूर्णाहुतिं ततः।
अभिषिक्तस्ततो राजा साम्राज्यादौ विनायकम्॥
ततः क्रमेण देवांश्च ब्रह्मविष्णुमहेश्वरान्।
ग्रहान्नीलं च नागेन्द्रमग्निं विप्रान् पुरोहितम्॥
देवान् पितॄन् समुद्दिश्य दद्याद्विप्रेषु दक्षिणाम्।
अभयं सर्वभूतेषु सम्यक्तत्र ददाति च॥
आघातस्थानगान् सर्वान् पशूनपि विमोचयन्।
आघातस्थानं हननस्थानम्।
बन्धनस्थानसंस्थांश्च प्रमोचयति शास्त्रवत्।
गोब्राह्मणादिहन्तृृंश्च पापिष्ठान् दारुणानपि॥
जहाति हस्तिहन्तृृंश्च क्रूरांश्चापि सुशिक्षितान्।
व्याघ्रचर्मोत्तरे रम्ये तथा सिंहासने शुभे॥
उपवेश्यो भवेद्राजा स्वयमेव पुरोधसा।
सिंहासनस्थः सम्पश्येत्प्रकृतीश्च समासतः।
छत्रायुधानि सम्पूज्य गणमुख्यांस्तुरङ्गमान्॥
आरुह्यालङ्कृतं नागं विसृजन् घनसञ्चयम्।
प्रदक्षिणीकृत्य पुरं प्रविश्य च पुरं गृहम्॥
समस्तान् पौरमुख्यांश्च कृत्वा पूजां विसर्जयेत्।
गतेषु तेषु च धनैस्तर्पयेत्नटनर्त्तकान्॥
ब्राह्मणान् भोजयेत्सर्वान् दीनानाथांश्च बान्धवान्।
ततो महाजनैः सार्द्धं पूर्वराजक्रमादिभिः॥
आहारं कुरुते राजा राजभृत्यान् विसृज्य च।
आचम्य ताम्बूलमुखो विहरेत ततः क्षणम्॥
ततः कतिपयैः सार्द्धमन्तःपुरनिवासिभिः।
रक्षेत्सपत्नादात्मानं भूयो भुङ्क्ते यथासुखम्॥ इति।
श्रीरामायणेऽपि सम्भारसम्पादनपूर्वकमभिषेक उक्तः —
शनैस्तस्मिन् प्रशान्ते तु जनघोषे नराधिपः।
प्रणम्य गुरुमासीनमित्युवाच पुरोहितम्॥
अभिषेकाय रामस्य यत्कर्म सपरिच्छदम्।
तदस्य भगवन् सर्वमाज्ञापयितुमर्हसि॥
तच्छ्रुत्वा भूमिपालस्य वसिष्ठो द्विजसत्तमः।
आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन्॥
युक्तान् नियोगिपुरुषान्।
सुवर्णादीनि रत्नानि मणीन् सर्वौषधीरपि।
शुक्लंच माल्यं लाजांश्च पृथक्च मधुसर्पिषी॥
अहतानि च बासांसि रथं सर्वायुधानि च।
सितंवर्णं च तुरगं गजं च शुभलक्षणम्॥
चामरव्यजने चोभे ध्वजं छत्रं च पाण्डुरम्।
शतं च शतकुम्भानां कुम्भानामग्निवर्चसाम्॥
हिरण्यशृङ्गं वृषभं समग्रं व्याघ्रचर्म च।
यच्चान्यत्किञ्चिदेष्टव्यं यश्च किञ्चिन्म2नोऽनुगम्॥
उपास्थापयत प्रातरग्न्यगारे महीपतेः।
अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च॥
चन्दनैः स्रग्भिरर्च्यन्तां सुमनोदामभिस्तथा।
प्रशस्तवस्तु गुप्णवद्दधिक्षीरोपसेचनम्॥
द्विजानां शतसाहस्रं यत्प्रकाममलं भवेत्।
सिद्धमत्राद्य सम्भारं प्रत्युषस्येव कल्प्यताम्॥
सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम्।
ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च॥
आवध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम्।
सर्वे च नागराश्चैव गणिकाश्च स्वलङ्कृताः॥
कक्ष्यां द्वितीयामासाद्य तिष्ठेयुर्नृपवेश्मनि।
कक्ष्यां प्रकोष्ठम्।
देवायतनचैत्येषु जलभक्ष्याः सदक्षिणाः॥
उपस्थापयितव्याश्च माल्ययोगाः पृथक्पृथक्।
बद्धदीर्घासयो योधाः सन्नद्धा मृष्टवाससः॥
महाराजस्य भवनं प्रविशन्तु महोदयम्।
एवमाज्ञाप्य तत्सर्वे कृतमित्यभ्यवेदयत्॥
सुप्रीतमनसे राज्ञे वसिष्ठो हर्षयन् पुनः।
तथा,
आभिषेचनिकं द्रव्यं सर्वमेवोपकल्पितम्।
गङ्गायमुनयोश्चैव सङ्गमादाहृतं जलम्॥
याश्चान्याः सरितः पुण्यास्ताभ्यश्च जलमाहृतम्।
सर्वबीजानि गन्धाश्च रत्नानि विविधानि च॥
बाहनं नरसंयुक्तं दर्भाः सुमनसः पयः।
अहतानि च वासांसि भृङ्गारं च हिरण्मयम्॥
क्षीरवृक्षप्रवालैश्च पश्चात्फलविमिश्रितैः।
पूर्णकुम्भाः सुलक्षण्याः काञ्चना उपकल्पिताः॥
रसो गोरोचना चैव लाजा दधि घृतं मधु।
तथैव पुण्यतीर्थेभ्यो मृदापो जङ्गमानि च॥
चन्द्रांशुविमले चारुमणिदण्डे स्वलङ्कृते।
चामरव्यजने श्रीमद्रामार्थमुपकल्पिते॥
पूर्णेन्दुमण्डलाभं च श्रीमन्माल्यविभूषितम्।
रामस्य यौवराज्यार्थमातपत्रं प्रकल्पितम्॥
मत्तो गजवरश्चैव औपवाह्यः प्रतीक्षते।
औपवाह्यः राजवाह्यः।
श्वेतश्च तुरगश्चैव रामार्थमुपकल्पितः॥
अष्टौ कन्याश्च मङ्गल्याः सर्वाभरणभूषिताः।
रूपयौवनसम्पन्ना गणिकाश्च स्वलंकृताः॥
श्वेतपुष्पाणि धेनुश्च निस्त्रिंशो धनुरेव च।
हेमदाम्नां स्वलङ्कृत्य ककुश्ची पाण्डुरो वृषः॥
सिंहासनं व्याघ्रचर्म समिद्धश्च हुताशनः।
बादित्राणि च सर्वाणि सूतमागधबन्दिनः॥
अमात्या ब्राह्मणा गावः पुण्याश्च मृगपक्षिणः।
पौरजानपदाः श्रेणीर्नैगमानां गणैः सह॥
एते चान्येऽपि बहवः प्रीयमाणाः प्रियंवदाः।
नैगमाः
रसादीनां वाणिज्यकर्तारः।
तथा,
गते पुरोहिते रामस्तती नियतमानसः।
सह पत्न्या विशालाक्ष्या नारायणमुपागमत्॥
प्रगृह्य शिरसा पात्रंहविषो विधिवत्ततः।
महते दैवतायाज्यं जुहाव ज्वलितेऽनले॥
शेषं च हविषस्तस्य प्राश्याशास्यात्मनिश्चयम्।
ध्यायन्नारायणं देवं स्थण्डिले कुशसंस्तरे॥
वाग्यतः सह वैदेह्या भूत्वां च नियतात्मवान्।
श्रीमत्यायतने विष्णोःशिश्ये नरवरात्मजः॥
कृतोपवासं रामं तु वैदेह्या सहितं तदा।
सदर्भायां क्षितौ सुतं शुश्राव विधिवज्जनः॥
विष्णुधर्मोत्सरे तु पुरन्दरशान्तिपूर्वकोऽभिषेक उक्तः।
कार्या पौरन्दरी शान्तिःप्रागेवास्य पुरोधसा।
प्राप्तेऽभिषेकदिवसे सोपवासः पुरोहितः॥
सोप्णीषः श्वेतवसनः सितचन्दनभूषितः।
सितमाल्योपवीतश्च सर्वाभरणभूषितः॥
वेदिमुल्लिख्य मन्त्रेणहुत्वा च विधिवत्ततः।
जुहुयाद्वैष्णणान्मन्त्रस्तिथा शाक्रान् विचक्षणः॥
सावित्रान् वैश्वदेवाद्यान् सौम्यांश्चविधिवत्ततः।
आयुःशर्मगणं चैव तथा स्वस्त्ययनं गणम्॥
आयुष्यमभयं चैव तथा चैवापराजितम्।
सम्पातवन्तं कलशं तथा कुर्याच्च काञ्चनम्॥
बह्णेर्दक्षिणपार्श्वस्थःश्वेतचन्दनभूषितः।
श्वेतानुलेपनः स्रग्वीसर्वाभरणभूषितः॥
आसनस्थः सुखं पश्येद्निमित्तानि हुताशने।
पश्येपुरन्ये च तथा नृसिंहा दैवज्ञवाक्यं निपुणं च भूयः।
सांवत्सरस्याथ सदस्यमुख्याः सदस्यमुख्यश्च पुरोहितश्च॥
प्रदक्षिणावर्त्ताशिस्वस्तप्तजाम्बूनदप्रभः।
रथौघमेघनिर्घोषो विधूमश्र हुताशनः॥
अनुलोमा सुगन्धिश्चस्वस्तिकाकारसन्निभः।
वर्द्धमानाकृतिश्चैव नन्द्यावर्तनिभस्तथा॥
प्रसन्नार्चिर्महाज्वालः स्फुलिङ्गरहितो हितः।
❋3स्वाहा अवसाने ज्वलनविशेषणम्।मध्येन होतुरग्नेश्च। प्रस्तरस्य दर्भमुष्टेः।
स्नानं समारभेत्प्राज्ञो होमकाले पुरोहितः।
होमकाले होमसमाप्तौ।
आदौ तु स्वेच्छया स्नातः पुनर्मृद्भिः समारभेत्।
पर्वताप्रमृदा तावन्मूर्द्धानं शोधयेन्नृप॥
बल्मीकाग्रमृदा कर्णौवदनं केशवालयात्।
इन्द्रालयात्तदा ग्रीवां हृदयं तु नृपाजिरात्॥
करिदन्तोद्धृतमृदा दक्षिणं तु तथा भुजम्।
वृषशृङ्गोद्धतमृदा वामं चैव तथा भुजम्॥
सरोमृदा तथा पृष्ठमुदरं सक्रमाम्मृदा।
नदीकूलद्वयमृदा पार्श्वौसंशोधवेत्तथा॥
वेश्याद्वारमृदा राज्ञः कटिशौचं विधीयते।
गजस्थानात्तथैबोरू गोस्थानाज्जानुनी तथा॥
अश्वस्थानात्तथा जङ्घेराज्ञःसंशोधयेद्बुधः।
रथचक्रोद्धृतमृदा तथैव चरणद्वयम्॥
मृत्पूतःस्नपनीयःस्यात्पञ्चगव्यजलेन तु।
पञ्चगव्येन, जलेन कुशोदकेन च।
ततो भद्रासनगतं मुख्यामात्यचतुष्टयम्।
बलप्रधानं भूपालमभिषिञ्चेद्यथाविधि॥
पूर्वतो हेमकुम्भेन घृतपूर्णेन वाडवः।
वाडवो ब्राह्मणः।
दक्षिणे क्षीरपूर्णेन रौप्यकुम्भेन क्षत्रियः॥
दध्ना च ताम्रकुम्भेन वैश्यः पश्चिमतस्तथा।
कौबेर्य्यांमधुकेनाथ छन्दोगोऽथ कुशोदकैः॥
मधुना कुशोदकैश्च छन्दोगः।
सम्पातवन्तं कलशं तथाऽऽहृत्य पुरोहितः।
विधाय वह्निरक्षां तु सदस्येषु यथाविधि॥
विधाय वह्निरक्षाम्–वह्निं रक्षध्वमित्युक्त्वा।
राजसूयाभिषेके तु ये मन्त्राः परिकीर्तिताः॥
ते च मन्त्रा वक्ष्यन्ते।
तैस्तु दद्यान्महाभाग ब्राह्मणानां स्वरेण तु।
स्वरेण मन्त्रघोषेण।
ततः पुरोहितो गच्छेद्वेदिमूलं तथैव तु॥
वेदिमूलं कुण्डम्।
विभूषितं तु राजानं संस्थितं भद्र आसने।
भद्रासनलक्षणम्—
देवीपुराणे,
हैमं च राजतं ताम्रं क्षीरवृक्षमयं च वा।
भद्रासनं च कर्त्तव्यं सार्द्धहस्तसमुच्छ्रितम्॥
सपादहस्तमानं च राज्ञोमाण्डलिकान्तरात्।
वराहसंहितायामपि,
त्रिविधस्तस्योच्छ्रायो हस्तः, पादाधिको,ऽर्द्धयुक्तश्च।
माण्डलिकानन्तरजित्समस्तराज्यार्थिनां शुभदः॥ इति।
तत्तु भद्रासनं नुतनमेव कार्यम्। तदुक्तम्—
विष्णुधर्मोत्तरे,
भद्रासनं च छत्रं च वालव्यजनमेव च।
खङ्गं चक्रं तथा चापं रत्नानि विविधानि च॥
राज्ञो मृतस्य ये त्वासन् सर्व एते नराधिप।
न ते कार्या नरेन्द्रस्य तेन दैवविदा तदा॥
कामं सांवत्सरः कार्योऽह्यलभेऽन्यस्य भूभुजा।
गुणाधिकाश्चेन्नो कार्या येऽन्येऽत्राभिहिता मया॥ इति।
पूर्वे चेद्गुणा
श्रिकास्तदा ये अन्ये कर्त्तव्या इत्यभिहितास्ते नो कार्या इत्यर्थः।
तथा तत्रैव,
शतच्छिद्रेण पात्रेण सौवर्णेन यथाविधि।
अभिषिञ्चेत धर्मज्ञः सम्यग्वेदविशारदः॥
या ओषधीरोपधिभिः श्रुताभिः सुसमाहितः।
ओषधिभिः अष्टौषधिगर्भकुम्भोदकेन।
रथे तिष्ठेति गन्धैश्चआब्रह्मन्ब्राह्मणेति च।
गन्धैः सर्वगन्धकुम्भोदकेन।
बीजैःपुष्पैस्तथासीनं रामं पुष्पवतीति च।
बीजैःबीजपूर्णकुम्भोदकेन। पुष्पैः पुष्पपूर्णकुम्भोदकेन।
पुष्पवतीत्याथर्वणो मन्त्रः।
तेनैव चैव मन्त्रेण फलैस्तमभिषेचयेत्॥
आशुः शिशान इत्येवं सर्वरत्नैश्च भार्गव।
ये देवाः पुरः सदेति कुशाद्भिः परिमार्जयेत्॥
ऋग्वेदवित्ततो राज्ञो रोचनया यथाविधि।
मूर्द्धानं च तथा कण्ठं गन्धद्वारेति संस्पृशेत्॥
ततो ब्राह्मणमुख्याश्च क्षत्रियाश्च विशस्तथा।
शूद्राश्चावरमुख्याश्च नानातीर्थसमुद्भवैः॥
अवरमुख्या मूर्द्धावसिक्तादयः।
नादेयैः सारसैःकौपैर्नानाकलशसंस्थितैः॥
चतुःसागरजैर्लाभादलाभे द्विजकल्पितैः।
गङ्गायमुनयोश्चैव निर्झरैश्च तथा द्विजैः॥
छत्रपाणिर्भवेत्कश्चित्केचि
त्चामस्पाणयः।
अमात्यमुख्यास्तत्कालं केचिद्वेत्रधरास्तथा॥
शङ्खभेरीनिनादेन वन्दिनां निस्वनेन च।
गीतवादित्रघोषेण द्विजकोलाहलेन च॥
राजानमभिषिञ्चेयुः समेत्य सहिता जनाः।
सर्वलोकाभिषिक्तस्य सम्मिश्रजलसंयुतम्॥
सम्मिश्रजलानि नादेयादीनि दश।
सर्वौषधियुतं पुण्यं सर्वगन्धयुतं तथा॥
रत्नबीजसमायुक्तं फलपुष्पयुतं तथा।
पूजितं सितमूत्रेण वेष्ठितग्रीवमेवच॥
पूजितम्–सर्वतो गन्धादिनाऽभ्यर्चितम्।
श्वेतवस्त्रावक्लन्तैश्चसंबीतं शुचि भूषितम्।
अवकाःशैवालम्।
क्षीरवृक्षलताच्छन्नंसुहष्टंकाञ्चनं नवम्॥
आदाय कलशं राज्ञः स्वयं सांवत्सरस्तदा।
मन्त्रावसाने कलशं दद्याद्भृगुकुलोद्वह॥
मन्त्राः सुरास्त्वा इत्यादयो वक्ष्यमाणाः।
ततः पश्येन्मुखं राजा दर्पणे वापि सर्पिषि॥
सोष्णीषः सितवस्त्रश्च मङ्गलालम्भनं ततः।
कृत्वा सम्पूजयेद्विष्णुं ब्रह्माणं शङ्करं तथा॥
लोकपालं ग्रहांश्चैव नक्षत्राणि च भार्गव।
ततः स्वपूजां कुर्वीत शयनीयं ततो व्रजेत्॥
व्याघ्रचर्मोत्तरं रम्यं सितवस्त्रोत्तरच्छदम्।
पुरोधा मधुपर्केण तत्रस्थं तं समर्चयेत्॥
राजाऽऽदौचार्चयेत्तत्र सांवत्सरपुरोहितौ।
मधुपर्केण धर्मज्ञस्तनस्तस्य स दैववित्॥
पट्टबन्धं प्रकुर्वीत मुकुटस्य च बन्धनम्।
पट्टलक्षणं तु—
देवीपुराणे,
सर्वस्नानमलङ्कारं रोचनाख्यं च पट्टकम्।
वृद्ध्याऽब्ध्यङ्गुलमङ्गुल्या षदत्रिंशदङ्गुलावधि॥
वृत्तंवा चतुरस्रं वा पद्मकत्रिकगर्भितम्।
वत्सेशपद्ममत्स्येभगोस्वस्तिकविनायकैः॥
श्रीश्रीवृक्षवराहेभस्वामिदेवीशुभान्वितम्।
अव्ध्यङ्गुलं सप्ताङ्गुलम्, अङ्गुल्या एकया सहितमष्टाङ्गुलम् इत्येकं पट्टलक्षणम्, तदारभ्य सप्ताङ्गुलकृतवृद्ध्या चत्वारि लक्षणानि, एवं पञ्चविधः।तस्य देर्घ्यार्धेन मध्यदेशाविस्तारः, तदर्धेन प्रान्तद्वयविस्तारः। स एवं वृत्तः कोणरहितश्चतुरस्रो वा।वत्सेशः श्रीवत्सधारी विष्णुः। इभो हस्ती, महामात्राधिष्ठितः। गौः स्त्रीगवी। केवल एक हस्ती वृषभश्च निषिद्धो—
विश्वकर्मणा,
व्याघव्यालगजसिंहा अश्वोष्ट्रो महिषो वृषः।
भूषणेषु त्यजेदष्टौ यदीच्छेद्दीर्घजीवितम् ॥इति।
श्रीवृक्षो बिल्वः। इभो गणेशः। स्वामी कार्तिकेयः।
वराहसंहितायामपि
दैर्घ्यादिमानं भङ्ग्यन्तरेणोक्तम्, मध्यविस्तारमुक्ता।
सर्वे द्विगुणायामा मध्यादर्धेन तदर्धविस्ताराः।
सर्वे विशुद्धकाञ्चनविनिर्मिताः श्रेयसो वृद्ध्यै ॥
पञ्चशिखो भूमिपतेस्त्रिशिखो युवराजमहिष्योः।
एकशिखः सैन्यपतेः प्रसादपट्टो विना शिखया ॥इति।
विष्णुधर्मोत्तरे,
ततः स बद्धमुकुटः काले पूर्वं मयोदिते।
परार्द्ध्यास्तरणोपेते मञ्चे बद्धोत्तरच्छदे ॥
परार्द्ध्यंं बहुमूल्यम्।
ध्रुवाद्यौरितिमन्त्रेण सोपवेश्यः पुरोधसा।
वृषस्य वृषदंशस्य द्वीपिनश्च भृगूद्वह ॥
तेषामुपरि सिंहस्य व्याघ्रस्य च परं ततः।
वृषदंशो मार्जारः। द्वीपी चित्रकः।
तत्रोपविष्टस्य तदा प्रतीहारःप्रदर्शयेत्।
अमात्यांश्च तथा पौरान्नैगमांश्चापणेश्वरान ॥
तथा प्रकृतयश्चान्या यथावदनुपूर्वशः।
ततोऽग्रहारवस्त्रेभतुरङ्गकनकोत्तमैः ॥
गोज़ाविगृहदानैश्चसांवत्सरपुरोहितौ।
पूजयित्वा ततः पश्चात् पूजयेद्ब्राह्मणत्रयम् ॥
अनेनैव विधानेन येन राजाऽभिषेचितः।
ततः सदस्यान्सम्पूज्य सांवत्सरपुरोधसः ॥
ततो ब्राह्मणमुख्यानां पूजनं तु समाचरेत्।
गोवस्त्रतिलरूप्यान्नफलकाञ्चनमोरसैः॥
मोदकैः श्वेतपुष्पैश्च महीदानैश्च सुव्रत।
आथर्वणपरिशिष्टे तु विशेषः।
मधुपर्काद्येन विधिना सर्वार्घंसम्पाद्य दक्षिणां दद्यात्, कोटिमध्यात्तृतीयं भागं यथाभूमिप्रमाणेन वा। हस्त्यश्वरथयानं दिव्यमाभरणमातपत्रं हिरण्यंक्षितिगोधनधान्यरत्नादिकं स्वगुरवे दद्यात्, येन वा तुष्येत। इति।
तदुत्तरकर्त्तव्यं च विष्णुधर्मोत्तरे अभिहितम्—
मङ्गलालम्भनं कृत्वा गृहीत्वा सशरं धनुः।
वह्निंप्रदक्षिणं कृत्वा प्रणिपत्य तथा गुरुन्॥
पृष्ठतो वृषमालभ्य गां सवत्सां च पार्थिव।
पूजयित्वा तुरङ्गं च मन्त्रितं चाभिषेचितम्॥
तमारुह्य ततो नागं पूजयेच्चाभिषेचितम्।
मन्त्रितं दक्षिणे कर्णे स्वयं दैवविदा ततः॥
आरुह्य राजमार्गेण स्वपुरं तु परिभ्रमेत्।
मुख्यामात्यैः ससामन्तैः सांवत्सरपुरोहितैः॥
सहितः कुञ्जरारूढैरभिगच्छेच्चदेवताः।
तासांसम्पूजनं कृत्वा नगरे या निषेविताः॥
प्रविश्यान्तर्गृहं राजा प्रहृष्टनरवाहनः।
दानमानादिसत्कारैगृह्णीयात्प्रकृतीस्ततः।
सम्पूजितास्ताश्च विसर्जयित्वा गृहे स्वके स्पान्मुदितो महात्मा।
विधानमेतत्ममवाप्य राजा कृत्स्नांच धात्रीं वशगां विदध्यात्॥
वृद्धवसिष्ठोऽपि,
प्राग्भागे मन्दिरस्याथ गोमयेन तु कारयेत्।
मण्डलं चतुरस्रं तद्वर्णिकैः समलङ्कृतम्॥
तत्र भद्रासनं सम्यगर्चयेत्सुमनोरमम्।
गङ्गातोयसमापूर्णस्वर्णकुम्भोदकैः सह॥
दिग्विदिक्षु स्थितैः शुक्लगन्धमाल्याम्बरार्चितैः।
शतौषधीमूलहेमरत्नसद्बीजपल्लवैः॥
मृत्तिकावृषशृङ्गं च गजदन्तं च रोचनम्।
उत्पलं पद्मकं पद्ममुरारेणुककुङ्कुमम्॥
राजसर्षमुस्तं च देवदारुसमन्वितम्।
देवस्यत्वेतिमन्त्रेण आयुःपुष्टियशस्करैः॥
आभिषेकेर्वेदमन्त्रैः शुभलग्ने शुभान्विते।
भद्रासनस्थे नृपतावभिषेकं तु कारयेत्॥
नीराजनं च कर्त्तव्यं शङ्खवादित्रनिःस्वनैः।
आशिषो वाचनं कृत्वा वार्चयेच्च मृरान् पितॄन्॥
आयुधानि च पट्टं च विप्रान् गन्धादिनाऽर्चयेत्।
ब्रूयात्प्रत्यङ्मुखो राजा नमामि त्वोद्धरेति च॥
प्राच्यां त्वामभिषिञ्चन्तु वसवस्तेजसे श्रियै।
याम्यायामभिषिञ्चन्तु त्वां रुद्रा विजयाय च॥
आदित्या अभिषश्चन्तु प्रतीच्यां दिशि वृद्धये।
विश्वेदेवास्तथोदीच्यामभिषिञ्चन्तु पुष्टये॥
दिगीशास्त्वभिषिञ्चन्तु त्वां सदा विजयाय न।
साम्राज्यमितिमन्त्रेण राजानं सम्यगर्चयेत्॥
व्याघ्रचर्मण्यथासीनं नवालङ्कारभूषितम्।
भृत्यचामरसंयुक्तं राजचिह्नसमन्वितम्॥
पुरोहितश्च जुहुयात्सावित्र्याऽसौ प्रयत्नतः।
उदुम्बरसमिद्भिश्च आज्येनाष्टोत्तरं शतम्॥
विद्वत्पुरोहितामात्यवृद्धैर्वन्धुसमन्वितः।
तदा सञ्चिन्त्य सप्ताङ्गं प्रजा धर्मेण पालयेत्॥
एवं यः कुरुते सम्यक् स राजा वर्द्धते चिरम्॥ इति।
सामविधानब्राह्मणेऽपि
, राजानमभिषेचयेत्तिष्येण श्रवणेन वा। व्रीहियवैस्तिलमाषैर्द्दधिमधुसुमनोजातरूपैर्यशश्विनीभ्योनदीभ्यः समुद्राच्चोद- कान्याहृत्यौदुम्बरे भद्रासने वैयाघ्रेचर्मण्युत्तरलोम्न्यासीनं जीवन्तीनां गवां शृङ्गकोशैरभिषिश्चेदभ्रातृव्य इति रहस्येन। यमेवं कामयेतैकराजः स्यान्नास्य चक्रं प्रतिहन्येतेत्येकवृषेणाभिषिञ्चेत्। अभिषे
के दद्याद्ग्रामवरं दासीशतं गोसहस्रं तदधीनश्च भवेत्। इति।
अस्यार्थं
माधवाचार्य
आह–पुरोहितो राजानमभिषेचयेत् अभिषिश्चेत्, वक्ष्यमाणैः साधनैः। यद्यपि राजशब्दः अभिषेकसंस्कृतस्य क्षत्रियस्य वाचकस्तथापि भाविनीं संज्ञामाश्रित्य “यूपं तक्षति” इत्यादिवत् अभिषेक्तव्यराजानमित्युपचारप्रयोगः। अवेष्ट्यधिकरणे तु भाविसंज्ञां प्रत्याख्याय यूपं तक्षतीत्यनेन वैषम्यमुक्तम्। तिष्यः पुष्यः। व्रीह्यादिजातरूपान्तैर्द्रव्यैमिश्रितैः। यशस्विबीभ्यः पावनत्वप्रयुक्तख्यातियुक्ताभ्यो गङ्गातुङ्ग भद्रादि- भ्यो नदीभ्यः समुद्राच्चोदकानि पृथक्पृथगाहृत्य तैः उदुम्बरसम्बन्धिनि भद्रासने चतुष्पदोपेते पर्यास्तृते व्याघ्रचर्मणि उपरिस्थितलोम्नि आसीनं जीवोपेतानां गवां शृङ्गाणि च्छित्वा तदग्रच्छिद्रनिःसृतैजेलैरभ्रातृव्य इति रहस्येन साम्ना, उदकानि शङ्ककोशैरिति उभयत्र बहुबचननिर्देशात्पृथक् गङ्गाद्युदकैरभिषिञ्चत्। पृथगाहरणस्यापीदमेव प्रयोजनम्। कामनाभेदेन मन्त्रविशेषमाह—पुरोहितो यं राजानमेवं कामयेत कृत्स्नस्य भूमण्डलस्यैक एव राजा
स्यान्नास्य चक्रे भूमण्डलं केनचिदपि वैरिणा प्रतिहतं भवेत् इति, तं रहस्यस्थाने एकवृषेणेतिसाम्नाऽभिषिञ्चेत् ’ अन्यत्मागुक्तमेव। राजा पुरोहितायोत्कृष्टं ग्रामं दासीशतं सहस्रं गाश्च दद्यात्तदधीनश्च भवेत्। अत्र यादृशं पुरोहितं कुर्याचादृश उक्त—
आथर्वणे
,
तस्मात्कुलीनं श्रोत्रियं भृग्वङ्गिरोविदं विनयाकृतिशौचाचारयुक्तमलोलुपं व्रतनियमचारित्र-वृत्तलक्षणगुणसम्पनं सन्धिविग्रहचिकित्सकं माहेन्द्रजालभूतकर्मादिष्वभिविन्दकं जितस्थानासनं हिमातपवर्षसहं हीधृतिकर्मार्जवशमदयादानशक्तिसम्पन्नं बृहस्पत्युशनसोः ( कृतौ पारगं ) स्थानाकृतिप्रमाणवर्णश्रुतवपुषा चानुमेयं तेजस्विनं गम्भीरं सत्त्वयुक्तं गुरुं वृणुयाद्भूपतिरिति।
विष्णुस्मृतौ,
वेदेतिहासधर्मशास्त्रेषु कुशलं कुलीनमव्यङ्गं तपस्विनं च पुरोहितं कुर्यात्। इति।
** गौतमे,**
ब्राह्मणं च पुरोदधीत विद्याभिजनवाग्रूपवयःशीलसम्पन्नं न्यायवृत्तं तपस्विनम्। इति।
आथर्वणपरिशिष्टे,
तस्माद्गुरुं वेदरहस्ययुक्तं चतुर्विधें कर्मणि चाप्रमत्तम्।
शान्तं च दान्तं च जितेन्द्रियं च कुर्यान्नरेन्द्रः प्रियदर्शनं च ॥इति।
याज्ञवल्क्ये,
पुरोहितं च कुर्वीत देवज्ञमुदितोदितम्।
दण्डनीत्यां च कुशलमथर्वाङ्गिरसे तथा ॥
सर्वेषु दृष्टादृष्टार्थेषु कर्मसु पुरो निहितं दानमानसत्कारैरा-
त्मसम्बन्ध्रिनं कुर्यात्। दैवज्ञं ग्रहोत्पाततच्छमनादेर्वेदितारम्। उदितोदितं विद्यानुष्ठानादिभिरुदितैः शास्त्रोक्तैः उदितम् ऋद्धम्। दण्डनीत्याम् अर्थशास्त्रे।अथर्वाङ्गिरसे शान्त्यादिकर्माणि। यादृशो निषिद्धः पुरोहितस्तादृश उक्त—
आथर्वणपरिशिष्टे,
नातिदीर्घं नातिह्रस्वंनातिस्थूलं कृशं तथा।
न च हीनातिरिक्ताङ्गं क्वचित्कुर्यात्पुरोहितम्॥
हीनाधिकाङ्गं पतितं विवर्णं स्तेयिनं जडम्।
क्लीवमशक्तियुक्तं भिन्नस्वरं काणं विरूपनेत्रं द्वेष्यं च राजा गुरुं नैव कुर्यात्। इति।
तादृशस्य करणं फलान्यपि तत्रैवोक्तानि।
हीनाधिकाङ्गे पुरराष्ट्रहानिःकाणे जडे वाहनकोशनाशः।
स्तेये त्वशक्तेच समस्तदोषाः क्लीवेविवर्णे नृपतिर्विनश्येत्॥
भिन्नस्वरे जायते गात्रभेदो द्वेष्ये गुरौ विप्रतिपत्तिमाहुः।
विवर्णनेत्र पतिते सुपुत्रानध्वर्युणा चैव निहन्ति पौत्रान्॥
कृष्णे कोशक्षयं विद्याद्रक्ते वाहनसङ्क्षयः।
पिङ्गलःपार्थिवं हन्याद्राष्ट्रं हन्यात्तु केकरः॥
बह्वृचं हि नियुञ्ज्याद्यः पौरोहित्ये तु पार्थिवः।
सभारः पङ्के हस्तीव सह तेनैव मज्जति॥
अध्वर्युं हि नियुञ्ज्याद्यः पौरोहित्ये तु पार्थिवः।
उत्तितीर्षुरिवाश्मानमादत्ते स्ववधाय सः॥
बधबन्धपरिक्लेशान् कोशवाहनसङ्क्षयम्।
करोत्येतां च योऽवस्थां तपोयुक्तोऽपि सामगः॥
अन्वयाकृतिसम्पन्नं तस्माद्भृग्वशिरोविदम्।
गोत्राङ्गिरसवासिष्ठं राजा कुर्यात्पुरोहितम्॥
मखेषु राष्ट्रेषु पुरेषु चैव सेनासु राज्ञां स्वनिवेशनेषु।
य उत्पातास्त्रिविधा घोररूपास्तान् सर्वान् शमयेद्ब्रह्मवेदवित्॥इति।
ब्रह्मवेदोऽथर्ववेदः। बह्वृचादिनिषेधस्याथर्ववेदवेत्तरि शान्त्यादिवेत्तरि तात्पर्यम्, न तु बह्वृचादिनिषेधे।
तथा,
यस्यान्यकुलोपयुक्तपुरोधाः शान्तिकपौष्टिकप्रायश्चित्ताभिचारिकनैमित्तिकौर्ध्वदेहिकान्यथर्वविहितानि कर्माणि कुर्यात्स तस्य प्रत्यङ्गिरा भूत्वा हस्त्यश्वरथपदात्यादीनि नाशयेत्—
इत्यायुक्तम्।
अस्यापि शान्त्यादिज्ञातारि तात्पर्यम्, न त्वथर्ववेदवेत्तरि। स च ब्राह्मण एव कार्यः। तदुक्तम्—
ऐतरेयब्राह्मणे,
न ह वा अपुरोहितस्य राज्ञो देवा अन्नमदन्ति तस्माद्राजा यक्ष्यमाणो ब्राह्मणं पुरो दधीत देवा मेऽन्नमदन्ति। इति।
पूर्वराजमरणोत्तरं नूतनराजाभिषेके विशेष उक्तो—
** विष्णुधर्मोत्तरे,**
मृते राज्ञिन कालस्य नियमोऽत्र विधीयते।
तत्रास्य स्नपनं कार्यं विधिवत्तिलसर्षपैः॥
विधिवत् प्राकृतस्नानविधिना।
घोषयित्वा जयं चास्य सांवत्सरपुरोहितौ।
अन्यासनोपविष्टस्य दर्शयेतां जनं शनैः॥
स सान्त्वयित्वा तु जनं मुक्त्वा बन्धनगांस्ततः।
अभयं घोषयित्वा तु कालाकाङ्क्षी ततो भवेत्॥
मृत इत्यस्वस्थस्याप्युपलक्षकम्। यदा पूर्वस्मिन् राज्ञि मृतेऽस्वस्थे बोत्तरस्याभिषेकस्तदा स्नपनादौ न कालनियमः। तत्राभिषेक्तव्यस्य सांवत्सरपुरोहितौ तिलसर्षपैर्विधिवत्स्नपनं कार-
यित्वाऽस्मिन् राष्ट्रेऽयमिदानीं राजेति जयं घोषयित्वा पूर्वराजासनादन्यासनोपविष्टस्य मुख्यं मन्त्र्यादिकं नागरिकं च जनं दर्शयेताम्। ततः सर्वंजनं सत्कृत्य पूर्वराजबद्धान्मुक्त्वा स्वराष्ट्रेऽभयं घोषयित्वा तदासनगत एवप्रजाः परिपालयन् वर्षानन्तराभिषेककालप्रतीक्षया तिष्ठेत्। पूर्वस्मिन् जीवति द्वितीयस्याभिषेके स्नपनादिकालप्रतीक्षान्तमकृत्वा शुभे कालेऽभिषेक एव कार्यः।
अथाभिषेकपूर्वकर्त्तव्येन्द्रशान्तिप्रयोगः।
शुभेऽह्नियथाविभवं याज्ञवल्क्याद्युक्तप्रकारेण विनायकशान्तिं नवग्रहमग्वं च कृत्वा उपकल्पितसमस्तसम्भारः सपत्नीको राजा सांवत्सरादभिषेकदिनशुद्धिं विदित्वा तत्पूर्वदिवसे पुरोहिताचार्यसांवत्सरादीन् सन्निधाप्य शुचौ देशेऽन्तर्जानुकर उपविश्येष्टदेवगुरुद्विजकुल ज्येष्ठान्नत्वा दर्भपाणिराचम्य प्राणानायम्य तिथ्यादि सङ्कीर्त्य करिष्यमाणराज्याभिषेकाङ्गत्वेनैन्द्रीं शान्तिं करिष्य इति सङ्कल्प्य, विजयवलपशुवृष्टिकामनया परचक्रागमनिवृत्तिकामनया चैन्द्रीं शान्तिं करिष्य इति काम्यायाम्। तत्र निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं स्वस्तिपुण्याहवाचनं यातृकापूजनाभ्युदयिकश्राद्धाचार्यवरणानि च तत्पूर्वाङ्गाणि करिष्य इति सङ्कल्प्य यथाविभवं षोडशोपचारैर्गणपतिमभ्यर्च्य यथास्वगृह्यं स्वस्तिवाचनादि विधायैन्द्रीं शान्तिं कर्तुमाचार्यं त्वामहं तृण इति पुरोहितं वृणुयात्।
आचार्यस्तु यथा स्वर्गे शक्रादीनां बृहस्पतिः।
तथा त्वं मम यज्ञेऽस्मिनाचार्यो भव सुव्रत॥
इत्याचार्यबरणे मन्त्रः।मधुपर्कादिवस्त्रान्तम्। तत आ-
चार्योऽग्निस्थापनान्तं कृत्वा प्राच्यां कलशं संस्थाप्य तत्र यथाशक्ति सौवर्णीमैन्द्रीं प्रतिमां प्रतिष्ठाप्य यथाविभवं पूजयेत्। ततोऽमृताशान्तिप्रकारेण चरुं श्रपयित्वा इन्द्र जुषस्वेतिसूक्तेन प्रत्यृचं जुहुयात्। शेषममृतावत्।
इत्यैन्द्रशान्तिप्रयोगः।
अथाभिषेकप्रयोगः।
तत्र पूर्वस्मिन् दिवसे नगरदेवायतने ध्वजपताकातोरणादिभिरलङ्कृत्य कृतोपवासः पुरोहितोऽभिषेकदिवसे स्नातोऽनुलिप्तः शुचिः शुक्लवासाः सोष्णीषो वैदिदेशे स्नातेन श्वेतवस्त्रमाल्याद्य-लङ्कृतेन सर्वाभरणभूषितेन राज्ञा तिथ्याद्युल्लेखपूर्वकं मम कृत्स्नस्य राष्ट्रस्य वश्यतासिद्ध्यर्थं सांवत्सरपुरोहिताभ्यां विष्णुधर्मोत्तरोक्तविधिनाऽऽत्मानमभिषेचयिष्य इति सङ्कल्पयेत्। ततः सांवत्सरपुरोहितयोः ऋग्यजुरथर्वविदां विप्रक्षत्रियवि शाममात्यानां छन्दोगस्य च विप्रामात्यस्य चैकैकस्य वान्यतमवेदविदो वरणे कृते अन्येषु चातुर्वर्ण्यमुख्येषु सन्निधापितेषु होमदेशादुत्तरतः स्नानशालायां यथासम्भवं सर्वतीर्थजलपूर्णं सर्वौषधीसर्वरत्नसर्वफलयुतं क्षीरिवृक्षक्षीरलतापल्लवोपेतं सर्वतस्त्रिगुणमितसूत्रेण वेष्टितं श्वेताम्बरवे ष्टितकण्ठं मालादिभिरलङ्कृतं शैवालमुखं नवं सौवर्ण कलशं मध्ये, तत्समन्ततश्च यथास्थानं पञ्चगव्यमिश्रजलकलशं घृतपूर्णं हेमकुम्भं क्षीरपूर्णं रौप्यकुम्भं दधिपूर्णं ताम्रकुम्भं मधुकुम्भं कुशोदककुम्भं शतच्छिद्रं सौवर्णम् अन्यांश्च नद्यादिजलपूर्णान् मृन्मयान् कलशान् कलशस्थापनविधिना स्थापयेत्। यथासम्भवं पूर्वोक्तपर्वताग्रादिमुदः पूर्वोक्तलक्षणं सौवर्णाद्यन्यतमनिर्मितं भद्रासनं
_________________________________________________________________
१ सविस्तरोऽयं प्रयोगो नीतिमयूखे द्रष्टव्यः।
गन्धपुष्पताम्बूलसर्वोषध्यादि चोपकल्पयेत्। आथर्वणकुशकण्डिकोक्तविधिप्रकारेण वाग्निस्थापनादि कृत्वा शर्मवर्मस्वस्त्ययनायुष्याभयाप राजिताख्यैः पञ्चभिर्गणैः प्रधानहोमानाज्येन जुहुयात्।काञ्चनकलशे च होमदेशे स्थापिते सम्पातान् क्षिपेत्।तदा राजा बह्नेर्दक्षिणपार्श्वेस्थित्वा सांवत्सरसामन्तादिभिरन्यैः सदस्यैः पुरोहितैश्च सहितो वह्नौपूर्वोक्तानि शुभाशुभानि निमित्तानि पश्येत्।ततः पुरोहितः प्रधानहोमं समाप्य भ- स्मोपग्रहणात्प्राग्वर्त्तिउत्तराङ्गं समाप्य प्राकृतासनस्थं सुगन्धितैलोद्वर्त्तनादिभिः स्वेच्छया स्नातं स्नानशालायामृङ्मन्त्रैर्मृत्तिकादिभिः राजानं पुनः स्नापयेत्। तद्यथा –पर्वताग्रादिमृदःसमीपे संस्थाप्य वलित्या पर्वतानामिति प्रत्येकमभिमन्त्र्य मावोरिपत्खनितेति खनित्वा स्योनापृथिवीति प्रत्येकं गृहीत्वा राज्ञोऽङ्गानि लेपयेत्। पर्वताग्रमृदा सहस्रशीर्षेति मूर्धानं, वल्मीकवप्रग्रमृदा अक्षीभ्यामितिसकृत्पठितेन कर्णौ, विष्ण्वालयस्थमृदा तेनैव मुखं, वृषोशृङ्गोद्धतमृदा अक्षीभ्यामिति नासिकां, इन्द्रालयमृदा ग्रीवाभ्य इति सकृत्पठितेन ग्रीवां, राजालयमृदा आन्त्रेभ्य इति हृदयं, करिदन्तोद्धृतमृदा यस्य विश्वानीतिमन्त्रेण दक्षिणं भुजं, सरोमृदा बह्णीनामिति पृष्ठं, सङ्गममृदा नाभानाभिं न इत्युदरं, नदीकूलद्वयमृदा आते सिञ्चामीति पार्श्वौ, वेश्याद्वारमृदा सोमानं सरणमिति कटी, गजस्थानमृदा ऊरुभ्यां त इत्यूरु, गोष्ठमृदा मेहनाद्बलमिति जानुनी, अश्वस्थानमृदा तेनैव जङ्धे, रथचक्रमृदा एतावानस्येति पादौ, सर्वाभिः अङ्गादङ्गेति सर्वाङ्गाणि।ततो गायत्र्या गन्धद्वारामिति अध्यायस्वेति दधिक्रा
व्ण इति तेजोऽसि शुक्रमित्यादिभिर्मन्त्रैः पञ्चगव्यकुशोदकपूर्णं पूर्वदिगवस्थितं कलशमादाय अभिषिञ्चेत् ।
अथ भद्रासनगतम्—”तेजोऽसिशुक्रम्” इति घृतपूरितेन हेमकुम्भेन पूर्वदिगवस्थितेन पूर्वतः स्थित्वा ब्राह्मणामात्योऽभिषिञ्चेत्। क्षीरपूर्णेन रौप्यकुम्भेन दक्षिणतः स्थित्वा क्षत्रियामात्य “आप्यायस्व” इति सिश्चेत्। “दधिक्राव्ण” इति दधिपूरितेन ताम्रकुम्भेन पश्चिमदिगवस्थितेन पश्चिमतः स्थित्वा वैश्यामात्योऽभिषिञ्चेत्। “मधुवाता" इति त्र्यूचेन मधुपूर्णेन मृत्कुम्भेनोत्तरदिगवस्थितेनोत्तरतः स्थित्वा छन्दोगामात्येऽभिषिञ्चेत्। स एव तत्रैव स्थित्वा कुशोदकपूरितेनान्यकुम्भेन “देवस्य त्वा” इति सिञ्चेत्। तत्र पूरणे पुरयामि, अभिषेके अभिषिञ्चामीति मन्त्रे वाक्यशेषः। ततः पुरोहितो वह्निं रक्षध्वमिति सदस्यान् सम्प्रेष्य सम्पातवन्तं सौवर्णं कलशमादाय राजसमीपं गत्वा ब्राह्मणस्वरयुतैः शङ्खभेर्यादिशब्दयुतैराजसूयगतराजाभिषेकमन्त्रैरभिषिञ्चत्। ते यथा–“सोमस्य त्वा द्युम्नेनाभिषिञ्चम्यग्नेर्भ्राजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण। क्षत्राणां क्षत्रपतिरेद्ध्यति
दिद्युन्पाहि “।“इमं देवा
असपत्रं सुवद्धं महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय। इयममुष्य
पुत्रममुष्यै पुत्रमस्यै विश एषवोऽमी राजा सोमोऽस्माकं ब्राह्मणानां राजा” इति याजुषाः। इममित्यत्र द्वितीयान्तं राजनाम। अमुष्येत्यत्र षष्ठ्यन्तं तत्पितृनाम। अमुृष्यां इयत्र षष्ठ्यन्तं तन्मातृनाम।आग्वेदिकास्तु
“इमा आ
पः शिवतमा” इति त्यृचः। “देवस्य त्वा सवितुः प्रसवेऽश्विनोर्वाद्द्वभ्यांपूष्णो हस्ताभ्यामग्नेस्तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेणाभिषिञ्चामि। बलाय श्रियै यशसेऽन्नाद्याय “ इति यजुः। भूर्भुवः स्वरिति व्याहृतय इति। एवमन्येऽपि तत्तच्छास्वीया द्रष्टव्याः। ततः पुरोहितः कुण्डसमीपं गच्छेत्। ततः सुगन्ध्युद्वर्त्तनद्रव्येणोद्वर्त्तिताङ्गं भद्रासनगतमेवग-
जानं शतच्छिद्रेण सौवर्णेन वेदधर्मशास्त्राभिज्ञोऽन्यो ब्राह्मणो “या ओषधीः” इति मन्त्रेण पिष्टसर्वौषध्युदकपूर्णकुम्भेन, “रथे तिष्ठन्” इति मन्त्रेण गन्धपूर्णोदककुम्भेन, “आब्रह्मन्ब्राह्मण” इति यजुषा वीह्यादिवीजोदकपूर्णेन, “पुष्पवती” इत्याथर्वणमन्त्रेण पुष्पपूर्णोदककुम्भेन, तेनैव मन्त्रेण तत्कालसम्भृतफलपूर्णकुम्भेन, “आशुः शिशान" इतिसूक्तेन सर्वरत्नपूर्णकुम्भोदकेन “ये देवाः पुरः सद" इति यजुषा कुशपञ्चपल्लवपूर्णोदक- कुम्भेन राजानमभिषिश्चेत्। ततोऽन्य ऋग्वेदवित् ब्राह्मणो गोरोचनापिष्टेन “गन्धद्वाराम्” इति मन्त्रेण राज्ञो मूर्द्धानं कण्ठं च संस्पृशेत्। ततो मुख्या ब्राह्मणक्षत्रियवैश्यशूद्राः पतिव्रताः पुत्रवत्यो नार्यो मृर्द्धावसिक्ताद्याश्च यथासम्भवं समुद्रादिनानातीर्थाहृतैर्जलैरभिषिञ्चेयुः। शूद्राद्यास्तूष्णीम्। तत्रामात्यमुख्याश्छत्रचामरवेत्रादीनि राजचिह्नान्याहरेयुः। तत्र वन्दिनश्च स्तुतिं कुर्युः। ब्राह्मणा मन्त्रघोषं, वादकाः शङ्खभेर्यादिघोषं च कुर्युः। ततः सांवत्सरो मुख्यं सौवर्णं कलसमादाय ततोगृहीतेन कुशोदकेन “सुरास्त्वाम्" इत्यादिभिर्विष्णुधर्मोत्तरोक्तै र्मन्त्रैरभिषिश्चेत्। सकलमन्त्राभिषेचनान्ते अवशिष्टं कलशजलंकलशेनैव सर्वं मूर्ध्नि न्यसेत्।
तथा च विष्णुधर्मोत्तरे,
श्रीराम उबांच।
मन्त्रेण येन दैवज्ञः कुर्याद्राज्ञोऽभिषेचनम्।
तमहं श्रोतुमिच्छामि त्वत्तोवरुणनन्दन॥
पुष्कर उवाच।
शृणुष्वावहितो मन्त्रं राम कल्मषनाशनम्।
येनाभिषिक्तो नृपतिश्चिरं यशसि तिष्ठति॥
राज्ञोऽभिषेकशब्दान्ते दैववित् कुशवारिणा।
कुम्भादभ्युक्षणं कुर्यान्मन्त्रान्ते कलशं न्यसेत्॥
सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः।
वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः॥
प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते।
आखण्डलोऽग्निर्भगवान् यमो वै निर्ऋतिस्तथा॥
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः।
ब्रह्मणा सहितः शेषो दिक्पालाःपान्तु ते सदा॥
रुद्रो धर्मो मनुर्दाक्षी रुचिः श्रद्धा तु पार्थिव।
भृगुरत्रिर्वसिष्ठश्च सनकश्च सनन्दनः॥
सनत्कुमारश्च तथा भगवानथ चाङ्गिराः।
पुलहश्च पुलस्त्यश्च मरीचिः कश्यपः प्रभुः॥
एते त्वामभिषिञ्चन्तु प्रजाध्यक्षाः समागताः।
प्रभाकरा वर्हिषदो अग्निष्वात्तास्तथैव च॥
क्रव्यादाश्चोपहूताश्चआज्यपाश्च सुकालिनः।
एते त्वामभिषिञ्चन्तु पितरश्चाग्निभिः सह॥
लक्ष्मीर्वेदी शची ख्यातिरनसूयातथा स्मृतिः।
सम्भूतिः सन्नतिश्चैव क्षमा प्रीतिस्तथैव च॥
स्वाहा स्वधा च ते राजन्नभिषिञ्चन्तु मातरः।
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा तथा क्रिया॥
बुद्धिर्लज्जा वपुः शान्तिस्तुष्टिः सिद्धिश्चपार्थिव।
एतास्त्वामभिषिञ्चन्तु धर्मपत्न्यः समागताः॥
अरुन्धती वसूर्यामी लम्बा मानुर्मरुत्वती।
सङ्कल्पा च मुहूर्त्ता च साध्या विश्वा तथैव च॥
धर्मपत्न्यो दशान्यास्त्वामभिषिश्चन्तु पार्थिव।
अदितिर्दितिर्दनुः कालासुहृष्टा नायुषा मुनिः॥
कद्रृःक्रोधवशा प्राची विनता सुरभिस्तथा।
एतास्त्वामभिषिञ्चन्तु कश्यपस्य प्रियाः स्त्रियः॥
पत्नी तु बहुपुत्रस्य सपुत्रा या च भामिनी।
समायात्वभिषेकाय विजयाय च पार्थिव।
कृशाश्वपत्री च तथा सुप्रभा तु जया तथा।
सुदर्शनस्तयोः पुत्रो विजयं न ददातु ते॥
मनोरमा भानुमती विशाला या च बाहुदा।
अरिष्टिनेमिपत्न्यस्त्वामभिषिञ्चन्तु पार्थिव॥
कृतिका रोहिणी देवी इला रुद्राणिरेव च।
पुनर्वसुश्च पुष्यश्च तथाऽश्लेषाच पार्थिव॥
मघा च फाल्गुनी पूर्वा उत्तरा च क्षितीश्वरा।
हस्तश्चित्रा तथा स्वाती विशाखा च तथा नृप॥
अनुराधा तथा ज्येष्टा मूलं च वसुधाधिप।
आषाढा च तथा पूर्वा तथान्या चोत्तरा द्वया॥
अभिजिश्चा तथा श्रुत्या धनिष्ठा च तथैव च।
तथा शतभिषा चैव पूर्वाभाद्रपदा व या॥
उत्तरा रेवती राजन्नश्विनी भरणी तथा।
एतास्त्वामभिषिञ्चन्तु सोमपत्न्यः समागताः॥
मृगी च मृगमन्द4ोच श्वेता भद्रासना हरिः।
पूता च कपिता दंष्ट्रा सुरसा5सरसा तथा॥
एताःपुलस्त्यपत्न्यस्त्वामभिषिञ्चन्तु पार्थिव।
श्येनी भासी तथा क्रौञ्चीधृतराष्ट्री तथा शुकी॥
पत्न्यस्त्वामभिषिञ्चन्तु अरुणस्यार्कसारथेः।
आयतिर्नियतिश्चैव रात्रिर्निद्रा च पार्थिव।
एतास्त्वामभिषिञ्चन्तु लोकसंस्थानहेतवः।
उमा सेना शची चैव धूमोर्णा निर्ऋतिस्तथा॥
गौरी शिवा च बुद्धिश्च वलया चैत्र नन्दना।
आनृक्या च तथा ज्योत्स्ना या च देवी वनस्पतिः॥
एतास्त्वामभिषिञ्चन्तु देवपत्न्यः समागताः।
महाकालश्चकालश्च मन्वन्तरयुगानि च॥
संवत्सराणि सर्वाणि तथा चैवायनद्वयम्।
ऋतवश्च तथा मासाः पक्षा रात्र्यहनी तथा॥
सन्ध्याश्चतिथयश्चैव मुहूर्ताःकरणानि च।
एते त्वामभिषिञ्चन्तु कालस्यावयवाः शुभाः॥
आदित्यश्चन्द्रमा भौमो बुधजीवसितार्कजाः।
ग्रहास्त्वामभिषिञ्चन्तु राहुकेतु च पार्थिव॥
स्वायम्भुवो मनुः पूर्वो मनुः स्वारोचिषस्तथा।
औत्तमस्ताममश्चैव रैवतश्चाक्षुषस्तथा॥
वैवस्वतोऽथ सावर्णो दक्षत्रझमुतावुभौ।
धर्मपुत्रो रुद्रपुत्रो रौच्यो भौसश्चयो मनुः॥
एते त्वामभिषिञ्चन्तु मनवस्तु चतुर्दश।
विश्वभुग्विश्वपश्चित्रः स्वचित्तश्च शिखी विभुः॥
मनोजवस्तथौजस्वी बलिरङ्कतिमान्तिकौ।
वृषश्च ऋतधामा च दिविस्पृक् शुचिरेव च॥
एते त्वामभिषिञ्चन्तु देवपालाश्चतुर्दश।
रेवन्तश्चकुमारश्च तथावर्चाःकुमारकः।
वीरभद्रश्च नन्दी व विश्वकर्मा पुरोजवः
_______________________________________________________________
१ सुशान्तः सु
सुखी इत्यपि पाठः।
एते त्वामभिषिञ्चन्तु सुरमुख्याः समागताः॥
नासत्यौदेवभिषिजौभवेतां विजयाय ते।
धरो रुद्रश्च सोमश्च आपश्चैवानलानिलौ॥
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ महाप्रभाः।
एते त्वामभिषिञ्चन्तु देवमुख्याः समागताः॥
आत्मा ह्यायुर्मनो दक्षः पटुः प्राणस्तथैव च।
हविष्यश्चगविष्टश्च कृतः सत्यश्च पार्थिव॥
अभिषिञ्चन्तु राजंस्त्वां देवा ह्यङ्गिरसो दश।
क्रतुर्दक्षो वसुः सत्यः कालः कामो मुनिस्तथा॥
धृतिमान्यनुजश्चैव रोचमानस्तथैव च।
एते त्वामभिषिञ्चन्तु विश्वेदेवास्तथा दश॥
अङ्गारकस्तथा शर्वोनिर्ऋतिश्च तथा स्वरा।
अजैकपादहिर्बुध्न्यः पुष्पकेतुस्तथा बुधः।
भरतश्च तथा मृत्युः कापालिरथ किङ्किणः।
एकादशैते रुद्रास्त्वामभिषिञ्चन्तु पार्थिव॥
भुवनो भावनश्चैव सुजन्यः सुजनस्तथा।
क्रतुः सुवर्णवर्णश्च व्यजश्चव्यसुतस्तथा॥
प्रसवश्चाव्ययश्चैव दत्तश्चमनुजाधिप।
एते त्वामभिषिञ्चन्तु मृगवो नाम देवताः॥
मनो मरुच्च प्राणश्च नरोऽपानश्च वीर्यवान्।
चित्तिर्हयो नयश्चैव हंसो नारायणस्तथा॥
विधुश्चापि दिविश्रेष्ठस्तथान्यश्च जगद्धितः।
एते त्वामभिषिञ्चन्तु साध्या द्वादश पार्थिव॥
धाता मित्रोऽर्यमा पूषा शक्रोंऽशो वरुणो भगः।
त्वष्टा विवस्वान् सविता विष्णुर्द्वादशमः स्मृतः॥
एते त्वामभिषिञ्चन्तु काश्यपादितिसम्भवाः।
एकद्वित्रिचतुर्ज्योतिः पञ्चज्योतिस्तथैव च॥
एकशक्रो द्विशक्रश्च त्रिशक्रश्च महाबलः।
इन्द्रश्चगत्या दृश्यन्ते ततः प्रतिसकृत्तथा॥
ऋतजित्सत्यजिञ्चैव सुषेणःश्येनजित्तथा।
अतिमित्रस्तथा मित्रः पुरुजिच्चापराजितः॥
ऋतश्चऋतवान् धाता वरुणो विधृतो ध्रुवः।
विधारणो महातेजा वासवस्य परः सखा॥
ईदृगन्यादृशश्चैव एतादृगमिताशनः।
क्रीडनश्चतथा शक्तिः सरभश्चमहायशाः॥
धातुरुग्रो मुनिर्भीमो अभिमुक्तः क्षिपः सह।
द्युतिर्वपुरनाधृष्योवासः कामो जयो विराट्॥
एते त्वामभिषिञ्चन्तु मरुतश्च समागताः।
देवा ह्येकोनपञ्चाशन्महाबलपराक्रमाः॥
चित्राङ्गदश्चित्ररथश्चित्रसेनश्च वीर्यवान्।
ऊर्णायुरनघश्चैव उग्रसेनश्च वीर्यवान्॥
धृतराष्ट्रश्चसोमश्च सूर्यवर्चास्तथैव च।
दुरावस्तृणपः कीर्णिर्नन्दिश्चित्ररथस्तथा॥
कलियाप्यङ्गिरा राजन् पर्जन्यो नारदस्तथा।
वृषपर्वा च हंसश्च तथा चैव हहा हुहूः॥
विश्वावसुस्ताम्रकश्च तथा वसुरुचिश्चयः।
एते त्वामभिषिञ्चन्तु गन्धर्वाः पृथिवीपते॥
आहूत्यः शोभयन्त्यश्च वेगवत्यस्तथैव च।
आद्युनत्यस्तयोर्जश्चतथा वेकुरयः शुभाः॥
बभ्रुवश्चामृतरुचो भुवश्चैव रुचस्तथा।
भीरवः शोचयन्त्यश्च दिव्या अप्सरसां गणाः॥
एतास्त्वामभिषिञ्चन्तु कामिन्यस्तरुणप्रियाः।
अनुत्तमा सुरूपा च सुकेशी च मनोवती॥
मेनका सहजन्या च पर्णाशा पुञ्जिकस्थली।
क्रतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि॥
प्रम्लोचाथाप्यनुम्लोचा रम्भा चैवोर्वशी तथा।
पञ्चचूडा सामवती चित्रलेखा च पार्थिव॥
मिश्रकेशी सुगन्धिश्च विद्युत्पर्णा तिलोत्तमा।
अट्टका लक्ष्मणा क्षेमा असिता रुचिका तथा॥
सुव्रता च सुबाहुश्चसुगन्धा सुवपुस्तथा।
पुण्डरीका सुदारा च सुराधा सुरसा तथा॥
हेमा सरस्वती चैव कमला मूनृताऽभया।
सुमुखी हंसपादी च वारुणी रतिलालसा॥
एतास्त्वामभिषिञ्चन्तु राजन्नप्मरसः शुभाः।
प्रह्नादश्च महातेजास्तथा राजन्विरोचनः॥
बलिर्बाणिस्तथान्ये च दितिपुत्राः समागताः।
अभिपिश्चन्तु दैत्याश्च दिव्येन ह्यम्भसा स्वयम्॥
विप्रचित्तिमुखाः सर्वे दानवास्त्वां समागताः।
अभिषिञ्चन्तु राजानं राज्यं कर्त्तुं सुमत्वराः॥
हेत्यश्चैव प्रहेत्यश्च सलिलेन्द्रस्तथैव च।
सुकेशी पौरुषेयश्च यज्ञहा पुरुषादकः॥
विद्यत्सूर्यस्तथा व्यासो वधःश्वरसनस्तथा।
एते त्वामभिषिञ्चन्तु समागम्याथराक्षसाः॥
सिद्धार्थो मणिभद्रश्च सुमनो नन्दनस्तथा।
कण्डूतिः पञ्चमश्चैव पणिमान् वसुमांस्तथा॥
सर्वानुभूतिः
शङ्खश्चपिङ्गाक्षश्चतुरस्तथा।
यमो मन्दरसो भीमः पद्मचन्द्रः प्रभाकरः॥
मेघवर्णेश्चभव्यश्च प्रदोषश्च प्रभाकरः।
भूतिमान् केतुमांश्चैव मौलिमांश्चसुदर्शनः॥
श्वेतश्च विपुलश्वैव प्रद्युम्नश्चजग्रावहः।
पद्मपक्षो वलाकश्चकुसुदश्च बलाहकः॥
पद्मनाभः सुगन्धश्च सुबीरी विनयः कृतिः।
पूर्णमासो हिरण्साक्षः अत
जिह्मश्चवीर्यवान्॥
एते त्वाम
भिषिञ्चन्तु राजवृद्धाश्चसत्तमाः।
शङ्खःपद्मश्च राजेन्द्र मकरःकच्छपस्तथा॥
महापद्मश्च नीलश्चस्वर्वः कुन्दो मुकुन्द्रकः।
एते त्वामभिषिञ्चन्तु निधयस्तु समागताः॥
छागलाश्चैकवक्त्राश्चये च सूची
मुखा नृप।
दुष्पूरणा विषादाश्चज्वलनाङ्गारकास्तथा॥
कुम्भमात्राः प्रतुण्डाश्च उ
पवीरा उलूखलाः।
अकर्णाश्चक्रखण्डाश्चतथा ये पात्रपाणयः॥
पांसवश्चवितुण्डाश्च निपुणाःस्कन्दनास्वथा।
एतास्त्वामाभषिञ्चन्तु पिशाचानां तु जातयः॥
ब्रह्मचर्ये स्थिता दान्ताः सर्वज्ञाःसर्वदर्शनाः।
नानाप्रकारवचना नानाबहुशिरोधराः॥
चतुष्पथपुराट्टालशून्यालयनिकेतनाः।
त्रिरिं भवं देवंयेगवा मनुजेश्वर॥
ते त्वामद्याभिषिञ्चन्तु गणा भूतपतेः स्वयम्।
महाकालं पुरस्कृत्य नरसिंहं च मातरः।
सर्वास्त्वामभिषिञ्चन्तु राजराज्ये नराधिप॥
ग्रहः स्कन्दो विशाखश्च नैगमेयस्तथैव च।
अभिषिञ्चन्तु राजंस्त्वां सर्वे स्कन्दग्रहा इमे॥
डाकिन्यो याश्च योगिन्यः खेचर्यो भूचरास्तथा।
सर्वास्त्वामभिषिञ्चन्तु समेत्य मनुजेश्वर॥
गरुडश्चारणश्चैव आरुणिश्च महाखगः।
सम्पाती विनतश्चैव विष्णुर्गन्धकुमारकः॥
एते त्वामभिषिञ्चन्तु सुपर्णाः पृथिवीपते।
अनन्तश्च महानागो वासुकिः शेषतक्षकौ॥
सुपर्णारिश्च कुम्भश्च वामनोऽथाञ्जनोत्तमः।
ऐरावतोमहापद्मःकम्बलाश्वतरावुभौ॥
एलापत्रश्च खण्डश्च कर्कोटकधनञ्जयौ।
महाकर्णो महानीलोधृतराष्ट्रबलाहकौ॥
कुमारःपुष्पदन्तश्चसुमुखो दुर्मुखस्तथा।
सोमनाथो दधिमुखः कालियः शालिपिण्डकः॥
बिल्वपादः पाण्डुरकनागश्चापूरणस्तथा।
कपिलश्चाम्बरीषश्च कुमारश्चाप्यकच्छकः॥
प्रह्लादः पुष्पदन्तश्चगन्धर्वश्चमनस्विकः।
नहुषः स्वररोमा च शङ्कपालस्तथैव च॥
पद्मश्चकुलिकश्चैव पाणिरित्येवमादयः।
नागास्त्वामभिषिञ्चन्तु राजराज्ये नराधिप।
कुमुदैरावतौ पद्मः पुष्पदन्तोऽथ वामनः।
सुप्रतीकोऽञ्जनो नीलः पान्तु त्वां सर्वतो द्विपाः॥
पैतामहस्तथा हंसो वृषभः शाङ्करस्तथा।
दुर्गासिंहश्चपान्तु त्वां यमस्य महिषासनम्॥
उच्चैःश्रवाश्चश्वपतिस्तथा धन्वन्तरिर्नृप।
कौस्तुभः शङ्कराजश्चपान्तु त्वां सर्वतः सदा॥
चक्रं त्रिशूलं वज्रश्चनन्दकोऽस्त्राणि चाप्यथ।
सर्वे ऽभिषेकं दत्त्वा च दिशन्तु विजयं ध्रुवम्॥
धर्मश्च व्यवसायश्च सत्यं दानं तपस्तथा।
यशो यज्ञास्तथैवायुर्ब्रह्मचर्यं दमः शमः॥
एते त्वामभिषिञ्चन्तु चित्रगुप्तश्च पार्थिव।
दण्डः पिङ्गलकश्चैव मृत्युः कालान्तकाबुभौ॥
बालखिल्यास्तथा सर्वे भवन्तु विजयाय ते।
दिग्धेनबश्चतस्रस्त्वां सुरभिश्चतथा नृप॥
अभिषिञ्चन्तु सर्वाभिर्गोमिस्सार्द्धंनरेश्वर।
वेदव्यासश्चवाल्मीकिः शमनोऽथपराशरः॥
देवलःपर्वतश्चैव दुर्वासा भागुरिः शुचिः।
याज्ञवल्क्यः सजावालिर्जमदग्निः शुचिश्रवाः॥
विश्वामित्रःस्थूलशिराश्च्यवनोऽत्रिर्विदूरथः।
एकतश्च द्वितश्चैव त्रितो गौतमगालवौ॥
शाण्डिल्यश्च भरद्वाजो मौद्गल्यो बेदवाहनः।
बृहदश्वः कुविभवो जयजानुर्घटोदरः॥
यवक्रीतोऽथ रैभ्यश्चआत्माधानश्च जैमिनिः॥
ऋषिः सारङ्गवश्चैव तथागस्त्यो महातपाः।
दुदुर्मृदुर्मिशश्चैव वृद्धवाहुर्महोदयः॥
कात्यायनश्च कण्वश्च वलाकश्चेभनन्दनः।
एते त्त्वामभिषिञ्चन्तु मुनयः पार्थिवोत्तम॥
पृथुर्दिलीपो भरतो दुष्यन्तः शत्रुजि
द्वली।
मनुः ककुत्स्थश्चानेना युवनाश्वो जयद्रथः॥
मान्धाता मुचुकुन्दश्च तथा राजा पुरूरवाः।
आयुश्चनहुपश्चैव ययातिरपराजितः॥
इक्ष्वाकुश्चयदुश्चैवपूरुर्भूरिश्रवास्तथा।
अम्बरीषश्च नामागो बृहदश्वो महाहनुः॥
प्रद्युम्नश्चाय सुद्युन्नो भूरिद्युन्नश्चसृञ्जयः।
एते चान्ये च राजानस्तव राजन् दिवं गताः॥
समायान्त्वभिषेकाय विजयाय तथा श्रिये।
पर्जन्याख्यास्तथा भूप मेघाः सर्वे समागताः।
द्रुमाश्चौषधयो रत्नंबीजानि विविधानि च।
सर्वे त्वामभिषिञ्चन्तु राजराज्ये सुसत्त्वराः॥
पुरुषश्चाप्रमेयात्मा महाभूतानि यानि श्च।
पृथिवी बायुराकाशमापो ज्योतिस्तथैव च॥
मनो बुद्धिस्तथैवात्मा अव्यक्तं च महीपते।
एते त्यामभिषिञ्चन्तु समेता वसुधाधिप॥
रुक्मभौमः शिलाभौमः पातालो नीलमृत्तिकः।
पीतरक्तासिताश्चैव श्वेतभौमस्तथैव च॥
एते त्वामभिषिञ्चन्तु विजयाय महीपते।
भूर्लोकोऽथ भुवर्लोकःस्वर्लोकोऽथ महर्जनः॥
तपः सत्यं च राजेन्द्र विजयाय भवन्तु ते।
जम्बूःशाकःकुशः क्रौञ्चःशाल्मलिद्वीप एव च।
प्लक्षत्र पुष्करश्चैव स्वस्वाम्यं प्रदिशन्तु ते॥
उत्तराः कुरवः पुण्या रम्या हैरण्वतास्तथा।
भद्राश्वः केतुमालश्चवर्षश्चैव इलावृतः॥
हरिवर्षः किम्पुरुषो वर्षो भारतसंज्ञकः।
एते त्वामभिषिञ्चन्तु समेत्य बसुधाधिप॥
इक्षुद्वीपः कसेरुश्चताम्रवर्णो गमस्तिमान्।
नागद्वीपस्तथा सौम्यो गन्धर्वो वरुणस्तथा॥
अयं च नवमस्तेषां स्वस्वाम्यं प्रदिशन्तु ते।
हिमवान् हेमकूटश्च निषधोनील एव तु॥
श्वेतशृङ्गो ऽगवान् मेरुर्माल्यवद्गन्धमादनौ।
महेन्द्रो मलयः सह्यःशुक्तिमानृतवांस्तथा॥
विन्ध्यश्च पारियात्रश्चसर्व एब महीधराः।
समागम्याभिषिञ्चन्तु त्वामद्य वसुधाधिप॥
ऋग्वेदोऽथ यजुर्वेदः सामवेदस्तथैव च।
अथर्ववेदो वेदास्त्वामभिषिञ्चन्तु पार्थिव।
इतिहासो धनुर्वेदो गान्धर्वश्चायुसंज्ञितः।
सप्तोपवेदाश्च तथा विजयाय भवन्तु ते॥
शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गतिः।
छन्दोविचितिषष्ठानि विजयं प्रदिशन्तु ते॥
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः।
धर्मशास्त्रं पुराणं च विद्या ह्येताश्चतुर्दश॥
साङ्खयं योगः पाञ्चरात्रो वेदाः पाशुपतं तथा।
कृतान्तपञ्चकं चैव शास्त्राणि विविधानि च।
गायत्री पापशर्मनागङ्गादेवी महाशिवा॥
गान्धारी च तथा विद्या विजयं प्रदिशन्तु ते।
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः॥
ऋषयो मनवो गावो देवमातर एव च।
देवपत्न्यो
द्रुमा नागा दैत्याश्चाप्सरसां गणाः॥
अस्त्राणि सर्वशस्त्राणि राजानो बाहनानि च।
औषधानि च रत्नानि कालस्पावयवाश्च ये॥
स्थानानि च समस्तानि पुण्यान्यायतनानि च।
जीमूतानि च सर्वाणि तद्विकाराश्च सर्वशः॥
उक्तानि चाप्यनुक्तानि विजयाय भवन्तु ते।
लवणक्षीरतोयाश्च घृतमण्डोदकास्तथा॥
दधिमण्डोदकाश्चैव सुरोदश्चनराधिप।
तथैवेक्षुरसोदश्चतथा स्वाद्दकश्च यः॥
गर्भोदकश्चतोयैस्त्वामभिषिञ्चन्तु पार्थिव।
चत्वारः सागराश्चैव स्वेन तोयेन पार्थिव॥
समागम्याभिषिञ्चन्तु विजयं प्रदिशन्तु ते।
पुष्करश्च प्रयागश्चप्रभासो नैमिषस्तथा॥
तथा ब्रह्मसरः पुण्यं गयाशीर्षे तु पार्थिव।
कालोदको नन्दिकृण्डस्तथैवोत्तरमानसः॥
स्वर्गमार्गप्रदश्चैव तथा पश्चनदश्च यः।
भृगुतीर्थं प्रभासश्च तथैवामरकण्ठकः॥
आश्रमः कालिकायाश्च तृणबिन्दोस्तथाश्रमः।
गोतीर्थं चाग्नितीर्थं च विमलःस्वर्ग एव तु॥
जम्बूमार्गश्च विमलःपुण्यस्तन्दुलिकाश्रमः।
कपिलस्य तथा तीर्थं तीर्थे वातिकखण्डिकौ॥
महासरस्तथागस्त्यकुमारीतीर्थमेव तु।
गङ्गाद्वारकुशावर्तौबिल्वको नीलपर्वतः॥
बाराहःपर्वतश्चैव तीर्थं कनखलं तथा।
सुगन्धा च धराकुम्भा तथा शाकम्भरीति या॥
भृगुतुङ्गःसकुव्जाम्रः कपिलस्य तथाश्रमः।
तमसोद्भेदनः पुण्यस्तथा विनशनं शुभम्॥
अजतुङ्गश्चमोचश्च अश्वगन्धश्च पार्थिव।
कालञ्जरः सकेदारो रुद्रकोटिस्तथैव च॥
महालयश्चराजेन्द्र बदर्याश्रम एव तु।
नन्दाच सोमवीर्थंच सूर्यतीर्थं शतक्रतोः॥
आश्विनोर्वरुणस्याथबायोर्वैश्रवणस्य तु।
ब्रह्मणश्चैव शर्वस्य यमस्य च्यवनस्य तु॥
विरूपाक्षस्य धर्मस्य तथा चाप्सरसां नृप।
ऋषीणां च वसूनां च साध्यानां मरुतां तथा॥
आदित्यानां च रुद्राणां तथा चाङ्गिरसां नृप।
विश्वेदेवभृगूणां च तथाऽन्येषां तु मानद॥
प्लक्षप्रस्रवणश्चैव सुषुम्ना च नराधिप।
शालग्रामसरश्चैव वाराहो मानसस्तथा॥
कामाश्रमस्त्रिकूटश्च चित्रकूटस्तथैव च।
सपूर्वः क्रतुसारश्च तथा विष्णुपदं सरः॥
कापिलं च तथा तीर्थं वासुकेस्तीर्थमेव च।
सिन्धुत्तमस्तपोद्वारोऽप्यथ सूर्पारकुम्भकः।
पुण्डरीकश्चराजेन्द्र गङ्गासागरसङ्गमः॥
सिन्धुसागरयोश्चैव सङ्गमः सुमनोहरः।
तथा कुम्भावसुन्दश्च मानसं तु तथा सरः॥
तथा बिन्दुसरः पुण्यं सर अच्छोदकं तथा।
धर्मारण्यं फल्गुतीर्थमविमुक्तं तथैव च॥
लौहित्यश्चतथा पुण्यो बदरीपावनः शिवः।
तीर्थं सप्तऋषीणां तु बहितीर्थं तु पार्थिव॥
पु
ण्यवसापथोमेषच्छागलेशस्तु पार्थिव।
पुष्पम्यासस्तथा चैव तीर्थं हंसपदं तथा॥
अश्ववीर्यंच कर्णााश्वोमणिमन्थस्तथैव च।
देविका इन्द्रमार्गश्चस्वर्णविन्दुस्तथैव च॥
आहल्यकं तथा तीर्थं तीर्थं चैरावतं तथा।
ऐरावतीसमुद्भेदे तीर्थं भोमयशःपदम्॥
करवीराह्वयं चैव नागमो वणिकस्तथा।
पापमोचनिकश्चैव ऋणमोचनिकस्तथा॥
उद्वेजनस्तथा पुण्यः सम्पूज्यःसरसीवरः।
देवब्रह्मसरः पुण्यं सर्पिर्दधि तु पार्थिव॥
एते चान्ये तु बहवः पुण्यसङ्कीर्तनाः शुभाः।
तोयैस्त्वामभिषिञ्चन्तु सर्वपातकनाशनैः॥
गङ्गा महानदी पुण्या ह्रदिनी ह्रादिनी तथा।
पावनी च तथा सीता चक्षुः सिन्धुः सुनर्मदा॥
सुप्रभा काञ्चनाक्षी च विशाला मानसी ह्रदा।
सरस्वत्योघनादा व सुवेषा विमलोदका॥
शिप्राशोणश्च वर्षश्च सरयूर्गण्डकी तथा।
अच्छोदा च विभागा च चन्द्रभागा इरावती॥
वितस्ता देविका रम्भा कोशी देबह्रदा शिवा।
तथा चेक्षुमती पुण्या कौशिकी यमुना तथा॥
गोमती धूतपायाच बाहुदा च सरस्वती।
निर्विन्ध्या व तृतीया च लोहितश्च महानदः॥
वेदस्मृतिर्वेदमाता बेत्रघ्नी बरदा तथा।
पर्णाशा बन्दना चैव सदानीरा कुमुद्वती॥
पीता चर्मण्वती धूम्मविदर्भा वेष्णुमत्यपि।
अवन्ती च तथा कुन्ती सुरसर च पलाशिनी॥
मन्दाकिनी दशार्णा च सिन्धुरेखा कुमुद्वती।
तपती पिप्पला श्येनी करतोया पिशाचिका॥
चित्रोत्पला चित्रवर्णा मत्र्जुला वालुकामती।
शुक्तिमती सिनीवाली मण्डूणी कृपिका कपूः॥
तापी पयोष्णी निर्विन्ध्या सिता च निषधावती।
बेणा वैतरणी भीमा मन्दुरा च तथा कुहूः॥
तोया चैव महागौरी दुर्गतिर्मिङ्गिला तथा।
गोदावरी भीमरथी कृष्णवेणाथबञ्जरा॥
तुङ्गभद्रा सुप्रकारा बाह्या कावेरिरेव च।
कृतमाला ताम्रपर्णी पुष्पभद्रोत्पलावती॥
नृसमा ऋषिकुल्या च इक्षुका त्रिदिवालया।
लाङ्गुलिनी वंशधरी जम्बूश्चसुकलावती॥
ऋषिका वरवेगा च मन्दगा मन्दवाहिनी।
क्षमादेवी दया व्योमा पयोष्णी कालवाहिनी॥
कम्पनी च विशाला च करतोया सुवाहिनी।
ताम्रारुणा वेत्रवती सुभद्रा चाश्ववत्यपि॥
अहिणीका इमा चैव सुप्रकारा हिरण्मयी।
आपगा लोपलाभासी सन्ध्या तु वडवा नदी॥
महेन्द्रवाणा शाला च मीलिका वलयावती।
नीलोद्धतकरा चैव बाहुदा वनवासिनी॥
नन्दा चैवोपनन्दा च वरदा च सुवासिनी।
एताश्चान्याश्च राजेन्द्र नद्यस्त्वां विविधोदकाः॥
सर्वपापप्रशमनाः सर्वलोकस्य मातरः।
स्वतोयपूर्णैः कलशैरभिषिञ्चन्तु पार्थिव॥
एतैर्यथोक्तैर्नृप राजराज्ये दत्ताभिषेकः पृथिवीं समग्राम्।
ससागरां भुङ्क्ष्व चिरं च जीव धर्मे च ते बुद्धिरतीव वास्तु॥
इत्यभिषेकमन्त्राः।
अथ विष्णुधर्मोत्तर एवैतदभिषेकमन्त्रप्रतिपाद्यदेवतातीर्यादीनां कीर्त्तननमस्कारादौ फलविशेष उक्तः।
पुष्कर उवाच।
मन्त्रा ये कीर्त्तिता राम मयास्मिंस्तव भार्गव।
तेषां सङ्कीर्त्तनं धन्यं सर्वपापप्रणाशनम्॥
एतेषां कल्पमुत्थाय यः कुर्यात्कीर्त्तनं नरः।
सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते॥
तिर्यग्योनिंन गच्छेत नरकं सङ्कटानि च।
न च दुःखं न च सुखं मरणे न तु मुह्यति॥
एतेषां च नमस्कारं यः कुर्यात्प्रयतो नरः।
न तस्य तिष्ठते पापमव्विन्दुरिव पुष्करे॥
एतेषां तर्पणं कृत्वा स्नातः प्रयतमानसः।
महापातकयुक्तोऽपि त्वचेवाहिर्विमुच्यते॥
एतेषां पुष्पदानेन महतीं श्रियमश्नुते।
एतेषामर्घ्यदानेन सर्वपापैर्विमुच्यते॥
एतेषां दीपदानेन भ्राजते चन्द्रव
द्दिवि।
एतेषामाहुतिं दत्त्वाकामानाप्नोति पुष्कलान्॥
नैवेद्यं च बलिं दत्त्वाभोगानाप्नोत्यनुत्तमान्।
एतानुद्दिश्य विप्रेषु दत्त्वा भार्गव भोजनम्॥
सन्तर्प्य दक्षिणाभिश्च त्रिदिवं प्राप्नुयाञ्चिरम्।
अभिषेकदिने राज्ञां पुष्यस्नाने तथैव च॥
तथा सम्वत्सरग्रन्थौ सर्वे पूज्या हितैषिणा।
यानि तीर्थानि चोक्तानि सारतश्चसमासतः॥
तेषां गमेन पूयन्ते येऽपि पातकिनो जनाः।
स्नानं महाफलं तेषां तपः श्राद्धक्रिया तथा॥
दानं बृहुफलं प्रोक्तं दर्शनं पापनाशनम्।
कीर्त्तनं भार्गवश्रेष्ठ न मेऽत्रास्ति विचारणा॥
तीर्थेष्वथैतेषु भृगुप्रधान स्नाता नरा यान्ति नरेन्द्रसग्न।
तीर्थानि गम्यानि ततः प्रयत्नात्पुण्याश्च सर्वास्सरितश्च राम।
इति कर्त्तिनादौ फलविशेषः।
ततः शुद्धोदकेन स्नातो राजा वस्त्रालङ्कारोष्णीषादि धृत्वा दर्पणे शुद्धे विलीनाज्ये च मुखं दृष्ट्वा तत्यात्रसहितं ब्राह्मणाय दत्त्वा चन्दनकुङ्कुमादिमङ्गलद्रव्यालम्भनं कृत्वा विष्णुं राजोपचारैरभ्यर्च्य वृतान् ब्राह्मणान् बस्त्रालङ्कारादिभिः सम्पूज्य सांवत्सरपुरोहितौमधुपर्केणाधिकेनार्हयेत्। ततः सांवत्सगे राज्ञो ललाट उक्तलक्षणं पट्टं बध्नीयात्, मूर्ध्नि मुकुटम्।
अत्र
रामायणे
विशेषः। विनायकब्रह्मविष्णुमहेश्वरान् ग्रहानग्निं विप्रान् देवान् पितॄंश्चोद्दिश्य दक्षिणां दद्यात्। सर्वेभ्योऽभयं च दद्यात् आघातस्थानगान् पशून् बन्धनस्थान् गोब्राह्मणादिहन्तॄन् दारुणकर्मणश्च मोचयेत्। ततः पुरोहितो राजानं क्रमेण वृषादिचर्मास्तृते बहुमूल्यवस्त्राभरणच्छदे उत्तमे मञ्चे “ध्रुवा द्यौः” इत्युपवेशयेत्। तत्रोपविष्टाय प्रतीहार अमात्यान् पौरमुख्यानन्यदेशागतान् स्वदेशस्थांश्च वणिजः प्रकृतीश्च यथाक्रमं दर्शयेत्। ततो राजा ग्रामवस्त्रगजतुरगकनकगोऽजाविगृहदानैः सांवत्सरपुरोहितौ पूजयित्वा तद्वदेव ऋग्वेदवित्प्रभृतींस्त्रीन् यथाविभवमन्यांच सांवत्सरपुरोहितान् ब्राह्मणमुख्याश्चचन्दनपुष्पाश्रमोदकादिभिर्गोवस्त्रतिलरूप्यफलकाञ्चनमहीदानैः सम्पूज्य चन्दनकुङ्कुमादिभिः स्वदेहालम्भनं विधायाऽऽयुधानि सम्पूज्य सशरं धनुर्गृहीत्वाऽग्निं प्रदक्षिणीकृत्य गुरून्न-
मस्कृत्य वृषं सवत्सां गां च पृष्ठत आलभ्य स्वोपवेशनार्हमश्वं सांवत्सरेण सर्वौषधीयुतकलशोदकेन “या ओषधीः" इतिकृताभिषेकं गन्धमा- ल्यादिभिरलङ्कृतं दक्षिणे कर्णे वक्ष्यमाणमन्त्रेर्मन्त्रितं क्षणमारुह्यावतरेत्। मन्त्रास्तु—
जयाश्व त्वं मया राज्ञस्तुरङ्गाद्य प्रतिष्ठितः।
स्मराद्य लक्ष्म्याः पुत्रत्वं गन्धर्वत्वं तथा स्मर॥
यथा नृणामयं राजा तथा त्वं भव वाजिनाम्।
यथा भवन्तं नृपतिर्नित्यमेवाभिरक्षति॥
तथा त्वं रक्ष राजानं सर्वावस्थागतं हय।
दर्शयाश्व तथा स्वप्नेदैवदोषमुपागतम्॥
तुरगान्सकलान् रक्ष त्वयि भारोऽयमर्पितः।
अद्यप्रभृति राजा त्वामप्रेणाभ्येति भक्तितः॥
अभ्यर्चयिष्यति सदा गन्धमाल्यानुलेपनैः।
पूजनैश्च द्विजातीनां तथा च स्वस्तिवाचनैः॥
रक्षतु त्वां महेन्द्रस्तु पूर्वेण त्रिदशाधिपः।
दक्षिणेन यमो देवः पश्चिमेन जलाधिपः॥
उदग्वैश्रवणो देवः सर्वे रक्षन्तु सर्वतः॥ इति।
ततो मुख्यं गजं पूर्ववदभिषिच्यालङ्कृत्यसांवत्सर आरुह्य दक्षिणे कर्णे मन्त्रयित्वांवतरेत्। मन्त्रास्तु—
श्रीगजस्त्वं कृतो राज्ञा भव तस्य गजाग्रणीः।
गन्धमाल्यान्नभक्ष्यैस्त्वां पूजयिष्यति पार्थिवः॥
लोकः सदाऽभयां पूजां करिष्यति यथा तव।
पालनीयस्त्वया राजा युद्धेऽध्वनि तथा गृहे॥
तिर्यग्भावंसमुत्सृज्य दिव्यं भावमनुस्मर।
देवासुरे पुरा युद्धे श्रीगजस्त्रिदशैः कृतः॥
ऐरावणसुतः श्रीमानरिष्टो नाम बारणः।
श्रीगजानां तु यत्तेजः सर्वमेवोपतिष्ठतु ॥
तत्तेजस्तव नागेन्द्र दिव्यभावसमन्वितम्।
उपतिष्ठतु भद्रं ते रक्ष राजानमाहवे ॥इति।
ततो राजा तमारुह्य तत्र स्थित एव नानागजारूढैर्मुख्यामात्यसामन्तसांवत्सरपुरोहितादिभिः सहितो राजमार्गेण धनसञ्चयं विसृजन् स्वपुरं परिक्रम्य तद्गतदेवायतनेषु गत्वा यथाविभवं देवान् सम्पूज्य तादृश एव स्वप्रासादमागत्य गजादवतीर्य सर्वसहितोऽन्तर्गृहं प्रविश्य यथोचितदानमानसत्कारैः सर्वान् सत्कृत्य यथासम्भवं ब्राह्मणान् भोजयित्वा दीनानाथेभ्यो नटनर्तकादिभ्यश्च भूयसीं दक्षिणां दत्त्वा सर्वान् विसृज्य बन्धुभिः सार्द्धं मुदितो भुञ्जीत। तत आचम्य ताम्बूलमुखोऽन्तःपुरनिवासिभिः सह क्षणं विहृत्यात्मानं प्रयत्नात् रक्षेत्। ततः सदर्भायां क्षितौ ब्रह्मचर्येण स्वपेत्।
इति विष्णुधर्मोत्तरोक्तमार्गेण राजाभिषेकप्रयोगः।
अथैतेरेयब्राह्मणोक्तः श्रौतो राजाभिषेकः समन्त्रव्याख्यानः कथ्यते। तस्य च पुरोहितकर्त्तव्यत्वेनादौ पुरोहितप्रशंसा।
अथातः पुरोधाया एव न ह वा अपुरोहितस्य राज्ञो देवा अन्नमदन्ति तस्माद्राजा यक्ष्यमाणो ब्राह्मणं पुरोदधीत देवा मे अन्नमदन्त्वित्यग्नीन् वा एषस्वर्ग्यान् राजोद्धरते यत्पुरोहितं तस्य पुरोहित एवाहवनीयो भवति जाया गार्हपत्यः पुत्रोऽन्वाहार्यपचनः स यत्पुरोहिताय करोत्याहवनीय एव तज्जुहोत्यथ यज्जायायै करोति गार्हपत्य एव तज्जुहोत्यथ यत्पुत्राय करोत्यन्वाहार्यपचन एव तज्जुहोति त एनं शान्ततनवोऽभिहुता अभिप्रीताः स्वर्गंलोकमभिवहन्ति क्षत्रं च बलं च राष्ट्रं च
विशं च त एवैनमशान्ततनवोऽनभिहुता अनभिप्रीताः स्वर्गाल्लोकान्नुदन्ते क्षत्राच्च बलाच्चराष्ट्राच्च विशश्चाग्निर्वा एष वैश्वानरः पञ्चमेनिर्यत्पुरोहि- तस्तस्यवाच्येवैका मेनिर्भवति पादयोरेका त्वच्येका हृदय एकोपस्थ एका ताभिर्ज्वलन्तीभिर्दीप्यमानाभिरुषोदेति राजानं स यदाह क भगवोऽवात्सीस्तृणान्यस्मा आहरतेति तेनास्य तां शमयति यास्य वाचि मेनिर्भवत्यथ यदस्मा उदकमानयन्ति पाद्यं तेनास्य तां शमयति यास्य पादयोर्मेनिर्भवत्यथ यदेनमलङ्कुर्वन्ति तेनास्य तां शमयति यास्य त्वचि मेनिर्भवत्यथ यदेनंतर्पयन्ति तेनास्य तां शमयति याऽस्प हृदये मेनिर्भवत्यथ यदस्यानारुद्धोवेश्मसु वसति तेनास्य तां शमयति यास्योपस्थे मेनिर्भवति स एनं शान्ततनुरभिप्रीतः स्वर्गं लोकमभिवहति क्षत्रं च बलं च राष्ट्रं च विशं च स एवैनमशान्ततनुरनभिहुतोऽनभिप्रीतः स्वर्गाल्लोकान्नुदते क्षत्राच्च बलाच्च राष्ट्राच्च विशश्च ।( पं० ८ अ० ५ खं० २४ )
अस्पार्थः । यतः क्षत्रियस्य ब्राह्मण एव पुरोहितश्चिकीपिंतोऽतः पुरोधाया एत्र पौरोहित्यस्य एव, विधिरुच्यत इति शेषः । तं विधिं दर्शयति– न ह बेत्याद्यदन्त्वित्यन्तेन । यस्मात्पुरोहितरहितस्य राज्ञो देवा अन्नं नादन्ति न भक्षयन्ति तस्माद्यक्ष्यमाणो राजा प्रजापालनादिधर्मज्ञो ब्राह्मणं पुरोहितं कुर्यात् देवा मदीयपन्नंभक्षयन्त्विति । पुरोहितं स्तौति–अग्नीनिति पुरोहितमित्यन्तेन । यद्राजा पुरोहितं करोति तत्स्वर्गसाधकानग्नीनेव प्रज्वलयति । तानग्नीन् दर्शयतितस्येति विशं चेत्यन्तेन ।अन्वाहार्यपचनो दक्षिणाग्नि। ते अग्नयःशान्ततनवः त्यक्तोग्ररूपाः, अभिहुता अभिप्रीताः अभी-
ष्टहोमेन प्रीताः पुरोहितादिदानेन त एव प्रीताः, क्षत्रं शौर्यं, बलं शारीरं, राष्ट्रं देशं, विशं, प्रजाम् अभिवहन्ति प्रापयन्ति। विपक्षे बाधकमाहत–त एवेति विशश्चेत्यन्तेन।ते पुरोहितादयोऽग्नयोऽभीष्टहोमाभावेनोग्ररूपाः स्वर्गादर्नुदन्ते अपनुदन्ते। पुनरपि पुरोहितं प्रकारान्तरेण स्तौति- अग्निरिति भवत्यन्तेन।वैश्वानरः एतन्नामाग्रिवत्।मेनिःपरोपद्रवकारिणी क्रोधरूपोग्रशक्तिः ज्वालावत्। ज्वलन्तीभिः प्रज्वलिताभिः, दीप्यमानाभिः परस्परसन्तापं कुर्वतीभिः सहितो राजानमुपोदेति राजसमीपे प्राप्तो भवति। तदा स राजा यदाह हे भगवो भगवन् कैसावन्तं कालमवात्सीः, भो परिचारका अस्मै पुरोहितायोपवेशनार्थे तृणानि तृणनिर्मितान्यासनान्याहरतेतिप्रियोक्त्या वाचिकां मेनिंशमयति। पाद्यं पादप्रक्षालनार्हम्। अलङ्कुर्वन्ति वस्त्रमाल्यालङ्कारादिना। तर्पयन्ति धनादिदानेन। अनारुद्धोऽवरोधरहितः। वसति विश्रम्भेण शयनादि करोति। एतेन गृहे समागतस्य पुरोहितस्यैते पञ्चोपचाराः कर्त्तव्या इति सूचितम्। उपचारं स्तौति–स एनमिति विशश्चेत्यन्तेन।व्याख्या पूर्ववत्। एकखण्डः।
अग्निर्वा एषवैश्वानरः पञ्चमेनिर्यत्पुरोहितस्ताभी राजानं परिगृह्यतिष्ठति समुद्र इव भूमिमयुवमार्यस्य राष्ट्रं भवति नैनं पुरायुषः प्राणोजहात्याजरसं जीवति सर्वमायुरेति न पुनर्म्रियते यस्यैवं विद्वान् ब्राह्मणो राष्ट्रगोपः पुरोहितः क्षत्रेण क्षत्रं जयति बलेन बलमश्नुते यस्यैवंविद्वान् ब्राह्मणो राष्ट्रगोपः पुरोहितस्तस्मै विशः सञ्जानते सम्मुखा एकमनसो यस्यैवं विद्वान् ब्राह्मणो राष्ट्रगोपः पुरोहित ( पं. ८ अ. ५ खं. २५ )
पञ्चोपचारप्रीतं पुरोहितं स्तौति– अग्निरित भूपिमित्यन्तेन।
ताभिः पञ्चविधोग्रशक्तिभिः परिगृह परितः स्वीकृत्य ।पुरोहितादनिष्टपरिहारं दर्शयति–अयुवमेति पुरोहित इत्यन्तेन ।यस्य राज्ञो विद्वान् वेदशास्त्रोक्तप्रकारेण धर्माधर्मौबोधयितुमभिज्ञो राष्ट्रगोपो राष्ट्रपरिपालनक्षमः पुरोहितः तस्यास्य राष्ट्रमयुवमारि युवमरणरहितं भवति । यद्वा तस्याऽऽर्यस्य अयुवममिश्रितं न भवति । यौतिरमिश्रणेऽपि वर्तते । यौतीति युवम् अमिश्रितं परस्परविरुद्धमनस्कं तथा न भवति । एनं राजानं न जहाति त्यजति राज्ञोऽपमृत्युर्न भवतीत्यर्थः। आजरसं जरापर्यन्तम् जरां प्राप्य, सर्वं पूर्णमायुरेति प्राप्नोति । राजा पुरुषायुपजीवी भवतीत्पर्थः। न पुनम्रियते इह जन्मनि मृत्वा पुरोहितमुखेन तत्वज्ञानं प्राप्य मुच्यते । अत एव पुनर्जन्माभावादेव न पुनर्म्रियते । अनिष्टपरिहारं दर्शयति—क्षत्रेणेति पुरोहित इत्यन्तेन ।यस्यैवंपुरोहितः स स्वकीपेन क्षत्रेण कुमारादिना, परकीयं क्षत्रम् कुमारादि, बलेन सैन्येन अश्नुते अभिभवति । इदानीं प्रजानुरागं दर्शयतितस्मै इत्यादिना ।तस्मै तस्य विशः प्रजा एकमनसः परस्परमेकमनस्काःसम्मुखा राजकार्ये उद्युक्ताः सञ्जानते राज्ञा सहैकमत्यं प्राप्नुवन्ति । कस्मिन्नपि कार्ये विमुखा न भवन्तीत्यर्थः । द्वितीयः खण्डः ।
तदप्येतदृषिणोक्तं स इद्राजा प्रतिजन्यानि विश्वा शुष्मेण तस्थावभिवीर्येणेति सपत्नावै द्विषन्तो भ्रातृव्या जन्यानि तानेव तच्छुष्मेण वीर्येणाभितिष्ठति बृहस्पतिं यः सुभृतं बिभर्तीति बृहस्पतिर्हवैदेवानां पुरोहितस्तमन्वन्ये मनुष्यराज्ञां पुरोहिता बृहस्पतिं यः सुभृतं बिभर्तीति यदा पुरोहितं यः सुभृतं विभर्तीत्येव तदाह बल्गूयति बन्दते पूर्वभाजमित्यपचितिमेवास्मा एतदाह, स इत्क्षेति सुधितओकसि स्व इति गृहा वा ओकः
स्वेष्वेव तद्गृहेषु सुहितो वसति तस्मा इला पिन्वते विश्वदानीमित्यन्नं वा इलान्नमेवास्मा एत ऊर्जस्वच्छश्वद्भवति तस्मै विशः स्वयमेवानमन्त इति राष्ट्राणि वै विशो राष्ट्राण्येवैतत्स्वयमुपनमन्ति यस्मिन् ब्रह्मा राजनि पूर्व एतीति पुरोहितमेवैतदाहाप्रतीतो जयति सन्धनानीति राष्ट्राणि वै धनानि तान्यप्रतीतो जयति प्रतिजन्यान्युत या सजन्येति सपत्ना वै द्विषन्तो भ्रातृव्या जन्यानि तानप्रतीतो जयत्यवस्यवे योवरिवः कृणोतीति यदाहावसीयसे यो वसीयः करोत्येव तदाह ब्रह्मणे राजा तमवन्ति देवा इति पुरोहितमेवैतदभिवदति । ( पं० ८ अ०५ खं०२६ )
द्रढयति— तदप्येतदृपिणोक्तमित्यादिना ।तदस्य माहात्म्यमृषिणा मन्त्रदर्शिनोक्तं तिसृभिर्ऋग्भिः । तत्राद्यामृचमुदाहरतिस इदिति । स इत, स एव पुरोहितयुक्तो राजा । प्रतिजन्यानि प्रतिपक्षवलानि । विश्वा, सर्वाणि ।शुष्मेण, वीर्येण स्वकीयेन ।अभितस्थौ, अभिभवति । “छन्दसि परेऽपि" इत्यभेः परप्रयोगः ।अमुमेवार्थं सपत्नेत्यादिना वक्ति ।सपत्ना, अस्यैव व्याख्या द्विषन्तो भ्रातृव्या इति । तान् सपत्नान्, जन्यानि वलानि च । बृहस्पतिं बृहस्पतिसमम् । सुष्ठु हितोपदेशादिना राजानं बिभर्ति स सुभृत् तं पुरोहितं यो राजा विभर्ति पोपयति । अस्यार्थवादो बृहस्पतिरित्यादिना । तं बृहस्पतिम् । अनु पश्चात् । पुरोहितं य इति पठितव्ये बृहस्पतिमिति पठितम् । पूर्वभाजम्, हितविचारेण पूर्वभजनयुक्तं पुरोहितम् । वल्यूयति, अर्चयति । वन्दते, नमस्करोति । अनेनास्मा अस्मिन्नेवापचितिं पूजामाह । द्वितीयामृचमुदाहरति– स इदिति । स इत्, सपुरोहितो राजा ।स्वे, स्वकीये ।ओकसि, गृहे ।सुधितः सुप्रीतः । क्षेति, वसति । तस्मै, पुरोहितसहिताय राज्ञे। इला, अन्नम् ।
विश्वदानीं शश्वत् सर्वदा ।पिन्वते, ऊर्जस्वत् वर्धते । रसयुक्तान्नसमृद्धिर्भवतीत्यर्थः । विशः, राष्ट्राणि प्रजोपेता देशाः । स्वयमेव, प्रयत्ननिरपेक्षा एव । आनमन्ते, नम्रा भवन्ति । ब्रह्मा, ब्राह्मणः । पूर्व एति, प्रथमतो गच्छति । तृतीयामुचमुदाहरति– अप्रतीत इति । प्रतिकूलैःशत्रुभिरितः प्राप्तः प्रतीतः तद्विपरीतोऽप्रतीतः । शत्रुप्राप्तिरहितो राजा सपुरोहितो धनानि धनोपेतानि राष्ट्राणि । सञ्जयति, प्रतिजन्यानि शत्रून् सजन्या सेनातांश्च जयति । अवस्यवे, वसुरहिताय । ब्रह्मणे, पुरोहिताय । यो राजा वसीयः, पूजां धनवन्तं वा । कृणोति, करोति । तं पुरोहितपूजकं राजानं देवा अवन्ति पालयन्ति । एतद्, ब्रह्मणे इतिपदं पुरोहितमेव वदति । तृतीयः खण्डः ।
यो ह वै त्रीन् पुरोहितांस्त्रीन् पुरोधातॄन् वेद स ब्राह्मणः पुरोहितः स वदेत पुरोधाया अग्निर्वाव पुरोहितः पृथिवी पुरोधाता वायुर्वाव पुरोहितोऽन्तरिक्षं पुरोधाताऽऽदित्योवाव पुरोहितो द्यौःपुरोधातैष ह वै पुरोहितो य एवं वेदाथस तिरोहितो य एवं न वेद, तस्य राजा मित्रं भवति द्विषन्तमपवाधते यस्यैवं विद्वान् ब्राह्मणो राष्ट्रगोपः पुरोहितः क्षत्रेण क्षत्रं जयति बलेन बलमश्नुते यस्यैवंविद्वान ब्राह्मणो राष्ट्रगोपः पुरोहितस्तस्मै विशः सञ्जानते सम्मुखा एकमनसोयस्यैवंविद्वान् ब्राह्मणो राष्ट्रगोपः पुरोहितो भूर्भुवः स्वरोममोऽहमस्मि स त्वं स त्वमस्यमोऽहं द्यौरहंपृथिवी त्वं सामाहमुक्त्वं तावेह संवहाबहै । पुराण्यस्मान्महाभयात् । तनूरसि तन्वं मे पाहि । या ओषधीः सोमराज्ञीर्वहीः
अतविचक्षणाः ।सा मह्यमस्मिन्नासने ऽच्छिद्रं शर्म यच्छत । या ओषधीः सोमराज्ञीर्विष्ठिताः पृथिवीमनु ।ता मह्यमस्मिान्नासनेऽच्छिद्रं शर्म यच्छत । अस्मिन् राष्ट्रे श्रियमावेशयाम्यतो देवीः
प्रतिपश्याम्यापः।दक्षिणं पादमवनेनिजेऽस्मिन् राष्ट्र इन्द्रियं दधामि। सव्यं पादमवनेनिजेऽस्मिन्राष्ट्र इन्द्रियं बर्द्धयामि। पूर्वमन्यमपरमन्यं पादाववनेनिजे।देवा राष्ट्रस्य गुप्त्या अभयस्थावरुद्ध्ये। आपः पादावनेजनीर्द्विषिन्तं निर्दहन्तु मे। ( पं० ८ अ० ५ स्वं० २७ )
पौरोहित्ये योग्यौ विविच्येते–यो हवा इति। त्रीन् देवान् बक्ष्यमाणानग्यादीन् पृथिव्यादींश्चपुरोधातॄन् पुरोहितकर्तॄन् वेद, वक्ष्यमाणमन्त्रार्थेनेतिशेषः। स च पुरोधायैपौरोहित्याय अग्निर्वावेति मन्त्रं वदेत जपेत्। एतन्मन्त्रार्थज्ञो योग्यः। य एतन्मन्त्रार्थं न वेद स तिरोहितः अयोग्यः।योग्यं स्तौति। तस्य देशान्तरवर्त्ती राजा मित्रं तथा द्विषन्तमन्यं राजानं बाधते नाशयति। पुरोहितवरणमन्त्रः –भूरिति पाहीत्यन्तः। भूरादयो लोकत्रयदेवताः, ओमिति परमात्मा एतेऽनुगृह्णन्तु।अमो द्युलोकः। स भूर्लोकः। दार्ढ्यार्थं पुनरुक्तिः। अस्य व्याख्या–द्यौरिति। तौ आवाम् इह राष्ट्रे आ समन्तात् पुराणि ग्रामांश्च संवहाबहे पुरादिकरनिर्वाहं करवावहै। त्वं मम तनूः शरीरमसि, अतोमे तन्वं शरीरं महाभयात् अस्मादैहिकादामुष्मिकाच्च पाहि। राजदत्तविष्टराभिमन्त्रणम्–या ओषधीरिति। ओषधीरोषध्यः, बहीर्बह्व्यो बहुजातीयाः, सोमो राजा यासां ताः सोमराज्ञीः, शतविचक्षणाः शतशाखाभिन्नाः, ता यूयम् अस्मिन् राजदत्तासने, अच्छिद्रं छिद्ररहितं, शर्म सुखं, यच्छत प्रयच्छत। उपवेशनमन्त्रः–पा ओषधीरिति। पृथिवीमनुविष्टिताः पृथिव्यां स्थापिताः। शेषं प्राग्वत्।पाद्यानामपामभिमन्त्रणम्– अस्मिन्निति। हे आपः युष्मान् देवीः द्योतनात्मिकाः पश्यामि। यतोऽहं पुरोहितोऽस्मिन् राष्ट्रे श्रियं धनम् आवेशयामि सम्पादयामि।पा
दप्रक्षालनमन्त्रः—
दक्षिणमिति । अवनेनिजे प्रक्षालयामि । तेनेन्द्रियं धनम् । अन्यं दक्षिणम्, अन्यं वामम् । भो देवाः गुप्त्यै रक्षायै, अवरुद्ध्ये सम्पादनाय ।प्रक्षालनावशिष्टानामपां मन्त्रणम्– आप इति । पादावनेजनीः पादशुद्धिकारिण्यः ।
तथा,
स य इच्छेदेवंवित क्षत्रियमयं सर्वा जितीर्जयेतायं सर्वांल्लोकान्विन्देतायं सर्वेषां राज्ञां श्रेष्ठ्यमतिष्ठां परमतां गच्छेत साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात्सार्वभौमः सार्वायुष आन्तादापरार्द्धात्पृथिव्यै समुद्रपर्यन्ताया एकराडिति तमेतेनैन्द्रेण महाभिषेकेण क्षत्रियं शापयित्वाभिषिश्चेद्यां च रात्रीमजायेथा यां च प्रेतासि तदुभयमन्तरेणेष्टापूर्तं ते लोकं सुकृतमायुः प्रजां वृञ्जीयां यदि मे द्रुह्येरिति स य इच्छेदेवंवित् क्षत्रियोऽहं सर्वा जितीर्जयेयमहं सर्वांल्लोकान्विन्देयमहं सर्वेषां राज्ञां श्रैष्ठ्यमतिष्ठां परमतां गच्छेयं साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठधं राज्यं माहाराज्यमाधिपत्यमहं समन्तपर्यायी स्यां सार्वायुष आन्तादापरार्द्धात्पृथिव्यै समुद्रपर्यन्ताया एकराडिति स न विचिकित्सेत्स ब्रूयात्सह श्रद्धया यां च रात्रीमजायेऽहं यां च प्रेतास्मि तदुभयमन्तरेणेष्टापूर्त्तं मे लोकं सुकृतमायुः प्रजां वृञ्जीया यदि ते द्रुह्येयमिति ।
( पं० ८ अ० ४ खं० १५ )
यः पुरोहितः एवंवित्ऐन्द्रमहाभिषेकवित्, अयं क्षत्रियः सर्वा जितीर्युद्धभूमीर्जयेतेत्यादिफलभाजं यं क्षत्रियमिच्छेत्, तं शापयित्वा शपथं कारयित्वा एतेन वक्ष्यमाणेनाभिषेकेणाभिषिश्चेत् । फलेच्छां दर्शयति —लोकान् देशान् वि-
न्देव लभेत, श्रेष्ठ्याद्याधिपत्यान्तान् गुणान् प्राप्नुयात् । श्रेष्ठ्यं जातिश्रेष्ठताम् अतिष्ठां चिरकालवासित्वम्, परमतां गुणैरुत्कृष्टताम्, साम्राज्यं धर्मेण परिपालनम्, भौज्यं भोगसमृद्धिम्, स्वाराज्यम् अपराधीनताम्, वैराज्यम् अन्येभ्यो भूपतिभ्यो बैशिष्ट्यम्, एतदौहिकम् । अथामुष्मिकम्–पारमेष्ठ्यं प्रजापतिलोकप्राप्तिः, राज्यम् ऐश्वर्यम्, माहाराज्यं तत्र ज्येष्ठाधिक्यम्, आधिपत्यं स्वामित्वम्, समन्तपर्यायी कालतो देशतः सर्वव्यापी । आन्तात्समुद्रर्यन्तं देशप्राप्तिः सार्वभौमत्वम् । आपरार्द्धात्परार्द्धाभिधेयकालपर्यन्तं सार्वायुषत्वं कालव्याप्तिः। पृथिव्यै पृथिव्याः, एकराद् एक एव राजास्तु । पुरोहितवचनेन शपथंदर्शयति- यां चेति । यस्यां रात्रौसमये उत्पन्नोऽसि प्रेतासि मरिष्यसि तदुभयमन्तरेण उत्पत्तिमरणमध्ये ते तवइष्टापूर्त्ते श्रौतस्मार्त्तकर्मणी लोकं पुण्यलोकं सुकृतादि च वृञ्जीयां नाशयेयम् । यदि मे द्रुह्येः, मम द्रोहं कुर्याः । अय क्षत्रियवाक्यम्–स य इच्छेदिति । य एवंवित् महाभिषेकफलाभिज्ञः क्षत्रियोऽहं सर्वा जितीर्जययमित्यादि फलजातमिच्छेत्स पुरोहितोक्तेऽर्थे न विचिकित्सेत् न संशयीत ।
वृञ्जीया विनाशय । ते तव ।द्रुह्येयं द्रोहं कुर्याम् ।
अथ ततो ब्रूयाच्चतुष्टयानि वानस्पत्यानि सम्भरत नैयग्रोधान्यौदुम्बराण्याश्वत्थानि प्लाक्षाणीति क्षत्रं वा एतद्वनस्पतीनां यन्न्यग्रोधो यनैयग्रोधानि सम्भरन्ति क्षत्रमेवास्मिंस्तदधाति भौज्यं वा एतद्वनस्पतीनां यदुदुम्बरो यदौदुम्बराणि सम्भरन्ति भोज्यमेवास्मिंस्तद्दधाति साम्राज्यं वा एतद्वनस्पतीनां यदश्वत्थो यदाश्वत्थानि सम्मरन्ति साम्राज्यमेवास्मिंस्तद्दधाति स्वाराज्यं य ह वा एतद्वैराज्यं च वनस्पतीनां यत्प्लक्षोय-
त्प्लाक्षाणि सम्भरन्ति स्वाराज्यवैराज्ये एवास्मिंस्तद्दधात्यथ ततो व्रुयाच्चतुष्टयान्यौषधानि सम्भरत तोक्मकृतानि वीहीणां महाव्रीहीणां प्रियङ्गूणांयवानामिति क्षत्रं वा एतदोषधीनां यद्व्रीहयो यद्व्रीहीणां तोक्म सम्भरन्ति क्षत्रमेवास्मिंस्तद्दधाति साम्राज्यं वा एतदोषधीनां यन्महावीहयो यन्महात्रीहीणां तोक्म सम्भरन्ति साम्राज्यमेवास्मिंस्तद्दधाति भौज्यं वा एतदौपधीनां यत्प्रियङ्गवोयत्मियगुणां तोक्म सम्भरन्ति भौज्यमेवास्मिंस्तद्दधाति सैनान्यं वा एतदोषधीनां यद्यवा यद्यवानां तोक्म सम्भरन्ति सैनान्यमेवास्मिंस्तद्दधाति । ( पं०८ अ० ४ख० १६ )
सम्भारान् विधत्ते– अथेति । अथ क्षत्रियशपथानन्तरं पुरोहितः परिचारकानाह ।चतुष्टयानि चतुरवयवानि, वानस्पत्पानि पुष्परहितफलवद्वृक्षसम्बन्धीनि, सम्भरत सम्पादयत । नैयग्रोधानि फलानि । न्यग्रोधो वटः । एवमौदुम्बरादीनि फलानि । वृक्षांस्तौति–क्षत्रमिति । क्षत्रं राजवत् । भोज्यं भोज्यादिंसाधनम् । अस्मिन् राज्ञि, दधाति सम्पादयति । चतुष्टयफलसम्पादनेन क्षात्रभौज्यादिलाभः ।सम्भारान्तरमाह–अथेति । अथ सम्पादनानन्तरम्, औषधानि ओषधिसम्बन्धीनि तोक्मकृतानि अङ्कुरोत्पत्तिनिमित्तानि, ब्रीहयः सूक्ष्मवीजरूपाः, महाव्रीहयः प्रौढबीजरूपाः । ओषधीस्तौति– क्षत्रामति । व्रीहीणां बलहेतुत्वात्क्षत्रत्वम् ।महाव्रीह्यादीनामपि साम्राज्यहेतुत्वात्ताद्रूप्यम् ।
अथास्मा औदुम्बरीमासन्दीं सम्भरन्ति तस्या उक्तं ब्राह्मणमौदुम्बरश्चमसो वा पात्री बोदुम्बरशाखा तानेतान् सम्भारान् सम्भृत्यौदुम्बर्य्यांपात्र्यां वा चमसे वा समावपेयुस्तेषु समोप्तेषु दधिमधुसर्पिरातपबर्ष्या आपोऽभ्यानीय प्रतिष्ठाप्पैनामासन्दीमभिमन्त्रयेत बृहच्चते रथन्तरं च पूर्वौपादौ भवतां वैरूपं च
बैराज्यं चापरौशाकररैवते शीर्षण्ये नौधसञ्च कालेयं चानच्ये ऋचः प्राचीनातानाः सामानि तिरश्चीनवाया यजूंष्यतीकाशा यश आस्तरणं श्रीरुपबर्हणं सविता च ते बृहस्पतिश्च पूर्वौ पादौ धारयतां वायुश्च पूषा चापरौमित्रावरुणो शीर्षण्ये अश्विनावनूच्ये इत्यथैनमेतामासन्दीमारोहये द्वसवस्त्वा गायत्रेणच्छन्दसा त्रिवृता स्तोमेन रथन्तरेण साम्नाऽऽरोहन्तु तानन्वारोह साम्राज्याय, रुद्रास्त्वा त्रैष्टुभेन छन्दसा पञ्चदशेन स्तोमेन बृहता साम्नाऽऽरोहन्तु तानन्वारोह भौज्यायाऽऽदित्यास्त्वा जागतेन छन्दसा सप्तदशेन स्तोमेन वैरुपेण साम्नाऽऽरोहन्तु तानन्वारोह स्वाराज्याय, विश्वे त्वा देवा आनुष्टुभेन च्छन्दसैकविंशेन स्तोमेन वैराजेन साम्नाऽऽरोहन्तु तानन्वारोह वैराज्याय, मरुतश्च त्वाङ्गिरसश्च देवा अतिच्छन्दसा छन्दसा त्रयस्त्रिंशेन स्तोमेन रैवतेन साम्नाऽऽरोहन्तु तानन्वारोह पारमेष्ठ्याय, साध्याश्च त्वाऽऽप्त्याश्च देवाः पाङ्क्तेन छन्दसा त्रिणवेन स्तोमेन शाकरेण साम्नाऽऽरोहन्तु तानन्वारोह राज्याय महाराज्यायाधिपत्याय स्वावश्यायातिष्ठायारोहेत्येतामासन्दीमारोहयेत्तमेतस्यामासन्द्यामासीनं राजकर्त्तारो ब्रूयुर्न वा अनभ्युत्क्रुष्टः क्षत्रियो वीर्यं कर्तुमर्हत्यभ्येनमुत्क्रोशामेति तथेति तं राज्यकर्त्तारोऽभ्युत्क्रोशन्तीमं जना अभ्युत्क्रोशत सम्राजं साम्राज्यं भोजं भोजपितरं स्वराजं स्वाराज्यं विराजं वैराज्यं परमेष्ठिनं पारमेष्ठ्यं राजानं राजपितरं क्षत्रमजनि क्षत्रियोऽजनि विश्वस्य भूतस्याधिपतिरजनि विशामत्ताऽजन्यमित्राणां हन्ताऽजान ब्राह्मणानां गोप्ताऽजनि धर्मस्य गोप्ताऽजनीति तमभ्युत्कुष्टमेवंविदभिषेक्ष्यन्नेतयर्चाऽभिमन्त्रयेत । ( पं. ८ अ. ४ खं. १७ )
आसन्द्यादिसम्भारानाह–अथास्मा इति । दानस्पत्यौप-
धसम्भारानन्तरमस्मै क्षत्रियायोदुम्बरकाष्ठसम्बन्धिनीमासन्दीमासनं सम्पादयेयुः। चतुष्कोणो दण्डयुक्तो मध्ये निम्नः पात्रविशेषश्चमसः, आकाररहिता पात्री, तयोरन्यतरत्सम्पादयेत्। यद्वा पात्री मृन्मयी उदुम्बरशाखा च। ततः पात्रीचमसयोरेकास्मिन् वानस्पत्यौषधसम्भारान् समावपेयुः। ततो दध्यादिभिः संसिच्य चमसं भूमौ संस्थाप्य बृहदितिमन्त्रेण आसन्दीमभिमन्त्रयेत्।तस्या आसन्द्याउक्तं ब्राह्मणमित्युक्तम्।तदाह प्रदेशान्तरे—
औदुम्बर्यासन्दी तस्यै प्रादेशमात्राः पादाः स्युररत्रिमात्राणि शीर्षण्याऽनुच्यानि मौञ्जंविवयनं व्याघ्रचर्मास्तरणम् ।( पं० ८ अ० २ खं० ५ )
अस्यार्थः।तस्यै तस्याः।वितते अङ्गुष्ठतर्जन्यौ प्रादेशः।पादाश्चत्वारः।प्रादेशद्वयमरत्निः। उपरिभागेऽवस्थितानि काष्ठानि शीर्षण्यानि, तिर्यगवस्थितान्यनूच्यानि।मौञ्जं मुञ्जतृणरज्जुनिर्मितम्। विवयनम् रज्जूनामोतप्रोतरूपेण संयोजनम्।तदुपरि व्याघ्रचर्म निदध्यात्।उदुम्बरव्याघ्रचर्मणी दध्यादि च स्तौति—
अथ यदौदुम्बर्यासन्दी भवत्यौदुम्बरश्चमस उदुम्बरशाखोर्ग्वाअन्नाद्यमुदुम्बर ऊर्जमेवास्मिंस्तदन्नाद्यं दधाति।( पं० ८ अ० २ खं० ८ )
ऊर्क् अन्नम्, अन्नाद्यं रसः ।
व्याघ्रचर्मणा स्तृणात्युत्तरलोम्ना प्राचीनग्रीवेण क्षत्रं वा एतदारण्यानां पशूनां यद्व्याघ्रः क्षत्रं राजन्यः क्षत्रेणैव तत् क्षत्रं समर्द्धयति।( पं० ८ अ० २ खं० ६ )
उत्तरलोम्ना उपरिभागस्थितलोम्ना।प्राचीनग्रीवेण प्राग-
वस्थितग्रीवेण। क्षत्रं शूरः।आरण्या हरिणादयः।
अथ यद्दधि मधु घृतं भवत्यपां य ओषधीनां रसोऽपामेवास्मिंस्तदोषधीनां रसं दधात्यथ पदातपवर्ष्या आपो भवन्ति तेजश्व ह वै ब्रह्मवर्चसं चाऽऽतपवर्ष्याआपस्तेज एवास्मिस्तद्ब्रह्मवर्चसं च दयाति। ( पं० ८ अ० २ खं० ८ )
दधिघृतयोः पशुभक्षिततृणोदकजन्यत्वादोषधिरसत्वम्। मधुनोऽपि मधुकरानीतपुष्परसत्वात्। अपाम् आतपसम्बन्धातेजस्वम्, फलोत्पादनाद्ब्रह्मवर्चसत्वम्। आतपवर्ष्याःआतपयुक्तवर्षाभवा आपः।
बृहदिति वक्ष्यमाणमन्त्रेणाभिमन्त्रयेदित्युक्तम् तस्यार्थः– बृहदादीनि सामानि।प्राचीनातानाः प्राक्प्रत्यगायताः। मौञ्जास्तन्तवः।निरश्चीनवायाः तिर्यक्प्रोतास्तन्तवः। अतीकाशा रज्ज्वन्तगत्तच्छिद्राणि।यशः कीर्त्तिः।उपवर्हणं शिरसउपधानम्। एनं राजानम्, आरोहयेत् पुरोहितः, वसवस्त्वेत्याद्यारोहान्तेन मन्त्रेण।वस्वादयो देवा गायत्र्यादिभिश्छन्दोभिस्त्रिवृदादिस्तोमै रथन्तरादिसामभिश्चसह हे आसन्दि त्वां आरोहन्तु।तान् अनु पश्चात् त्वम् आरोह। स्वावश्यं स्वाधीनत्वम्।राजकर्त्तारः पितृव्यभ्रात्रादयः परस्परमिदमब्रुवन।यथा वन्दिनो गुणानुवादेन कीर्त्तनम्, एवमत्रापि गुणकीर्त्तनमभ्युत्क्रोशनं तेन रहिनोऽनभ्युत्कुष्टः। ब र्यंपरभीतिजनक पराक्रमम्, उक्रोशाम, कीर्त्त्याउद्धोषयाम, इति विचार्य, तथेत्यङ्गीकृत्य।अभ्युत्क्रोशनप्रकारः–इममिति। भोजना लोका, इमं क्षत्रियम्, अभ्युत्क्रोशतउद्घोषयत। कीदृशम्। सम्राजं सम्राट्स्वरूपम्, अत एव साम्राज्यं कर्त्तुमर्हति। एवं स्वराजादि। भोजं भोक्तारम्। भोजपितरं भांगपालकम्। क्षत्रं क्षत्रियजा-
तिः। क्षत्रियः पुरुषः। विश्वस्य भूतस्य, सर्वस्य प्राणिजातस्य।विशामत्ता, प्रजानां भोक्ता। अमित्राणां शत्रूणां, गोप्ता रक्षकः। एतया, वक्ष्यमाणया।
निपसाद धृतवतो वरुणः पस्त्या३ स्वा॥साम्राज्याय भौज्याय स्वाराज्याय वैराज्याय पारमेष्ठ्याय राज्याय माहाराज्यायाधिपत्याय स्वावश्यायातिष्ठाय सुक्रतुरिति तमेतस्यामासन्द्यामासीनमेवंवित्पुरस्तात्तिष्ठन् प्रत्यङ्मुख औदुम्बर्याऽऽर्द्रया शाखया सपलाशया जातरूपमयेन च पवित्रेणान्तर्द्धायाभिषिञ्चतीमा आपः शिवतमा इत्येतेन तृचेन देवस्य त्वेति च यजुषा भूर्भुवः स्वरित्येताभिश्च व्याहृतिभिः। ( पं० ८ अ० ४ खं० १८ )
धृतव्रतः स्वीकृतनियमो, वरुणः सर्वारिष्टनिवारयितेन्द्रः, पस्त्यासु गृहेषु, आगत्य साम्राज्यादिसिद्धये सुक्रतुः शोभनमङ्कल्पो भूत्वा, अस्याम् आसन्द्यां, निषसाद निषण्णवान्।जानरूपं सुवर्णम्, पवित्रं दर्भदलाकारम्, अन्तर्धाय शाखाया अधःकृत्वा।इमा आपः शिवतमा इत्यादि तृचम्।
इमा आपः शिवतमा इमाःसर्वस्य भेषजीः।
इमा राष्ट्रस्यवर्द्धनीरिमा राष्ट्रभृतोऽमृताः॥
याभिरिन्द्रमभ्यपिञ्चन्प्रजापतिः सोमं राजानं वरुणं यमं मनुम्।
ताभिरद्भिरभिषिञ्चामि त्वामहं राज्ञां त्वमधिराजोभवेह॥
महान्तं त्वा महीनां सम्राजं चर्षणीनां देवी जनित्र्यजीजनद्भद्राजनित्र्यजीजनत्॥( पं० ८ अ० २ खं० ७
देवस्य त्वेतियजुः।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्वाहुभ्यां पूष्णो हस्ताभ्याम्। अग्रेस्तेजमा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेणाभिषिञ्चामि। बलाय श्रियै यशसेऽन्नाद्याप।( पं० ८ अ० २ खं० ७ )
इमा दध्यादिद्रव्यसहिताः। शिवतमाः शान्ताः। सर्वरोगस्य भेषजीः, औषधरूपाः।वर्द्धनीःवृद्धिहेतवः।राष्ट्रभृतो राष्ट्रधारिण्यः।अमृताः विनाशरहिताः। याभिः, दध्यादिसहिताभिरद्भिः।अधिराजोऽधिको राजा।त्वा त्वाम्।महीनां महनाम्।चर्वणीनां मनुष्याणाम्।जनित्री माता।अजजिनत् उत्पादितवती। अतएव, जनित्री माता, भद्रा पुण्यरूपा, अजीजनत् जाता।सवितुः, प्रेरकस्य देवस्य।प्रसवे, अनुज्ञायां सत्याम्।त्वामभिषिञ्चामि। केन साधनेन।अश्विनोर्बाहुभ्यां, न तु स्वकीयाभ्याम्। मणिबन्धपर्यन्तौ दण्डाकारौबाहु, अङ्गुलिसहितावग्रभागौ हस्तौ।तेजः शरीरकान्तिः। वर्चः, बाह्याः प्रकाशाः। इन्द्रियेण चक्षुरादिपाटवेन। कस्मै प्रयोजनायाभिषेकाः ? बलं शारीरं, श्रीः इस्त्यश्वादि।अन्नाद्यमन्नसमृद्धिः।
भूरिति य इच्छेदिममेवप्रत्यन्नमद्यादित्यथ य इच्छेद्द्विपुरुषं भूर्भुव इत्यथ इच्छेत्रिपुरुषंवाऽप्रतिमं वा भूर्भुवः स्वरिति॥
( पं० ८ अ० २ खं० ७ )
य इच्छेदिममेव प्रति, असावन्नमद्यान्नीरोगो भवेदितीच्छेत्, तं यजुषोऽन्ते भूरिति व्याहृत्याभिषिच्चेत्। असौ पुत्रश्चेति य इच्छेन्म भूर्भुव इत्येताभ्याम्। असौ पुत्रः पौत्रश्चेति कामयेन, अथ वा अप्रतिममेतत्तुल्यक्षत्रियान्तररहितमेनं कुर्यामिति कामयेत तदा भूर्भुवः स्वरिति।
प्राच्यां त्वा दिशि वसवो देवाः षड्भिश्चैवपञ्चविंशैरद्दोभिरभिपिञ्चन्त्वेतेन न तूचेनैतेन च यजुपैनाभिश्चव्याहृतिभिः साम्राज्याय, दक्षिणस्यां त्वा दिशि रुद्रा देवाः षडभिश्चैव पञ्चविंशौरद्दोभिरभिषिञ्चन्त्वेतेन च तृचेनैतेन च यजुपैनाभिश्च व्याहृतिभिर्भौज्याय, प्रतीच्यां त्वा दिश्यादित्या देवाः षडभिश्चैवपञ्चविंशैरहोभिरभिषिञ्चन्त्वं–
तेन च तृचेनैतेन च यजुषैताभिश्चव्याहृतिभिः स्वागज्यायोदीच्यां त्वा दिशि विश्वे देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभिषिञ्चन्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिर्वैराज्यायोर्ध्वायां त्वा दिशि मरुतश्चाङ्गिरसश्च देवाः षडभिश्चैवपञ्चविंशैरहोभिरभिषिञ्चन्त्वतेन च नृचेनैतेन च यजुषैताभिश्च व्याहृतिभिः पारमेष्ठ्यावास्यां त्वा ध्रुवायां मध्यमायां प्रतिष्ठायां दिशि साध्याश्चाप्त्याश्च देवाः षड्भिश्चैवपञ्चविंशैरहोभिरभिषिञ्चन्त्वेतेन तृचेनैतेन च यजुषैताभिश्व व्याहृतिभीराज्याय माहाराज्यायाधिपत्याय स्वावश्यायातिष्ठायेति स परमेष्ठी प्राजापत्यो भवति सएतेनैन्द्रेण महाभिषेकेणाभिषिक्तः क्षत्रियः सर्वाजितीर्जयति सर्वांल्लोकान् विन्दति सर्वेषां राज्ञां श्रैष्ठ्यमतिष्ठांपरमतां गच्छति साम्राज्यं भोज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्ये माहाराज्यमाधिपत्यं जित्वाऽस्पिंल्लोके स्वयम्भूः स्वरालमृतोऽमुष्मिनस्वर्गे लोके सर्वान् कामानाप्त्वाऽमृतः सम्भवति यमेतेनैन्द्रेण महाभिषेकेण क्षत्रियं शापयित्वाऽभिषिञ्चति । (पं० ८ अ० ४ खं० १९)
प्राच्यां दिश्यवस्थिता वसुरूपा राजानो राजपुरोहिता वा षड्भिः पञ्चविंशैरेकत्रिंशत्सु दिनेषु अभिषिञ्चन्तु ।सोऽभिषेकः साम्राज्याय भवति । एवमुत्तरत्र ।ऊर्ध्व6मध्यमयोः सर्वे।
स उक्तमन्त्रेण अभिषिक्तः क्षत्रियः, परमेष्ठिपदयोग्यः प्रजापतिसम्वन्धी भवति । स्वयम्भूः प्रजापतिसदृशः । स्वराट् स्वतन्त्रराजः ।अमृतो मुक्तः ।
इन्द्रियं वा एतदस्मिल्लोके यहधि यहध्नाऽभिषिञ्चतीन्द्रियमेवास्मिस्तदधाति रसो वा एष औषधिवनस्पतिषु यन्मधु
यन्मध्वाभिषिञ्चति रसमेवास्मिंस्तद्दधाति तेजो वा एतत्पशुनां यद् घृतं यद् घृतेनाभिषिञ्चति तेज एवास्मिंस्तद्दधात्यमृतं वा एतदस्मिल्ँलोके यदापो यदद्भिरभिषिञ्चत्यमृतत्वमेवास्मिंस्तद्दधाति सोऽभिषिक्तोऽभिषेक्त्रे ब्राह्मणाय हिरण्यं दद्यात्सहस्रं दद्यात्क्षेत्रं चतुष्पाद्दद्यादथाप्याहुरसङ्ख्यात- मेवापरिमितं दद्यादपरिमितो वै क्षत्रियोऽपरिमितस्यावरुद्ध्या इत्यथास्मै सुराकंसं हस्त आदधाति स्वादिष्ठया मदिष्ठया पवस्व सोम धारया ॥इन्द्राय पातवे सुत इति तां पिवेद्यदत्र शिष्टं रसिनः सुतस्व यदिन्द्रो अपिवच्छचीभिः। इदं तदस्य मनसा शिवेन सोमं राजानमिह भक्षयामि। अभि त्वा वृषभा सुते सुतं सृजामि पीतये। तृम्प व्यश्नुही मदमिति यो ह वावसोमपीथः सुरायां प्रविष्टःसहैवैतेनैन्द्रेण महाभिषेकेणाभिषिक्तस्य क्षत्रियस्य भक्षितो भवति न सुरा तां पीत्वाऽभिमन्त्रयेताऽपाम सोमं शत्रो भवेति तद्यथैवादः प्रियः पुत्रः पितरं प्रिया वा जाया पतिं सुखं शिवमुपस्पृशत्याविस्रस एवं हैवैतेनैन्द्रेण महाभिषेकेणाभिषिक्तस्य क्षत्रियस्य सुरा वा सोमो वाऽन्यद्वाऽन्नाद्यं सुखं शिवमुपस्पृशत्याविस्त्रसः। (पं० ८ अ० ४ खं० २०)
इन्द्रियमिति।इन्द्रियपाटवहेतुत्वाद्दध्न इन्द्रियत्वम्। मधुनः पुष्पजन्यत्वेनौषधिजन्यत्वम्। घृतस्य शुक्लभास्वरत्वेन पशुतेजस्त्वम्। अपाम् आप्यायनहेतुत्वादमृतत्वम्। हिरण्यस्यैव सहस्रंविशेषणम्। सहस्रनिष्कमितं हिरण्यं दद्यात्। चतुष्पात् गवादि। असङ्ख्यातमपरिमितं सङ्ख्यारहितं, शक्त्यनुसारेणेत्यर्थः। अपरमितो बहुधनः।अवरुद्ध्यै प्राप्त्यै।दक्षिणादानोत्तरंपुरोहितकर्तव्यम् —अथेति। सुरा औदुम्बरपात्र स्थान्नाङ्कुराणामभिषुतो रसः, तत्पूर्णं कंसं, कांस्यपात्रं
चषकरूपम्।
स्वादिष्टयेति । हे सोम सुराद्रव्य, स्वादिष्ठया स्वादुभूतया, मदिष्ठया मदहेतुभूतया, धारया यजमानं पवस्वशोधय । यतः, इन्द्राय पातवे सुतः, इन्द्रस्य पानार्थमभिषुतः । यदिति । अत्र, कांस्यपात्रेषु, सुतस्याभिषुतस्य, रसिनो रसयुक्तस्य, यच्छिष्टं यः स्वल्पभागः, यश्चद्रव्यं, शचीभिः कर्मविशेषैः, संस्कृतम्, इन्द्रोऽपिवत् । तत्, अस्य द्रव्यस्य, इदं स्वरूपं, सोमं राजानं सोमसदृशं, शिवेन शान्तियुक्तेन, मनसा भक्षयामि । अभीति । दृेवृषभश्रेष्ट इन्द्र, त्वा त्वामभिलक्ष्य, सुतेऽस्मिन् द्रव्ये सति, पीतये पानार्थं, तत् द्रव्यं, सृजामि त्वद्धस्तेददामि, तेन पीतेन त्वं तृम्प तृप्तो भव, मदं व्यश्नुहि, हर्षं प्राप्नुहि । पानं प्रशंसति —यो हेति । यो ह वाव, यः खलु, सोमपीथः, सोमस्य पानविशेषः,सुरायामस्मिन् द्रव्ये, प्रविष्टोऽस्ति तत्सदृशोऽस्ति, स क्षत्रियस्य भक्षितो भवति । यथैव पुत्रः पितरं शिवं सुखं यथा भवति तथा स्पृशति, आविस्रसः देहपातपर्यन्तम्, एवं क्षत्रियस्य सुरादीनि सुखप्रदानि ।
एतेन ह वा ऐन्द्रेण महाभिषेकेण तुरः कावपेयो जनमेजयं पारिक्षितमभिषिषेच तस्मादु जनमेजयः पारिक्षितः समन्तं सर्वतः पृथिवीं जयन् परीयायाश्वेन च मेध्येनेजे तदेषाभियज्ञगाथागीयते—
आसन्दीवति धान्यादं रुचिमणं हरितः
स्रजम्।
अश्वं बन्धसारङ्गं देवेभ्यो जनमेजय इत्येतेन ह वा ऐन्द्रेण महाभिषेकेण च्ववनो भार्गवः शार्यातं मानवमभिषिषेच तस्मादु शार्यातो मानवः समन्तं सर्वतः पृथिवीं जयन् परीयायाश्वेन व मेध्येनेजे देवानां हापि सत्रे गृहपतिरासैतेन ह वा ऐन्द्रेण महाभिषेकेण सोमशुष्मा वाजरत्नायनः शतानीकं सात्राजितमभिषिषेच तस्मादुशतानीकः सात्राजितः समन्तं सर्वतः
पृथिवीं जयन् परीयायाश्वेन च मेध्येनेज एतेन हवा ऐन्द्रेण महाभिषेकेण पर्वतनारदावाम्बाष्ठ्यमभिषिषेचतुस्तस्माद्वाम्बाष्ठ्यः समन्तं सर्वतः पृथिवीं जयन् परीयायाश्वेन च मेध्येनेज एतेन ह वा ऐन्द्रेण महाभिषेकेण पर्वतनारदौ युधांश्रौष्टिमौग्रसैन्यमभिषिषेचतुस्तंस्मादु युधांश्रौष्टिरौग्रसैन्यः समन्तं सर्वतः पृथिवीं जयन् परीयायाश्वेन च मेध्येनेज एतेन ह वा ऐन्द्रेण महाभिषेकेण कश्यपो विश्वकर्माणं भौवनमभिषिषेच तस्मादु विश्वकर्मा भौवनः समन्तं सर्वतः पृथिवीं जयन् परीयायाश्वेन च मेध्येनेजे भूमिर्ह जगावित्युदाहरन्ति न मा मर्त्त्यःकश्चन दातुमर्हति विश्वकर्मन् भौवन मां दिदासिथ ॥निमङ्ग्येऽहं सलिलस्य मध्ये मोघस्त एषकश्यपायाससङ्गर इत्येतेन ह वा ऐन्द्रेण महाभिषेकेण वसिष्ठः सुदासं पैजवनमभिषिषेच तस्मादु सुदासः पैजवनः समन्तं सर्वतः पृथिवीं जयन् परीयायाश्वेन च मेध्येनेज एतेन ह वा ऐन्द्रेण महाभिषेकेण संवर्त्त आङ्गिरसोमरुत्तमाविक्षितमभिषिषेच तस्मादु मरुत्त आविक्षितः समन्तं सर्वतः पृथिवीं जयन् परीयायाश्वेन च मेध्येनेजे तदप्येष श्लोकोऽभिगीतो—
मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे।
आविक्षितस्य कामप्रेर्विश्वे देवाः सभासदइति ॥(पं० ८अ० ४खं० २७)
एतेन ह वा ऐन्द्रेण महाभिषेकेणोदमय आत्रेयोऽङ्गमभिषिषेच तस्माद्वङ्गःसमन्तं सर्वतः पृथिवीं जयन् परीयायाश्वेन च मेध्येनेजे सहोवाचालोपाङ्गो दशनागसहस्राणि दशदामीसहस्राणि ददामि ते ब्राह्मणोपमास्मिन यज्ञे हयस्वेति तदप्येते
श्लोका अभिगीताः—
याभिर्गोभिरुदमयं प्रैयमेधा अयाजयन्।
द्वे द्वे सहस्रे बद्वानामात्रेयो मध्यतोऽददात्॥
अष्टाशीतिः सहस्राणि श्वेतान् वैरोचनो हयान्।
प्रष्टीन्निश्चृत्य प्रायच्छद् यजमाने पुरोहिते॥
देशाद्देशात्समोल्हानां सर्वासामाढ्यदुहितृणाम्।
दशाददात्सहस्राण्यात्रेयो निष्ककण्ठ्यः॥
दशनागसहस्राणि दत्त्वाऽऽत्रेयो वचत्नुके।
श्रान्तः पारिकुटान् प्रैप्सद्दानेनाङ्गस्य ब्राह्मणः॥
शतं तुभ्यं शतं तुभ्यमिति स्मैव प्रताम्यति।
सहस्रं तुभ्यमित्युक्त्वा प्राणान् स्म प्रतिपद्यते इति। (पं० ८अ० ४ खं० २२)
एतेन ह वा ऐन्द्रेण महाभिषेकेण दीर्घतमा मामतेयो भरतं दौष्पन्तिमभिषिषेच तस्मादु भरतो दौषन्तिः समन्तं सर्वतः पृथिवीं जयन् परीयायाश्वैरुच मेध्यैरीजे तदप्येते श्लोका अभिगीताः—
हिरण्येन परीवृतान् कृष्णाञ्छुक्लदतो मृगान्।
मष्णारे भरतोऽददाच्छतं बदानि सप्त च॥
भरतस्यैष दोष्पन्तेरग्निः साचीगुणे चितः।
यस्मिन् सहस्रंब्राह्मणा बद्वशोगा विभेजिरे॥
अष्टासप्ततिं भरतो दौष्पन्तिर्यसुनामनु।
गङ्गायां वृत्रघ्नेऽवध्नात्पञ्चपञ्चाशतं हयान्॥
त्रयस्त्रिंशच्छतं राजाऽश्वान् वद्वाय मेध्यान्।
दौष्पन्तिरत्यगाद्राज्ञोमायां मायवत्तरः॥
महाकर्म भरतस्य न पूर्वे नापरे जनाः।
दिवं मर्त्त्यइवहस्ताभ्यां नोदापुः पञ्च मानवाः॥
इत्येतं ह वा ऐन्द्रं महाऽभिषेकं बृहदुक्थ ऋषिदुर्मुखाय पाञ्चालाय प्रोवाच तस्मादुदुर्म्मुखः पाञ्चालो राजा सन् विद्यया समन्तं सर्वतः पृथिवीं जयन् परीयायैतं ह वा ऐन्द्रं महाभिषेकं वासिष्ठः सात्यहव्योऽत्यरातये जानन्तपये प्रोवाच तस्माद्वत्यरातिर्जानन्तपीराजा सन् विद्यया समन्तं सर्वतः पृथिवीं जयन् परीयाय स होवाच वासिष्ठः सात्यहव्योऽजैषीर्वै समन्तं सर्वतः पृथिवीं महन्मा गमयेति स होवाचात्यरातिर्जानन्तपिर्यदा ब्राह्मणोत्तरकुरूञ्जयेयमथ त्वमुहैव पृथिव्यै राजा स्याःसेनापतिरेव तेऽहं स्यामिति स होवाच वासिष्ठः सात्यहव्यो देवक्षेत्रं वैतन्न वै तन्मर्त्योजेतुमर्हत्यद्रुक्षो वैम आ त इदं दद इति ततो हात्यरातिं जानन्तपिमात्तवीर्यं निःशुक्रममित्रतपनः शुष्मिणः शैब्यो राजा जघान तस्मादेवंविदुषे ब्राह्मणायैवं चक्रुषे न क्षत्रियो द्रुह्येन्नेद्राष्ट्रादवपद्येयन्नेद्वामा प्राणोजहदिति जहदिति। (पं० ८अ० ४खं० २३)
उक्तं महाभिषेकं पुरा शिष्टाचारोदाहरणेन प्रशंसति —एतेनेति। तुरो महर्षिः। सर्वतः, सर्वासु दिक्षु। समन्तं समुद्रपर्यन्तम्, जयन्। अस्य वृत्तान्तस्य वैदिकैर्यज्ञगाथा गीयते — आसन्दीति। आसन्दीवति देशविशेषे।देवेभ्यो देवतार्थम्। धान्यादं, धान्यमत्ति तम्। रुक्मिणं ललाटगश्वेतलाञ्छनवन्तम् ।हरितस्रजं हरितवर्णदेहम्। सारं, कर्मसु श्रेष्ठं यागं गच्छतीति सारङ्गः। अनयाऽभिषेकमाहात्म्यमुक्तम्। न मेति। मा माम्।मर्त्त्योमनुष्यः। दिदासिश्च
दातुमिच्छसि। निमङ्गये, मज्जनं करिष्ये। मोघोव्यर्थः। आस बभूव।सङ्गरः प्रतिग्रहः। एतेन अभिषेकमहिम्ना।मरुत इति। मरुतो देवाः। परिवेष्टारः, परिवेषणकर्तारो भूत्वा अवसन्।
कामान् प्रीणाति पूरयति तस्य कामप्रेः, मरुत्तविशेषणम्।विश्वेदेवाःसभासदः सभायामुपविष्टाः, सेवन्त इति शेषः। सहेति। स अङ्गः, अलोपाङ्गः,सम्पूर्णावयवाङ्गः।स्वतो यागं कुर्वाणम्, उदमयमुवाच। हे ब्राह्मण मां यज्ञे उपह्वय।अहं ते तुभ्यं दक्षिणापूर्त्तये दशनागसहस्राणि ददामि दास्यामि।दानस्यार्थवादः—पाभिरिति। प्रियमेधस्य पुत्राः प्रैयमेधा ऋषयः। याभिर्गोभिर्दक्षिणारूपाभिः।बद्वानां शतकोटिसङ्ख्या कानाम्। तासां गवां मध्ये द्वे द्वे सहस्रे प्रतिदिनमात्रेय उदमयोऽदात्। अष्टाशीतिरिति। वैरोचनोऽङ्गः।प्रष्टीन् प्रेष्ठवाहनयोग्यान्। निश्चृत्य निष्कास्य।यजमाने, जातेसति। समोल्हानाम् आनीतानाम्। आढ्यानां धनिनाम्। नाश्च दुहितरो निष्ककण्ठ्यः।दशेति। अङ्गस्य ब्राह्मण उदमयः। अवचन्नुके देशविशेषे।पारिकुटान् परिचारकान्।प्रैप्सत्प्रेषितवान्।स्वयं दानेन श्रान्तःपरिचारकान् दानाय पुरश्वकारेत्यर्थः। वाग्व्यापारश्रमं दर्शयति शतमिति। शतं तुभ्यं दापितं गृहाणेत्याद्यप्युक्त्वा, प्रताम्यति, ग्लानिं प्राप्तवान्।ततः सहस्रमित्युक्त्वा, प्राणान् प्रतिपद्यते स्म, दीर्घं निश्वसितवान्।पुरोहितस्यैतदभिषेकप्रसादलब्धं सामर्थ्यम्।
हिरण्येनेति। मृगान् गजान्। मष्णारे देशविशेषे। शतंसप्तेति। सप्ताधिकशतसङ्ख्यानि।भरतस्येति। भरतेन साचीगुणे देशे एषोऽग्निश्चितः।चयनं कृतमित्यर्थः। यस्मिन् चयने। गाः, लब्धा इति शेषः। अश्वैर्राजे इत्युक्तं तत्वङ्ख्यामाह—अष्टेति।यमुनामनु यमुनातीरे। त्रय इति त्रयस्त्रिंशच्छतमितिपूर्वोक्तसङ्ख्यानिगमनम्।बद्वाय बध्वा। मायवत्तरः, मायावी सन्।राज्ञः शत्रोः, मायामत्यगात्, अतिक्रान्तवान्।
महेति। पूर्वे पित्रादयः। अपरे पुत्रादयः। नोदापुः, न शक्नुयुः। अत्र दृष्टान्तः —दिवमिति।हस्ताभ्यां स्पष्टुमशक्तः।एवं पञ्च मानवा निषादपञ्चमाश्चत्वारो वर्णाः। अभिषेकं स्तौति - एतमिति।विद्यया महाभिषेकज्ञानेन। विद्याज्ञानेनैव फलसिद्धिं दर्शयति – एतमिति। अत्यरातिर्ब्राह्मणः। महत्, महत्त्वम् ऐश्वर्यं, मा, मां गुरुं, गमय प्रापय।त्वमिति।त्वमेव पृथिव्या राजा भव। पुरोहितमभिषेकककर्त्तारं न द्रुह्येदित्युक्तम्, तदतिक्रमफलं दर्शयति। देवक्षेत्रम् उत्तरकुरवः।मे मह्यम्। अनुक्षोद्रोहं कृतवान्। मया याचितं महत्वं दातुमनिच्छुर्वञ्चनयोत्तरकुरुजयं प्रार्थितवानसि। अतस्तेतव गुरुद्रोहिण, इदं सामर्थ्यम्, आददे अपहरामि। आत्तवीर्यम् अपहृतवीर्यम्। शुष्मिणोराजा। एवंविदुपे अभिषेकज्ञाय।चकुषेकर्त्रे।अद्रोहे कारणमाह नेदिति।नैव राष्ट्राद्देशाधिपत्याद् भ्रष्टो भूयासम्। जहत्परित्यजतु।
अत्र ऋग्विधानोक्तः प्रकारविशेषः।
राजानमभिषिच्येत तिष्येण श्रवणेन वा।
पौष्णसावित्रसौम्याश्विरोहिण्यामुत्तरामु च॥
हुत्वाऽग्निं राजलिङ्गाभिः सावित्र्या प्रयतः शुचिः।
महाव्याहृतिभिश्चैव सम्पाताभिर्हुतो भवेत्॥
सर्वोपधिरमैःश्लक्ष्णैर्नदीनां सलिलेन च।
व्याघ्रचर्मण्यथासीनमासन्द्यामभिषिञ्चयेत्॥
तिष्ठन् प्रत्यङ्मुखो व्रुयाज्जय त्वं पृथिवीमिमाम्।
धर्मस्ते निखिलो राजन् वर्द्धनां पालय प्रजाः॥
वर्द्धस्व च श्रियैपुष्टयैजयायाभ्युदयाय च।
राजानः सन्तु ते गोत्रे ततोऽप्रतिरथं जपेत्॥
वैयाघ्रंतु भवेच्चर्म समिदौदुम्बरी भवेत्।
त्रिरेतमभिषिच्यैवं दुन्दुभीनभिमन्त्रयेत्॥
प्राच्यां तु दिशि वसवो ह्यभिषिञ्चन्तु तेजसे।
दक्षिणस्यां दिशि रुद्रा अभिषिञ्चन्तु वृद्धये॥
प्रतीच्यां दिशि त्वादित्या अभिषिञ्चन्तु पुष्टये।
विश्वेदेवा उदीच्यां तु अभिषिञ्चन्तु श्रेयसे॥
अभिषिच्य च राजानमाशीर्भिरभिनन्द्य च।
आत्वाहार्पमन्तरेधीत्यथैनमभिमन्त्रयेत्॥
पतङ्गमिति नित्यं तु जपेदज्ञानभेदनम्।
मायाभेदनमेतद्धि सर्वमाया प्रवाध्यते॥
आत्वाहार्षमिति ष
डृचस्प मुक्तस्य आङ्गिरसो ध्रुव ऋषिरनुष्टुप्छन्दः अभिषिक्तस्य राज्ञः स्तुतिरूपोऽर्थो देवता अभिमन्त्रणे विनियोगः। तदुक्तम्—
आत्वा षट् ध्रुवो राज्ञः स्तुतिस्त्वानुष्टुभं त्विति।
आ त्वा॑हार्ष॒मन्तरे॑धि ध्रु॒वस्ति॒ष्ठावि॑चाच॒लिः।
विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑भ्रशत्॥
इ॒हैवैधि॒मा प॑च्योष्टाः॒ पर्वत॑ इ॒वावि॑चाच॒लिः।
इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठे॒ह रा॒ष्ट्रमु॑धारय।
इ॒ममिन्द्रो॑अदीधरद् ध्रु॒वं ध्रु॒वेण॑ह॒विषा॑।
तस्मै॒ सोमो॒ अधिब्र॑व॒त्तत्स्मा॑उ॒ ब्रह्म॑ण॒स्पतिः॑॥
ध्रु॒वा द्यौर्ध्रुवा पृ॑थि॒वी ध्रु॒वासः॒ पर्व॑ता इमे॒।
ध्रु॒वंविश्व॑मि॒दं जग॑द् ध्रु॒वो राजा॑ वि॒शाम॒यम्॥
ध्रु॒वं ते राजा वरु॑णो ध्रुवं देवो बृहस्पतिः॑।
ध्रु॒वन्त॒इन्द्र॑श्चा॒ग्निश्च॑ रा॒ष्ट्रं धा॑रयतां ध्रु॒वम्॥
ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॒भिसोमं॑ मृशामसि।
अथो॑ त॒ इन्द्रः॒केव॑ली॒र्विशो॑ बलि॒हृत॑स्करत्॥
आत्वेति प्रथमा। हे राजन् त्वा त्वाम्, अस्मद्राष्ट्रस्य स्वामित्वेनाहार्षं, स त्वमस्मासु अन्तः मध्ये, एधि स्वामी भव, ध्रुवः नित्यः सन्, अविचाचलिःचलनरहितश्च सन्, तिष्ठ राष्ट्रमधितिष्ठ।सर्वा विशः प्रजाः। त्वा त्वाम्। वाञ्छन्तु, अयमेव सर्वदाऽस्माकं राजाऽस्त्वितीच्छन्तु।त्वत्, त्वत्तः सकाशात्।राष्ट्रं राज्यम्। माऽधिभ्रशत्, मा भ्रश्यतु, मा वियुक्तं भवतु। इहैवेति द्वितीया। हे राजन्, इहैव अस्मिन्नेव राज्ये। एधि, सदा स्वामी भव।मा पच्योष्ठाः, अपच्युतो मा भूः।पर्वत इव चलनरहितो भव। इह राष्ट्रमुधारय, इह लोके राष्ट्रं च स्वे स्वे कर्मण्यवस्थापय।इममिन्द्र इति तृतीया।इमम्, अभिषिक्तम्। ध्रुवेण स्थिरेण, हविषा तप्यमानं, ध्रुवं स्थिरम्, इन्द्रः अदीधरत् धारयतु। तस्मै राझे, सोमो ब्रह्मणस्पतिर्मन्त्रप्रतिपालको देवश्च, अधिब्रवत्, मदीयोऽयमिति ब्रवीतु।ध्रुवा द्यौरिति चतुर्थी।यथा द्यौरादयो ध्रुवाः स्थिराः।विश्वं सर्वम्। एवं विशां प्रजानां, राजा, ध्रुवः, स्थिरो भवतु।पञ्चमी ध्रुवं त इति। हे राजन् ते तवराष्ट्रं राजा वरुणो बृहस्पत्यादयश्च धारयन्तु।षष्ठीध्रुवमिति। वयमृत्विजो यागार्थं, ध्रुवं सोमं, ध्रुवेण, हविषा पुरोडाशादिना युक्तम्। अभिमृशामसि संस्पृशाम। अथो अथ, इन्द्रस्ते विशः प्रजाः,केवलीःअसाधारणाः, वलिहृतः कामदात्रीः, करत् करोतु।
पतङ्गमिति तृचस्य सूक्तस्य प्राजापत्यःपतङ्ग ऋषिः आद्याया जगतीच्छन्दः द्वयोस्त्रिष्टुप्छन्दःमायाभेदनं देवता
मायाभेदने विनियोगः। तदुक्तम् - पतङ्गः प्राजापत्यो मायाभेदं जगत्यादीति।
प॒त॒ङ्गम॒क्तमसु॑रस्य मा॒यया॑
हृृदा प॑श्यन्ति॒ मन॑सा विप॒श्चितः।
स॒मु॒द्रे अ॒न्तः क॒वयो॒ विच॑क्षते॒ मरी॑र्चानां पद॒मि॑च्छन्ति वे॒धसः॑॥
प॒त॒ङ्गोवाचं॒ मन॑सा विभर्त्ति॒तां ग॑न्ध॒र्वो॑ऽवद॒द्गर्भे॑ अ॒न्तः।
तां द्योत॑मानां स्व॒र्यं म॑नी॒षामृ॒तस्य॑ प॒दे क॒वयो॒ निपा॑न्ति ॥
अपंश्योङ्गो॒पामनिप॑द्यमान॒मा च॒ परा॑च प॒थिभि॒श्चर॑न्तम्।
स स॒ध्रीचीः॒मविपृ॑चीर्वसा॑न॒ आव॑रीवर्ति॒ भुव॑नेष्व॒न्तः ॥
प्रथमा पतङ्गमिति।असुरस्य सर्वोपाधिरहितस्य परब्रह्मणः सम्बन्धिन्या, मायया त्रिगुणात्मिकया, अक्तम् अभिव्यक्तं, पतङ्गं सूर्यं, विपश्चितोविद्वांसो, हृदा मनमा, हृन्स्थेन मनसा, पश्यन्ति जानन्ति।कवयः क्रान्तदर्शिनः, समुद्रे, समुद्द्रवन्त्यस्माद्रश्मय इतिसमुद्रः सूर्यमण्डलं तस्मिन्, अन्तः, मध्ये, विचक्षते विपश्यन्ति।मण्डलान्तर्वर्त्तिनं हिरण्मयं पुरुषमपि जानन्तीत्यर्थः। अयमेवार्थः—
आदित्यपुराणे,
ध्येयः सदा सवितृमण्डलमध्पवर्त्ती
नारायणः सरसिजासनसन्निविष्टः।
केयूरबान्मकरकुण्डलवान् किरीटी
हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥
एवंविधा वेधसो विधातारःसूर्योपासनकर्तारो, मरीचीनां रश्मीनां, पदं, स्थानं सूर्यमण्डलम्, इच्छन्ति प्राप्नुवन्ति। यद्वा मायया प्रज्ञया, अक्तं जीवरूपेणभिव्यक्तं, विपश्चितो वेदान्ता-
भिज्ञाः, हृत्स्थेनान्तर्मुखेन मनसा, पतङ्गं परमात्मानं, पश्यन्ति, उपाधिपरित्यागेन जीवात्मनःपरमात्मना तादात्म्यं साक्षात्कुर्वन्ति। अपिच, ते कवयो वेदान्ताभिज्ञाः, समुद्द्रवन्त्यस्मिन्निति समुद्रः परमात्मा तस्मिन्नधिष्ठानभूते, अन्तर्मध्ये, सर्वंदृश्यमध्यस्तत्वेन पश्यन्ति। अतो दृश्यातिरिक्तस्य मिथ्यात्वात्, वेधसो विधातारो, मरीचीनां वृत्तिज्ञानानाम्, पदम्, अधिष्ठानभूतं सच्चित्सुखात्मकं यत् परं ब्रह्म, तदेवेच्छन्ति, तद्भावप्राप्तिमेव कामयन्ते। द्वितीया पतङ्गो वाचमिति।पतङ्गः सूर्यः, वाचं त्रयीरूपां, मनसा प्रज्ञया, बिभर्त्ति धारयति। श्रूयते हि —
ऋग्भिः पूर्वाह्णे दिवि देव ईयते यजुर्वेदे तिष्ठति मध्ये अह्नः।
सामवेदेनास्तमये महीयते वेदैरशून्यैस्त्रिभिरेति सूर्यः ॥ इति।
तामेव वाचं, गर्भे, शरीरस्य मध्ये, वर्त्तमानो, गन्धर्वः, गाः शब्दान् धारयतीति गन्धर्वः प्राणवायुः, अन्तः मध्ये, अवदत्, वदति, प्रेरयति।
“मारुतस्तुरसि चरन्मन्द्रं जनयति स्वरम्”
इतिस्मरणात्। द्योतमानां, स्वर्यं स्वर्गपयित्रीं, स्वर्गाय हितां वा।मनीषांमनसईषाम्। तां त्रयीरूपां वाचम्।ऋतस्य यज्ञस्य, सत्यभूतस्य सूर्यस्य वा। पदे स्थाने, कवयो, मेधाविन ऋषयः। निपान्ति, अध्ययनेन नितरां रक्षन्ति। यद्वा पतंङ्गः, सर्वोपाधिशुन्यो व्याप्तः परमात्मा, सृष्ट्यादौवाचं मनसाविभर्त्ति, कानि कानि स्रष्टव्यानीति पर्यालोचनया मनसा सर्वार्थप्रतिपादकं वेदं परामृष्ठवानित्यर्थः। स्मर्यते हि —
वेदशब्देभ्यएवादौनिर्ममे स महेश्वरः। इति।
गर्भे, हिरण्मये ब्रह्माण्डे, अन्तर्वर्त्तमानो गन्धर्वो हिरण्यगर्भः, तां वाचमवदत्, प्रथममुच्चारितवान्। द्योतमानत्वादिगुणविशि
ष्टां तां वाचं, कवयः, क्रान्तदर्शिनो देवाः, ऋतस्य सत्यस्य ब्रह्मणः, पदे स्थाने, निपान्ति निभृतं रक्षन्ति।तृतीया अपश्यं गोपामिति। गोपां गोपायितारमादित्यम्।अपश्यम् अज्ञासिषम्। एष हि सर्वाणि भूतानि उदयास्तमयादिकर्मणा गोपायति। कीदृशम्, अनिपद्यमानम् उच्चैर्गच्छन्तम्, पथिभिराकाशमार्गेः, पूर्वाह्णे आचरन्तं सम्मुखमागच्छन्तं, सायं पराङ्मुखं गच्छन्तम्। प्रकारद्वयसमुच्चयार्थौचशब्दौ। स सूर्यः, सध्रीचीःप्राच्यादिमहादिशः, सविषूचीराग्नेय्याद्यवान्तरदिशो, वसानः प्रकाशयन्, भुवनेषु, अन्तर्मध्ये, आवरीवर्त्तिउद्यन्नस्तङ्गच्छंश्चावर्तते। यद्वा, गोपां शरीरस्य गोपायितारम्। अनिपद्यमानम् अविनाशिनम्। पथिभिः नाडीमार्गैः,आभिमुख्येन पराङ्मुखेन च शरीरे वसन्तमहमपश्यम् अदर्शम्।
पूर्वोक्तानां श्रौतानामभिषेकानापविरुद्धानामेकत्रोपसंहारेणैकोऽभिषेकः कार्यः,“सर्वशाखाप्रत्ययमेकं कर्म” इतिन्यायादित्येके। अन्ये तु श्रौतानां स्मार्त्तानां च तत्तच्छुतिस्मृतिपठितानामङ्गानामनुपसंहारेणैकैकप्रयोगमिच्छन्ति। तदेवं यस्य पुरोहितस्य स्वशाखाविहितत्वेन यः पक्षः सन्निःहितस्तेनैव तेनाभिषेकः कार्यः।
इत्यैतरेयब्राह्मणोक्तो राजाभिषेकः।
अथाथवर्णपरिशिष्टोक्तः पुष्पाभिषेको निरूप्यते॥
अथ पुष्पाभिषेकस्य विधिं वक्ष्यामि साम्प्रतम्।
धर्मार्थकामसंयुक्तं राजा कुर्यात्पुरोहितम्॥
सौवर्णौराजतैस्ताम्रैः कलशैःपार्थिवैरपि।
सहस्रेण शतेनाथ तोयग्रहणामिष्यते॥
चतुर्णां सागराणां तु नदीनां च शतस्य तु।
अभिषेकाय राज्ञस्तु तोयमाहृत्य यत्नतः॥
एकद्वित्रिचतुर्णां वा सागरस्य तु पञ्चमम्।
औषधीस्तेषु सर्वेषु कलशेषपकल्पयेत्॥
सहा च सहदेवी च वला तथा।
मदयन्ती वचा श्वेता व्याघ्रदन्ती सुमङ्गला॥
शतावरी जयन्ती च शतपुष्पा सचन्दना।
प्रियङ्गुरोचनोशीरममृता च समारिवा॥
अश्वत्थप्लक्षबिल्वानां न्यग्रोधपनसस्य च।
शिरीषाम्रकपित्यानां पलवैः समलङकृतान॥
हेमरत्नौषधीबिल्वपुष्पगन्धाधिवाभितान्।
आच्छादितान सितैर्वस्त्रैरभिमन्त्र्य पुरोहितः॥
सावित्र्युभयतः कृत्वा शन्नोदेवीस्तथैव च।
हिरण्यवर्णामुक्तं च अनुवाकाद्यमेव च॥
धरणी पादपीठं स्याद्दूर्वामूलाङ्कुराञ्छुभान।
तस्योपरि भवेत्पीठं हैमं रौप्यमथापि वा॥
अनडुद्व्याघ्रसिंहानां मृगस्य च यथाक्रमम्।
चत्वारि चर्मण्येतानि पूर्वादारभ्य विन्यसेत्॥
चातुर्होत्रविधानेन जुहुयाच्च पुरोहितः।
चतुर्दिक्षुस्थितैर्विप्रैर्वेदवेदाङ्गपारगैः॥
बिल्वाहारः फलाहारः पयमा वापि वर्त्तयेत्।
सप्तरात्रं घृताशी वा ततो होमं प्रयोजयेत्॥
गव्येन पयसा कुर्यात्सौवर्णेन स्रुवेण तु।
वेदानामादिभिर्मन्त्रैर्महाव्याहृतिपूर्वकैः॥
शर्मवर्मगणश्चैव तथा स्यादपराजितः।
आयुष्यश्चाभयश्चैव तथा स्वस्त्यपनो गणः॥
एतान् पञ्च गणान् हुत्वा वाचयेत्तु द्विजोत्तमान्।
हिरण्येनाक्षताढ्येन फलैश्च मधुसर्पिषा॥
पुण्याहं वाचयित्वास्य प्रारम्भं कारयेद्बुधः।
तिथिनक्षत्रसंयुक्तेमुहूर्त्तेकरणे शुभे॥
उच्चैर्घोषयते तृर्याव्यभिमन्त्र्य पुरोहितः।
सर्वतूर्यनिनादेन अभिषिक्तो ह्यलङ्कृतः॥
सिंहासनं समारुह्य पीठकं वा क्रमागतम्।
चामरच्छत्रसंयुक्तं प्रतीहारविभूषितम्॥
मत्तद्विपचतुष्कं च चतुर्दिक्षुप्रकल्पयेत्।
उपविष्टस्ततो राजा प्रजानां कारयेद्धितम्॥
अकरा ब्राह्मणा गावः स्त्रीबालजडरोगिणः।
ततस्तु दर्शनं देयं ब्राह्मणानां नृपेण तु॥
श्रेणीप्रकृतिमुख्यानां स्त्रीजनं च नमस्करेत्।
आशिषस्तेहि दास्यन्ति तुष्टा जनपदाभुवि॥
एवं प्रजाऽनुरज्येत पृथिवी च वशा भवेत्।
पुरोहितं मन्त्रिणं च सेनाध्यक्षं तथैव च॥
अश्वाध्यक्षं गजाध्यक्षं कोष्टागारपतिं तथा।
भाण्डागारपतिं वैद्यं दैवज्ञं च यथाक्रमम्॥
यथार्हेण च योगेन सर्वान् सम्पूजयेन्नृपः।
राज्यं पुरोहिते न्यस्य शेषाणां च यथाक्रमम्॥
स्थानान्तराणि चान्यानि दत्त्वा सुखमवाप्नुयात्।
दूर्वासिद्धार्थकान् सर्पिः शमी व्रीहियवौतथा॥
शुक्लानि चैव पुष्पाणि मूर्ध्नि दद्यान्पुरोहितः।
अथर्वविहितो ह्येषविधिः पुष्याभिषेचने॥
राजा स्नातो महीं भुङ्क्तेशक्रलोकं स गच्छति।
इति पुष्याभिषेकः।
अथ राज्ञो जन्मनक्षत्रे प्रतिमासमभिषेक उक्तो—
विष्णुधर्मोत्तरे,
पुष्कर उवाच।
राजा तु जन्मनक्षत्रे प्रतिमासं समाचरेत्।
जन्मनः क्षालकं कर्म यत्तत्पूर्वं मयेरितम्॥
पुष्यस्नानं तथा कुर्यात्प्रतिमासं नराधिप।
सङ्क्रान्तं पूजयेत्सूर्यं बालमिन्दुं तथैव च॥
ग्रहं सम्पूजयेद्राजा निर्गतं रविमण्डलात्।
निर्गतम् उदितम्।
अगस्त्यस्योदये कार्या तथा पूजा नराधिपैः॥
इति प्रतिमासं जन्मनक्षत्रे अभिषेकः।
अथ संवत्सराभिषेकः।
विष्णुधर्मोत्तरे,
राम उवाच।
सम्वत्सराभिषेकं च कथयस्वमहीक्षितः।
तत्र मे संशयो देव त्वं हि सर्वविदुच्यमे॥
पुष्कर उवाच।
राजाभिषेकनक्षत्रे प्रतिसंवत्सरं द्विजैः।
पूर्वाभिषेकविधिना कर्त्तव्यमभिषेचनम्॥
धन्यं यशस्यंरिपुनाशनं च सौभाग्यदं पुष्टिविवर्द्धनं च।
वर्षाभिषेकं नृपतेः प्रदिष्टं सौख्यावहं राज्याविवृद्धिदं च॥ इति।
ब्रह्मपुराणेऽपि-
राजाभिषेकमुक्त्वा,
अनेन विधिना यस्तु कुर्याद्वर्द्धापनं सदा।
अभिषेकाह्नियत्नेन प्रतिसंवत्सरं नृपः॥इति।
इति संवत्सराभिषेकः।
अथाभिषिक्तस्य राज्ञो गुणवतो जनपदपरिपालनादीन् धर्मान् वक्तुं यैर्गुणैः प्रजापालनयोग्यो भवति ते गुणा उच्यन्ते। तत्र—
शङ्खलितो,
राजा दीर्घदर्शी महोत्साहः शक्तिमाननमूयुर्भक्तबलस्त्यागी शरण्यः सर्वभूतानां संविभक्तः सत्यवागमत्सरी गम्भीरोऽमर्षणो बुधस्तेजस्वी प्रतिविधानकुशलोऽदीर्घसूत्रो दक्षः क्षमावान् लक्ष्यज्ञो देशकालद्रव्यप्रयोगसङ्ग्रहनिमित्तज्ञानकुशलो गूढमन्त्रप्रचारसंवृतर न्ध्रःपररन्ध्रज्ञो दृढप्रहारी लघुहस्तो जितस्थानासनहिमातपो जितकामरागद्वेषलोभमत्सरः प्रजाभिरामो दीनानुग्र हकर्त्ताब्राह्मणेष्वन्नप्रदाता श्रीय शोऽथीं।
अस्यार्थः। दीर्घदर्शी अनागतकार्यतत्त्वज्ञः। महोत्साहः, पुरुषार्थसाधनकर्माध्यवसाय उत्साहः स महान् यस्य सः। बहुविपयत्वमविहन्यमानत्वं चोत्साहस्य महत्त्वम्।शक्तिमान् प्रभावोत्साहमन्त्रशक्तित्रययुक्तः। अनसूयुः, असूया परगुणेषु दोषारोपस्तद्रहितः। गम्भीरःअनुपलक्षितक्रोधह र्षाद्याकारः।अमर्षणः परसमृद्धेरसोढा।प्रतिविधानम्, उपस्थितानिष्टप्रतीकारः, तत्र कुशलः। अदीर्घसूत्रः, अचिरक्रियः, अवश्यकार्याणां कर्मणां प्रारम्भे प्रारब्धानां च परिसमाप्तौ यो न विलम्बते। दीर्घसूत्रस्यकर्महानिरुक्ता—
मत्स्यपुराणे,
अदीर्घसूत्रश्च भवेत्सर्वकर्मसु पार्थिवः।
दीर्घसूत्रस्य नृपतेः कर्महानिर्ध्रुवं भवेत्॥इति
कार्यविशेषे दीर्घसूत्रतापि कर्त्तव्येत्युक्तम्—
तत्रैव,
दोषे दर्पे च माने च द्रोहे पापे च कर्मणि।
अप्रिये चैवकर्त्तव्ये दीर्घसूत्रः प्रशस्यते ॥इति।
लक्ष्यज्ञः तत्कालकर्त्तव्यज्ञः।गृढमन्त्रप्रचारः फलानुमितमन्त्रतत्त्वः।संवृतरन्ध्रः, रन्ध्रंयत्र परे प्रभवन्ति, तत्संवृतं यस्य।
तथा च मनुः,
नास्य च्छिद्रं परो विद्याद्विद्याच्छिद्रंपरस्य तु।
गृहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥ इति।
तथा यत्रातिशयं कुर्याद्यथाऽस्य च्छिद्रं शत्रुर्न जानाति, शत्रोस्तु छिद्रं प्रकृतिभेदादिकं चारैर्जानीयात्।यथा कूर्मो मुखचरणादीन्यङ्गानि आत्मदेहे गोपायति, एवममात्यादीनि राज्याङ्गानि दानमानसत्कारैरात्मसात्कुर्यात्। दैवात्प्रकृतिभेदे जातेयत्नतः प्रतीकारं कुर्यात्। जितमत्सर इतिपुनर्ग्रहणम् उत्पन्नस्यापि मत्सरस्याप्रकाशनार्थम्। प्रजाभिरामः प्रजानामभिरमयिता।
गौतमः,
राजा सर्वस्येष्टे ब्राह्मणवर्जं साधुकारी साधुवादी त्रय्यामान्वीक्षिक्यां चाभिविनीतः शुचिर्जितेन्द्रियो गुणवत्सहायोपायसम्पन्नः समः प्रजासु स्यात् हितंचासां कुर्वीत।
सर्वस्य जनपदस्य, ईष्टे, अधिपतिर्भवति निग्रहानुग्रहादिषु, ब्राह्मणवर्जम्, ततस्तै स्वधर्मात् च्यवन्तोऽपि सान्त्वेन धर्मेऽवस्थाप्याः। सर्वक्रियासु स्वतन्त्रताख्यापनार्थं वचनम् \। यथाह—
नारदः,
अस्वतन्त्राः प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः। इति।
साधुकारी शास्त्राविरुद्धाचरणशीलः।साधुवादी, व्यवहारकाले सत्यवादी। त्रयी ऋग्यजुःसामवेदाः। अथर्वणस्तु वेद एतेष्वेवान्तर्भवति। ऋग्यजुरात्मकत्वात्तस्य।भेदव्यवहारस्तु प्रवचननिमित्तः शान्तिकपौष्टिकप्रमेयभेदनिबन्धनो वा। आन्वीक्षिकी, वेदाद्यविरुद्धा आत्मज्ञानोपयो- गिनी न्यायविद्या। तयोरभिविनीतो गुरुभिः सम्यक् शिक्षितः \।
मनुस्तु,
त्रैविद्येभ्यस्त्रयीं विद्याद्दण्डनीतिं च तद्विदः।
आन्वीक्षिकीं चात्मविद्भ्यो वार्त्तारम्भांश्च लोकतः॥इति।
विद्यामिति द्वितीयान्तपाठे पूर्वोक्तमनुश्लोकादधिगच्छेदित्यनुषञ्जनीयम्। शुचिः, अन्तः परद्रव्यादिष्वस्पृहः, बहिः स्नानादिपरः। जितेन्द्रियः इन्द्रियजयवान्। अस्य फलमाह—
मनुः,
इन्द्रियाणां जये योगं समातिष्टेद्दिवानिशम्।
जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः॥इति।
गुणवत्सहायाः, चारित्रादिमन्तोऽमात्याः, उपायाः, सामादयः सप्त वक्ष्यन्ते, तैरुपसम्पन्नो युक्तः। समः प्रजासु, प्रिये द्वेष्ये च। हितं, तडागख- ननादिना।आसां प्रजानाम्।
याज्ञवल्क्यः,
महोत्साहः स्थूललक्ष्यः कृतज्ञो वृद्धसेवकः।
विनीतः सत्यसम्पन्नः कुलीनः सत्यवाक् शुचिः॥
अदीर्घसूत्रः स्मृतिमानक्षुद्रोऽपरुषस्तथा।
धार्मिकोऽव्यसनश्चैषप्राज्ञः शूरो रहस्यवित्॥
स्वरन्ध्रगोप्ताऽऽन्वीक्षिक्यां दण्डनीत्यां तथैव च।
विनीतस्त्वश्च वार्तायां
व्रय्यां
चैव नराधिपः॥
स्थूललक्ष्यःबहुदेयार्थदशी। तस्य च सर्वा पृथिवी वश्या भवतीत्युक्तम्—
** मत्स्यपुराणे,**
भाव्यं धर्मभृतां श्रेष्ठ स्थूललक्ष्येण भूभृता।
स्थूललक्ष्यस्य वशगा सर्वा भवनि मेदिनी॥इति।
परकृतोपकारापकारौन विस्मरतीति कृतज्ञः।वृद्धसेवकः, विनयशिक्षार्थं तपोज्ञानादिवृद्धनां सेवकः। तदुक्तम्—
मनुना,
वृद्धांश्चनित्यं सेवेत विमान् वेदविदः शुचीन्।
वृद्धान्,
वयस्तः, ब्राह्मणानब्राह्मणान् वा। विप्रानित्यादि व्याख्यातप्रायम्। शुचीन् निरुपधीन्।एतदप्यपूर्वमिति
मेधातिथिः
| कुल्लूककभट्टस्तु विप्रानित्यस्य सर्वाणि विशेषणानीत्याह|
वृद्धसेवी च सततं रक्षोभिरपि पूज्यते।
रक्षांसि, निर्दयानि महाबलानि सर्वधर्मशून्यानि, तैरपि पूज्यते किमुत मनुष्यैरिति कैमुतिकन्यायद्योतनार्थमिदम्।
वृद्धसेवायाः
फलमाह—
तेभ्योऽधिगच्छेद्विनयं विनीतात्मापि नित्यशः।
विनीतात्मापि पाटवानिशयजननार्थंविनयमधिगच्छेत्।
विनीतात्मा हि नृपतिर्न विनश्यति कर्हिचित्।
बहवोऽविनयाद्भ्रष्टा राजानः सपरिच्छदाः॥
वनस्थाश्चैव राज्यानि विनयात्प्रतिषेदिरे।
बेनोविनष्टोऽविनयान्नहुपश्चैव पार्थिवः॥
सुदासःपैजवनश्च सुमुखोनिमिरेवच।
सुदासनामा पैजवनस्य पुत्रः। तथा च–
ब्राह्मणम्
, तस्मादु सुदासः पैजवन इति।
पृथुश्चविनयाद्राज्यं प्राप्तवान्मनुरेव च।
कुवेरश्च धनैश्वर्यं ब्राह्मण्यं चैत्र गाधिजः॥ इति।
महाभारते,
न राज्यं प्राप्तमित्येव वर्त्तितव्यमसाम्प्रतम्।
श्रियं ह्यविनयो हन्ति जरारूपमित्रोत्तमम्॥
विनीतो विनययुक्तः।विनयशब्देनाविरुद्धः पूर्वोक्तः स्नातकधर्मकलाप उच्यते। “न संशयं प्रपद्येत नाकस्मादप्रियं वदेत्” इत्यादिनोक्तः।सत्त्वसम्पन्नःसम्पदापदोर्हर्षविषादरहितः। दुर्दशामापन्नोऽपि न न्यायादपैति स सत्त्वसम्पन्न इत्यपरार्क।मातृतः पितृतश्चाभिजनवान् कुलीनः।अवगताविस्मरणशीलः स्मृतिमान्। अनलपहृदयः, योऽल्पापकारोपकाराभ्यां कोपप्रसादवान् सोऽल्पहृदयः, तथा न भवतीत्यर्थः। अपरूपः अकठोरवाक्। धार्मिकः प्रसिद्धवर्णाश्रमधर्मान्वितः। पुरुषार्थविक्षेपकं द्यूतादि व्यसनं तद्रहितोऽव्यसनः। व्यसनानि वक्ष्यन्ते। प्राज्ञो गम्भीरार्थावधारणक्षमः। शूरो निर्भयः। रहस्यवित् गोपनीयगोपनचतुरः। स्वरन्ध्रगोप्ता, स्वस्यसप्तसुराज्याङ्गेषु यस्य वैकल्ये परमवेशस्तस्य गोप्ता रक्षकः।
कात्यायनः,
विनीतः शास्त्रसम्पन्नः कोशशौर्यसमन्वितः।
ब्रह्मण्यो दानशीलः स्याद्धर्मसत्यपरो नृपः॥
स्तम्भोपतापपैशुन्यचापलक्रोधवर्जितः।
प्रगल्भः सन्नतोदग्रःसम्भाषी प्रियदर्शनः॥
बश्येन्द्रियं जितात्मानं धृतदण्डं विकारिषु।
परीक्ष्य कारिणं धीरमत्यन्तं श्रीर्निषेवते ॥
स्तम्भः पराप्रणतिः। उपतापोऽत्र प्रजापीडनम्। पैशुन्यं परदोषाविष्करणम्।प्रगल्भः अपरिषद्भीरुः।सन्नतोदग्रः, सत्सु नतोऽसत्सु अधृष्यः।सम्भाषी स्मितपूर्वाभिभाषी। तदुक्तम्–
मत्स्यपुराणे,
स्मितपूर्वाभिभाषी स्यात्सर्वस्यैव महीपतिः।
वध्येष्वपि महाभाग भ्रुकुटिं न समाचरेत् ॥इति।
विष्णुरपि
राजेत्यनुवृत्तौ,
स्मितपूर्वाभिभाषी स्याद्वध्येष्वपि न भ्रुकुटिमचिरेदिति।
एतेषु गुणेषु केषां चिद्व्यवस्थामप्याह–
मनुः,
स्वराष्ट्रे न्यायवृत्तः स्याद्भृशं चण्डश्च शत्रुषु।
सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः।
याज्ञवल्क्योऽपि,
ब्राह्मणेषु क्षमी स्निग्धेप्वजिह्मी क्रोधनोऽरिषु।
स्याद्राजा भृत्यवर्गेषु प्रजासुच यथा पिता ॥इति।
इति राजगुणाः।
अथ राजधर्माः।
तत्रादौ विहितधर्मा उच्यन्ते।
मत्स्यपुराणविष्णुधर्मोत्तरयोः,
स्वेस्वे धर्मे व्यवस्थानं वर्णानां पृथिवीपतेः।
परो धर्मः सदा प्रोक्तस्तत्र यत्रपरोभवेत् ॥
स्वधर्मप्रच्युतान् राजा स्वेधर्मे विनियोजयेत्।
व्यवस्थानं व्यवस्थापनम्। तथा च–
विष्णुः
, वर्णाश्रमाणां स्वेस्वे धर्मे व्यवस्थापनम्। इति।
वर्णाश्रमपदे सङ्करपाखण्डादीनापष्युपलक्षके।सङ्कराणां वर्णमूलत्वात्, पाखण्डानामाश्रममूलत्वात्। तथा च—
विष्णुपुराणे,
यस्तु सन्त्यज्य गार्हस्थ्यं वानप्रस्थो न जायते।
परिव्राडपि मैत्रेय स नग्नः पापकृन्नरः॥ इति।
स्वे स्वेधर्म इति वीप्सया सामयिकधर्माणामपि सङ्ग्रहः।
देवब्राह्मणगोसाध्वीसाधूनामपि पूजनम्।
समता व्यवहारेषु स्वयं चैवान्ववेक्षणम्॥
व्यवहाराणामिति शेषः। तदुक्तम्–
याज्ञवल्क्येन,
व्यवहारान्नृपः पश्येत्– इति।
राज्ञां धर्मं परं विद्यात्तथा वै चरदृष्टिता।
स्वदेशपालनं धर्मः परराष्ट्राभिमर्दनम्॥
यज्ञदानक्रिया चैव सङ्ग्रामे चापलायनम्।
कामादीनामाभ्यन्तराणां स्वविषयवासित्वेनाऽऽभ्यन्तराणां भृत्यादीनां च जय उक्तः—
तत्रैव,
कामः क्रोधो मदो मानो लोभी हर्षस्तथैव च।
जेतव्यो रिपुषड्वर्ग आन्तरः पृथिवीक्षिता॥
स्वस्वविषये व्यवस्थापनं जयः।
एतेषां विजयं कृत्वा कार्यो भृत्यजयस्तथा।
कृत्वा भृत्यजयं राजा पौरान् जानपदान् जयेत्॥
कृत्वा च विजयं तेषां शत्रून् बाह्यांस्ततो जयेत्।
अन्तिमो जयः पराभवः। बाह्यास्त्रिविधा उक्ताः—
तत्रैव,
बाह्याश्च त्रिविधा ज्ञेयास्तुल्याभ्यन्तरकृत्रिमाः॥
गुरवस्ते यथापूर्वं तेषु यत्नः सदा भवेत्।
अमात्यादिभी राजा रक्ष्यो राज्ञा च ते रक्ष्या इत्युक्तम्—
तत्रैव,
स्वाम्यमात्यो जनपदो दुर्गंदण्डस्तथैव च।
कोशो मित्रं च धर्मज्ञ सप्ताङ्गं राज्यमुच्यते॥
दण्डो बलम्।
सप्ताङ्गस्यापि राज्यस्य मूलं स्वामी प्रकीर्तितः।
मूलं प्रधानम्।
तन्मूलत्वात्तथाङ्गानां स तु रक्ष्यः प्रयत्नतः॥
अमात्यादिभिरिति शेषः।
षडङ्गरक्षा कर्त्तव्या तथा तेन प्रयत्नतः।
षडङ्गानि अमात्यादयः। तेन राज्ञा।
अङ्गेभ्यश्च तथैकस्तु द्रोहमाचरतेऽल्पधीः॥
एकः, अङ्गमध्यस्थः कश्चित्।
वधस्तस्य तु कर्तव्यः शीघ्रमेव महीक्षिता॥
तथा,
एकस्यैव महीभर्तुर्भूयःकार्ये सुनिश्चिते।
ब्राह्मणान् पर्युपासीत त्रय्यां राम सुनिश्चितान्॥
नासच्छास्त्ररतान्मृढांस्ते हि लोकस्य कण्टकाः।
सुनिश्चिते, उपस्थित इति शेषः। उपासीत नियुञ्जीत।
तथा,
यजेत राजा बहुभिः क्रतुभिः स्वाप्तदक्षिणैः॥
स्वाप्तदक्षिणैः, ऋत्विग्भिः प्राप्ता दक्षिणा येषु तैः।
धर्मार्थं चैव विप्रेभ्यो दद्याद्भोगान् धनानि च।
स्याच्चाम्नायपरो लोके वर्तेत पिठ्वन्नृषु॥
आवृत्तानां गुरुकुलाद्विजानां पूजनं भवेत्।
आवृत्तानां कृतसमावर्तनानाम्।
नृपाणामक्षयो ह्येषनिधिर्वाह्यो विधीयते॥
हिः प्रसिद्धः।
तस्माद्राज्ञा निभातव्यो ब्राह्मणेष्वक्षयो निधिः।
तथा,
सङ्ग्रामेष्वनिवर्त्तित्वं प्रजानां परिपालनम्।
शुश्रूषा ब्राह्मणानां च राज्ञां निःश्रेयसंपरम्॥
कृपणानायवृद्धानां विधवानां च योषिताम्।
योगक्षेमं च वृत्तिं च तथैव परिकल्पयेत्।
योगः अलव्यलाभः। क्षेमं सिद्धस्य परिपालनम्।वृत्तिजीवनोपायः।
तथा,
आश्रमेषु यथाकालं तैलं भाजनभोजनम्।
स्वयमेव नयेद्राजा सत्कृतानवमत्य च॥
आश्रमेषु स्थानेषु।सत्कृतान्, कार्येषु नियुक्तान्। अवमत्य उपेक्ष्य। अनेनादरातिशय उच्यते।
तथा,
तापसे सर्वकार्याणि राज्यमात्मानमेव च।
निवेदयेत्प्रयत्नेन देववच्चैनमर्च्चयेत्॥
मनुः,
ने विश्वसेविश्वस्ते विश्वस्ते नातिविश्वसेत्।
विश्वामाद्भयमुत्पन्नं मूलान्यपि निकृन्तति॥
________________________________________________________________________________
१ अयं साधेश्लोको मुद्रितमनुपुस्तकेनोपलभ्यते।
विश्वासयेञ्चापि परं तत्त्वभूतेन हेतुना।
बकवच्चिन्तयेदर्थान् सिंहवच्च पराक्रमेत्।
वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत्॥
यथा वृको मेषादिरक्षकानवधानमासाद्य मेषं हन्ति, एवं शत्रुरक्षकानवधाने शत्रुं हन्यात्। विनिष्पतेत्, शत्रुभिरभिभूत आश्रयान्तरं गच्छेत्।
विष्णुधर्मोत्तरे तु,
दृढप्रहारी च भवेत्तथां मूकरवन्नृपः।
चित्राकारश्च शिखिवदृृढभक्तस्तथा श्ववत्॥
भवेच्च मधुराभाषी तथा कोकिलवन्नृपः।
काकशङ्की भवेन्नित्यमज्ञातवसतिं वसेत्॥
काकशङ्की, काकवन्न कमपि विश्वसेत्।
विष्णुः,
आयद्वाराणि नोच्छिन्द्यान्नापात्रवर्षी स्यात्।
आयद्वाराणि, द्रव्योत्पत्तिस्थानानि खनिशुल्कप्रभृतीनि।
महाभारते
तु विशेषः।
चरेद्धर्माणि कटुको मुञ्चेत्स्नेहं न नास्तिकः।
आनृशंसश्चरेदर्थं चरेत्काममनुद्धतः॥
प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः।.
दाता नापात्रवर्षी स्यात्प्रगल्भः स्यादनिष्ठुरः॥
सन्दधीत न चानार्यैर्विगृह्णीयान्न च बन्धुभिः।
नाभक्तं चारयेच्चारं कुर्यात्कार्यमपीडया
अर्थं व्रूयान्नचासत्सु गुणान् व्रूयान्न चात्मनः।
आदद्यान्न च साधुभ्यो नामत्पुरुषमाश्रयेत्॥
नापरीक्ष्य नयेद्दण्डं न च मन्त्रं प्रकाशयेत्।
विसृजेन्न च लुब्धेभ्यो विश्वसेन्नापकारिषु॥
अनीर्षुर्गुप्तदारः स्यादृजुः स्यादघृणी नृपः॥
स्त्रियः सेवेत नात्यर्थंमृष्टं भुञ्जीत नाहितम्।
अस्तब्धः पूजयेन्मान्यान् गुरून् सेवेदमायया॥
अर्च्चेद्देवानदम्भेन श्रियमिच्छेदकुत्सिताम्।
सेवेत प्रणयं हित्वा7दक्षः स्यान्न त्वकालवित्॥
सान्त्वयेत्तत्र8मोघाशमनुगृह्णन्नच क्षिपेत्।
प्रहरेन्नत्वविज्ञाय हत्वा शत्रून्नशोचयेत्॥
क्रोधं कुर्यान्न चाकस्मान्मृदुः स्वान्नापकारिषु।
तथा,
ऊखरेष्वपि वर्षन्तं पात्रेषु मृदु वर्षिणम्।
पर्जन्यमपि निन्दन्ति किम्पुनर्वसुधाधिपम्॥ इति।
विष्णुधर्मोत्तरे बालकादीनां धनं राज्ञैव रक्ष्यमित्युक्तम्।
बालदायादकं रिक्थं तावद्राजाऽनुपालयेत्।
यावत्स स्यात्समावृत्तो यावद्वाऽतीतशैशवः॥
बालपुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च।
पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च॥
जीवन्तीनां तु तासां ये तद्धरेयुः स्वबान्धवाः।
तान् शिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः॥
तथा चौरैरपहृतं प्रजाद्रव्यं राज्ञा स्वकोशाद्दातव्यमित्युक्तम्—
तत्रैव,
सर्वेषामेव वर्णानां चोरैरहृतं धनम्।
तत्प्रमाणं स्वकात्कोशाद्दातव्यमविचारयन्॥
ततस्तु पश्चात्कर्त्तव्यं चौरान्वेषणमञ्जसा।
चौररक्षाधिकारिभ्यो राजाऽपि तदवाप्नुयात्॥
आहृते च तथा वित्ते हृतमित्येव वेदिनम्।
निर्द्धनं पार्थिवः कृत्वा विषयात्स्वाद्विवासयेत्॥
आहृते, चौरान्वेषिभिरितिशेषः। हृतमित्येव वेदिनम्, चौरैरपहृतं न मया प्राप्तमिति निवेदयितारं चौरान्वेषिणं मिथ्यावादितया प्रमाणैर्निर्णीय निर्द्धनं कृत्वा स्वदेशाद्विवासयेदिति व्याख्येयम्। अपहृतस्यादाने राज्ञो दोषमाह—
याज्ञवल्क्यः,
देयं चौरहृतं द्रव्यं राज्ञा जानपदाय तु।
अददद्धि समाप्नोति किल्बिषं यस्य तस्य तत्॥ इति।
यत्तुधनस्वामिन एव परिचारकैर्नीतं तत्तु राज्ञा न देयमित्युक्तम्—
विष्णुधर्मोत्तरे,
न तद्राज्ञा प्रदातव्यं गृहे यत्परिचारकैः।
प्रचरद्भिर्हृतं द्रव्यं कार्यं तत्रान्ववेक्षणम्॥
अन्ववेक्षणम्, तर्जनताडनादिना तत्परिचारकेभ्यो दापनीयं, न तु स्वयं दातव्यमित्यर्थः। स्वविषये क्षुधाऽवसद्यमानस्य श्रोत्रियस्य वृत्तिकल्पनमपि राज्ञ आवश्यकमित्युक्तम्—
तत्रैव,
न च क्षुधावसीदेत श्रोत्रियो विषये वसन्।
यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा॥
तस्य सीदति तद्राष्ट्रं दुर्भिक्षव्याधितस्करैः।
श्रुतव्रित्तेतु विज्ञाय वृत्तिं तस्य प्रकल्पयेत्॥
रक्षेच्च सर्वतस्त्वेतान् पिता पुत्रमिवौरसम्।
संरक्ष्यमाणो राज्ञा यः कुरुते धर्ममन्वहम्॥
तेनायुर्वर्द्धते राज्ञो द्रविणं राष्ट्रमेव च। इति।
देवनारामादेः पालनं तत्पूजनं चावश्यकमित्युक्तम्—
तत्रैव,
स्वदेशदेवतार्चायाः कृतारामं पुरातनैः।
दायं वित्तं जनं तासां प्रयत्नात्परिपालयेत्॥
पालयन्ति महीं देवाः पालिताः पृथिवीक्षिता।
देवायत्तमिदं सर्वं भूतलं द्विजपुङ्गव॥
धूपदीपनमस्कारपुष्पमाल्यानुलेपनैः।
रत्नानां सम्प्रदानैश्च पूजनीयाःसुरोत्तमाः॥
पूजिताः पूजयन्त्येते आयुषा यशसा श्रिया।
प्राप्यते देवताभक्त्या मनुष्येण महत्पदम्॥
पूजिताःसम्प्रयच्छन्ति कामान्नृणां मनोगतान्।
एकमप्याश्रितो देवं राजा भार्गवनन्दन॥
सर्वासां पूजनं कुर्याद्देवनानामसंशयम्।
ब्राह्मणाश्च नियोक्तव्या वेदोक्तसुरपूजने॥
ब्राह्मणस्य पूजनं पालनं चोक्तम्–
तत्रैव,
ब्राह्मणान् पूजयेद्राजा ब्राह्मणान् पालयेत्सदा।
ब्राह्मणा हि महाभागा देवानामपि देवताः॥
ब्राह्मणानां क्षितिं दद्याद्भोगानन्यांश्च पार्थिव।
ब्राह्मणानामिति षष्ठी चतुर्थ्यर्ये। ब्राह्मणानां क्षितिं दत्त्वास्वमुद्राङ्कितं पत्रमपि दद्यात्। तदुक्तम्—
विष्णुना,
ब्राह्मणेभ्यो भुवं दद्याद्येषां च प्रतिपादयेत् तेषां स्ववंश्यान् भुवः प्रमाणं दानच्छेदोपवर्णनं च पटे ताम्रपट्टे वा लिखितं स्वमुद्राङ्कितं चागामिनृपतिपरिज्ञानार्थं द-
द्यादिति।
येषां येभ्य इत्यर्थः। तेषां वंशयान्।स्ववंश्यांश्चिति क्वचित्पाठः।दानच्छेदोपवर्णनम्, दानच्छेदे उपवर्णनं, नरकम्येति शेषः। अथ वा दानच्छे-दोदत्तभूमिसीमापरिच्छेदः। तथाच—
याज्ञवल्क्यः,
दत्त्वा भूमिं निवन्धं वा कृत्वा लेख्यं तु कारयेत्।
आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः॥
पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम्।
अभिलेख्यात्मनो वंश्यानात्मानं च महीपतिः॥
प्रतिग्रहपरिमाणं दानच्छेदोपवर्णनम्।
स्वहस्तकालसम्पन्नं शासनं कारयेत्स्यिरम्॥ इति।
व्यासः,
स्थानं वंशानुपूर्वी च देशे ग्राममुपागतान।
ब्राह्मणांस्तु तथा चान्यान याज्यानधिकृतानपि॥
कुटुम्बिनोऽथ कायस्थान दूतवैद्यमहत्तगन।
मेदचण्डालपर्यन्तान सर्वान् सम्बोधयन्निति॥
मातापित्रोगन्मनश्च पुण्यायामुक
मृनवे।
दत्तं मयाऽमुकायाद्यदानं सब्रह्मचारिणे॥
अनाच्छेद्यमनाहार्यं सर्वभोगविवर्जितम्।
चन्द्रार्कसमकालीनं पुत्रपौत्रान्वयागतम्॥
दातुः पालयितुः स्वर्गं हतुनेस्कमेव च।
षष्टिवर्षसहस्राणि दानच्छेदे फलं लिखेत्॥
स्वमुद्रावर्षमासार्द्धदिनाध्यक्षाक्षरान्वितम्।
एवंविधं राजकृतं शासनं समुदाहृतम्॥ इति।
स्थानं राजवानी।उपागतान आगन्तुकान्।महत्तरोग्रा-
मदाता।अर्द्धं पक्षः।दिनाध्यक्षो वारः। तत्र पत्रेऽन्यानपि स्मृत्यन्तरोक्तान् श्लोकान् लिखेत्। ते च श्लोकाः—
पूर्वदत्तां द्विजातिभ्यो यत्नाद्रक्षेद्युधिष्ठिर।
महीं मतिमतां श्रेष्ठ दानाच्छ्रेयोऽनुपालनम्॥
बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम्॥
षष्टिवर्षसहस्राणि स्वर्गे मोदति भूमिदः।
आक्षेप्ता चावमन्ता च तान्येव नरकं वसेत्॥
अपानीयेष्वरण्येषु शुष्ककोटरवासिनः।
कृष्णाहयोऽभिजायन्ते पूर्वदायं हरन्ति ये॥इति।
स्मृत्यन्तरे,
सन्धिविग्रहकारी तु भवेद्यस्तस्य लेखकः।
स्वयं राज्ञा समादिष्टः स लिखेद्राजशासनम्॥ इति।
विष्णुधर्मोत्तरे,
ब्राह्मणेषु तु यद्दत्तं विधिवत्पारलौकिकम्।
वेदलाङ्गलकृष्टेषु द्विजक्षेत्रेषु भार्गव॥
उप्तस्य दानवीजस्य फलस्यान्तोन विद्यते।
तस्मात्पूज्या नमस्कार्याः संविभाज्यास्तथा द्विजाः॥
राज्ञा सर्वप्रयत्नेन लोकद्वयमभप्सिता।
यद्ब्राह्मणास्तुष्टतमा वदन्ति तद्देवताः प्रत्यभिनन्दयन्ति।
तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः॥इति।
तथा साध्वीनामपि पालनमुक्तम्—
तत्रैव,
साध्वीनां पालनं कुर्यात्पूजनं च महीपतिः।
एकपत्न्यः स्त्रियः सर्वा धारयन्ति जगत्रयम्॥
भर्तृव्रता भर्तृपरा भर्तृपूजनतत्परा।
यतः स्त्री सा दिवं याति सह भर्त्ताद्विजोत्तम॥
एकपत्न्यस्तु यद्दुःखं सहन्ते द्विजसत्तम।
तेन ताः स्वर्गमासाद्य मुखमायान्त्यनेकधा॥
तासां प्रभावो हि महांस्तेजश्चैवातिदुःसहम्।
न कोपनीया नोपेक्ष्यानैव ताश्चविमानयेत्॥
नाह्वयेदपराधेषु दण्ड्यस्तासां पतिर्भवेत्।
तथा,
अनाथां च सदा साध्वीं विभृयात्पार्थिवोत्तमः।
तस्यां यद्दीयते दानं तदनन्तं प्रकीर्तितम्॥
साध्वीनामपमानेन कुलं दहति पूरुषः।
तामां सम्पूजनाद्राम स्वकुलं चांन्नतं भवेत्॥इति।
तथा—
गवां हि पालनं राज्ञा कर्त्तव्यं भृगुनन्दन।
इत्यादिनाध्यायेनौषधान्नघासजलादिदानान्युक्तानि तत्रैव।
तथा,
गवां प्रचारभूमिं तु वाहयित्वा हलादिना।
नरकं महदाप्नोति यावदिन्द्राश्चतुर्दश॥इति।
मनुः,
अलव्धं चैव लिप्सेत लब्धं रक्षेच्च यत्रतः।
रक्षितं वर्द्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत्॥
एतच्चतुष्टयं विद्यात्पुरुषार्थप्रयोजनम्।
अस्य सम्यगनुष्टानं नित्यं कुर्यातन्दितः॥ इति।
महाभारते,
सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन।
नैकत्र परिनिष्ठाऽस्ति ज्ञानस्य पुरुषे क्वचित्॥
सर्वस्य ज्ञानस्यैकत्र पुरुषे परिनिष्ठाऽवस्थितिर्नास्तीत्यर्थः।
अप्युन्मत्तात्प्रलपती बालाच्च परिजल्पतः।
सर्वतः सारमादद्यादश्प्रभ्य इव काञ्चनम्॥
धनुर्वेदेतिहासे च यत्नः कार्यो विजानता।
हस्तिपृष्ठेऽश्वपृष्ठेच रथचर्यासुचैव हि॥
द्वौभागावितिहासार्थं भागस्त्रय्या विधीयते।
इष्वस्त्रादिषु भागोऽन्यश्चतुर्धैवमहः स्मृतम्॥
येषां त्रीण्यवदातानि योनिर्विद्या च कर्म च।
तान सेवेत्तैःसमास्या हि शास्त्रेभ्योऽपि गरीयसी।
समास्या सम्यकप्रकारेण आस्या उपवेशनम्।
गुरुपूजां च सततं वृद्धानां पर्युपासनम्।
श्रवणं चैव विद्यानां कुर्वन् श्रेयोऽधिगच्छति॥
न वैश्रुतमविज्ञाय वृद्धाननुपसेव्य च।
धर्मार्थौ वेदितं शक्यौबृहस्पतिसमैरपि॥
विद्यावृद्धान् सदैव त्वमुपासीधा नराधिप।
शृणुया यच्च ते व्रूयुः कुर्याश्चैवाविचारयन्॥
सहस्रमपि मृर्ग्वाणां यद्युपास्ते महीपतिः।
अथ वाष्ययुतान्येव नास्ति तेषु सहायता॥
एकोऽपि शास्त्रवित्प्राज्ञोगुरूणां पर्युपासिता।
राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम्॥
सदैव हितकामानां सुहृदां न शृणोति यः।
प्राज्ञानां कृतविद्यानां स नरः शत्रुनन्दनः॥
शत्रुनन्दनः शत्रुणामानन्दजनकः।
आदावेव मनुष्येण वर्त्तितव्यं यथाक्रमम्।
यथा नातीतमर्थ वैपश्चात्तापेन शोचति॥
अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः।
इन्द्रियाणामनैश्वर्यादैश्वर्याद्धश्यतीह सः॥
सन्नियच्छति याोगेन उत्थितं कामहर्षयोः।
स श्रियो भाजनं राजन पश्चाद्यस्तु न मुह्यनि॥
नावमान्या बुद्धिमद्भिरवरोत्कृष्टमव्ययाः।
न हि मानप्रदग्धानां कश्चिदस्ति मदः क्वचित्॥
अवृत्तेर्भमन्त्यानां मध्यानां मरणाद्भयम्।
उत्तमानां तु मर्त्त्यानामवमानात्परं भयम्॥
अन्त्यानाम्, अधमानां मर्त्त्यानाम्। अवृत्तेः, जीविकानाशात् भयम्।
कर्मणा मनसा वाचा चक्षुषाच चतुर्विधम्।
प्रसादयति यो लोकं तं लोको न प्रसीदति॥
तमुद्दिश्य लोको न प्रसीदति नावसन्नो भवति।
यो नोद्धतं जातु करोति वेषं न पोरूषेणापि विकत्थते च।
नीत्या हि किञ्चित्क्षमते विवादं सर्वत्र तादृग्लभने प्रशंसाम्॥इति।
राज्ञोऽधिकमित्यनुवृत्तौ—
गौतमः,
योगश्च विजये भये विशेषेण चर्या च रथधनुर्भ्याम्। इति।
योग उपायः।विजये, शत्रुणां नद्राष्ट्रादेश्च।भये विशेषेण, भये शत्रुप्रभृतिभ्य उपस्थिते, विशेषेणोपायः कार्य इत्यर्थः। चर्या पर्यटनम्। रथधनु- र्भ्यमिति वाहनायुधानामुपलक्षणम्, दृष्टार्थत्वान्।
मनुः,
नित्यमुद्यतदण्ड स्यान्नित्यं विवृतपौरुषः।
नित्यं संवृतसंवार्यो नित्यं छिद्रानुसार्यरेः॥
नित्यमुद्यतदण्डस्य कृत्स्नमुद्विजते जगत्।
तस्मात्सर्वाणि भूतानि दण्डेनैव प्रसाधयेत्॥
अमायर्येव वर्तेत न कथञ्चन मायया।
बुद्ध्येतारिप्रयुक्तां च मायां नित्यं सुसंवृतः॥
तथा,
तीक्ष्णश्चैव मृदुश्च स्यात्कार्यं वीक्ष्य महीपतिः।
तीक्ष्णश्चैव मृदुश्चैव राजा भवति संमतः॥ इति।
उद्यतदण्डः, दण्डो हस्त्यश्वादियुद्धादिशिक्षाभ्यासः, स उद्यतस्सव्यापारोयस्य स तादृशः। अथ वा दण्डो दण्ड्यानां दण्डनं तदुद्यतं यस्य स तादृशः। विवृतपौरुषः, वितृतं प्रकाशीकृतं पौरुषम् अस्त्रविद्याप्रकर्षादिकं यस्य स तथा। संतृतसंवार्यः, संतृतं परैरज्ञायमानं संवार्यं संवरणार्हं मन्त्राकार-चेष्टितादि यस्य स तथा। उद्विजते विभेति। तेन च प्रतापख्यातिर्भवतीत्यर्थः। अमायया अच्छद्मना।वर्तेत, अमात्यादिष्विति शेषः। अहितेषु तु क्वचिच्छद्मापि विहितमेव।
शङ्खलिखितौ, राजा स्वाधीनवृत्तिरात्मप्रत्ययकोशः स्वयं कृत्यानुदर्शी विप्रस्वनिवृत्तश्विरं भद्राणि पश्यति। इति।
आत्मप्रत्ययकोशः, आत्मनः स्वस्य प्रत्ययो विज्ञानं यस्य तादृशकोशवान्।
यमः,
समः सर्वेषु भूतेषु नयानयविशारदः।
नैकः कार्याणि यः कुर्यात्सोऽत्यन्तं पाति मेदिनीम्॥
अत्यन्नं चिरकालम्।
तथा,
अन्तर्दोषं समुत्पन्नमाकारेणोपलक्षयेत्।
शङ्ख्येषु शङ्कितो नित्यं रक्षेच्छत्या सदोत्थितः ॥
पापानां निग्रहं कुर्यात्साधूनां परिपालनम्।
यथाक्रमं च वृद्धानां कालेकाले निषेवणम् ॥इति।
शङ्क्येषु, पूर्वकृतापकारादिना शङ्कास्पदेषु।
नारदः,
सतामनुग्रहो नित्यमसतां निग्रहस्तथा।
एषधर्मः स्मृतो राज्ञामर्थश्चापि भवेत्ततः ॥
तस्य वृत्तिःप्रजारक्षा वृद्धाप्राज्ञोपसेवनम्।
दर्शनं व्यवहाराणामात्मनश्चापि रक्षणम् ॥ इति।
राज्ञः कर्तव्यमित्यनुवृत्तौ—
शङ्खलिखितौ
,
स्वपक्षे परपक्षे च स्थानवृद्धिक्षयाश्रयः।
स्थानादीनां विभागश्च काले द्रव्यार्थसङ्ग्रहः॥ इति।
स्वपक्षे स्थानवृद्धि, परपक्षे स्थानक्षयः, तयोराश्रयणम्। स्थानादीनाम्, अवस्थानस्थलानां दुर्गकोशा-दीनां च। विभागः, उचिताधिकारि भ्यस्ममर्पणम्।काले यथोचितकाले।द्रव्यस्य, वस्त्रधान्यादेः, अर्थस्य, सुवर्णरजतादेः सः राजधर्मानुवृत्तौ-
मार्कण्डेयपुराणे,
अहो तितिक्षामाहात्म्यमहो दानफलं महत्।
पद्भ्यां गतो हरिश्चन्द्रः पुरश्चेन्द्रत्वमागतः ॥इति।
अत्र तितिक्षादानयोः सर्वसाधारणधर्मन्वेऽपि राज्ञोऽवश्यकर्त्तव्यत्वेन तितिक्षायाश्चातिदुष्करत्वेन राजधर्मषु विशिष्योपादानम्।
यमः,
याचितोनेति न ब्रूयाद्दीक्षितो नानृतं वदेत्।
सङ्ग्रामे न निवर्त्तेत तं देवाः क्षत्रियं विदुः॥
दातायज्वा च शूरश्चदेवद्विजपरायणः।
समः सर्वेषु भूतेषु चिरं पालयते महीम्॥
तथा,
पर्जन्यमिव भूतानि महाद्रुममिवाण्डजाः।
भृत्या यमुपजीवन्ति स राजा शक्रलोकभाक्॥ इति।
कात्यायन,
शौर्यविद्यार्थबाहुल्यात्प्रभुत्वाच्च विशेषतः।
सदा चित्तं नरेन्द्राणां मोहमायाति कारणात्॥
तस्माच्चित्तं प्रवोद्धव्यं राजधर्मे सदा द्विजैः।
पवित्रं परमं पुण्यं स्मृतिवाक्यं न लङ्घयेत्॥इति।
द्विजैः, करणभूतैःराज्ञा स्वचित्तंराजधर्मे प्रवोद्धव्यम्।
गौतमः,
ब्राह्मणं च पुरोदधीत विद्याभिजनवाग्रूपवयः शीलसम्पन्नं न्यायवृत्तं तपस्विनं, तत्प्रसूतः कर्माणि कुर्वीत, ब्रह्मप्रसूतं हि क्षत्रमृद्ध्यते न व्यथत इति च विज्ञायते, यानि च दैवोत्पातचिन्तकाः प्रब्रूस्तान्याद्रियेत, तदधीनमप्येके योगक्षेमं प्रतिजानते, शान्तिपुण्याहस्वस्त्ययना युष्यङ्गलसंयुक्तान्याभ्युदयिकानि विद्वेषणसंवननाभिचारद्विषदवृद्धियुक्तानि च शालाग्नौ कुर्याद्य
क्तमृत्विजोऽन्यानि।इति।
पुरोदधीत, पुरोहितं कुर्यात्। सर्वेषु कर्मसुपुरोधीयत इति पुरोहितः। तत्प्रसूतः तदनुज्ञातः। तत्प्रसूत इन्यत्र तच्छब्दानुकर्षणीयत्वेन ब्राह्मणं निर्दिशति—ब्रह्मप्रसूतमिति। ब्रह्म, ब्राह्मणस्तेन प्रसूतं तदनुज्ञातम् ऋद्ध्यते समृद्धो भवति।
विज्ञायते, परम्परया दृश्यते। तदधीनं, दैवोत्पातचिन्तकैर्ज्योतिर्विद्भिर्यद्ग्रहवैकृतादौकर्तव्यतयोक्तं तस्यायत्तम्। योगक्षेममित्यत्र समाहारद्वन्द्वेन नपुंसकतैकवद्भावश्च। शान्तिसंयुक्तं, ग्रहशान्तिमहाशान्त्यादि। पुण्याहसंयुक्तं, दिनदोषनाशाय विवाहादौ क्रियमाणम्। स्वस्त्ययनसंयुक्तं, यात्रादौ क्रियमाणम्।आयुष्यसंयुक्तं, जन्मनक्षत्रादाबायुर्वृद्ध्यर्थं क्रियमाणं दुर्वाहोमादि। मङ्गलसंयुक्तं, गृहप्रवेशादौक्रियमाणं वास्तुहोमादि। एतान्यभ्युदयहेतुत्वादाभ्युदगिकानि।विद्वेषणं, येनास्य शत्रुः प्रकृतीनां द्वेष्यो भवति तत्। संवननं वशीकरणम्। द्विषदनृद्धिः,द्विषतां शत्रूणामनृद्धिःऋद्ध्यभावः। एतानि च राजा अर्थप्रदानादिसंविधानद्वारा कर्त्ता सन्, शालाग्रौकुर्यात्, पुरोहितद्वारा सम्पादयेत्। अत्रापस्तम्वेन “राज्ञस्तु विशेषान वक्ष्याम” इत्युपक्रम्प, वेश्म आवसथः सभा" इति त्रीणि स्थानान्यभिधायोक्तम्—
सर्वेष्वेवाजस्रमग्नयः स्युरग्निः प्रजा च नित्या यथा गृहमेध इति।
तेषामन्यतरोऽत्र शालाग्निर्नोपासनाग्निर्न त्रेताग्निः तयोर्गार्ह्येषु श्रौतेषु च नियतत्वात्।यथोक्तं, यथा श्रुतिस्मृत्या दिषूक्तम्।
विष्णुः
, गजा सर्वेषु कार्येषु सांवत्सरोधीनः स्यात्।
तथा
, शान्तिस्वस्त्ययनैर्दैवोपघा
तान प्रशमयेत्परचक्रोपघातांश्चशस्त्रनित्यतया वेदेतिहासधर्मशास्त्र-कुशलं कुलीनमव्यङ्गं तपस्विनं च पुरोहिनम्। इति।
शस्त्रनित्यतया शस्त्राभ्यासपरत्वेन।
पुरोहितं,
कुर्यादिति शेषः।
याज्ञवल्क्यः,
पुरोहितं च कुर्वीत देवज्ञमुदितोदितम्।
दण्डनीत्यां च कुशलमथर्वाङ्गिरसे तथा॥ इति।
महाभारते,
पुरोहितप्रधानो हि राजा हितमवाप्नुयात्।
सदाऽऽचरति यो धर्मंनृपो ब्राह्मणदेशितम्॥
तावता स कृतप्रज्ञश्चिरं यशसि तिष्ठति।
तस्य धर्मस्य सिद्धस्य भागी राज्ञः पुरोहितः॥इति।
ब्रह्मपुराणे,
द्वौ लक्षहोमौ कुर्वीत तथा संवत्सरं प्रति।
एकं च कोटिहोमं च यत्नात्सर्वाभयप्रदम्॥
अथर्ववेदविहितं समन्त्री सपुरोहितः।
नित्यान्याहार्यकाम्यानि तथा नैमित्तिकानि च॥
ग्रहणे सूर्यशशिनोर्भूकम्पोत्पातदर्शने।
तत्क्षणे च महाशान्तिः कर्त्तव्याऽनिष्टनाशिनी॥ इति।
याज्ञवल्क्यः,
श्रौतस्मार्त्तक्रियाहेतोर्वृणुयादृत्विजस्तथा।
यज्ञांश्चैव प्रकुर्वीत विधिवद्भूरिदक्षिणान्॥
भोगांश्च दद्याद्विप्रेभ्यो वसूनि विविधानि।
अक्षयोऽयं निधी राज्ञां यद्विप्रेषूपादितम्॥ इति।
राजेत्यनुवृत्तौ—
शङ्खलिखितौ
,
दद्याद्दानमर्चयित्वा ब्राह्मणाय, निमित्तपूर्वं शेषेभ्यः, कृपणातुरानाथव्यङ्गविधवावालवृद्धानौषधावसथाशनाच्छादनैर्विभृियात्। इति।
शेषेभ्यः क्षत्रियादिभ्यः।निमित्तपूर्वं सेवाद्युपाधिना।
राजधर्मेषु—
आपस्तम्बः
**,**भृत्यानामनुरोधेन क्षेत्रं वित्तं च ददद्ब्राह्मणेभ्यो यथार्हमनन्तान् लोकान् जयति। इति।
भृत्यानां,
राजरक्षणोपयुक्तानाममात्यानुजीविप्रभृतीनाम्। अनुरोधेन तद्वृत्यपीडनेन। यथार्ह, वृत्तशीलविद्याकुटुम्बादिकं विचार्य।
कात्यायनः,
वेदध्वनिप्रभावेन देवाः स्वर्गनिवासिनः।
तेऽपि तत्र प्रमोदन्ते तृप्तास्तु द्विजपूजनात्॥
तस्माद्यत्रेन कर्तव्या द्विजपूजा सदा नृपैः।
तेन भूयोऽपि शक्रत्वं नरेन्द्रत्वं पुनः पुनः॥ इति।
सत्कर्मणा शक्रत्वं प्राप्य पुण्यक्षयं पुनर्नरेन्द्रत्वं प्राप्नुयादितिशेषः। अत एवोक्तम्—
अनेनैव,
सुराध्यक्षश्च्युतः स्वर्गान्नृपरूपेण तिष्ठति।
कर्त्तव्यं तेन तन्नित्यं येन तत्त्वं समाप्नुयात्॥ इति।
तत्वं सुरेशत्वम्।यस्य राज्ञो राज्यं स्वयं प्राप्तं तत्प्रेतकृत्यं राजा कुर्यात्तन्मातापित्रादींश्चावश्यं विभृयात्। तदाह–
वसिष्ठः
, राजनि च दद्यात्प्रेते प्रासङ्गिकम्। अनेन मातापितृवृत्तिर्व्याख्याता, राजमहिषीपितृवृत्तिव्याता।राजमहिषीपितृव्यमातुलान् राजा बिभृयात्, तद्वधूश्च।अन्याश्च राजपत्नयो ग्रामाच्छादनं लभेरन्। अनिच्छन्त्यो वा व्रजेयुः। क्लीवोन्मत्तान् राजा विभृयात्तद्गामित्वादिकथस्य। इति।
अस्यार्थः
। राजनिप्रेतेमृते यः पुत्रातिरिक्तोऽपि राजा भवति, स प्रासङ्गिकं, मरणप्रसङ्गेनावश्यकं तच्छ्राद्धादि, कुर्यादित्यर्थः। यस्तु पितृमरणोत्तरं राजा भवति तं प्रति श्राद्धादिविधा-
नस्यानर्थक्यप्रसङ्गात, सामान्यत एव प्राप्तेः। अनेन, तच्छ्राद्धादिविधानेन। मातापितृवृत्तिः, मृतराज्ञो मातापित्रोर्भरणादिरूपा। व्याख्याता, अवश्यं कर्त्तव्येत्यर्थः। अन्याश्च राजपत्न्यः, तदवरोधवासिन्योऽविवाहिता अपि, एता ग्रामाच्छादनं लभेरन्निति, अनेन पृर्वोक्तनां भरणविधानं पूर्वराजकृ- ततद्वृत्त्यनुच्छेदपरम्। तत्रापि मातापित्रोर्यावती पूर्वराजकृता वृत्तिः सा सर्वापि दातव्या, राजमहिषीपितृव्यमातुलानां तु भरणं मानपुरःसरम्। अवश्यं तद्भरणीयजनपोषणं यथा भवतितथा विधेयम्। तदवरोधवासिनीनामन्यासांविवाहितानामविवाहितानां च ग्रामाच्छादनमात्रं दद्यात्, पृथक्पृथङनिर्देशान्। अत एव सर्वशेषे “तद्गामित्वाद्रिक्थस्य” इति हेतुपन्यासः। रिक्थस्य तत्तद्दायस्य तद्गामित्वात् नुतनराजगामित्वान्।क्लीवोन्मत्तान्। पूर्वराजान्तःपुरादावधिकृतान् क्लीवान्, उन्नादोऽसावधानता सा च रोगवयःप्रभृतिदोषकृता तद्युक्तत यापूर्वराजेनावश्यभृतान्।
आपस्तम्बः,
आवसथे वसंश्छोत्रियानतिथीन वासयेत्तेषांयथागुणमावसथाः शय्यान्नषानं च देयं गुरूनमात्यांश्च नातिजीवेत्। इति।
देयं, राज्ञेतिशेषः। नातिजीवेत्, अतिक्रम्यन जीवेत्। गुरूणाममात्यानां च जीविकां कृत्वैव स्वजीविकां कुर्यादित्यर्थः।
मनुः,
श्रोत्रियं व्याधितार्त्तौच वालवृद्धावकिञ्चनौ।
महाकुलीनमार्यं च राजा सम्पूजयेत्सदा॥ इति।
राजेन्यनुवृत्तौगौतमः,
विभृयाद्ब्राह्मणांश्छ्रोत्रियान्निरुत्साहांश्चाब्राह्मणानकरांश्चो-
पकुर्वाणांश्च।इति।
निरुत्साहान्, कर्तव्यार्थेस्थिरः प्रयत्न उत्साहस्तद्रहितान्, अलसानितियावत्।अब्राह्मणान्, ब्राह्मणातिरिक्तान् क्षत्रियार्दान्। अथ वा अब्राह्मणान् श्रोत्रियत्वादिगुणहितान् ब्राह्मणान्।अकरान्, येभ्यः करो न गृह्यते, किन्तु मासि मास्येकैकदिनं कर्म कार्यते तादृशान् शिल्प्यादीन्। अत एव–
मनुः,
यस्य राज्ञस्तु विषये ब्राह्मणः सीदति क्षुधा।
तस्यापि तत्क्षुधा राष्ट्रमचिरेणैव सीदति॥
श्रुतवृत्तेविदित्वास्य वृत्तिं धर्म्याौप्रकल्पयेत्।
संरक्षेत्नवेतश्चैनं पिता पुत्रमिवौरसम्॥
संरक्षमाणोराज्ञा यं कुरुते धर्ममन्वहम्।
तेनायुर्वर्द्धतेराज्ञोद्रविणं राष्ट्रमेव च॥ इति।
अत्र हि मनुवाक्ये–“ब्राह्मणः सीदति क्षुधा” इति प्रथममुपक्रम्य “श्रुतवृत्तं विदित्वास्य” इत्यनेन श्रोत्रियस्यैवावव्यभरणीयत्वमुपसंहृतम्। तदेकमूलकतया गौतमवाक्येऽपि श्रोत्रियस्यावश्यभरणीयत्वमुक्त्वा तदतिरिक्तस्य जातिमावब्राह्मणस्य भरणे निरुत्साहत्वं हेतुत्वेनोपन्यस्तं वेदितव्यम्।
शङ्खलिखितौ,
राजन्यवैश्यावष्यजीवन्तौराजानमुपतिष्ठेयातां तावुभौ शक्तिनः संविभक्तानुपकुर्यानां स्वस्वधर्मानुष्ठानेन शिल्पिनः कारवश्चशूद्राः। इति।
अज़ीवन्तौ, स्वस्ववृत्त्याजीविकामलभमानौ। एतद्वाक्येऽपि–संविभक्तौकृतजीविकौ, तावुभौ राजन्यवैश्यौ, राज्ञः शक्तितो यथासामर्थ्य- मुपकुर्याताम् अपिशब्दात् शिल्प्यादयः शूद्रा अपि जीविकामलभमाना राज्ञा कृतसंविभागाः, स्वम्वध-
र्मानुष्ठानेन राज्ञ उपकुर्युरित्युक्तम्। तथा चोपकुर्वतामेव क्षत्रियादीनां त्रयाणां वर्णानां राज्ञोऽवश्यभरणीयत्वं, न त्वनुपकुर्वताम्। पूर्वोदाहृत गौतमवाक्ये निरुत्साहांश्च ब्राह्मणानित्यनेनानुपकुर्वतामपि जातिमात्रब्राह्मणानामवश्यभरणीयत्वे निरुत्साहत्वं हेतुरूपन्यस्तः। अन्यथा हि अनुपकुर्वतामपि स्वराष्ट्रवर्त्तिनां सर्वेषामवश्यभरणीयत्वेनैतेषामभरणे राज्ञो महान् दोषोऽशक्यानुष्ठानता च स्यात्।
हरदत्तस्तु
पूर्वोदाहृतं गौतमवाक्यमेवं व्याख्यातवान्। विभुयात् श्रोत्रियान् ब्राह्मणान्, श्रोत्रिया अधीतवेदाः तान्, ब्राह्मणानन्नादिदानेन बिभृयात्। निरुत्साहांश्चाब्राह्मणान्, जीवनार्थं यत्नं कर्तुमसमर्थान् अब्राह्मणान् क्षत्रियादीनपि विभृयात्, किं पुनब्राह्मणान्। पूर्वसूत्रे तु अर्जने समर्थानपि श्रोत्रियान् स्वयमाहूय विभृयादिति। अकरांश्च, येभ्यःपूर्वैःकरो न गृहीतस्तान् अकरान् बिभृयात्, तेभ्यः स्वयं करं नोत्पादयेत्।उपकुर्वाणांश्च, अधीयाना ब्रह्मचारिण उपकुर्वाणास्तांश्च बिभृयादन्नादिदानेन, यद्यर्थिनः, स्वयञ्जीवनवतश्चकरादिव्यावर्त्तनेन। उपकुर्वाणा, लोकोपकारिणो वैद्यादय इति केचित्।
यमः,
अभेद्यमच्छेद्यमनादिमक्षयं निधिं पुराणं पालयन्ति ये।
महीपतिस्तानभिपूज्य वै द्विजान् भवेदज्ञेयो दिवि देवराडिव॥
पुराणं निधिं, वेदरूपम्।
शक्यं हि कवचं भेत्तुं नाराचेन शरेण वा।
अपि वज्रसहस्रेण ब्राह्मणाशीःसुदुर्भिदा॥ इति।
तथा,
पूर्वरात्रान्तरात्रेषु द्विजा यस्य ह्यधीयते।
स राजा सह राष्ट्रेण वर्द्धते ब्रह्मतेजसा॥
राजा यत्कुरुते पापं प्रमादात्सह तेन च।
वसन्तो ब्राह्मणा राष्ट्रे जप्येनशमयन्ति तत्॥
ब्राह्मणान् पूजयेन्नित्यं प्रातरुत्वाय भूमिपः।
ब्राह्मणानां प्रसादेन वसन्ति दिवि देवताः॥
यदरुच्या हरन्त्येते शुभं वा यदि वाऽशुभम्।
तत्तथा नान्यथा कुर्याद्ब्राह्मणा ह्यत्र कारणम्॥इति।
मनुः,
नाब्रह्म क्षेत्रमूध्नोति9नाक्षत्रं ब्रह्म वर्द्धते।
ब्रह्म क्षत्रेण संयुक्तमिह चामुत्र वर्द्धते॥इति।
यमः,
राजा वृक्षो ब्राह्मणास्तस्य मूलं पौराःपर्णं मन्त्रिणस्तस्य शाखाः।
तस्माद्राज्ञाब्राह्मणा रक्षणीया मूले गुप्ते नास्ति वृक्षस्य नाशः॥
आसन्नं हि दहत्यग्निर्दूरादृहति ब्राह्मणः।
प्ररोहत्यग्निना दग्धंब्रह्मदग्धं न रोहति॥
ब्राह्मणानां च शापेन सर्वभक्षोहुताशनः।
समुद्रश्चाप्यपेयश्च विफलस्तु पुरन्दरः॥
विफलःवृषणरहितः।
चन्द्रमा राजयक्ष्मी च पृथिव्यामूपराणि च।
वनस्पतीनां निर्यासो दानवानां पराजयः॥
अनन्तान्येव तेजांसि ब्राह्मणानां महात्मनाम्।
तस्माद्विप्रेषु नृपतिःप्रणमेन्नियमेन च॥ इति।
महाभारते,
अष्टौपूर्वनिमित्तानि नरस्य विरमिष्यतः।
ब्राह्मणान प्रथमं द्वेष्टिब्राह्मणांश्च विरुद्ध्यते॥
ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति।
रमते निन्दया चैषां प्रशंसां नाभिनन्दति॥
नैतान् स्मरति कृत्येषु याचितश्चाभ्यसूयति।
एतान् दोषान्नरः प्राज्ञो बुद्ध्या बुद्धा विवर्ज्जयेत्॥
तथा तत्रैव भीष्मवाक्यम्—
एतद्राज्ञः कृत्यतममभिषिक्तस्य भारत।
ब्राह्मणानामनुज्ञातमत्यन्तं सुखमिच्छता॥
कर्तव्यं पार्थिवेनेह तद्विद्धि भरतर्षभ।
श्रोत्रियान् स्नातकान् वृद्धान्नित्यमेवाभिपूजयेत्।
पौरजानपदांश्चापि ब्राह्मणांश्च बहुश्रुतान्।
सान्त्वेन भोगदानेन नमस्कारैस्तथेज्यया॥
एतत्कृत्यतमं राज्ञां नित्यमेवाभिलक्षयेत्।
यथात्मानं यथा पुत्रांस्तथैतान् परिपालयेत्॥
ये चाप्येषां पूज्यतमास्तान्नृपः प्रतिपूजयेत्।
तेषु शान्तेषु तद्राष्टंसर्वमेव विराजते॥इति।
राज्ञां खड्गादिषुदेवीपूजनमावश्यकं सर्वदा कर्तव्यत्वेनोक्तम्—
देवीपुराणे,
नामभेदेन सा भिन्ना अभिन्ना परमार्थतः।
शिवा नारायणी गौरी चर्चिका विमला उमा॥
सा वन्द्या पूजनीया च सततं तत्प्रभावितैः।
विजयार्थंनृपैः खड्गे छुरिकापादुके पटे॥
चामुण्डां चित्ररूपां च लिखितां चाथ पुस्तके।
ध्वजे वा कारयच्छत्रे स नृपो विजयेद्रिपून्॥ इति॥
कार्तिकेयपूजापि सर्वदा कर्त्तव्यत्वेन, विशेषतश्च रणे प्र-
स्थितस्य राज्ञ आवश्यकत्वेनोक्ता
भविष्यपुराणे—
राज्ञां पूज्यःसदा प्रोक्तः कार्तिकेयो महीपते॥
कार्तिकेयादृते राज्ञां नान्यं पूज्यं प्रचक्षते॥
सङ्ग्रामे गच्छमानो यःपूजयेत्कृत्तिकासुतम्॥
स शत्रूञ्जयते वीरो यथेन्द्रो दानवान् रणे॥
तस्मात्सर्वप्रयत्नेन पूजयेच्छङ्करात्मजम्॥
पूजयानस्तु तं भक्त्या चम्पकैर्विविधैर्नृप॥
मुच्यते सर्वपापेभ्यः सद्योगच्छेच्छिवालयम्॥
नान्यं पूज्यमित्यनेन कार्तिकेयपूजाविधानस्यावश्यकत्वम्, न त्वन्यदेवतापूजानिषेधः॥ उदाहृतदेवीपुराणवचनेन देवीपूजायाः, कर्मपुराणा - दौशिवविष्ण्वादिदेवतापूजाया अपि राजकर्तृकत्वेन विशिष्याभिधानात्॥
राजेत्यनुवृत्तौ अन्यदपि कर्तव्यत्वेनोक्तं
ब्रह्मपुराणे—
नित्यं सन्निहितान् देवान्मुनीन् नागांश्चपूजयेत्।
पिशाचेभ्यो बलिं दद्यात्सन्ध्याकाले च नित्यशः॥ इति॥
उक्तवृत्तस्य राज्ञः फलमाह
मनुः—
एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवनः॥
विस्तार्यते यशो लोके तैलबिन्दुरिवाम्भसि॥ इति॥
कात्यायनोऽपि—
आत्मीये संस्थिता धर्मे नृपाः शक्रत्वमाप्नुयुः॥
अवीचिवासिनो ये तु व्यपेताचारिणः सदा॥
ये तु व्यपेताचारिणः त्यक्तवर्णाश्रमधर्मास्ते सदा बहुकालपर्यन्तमवीचिनामकनरकवासिनः॥
गच्छेत्सम्यगविज्ञाय वशं क्रोधस्य यो नृपः।
बसेत्स नरके घोरे कल्पान्तं तु न संशयः॥
सम्यगविज्ञाय, स्वक्रोधानिमित्तं परापराधमनिर्णीय।
कर्त्तव्यान्तरमप्युक्तं गरुडपुराणे—
मनस्तापं न कुर्वीत आपदं प्राप्य पार्थिवः।
समबुद्धिः प्रसन्नात्मा सुखदुःखसमो भवेत्॥
वीराः कष्टमनुप्राप्ता न भवन्ति विषादिताः।
प्रविश्य वदनं राहोर्विनोदति पुनः शशी॥
तथा,
कारणेन विना भृत्ये यस्तु कुप्यति पार्थिवः।
स गृह्णाति विषोन्मादं कृष्णसर्पेण दंशितः॥
तथा,
लीलां करोति यो राजा भृत्ये सज्जनगर्विते।
स वादे विग्रहे क्षिप्रं रिपुभिः परिभूयते॥
लीलां क्रीडाम्। वादे, वाक्कलहे।विग्रहे, शस्त्रसाध्ये सङ्ग्रामे।
तथा,
तुल्यार्थं तुल्यसम्बन्धं मर्मज्ञं व्यवसायिनम्॥
अर्द्धराज्यहरं भृत्यं यो न हन्यात्स हन्यते। इति
इति राज्ञो विहितधर्माः।
अथ राज्ञः प्रतिषिद्धा धर्माः,
मत्स्यपुराणविष्णुधर्मोत्तरयोः,
मृगयां पानमक्षांश्च वर्जयेत्पृथिवीपतिः।
एतान्यासेवमानास्तु विनष्टाः पृथिवीक्षितः॥
बहवो नृपशार्दूल सङ्ख्या येषां न विद्यते।
दिवास्वप्नंवृथाऽट्यां च विशेषेण विवर्ज्जयेत्॥
वृथाऽट्या, वृथाऽटनम्।
बाक्पारुष्यं न कर्त्तव्यं दण्डपारुष्यमेव च॥
परोक्षनिन्दा च तथा वर्जनीया महीक्षिता॥
अर्थस्य दूषणं राजा द्विप्रकारं विवर्जयेत्।
अर्थानां दूषणं चैकं तथाऽर्थेन च दूषणम्॥
प्राकाराणां समुच्छेदो दुर्गादीनामसत्क्रिया।
अर्थानां दूषणं प्रोक्तं विप्रकीर्णत्वमेव च॥
अदेशकाले यद्दानमपात्रे दानमेव च।
अर्थन दूषणं प्रोक्तमसत्कर्मप्रवर्त्तनम्॥
तथा,
न राज्ञा मृदुना भाव्यं मृदुर्हि परिभूयते।
न भाव्यं दारुणेनातितीक्ष्णादुद्विजते जनः॥
काले मृदुर्यो भवति काले भवति दारुणः।
राजा लोकं दयाऽपेक्षी तस्य लोकद्वयं भवेत्॥
भृत्यैःसह महीपालः परिहासं विवर्जयेत्।
भृत्याः परिभवन्तीह नृपं हर्षुकसङ्कथम्॥
व्यसनानि च सर्वाणि भूपतिः परिवर्जयेत्।
लोकसङ्घहणार्थाय मृतकव्यसनी भवेत्॥
शौण्डीरस्य नरेन्द्रस्य नित्यमुद्रिक्तचेतसः।
जना विरागमायान्ति सदा दुःसेव्यभाविताः॥
व्यसनानि, पुरुषार्थविक्षेपकाणि मृगयादीनि।
तान्याह मनुः—
मृगयाऽक्षा दिवास्वापः परिवादः स्त्रियो मदः।
तौर्यत्रिकं वृथाऽट्यच कामजो दशको गणः॥
तौर्यत्रिकं नृत्यगीतवाद्यानि। एतन्त्रिकमादाय दश कामजानि व्यसनानि।
पैशुन्यं साहसं द्रोह ईर्ष्याऽसूयाऽर्थदूषणम्।
वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः॥
वाक्पारुष्यं दण्डजं च पारुष्यमादायाष्टविधत्वं द्रष्टव्यम्।
द्वयोरप्येतयोर्मूलं यंपूर्वे कवयो विदुः।
तं यत्नेन जयेल्लोभं तज्जये तावुभौ गणौ॥
दश कामसमुत्थानि तथाऽष्टौक्रोधजानि च।
व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत्॥
कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः।
वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु॥
आत्मनैवत्रियुज्यते, मरणमापद्यत इत्यर्थः।
तत्र सप्त कंष्टतमानि।
यथाऽऽह मनुः—
पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम्।
एतत्कष्टतमं विद्याच्चतुष्कं कामजे गणे।
दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे।
क्रोधजेऽपि गणे विद्यात्कष्टमेतन्त्रिकं सदा॥
सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः।
पूर्वपूर्वं गुरुतरं विद्याद्व्यसनमात्मनः॥
परिवादः, परदोषकथनम्।वृथाऽट्या, वृथाऽटनम्।पैशुन्यम्, अनभिव्यक्तदोषाविष्करणम्। साहसम्, साधोर्बन्धनादिनिग्रहः। द्रोहः, ब्रह्मवधः। ईर्ष्या, परगुणासहिष्णुता। परगुणेषु दोषाविष्करणमसूया।अर्थदूषणम्, अर्थापहारो देयानामदानं च।वा-
क्पारुण्यम्, आक्रोशादि। दण्डपारुष्यम्, अल्पापराधेऽपि बहुलार्थग्रहणं, शारीरदण्डो वा।
व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते।
व्यसन्यधोऽधोव्रजति स्वर्यात्यव्यसनी मृतः॥
अधोऽधो व्रजति, नरकं प्रतिपद्यत इत्यर्थः। नरकाणां पाताल एव वर्णितत्वात्।
विष्णुधर्मोत्तरे—
न गाहेज्जनसम्बाधं न चाज्ञातं जलाशयम्।
नापरीक्षितपूर्वं तु पुरुषैराप्तकारिभिः॥
नारोहेत्कुञ्जरं व्यालं नादान्तं तुरगं तथा।
व्यालम्, दुष्टम्।
नाविज्ञातां स्त्रियं गच्छेन्नैव चाशुष्कवाससम्।
अशुष्कवाससम्, आर्द्रावाससं, रजस्वलामित्यर्थः।
तथा,
नारोहेद्विषमां नावं नापरीक्षितनाविकाम्।
तथा,
देवतासु न वोच्छिन्द्यात्पूर्वदायान् कथञ्चन।
प्राक्स्थितं च न चोच्छिन्द्यान्न चोच्छिन्द्यांतथा जनात्॥
उच्छेत्ता नरकं याति सह पूर्वैः पितामहैः।
अपि स्वल्पं न हर्त्तव्यं देवद्रव्यं विजानता॥
स्वल्पस्यापि फलं घोरं यस्माज्जन्मान्तरे भवेत्।
षष्टिर्वर्षसहस्राणि षष्टिर्वर्षशतानि च॥
देवद्रव्यापहरणान्नरकं प्रतिपद्यते।
सन्तीह देवताः सौम्याः सन्त्युग्राश्चापि भारत॥
दर्शयन्ति रुषं सौम्याः राज्यभ्रंशादिभिर्नृणाम्।
अस्मिंल्लोके रुषं क्रूरा नैव कुर्वन्ति देवताः॥
तासां वित्तापहरणाद्राजा नरकमृच्छति।
पूर्वैः पितामहैःसार्द्धं प्रागुक्तं कालमेव तु॥
देवव्यापहरणं नैव जातु भवेद् वृथा।
सर्वस्वरहितान् कृत्वा देवद्रव्यापहारिणः॥
अङ्कयित्वा द्विजश्रेष्ठ स्वराष्ट्राद्विप्रवासयेत्।
त्रैविद्या वाणिजो वैश्या लिङ्गिनो देवपालकाः॥
तथा तत्प्रतिबद्धाश्च न कुर्युः कलहं मिथः।
तेषां तन्नायकः स्वामी निग्रहानुग्रहे भवेत्॥
रागद्वेषवियुक्तस्तु विवास्यश्चान्यथा भवेत्।
तथा तत्रैव,
ब्रह्मस्वं नैव चाऽऽदद्याद्ब्रह्मस्त्रं पालयेत्तथा।
ब्रह्मस्वहरणाद्राम नरके पच्यते नरः॥
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुत्त्यते।
विषमेकाकिनं हन्ति ब्रह्मस्वंसप्त पुरुषान्॥
ब्रह्मस्वं प्रणयाद् भुक्तं हिनस्त्यासप्तमं कुलम्।
द्रोहाद्भुक्तं तदेवेह कुलानां पातयेच्छतम्॥
सुवर्णमेकं गामेकां भूमेरप्येकमङ्गुलम्।
हरन्नरकमाप्नोति यावदाभूतसम्प्लवम्॥
अत्र सुवर्णशब्दः परिमाणविशिष्टसुवर्णवचनः।
दृष्ट्वाऽविद्यंदुराचारं ब्राह्मणं न द्विषेत्क्वचित्॥
ब्राह्मणानां परीवादान्नाशमाप्नोति मानवः।
न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम्॥
नैवास्ति ब्राह्मणवधात्पापं गुरुतरं क्वचित्।
ब्रह्महा नरकं याति यावदाभूतसम्प्लवम्॥
वर्षाणामयुतं राम पच्यते चावगूरिते।
शोणितं यावतः पांसून सङ्गृह्णाति द्विजन्मनाम्॥
क्षतात्तावन्ति वर्षाणि क्षतकुन्नरके वसेत्।
उपद्रुतो द्विजो येन त्यजेज्जीवितमात्मनः॥
ब्रह्महत्या भवेत्तस्य नात्र कार्या विचारणा।इति।
विष्णुः—
स्वदत्तां परदत्तां च भुवं नापहरेद्ब्राह्मणेभ्यः। इति।
मनुः—
परामप्यापदंप्रातो ब्राह्मणं न प्रकोपयेत्।
परामपि, कोषक्षयेण बलवद्राजविरोधेन चोत्कृष्टाम्, आपदं प्राप्तो राजा ब्राह्मणं न प्रकोपयेत्। तदीयधनाऽऽदानेन तदवगणनया वा तन्मन्युं नोत्पादयेत्।
ते नं कुपिता हन्युः सद्यः सबलवाहनम्॥
यैः कृतः सर्वभक्षोऽग्निरपेयश्च महोदधिः।
क्षयी चाप्यायितः सोमः को न नश्येत्प्रकोप्य तान्॥
लोकानलोकान् कुर्युस्ते लोकपालांश्च कोपिताः।
देवान् कुर्युरदेवांश्च कः क्षिण्वंस्तान् समृध्नुयात्॥
यान्समाश्रित्य तिष्ठन्ति देवा लोकाश्च सर्वदा।
ब्रह्मैव च धनं येषां को हिंस्यात्तान् जिजीविषुः॥
प्रणीतश्चाप्रणीतश्च यथाऽग्निर्दैवतं महत्।
एवं विद्वानविद्वांश्च ब्राह्मणोदैवतं महत्॥
श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति।
हूयमानश्च यज्ञेषु भूय एवाभिपूज्यते॥
एवं यद्यप्यनिष्टेषु वर्तते सर्वकर्मसु।
सर्वथा ब्राह्मणः पूज्यो दैवतं परमं हि तत्॥
क्षत्रस्यापि प्रवृद्धस्य ब्राह्मणान् प्रति सर्वशः।
ब्रह्मैव संनियन्तृस्यात् क्षत्रं हि ब्रह्मसम्भवम्॥
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्।
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति॥
“परामप्यापदं प्राप्त” इत्यस्य निषेधस्य “ते ह्येनं कुपिता हन्युः” इत्यारभ्य “स्वासु योनिषु शाम्यति” इत्यन्तः सर्वोऽयमर्थवादः। ब्रह्मैव च धनं येषामिति। ब्रह्मैव वेद एव येषां ब्राह्मणानाम् अभ्युदयसाधनतया याजनाध्यापनादिना धनार्जनोपायत्वेन धनम् अवश्यापेक्षितम- वश्यरक्षणीयं च, तान् ब्राह्मणान् जिजीविषुर्जीवितुमिच्छन् को हिंस्यात्पीडयेत्। अपराधिनोऽपि ब्राह्मणस्य दण्डनिवृत्त्यर्थं स्तुतिरियम्।
मनुः—
द्यूतं समाहयं चैव राजा राष्ट्रान्निवारयेत्।
राज्यान्तकरणावेतौद्वौ दोषौपृथिवीक्षिताम्॥
प्रकाशमेतत्तास्कर्यं यद्देवनसमाह्वयौ।
तयोर्नित्यं प्रतीघाते नृपतिर्यत्नवान् भवेत्॥
अप्राणिभिर्यष्क्रियते तल्लोके द्यूतमुच्यते।
प्राणिभिः क्रियते यस्तु स विज्ञेयः समाह्वयः॥
द्यूतं समाह्वयं चैव यः कुर्यात्कारयेत वा।
तान् सर्वान् घातयेद्राजा शूद्रांश्चद्विजलिङ्गिनः॥
कितवान् कुशीलवान् चौरान् पाखण्डस्थांश्च मानवान्।
विकर्मस्थान् शौण्डिकांश्च क्षिप्रं निर्वासयेत्पुरात्॥
एते राष्ट्रे वर्तमाना राज्ञः प्रच्छन्नतस्कराः।
विकर्मक्रियया नित्यं बाघन्ते भाद्रिकाः प्रजाः।
द्यूतमेतत्पुराकल्पे दृष्टं बैरकरं महत्॥
तस्मात् द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान्।
प्रच्छन्नंवा प्रकाशं वा तन्निषेवेत यो नरः॥
तस्य दण्डाविकल्पः स्याद्यथेष्टं नृपतेस्तथा।
देवनसमाह्वयावित्यत्र देवनं द्यूतं च पर्यायौ। अप्राणिभिः, अक्षशलाकादिभिः। प्राणिभिः, मेषकुक्कुटादिभिः। तत्रापि पणपूर्वं यत्क्रियते तदेव द्यूतं समाह्वयश्च अपणपूर्वके तु न द्यूतसमाह्वयशब्दौप्रवर्तेते। लोके तयोः क्रीडाशब्देनैव व्यवहारात्। अत एव तयोर्लोकेविगानाभावः। कुर्यात्कारयीत बेत्यत्र यः कितवो द्यूतसमाहयौ कुर्यात्, यश्च सभिकः कारयीत, तान् सर्वान् राजा अपराधमपेक्ष्य घातयीत हस्तच्छेदादिना योजयीतेति वाक्यार्थः। द्विजलिङ्गिनः, यज्ञोपवीततिलकादिब्राह्मणचिह्नधारिणः। यथेष्टम् अपराथमपेक्ष्य राज्ञो यथा इच्छा भवति शारीरे दण्डे, द्रव्यग्रहणरूपे वा दण्डे, तथा स्यात्, स धर्म इत्यर्थः।
इति राज्ञो निषिद्धा धर्माः।
अथाभिषिक्तस्य राज्ञो दिनकृत्यम्।
विष्णुधर्मोत्तरे—
राम उवाच।
अजस्रं कर्म मे ब्रूहि राज्ञो राजीवलोचन।
यच्च कार्यं नरेन्द्राणां तथा च प्रतिवासस्म्॥
पुष्कर उवाच।
द्विमुहूर्त्तावशेषायां रात्रौनिद्रां त्यजेद् बुधः।
वेणुवीणामृदङ्गानां पटहानां च निस्वनैः॥
वन्दिनां निस्वनैश्चैव तथा मङ्गलवादिनाम्। इति।
तथा च शङ्खलिखितौ—
राज्ञः शङ्खपटहतूर्येण प्रस्वापोत्थानम्। इति।
तथा याज्ञवल्क्यः—
संविशत्तूर्यघोषेण प्रतिबुद्ध्येत्तथैव च।
शास्त्राणि चिन्तयेद् बुध्या सर्वकर्तव्यतां तथा॥
प्रेषयेत ततश्चारान् स्वेष्वन्येषु च सादरम्। इति।
तूर्यघोषेण, वेणुवीणामृदङ्गादिशब्देन।संविशेत्, स्वापार्थेगृहे प्रविशेत्। तथैव ब्राह्मे मुहूर्ते उत्थाय श्रुतिस्मृतिवचांसि तदर्थावगमोपायांश्च सर्वकार्याणि च चिन्तयेत्। चारान्, वणिग्वैद्यपरिव्राजकबौद्धदिगम्बरादिरूपधारिणो निगूढान् परचेष्टाबेदिनः।स्वेषु, स्वसामन्तादिषु।परेषु, मित्रादिमहीपतिषु।प्रेषयेत, तच्चिकीर्पितज्ञानाय।
वृद्धवसिष्ठोऽपि—
त्यक्तनिद्रोदयात्पूर्वं चिन्तयेदात्मनो हितम्।
गीततूर्यरवैःसार्द्धं निजेच्छातो नृपोत्तमः॥
त्यक्तनिद्र उदयादिति वक्तव्ये छान्दसः सन्धिः।
विष्णुधर्मोत्तरे—
ततः पश्येन्महीपालो गूढांश्च पुरुषान्निशि।
विज्ञायन्ते न ये लोके तदीया इति केन चित्॥
निशि, रात्रिशेषे।
आयव्ययस्य श्रवणं ततः कार्यं यथाविधि।
तथा याज्ञवल्क्यः—
कृतरक्षः समुत्थाय पश्येदायव्ययौ स्वयम्।
व्यवहारांस्ततो दृष्ट्वा स्नात्वा भुञ्जीत कामतः॥
कृतरक्षः, पुरस्यात्मनश्च रक्षां विधाय प्रतिदिनं प्रातरुत्थायाधिकृतैः क्रियमाणावायव्ययौ स्वयमेव पश्येत्। स्वयंग्रहणमादरार्थम्।स्नानं सकलमाध्याह्निकोपलक्षणम्।कामतः, यथारूचि।
मनुः—
अहन्यहन्यवेक्षेत कर्मान्तान् वाहनानि च।
आयव्ययौ च नियतावाकरान् कोशमेव च॥
वृद्धवसिष्ठः—
मौनी मृत्रपुरीषे तु ततः कुर्यादुदङ्मुखः।
मनुः—
उत्थाय पश्चिमे यामे कृतशौचः समाहितः।
हुत्वाग्निं ब्राह्मणांश्चार्च्य प्रविशेत्तु सभां शुभाम्॥
स्मृत्यन्तरेऽपि—
प्रातरुत्थाय नृपतिः कुर्याद्दन्तस्य धावनम्।
स्नानशाला समागत्य स्नात्वा पूतेन वारिणा॥
अर्घंदत्त्वा तु देवाय भास्कराय समाहितः।
ततोऽलङ्कृतगात्रः सन् वकमालोक्य मन्त्रवत्।
घृतपात्रं तु विप्राय दद्यात्सकनकं नृपः॥
मन्त्रस्त्वग्रे वक्ष्यते।मुखावलोकनं चार्थाद् घृत एव।
विष्णुधर्मोत्तरे—
वेगोत्सर्गे ततः कृत्वा राजा स्नानगृहं व्रजेत्।
दत्ताभ्यङ्गःप्रदोषे तु कल्यमुत्सादिनस्ततः॥
वेगाः, मूत्रपुरीषादयः। कल्यम्, प्रातः। उत्सादितः, कृतोद्वर्तनः।
स्नानं कुर्यात्ततः पश्चाद्दन्तधावनपूर्वकम्।
औषधैर्मन्त्रपूतैस्तु पानीयैर्विविधैः शुभैः॥
सन्ध्यामुपास्य प्रयतः कृतजप्यः समाहितः।
अग्न्यगारं प्रविश्याथ बह्नीन् पश्येत्पुरोधसा॥
हुतान्सम्यक्ततः कुर्याद्वासुदेवस्य चार्चनम्।
दुःस्वप्नशमनं कर्म तस्य कुर्यात्पुरोहितः॥
स्वयं चोपसदे वह्नौपवित्रान् जुहुयान्नृपः।
तर्पयेदुदकैर्देवान् पितॄनथ यथाविधि।
दद्यात् द्विजातये धेनुं सवस्त्रांच सकाञ्चनाम्॥
शक्त्या धनैःपूजयित्वा दत्ताशीःसततं द्विजैः।
अनुलिप्तस्ततः स्रग्वी सुवासाश्चाप्यलङ्कृतः॥
दर्पणे च मुखं पश्यत्मसुवर्णे च सर्पिषि।
आज्यं प्रसन्नंसुरभि यदि स्याद्विजयो भवेत्॥
दीयमाने च दुर्भेदे पतिते च भयं भवेत्।
विकृतं चेन्मुखं पश्येद्राजा मृत्युमवाप्नुयात्॥
सुप्रभं च यदा पश्येत्तदा तस्य शुभं भवेत्।
तथा,
यस्तु कल्पं समुत्थाय मुखमाज्येनिरीक्षते।
तस्यालक्ष्मीः क्षयं याति बर्द्धते तेजसा श्रिया॥
ततश्च शृणुयाद्राजा सांबत्सरमूखोद्गतम्।
दिवसं तिथिनक्षत्रं सर्वाशुभविनाशनम्॥
भिषजां चबचः कुर्यात्तेजस्त्वारोग्यवर्द्धनम्।
मङ्गलालम्भनं कृत्वा ततः पश्येद् गुरून्नृपः॥
कृताशीर्गुरुभिः पश्चाद्राजा गच्छेत्सभां ततः।
आथर्वणपरिशिष्टे
तु घृतावेक्षणस्य कश्चित्प्रकारविशेषोऽप्युक्तः। स यथा—
अथ घृतावेक्षणं वक्ष्यामः, प्रातः शङ्खदुन्दुभिनादेन ब्रह्मघोषेण वा प्रतिबोधेत राजा। शयनगृहादुत्थाय राजाऽपराजितां दिशमभिनिष्क्रम्य जयेत्। अथ पुरोहितः स्नातोऽनुलिप्तः शुचिः शुक्लवासा घृतमङ्गलसहितः सोष्णीषी शान्तिगृहं प्रविश्य तेन स्वस्तिवाचनादनुज्ञातो विनीतवदुपविशेत्। ‘यमस्य लोका’, ‘यथाकलं यो न जीवोऽसि’ इति स्वस्त्ययनं कृत्वोल्लिख्याभ्युक्ष्य, परिस्तीर्य, शन्तातीयेन तिलान् घृताक्तान् हुत्वा, सौवर्णं राजतमौदुम्बरं वा पात्रं घृतपूर्णं सहिरण्यं ‘घृतस्य जूतिः’, ‘सहस्रशृङ्गः’, ‘यमस्य लोका’, ‘उरु विष्णो विक्रमस्व’ इत्यभिमन्त्र्य, ‘आज्यं तेज’ इति तदालभेत्।
आज्यं तेजः समुद्दिष्टमाज्यं पापहरं परम्।
आज्येन देवास्तृप्यन्ति आज्ये लोकाःप्रतिष्ठिताः॥
भौमान्तरिक्षदिव्यं च यन्मे किल्बिषमागतम्।
सर्वेतदाज्यसंस्पर्शात्मणाशमुपगच्छतु॥ इति।
तस्मिन् घृतपात्रस्थमात्मानं पश्येत्।राजेतिशेषः। दध्ना शिरोहृदयमन्वालभ्य जपेत्। ‘उच्चापतन्तम्’ इति द्वाभ्याम्। ‘सूर्यस्यावृत्तम्’ इति प्रदक्षिणमावृर्त्त्य शेषं कारयेत्। अत्र श्लोकाः।
अयं घृतावेक्षणस्य प्रोक्तो बिधिरथर्वणा।
उपास्यो नित्यकालं तु राज्ञाविजयकाङ्क्षिणा॥
एतत्समाहृतं सर्वं प्रयतस्तु समाहितः।
राजा विजयते राष्ट्रं नश्यन्ते तत्र शत्रवः॥
द्विजोत्तमाय कपिलां राजा दद्यातु गां शुभाम्।
गुरुणा याचिंतो यस्माद्दीर्घमायुरवाप्नुयात्॥
आयुष्यमथ वर्चस्यं सौभाग्यं शत्रुनाशनम्।
दुःस्वप्ननाशनं पुण्यं घृतस्यावेक्षणं स्मृतम्॥ इति।
इति आथर्वणपरिशिष्टोक्तं घृतावेक्षणम्।
ब्रह्मपुराणे—
नित्यं राज्ञा समुत्याय पूजनीयाःसुरद्विजाः।
वह्निसम्पूजनं कार्यं द्रष्टव्यं चन्दनं घृतम्॥
श्रोतव्ये तिथिनक्षत्रे कर्त्तव्यं वैद्यभाषितम्। इति।
याज्ञवल्क्यः—
ऋत्विक्पुरोहिताचार्यैराशीर्भिरभिनन्दितः।
दृष्ट्वा ज्योतिर्विदो वैद्यान् दद्याद्गाःकाञ्चनं महीम्॥
नैवेशिकानि च तथा श्रोत्रियाणां गृहाणि च।
दृष्ट्वा, तदधीनं कार्यजातं च विचार्य।गाः, दोग्ध्रीः। नैवेशिकानि, विवाहोपयोगीनि कन्यालङ्करणादीनि। गृहाणि च श्रोत्रियेभ्यो वेदविद्भ्यो दद्यात्।
शङ्खलिखितौ–
राज्ञः प्रत्यहं घृतान्वीक्षणं मङ्गलदर्शनं कपिलाप्रदानं स्वलङ्कृतस्य सम्भाषणं वैद्यदर्शनम्। इति।
सभाऽनुवृत्तौ
विष्णुधर्मोत्तरे—
तत्रस्थान् ब्राह्मणान् पश्येदमात्यान् मन्त्रिणस्तथा।
प्रकृतीश्च महाभाग प्रतीहारनिवोधितः॥
तत्रेतिहासश्रवणं कुर्यात्किञ्चिदतन्द्रितः।
ततः कार्यार्थिनां कुर्याद्यथाधिकार्यनिर्णयम्॥
व्यवहारांस्ततः पश्येत्समो भूत्वाऽरिमित्रयोः। इति।
बृहस्पतिः—
पूर्वाह्णे तामधिष्ठाय वृद्धामास्यानुजीविनः।
पश्येत्सुरान् स धर्मार्थशास्त्राणि शृणुयात्ततः॥
ताम्, सभाम्। सुरान्, भूसुरान्। पूर्ववाक्ये तत्रस्थान् ब्राह्मणानित्युपादानात्।
मनुः—
तत्र स्थितः प्रजाः सर्वाः प्रतिनन्ध विसर्जयेत्।
विसृज्य च प्रजाः सर्वा मन्त्रयेसह मन्त्रिभिः॥
तत्र, सभायाम्।
मन्त्रे स्थलं कालं च स एवाह–
गिरिपृष्ठं समारुह्य प्रासादं वा रहोगतः।
अरण्ये निःशलाके वा मन्त्रयेताविभावितः॥
निःशलाके, विविक्ते देशे।
मध्यन्दिनेऽर्धरात्रे वा विश्रान्तो विगतक्लमः।
चिन्तयेद्धर्मकामार्थान् सार्द्धं तैरेक एव वा॥
परस्परविरुद्धानां तेषां च समुपार्जनम्।
तेषाम्, धर्मार्थकामानाम्।
कन्यानां सम्प्रदानं च कुमाराणां च रक्षणम्॥
दूतसम्प्रेषणं चैवकार्यशेषंतथैव च।
अन्तःपुरमधानं च प्रणिधीनां च चेष्टितम्॥
कृत्स्नं चाष्टविधं कर्म पञ्चवर्गं च तत्त्वतः।
अनुरागापरागौ च प्रचारं मण्डलस्य च॥
अष्टविधं कर्म प्रचेता आह—
आदाने च विसर्गे च तथा प्रैपनिषेधयोः।
पञ्चमे चानुवचने व्यवहारस्य चेक्षणे॥
दण्डशुद्धयोः सदा युक्तस्नेनाष्टगणिको नयः।
अष्टकर्मा दिवं याति राजा शक्राभिपूजितः॥
आदानम्, करादीनाम्। विसर्गो, भूतेभ्यो धनदानम्। प्रैषः, अमात्यादीनां दृष्टादृष्टार्थानुष्ठाने। निषेधः, विरुद्धक्रियासु।अनुबचनं, कार्यसन्देहे राजाज्ञा।शुद्धिः, प्रायश्चित्तम्।
पञ्चवर्गः—
सहायाः साधनोपाया विभागो देशकालयोः।
विप्रत्तेश्च प्रतीकारः सिद्धिः पञ्चाङ्गमिष्यते॥ इति।
विष्णुधर्मोत्तरे—
त्यक्त्वा सभां ततः कुर्यान्मन्त्रं तु सह मन्त्रिभिः।
यत्रास्य कश्चित्तं मन्त्रं शृणुयान्न कथश्चन॥
मन्त्रं कृत्वा ततः कुर्यात्व्यायामं पृथिवीपतिः।
रथे नागे तथैवाश्वे खड्गे धनुषि चाप्यथ॥
अन्येषु चैवं शस्त्रेषु नियुद्धेषु ततः परम्।
पद्भ्यामुदुर्त्तितःस्नातः पश्येद्विष्णुं सुपूजितम्॥
हुतं च पावकं पश्येद्विप्रान पश्येत्सुपूजितान्।
श्वसितान् दक्षिणाभिश्व पूजिवान् मृगुसत्तम॥
श्वसितान्, तर्पितान्।
ततोऽनुलिप्तः सुरभिः स्रग्वी रुचिरभूषणः।
सुवासा भोजनं कुर्याद्गीतं च शृणुयात्तदा॥
आप्तैः परीक्षितं वह्नैःमृगपक्षीङ्गितैस्तथा। इति।
तथा मनुः—
एवं सर्वमिदं राजा सह संमन्त्र्यमन्त्रिभिः।
व्यायम्याऽऽप्लुत्य मध्याह्ने भोक्तुमन्तःपुरं व्रजेत्॥
तत्रात्मभूतैः कालज्ञैरहार्यैः परिचारकैः।
सुपरीक्षितमन्नाद्यमद्यान्मन्त्रैर्विषावहैः॥इति।
विष्णुधर्मोत्तरेऽपरीक्षितस्य निषेधोऽप्युक्तः—
नापरीक्षितपूर्वं च भोजनं शयनं स्पृशेत्।
वस्त्रं पुष्पमलङ्कारं यच्चान्यन्मनुजोत्तम॥ इति।
मनुः,
विषघ्नैरुदकैश्चास्य सर्वद्रव्याणि नेजयेत्।
नेजयेत् प्रक्षालयम्।
विषघ्नानि च रत्नानि नियतो धारयेत्सदा॥
परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः।
वेषाभरणसंयुक्ताः संस्पृशेषुः समाहिताः॥
एवं प्रयत्नं कुर्वीत यानशय्यासनाशने।
स्नाने प्रसाधने चैव सर्वालङ्कारकेषु च॥ इति।
तथा विष्णुः,
सुदर्शनश्च स्याद्विषघ्नागदमन्त्रधारी नापरीक्षितमुपभुज्यात्। इति।
अगदानि औषधानि। अत्र विशेष उक्तो-
विष्णुधर्मोत्तरे,
राम उवाच।
कल्पना भोजनीयानां गन्धानां या च कल्पना।
तामहं श्रोतुमिच्छामि त्वत्तो धर्मभृतां वर॥
पुष्कर उवाच।
मक्ष्यं भोज्यं तथा लेयं चोष्यं पेयं तथैव च।
कल्पना पञ्चधा राम भोज्यस्यैषा प्रकीर्तिता॥
अभ्यासगम्या चाप्येषा वक्तव्यं तत्र मे शृणु।
कटुतोयोदककाथशोधितानामसंशयम्॥
सुराज्यधान्यजातीनां गन्धमाशु विनश्यति।
श्रेष्ठं सार्षपपकं तैलं शाकानां परिशोधने॥
मांसं कठिनमायाति कौमल्यं चार्द्रकाम्बुना।
वरुणक्षारसंयोगान्मत्स्यस्यास्थि विलीयते॥
गण्डिकाभिःपलाशस्य क्षीरमावर्त्तितं द्रुतम्।
कपित्थचूर्णयोगेन तथा चैव सुजानता।
घृतं सुगन्धीभवति दग्धैः क्षितैस्तथा यवैः॥
पद्मवारिणि योगेन काञ्जिकस्याम्लता भवेत्।
गुडाद्यंशुद्धिमाप्नोति क्षीरेण च तथा द्रुतम्॥
पद्मरागसमं चूर्णमंशुमत्या च जायते।
पानकानां महाभाग यस्याप्यन्यस्य चेच्छसि॥
क्षारयोगेन चाम्लस्य तथाम्लत्वं विनश्यति।
लवणाधिकविक्षेपसञ्जातविरसं ध्रुवम्॥
सिकतापिण्डिकाक्षेपैःसुरसत्वमवाप्नुयात्।
चणकक्षारयोगेन पुष्पाणि च फलानि च॥
सर्वाणि दुतिमायान्ति दुतानां कल्पना भवेत्।
गन्धवर्णरसाधानं पानकादिषु सर्वतः॥
यथाकालं यथादेशं यथासात्म्यं च कारयेत् \।
नात्यर्थदीप्तेन हुताशनेन नात्यन्तमन्देन धमाद्यमन्नम्।
रसेन चाप्यत्र भवेत्प्रभूतं तात्पर्यमेतत्कथितं मया ते॥ इति।
अद्यम् अदनार्हम्।धम संयोजय। विस्तरश्वास्य सुपशास्त्रादवगन्तव्यः। सविषान्नादेःपरीक्षामकारश्च -
मत्स्यपुराण,
विषाश्चरक्ष्यो नृपतिस्तत्र युक्तिं निबोध मे।
क्रीडानिमित्तं नृपतिर्धारयेन्मृगपक्षिणः॥
अन्नंवैप्राक्परीक्षेत वह्नौचान्यतमेषु च।
वस्त्रं पात्रमलङ्कारं भोजनाच्छादने तथा॥
नापरीक्षितपूर्वं स्पृशेदपि महीपतिः।
श्यावास्यचक्रः सन्तप्तः सोद्वेगंच निरीक्षते॥
श्यावास्यचक्रः, ईषत्कृष्णश्वेतसुखमण्डलः।
विषदो वा विषं दत्वा यत्र तत्र निरीक्षते।
स्रस्तोत्तरीयो विमनाः स्तम्भकुड्यादिभिस्तथा॥
प्रच्छादयति चात्मानं लज्जते स्खलते तथा।
भुवं विलिखति ग्रीवां तथा चालयति द्विज।
कण्डूयति च मूर्द्धानं परिलक्ष्यो नरः सदा।
क्रियासुत्वरितो राजन् विपरीतास्वपि ध्रुवम्॥
एवमादीनि चिह्नानि विषदस्य परीक्षयेत्।
ततो विचारयेदग्नौतदन्नं त्वरयाऽन्वितः॥
इन्द्रायुधसवर्णोऽग्नीरूक्षः स्फोटसमन्वितः।
एकवर्णोऽथ दुर्गन्धिर्भृशं चटचटायते॥
तद्धूमदर्शनाज्जन्तोश्शिरोरोगश्चजायते।
सविषेऽन्ने निलीयन्ते न च पार्थिव मक्षिकाः॥
विलीनाश्चविपद्यन्ते दृष्टे च सविषे तथा।
विरज्यति चकोरस्य दृष्टिःपार्थिवसत्तम॥
विकृतिं च स्वरो याति कोकिलस्य तथा नृप।
गतिः स्खलातिहंसस्य मृङ्गराजश्व कूजति॥
क्रौञ्चो मदमथाभ्येति कुकवाकुर्विरौति च।
विक्रोशति शुको राजन् सारिका बाशते तथा।
चामीकरोऽन्यतो याति मृत्युं कारण्डवस्तथा॥
मेहते बानरो राजन् ग्लायने जीवजीवकः।
हृष्टरोमा भवेद्वभ्रुपृषतश्चैव रोदिति।
हर्षमायाति च शिखी विषसन्दर्शनान्नृप॥
अन्नं च सविषं राजंश्चिरेण च विपच्यते।
तथा भवति सास्रावं पक्वंपर्युषितोपमम्॥
व्यापान्नरसगन्धं च चन्द्रिकाभिस्तथा युतम्।
व्यञ्जनानां च शुष्कत्वं द्रवाणां बुद्बुदो भवेत्॥
ससैन्धवानां द्रव्याणां जायते फनमालिका।
रसस्य राजिस्ताम्रा स्यान्नीला च पयसस्तथा॥
कोकिलाभा च मद्यस्य तोयस्य च नृपोत्तम।
धान्याकस्य तथा कृष्णा कपिला कोद्रवस्य च॥
मधुश्वावा च तक्रस्य नीलपीता तथैव च।
घृतस्योलूकसङ्काशा कपोताभा च मस्तुनः॥
हरिता माक्षिकस्यापि तैलस्य च तथाऽरुणा।
फलानामध्यपकानां पाकः क्षिप्रंमजायते॥
प्रश्वेदश्चैत्र पकानां माल्यानां म्लानता तथा।
मृदुता कठिनानां च मृदूनां च विपर्ययः॥
सूक्ष्मतन्तूपसदनं तथा चैवातिरोमता।
श्याममण्डलता चैव वस्त्राणां च विशेषतः॥
लोहानां च मणीनां च मलपङ्कोपदिग्धता।
अनुलेपनगन्धानां सूनानां च नृपोत्तम॥
विगन्धता च विज्ञेया पर्णानां म्लानता तथा।
एवमादीनि चिह्नानि विज्ञेयानि नृपोत्तम॥
तस्माद्राजा सदा तिष्ठेन्मणिमन्त्रौषधागदैः।
उक्तैः संरक्षितो राजा प्रमादपरिवर्जकः॥
प्रजातरोर्मूलमिहावनीशस्तद्रक्षणाहृद्धिमुपैति राज्यम्।
तस्मात्मयत्नेन नृपस्य रक्षा सर्वेण कार्या रविवंशचन्द्र॥इति।
सुनानां प्रसूनानाम्।अगदैःसंरक्षितः सदा तिष्ठेदिस्युक्तस्, तत्र कान्यगदानीत्यपेक्षायाम्-
विष्णुधर्मोत्तरे,
राम उवाच।
रक्षोघ्नानि विषघ्नानि यानि कार्याणि भूभुजा।
अगदानि समाचक्ष्व तानि धर्मभृतां वर॥
पुष्कर उवाच।
बिल्वाढकीयवक्षारपाटलावाल्हिकोषणाः।
श्रीपर्णीशल्लकीयुक्ता निष्कायःप्रोक्षणं परम्॥
सविषं प्रोक्षितं तेन सद्यो भवति निर्विषम्।
यवसेन्धनपानीयवस्त्रशय्यासनौदनम्॥
कवचाभरणच्छत्रवालव्यजनमेव च।
यवसं तृणपर्जुनम्, तदादि वेश्मान्तं बिल्वादिकायैः प्रोक्षितं सद्योनिर्विषं भवति।
शेलृपाटल्यनिविषाशिप्रुगोभीपुनर्नवाः।
समाङ्गावृक्षमूलत्वक्कपित्थं वृषशोणितम्॥
सहदन्तशठं तद्वत्प्रोक्षणं विषनाशनम्।
लाक्षाप्रियङ्गुमञ्जिष्ठासपङ्गासहरेणुकाः॥
सपथ्याहा मधुयुता बभ्रुपित्तेन कल्किताः।
निस्वनेद्गोबिषाणस्थाः सप्तरात्रं महीतले॥
ततः कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत्।
संस्पृष्टः सविषस्तेन सद्यो भवति निर्विषः॥
मनोहाऽऽलशमीपुष्पत्वङ्नशाश्वेतसर्षपाः।
कपित्यकुष्टमञ्जिष्ठाः पित्तेन श्लक्ष्णकल्किवाः॥
शुनो गोःकपिलायाश्च सौम्याख्योऽयं परोऽगदः।
विषजित्परमः कार्यो मणिरन्नंच पूर्ववत्॥
पूर्ववत्, “ततः कृत्वा मणिं हेम्ना" इत्यादिप्रकारेण।
मूषिका जीरका वापि हस्ते बद्धा विषापहा।
हरेणुमांमीमञ्जिष्ठा रजनी मधुकं मधु॥
अक्षत्वक्सुरसा चापि श्वपित्तं पूर्ववन्मणिः।
वादित्राणि पताकाश्च पिष्टैरेतैः प्रलेपिताः॥
श्रुत्वा दृष्ट्वा समाघ्राय सद्यो भवति निर्विषः।
त्र्यूषणं पञ्चलवणं मञ्जिष्ठा रजनीद्वयम्॥
सूक्ष्मैला त्रिवृतापत्रविडङ्गानीन्द्रवारुणी।
मधुकं चेति सक्षौद्रं गोविषाणे निधापयेत्॥
तस्मादुष्णाम्बुना मात्रां प्रागुक्तां योजयेत्तथा।
विषं भुक्तं जरां याति निर्विषेऽपि न दोषभाक॥
सक्तुसर्जरसोशीरसर्षपापत्रवालकैः।
सबेल्लारुष्करखुरैः कुसुमैरर्जुनस्य च॥
धूपो वासगृहे हन्ति विषं स्थावरजङ्गमम्।
न तत्र कीटाः सविषा दर्दुरा न सरीसृपाः॥
न कृत्याः कार्मणा याश्च धूपोऽयं यत्र दह्यते।
कल्कितैश्चन्दनक्षीरपलाशद्रुमवल्कलैः॥
मूर्वैलवालुसुरसानाकुलीतन्दुलीयकैः।
काथःसर्वोदकार्येषु काकमाचीयुतैर्वृतः॥
रोचनापत्रनैपालीकुङ्कुमैस्तिलकं वहन्।
विषैर्न बाध्यते स्याच्च नरनारीनृपप्रियः॥
चूर्णैर्हरिद्रामञ्जिष्ठाकिणिहीकणनिम्बकैः।
दिग्धं निर्विषतामेति गात्रं सर्वविषार्दितम्॥
शिरीषस्य फलं पत्रं पुष्पं त्वङ्मूलमेव च।
गोमूत्रपिष्टं
लगदः सर्वकर्मकरः स्मृतः॥ इति।
मणयो मन्त्राश्चागदाः प्रसिद्धास्तत्सङ्ग्रहं च कुर्यात्। एवमादिभिर्निर्विषमन्नंनिर्णीय भुञ्जीत।
तथा तत्रैव,
भुक्तागृहीतताम्बूलःपरिक्रम्प विशेत्ततः।
शयने दामपार्श्वेन ततः शास्त्राणि चिन्तयेत्॥ इति।
मनुः
,
मुक्तवान् विहरेश्चैव स्त्रीभिरन्तः पुरे सह।
विहृत्य च यथाकालं पुनः कार्याणि चिन्तयेत्॥
अलङ्कृतस्तथा पश्येदायुधीयं पुनर्जनम्।
वाहनानि च सर्वाणि शस्त्राण्याभरणानि च॥ इति।
याज्ञवल्क्यः,
हिरण्यं व्यापृतानीतं भाण्डागारे न्यसेत्ततः।
पश्येच्चारांस्तथा दूतान प्रेषयेन्मान्त्रमङ्गतः॥
हिरण्यं हिरण्यादिधनम्। व्यापृतानीतं, व्यापतैराकरादिद्रव्यार्जनस्थानेषु नियुक्तैरानीतम्।
ततः स्वैरविहारी स्यान्मन्त्रिभिर्वा ममागतः।
बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत्॥
सन्ध्यामुपास्य शृणुयाच्चाराणां गूढभाषितम्।
गीतैर्नृत्यैश्च भुञ्चीत पठेत्स्वाध्यायमेव च॥इति।
भुक्त्वा यथेच्छमङ्गनाभिः सह क्रीडेत, कार्यवशान्मन्त्रिभिर्वा समागतो भवेत्।बलानां हस्त्यश्वादीनाम्। सेनान्या चमूपतिना सह वलविषयमर्थं च चिन्तयेत्।सन्ध्यां, सायंसन्ध्याम्। गीतं नृत्यं च श्रुत्वा भुक्त्वा वेदं पठेत्। अत्र विशेषान्तरमाह—
मनुः,
सन्ध्यामुपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत्।
रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम्॥इति।
विशेषान्तरमाह—
वृद्धवसिष्ठः,
सायंमन्ध्यादिकं कृत्वा सभां प्राग्वत्प्रवेशयेत्।
ततो राज्ञो विलासिन्यः कुर्युः सन्ध्यावलिक्रियाम्॥
तैजसेष्वय पात्रेषु चैकस्मिन्नथ वा त्रिषु।
तत्तद्राज्यानुसारेण पञ्चस्वपि च सप्तसु॥
त्रिषु कार्याण्यष्टदलपद्मान्यन्नैर्विचित्रकैः।
दलेषु कर्णिकायां च दीर्घैर्बहुभिरुज्ज्वलैः॥
विराजदक्षतैर्मन्त्रैः सह मङ्गलपारगैः।
पूर्ववच्चिन्तयेद्राज्यं प्रेषयेद्गुप्तचारकान्॥
अन्तःपुरं सम्प्रविशोन्नियम्य त्वस्य रक्षकान्।
तासां मनोरथान् कृत्वा प्रवृत्ति समनुस्मरेत्॥
एवं समाचरन्नित्यं सदा सत्कीर्तिमाप्नुयात्।
तस्मात्सर्वप्रयत्नेन राज्यं धर्मेण पालयेत्॥ इति।
तथा मनुः,
गत्वा कक्षान्तरं त्वन्यत्समनुज्ञाप्य तं जनम्।
प्रविशेद्भोजनार्थं तु स्त्रीवृतोऽन्तःपुरं पुनः॥
तत्र भुक्त्वा पुनः किञ्चित्तूर्यघोषैः प्रहर्षितः।
संविशेच्चयथाकालमुत्तिष्ठेच्च गतक्लमः॥ इति।
विष्णुधर्मोत्तरेऽपि,
अन्तःपुरचरो भूत्वा लघु भुक्त्वा तथा हितम्।
सवेणुवीणापटहस्वनेन सेवेत निद्रां कृतपूर्वरक्षः।
एतद्यशस्यं च नराधिपानामाजस्त्रिकं ते कथितं विधानम्॥इति।
विशेषान्तरमाह—
मनुः,
एतद्विधानमातिष्ठेदरोगः पृथिवीपतिः ।
अस्वस्थः सर्वमेवैतन्मन्त्रिमुख्ये निवेशयेत् ॥इति ।
एतत्सर्वं, प्रजारक्षणादि ।
इतिराज्ञो दैनंदिनं कृत्यम् ।
अथ वर्षकृत्यम् ।
तदुक्तम्—
आथर्वणपरिशिष्टे,
ॐ अथ प्रतिसंवत्सरंराज्ञःकर्म्माणि क्रमेण वक्ष्यामः । अथाश्वयुजे मासे शुक्लपक्षस्य तृतीयेऽहनि हरिद्रायवानां “रक्षन्तु त्वाग्नय”इति चतसृभीरक्षां बद्धा हस्त्यश्वानाम् । अश्वोऽसि क्षिप्रजन्मासि सप्तद्वीपां वसुन्धराम् ।हस्तेन युक्तेचन्द्रमसि पौर्णमास्याममावास्यायां वा पुण्ये नक्षत्रे शुचौदेशे तन्त्रमित्युक्तं प्राञ्चमिध्ममुपसमाधायान्वाारभ्याथजुहुयात्। सवित्रे स्वाहा, पतङ्गाय स्वाहा, पावकाय स्वाहा, सहस्ररश्मये स्वाहा, मार्त्तण्डाय स्वाहा, विष्णवे स्वाहा, प्रजापतये स्वाहा, परमेष्ठिने स्वाहेतिहुत्वा कनकानां (मालां ) वद्धा हस्त्यश्वानां नीराजनं कुर्यात् ।अथ नवम्पामपराह्नेवाहनानि स्नापयित्वा अदृतवासा ब्रह्मा द्वादशहस्तमितां वेदिं कृत्वा तन्त्रमित्युक्तां शान्तिं कृत्वा दूषणेन वाहनं त्रिः प्रोक्ष्य परीयात्, “निःसालाम्” इति सूक्तं जपन् प्रत्येत्याभिषिञ्छेदेनमश्वमलङ्कृतंशबलकण्ठं कृत्वोपस्थाप्य दध्यात्, एवमेव मैश्रधान्यान्यु दपात्राण्यन्तरासु दिक्षु, तत्रैव देवता यजेतअग्निंवायुं वरुणमश्विनाविति । पयसि स्थालीपाकं श्रपयित्वा “समास्त्वाग्ने”“त्वन्नोअग्ने”
“मा नो विदन्"
अभयैरपराजितैरायुष्यैः स्वस्त्ययनैरप्रतिरथेनेति च हुत्वा संस्थाप्य “अग्नेरदोसि”इत्यहतवासोभिः प्रच्छाद्य रसैः कुम्भानौदुम्बरान् पूरयित्वा प्रतिदिशमवस्थाप्य, “ममाग्नेवर्चो”“अभयं द्यावापृथिवी” “उदुत्तमं वरुण” “अश्विना ब्रह्मणायातम्” इति जुहुयात्। पौर्णमासीप्रथमेति च जुहुयात् दुन्दुभिमाहन्यादित्युक्तम्। “उपश्वासय पृथिवीम्”इति तत्रैवानुमन्त्रणं च।सर्वाणि च वादित्राणि वाहनानि च “जनस्यास्मान् प्रहर्षय”पञ्चमीं प्रतिष्ठापयेत्। “न तं यक्ष्मा एतु देव”इति गुग्गुलुकुष्टधूपं दद्यात्। “यस्ते गन्धम्त्र्यायुपम्”इति भूतिंप्रयच्छेत्। “दूष्या दूषिरसि”इति प्रतिसरं वद्धा“वार्तः पुरस्तात्”इति प्रतिदिशं क्षिपेत्। बहिर्निसृत्योत्तरेण गत्वा बाह्येनोपनिष्क्रम्य सुहृदेकुर्याच्छ्रद्दधते कुर्याद्वाहनानामभयं कर्म्म।
तन्त्रमित्युक्तां शान्तिं, ‘तन्त्रभूतां महाशान्ति प्रवक्ष्याम’ इत्यादिनोक्ताम्।दूषणेन, ‘दृष्या दूषिरसि’इतिसूक्तेन। निःसालां, ‘निःसालां धृष्णुं धिषणम्’ इतिसूक्तम्। प्रतिसरं, हस्ते तन्तुमयं कङ्कणम्।
अथाश्वयुजे मासेपूर्णमास्यामपराह्णेहस्तिने नीराजनं कुर्यात्। प्रागुदक्प्रवणे देशे यत्र वा मनो रमते। “गिरयस्ते पर्वता” इत्येतया हस्तशतमर्द्धं वा मण्डलं परिगृह्य “याभिर्यज्ञम्” इति सम्प्रोक्षेत्। तत्र श्लोकाः—
दशहस्तसमुत्सेधं पञ्चहस्तं तु विस्तृतम्।
शान्तिवृक्षमयं कुर्यात्तोरणं पुष्टिवर्द्धनम्॥
शुक्लैःशुक्लाम्बरध्वजैर्माल्यैश्च परिभूषितम्।
कारयेदविले शुभ्रे रसैश्चपरिपूरिते॥
रसैस्त्वामभिषिञ्चामि भूमे मह्यं शिवा भव।
असपत्नासपत्नश्रीर्मम यज्ञविवर्द्धनी।
इमं स्तम्भूधृतांत्वक्तावुभौ मा यससावतात्॥ ?
यो माकश्राभिदासतितमिमौभूमिर्दहतामित्युच्छ्रयस्व**“इमाया ब्रह्मणस्पत”**इति। एताभ्यामुच्छ्रयीणि मालापताकैस्तम्भान संयोप्यतस्यां चतुर्हस्तां वेदिं कृत्वा दर्भपवित्रपाणिर्वलिं पुष्पाणि च दत्वा मधुना मिश्रैःस्वस्तिकं सयावकदधिकुशरापृषकान् पायसं घृतं विविधपानभक्षफलैरग्निं परिस्तीर्य “आपोऽम्मान्मातरः मृदयन्तु” इति चतुरौदुम्बरान् कुम्भान् ह्रदोदकेन पूरयित्वा प्रतिदिशमवस्थाप्य दध्यात् रौद्राग्नेयवासव्यवारुणा मन्त्राः।रक्षोघ्नंकृत्वा दूषणं यशस्यवर्च्चस्यानि च हुत्वौषधिंसमादाय द्विहस्तं मण्डलमित्युक्तम्। तत्र श्लोकः
बृहत्कण्टारिकण्टकालघुकण्टारिकाः स्मृताः।
सुवर्णपुष्पी श्वेतगिरिकार्णिका ह्यदिमत्त्वा॥?
सिंही व्याघ्री हिरण्यवर्णामपराजिता पृश्निपणींदुर्वापद्ममुन्मत्तमालिनी तामनुमन्त्रयते। वैणवं कटमवस्थाप्यादध्यात्। द्वैपवैयाघ्रानदुच्चर्म्म परिस्तीर्य ततो या स्यादधिदेवता तस्यै बलिं दत्वा पिण्डानि च दद्यात्।हस्तिनमाचामयेत्। यस्यां दिशि रिपुर्न भवति तां दिशं गत्वाहस्तिनमानयेद्धिरण्येन रजतेन वज्रमणिमुक्तादिभिः शङ्खेन चन्दनेन भद्रदारुणा कुष्टेन नलदेन रोचनेनाञ्जनेन मनःशिलया पद्मकुमुदोत्पलैः**“ममाग्ने वर्च”** इति सूक्तं दक्षिणोत्तरमुग्वं प्रतिजपेच्छेपेण गात्राण्यभ्यञ्जयेत्। तत्र श्लोकः—
हस्तिनां रक्षणे दण्डः कर्त्तव्यो वैणवो नवः।
षोडशारत्निमात्रस्तु चारुपर्वा मनोरमः॥
तेन वारणान् वारयेत्।दन्ताग्रेषुतृणानि कृत्वा “यथा हव्यं वहसिग्रसति तं जातवेदसम्” इत्यग्निं प्रज्वालयेत्। “सुजातं जातवेदसम्”इति वाचयेद् **“यथा हव्यम्”**इति नीराजयित्वा। “**निधिं विभ्रति”**इति शालां प्रवेशयेदनपेक्षमाणाः स्वानि स्थानानि व्रजन्ति दीर्घायुषो वलवन्तश्च भवन्ति। गोसहस्रं कर्त्रे दक्षिणा ग्रामवरं च।
‘निधिं बिभ्रति बहुधा गुहासु’इतिसूक्तं पठित्वा शालां प्रवेशयेत्।
इति हस्त्यश्वदीक्षा समाप्ता।
परिशिष्टद्वयम्—
अथ वर्षशतं प्रवर्द्धमानो राजानमभिवर्द्धयिष्यन् संवत्सरे जन्मदिने कुर्यात्।तन्त्रमित्युक्तं, “पुनन्तु मा वायोः पूतो वैश्वानरो रश्मिः” इति। पवित्रैःपुण्याहादीनि च मङ्गलैर्यजमानं च सम्प्रोक्ष्य “**यदा बध्नन्”**इति पुष्पाद्यलङ्कारमावर्ज्जयित्वा माहेन्द्रं चरुंश्रपयेत्।लोकपालेभ्यश्च द्वितीयं चरुं श्रपयेत्। “**महां इन्द्रो य ओजसा”**इति ह्यग्नौहुत्वाइन्द्राय स्वाहेत्यादिलोकपालांश्चेष्ट्वांराजानमन्वालभ्य आदिवज्जुहुयात् “अर्वाञ्चमिन्द्रः सुत्रामेममिन्द्र वर्द्धय क्षत्रियं मे शतं जीवन्तु शरद” इति। “रक्षन्तु त्वाग्नय”इति चतसृभी रक्षां कृत्वा रोचनया अलङ्कुर्यात्।त्रिगुणेन सूत्रेण बद्धा “**मानायीतन्तुम्”**इति सूक्तेन रक्षासूत्रं सम्पातं च कृत्वा “धाता ते ग्रन्थिम्” इति बध्नाति। उत्तरं तन्त्रं हिरण्यं दक्षिणा ॥ १ ॥ महानवम्यां हस्त्यश्वदीक्षा प्रतिपत्प्रभृति नवरात्रं शस्त्रसस्वसम्पातः। तृतीयायां हस्त्यश्वानां कर्म्म, सप्तम्यां हस्त्यश्वानां दर्शनम्, अष्टम्यामथ पिष्टमयीमित्यादि, नवम्यांदुर्गापूजनम् अथ नवम्यामित्यादि नवम्याम्। अथा-
पराजितदशम्यां पूर्वाह्नेविजयमुहुर्त्तेउक्तं प्रास्थानिकम् । एतानि खलु प्राग्द्वाराणि इत्यादि “**स्वस्तिदा ये से पन्थान”**इत्यादि नक्षत्रहोमश्चअथ श्रवणे नक्षत्रे अथ राज्ञामिन्द्रमहस्येति व्याख्यातः । अथ पौर्णमास्यामपराह्णेपूर्णमासिकं कर्म्म । अथापामार्गत्रयोदश्यां श्वेते मुहूर्त्तेस्नानं कृत्वा अपामार्गं त्रिः परिभ्रामयेद्राज्ञउपरि मन्त्रेण, “**ईशानां त्वा भेषजानाम्”**इति त्रिभिः सूक्तैः“प्रतीचीनफल”इति सूक्तेन वा पुनः स्नानम् । तत आरात्रिकं परिधत्तेतिद्वाभ्यामितिसमानम् । अथ दीपोत्सवंप्रतिपदि हस्त्यश्वादिदीक्षादिसमानमभ्यातानान्तं कृत्वा “येस्यां प्राचीदिक’ इति “मानो देवा”“यस्तेसर्प” इत्यतैःसूक्तैः तृणानि युगतद्माना सम्पातवन्तेगणं च प्रातितमिमधानाशने हस्त्यश्वादियुगपत्तन्त्रं समानं धनुदक्षिणा । अथाक्षयनवम्यां रात्रौ हस्त्यश्वादीनामनीकानां स्थस्य परहोमश्च।अथ विष्णुद्वाभ्यांपुरोहितः पश्चिमां सन्ध्यामुपास्य गृहीतदर्भोयत्र राजानमभिगम्य पौष्टिकहोमश्चॊरात्रौ नीराजनं कृत्वा हस्त्यश्वेभ्यश्च। अथ कार्तिक्यां पौर्णमास्यां रेवत्यामाश्वयुज्यां वृषोत्सर्गः । अथाग्रहायणीपौर्णमास्यां तन्त्रं कृत्वा पादाग्नेतिद्वाभ्यां रसं सम्पात्याभिमन्त्र्यराजानं प्राशयेत् ।अथ पौष्यांपौर्णमास्यामुक्तः पुष्याभिषेकः । अथ फाल्गुन्यां पौर्णमास्यां रात्रौ होलिका ।महानवम्यामुक्तप्रज्वलनं नीराजनं वा । अथ ग्रीष्मप्रतिपद्यायुष्मतेस्नानं कृत्वाऽपां मुक्तैराप्लुत्यप्रदक्षिणमावृत्याऽप उपस्पृशेदित्युक्तम् । अथ चैत्र्यांपौर्णमास्यां तेजोव्रतं त्रिरात्रमश्नातीत्युक्तम् । अथ मदनत्रयोदश्यां वैशाख्यांपौर्णमास्यां मध्याह्नेगर्त्तेवाप्यांपुष्करिण्यांघटे वा सर्वगन्धान् प्रक्षिप्यपाक्तन्त्रमभ्यातानान्तं कृत्वा “सिंहे व्याघ्रे” “यशोहविः”
“प्रातरग्निं” “गिरावरगराटेषु”“दिवस्पृथिव्या” इत्येतैः सूक्तैरुदकं सम्पात्याभिमन्त्र्य राजानं स्नापयेत् प्रविश्य प्रोक्षति च तन्त्रं संस्थापयेद्धेनुर्दक्षिणा। अथ श्रावण्यां पौर्णमास्यां विजयमुहूर्त्ते “रक्षन्तु त्वाग्नय”इति रक्षावन्धनं कृत्वा नीराजनं च बाह्येनोपनिष्क्रम्येतिपैठीन- सिः। अथ आदित्यदिने आदित्यमण्डको व्याख्यातः। अथ जन्मनक्षत्रे जन्मनक्षत्रयागहोमो व्याख्यातः। अथ राजकर्माणि प्रतिनक्षत्रं कर्तव्या- नीत्यायुधायाञ्चप्रभृत्यादीनि विभृयादिति। कृत्तिकारोहिण्यादीनि व्याख्यातानि। इन्द्रोत्सवे इन्द्रोत्सवो व्याख्यातः। प्रतिदिनं ग्रहयागः। प्रति दिनंनक्षत्रयागः। प्रतिदिनं दशगुणी महाशान्तिः। प्रतिस्थानं कृत्तिकारोहिण्यौव्याख्याते।नक्षत्रस्नानानि नक्षत्रदक्षिणाश्च। राजकर्म्म सांव- त्सरीयं हस्त्यश्वादिदीक्षा।
इति राज्ञो वर्षकृत्यम्।
अथसहायाः।
अभिषेकानन्तरं राज्ञाकिं कर्त्तव्यमित्यपेक्षायाम्—
मत्स्यपुराणे,
मनुरुवाच।
राज्ञोऽभिषिक्तमात्रस्य किन्तु कृत्यतमं भवेत्।
एतन्मे सर्वमाचक्ष्व सम्यग्वेतियतो भवान्॥
मत्स्य उवाच।
अभिषेकार्द्रशिरसा राज्ञा राजीवलोचन।
सहायवरणं कार्यं तत्र राज्यं प्रतिष्ठितम्॥
यदप्यल्पतरं कर्म तदप्येकेन दुष्करम्।
पुरुषेणासहायेन किमु राज्यं महोदयम्॥
तस्मात्सहायान् वरयेत्कुलीनान्नृपतिः स्वयम्।
शूरान् कुलीनजातीयान् बलयुक्तान् श्रियान्वितान्॥
रूपसत्त्वगुणोपेतान् संयतान् क्षमयाऽन्वितान्।
क्लेशक्षमान् महोत्साहान् धर्मज्ञांश्चप्रियंवदान्॥
हितोपदेशकात्राज्ञःस्वामिभक्तान् श्रियान्वितान्। इति।
विष्णुधर्मोत्तरे,
साधवः कुलजाः शूरा ज्ञानवन्तोऽनसूयकाः।
अक्षुद्राः शुचयो दक्षाः स्युर्नराः परिपार्श्वकाः॥
पारिपार्श्वकाःनिकटवर्त्तिनः। तांश्च नित्यं परीक्षेदित्युक्तम्—
तत्रैव,
परीक्षेत्प्रत्यहं भृत्यानाप्तैश्चारैर्नराधिपः।
समानशीलैर्विश्रव्यौर्विवृणोति मनोगतम्॥इति।
बालिशादीनपरीक्षितांश्च न कुर्यादित्युक्तम्—
तत्रैव,
न बालिशा न च क्षुद्रा नाप्रज्ञा नाजितेन्द्रियाः।
नाकुलीना नराः पार्श्वेस्थाप्या राज्ञाहितैषिणा॥
तथा,
नापरीक्ष्य महीपालः प्रकर्त्तुं भृत्यमर्हति। इति।
एवंविधांस्तत्तत्कर्मसु योजयेदिन्युक्तम्—
मात्स्ये,
एवंविधान सहायांस्तु शुभकर्मसुयोजयेत्। इति।
महाभारतेऽपि,
भृत्या ये यत्र योग्याः स्युः सम्यक् स्थाप्याः परीक्षिताः। इति।
ये उत्तमाधममध्यमाः यत्र उत्तमाधममध्यमकर्मसु।
तथा चोक्तम्—
गरुडपुराणे,
भृत्याश्चत्रिविधा ज्ञेया उत्तमाघममध्यमाः।
नियोक्तव्या यथार्हेषु त्रिविधेषु च कर्मसु॥ इति।
मत्स्यपुराणेऽपि,
गुणहीनानपि तथा विज्ञाय नृपतिः स्वयम्।
कर्मस्वेवनियुञ्जीत यथायोग्येषु भागशः॥
अत्रायं वाक्यार्थः। यदि मौलाः कुलीना अपि तथा पितृपैतामहपदयोग्यगुणहीनास्तांस्तथाविधगुणहीनानपि विज्ञाय यथायोग्येष्वेव कर्मसु स्वयं भागशः कर्मविभागेन नियुञ्जीत, न तु तत्तत्पितृपैतामहपदेषु, तत्र तत्र तेषामयोग्यत्वात्। यथायोग्येषु कर्मसु नियुञ्जीतैवेति वा वाक्यार्थः। तेषामवश्यभरणीयानामभरणे तेषां च राजान्तराश्रयणे महादोषः स्यात्। भृत्यानामवश्यंपरीक्षा कार्येत्युक्तम्—
गरुडपुराणेऽपि,
यथा चतुर्भिः कनकं परीक्ष्यते तुलाकषच्छेदनतापनेन।
तथा चतुर्भिर्भृतकः परीक्ष्यते श्रुतेनशीलेन कुलेन कर्मणा॥
इत्यादिवचनैः परीक्षितास्तत्तत्कर्मसु नियोज्याः। एते एव च सहाया इति व्यपदिश्यन्ते। ते च द्विविधाराज्याङ्गोपकारका राजाङ्गोपकार- काश्च। ते च प्रत्येकं द्विविधा दृष्टार्थाअदृष्टार्थाश्च। दृष्टद्वारकोपकारकारित्वेन दृष्टार्थत्वम् , अदृष्टद्वारकोपकारित्वेन चादृष्टार्थत्वं द्रष्टव्यम्। यद्य- प्युभयाङ्गोपकारित्वेन चोभयत्रापि त्रैविध्यं वक्तुमुचितं तथापि भूयस्त्वाचद्व्यपदेश इति न्यायेन द्वैविद्ध्यमेवन्याय्यम्। अन्यथा वक्ष्यमाणाना- ममात्यादीनां राजाङ्गोपकारित्वेन द्वैविद्ध्यमपि न स्यात्। न चेष्टापत्तिः,
उपधेयसङ्करेऽप्युपाधेरसङ्करात्। तत्र राज्याङ्गोपकारका दृष्टार्था अमात्यसेनापतिप्रभृतयः, अदृष्टार्थाश्चवक्ष्यमाणब्राह्मणामात्यप्रभृतयः। राजाङ्गोपकारकाश्चदृष्टार्थाःप्रतीहारसूदप्रभृतयः, अदृष्टार्थाश्च पुरोहितप्रभृतयः। एते च यथायथं स्वस्वबुद्ध्या परिच्छिद्य पृथक्पृथङ्निरूपणीया। तत्रामात्याः। तत्र—
महाभारतेराजधर्मे,
कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम्
।
धर्मनित्यं स्थितं नीत्यां मन्त्रिणं पूजयेन्नृपः ॥इति।
याज्ञवल्क्येऽपि
स मन्त्रिणः प्रकुर्वीत प्राज्ञान् मौलान् स्थिरान् शुचीन्।
तैः सार्द्धं चिन्तयेद्राज्यं विप्रेणाथ ततः स्वयम् ॥ इति।
स, उक्तलक्षणो राजा। मन्त्रिणः कार्याकार्यविदः। प्राज्ञान् ऊहापोहसमर्थान्।मौलान् स्ववंशपरम्परायातान्। स्थिरान्, स्वामिहितेष्वचञ्च- लान्।शुचीन्, उपाधिरहितान्।प्रकुर्वीत, प्रयत्नादुपाददीन। राज्यं, राजकर्म्मषाड्गुण्यं, तदङ्गानि स्वाम्यादीनि च। चिन्तयेत्, हेयोपादेयतया विचारयेत्। अथ विप्रेण, विप्रामात्येन सह विचारयेत्। तदनन्तरं स्वयमेवार्थं साधकबाधकप्रमाणवत्तया निश्चिनुयात्। कल्पतरुणा नराधिप इत्यनुवृत्तौ – सन्मन्त्रिण इति पाठो लिखितः। तेषां गुणान्तराणि सङ्ख्यां चाह–
मनुः,
मौलान् शास्त्रविदः शूरान्लब्धलक्षान् कुलोद्भवान्।
सचिवान् सप्त चाष्टौवा कुर्वीत सुपरीक्षितान् ॥
लब्धलक्षान् परिदृष्टकर्मणः।
अपि यत्सुकरं कर्म तदप्येकेन दुष्करम्।
विशेषतोऽसहायेन किमु राज्यं महोदयम्॥
तेषां स्वं स्वमभिप्रायमुपलभ्य पृथक् पृथक्।
समस्तानां च कार्येषु विदध्याद्धितमात्मनः॥
सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता।
मन्त्रयेत्परमं मन्त्रं राजा षाड्गुण्यसंयुतम्॥
नित्यं तस्मिन् समाश्वस्तः सर्वकार्याणि निक्षिपेत्।
तेन सार्द्धं विनिश्चित्य ततः कार्यं समाचरेत्॥ इति।
राजगुणानुवृत्तौ कात्यायनोऽपि,
एतैरेव गुणैर्युक्तममात्यं कार्यचिन्तकम्।
ब्राह्मणं तु प्रकुर्वीत नृपभक्तं कुलोद्भवम्॥
मन्त्रिणो यत्र सभ्याश्च वैद्याश्च प्रियवादिनः।
राज्याद्धर्मात्मुखात्तत्र क्षिप्रं हीयेत पार्थिवः॥
न तस्य वचने कोपमेतेषां तु प्रवर्तयेत्।
यस्मादेतैः सदा वाच्यं न्याय्यं सुपरिनिष्ठितम्॥इति।
प्रियवादिनः असत्यप्रियवादिनः। मन्त्रिणो यत्र, राज्यकृत्येषु, प्रियवादिनस्तत्र पार्थिवो राज्याद्धीयेत। सभ्याः प्रायश्चित्तादौ, तत्र धर्मात्। वैद्या- श्चिकित्सायां, तत्र सुखात्। तस्य न्याय्यस्य।
पाराशरे,
अमात्यान्मन्त्रिणो दूतान् यथोदितपुरोहितान्।
प्राड्विवाकं सभास्तारान् हितानारक्षकानपि॥
इत्यादिना सप्त पञ्च वा यथोक्तगुणविशिष्टा मौला अमात्याः कर्तव्याः।एकश्च राजगुणसमानगुणो ब्राह्मणोऽमात्यः कर्तव्यः। एते चामात्या मन्त्रिपदव्यपदेशभाजोऽपीत्युक्तम्।
इत्यमात्याः।
अथ सेनापतिः।
तत्र मत्स्यपुराणे,
कुलीनः शीलसम्पन्नोधनुर्वेदविशारदः।
हस्तिशिक्षाश्वशिक्षासुकुशलः श्लक्ष्णभाषितः॥
निमित्ते शकुनज्ञाने वेत्ता चैव चिकित्सते।
कृतज्ञः कर्मणां शूरस्तथा क्लेशसहो ऋजुः॥
व्यूहतन्त्रविधानज्ञः फल्गुसारविशेषवित्।
राज्ञा सेनापतिः कार्यो ब्राह्मणः क्षत्रियोऽथ वा॥ इति।
व्यूहतन्त्रविधानज्ञःव्यूहाश्चक्रदण्डगरुडाद्याकाराः सेनासन्निवेशास्तेषां तन्त्रं तत्प्रतिपादकं शास्त्रं विधानं रचनं च तज्जानाति नादृशः।
इनि सेनापतिः।
अथ राज्याध्यक्षः।
गरुडपुराणे,
कुलशीलगुणोपेतः सत्यधर्मपरायणः।
रूपेण सुप्रसन्नश्च राज्याध्यक्षो विधीयते॥ इति।
इति राज्याध्यक्षः।
अथ रत्नपरीक्षकः।
गरुडपुराणे,
मूल्यरूपपरीक्षाकृद्भवेद्रवपरीक्षकः। इति।
रत्नजातयस्तत्परीक्षाप्रकाराश्चलक्षणप्रकाश एव निरूपयिष्यन्त इति नेह निरूप्यन्ते।
इति रत्नपरीक्षकः।
________________________________________________________________
१ अत्र उत्वमार्षम्।
अथ प्रतीहारः।
विष्णुधर्मोत्तरे,
प्रांशुसुरूपोदक्षश्चप्रियवादी न चोद्धतः।
चित्तग्राही च सर्वेषां प्रतीहारोविधीयते॥इति।
गरुडपुराणेऽपि,
इङ्गिताकारतत्वज्ञोधनवान् प्रियदर्शनः।
अप्रमादी प्रमाथी च प्रतीहारः स उच्यते॥इति।
इति प्रतीहारः।
अथ दूतः।
मत्स्यपुराणे,
यथोक्तवादी दूतः स्याद्देशभाषाविशारदः।
मुक्तःक्लेशसहो वाग्मी देशकालविभागवित्॥
विज्ञाय देशं कालं च यद्धितं स्यान्महीक्षितः।
वक्ता तस्यापि यः काले सदूतो नृपतेर्भवेत्॥इति।
गरुडपुराणेऽपि,
बुद्धिमान्मतिमांश्चैवपरचित्तोपलक्षकः।
क्रूरो यथोक्तवादी च एषदूतो विधीयते॥ इति।
बुद्धिः निश्चयात्मिका।मतिः, प्रज्ञा शीघ्रग्राहिणी।
इति दूतः।
अथ रक्षिणः।
मत्स्यपुराणे,
प्रांशवोव्यायताः शूरा दृढभक्ता निराकुलाः।
राजा तु रक्षिणः कार्याः सदा क्लेशसहा हिताः॥इति।
इति रक्षिणः।
_______________________________________________________________
१ नवस्य इति मुद्रितमत्स्यपुराणे पाठः।
अथ ताम्बूलधारिप्रभृतीनां लक्षणानि।
मात्स्ये,
अनाहार्योऽनृशंसश्च दृढभक्तिश्चपार्थिवे।
ताम्बूलधारी भवति नारी वाप्यथ तद्गुणा॥
अनाहार्यः, द्रव्यादिदानद्वारा परैरभेद्यः।
तथा,
पुरुषस्तरुणः प्रांशुदृर्ढभक्तिः कुलोचितः।
शूरःकेशसहश्चैव खड्गधारी प्रकीर्तितः॥
शूरश्चबलयुक्तश्व गजाश्वरथकोविदः।
धनुर्द्धारी भवेद्राज्ञःसर्वक्लेशसहः शुचिः॥
तथा,
षाड्गुण्यविधितत्वज्ञो देशकालविशारदः।
सान्धिविग्रहिकः कार्यो राज्ञा नयविशारदः॥
सन्धिविग्रहयानासनद्वैधीभावसंश्रयाःपाद्गुण्यं तस्य विधेः प्रकारस्य तत्त्वंजानाति सः।
तथा,
निमित्तशकुनज्ञानी हयाशिक्षाविशारदः।
हयायुर्वेदतत्त्वज्ञो भूमिभागविशेषवित्॥
बलावलज्ञोरथिनः स्थिरदृष्टिः प्रियंवदः।
शूरश्चकृतविद्यश्च सारथिः परिकीर्तितः॥
अनाहार्यः शुचिर्दक्षश्चिकित्सितविदां वरः।
मूदशास्त्रविशेषज्ञःमूद्राध्यक्षः प्रशस्यते॥इति।
अनाहार्यः परैरभेद्यः।
सूपकारलक्षणम्—
गरुडपुराणे,
पितृपैतामहो दक्षः शास्त्रज्ञः सत्यपाचकः
शौचयुक्तः सदाचारःसूपकारः स उच्यते॥इति
शास्त्रज्ञः, नलभीमसुषेणादिकृतसूपशास्त्रज्ञः “आर्द्रकं गुडसंयुक्तं”“ताम्रपात्रे स्थितं गव्यम्”इत्यादिनिषिद्धज्ञानाय धर्मशास्त्रज्ञश्च
मत्स्यपुराणे,
सूदशास्त्रविधानज्ञाः पराभेद्याः कुलोद्गताः
सर्वे महानसे धार्या नीचकेशनखा नराः॥ इति
धर्माध्यक्षलक्षणम्—
गारुडे,
समस्तकृतशास्त्रज्ञः पण्डितोऽथ जितेन्द्रियः
शौर्यवीर्यगुणोपेतो धर्माध्यक्षो विधीयते॥इति
मात्स्ये,
समः शत्रौ च मित्रे च धर्मशास्त्रविशारदः।
विप्रमुख्यःकुलीनश्चधर्माधिकरणो भवेत्॥
कार्यास्तथाविधास्तत्र द्विजमुख्याः सभासदः।
सर्वदेशाक्षराभिज्ञः सर्वशास्त्रविशारदः॥
लेखकः कथितो राज्ञः सर्वाधिकरणेषु वै इति।
गरुडपुराणे,
मेधावी वाक्पटुः प्राज्ञः सत्यवादी जितेन्द्रियः।
सर्वशास्त्रसमालोकी ह्येष साधुः स लेखकः॥ इति
मत्स्यपुराणे,
शीर्षोपेतान् सुसम्पूर्णान् शुभश्रेणिगतान् समान्।
अक्षरान् वैलिखेद्यस्तु लेखकः स वरः स्मृतः॥
उपायवाक्यकुशलः सर्वशास्त्रविशारदः।
उपायाः, सामदानभेददण्डाः, तेषु वाक्येषु च निपुणः।
बहर्थवक्ता चाल्पेन लेखकःस्यान्नृपोत्तम॥
राजाभि10प्रायतत्वज्ञो देशकालविभागवित्।
अनाहार्यो नृपे भक्तो लेखकःस्यान्नृपोत्तम॥
पुरुषान्तरतत्वज्ञाःप्रांशवश्चाप्यलोलुपाः॥
धर्माधिकरणे कार्या जनाहानकरा नराः।
एवंविधास्तथा कार्या राज्ञा दौवारिका जनाः॥
तथा,
आयव्ययज्ञो लोकज्ञोदेशोत्पत्तिविशारदः।
कृताकृतज्ञो भृत्यानां ज्ञेयः स्यादक्षरक्षिता॥
अक्षरक्षिता, अक्षाणां पाशानां क्रीडामावनीभूतानां रक्षिता पालकः।
तथा,
लोहवस्त्राजिनादीनां रत्नानां च विधानवित्।
विज्ञाता फल्गुसाराणामनाहार्यः शुचिः सदा।
निपुणश्चाप्रमत्तश्च धनाध्यक्षः प्रकीर्त्तितः॥
आयद्वारेषु सर्वेषु धनाध्यक्षसमा नराः।
व्ययद्वारेषु च तथा कर्त्तव्याः पृथिवीक्षिता॥
परम्परागतो यः स्यादष्टाङ्गेन चिकित्सते।
अष्टावङ्गानि, शल्य-शालाक्य-कायचिकित्सा - भूततन्त्र-
विषविद्या- रसायन-वाजीकरण- कुमारभृत्याः।
अनाहार्यः स वैद्यः स्यात् धर्मात्मा च कुलोद्गतः॥
प्राणाचार्यः स विज्ञेयोवचनं तस्य भूभुजा।
अविचार्य सदा कार्यंयथा कार्यंपृथग्जनैः॥
हस्तिशिक्षाविधानज्ञोवनजातिविशारदः।
क्लेशक्षमस्तथा राज्ञोगजाध्यक्षः प्रशस्यते॥
एतैरेव गुणैर्युक्तः स्वासनश्च विशेषतः।
गजारोही नरेन्द्रस्य सर्वकर्मसु शस्यते॥
स्वासनो, दृढासनः। दुष्टगजेनापि चालयितुमशक्यमासनमुपवेशनं यस्य सतथा।
हयशिक्षाविधानज्ञस्तच्चिकित्सितपारगः।
अश्वाध्यक्षो महीभर्त्तुःस्वामनश्च प्रशस्यते॥
अनाहार्यश्च शूरश्च तथा प्राज्ञः कुलोद्गतः।
दुर्गाध्यक्षःस्मृतो राज्ञउद्युक्तः सर्वकर्मसु॥
वास्तुविद्याविधानज्ञोलघुहस्तोजितश्रमः।
दीर्घदर्शी च शूरश्चस्थपतिः परिकीर्तितः॥
यन्त्रमुक्ते पाणिमुक्ते अमुक्ते मुक्तधारिते।
अस्त्राचार्यो निरुद्वेगः कुशलश्च विशिष्यते॥
यन्त्रमुक्तेशरादौ। पाणिमुक्तेशक्त्यादौ। अमुक्तेखड्गादौ। मुक्तधारिते यष्ट्यादौ।
वृद्धः कुलोद्गतः श्लक्ष्णः पितृपैतामहः शुचिः।
राज्ञामन्तःपुराध्यक्षो विनीतश्च तथेष्यते॥
पञ्चाशाब्दाधिका योषाः पुरुषाः सप्ततेः परे।
अन्तःपुरचराः कार्या राज्ञा सर्वेषु कर्मसु॥
स्थापनाजातितत्त्वज्ञः सततं प्रतिजागृतः।
राज्ञः स्यादायुधागारे दक्षः कर्मसु चोद्यतः॥
___________________________________________________________________
१एवं सप्ताधिकारेषु पुरुषाः सप्त ते पुरे। परीक्ष्य चाधिकार्याः स्यू राज्ञा सर्वेषु कर्मसु॥ इति मुद्रितमत्स्यपुराणे पाठः।
स्थापना, आयुधयन्त्रावरणानामुचितदेशनिवेशः। जातयः, आयुधानामवान्तरभेदाः।
कर्माण्यपरिमेयानि राज्ञोभृगुकुलोद्वह।
उत्तमाधममध्यानि बुद्ध्वा कर्माणि पार्थिवः॥
उत्तमाधममध्येषु पुरुषेषु नियोजयेत्।
नरकर्मविपर्यासाद्राजा नाशमवाप्नुयात्॥
नरकर्मविपर्यासात्, उत्तमे कर्मण्यधमस्य अधमे कर्मण्युत्तमस्य नियोजनात्।
नियोगं पौरुषं भक्तिं श्रुतं शौर्यंकुलं नयम्।
ज्ञात्वा वृत्तिर्विधातव्या पुरुषाणं महीक्षिता॥ इति।
शङ्खलिखितौ,
न गृध्नुपरिवारःस्यात्कामं गृध्नोराजा प्रेयान्नहंसपरिवारो न हंसो गृध्नुपरिवारःपरिवाराद्धि दोषाः प्रादुर्भवन्ति तेऽलं विनाशाय तस्मात्पूर्वमेवतत्परिवारं लिखेत् श्रुतशीलान्वयोपपन्नम्। इति।
मनुः,
अन्यानपि प्रकुर्वीत शुचीन् प्राज्ञानवस्थितान्।
आप्तानर्थसमाहर्तॄनमान्यान् सुपरीक्षितान्।
निवर्तेतास्य यावद्भिरितिकर्तव्यता नृभिः।
तावतोऽतन्द्रितान्दक्षान् प्रकुर्वीत विचक्षणान्॥ इति।
शङ्खलिखितौ,
** **सर्वेषां राजकुलरक्षणं कोशपरिपालनं गोब्राह्मणपरित्राणं साम्परायिकं क्रियासाधारणत्वादनुजीविनां विशेषेण चारप्रतिचारौ मन्त्रप्रणिध यश्चसर्पाः तत्प्रयोजनस्वात्प्रत्यक्षा वृतिस्तस्य
राज्ञो भवेदेकान्ततो हि दोषस्तस्माद्भृत्यपक्षाः क्रोधलोभमानभयदोषोपहताः संलपिता विमानिताभ्याख्याता दानमानस्थानव्यवरोपिता हृतसर्वस्वाः स्वदोषोपहतादयः सततं प्रत्यवेक्षितव्या, धर्मार्थहितेष्वेतेषां यतेत स्वविषयाश्रावः परविषयभेदः सामादिभिरुपायैर्मन्त्रज्ञेषु मन्त्रकर्म दण्डकर्म कर्मकरेषु वीरा महत्स्वात्मनि च धर्मनित्याः सङ्ग्रहेष्वलुब्धाः प्रत्यन्तेषु मौलाः शुचयोऽर्थकृत्येषु अन्येषु यथानुरूपं नियोज्याः। इति।
अस्यार्थः। सर्वेषाम् अमात्यानाम्।सम्परायो, युद्धं तदुपयोगि साम्परायिकम्।क्रियासाधारणत्वात्,राज्यरक्षणरूपैकक्रियत्वात्। चारो, जनपदचरितज्ञानाय प्रच्छन्नचारी। तश्चरितज्ञः प्रच्छन्नः प्रतिचारः। मन्त्रप्रणिधयः, राझो मन्त्रान्वेष्टारः। एते परराजसम्बन्धिनः, सर्पाः शङ्कनीया इत्यर्थः। तत्प्रयोजनत्वात्, यतस्तदेव चरितज्ञानं चारादीनां प्रयोजनम्। प्रत्यक्षा वृत्तिः, स्वयं कार्यदर्शनम् परोक्षाचारैः परचरितज्ञानम्। एकान्ततः, अन्यतरवृत्तिमात्राश्रयेण।भृत्यपक्षाः, भृत्यैः पूर्वं सम्मानिताः। अभ्याख्यातम् ,आभिमुख्येन गुणाख्यानम्।दानमानस्थानव्यवरोपिता, दानेन व्यवरोपिता, मानेन व्यवरोपिताः, स्थानेन व्यवरोपिताः।स्वदोषोपहता आत्मदोषदूषिताः। एवमादयः सततं प्रत्यवेक्षितव्याः। तेन कारणेन एतेषां सम्बधिषु धर्मादिषु यतेत प्रयत्नं कुर्यात्। स्वविषयाश्रावः, स्वविषयस्य मन्त्रस्याश्रावणं अप्रकाशनं कार्यम्। परविषयभेदः, परविषयाणां शत्रुसम्बन्धिनाममात्यादीनां भेदः।सामादिभिरुपायैः, कार्य इति शेषः। कर्मकरेषु कर्मकरणाधिकृतेषु। दण्डकर्म, अपराधनिश्चये कार्यमिति शेषः। महत्सु कार्येषु स्वात्मनि च रक्षितव्याः।धर्मनित्या धर्मिकाः।
सङ्ग्रहेषु, अर्थस्येति शेषः। प्रत्यन्तेषु स्वमण्डलप्रत्यन्तदेशेषु। मौलाः, तत्तद्देशजाताः।
विष्णुः
, आकरलवणशुल्कतरनागवरेष्वाप्तामियुञ्जीत धर्मिष्ठान् धर्मकार्येषु निपुणानर्थकार्येषु शूरान् सङ्ग्रामकर्मसु उग्रानुग्रेषु षण्ढांस्त्रीषु। इति।
आकराः, सुवर्णरजताद्युत्पत्तिस्थानानि।लवणपदेनापि तदाकरा ग्राह्याः। शुल्कं, पण्यविंशतिभागादिस्थलशुल्कम्। तरशब्देन तरशुल्क- मुच्यते। तरः, नौष्कादिभिः सरित्तरणम्। नागवरेषु, अत्युत्कृष्टगजेषु।नागवनेष्विति पाठे गजबन्धनयोग्येषु वनेषु इति व्याख्येयम्।
मनुः,
तेषामर्थे नियुञ्जीत शूरान्दक्षान् कुलोद्गतान।
शुचीनाकरकर्मान्ते भीरूनन्तर्निवेशने॥
समाहर्तॄन् प्रकुर्वीत धर्मशास्त्रार्थनिश्चितान्।
कुलीनान् वित्तसम्पन्नान् समर्थान् कोशवृद्धये॥
तथा,
सांवत्सरिकमाप्तैश्चराष्ट्रादाहारयेद्वलिम्।
स्यादाश्रयपरो लोके वर्तेत पितृवन्नृषु॥
अध्यक्षान् विविधान् कुर्यात्तत्रतत्र विपश्चितः।
तेऽस्य सर्वाण्यवेक्षेरन् नृणां कार्याणि कुर्वताम्॥
तेषां, पूर्वोक्तानां सहायानां मध्ये। अर्थे, अर्थनिमित्तम्, अर्थार्जनोपायेष्वित्यर्थः। तस्यैव विवरणमाकरकर्मान्त इति। भीरून्, इहलोकप रलोकभीतान्। सांवत्सरिकं वलिं, संवत्सरग्राह्यं करम्।लोके लोकमध्ये ।दीनानाथादीनाम् आश्रयपरो वृत्तिकर्ता स्यात्।
तथा,
दूतं चैवप्रकुर्वीत सर्वशास्त्रविशारदम्।
इङ्गिताकारचेष्टाज्ञंशुचिं दक्षं कुलोद्गतम्॥
अनुरक्तः शुचिर्दक्षः स्मृतिमान् देशकालवित्।
वपुष्मान् वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते॥
अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया।
नृपतौ कोषराष्ट्रे तु दूते सन्धिविपर्ययौ॥
दूत एव हि सन्धत्ते भिनत्त्यवे च संहतान्।
दूतस्तत्कुरुते कर्म येन भिद्येत बान्धवः॥
स विद्यादस्य कृत्येषु निगूढेङ्गितचेष्टितैः।
आकारमिङ्गितं चेष्टां भृत्येषु च चिकीर्षितम्॥
बुद्ध्वा च सर्वं तत्त्वेन परराजचिकीर्षितम्।
तथा प्रयत्नमातिष्ठेद्यथात्मानं न पीडयेत्॥इति।
सर्वशास्त्रविशारदं, दृष्टादृष्टार्थबहुशास्त्रार्थकुशलम्। इङ्गितम्, अभिप्रायसूचकं वचनस्वरादि।आकारो, देहधर्मो मुखप्रसादवैर्ण्यादिरूपः प्रीत्यप्रीतिसूचकः। चेष्टा, करास्फालनादिक्रिया कोपादिसूचिका तां जानाति तादृशम्। अरनुक्तः, जनेष्वनुरागवान्।तेन प्रतिराजादेर प्यद्वेषविषयः। शुचिः, स्त्रीधनविषयकशौचयुक्तः। दक्षः, कार्यकालं यो नातिक्रामति। स्मृतिमान् ,राजाऽऽज्ञप्तार्थपरसन्देशयोरविस्मरणशीलः। देशकालवित्, देशकालाद्यनुरोधेन राजाज्ञप्तार्थं परसन्दिष्टमर्थं च योऽन्यथा वदति करोति च तादृशः। वपुष्मान्, प्रशस्तशरीरावयवरूपवान्। वीतभीः, राज्ञो हितार्थमप्रियस्यापि सन्देशादेर्वक्ता। अयं च दूतः परराज्ये सन्धिविग्रहप्रसक्तौ तत्र प्रेषणाय।मत्स्यपुराणे पूर्वमुक्तस्तु राजनिकट-
स्थित एव सर्वेषां कार्यकारकः। अत एवैतद्विषये—
महाभारते,
न तु हन्यान्महीपालो दूतं कस्यां चिदापदि।
दूतहन्ता तु नरकमाविशेत्सचिवैः सह॥
यथोक्तवादिनं दूतं क्षत्रधर्मरतो नृपः।
यो हन्यात्पितरस्तस्य भ्रूणहत्यामवाप्नुयुः॥ इति।
श्रीरामायणेऽपि,
दूतानवद्ध्यान् प्रवदन्ति सन्तो दूतस्य दण्डा बहवः प्रदिष्टाः।
वैरूप्यमङ्गेषु कशाभिघातो मौण्ड्यं तथा लक्षणसन्निपातः॥
एतान् हि दूते प्रवदन्ति दण्डान् दूतस्य दण्डो हि बधो न दृष्टः। इति।
इति परराष्ट्रदूतः।
अथानुजीविवृत्तम्।
मत्स्यपुराणे,
मत्स्य उवाच।
यथानुवर्त्तितव्यं स्यान्मनो राज्ञोऽनुवर्तिभिः।
तथा ते कथयिष्यामि निबोध गदतो मम॥
ज्ञात्वा11सर्वात्मना कार्यं स्वशक्त्या रविनन्दन।
अक्षिप्य वचनं तस्य न वक्तव्यं कदाचन॥
अनुकूलं प्रियं त्वस्य वक्तव्यं जनसंसदि।
रहोगतस्य वक्तव्यमप्रियं तद्धितं भवेत्॥
परार्थमस्य वक्तव्यं स्वस्थे चेतसि पार्थिव।
स्वार्थःसुहद्भिर्वक्तव्यो न स्वयं हि कदाचन॥
कार्यातिपातः सर्वेषु रक्षितव्यः प्रयन्ततः।
न च हिंस्याद्धनं किञ्चिन्नियुक्तेन च कर्मणि॥
नोपेक्ष्यस्तस्य मानश्चतथा राज्ञः प्रियो भवेत्।
राज्ञश्च न तथा कार्यं वेषभाषितचेष्टितम्॥
राजलीला न कर्त्तव्या तद्विष्टं च विवर्जयेत्।
अन्तःपुरधनाध्यक्षैर्वैरिद्तैर्निराकृतैः॥
संसर्गंन बजेद्राजन् विना पार्थिवशासनम्।
निःस्नेहतां चावमानं प्रयत्नेन तु गोपयेत्॥
यच्च गुह्यं भवेद्राज्ञो न तल्लोके प्रकाशयेत्।
नृपेण श्रावितं यत्स्याद्गुह्याद्गुह्यं नृपोत्तम॥
न तत्संश्रावयेल्लोके तथा राज्ञः प्रियो भवेत्।
आज्ञप्यमाने चान्यस्मिन् समुत्थाय त्वरान्वितः॥
अहं किं करवाणीति वाच्यो राजा विजानता।
कार्यावस्थां च विज्ञाय कार्यमेतत्तथा भवेत्॥
सततं क्रियमाणेऽस्मिंल्लाघवं तु व्रजेत् ध्रुवम्।
राज्ञः प्रियाणि वाच्यानि न चात्यर्थं पुनः पुनः॥
न हास्यशीलस्तु भवेन्न वापि भ्रुकुटीमुखः।
नातिवक्ता न निर्वक्तान च मत्सरिकस्तथा॥
आत्मसम्भावितश्चैव न भवेत्तु कथञ्चन।
दुष्कृतानि नरेन्द्रस्य न तु सङ्कीर्तयेत्कचित्॥
वस्त्रमस्त्रमलङ्कारं राज्ञा दत्तं तु धारयेत्।
औदार्येण न तद्देयमन्यस्मै भूतिमिच्छता॥
न चैवात्यशनं कार्यं दिवास्वप्नं न कारयेत्।
नानिर्द्दिष्टे तथा द्वारे प्रविशेत्तु कथञ्चन॥
न च पश्येत्तु राजानमयोग्यासु च भूमिषु।
राज्ञस्तु दक्षिणे पार्श्वेवामे वोपविशेत्सदा॥
पुरस्ताच्चतथा पश्चादासनं तु विगर्हितम्।
जृम्भां निष्ठीवनं कासं कोपं पर्यस्तिकाश्रयम्॥
भ्रुकुटिं वातमुद्गारं तत्समीपे विवर्जयेत्।
स्वयं तत्र न कुर्वीत स्वगुणाख्यापनं बुधः॥
स्वगुणाख्यापने युक्त्या परमेव प्रयोजयेत्।
हृदयं निर्मलं कृत्वा परां भक्तिमुपाश्रितैः।
अनुजीविगणैर्भाव्यं नित्यं राज्ञामतन्द्रितैः॥
शाठ्यं लौल्यं च पैशुन्यं नास्तिक्यं क्षुद्रतां तथा।
चापल्यं च परित्याज्यं नित्यं राजानुजीविभिः॥
श्रुतेन विद्याशिल्पैश्च संयोज्यात्मानमात्मना।
राजसेवांततः कुर्याद्भूतये भूतिवर्द्धनीम्॥
नमस्कार्याःसदा चास्य पुत्रवल्लभमन्त्रिणः।
सचिवैश्वास्य विश्वासो न तु कार्यः कथञ्चन॥
अपृष्टश्वास्य न ब्रूयात्कामं ब्रूयात्तथाऽऽपदि।
हितं पथ्यं च वचनं हितैः सह सुनिश्चितम्॥
चित्तं चैवास्य विज्ञेयं नित्यमेवानुजीविना।
भर्तुराराधनं कुर्याच्चित्तज्ञो मानवः सुखम्।
रागापरागौचैवास्य विज्ञेयौभूतिमिच्छता।
त्यजेद्विरक्तं नृपतिं रक्ताद्वृत्तिंतु कारयेत्॥
विरक्तः कारयेन्नाशं विपक्षाभ्युदयं तथा।
आशावर्द्धनकं कृत्वा फलनाशं करोति च॥
अकोपोऽपि सकोपाभः प्रसन्नोऽपि च निष्फलः।
वाक्यं स मन्दं वदति वृत्तिच्छेदं करोति च॥
प्रदेशवाक्यैर्मुदितो न सम्भावयतेऽन्यथा।
आराधनासु सर्वासुसुप्तवच्च विचेष्टते॥
कथासु दोषं क्षिपति वाक्यभङ्गंकरोति च।
लक्ष्यते विमुखश्चैव गुणसङ्कीर्त्तनेऽपि च॥
दृष्टिं क्षिपत्यथान्यत्र क्रियमाणे च कर्मणि।
विरक्तलक्षणं ह्येतच्छृणु रक्तस्य लक्षणम्॥
दृष्ट्वा प्रसन्नो भवति वाक्यं गृह्णाति चादरात्।
कुशलादिपरिप्रश्नीसम्प्रयच्छति चासनम्॥
विविक्तदर्शने चास्य रहस्येन न शङ्कते।
जायते हृष्टवदनः श्रुत्वा तस्य तु सङ्कथाम्॥
अप्रियाण्यपि वाक्यानि तदुक्तान्यभिनन्दते।
उपायनं च गृह्णाति स्तोकमप्यादरात्तथा॥
कथान्तरेषु स्मरति प्रहृष्टवदनस्तथा।
इति रक्तस्य कर्त्तव्या सेवा रविकुलोद्वह॥
आपत्सु न त्यजेन्पूर्व विरक्तमपि सेवितम्।
मित्रं न चापत्सु तथा च भृत्यायजन्ति ये निर्गुणमप्रमेयम्।
प्रभुं विशेषेण च ते व्रजन्ति सुरेन्द्रधामामरवृन्दजुष्टम्॥ इति।
महाभारते धौम्यवचनम्—
दिष्टद्वारो लभेद्द्रष्टुं राजस्वेषु न विश्वसेत्।
तदेवासनमन्विच्छेद्यत्र नातिपतेत्परान्॥
दिष्टद्वारः, निवेदनानन्तरमादिष्टप्रवेशः। सामान्यतो वा निवारितद्वारप्रवेशः।
यो न यानं न पर्यङ्कं न पीठं न गजं रथम्।
अरोहत्सम्मतोऽस्मीति स राजवसतिं वसेत्॥
यत्र यत्रैनमासीनं शङ्केरन् दुष्टचारिणः।
न तत्रोपविशेद्यो वैस राजवसतिं वसेत्॥
न चानुशिष्याद्राजानमपृच्छन्तं कदाचन।
तूष्णीं त्वेनमुपासीत काले समभिपूजयन्॥
असूयन्ति हि राजानो जनाननृतवादिनः।
तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा॥
नैषां दारेषु कुर्वीत मैत्रीं प्राज्ञःकदाचन।
अन्तःपुरचरा ये च द्वेष्टि यानहिताश्चये॥
यान् राजा द्वेष्टि, ये च राज्ञोऽहिताः, तेषु मैत्रीं न कुर्वीतेत्यनुषङ्गः।
विदिते चास्य कुर्वीत कार्याणि सुबहून्यपि।
एवं विचरतो राज्ञिन क्षतिर्जायते क्वचित्॥
गच्छन्नपि परां भूमिमपृष्टो ह्यनियोजितः।
जात्यन्धइव मन्येत मर्यादामनुचिन्तयन्॥
समतिक्रान्तमर्यादं पूजयन्ति नराधिपाः।
य
त्नाश्चोपचरेदेनमग्निवद्देववत्त्विह॥
अनृतेनोपचीर्णो हि हन्यादेव न संशयः।
यद्यद्भर्त्तानुयुञ्जीत तत्तदेवानुवर्त्तयेत्॥
प्रमादमवलेपं च कोपं च परिवर्जयेत्।
समर्थनासु सर्वासुहितं च प्रियमेव च॥
संवर्णयेत्तदेवास्य प्रियादपि हितं भवेत्।
अनुकूलो भवेच्चास्य सर्वार्थेषु कथासु च॥
अप्रियं चाहितं यत्स्यात्तदस्मै नानुवर्णयेत्।
नाहमस्य प्रियोऽस्मीति मत्वा सेवेत पण्डितः॥
अप्रमत्तश्चसततं हितं कुर्यात्प्रियं च यत्।
नास्यानिष्टानि सेवेत नाहितैः सह संवदेत्॥
स्वस्थानान्नविकम्पेत स राजवसतिं वसेत्।
दक्षिणं वाथ वामं वा पार्श्वमासीतपण्डितः॥
रक्षिणां
पात्तशस्त्राणां स्थानं पश्चाद्विधीयते।
नित्यं हि प्रतिषिद्धं तु पुरस्तादासनं महत्॥
न च सन्दर्शने किञ्चिदवद्धमपि सञ्जपेत्।
अपि ह्येतद्दरिद्राणां व्यलीकस्थानमुत्तमम्॥
न मृषाभिहितं राज्ञा मनुष्येषु प्रकाशयेत्।
असूयन्ति हि राजानो नराननृतवादिनः॥
तथैव चावमन्यन्ते नरान् पण्डितमानिनः।
शूरोऽस्मीति न दृप्तःस्याद्बुद्धिमानिति वा पुनः।
प्रियमेवाचरन् राज्ञःप्रियो भवति भोगवान्।
ऐश्वर्यं प्राप्यदुष्प्रापं प्रियं प्राप्य च राजतः॥
अप्रमत्तो भवेद्राज्ञः प्रियेषु च हितेषु च।
यस्य कोपो महाबाधः प्रसादश्चमहाफलः॥
कस्तस्य मनसापीच्छेदनर्थं प्राज्ञसम्मतः।
न चोष्ठौ न भुजौ जातु न च वाक्यं समाक्षिपेत्॥
सदा वातं च वानं च ष्ठीवनं वाऽऽचरेच्छनैः।
हास्यवस्तुषु चान्येषु वर्त्तमानेषु केषु चित्॥
नातिगाढं प्रहृष्येत न चाप्युन्मत्तवद्धसेत्।
न चातिधैर्येण चरेद्गुरुतां हि व्रजेत्ततः॥
स्मितं तु मृदुपूर्वेण दर्शयेत प्रसादजम्।
लाभेन हर्षयेद्यस्तु न व्यथेद्योऽवमानितः॥
असम्मूढश्चयो नित्यं स राजवसतिं वसेत्।
राजानं राजपुत्रं वा संवर्णयति यः सदा॥
अमात्यः पण्डितो भूत्वा स चिरं तिष्ठते प्रियः।
प्रगृहीतश्च योऽमात्यो निगृहीतस्त्वकारणैः॥
न निर्वदति राजानं लभते सम्पदं पुनः।
प्रत्यक्षं च परोक्षं च गुणवादी विचक्षणः॥
उपजीवी भवेद्राज्ञोविषये वापि यो वसेत्।
अमात्यो हि बलाद्भोक्तुं राजानं प्रार्थयेत यः॥
न स तिष्ठेच्चिरं स्थानं गच्छेच्च प्राणसंशयम्।
श्रेयः सदात्मनो दृष्ट्वा परं राज्ञा न संवदेत्॥
विशेषयेच्च राजानं योग्पभूमिषु सर्वदा।
विशेषयेत्, राजानमधिकं स्वात्मानं च ततो न्यूनं कुर्यात्।
अम्लानो बलवाञ्छ्वरश्छायेवानुगतः सदा
सत्यवादी मृदुर्दान्तः स राजवसतिं वसेत्।
अन्यस्मिन् प्रेष्यमाणे तु पुरस्ताद्यः समुत्पतेत्॥
अहं किंकरवाणीति सराजवसतिं वसेत्।
आन्तरे चैव वाह्येच राज्ञा यश्चाथ सर्वदा॥
आदिष्टो नैव कम्पेत स राजवसतिं वसेत्।
यो वै गृहेभ्यः प्रवसन् प्रियाणां नानुसंस्मरेत्॥
दुःखेन सुखमन्विच्छेत्सराजवसतिं वसेत्।
समवेषन कुर्वीत नोच्चैःसन्निहितो वसेत्॥
न मन्त्रं बहुधा कुर्यादेवं राज्ञः प्रियो भवेत्।
न कर्मणि नियुक्तः सन् धनं किञ्चिदपि स्पृशेत्॥
प्राप्नोति हि हरन्द्रव्यं वेधनं यदि वा वधम्।
पानं वस्त्रमलङ्कारं यच्चान्यन्सम्प्रयच्छति॥
तदेव धारयेन्नित्यमेवं प्रियतरो भवेत्। इति।
इत्यनुजीविवृत्तम्।
इति श्रीमत्सकलसामन्तचक्रचुडामणिमरीचिमञ्जरीनीराजितचरणकमल—
श्रीमन्महाराजाधिराजप्रतापरुद्रतनूज
श्रीमन्महाराजमधुकरसाहसूनु—
श्रीमन्महाराजाधिराजचतुरुदधिवलयवसुन्धराहृदयपुण्डरीकविकासदिनकर—
श्रीवीरसिंहदेवोद्योजित—
श्री हंसपण्डितात्मजश्रीपरशुराममिश्रसूनु—
सकलविद्यापारावारपारीणधुरीण—
जगद्दारिद्र्यमहागजपारीन्द्रविद्वज्जनजीवातु—
श्रीमन्मित्रमिश्रकृते
श्रीवीरमित्रोदयाभिधनिबन्धे राजनीतिप्रकाशे राजधर्माः।
अथ राज्ञो निवासयोग्यदेशविचारः।
तत्रमनुः,
जाङ्गलं सस्यसम्पन्नमार्यप्रायमनाविलम्।
रम्यमानतसामन्तं स्वाजीव्यं देशमावसेत्॥ इति।
जाङ्गलदेशलक्षणमन्यत्राभिहितम्—
अल्पोदकतृणो यस्तु प्रवातः प्रचुरातपः।
स ज्ञेयो जाङ्गलो देश इति देशविदो विदुः॥ इति।
स्मृत्यन्तरेऽपि,
स्वल्पवृक्षोदकपर्वतो बहुपक्षिमृगः प्रचुरवर्षातपश्चजाङ्गलोदेश इति।
इदं च स्वल्पोदकादिविशेषणं देशस्य परैरनाक्रमणीयत्वार्थम्। राजधान्यां तु बहुजलादिमत्त्वंतत्प्रकरणे वक्ष्यते। सस्यैः, वार्षिकशारदहैमन्तिकवासन्तिकरैव्यवहितोत्पत्तिकैर्धान्यैः सम्पूर्णम्।आर्यप्रायं, प्रचुरधार्मिकजनम्। अनाविलं, सर्पव्याघ्रादिभिरनाकुलम्। रम्यं मनोरमम्। आनतसामन्तं, दानमानादिना प्रणततत्तद्भूमिपालम्।स्वाजीव्यं, सुलभकृषिबाणिज्यादिलोकजीवनोपायम्। देशमाबसेदित्यत्र “**उपान्वध्याङ्वस”**इत्याधारे द्वितीया। तथा—
याज्ञवल्क्यः,
** रम्यं पशव्यमाजीव्यं जाङ्गलं देशमावसेत्। इति।**
पशव्यं, पशुभ्यो हितम्। आजीव्यं, समन्तादुपजीव्यौषधितृणकाष्ठादियुक्तम्।
मत्स्यपुराणेऽपि,
मत्स्य उवाच।
राजा सहायसंयुक्तः प्रभूतयवसेन्धनम्।
रम्यमानतसामन्तं मध्यमं देशमावसेत्॥इति।
प्रभूतं प्रचुरं यवसं तृणम् इन्धनं च यस्मिंस्तादृशम्। मध्यमं स्वपालनीयदेशमध्यस्थम्।
वैश्यशूद्रजनप्रायमनाहार्यं तथा परैः।
किञ्चिद्ब्राह्मणसंयुक्तं बहुकर्मकरं तथा॥
अनाहार्यं, परैर्ग्रहीतुमशक्यम्। ब्राह्मणबाहुल्ये सहवासादिना राजकीयेभ्यस्तेषां पीडा स्यादित्यतः किञ्चिद्ब्राह्मणसंयुक्तमिति।
अदेवमातृकं रम्यमनुरक्तजनावृतम्।
करैरपीडितं चापि बहुपुष्पफलं तथा॥
अदेवमातृकं, नदीमातृकम्। नद्यम्बुसम्पन्नव्रीहिपालितमित्यर्थः।
अगम्यं परचक्राणां तदासगृहमापदि।
समदुःखसुखं राज्ञः सततं प्रियमास्थितम्॥
सरीसृपविहीनं च व्यालतस्करवर्जितम्।
एवंविधं यथालाभं राजा विषयमावसेत्॥ इति।
विषयो देशः।आपदि, शत्रोर्विपत्काले। तेषां परचक्राणां वासगृहाणि यत्र तत्तथा। सरीसृपाः सर्पाः।व्याला व्याघ्राः।“यथालाभम्”“एवं विधम्”इत्यनेनैतत्प्रकरणोक्तकतिपयदेशविशेषणराहित्येऽपि न क्षतिरिति दर्शितम्।
विष्णुधर्मोत्तरेऽपि,
राजा सहायसम्पन्नः पशव्यं जाङ्गलं शिवम्।
वैश्यशूद्रजनप्रायमरोगं देशमावसेत्॥इति।
इति राज्ञो निवासयोग्यदेशविचारः।
अथ दुर्गम्।
तत्र याज्ञवल्क्यः,
तत्र दुर्गाणि कुर्वीत जनकोशात्मगुप्तये। इति।
तत्र, पूर्वोक्तदेशे।
मत्स्यपुराणे,
तत्र दुर्गे नृपः कुर्यात्षण्णामेकतमं बुधः।
तानि च षड्विधानि —
स एवाह,
धन्वदुर्गे महीदुर्गे नरदुर्गे तथैव च।
वार्क्ष्ये चैचाम्बुदुर्गे च गिरिदुर्गे च पार्थिव॥ इति।
धन्वदुर्गे, निवासस्थानरूपाया राजधान्याः समन्तत एकद्विदिनमाध्ये मार्गे मरुभूमिरूपं दुर्गम्। तच्च द्विविधं स्वतःसिद्धमरुभूमिरूपं, समन्ततो वापीकृपतडागादिजलस्थानानां वृक्षाणां च विनाशनेन निर्जलतां निवृक्षतां च सम्पाद्य कृत्रिममरुभूमिरूपं च। तत्राद्यमुक्तम् —
औशनमे धनुर्वेदे,
सलिलवर्जितमतिशर्कराचितं रुक्षं निराश्रयं विषमै
र्विषकी
टैश्चितं विषमप्रदेशे दुःसञ्चरं बलवद्भिः पालकैरूपेनं रोगविनिर्मुक्तं धान्वनदुर्गं श्रेयसे भवेत्। इति।
द्वितीयेतुक्तम्—
महाभारते,
यदा तु पीडितो राजा भवेद्राज्ञा बलीयसा।
तदाभिमंश्रयेद् दुर्गे बुद्धिमान् पृथिवीपतिः॥
इत्युपक्रम्य —
सस्याभिहारं कुर्याच्च स्वयमेव नराधिपः।
असम्भवेऽभिहारस्य दाहयेदग्निना भृशम्॥
क्षेत्रस्थेषु च सस्येषु शत्रोरुपचयो भवेत्।
विनाशयेद्धि तत्सर्वं बलेनाथ स्वकेन वै॥
नदीषु दुर्गेषु सदा सङ्क्रमानवसादयेत्।
जलं विस्रावयेत् सर्वमनिस्राव्यं च दुषयेत्॥
दूषयेत्, विषादिनेति शेषः।
दुर्गाणां चाभितो राजा मूलच्छेदं तु कारयेत्।
सर्वेषां क्षुद्रवृक्षाणां चैत्यवृक्षं विवर्जयेत्॥
प्रवृद्धानां च वृक्षाणां शाखाः प्रच्छेदयेत्तथा। इति।
चैत्यवृक्षं, देवतायतनवृक्षम्। चितासम्बन्धिवृक्षमिति वा। केचित्तु समन्तनोऽवस्थितधन्विरूपं दुर्गं धन्वदुर्गम्। वक्ष्यमाणनरदुर्गे तु धन्व्यतिरिक्तमनुष्यैरविरललग्नतयाऽवस्थितैरुपकल्पितमिति ततो भेद इत्याहुः। म
ग्रामिष्टकापाषाणादिनिर्मितं दुर्गं महीदुर्गम्। तच्च द्विविधम्। अतिनिम्नोशतभूमिरूपमेकं, अपरं च पाषाणैरिष्टकाभिर्मृदा वा निर्मितेन युद्धार्थमुपरियोधावस्थानयोग्येन प्राकारेणोपकल्पितम्। तत्राद्यमुक्तम्—
औशनसे धनुर्वेदे,
सर्वोपकरणोपेतं गुप्तं चोपायसंयुतम्।
अत्युत्सेधातिनिम्नं च महीदुर्गं तदिष्यते॥ इति।
सर्वोपकरणोपेतं, अपेक्षितसकलपदार्थसमन्वितम्। गुप्तं, योधबरैः संरक्षितम्। शत्रुभिरविज्ञातप्रवेशनिर्गममार्गमिति वा। उपायसंयुतम्, उपायैः शत्रुनिनर्हणोपायैराग्नेयास्नादिभिर्युक्तम्। अत्युत्सेधातिनिम्नं, मध्ये अत्युत्सेधमन्युच्चम्, अतिनिम्नं समन्ततोऽतिनिम्नम्। बैपरीत्येन बोच्चत्वनिम्नत्वयुक्तम्। द्वितीयं तु विधान्तरानन्तर्भूतत्वान्महीदुर्गान्तर्भूतमेव, लोकप्रसिद्धेश्च। नरदुर्गं,
नराणामुपलक्षणत्वेन यथासम्भवं चतुरङ्गसेनासन्निवेशविशेषरूपं दुर्गम्। इदमेव च बलदुर्गम्। तदुक्तम्—
औशनसे धनुर्वेदे,
मौलं बश्यसुसन्तुष्टं शिक्षायुक्तं सनायकम्।
भीमं चैवाप्रमत्तं च दलदुर्गं प्रशस्यते ॥ इति।
मौलं परम्परागतयोधरूपम्। प्रशंसितमेतत्—
महाभारते,
दुर्गेषु च महाराज षट्सु ये शाखनिश्चिताः।
सर्वे दुर्गेषु शस्यन्ते नरदुर्गं सुदुस्तरम् ॥ इति।
वार्क्षे, समन्ततो घनतरवृक्षरूपं दुर्गम्। तदुक्तम्—
औशनसे धनुर्वेदे,
अज्ञातमार्गे गहनं वृक्षगुल्मलतादिभिः।
सकण्टकैर्बनं दुर्गं भूतये स्यात्सुविस्तृतम् ॥ इति।
अम्बुदुर्गम्, समन्ततोऽगाधजलनद्यादिरूपं दुर्गम्। इदमघिकृत्योक्तम्—
औशनसे धनुर्वेदे,
सङ्भिप्तेनैकमार्गेण सविषैस्तु जलेचरैः।
सलिलैर्विषमं स्पर्शनखादनबधप्रियैः ॥ इति।
स्पर्शनं खादनं वधश्च तत्प्रियैः। गिरिदुर्गं च द्विविधम्। समन्ततो दुर्गमपर्वतवेष्टितभूभागरूपं, दुर्गमसजलगिरिशिखररूपं च। तदुक्तम्—
औशनसे धनुर्वेदे,
दुरारोहं परैर्दूरं शरपातस्य गोचरात्।
सर्वसम्पत्समायुक्तं दुर्गं स्यात्पार्वतं श्रिये ॥ इति।
सर्वेषां धान्यजलादीनां सम्पत् आधिक्यं तेन समायुक्तं यत्तादृशम्। एतान्येव षड्विधानि दुर्गाण्याह—
मनुरपि,
धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव च।
नृदुर्गं गिरिदुर्गं च समाश्रित्य वसेत्पुरम्॥ इति।
तिर्यक्प्रभृतयोऽपि दुर्गमाश्रिता इत्यतो राज्ञा तदबश्यमाश्रयणीयमित्यभिप्रेत्य—
स एवाह,
त्रीण्याद्यान्याश्रितास्त्वेषां मृगगर्ताश्रया झषाः।
त्रीण्युत्तराणि क्रमशः प्लवङ्गमनरामराः॥
त्रीण्याद्यानि, आद्यानि त्रीणि दुर्गाणि। तत्र मरुभूमिरूपं मृगा आश्रिताः, गर्ताश्रया मूषकादयः दुर्गममहीरूपम्, झषा मत्स्या अगाधजलरूपम्, प्लवङ्गमा वानरा वृक्षसमुदायरूपम्, नरा मनुष्या नरसमुदायरूपम्। एकाकिनां हि परैरभिभाव्यत्वं स्पष्टमेव। अपरा देवाः कैलासादिदुर्गमाश्रिता इत्यतो राज्ञाप्येषामन्यतमदुर्गमाश्रयणीयमित्यर्थः।
यथा दुर्गाश्रितानेतान्नोपहिंसन्ति शत्रवः।
तथारयो न हिंसन्ति नृपं दुर्गसमाश्रितम्॥ इति।
दुर्गस्यावश्यविधेयत्वं तत्प्रकारविशेषं च—
बृहस्पतिराह,
आत्मदारार्थलोकानां सञ्चितानां तु गुप्तये।
नृपतिः कारयेदुदुर्गं माकारद्वारसंयुतम्॥ इति।
मनुरपि,
एकः शतं योधयति प्राकारस्थो धनुर्द्धरः।
शतं दशसहस्राणि तस्माद्दुर्गे विधीयते॥ इति।
तेषां षण्णामपि दुर्गाणां मध्ये गिरिदुर्गस्य
त्राशस्त्यमुक्तम्—
मत्स्यपुराणे,
सर्वेषामेव दुर्गाणां गिरिदुर्गे प्रशस्यते। इति।
मनावपि,
सर्वेषां तु प्रयत्नेन गिरिदुर्गे समाश्रयेत्।
एषां हि बाहुगुण्येन गिरिदुर्गे विशिष्यते ॥ इति।
बाहुगुण्येन बहुतरगुणवत्त्वेन। ते च गुणा दुरारोहत्वादयः प्रत्यक्षसिद्धा एव। तेषु च यथासम्भवं परिस्वादि कार्यमित्युक्तम्—
मत्स्यपुराणे,
दुर्गे च परिखोपेतं प्राकाराट्टालसंयुतम्।
शतघ्नीयन्त्रमुरुपैश्च शतशश्च समाहृतम् ॥ इति।
इति दुर्गम्।
अथ पुरनिर्माणम्।
तत्र मत्स्यपुराणे,
गोपुरं सकपाटं तु तत्र स्यात्सुमनोहरम्।
तत्र, दुर्गे। गोपुरं, पुरद्वारम्। तत्प्रमाणं तु —
तत्रैव,
सपताकगजारूढो येन राजा बिशेत्पुरम्। इति।
विशेषान्तरमप्युक्तम्—
तत्रैव,
चतस्रश्च तथा तत्र कार्यास्त्वायतवीथयः।
एकस्मिंस्तत्र वीथ्यग्रे देववेश्म भवेददृडम्॥
बीथ्यग्रे च द्वितीये च राजवेश्म विधीयते।
धर्माधिकरणं कार्ये वीथ्यग्रे च तृतीयके॥
चतुर्थे चैव वीथ्यग्रे गोपुरं तु विधीयते।
आयतं चतुरस्रं वा वृत्तं वा कारयेत्पुरम्॥
आयतं दीर्घचतुरस्रम्।
स्रक्तिहीनं त्रिकोणं च यवमध्यं तथैव च।
स्रक्तिहीनं कोणरहितम्।
अर्द्धचन्द्रप्रकारं च वज्राकारं च कारयेत्॥
अर्द्धचन्द्रं प्रशसन्ति नदीतीरेषु तद्वशात्12।
अन्यत्र तन्न कर्तव्यं प्रयत्नेन विजानता॥ इति।
तत्र विशेषमाह—
मनुः,
तत्स्यादायुधसम्पन्नं धनधान्येन वाहनैः।
ब्राह्मणौः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन्धनैः॥ इति।
पुरमित्युपक्रमे—
बृहस्पतिरपि,
भूपानामिन्धनरमैर्वेत्रशष्पान्नवाहनैः।
यन्त्रायुधैश्च विविधैः स्निग्धैः शूरैर्नरैर्युतम्॥
स्निग्धैः अनुरक्तैः।
वेदविद्याविदो विप्रान् क्षत्रियानग्रिहोत्रिणः।
आहृत्य स्थापयेत्तत्र तेषां वृतिं प्रकल्पयेत्॥
अनाच्छेद्याः करास्तेभ्यः मदद्याद्गृहभूमयः।
अनाच्छेद्या अग्राह्याः। भूमय इति च्छान्दसो भूमीरित्यर्थे प्रयोगः।
मुक्ता भाव्याश्च नृपतिर्लेखयित्वा स्वशासने॥
मुक्ताः, करादिनिर्मुक्ताः। नृपतिः, विभक्तिव्यत्ययेन तृपतिना। स्वशासने, स्वकरादानकरणे। लेखयित्वा, एवं दत्ता गृहाः करनिर्मुक्ता इति लेखयित्वा। भाव्याः परिपालनीयाः।
नित्यं नैमित्तिकं काम्यं शान्तिकं पौष्टिकं सदा।
पौराणां कर्म कुर्युस्ते सन्दिग्धे विनयं तथा॥ इति।
सन्दिग्धे, कार्ये। विनयं, शिक्षाम्। पुरं कुर्यादित्युपक्रम्य—
विष्णुधर्मोत्तरे,
एषामन्यतमे दुर्गे धनधान्यसमायुते।
हस्त्यश्वरथसम्पन्ने मणिभिरूपशोमिते॥
यन्त्राढ्ये वेदबहुले युद्धोपकरणैर्युते।
सुसञ्चिते धनाढ्ये च बहुपेये बहूदके॥
इस्त्यश्वरथगोवैद्यसांवत्सरयुते शुभे।
घृततैलौषधियुते सर्वोपकरणैस्तथा॥
प्राकारपरिखावप्रगोपुराट्टलकैर्युते।
चाटतस्करदुर्वृत्तक्रुद्धलुब्धादिवर्जिते॥ इति।
वेदबहुले, वैदिकब्राह्मणबहुले। सुसञ्चिते, वक्ष्यमाणसकलपदार्थसञ्चययुक्ते। चाटाः, बहुभाषिणः। परिस्वादिकरणे विशेषमाह—
बृहस्पतिः,
समा निम्नोश्रता वापि यत्र भूमिर्यथाविधा।
शालाट्टपरिसाद्याश्च कर्त्तव्याश्च तथाविधाः॥
तथाविधाः, भूमेर्निम्नोश्रततानुसारेण निम्ना उन्नताश्च
कार्या इत्यर्थः।
समन्तात्तत्र वेश्मानि कुर्युः प्रकृतयस्ततः।
द्विजवैश्यवणिक् शिल्पिकारुका रक्षकास्तथा॥
स्थलावस्थाननिष्काशभ्रमश्वभ्रचतुष्पवान्।
समाजविक्रयस्थानगोव्रजांश्चैव कल्पयेत्॥
एवमन्येषां गृहादौ निर्मित राज्ञो निवासयोग्यगृहनिर्माणे प्रकारमाह—
स एव,
दुर्गमध्ये गृहं कुर्याज्जलवृक्षान्वितंपृथक्।
प्राग्दिशि प्राङ्मुखीं तस्य लक्षण्यां कल्पयेत्सभाम्॥
माल्यधूपासनोपेतां वीररत्नसमन्विताम्।
प्रतिमालेख्यदेवैस्तु युक्तामग्न्यम्बुना तथा॥ इति।
विष्णुधर्मोत्तरेऽप्युक्तम्—
दैवज्ञस्थपतिभ्यां तु सम्मन्त्र्य शुभलक्षणम्।
तत्र वासेद्गृहं राजा सर्वोपकरणैर्युतम्॥ इति।
तत्र, दुर्गमध्ये। वासेत्, रचयेत्। राज्ञोमुख्यगृहस्य चतुर्दिक्षु कोशादिगृहाण्युक्तानि—
मत्स्यपुराणे,
राज्ञा कोशगृहं कार्यं दक्षिणे राजवेश्मनः।
तस्यापि दक्षिणे भागे गजस्थानं विधीयते॥
गजानां प्राङ्मुखी शालाकर्त्तव्या वाप्युदङ्मुखी।
अग्नेये च तथा भागे आयुधागारमिष्यते॥
महानसं च धर्मज्ञ कर्मशाला तथाऽपरा।
गृहं पुरोधसः कार्यं वामतो राजवेश्मनः॥
मन्त्रिवेदविदां चैव चिकित्साकर्तुरेव च।
तत्रैव च तथा भागे कोष्ठागारं विधीयते॥
गवां स्थानं तथैवात्र तुरगाणां तथैव च।
उत्तराभिमुखीश्रेणी तुरगाणां विधीयते॥
दक्षिणाभिमुखा वाथ परिशिष्टास्तु गर्हिताः॥
तुरगास्ते तथा धार्याः प्रदीपैः सार्वरात्रिकैः॥ इति॥
मन्दुरास्याश्वानां दृष्टिदोषनिरासाय कुक्कुटादिस्थापनमुक्तम्—
तत्रैव,
कुक्कुटान् वानरांश्चैव मर्कटांश्च विशेषतः॥
श्याममुखताम्रमुखाभ्यां ह्रस्वलाङ्गुलदीर्घलाङ्गुलाभ्यां बा बानरमर्कटयोर्भेदः॥
धारयेदश्वशालासु सबन्सां धेनुमेव च॥
अजाश्च धार्या यत्नेन तुरगाणां हितैषिणा॥
गोगजाश्वादिशालासु तत्पुरीषस्य निर्गमः॥
अस्तङ्गते न कर्तव्यो देवदेवे दिवाकरे॥
ततस्तत्र यथास्थानं राजा विज्ञाय सारथिम्॥
दद्यादावसथस्थानं सर्वेषामनुपूर्वशः॥
योधानां शिल्पिनां चैव सर्व्वेषामविशेषतः॥
दद्यादावसथान् दुर्गे मन्त्रकालविदां शुभान्॥
गोवैद्यानश्ववैद्यांश्च गजवैद्यांस्तथैव च॥
आहरेत भृशं राजा दुर्गे हि प्रवला रुजः॥
कुशीलवानां विप्राणां दुर्गे स्थानं विधीयते॥
न बहूनामतो दुर्गे बिना कार्यं तथा भवेत्॥
दुर्गे च यन्त्राः कर्तव्या नानाप्रहरणान्विताः॥
सहस्रघातिनो राज्ञा तैस्तु रक्षा विधीयते॥
दुर्गे द्वाराणि गुप्तानि कार्याष्यपि च भूभृता॥
सञ्चयश्चात्र सर्वेषामायुधानां प्रशस्यते॥
धनुषां क्षेपणीयानां तोमराणां च पार्थिव॥
क्षेपणीयानां, क्षेप्तुं योग्यातां पाषाणानाम्, लोहसीसगु–
लिकानां च।
शराणामथ खड्गानां कवचानां तथैव च।
लगुडानां गुडानां च हुडानां परिघैः सह॥
अश्मनां च प्रभूतानां मुद्गराणां तथैव च।
त्रिशूलानां पट्टिशानां कणपानां च पार्थिव॥
प्रासानां च सशूलानां शक्तीनां च नरोत्तम्।
परस्वधानां चक्राणां वर्मणां चर्मभिः सह॥
कुद्दालरज्जुवेत्राणां पीठकानां तथैव च।
हिंसकानां13 च दात्राणामङ्गाराणां च सञ्चयः॥
सर्वेषां शिल्पिभाण्डानां सञ्चयश्चात्र शिष्यते।
वादित्राणां च सर्वेषामौषधीनां तथैव च॥
यवसानां प्रभूतानामिन्धनस्य च सञ्चयः।
गुडस्य सर्वतैलानां गोरसानां तथैव च॥
बसानामथ मज्जानां स्नायूनामस्थिभिः सह।
गोचर्मपटहानां च धान्यानां सर्वतस्तथा॥
सर्वतः, सर्वेषाम्।
तथैवाभ्रपटानां च यवगोधूमयोरपि।
शणसर्जरसं भूर्जं जतु लाक्षा च टङ्कणम्॥
अभ्रम्, अभ्रकसंज्ञको धातुविशेषः।
राजा सञ्चिनुयाद्दुर्गे यच्चान्यदपि किञ्चन॥
कुम्भेष्वाशीविषाः कार्या व्यालसिंहादयस्तथा।
मृगाश्व पक्षिणश्चैव रक्ष्यास्ते च परस्परम्॥
स्थानानि च विरुद्धानां सुगुप्तानि पृथक् पृथक्।
कर्त्तव्यानि महाभाग यत्नेन पृथिवीक्षिता॥
तथा,
मनुरुवाच।
राजा रक्षारहस्यानि यानि दुर्गे निधापयेत्।
कारयेद्वा महीभर्त्ता ब्रूहि तस्त्रानि तानि च॥
मत्स्य उवाचेत्युपक्रम्य स
ङ्क्राबान्तरमप्युक्तम्—
शिरीषौदुम्बरशमीबीजपूरं घृतप्लुतम्।
क्षुद्योगः कथितो राजन्मामार्द्धस्य पुरातनैः॥
शिरीषादिकं घृतप्लुतं भुक्तं सत् मार्द्धस्य पञ्चदशादिनात्मकपक्षरूपस्य क्षुद्योगः क्षुत्प्रशमनोपायः।
नरं14 शस्त्रहतं प्राप्य तस्यास्थि अरणिर्भवेत्।
कुल्माषवेणुना तत्र जनयेत्तु विभावसुम्॥
गृहं त्रिरपसव्यं तु क्रियते यत्र पार्थिव।
नान्योऽग्निर्ज्वलते तत्र नात्र कार्या विचारणा॥
कार्पासास्थि भुजङ्गस्य तथा निर्मोचनं भवेत्।
सर्पनिर्वासने धृपः प्रशस्तः सततं गृहे॥
सामुद्रसैन्धवयवा विद्युद्दग्धा च मृत्तिका।
तयानुलिप्तं यद्वेश्म नाग्निना दह्यते नृप॥
दिवा च दुर्गे रक्ष्योऽग्निर्वाति वाते विशेषतः।
तथा,
उक्तानि वाप्यनुक्तानि राजा द्रव्याण्यशेषतः।
सुगुप्तानि पुरे कुर्याज्जनानां हितकाम्यया॥
जीवकर्षभकाकोलमामलक्याटरूपकम्।
शालपर्णी पृश्निपर्णी मुद्गपर्णी तथैव च॥
माषपर्णी च मेदे द्वे सारिवे द्वे बलात्रयम्।
वीराश्वसन्ती वृष्णीया15 बृहती कण्टकारिका॥
शृङ्गी शृङ्गाटकी द्रोणी वर्षाभूर्भद्ररेणुका।
मधुपर्णी विदार्यौ द्वे महाक्षुद्रा महातपाः॥
धन्वना सहदेवाह्वा कटुकैरण्डकं विषः।
पर्णास16नाहा मृद्वीका फल्गुखरर्जूरयष्टिकाः॥
शुक्रातिशुक्रकाश्मर्यश्च्छत्रातिच्छत्रवीरणाः।
इक्षुरिक्षुविकाराश्च फाणिताद्याश्च सत्तम॥
सिंही च सहदेवी च विश्वेदेवाटरूपकम्।
मधुकं पुष्पहंसाख्या शतपुष्पा मधूलिका॥
शतावरीमधूके च पिप्पलं तालमवे च।
आत्मगुप्ता कट्फलाख्यादार्विका राजशीर्षिका॥
राजसर्षपधान्याकमृष्यप्रोक्ता तथोत्कटा।
कालशाकं पद्मवीजं गोवल्ली मधुवल्लिका॥
शीतपाकी कुलिङ्गाक्षी काकजिह्वोरुपुष्पिका।
एर्वारुत्रपुसौ चोभौ गुञ्जातकपुनर्नवे॥
कशेरुका तु काश्मीरी बिल्वशालूककेसरम्।
शुकधान्यानि सर्वाणि शिस्त्रीधान्यानि चैव हि॥
क्षीरं क्षौद्रं तथा चुक्रं तेलं मज्जा वसा घृतम्।
निकोचा17रिष्टकाक्षोडा वाताममोरुशाणकम्॥
एवमादीनि चान्यानि विज्ञेयो मधुरो गणः।
राजा सञ्चिनुयात्सर्वंपुरे निरबशेषतः॥
दाडिमास्रातकाम्रं च तिन्तिडीकाम्लचेतम्।
भव्यर्ककन्धुलकुचकरमर्दकरुपकम्॥
बीजपूरककण्डूरे मालती राजबन्धुकम्।
कोलकद्वयपर्णानि द्वयोराम्लकयोरपि॥
आरेवतं नागरकं प्राचीनारुकमेव च।
कपिलामलकं चुक्रा फलं दन्तशठस्य च॥
जाम्बवं नवनीतं च सौवीरकतुपोदके।
सुराऽऽमवं च मद्यानि मण्डतक्रदधीनि च॥
शुक्तानिचैव सर्वाणि ज्ञेयान्यम्लगणानि च।
एवमादीनि चान्यानि राजा सञ्चिनुयात्पुरे॥
पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम्।
कुबेरकं समरिचं शिप्रुभल्लातसर्षपाः॥
कुष्टाजमोदा किणिही हिङ्गुमूलकधान्यकम्।
कारवी कुञ्चिका याज्या सुमुखाकालपालिका॥
फणिज्जकोऽथ लशुनं भूस्तृणं सुरसं तथा।
कायस्था च वयःस्था च हरितालं मनःशिला॥
अमृता च रुदन्ती च रोहितं कुङ्कुमं तथा।
यत्रासैरण्डकाण्डीरं शल्लकी हञ्जिका तथा॥
सर्वपित्तानि मृत्राणि प्रायो हरितकानि च।
फलानि चैव च तथा सूक्ष्मैला हिङ्गुपत्रिका॥
_________________________________
१ अत्र मात्स्ये– ‘सैन्धवोद्भिदपाठेयपाक्ष्यसामुद्रलोमकम्। कुप्यसौवचंलविडं बालकेयं यचाहक्तम्॥ औवैक्षारं कालभश्म विशंयो लावणो गणः। एवमादीनि चान्यानि राज्ञा सञ्चिनुयात्पुरे’॥ इत्यधिकं वर्तते।
एवमादीनि चान्यानि गणः कटुकसंज्ञितः।
राजा सञ्चिनुयाद्दुर्गे प्रयत्नेन नृपोत्तम॥
मुस्तचन्दनह्रीबेरकृतमालकदारवः।
हरिद्रानलदोशीरनक्तमालकदम्बकम्॥
दुर्वा पटोलकटुका दीर्घत्वक् चूतकं वचा।
किराततिक्तकं निम्बं विषा चातिविषा तथा॥
तालीसपत्रं तगरं सप्तपर्णविकङ्कताः।
काकोदुम्बरिकोदीच्यसुषवीकृमिहिंसकाः॥
षइग्रन्था रोहिणी मांसी पर्पटश्चाथ दन्तिका।
रसाञ्जनं भृङ्गराजं पर्णासं18 परिपेलवम्॥
दुःस्पर्शा गुरुणी कामा श्यामाकं कङ्गु19नाकुली।
तुषपर्णी व्याघ्रनखमम्बष्ठा चतुरङ्गुला॥
रम्भा चैवाङ्कुरास्फोता तालास्फोता हरेणुका।
वेत्राग्रवेतसस्तुम्बी विषाणी लोहपञ्जरा20॥
मालती करतिक्ताख्या वृषाङ्गी जिहिका तथा।
पर्पटं च गुडूची च स गणस्तिक्तसंज्ञकः॥
एवमादीनि चान्यानि राजा सञ्चिनुयात्पुरे।
अभयामलकौ चोभौ तथैव च विभीतकम्॥
प्रियङ्गुधातकीपुष्पं मोचालोध्रार्जुनासनाः।
अनन्ता स्त्री सुरानङ्गा21 स्योनाकं कट्फलं तथा॥
भूर्जपत्रशिलोद्भेदपाटला पङ्कलाष्टकम्।
समङ्गात्रिवृतामूलकार्पासगैरिकाञ्जनम्॥
विद्रुमं समधूच्छिष्टं कुम्भिका कुमुदोत्पलम्।
न्यग्रोधोदुम्बराश्वत्थकिंशुकाः शिंशपा शमी॥
प्रियालपीलुकासारशिरीषा पद्मकं तथा।
बिल्वोऽग्निमन्थः प्लक्षश्च श्यामाकं कनको घनम्॥
राजादनं करीरं च चम्पकप्रियकौ तथा।
कङ्कोलाशोकबदराः कदम्बस्वदिरद्वयम्॥
एषां पत्राणि साराणि मूलानि कुसुमानि च।
एवमादीनि चान्यानि कषायाख्यो गणो मतः॥
प्रयत्नेन नृपश्रेष्ठ राजा सञ्चिनुयात्पुरे।
कीटाम्बुमारणे योग्या व्यङ्गतायां तथैव च॥
वातधूमाश्च मार्गाणां दूषणानि तथैव च।
धार्याणि पार्थिवैदुर्गे तानि वक्ष्यामि पार्थिव॥
विषाणां धारणं कार्यं प्रयत्नेन महीभुजा।
विचित्राश्चागदा धार्या विषस्य शमनास्तथा॥
रक्षोभूतपिशाचघ्नाः पापघ्नाः पुष्टिवर्द्धनाः।
कलाविदश्च पुरुषाः पुरे धार्याः प्रयत्नतः॥
भीतान् प्रमत्तान कुपितांस्तथैव च विमानितान्।
कुमृत्यान् पापशीलांश्च न राजा वासयेत्पुरे॥
यन्त्रायुधाट्टालचयोपपन्नं समग्रधान्यौषधिसम्मयुक्तम्।
वणिग्जनैश्चावृतमावसेत दुर्गे सुगुप्तं नृपतिः सदैव॥
इत्यादिप्रबन्धेनावश्यापेक्षितवस्तुसञ्चयं विधाय दुर्गमध्ये पुरं सुरक्षितं कृत्वा तत्र वसेत्। तत्र पुरनिर्माणं कथं कार्यमित्यपेक्षायाम्—
देवीपुराणे,
इन्द्र उवाच।
कीदृशं तु पुरं कार्यं नगरं कीदृशं शुभम्।
कस्मिन् स्थाने सुरश्रेष्ठ एतदिच्छामि वेदितुम्॥
ब्रह्मोवाच।
सर्वौषधिभवे देशे सर्वलोकसुखावहे।
पूर्वोत्तरप्लवे स्थाने कार्यं शक्र पुरादिकम्॥
सर्वौषधिभवे, सर्वा या ओषध्यः फलपाकान्तास्तासां भव उत्पत्तिर्यस्मिन्। पूर्वोत्तरप्लवे, प्राकूप्रवणे, उदक्प्रवणे, ईशानप्रवणे च। पुरनगरयोर्भेदस्तु—
अनेकजातिसंयुक्तं तन्तुवाययुतं पुरम्।
शर्करा22भश्मरहिते कटुकण्टकवर्जिते॥
सहले पांसुरहिते कुशादिभिरनावृते।
चलगन्धसमायुक्ता मही खातोप लक्षिता॥
चण्डालपतितत्यक्तशरावशकलैर्विना।
देवावासपरित्यक्ता निराबाधा मनोरमा॥
उदगादिप्लवागाधा वैषम्यादिविवर्जिता।
शुद्धा सा दहनाद्यैश्च अथ चण्डेश्वरान्विता॥
सर्वेश्वरयुता वापि अन्यथा भयदा मही।
पूर्णवर्णविपर्यस्ता स्थानकालविसूत्रगा॥
स्वामिश्रेष्ठपुरादीनां भयदा ज्ञायते मही।
कश्मलाद्यैः परिक्लिष्टा पूतनादिसमाकुला॥
पताकावर्जनीया तु सर्वदोषकरी मही।
बत्सरं या परित्यक्ता कृष्टा धान्यरुहा च या॥
सा मही शुभदा ज्ञेया या च तृप्तिकरी भवेत्।
रक्ष्या देव्यस्सदैवात्र पूजनीयास्स्वभागगाः॥
स्थानानि कल्पयेत्तासामधिवासं तु कारयेत्।
चण्डेश्वरो, महादेवस्य गणविशेषः। अधिवासं, स्थापनम्।
इति पुरभुशुद्धिः।
तथा तत्रैव,
नगरं दैवतावीतं समस्तप्रकृतीयुतम्।
सप्तपञ्चपुरैः कार्ये मण्डपैरुपशोभितम्॥
कोष्टकाः सश्रियः कार्या मण्डपादग्रतः शुभाः।
एवं देवालयोपेतं सर्ववर्णसमन्वितम्॥
नवदुर्गासमायुक्तं नगरं परिकीर्तितम्।
पुरं हद्रसमायुक्तं देवतादिसमाकुलम्॥
हट्ट हेममणीवस्त्रपत्रोर्णाचर्मविक्रयम्।
सुरापेयादिकं यस्मिंस्तत्पुरं पत्तनं शृणु॥
असंहतं समं कार्यं वणिकहट्टं सुशोभनम्।
सुरनामं स्वनामं वा पत्तनं सर्वकामदम्॥
अर्वधं कारयेत्पङ्कगर्चादिभिः सुरोत्तम।
उभयोरन्तरे कार्यं देवतायननादिकम्॥
देवलक्ष्माविहीनं तु समदृष्टिगतं शुभम्।
चिह्नदृष्टिगते देवे न दृष्टेः सुनिरूपणम्॥
समे मानसमायुक्ते कार्या दृष्टिः शुभा समा।
द्रुमाधिका न कर्तव्या व्यालामंहादिनावृता॥
एवं कुर्यात्पुरे हदृं प्राकारान्तर्गतं शुभम्।
चतुर्हट्टंसमं कार्यं समसूत्रं सुशोभनम्॥
पथस्समं पुरं कार्यं सममार्गविनिर्गमम्।
चतुष्पथानि शुद्धानि नित्यं पूजायुतानि च॥
देवान्तराणि कार्याणि स्वाधिकार्यावृतानि च।
देवान्तरेषु मन्त्रज्ञाः स्वे स्वे देशाः शुभावहाः॥
भिन्ना बहुप्रदा लोके यथाशास्त्रपरिग्रहः।
न शुभा मन्त्रहीनास्तु द्विजाद्या नैष्ठिकास्तथा॥
चर्चिकायास्तथा शक्र मन्त्रहीना भयावहाः।
अग्रतः पृष्ठतो देवा उभयोः पार्श्वयोर्द्विजाः॥
हस्तानां तु शतं त्याज्यं नृप राष्ट्रमुखार्थिभिः।
दृष्टिभङ्गो न कर्त्तव्यो रक्षेद्देवीषु यत्नतः॥
दण्डाष्टकसुविस्तीर्णे कृते राजा विनश्यति।
तस्माद्दृष्टिः सदा देया तोरणान्तर्गता शुभा॥
अष्टहस्तं सुशोभाढ्यं शैलवृक्षमयं च वा।
तोरणं शस्यते देव्या वापी कूपजलं वनम्॥
पूर्वोत्तरे तथैशान्यामारामः शुभदः कृतः।
देवीनां मातृकाणां च स भवेत्सर्वकामदः॥
यथाशुभग्रहाद्दैवाद्यञ्च कालकृतं भवेत्।
तत्सर्वं देवतागारे कृतं भवति शोभनम्॥
बलिजाप्यक्रिया नित्यं मातृकाणां शुभा भवेत्।
पुरपत्तनग्रामाणां ब्रह्मपुर्यः सकामदाः॥
ब्रह्मविद्या कलोपेता यत्र वेदविदोऽवसन्।
सा पुरी कमला नाम सर्वलोकसुखावहा॥
विद्या ह्येका तथा द्वित्राश्चतस्रो यत्र संस्थिताः।
रुद्रो देवी च विजया गायत्री च क्रमात्मना॥
गृहपङ्कि्तगताः कार्याः शुभवर्त्त्म ऋजुस्थिताः।
पूर्वोत्तरसुमार्गस्थाः सजला देवतान्विताः॥
ब्रह्मत्रिदशपूजार्थे मठादिमुपकल्पयेत्।
पाठस्थानानि कुर्वीत शिवायतनवेधसोः॥
पुरे वा नगरे वत्स राजधान्यां च पत्तने।
दुर्गहट्टे शुभे दृष्टिर्महालक्ष्म्याः सुमङ्गला॥
शिवलिङ्गगणेशानां धनदस्य विशेषतः।
श्रियस्य सौम्परूपायाः स्वामीशस्य शुभस्य च॥
रक्षोदेवीषु चोग्रासु दृष्टिर्देया न चान्यथा।
बाह्ये वनोपकण्ठे च नदीनदतटेऽथ वा॥
प्रासादे चोत्तमा कार्या तीर्थे हट्टानुगाथ वा।
बाराही भैरवी चाोग्रा नारसिंही त्रिविक्रमी॥
पुरपत्तनगेहेषु दृष्टिवर्ज्या प्रयत्नतः।
उग्रा दृष्टिर्हरेद्राष्ट्रं दारुणा नगरादिकम्॥
नरसिंहवराहाणां दृष्टिर्हन्याच्छ्रियं जनम्।
तस्माद्दृष्टिः शुभा कार्या समा सर्वगता ततः॥
विवाहेऽपि शुभा दृष्टिः समा भवति नान्यथा।
अतो यत्नेन देवानां दृष्टि सौम्या प्रशस्यते॥
ग्रहाणां सौम्यरूपाणां लग्ने दृष्टिः शुभावहा।
पुरपत्तनदुर्गेषु तथा सौम्या शुभावहा॥
एवं हट्टे पुरं दुर्गे देया दृष्टिः शुभा नृप।
शुभार्थे सौम्यरूपाणामुग्राणां परिवर्जयेत्॥
आवाहने जले वाथ उग्रा दृष्टिः शुभावहा। इति।
तथा,
चतुर्दण्डः प्रकर्तव्यो भूमावादौ परिग्रहः।
गां सवत्सां समादाय कुम्भं धान्यमयं तथा॥
सबस्रं हेमगर्भे तु सहकारदलान्वितम्।
पृथ्वीं सङ्कल्पयेतस्मिन् मेरुकर्णिकशोभिताम्॥
वनशैलसमायुक्तां सागरैः परिवेष्टिताम्।
एवं सम्पूजयित्वा तु देवदेवं त्रिलोचनम्॥
कुमारादिशिवादींश्च विचार्य्यादिमहामहीम्।
सूर्यादिलोकपालादिनागयक्षादिदेवताः॥
पूर्वं सम्पूजयित्वा तु पश्चाद्दद्याद्दिशां बलिम्।
स्वप्रमाणवकं जप्त्वा शेते तत्र यथासुखम्॥
स्वप्रमाणवकं, “यज्जाग्रत” इत्यादि।
आचार्यः सूत्रधारश्च शुभं स्वप्नं निशाक्षये।
निमित्तं शकुनं दृष्ट्वा सूत्रयेल्लक्षितां दिशम्॥
चित्रास्वात्यन्तरे पूर्वा पुष्यपित्र्यसमागमे।
उत्तरा ध्रुवमध्यस्था शेषाः सिद्धा यथागमम्॥
चित्रास्वात्योरुदितयोर्मध्ये या, तथा पुष्यमधानक्षत्राभ्यां चार्जवेन संयुता या, सा पूर्वा दिगित्यर्थः। ध्रुवो मध्यस्थो मध्ये वर्त्तमानो यस्यां तथाविधा सा उत्तरा दिक्।
शङ्कुना तदभावे तु पूर्वाशां साधयेत् द्विजः।
एवं दिशामु सिद्धासु सूत्रपातं समाचरेत्॥
आचार्यं पूजयित्वा तु सूत्रधारं द्विजोत्तमान्।
देवतायतनं पूर्वमाचार्यब्राह्मणौकसम्॥
राजधाम तु शेषांस्तु गृहान् वर्णक्रमाद्गुरुः।
पुरं वृत्तायतं कार्यं द्व्यस्रं वा चतुरस्त्रकम्॥
यथास्थानविभागेन हट्टशाोभासमन्वितम्।
राजधामाग्रतः कार्यं देवधाम अथापि वा॥
सुसूत्रं देवतायुक्तं शिवमातृगणावृतम्।
मङ्गला धनदा कार्या सर्वान्ते सर्वसिद्धिदा॥
न सूर्यो बह्नियामे वा नैर्ऋते वा हरिः कचित्।
न विष्णुः पश्चिमे सौम्ये वायव्यां कारयेच्छिवाम्॥
कृते विनश्यते कर्त्ता तत्स्थानं चोद्वसं भवेत्।
देवो न पूज्यते तत्र तस्मिन् स्थाने स्वके शुभे।
विसूत्रेषु प्रवक्ष्यामि येन शान्तिः शुभं भवेत्।
नगराणां पुराणां च देवानां गोपुरादिषु॥
विमार्गेषु शिवः शस्तः सम्मुखः………।
सौम्याग्रे सर्वतो दुर्गा पुरं नन्दति रक्षितम्॥
तस्माद्दुर्गा प्रकर्त्तव्या नगरेषु पुरादिषु।
महालक्ष्म्यादिकाः शक्र क्षेपकारी सचण्डिका॥
मङ्गला मङ्गलारूपा महिषघ्नी शिवा नरा।
यथास्थानविभागस्था सर्वलोकसुखावहा॥
महालक्ष्मीःपुरः शस्ता आग्नेये महिपापहा।
याम्यां शिवा शुभा प्रोक्ता चर्चिका पश्चिमेपुरान्।
उत्तरे शुभदा क्षमा पञ्चैताः शान्तिदाः पुरे।
नगरे नव कर्त्तव्या दुर्गे पञ्चैव चण्डिकाः॥ इति।
इतिदुर्गे पुरनिर्माणम्।
अथ निर्मिनेषु नगरराजगृहादिषु वास्तुशान्तेरावश्यकन्वेन वास्तुकर्मविधिर्निरूप्यते। तत्र—
मत्स्यपुराणे,
सूत उवाच।
अयानः सम्प्रवक्ष्यामि गृहकालविनिर्णयम्।
यथाकालंशुभं ज्ञात्वा तदा भवनमारभेत्॥
चैत्रे व्याधिमवाप्नोति यो गृहं कारयेन्नरः।
वैशाखे धेनुरत्नानि ज्येष्ठे मृत्युं तथैत्र च॥
आषाढे भृत्यरत्नानि पशुवर्गमवाप्नुयात्।
श्रावणे मित्रलाभं तु हानिं भाद्रपदे तथा॥
पत्नीनाशमाश्वयुजे कार्त्तिके धनधान्यकम्।
मार्गशीर्षे तथा भक्तं पौषेतस्करतो भयम्॥
लाभं च बहुशो विन्द्यादग्निं माघे विर्निर्दिशेत्।
फाल्गुने काञ्चनं पुत्रानिति कालफलं स्मृतम्॥
अश्विनी रोहिणी मूलमुत्तरात्रयमैन्दवम्।
ऐन्द्रवं मृगशिरः।
स्वाती हस्तांऽनुराधा च गृहारम्भे प्रशस्यते॥
आदित्यभौमवर्जं च सर्वे वाराःशुभावहाः।
वज्रव्याघातशुलेषु व्यतीपातातिगण्डयोः॥
विष्कुम्भगण्डपरिघव्रजयोगेषु कारयेत्॥
श्वेते मैत्रेऽथ माहेन्द्रे गान्धर्वाभिजिति रौहिणे।
तथा वैराजसावित्रे मुहूर्त्ते गृहमारभेत्॥
चन्द्रादित्यबलं लब्ध्वा लग्नं शुभनिरीक्षितम्।
शुभनिरीक्षितं, शुभग्रहनिरीक्षितम्।
स्तम्भोच्छ्रायादि कर्त्तव्यमन्यत्तु परिवर्जयेत्।
प्रासादेष्वेवमेवं स्यात्कृपापीषुचैव हि॥
पूर्वं भूमिं परीक्षेत पश्चाद्वास्तुं प्रकल्पयेत्।
श्वेता रक्ता तथा पीता कृष्णा चैवानुपूर्वशः॥
विप्रादेःशस्यते भूमिरतः कार्य परीक्षणम्।
विप्राणां मधुरास्वादा कपाया क्षत्रियस्य तु॥
कषायकटुका तद्वद्वैश्यशूद्वेषु शस्यते।
रत्निमात्रे तु बै गर्त्तेस्वनुलिप्ते च सर्वशः॥
घृतमामशरावस्थं कृत्वा वर्तिचतुष्टयम्।
ज्वालयेद्भूपरीक्षार्थं पूर्णं तत्सर्वदिङ्मुखम्॥
दीप्तौ पूर्वादि गृह्णीयाद्वर्णानामनुपूर्वशः।
दीप्तौ पूर्वादीति। पूर्वंदिशमारभ्य प्रदक्षिणं वर्त्तिसम्यक्प्रदीपने ब्राह्मणादीनां वर्णानां यथासङ्ख्यं सुखाबहमित्यर्थः।
वास्तुः सामूहिको नाम दीप्यते सर्वतस्तु यः।
शुभदःसर्ववर्णानां प्रासादेषु गृहेषु॥
रत्निमात्रमधो गर्तेपरीक्ष्यं खातपूरणे।
अधिके श्रियमाप्नाति न्यूने हानिंसमे समम्॥
फालकृष्टेऽथवा देशे सर्वबीजानि वापयेत्॥
त्रिपञ्चसंप्तरात्रेण यत्र रोहन्ति तान्यपि।
ज्येष्ठोत्तमा कनिष्ठा भूर्वर्जनीयतरा सदा॥
पञ्चगव्यौषधिजलैःपरीक्षित्वा च सेचयेत्।
एकाशीतिपदं कृत्वा रेखाभिः कनकेन तु॥
पश्चा23ल्लेख्येन वा लिप्ता सूत्रेणालोड्य सर्वतः।
दश पूर्वायता रेखा दश चैवोत्तरायताः॥
सर्ववास्तुविभागेषु विज्ञेया नवका नव।
एकाशीतिपदं कृत्वा वास्तुवित्सर्ववास्तुषु॥
पदस्थान् पूजयेद्देवांस्त्रिंशत्पञ्चदशैवतु।
द्वात्रिंशद्वाह्यतः पूज्याःपुज्याश्चान्तस्त्रयोदश॥
नामतस्तान् प्रवक्ष्यामि स्थानानि च निबोधत।
ईशानकोणादिषु तान् पूजयेञ्चविधानतः॥
शिखीचैवाथ पर्जन्यो जयन्तः कुलिशायुधः।
सूर्यः सत्यो भृगुश्चैव आकाशो वायुरेव च॥
पूषाथवितथश्चैव गृहक्षतयमावुभौ।
गन्धर्वो भृङ्गराजश्चमृगः पितृगणस्तथा॥
दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलाधिपः।
असुरः शोषपापौ च रोगोऽहिर्मुख्य एव च॥
भल्लाटः सोमसर्पौच अदितिश्च दितिस्तथा।
बहिर्द्वात्रिंशदेते तु तदन्तचतुरः शृणु॥
ईशानादिचतुष्कोणे संस्थितान् पूजयेद्बुधः।
आपश्चैवाथसावित्रो जयो रुद्रस्तथैव च॥
मध्ये नवपदे ब्रह्मा तस्याष्टौ च समीपगाः।
सर्वानेकान्तरान् विद्यात्पूर्वाद्यान् नामतः शृणु॥
अर्यमा सविता चैव विवस्वान् विबुधाधिपः।
मित्रोऽथ राजयक्ष्मा च तथा पृथ्वीधरः क्रमात्॥
अष्टमस्त्वापवत्सस्तु परितो ब्रह्मणः स्मृताः।
आपश्चैवापवत्सश्च पर्जन्योऽग्निर्दितिस्तथा॥
पदिकानां च वर्गोऽयमेवं कोणेष्वशेषतः।
तन्मध्ये तु वहिर्वत्स द्विपदास्ते तु सर्वतः॥
अर्यमा च विवस्वांश्च मित्रः पृथ्वीधरस्तथा।
ब्रह्मणः परितो दिक्षु त्रिपदास्ते तु सर्वतः॥
अंशानिदानीं वक्ष्यामि रज्जूनपि पृथक् पृथक्।
वायुं यावत्तथा रोगान् पितृभ्यः शिखिनं पुनः॥
मुख्यद्भृगुं तथा शेषाद्वितथं यावदेव तु।
सुग्रीवाददितिं यावत् भृङ्गात्पर्जन्यमेव च॥
एते वंशाः समाख्याताः क्वचिद्रज्जव एव तु।
एतेषां यस्तु सम्पातः पदं मध्यं समं तथा॥
मर्म श्चैतत्समाख्यातं त्रिशूलं कोणमं च यत्।
स्तम्भ24न्यासेषु वर्ज्यानि तुलां देवेषु सर्वदा॥
कीलकुड्योपघातादि वर्जयेद्यब्रतो नरः।
सर्वस्तु वास्तुर्निर्दिष्टः पितृवंशान्तरायतः॥
पितृवंशान्तरायत इति।पितृगणादारभ्य बह्निंभावद्यो वंशः प्रसारितस्तदान्तराऽऽयतो वास्तुर्वास्तुपुरुषः।
मूर्धन्यग्निः समाविष्टो मुखे चापः समाश्रितः।
पृथ्वीधरोऽर्यमा चैव स्तनयोस्तावधिष्ठितौ॥
बक्षःस्थले त्वापवत्सः पूजनीयः सदा बुधैः।
नेत्रयोर्दितिपर्जन्यौश्रोत्रे दिविजयान्तको॥
सर्पेन्द्रावंससंस्थौतु पूजनीयौप्रयत्नतः।
सत्यरोगादयस्तद्वबाहोःपञ्च च पञ्च च॥
रुद्रश्च राजयक्ष्मा च वामहस्ते समाश्रितौ।
सावित्रः सविता तद्वद्धस्तं दक्षिणमास्थितौ।
विवस्वानथमित्रश्च जठरे संव्यवस्थितौ।
पूषा च पापयक्ष्मा च हस्तयोर्मणिबन्धने।
तथैवासुरशोषौतु वामपार्श्वं समाश्रितौ॥
पार्श्वे तु दक्षिणे तद्वद्वितयः सगृहक्षतः।
ऊर्व्वोर्यमाम्बुपौज्ञेयौजान्वोर्गन्धर्वपुष्पको॥
यमाम्बुपौ यमवरुणौ।पुष्पकः पुष्पदन्तः।
जङ्घयोर्भुगुसुग्रीवौस्फिक्थौदौवारिको मृगः॥
जयः शक्रस्तथामेद्रेपादयोः पितरस्तथा।
मध्ये नवपदे ब्रह्मा हृदये स तु पूज्यते॥
चतुःषष्टिपदो वास्तुः प्रासादे ब्रह्मणा स्मृतः।
ब्रह्मा चतुष्पदस्तद्वत्कोणेष्वकपदास्ततः॥
बहिःकोणेषु चाष्टौ तु सार्द्धाश्चोभयतः स्थिताः।
तद्वत्कोणेष्वेकपदा इति। तद्वत् एकादशीतिपदवास्तुवत्। एकाशीतिपदे वास्तौ याः कोणेष्वेकपदा देवता इहापि तास्तथैव बोद्धव्याः।बहिःकोणेषु वेद्यादिप्रान्तकोणेषु चतुर्षु ये उभयपार्श्वेकोष्ठकाः तेष्वष्टौ देवताः सार्द्धा भवन्ति, देवताचतुष्टयसहिता भवन्तीत्यर्थः।
विंशतिर्द्विपदास्तेषां चतुःषष्टिपदास्तथा॥
गृहारम्भे तु कण्हूतिः स्वस्थाङ्गेयत्र जायते।
शल्यं त्वपनयेत्तत्र प्रासादे भवनेऽपि वा॥
सशल्यं भयदं यस्मादशल्यं भयनाशनम्।
हीनाधिकाङ्गतां वास्तोः सर्वथा परिवर्जयेत्॥
नगरग्रामदेशेषु सर्वत्रैवं प्रकल्पयेत्।
चतुःशालं त्रिशालं च द्विशालं चैकशालकम्।
सूतउ वाच॥
चतुःशालं प्रवक्ष्यामि स्वरूपान्नामतस्तथा।
चतुःशालं चतुर्द्वारैरलिन्दैः सर्वतोमुखम्॥
नाम्ना तत्सर्वतोभद्रं शुभं देवनृपालये।
पश्चिमद्वारहीनं तु नन्द्यावर्त्तं प्रचक्षते॥
दक्षिणद्वारहीनं तु वर्धमानमुदाहृतम्।
पूर्वद्वारविहीनं तु स्वस्तिकं नाम विश्रुतम्॥
रुचकं चोत्तरद्वारावहीनं तु प्रचक्षते।
सौम्यशालाविहीनं य
न्त्रिशालं धन्यकं च तत्॥
क्षेमवृद्धिकरं नृृणां बहुपुत्रफलप्रदम्।
शालया पूर्वया हीनं सुक्षेत्रमिति विश्रुतम्॥
धन्यं यशस्यमायुष्यं शोकमोहविनाशनम्।
चुल्ली25 तु याम्यया हीनं त्रिशालं शालया तु यत्॥
कुलक्षयकरं नृृणां सर्वव्याधिभयावहम्।
हीनं पश्चिनया यत्तु पक्षघ्नं नाम तद्विदुः॥
पितृबन्धुसुतान् हन्ति तथा सर्पभयावहम्॥
याम्यापराभ्यां शालाभ्यां धनधान्यफलप्रदम्।
क्षेमवृद्धिकरं नृृणां तथा पुत्रफलप्रदम्॥
यमसूर्यं व विज्ञेयं पश्चिमोत्तरशालकम्।
राजाग्निभयदं नॄणां कुलक्षयकरं च तत्॥
पूर्वपश्चिमशाले द्वे दण्डाख्यं तत्र तद्भवेत्।
अकालमृत्युभयदं परचक्रभयावहम्॥
वायव्यं याम्यपूर्वाभ्यां शालाभ्यां यद्द्विशालकम्।
विषशस्त्राग्निभयदं पराभवभयावहम्॥
चुल्ली पूर्वापराभ्यां न सा भवेन्मृत्युमूचनी।
विधवत्वाय च स्त्रीणामनेकभयकारिका॥
कार्यमुत्तस्याम्याभ्यां शालाभ्यां भयदं नृणाम्।
सिद्धार्थवर्जं वर्ज्यानि द्विशालानि सदा बुधैः॥
अलिन्दं द्वारचतुरस्त्रिका।सौम्यशाला उत्तरद्वारशाला।
पदार्थवर्जे, याभ्यापराभ्यां शालाभ्यां युक्तं यद्द्विशालं तद्विहाय।
अथातः सम्प्रवक्ष्यामि भवनं पृथिवीपतेः।
पञ्चप्रकारं तत्प्रोक्तमुत्तरादिविभेदतः॥
अष्टोत्तरं हस्तशनं विस्तारश्चोत्तमो मतः।
चतुर्ष्वन्येषु विस्तारोहीयते चाष्टभिः करैः॥
_________________________________________________________________
२ धनास्यमिति मा० षा०।
चतुर्थांशाधिकं दैर्घ्यंपञ्चस्वपि निगद्यते।
युवराजस्य वक्ष्यामि तथा भवनपञ्चकम्॥
षड्भिः षड्भिस्तथाशीतिर्हीयते तत्र विस्तरात्।
त्र्यंशेन चाधिकं दैर्घ्यंपञ्चस्वपि निगद्यते॥
सेनापतेःप्रवक्ष्यामि तथा भवनपञ्चकम्।
चतुःषष्टिस्तु विस्तारः षड्भिःषड्भिः प्रहीयते॥
पश्चस्वेतेषु दैर्घ्यंच षड्भागेनाधिकं भवेत्।
मन्त्रिणामथ वक्ष्यामि तथा भवनपञ्चकम्॥
चतुश्चतुर्विहीना स्यात्करषष्टिः प्रविस्तरे \।
अष्टशिनाधिकं दैर्घ्यंपञ्चस्वपि निगद्यते॥
सामन्तामात्यलोकानां वक्ष्ये भवनपञ्चकम्।
चत्वारिंशत्तथाष्टौ च चतुर्भिर्हीयते क्रमात्॥
चतुर्थांशाधिकं दैर्घ्यंपञ्चस्वेतेषु शस्यते।
शिल्पिनां कञ्चुकिनां च वेश्यानां गृहपञ्चकम्॥
अष्टाविंशत्कराणां तद्विहीनं विस्तरात्क्रमात्।
द्विगुणं दैर्घ्यमेवोक्तमध्यक्षेष्वेवमेव तु॥
दूतकर्मान्तिकादीनां वक्ष्ये भवनपञ्चकम्।
चतुर्थांशाधिकं दैर्घ्यंविस्तराद्वादशैव तु॥
अर्धार्धकरहानिः स्याद्विस्तरात्पञ्चसु क्रमात्।
देवज्ञगुरुवैद्यानां सभास्तारपुरोधसाम्॥
तेषामपि प्रवक्ष्यामि क्रमाद्भवनपञ्चकम्।
चत्वारिंशत्प्रविस्ताराञ्चतुर्भिर्हीयते क्रमात्॥
पञ्चस्वेतेषु दैर्घ्यंच षड्भागेनाधिकं भवेत्।
चातुर्वर्ण्यस्य वक्ष्यामि सामान्यं गृहपञ्चकम्॥
द्वात्रिंशद्वै कराणां तु चतुर्भिर्हीयते क्रमात्।
आषोडशादिति परं न्यूनमन्त्यावसायिनाम्॥
दशांशेनाष्टभागेन त्रिभागेनाथ भागि26कम्।
अधिकं दैर्घ्यमित्याहुर्ब्राह्मणादेःप्रशस्यते॥
सेनापते27र्नृपस्यापि सप्तत्या सहिते कृते।
चतुर्दशहृते व्यासे शालान्यासः प्रकीर्तितः॥
पञ्चत्रिंशद्धृते तस्मिन्अलिन्दः समुदाहृतः।
सेनापतेरिति। सेनापतेर्नृपस्य गृहे यावान् विस्तार उक्तस्तं करसप्तत्या सहितं कृत्वा तदर्द्धं गृहीत्वा तस्पार्द्धस्य चतुर्दशविभागं कृत्वा यावदवशिष्टं भवति तावद्विस्तारां शालां कुर्यादित्यर्थः। तेनाष्टोत्तरशतहस्तविस्तारे राजवेश्मनि पञ्चहस्तप्रमाणा शाला भवति। पञ्चत्रिंशद्धृत इति। तस्मिन्नेव नवाशीतिविस्तारे राजवेश्मनि पञ्चत्रिंशता भागहारे कृते ये एकोनविंशतिहस्ता अवशिष्यन्ते ताबानलिन्दः कर्त्तव्यः।
तथा षड्त्रिंशद्धस्तात्र सप्ताङ्गुलसमन्विता।
विप्रस्य महती शाला न दैर्घ्यंपरतो भवेत्॥
दशाङ्गुलाधिका तद्वत्क्षत्रियस्य विधीयते॥
पञ्चत्रिंशत्करा वैश्ये अङ्गुलानि त्रयोदश।
तावत्करैवशूद्रस्य युता पञ्चदशाङ्गुलैः॥
शालायास्तु त्रिभागेन यस्याग्रे वीथिका भवेत्।
सोष्णीषं नाम तद्वास्तु पश्चात्तापाश्रयं28 भवेत्॥
पार्श्वयोर्वीथिका यत्र सावष्टम्भं तदुच्यते।
समन्ताद्वीथिका यत्र सुस्थितं तदिहोच्यते॥
शुभदं सर्वमेतत्स्याच्चातुर्वर्ण्ये चतुर्विधम्।
विस्तारात्षोडशोभागस्तथा हस्तचतुष्टयम्॥
प्रथमो भूमिकोच्छ्राय उपरिष्टात्प्रहीयते।
द्वादशांशेन सर्वासु भूमिकासुतथोच्छ्रयः॥
पञ्चेषुका29 भवेद्भित्तिः षडंशांशेन विस्तरात्।
दारवैरपि कल्प्या स्यात्तथा मृन्मयभित्तिका॥
गर्भमानेन मानं तु सर्ववास्तुषु शस्यते।
गृहव्यासस्य पञ्चाशदष्टादशभिरङ्गुलैः॥
संयुतोद्वारविष्कुम्भो द्विगुणश्चोच्छयो भवेत्।
द्वारशाखासुबाहुल्यमुच्छायकरसम्मितैः॥
अङ्गुलैःसर्ववास्तूनां पृथुत्वं शस्यते बुधैः।
उदुम्बरोत्तमाङ्गं न तदध्यर्धप्रविस्तरात्॥
उदुम्बरो देहली।
अथातः सम्प्रवक्ष्यामि स्तम्भमानविनिर्णयम्।
तद्वास्तुभवनोच्छ्रायं सदा सप्तगुणं विदुः
अशीत्यंशं पृथुत्वं स्यादग्रे नवगुणैः सह।
चरुकश्चतुरस्रः स्यादष्टास्रो वज्र उच्यते॥
द्विवज्रःषोडशास्रस्तु द्वात्रिंशास्त्रः प्रलीनकः।
मध्यप्रदेशे यः स्तम्भो वृत्तो वृत्त इति स्मृतः॥
एते पञ्च महास्तम्भाः प्रशस्ताः सर्ववास्तुषु।
पद्मबल्लीलताकुम्भपत्रदर्पणभूषिताः॥
स्तम्भस्य नवमांशेन पद्मकुम्भान्तराणि तु।
स्तम्भतुल्या तुला भोक्ता हीना चोपतुला ततः॥
त्रिभागेनेह सर्वत्र चतुर्भागेन वा पुनः।
हीनं हीनं चतुर्थांशात्तथा सर्वासु भूमिषु॥
सावरोहाणि सर्वेषां प्रवेशे दक्षिणेन तु।
द्वाराणि तु प्रवक्ष्यामि प्रशस्तानीह यानि तु॥
पूर्वेणेन्द्रं जयन्तं च द्वारं सर्वत्र शस्यते।
याम्यं च वितथंचैव दक्षिणेन विदुर्बुधाः॥
पश्चिम पुष्पदन्तंतु बारुणं च प्रशस्यते।
उत्तरेण तु भल्लाटं सौम्यं तु सुखदं भवेत्॥
तथा वास्तुषु सर्वत्र वेधं द्वारस्य वर्जयेत्।
द्वारे तु रथ्यया विद्धेभवेत्सर्वकुलक्षयः॥
रथ्या मार्गः। वेधोऽत्राभिसुखेनावस्थानम्।
तरुणा द्वेषबाहुल्यं शोकः पङ्केन जायते।
अपस्मारो भवेन्नूनं कूपवेधेन सर्वदा॥
व्यथा प्रस्रवणेन स्यात्कीलेनाग्निभयं भवेत्।
विनाशो देवताविद्धस्तम्भेन स्वीकृतो भवेत्॥
गृहभर्तुर्विनाशःस्याद्गृहेण च गृहे कृते।
अमेध्यावस्करैर्विद्धे गृहिणी बन्धकी भवेत्॥
तथा शस्त्रभयं विद्यादन्त्यजस्य गृहेण तु।
उच्छ्रायाद्विगुणां भूमिं त्यक्त्वा वेधो न जायते॥
उच्छ्रायाद्द्विगुणामिति। यावान् द्वारोच्छ्रायोदैर्ध्यं, तद्द्विगुणद्वाराग्रभूमेः परतो यद्येते रथ्यादयो भवन्ति तदा न
बेधो न वास्तुवेध इत्यर्थः।
स्वयमुद्धाटिते द्वारे उन्मादो गृहवासिनाम्।
स्वयं च पिहिते विद्यात्कुलनाशं विचक्षणः॥
मानाधिके राजभयं न्यूने तस्करतो भयम्।
द्वारोपरि च यद्द्वारं तदन्तकमुखं स्मृतम्॥
अध्वनो मध्यदेशे तु अधिको यस्य विस्तरः।
बज्रं तु सङ्कटं मध्ये सद्यो भर्तृविनाशनम्॥
तथान्यपीडितं द्वारं बहुदोषकरं भवेत्।
मूलद्वारात्तथात्यन्तं नाषिकं शोभनावहम्॥
कुम्भश्रीपर्णिवल्लीभिर्मूलद्वारं तु शोभयेत्।
पूजयेद्वापि तन्नित्यं बलिना चाक्षतोदनैः॥
भवनस्य वटःपूर्वे दिग्भागे सार्वकामिकः।
उदुम्बरस्तथा याम्ये वारुणे पिप्पलः शुभः॥
प्लक्षश्चोत्तरतो धन्यो विपरीतस्त्वामद्धये।
कण्टकी क्षीरवृक्षश्च आसनः सफलद्रुमः॥
भार्याहानिः प्रजाहानिर्भवेतां क्रमशः सदा।
न च्छिन्द्याद्धटितानन्यानन्तरे स्थापयेच्छुभान्॥
पुन्नागाशोकतिलकशमीबकुलचम्पकान्।
दाडिमींपिप्पलीं द्राक्षां तथा कुसुममण्डपान्॥
जम्बीरपूगपनसद्रुमकेतकीभि–
र्जातीसरोजशतपत्रिकमल्लिकाभिः।
यन्नारिकेलकदलीदलपाटलाभि–
र्युक्तंतदत्र भवनं श्रियमातनोति॥
उद्गादिप्लवं वास्तोः समानस्य शिरस्तथा।
समानस्य, मानसहितस्य।वास्तोः, वास्तुपुरुषस्य।
परीक्ष्य पूर्ववत् कुर्यात् स्तम्भोच्छ्रायं विचक्षणः।
न30देवपूर्त्तसविधे चत्वराणां समीपतः॥
कारयेद्भवनं प्राज्ञो दुःखशोकसमन्वितम्।
तस्य प्रवेशाश्चत्वारस्तस्योत्सङ्गोऽग्रतः शुभः॥
पृष्ठतः पृष्ठ31तो गन्तुं सव्यावर्त्तंप्रशस्यते।
अपसव्यो विनाशाय दक्षिणे शीर्षकस्तथा॥
सर्वकामफलो नॄणां सम्पूर्णो नाम वामतः।
एवं प्रवेशमालोच्य यत्नेन गृहमारभेत्॥
अथ सांवत्सरप्रोक्तं मुहूर्ते शुभलक्षणे।
रत्नोपरि शिलां कृत्वा सर्वबीजसमन्विताम्॥
चतुर्भिर्ब्राह्मणैः स्तम्भं वस्त्रालङ्कारपूजितम्।
शुक्लाम्बरधरः शिल्पी सहितो वेदपारगैः॥
स्नपितं तं न्यसेत्तद्वत्सर्वौषधिसमन्वितम्।
नानाक्षतसमोपेतं वस्त्राभरणसंयुतम्॥
ब्रह्मघोषेण वाद्येन गीतमङ्गलनिःस्वनैः।
प्रदोषे32 भोजयेद्विप्रान होमस्तु मधुसर्पिषा॥
बास्तोष्पते प्रतिजानीतिमन्त्रेणानेन सर्वदा।
सूत्रपाते तथा कार्यमेवं स्तम्भोच्छ्रये पुनः॥
द्वारबंशोच्छये तद्वत्प्रवेशसमये तथा।
वास्तूपशमने तद्वद्वास्तुयज्ञस्तु पञ्चधा॥
ईशाने सूत्रपातः स्यादाग्नेये स्तम्भरोपणम्।
प्रदक्षिणं च कुर्वीत वास्तोः पदविलेखनम्।
तर्जनी मध्यमा चैव तथाङ्गुष्ठस्तु दक्षिणे।
प्रबालरत्नकनकं फल33मृष्टाक्षतोदकम्॥
सर्ववास्तुविभागेषु शस्तं पदविलेखने।
न भस्माङ्गारकाष्ठन
नशस्त्रनखचर्मभिः॥
न शृङ्गास्थिकपालैश्च कचिद्वास्तु विलेखयेत्।
एभिर्विलिखितं कुर्यात् दुःखशोकभयादिकम्॥
यदा गृहप्रवेशःस्याच्छिल्पी तत्राभिलक्षयेत्।
स्तम्भसूत्रादिकं तद्वच्छुभाशुभफलोदयम्॥
आदित्याभिमुखं रोति शकुनिः परुषं यदि।
तुल्यकालं स्पृशेदङ्गं गृहभर्त्ता यदात्मनः॥
वास्त्वङ्गेतद्विजानीयान्नरः शल्यं भयप्रदम्।
अङ्कनानन्तरं यत्र हस्त्यश्वश्वापदं भवेत्॥
तदङ्गसम्भवं विद्यात्तत्र शल्यं विचक्षणः।
प्रसार्यमाणे सूत्रे तु श्वगोमायुविलङ्घिते॥
तत्र शल्यं विजानीयात्स्वरशब्दे च भैरवे।
यदि शाक्रेतु दिग्भागे मधुरं रोति बायसः॥
धनं तत्र विजानीयात् भागे वा स्वाम्यधिष्ठिते।
सूत्रच्छेदे भवेन्मृत्पुर्व्याधिः कीले ह्यधोमुखे।
अङ्गारेषु तथोन्मादं कपालेषु च सम्भ्रमम्।
कण्ठशल्येषु जानीयात्पौंश्चल्यं स्त्रीषु शास्त्रवित्॥
गृहभर्तुर्गृहस्यापि विनाशः शिल्पिसम्भ्रमे।
स्तम्भस्कन्धच्युते कुम्भे शिरोरोगान् विनिर्दिशेत्॥
कुम्भापहारे सर्वस्य कुलस्यापि क्षयो भवेत्।
मृत्युः स्थानच्युते कुम्भे भग्ने बन्धं विदुर्बुधाः॥
करसङ्ख्याबिनाशे तु नाशं गृहपतेर्विदुः।
बीजौषाधिविहीने तु भूतेभ्यां भयमादिशेत्॥
प्राग्दक्षिणेन विन्यस्य स्तम्भं छत्रे निवेशयेत्।
ततः प्रदक्षिणेनाग्य्रान् न्यसेत् स्तम्भान् विचक्षणः॥
यस्माद्भयङ्करो नॄणां योजितस्त्वप्रदक्षिणः।
रक्षां कुर्वीत यत्नेन स्तम्भोपद्रवनाशिनीम्॥
तथा फलवतीं शाखां सम्भोपरि निवेशयेत्।
प्रागुदक्प्रवणं कुर्याद्दिङ्मूढं तु न कारयेत्॥
स्तम्भं वा भवनं वापि द्वारं वासगृहं तथा।
दष्मोहे कुलनाशः स्यान्नन संवर्द्धते गृहम्॥
यदि संवर्द्धयेद्गेहं सर्व34मेव विवर्धयेत्।
पूर्वेण बर्द्धने वास्तु कुर्याद्वैराणि सर्वदा॥
दक्षिणे वर्द्धितं वास्तु मृत्यवे स्यान्न संशयः।
पश्चाद्विवृद्धं यद्वास्तु तदर्थक्षयकारकम्॥
बर्द्धापितंतथा सौम्येबहुसन्तापकारकम्।
आग्नेये तस्य वृद्धिःस्यात्तदातिभयदं भवेत्॥
बर्द्धितंराक्षसे कोणे वित्तक्षयकरं भवेत्।
वर्द्धापितं तु वायव्ये वातव्याधिप्रकोपकृत्॥
ईशाने सस्यहानिः स्याद्वास्तौसंवर्द्धित सदा।
ईशाने देवतागारं तथा शान्तिगृहं भवेत्॥
महानसं तथाऽऽग्नेये तत्पार्श्वेचोत्तरेजलम्।
गृहस्थोपस्करं सर्वंनैर्ऋते स्थापयेद्
वृधः॥
धर्म35स्थानं बहिः कुर्यात्स्नानमण्डपमेव च।
धनधान्यं च वायव्ये कर्मशालां ततो बहिः॥
एवं वास्तुविशेषः स्याद्गृहभर्त्तुःशुभावहः।
अथातः सम्प्रवक्ष्यामि दार्वाहरणमुत्तमम्॥
धनिष्ठापञ्चकं मुक्त्वा विष्ट्यादिकमतः परम्।
ततः सांवत्सरादिष्टे दिने यायाद्वनं बुधः॥
प्रथमं बलिपूजां च कुर्य्याद्क्षाय सर्वथा।
पूर्वोत्तरेण पतितं गृहदारु प्रशस्यते॥
अन्यथा न शुभं विद्याद्याम्यापरनिपातने।
क्षीरवृक्षोद्भवं दारु न गृहे विनिवेशयेत्॥
कृताधिवासं विहगैरनलानिलपीडितम्।
गजावभग्नं च तथा विद्युन्निर्घातपीडितम्॥
ऊर्ध्वं36 शुष्कं तथा दारुभग्नंवक्रं तथैव च।
चैत्यदेवालयोत्पन्नं नदीसङ्गमजं तथा॥
श्मशानकूपनिलयं तडागादिसमुद्भवम्।
वर्जयेत्सर्वदा दारु यदीच्छेद्विपुलां श्रियम्॥
तथा कण्टाकिनो वृक्षान्नीपनिम्वविभीतकान्।
श्लेष्मातकानाम्रतरून् वर्जयेत् गृहकर्मणि॥ इति।
बह्वृचगृह्येऽपि,
अथातो वास्तुपरीक्षा।अनूपरमविवदिष्णु भूमौषधिवनस्पतिवत्। यस्मिन् कुशवीरणं प्रभूतम्। कण्टाकक्षीरिणस्तु समूलान् परिखायोद्वास येदपामार्गः शाकस्तिल्वकः परिव्याध इति चैतानि।यत्र सर्वत आपो मध्यं समेत्य प्रदक्षिणं शयनीयं परीत्य प्राच्यः स्यन्देरन्नप्रदत्यस्त- त्सर्वसमृद्धम्।समवस्त्रवे भक्तशरणं कारयेत्।बहन्नं हि भवति। दक्षिणाप्रवणे सभां मापये-
त्साद्यूता ह भवति। युवानस्तस्यां कितवाः कलहिनः प्रमायुका भवन्ति। यत्र सर्वत आपः प्रस्यन्देरन् सा स्वस्त्ययन्यद्यूता च ( आ० गृ० अ० २ स्वं० ७ )।
अथैतैर्वास्तु परीक्षेत। जानुमात्रं गर्त्तंखात्या तैरेव पांसुभिः प्रतिपूरयेत्। अधिके प्रशस्तं, समे वार्त्तं, न्यूने गार्हतम्। अस्तमिते पांसुपूर्णं परिवासयेत्। सोदके प्रशस्तम्, आर्द्रे वार्तं, शुष्कं गर्हितं, श्वेतं मधुरास्वादम्।सिकतोत्तरं ब्राह्मणस्य, लोहितं क्षत्रियस्य, पीतं वैश्यस्य।तत्सहस्रसीतं कृत्वा यथादिशं समचतुरस्रं
मापयेत् आयतचतुरस्त्रं वा। तच्छमीशाखयोदुम्बरशाखया वा शन्तातीयेन त्रिःप्रदक्षिणं परिव्रजन्प्रोक्षति- अविछिन्नया चोदकधारया “आपोहिष्टामयो भुव” इति तृचेन। वंशान्तरेषु शरणानि कारयेत्।गर्त्तेष्ववकां शीपालमित्यवधापयेन्नास्याग्निर्दा
हुको भवतीति विज्ञायते। मध्यमस्मृणाया गर्त्तेऽवधाय प्रागग्रोदगग्रान् कुशानास्तीर्य व्रीहियवमतीरप आसेचयेद् “अच्युताय भौमाय स्वाहा” इति।अथैनामुच्छीयमाणामनुमन्त्रयेत “इहैव तिष्ट निमिता तिल्विलास्तामिरावतीं मध्ये पोषस्य तिष्ठन्तीम्। आ त्वा प्रापन्नघायव आ त्वा कुमारस्तरुण आवत्सोजायतां सह। आ त्वा परिश्रितः कुम्भ आदध्नः कलशैरयन” इति। ( आ० गृ० अ० २खं ०८ )
वंशमाधीयमानम्। “ऋतेन स्वृणामधिरोह वंश द्राघीय आयुः प्रतरं याना” इति। सदुर्वासु चतसृषु शिलासुमणिकं प्रतिष्ठापयेत् “पृथिव्या अधि सम्भव” इति। “अरङ्गरो वावदीति त्रेधा बद्धो वरत्रया। इरामु हप्रशंसत्यनिरामपबाधताम्" इति वा। अथास्मिन्नप आसेचयेत् “ऐतु राजा वरुणो रेवतीभिरस्मिंस्थाने तिष्ठतु मोदमानः।
इरां वहन्तो घृतसुक्षमाणा मित्रेण साकं सह संबिशन्तु” इति। अथैनच्छमयति व्रीहियवमतीभिरद्भिर्हिरण्यमवधाय शन्तातीयेन त्रिः प्रदक्षिणं परिव्रजन्प्रोक्षति अविच्छिन्नया चोदकधारया “आपोहिष्ठामयो भुव" इति तृचेन।मध्येऽगारस्य स्थालीपाकं श्रपयित्वा “वास्तोष्पते प्रतिजानी ह्यस्मान्” इति चतसृभिः प्रत्यृचं हुत्वाऽन्नं संस्कृत्य ब्राह्मणान् भोजयित्वा ‘शिवं वास्तु शिवं वास्तु’ इति वाचयीत।इति। ( आ. गृ.अ. २ खं. ९ )।
अविवादिष्णु, यत्र विवदिष्णुर्विवदिता न विद्यते तत्। अविवादीति तु पाठे विवादरहितमित्यर्थः। भूमौषधिवनस्पतिवत्, बहुतरौषधिवनस्प- त्युत्पत्तियोग्यम्। परिखाध, उत्पाठ्य। परिव्याधो, राजवृक्षविशेषः।प्रदक्षिणं शयनीयं परीत्य, शयनगृहं प्रदक्षिणं यथा भवति तथाकृत्वा। अप्रवदत्यः, अशब्दवत्यः। छान्दसो नुमभावः। सर्वसमृद्धं, सर्वैः पुत्रादिभिः सम्पूर्णम्।समवस्रवे, प्रणालिकादेशे। भक्तशरणं, पाकशाला। सभा, गृहस्थस्य समाजशाला, सा यदि दक्षिणाप्रवणे देशे क्रियते तदा द्यूतवती भवन्यतो न तथा कार्येत्यर्थः। प्रमायुकाः, मरणशीलाः। वार्त्तम्, नात्युत्कृष्टं नापकृष्टमित्यर्थः।सहस्त्रसीतम्, अपरिमितकृष्टम्। शन्तातीयैः, शन्न इन्द्राग्नी भवतेतिमुक्तेन। अवकाः शम्बुकाः।शीपालाःशैवालाः।
विष्णुधर्मोत्तरे,
राम उवाच।
वास्तुविद्यां समाचक्ष्व यादोगणनृपात्मज।
हिताय मानवंन्द्राणां तथान्येषां च मानद॥
पुष्कर उवाच।
भूमिमादौ परीक्षेत शुभलक्षणसंयुताम्।
पूर्वोदक्प्रवणां धन्यां तथा वै दक्षिणोन्नताम्॥
न तथा शकटाच्छिन्नां न च तोयपरिप्लुताम्।
वल्मीकमूषिकावासश्वभ्रकण्टकितद्रुमैः॥
विहीनां मृदुसंस्पर्शोकठिनां चाप्यनूषराम्।
न तथा यबसंस्थानां नेभवज्रोपमां तथा॥
न शूर्पकूर्मसंस्थानां स्रक्तिहीनां तथैव च।
स्रक्तिहीनां, कोणरहिताम्।
सम्पूर्यमाणां स्वात्स्वातात्तथारिक्तमृदं शुभाम्॥
गर्भे च कुसुमं यस्या न म्लानिमुपगच्छति।
न निर्वाणमवाप्नोति यस्यां दीपश्च भार्गव॥
उदकं च तथा यस्यां शीघ्रं राम न जीर्यते।
सा प्रशस्ता क्षितिस्तस्यां निवेशं कारयेद्बुधः॥
श्वेता रक्ता तथा पीता कृष्णा चैव यथाक्रमम्।
विप्रादीनां प्रशस्ता स्यान्मृत्तिका च ततो द्विज॥
घृतासृगन्नमद्यानां तुल्यगन्धा तथैव च।
मधुरा च कषाया च अम्लौषणरसा तथा॥
कुशैःशरैस्तथा काशैर्दूर्वाभिर्या व संवृता।
परीक्ष्य यन्नतो भूमिं तिथिनक्षत्रसम्पदा॥
सम्पूज्य ब्राह्मणान् पूर्वं निःशल्यां तां तु कारयेत्।
खातपूर्णां तु तां कृत्वा देवभागांश्च कल्पयेत्॥
चतुःषष्टिपदं कृत्वा वास्तु सर्वं यथाविधि।
चतुष्षष्टिविभागेन कल्पयित्वा समन्ततः॥
एकैकं तु गृहं तत्र तथैव परिकल्पयेत्।
यस्मात्सुरविभागेन द्वारन्यासः प्रकीर्त्तितः॥
अतः परं प्रवक्ष्यामि देवभागान् यथाविधि।
मध्ये चतुष्पदः स्वामी ब्रह्मा शुभचतुर्मुखः॥
प्राक्तथाविग्रहः स्वामी कथितश्च तथाऽर्यमा।
दक्षिणेन विवस्वांश्च मित्रः पश्चिमतः स्थितः॥
उदक्पृथ्वीधरश्चैव विकोणेष्वथ मे शृणु।
विकोणे शिवदैवत्ये राजयक्ष्माम्बुपौ स्मृतौ॥
सावित्रसवितारौ तु तथाग्नेये प्रकीर्तितौ।
तथा नैर्ऋतकोणे तु जयेन्द्रौ राम कीर्तितौ॥
रुद्रव्याधी तु वायव्ये कथितौ भृगुनन्दन।
देवतानां तथैतासां भूमौ बाह्ये तु मण्डले॥
पूर्वादिषु यथा दिक्षु देवतास्तन्निबोध मे।
महेन्द्रश्च रविः सत्यो भृशः प्राग्राम कीर्त्तितः॥
गृहक्षतो यमो भृङ्गो गन्धर्वश्चैव याम्यतः।
भल्लाटश्च तथा सोम अदितिर्धनदस्तथा॥
उत्तरेण स्मृता देवा विकोणेष्वथ मे शृणु।
दितिरीशो मेघजयौशिवकोणे प्रकीर्तिताः॥
व्योमाग्नीपृषवितथौ शिस्विकोणे च भार्गव।
मृगपित्रीशदौवारिसुग्रीवाश्चैव नैर्ऋते॥
रोग आपश्च वायुश्च मुख्यश्चानिलदिक्स्थिताः।
तथैव बाह्यतश्चाष्टौशृणुष्व गदतो मम॥
अष्टावष्टौविनिर्दिष्टा देवा दिशि दिशि द्विज।
आद्यन्तौ तु तयोर्देवौप्रोक्तावन्नग्रहेश्वरौ॥
पर्जन्यः प्रथमो देवो द्वितीयश्च करग्रहः।
महेन्द्ररविसत्याश्च भृशोऽथ गगनस्ततः॥
पवनश्च महाभागाः पूर्वेणैते प्रकीर्तिताः।
पुष्पोऽथ वित्तदश्चैव तथैव च गृहक्षतः॥
यमो भृशश्चगन्धर्वो मृगोऽथ पितरस्तथा।
दक्षिणेन विनिर्दिष्टा देवा भृगुकुलोद्वह॥
दौवारिकश्चसुग्रीवः पुष्पदन्तस्तथासुरः।
वरुणस्तु तथा यक्षो रोगः शोपस्तथैव च॥
पश्चिमेन विनिर्दिष्टो देव दानवनाशनः।
नागराजस्तथा मुख्यो भल्लाटश्चतथा शशी॥
अदितिश्च कुवेरश्चरोगश्चाथ हुताशनः।
एते देवा विनिर्द्दिष्टास्तथा चोत्तरतो द्विज॥
एतेषामेव देवानां भागे द्वाराणि कारयेत्।
शुभानि तेषु वक्ष्यामि शेषाणि परिवर्जयेत्॥
महेन्द्रसोमदैवत्यौपूर्वतः शुभदौस्मृतौ।
गृहक्षतश्च पुष्पश्च तथा दक्षिणतः शुभौ॥
सुग्रीवः पुष्पदन्तश्चशुभौ पश्चिमतो द्विज।
भल्लाटः सोमदेवश्च द्वारे श्रेष्ठो तथा पुदक्।
द्वात्रिंशश्च वहिर्देवास्तथान्तर्द्वादश स्मृताः॥
मध्ये ब्रह्मातथा प्रोक्त एवं सम्पिण्डदेवताः।
चत्वारिंशद्विनिर्दिष्टास्तथा पञ्च च भार्गव॥
विन्यस्याजिरमेवादौचतुष्पष्टिपदं द्विज।
तत्र देवविभागेन गृहकर्म विधीयते॥
चन्द्रसुग्रीवपर्जन्यसत्येन्द्रार्यमवारुणे।
भागे वासगृहं कुर्याद्यथासंस्थानतो द्विज॥
सूर्यान्तरिक्षादिकं तत्र तथा कुर्याद्द्विजोत्तम॥
अथ वा दिग्विभांगन गृहकर्म विधीयते॥
ऐशान्यां देवतावेश्मतथाग्रेय्यां महानसम्।
अग्न्यगारं च तत्रैव भ्रमं नैर्ऋतके तथा॥
गोष्ठागारायुधागारौ वायव्ये च तथा स्मृतौ।
कूपादि चोदकं शस्तं दिक्षु चैवोत्तरासु च॥
अन्यासु गर्हितं राम प्रयत्नेन विवर्जयेत्।
पुराणनवमिश्रं तु दारु वेश्मनि वर्जयेत्॥
स्वकुड्यं परकुड्ये च नैव कार्यं विजानता।
विनार्कचन्द्रग्रहणं द्वारसम्परिवर्त्तनम्॥
वृद्धिक्षयौ न कर्त्तव्यौभूयः कर्मणि वेश्मनः।
प्रागुत्तरे तथा कार्यं ब्राह्मणानुमते तथा॥
ब्रह्मस्थानं शुचिर्नित्यं कार्यं भवति भार्गव।
न पीडनीयं च तथा नागदन्तादिभिर्भवेत्॥
मर्माणि राम जानीयाद्देवतापदसन्धिषु।
न पीडयेत्तया तानि नागदन्तादिभिर्द्विज॥
ये द्रुमा घटसिक्ता वै तथा ये च सकोटराः।
हस्तिविद्युद्धुता ये च देवतावेश्मजाश्च ये॥
वह्णिस्पृष्टाः श्मशाने च ये च जाताश्चतुष्पथे।
एकवृक्षाश्च ये केचिन्न ते शस्ताः कथञ्चन॥
वृक्षस्य महतीं पूजां कृत्वा तद्वासकस्य च।
मध्वाज्यैरुपदिग्धेन तथा छिन्द्यात्परशुना॥
पूर्वोत्तरेण पतनं प्रशस्तं परिकीर्त्तितम्।
शेषासु पतनं दिक्षु गर्हितं द्विजसत्तम॥
वटाश्वत्थौ च निर्गुण्डी कोविदारविभीतकौ।
पुष्पकःशाल्मलिश्चैव पलाशश्च विवर्जयेत्॥
पलाशश्चेत्यग्रे, एतानिति शेषः।
विस्तारद्विगुणोच्छ्रायं द्वारं कार्यं तथा गृहे॥
निधिप्रमथल्कौ नागहंससारसचित्रितम्।
द्वारकोणे भ्रमश्वभ्रचतुष्पयसुरालयैः॥
कूपैकवृक्षरथ्याभिर्विद्धं द्वारं विवर्जयेत्।
रथ्या मार्गः।
बेधोऽवाभिमुखेनावस्मानम्।
द्विगुणातु गृहो
स्कायाम् भूमिं व्यवस्था न दोषभाक्।
वेध इतिशेषः।
आध्मानं सङ्कटं गम तथाम्बुस्रादि यद्भयेत्।
द्वारं न तन्प्रशंमन्ति तम्मात्तत्परिवर्जयेत्॥
मूलद्वाराधिकं श्रीभागेषु चतथा त्रयम्।
धनदस्य तथा भागे धनुर्वेश्म विधीयते॥
इन्द्रादित्येन्द्रमुग्रीवद्वारमन्यत्तु कारयेत्।
स्तम्भंतु नवधा कृत्या पीठभागे तु कारयेत्॥
भागे कुम्भं तथा कार्ये भागे पद्मं निवेशयेत्।
स्तम्भे भाग
वये कार्यमष्टास्त्रिमथवर्त्तुलम्॥
तस्योपरि तथा भागे भवत्यामलसारकम्।
भागे दोषतुला कार्या भागे कार्य तथा तुला॥
एकशालचतुःशालौकर्तव्यौस्वेन्छया सदा।
पूर्वोत्तराभिः शालाभिष्टीनौकार्यौद्विशालकौ॥
दक्षिणापरशालाभिर्हीनो मरणदायकौ।
अन्यथा गर्द्दिनी राम मृतार्थक्षयदौमनौ॥
अष्टहस्तोच्छयादूर्ध्वेभूमिकां तु न कारयेत्।
वास्तूच्छायो न कर्तव्यस्तथा हस्तशतात्रिकः॥
आरम्भः सशिलान्यासो द्वारस्तम्भोच्छयावुभौ।
तथाऽऽरोहणनिष्पत्तिस्तथा वास्तुप्रवेशनम्॥
आरोहणनिष्पत्तिः, सोपानपङ्क्तिः।
सर्वाण्येतानि कार्याणि दिवसे राम पूजिते।
सर्व्वेष्वेतेषु कर्त्तव्यं देवब्राह्मणपूजनम्॥
कालज्ञपूजनं चैव स्थपतीनां च भार्गव।
प्रावृट्काले न कर्त्तव्यं वास्तुकर्म विजानता॥
कृष्णपक्षत्रिभागान्ते शुक्लाद्ये च भृगूत्तम।
तिथिं चतुर्थी नवमीं वर्जयेच्च चतुर्द्दशीम्॥
अङ्गारकदिनं राम करणं विष्टिसंज्ञितम्।
दिव्यान्तरिक्षक्षितिजैरुत्पातैर्न च पीडितम्॥
ग्रहोपसृष्टं च तथा व्यतीपातहतं च यत्।
चन्द्रतारानुकूले भे गृहं कर्तुं विजानता।
ध्रुवाणि भानि शस्तानि शाक्रं वैनैर्ऋतं तथा॥
याम्यं च वैष्णवं पुष्यं पौष्णं सावित्रमेव च।
स्थिरलग्ने स्थिरांशे च कर्तुश्चोपचयात्मके॥
राम सौम्यग्रहाः केन्द्रे त्रिकोणे वापि भार्गव।
पापाश्चोपचयस्थाने तस्मिन् कार्यं प्रवेशनम्॥
केन्द्रस्थं वर्जयेत्पापं सर्वयत्रेन कर्मसु।
केन्द्रसौम्ययुतं देयं न तु शून्यं कदाचन॥
अतः परं प्रवक्ष्यामि शिलान्यासविधिं तव।
चतुःषष्टिपदं कृत्वा समे स्थाने तु मण्डलम्॥
कृत्वा तु देवतान्यासं तत्र मण्डलके द्विज।
श्रियाः सम्पूजनं कृत्वा वासुदेवस्य चाप्यथ॥
पूजनं मण्डले कार्यं वासुदेवगणस्य च।
गन्धार्घ्यपुष्पनैवेद्यधूपदीपैर्भृगुत्तम॥
तेषां सम्पूजनं कृत्वा समाधाय हुताशनम्॥
ओङ्कारपूर्वमाज्यं तु जुहुयाच्छ्रीधरस्य तु।
श्रियः कृत्वा ततो होमं ब्रह्मणः कारयेत्ततः॥
ब्राह्मणं तु पुरस्कृत्य वास्तुदेवगणस्य च।
होतव्यमाज्यं धर्मज्ञ यस्य देवस्य हूयते॥
तत्कालमाशु भजते लक्षणेऽग्नौद्विजोत्तम।
तस्य देवस्य यत्स्थानं तत्र शल्यं विनिर्दिशेत्॥
शल्यस्योद्धरणं कार्यं राम यत्नेन जानता।
मध्ये शैलमयं कुम्भं शङ्कुंच स्थापयेद्बुधः॥
ऐशाने च तथा कोणे शिलां पूर्वं प्रतिष्ठयेत्।
प्रदक्षिणं ततो राम शिलान्यासो विधीयते॥
कुम्भस्य च शिलानां च ततः स्नानं विधीयते।
वटाश्वत्यकषायेण सर्वौषधिजलैस्तनः॥
ततोऽनुलेपनं कार्यंचन्दनेन सुगन्धिना।
आच्छादनं ततः कार्यं वासोभिः कुसुमैः शुभैः॥
दीपं धूपं च नैवेद्यं तेषां राम निवेदयेत्।
दक्षिणाभिर्द्विजेन्द्राणां ततः पूजा विधीयते॥
कालवित्स्थपती पूज्यों ततो राम विजानता।
ततो मन्त्रं जपेत्कर्त्ता कालज्ञः स्थपतिस्त्वथ॥
गृहपुष्टिकरं राम मुनिवक्रविनिःसृतम्।
नन्दे नन्दय वासिष्ठे वसुभिः प्रजया सह॥
जये जयावहे देवि प्रजानां जयमावह।
पूर्णे गिरीशदायादे पूर्णकामं कुरुष्व माम्॥
भद्रे कश्यपदायादे कुरु भद्रां मतिं मम।
सर्वबीजसमायुक्ते सर्व
रत्नोषधैवृते॥
रुचिरे नन्दने नन्दे वासिष्ठे रम्यतामिह।
प्रजापतिसुते देवि चतुरस्रेमहीमये॥
सुभगे सुव्रते भद्रे गृहे काश्यपि रम्यताम्।
पूजितैः परमाचार्यैर्गन्धमाल्यैरलङ्कृते॥
भव भूतिकरी देविगृहे भार्गवि रम्यताम्।
अव्यङ्गे चाक्षते पूर्णे मुनेरङ्गिरसःसुते॥
इष्टके त्वंप्रयच्छेष्टं प्रतिष्ठां कामयाम्यहम्।
देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे॥
मनुष्यधमहस्त्यश्वपशुवृद्धिकरी भव।
गृहप्रवेशेऽपि तथा शिलान्याससमो विधिः॥
कर्त्तव्यः सकलो राम शिलान्यासविवर्जितः।
पूजितामरलक्ष्मीकं हुताग्निंचाप्यलङ्कृतम्॥
पञ्चरङ्गेण सूत्रेण प्रतिवद्धसरं तथा।
सकलेषुतु कोणेषु दिशासु विदिशासु च॥
गवाक्षकेषु कर्त्तव्याश्चका रक्षोहणास्तथा।
सर्वस्यास्य तथा म्यासो मन्त्रै रक्षोहणैर्भवेत्॥
गोपृष्ठविन्यस्तकरः प्रविशेच्चगृही गृहम्।
स्वनुलिप्तः सुखी स्रग्वी सपत्नीकस्तथैव च॥
द्विजपुण्याहघोषेण वीणावेणुरवेण च।
वन्दिनां च निनादेन पटहानां स्वनेन च॥
काले शुभे कालविदा प्रदिष्टे सतोरणं पूर्णबटाभिरामम्।
प्रविश्य कालज्ञसमर्चितानां कृत्वार्चनं तत्र सुरोत्तमानाम्॥
सम्पूज्य पङ्किद्विजपुङ्गवाश्चमङ्गल्यमालभ्य च भोजयित्वा
विप्रान्मधुक्षीरघृतोत्कटान्नं सदक्षिणांस्तांश्च तथा बिसर्ज्य।
सप्ताहमग्निं परिचर्य तत्र सम्पूज्य विप्रान् विधिवच्चराम।
गृहे वसेत्पूजितदेवप्रियेशुचौ सदा सर्वगुणोपपन्ने॥ इति।
इतिविष्णुधर्मोत्तरेषु वास्तुविद्या।
एवं गृहादौनिर्मिते गृहस्य कस्मिन् भागे के वृक्षाःशुभाः
गृहे दिग्भेदेन रोपणीया वृक्षा उद्यानकरणं च।
केचाशुभा इत्यपेक्षिते—
विष्णुधर्मोत्तरे,
पुष्कर उवाच।
उत्तरेण शुभः प्लक्षो वटःप्राग्भार्गवोत्तम।
उदुम्बरश्च याम्येन सौम्येनाश्चत्य एव च॥
एते क्रमेण नेष्यन्ते दक्षिणादिसमुद्भवाः।
समीपजाताश्च तथा वर्ज्याः कण्ट
किनोद्रुमाः॥ इति।
उद्यानं कुत्र भागे कर्त्तव्यं कथं वा कर्त्तव्यमित्यपेक्षायाम्—
तत्रैव,
वामभागेतथोद्यानं कुर्याद्वासगृहाच्छुभम्।
वापये
त्पाक्तिलांस्तत्र मुद्रीयात्तांश्चपुष्पितान्॥
ततस्तु रोपयेद्वृक्षान् प्रयतः सुसमाहितः।
नतो द्रुममथाभ्यर्च्य ब्राह्मणान् शशिनं तथा॥
ध्रुवाणि पञ्चवायव्यं हस्तं पुष्यं सवैष्णवम्।
नक्षत्राणि तथा मूलं शस्यते द्रुमरोपणे।
उद्यानमजलं राम नाभिरामं यदा तदा॥
प्रवेशयेन्नदीवाहान् पुष्करिण्यश्च कारयेत्।
संस्कार्यमुद्भिदा तोपंकूपाः कार्याः प्रयत्नतः॥
हस्तं मघा तथा मैत्रमाप्यंपुष्यं च वाप्तवम्।
उत्तरात्रितयं राम तथा पूर्वा च फल्गुनी॥
जलाशयसमारम्भे प्रशस्तं वारुणं तथा।
सम्पूज्य वरुणं देवं विष्णुं पर्जन्यमेव च॥
तर्पयित्वा द्विजान् कामैस्तदारम्भपरो भवेत्।
अथोद्याने प्रवक्ष्यामि प्रशस्नान् पादपान् दिज॥
अरिष्टाशोकपुन्नागशिरीषाः सप्रियङ्गवः।
परमाशोककदलीजम्बूलकुचदाडिमाः॥
मङ्गल्याःसुद्रुमा राम रोपणीया गृहेषु वा।
कृत्वा वहुत्वमेतेषां सेव्याः सर्वेऽप्यनन्तरम्॥
शाल्मलिं कोविदारं च वर्जयित्वा विभीतकम्।
दमनं देवदारुं च पलाशं पुष्करं तथा॥
न विवर्ज्यास्तथा केचिद्देवोद्यानेषु जानता।
तत्रापि बहुता कार्या मङ्गलानां द्विजोत्तम॥
सायम्प्रातस्तु घर्मर्तौ शीतकाले दिनान्तरे।
वर्षाकाले भुवः शोषे सेक्तव्या रोपिता द्रुमाः॥
उत्तमं विंशतिर्हस्तामध्यमं षोडशायतम्।
स्थानात्स्थानान्तरं कार्यंवृक्षाणां द्वादशावरम्॥
अभ्यासजातास्तरवः संस्पृशन्तः परस्परम्।
अव्यक्तमूलमिश्रत्वाद्भवन्ति विफला द्विज॥इति।
एवं रोपितानां द्रुमाणां रोगोत्पत्तौचिकित्सोक्ता—
तत्रैव,
तेषां व्याधिसमुत्पत्तौ शृणु राम चिकित्सितम्।
आदौ संशोधनं तेषां किञ्चिच्छत्रेण कारयेत्॥
विडङ्गधृतङ्काक्तान् सेचयेच्छीतवारिणा।
फलनाशे कुलत्थैश्चमाषैर्मुद्रैस्तिलैर्यवैः॥
शृतशीतपयःसेकः फलपुष्पाय सर्वदा।
अविकाऽजशकृच्चूर्णं यवचूर्णं तिलानि च॥
उदकं गोमयं चेति सप्तरात्रं निधापयेत्।
उत्सेकः सर्ववृक्षाणां फलपुष्पादिवृद्धिदः॥ इति।
नानारङ्गपुष्पोत्पत्तौ प्रकार उक्तः—
तत्रैव,
रङ्गतोयाभिषेचितम्।
तद्रङ्गपुष्पं भवति यौवने नात्र संशयः।
मत्स्याम्भसा तु सेकेन दृष्टिर्भवति शासिनाम्॥ इति।
अथैतेषां दोहदानाह—
तत्रैव,
ततः प्राधान्यतो वक्ष्ये द्रुमाणां दोहदान्यहम्।
मत्स्योदकेन शीतेन आम्राणां सेक इष्यते॥
मृद्वीकानां तथा कार्यस्तैनैव रिपुमुदन।
प
कासृ
ग्रुधिरं चैव दाडिमानां प्रशस्यते॥
तुषं देयं च नव्यानां मद्यं च वकुलद्रुमे।
विशेषात्कामिनीवक्रसंसर्गात्तुगुणो भवेत्॥
प्रशस्तं चाप्यशोकस्य कामिनीपादताडनम्।
शृगालमांसतोयं च नारङ्गाक्षोटयोर्हितम्॥
मधुपर्ण्युदकं चैव वदराणां प्रशस्यते।
गन्धोदकं सगोमांसं केतकानां प्रशस्यते॥
क्षीरसेकेन भवति सप्तपर्णो मनोहरः।
मांसयूषवसामज्जासेकः कुरबके हितः॥
युतिमत्स्याधृतं पूतिकार्पासफलमेव च।
अरिमेदस्य सेकोऽयं पाटलेषु प्रशस्यते॥
शृगालमत्स्यमांसाभ्यां चम्पकेषु च वापयेत्।
पारावतानां क्षीरेण रुधिरेण च शस्यते॥
कपित्थबिल्वयोः सेकं गुडतोयेन कारयेत्।
जातीनां मल्लिकायाश्च गन्धतोयेन रञ्जनम्॥
जपाकुरवजातीनां कूर्ममांसं प्रशस्यते।
खर्जूरनारिकेराणां वंशस्य कदलस्य च॥
लवणेन सतोयेन सेको वृद्धिकरः स्मृतः।
विडङ्गलवणोपेतं मत्स्यमांसं भृगूत्तम॥
सर्वेषामविशेषेण दोहदं परिकल्पयेत्।
एवं कृते चारुपलाशपुष्पाः सुगन्धिनो व्याधिविवर्जिताश्च। भवन्ति नित्यं तरवः सुरम्याश्चिरायुषः स्वादुफलान्विताश्च॥ इति।
इति विष्णुधर्मोत्तरे वृक्षायुर्वेदः।
अथ राष्ट्रम्।
तत्र मनुः,
राष्ट्रस्य सङ्ग्रहे नित्यं विधानमिदमाचरेत्।
सुसङ्गृहीतराष्ट्रो हि पार्थिवः सुखमेधते॥
सङ्ग्रहः, संरक्षणमात्मीयताकरणं वा।
द्वयोस्त्रयाणां पश्चानां मध्ये गुल्ममत्रस्थितम्।
तथा ग्रामशतानां च कुर्याद्राष्ट्रस्य गुप्तये॥
द्वयोर्ग्रामशतयोस्त्रयाणां पञ्चानां वा ग्रामशतानां मध्ये गुल्मंपदात्यादिसमूहमवस्थितं कुर्यात्स्थापयेत्। राष्ट्रस्य सङ्ग्रहम् इति पाठे सङ्ग्रहंरक्षास्थानं, गुल्मं गुल्मसहितम्, अवस्थितं सत्यशीलपुरुषाधिष्ठितम्।दस्युलाघवगौरवापेक्षयोक्तो विकल्पः। दुर्गे स्थित एकैकस्मिन् ग्रामे ग्रामसमुदाये वा प्रजापालननियुक्तान् कुर्यात्। तदुक्तम्—
विष्णुना
, तत्र स्वस्वग्रामाधिपान् कुर्बात् दशाध्यक्षानिति।
मनुरपि,
ग्रामस्थाधिपतिं कुर्याद्दशग्रामाधियं तथा।
विंशतीशं शतेशं च सहस्रपतिमेव च॥इति।
विष्णुधर्मोत्तरेऽपि पुष्करवाक्यम्—
राजा धर्मभृतां श्रेष्ठः कृत्वा पुरुषविग्रहम्।
पुरुषान् विनियुञ्जीत उत्तमाधमकर्मसु।
ग्रामस्याधिपतिं कुर्याद्दशग्रामाधिपं तथा।
शतग्रामाधिपं वापि तथैव विषयेश्वरम्॥ इति।
आपस्तम्बोऽप्याह -
ग्रामेषु नगरेषु चार्यान्शुचीन्सत्यशीलान् प्रजागुप्तये निदध्यात्तेषां पुरुषास्तथागुणा एव स्युः सर्वतो नगरं योजनं तस्करेभ्यो रक्ष्यं क्रोशो ग्रामः। इति।
विष्णुधर्मोत्तरे विशेषः।
तेषां भागो विभागश्च भवेत्कर्मानुसारतः।
नित्यमेव तथा कार्यं तेषां चारैःपरीक्षणम्॥ इति।
याज्ञवल्क्योऽपि,
ये राष्ट्राधिकृतास्तेषां चारैर्ज्ञात्वा विचेष्टितम्।
साधून् सम्मानयेद्राजा विपरीतांश्च घातयेत्॥
उत्कोचजीविनो हीनद्रव्यान कृत्वा विवासयेत्।
सदानमानसत्कारान् श्रोत्रियान् वासयेत् सदा॥ इति।
विचेष्टितं, विविधं व्यापारम्।विपरीतान्, असाधून्।
कार्यार्थे कार्यिणो धनादानमुत्कोचः।मानः, पूजा।विशेषान्तरमप्याह—
मनु,
तेषां ग्राम्याणि कार्याणि पृथक्कार्याणि चैव हि।
राज्ञोऽन्यः सचिवः स्निग्धस्तानि पश्येदतन्द्रितः॥
पृथक्कार्याणि, परस्परकलहादीनि।पृथक्कायानीति क्वचित्पाठः। तदा विप्रतिपन्नानीत्यर्थः।
नगरे नगरे चैकं कुर्यात्सर्वार्थचिन्तकम्।
उचैःस्थानं घोररूपं नक्षत्राणामिव ग्रहम्॥
उच्चैःस्थानं, कुलादिना महान्तम्, अथवा अत्युच्चोपवेशनस्थलम्।घोररूपं भयानकम्।
स ताननुपरिक्रामेत्सर्वानायुक्तकान स्वयम्।
तेषां वृत्तं परिणयेत्सम्यग्राष्ट्रेषु तच्चरैः॥ इति।
अनुपरिक्रामेत्, यदा अन्यायिभिस्तेऽभियुक्ता अभिभूयन्ते तदा तान् वलेन पूरयेत् इत्यर्थः। वृत्तं चेष्टितम्। परिणयेत्, प्रापयेत्। तच्चरैः, नृपचरैः।
विष्णुधर्मोत्तरे,
ग्रामदोषान् समुत्पन्नान् ग्रामेशःप्रशमं नयेत्।
अशक्तौदशपालस्य स तु गत्वा निवेदयेत्॥
सोऽप्यशक्तः शतेशाय यथावद्विनिवेदयेत्।
शतेशो विषयेशाय सोऽपि राज्ञेनिवेदयेत्॥
अशक्तौशक्तिमान् राम स्वयं युक्तिमुपाचरेत्।
राजा सर्वात्मना कुर्याद्विषये राम रक्षणम्॥
वित्तमाप्नोति धर्मज्ञ विषयात्स सुरक्षितात्। इति
मनुरप्याह—
ग्रामदोषान् समुत्पन्नान् ग्रामिकः शनकैः स्वयम्।
शंसेद्धामदशेशाय दशेशो विंशतीशिने॥
विंशतीशस्तु तत्सर्वं शतेशाय निवेदयेत्।
शंसेद्धामशतेशस्तु सहस्रपतये स्वयम्॥इति।
एतेषां वृत्तिमाह—
स एव,
यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः।
अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात्॥
यानि राज्ञेप्रदेयानि अन्नादीनि तानि वृत्त्यर्थं ग्रामाधिपतिर्गह्नीयात्, न त्वाब्दिकं करम्। आब्दिकं तु करमाप्तद्वारा राजैव गृह्णीयात्। तदुक्तम्—
विष्णुधर्मोत्तरे,
सांवत्सरिकमाप्तैश्चराष्ट्रादाहारयेद्धलिम्। इति।
दशी कुलं तु भुञ्जीत विंशी पञ्चकुलानि च।
ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम्॥
कुलं, ग्रामैकदेशः, पादुकाख्यइति कल्पतरुः।
अन्ये तु कुलं हलद्वयकृष्टा भूः"कुलं तु द्विगुणं हलम्" इति स्मरणात्। हलोऽपि षड्ग एव।
अष्टागवं धर्म्यहलं षड्गवं जीवितार्थिनाम्।
चतुर्गवं नृशंसानां द्विगवं ब्रह्मघातिनाम्॥
इति हारीतस्मरणात्। तद्दशग्रामाधिपतिर्जीविनार्थे षङ्गवहलद्वयकृष्टां भुवं भुञ्जीन। विंशी,विंशतिग्रामाधिपतिः पञ्च कुलानि भुञ्जीत। विशेषान्तरमाह—
विष्णुः,
ग्रामदोषाणां ग्रामाध्यक्षः परिहारं कुर्यात, अथाशको दशग्रामाध्यक्षाय निवेदयेत्, सोऽप्यशक्तः शनाध्यक्षाय, सोऽप्यशक्तो देशाध्यक्षाय, देशाध्यक्षोऽपि सर्वात्मना दोषसमुच्छिन्द्यात्। इति।
सर्वात्मनेति। स्वशत्यतिक्रमेणाप्येनदर्थे, न तु स्वयमेव दोषमुच्छिन्द्यान्नवा राज्ञेनिवेदयेदित्येवमर्थम्।
शतेशो विषयेशाय सोऽपि राज्ञे निवेदयेत्—
इति विष्णुधर्मोत्तरोक्तवचनविरोधात्।
मनुः,
राजा कर्मसु-युक्तानां स्त्रीणां प्रेष्यजनस्य च।
प्रत्यहं कल्पयेद्वृत्तिं स्थानकर्मानुरूपतः॥
पणो देयोऽवकृष्टस्य षड्त्कृष्टस्य वेतनम्।
षाण्मासिकस्तथाऽऽच्छादो धान्यद्रोणस्तु मासिकः। इति।
अवकृष्टस्य, गृहकर्मकरस्य। वेतनं, भक्तकम्। आच्छादः, आच्छादनवस्त्रद्वयम्।द्रोण, आढकचतुष्टयम्। तदुक्तम्—
अष्टमुष्टि भवेत्किञ्चित्कि37ञ्चिच्चत्वारि पुष्कलम्।
पुष्कलानि च चत्वारि आढकः परिकीर्तितः॥
चतुराढको भवेद्रोण इति।
शङ्खलिखितौ,
वाहनयोधानां सततमन्वीक्षणं, प्रतिमासं द्विसौबर्णिकी वृत्तिः, षाण्मास्यं स्मरणं, चातुर्मास्यं वा, स्वर्यातेषु दानमनुक्रोशो, विदितेनुष्वप्रदानं, कुलचारित्रशीलविद्यालक्षणगुणाधिकेषु सम्मानं प्रयुञ्जीत। इति।
षाण्मास्यं स्मरणं, षड्भिर्मासैश्चतुर्भिर्वा मासैरतिक्रान्तैः सद्भिः स्मृत्वा वेतनं देयमित्यर्थः। स्वर्यातेषु, मृतेषु। मृतेषु योधेषु दानदययोर सम्भवात्तत्पुत्रादिषु दानदये विधेये। विदितेषु, युद्धादौकृतकार्यतया प्रसिद्धेषु। अनुप्रदानं, वेतनादधिकं वस्त्रादौदेयमित्यर्थः। निर्दोषस्य वृत्तिंन परिहरेदित्याह—
बृहस्पतिः,
गुणवानिति यः प्रोक्तः ख्यापितो जनसंसदि।
कथं तेनैव वक्रेण निर्गुणः परिकथ्यते॥
तस्मात्प्रभुत्वं वृत्तिं च निर्दोषस्य न चालयेत्।
अनवस्थाप्रसङ्गः स्यान्नश्येतोपग्रहस्तथा॥ इति।
उपग्रहः, परिग्रह।दुर्गादिनिवेशानन्तरं कर्त्तव्यान्तरमाह -
स एव,
सम्यङ्निविष्टदेशस्तु कृतदुर्गस्तु शास्त्रतः।
कण्टकोद्धरणे नित्यमातिष्ठेद्वलमुत्तमम्॥ इति।
कण्टकाः, दुष्टसामन्तादयः।
मनुरपि,
यथोद्धरति निर्दाता कक्षंधान्यं च रक्षति।
तथा रक्षेन्नृपो राष्ट्रं हन्याच्च परिपन्थिनः॥
निर्दाता, प्ररूढक्षेत्रमध्यस्थिततृणादिलविता। कक्षं, तृणम्।
राष्ट्रेषु रक्षाधिकृताः परस्वादायिनः शठाः।
भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः॥ इति।
याज्ञवल्क्योऽपि,
चाटतस्करदुर्वत्तपदासाहसिकादिभिः।
पीड्यमानाः प्रजा रक्षेत्कायस्थैव विशेषतः॥
अरक्ष्यमाणाः कुर्वन्ति यत्किञ्चित्किल्विषंप्रजाः।
तस्मात्तुनृपतेरर्द्धं यस्माद्गृह्णात्यसौ करान्॥ इति।
मत्स्यपुराणेऽपि,
यथा न स्यात्कृशीभावः प्रजानामनवेक्षया।
तथा राज्ञा विधातव्यं स्वराज्यं परिरक्षता॥
मोहाद्राजा स्वराष्ट्रं यः कर्षयत्यनवेक्षया।
सोऽचिराद्भ्रश्यते राज्याज्जीविताच्च सवान्धवः॥
भृतो वत्सोजातबलः कर्मयोग्यो यथा भवेत्।
तथा राष्ट्रं महाभाग भृतं कर्मसहं भवेत्॥
यो राष्ट्रमनुगृह्णाति राष्ट्र स्वं परिरक्षति।
सञ्जातमुपजीवेतु विन्दते स महत्फलम्॥
__________________________________________
१ राज्ञोहि इति मुद्रितमनुपुस्तके पाठः।
दुह्याद्धिरण्यं धान्यं च महीं राजा सुरक्षिता। इति।
मनुरपि,
मोहाद्राजा स्वराष्ट्रं यः कर्षयत्यनवेक्षया।
सोऽचिराद्भ्रश्यते स्वाम्याज्जीविताच्च सवान्धवः॥
शरीरकर्षणात्प्राणाः क्षीयन्ते प्राणिनां यथा।
तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात्॥इति।
याज्ञवल्क्योऽपि,
अन्यायेन नृपो राष्ट्रात्स्वकोशं योऽभिरक्षति।
सोऽचिराद्विगतश्रीको नाशमेति सबान्धवः॥
प्रजापीडनसन्तापात्समुद्भूतो हुताशनः।
राज्ञां श्रियं कुलं प्राणान्नादग्ध्वा विनिवर्तते॥इति।
कात्यायनोऽपि,
यत्र कर्माणि नृपतिः स्वयं पश्यति धर्मतः।
तत्र साधुसमाचारा निवसेयुः मुखं प्रजाः॥इति।
मनुः,
रक्षन्धर्मेण भूतानि राजा वध्यांश्च घातयन्।
यजतेऽरहर्यज्ञैः सहस्रशतदक्षिणैः॥
यदधीते यद्यजते यज्जुहोति यदर्च्चति।
तस्य षड्भागभाग्राजा सम्यग्भवति रक्षणात्॥इति।
कात्यायनः,
प्रजानां रक्षणं नित्यं कण्टकानां च शोधनम्।
द्विजानां पूजनं चैव एतदर्थं कृतो नृपः॥इति।
बृहस्पतिः,
तत्प्रजापालनं प्रोक्तं त्रिविधं न्यायवेदिभिः।
परचक्राच्चौरभयाद्वलिनोऽन्यायवर्त्तिनः॥
परानीकस्तेनभपमुपायैः शमयेन्नृप।
बलवत्परिभूतानां प्रत्यहं न्यायदर्शनैः॥ इति।
मनुः,
सर्वतो धर्मषड्भागो राज्ञो भवति रक्षतः।
अधर्मादपि षड्द्भागो भवत्यस्व ज्ञरसतः॥
योऽरक्षन्वलिमादत्तेकरं शुल्कं च पार्थिवः।
प्रतिभोगं च दण्डं च स सद्यो नरकं व्रजेत्॥
अरक्षितारं राजानं बलिषड्भागहारिणम्।
तमाहुः सर्वलोकस्य समग्रमलहारकम्॥
अनवेक्षितपर्यादं नास्तिकं विप्रलोपकम्।
अरक्षितारमत्तारं नृपं विद्यादधोगतिम्॥
यो हत्वा गांसहस्राणि नृपोदद्यादरक्षिता।
स शब्दमात्रफलमाग्राजा भवति तस्करः॥
विप्रलोपकं, विप्रवृत्युच्छेदकर्तारम्। अत्तारं, भोक्तारम्।
** शङ्खः**,
न व्रतैर्नोपवासेन न च यज्ञैःपृथग्विधैः।
राजा स्वर्गमवाप्नोति प्राप्नोति परिपालनात्॥इति।
यमः,
वानप्रस्थाःपरिव्राजः श्रोत्रियाश्चाहिताग्नयः।
षड्भागस्य प्रदातारोनैतेराज्ञोहिरण्यदाः॥इति।
षड्भागस्य, स्वकृतस्य श्रेयस इतिशेषः।
विष्णुधर्मोत्तरे,
प्रजासुखं तु कर्त्तव्यं सुखमुद्दिश्य चात्मनः।
कि यज्ञैस्तसा तस्य प्रजा यस्य सुरक्षिता॥
_____________________________________
१ अयं श्लोको
मुमिनी नोपलभ्यते।
सुरक्षित प्रजा यस्य स्वर्गस्तस्य गृहोपमः।
अरक्षिताः प्रजा यस्य नरकं तस्य मन्दिरम्॥
राम षड्गमादत्तेसुकताद्दुष्कृतादपि।
धर्मभागं महाभाग सम्यग्रक्षणतत्परः॥
अरक्षिता तथा सर्वंपापमाप्नोति भार्गव।
न वै किञ्चिदवाप्नोति पुण्यभाक् पृथिवीपतिः॥
आपन्नमपि धर्मिष्ठं प्रजा रक्षन्त्यथाऽऽपदि।
तस्माद्धर्मार्थकामेन प्रजा रक्ष्या महीभृता॥
सुभगाचाटदुर्वत्तराजवल्लभतस्करैः।
भक्ष्यमाणाः प्रजा रक्ष्याः कायस्यैश्च विशेषतः॥
सुभगा, अतिप्रिया स्त्री, बेश्या वा ।चाटाः, बहुभाषिणः।
रक्षिता तद्भयेभ्यस्तु राज्ञा भवति सा प्रजा।
अरक्षिता सा भवति तेषामेव हि भाजनम्॥
साधुसंरक्षणार्थाय राजा दुष्टनिवर्हणम्॥
तृणानामपि निर्माता सदा कुर्याज्जितेन्द्रियः।
शास्त्रोक्तं बल्लिमादद्याद्धर्म्यं तत्तस्य जीवितम्॥ इति।
विष्णुः,
प्रजासुखैः सुखी राजा तद्दुःखैर्यश्चदुःखितः।
स कीर्तियुक्तो लोकेऽस्मिन् प्रेत्य स्वर्गे महीयते॥ इति।
स्वराष्ट्रसंरक्षणवत्परराष्ट्रग्रहणे फलमाह—
याज्ञवल्क्यः,
य एवं नृपतेर्द्धर्मः स्वराष्ट्रपरिपालने।
तमेव कृत्स्नमाप्नोति परराष्ट्रं वशं नयन्॥इति।
वशीकृतपरराष्ट्रविषये—
स एव विशेषमाह,
यस्मिन् देशे य आचारो व्यवहारः कुलस्थितिः।
तथैव परिपाल्योऽसौ यदा बशसुपागतः॥ इति।
इतिराष्ट्रम्।
अथ कोशः।
तत्र विष्णुधर्मोत्तरे,
रिपुघातसमर्थःस्याद्वित्तवानेव पार्थिवः।
परचक्रोपमर्द्देषु वित्तवान्नैव मुह्यति।
वित्तवानेव सहते सुदीर्घमपि विग्रहम्।
बहुदण्डानपि परांस्तथा भिन्द्यद्धनाधिकः॥
बहुदण्डान्, बहु दण्डयन्ति ते तथाविधास्तान्, दण्डार्जितवहुतरकोशान्। अत्र दण्डस्य बहुत्वं स्मृत्युक्तदण्डापेक्षया आधिक्यं, तेनान्यायार्जितधनान् जयतीतिव्याख्येयम्। तेन धनाधिको बहुतरधनवान् न्यूनधनान् जयतीत्येतदर्थकं वचनमनर्थकं न भवति। वस्तुतस्तु दण्डो बलमिति यथाश्रुतमंवसम्पक्।
अन्नप्राणाः प्रजाः सर्वा धने तच्चप्रतिष्ठितम्।
धनवान् धर्ममाप्नोति धनवान् काममश्नुते॥
यस्पार्थस्तस्य मित्राणि यम्यार्थस्तस्य बान्धवाः।
यस्पार्थः सपुमांल्लोके यस्यार्थः स च पण्डितः॥
अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः।
विच्छिद्यन्ने क्रियाः सर्वा ग्रीष्मे कुसरितो यथा॥
विशेषो नास्ति लोकेषु पतितस्याधनस्य च।
पतिता न तु गृह्णन्ति दरिद्रोन प्रयच्छति॥
इत्यतो नानुगृह्णन्ति दरिद्रंपतितं जनाः।
धनहीनस्य भाषापि न स्याद्वशवर्त्तिनी॥
गुणौघमपि चैवास्य नैव कश्चित्प्रकाशयेत्।
बान्धवा विनिवर्त्तन्ते धनहीनात्तथा नरात्॥
यथा पुष्पफलैर्हीनाच्छकुन्ता द्विज पादपात्॥
द्विजेति रामसम्बोधनम्।
दारिद्र्यमरणे चोभे केषां चित्सदृशे मते।
सत्यं हासाद्दरिद्रश्च मृतः श्रेयान्मतो मम॥
कोशं राज्यतरोर्मूलं तस्माद्यनं तदर्जने।
धर्मेणैव ततः कुर्यान्नाधर्मेण कथञ्चन॥
धनैरधर्मसम्प्राप्तैर्यद्राष्ट्रमपिधीयते।
तदेव याति विस्तारं विनाशाय दुरात्मनाम्॥
सुकृतस्य पुराणस्य बलेन बलिनां वर।
यद्यधर्मात्फलं शीघ्रं नाप्नुवन्ति दुरात्मनः॥
पुराणस्य, जन्मान्तरकृतस्य।
तथापि पूर्वकर्मान्ते तेन पापेन कर्मणा।
विनश्यन्ति सभूतास्ते सपुत्रपशुवान्धवाः॥
नरकेषु तथा तेषां यातना विविधाः स्मृताः।
बहून्यब्दसद्दस्राणि ये नृपा राष्ट्रपीडकाः॥
नित्यं राज्ञा तथा भाव्यं गर्भिणीसहधर्मिणा।
यथा स्वं सुखमुत्सृज्य गर्भस्य सुखमावहेत्॥
गर्भिणी तद्वद्वेह भाग्यं भूपतिना सदा।
प्रजासुखं तु कर्तव्यं सुखमुद्दिश्य चात्मनः॥
किं यज्ञैस्तपसा तस्य प्रजा यस्य सुरक्षिताः।
सुरक्षिताः प्रजा यस्य स्वर्गस्तस्य गृहोपमः॥
“प्रजा स्यात्सन्ततौ जने” इत्युभयत्र कोषः।
अरक्षिताः प्रजा यस्य नरकं तस्य मन्दिरम्॥
इत्यादिना प्रबन्धेन धनहीनस्य निन्दां विधाय धनार्जनस्यावश्यकतां ध्रुवता तद्धनार्जनं धर्मेणैव विधेयमित्यादि प्रतिपादितम्।
महाभारतेऽपि,
अधनं दुर्बलं प्राहुर्धनेन बलवान् भवेत्।
सर्वं बलवतः पथ्यं सर्वं तरति कोशवत्॥
अर्थाद्धर्मश्चकामश्च स्वर्गश्वैव नराधिप।
प्राणयात्रा च लोकस्य विनार्थेन न सिद्ध्यति॥
नाधनो धर्मकार्याणि यथावदनुतिष्ठति।
धनाद्धि धर्मः
स्रवति शैलादिव महाभरः॥
अधनेनार्थकामेन चेतुं धर्मो न शक्यते।
अर्थैरर्थानि बद्ध्यन्ते गजैरिव महागजाः॥
चेतुं सञ्चेतुम्।
अर्थेभ्यो हि प्रवृद्धेभ्यः सम्भृतभ्य इतस्ततः।
क्रियाः सर्वाः प्रवर्त्तन्ने पर्वतेभ्य इवापगाः॥
कोशाक्षपटलं रूप कोशवृद्धिकरैर्नरैः।
पात्रभूतैश्च सततं धार्यते स नृपोत्तमः॥
यो राजकोशं नश्यन्तमाचक्षीत नराधिपे।
श्रोतव्यं तस्य च रहो रक्ष्यश्चमात्यतो भवेत्॥इति।
एवं धनार्जनस्यावश्यकत्वेतद्धनार्जनं राज्ञा केन प्रकारेण कर्त्तव्यमित्यपेक्षिते—
मनुः,
क्रयविक्रयमध्वानं भक्तं च सपरिव्ययम्।
योगक्षेमं च सम्प्रेक्ष्य वणिजो दापयेत्करान्॥
कियता मूल्येन क्रीतमिदं पण्यवस्त्रलवणादिद्रव्यं, विक्री-
यमाणे वात्र कियल्लभ्यते, कियद्दुरादानीतं, किमस्य चानयतो भक्तव्ययेन शाकमूपादिना च व्ययेन लग्नं, किमस्यारप्यादौ चौरादिभ्यो रक्षारूपेण क्षेमप्रतिविधानेन गतं, कोऽस्येदानीं लाभो योगक्षेमं वैतदवेक्ष्य वणिजः करान् दापयेत्। वाणिग्भिरिति वा पाठः।
यथा फलेन युज्येत राजा कर्त्ताच कर्मणाम्।
तथा वीक्ष्य नृपो राष्ट्रे कल्पयेत्सततं करान्॥
यथा राजा कर्मणां रक्षणादिरूपाणां फलेन, कर्ता, कर्षणो वणिगादिश्व, कर्मणां कृषिवाणिज्यादीनां, फलेन युज्येत सम्बध्येत, तथा निरूप्य करान् गृह्णीयात्। अत्र दृष्टान्तमाह—
यथाल्पाल्पमदन्त्याद्यंवार्येकोवत्सषट्पदाः।
तथाल्पाल्पो ग्रहीतव्यो राष्ट्राद्राज्ञाऽऽब्दिकः करः॥
अदन्ति, भक्षयन्ति। आद्यम्, अदनाय भक्षणायार्हंरक्तक्षीरमध्वादि। बार्यौकोवत्सषट्पदाः, जलौकोवत्सभ्रमराः। तथा राज्ञामूलधनमनुच्छिन्दता अल्पाल्पां राष्ट्रादाब्दिकः करो ग्राह्य। वस्तुविशेषविषये वाचनिकान् करान्—
स एवाह,
पञ्चाशद्भाग आदेयो राज्ञापशुहिरण्ययोः।
ये पशुभिर्जीवन्ति, ये च हिरण्यस्य प्रयोगेण वार्धुषिकाः तेभ्यः पञ्चाशद्भागो वृद्धेर्ग्राह्यः।
गौतमोऽपि
, पशुहरण्ययोरप्येके पञ्चाशद्भागमिति।
अयं च पञ्चाशद्भागो बस्त्राणामपि। तथा च—
विष्णुः,
द्विकं शतंपशुहिरण्येभ्यो वस्त्रेभ्यश्चेति।
द्विकं शतं, शते द्वौभागावित्यर्थः। अर्थात्पञ्चाशद्भागएव।मांसादाबाह—
स एव,
मांसमधुघृतौषधिगन्धपुष्पमूलफलरसशाकपत्राजिनमृद्धाण्डाश्मवैदलेभ्यः षाष्ठभागम्। इति।
रसदारुपत्रेति क्वचित्पाठः। वैदलानि, विदलीकृतवंशनिर्मितानि शूर्पादीनि। दारूण, काष्ठानि। षष्ठ एव षाष्ठस्तम्। अयं च भागः संवत्सरे संवत्सरे ग्राह्यः। तथा च—
विष्णुधर्मोत्तरे,
गन्धौषधिरसानां च पुष्पमूलफलस्य च।
पत्रशाकनृणानां च वत्सरेण च चर्मणाम्॥
बैणवानां च भाण्डानां सर्वस्याश्ममयस्य च॥
षड्भागमेव चादद्यादिति।
अयं तु विना द्रव्यव्ययेन कायक्लेशादिना निष्पादितानां मांसादीनामेकप्रकरणपठितानां, कर्षकैस्तुल्यन्यायत्वात्। द्रव्यव्ययेन क्रीतानां तु षष्ठितमो भागो ग्राह्यः। तथा च—
** गौतमः,**
पण्य इत्यनुवर्त्तमाने। मूलफलपुष्पौषधमधुमांसतृणेन्धनादीनां चाष्टमिति।
अत्र हरदत्तः।षाष्टः, षष्टितमो भागो विक्रेत्रा राज्ञे देय इति। यदि पण्यशब्दो द्रव्यव्ययेनार्जितेऽन्यथा वार्जिते रूढ इत्याग्रहस्तथापि विरोधादित्यमेव व्यवस्था युक्ता। यत्तु मनुनोक्तम्—
आददीताय षड्भागं द्रुमांसमधुसर्विषाम्।
गन्धौषधिरसानां च पुष्पमूलफलस्य च॥
पत्रशाकतृणानां च चर्मणां बैणवस्य च।
मृन्मयानां च भाण्डानां सर्वस्वाश्ममयस्य च॥ इति।
द्रुःवृक्षः। मासं, छागादेः। मधु, क्षौद्रम्सर्पिः, घृतम्गन्धा-
श्चन्दनादयः। ओषध्यो, गुडूच्यादयः। रसा, लवणादयः। पुष्पाणि, चम्पकादीनि। मूलानि, हरिद्रादीनि। पत्राणि, ताडीपत्रादीनि।तत्तु पूर्वोक्तोदाहृतविष्णुधर्मोत्तरोक्तसमानार्थम्। कोचत्तु गौतमवाक्ये षाष्टमितिपदं षष्ट एव षाष्ट इति व्याख्याय मनुवाक्यविरोधेन हरदत्तव्याख्यां दूषयन्ति। तत्तु पूर्वोक्तव्यवस्थासम्भवेनाभियुक्तव्याख्यादूषणस्य कर्तुमशक्यत्वादयुक्तम्। धान्यविषये -
मनुराह,
धान्यानामष्टमो भागः षष्टो द्वादश एव च।
अष्टमः षष्ठो द्वादश इति विकल्पो भूम्युत्कर्षापकर्षक्लेशलाघवगौरवापेक्षया द्रष्टव्यः।धान्यानां, व्रीहियवादीनाम्। अयं च भागः कर्षकेभ्य एव ग्राह्यः। तथा च—
गौतमः,
राज्ञो बलिदानं कर्षकैर्दशममष्टमं षष्टं वा। इति।
विष्णुस्तु षष्ठांशमेवाह -
प्रजाभ्योबल्यर्थं संवत्सरेण धान्यतः षष्टमंशमादद्यादिति। इदं तत्कृष्टभूविषयम्। अत्र धान्यपदं व्रीहिपरम्।सर्वसस्येभ्यश्चेति पृथगन्यसस्यग्रहणात्। सस्यं व्रीह्यतिरिक्तमन्नजातम्। इयं भूम्युत्कर्षादिना व्यवस्था जीर्णानाम्। वस्तुतस्तु धान्यविशेषेणेयं व्यवस्था। तथा च—
विष्णुधर्मोत्तरे,
शुकधान्येषु षड्भागं शिम्बीधान्येष्वथाष्टमम्।
राजा बल्यर्थमादद्यादेशकालानुरूपतः ॥ इति।
शुकशिम्ब्यतिरिक्त धान्ये मनुगौतमोक्तो द्वादशो दशमो वा भागः। तथा च—
बृहस्पतिः,
दशाष्टषष्ठं नृपतेर्भागं दद्यात्कृषीबलम्।
खिलाद्वर्षावसन्ताच्च कृष्यमाणाद्यथाक्रमम्॥इति।
अस्यार्थः। खिलात्, चिरकालमकर्षणेनानुत्पन्नसस्यात्। वर्षाबसन्तात्, वर्षाकाले उत्पन्नाद, वसन्तकाले चोत्पन्नात्। कृष्यमाणात्, प्रतिवर्षं कृष्यमाणात् इदं च वर्षावसन्तादित्यनेनान्वितम्। अयमर्थः। खिलाद्यदुत्पन्नं तत्र दशममंशं, वर्षाकालोत्पन्नादष्टमं, वसन्तकालोत्पन्नात्ष ष्ठमंशमादयादिति। बृहस्पतिविष्णुधर्मोत्तरयोरेकवाक्यतया शूकधान्यं यवगोधूमादि वसन्तोत्पन्नंतत्र षष्ठमंशमाद्यादित्यादि सिद्धम्। अत्र विशेषम्—
स एवाह,
देशस्थित्या बलिं दद्युर्भूतं षण्मासवार्षिकम्।
एष धर्मः समाख्यातः कीनाशानां पुरातनः॥
भूतं, देशमर्यादया व्यवस्थापितम्। कीनाशानां, कर्षकाणाम्।आपदि एतदतिक्रमेऽपि न दोष इत्युक्तम्—
मनुना,
चतुर्थमाददानो हि क्षत्रियो भागमापदि।
प्रजा रक्षन् परं शक्त्या किल्बिषात्प्रतिमुच्यते॥इति।
विशेषान्तरमप्याह—
स एव,
स्वधर्मो विजये तस्य नाहवे स्यात्पराङ्मुखः।
शस्त्रेण वैश्यान् रक्षित्वा धर्म्यमाहारयेद्वलिम्॥
धान्येऽष्टमं विशां शुल्कं विंशं कार्पाषणावरम्।
धर्मोपकरणाः शुद्राः कारवः शिल्पिनस्तथा॥
दद्युरितिशेषः।
यथा फलेन युज्येत राजा कर्त्ता च कर्मणाम्।
तथा वीक्ष्य नृपो राष्ट्रे कल्पयेत्सततं करान्॥
इति पूर्वोदाहृतमनुवाक्ये करान् कल्पयेत्, लाभक्षती दृष्ट्वान्यूनाधिकभावमपि कुर्यादित्युक्तम्। तत्र कचित्कचिद्गौतमेन बचनैनैव सा प्रतिपादितास्ति।
सा यथा,
विंशतिभागः शुल्कः पण्ये। इति।
अस्यार्थः। वणिग्भिर्यच्चन्दनादि विक्रीयते तत्पण्यं, तस्य मूलाधिकाया वृद्धेविंशतितमो भागो राज्ञेदेयः।तस्य दीयमानस्य शुल्कसंज्ञा। अयं च विंशतितमो भागः परदेशपण्ये, स्वदेशण्ये तु दशमोंऽशः। तथा च—
विष्णुः,
स्वदेशपण्याच्च शुल्कांशं दशममादद्यात्। इति।
यत्स्वदेशे क्रीत्वा स्वदेश एव विक्रीयते, तस्मात् लाभद्रव्यदशांशम्, परदेशपण्याञ्च विंशतितमम्। यत्पण्यं देशान्तरे क्रीत्वा देशान्तरे विक्रीयते तस्माद्विंशतितमम्। अत्रापि लाभस्यैव। यत्तु,
मनौ—
शुल्कस्थानेषु कुशलाः सर्वपण्यविचक्षणाः।
कुर्युरर्घंयथापण्यं ततो विंशं नृपो हरेत्॥
इति मूलसहितस्य विंशांशःप्रतीयते। तथाप्यर्घे कृते मूलाधिकस्यैव विंशांशो ग्राह्यः। मूलद्रव्यांशग्रहणे तु वणिजां लाभो न स्यात्, तदभावे च वणिजां व्यवहारोच्छेद एव स्यात्।
विष्णुधर्मोत्तरे
तु—
स्वराष्ट्रपण्यादादयाद्राजा विंशतिमं द्विज।
इति स्वदशपण्येऽपि विंशतितमो भाग उक्तः, स तु क्लेश-
बाहुल्यविषयः, तेषामापद्विषयो वा। अस्मिन्नेवविषये परदेशपण्येऽपि—
तत्रैवोक्तम्
शुल्कांशं परदे
शात निबोध गदतो मम।
क्षयव्ययप्र
वासयथाऽऽयासं द्विजोत्तम॥
व्ययशुल्कप्रवासादि लङ्घायित्वा तथा द्विज।
विंशांश भागमादद्युर्दण्डनीया अतोऽन्यथा॥ इति।
सामुद्रपण्यशुल्के तु विशेष उक्तः—
सामुद्रःशुल्को वरं रूपमुद्त्यधृत्य दशपणं स्मृतमन्येषामपि सारानुरूपमुद्धृत्य धर्म्यं प्रकल्पयेदिति।
वरं, बहुमूल्यं मुक्तादिष्वेकमुद्धृत्य ध
णस्वामिने दत्त्वाऽवशिष्टस्य दशांश गृह्णीयात्। अन्येषां सांयात्रिकातिरिकानामपि सारभूतमेक मुद्धृत्य धर्म्यं यथोचितं शुल्कं प्रकल्पयेत्।
प्रनष्टाधिगते तु विशेषमाह—
मनुः,
आददीताथ षड्भागं प्रनष्टाधिगतान्नृपः।
दशमं द्वादशं वापि सतां धर्ममनुस्मरन्॥ इति।
प्रनष्टं, स्वामिसकाशात् भ्रष्टं यत् शौल्किककस्थानपालादिभिरधिगतं राज्ञे समर्पितं, तस्मान्नृपः प्रथमवर्षे स्वामिने सर्वं दद्यात्, द्वितीयवर्षे च तस्माद्वादशं, तृतीयवर्षे दशमं, चतुर्थवर्षप्रभृति षष्ठं भागमादद्यात्। तदुक्तम्—
याज्ञवल्क्येन,
शौल्किकैः स्थानपालैर्वा नष्टापहृतमाहृतम्।
अर्वाक्संवत्प्तरात्स्वामी हरेत परतो नृपः॥ इति।
अत्र च “अर्वाक्सं
वत्सरात्स्वामी हरेत” इत्यनेन प्रथमवर्षे
स्वामिना सर्वमेव ग्राह्यम्, “हरेत परतो नृप" इत्यनेनाविशेषोक्तावपि राजा द्वितीयवर्षादौ संरक्षणनिमित्तं किञ्चिद्गृह्णीयात्। तत्र चौचित्येन द्वितीयवर्षे द्वादशं, तृतीये दशमं, चतुर्थप्रभृति षष्ठं भागं गृह्णीयात्। अत एव—
मनुना,
प्रनष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत्।
अर्वाक् त्र्यब्दाद्धरेत्स्वामी परतो नृपतिर्हरेत्॥
इति त्र्यब्दपर्यन्तं रक्षणं, स्वामिने दानं वोक्तम्। तदेव याज्ञवल्क्यैकवाक्यतया अर्वाक्संवत्सरात्स्वामिने दानं किमप्यगृहीत्वैव, परतस्तु कञ्चिद्भागं गृहीत्वैवेति सिद्धम्। त्र्यब्दपर्यन्तावस्थापनं तु यथास्थितद्रव्यस्यैव, परतो हरणं तु व्ययीकरणानुमतिपरम्।स्वामिन्यागते तु तत्समसङ्ख्यं स्वांशं गृहीत्वा दातव्यम्। तत्रापि स्वांशमध्ये चतुर्थोऽशोऽधिगन्त्रे देयः। तदुक्तम्—
गौतमेन,
प्रनष्टस्वामिकमधिगम्य संवत्सरं राज्ञा रक्ष्यमूर्ध्वमधिगन्तुचतुर्थोऽशो राज्ञः शेषम्। इति।
अत्र संवत्सरमित्युपलक्षणम्।“राजा त्र्यब्दं निधापयेत्” इति मनुस्मरणात्। निधौ तु विशेषमाह–
याज्ञवल्क्यः,
राजा लब्ध्वा निधिं दद्याद्विजेभ्योऽर्द्धं द्विजः पुनः।
विद्वानशेषपादद्यात्स सर्वस्य प्रभुर्यतः॥
इतरेण निधौलब्धे राजा षष्ठांशमाहरेत्।
अनिवेदितविज्ञातो दाप्यस्तं दण्डमेव च॥इति।
भूमौ चिरनिखातं द्रव्यं निधिः, तं राजा लब्ध्वा अर्द्धं ब्राह्मणेभ्यो दद्यात्, अर्द्धं कोशे स्थापयेत्। तथा च -
विष्णुः,
निर्धि लब्ध्वा तदर्द्धं ब्राह्मणेभ्यो दद्यात्, द्वितीयमर्धंकोशे प्रवेशयेत्। इति।
तच्छब्दात् यस्य स्वर्णादेरर्द्धीकरणं सम्भवति तस्यैकार्द्धं दद्यात्, न रत्नादेः, तस्य तु मूल्यकल्पनया दद्यात् इत्येवमर्थः। तदुक्तम्—
मनुना,
निधीनां हि पुराणानां धातूनामेव च क्षितौ।
अर्द्धभाग्रक्षणाद्राजा भूमेरधिपतिर्हि सः॥इति।
“द्वितीयमर्द्धं कोशे प्रवेशयेत्” इति पृथक्सूत्रकरणं कोशे स्थापनविधानार्थं, स्वामिन्यागते तद्दानावश्यम्भावात्। द्विजो, ब्राह्मणः क्षत्रियो वैश्यश्च श्रुताध्ययनसम्पन्नः सदाचारो निधिं लब्ध्वा तं राज्ञे निवेद्य सर्वगृह्णीयात्। अविदुषामेतेषां विशेष उक्तो-
विष्णुना,
** **निधिं ब्राह्मणो लब्ध्वा सर्वमादद्यात्, क्षत्रियश्चतुर्थमंशं राज्ञे दद्याच्चतुर्थमंशं ब्राह्मणेभ्योऽर्द्धमादद्यात्, वैश्यस्तु चतुर्थमंश राज्ञेदद्याह्बाह्मणेभ्योऽर्द्धं चतुर्थमंशमादद्यादिति।
अत्र ब्राह्मण इति सामान्यवचनाद्योगीश्वरवाक्ये ब्राह्मणांशे विद्वत्त्वमविवक्षितम्। इतरेण, शूद्रेण, लब्धे निधौ राजा तस्मै षष्ठमंशं दद्याच्छेषं गृह्णीयादिति व्याख्येयम्।
अप्रज्ञायमानं वित्तं योऽधिगच्छेद्राजा तद्धरेदधिगन्त्रे षष्ठमंशं प्रदद्यात्-
इति वसिष्ठस्मरणात्,
निध्यधिगमो राजधनं न ब्राह्मणस्पभिरूपस्य, अब्राह्मणोऽप्याख्याता षष्ठमुंशं लभेतेत्येके—
इति गौतमस्मरणाच्च। तथा च शूद्राय षष्ठं दत्त्वा शेषं
ग्राह्यमति सिद्धम्। स्वयंगृहीतार्द्धं ब्राह्मणेभ्यो दद्यादित्वाह-
विष्णुः, शुद्रश्चावाप्तं द्वादशधा विभज्य पञ्चाशान् राज्ञे दद्यात्पञ्चाशान् ब्राह्मणेभ्यो दत्त्वाऽवशिष्टमंशद्वयमादद्यादिति।
इति विष्णुयाज्ञवल्क्यवाक्ययोर्व्यवस्थां केचिदाहुः। परे तुद्विजशब्दो ब्राह्मणवचनः, सामान्यशब्दस्य विशेषपरत्वात्। तश्च शक्त्या लक्षणया वेत्यन्यदेतत्। विष्णुवाक्यानुरोधाच्चात्र विद्वत्तवमविवक्षितम्। एवमितरपदमपि शूद्रपरमेव भवतामपि वसिष्ठवाक्ये यत्पदस्य गौतमवाक्ये चाब्राह्मणपदस्य विशेषपरत्वावश्यकत्वात्। इत्थं च क्षत्रियवैश्ययोः साधारण्येन विष्णूक्ता व्यवस्थेत्याहुः।
यत्तु विज्ञानेश्वरेण द्विजपदं ब्राह्मणपरम्, इतरपदं चाविद्वद्वाह्मणक्षत्रियादिपरमित्युक्तम्। तच्च विष्णुस्मृत्यदर्शननिबन्धनम्। विज्ञानेश्वरानुयायिनस्तु विज्ञानेश्वरव्याख्याततात्पर्यकयोगीश्वरविष्णुस्मृत्योर्विकल्पमाहुःते श्रद्धामन्दधिय उपेक्ष्याः।अपरार्कस्तु इतरपदमविद्वद्ब्राह्मण परमिति प्राह। तस्यायमाशयः। अविद्वद्बाह्मणपरं गोरक्षकादिब्राह्मणपरम्, तथा चैते षष्ठांशभागिन इत्यर्थः।
गोरक्षकान् वाणिजकांस्तथा कारुकुशीलवान्।
प्रेष्यान् वार्द्धुषिकांश्चैव विप्रान् शूद्रवदाचरेत् ॥
इति स्मरणात्। अत्र विप्रपदं नीचकर्मकर्तृक्षत्रियवैश्ययोरप्युपलक्षकम्। इत्थं च विद्वत्क्षत्रियवैश्ययोर्विष्णूता व्यवस्थेति।विज्ञानेश्वरोक्तमप्येवमर्थकत्वे साधु सङ्गच्छते इति दिक्।
अनिवेदित इति कर्त्तरि निष्ठा।तथा चायमर्थः —यो निधिं लब्ध्वा राज्ञेन निवेदितवान्, राज्ञा च निध्यधिगन्तृत्वेन विज्ञातः, स तं निधिं दाप्यः शक्त्यपेक्षया दण्डं चेति। तथा च -
स्वामिना स्वत्वे विभाषिते निषिः परावर्त्यः।
विष्णुः, अनिवेदितविज्ञातस्य सर्वमपहरेदिति।
अनुलोमजानां मूर्द्धावसिक्तादीनां क्षत्रियादिवन्निर्णयो मातृसमानधर्मत्वात्। प्रतिलोमजानां तु शूद्रवत् शूद्रसमानधर्मत्वादिति। यदा निधेः स्वामी आगत्य रूपसङ्ख्यादिभिः स्वविभावयति तदा तस्मै निधिं दद्यात्, षष्ठं द्वादशं वांशं राजा गृह्णीयात्।यथाऽऽह—
मनुः,
समायमिति यो व्रुयान्निधिं सत्येन मानवः
तस्याददीत षड्भागं राजा द्वादशमेव वा ॥ इति।
षष्ठं द्वादशं वा इति विकल्पस्तु धनस्वामिनः सगुणत्वनिर्गुणत्वापेक्षया कालापेक्षया वा द्रष्टव्यः। इदं च भागग्रहणं ब्राह्मणभिन्नादेव। यथाऽऽह—
विष्णुः, स्वनिहितात् ब्राह्मणवर्जंद्वादशमंशं दद्युरिति।
केचित्तु विष्णुवाक्यात् क्षत्रियादयो द्वादर्श, ब्राह्मणः षष्ठं दद्यादित्याहुः। तश्चिन्त्यम्।यदा राजा निधिस्वामिभ्यागते निधिं परावृत्य दद्यात्तदा ब्राह्मणाय दतं निध्यर्द्धं परावृत्य गृह्णीयात्।यथाऽऽह—
बृहस्पतिः, अस्वामिविक्रयं दानमाधिं च विनिवर्तयेदिति।
परकीयं निधिं स्वीयमिति वदन् राज्ञा तन्निधिसमं दण्डनीय इत्युक्तम्—
विष्णुना, परनिहितमिति ब्रुवंस्तत्समं दण्डमावहेदिति।
ब्रुवन्, स्वनिहितमिति ब्रुवन् इत्यर्थः। आकरेषु विशेषमाह—
विष्णुः, आकरेभ्यः सर्वमादद्यात्। इति।
आकराः, सुवर्णरत्नाद्युत्पत्तिस्थानानि।
विष्णुधर्मोत्तरे,
धात्वाकराणां सर्वेषां प्रभुरुक्तो महीपतिः।
निधिं पुराणं सम्प्राप्य कोशेऽर्द्धं तु प्रवेशयेत् ॥
अर्द्धं ब्रह्मणसात्कुर्याद्धर्मकामो महीपतिः। इति।
नदीतीरसमुद्रयोः शुल्कग्रहणमाह—
मनुः,
पणं यानतरे दाप्यः पौरुषेऽर्द्धपणं तरे।
पादं पशुश्च योपिच्च पादार्द्धं रिक्तकः पुमान् ॥ इति।
“भाण्डपूर्णानि " इति अग्रे वक्ष्यति, तद्भिन्नविषयतास्य श्लोकस्य। तेन रिक्तशकटादियानविषये तरणे पणं दाप्यः। एवं पुरुषवाह्यो भारोऽर्द्धपणं दाप्यः। पशोः, गवादेः, योषितश्चपणचतुर्थांशः। भाररहितो मनुष्यः पणाष्टमभागं दाप्यः।
तथा,
भाण्डपूर्णानि यानानि तार्यंदाप्यानि सारतः।
रिक्तभाण्डानि यत्किञ्चित्पुमांसश्चापरिच्छदाः ॥ इति।
भाण्डपूर्णानि पण्यद्रव्यपूर्णानि शकटादीनि, द्रव्यगतमूल्योत्कर्षापकर्षेण तार्यं दाप्यानि।रिक्तभाण्डानि, अपरिच्छदादरिद्राश्च, पणपादार्धदानेऽप्यक्षमा यत्किञ्चिदाप्याः। एतच्च पारावारगमने।नदीमार्गेण तु दूरदेशगमने देशकालापेक्षया कल्पनीयम्। तदुक्तम्—
तेनैव,
दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत्।
नदीतीरेषु तद्विद्यात्समुद्रे नास्ति लक्षणम् ॥ इति।
समुद्रे इदं लक्षणम्, इयं पणादिदानव्यवस्था नास्ति, किन्तु तत्र यथाव्यवस्थमेव देयमित्यर्थः। राज्ञा कर्षकवणिगादिभ्यः किमिति करो ग्राह्य इत्यपेक्षित आह—
** कात्यायनः,**
भूस्वामी तु स्मृतो राजा नान्यद्रव्यस्य सर्वदा।
तत्फलस्य हि षड्भागं प्राप्नुयान्नान्यथैव तु॥
भूतानां तन्निवामित्वात्स्वामित्वं तेन कीर्त्तितम्।
तत्क्रियाबलिषड्भागं शुभाशुभनिमित्तजम्॥ इति।
अस्यार्थः। राजा, भुवः स्वामी स्मृतः। अन्यद्रव्यस्य, भूमिसम्बद्धद्रव्यस्य, न स्वामी।अन्यथा, भूमिस्वाम्याभावे। भूतानां, प्राणिनाम्।तन्निवासित्वात्, भूनिवासित्वात्। स्वामित्वं, राज्ञ इति शेषः। इत्यतः तत्क्रियाबलिषड्भागं प्राप्नुयात्।
विष्णुरपि,
राजा च प्रजाभ्यः सुकृतदुष्कृतेभ्यः षष्ठांशभाक्। इति।
तथा च मनुः,
पुण्यात्षड्भागमादत्ते न्यायेन परिपालयन्।
अधर्मादपि षड्भागो भवत्यस्य ह्यरक्षतः॥इति।
यत्तु—
अरक्ष्यमाणाः कुर्वन्ति यत्किञ्चित्कल्विषं प्रजाः।
तस्मात्तु नृपतेरर्धं यस्माद्गृह्णात्यसौ करान्॥
इति याज्ञवल्क्यस्मरणं, तदत्यन्तारक्षणविषयम्। तस्मात्करादानं दृष्टादृष्टार्थत्वेनावश्यकम्। तेनैव च राज्ञो वृत्तिः। तथाच-
गौतमः,
राज्ञोऽधिकं रक्षणं सर्वभूतानाम्।
सर्वग्रहणादश्वत्थच्छेदाद्यपि परिहार्यम्।
अधिकेन वृत्तिः।
अधिकं रक्षणमित्युक्तं, तद्द्वारेण यदधिगतं करादिद्रव्यं तदधिकं, तेन वृत्तिः, पोष्यवर्गस्य हस्त्यश्वादीनां च पोषणम्। अनेन आपदोऽन्यव पूर्वसञ्चितेन न जीवेदित्युक्तम्। तथा च-
व्याघ्रः,
कुटुम्बपोषणं कुर्यान्नित्यं कोशं च वर्द्धयेत्।
आपदोऽन्यत्र तं कोशं न गृह्णीयात्कदाचन॥इति।
कचित्करग्रहणस्यापवादमाह—
विष्णुः, ब्राह्मणेभ्यः करादानं न कुर्यात्, ते हि राज्ञो धर्मकराः। इति।
ब्राह्मणेभ्यः, कर्षकेभ्यो व्यवहर्तृभ्यः श्रोत्रियेभ्यश्च। तथा च
मनुः,
म्रियमाणोऽप्याददीत न राजा श्रोत्रियात्करम्।
न च क्षुधाऽस्य संसीदेच्छ्रोत्रियो विषये वसन् ॥इति।
ते हि राज्ञोधर्मकराः, ते पूर्वोक्ता ब्राह्मणाः सम्यग्रक्षिताः स्वधर्मषष्ठांशं ददतीत्यर्थः।
मनुरपि,
स रक्ष्यमाणो राज्ञा यं कुरुते धर्ममन्वहम्।
तेनायुवर्धते तस्य द्रविणं राष्ट्रमेव च॥इति।
विष्णुधर्मोत्तरेऽपि, न गृह्णीयादित्युपक्रम्य।
ब्राह्मणेभ्यस्तथा करम्।
तेभ्यस्तद्धर्मलाभेन राज्ञो लाभः परं भवेत् ॥इति।
** विशेषान्तरमाह—**
मनुः,
अन्धो जडः पीठसर्षी सप्तत्या स्थविरश्चयः।
श्रोत्रियेषूपकुर्वंश्च न दाप्यः केन चित्करम् ॥
पीठसर्पी पङ्गुः। श्रोत्रियेषूपकुर्वन्, श्रोत्रियाणां धनधान्यादिदानेनोपकारकः।
तथा,
श्रोत्रियं व्याधितार्तौ चबालवृद्धावकिञ्चनम्।
महाकुलीनमार्यंच राजा सम्पूजयेत्सदा॥इति
सम्पूजयेत्, स्वयंदानादिना पूजयेत्। अनेन तेभ्योऽपि न किश्चिद्गृह्णीयादिति।
आपस्तम्बः, अकरः श्रोत्रियः सर्ववर्णानां, स्त्रियः कुमारश्च प्राग्व्यञ्जनेभ्यो, ये च विद्यार्था वसन्ति, तपस्विनश्चये धर्मपराः, शूद्रश्च पादावनेक्ता, अन्धबधिरमूका रोगाविष्टाश्च, ये वृथाद्रव्यपरिग्रहे। इति।
व्यञ्जनानि, श्मश्रुप्रभृतीनि। वृथाद्रव्यपरिग्रहे, अर्थसङ्ग्रहे विगतमयाजनाः।
विष्णुधर्मोत्तरे तरविषये विशेष उक्तः—
दूतानां ब्राह्मणानां च राजाज्ञागामिनां तथा।
स्त्रीणां प्रव्रजितानां च तरशुल्कं विवर्जयेत्॥
गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः।
ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिकं तरे॥इति।
लिङ्गिनो ब्रह्मचारिणः। वणिजां तु विशेषमाह–
गौतमः
, पण्यं वणिग्भिरर्घापचयेन देयमिति।
इदं शुल्कादधिकं मासिकं पण्यम्। तदुक्तम्—
बृहस्पतिना,
शुल्कं दद्युस्ततो मास एकैकं पण्यमेव च।
अर्घावरं च मूल्येन वाणजस्ते पृथक् पृथक्॥इति।
शुल्कस्थानान्युक्तानि—
विष्णुधर्मोत्तरे,
दिशि दिश्येकमेष स्याच्छुल्कस्थानं नृपस्य तु।
तदतिक्रमे दोष उक्तः -
तत्रैव,
तदतिक्रामतो द्रव्यं राजगामि विधीयते। इति।
तत्, शुल्कस्थानं हट्टघट्टादि।
विष्णुनापि,
शुल्कस्थानादपाक्रामन् सर्वापहारमाप्नुयात्। इति। इदं राजयोग्यबहुमूल्यहस्त्यश्वादिविषयम्। राजप्रतिषिद्धम् - ‘दुर्भिक्षेऽन्नं देशान्तरेन नेयम्’ इत्येतद्विषयं वा। यथोक्तम्-
मनुना,
राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च।
तानि निर्द्दरतो लोभात्सर्वहारं हरेन्नृपः॥ इति।
तथाऽन्यत्र,
शुल्कस्थानं परिहरन्नकाले क्रयविक्रयी।
मिथ्यावादी च सङ्ख्याने दाप्योऽष्टगुणमत्ययम्॥इति।
शिल्प्यादिविषये मासिककरमाह—
** विष्णुः,**
शिल्पिनः कर्मोपजीविनश्च मासेनैकं कर्म कुर्युः।
शिल्पिनो, लोहकारादयः। कर्मोपजीविनः, कारवो वर्द्धक्यादयः। चकारादन्योपजीविनः।
मनुरपि,
कारुकाञ्छिल्पिनश्चैव शूद्रांश्चात्मोपजीविनः।
एकैकं कारयेत्कर्म प्रतिमासं महीपतिः॥ इति।
एतेनैतेभ्योऽन्यत् न ग्राह्यम्, एष एवैषां शुल्कः। विशेषान्तरमाह-
** वसिष्ठः,**
नदीकक्षवनदाहशैलोपभोगा निष्कराः स्युस्तदुपजीविनो वादद्युःप्रतिमासम्। इति।
वनदाहो, दग्धं वनं तदुपजीविनः।तानेव ये उपजीवन्ति
सैव तेषां वृत्तिः। विशेषान्तरमाह—
गौतमः,
एतेनात्मोपजीविनो व्याख्याता, नौचक्रिवन्तश्च, भक्तं तेभ्योऽपि दद्यात्। इति।
एतेन, प्रतिमासमेकाहकर्मकरणेन। आत्मोपजीविनः, भारवाहनटनर्त्तकादयः। नौचक्रिवन्तो, नौशकटव्यवहारिणः। भक्तं, दिवाभोजनपर्याप्तमन्नं शिल्प्यादिभ्यो देयम्।
विष्णुधर्मोत्तरेऽपि,
कर्म कुर्युर्नरेन्द्रस्य मासेनैकेन शिल्पिनः।
भक्तमात्रेण ये चान्ये स्वशरीरोपजीविनः ॥ इति।
करस्याग्रहणे दोषमाह—
** मनुः,**
नोच्छिन्द्यादात्मनो मूलंपरेषां चातितृष्णया।
उच्छिन्दन्नात्मनो मूलमात्मानं तांथ नाशयेत् ॥ इति।
करशुल्कादेरग्रहणमात्ममूलोच्छेदः। यथोचितादधिकग्रहणं परमूलोच्छेदः।
तथा,
अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः।
न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥
अनादेयस्य चादानादादेयस्य च वर्जनात्।
दौर्बल्यं ख्याप्यते राज्ञः स प्रत्येह विनश्यति ॥
स्वादानाद्वर्णसंसर्गाद्दुर्वलानां च रक्षणात्।
बलं सञ्जायते राज्ञः स प्रत्येह विवर्द्धते ॥ इति।
स्वादानात्, स्वस्य न्यायागतस्य करादेरादानात्। वर्णसंसर्गात्, वर्णानां ब्राह्मणादीनां स्वस्वजातीयैर्वर्णैः सह संसर्गात् विवाहादिसम्बन्धात्, न तु वर्णान्तरेण संसर्गो येन
सङ्करादिदोषः स्यात्। अन्यायेन करग्रहणे दोषमाह—
याज्ञवल्क्यः,
अन्यायेन नृपो राष्ट्रात्स्वकोशं योऽभिवर्द्धयेत्।
सोऽचिराद्विगतश्रीको नाशमेति सबान्धवः॥
प्रजापीडनसन्तापात्समुद्भूतो हुताशनः।
राज्ञः कुलं श्रियं प्राणान्नादग्ध्वा विनिवर्तते॥ इति।
कात्यायनोऽपि,
अन्यायेन हि यो राष्ट्रात्करं दण्डं च पार्थिवः।
सस्वभागं च शुल्कं चाप्याददीत स पापभाक्॥ इति।
धर्म्यकरग्रहणे फलमुक्तम्—
महाभारते,
धर्मार्जितो महाकोशो यस्य स्यात्पृथिवीपतेः।
सोऽत्यल्पप्रवरोऽप्यत्र पृथिवीमधितिष्ठति॥ इति।
कात्यायनोऽप्याह,
एवं प्रवर्तते यस्तु लोभं त्यक्त्वा नराधिपः।
तस्य पुत्राः प्रजायन्ते राष्ट्रं कोशश्च वर्द्धते॥ इति।
इति कोशः।
अथ दण्डः।
** **दण्ड्यन्ते अशिष्टा अनेनेति व्युत्पत्यादण्डशब्दो बलवचनः। तत्र—
महाभारते,
प्रकाशश्चाप्रकाशश्च दण्डोऽत्र परिकल्पितः।
प्रकाशोऽष्टविधस्तत्र गुह्यश्र बलवत्तरः॥
रथा नागा हयाश्चैव पादाताश्चैव भारत।
विष्टिर्नाचिचराश्चैव दैशिका इति चाष्टमः॥
अनुरक्तेन हृष्टेन पुष्टेन च महीपते।
स्वल्पेनापि हि सैन्येन महीं जयति पार्थिवः ॥ इति।
विष्टिः, बलात्कारेणाकृष्टः कर्मकरः। दैशिका, देशे भवाः पुरुषाः।
इति दण्डः।
अथ मित्रम्।
याज्ञवल्क्यः,
हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः।
अतो यतेत तत्प्राप्त्यै रक्षेत्सत्यं समाहितः। इति।
मनुः,
हिरण्यभूमिसम्प्राप्त्या पार्थिवो न तथैधते।
यथा मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिक्षमम् ॥
धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिमेव च।
अनुरक्तं स्थिरारम्भं लघु मित्रं प्रशस्यते ॥ इति।
अस्य त्रैविद्ध्यमुक्तम्–
मत्स्यपुराणे,
पितृपैतामहं मित्रं सामन्ताश्च तथा रिपोः।
कृत्रिमं च महाभाग त्रिविधं मित्रमुच्यते ॥
तत्रापि च गुरुः पूर्वं भवेत्तत्रापि चाहृतः।
सामन्तास्तु तस्य पीडया शत्रुत्वमापन्नाः। अत एव विष्णुधर्मोत्तरे - “अमित्रं च तथा रिपोः” इति पाठः। आहृतः, कृत्रिमः। इममेव प्रशंसति -
** व्यासः,**
न कश्चित्कस्य चिन्मित्रं न कश्चित्कस्य चिद्रिपुः।
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ॥ इति।
महाभारते,
बेदितव्यानि मित्राणि बोद्धव्याश्चापि शत्रवः।
एतत्सुक्ष्मं लोकेऽस्मिन् दृश्यते प्राज्ञसम्मतम्॥
यो यस्मिन् जीवितस्यार्थे पश्यन् पीडां न जीवति।
स तस्य तावन्मित्रं स्याद्यावन्न स्याद्विपर्ययः॥
नास्ति मैत्री स्थिरा नाम न च चक्रमसौहृदम्।
अर्थयुक्त्याभिजायन्ते मित्राणि रिपवस्तथा॥
मित्रं च शत्रुतामेति कस्मिंश्चित्कालपर्यये।
शत्रुश्च मित्रतामेति स्वार्थस्तु बलवत्तरः॥ इति।
याज्ञवल्क्यः,
स्वाम्यमात्यजना दुर्गंकोशो दण्डस्तथैव च।
मित्राण्येताः प्रकृतयः सप्ताङ्गं राज्यमुच्यते॥ इति।
मनुः,
स्वाम्यमात्यौ पुरं राष्ट्र कोशदण्डौ सुहृत्तथा।
सप्त प्रकृतयो येताः समस्ता राष्ट्रमुच्यते॥
सप्तानां प्रकृतीनां तु राज्यस्यासां यथाक्रमम्।
पूर्वं पूर्वं गुरुतरं जानीयाद्व्यसनं नृपः॥
व्यसनं, व्यसनकारणम्। दोषवदिति शेषः।
सप्ताङ्गस्यास्य राज्यस्य विष्टव्धस्य त्रिदण्डवत्॥
अन्योन्यगुणवैशेष्यान्न किञ्चिदतिरिच्यते।
तेषु तेषु हि कृत्येषु तत्सदङ्गं विशिष्यते॥
येन यत्साध्यते कार्यं तत्तस्मिन् श्रेष्ठमुच्यते। इति।
इति मित्रम्।
अथोपायाः।
तन्त्र याज्ञवल्क्यः,
उपायाःसाम दानं च भेदो दण्डस्तथैव च।
सम्यक्प्रयुक्ताः सिद्ध्येयुर्दण्डस्त्वगतिका गतिः॥ इति।
तत्र द्वयोर्मुख्यत्वमाह—
मनुः,
सामादीनामुपायानां चतुर्णामपि पण्डिताः।
सामदण्डौ प्रशंसन्ति नित्यं राज्याभिवृद्धये॥ इति।
तत्र साम।
तच्च शत्रोस्तदीयानाममात्यादीनां च गुणवर्णनम् उपकारादिस्मारणं च विधाय स्वस्य कृतज्ञताख्यापनपुरःसरं स्वापराधक्षमापणम्। तदुक्तम्-
मत्स्यपुराणे,
** मनुरुवाच।**
उपायांस्त्वं समाचक्ष्व सामपूर्वान्महाद्युते।
लक्षणं च तथा तेषां प्रयोगं च सुरोत्तम॥
मत्स्य उवाच।
साम भेदस्तथा दानं दण्डश्च मनुजेश्वर।
उपेक्षा च तथा माया इन्द्रजालं च पार्थिव॥
प्रयोगाः कथिताः सप्त तन्मे निगदतः शृणु।
द्विविधं कथितं साम तथ्यं चातथ्यमेव च॥
तत्राप्यतथ्यं साधूनामाक्रोशायैव जायते।
तत्र साधुः प्रयत्नेन सामसाध्यो नरोत्तम॥
महाकुलीना ऋजवो धर्मनित्या जितेन्द्रियाः।
सामसाध्या न चातथ्यं तेषु साम प्रयोजयेत्॥
तथ्यं साम च कर्त्तव्यं कुलशीलादिवर्णनम्।
तथा तदुपकाराणां कृतानां चैव वर्णनम्॥
अनयैव तथा युक्त्या
कृतज्ञाख्यापनं स्वकम्।
एवं सान्त्वेन कर्त्तव्या वशगा धर्मतत्पराः॥
साम्नायद्यपि रक्षांसि गृह्णान्तीति परा श्रुतिः।
तथाप्येतदसाधूनां प्रयुक्तं नोपकारकम्॥
गृह्णन्ति, वशीकुर्वन्ति।
अतिशङ्ककमित्येवं पुरुषं सामवादिनम्।
आसाधवोऽवजानन्ति तस्मानत्तेषु वर्जयेत्॥
अतिशङ्ककम्, अतिशयिता शङ्का यस्मिन् तादृशम्।सामवादिनं, सामप्रयोक्तारम्।
ये शुद्धवंशा ऋजवः प्रणीता धर्मे स्थिताः सत्यपरा विनीताः। ते सामसाध्याः पुरुषाः प्रदिष्टा मानोन्नता ये सततं च राजन्॥इति।
अग्निपुराणे,
चतुर्विधं स्मृतं साम उपकारानुकीर्त्तनम्।
मिथःसम्बन्धकथनं मृदुपूर्वं च भाषणम्॥
आयतेर्दर्शनं वाचा तत्राहमिति चार्पणम्। इति।
इति साम।
अथ भेदः।
सच शत्रुवर्गे परस्परं वैमत्योत्पादनम्। तदुक्तम्—
मत्स्यपुराणे,
** मत्स्य उवाच।**
परस्परं तु ये द्विष्टाः क्रुद्धा भीतावमानिताः।
तेषां भेदं प्रयुञ्जीत भेदसाध्या हि ते मताः॥
ये तु येनैव दोषेण परस्मान्नाम बिभ्यति।
ते तु तद्दोषपातेन भेदनीया भृशं ततः॥
आत्मीयां38 दर्शयेदाशां परस्माद्दर्शयेद्भयम्।
एवं हि भेदयेद्भिज्ञान् यथावद्वशमानयेत्॥
संहता हि विना भेदं शक्रेणापि सुदुःसहाः।
भेदमेव प्रशंसन्ति तस्मान्नयविशारदाः॥
स्वमुखेनाश्रयेद्भेदं भेदं परमुखेन च।
परीक्ष्य साधुंमन्येत भेदं परमुखाच्छुतम्॥
सद्यः स्वकार्यमुद्दिश्य कुशलैर्ये हि भेदिताः।
भेदितास्ते विनिर्दिष्टा नैव राजार्थवादिभिः॥
अन्तःकोपबहिः कोपौ यत्र स्यातां महीक्षिताम्।
अन्तःकोपो महांस्तत्र नाशकः पृथिवीक्षिताम्॥
सामन्तकोपो बाह्यस्तु कोपः प्रोक्तो महीभृतः।
महिषीयुवराजाभ्यां तथा सेनापतेर्नृप॥
अमात्यमन्त्रिणां चैव राजपुत्रे तथैव च।
अन्तःकोपो विनिर्दिष्टो दारुणः पृथिवीक्षिताम्॥
बाह्यकोपे समुत्पन्ने सुमहत्यपि पार्थिवः।
शुद्धान्तस्तु महाभाग शीघ्रमेव जयी भवेत्॥
शुद्धान्तः, अन्तःप्रकोपरहितः।
अपि शक्रसमो राजा अन्तःकोपेन नश्यति।
सोऽन्तःकोपः प्रयत्नेन तस्माद्रक्ष्यो महीक्षिता॥
परान्तःकोपमुत्पाद्य भेदेन विजिगीषुणा।
ज्ञातीनां भेदनं कार्यंपरेषां विजिगीषुणा॥
रक्ष्यश्चैव प्रयत्नेन ज्ञातिभेदस्तथाऽऽत्मनः।
ज्ञातयः परितप्यन्ते सततं परितापिताः॥
तथापि तेषां कर्त्तव्यं सुगम्भीरेण चेतसा।
ग्रहणं दानमानाभ्यां भेदस्तेभ्यो भयङ्करः॥
न ज्ञातिमनुगृह्णन्ति नाज्ञातिं विश्वसन्ति च।
ज्ञातिभिर्भेदनीयास्तु रिपवस्तेन पार्थिवैः।
भिन्ना हि शक्या रिपवः प्रभूताः स्वल्पेन सैन्येन निहन्तुमाजौ।
सुसंहतैश्चापि ततस्तु भेदः कार्यो रिपूणां नयशास्त्रविद्भिः॥इति।
स्वपक्षभेदनिषेधस्तुक्तो—
ब्रह्मपुराणे,
स्वपक्षभेदो यत्नेन न कर्तव्यः कदाचन।
दुर्गंकोशश्च दण्डश्च परराष्ट्रभयं विना॥
स्वभेदेनैव नश्यन्ति बद्धमूला अपि प्रजाः।
स्वभेदेन, स्वपक्षभेदेन परराष्ट्रभयं विनापि दुर्गादिकं नश्यतीत्यर्थः।
इति भेदः।
अथ दानम्।
तच्च स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्वोत्पादनानुकूलो व्यापारः।तस्य दानस्य पञ्चविधत्वमुक्तम्—
अग्निपुराणे,
यः सम्प्राप्तधनोत्सर्ग उत्तमाधममध्यमः।
प्रतिदानं तदा तस्य गृहीतस्यानुमोदनम्॥
द्रव्यदानपपूर्वं च तथैवेष्टप्रवर्तनम्।
देयं च प्रतिमोक्षश्च दानं पञ्चविधं स्मृतम्॥ इति।
तस्य प्रशंसा चोक्ता—
मत्स्यपुराणे,
मत्स्य उवाच।
सर्वेषामप्युपायानां दानं श्रेष्ठतमं मतम्।
सुदत्तेनेह भवति दानेनोभयलोकजित्॥
न सोऽस्ति राजन् दानेन बशगो यो न जायते।
दानेन वशगा देवा भवन्तीह सदा नृणाम्॥
दानमेवोपजीवन्ति प्रजाः सर्वा नृपोत्तम।
प्रियो हि दानवांल्लोके सर्वस्यैवोपजायते॥
दानवानचिरेणैव तथा राजा परान् जयेत्।
दानवानेव शक्नोति संहतान् भेदितुं परान्॥
यद्यप्यलुब्धगम्भीराः पुरुषाः सागरोपमाः।
न गृह्णन्ति तथाऽप्येते जायन्ते पक्षपातिनः॥
अन्यत्रापि कृतं दानं करोत्यन्यान् यथा वशे।
उपायेभ्यः प्रशंसन्ति दानं श्रेष्ठतमं जनाः॥
दानं श्रेयस्करं पुंसां दानं श्रेष्ठतमं परम्।
दानवानेव लोकेषु पुत्रत्वे ध्रियते सदा॥
न केवलं दानपरा जयन्ति भूलोकमेकं पुरुषप्रवीराः।
जयन्ति ते राजसुरेन्द्रलोकं सुदुर्जयो यो विबुधाधिवासः॥ इति।
तैत्तिरीयश्रुतिरपि,
दानं यज्ञानां वरूथं दक्षिणा, लोके दातारं सर्वभूतान्युपजीवन्ति, दानेनारातीरपानुदन्त, दानेन द्विषन्तो मित्रा भवन्ति, दाने सर्वं प्रतिष्ठितं, तस्माद्दानं परमं वदन्तीति।
इति दानम्।
अथ दण्डः।
स च वित्तस्य शरीरस्य वा पीडनम्। दययतीति दण्ड इति व्युत्पत्तेः। तत्र—
मनुः,
तदर्थं सर्वभूतां गोतारं धर्ममात्मजम्।
ब्रह्म तेजोमयं दण्डमसृजत्पूर्वमीश्वरः॥
तदर्थं, राज्ञः प्रयोजनसिद्धये। प्रजानां रक्षणं राजधर्मः स च दण्डं विना कर्तुमशक्य इति दण्ड एव रक्षक इत्युच्यते। तस्य स्तुतिर्धर्ममिति।
तस्य सर्वाणि भूतानि स्थावराणि चराणि च।
भयाद्भोगाय कल्पन्ते स्वधर्मान्न चलन्ति च॥
तस्य, दण्डस्य। ननु दण्डस्य भयहेतुत्वात् “भीत्रार्थानां भयहेतुः” इति पश्चमी युक्ता ? उच्यते। सम्बन्धमात्रविवक्षाया भयहेतुत्वं नास्तीति षष्ठी। तस्य चरमोपायत्वमुक्तम् -
मत्स्यपुराणे,
मत्स्य उवाच।
न शक्या ये वशे कर्त्तुमुपायात्रितयेन तु।
दण्डेन तान् वशीकुर्याद्दण्डो हि वशकृन्नृणाम्॥
सम्यक्प्रप्पयनं तस्य तथा कार्यें महीक्षिता।
धर्मशास्त्रानुसारेण सुसहायेन धीमता॥
तस्यासम्यक्प्रणयनं त्रिदशानपि पीडयेत्। इति।
तत्र विशेषमाह—
मनुः,
तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः।
यथार्हतः सम्प्रणयेभन्नरेष्वन्यायवर्तिषु॥
शक्तिं, सहनशक्तिम्।
समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः।
असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः॥
यदि न प्रणयेद्राजा दण्डं दण्डयेष्वतन्द्रितः।
शूले मत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तराः॥ इति।
यथा शुले मत्स्यान पक्त्वा भक्षयन्ति, तथा बलिनोऽल्प-
बलान् हिंसित्वा तद्धनादिकं भक्षयेयुरित्यर्थः।
मात्स्येऽपि,
वानप्रस्थांश्च धर्मज्ञान्निर्ममानिष्परिग्रहान्॥
स्वदेशे परदेशे वा धर्मशास्त्रविशारदान्।
समीक्ष्य प्रणयेद्दण्डं सर्वंदण्डे प्रतिष्ठितम्॥
आश्रमी यदि वा वर्णी पूज्यो वाऽथ गुरुर्महान्।
नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मे न तिष्ठति॥
अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन्।
इह राज्यात्परिभ्रष्टो नरकं च प्रपद्यते॥
तस्माद्राज्ञां विनीतेन धर्मशास्त्रानुसारतः।
दण्डप्रणयनं कार्यंलोकानुग्रहकाम्यया॥
यत्र श्यामो लोहिताक्षो दण्डश्वरति पापहा।
प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति॥
बालवृद्धातुरयतिद्विजस्त्रीविधवाबलाः।
अबलाः, बलरहिताः।
मात्स्यन्यायेन भक्ष्येरन् यदि दण्डं न पातयेत्॥
देवदैत्योरगनराः सर्वे भूतपतत्रिणः॥
उत्क्रामेयुश्च मर्यादां यदि दण्डो न पालयेत्।
एष ब्रह्माभिशापेषु सर्वप्रहरणेषु च॥
सर्वविक्रमकोषेषु व्यवसाये च तिष्ठति।
पूज्यन्ते दण्डिनो देवा न पूज्यन्ते त्वदण्डिनः॥
न ब्राह्मणं विधातारं न पूषार्यमणावपि।
यजन्ते मानवाः केचित्प्रशान्ताः सर्वकर्मसु॥
रुद्रमग्निं च शक्रं च सूर्याचन्द्रमसौ तथा।
विष्णुं देवगणांश्चान्यान् दण्डिनः पूजयन्ति च॥ इति।
मनुरपि,
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः।
दण्डस्य हि भयात्सर्वंजगद्भोगाय कल्पते॥
स्वभावाच्छुचिर्नरो दुर्लभः, किन्तु दण्डेनैव जितः पथि स्थाप्यते।
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः।
तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः॥
भोगाय कल्पन्ते, स्वपथप्रवृत्ता भवन्ति। तथा च
श्रुतिः,
भयात्सूर्यः प्रतपति भयात्तपति चन्द्रमाः।
भयादग्निश्च वायुश्च मृत्युर्धावति पञ्चमः॥ इति।
मनुः,
दुष्येयुः सर्ववर्णाश्च भिद्येरन् सर्वसेतवः।
सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात्॥इति।
दुष्येयुरिति। नीचवर्णा उत्तमवर्णस्त्रीगमनेन सङ्करं प्राप्नुयुरित्यर्थः। अत एव शास्त्रोक्तमर्यादा भिद्येरन्।
मत्स्यपुराणे,
दण्डःशास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति।
दण्डःसुप्तेषु जागर्ति दण्डं धर्म विदुर्बुधाः॥
राजदण्डभयादेव पापाः पापं न कुर्वते।
यमदण्डभयादेके परस्परभयादपि।
एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम्॥
अन्धे तमसि मज्जेयुर्यदि दण्डो न पालयेत्।
यस्माद्दण्डो दमयति अदण्ड्यान् दण्डपत्यपि॥
दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः।
दण्डस्य भीतैस्त्रिदशैस्समेतै—
र्भागो धृतः शूलधरस्य यज्ञे।
चक्रुः कुमारं ध्वजिनीपतिं च
वरं शिशूनां च भयाद्वलस्थम्॥ इति।
शिशुनां वरं, श्रेष्ठम्, अतिशिशुमित्यर्थः। तं कुमारं कार्त्तिकेयं बलस्थं सैन्यमध्यस्थं सन्तं ध्वजिनीपतिं सेनापतिं चक्रुरित्यर्थः।
महाभारते
अर्जुनवाक्यम्–
धर्मं संरक्षते दण्डस्तथैवार्थ नराधिप।
कामं च रक्षते दण्डस्त्रिवर्गो दण्ड उच्यते॥
दण्डेन रक्ष्यते धान्यं धनं दण्डोऽभिरक्षति।
तथा,
वाचा दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम्।
दानदण्डःस्मृतो वैश्यो निर्दण्डः शुद्र उच्यते॥
असम्मोहाय मर्त्त्यानामर्थसंरक्षणाय च।
मर्यादा स्थापिता लोके दण्डसंज्ञा विशाम्पते॥
यत्र श्यामो लोहिताक्षो दण्डश्चरति सूद्यतः।
प्रजास्तत्र न मुह्यन्ते नेता चेत्साधु पश्यति॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः।
दण्डस्यैव भयादेते मनुष्या वर्त्मनि स्थिताः॥
नाभीतो यजते राजन् नाभीतो दातुमिच्छति।
नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दुष्करम्॥
नाहत्वा मत्स्यघाती च प्राप्नोति महतीं श्रियम्।
नाघ्नतः कीर्तिरस्तीह न वित्तं न पुनः प्रजाः॥
इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत।
य एव देवा हन्तारस्तांल्लोकोऽर्चयते भृशम्॥
हन्ता रुद्रस्तथा स्कन्दः शक्रोऽग्निर्वरुणो यमः।
हन्ता कालस्तथा वायुर्मृत्युर्वैश्रवणो रविः॥
वसवो मरुतः साध्या विश्वेदेवाश्च भारत।
एतान् देवान्नमस्यन्ति प्रतापप्रणता जनाः॥
न ब्रह्माणं न धातारं न पूषाणं कथञ्चन।
मध्यस्थान् सर्वभूतेषु दान्तान् श्रमपरायणान्॥
यजन्ते मानवाः केचित्प्रशस्ताः सर्वकर्मसु।
न हि पश्यामि जीवन्तं लोके कञ्चिदहिंसया॥
सत्त्वैःसत्त्वानि जीवन्ति दुर्बलैर्बलवत्तराः।
नकुलो मूषकानत्ति बिडालो नकुलं तथा॥
बिडालमत्ति श्वा राजन् श्वानं व्यालमृगस्तथा।
व्यालमृगो, व्याघ्रः।
तानत्ति पुरुषः सर्वान् पश्य धर्मो यथागतः॥
प्राणस्यान्नमिदं सर्वं जङ्गमं स्थावर च यत्।
विधानं वेदविहितं तत्र विद्वान्न मुह्यति॥
यथा सृष्टोऽसि राजेन्द्र तथा भवितुमर्हसि।
नावधेन हि कुर्वन्ति तापसाः प्राणयापनाम्॥
उदके बहवः प्राणाः पृथिव्यां पर्वतेषु च।
न च कश्चिन्न तान् हन्ति किमन्यत्प्राणयापनात्॥
सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानि चित्।
पक्ष्मणोऽपि निपातेन येषां स्यात्स्कन्धप39र्ययः॥
ग्रामान्निष्क्रम्य मुनयो विनीतक्रोधमत्सराः।
वने कुटुम्बधर्माणो दृश्यन्ते परिमोहिताः॥
भूमिं भित्त्वौषधीश्छित्वा वृक्षादीनण्डजान् पशुन्।
मनुष्यास्तन्वते यज्ञांस्ते स्वर्ग प्राप्नुवन्ति च॥
दण्डनीत्यां प्रणीतायां सर्वे सिद्ध्यन्त्युपक्रमाः।
कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः॥
दण्डश्चेन्न भवेल्लोके विनश्येयुरिमाः मजाः।
जले मत्स्यानिवाभक्ष्यन्दुर्बलान् बलवत्तराः॥
सत्यं चेदं ब्रह्मणा पूर्वमुक्तं दण्डः प्रजा रक्षति साधु नीतः।
पश्याग्नयश्च प्रतिशाम्यभीताः सन्तर्जिता दण्डभयाज्ज्वलन्ति॥
अन्धन्तम इवेदं स्यान्न प्रज्ञायेत किञ्चन।
दण्डश्चेन्नभवेल्लोके विभजन्साध्वसाधुनी॥
येऽपि सम्भिन्नमर्यादा नास्तिका बेदनिन्दकाः।
तेऽपि भोगाय कल्पन्ते दण्डेनाशु निपीडिताः॥
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्जनः।
दण्डस्य हि भयाद्भीतो भोगायैव प्रवर्त्तते।
चातुर्वर्ण्यप्रमोदाय सुनीतिनयनाय च।
दण्डो विधात्रा विहितो धर्मार्थौचानुरक्षितुम्॥
यदि दण्डान्न लभ्येयुर्वयांसि श्वापदानि च।
अद्युपशून्मनुष्यांश्च यज्ञार्थानि हर्वीषि च॥
अद्युः, भक्षयेयुः।
न ब्रह्मचार्यधीयीत कल्याणी40 न दुहेत41 गाम्।
न कन्योद्वहनं गछेद्यदि दण्डो न पालयेत्॥
चरेयुर्नाश्रमे धर्मं यथोक्तं विधिमाश्रिताः।
न विद्यां प्राप्नुयात्कश्चिद्यदि दण्डो न पालयेत्॥
विष्वग्लोपः प्रवर्त्तेत भिद्येरन्सर्वसेतवः।
ममत्वं न प्रजानीयुर्यदि दण्डो न पालयेत्॥
न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः।
विधिवद्दक्षिणावन्ति यदि दण्डो न पालयेत्॥
न प्रेष्या वचनं कुर्युर्न बाला जातु कस्य चित्।
न तिष्ठेद्युवती धर्मे यदि दण्डो न पालयेत्॥
दण्डे स्थिताः प्रजाः सर्वा भयं दण्डे विदुर्बुधाः।
दण्डे स्वर्गो मनुष्याणां लोकोऽयं च प्रतिष्ठितः॥
न तत्र कूटं पापं वा वञ्चना वापि दृश्यते।
यत्र दण्डः सुविहितश्चरते रिपुबाधनः॥
हविःश्वापि लिहेद्दृष्ट्वादण्डश्चेन्नोद्यतो भवेत्।
हरेत्काकः पुरोडाशं यदि दण्डो न पालयेत्॥
अर्थे सर्वे समारम्भाः समायत्ता न संशयः।
स च दण्डसमायत्तः पश्य दण्डस्य गौरवम्॥ इति।
स च दुर्वृत्तेषु निपात्य इत्याह—
याज्ञवल्क्यः,
तदवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत्।
धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा॥
स नेतुं न्यायतोऽशक्यो लुब्धेनाकृतबुद्धिना।
सत्यसन्धेन कृतिना सुसहायेन धीमता॥
नेतुं, प्रणेतुम्।न्यायतः, यथाशास्त्रम्।सत्यसन्धेन, सत्यप्रतिज्ञेन।
यथाशास्त्रं प्रयुक्तः सन्सदेवासुरमानुषम्।
जगदानन्दयेत्सर्वमन्यथा तु प्रकोपयेत्॥
अधर्मदण्डनं स्वर्गकीर्त्तिलोकविनाशनम्।
सम्यक्तु दण्डनं राज्ञः स्वर्गकीर्त्तिजयावहम्॥
अपि भ्राता सुतोऽर्ध्योवा श्वशुरो मातुलोऽपि वा।
नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात्॥
अर्ध्यः, पूज्यः।
यो दड्यान्दण्डयेद्राजा सम्यग्वध्यांश्च घातयेत्।
इष्टं स्याच्छुतिभिस्तेन समाप्तवरदक्षिणैः॥
इति सञ्चिन्त्य नृपतिः क्रतुतुल्यफलं पृथक्।
व्यवहारान् स्वयं पश्येत्सभ्यैः परिवृतोऽन्वहम्॥
कुलानि जातीःश्रेणीश्च गणान् जनपदानपि।
स्वधर्माच्चलितान्राजा विनीय स्थापयेत्पथि॥ इति।
कुलानि, कुटुम्बादीनि। जातीः, ब्राह्मणादीन्। श्रेणीः,सुवर्णकारादेः। गणान्, मठब्राह्मणादीन्। जनपदान्, राष्ट्राणि। दण्ड्यश्च द्विविधः - विहिताननुष्ठाता निषिद्धानुष्ठाता च। तदाह—
नारदः,
यो यो वर्णोऽपहीयेत यश्चाद्रेकमनुव्रजेत्।
तं तं दृष्ट्वा स्वतो मार्गात्प्रच्युतं स्थापयेत्पथि॥
अशास्त्रोक्तेषु चान्येषु पापयुक्तेषु कर्मसु।
प्रसमीक्ष्यात्मना राजा दण्डं दण्ड्येषु पातयेत्॥ इति।
अपहीयेत,स्वधर्माच्च्युतो भवेदित्यर्थः। उद्रेको, निषिद्धं कर्म।
मनुरपि,
पिताऽऽचार्यःसुहन्माता भार्या पुत्रः पुरोहितः।
नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मे न तिष्ठति॥ इति।
एतच्च मातापित्रादिव्यतिरेकेण। “अदण्ड्यौ मातापितरौ स्नातकपुरोहितपरिव्राजकवानप्रस्थाः श्रुतशीलशौचाचारवन्तस्तेहि धर्माधिकारिण” इति विज्ञानेश्वरलिखितस्मृतेः। मातापितृवद्वहुश्रुतोऽपिन दण्ड्यः। “स एष बहुश्रुतो भवति" इत्युपक्रम्य -
“षड्भिः परिहार्य्योराज्ञा अवध्यश्चाबन्ध्यवादण्ड्यश्चाबहि-
ष्कार्यश्चापरिवाद्यश्चापरिहार्यश्च” इतिगौतमोक्तेः। अन्यः पुनर्ब्राह्मणो दण्ड्य एव।
सचिह्णंब्राह्मणं कृत्वा स्वराष्ट्राद्विप्रवासयेत्इति याज्ञवल्क्योक्तेः।
मनुः,
तस्यार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम्।
ब्रह्मतेजोमयं दण्डमसृजत्पूर्वमीश्वरः॥
तस्य सर्वाणि भूतानि स्थावराणि चराणि च।
भयाद्भोगाय कल्पन्ते स्वधर्म्मान्न चलन्ति च॥
तं देशकालो शक्तिं च विद्यां चात्रेक्ष्य तत्त्वतः।
यथार्हतः सम्प्रणयेन्नरेष्वन्यायवर्त्तिषु॥
स राजा पुरुषो दण्डः स नेता शासिता च सः।
चतुर्णामाश्रमाणां च धर्मस्य प्रतिभूः स्मृतः॥
दण्डःशास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति।
दण्डःसुप्तेषु जागर्त्तिदण्डं धर्म विदुर्बुधाः॥
असमीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः।
असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः॥
यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः।
शूले मत्स्यानिवापक्ष्यन्दुर्बलान् बलवत्तराः॥
अद्यात्काकः पुरोडाशं श्वाऽवलिह्याद्धविस्तथा।
स्वाम्यं च न स्यात्कस्मिंश्चित्प्रवर्त्तताधरोत्तरम्॥
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः।
दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते॥
देवदानवगन्धर्वारक्षांसि पतगोरगाः।
तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः॥
दुष्येयुः सर्वेवर्णाश्च भिद्येरन्सर्वसेतवः।
सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात्॥इति।
स च दण्डो द्विविधः। तदाह—
नारदः,
शारीरश्चार्थदण्डञ्च दण्डश्च द्विविधः स्मृतः।
शारीरस्ताडनादिस्तु मरणान्तः प्रकीर्तितः।
काकिन्यादिस्त्वर्थदण्डः सर्वस्वान्तस्तथैव च॥ इति।
** यत्तु मनुना—**
धिग्दण्डं प्रथमं कुर्याद्वाग्दण्डं तदनन्तरम्।
तृतीयं धनदण्डं तु बधदण्डमतः परम्॥
इति चतुर्विधत्वमुक्तम्। तत्राद्यं द्वयमल्पापराधविषयम्। वधदण्डः, शारीरो दण्डः। स च ब्राह्मणव्यतिरिक्तस्य कर्त्तव्य इति तत्स्थानानि वदतोक्तं मनुना।
दश स्थानानि दण्डस्य मनुः स्वायम्भुवोऽब्रवीत्।
त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो व्रजेत्॥
उपस्थमुदरं जिह्वाहस्तौ पादौ च पञ्चपम्।
चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च॥इति।
एतेषां यन्निमित्तोऽपराधस्तत्रैवोपस्थादौ निग्रहः कार्यः। धनदानाशक्तस्य दण्डद्वयमाह—
कात्यायनः,
धनदानासहं बुद्धा स्वाधीनं कर्म कारयेत्।
अशक्तो बन्धनागारं प्रवेश्यो ब्राह्मणाहते॥इति।
यत्त्वापस्तम्बः, चक्षुर्निरोधो ब्राह्मणस्येति।
तत् पुरार्न्निर्वासनकाले बस्त्रादिना चक्षुर्निरोधः कार्य इति व्याख्येयम्। निस्वेधपदस्वारस्यात्पूर्वोदाहृतवचनविरोधाच्च।
शारीरदण्डवच्चार्थदण्डोऽप्युत्तमसाहसादिभेदेनानेकधेति तदुपयोगिकृष्णलादिनिरूपणम्। तत्र —
याज्ञवल्क्यः,
जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम्।
तेऽष्टौ लिक्षास्तु तास्तिस्रो राजसर्षप उच्यते॥
गवाक्षप्रविष्टादित्यकिरणेषु यत्सुक्ष्मं वैशेषिकोक्तरीत्या द्व्यणुकत्रयारब्धंरजो दृश्यते तत् त्रसरेणुरिति मन्वादिभिः स्मृतम्।
गौरस्तु ते त्रयः षट्ते यवो मध्यस्तु ते त्रयः।
कृष्णलः पञ्च ते माषास्ते सुवर्णस्तु षोडश॥
पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्त्तितम्। इति।
इदं तु कनकपरिमाणम्। रजतपरिमाणमपि—
तेनैवोक्तम्,
द्वे कृष्णले रौप्यमाषो धरणं षोडशैव ते।
शतमानं तु दशभिर्धरणैः पलमेव तु॥
निष्कं सुवर्णाश्चत्वारः - इति।
कृष्णलद्वयपरिमितो रौप्यस्य माषो भवति। ते षोडश माषा रौप्यस्य धरणम्।दशभिर्धरणैः शतमानसंज्ञकं रौप्यस्य परिमाणम्, तदेव च पलम्। चत्वारः सुवर्णा रौप्यस्य निष्कः। ताम्रपरिमाणमपि—
तेनैवोक्तम्,
कार्षिकस्ताम्रिकः पणः। इति।
सुवर्णपलस्य चतुर्थोऽशः कर्षः तेन सम्मितः कार्षिकःस ताम्रिकःपणो भवति। ताम्रस्यायं ताम्रिकः।
साशीतिः पणसाहस्रो दण्ड उत्तमसाहसः।
तदर्धंमध्यमः प्रोक्तस्तदर्धमधमः स्मृतः॥
अशीत्यधिकसहस्रसङ्ख्याकाः पणा उत्तमसाहसाख्यो दण्डः,चत्वारिंशदधिकपञ्चशतसङ्ख्यपणात्मको मध्यमसाहसाख्यः, सप्तत्यधिकशतद्वयसङ्ख्याकपणात्मकोऽधमसाहसाख्यः। स एव च शास्त्रान्तरे प्रथमसाहसाख्य इत्युच्यते। यतक्तम्—
मनुना,
पणानां द्वे शते सार्द्धेप्रथमः साहसः स्मृतः।
मध्यमः पञ्च विज्ञेयः सहस्रं त्वेव चोत्तमः॥
इति, तदल्पापराधविषयम्।
धिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो वधस्तथा।
योज्या व्यस्ताः समस्ता वाप्यपराधवशादिमे॥
धिग्दण्डो, धिक्त्वां का पुरुषमित्यादिः। वाग्दण्डः, सर्वस्वं
ते हरामि, त्वां देशान्निर्वासयामीति परुषभाषणम्।
ज्ञात्वाऽपराधं देशं च कालं बलमथापि वा।
वयः कर्म च वित्तं च दण्डं दण्ड्येषु पातयेत्॥
क्वचिद्देशे स्वल्पेनैव शीतेनाऽऽतपेन वा स्वल्पकालेन भोजननिवारणेनाधिका पीडा भवति, क्वचिच्च महतापि न तावती। तथा काले शरदादौ, तथा दण्डनीयबलं विदित्वा ताडनादिदण्डो विधेयः। तथा वयःकर्मवित्तानि। वयः, अशीत्यादि बार्द्धकं, प्रागुपनयनादि शैशवं च। कर्माग्निहोत्रादि। वित्तं प्रसिद्धम्। क्वचित्कचिद्वाचानका एव दण्डविशेषा उक्ताः—
विष्णुधर्मोत्सरे,
उत्साहमन्त्रशक्तिभ्यां प्रभुशक्तिश्च दैविकी।
चतस्रः शक्तयस्तस्य वैष्णव्यः परिकीर्तिताः॥
कः समर्थः प्रजाः पातुं विना वैष्णवतेजसा।
सर्वदेवमयस्यैवं वारुणे पृथिवीपतेः॥
वारुणे इति परशुरामस्य वरुणात्मजं पुष्करं प्रति सम्बुद्धिः। अयं च दण्डो द्विविधः - स्वविषयदण्डः परविषयदण्डश्च। तत्राद्यः-”दण्डप्रणयनं राम स्वदेशे शृणु भूभुजाम्” इत्यादिनोच्यते। द्वितीयस्तु – “द्विविधः कथितो दण्डः परदेशे पुरातनैः" इत्यादिनाग्रे कथयिष्यते।
दण्डप्रणयनं सम्यक् श्रोतुमिच्छामि तत्त्वतः।
कथं स्वविषये तस्य दण्डनीतिर्भवेद्ध्रुवा॥
कथं च दण्डं प्रणयन्नरेन्द्रो धर्मेण युज्येद्यशसा च वीर।
अर्थेन कामेन च सर्वमेतद्ब्रवीहि मे यादवनाथपुत्र॥
पुष्कर उवाच।
दण्डप्रणयनं राम स्वदेशे शृणु भूभुजाम्।
यस्य सम्यक्प्रणयनात्स्वर्गभावपार्थिवो भवेत्॥
त्रियवं कृष्णलं विद्धि माषस्तत्पञ्चकं भवेत्।
कृष्णलानां तथा षष्ठ्याकर्षार्द्धं राम कीर्तितम्॥
सुवर्णश्च विनिर्दिष्टशे राम षोडशमाषिकः।
निष्कं सुवर्णाश्चत्वारो धरणं दशभिस्तु तैः॥
ताम्ररूप्यसुवर्णानां मानमेतत्प्रकीर्तितम्।
ताम्रिकः कार्षिको राम प्रोक्तः कार्षापणो बुधैः॥
पणानां द्वे शते सार्द्धे प्रथमःसाहसः स्मृतः।
मध्यमः पञ्च विज्ञेयः सहस्रमपि चोत्तमः।
बालदायादकं रिक्थं तावद्राजा तु पालयेत्।
यावत्स स्यात्समावृत्तो यावद्वातीतशैशवः॥
वेश्याऽपुत्रासु चैवं स्पाद्रक्षणं निष्कुलासु च।
पतिव्रतासु च स्त्रीषु विश्वास्त्रातुरासु च॥
निष्कलास, पितृकुलभर्तृकुलरहितासु।
जीवन्तीनां तु तासां ये तद्धरेयुः स्ववान्धवाः।
ताञ्छिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः॥
प्रनष्टस्वामिकं रिक्थंराजा त्र्यब्दं निधापयेत्।
अर्वाक् त्र्यव्दाद्धरेत्स्वामी परेण नृपातर्हरेत्॥
ममेदमिति यो ब्रूयात्सोऽनुयुक्तो यथाविधि।
संवाद्य रूपसङ्ख्यादीन्स्वामी तद्रव्यमर्हति॥
संवाद्य यथास्थितं निवेद्य।
अवेदयानो नष्टस्य देशं कालं च तत्त्वतः॥
वर्णं रूपं प्रमाणं च तत्समं दण्डमर्हति।
वर्णो, रक्तपीतादिर्वस्त्रादौ। रूपं, कटककुण्डलादिर्जातिविशेषः। प्रमाणं, परिमाणं, तोलकादि हस्तत्रितस्त्यादि वा।
प्रनष्टाधिमतं रिक्थं तिष्ठेद्युक्तैरधिष्ठितम्।
यांस्तत्र चौरान गृह्णीयाद्घातयेत्कुञ्जरेण तान्॥
ममेदमिति यो ब्रूयादसत्येन तथा निधिम्।
तस्य दण्डं हरेद्राजा स्ववित्तस्यांशमष्टमम्॥
असत्यता च रूपपरिमाणादेर्विसंवादन बोद्ध्या।स्ववित्तस्य, निधिस्थद्रव्यस्य।
चौरैरमुषितो यस्तु मुषितोऽस्मीति भाषते।
तत्प्रदाय च भूपाले स दण्ड्यस्तावदेव तु॥
यो यावन्निह्नुवीतार्थं मिथ्या यो वा वदेत्ततः।
तौ नृपेण ह्यधर्मज्ञौदाप्यौ तद्विगुणं दमम्॥
कूटसाक्ष्यं तु कुर्वाणांस्त्रीन् वर्णान् धार्मिको नृपः।
प्रमापयेन्महाभाग ब्राह्मणं तु विवासयेत्॥
यः स्वामिनाऽननुज्ञातमाधिं भुङ्केविचक्षणः।
अवध्य मूलं कर्त्तव्यं तस्य दण्डं महीक्षिता॥
मूलं, मूलद्रव्यम्। अवध्य, अहिंसयित्वा, न्यूनमकृत्वेत्यर्थः। वृद्धेस्तु सर्वथा लोप एव।
वस्त्रादौ तु तथा मूलच्छेदे धर्मो न हीयते।
सुवर्णरूप्यादावाधीकृते तद्भोगे मूलच्छेदं विना वृद्धौ च लोप इत्युक्तं, वस्त्रादावाधीकृते तद्भोगे मूलच्छेदे कृतेऽपि राज्ञोधर्मो न हीयत इत्यर्थः।
यो निक्षेपं वञ्चयति यश्चानिक्षिप्य याचते।
तावुभौ चौरवच्छास्यौ दाप्यौ वा द्विगुणं दमम्॥
उपधाभिश्च यः कश्चित्परद्रव्यं हरेन्नरः।
ससहायः स हन्तव्यः प्रकाशं विविधैर्वधैः।
उपधाभिः, छलादिभिः।
यो याचितकमादाय न तद्दद्याद्यथाक्रमम्।
स निगृह्य बलाद्दाप्यो दण्डं वै पूर्वसाहसम्॥
अज्ञानाद्यः पुमान् कुर्यात्परद्रव्यस्य विक्रयम्।
निर्दोषो ज्ञानपूर्वं तु चौरवद्वधमर्हति॥
मूल्यमादाय यो विद्यां शिल्पं वा न प्रयच्छति।
दण्ड्यः स मूल्यं सकलं धर्मज्ञेन महीक्षिता॥
द्विजभोज्ये तु सम्प्राप्ते प्रातिबेश्यमभोजयन्।
हिरण्यमाषकंदण्ड्यः पापे नास्ति व्यतिक्रमः॥
पापे, कृतपापे प्रातिवेश्ये सति, अभोजयितुरिति शेषः। व्यतिक्रमो दण्डो नास्ति।
आमन्त्रितो द्विजो यस्तु वर्त्तमानः प्रतिग्रहे।
निष्कारणं न गच्छेद्यः स दाप्योऽष्टशतं दमम्॥
प्रतिग्रहे वर्त्तमानः, प्रतिग्रहपरिग्रहभोजनादिकं कुर्वन्।
प्रतिश्रुत्यामदातारं सुवर्ण दण्डयेन्नृपः।
उपायेषु स्वविषये दण्डः।
भृतो नार्तोन कुर्याद्यो दर्पात्कर्म यथोचितम्॥
स दण्ड्यः कृष्णलान्यष्टौ न देयं चास्य वेतनम्।
अकाले यस्त्यजेद्भृत्यं दण्ड्यः स्यात्तावदेव तु॥
यो ग्रामदेशसन्धानं कृत्वा सत्येन संविदम्।
विसंवदेन्नरोलोभात्तं राष्ट्राद्विप्रवासयेत्॥
क्रीत्वा विक्रीय वा किश्चिद्यस्येहानुशयो भवेत्।
सोऽन्तर्द्दशाहात्तत्साम्याद्दद्यच्चैवाददीत च॥
साम्यात्, न्यूनाधिकभावाभावेन।
परेण तु दशाहस्य न दद्यान्नैव दापयेत्।
आददद्धिददच्चैव राज्ञा दण्ड्यः शतानि षट्॥
यस्तु दोषवतीं कन्यामनाख्याय प्रयच्छति।
तस्य कुर्यान्नृपो दण्डं स्वयं षण्णवतिं पणान्॥
अकन्येति तु यः कन्यां ब्रूयाद्वेषेण मानवः।
स शतं प्राप्नुयाद्दण्डंकन्यादोषमदर्शयन्
अकन्या, क्षतयोनिः।
यस्त्वन्यां दर्शयित्वाऽन्यां वोदुः कन्यां प्रयच्छति।
उत्तमंतस्य कुर्वीत राजा दण्डं तु साहसम्॥
वरो दोषान्न विख्याप्य यः कन्यां वरयेदिह।
द्त्ताऽप्यदत्ता सा तस्य राज्ञां दण्ड्यः शतद्वयम्॥
लुब्धोऽन्यत्र तु विक्रेता षट्शतं दण्डमर्हति।
वहेच्छुल्कं तु विक्रेता सत्यङ्कारं तु सन्त्यजेत्॥
द्विगुणं दण्डयेदेनमिति धर्मो व्यवस्थितः।
मूल्यैकदेशं दत्वा तु यदि क्रेता धनं त्यजेत्॥
दण्ड्यः स मध्यमं दण्डं तस्य दण्डस्य मोक्षणम्।
दुह्याद्धेनुं तु यःपालो गृहीत्वा भक्तवेतनम्॥
स तु दण्ड्यःशतं राज्ञा सुवर्णं चाप्यरक्षिता।
दण्डं दत्त्वान विरमेत्स्वामिभिः कृतलक्षणः।
बद्धः कार्ष्णायसैः पाशैस्तस्य कर्मकरो भवेत्।
धनुः शतपरीमाणां ग्रामस्य तु समन्ततः॥
द्विगुणां त्रिगुणां वापि नगरस्य तु कल्पयेत्\।
वृतिं तत्र प्रकुर्वीत यामुष्ट्रो नावलोकयेत्॥
छिद्रं निवारयेत्सर्वंश्वसूकरमुखानुगम्।
तत्राप्यनावृतं धान्यं विहिंस्युः पशवो यदि॥
न तत्र कारयेद्दण्डं नृपतिः पशुरक्षिणाम्।
अनिर्द्दशाहां गां सूतां वृषान् देवपशूंस्तथा॥
अनिर्दशाहाम्, प्रसवोत्तरमनतिक्रान्तदशरात्राम्।
सपालान् वा विपालान् वा नदण्ड्यान् मनुरब्रवीत्॥
अतोऽन्यथा विनष्टस्य दशांशं दण्डमर्हति।
वैराद्दशगुणं दण्डं विनाशात् क्षेत्रियस्य तु॥
गृहं तडागमारामं क्षेत्रं वा ज्ञानतो हरन्।
शतानि पञ्च दड्यः स्यादज्ञानाद्द्विशतो दमः॥
सीमाबन्धनकाले तु सीमाबन्धनकारिणाम्।
तेषां संज्ञां ददानस्तु जिह्वाच्छेदनमाप्नुयात्॥
अनर्थेनापि यो विन्द्यात्संविदं वा विगच्छति।
उत्तमं साहसं दण्ड्यमिति स्वायम्भुवोऽब्रवीत्॥
स्थापितां चापि मर्यादां ये भिन्द्युःपापकारिणः।
सर्वे पृथक् पृथक् दड्या राज्ञा प्रथमसाहसम्॥
मर्यादां सीमामर्यादाम्।
शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति।
वैश्यश्च द्विशतं राम शूद्रश्चवधमर्हति॥
पश्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने।
वैश्ये चाप्यर्द्धपञ्चाशच्छूद्रेद्वादशको दमः॥
क्षत्रियस्याप्नुयाद्वैश्यःसाहसं पूर्वमेव तु।
शूद्रः क्षत्रियमाक्रुश्य जिह्वाच्छेदनमाप्नुयात्॥
पञ्चाशत्क्षत्रियो दण्ड्यस्तथा वैश्याभिशंसने।
शूद्रंचैवार्द्धपञ्चाशत्तथा धर्मो न हीयते॥
वैश्यस्याक्रोशने दण्ड्यः शूद्रश्चोत्तमसाहसम्।
शुद्राक्रोशे तथा वैश्यः शतार्द्धंदण्डमर्हति॥
सवर्णाक्रोशने दण्डस्तथा द्वादशिकः स्मृतः।
द्वादशिकः, द्वादशपणात्मकः।
वादेष्ववचनीयेषु तदेव द्विगुणं भवेत्॥
एकजातिर्द्विजातिं तु वाचा दारुणा क्षिपेत्।
जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः॥
एकजातिः, शूद्रः, उपनयनकृतद्वितीयजातेरभावात्।
नामजातिग्रहं त्वेषामभिद्रोहेण कुर्वताम्।
निखेयोऽयोमयः शङ्कुर्ज्वलन्नास्ये दशाङ्गुलः॥
अयोमयः, लोहमयः।
धर्मोपदेशं धर्मेण द्विजानामस्य कुर्वतः।
तप्तमासेचयेत्तैलं वक्रेश्रोत्रे च पार्थिवः॥
श्रुतं देशं च जातिं च कर्म शारीरमेव च।
वितथंतु ब्रुवन्दाप्यो राज्ञा द्विगुणसाहसम्॥
यस्तु पातकसंयुक्तैः क्षिपेद्वर्णान्तगोचरैः।
उत्तमं साहसं तस्मिन्दण्डः पात्यो यथाक्रमम्॥
राज्ञेनिवेद्य नियमं प्रशमं यान्ति ये मिथः।
सर्वे द्विगुणदण्ड्यास्ते विप्रलम्भान्नृपस्य तु॥
प्रीत्या मयास्याभिहितं प्रमादेनाथ वा वदेत्।
भूयो न चैवं वक्ष्यामि स तु दण्डार्धभाग्भवेत्॥
काणं वाप्यथ वा खञ्जमन्यं वापि तथाविधम्।
तथ्येनापि ब्रुवन्दाप्यो दण्डं कार्षापणावरम्॥
मातरं पितरं ज्येष्ठं भ्रातरं श्वशुरं गुरुम्।
आक्षारयन्शतं दण्ड्यः पन्थानं चाददद्गुरोः॥
गुरुवर्जंतु मार्गे हि यो मार्गं न प्रयच्छति।
स दाप्यः कृष्णलं राज्ञा तस्य पापस्य शान्तये॥
एकजातिर्द्विजातिं तु येनाङ्गेनापराध्नुयात्।
तदेव च्छेदयेत्तस्य क्षिप्रमेवाविचारयन्॥
अवनिष्ठीवतो दर्पाद्वावोष्ठौ छेदयेन्नृपः।
अवमेहयतो मेद्रमवमर्दयतो गुदम्॥
सहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः।
कट्यांकृताङ्कोनिर्वास्योऽङ्गमेकं चास्य कर्त्तयेत्॥
केशेषु गृह्णतो हस्तौ छेदयेदविचारयन्।
पादयोर्घाटिकायां तु ग्रीवायां वृषणेषु च॥
त्वम्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः।
अस्थिभेत्ता च षण्निष्कान् प्रमाप्यश्च प्रमापकः॥
अङ्गभङ्गकरस्याङ्गं तदेवापहरेन्नृपः।
दण्डपारुष्यकृद्दद्यात्समुत्थानव्ययं तथा॥
अर्द्धपादकराः कार्या गोगजाश्वोष्ट्रघातकाः।
पशुक्षुद्रमृगाणां च हिंसायां द्विगुणो दमः॥
पञ्चाशत्तु भवेद्दण्ड्यस्तथैव मृगपक्षिषु।
कृमिकीटेषु दण्ड्यः स्याद्रजतस्य तु माषकम्॥
तस्यानुरूपं मूल्यं च प्रदद्यात्स्वामिने तथा।
सस्वामिकानां सकरं शेषाणां दण्डमेव तु॥
सकरं, करेण स्वामिने देयेन मूल्येन सहितम्।
वृक्षं तु सफलं छित्वा सुवर्णंदण्डमर्हति॥
द्विगुणं दण्डयेच्चैत्ये पथि सीम्नि जलाशये।
छेदनादफलस्यापि मध्यमः साहसः स्मृतः॥
इत्यादिनानाश्रुतिस्मृतिपुराणेषु बहवो दण्डप्रकारा उक्ताः।
इति स्वविषये दण्डः।
“कथं स्वविषये तस्य दण्डनीतिर्भवेध्रुवम्"
इत्यादिना स्वदेशे दण्डनिरूपणे कृते परविषयेऽपि कथं दण्डःकर्त्तव्य इत्यपेक्षायाम्—
विष्णुधर्मोत्तरे,
राम उवाच।
सामभेदौ तथा प्रोक्तौदानदण्डौ तथैव च।
दण्डः स्वदेशे कथितः परदेशे ब्रवीहि मे॥
पुष्कर उवाच।
द्विविधः कथितो दण्डः परदेशे पुरातनैः।
प्रकाशश्चाप्रकाशश्च तं निबोध द्विजोत्तम॥
लुण्ठनं ग्रामघातश्च सस्यघातस्तथैव च।
चतुरङ्गेन दण्डेन परेषां च तथा वधः॥
चतुरङ्गेन दण्डेन, रथाश्वगजपदातिरूपसैन्येन।
प्रकाशः कथितो दण्डः प्रत्यक्षं वह्निदीपनम्।
अप्रकाशो विषं वह्निर्गूढैश्च पुरुषैर्वधः॥
दूषणं यवसादीनामुदकानां च दूषणम्।
रसक्रियाश्चविविधाः सुभगाभेदनादिकम्॥
परराज्ञोऽन्तःपुरे या सुभगा तस्याः केन चिदुपायेन भेद-
नादिकम्। आदिपदेन सामदानयोरुपादानम्।
एवमादीनि कार्याणि परचक्रे महीक्षिता।
स्वराष्ट्रे च द्विजश्रेष्ठ दृष्याणां बलिनामपि॥
चत्वार एते कथिता ह्युपायाः प्रधानभूता भुवि पार्थिवानाम्।
अतः परं ते कथयामि राम शेषास्त्रयस्ते न मयेरिता ये ॥ इति।
इति दण्डः।
अथोपेक्षा।
विष्णुधर्मोत्तरे,
पुष्कर उवाच।
यदि मन्येत नृपतिरनेन मम विग्रहे।
अनर्यायानुबन्धः स्यात्सन्धिना च तथा भवेत्॥
साम लज्जास्पदं चात्र दानं चार्थक्षयङ्करम्।
भेदे दण्डेऽनुबन्धःस्यात्तदोपेक्षां समाश्रयेत्॥
अवज्ञोपहतस्तत्र राज्ञा कार्यो रिपुर्भवेत्।
उपेक्षैव च धर्मज्ञ श्रेयसी तत्र सा स्मृता॥
उपेक्षया यत्र तु शक्यमर्थक्षयव्ययायासविहीनया न।
कार्यंभवेद्ब्राह्मण विग्रहेण लज्जास्पदेनाप्यथ सन्धिना च ॥ इति।
यत्रार्थक्षयव्ययाभ्यामायासेन च विहीनयोपेक्षया शक्यं कार्यंकर्त्तुंतत्र हे ब्राह्मण राम लज्जास्पदेन विग्रहेण सन्धिना च कार्यंन भवेत्।
इत्युपेक्षा।
अथ माया।
सा च विना मन्त्रतन्त्रादिकमन्यथाभूतस्यार्थस्यान्यथाभासनोपायः। कपटमिति लोके प्रसिद्धम्। सा च—
विष्णुधर्मोत्तरे,
पुष्कर उवाच।
उत्पातैर्विविधैः कार्यंपरस्योद्वेजनं नृपैः।
अरातिशिबिरस्थाने वसतिर्यस्य पक्षिणः॥
स्थूलस्य तस्य पुच्छस्थां कृत्वोल्कां विपुलां द्विज।
विसृज्यैनं ततस्तीव्रमुल्कापातं प्रदर्शयेत्।
अनेनैवानुसारेण बुद्ध्या निश्चित्य यत्नतः॥
उत्पातानि तथान्यानि दर्शनीयानि पार्थिवैः।
उद्वेजनं तथा कुर्यात्कुहकैर्विविधैर्द्विषाम्॥
सांवत्सरांनवर्षंच नाशं ब्रूयुः परस्य च।
जिगीषुः पृथिवीराज्यं तेन वोद्वेजयेत्परान्॥
सांवत्सराः, ज्योतिर्विदः। नवर्षं, वृष्ट्यभावम्।
देवतानां प्रसादानि कीर्तनीयानि तस्य तु॥
सुस्वप्नलाभांश्चतथा जिगीषुंप्रति कीर्तयेत्।
दुःस्वप्नलाभं च तथा परेषामिति निश्चयः॥
आगतं नो मित्रबलं प्रहरध्वमभीतवत्।
एवं ब्रूयाद्रणे प्राप्ते भग्ना भग्नाः परे इति॥
क्ष्वेडाकिलकिलाशब्दमस्य शत्रुर्हतस्तथा।
देवाज्ञबृंहितो राजा सन्नद्धः समरं प्रति॥
एवम्प्रकारा द्विजवर्य मायाः कार्या नरेन्द्रैररिषु प्रहृष्टैः।
मायाहतः शत्रुरथ प्रशक्यः सङ्ख्ये सुखं हन्तुमदीनसत्त्वः॥इति।
इति माया।
अथेन्द्रजालम्।
तच्चमन्त्रतन्त्रादिना अन्यथास्थितस्यार्यस्वान्यथावभासः।
विष्णुधर्मोत्तरे,
पुष्कर उवाच।
चतुरङ्गं बलं राजा इन्द्रजालेन दर्शयेत्।
सहायार्थमनुप्राप्तान्दर्शयेत्त्रिदिवौकसः॥
रक्तवृष्टिश्चसन्दर्श्यापरेषां शिबिरं प्रति।
छिन्नानि रिपुशीर्षाणि प्रासादाग्रेषु दर्शयेत्॥
आधित्सता सन्धिमहीनसत्त्वात्कार्यं भवेद्राम महेन्द्रजालम्।
वक्ष्यामि तेऽन्योपनिषत्सु तुल्ययोगानि चान्यानि जयावहानि॥इति।
इतीन्द्रजालम् \।
एवं सामादयः सप्तोपाया निरूपिताः। अधुना “मन्त्रमूलमिदं राज्यम्" इत्यादिवचनैर्मन्त्रस्य प्राशस्त्येन मन्त्रो निरूप्यते।
तत्र—
अग्निपुराणे,
राम उवाच।
प्रभावोत्साहशक्तिभ्यां मन्त्रशक्तिः प्रशस्यते।
प्रभावोत्साहवान् काव्यो जितो देवपुरोधसा॥
मन्त्रयेतेह कर्माणि नाऽनाप्तैर्नाविपश्चिता।
अशक्यारम्भवृत्तीनां कुतः क्लेशादृते फलम्॥
अविज्ञातस्य विज्ञानं विज्ञातस्य च निश्चयः।
अर्थद्वैधस्य सन्देहच्छेदनं शेषदर्शनम्॥
सहायाः साधनोपाया विभागो देशकालयोः।
विपत्तेश्च प्रतीकारः पञ्चाङ्गो मन्त्र इष्यते॥
मनःप्रसादः श्रद्धा च तथा करणपाटवम्।
सहायोत्थानसम्पच्चकर्मणां सिद्धिलक्षणम्॥ इति।
श्रीरामायणेऽपि,
त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः।
तेषां तु समवेतानां गुणदोषान् वदाम्यहम्॥
मन्त्रिभिर्मन्त्रसंयुक्तैः समर्थैर्मन्त्रनिश्चये।
मित्रैर्वातिसमानार्थैर्बान्धवैश्चातिवाहितैः॥
समानार्थैः, समानप्रयोजनैः।
मन्त्रिभिर्मन्त्रयित्वा यः कर्मारम्भे प्रवर्तते।
तत्रैव कुरुते यत्नं तमाहुः पुरुषोत्तमम् ॥
एकोऽर्थंविमृशत्येको धर्मे प्रकुरुते मतिम्।
एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम्॥
गुणदोषावनिश्चित्य त्यक्तधर्मव्यपाश्रयः।
करिष्यामीत्युपेक्षेत यः कार्यंस नराधमः ॥
यथैव पुरुषा नित्यमुत्तमाधममध्यमाः।
एवं मन्त्रोऽपि विज्ञेय उत्तमाधममध्यमः॥
ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा।
मन्त्रिणां मन्त्रनियमस्तमाहुर्मन्त्रमुत्तम्॥
बह्व्यस्तु मतयो भूत्वा मन्त्रिणामर्थसिद्धये।
पुनर्यत्रैकतां यान्ति स मन्त्रो मध्यमः स्मृतः॥
अन्योन्यं मतिमास्थाय यत्र सम्प्रतिपद्यते।
न चैकमत्ये श्लेषोऽस्ति स मन्त्रोऽधम उच्यते॥
अर्थानर्थौहि यत्रोभौ संशयश्चपरीक्ष्यते।
स मन्त्र इति विज्ञेयः शेषस्तु खलु विक्रमः ॥ इति।
विष्णुधर्मोत्तरे,
नैकस्तु मन्त्रयेन्मन्त्रं न राजा बहुभिः सह।
बहुभिर्मन्त्रयेत्कामं राजा मन्त्रान् पृथक् पृथक् ॥ इति।
एकः, स्वयम्। बहुभिः, द्व्यधिकैः। अत्र स्वस्यैकस्य मन्त्रनिषेधात्स्वभिन्नेनैकेन द्वाभ्यां वा सह मन्त्रः कार्यः। यदि बहुभिः सह मन्त्रयेत्तदा पृथक् पृथगित्यर्थः। तेन मन्त्रः सुरक्षितो भवति। अत एव—
याज्ञवल्क्यः,
मन्त्रमूलमिदं राज्यमतो मन्त्रं सुरक्षितम्।
कुर्याद्यथाऽस्य न विदुः कर्मणामाफलोदयात् ॥ इति।
मन्त्रमूलानां कर्मणामाफलोदयात्परेभ्यो मन्त्रं सुरक्षितं कुर्यात्।
मनुरपि,
यस्य मन्त्रं न जानन्ति समागत्य पृथगजनाः।
स कृत्स्नां पृथिवीं भुङ्क्ते कोशहीनोऽपि पार्थिवः ॥ इति।
अग्निपुराणेऽपि,
गुप्तमन्त्रो भवेद्राजा आपदोऽगुप्तमन्त्रतः।
मदः प्रमादः कामश्च सुप्तप्रलपितानि च॥
भिन्दन्ति मन्त्रं प्रच्छन्नाः कामिन्योऽवमतास्तथा। इति।
मत्स्यपुराणेऽपि,
बहुभिर्मन्त्रयेन्मत्रं राजा कामंपृथक् पृथक्।
मन्त्रिणामपि नो कुर्यात्मन्त्रिमन्त्रप्रकाशनम्॥
क्वचित्कश्चिच्च विश्वास्यो भवतीह सदा नृणाम्।
निश्चयस्तु सदा मन्त्रे कार्य एकेन सूरिणा॥
भवेद्वानिश्चयावाप्तिः परबुद्धयुपजीवनात्।
एकस्यैव महीभर्तुर्भूयः कार्यविनिश्चये ॥
ब्राह्मणान् पर्युपासीत त्रयीशास्त्रसुनिश्चितान्।
वासच्छास्त्रवतो मृढांस्ते हि लोकस्य कृण्टकाः ॥ इति।
विष्णुधर्मोत्तरेऽपि,
राज्ञा संवृतमन्त्रेण सदा भाव्यं द्विजोत्तम।
तस्यासंवृतमन्त्रस्य ज्ञेयाः सर्वापदो ध्रुवाः॥
कृतान्येव हि कर्माणि ज्ञायन्ते यस्य भूपतेः।
नारब्धानि महाभाग तस्य स्याद्वसुधा वशे॥
मन्त्रमूलं सदा राज्यं तस्मान्मन्त्रः सुरक्षितः।
कर्त्तव्यः पृथिवीपालैर्मन्त्रभेदभयात्सदा॥
मन्त्रवत्साधितो मन्त्रः सङ्घातानां सुखावहः।
मन्त्रच्छ्लेन बहवो विनष्टाः पृथिवीक्षितः\।
आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च।
नेत्रवविकाराभ्यां गृह्यतेऽन्तर्गतं मनः॥
न यस्य कुशलैस्तस्य वशे सर्वा वसुन्धरा।
भवतीह महीभर्तुः सदा भार्गवनन्दन॥ इति।
मन्त्रे जडादीनां निषेधमाह—
मनुः,
जडमूकान्धबधिरांस्तैर्यग्योनान् वयोऽतिगान्।
स्त्रीम्लेच्छव्याधितव्यङ्गान्मन्त्रकाले प्रसेधयेत्॥
जडो, बुद्धिहीनः । तैर्यग्योनाः, शुकसारिकादयः । वयोऽतिगा, अतिवृद्धाः। म्लेच्छः, अव्यक्तवाक्। क्लीबइति क्वचित्पाठः।
भिन्दन्त्यवमता मन्त्रं तैर्यग्योनास्तथैव च।
स्त्रियश्चैव विशेषेण तस्मात्तत्रादृतो भवेत्॥ इति।
आदृतः, शक्तिः।
श्रीरामायणे,
अनभिज्ञाय शास्त्राणि बहवः पशुबुद्धयः।
प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः॥
मन्त्रिरूपा हि रिपवः सम्भाव्यास्ते विचक्षणैः।
ये हितोदयमुत्सृज्य विपरीतोपसेविनः॥
अहितं हि हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः।
अवेक्ष्या मन्त्रबाह्यास्ते कर्तव्याः कृतदूषणाः॥
विनाशाय स्वभर्तुर्हि संहताः शत्रुभिर्बुधैः।
विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः॥ इति।
निषिद्धान्तरमुक्तम्—
महाभारते,
मन्त्रभेदस्य यत्प्राज्ञो द्वाराणीमानि कल्पयेत्।
अर्थसन्ततिकामश्च रक्षेदेतानि नित्यशः॥
मदं स्वप्नमवज्ञानमाकारं चात्मसम्भवम्।
दुष्टामात्येषु विभ्रम्भं दूतं चाकुशलं तथा॥ इति।
तथा विष्णुधर्मोत्तरे,
न च मूर्खैर्न चानाप्तैस्तथा नाधार्मिकैर्नृपः।
मन्त्रं तु स्वदितं कुर्याद्येन राष्ट्रे न धावति॥
स्वादितम्, आस्वादितम् । न धावति, न प्रसरति।
राज्ञां विनाशमूलस्तु कथितो मन्त्रविभ्रमः।
नाशहेतुर्भवेन्मन्त्रःकुप्रयुक्तस्तु मन्त्रवत्॥
मन्त्रे सुरक्षिते सिद्धिः कथिता पृथिवीक्षिताम्।
क्रियमाणानि कर्माणि यस्य वेत्ति न कश्चन॥
कृतान्येव विजानाति स राजा पृथिवीपतिः। इति।
मन्त्रणयोग्या अमात्या उक्ता—
महाभारते,
मन्त्रनिश्चयतत्त्वज्ञवाड्गुण्यगुणवेदिनः।
शक्तान् कुलोचितान् भक्ताननाक्षारितपूर्वकान्॥
अनाक्षारितपूर्वकान्, अनपकृतपूर्वान्।
नीतिज्ञान् व्यवहारज्ञानितिहासार्थकोविदा्न्॥
इङ्गितज्ञानुपायज्ञान् शूरान् वीरान्कुलोद्गतान्।
सर्वकार्येषु निपुणानिश्वस्त्राविधिपारगान्॥
दुर्गयन्त्रविधानज्ञान् धर्मशास्त्रार्थपारगान्।
अक्षुद्रान् क्षमिणः प्राज्ञाननागतविधायिनः॥
आयत्यां प्रतिकारज्ञांस्तदात्वे दृढनिश्चयान्।
द्विषन्मित्राद्युदासीनभावज्ञान् शंसितव्रतान्॥
स्वभावगुप्तानचलानचलानिव भारत।
धर्मशीलानकृपणांस्तथा सर्वोपधातिगान्॥
उपधा, छद्म।
धिया सर्वान् सम्परीक्ष्य राजा कुर्वीत मन्त्रिणः।
येऽस्य राजधुरं बोढुंसमर्थाः सद्गवा इव॥
तैः समेत्य महीपालो गुप्तमन्त्रो जितेन्द्रियः।
विद्यानां दर्शने यत्नमातिष्ठेद्भरतर्षभ ॥ इति।
मन्त्रिभिर्यथा वक्तव्यं तदुक्तम्—
श्रीरामायणे
,
यत्प्रियं च हितं चैव साधु धर्म्यंच सर्वशः।
ब्रूयुस्तन्मन्त्रिणो वाक्यं मन्त्रमाणे विशेषतः॥
प्राप्ते कार्ये शरीरं तु नेतुं स्वां गुणसम्पदम्।
प्रियमेव हि वक्तव्यं हितमेव हि मन्त्रिणा।
सुलभाः पुरुषा राजन्सततं प्रियवादिनः।
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः॥ इति।
मन्त्रोत्तरं स्वयमेकाकिना विचार्यमित्युक्तम्—
विष्णुधर्मोत्तरे,
पृथक् च मन्त्रिभिर्मन्त्रः कृतो वै संहतैः पुनः।
विचार्य आत्मना साधु पश्चात्तत्र समाश्रयेत्॥
प्रज्ञाभिमानी नृपतिर्न मन्त्रिवचने रतः।
क्षिप्रं विनाशमायाति तडागमिव काजलम्॥
आकारगूहनै राज्ञो मन्त्ररक्षा परा मता।
आकारैरिङ्गतैः प्राज्ञामन्त्रं चोहन्ति पण्डिताः॥
सच्चराणां च वैद्यानां मन्त्रिणां वचने रतः।
राजा विभूतिमाप्नोति चिरं यशसि तिष्ठति॥ इति।
इति मन्त्रः।
अथ पौरुषम्।
तत्र याज्ञवल्क्यः,
दैवे पुरुषकारे च कर्मसिद्धिर्व्यवस्थिता।
तत्र दैवमभिव्यक्तं पौरुषं पौर्वदेहिकम्॥
दैवं पौर्वदेहिकमिति सम्बन्धः।
के42’ चिद्दैवाद्धठात्केचित्केचित्पुरुषकारतः।
सिड्यन्त्यर्था मनुष्याणां तेषां योनिस्तु पौरुषम्॥
यथा ह्येकेन चक्रेण रथस्य न गतिर्भवेत्।
एवं पुरुषकारेण विना दैवं न सिद्ध्यति॥ इति।
मनुरपि,
सर्वंकर्मेदमायत्तं विधाने दैवमानुषे।
तत्र दैवमंचिन्त्यं तु मानुषे विद्यते क्रिया॥
दैवमानुषसम्पन्ना43यात्रा सर्वार्थसाधिका।
तस्यामतिशयेदेवं वर्तते पौरुषं समम्॥
केचित्पुरुषकारेण केचिद्दैवेन कर्मणा।
उभाभ्यां केचिदिच्छन्ति फलं कुशलबुद्धयः।
दैवमानुषसद्भावे नार्या गर्भः प्रसिद्ध्यति।
पुंसा सत्यपि संयोगे दैवाभावे न सिद्ध्यति॥
न हि दैवमुदासीनं कदाचिदपि मानवम्।
अर्थानर्थफलं नेह संयुनक्त्ययवशं हि तत्॥
काकतालीयवद्दैवाद्दृष्ट्वापि निधिमग्रतः।
न पौरुषदृते तेन निधिना युज्यते पुमान्॥ इति।
मत्स्यपुराणविष्णुधर्मोत्तरयोरपि,
मनुरामावूचतुः।
दैवे पुरुषकारे च किं ज्यायस्तद्ब्रवीहि मे।
अत्र मे संशयो देवसंज्ञयच्छिद्भवांस्तथा॥
मत्स्यपुष्करावूचतुः।
स्वमेव कर्म दैवाख्यं विद्धि देहान्तरार्जितम्।
तस्मात्पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः॥
प्रतिकूलं तथा दैवं पौरुषेण विहन्यते।
मङ्गलाचारयुक्तानां नित्यमुत्थानशालिनाम्॥
येषां पूर्वकृतं कर्म सात्विकं मनुजोत्तम।
पौरुषेण विना तेषां केषाञ्चिद्दृश्यते फलम्॥
कर्मणा प्राप्यते लोके राजसस्य तथा फलम्।
कृच्छ्रेण कर्मणा विद्धि तामसस्य तथा फलम्॥
पौरुषेणाप्यते राजन्मार्गितव्यं फलं नरैः।
दैवमेव न जानाति नरः पौरुषवर्जितः॥
तस्माद्धि कालसंयुक्तं दैवं तु सफलं भवेत्।
पौरुषं दैवसम्पत्त्याकाले फलति पार्थिव॥
दैवं पुरुषकारश्च कालश्च मनुजेश्वर।
त्रयमेतन्मनुष्यस्य पिण्डितं स्यात्फलावहम्॥
कृषिवृष्टिसमायोगाद्दृश्यन्ते फलसिद्धयः।
तास्तु काले प्रदृश्यन्ते नैवाकाले कथञ्चन।
कल्पतरौ तु—
वर्षाकाले प्रदृश्यन्ते नैवाकाले कथश्चन — इतिपाठः ।
तस्मात्सदैव कर्त्तव्यं सधर्मं पौरुषं नृभिः\।
विपत्तावपि यस्येह परलोके ध्रुवं फलम्॥
नालसाः प्राप्नुवन्त्यर्थान्नच दैवषरायणाः।
तस्मात्सर्वप्रयत्नेन पौरुषे यत्नमाचरेत्॥
त्यक्तालसान्दैवपरान् मनुष्यानुत्थानयुक्तान् पुरुषान् हि लक्ष्मीः। अन्विष्य यत्नाद्वृणुते नृपेन्द्र तस्मात्सदोत्थानवता हि भाव्यम्॥ इति।
श्रीरामायणेऽपि,
यस्तु नारभते कार्यं नरो दैवपरायणः।
क्षिप्रं भवति निर्द्रव्यः पलायनपरायणः॥
विक्लवो हीनवीर्यो यः स दैवमनुवर्त्तते।
अविक्लवस्तु तेजस्वी न दैवमनुवर्त्तते॥
दैवं पुरुषकारेण यतते यः प्रबाधितुम्।
न स दैवविपन्नार्यः कदाचिदवसीदति॥ इति।
दैवस्व नामान्तराव्याह—
व्यासः,
विधिर्विधानं नियतिः स्वभावः कालो ग्रहा ईश्वरकर्म दैवम्।
भाग्यानि पुण्यानि कृतान्तयोगः पर्यायनामानि पुराकृतस्य॥ इति।
द्वयोः स्वरूपमाह—
स एव,
दैवमात्मकृतं विधात्कर्म यत्पौर्वदेहिकम्।
स्मृतः पुरुषकारस्तु क्रियते यदिहापरम् ॥इति।
इति पौरुषम्।
अथ राजपुत्ररक्षा।
तत्रमत्स्यपुराणे,
राजन् पुत्रस्य रक्षा च कर्त्तव्या पृथिवीक्षिता।
आचार्यश्चापि कर्त्तव्यो नित्ययुक्तैश्चरक्षिभिः॥
धर्मकामार्थशास्त्राणि धनुर्वेदं च शिक्षयेत्।
रथे च कुञ्जरे चैनं व्यायामं कारयेत्सदा॥
शिल्पानि शिक्षयेश्चैनं नाप्तैर्मिथ्या प्रियं वदेत्।
शरीररक्षाव्याजेन रक्षिणोऽस्य नियोजयेत्॥
न चास्य सङ्गो दातव्यः क्रुद्धलुब्धावमानितैः।
तथा च विनयेदेनं यथा यौवनगो मुखे॥
इन्द्रियैर्नापकृष्येत सतां मार्गात्सुदुर्गमात्।
यौवनगः, प्राप्तयौवनः । मुखे, आदौ।
गुणाधानमशक्यं तु यस्य कर्तुंस्वभावतः॥
बन्धनं तस्य कर्त्तव्यं गुप्तदेशे शुभान्वितम्।
गुप्तदेश इत्यनेन दुष्टप्रवेशनिषेधः। शुभान्वितमित्यनेन शा-
वीरदुःखनिषेधः, व्यवश्यापेक्षितस्नानभोजनवस्त्रताम्बूलादिदानं बोध्यते। सुखान्वित इति पाठे देशविशेषणं तत्।
अविनीतकुमारं हि कुलमाशु विशीर्यते॥ इति।
एवं विनीतस्याधिकारसमर्पणे प्रकार उक्तः—
तत्रैव,
अधिकारेषु सर्वेषु विनीतं विनियोजयेत्।
आदौ स्वल्पे ततः पश्चात् क्रमेण च महत्स्वपि॥ इति।
पुत्रविनयस्य फलमुक्तम्—
महाभारते,
नै स्वैररिभिर्वापि ग्रस्यते पुत्रवान्नृपः।
तस्माद्राजा सदा पुत्रं संरक्षेच्छिक्षयति च॥
अमात्यैरात्मसदृशै राजपुत्रस्य रक्षणम्।
चारैव विविधोपायैः प्रविधेयं पृथग्विधैः॥ इति।
इति राजपुत्ररक्षा।
अथ सन्ध्यादिचिन्ता।
तत्र मन्त्रिण इत्यनुवृत्तौ—
मनुः,
तैः सार्द्धंचिन्तयेन्नित्यं सामान्यं सन्धिविग्रहम्।
स्थानं समुदयं गुप्तिं लब्धमशमनानि च॥
तैः, मन्त्रिभिः। चिन्तयेत्, राजेति शेषः। सन्धिः, पणबन्धः। विग्रहः, वैर्यवस्कन्दः। स्थानं, सैन्यकोशपुरराष्ट्रभेदेन चतुर्विधम्। समुदयः, कृषिव्रजवनगुल्मस्थानवणिक्पशुशुल्कदण्डादिः। गुप्तिः, राष्ट्रादिरक्षा\। लब्धप्रशमनं, देवताश्रमविद्यावतां धार्मिकाणां दानमानसम्मानयोगः। अत्र सामान्यं, सन्धिविग्रहमित्यु-
पादानात्सामान्यतःसन्धिविग्रहचिन्ता। विशेषतस्तु षाड्गुण्यप्रकरणे वक्ष्यते।
मध्यन्दिने च44रात्रौ वा विश्रान्तो विगतक्लमः।
चिन्तयेद्धर्मकामार्थान् सार्द्धं तैरेक एव वा॥
परस्परविरुद्धानां तेषां च समुपार्जनम्।
कन्यानां सम्प्रदानं च कुमाराणां च रक्षणम्॥
तेषां, धर्मार्थकामानां बहुधा विरोधवताम्। ससुपार्जनम्, सम्यगविरोधेन उपार्जनमुत्पादनम्।
दूतसम्प्रेषणं चैव कार्यशेषं तथैव च।
अन्तःपुरंप्रचारं च प्रणिधीनां च चेष्टितम्॥
प्रणिषयः, चाराः।
कृत्स्नं चाष्टविधं कर्म पश्चवर्गंच यत्नतः।
अनुरागापरागौ च प्रचारं मण्डलस्य च॥
अष्टविधंकर्म उशनसोक्तम्—
आदाने च विसर्गे च तथा प्रेषनिषेधयोः।
पञ्चमे चार्थवचने व्यवहारस्य चेक्षणे॥
दण्डशुद्धौ तथा युक्त आत्मशुद्धौ तथैव च।
अष्टकर्मा दिवं याति राजा शक्राभिपूजितः॥ इति।
आदानं, करादिग्रहणम्। विसर्गः, पारितोषिकदानम्।
प्रेषः, प्रेषणं भृत्यादीनाम्। अर्थवचनं, द्रव्यार्जनोपायः। अनुवचनमिति क्वचित्पाठः। अनुवचनं, कार्यसन्देहे राजाज्ञा। दण्डशुद्धिः, शास्त्रोक्तदण्डप्रणयनम्। आत्मशुद्धिः, प्रायश्चित्तम्।
दण्डयुद्ध्योःसमायुक्तस्तेनाष्टगणिको नृपः । इति क्वचित्पाठः।
मेघातिथिस्तु — अकृतारम्भः कृतानुष्ठानम्, अनुष्ठितविशेषणं, सामादयश्रत्वारः, एतदष्टविधं कर्माह।पश्चवर्गः, पश्चप्रकाराणां चराणां समूहः।पञ्चप्रकारा यथा, श्रद्धेयदेशविशेषाशल्पिभाषादिविदो जनाः। तथा, कुब्जवामनकिरातमूकबधिरजडान्धादिच्छद्मिनः। तथा, नटनर्तकगायनादयः। तथा, श्रमणादयः। प्रचेताः पञ्चवर्गमन्यथाह—
सहायाः साधनोपाया विभागो देशकालयोः।
विपत्तेश्चप्रतीकारः सिद्धिः पञ्चाङ्गमिष्यते॥ इति।
सिद्धिः, कार्यसिद्धिः। अपरागो, विरागः। मन्त्रिपुरोहि-
—————————————————————————————————————————————————
कुल्लूकमट्टीये तु – कापटिकोदास्थितगृहपतिवैदेहिकतापसव्यञ्जनात्मकं पञ्चविधं चारवर्गशब्दवाच्यं तत्त्वतश्चिन्तयेत्। तत्र परमर्मज्ञः प्रगल्भच्छात्रः कपटव्यवहारित्वात्कापटिकः, तं वृस्यर्थिनमर्थमानाभ्यामुपगृह्य रहसि राजा ब्रूयात्,यस्य दुर्वृत्तं पश्यसि तत्तदानीमेव मयि वक्तव्यमिति। प्रव्रज्यारूढपतित उदास्थितः, तं लोकेषु विदितदोषं प्रज्ञाशौचयुक्तं वृत्यर्थिनं कृत्वा रहसिराजा पूर्ववद्ब्रूयात्, बहुत्पत्तिकमठे स्थापयेत्प्रचुरसस्योत्पत्तिकं भूम्यन्तरं च तद्वृत्यर्थमुपकल्पयेत्, स चान्येषामपि प्रव्रजितानां राजचारकर्मकारिणां ग्रासाच्छादनादिकं दद्यात्। कर्षकः क्षीणवृत्तिः प्रज्ञाशौचयुक्तो गृहपतिव्यञ्जनस्तमपि पूर्ववदुक्त्वा स्वभूमौ कृषिकर्म कारयेत्। वाणिजकः क्षीणवृत्तिर्वैदेहिकव्यञ्जनस्तं पूर्ववदुक्त्वा धनमानाभ्यामात्मीकृत्य वाणिज्यं कारयेत्। मुण्डो जडिलो वा वृत्तिकामस्तापसव्यञ्जनः सोऽपि क्वचिदाश्रमे वसन् बहुमुण्डजटिलान्तरे कपटशष्यगणवृतो गुप्तराजोपकल्पितवृत्तिस्तापस्यं कुर्यात्, मासद्विमासान्तरितं प्रकाशं बदरादिमुष्टिमश्नीयात्, रहसि च राजोपकल्पितमाहारं कल्पयेत्, शिष्याश्चास्यातीतानागतज्ञानं ख्यापयेयुः, ते च बहुलोकवेष्टनमासाद्य सर्वेषां विश्वसनीयत्वात्सर्वकार्यमकार्यंचपृच्छन्तिकुक्रियादिकं च कथयन्ति’ इत्येवं पञ्चप्रकारा दुर्शिताः
।
तसेनापतियुवराजदौवारिकादीनामनुरागविरागौ चारादिभ्यो बोद्धव्यावित्यर्थः।
मनुः,
उपेतारमुपायं च सर्वोपायांश्चकृत्स्नशः।
एतत्त्रयं समाश्रित्य प्रयतेतात्मसिद्धये॥ इति।
उपेतारम्, उपायप्रयोक्तारमात्मानम्। उपेयम्, उपायसाध्यं शत्रुम्।
इति सन्ध्यादिचिन्ता।
अथ द्वादशराजमण्डलम्।
विष्णुधर्मोत्तरे,
राम उवाच।
किन्नु कृत्यतमं राज्ञस्तन्ममाचक्ष्व पृच्छतः।
राज्यतन्त्रं कथं राज्ञा पालनीयं विपश्चिता॥
पुष्कर उवाच।
सप्ताङ्गस्य तु राज्यस्य भाव्यंयुक्तेन भूभृता।
एतावदेव कर्त्तव्यं राज्ञा तन्त्रं भृगूत्तम ॥ इति।
सप्ताङ्गान्युक्तानि—
तत्रैव
साम दानं तथा दुर्गंकोशो दण्डस्तथैव च।
मित्रं जनपदश्चैव राज्यं सप्ताङ्गमुच्यते ॥ इति।
मनुः,
सप्तानां प्रकृतीनां तु राज्यस्यासां यथाक्रमम्।
पूर्वं पूर्वं गुरुतरं जानीयाद्व्यसनं नृपः॥
प्रकृतीनाम्, अङ्गानाम्। व्यसनं, व्यसनकारणम्, दोषवदिति शेषः।
सप्ताङ्गस्यास्य राज्यस्य विष्टब्धस्य त्रिदण्डवत्।
अन्योन्यगुणवैशेष्यान्न किञ्चिदतिरिच्यते॥
तेषु तेषु हि कृत्येषु तत्तदङ्गंविशिष्यते।
येन यत्साध्यते कार्यं तत्तस्मिञ्छ्रेष्ठमुच्यते॥इति।
विष्णुधर्मोत्तरे तु विशेषः।
सप्ताङ्गस्यास्य राज्यस्य विघ्नकर्तॄन् विवासयेत्।
अहितान् घातयेद्राजा क्षिप्रमेवाविचारयन्॥
सप्ताङ्गस्य तु राज्यस्य वृद्धिःकार्या स्वमण्डले।
मण्डलेषु च सर्वेषु कषणीया महीक्षिता ॥ इति।
कषर्णायाः, परीक्षणीयाः, अमात्यादय इति शेषः। मण्डलस्य द्वादश प्रकृतीराह—
मनुः,
मध्यमस्य प्रचारं च विजिगीषोश्च चेष्टितम्।
उदासीनप्रचारं च शत्रोश्चैव प्रयत्नतः॥
एताः प्रकृतयो मूलं मण्डलस्य समासतः।
एतस्मिन् राजमण्डल इमाश्चतस्रो राजप्रकृतयो भवन्ति विजिगीषुररिर्मध्यम उदासीन इति । विजेतुमभ्युद्यतो विजिगीषुः। अरिस्तु त्रिविधः — सहजः कृत्रिमः स्वभूम्यनन्तर इति। मध्यमः, अरिविजिगीष्वोरसंहतयोर्निग्रहे समर्थः। तदुक्तम्—
अखिलो मण्डलार्थस्तु यस्मिन् ज्ञेयः स मध्यमः। इति ।
अखिलः, अर्थाद्विजीगीषुयातव्ययोः ।मण्डलार्थः, मण्डलप्रयोजनं, यस्मिन् स मध्यमो ज्ञेयः। उदासीनः, अरिविजिगीषुमध्यमानामसंहतानां निग्रहसमर्थः। तदुक्तम्—
विकृष्टेऽध्वन्यनायत्तउदासीनो बलान्वितः । इति।
विक्रष्टेऽध्वनि, अरिमित्रापेक्षया विप्रकृष्टे स्थले। अनायत्तः,
त्रयाणामध्यनधीनः।मध्यमोदासीनयोर्लक्षणेविष्णुधर्मोत्तरे स्पष्टमभिधास्येते।
अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः॥
विजिगीषुमित्रमरिमित्रं विजिगीषुमित्रमित्रमरिमित्रामित्रं चेति अन्याश्चत्तस्त्रः प्रकृतयः पूर्वतः। यस्यां दिश्यरिः सैव पूर्वा। पार्ष्णिग्राहः, आक्कन्दः, पार्ष्णिग्राहसारः, आक्रन्दासारश्चेति चतस्रः प्रकृतयः पश्चात् इत्यष्टौ, आद्यश्चतस्रइति द्वादश। तथा चोक्तम्—
विष्णुधर्मोत्तरे,
अधिकृत्याभियोज्यं तु तत्रापि शृणु कल्पनाम्।
अभियोग्यः स्मृतः शत्रुस्तस्यापि च प्रतीक्षिता॥
तस्य, अरेः। प्रतीक्षिता, सेवकः। तदुक्तम् —
मनुना,
अनन्तरमरिं विद्यारिसेविनमेव च। इति।
तत्परस्तु सुहृज्ज्ञेयो रिपुमित्रमतः परम्।
स्वमित्रमित्रं तत्पश्चान्मित्रमित्रं रिपोस्तथा॥
एतत्पुरस्तात्कथितं पश्चादपि निबोध मे।
पार्ष्णिग्राहः, स्थितः पश्चात्ततस्त्वाक्रन्द उच्यते।
आसारस्तु ततोऽप्यन्यस्त्वाक्रन्दासार उच्यते॥
आसारः पार्ष्णिग्राहासारः।
जिगीषोः शत्रुयुक्तस्य वियुक्तस्य तथा द्विज।
निग्रहानुग्रहे शक्तो मध्यमः परिकीर्तितः॥
निग्रहानुग्रहे शक्तः सर्वेषामपि यो भवेत्।
उदासीनः स कथितो बलवान् पृथिवीपतिः॥
एतावदेव ते प्रोक्तं राम द्वादशराजकम्।
नात्रापि निश्चयः शक्यो वक्तुं मनुजपुङ्गव।
नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते॥
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा।
सामर्थ्ययोगात् कारणात्।
त्रिविधा रिपवःप्रोक्ताः कुल्यानन्तरकृत्रिमाः।
पूर्वःपूर्वो गुरुस्तेषां दुश्चिकित्स्यतमो मतः॥
अनन्तरोऽपि यः शत्रुः सोऽपि मे कृत्रिमो मतः।
पार्ष्णिग्राहो भवेद्राजा शत्रुर्मित्राभियोगिनः॥
पार्ष्णिग्राहमुपायैस्तु शमयेच्च तथा स्वकम्।
मित्रेण शत्रोरुच्छेदं प्रशंसन्ति पुरातनाः॥
मित्रं हि शत्रुतामेति सामन्तत्वादनन्तरम्।
शत्रुं जिगीषुरुच्छिन्द्यात्स्वयं शक्नोति चेद्यदि॥
प्रतापवृद्धौ तेनास्य न मित्राज्जायते भयम्।
नान्यथा पृथिवी जेतुं शक्या राम जिगीषुणा॥ इति।
महाभारते,
विजिगीषोररिर्मित्रमरेर्मित्रमतः परम्।
मित्रमित्रं शत्रुमित्रमित्रं ज्ञेयं पुरःसरम्॥
पार्ष्णिग्राहस्तथाक्रन्दः पार्ष्ण्यासारश्चपृष्ठतः।
आक्रन्दासार इति च ज्ञेयं मण्डलचिन्तकैः॥
पार्ष्णिग्राहाभिसारं च पार्ष्णिग्राहंच विग्रहे।
राजाक्रन्दाभिसारेण तथाऽऽक्रन्देन वर्द्धयेत्॥
वर्द्धयेत्, छेदयेत्।
विरोधयेच्छत्रुमित्रं मित्रमित्रंमरेस्तथा।
मित्रेण मित्रमित्रेण मध्यमत्वाभिवाञ्छकः॥
मन्त्रप्रभूत्साहशक्तीः पालयेद्यत्नवान्नृपः।
अत्र यद्यपि मध्यमोदासनौनोक्तौतथापि मन्वाद्येकवा-
क्यतयात्रापि तौ बोद्ध्यौ। कल्पतरुस्तु —‘विजिगीषुमित्रं, विजिगीषुमित्रमित्रम्, अरिमित्रम्, अरिमित्रमित्रं, मध्यममित्रं मध्यममित्रमित्रम्, उदासीनमित्रम्, उदासीनमित्रमित्रं चेत्यष्टौ, प्रकृताश्चचस्रः प्रकृतय इति द्वादश’ इत्याह । एतेषां भेदानाह—
मनु,
अमात्यराष्ट्रदुर्गार्थदण्डाख्याःपञ्च चापराः।
प्रत्येकं कथिता ह्येताः सङ्क्षेपेण द्विसप्ततिः॥ (अ०७ श्लो० १५७)
विजिगीषुः, विजिगीष्वमात्यादयः पञ्च एवं षट्। एवमन्ये एकादश माण्डालिकाः, एषाममात्यादयः प्रत्येकं पञ्च पञ्चेति द्विसप्ततिर्भवन्ति। असाध्यमरिमाह—
स एव,
प्राज्ञंकुलीनं दातारं शूरं दक्षं तथैव च।
कृतज्ञं शक्तिमन्तं च कष्टमाहुररिं बुधाः॥ (अ०७श्लो०२१०) इति ।
आर्यता45 पुरुषज्ञानं शौर्यंकरुणवेदिता।
स्थौललक्ष्यं46 च सततमुदासीनगुणोदयः॥ (अ०७ श्लो० २११)
तान्सर्वानभि47सन्दद्ध्यात्सामादिभिरुपक्रमैः।
व्यस्तैश्चैव समस्तैश्च पौरुषेण नयेन च॥ (अ० ७ श्लो० १५८)
अभिसन्दध्यात्, वशीकुर्यात्। विजिगीषुर्धर्मेण परान् जयेदित्युक्तम्—
विष्णुधर्मोसरे,
यथास्य नोद्विजेल्लोको विश्वास्यश्च यथा भवेत्।
जिगीषुर्धर्मविजयी तथा लोकं वशं नयेत्॥
यः स्यादधर्मविजयी तस्मादुद्विजते जनः।
प्रप्यापि वसुधां कृत्स्नां न चिरं श्रियमश्नुते॥
धर्मेण राज्ञो भवतीह वृद्धिर्धर्मेण वृद्धिश्चतथा परत्र\।
धर्मेण लग्ध्वा वसुधां जितारिर्भुक्त्वा चिरं नाकमनुप्रयाति॥ इति।
इति द्वादशराजमण्डलम्।
अथ षाड्गुण्यम्।
तत्र याज्ञवल्क्यः,
सन्धिं चविग्रहं यानमासनं संश्रयं तथा।
द्वैषीभावं गुणानेतान्यथावत्परिकल्पयेत्॥ इति।
मनु,
सन्धिंच विग्रहं चैव यानमासनमेव च।
द्वैधीभावं संश्रयं च षड्गुणांश्चिन्तयेत्सदा॥
आसनं चैव यांनं च सन्धिं विग्रहमेव च।
कार्यं वीक्ष्य प्रयुञ्जीत द्वैधंसंश्रयमेव च॥
सन्धिः, हस्त्यश्वादिदानादिना परस्परमुपकर्तव्यमित्यादिव्यवस्था\। तदुक्तम्—
पणबन्धः स्मृता सन्धिः - इति।
विग्रहो विरोधः । तदुक्तम्—
अपकारस्तु विग्रहः । इति।
यानं, स्वबलेन शत्रुंप्रति गमनम्। तदुक्तम्—
जिगीषोः शत्रुविषये यानं यात्राऽभिधीयते। इति।
आसनं, विग्रहमुपेक्ष्य स्वदेशेऽवस्थितिः। तदुक्तम्—
विग्रहंऽपि स्वके देशे स्थितिरासनमुच्यते। इति।
द्वैधीभावः, स्वबलस्य द्विधाकरणम्। तदुक्तम्—
बलार्द्धेन प्रयाणं तु द्वैधीभाव स उच्यते । इति।
संश्रयः, परपीडितस्य प्रबलराजान्तराश्रयणम् । तदुक्तम् —
उदासीने मध्यमे वा संश्रयात्संश्रयः स्मृतः।
सन्ध्यादयो द्विविधाः। तदुक्तम्—
मनुना,
सन्धिंच द्विविधं विद्याद्राजा विग्रहमेव च।
उभे यानासने चैव द्वैधं संश्रयमेव च।
तत्र सन्धिर्द्विविधो यथा-आवाभ्यां राजान्तरं प्रति यानं कर्तव्यमिति क्रियमाण एकः, त्वमत्र याह्यहमन्यत्र यास्यामीति द्वितीयः। एतावपि प्रत्येकं द्विविधौ तात्कालिकफलवत्त्वोत्तरकालीनफलवत्त्वाभ्याम्। तदुक्तम्—
तेनैव,
समानयानकर्मा च विपरीतस्तथैव च।
तदात्वायतिसंयुक्तः सन्धिर्ज्ञेयो द्विलक्षणः॥ इति।
विग्रहो द्विविधः-स्वकार्यार्थं मार्गशीर्षादिकालेऽकाले वा कृतः स्वयङ्कृत एकः, मित्रस्यापकारे केनचित्कृते तद्रक्षार्थमपरः। तदुक्तम्—
तेनैव,
स्वयङ्कृतश्च कार्यार्थमकाले काल एव च।
मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः॥ इति ।
यानं द्विविधम् —बलवत एकाकिनो मित्रसहितस्य वा। तदुक्तम्—
तेनैव,
एकाकिनश्चात्यधिके कार्ये प्राप्ते यदृच्छया।
संहतस्य च मित्रेण द्विविधं यानमुच्यते॥ इति।
आसनं द्विविधम् —क्षीणबलस्य मित्ररक्षार्थं सबलस्य वा। तदुक्तम्—
तेनैव,
क्षीणस्य चैव क्रमशो दैवात्पूर्वकृतेन वा।
मित्रस्य चानुरोधेन द्विविधं स्मृतमासनम्॥ इति।
द्वैधं द्विविधम्— दुर्गदेशेऽर्द्धबलेन राजावस्थानम्, अर्द्धवलेन सेनापतिप्रयाणं, वैपरीत्येन वावस्थानं गमनं च। तदुक्तम्—
बलस्य स्वामिनो वापि स्थितिः कार्यस्य सिद्धये।
द्विविधं कीर्त्यते द्वैधं पाद्गुण्यगुणवेदिभिः॥ इति।
स्थितिः, द्विधाभूय स्थितिः। द्विधास्थितेर्द्वैधशरीरान्तर्गतस्वात्। संश्रयो द्विविधः—अपहृतार्थस्यादानार्थः, अमुकमयमाश्रित इति भाविपीडानिवृत्यर्थश्च। तदुक्तम्—
तेनैव,
अर्थसम्पादनार्थंच पीड्यमानस्य शत्रुभिः।
साधुषु व्यपदेशार्थं द्विविधः संश्रयः स्मृतः॥ इति।
ते च कदा केन च कर्त्तव्या इत्यपेक्षायामाह—
मनु,
यदाऽधिगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः।
तदात्वे चाल्पिकां पीडां तदा सन्धिं समाश्रयेत्॥
आयत्याम्, उत्तरकाले । आधिक्यं, बलाधिक्यम्। तदा—
त्वे, सम्प्रति । स च समेन बलीयसा वा कार्यः। तदुक्तम्—
समेन सन्धिरन्वेष्यो हीनेन च बलीयसा । इति।
स्वयं हीनेन सता समेन सह बलीयसा वा सह सन्धिरन्वेष्यः।
मनु,
यदा प्रहृष्टा मन्येत सर्वास्तु प्रकृतीर्भृशम्।
अत्युच्छ्रितं तथात्मानं तदा मन्येत विग्रहम्॥
विष्णुधर्मोऽत्तरेऽपि,
हीनेन विग्रहः कार्यः स्वयं राज्ञा बलीयसा।
राज्ञा स्वयं बलीयसा सता हीनेन शत्रुणा सह विग्रहः कार्यः।
मनुः,
यदा मन्येत भावेन हृष्टं पुष्टं स्वकं बलम्।
परस्य विपरीतं च तदा यायादरीन् प्रति॥
विष्णुधर्मोत्तरेऽपि,
बहुलाभकरं यत्स्यात्तदा यानं समाश्रयेत्।
बहुव्ययक्षयायासं तेषां राम प्रकीर्तितम् ॥
बहुव्ययक्षयायासमित्यत्र समाहरद्वन्द्वेन नपुंसकतैकवद्भावौ।
मनुः,
यदा तु स्यात्परिक्षीणो वाहनेन बलेन च।
तदासीत प्रयत्नेन शनकैः सान्त्वयन्रिपून्॥
विष्णुधर्मोत्तरेऽपि
,
आसीत कर्मविच्छेदं शक्तः कर्त्तुं रिपुर्यदा।
यदा रिपुः शक्तः स्वापेक्षया सामर्थ्यवान् तदा कर्मणो विग्रहस्य विच्छेदं कर्तुमासीतेत्यर्थः।
मनुः,
मन्येतारिं यदा राजा सर्वथाबलवत्तरम्।
तदा द्विधाबलं कृत्वा साधयेत्कार्यमात्मनः॥
विष्णुधर्मो सरेऽपि,
अशुद्धपाष्णुिर्बलवान्द्वैधीभावं समाश्रयेत्।
मनुः,
यदा परबलानां तु गमनीयतमो भवेत्।
तदा तु संश्रयेत्क्षिप्रंधार्मिकं बलिनं नृपम्॥
निग्रहं प्रकृतीनां च कुर्याद्योऽरिवलस्य च।
उपसेवेत तं नित्यं सर्वयत्नैर्गुरुं यथा।
विष्णुधर्मोत्तरेऽपि,
बलिना निगृहीतस्तु योऽसन्धेयेन पार्थिवः।
संश्रयस्तेन कर्त्तव्यो गुणानामधमो गुणः॥
तथा,
सर्वशक्तिविहीनस्तु तदा कुर्यात्तुसंश्रयम्।
मनुः,
यदि तत्रापि सम्पश्येद्दोषं संश्रयकारितम्।
सुयुद्धमेव तत्रापि निर्विशङ्कं समाचरेत्॥
सर्वोपायैस्तथा कुर्यान्नीतिज्ञः पृथिवीपतिः।
यथास्याभ्यधिका न स्युर्मित्रोदासीनशत्रवः॥
आयतिं सर्वकार्याणां तदात्वं च विचारयेत्।
अतीतानां च सर्वेषां गुणदोषौ च तत्वतः॥
आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः।
अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते॥
यथैनं नाभिसन्दध्युर्मित्रोदासीनशत्रवः।
तथा सर्वंसंविदध्यादेष सामासिको नयः॥
चारेणोत्साहयोगेन क्रिययैव च कर्मणाम्।
स्वशक्तिं परशक्तिं च नित्यं विद्यान्महीपतिः॥
पीडनानि च सर्वाणि व्यसनानि तथैव च।
आरभेत ततः कार्यं सञ्चिन्त्य गुरुलाघवम्॥
आरभेतैव कर्माणि श्रान्तः श्रान्तः पुनः पुनः।
कर्माण्यारभमाणं हि पुरुषं श्रीर्निषेवते ॥ इति।
अग्निपुराणे सन्ध्यादीनामनेके प्रकारा उक्ता विस्तरभयात्तुनेह लिख्यन्ते। अथ षाड्गुण्यमध्ये सङ्क्षेपतो ‘यायादरीन् प्रति’ इति यदुक्तं तद्विस्तरतो निरूपयितुं यात्राप्रकरणम्। तत्रादौ तत्कालो निरूप्यते। स च तत्कालो विष्णुधर्मोत्तरे मात्स्ये चाभिहितः।
राम उवाच।
भगवन् धर्मशास्त्रज्ञ सर्वशास्त्रविशारद।
यात्राकालंविधानं मे कथयस्व महीक्षिताम्॥
पुष्कर उवाच।
यदा मन्येत नृपतिराक्रन्देन बलीयसा।
पाणिग्राहाभिभूतोऽरिस्तदा यात्रां प्रयोजयेत्॥
उच्छ्रायो48 वा भृता मृत्याः प्रभूतं च बलं मम।
मूलरक्षासमर्थोऽस्मि तदा यात्रां प्रयोजयेत्॥
मूलं, स्वदेशः।
अशुद्धपाणिर्नृपतिर्न तु यात्रां प्रयोजयेत्।
पाणिग्राहाधिकं सैन्यं मूले निक्षिप्य वा व्रजेत्।
दिव्यान्तरिक्षक्षितिजैरुत्पातैः पीडितं परम्॥
तमृक्षपीडासन्तप्तं पीडितं च तथा ग्रहैः।
स्वबलव्यसनोपेतं तथा दुर्भिक्षपीडितम्॥
सम्भूतान्तरकोपं च क्षिप्रं यायादरिं नृपः।
शत्रोर्वा व्यसने यायात्काल एष सुदुर्लभः॥ इति।
मनौ
यदा तु पानमातिष्ठेदरिराष्ट्रंप्रति प्रभुः।
तदानेन विधानेन यायादरिपुरं शनैः। इति।
याज्ञवल्क्येऽपि,
यदा सस्यगुणोपेतं परराष्ट्रं तदा व्रजेत्।
परश्चहीन आत्मा च हृष्टवाहनपूरुषः॥ इति।
विष्णुधर्मोत्तरेऽपि,
प्रज्वलन्ती तथैवोल्का दिशि यस्यां प्रपद्यते।
भूकम्पो यां दिशं याति यां च केतुः प्रधूमयेत्॥
निर्घातश्चपतेद्यत्र तां यायाद्वसुधाधिपः।
विष्टिनायककं सैन्यं तथा भिन्नं परस्परम्॥
विष्टिनायककं, विष्टिर्बलादाकृष्टः कर्मकरः स नायको यत्र तादृशम्।
यूकामाक्षिकबहुलं बहुरोगाकुलं तथा।
नास्तिकं भिन्नमर्यादं तथाऽमङ्गलवादिनम्॥
अपेतप्रकृतिं चैव निराशं च तथा जये । इति।
एतादृशं यदा परसैन्यं तदा यायादित्यनुषङ्गः।
विष्णुर्यात्रामासानाह, चैत्रे मार्गशीर्षे वा यात्रां यायात्। इति।
वाशब्दोऽनुक्तसमुञ्चये तेन फाल्गुनोऽपि ग्राह्यः। यथाह—
मनुः,
मार्गशीर्षे शुभे मासे यायाद्यात्रां महीपतिः।
फाल्गुनं वाथ चैत्रं वा मासौ प्रति यथाबलम्॥
अन्येष्वपि तु कालेषु यदा पश्येद्ध्रुवं जयम्।
तदा यायाद्विगृह्यैव व्यसने चोत्थिते रिपोः॥ इति।
रिपुव्यसनस्य स्वातन्त्र्येण कालत्वाभिधानात्तत्काले का-
लान्तरप्रतीक्षा निषिद्ध्यते।
विष्णुधर्मोत्तरे,
चैत्रे वा मार्गशीर्षे वा यात्रां यायान्नराधिपः। इति।
इदमुपलक्षणम्। अन्यापि ज्योतिःशास्त्रोक्ता सर्वापि कालशुद्धिर्ग्राह्या। यात्रातः पूर्वंसप्तदिनपर्यन्तं देवपूजोक्ता—
तत्रैव,
सप्ताहेन यदा यात्रा भविष्यति महीपतेः।
तदा दिने तु प्रथमे पूजनीयो विनायकः॥
मोदकैरक्षतैर्दध्नाकुसुमैश्च तथा फलैः।
गन्धवस्त्रैरलङ्कारैर्धूपैर्दीपैर्मनोहरैः॥
अग्निपुराणे
तु हरिशम्भ्वोरपि पूजोक्ता—
पूजनीयो हरिः शम्भुर्मोदकाद्यैर्विनायकः। इति।
द्वितीयेऽहनि कर्त्तव्यं सर्वदिक्पालपूजनम्।
दिक्पालपूजनं कृत्वा तेषां च पुरतः स्थितः॥
शय्यां कुशाद्यैः कुर्वीत सितवस्त्रोत्तरच्छदाम्\।
विकिरेनागपुष्पैस्तां तथा सिद्धार्थकैः शुभैः॥
तच्छीर्षके तु पूज्या श्रीर्भद्रकाली च पादयोः।
हरिं दक्षिणपार्श्वे तु वामे ब्रह्माणमेव च॥
पूजितं कलशं हृद्यं कुर्यादुष्णीषके दृढम्।
नीलपल्लवसंछन्नं चारुपुष्पोज्ज्वलं शुभम्॥
एककालं हविष्यान्नंलघु भुक्त्वा महीपतिः।
स्वयं दक्षिणपार्श्वॆन मन्त्रमेतमुदीरयेत्॥
नमः शम्भो त्रिनेत्राय रुद्राय वरदाय च।
वामनाय विरूपाय स्वनाधिपतये नमः॥
भगवन्देवदेवेश शूलमृद्वृषवाहन।
इष्टानिष्टं समाचक्ष्व स्वप्नेसुप्तस्य शाश्वतम्॥
यज्जाग्रतो दूरमिति मन्त्रमावर्तयेत्ततः।
हृदि न्यस्य कुशान् राज्ञः प्रयतस्तु पुरोहितः॥
ततः स्वपेच्छु दृष्टे यात्रा देया तु नान्यथा।
तृतीयेऽहनि सम्पाप्ते देवं दिङ्नाथमर्चयेत्॥
एकमेव महाभाग दिङ्नार्थं च तथा ग्रहम्।
यां दिशं नृपतिर्गच्छेन्नाथस्तस्यास्तथैव तम्॥
चतुर्थेऽहनि सम्प्राते ग्रहयागो विधीयते।
पञ्चमेऽहनि सम्प्राप्ते सर्वयागस्तथैव च॥
देवतानां स्वनगरे कृता यासां तथालयाः।
तासां सम्पूजनं कार्यंस्वपुरे या व्यवस्थिताः॥
तत्रैव रात्रौ भूतानां कर्त्तव्यं च तथार्चनम्।
देववृक्षेषु चैत्येषु गोपुराट्टालकेषु च॥
चतुष्पथेषु रथ्यासु पर्वतानां गुहासु च।
नदीतीरेषु रम्येषु देवतायतनेषु च॥
तेषां सम्पूजनं कृत्वा स्वगृहे तान् समर्चयेत्।
तत्र कृत्वा तथैवार्च्याःप्रमथा भूभुजा स्वयम्॥
वासुदेवस्य देवस्य तथा सङ्कर्षणस्य च।
प्रद्युम्नस्यानिरुद्धस्य ब्रह्मणः शङ्करस्य च॥
कीनाशशक्रवरुणधनेशानां तु ये गणाः।
वायोश्चनिर्ऋतेर्वह्नेस्तथा चन्द्रार्कयोश्चये॥
ग्रहाणामथ ऋक्षाणां स्कन्दस्य धनदस्य च।
महाबला महाकाया महासत्वा महाव्रताः॥
अणिमा महिमा चैव गरिमा लघिमा तथा।
ईशित्वेन वशित्वेन प्राप्तिनाम्ना तथा चये॥
यत्र कामावसायित्वं तथा येषां च विद्यते।
एवमष्टगुणैश्वर्य्यसंयुता भीमविक्रमाः॥
नानासत्वशिरोग्रीवा नानाप्रहरणायुधाः।
नानाविरागवसना नानासत्ववपुर्धराः॥
तथा नानाविधाहारा महाचेष्टा महाबलाः।
भक्तानुकम्पिनो वीरा वरदाः कामरूपिणः॥
प्रमथाः प्रतिगृह्णन्तु उपहारं नमोऽस्तु वः।
सपुत्रमातृभृत्योऽहं सदारः शरणं गतः॥
रक्षध्वं मां महाभागा गृहे युद्धे तथाध्वनि।
चमूनां पृष्ठतो गत्वा नाशयध्वं तथा रिपून्॥
स्वप्नं शुभाशुभं वापि कथयध्वं सम्महिताः।
विनिवृत्तश्चदास्यामि दत्तादभ्यधिकं बलिम्॥
अनिवृत्तेन दातव्याः सयत्नेन च भूभुजा।
पूर्ववच्च तथा रात्रौ स्वप्नप्रार्थनमिष्यते॥ इति।
तत्र सुस्वप्रदर्शने यात्रोक्ता—
मत्स्यपुराणे,
शरीरस्फुरणे धन्ये तथा सुस्वप्रदर्शने।
निमित्ते शकुने धन्ये जाते शत्रुपुरं व्रजेत्॥ इति।
अत्र प्रसङ्गात् शुभाशुभसूचकाः सुस्वप्नादुःस्वप्नाश्चॊच्यन्ते।
तत्र श्रीरामायणे शुभस्वप्नविषये त्रिजटावाक्यम्—
समग्रभवनां कृत्स्नां ग्रसमानः ङ्क्षरीमिमाम्।
स्वप्ने रामो मया दृष्टो रुधिरं पीतवान्बहु॥
गजदन्तमयीं दिव्यां शिविकामन्तरिक्षगाम्।
युक्तां नागसहस्रेण सुखमास्थाय राघवः॥
स्वप्ने चाय मया दृष्टः शुक्लाम्बरवरावृतः।
सागरेण परिक्षिप्तं श्वेतं पर्वतमास्थितः॥
राघवश्च मया दृष्टश्चतुर्दन्तं महागजम्।
आरूढः शैलसङ्काशं विचरन्सह लक्ष्मणः॥
ततस्तौ नरशार्दूलौ दीप्यमानौ स्वतेजसा।
शुक्लमाल्याम्बरधरौ जानकीं प्रत्युपस्थितौ॥
ततस्तस्य नगस्याग्रादाकाशस्थस्य दन्तिनः।
भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता॥
भर्तुरङ्कात्समुत्पत्य ततः कमललोचना।
चन्द्रसूर्यौमया दृष्टा पाणिना परिमार्जती॥
ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः।
सीतया च विशालाक्ष्या लङ्कां पर्यभितः स्थितः॥
पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम्।
शुक्लमाल्याम्बरो रामो लक्ष्मणेन सहागतः॥इति।
अष्टयुजा, अष्टवृषभयुक्तेन।
मत्स्यपुराणे,
शैलप्रासादनागाश्ववृषभारोहणं हितम्।
द्रुमाणां श्वेतपुष्पाणां गमनं च तथा द्विज॥
तृणद्रुमोद्भवो नाभौ तथा च बहुबाहुता।
तथा च बहुशीर्षत्वं पलितोद्भवएव च॥
सुशुक्लमाल्यधारित्वं सुशुक्लाम्बरधारिता।
चन्द्रार्कताराग्रसनं परिमार्जनमेव च॥
शक्रध्वजालिङ्गनं च तदुच्छ्रायक्रिया तथा।
भूम्यम्बुध्योराग्रसनं शत्रूणां च वधक्रिया॥
जयो विवादो द्यूतेषु सङ्गमे च तथा द्विज।
भक्षणं चाममांसानां मत्स्यानां पायसस्य च॥
दर्शनं रुधिरस्यापि स्नानं च रुधिरेण ह।
सुरारुधिरमद्यानां पानं क्षीरस्य चाप्यथ॥
अन्त्रैर्विचेष्टनं भूमौ निर्मलं गगनं तथा।
सुखेन दोहनं शस्तं महिषीणां गवां तथा॥
सिंहीनां हस्तिनीनां च वडवानां तथैव च।
प्रसादो देवविप्रेभ्यो गुरुभ्यश्च तथा शुभः॥
अम्भसा त्वभिषेकश्च गवां शृङ्गाश्रितेन च।
चन्द्राद्भ्रष्टेन वा राजन् ज्ञेयो राज्यप्रदो हि सः॥
चन्द्राद्भ्रष्टेनाम्भसाभिषेकः।
राज्याभिषेकश्च तथा शिरसश्छेदनं तथा।
मरणं वह्निदाहश्च वह्निदाहो गृहस्य च॥
लब्धिश्च राज्यलिङ्गानां तन्त्रीवाद्यादिवादनम्\।
तथोदकानां तरणं विषमस्य च लङ्घनम्॥
इस्तिनीवडवानां च गवां च प्रसवो गृहे।
आरोहणं तथाश्वानां रोदनं च तथा शुभम्॥
वरस्त्रीणां तथा लाभस्तथाऽऽलिङ्गनमेव च।
निगडैर्बन्धनं धन्यं तथा विष्ठानुलेपनम्॥
जीवतां भूमिपालानां सुहृदामपि दर्शनम्।
दर्शनं देवतार्चानां विमलानां तथाम्भसाम्॥
शुभान्यथैताति नरस्तु दृष्ट्वा प्राप्नोत्ययत्नाद्ध्रुवमर्थलाभम्।
स्वप्नानि धर्मज्ञभृतां वरिष्ठव्याधेर्विमोक्षं च तथाऽऽतुरोऽपि॥ इति।
इति शुभस्वप्नाः।
अथाशुभस्वप्नाः।
तत्रश्रीरामायणे,
विमानात्पुष्पकादथ रावणः पतितो मया।
कृष्यमाणः स्त्रिया दृष्टो मुण्डः पीताम्बरो हसन्॥
रथेन खरयुक्तेन रक्तमाल्यानुलेपनः।
स गत्वा दक्षिणामाशां प्रविष्टो गोमयह्दम्॥
कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी।
काली करालवदना दिशं याम्यां प्रकर्षति॥
वराहेण दशग्रीवः शिशुमारेण चासकृत्।
उष्ट्रेण च मया दृष्टः प्रयातो दक्षिणां दिशम्॥
समाजश्चमया दृष्टो गीतवादित्रनृत्तवान्।
विभ्रतां रक्तमाल्यानि रक्षसां रक्तवाससाम्॥
लङ्का चेयं पुरी दृष्टा गजवाजिरथाकुला।
सागरे पतिता कृत्स्ना भग्नप्राकारतोरणा॥
पीत्वा तैलं प्रनृत्यन्ति प्रहसन्ति महास्वराः।
लङ्कायां भस्मरूक्षायां सर्वराक्षसयोषितः॥
कुम्भकर्णादयश्चेमे सर्वे राक्षसपुङ्गवाः।
पीतैर्निवसनैर्हृष्टाःक्रीडतो गोमयेह्रदे॥ इति।
मत्स्यपुराणविष्णुधर्मोत्तरयोरपि,
इदानीं कथयिष्यामि निमित्तं स्वप्नदर्शने।
नाभिं विनान्यगात्रेषु तृणवृक्षसमुद्भवः॥
चूर्णनं मूर्ध्निकांस्यानां मुण्डनं नम्रता तथा।
मलिनाम्बरधारित्वमभ्यङ्गः पङ्कदिग्धता॥
उच्चात्प्रपतनं चैव दोलारोहणमेव च।
अञ्जनं49 पद्मलोहानां तपतामपि धारणम्॥
रक्तपुष्पद्रुमाणां च चण्डालस्य तथैव च।
वराहर्क्षखरोष्ट्राणां तथा चारोहणक्रिया।
भक्षणंपक्वमांसानां तैलस्य कृसरस्य च।
नर्तनं हसनं चैव विवाहोगीतमेव च॥
तन्त्रीवाद्यविहीनानां वाद्यानां चापि वादनम्।
स्रोतोऽवगाहगमनं स्नानं गोमयवारिणा॥
पङ्कोक्तेन च तथा महीतोयेन वाप्यथ।
मातुः प्रवेशो जठरे चितारोहणमेव च॥
शक्रध्वजाभिपतनं पतनं शशिसूर्ययोः।
दिव्यान्तरिक्षभौमानामुत्पातानां च दर्शनम्॥
देवद्विजातिभूपालगुरूणां क्रोध एव च।
आलिङ्गनं कुमारीणां पुरुषाणां च मैथुनम्॥
हानिश्चैव स्वगात्राणां विरेकवमनक्रिया।
दक्षिणाशाभिगमनं व्याधिनाभिभवस्तथा॥
फलापहारश्चतथा गृहाणां चैव पातनम्।
गृहसम्मार्जनं चैव धनहानिं विनिर्द्दिशेत्॥
पीडा पिशाचक्रव्यादवानरान्त्यनरैरपि।
परादभिभवश्चैव तस्माच्चव्यसनोद्भवः॥
काषायवस्त्रधारित्वं तद्वत्स्त्रीक्रीडनं तथा।
तद्वस्त्रीक्रीडनं, काषायवस्त्रयुक्तस्त्रिया सह क्रीडनम्।
स्नेहपानावगाहौ च रक्तमाल्यानुलेपनम्।
एवमादीन्यधन्यानि स्वप्रानि तु विनिर्दिशेत् इति।
ऐतरेयारण्यके, अथ स्वप्नाः पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति बराह एनं इन्ति मर्कट एनमास्कन्दयत्याशुवायुरेनं प्रवहति सुवर्णंखादित्वापगिरति मध्वश्नाति विसानि भक्षयत्येकपुण्डरीकं धारयति खरैर्वराहैर्युक्तैर्याति कृष्णां धेनुं कृष्णव-
त्सां नलदमाली दक्षिणामुखो व्राजयति स यद्येतेषां किश्चित्पश्यॆदुपोष्य पायसं स्थालीपाकं श्रपयित्वा रात्रीसूक्तेन प्रत्यूचं हुत्वान्येनान्नेन ब्राह्मणान् भोजयित्वा चरुं स्वयं प्राश्नीयात्। इति। ( आ० ३ अ० २ खं० १० )
अथेत्यादि दश स्वप्नारिष्टानि \। स्वप्ने साकल्येनात्यन्तं कृष्णवर्णंपुरुषं कृष्णवर्णैदन्तैर्युक्तं पश्यति स च पुरुष एनं स्वप्नद्रष्टारं हन्ति इत्येकमरिष्टम्। अरण्ये प्रौढो वराहो हन्ति इति द्वितीयम्। मर्कटो मूर्द्धन्यारोहतीति तृतीयम्। शीघ्रवायुः स्ववेगेन निम्नदेशे बलात्प्रवहतीति चतुर्थम्। सुवर्णंभक्षयित्वा वमतीति पञ्चमम्। मधुआकण्ठमश्नातीति षष्ठम्। बिसानि पद्मानां नालानि भक्षयतीति सप्तमम्। एकं रक्तवर्णं पुण्डरीकं शिरसि धारयतीति अष्टमम्। युक्तैरश्ववत्सज्जीकृतैर्गर्दभैर्वराहैर्वाग्रामान्तरं गच्छतीति नवमम्। नलदमाली रक्तकुसुमग्रथितस्रग्वी दक्षिणदिगभिमुखो भूत्वा कृष्णवत्सोपेतां कृष्णां धेनुं व्राजयति प्रेरयतीति दशमम्। एतैः स्वप्नगतैररिष्टैः प्रत्यासन्नंमरणं निश्चित्य यदस्यानन्तरकर्त्तव्यं तद्दर्शयति स यदीति। स पुमानेषामरिष्टानां मध्ये एकमपि पश्येत्तस्मिन्दिने उपोष्य स्थालीपाकविधानेन पायसं श्रपयित्वा रात्रीव्यख्यदायतीतिसूक्तेन प्रत्यृचं हुत्वा स्वगृहपक्वेनान्नेन यथाशक्ति ब्राह्मणान् भोजयित्वा होमशेषं स्वयं प्राश्नीयात् । एतेषु स्वप्नेषु अयं विशेषः। सामान्यतस्तु दुःस्वप्रदर्शनेऽन्यो विधिरुक्तः—
स्वप्नममनोज्ञंदृष्ट्वा द्यानो देव सवितरितिद्वाभ्यां यच्चगोषु दुःस्वप्रमिति पञ्चभिरादित्यमुपतिष्ठेत यो मे राजन्युज्यो वा सखायेति सप्तग्भिरादित्यमुपतिष्ठेतैकया वा। इति।
एषामकथनं धन्यं भूयश्च स्वपनं तथा।
एषां, दुःस्वप्नानाम्।
कल्कस्नानं तिलैर्होमो ब्राह्मणानां च पूजनम्।
स्तुतिश्च वासुदेवस्य तथा तस्यैव पूजनम्॥
नागेन्द्रमोक्षश्रवणं ज्ञेयं दुःस्वप्ननाशनम्।
तथा,
अच्युतं केशवं विष्णुं हरिं सत्यं जनार्दनम्।
हंसंनारायणं चैव एतन्नामाष्टकं शुभम्॥
त्रिसन्ध्यं यः पठेन्नित्यं दारिद्र्यं तस्य नश्यति।
शत्रुसैन्यं क्षयं याति दुःस्वप्नं च विनश्यति॥
गङ्गायां मरणं चैव दृढभक्तिश्च केशवे।
ब्रह्मविद्यावबोधश्च तस्मान्नित्यं पठेन्नरः॥ इति।
इति दुःस्वप्नाः।
अथ शुभाशुभस्वमविपाककालः।
स्वप्नास्तु प्रथमे यामे संवत्सरविपाकिनः।
षड्भिर्मासौर्द्वितीये तु त्रिभिर्मासैस्तृतीयके॥
चतुर्थे मासमात्रेण पश्यतो नात्र संशयः।
एकस्यां यदि वा रात्रौ शुभं वा यदि वाऽशुभम्॥
पश्चात् दृष्टस्तु यस्तत्र तस्य पाकं विनिर्दिशेत्।
तस्माच्छोभनके स्वप्ने पश्चात्स्वप्नं न शस्यते॥ इति।
तदेवं पञ्चमेऽहनि सुस्वप्नदर्शने षष्ठेऽहनि यात्रायां निश्चितायां कृत्यान्तरमुक्तम्—
विष्णुधर्मोत्तरे,
षष्ठेऽहनि जयस्नानं कर्त्तव्यं च तथा भवेत्।
विधिस्तस्याभिषेकार्थः सर्व एव विधीयते॥
अस्य जयाभिषेकस्य प्रयोगो वक्ष्यते। अत्रैव बक्ष्यमाणा
घृतकम्बलशान्तिर्नीराजनशान्तिश्चयथासम्भवं कर्तव्या।
यात्रादिने तु सम्प्राप्ते क्षुरकर्म विवर्जयेत्।
अभ्यङ्गं गृहकार्यंच क्रोधशोकौ च काङ्कतम्॥
काङ्कतं, केशप्रसाधनम्।
यातव्यं येन तेनाद्य तदुक्तं स्नानमाचरेत्।
स्नातः शुक्लाम्बरः स्रग्वी तथा श्वेतानुलेपनः॥
चित्राभरणवात्राजा दुर्वापल्लवलाञ्छनः।
पूजयित्वा महाभागं देवदेवं त्रिविक्रमम्।
जुहुयाच्च ततो वह्नौसुसमिद्धे पुरोहितः।
आयुष्यमभयं चैवतथा स्वस्त्ययनं गणम्॥
शर्मवर्मगणं चैवं तथा प्रतिरथं शुभम्।
शाकुनं च तथा सूक्तं सूक्तं वैष्णवमेव च॥
तथाग्रिलक्षणोत्पत्तौ शुभे यायान्महीपतिः।
नक्षत्रस्य दिशश्चैव नैवेद्यं यत्प्रकीर्त्तितम्॥
तदेव नृपतिः प्राश्य यात्रां कुर्याद्यथाविधि।
अहृद्यंमक्षिकाकेशकीटयुक्तं विवर्जयेत्॥
दग्धं च वर्जयेद्यात्रा देया भवति नान्यथा।
अन्यथा, केशकीटादिपाते।
ततस्तु राजलिङ्गानामायुधानां तथैव च।
नीराजनोक्तमन्त्रैस्तु सर्वांस्तानभिमन्त्रयेत्॥
मन्त्रा यथा—
राम उवाच।
छत्राश्वकेतुकरिणां पताकास्वङ्गचर्मणाम्।
तथा दुन्दुभिचापानां ब्रूहि मन्त्रं समानघ॥
पुष्कर उवाच।
श्रृणु मन्त्रान्महाभाग भगवान्यत्पराशरः।
गालवाय पुरोवाच सर्वधर्मभृतां वरः॥
पराशर उवाच।
यथाम्बुदश्छादयति शिवायेमां वसुन्धराम्।
तथाच्छादय राजानं विजयारोग्यवृद्धये ॥
इति छत्रमन्त्रः ।
गन्धर्वकुलराजस्त्वं मा भूयाःकुलदूषकः।
ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च॥
प्रभावस्त्वं हुताशस्य भगवंस्त्वं तुरङ्गम।
तेजसा चैवसूर्यस्य मुनीनां तपसा तथा॥
रुद्रस्य ब्रह्मचर्येण पवनस्य बलेन च।
स्मर त्वं राजपुत्रोऽसि कौस्तुभं च मणिंस्मर॥
यां गतिं ब्रह्महागच्छेत्पितृहा मातृहा तथा।
भूम्यर्थेऽनृतवादी च क्षत्रियश्चपराङ्मुखः॥
सूर्याचन्द्रमसौ वायुर्यावत्पश्यन्ति दुष्कृतम्।
व्रजेस्त्वं तां गतिं क्षिप्रं तच्च पापं भवेत्तव॥
विकृतिंयदि गच्छेर्नोयुद्धेऽध्वनि तुरङ्गम\।
रिपू्न्विजित्य समरे सह भर्त्रा सुखी भव॥
इत्यश्वमन्त्रः।
शक्रकेतो महावीर सुपर्णस्त्वच्युताश्रितः।
पतत्रिराड्बैनतेयस्तथा नारायणध्वजः॥
काश्यपेयोऽमृताहर्ता नागारिर्विष्णुवाहनः।
अप्रमेयो दुराधर्षो रणे चैवारिसूदनः॥
गरुत्मान्मारुतगतिस्त्वयि सन्निहितः स्थितः।
साश्ववर्मायुधान्योधान् रक्षास्माकं महीमसून्॥
इति ध्वजमन्त्रः
कुमुदैरावणौ पद्मःपुष्पदन्तोऽथ वामनः।
सुप्रतीकोऽञ्जनो नील एतेऽष्टौ देवयोनयः॥
तेषां पुत्राश्चपौत्राश्च वनान्यष्टौ समाश्रिताः।
भद्रो मन्दो मृगश्चैव गजः सङ्कीर्ण एव च॥
वने वने प्रसूतास्ते स्मर योनिं महागज ।
पान्तु त्वां वसवो रुद्रा आदित्याःसमरुद्गणाः॥
भर्तारं रक्ष नागेन्द्र समयः प्रतिपाल्यताम्।
अवाप्नुहि जयं युद्धे गमने स्वस्ति नो व्रज॥
श्रीस्ते सोमाद्बलं विष्णोस्तेजः सूर्याज्जवोऽनिलात्।
स्थैर्यंमेरोर्जयं रुद्राद्यशो देवात्पुरन्दरात्॥
युद्धे रक्षन्तु नागास्त्वां दिशश्च सह दैवतैः।
अश्विभ्यां सह गन्धर्वाः पान्तु त्वां सर्वतः सदा॥
इति हस्तिमन्त्रः।
हुतभुग्वसनो रुद्रा वायुः सोमो महर्षयः।
नागकिन्नरगन्धर्वयक्षभूतगणग्रहाः॥
प्रमथास्तु सहादित्यैर्भूतेशो मातृभिः सह।
शक्रसेनापतिः स्कन्दो वरुणश्चाश्रितस्त्वयि॥
प्रदहन्तु रिपून्सर्वान् राजा विजयमृच्छतु।
यानि प्रयुक्तान्यरिभिर्दूषणानि समन्ततः।
पतन्तूपरि शत्रूणां हतानि तव तेजसा।
कालनेमिवधे यद्वद्यद्वत्रिपुरघातने॥
हिरण्यकशिपोर्यद्वद्वधेसर्वासुरेषु च।
शोभितासि तथैवाद्य शोभस्व समयं स्मर॥
नीलान् श्वेतानिमान् दृष्ट्वा नश्यन्त्वायु नृपारयः।
व्याधिभिर्विविधैघोरैः शस्त्रेश्चयुधि निर्जिताः॥
पूतना रेवतीनाम्ना कालरात्रीति पठ्यते।
दहत्वाशु रिपून्सर्वान् पताके त्वामुपाश्रिता॥
इति पताकामन्त्रः।
असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः।
श्रीगर्भो विजयश्चैव धर्माचारस्तथैव च॥
इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा।
नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः॥
रोहिण्याश्च शरीरं ते दैवतं तु जनार्दनः।
पिता पितामहोदेवस्स त्वं पालय सर्वदा॥
इति खड्गमन्त्रः।
शर्मप्रदस्त्वं समरे चर्मन् सैन्याय मे ह्यसि।
रक्ष मां रक्षणीयोऽहं तवानघ नमोऽस्तु ते॥
इति चर्ममन्त्रः।
दुन्दुभे त्वं सपत्नानां घोषाद्हृदयकम्पनः।
नवभूमिपसैन्यानां तथा विजयवर्धनः॥
यथा जीमूतघोषेण हृष्यन्ति शिखिचारणाः।
तथा च तव शब्देन त्रस्यन्त्वस्मद्विषो रणे॥
इति दुन्दुभिमन्त्रः।
सर्वायुध महामात्र सर्वदेवारिसूदन।
चापस्त्वं सर्वतो रक्ष साकं शरवरैः सदा॥
इति चापमन्त्रः।
दैववित्प्रयतो भूत्वा राजा वाथपुरोहितः।
तेषां सम्पूजनं कृत्वा दैवज्ञं समुपस्थितम्॥
धनेन पूजयेद्राजा दक्षिणाभिर्द्विजोत्तमान्।
ततः पुण्याहघोषेण द्विजानां हतकल्मषः॥
मङ्गलालम्भनं कृत्वा मन्त्रमेतंनिशाययन्।
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः॥
लोकपालाःसगन्धर्वा नद्यः शैला मही द्विजाः।
अग्निः स्वाहा स्वधा स्कन्दो होमो ब्रह्मा प्रजापतिः॥
मुहूर्त्तास्तिथयो भानि वेदा अयनवत्सराः।
गावः सरस्वती देवी दीर्घमायुर्दिशन्तु ते॥
जगत्सिसृक्षोर्या सिद्धिर्बभूव ब्रह्मणः पुर॥
जगज्जिष्णोश्चया विष्णोः सिद्धिरासीत्रिविक्रमे।
असुरैश्वर्यनाशे च बभूव त्र्यम्बकस्य या।
सिद्धिस्त्रिदशवृद्ध्यर्थंत्रिपुरासुरघातने।
शक्रे वृत्रवधे या च स्कन्दे देवारिसङ्ख्यये।
तां प्राप्नुहि सदा सिद्धिं सा च यात्रास्तु ते सदा॥
रक्षन्तु सर्वतः सर्वे देवाः शक्रपुरोगमाः।
इति श्रुत्वा शुभां वाचं गृहीत्वा सशरं धनुः॥
धन्वनागेतिमन्त्रेण दैवज्ञस्य करात्स्वम्।
तद्विष्णोः परमित्येव शृण्वन्मन्त्रमनुत्तमम्॥
पैष्टे रिपुमुखे दद्यात्प्रथमं दक्षिणं पदम्।
पदद्वात्रिंशकं गत्वा दिक्षु प्राच्यादिषु त्वथ॥
नागं रथं हयं चैव युवानं चारुहेत्क्रमात्।
युवानं, युवनरवाह्यं
यानम्।
आरुह्यसुमना गच्छेद्वाद्यघोषेण भूमिणा॥
स निष्क्रम्य महानीशो न पृष्ठमवलोकयेत्।
मङ्गलानिततः पश्यन्निमित्तं च शनैर्वृजेत्॥ इति।
मङ्गलानि, मङ्गलसूचकानि शकुनानि। निमित्तं, शरीरस्फुरणादि।
अथेष्टशकुनानि।
तत्र
विष्णुधर्मोत्तरे,
अथेष्टानि प्रवक्ष्यामि मङ्गलानि तवानघ।
श्वेताःसुमनसः श्रेष्ठाः पूर्णकुम्भास्तथैव च॥
जलजानि च शस्यानि मांस मत्स्याश्चभार्गव।
सस्यम्, अकृष्णं धान्यं, कृष्णधान्यस्यापशकुनेष्वग्रे पठितत्वात्।
गावस्तुरङ्गमा नागा बद्ध एकःपशुस्त्वजः।
त्रिदशाः सुहृदो विप्रा ज्वलितश्चहुताशनः॥
गणिका च महाभाग दुर्गा चार्द्रंच गोमयम्।
रुक्मं रौप्यं तथा ताम्रं सर्वरत्नानि चाप्यथ॥
औषधानि च सर्वज्ञ वचासिद्धार्थके तथा।
औषधानि, असंयोजितानि।
नृवाह्ययानं यानं च भद्रपीठं तथैव च।
खड्गंछत्रं पताकां च मृदमायुधमेव च॥
राजलिङ्गानि सर्वाणि शवं रुदितवर्जितम्।
घृतं दधि पयश्चैव फलानि विविधानि च॥
स्वस्तिकं वर्धमानं च नन्द्यावर्तंसकौस्तुभम्।
नद्यश्च चित्रविन्यस्ता मङ्गल्यान्यपराणि च॥
अक्षताश्चतथा मुख्यास्तथा दर्पणमेव च।
अञ्जनं रोचनं चैव भृङ्गारो माक्षिकं तथा॥
शङ्ख इक्षुस्तथा भक्ष्या वाचश्चैव तथा शुभाः।
वादित्राणां सुखः शब्दो गम्भीरश्चमनोहरः॥
गान्धारषड्जऋषभा याने शस्तास्तथा स्वराः।
अनुकूलो मृदुः स्निग्धः सुखस्पर्शः सुखावहः॥
वायुरिति शेषः । अनुकूलः, पृष्ठलग्नः।
मेघाः शस्ता घनाः स्निग्धा गजबृंहितसन्निभाः।
बृंहितं, शब्दः।
अनुलोमा तडिच्छस्ता शक्रचापं तथैव च।
अनुलोमा ग्रहाः शस्ता दिक्पतिस्तु विशेषतः॥
आस्तिक्यं श्रद्दधानत्वं तथा पूज्याभिपूजनम्।
शस्तान्येतानि धर्मज्ञ यच्च स्यान्मनसः प्रियम्॥
मनसस्तुष्टिरेवात्र परमं जयलक्षणम्।
एकतः सर्वलिङ्गानि मनसस्तुष्टिरेकतः॥
यानोत्सुकत्वं मनसः प्रहर्षः सुस्वप्नलाभो विजयप्रवादः।
मङ्गल्वलब्धिः श्रवणं च राम ज्ञेयानि नित्यं विजयावहानि॥ इति।
इति इष्टशकुनानि।
अथापशकुनानि।
विष्णुधर्मोत्तरे,
औषधानि च युक्तानि धान्यं कृष्णमशोभनम्।
कार्पासतृणकाष्ठंच गोमयं चेतराणि च॥
युक्तानि, संयोजितानि। गोमयं, शुष्कगोमयम्। आर्द्रगोमयस्य शकुनेषु पाठात्।
अङ्गारं गुडमज्जास्तु मुण्डाभ्यक्तं च नग्नकम् ।
अङ्गारं सधूमम् ।
अयः पङ्कं चर्म केशा उन्मत्तंच नपुंसकम्।
चण्डालश्वपचाद्याथ नरा बन्धनपालकाः॥
गर्भिणी स्त्री च वधकपिण्याकादीनि वै मृतम्।
मृतं, सरुदितम् । अरुदितमृतस्य शकुनेषु पाठात्।
तुषभस्मकपालास्थिभिन्नभाण्डानि यानि च।
अहृद्यो वधशब्दश्चभिन्नभैरवगर्जितः॥
एहीति पुरतः शब्दः शस्यते न तु पृष्ठतः।
गच्छेतिशब्दः पश्चात्तु पुरस्तादपि गर्हितः॥
क यासि तिष्ठ मा गच्छ किं ते तत्र गतस्य च।
अन्य शब्दाश्चये दुष्टास्ते विपत्तिकरा अपि॥
ध्वजादिषु तथा स्थानं क्रव्यादीनां विगर्हितम्।
स्खलनं वाहनानां च वस्त्रसङ्गस्तथैव च॥
विनिर्गतस्य द्वाराद्यैः शिरसश्चाभिघातनम्।
छत्रध्वजादिवस्त्राणां पतनं च तथा ऽशुभम्॥
वायुः सशर्करो रूक्षः सर्वदिग्भ्यः समुत्थितः।
प्रतिलोमस्तथा नीचो विज्ञेयो भयकृद्विज॥
ऋक्षा रूक्षस्वराः खड्गाः क्रव्यादाश्च विगर्हिताः।
अप्रशस्ते तथा ज्ञेये परिवेषप्रवर्षणे॥
दृष्ट्वा निमित्तं प्रथमं मङ्गल्यं विघ्ननाशनम्।
केशवं पूजयेद्विद्वांस्तथैव मधुसूदनम्॥
द्वितीये तु ततो दृष्टे प्रतीपे प्रविशेद्गृहम्। इति।
इत्यपशकुनानि।
अथ निमित्तानि।
अङ्गदक्षिणभागे तु शस्तं प्रस्फुरणं शुभम्।
अप्रशस्तं तथा वामे पृष्ठस्य हृदयस्य च॥
लाञ्छनं पिटकं चैव ज्ञेयं, स्फुरणवत्तथा।
विपर्ययेण विहितं सर्वंस्त्रीणां विपर्ययम्॥
दक्षिणेऽपि प्रशस्तेऽङ्गेप्रशस्तं स्याद्विशेषतः।
अतोऽन्यथासिद्धिरजल्पनात्तुफलस्य शस्तस्य च निन्दितस्य।
अरिष्टचिह्नोपगमे द्विजानां कार्यंसुवर्णेन च तर्पणं स्यात्॥ इति।
अन्यत्रापि,
नेत्रस्याधःस्फुरणमसकृत्सङ्गरे भङ्गहेतु—
र्नेत्रोपान्ते हरति च धनं नासिकान्ते च मृत्युः॥
नेत्रस्योर्ध्वं हरति सकलं मानसं दुःखजालं
वामे चैतत्फलमविकलं दक्षिणे वैपरीत्यम्॥ इति।
ऐतरेयारण्यकेऽन्यान्यपि अशुभनिमित्तान्युक्तानि। तानि—
यथा, स यश्चायमशरीरःप्रज्ञात्मा यश्चासावादित्य एकमेतदित्यवोचाम तौयत्र विहीयेते चन्द्रमा इवादित्यो दृश्यते न रश्मयः प्रादुर्भवन्ति लोहिनी द्यौर्भवति यथा मञ्जिष्ठा व्यस्तः पायुः काककुलायगन्धिकमस्य शिरो वायति सम्परेतोऽस्यात्मा न चिरमिव जीविष्यतीतिविद्यात्स यत्करणीयं मन्येत तत्कुर्वीत यदन्ति यच्चदूरक इति सप्त जपेदादित्प्रत्नस्य रेतस इत्येका यत्र ब्रह्मा पवमानेतिषलुद्वयन्तमसस्परीत्येकाथापि यत्र छिद्र इवादित्यो दृश्यते रथनाभिरिवाभिख्यायेत छिद्रां वाछायां पश्येत्तदप्येवमेव विद्यादथाप्यादर्शेबोदके वा जिह्मशिरसं वाऽशिरसं वात्मानं पश्येद्विपर्यस्ते वा कन्याके जिह्मेन वा दृश्येयातां तदप्येवमेव विद्यादथाप्यपिधायाक्षिणी उपेक्षेत तद्यथा वटरकाणि सम्पतन्तीवदृश्यन्ते तानि यदा न पश्येत्तदप्येवमेव
विद्यादयाप्यपिधाय कर्णा उपशृणुयात्स एषोऽग्नेरिव प्रज्वलतो रथस्येवोपब्दिस्तं यदा नशृणुयात्तदप्येवमेव विद्यादथापि यत्र नील इवाग्निर्दृश्यते यथा मयूरग्रीवा मेघे वा विद्युतं पश्येन्मेघे वा विद्युतं न पश्येन्महामेघे वा मरीचीरिव पश्येत तदप्येवमेव विद्यादयापि यत्र भूमिंज्वलन्तीमिव पश्येत तदप्येवमेव विद्यादिति प्रत्यक्षदर्शनानि। इति (आ०३अ० २खं० १०)
स यश्चायमिति । स यो ज्ञानरूपोऽशरीर आत्मा स चादित्यमण्डलस्थश्चएक एवेत्यदोचाम—“यश्वासावादित्पमण्डले पुरुषः सोऽहम्" इत्यनेन। तदेकत्वं तिरोधायादित्यशररिपुरुषौ यदा विहीयेते वियुक्तौ भवत इत्येकमरिष्टम्। तत्र लिङ्गम् — चन्द्रमा इवादित्यो दृश्यते न रश्मयः प्रादुर्भवन्तीति। रश्मय उष्णाः।मञ्जिष्ठावत् द्यौर्लोोहिनी दृश्यते इति द्वितीयम् ।पायुद्वारं व्यस्तं विवृत्तं दृश्यते इति तृतीयम्। काकनीडसदृशगन्धमस्य शिरो भवतीति चतुर्थम्। एषामन्यतरस्मिन् सम्पन्नेऽस्यात्मा जीवो मृतो न चिरञ्जीविष्यतीति निश्चिनुयात्। ततः किमिस्याह-स यदिति। करणीयं, लौकिकं वैदिकं च। तावद्विलम्बसिद्ध्यर्थंयदन्तीत्यादिका ऋचो जपेत्। अरिष्टान्तरं दर्शयति अथेति। सूर्यो रथचक्रनाभिरिवसच्छिद्रो भवति, स्वच्छायां वा सच्छिद्रां पश्येत्, तदपि पूर्ववत्। आदर्शो, दर्पणः। अत्रादर्शोदकाभ्यां प्रतिबिम्बयोग्यानि स्वच्छानि स्वड्गादीन्युपलक्ष्यन्ते । तेषु प्रतिबिम्बयोग्येषु द्रव्येषु आत्मानं स्वकीयं देहं जिह्मशिरसं कुटिलशिरसं शिरोरहितं वा पश्येदिति निमित्तद्वयम्। कन्याके, अक्षिकनीनिके, प्रतिबिम्बितचक्षुर्गर्तमध्ये विपर्यस्ते शुक्लमण्डलमघ्न्येकृष्णमण्डलमिति यथास्थितचक्षुःसन्निवेशापेक्षया विपरीते, जिह्मेन वा, वक्रत्वेन वा उपलक्षिते इति
निमित्तद्वयमेवं निमित्तचतुष्टयम्। अरिष्टसूचकमरिष्टान्तरं दर्शयति — अथापीति। अक्षिणी नेत्रे अपिधायाच्छाद्य निमील्येत्यर्थः । उपेक्षेत पश्येत्, अपाङ्गाववष्टभ्येति शेषः। बटरकाणि, नानावर्णानि कार्पासपटलानीव सम्पतन्ति पतमानानि पश्येत्। इदं च वस्तुगतिकथनम्। बटरकाणि यदा न पश्येत् नावलोकयेत् तदपि एवमेव, पूर्वोक्तारिष्टवदेव विद्यात् जानीयात् । अरिष्टान्तरं दर्शयति— अथापीति। अत्रापि वस्तुगतिकथनम्। सर्वो हि लोकः कर्णौस्वश्रोत्ररन्ध्रे अपिधाय, स्वाङ्गुलीभ्यां दृढमिति शेषः। शृणुयात्, शब्दस्य साक्षात्कारं कुर्यात्करोति । स एषः, स शब्दः, प्रज्वलतोऽग्नेरिव, रथस्येव, वेगेन गच्छत इति शेषः। उपब्दिः, घोषः। प्रज्वलतोऽग्नेर्घोष इववेगेन गच्छतो रथस्य घोष इवेति वस्तुस्थितिः। तं यदा न शृणुयात् तदापि एवमेव पूर्वोक्तमिव विद्यात् । अरिष्टान्तरं दर्शयति — अथापीति। यथा मयूरस्य शिखण्डिनो ग्रीवानीललोहिता तथाग्निर्नील इव दृश्यते तदप्यरिष्टान्तरम्। अमेघे, मेघरहिते निर्मलाकाशे, विद्युतं, परैरदृश्यमानामितिशेषः। पश्येदवलोकयति। मेघे वा विद्युतं, परैर्दृश्यमानामितिशेषः। न पश्येत्। महामेघे, वर्षर्तुमध्ये भूमौ सर्वत्रान्धकारमापादयन् प्रौढोमेघो मध्याह्नादिकाले कदाचिद्भवति स महामेघस्तस्मिन् महामेघे। मरीचीरिव सूर्यरश्मीनिव पश्येत् एवं चत्वार्यरिष्टानि।अथापीति। यत्र भूमिं शुष्कतृप्पलोष्टादिराहितां केवलां मृत्तिकां ज्वलतींज्वालायुक्तामिव पश्येत् इत्येकमारष्टम्।उदाहृतानामरिष्टानामुपसंहार — इति प्रत्यक्षदर्शनानीति।जागरावस्थायामपि प्रत्यक्षेण दृश्यमानान्यरिष्टानि ज्ञेयानि। अथ राज्ञो युद्धार्थं प्रस्थितस्वषड्दिनपर्यन्तं प्रस्थानमभिहितं सप्तमे दिने यात्रा। तत्र विष्णु-
धर्मोत्तरे षष्ठे दिने जयस्नानमभिहितम्—
षष्ठेऽहनि जयस्नानं कर्तव्यं च तथा भवेत्।
विधिस्तस्याभिषेकार्थः सर्व एव विधीयते॥
इत्यादिना । तद्विधिश्चलिङ्गपुराणेऽभिहितः। तथा हि महादेवं प्रति मनोः प्रश्नः।
शक्राय कथितं पूर्वंधर्मकामार्थमुक्तिदम्।
जयाभिषेकं देवेश वक्तुमर्हसि मे प्रभो॥
सूत उवाच।
तस्मै देवो महादेवो भगवान्नीललोहितः।
जयाभिषेकमखिलमवदत्परमेश्वरः॥
शिव उवाच।
जयाभिषेकं वक्ष्यामि नृपाणां हितकाम्यया।
अपमृत्युजयार्थंतु सर्वशत्रुजयाय च।
युद्धकाले च सम्प्राप्ते कृत्वेदमभिषेचनम्।
स्वपत्नींचाभिषिच्यैवं गच्छेद्योद्धुंरणाजिरे॥
विधिना मण्डपं कृत्वा प्रपां वा कूटमेव वा।
नवधा स्थापयेद्वह्निंब्राह्मणो वेदपारगः॥
ततः सर्वाभिषेकार्थेसूत्रपातं च कारयेत्।
प्रागाद्यंवर्णसूत्रं च दक्षिणाद्यं तथा पुनः॥
सहस्राणां द्वयं तत्र शतानां च चतुष्टयम्।
शेषमेकं तथा कोष्ठं तेषु कोष्ठानि संहरेत्॥
बाह्येवीथ्यां पदं चैकं समन्तादुपसंहरेत्।
अङ्गसूत्राणि सङ्गृह्यविधिना पृथगेव तु।
प्रागाद्यं वर्णसूत्रं च दक्षिणाद्यं तथा पुनः।
प्रागाद्यं दक्षिणाद्यं च षट् रेखाः संहरेत्क्रमात्॥
प्रागाद्याः पङ्क्तयः सप्त दक्षिणाद्यास्तथा पुनः।
तस्मादेकोनपञ्चाशत्पङ्क्तयःपरिकीर्तिताः॥
न च पङ्क्तिंहरेन्मध्ये गन्धगोमयवारिणा।
कमलं वा लिखेत्तत्र हस्तमात्रं सुशोभनम्॥
अष्टपत्रं सितं वृत्तं कर्णिकाकेसरान्वितम्।
अष्टाङ्गुलप्रमाणेन कार्णेका हेमसन्निभा॥
चतुरङ्गुलमानेन केसरस्थानमुच्यते।
धर्मं ज्ञानं च वैराग्यमैश्वर्यंच यथाक्रममम्॥
आग्नेयादिषु कोणेषु स्थापयेत्प्रणवेन तु।
अव्यक्तादीनि वै दिक्षु गोत्राचारेण विन्यसेत्॥
अव्यक्तो नियतः कालः कला चेति चतुष्टयम्।
सितरक्तहिरण्याभकृष्णा धर्मादयः क्रमात्॥
हंसाकारेण वैगात्रं हेमाभासेन सुव्रत\।
शक्तिराधारमध्ये तु कमलं सृष्टिकारणम्॥
बिन्दुमात्रं कलामध्ये नादाकारमतः परम्।
नादोपरि शिवं ध्यायेदोङ्काराख्यं जगद्गुरुम्॥
मनोन्मनीं पदान्तस्थां महादेवं च भावयेत्।
वामादयःक्रमेणैव प्रागाद्याः केसरेषु वै॥
वामा ज्येष्ठा तथा रौद्री कला विकरणी तथा।
बलप्रमथनी देवी दमनी च यथाक्रमम्॥
वामदेवादिभिः सार्द्धंप्रणवेन तु विन्यसेत्।
नमोऽस्तु वामदेवाय नमो ज्येष्ठाय शूलिने।
रुद्राय कालरूपाय कलाविकरणाय च।
बलानां च तथा सर्वभूतस्य दमनाय च॥
मनोन्मनाय देवाय मनोन्मन्यै नमो नमः।
मन्त्रैरेतैर्यथान्यायं पूजयेन्मण्डलोपरि॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु।
द्वितीयावरणे चैव शक्तयः षोडशैव तु॥
तृतीयावरणे चैव चतुर्विंशदनुक्रमात्।
पिशाचवीथी वै मध्ये नाभिवीथी समन्ततः।
पिशोचानां50 हि मध्ये तु महावीथी प्रकीर्तिता।
अष्टोत्तरसहस्रं तु पदमष्टारसंयुतम्॥
तेषु तेषु पृथक्त्वेन पदेषु कमलं क्रमात्।
कल्पयेच्छालिनीवारगोधूमाणुयवादिभिः॥
तण्डुलैश्चतिलैर्वाथ गौरसर्षपसंयुतैः।
अथ वा कल्पयेदेतैर्यथाकालं विधानतः॥
अष्टपत्रं लिखेत्तेषु कर्णिकाकेसरान्वितम्।
शालीनामाढकं प्रोक्तं कमलानां पृथक् पृथक्॥
तण्डुलानां तदर्द्धंस्यात्तदर्द्धं तु यवादयः।
द्रोणं प्रधानकुम्भस्य तदर्द्धं तण्डुलाः स्मृताः॥
तिलानामाढकं मध्ये यवानां च तदर्द्धकम्।
अर्ध्याम्भसा समभ्युक्ष्य कमलं प्रणवेन तु॥
तेषु सर्वेषु विधिना प्रणवं च न्यसेक्क्रमात्।
एवं समाप्य चाभ्यर्च्य पदसाहस्रमुत्तमम्॥
कलशानां सहस्राणि हैमानि च शुभानि तु।
उक्तलक्षणयुक्तानि कारयेद्राजतानि वा॥
ताम्रजानि यथान्यायं प्रणवेनार्ध्यवारिणा।
द्वादशाङ्गुलविस्तारमुदरे समुदाहृतम्॥
वर्त्तितस्तु तदर्द्धेन नाभिस्तस्य विधीयते।
कण्ठं च द्व्यङ्गुलोत्सेधं विस्तारं चतुरङ्गुलम्॥
ओष्ठं तु द्व्यङ्गुलोत्सेधं निर्गमं तु द्विरङ्गुलम्।
तस्माद्वै द्विगुणं दिव्यं शिवकुम्भं प्रकीर्त्तितम्॥
यवमात्रान्तरं सम्यक् तन्तुनावेष्ट्य कीर्त्तिताः।
————————————————————————————————————————————
अत्र मुद्रितलिङ्गपुराणे - यवमात्रान्तरं सम्यक्तन्तुनावेष्टयेद्धिवै। इति पाठपूर्वकम्- “अवगुण्ठ्य तथाभ्युक्ष्य कुशोपरि यथाविधि पूर्ववत्प्रणवेनैव पूरयेद्गन्धवारिणा।स्थापयेच्छिवकुम्भाढ्यं वर्धनींच विधानतः। मध्यपद्मस्य मध्ये तु सकूर्चंसाक्षतं क्रमात्॥ आवेष्ट्यवस्त्रयुग्मेन प्रच्छाद्यकमलेन तु। हैमेन चित्ररत्नेन सहस्रकलशं पृथक्॥ शिवकुम्भे शिवं स्थाप्यगायत्र्या प्रणवेन च। विद्महे पुरुषायैव महादेवाय धीमहि। तन्नो रुद्रः प्रचोदयात्। मन्त्रेणानेन रुद्रस्य सान्निध्यं सर्वदा स्मृतम्। वर्धन्यां देव गायत्र्या देवीं संस्थाप्य पूजयेत्॥ गणाम्बिकायै विद्महे महातपायै धीमहि। तन्नो गौरी प्रचोदयात्। प्रथमावरणे चैव वामाद्याः परिकीर्तिताः। प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु॥ शक्तयः षोडशैवात्र पूर्वाद्यं तेषु सुव्रत। ऐन्द्रव्यूहस्य मध्ये तु सुभद्रां स्थाप्य पूजयेत् ॥ भद्रामाग्नेयके तु याम्ये तु कनकाण्डजाम्य़।अम्बिकां नैर्ऋते व्यूहे मध्यकुम्भे तु पूजयेत्॥ श्रीदेवीं वारुणे भागे वागीशां वायुगोचरे। गोमुखीं सौम्यभागे तु मध्ये कुम्भे तु पूजयेत्॥ रुद्रव्यूहस्य मध्ये तु भद्रकर्णींसमर्चयेत्। ऐन्द्राग्निविदिशोर्मध्ये पूजयेदणिमां शुभाम्॥ याम्यपावकयोर्मध्ये लघिमां कमले न्यसेत्। राक्षसान्तकयोर्मध्ये महिमां मध्यतो यजेत्॥ वरुणासुरयोर्मध्ये प्राप्तिं वै मध्यतो यजेत्॥ वरुणानिलयोर्मध्ये प्राकाम्यं कमले न्यसेत्॥ वित्तेशानिलयोर्मध्ये ईशित्वं स्थाप्य पूजयेत्। वित्तेशेशानयोर्मध्ये वशित्वं स्थाप्य पूजयेत्॥ ऐन्द्रेशेशानयोर्मध्ये यजेत्कामावसा-
या देवताः सर्वाः प्रधानकलशेषु च॥
पूजयेद्व्यूहमध्ये च पूर्ववद्विधिपूर्वकम्।
दक्षां दक्षायिकां चैव चण्डां चण्डायिकां तथा॥
हरां हरायिकां चैवशौण्डां शौण्डायिकां तथा।
प्रथमां प्रथमायिकां मन्मथां मन्मथायिकाम्॥
भीमां भीमायिकां चैवशकुनिं शकुनायिकाम्।
सुमतिं च सुमत्यायीं गोपींगोपायिकां तथा॥
अथ नन्दं च नन्दायीं पितामहमतः परम्\।
पितामहायीं पूर्वायां विधिवत्स्थाप्य पूजयेत्॥
एवं सम्पूज्य विधिना तृतीयावरणं शुभम्।
सौभद्रव्यूहमासाद्य प्रथमावरणे क्रमात्॥
प्रागाद्यं स्थाप्य विधिना शक्त्यष्टकमनुक्रमात्।
द्वितीयावरणे चैव प्रागाद्यं शृणु शक्तयः॥
षोडशैव समभ्यर्च्य पद्ममुद्रां प्रदर्शयेत्।
बिन्दुका बिन्दुगर्भा च नादिनी नादगर्भजा॥
शक्तिका शक्तिगर्भा च परा चैवपरापरा।
प्रथमावरणेऽष्टौ च शक्तयः परिकीर्तिताः॥
चण्डा चण्डमुखी चैत्र चण्डवेषा मनोजवा।
चण्डाक्षी चण्डनिर्घोषा भ्रुकुटी चण्डनायिका॥
मनोद्भवा मनोऽध्यक्षा मानसी माननायिका।
मनोहारी मनोह्रादी मनःप्रीतिर्महेश्वरी॥
द्वितीयावरणे चैत्र षोडशैव प्रकीर्तिताः।
यकम्। द्वितीयावरणं प्रोक्तं तृतीयावरणं शृणु।" इत्यधिकं वर्तते अपेक्षितं च।
१ शक्तयस्तु चतुर्विंशत्प्रधानकलशेषु च। इति च पाठः।
सौभद्रं कथितं व्यूहं भद्रव्यूहं शृणुष्व मे॥
ऎन्द्री हुताशनी याम्या नैर्ऋती वारुणी तथा।
वायव्या चैव कौबेरी ऐशानी चाष्टशक्तयः।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु।
हरिणी च सुवर्णा च काञ्चनी हाटकी तथा॥
रुक्मिणी च51नमस्या च सुभगा जम्बुनायिका।
वाग्भवा वाक्पथा वाणी भीमा चित्ररथा सुधीः॥
वेदमाता हिरण्याक्षी द्वितीयावरणे स्मृताः।
भद्राख्यं कथितं व्यूहं कनकाख्यं शृणुष्व मे॥
वज्रं शक्तिश्च दण्डच खड्गं पाशो ध्वजस्तथा।
गदा त्रिशुलं क्रमशः प्रथमावरणे स्मृताः॥
बुद्धा प्रबुद्धा चण्डा च मुण्डा चैव कपालिनी।
मृत्युहन्त्री विरूपाक्षी कपर्दी कमलासना॥
दंष्ट्रिणी रङ्गिणी चैव लम्बाक्षी कङ्कभूषणी।
सम्भवा शाङ्गिणी52 चैव षोडशैताः प्रकीर्तिताः।
कथितं कनकव्यूहमम्बिकाख्यं शृणुष्व मे।
खेचरी सर्वनामा च शमनी ब्रह्मरूपिणी॥
चलिनी बलनामा च महिमाऽमृतलालसा।
प्रथमावरणे चाष्टौशक्तयः सर्वसम्मताः।
शङ्खिनीशिखरा देवी मृदुरत्ना सुशीतला॥
छाया भूतधनी धन्या इन्द्रमाता च वैष्णवी।
तृष्णा रागवती मोहा कामकोपा मदोत्कटा॥
इन्द्रा च वधिरा देवी षोडशैताः प्रकीर्त्तिताः।
कथितं चाम्बिकाव्यूहं श्रीव्यूहं शृणु सुव्रत॥
स्पर्शा स्पर्शवती गन्धा प्राणापानसमानका।
उदाना व्याननामा च प्रथमावरणे स्मृताः॥
तमोहता प्रभा मोघा तेजनी दहनी तथा।
भीमास्या ज्वालिनी शेषा शोषिणी रुद्रनायिका।
वीरभद्रा गणाध्यक्षा चन्द्राहासा च गह्वरा।
गणमाताऽम्बिका चैव शक्तयः सर्वसम्मताः॥
द्वितीयावरणे प्रोक्ताः षोडशैव यथाक्रमात्।
श्रीव्यूहं कथितं भद्रं वागीशं शृणु सुव्रत॥
धारा वारिधरा चैव वाह्निकी वायसी तथा।
मर्त्त्यातीता महामाया वज्रिणी कामधेनुका॥
प्रथमावरणेऽप्येवं शक्तयोऽष्टौ प्रकीर्तिताः॥
पयोष्णी वारुणी शान्ता जयन्ती च वरप्रदा॥
प्लाविनी जलमाता च पयोमाता महाम्बिका।
रुक्ता कराली चण्डाक्षी महोच्छुष्मा पयस्विनी॥
माया विद्येश्वरी काली कालिका च यथाक्रमम्।
षोडशैव समाख्याताः शक्तयः सर्वसम्मताः॥
व्यूहं वागीश्वरं प्रोक्तं गोमुखं व्यूहमुच्यते।
शङ्किनी हलिनी चैव लम्बकर्णा च कल्किनी॥
यक्षिणी मालिनी चैव वमनी वरमानिनी।
प्रथमावरणे चैव शक्तयोऽष्टौ प्रकीर्तिताः॥
चण्डा घण्टा महानादा सुमुखी दुर्मुखी बला।
रेवती प्रथमा घोरा सौम्या53 लीना महाबला॥
जया च विजया चैव अजिता चापराजिता।
द्वितीयावरणे चैताः शक्तयः षोडशैव तु॥
कथितं गोमुखं व्यूहं भद्रकर्णी शृणुष्व मे।
महाघण्टा54 विरूपाक्षी शुष्काभाकाशमातृका॥
संहारी जातहारी च दंष्ट्राली शुष्करेवती।
प्रथमावरणे चाष्टौ शक्तयः परिकीर्तिताः॥
पिपीलिका पुष्पहारी अशनी सर्वहारिणी।
भद्रहारी शुभाचारी हेमा योगेश्वरी तथा॥
चित्रा भानुमती छिद्रा सैंहिकी सुरभी यमा।
सर्वानंन्दा55 खगाख्या च शक्तयःषोडशैव तु॥
महाव्यूहाष्टकं प्रोक्तमुपव्यूहाष्टकं शृणु।
अणिमाव्यूहमावेष्ट्यप्रथमावरणे क्रमात्॥
ऐन्द्री च चित्रभानुश्च वारुणी दण्डिरेव च।
प्राणरूपी तथा हंसः स्वात्मशक्तिः पितामहः॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु।
केशवो भगवान् रुद्रश्चन्द्रमा भास्करस्तथा॥
ईश्वरश्व तथा ह्यात्मा ह्यन्तरात्मा महेश्वरः।
परमात्मा ह्यणुर्जीवःपिङ्गलः पुरुषः पशुः॥
भोक्ता च भूपतिर्भावो द्वितीयावरणे स्मृताः।
कथितं चाणिमाव्यूहं लघिमाख्यं वदामि ते॥
श्रीकण्ठः56 श्रीधरः श्रीशः सत्यकश्च तथा वरः।
अमरेशः स्थितीशश्च भारभूतस्तथाष्टमः॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु।
स्थाणुर्हरश्च चण्डेशो भूतीशः सुरपुङ्गवः॥
सद्योजातो गुहेशश्च सूरसेनः सुरेश्वरः।
क्रोधीशश्च तथा चण्डःप्रचण्डःशिव एव च॥
एकरुद्रस्तथा कुर्चस्त्वेकनेत्रश्चतुर्मुखः।
द्वितीयावरणे रुद्रा षोडशैव प्रकीर्त्तिताः॥
कथितं लघिमाव्यूहंमहिमां शृणु सुव्रत।
अजेशः क्षेमरुद्रश्चसोमेशो लाङ्गली तथा॥
चण्डारुश्चार्द्धनारीश एकान्तश्चान्त एव च।
प्रथमावरणं57 प्रोक्तं द्वितीयावरणं श्रृणु॥
शिखीशः58 शकलश्चण्डो द्विरण्डःकल एव च।
पाली भुजङ्गनामा च पिनाकी खड्गिरेव च॥
काम ईशस्तथा श्वेतो भृगुः षोडश वै स्मृताः।
कथितं महिमाव्यूहं प्राप्तिव्यूहं शृणुष्व मे॥
संवर्त्तोलकुलीशश्च वाडवो हस्तिरेव च।
चण्डयक्षो गणपतिर्महाभृगुरजोऽष्टमः॥
प्रथमाचरणं प्रोक्तं द्वितीयावरणं शृणु।
त्रिविक्रमो महाजिह्वोध्वाङ्क्षः59श्रीभद्र एव च॥
महादेवो दधीचश्च कुमारश्चपरावरः।
महादंष्ट्रःकरालश्च सूचकच सुवर्धनः॥
महाध्वाङ्क्षोमहानन्दी गण्डो60 गोपालकस्तथा।
प्राप्तिव्यूहं समाख्यातं प्राकाम्यं शृणु सुव्रत॥
पुष्पदन्तो महानन्दो विपुलानन्दकारकः।
शुल्को61बिडालः कमलो बिल्वश्चारुण एव च॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु।
रतिप्रियः सुरेशानश्चित्राङ्गश्च सुदुर्जयः॥
विनायकः क्षेत्रपालो महामोहश्च जाङ्गलः।
वत्सपुत्रो महापुत्रो ग्रामदेशाधिपौ तथा॥
सर्वस्थानाधिपो देवो मेघनादः प्रचण्डकः।
कालदूतश्चकथितो द्वितीयावरणं स्मृतम्॥
प्राकाम्यं कथितं व्यूहमैश्वर्यं कथयामि ते।
मङ्गला चर्च्चिका चैव योगीशा वरदायिका॥
भासुरा सुरमाता च सुन्दरी मातृकाष्टमी।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु॥
गणाधिपश्च मन्त्रज्ञो वामदेवः षडाननः।
विदग्धश्च विचित्रश्च अमोघो मोघ एव च।
अश्वो62 भद्रश्च सोमेशश्चोत्तमोदुम्बरस्तथा॥
नारसिंहश्व विजयस्तथा इन्द्रग्रहः प्रभुः।
अपांपतिश्च विधिना द्वितीयावरणं स्मृतम्॥
ऐश्वर्यंकथितं व्यूहं वशित्वं कथयाम्यतः।
गगनो भुवनश्चैव विजयो ह्यजयस्तथा॥
महाजयस्तथाङ्गारो व्यङ्गारश्च महायशाः।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु॥
महाहर्षः63 प्रचण्डेशो महावर्णो महासुरः।
महारोमा महागर्भः प्रथमः कनकस्तथा॥
खरजो गरुडश्चैव मेघनादोऽथ गर्भकः।
गजत्वक्च्छेदको64 वाहस्त्रिशिखो सारिरेव च॥
वशित्वं कथितं व्यूहं शृणु कामावसायिकम्।
विनादो विकटश्चैव वसन्तो ऽभय एव च॥
विद्युन्महाबलचैव कमलो दमनस्तथा।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु॥
धर्मश्चातिबलः सर्पो महाकायो महाहनुः।
सबलश्चैव भस्माङ्गी दुर्जयो दुरतिक्रमः॥
वेतालो रौरवश्चैव दुर्द्धराभोग एव च।
वज्रःकालाग्निरुद्रश्च सिंहनादो65 महागुहः॥
द्वितीयावरणं प्रोक्तं व्यूहं कामावसायिकम्।
कथितं षोडशव्यूहं द्वितीयावरणं शृणु॥
द्वितीयावरणे चैव दक्षव्यूहे च शक्तयः।
प्रथमावरणे चाष्टौवाह्ये षोडश एव च॥
मनोहरा महानादा चित्रा चित्ररथा तथा।
रोहिणी चैव चित्राङ्गी चित्ररेखा विचित्रिका।
प्रथमावरणे प्रोक्ता द्वितीयावरणे शृणु।
चित्रा विचित्ररूपा च शुभदा कामदा शुभा॥
क्रूरा च पिङ्गला देवी खड्गिका लम्बिका सती।
दंष्ट्राली राक्षसी ध्वंसी लोलुपा लोहितामुखी॥
द्वितीयावरणे प्रोक्ताः षोडशैव समासतः।
दक्षव्यूहं समाख्यातं दाक्षव्यूहं शृणुष्व मे॥
सर्वाशिनी66 विश्वरूपा लम्पटा चामिषप्रिया।
लम्बोष्ठी दीर्घदंष्ट्रा च लम्बजानुः प्रहारिणी॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु।
गजकर्णाश्वकर्णा च महाकाली सुभीषणा॥
वातवेगरवा घोरा घना घनरवा तथा।
घोरघोषा महाघण्टा सुघण्टा घण्टिका तथा॥
घण्टेश्वरी महाघोरा घोरा चैवातिघोरिका।
द्वितीयावरणे चैव षोडशैव प्रकीर्त्तिताः॥
दाक्षव्यूहं समाख्यातं चण्डाव्यूहं शृणुष्व मे।
अतिघण्टातिघोरा च कराला करका तथा॥
विभूतिर्भोगदा कान्तिः शङ्खिनी चाष्टमी स्मृता।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु॥
पत्रिणी चैव गान्धारी योगमाता सुपीवरा।
उत्तालकोत्सुका67 वीरा संहारी रमणी तथा॥
फलहारी जीवहारी स्वेच्छाहारी च तुण्डिका।
रेवती रङ्गिणी सङ्गा द्वितीये षोडशैव तु॥
चण्डाव्यूहं समाख्यातं चण्डायीव्यूहमुच्यते।
चण्डी चण्डमुखी चण्डा चण्डवेगा महारवा॥
भ्रुकुटी चण्डरूपा च चण्डभ्रूश्चाष्टमी स्मृता।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु॥
चण्डघ्राणा चला चैव चलजिह्वाचलेश्वरी।
चलवेगा महाकाया महामाया च विद्युता॥
कङ्काली च कृशाङ्गी च किंशुका चण्डघोषिका।
महाहासा महारावा चण्डभाऽनङ्गचण्डिका।
चण्डाय्याः कथितं व्यूहं हरव्यूहं शृणुष्व मे।
चण्डाक्षी कामदा देवी शूकरी कुक्कुटानना॥
गान्धारी दुन्दुभिर्दुर्गा सौमित्रा चाष्टमी स्मृता।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु॥
अमृतोद्भवा महालक्ष्मीर्वर्णदा जीवरक्षिणी।
हरिणी क्षीणजीवा च चन्द्रवक्राचतुर्भुजा॥
व्योमचारी व्योमरूपा व्योमव्यापी शुभोदया।
गृहचारी सुचारी चं विषाहारी विषान्तिका॥
हरव्यूहं समाख्यातं हरायीव्यूहमुच्यते।
जम्भाऽच्युता च कङ्कारी देविका दुर्धरावहा॥
चण्डिका चपला चेति प्रथमावरणे स्मृताः।
चण्डिका चामरी चैव भण्डिका च शुभानना॥
पिण्डिनी मुण्डिनी मुण्डा डाकिनी शार्ङ्गरी तथा।
कर्तरी हर्त्तरी चैवभामिनी यज्ञदायिनी॥
यमदंष्ट्रा महादंष्ट्रा कराला चेति शक्तयः।
हराय्याः कथितं व्यूहं शौण्डाव्यूहं शृणुष्व मे॥
विकराली कराली च कालजङ्घा यशस्विनी।
वेगा वेगवती विद्या वेदाङ्गा चाष्ट शक्तयः॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु।
वज्रा68शङ्खवती शङ्खा बला चैकवला तथा॥
बलाचातिबला लोला कुम्भिनी स्तम्भिनी तथा।
अञ्जनी मोहनी माया विकटाङ्गी नली तथा।
शौण्डाव्यूहं समाख्यातं शौण्डायीव्यूहमुच्यते।
दन्तुरा रौद्रभागा च अमृता सुकुला तथा॥
चलजिह्वार्धनेत्रा च रूपिणी दारिका तथा।
प्रथमावरणस्यैता द्वितीयावरणे शृणु॥
खादका रूपनाशा च संहारी चाक्षयान्तका।
कण्डनी पेषणी चैव महाग्रासा कृतान्तिका॥
दण्डिनी किङ्करी बिम्बावर्णिनी चामलाङ्गिनी।
विद्राणी द्रविणी चेति शक्तयः षोडशैव तु ॥
कथितं हि मनोरम्यं शौण्डायीव्यूहमुत्तमम्।
प्रथमाख्यं प्रवक्ष्यामि व्यूहं रम्यं सुशोभनम्॥
प्लवनी प्लावनी शोभा मन्दा चैव मदोत्कटा।
मदाक्षया महादेवी प्रथमावरणे स्मृताः॥
कामसन्दीपनी देवी अतिरूपा मनोहरा।
महावशा मदग्राहा विह्वला मदविह्वला॥
अरुणा घोषणी दिव्या रेवती भाण्डनायिका।
स्तम्भनी घोररक्ताक्षी घोररूपा सुघोषणा।
व्यूहं तु प्रथमाख्यं ते स्वायम्भुव यथा तथा।
कथितं प्रथमाय्याख्यं प्रवक्ष्यामि शृणुष्व मे॥
घोरा घोरतरा घोरा अतिघोराघनायिका।
धावनी क्रोष्टुकी मुण्डा चाष्टमी परिकीर्तिता।
तथा। अञ्जनी मोहनी माया विकटाङ्गी नली तथा॥ गण्डकी दण्डकी घोणा शोणा सत्यवती तथा। कल्लोला नेति क्रमशः षोडशैव यथाविधि॥” इति पाठः।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु।
भीमा भीमतराऽभीमा शस्त्री चैव सुवर्चला॥
स्तम्भनी मोहनी रौद्री रुद्रवत्यचलाचला।
महाबला महाशान्तिः शिवाशीला शिवाशिवा।
बृहत्कुक्षी बृहन्नासा षोडशैव प्रकीर्त्तिताः॥
प्रथमायी समाख्याता मन्मथाख्यं वदामि ते।
कालकर्णी कराला च कल्याणी कपिला शिवा॥
इष्टिस्तुष्टिःप्रतिष्ठा च प्रथमावरणे स्मृताः।
शान्तिः पुष्टिकरी तुष्टिर्जया चैव श्रुतिर्धृतिः॥
कामदासुभगा सौम्या तेजनी कामतन्त्रिका\।
धार्मिकी धर्मिणी शीला पापहा धर्मवर्द्धनी॥
मान्मथं कथितं व्यूहं मान्मथायिकमुच्यते।
धर्मरक्षा निवाता च धर्माधर्मवती तथा॥
सुमतिदुर्मतिर्मेधा विमला चाष्टमी स्मृता।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु॥
शुद्धिर्बुद्धिर्मतिः कान्तिर्वर्तुला मोहावर्द्धनी।
बला चातिबला भीमा प्राणवृद्धिकरी तथा॥
निर्लज्जा निर्घृणा मन्दा सर्वपापक्षयङ्करी।
कपिला चातिविधुरा षोडशैताः प्रकीर्त्तिताः॥
मान्मथायिकमुक्तं ते भीमाव्यूहं वदामि ते।
रक्ता चैव विरक्ता च उद्वेगा शोकवर्द्धनी॥
कामा तृष्णा क्षुधा मोहा चाष्टमी परिकीर्तिता।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु॥
जया निद्राऽभयालस्या सुतृष्णा रोदनी दरा।
कृष्णाकृष्णाङ्गिनी वृद्धा शुद्धोच्छिष्टाशनी वृषा॥
कामदा भोगिनी दग्धा दुःखदा सुखदा तथा।
भीमाव्यूहं मया प्रोक्तं भीमायीव्यूहमुच्यते॥
आनन्दा च सुनन्दा च महानन्दा शुभङ्करी।
वीतरागा महोत्साहा जितरागा मनोरमा।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु।
मनोन्मनी मनःक्षोभा मदोन्मादा मदाकुला॥
मदोद्गर्भा मदारामा कामानन्दा सुविह्वला।
महावेगा सुवेगा च महाभोगा क्षयावहा॥
क्रमणी क्रामिणी चक्रा द्वितीयावरणे स्मृताः।
कथितं तव भीमायीव्यूहं परमशोभनम्॥
शाकुनं कथाम्यद्य व्यूहं परमशोभनम्।
योगावेगा सुवेगा च अतिवेगा सुवासिनी॥
देवी मनोरथावेगा रुद्रावर्तवती69 मतिः।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु॥
रोधनी क्षोभणी बाला चातिघोषा सुघोषिणी।
विद्युता त्रासनी देवी मनोवेगा च चापला॥
विद्युज्जिह्वामहाजिह्वा भ्रुकुटीकुटिलानना।
स्फुरज्ज्वाला महाज्वाला सुज्वाला च क्षयान्तिका।
शाकुनं कथितं व्यूहं शाकुनायींशृणुष्व मे।
ज्वालिनी चैव भस्माङ्गीतथा भस्मान्तकान्तका॥
भाविनी च प्रजा विद्या ख्यातिश्चैवाष्टमी स्मृता।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु।
उल्लेखा च पताका च भोगा भोगवती खगा।
योगव्रता योगमाता योगाख्या योगपारगा।
ऋद्धिर्बुद्धिर्धृतिः कान्तिः स्मृतिः साक्षाच्छुतिर्धरा॥
शाकुनाय्या महाव्यूहं कथितं कामदायकम्।
स्वायम्भुव तथा व्यूहं सुमताख्यं सुशोभनम्॥
परेष्टा च परादित्या ह्यमृता फलनाशिनी।
हरिणाक्षी सुवर्णाक्षी देवी साक्षात्कपिञ्जला॥
कामरेखा च कथितं प्रथमावरणं शुभम्।
रत्नद्वीपा वसुदीपा रत्नदा रत्नमालिनी॥
रत्नशोभा सुशोभा च महाशोभा महाद्युतिः।
शबरी शाम्बरी ग्रन्थिपादकर्णकरानना॥
हयग्रीवाच जिह्वाच सर्वग्रासेतिशक्तयः।
कथितं सुमतव्यूहं सुमत्या व्यूहमुच्यते॥
सर्वाशी च महाभक्षा महादंष्ट्रातिरौरवा\।
स्फुलिङ्गा विस्फुलिङ्गा च कृतान्ता भास्करानना॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु।
रागा रागवती क्रोधा महाक्रोधा च रौरवा।
क्रोधनी सूदनी चै व कलहा कलहावती।
कलान्तिका चतुर्भेदा दुर्गा वै दुर्गमानगा॥
नाली कुनाली सौम्या च इत्येवं कथितं मया।
गोपाव्यूहं वदाम्यद्य शुणु स्वायम्भुवाखिलम्॥
पाटली पाटवी चैव पाटी विटिपिटा तथा।
कङ्कटा सुघटा चैव प्रघटा च घटोद्भवा॥
प्रथमावरणं चात्र गोपायाः कथितं मया।
नादाक्षी नादरूपा च सर्वकारागमागमा॥
अग्रचारी सुचारी च चण्डनाडी सुवाहिनी।
सुयोगा च वियोगा च हंसाक्षी च विलासिनी॥
सर्वगा सुविरावा च बन्धनी चेति शक्तयः।
गोपाव्यूहं मया ख्यातं गोपायीव्यूहमुच्यते।
भेदिनी छेदनी चैव सर्वकारी क्षुधाशनी।
उच्छुष्मा चैव गान्धारी भश्माशी वडवानला॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु।
अन्ववज्वालिनी ज्वाला दीपाक्षामा तथैव च॥
अन्तरीक्षा च हृल्लेखा हृद्रमा मायिकापरा।
आमयासादिनी भिल्ली सह्यासह्या सरस्वती॥
रुद्रशक्तिर्महाशक्तिर्महामोहा च रोदिनी।
गोपाय्याःकथितं व्यूहं नन्दाव्यूहं वदामि ते॥
नन्दिनी च निवृत्तिश्च प्रतिष्ठा च यथाक्रमम्।
विद्यानाशी खग्रसनी चामुण्डा प्रियदर्शनी॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु।
गुह्या नारायणी मोहा प्रज्ञादेवी च वज्रिणी॥
कङ्कटा च तथा काली शिवा घोषा ततः परम्।
वीरा माया च कामेशी वहिनी भीषणी तथा॥
स्वर्गा माला च निर्दिष्टा द्वितीयावरणे स्मृताः।
नन्दाव्यूहं समाख्यातं नन्दायीव्यूहमुच्यते॥
विनायकी पूर्णिमा च रङ्गिणी70 कूर्दनी तथा।
इच्छा कपालिनी चैव दीपनी च जयन्तिका॥
प्रथमावरणे चाष्टौशक्तयः परिकीर्त्तिताः।
पावनी चाम्बिका चैब सर्वाशा पूतना तथा।
छागली मोदिनी साक्षाद्देवीलम्बोदरी शुभा।
संहारी कालिनी चैव कुसुमा च यथाक्रमम्॥
शुक्रा तारा तथाज्ञाना क्रिया गायत्रिका तथा।
सावित्री चेतिविधिना द्वितीयावरणे स्मृताः॥
नन्दाय्याःकथितं व्यूहं पैतामहमतः शृणु।
दन्तुरी71 चैव फेत्कारी क्रोधहासा षडङ्गुला॥
आनन्दा च सुदुर्गा च संहारी ह्यमृताष्टमी।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु॥
कुलान्तिकाऽ नला चैवप्रचण्डा मर्दनी शुभा।
सर्वभूताभया चैव देवी च वडवामुखी।
लम्पटा पन्नगा देवी कुसुमा विपुलान्तिका।
केदारा स तथा कूर्मा दुरिता मन्दरोदरी॥
खड्गचण्डेति72 विधिना द्वितीयावरणं स्मृतम्।
व्यूहं पैतामहं प्रोक्तं धर्मकामार्थमोक्षदम्॥
पितामहायीव्यूहं च शृणुष्व कथयामि ते।
वज्रा च मन्मथा चोरा विकारा रिपुभेदिनी॥
रूपा चतुर्भुजा योगा प्रथमावरणे स्मृताः।
भूताभया महाबाला खर्प्परा च ततः परम्॥
भस्माकान्ता तथा सृष्टिर्द्विभुजा ब्रह्मरूपिणी।
सद्यःफेत्कारिका नाम कर्णमोटी तथापरा॥
महामोहा महामाया गान्धारी पुष्पमालिनी।
शब्दायी च महाघोषा षोडशैतास्तथान्तिमे।
सर्वाश्च द्विभुजा देव्यो बालभास्करसन्निभाः।
पद्मशङ्खधराः शान्ता रक्तस्रग्वस्त्रभूषणाः।
सर्वाभरणसम्पूर्णा मुकुटाद्यैरलङ्कृताः॥
मुक्ताफलमयैर्द्दिव्यै रत्नचित्रैर्मनोरमैः।
भूषिता हारकेयूरेर्गौरा ध्येयाः पृथक्पृथक्॥
एवं सहस्त्रकलशं ताम्रजं मृन्मयं तु वा।
पूर्वोक्तदक्षिणायुक्तं73 रौद्रक्षेत्रे प्रतिष्ठितम्॥
भवाद्यैर्विष्णुना प्रोक्तैर्नाम्नां चैव सहस्रकैः।
सम्पूज्य विन्यसेदग्रे सेचयेद्बाणविग्रहम्॥
अभिषिच्य च विज्ञाप्य सेचयेत्पृथिवीपतिम्।
एवं सहस्रकलशं सद्यःसिद्धिफलप्रदम्॥
चत्वारिंशन्महाव्यूहं सर्वलक्षणलक्षितम्।
सर्वेषां कलशं प्रोक्तं पूर्ववद्धेमनिर्मितम्॥
सर्वे गन्धोदकैः पूर्णास्तीर्थतोयसमन्विताः।
तथा कनकसंयुक्ता देवस्य घृतपूरिताः॥
क्षीरेण वाथ दध्ना वा पञ्चगव्येन वा पुनः।
ब्रह्मकूर्च्चेन वा मेध्यमभिषेको विधीयते॥
रुद्राध्यायेन रुद्रस्य नृपतेः शृणु सुव्रत॥
अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः।
सर्वेभ्यः सर्वसर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः॥
मन्त्रेणानेन राजानं सेचयेदभिषेचितम्।
होमं च मन्त्रेणानेन अघोरेणाघहारिणा॥
प्रागाद्यं देवकुण्डे वा स्थण्डिले वा घृतादिभिः।
समिदाज्यचरुं लाजशालिनीवारतण्डुलैः॥
अष्टोत्तरशतं हुत्वा राजानमधिवासयेत्।
पुण्याहं स्वस्तिरित्याद्यैः74 कौतुकं हेमनिर्मितम्॥
भसितं च मृदा75चैव बन्धयेद्दाक्षिणे करे।
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम्।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमामृतात्।
मन्त्रेणानेन राजानं सेचयेद्वाथ होमयेत्॥
सर्वद्रव्याभिषेकं च होमद्रव्यैर्यथाक्रमम्।
प्रागाद्यं ब्रह्मभिः प्रोक्तं सर्वद्रव्यैर्यथाक्रमम्॥
तत्पुरुषाय विद्महे महादेवाय धीमहि।
तन्नोरुद्रः प्रचोदयात्॥
स्वाहान्तं पुरुषेणैवं प्राक्कुण्डे होमयेद्द्विजः।
अघोरेण च याम्येऽथ होमयेत्कृष्णवाससा॥
वामदेवाय नमोज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः।
इत्याद्युक्तक्रमेणैव जुहुयात्पश्चिमे पुनः॥
सद्येन पश्चिमे होमः सर्वद्रव्यैर्यथाक्रमम्।
सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः।
भवेभवे नातिभवे भवस्वमां भवोद्भवाय नमः॥
स्वाहान्तं जुहुयादग्नौमन्त्रेणानेन बुद्धिमान्।
आग्नेय्यां च विधानेन ऋचा रौद्रेण होमयेत्॥
जातवेदसे सुनवामसोममित्यादि।
नैर्ऋते च तथा द्रव्यैः सर्वैर्होमो विधीयते॥
मन्त्रेणानेन दिव्येन सर्वसिद्धिकरेण च।
निशि निशि जय स्वाहा खड्ग राक्षसभेदन॥
रुधिराज्यार्द्रनैर्ऋत्यै स्वाहा नमः स्वधा नमः।
यथेदं विधिना द्रव्यैर्मन्त्रेणानेन होमयेत्॥
याम्यायां76 विविधैर्द्रव्यैरीशानेन द्विजोत्तमः।
समीर समीर स्वाहा स्वधा नमः।
ईशान्यामथ पूर्वोक्तैर्द्रव्यैर्होमं समाचरेत्।
ॐईशानाय कद्रुद्राय रुद्राय प्रेचेतसे त्र्यम्बकाय शर्वाय।
तन्नोरुद्रः प्रचोदयात्॥
प्रधानं पूर्ववद्द्रव्यैरीशाने च द्विजोत्तमः।
प्रतिद्रव्यं सहस्रेण जुहुयान्नृपसन्निधौ॥
स्वयं वा जुहुयादग्रौ पुरोहितमुखेन वा।
ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम्। ब्रह्माधिपतिर्ब्र
ह्मणोऽधिपतिर्ब्रह्मा शिवोमे अस्तु सदा शिवोम्॥
प्रायश्चित्तमघोरेण शेषं सामान्यमाचरेत्।
कृताधिवासं राजानं शङ्कभेर्यादिनिःस्वनैः॥
जयशब्दरवैर्दिव्यैर्वेदघोषैः सुशोभनैः।
सेचयेत्कूर्चतोयेन प्रोक्षयेद्वा नृपोत्तमम्॥
रुद्राध्यायेन विधिना रुद्रभस्मप्रभारुणम्।
शलाकाशतसम्पनं छत्रं चन्द्रसमप्रभम्॥
शिबिकां वैजयन्तीं च साधयेन्नृपतेः समम्।
राज्याभिषेकयुक्ताय क्षत्रियायेश्वराय वा॥
नृपचिह्नानि यान्येषां क्षत्रियाणां विधीयते।
वेदीप्रमाणं सर्वेषां द्वादशाङ्गुलमुच्यते।
पलाशोदुम्बराश्वत्थवटाःपूर्वादितः क्रमात्॥
तोरणाद्यानि वै तत्र पट्टमात्रेण पट्टिका।
अष्टमाङ्गुलसंयुक्तदर्भमालासमावृतम्॥
दिग्ध्वजाष्टकसंयुक्तं द्वारकुम्भैः सुशोभिम्।
हेमतोरणकुम्भैश्चभूषितं स्नापयेन्नृपम्॥
चर्मोपरिसमासीनं शिवकुम्भेन सेचयेत्।
तन्महेशाय विद्महे वाग्विशुद्धाय धीमहि॥
तन्नः शिवः प्रचोदयात्।
मन्त्रेणानेन विधिना वर्द्धन्या गौरीगीतया॥
रुद्राध्यायेन वा सर्वमघोरेणापि वा पुनः।
दिव्यैराभरणैः शुक्लैर्मुकुटाद्यैः सुकल्पितैः॥
क्षौमैर्वस्त्रैश्च राजानं भूषयेन्नियतः शुभैः।
अष्टषष्टिपलेनैव हैमं कृत्वा सुरद्रुमम्॥
नवरत्नैरलङ्कृत्य दद्याद्वै दक्षिणां गुरोः।
दश धेनूः सवस्त्राश्च दद्यात्क्षेत्रं सुशोभनम्॥
शतद्रोणं तिलं चैव शतद्रोणं च तण्डुलान्।
शयनं वाहनं छत्रं शय्यां सोपस्करां शुभाम्॥
होतॄणां चैव सर्वेषां त्रिंशत्पलमुदाहृतम्।
अध्येतॄणां तदर्थेन ब्राह्मानां च तदर्द्धतः॥
महापूजां ततः कुर्यान्महादेवस्य वै नृपः।
एवं समासतः प्रोक्तं जयसेचनमुत्तमम्॥
एवं पुराभिषिक्तस्तु शक्रः शक्रत्वमागतः।
ब्रह्मा ब्रह्मत्वमापन्नो विष्णुर्विष्णुत्वमागतः॥
अम्बिका चाम्बिकात्वं च सौभाग्यमतुलं तथा।
सावित्री च धरा लक्ष्मीर्देवी कात्यायनी तथा॥
नन्दिना च पुरा मृत्यू रुद्राध्यायेन वैद्विज।
अभिषिक्तोऽसुरैः पूर्वंतारकाख्यो महाबलः॥
विद्युन्माली हिरण्याक्षो विष्णुना वै विनिर्जितः।
नृसिंहेन पुरा दैत्यो हिरण्यकशिपुर्हतः॥
स्कन्देन तारकाद्याश्चकौशिक्या च पुराम्बया।
सुन्दोपसुन्दतनयौ जितौ देवेन्द्रपूजितौ॥
वसुदेवसुदेवौ तु निहतौ कृतकाम्यया।
पुरा स्नानविधानेन ब्रह्मणा निर्मितेन तु॥
देवासुरे दितिसुता जिता देवैरनेकशः।
स्नाप्यैवं सर्वभूपैश्च तथान्यैरपि भूसुरैः॥
प्राप्ताश्च सिद्धयो दिव्या नात्र कार्या विचारणा।
अहोऽभिषेकमाहात्म्यमहो सुष्ठु सुभाषितम्॥
येनैवमभिषिक्तेन सिद्धैर्मृत्युर्जितस्त्विति।
कल्पकोटिशतेनापि यत्पापं समुपार्जितम्॥
स्नात्वैवं मुच्यते राजा सर्वपापान्नसंशयः।
व्याधितो मुच्यते राजा क्षयकुष्टादिभिः पुनः॥
नित्यं च विजयी भूत्वा पुत्रपौत्रादिभिर्वृतः।
जनानुरागसम्पन्नो देवराज इवापरः॥
मोदते पापहीनश्चक्रियाधर्मे च निष्ठया।
उद्देशमात्रं कथितं फलं परमशोभनम्॥
नृपाणामुपकाराय स्वायम्भुव मनो मया । इत्यादि।
अयं च जयाभिषेकः त्रैवर्णिकेन नृपेणापमृत्युजयार्थंसर्वशत्रुजयार्थंवैरिविशेषेण युद्धोपस्थितौ यात्रातः पूर्वं तज्जयार्थं च कर्तव्यः। तत्र सम्भाराः। राजाभिषेककलशस्थापनार्थं नवकुण्डहोमार्थं च मण्डपः प्रपा कूटो वा। बहुस्तम्भः सभाकारः समशीर्षकसन्निवेशः प्रपा। सैव मध्योन्नता वंशावलम्बितपटलद्वयान्विता मण्डपः। स एव गिरिशृङ्गाकारो मध्ये समतन्तोऽवलम्बितचतुष्पटलः कूटः। ते च मण्डपादयःपञ्चसु-
प्रतिहस्तायामविस्तारास्तावदर्थाद्भवन्ति।
लिङ्गपुराणे,
विधिना मण्डपं कृत्वा प्रपां वा कूटमेव च।
नवधा स्थापयेद्वह्निंब्राह्मणो वेदपारगः॥
ततः सर्वाभिषेकार्थं सूत्रपातं च कारयेत्।
इत्यभिधानात्, चकारेण मण्डपादिमध्य एव मण्डलरचनाप्रतीतेः, मण्डलरचनायाश्च सर्वतडागोत्सर्गादौ मण्डपप्रागपरदक्षिणोत्तरसूत्र- योस्त्रेधाविभक्तयोर्मध्यमतृतीयभागाश्रितवेद्यधिकरणकत्वदर्शनात् अत्रत्यमण्डलप्रकृतिपञ्चाशद्रेखाणां च पदानां द्वादशाङ्गुलप्रमाणत्वोक्त्या प्रत्येकं तावदन्तरत्वात्। तथा च प्रत्येकद्वादशाङ्गुलान्तरालपञ्चाशद्रेखानिर्वर्त्यमण्डलसिद्धयर्थं शुक्लरक्तकृष्णतत्परिधिरेखासिद्ध्ययर्थंच वेदियोग्यः पञ्चविंशतिहस्तस्तावन्मण्डपादिमध्यतृतीयभागोपेत इति मण्डपादेःपूर्वोक्तपरिमाणसिद्धिः। ततश्चतदनुरूपा स्तम्भपरिमाणविवृद्धिः। पटलनिवेशनार्थंतिर्यक्काष्ठनिवेशनार्थंचार्थात्स्तम्भविवृद्धिरपि कल्प्या मण्डपकूटयोः। तत्र मध्यस्तम्भास्तावन्मण्डपविस्तारदलोच्चा एव, प्रान्तस्तम्भाश्च पञ्चहस्ता एव, अन्यत्र तथादर्शनात्। आर्थिकमध्यस्तम्भास्त्वार्थिकपरिमाणा एवेति दिक्।
अस्मिंश्च मण्डपादौ प्रागपरदक्षिणोत्तरमध्यसूत्रत्रेधाविभागेन नवभागे कृतेऽष्टसु दिग्भागेषु अष्टौपूर्वेशान्यन्तराले चैकमिति नव कुण्डानि स्थण्डिलानि वा। तानि च तत्तदाकृतिकानि वर्णभेदेन चतुरस्त्रादीन्येव वा। मध्यमभागे च वेदिरायामतृतीयांशोच्चा।तत्र च राजाभिषेककलशस्थापनार्थंमण्डलम्। तद्यथा भागपरायताः प्रत्येकं द्वादशाङ्गुलान्तरालाः पश्चाशद्रेखा लिखित्वा तादृशीभिरेव दक्षिणोत्तराभिः पञ्चाशद्रेखाभिस्ता भेद-
येत्। ततः प्रागपरायतासुदक्षिणोत्तरायतासु च रेखासुउपान्त्यरेखामारभ्य षड्रेखाः सङ्गृह्यसप्तमींसप्तमीं रेखां परिमार्जयेत्। तथा च प्रागपरायता अष्टौ तत्सम्भिन्नाश्च दक्षिणोत्तरायता अष्टौ एवं षोडशान्तरा वीथ्यः सम्पद्यन्ते। ततश्च तन्मध्यवर्त्तिनः प्रत्येकं पञ्चविंशतिकोष्ठका एकोनपञ्चाशद्व्यूहा भवन्ति। तेषु मध्यगतं व्यूहनवकं परिमृज्याष्टदलं कमलं कार्यम्। तत्समन्तान्नाभिवीथीमध्यस्थपद्मदलेषु परिशिष्टेषु चत्वारिंशद्व्यूहेषु च प्रतिकोष्ठकमलानि। तत्र मध्यकोष्ठेषु मुख्याः शक्तयः सुभद्राद्या दाक्षाद्याश्च शिवस्य द्वितीयतृतीयावरणयोः। तत्प्रथमावरणे तु वामादिमिथुनाष्टकं केसरदलेषु प्रधानकमलस्य मध्यमकोष्ठेभ्यो बहिरष्टकोष्ठकं प्रथमावरणं षोडशषोडशकोष्टकं द्वितीयं प्रत्येकं शक्तीनाम्। तत्र नाभिवीथ्यनन्तरबाह्यषोडशव्यूहसंलग्ना पिशाचवीथी।तत्संलग्ना चतुर्विंशतिव्यूहबाह्या महावीथीति। सर्वाणि च पद्मानि शालिनीवारगोधूमाणुयवतण्डुलगौरसर्षपान्विततिलानामन्पतरेण धान्येनयथालाभं समुदितैर्वा कार्याणि। तत्र मध्यवर्त्तिनि नवव्यूहाष्टदले शालयो द्रोणमिताः, तदर्धंतण्डुलाः, आढकमितास्तिलाः, तदर्द्धं यवादयः। अन्येषु आढकमिताःशालयः, तदर्द्धं तण्डुलाः, तदर्धंयवतिलादयः। प्रधानकमलं च हस्तमात्रमष्टाङ्गुलप्रमाणसुवर्णकर्णिकं चतुरङ्गुलकेसरस्थानमवशिष्टपत्रस्थानं कार्यम्। अन्यानि द्वादशाङ्गुलेषु कोष्ठेषु यथासम्भवम्। प्रधानकमलकेसराष्टकदलाष्टकचत्वारिंशद्व्यूहान्तर्गतसहस्रपदेषु च स्थापनीयं षोडशाधिकं कलशसहस्रम्। तच्च द्वादशाङ्गुलायामोदरं षडङ्गुलवर्त्तितनाभिकं द्व्यङ्गुलोत्सेधचतुरङ्गुलविस्तारकण्ठं द्व्यङ्गुलोत्सेधनिर्गमौष्ठं कार्यम्। प्रधानकमल-
कर्णिकायां स्थापनीयश्चैकः। स चोदरादिषु पूर्वोक्तद्विगुणपरिमाणः। तन्तूनां परस्परान्तरालं यवमात्रं यथा स्यात्तया जालवद्वेष्टनीयश्च। तद्वामभागस्थाप्या करकापरपर्याया चैका वर्धनी। सर्वे चैते हैमा राजतास्ताम्रमया वा। सर्वेषां पूरणार्थंगन्धोदकं, तन्मध्ये च निक्षेप्याणि पञ्चरत्नानि कनकशकलानि ब्रह्मकूर्चाश्च। साधारणानि च पञ्चपल्लवसप्तमृदादीनि। शिवकुम्भोपरिस्थाप्यं चाग्नेयादिकोणेषु क्रमेण सितरक्तपीतकृष्णवर्णसिंहयुक्तं पूर्वादिदिक्षु सुवर्णवर्णगात्रयुतं सुवर्णादिमयं सिंहासनं, सर्वेषां प्रत्येकं वेष्टनार्थानि वस्त्रयुग्मानि, प्रच्छादनार्थामि च हैमानि रत्नचित्राणि कमलानि, शिवप्रतिमा देवीप्रतिमा। तयोर्लक्षणमुक्तम्—
मत्स्यपुराणे,
पञ्चवक्रोवृषारूढः प्रतिवक्रं त्रिलोचनम्।
कपालशूलखट्वाङ्गी चन्द्रमौलिः सदा शिवः॥
अक्षसूत्रं च कमलं दर्पणं च कमण्डलुम्।
उमा विभर्त्ति हस्तेषु पूजिता त्रिदशैरपि॥ इति।
अष्टाधिकं सहस्रमन्यप्रतिमा। तत्र स्त्रीप्रतिमाः—
सर्वाश्च द्विभुजा देव्यो बालभास्करसन्निभाः।
पद्मशङ्खधराः शान्ता रक्तस्रग्वस्त्रभूषिताः॥
सर्वाभरणसम्पूर्णा मुकुटाद्यैरलङ्कृताः।
मुक्ताफलमयैर्दिव्यै रत्रचित्रैर्मनोरमैः॥
भूषिता हारकेयूरैर्यावद्देव्यः पृथक्पृथक्।
इतिलिङ्गपुराणोक्तलक्षणलक्षिताः कार्याः। पुम्प्रतिमाश्च रुद्ररूपाः। बाणलिङ्गं, तदभिषेकार्थंचान्यत्कलशसहस्रं ताम्रमयं
मृन्मयं वा पूर्वोक्तलक्षणलक्षितं हैमकमलाच्छादितं रुद्रक्षेत्रे स्थापनीयम्।रुद्रक्षेत्राभावे तदर्थमध्येको मण्डपः कार्यः। तत्कलशपूरणार्थं घृतं क्षीरं दधि पञ्चगव्यं वा। घृतपलाशसमिदाज्यचरुलाजशालिनीवारतण्डुलरूपाण्यष्टौ होमद्रव्याणि प्रतिकुण्डम्। घृतं लौकिकमाज्यं संस्कृतमिति भेदःप्रतिकुण्डं होता ब्रह्मा चेति द्वौ द्वौ ब्राह्मणौ। तत्र याम्ये कृष्णवासा होता। ऐन्द्रेशान्यन्तरालगते प्रधानकुण्डे आचार्यो नृपः पुरोहितो वा होता । द्वारजापकाश्चाष्टौ।रुद्राभिषेककर्त्ता तु पुरोहित एव। अनुक्तान्यकर्तृकेषु राजसम्बन्धिकार्येषु तस्यैव कर्तृत्वदर्शनात्। साहाय्यार्थंचान्येऽपि यथासम्भवम्। हैमं मृणालभासितं कौतुकम्। द्वारदेशात्पदमात्रे निखातैः पूर्वादिक्रमेण पलाशोदुम्बराश्वत्थवटमयैर्हेमकुम्भान्वितैस्तोरणैर्युक्तं दर्भमालासमावृतं द्वारदेशादौ निक्षिप्ताष्टमङ्गलद्रव्यमावाहितदिग्गजाष्टकं द्वारकुम्भभूषितं राजाभिषेकमण्डपं दशहस्तं कुर्यात् । तन्मध्ये वेदिकायां भद्रासनम्, अष्टमङ्गलानि च—
इक्षवःस्तवराजं च निष्पावाजाजिधान्यकम्।
विकारवच्च गोक्षीरं कुसुम्भकुसुमं तथा॥
लवणं चाष्टमं तत्र सौभाग्याष्टकमुच्यते॥
इति मत्स्यपुराणोक्तानि।भद्रासनं च सौवर्णंरौप्यं ताम्रमयं क्षीरिवृक्षजं वा माण्डलिकानन्तरजिन्महाराजानां क्रमेणैकसपादसार्द्धहस्तोछ्रायं तावदायामं राजाभिषेकप्रकरणे विष्णुधर्मोत्तरोक्तं ग्राह्यम्, आकाङ्क्षितत्वादवान्तरसामान्येन च बुद्धिस्थत्वात्। राज्ञो धारणार्थमाहवनीयादिजं भस्म। श्वेतच्छत्रशिविकावैजयन्तीशङ्खचामरभेर्यादीनि नृपचिह्नानि राजभूषणानि च प्रभूतानि। अभिषेककाले च नानाविधानि वा-
द्यानि।दक्षिणाद्रव्याणि च यथा — अष्टषष्टिपलहेमनिर्मितो नवरत्नालङ्कृतःसुरद्रुमो, दशधेनुशतानि, सुशोभनंक्षेत्रं, शतद्रोणमितास्तिलास्तण्डुलाश्च, सोपधानं शयनं, वाहनमश्वादि, यानं रथादि च गुरवे। परिमाणतो मूल्यतश्चैतदर्धमितानि सुरद्रुमादीनि सर्वाणि मिलितेभ्यः सर्वेभ्यो होतृभ्यः। तथैव तदर्द्धमितानि सर्वाणि मिलितेभ्यो द्वारजापकेभ्यः। तदर्धमितानि ब्रह्मभ्यः।अन्यब्राह्मणदीनानाथादिभ्यो भूयसी यथाशक्ति।ब्राह्मणभोजनं च सहस्रावरं यथाशक्ति।महादेवमहापूजासामग्री राजोपचारादि।
पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्त्तितम्।
पलं च कुडवः प्रस्थ आढको द्रोण एव च॥
धान्यमानेषु बोद्धव्याः क्रमशोऽमी चतुर्गुणाः।
इन्यसाधारणाः। साधारणाश्च मण्डपकाष्ठध्वजपताकादि तत्तद्देवतापूजासामग्री द्वारतोरणकलशादि कुण्डोपयोगीष्टकादि नवग्रहपीठतत्प्रति- मातत्पूजोपकरणादि मण्डपवास्तूपशमनसामग्री ब्राह्मणवरणसामग्र्यादिकाःसम्भारा उपकल्पनीयाः।
अथप्रयोगः।
उपकल्पितपूर्वोक्तसमस्तोपकरणःसपत्नीको राजा मौहूर्तिकेभ्योऽनन्तरसंलग्नदिनद्वयातिशुद्धिं विदित्वापूर्वदिने पुरोहितमाचार्यर्विगा- दीन्मौहूर्त्तिकादींश्च सन्निधाप्य रङ्गवल्लयादियुक्ते शुचौ देशेऽन्तर्जानुकर उपविश्य इष्टदेवगुरुद्विजकुलज्येष्ठान्नत्वा तैरनुज्ञातः सदर्भपाणिराचम्यप्राणानायम्य तिथ्यादि सङ्कीर्त्य अपमृत्युजयार्थंसर्वशत्रुशेषजयार्थं शत्रुविशेषजयार्थं वा लिङ्गपुराणोक्तविधिना जयाभिषेकं सपत्नीकोऽहममुकवर्मा
करिष्ये, तत्र निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं स्वस्तिवाचनमातृकापूजनाभ्युदयिकश्राद्धग्रहयज्ञमण्डपवास्तूपशमनाचार्यादिवरणानिच तत्पूर्वाङ्गानि करिष्य इति सङ्कल्प्य, यथाविभवं षोडशोपचारैर्गणपतिमभ्यर्च्य, यथास्वगृह्यं स्वस्तिवाचनमातृकापूजनाभ्युदयिकश्राद्धानि विधाय, याज्ञवल्क्याद्युक्तप्रकारेण यथा विभवं नवग्रहमखं च कृत्वा, वास्तुशान्त्यर्थमाचार्यब्रह्मर्त्विजः कृत्वा, मण्डपनैर्ऋत्यभागे कुण्डं निर्माय, एकाशीतिपदवास्तुमण्डलनिर्माणपुरःसरं मण्डपवास्तुशान्तिंविधाय, जयाभिषेकार्थं पुरोहितमाचार्यं ब्रह्माणमष्टसु कुण्डेषु प्रतिकुण्डं होता ब्रह्मा चेति द्वौ द्वौ ब्राह्मणान् वृणुयात्। तत्र—
आचार्यस्तु यथा स्वर्गे शक्रादीनां बृहस्पतिः।
तथा त्वं मम यज्ञेऽस्मिन्नाचार्यो भव सुव्रत॥
इत्याचार्यवरणे मन्त्रः।
यथा चतुर्मुखो ब्रह्मा सर्ववेदधरः प्रभुः।
तथा त्वं मम यज्ञेऽस्मिन् ब्रह्मा द्विजपते भव॥
इति ब्रह्मवरणे।
अस्य यागस्य निष्पत्तौ भवन्तोऽभ्यर्थिता मया।
सुप्रसन्नाः प्रकुर्वन्तु स्वकार्यंविधिपूर्वकम्॥
इत्यन्येषाम्। सर्वांश्च प्रत्येकमभ्यर्च्य शाखानुसारेण यथा विभवं मधुपर्केणार्हयेत्।द्वारजापकांश्चतत्तत्काले वरणार्थमुपकल्पयेत्। यथासम्भवमन्यांश्च साहाय्यार्थम्।सर्वांश्च यथाविभवं वस्त्रालङ्कारादिभिः पूजयेत्। शिल्पिमौहूर्त्तिकादींश्च। तत आचार्यो यजमानेन सपत्नीकेन सब्राह्मणेन जलपूर्णकलशहस्तेन भद्रं कर्णेभिरित्यादिमन्त्रघोषेण मण्डपप्रवेशे पश्चिमतः कृते मण्डपान्तः पश्चिमत उपविश्याचम्य प्राणानायम्य यजमाना-
नुज्ञातो मण्डपदेवतास्थापनायाचार्यकर्म करिष्य इति सङ्कल्प्य, मण्डपान्तः सर्वतः सर्षपविकिरणेन “यदत्र संस्थितं भृतम्" इत्यादिभिर्भूतान्युत्सार्य आपोहिष्ठेत्यादिभिरब्लिङ्गैः शुची वोहन्येत्यादिभिः शुद्धिलिङ्गैश्च मन्त्रैः सर्वतः कुशोदकेनाभ्युक्ष्य सर्वसाधारणेन प्रकारेण पूर्वादिक्रमेण तोरणपूजां तत्रत्यकलशस्थापनं पूर्वादिद्वाराग्नेयादिकोणगतकलशस्थापनं तत्रत्यदेवतापूजां द्वारेषु च ऋग्वेदाद्यध्येतृब्राह्मणयुगलचतुष्टयवरणं यथाविभवं तत्पूजाम् इन्द्रादिलोकपालदशकावाहनध्यानपूजनानि पताकाध्वजोच्छ्रायणानि माषभक्तबलिदानं च तत्तदुद्देशेन महाध्वजस्थापनं तत्र ब्रह्मपूजनं मण्डपस्तम्भवंशगतदेवतापूजनं मण्डपपूर्वदिग्गतदेवतावाहनपूजनवलिदानानि च समन्त्रकं कुर्यात्। प्रतिष्ठाप्रकाशे उक्तत्वाद्विस्तरापत्तेश्च स प्रकारो नोच्यते।ततो वेद्यां पूर्वोक्तप्रकारेण लिखिते राजाभिषेककलशस्थापनार्थे मण्डले मध्यगते व्यूहनवके अवशिष्टचत्वारिंशद्व्यूहगतकोष्ठेषु च सर्वमण्डलानां कृतिकत्वात्तदुक्तप्रकारेण ब्रह्मादिमण्डलदेवतानामावाहनं यथाविभवं तत्पूजनं ताभ्यश्च बलिदानं विधाय सर्वाणि पद्मानि प्रणवेनाम्भसाभ्युक्ष्य तेषु सर्वेषु प्रणवं विन्यस्य कुशानास्तीर्य प्रधानपद्यमध्ये पूर्वोत्तलक्षणं तन्तूनां परस्परान्तरालं यवमात्रं यथा स्यात्तथा जालान्तरवद्वेष्टितं शिवकुम्भं संस्थाप्य तद्वामभागे करकसंज्ञां वर्धनीं स्थापयेत्। ततस्तस्यैव पद्मस्य केसरेषु वामाद्यष्टशक्तीनां ततो दलेषु वामदेवाद्यष्टरुद्राणामुक्तलक्षणाःकुम्भाः स्थाप्याः। ततः पञ्चविंशतिकोष्ठकचत्वारिंशद्व्यूहगतमध्यमध्यकोष्ठेषु सुभद्रादिचत्वारिंशद्व्यूहेश्वराणां ततस्तत्संलग्नाष्टाष्टकोष्ठेषु तत्प्रथमावरणदेवतानां ततस्तत्सं-
लग्नषोडशकोष्ठेषु तद्द्वितीयाद्यावरणदेवतानां कुम्भाः स्थापनीयाः।सर्वे चैते “मही द्यौः" इत्यादिमन्त्रैर्भूमिस्पर्शादिपूर्वकं प्रसिद्धकलशस्थापन- प्रकारेण पदार्थानुसमयेन स्थाप्याः। ततः सर्वेषु प्रणवेन गन्धोदकपूरणं मध्ये च पञ्चरत्नकनकशकलनब्रह्मकूर्चानां साधारणानां च पञ्चपल्लवस- प्तमृत्तिकादीनां प्रक्षेपः। बहिश्च चन्दनपुष्पमालाकण्ठवेष्टनसूत्रैरलङ्करणं वस्त्रयुग्मवेष्टनं हैमरत्नचित्रकमलपच्छादनं च प्रत्येकं पदार्थानुसमयेनैव ससहायेनाचार्येण कार्यम्।ततः सिंहासनसहितानां सर्वप्रतिमानामग्न्युत्तारणं विधाय शिवकुम्भोपरि सिंहासनंस्थापयित्वा तस्याग्नेयादिकोणगतेषु सितरक्तहिरण्याभकृष्णवर्णेषु चतुर्षु सिंहाकारेषु पादेषु धर्मज्ञानवैराग्यैश्वर्याणि प्रणवेनावाह्य तत्तद्वर्णाकाराणिध्यात्वा तस्यैव पूर्वादिदिग्गतेषु सुवर्णवर्णेषु चतुर्षु गात्रेषु अव्यक्तं नियतिं कालं कालीं च प्रणवेनैवावाह्य तत्तद्वर्णाकारान्ध्यात्वा सर्वान्प्रणवेनैव यथाविभवं सम्पूज्य सिंहासनमध्यगते कमले पट्टवस्त्रासने उक्तलक्षणां शिवप्रतिमां कमलमध्ये आधारशक्तिंतदुपरि कलां तदुपरिजगत्कारणं बिन्दुं तदुपरि नादं तदुपरि च प्रणवाख्यं जगद्गुरुं शिवं स्थापयामीति भाषयन्प्रणवपूर्वया, तत्पुरुषाय विद्महे महादेवायधीमहि। तन्नो रुद्रः प्रचोदयादितिशिवगायत्र्या स्थापयित्वा शिवपादमूले कार्णिकायां मनोन्मनीं मनोन्मनाख्यमहादेवं च “मनोन्मनाय देवाय मनोन्मन्यै नमो नम” इतिमन्त्रेण स्थापयेत्। एतासां देवतानां पूजनेऽप्येत एव मन्त्राः। वक्ष्यमाणदेवतानां तु प्रणवपूर्वैर्नमोऽन्तैश्चतुर्थ्यन्तैः स्वस्वनामभिरेव स्थापनं पूजनं च। ततः प्रधानकमलकेसरेषु प्रागादिक्रमेण वामा, ज्येष्ठा, रौद्री, काली, कलाविकरणी, बला, बलप्रमथनी,सर्वभूत-
दमनी चेत्यष्टौ शक्तयः। ततस्तस्यैव दलेषु तेनैव क्रमेण वामदेवः, ज्येष्ठः, रुद्रः, कालः, कलाविकरणः, बलः, बलप्रमथनः, सर्वभूतदमनश्चेत्यष्टौ रुद्राः स्थाप्याः।इदं च वामादिमिथुनाष्टकं प्रथमावरणं शिवस्य\। एवमग्रेऽपि प्रागादिक्रम एव द्रष्टव्यः। ततो नाभिवीथ्यनन्तरबाह्यषोडशव्यूहम- ध्यमकोष्ठेषु सुभद्रादिकाः शिवस्य द्वितीयावरणदेवताः स्थाप्याः। तत्र पूर्वे सुभद्रा, आग्नेये भद्रा, दक्षिणे कनका, नैर्ऋते अम्बिका, पश्चिमे श्रीदेवी, वायव्ये वागीशा, उत्तरे गोमुखी, ऐशाने भद्रकर्णी, पूर्वाग्नेयमध्ये अणिमा, आग्नेयदक्षिणमध्ये लघिमा, दक्षिणनैर्ऋत्यमध्ये महिमा, नैर्ऋत्यपश्चिममध्ये प्राप्तिः; पश्चिमवायव्यमध्ये प्राकाम्यं,वायव्योत्तरमध्ये ऐश्वर्यम्, उत्तरैशानमध्ये वशित्वं, पूर्वेशानमध्ये कामावसायिका।पिशाचवीध्यनन्तरबाह्यचतुर्विंशतिव्यूहमध्यमकोष्ठेषु प्रागादिक्रमेण दाक्षाद्याः शिवस्य तृतीयावरणदेवताः स्थाप्याः।ता यथादक्षा, दक्षायिका, चण्डा, चण्डायिका, हरा, हरायिका, शौण्डा, शौण्डायिका, प्रथमा, प्रथमायिका, मन्मथा, मन्मथायिका, भीमा, भीमायिका, शकुनी, शकुनायिका, सुमती, सुमत्यायिका, गोपा, गोपायिका, नन्दा, नन्दायिका, पितामही, पितामहायिका २४। ततः सुभद्रादिशिवद्वितीयावरणदेवतानां प्रथमद्वितीयावरणदेवतास्तत्कोष्ठवाह्याष्टतद्बाह्यषोडशकोष्ठेषु स्थाप्याः। ता यथा-विन्दुका, विन्दुगर्भा, नादिनी, नादगर्भजा, शक्तिका, शक्तिगर्भा, परा, परापरा, सुभद्राप्रथमावरणम् १। चण्डा, चण्डमुखी, चण्डनेगा, मनोजवा, चण्डाक्षी, चण्डनिर्घोषा, भ्रुकुटी, चण्डनायिका, महोत्सवा, मनोध्यक्षा, मानसी, माननायिका, मनोहारी, मनोह्रादी मनःप्रीतिः, मनेश्वरी १६ सुभद्राद्वितीयावरणम् १।ऐन्द्री, हौताशनी, याम्या, नैर्ऋती, वारुणी, वाय-
व्या, कौबेरी, ऐशानी ८। भद्राप्रथमाव०२। हरिणी, सुवर्णा, काञ्चनी, हाटकी, रुक्मिणी, वामनास्या सुभगा, जम्बुनायिका, वाग्भवा,वाक्पथा, वाणी, भीमा, चित्ररथा, सुधीः, वेदमाता, हिरण्याक्षी,१६ भद्राद्वि०२ वज्रं, शक्ति, दण्डः, खड्गः, पाशः, ध्वजः, गदा,त्रिशूलम्८ कनकाप्र ०३।बुद्धा, प्रबुद्धा, चण्डा, मुण्डा, वलिनी, कपालिनी, मृत्युहन्त्री, विरूपाक्षी, कपर्दी, कमलासना, दंष्ट्रिणी, रङ्गिणी, लम्बाक्षी, कङ्कभूषणी, सम्भावा, भाविनी १६। कनकाद्वि० ३\। खेचरी, आत्मनामा, भवानी, वह्निरूपिणी,वलिनी, वह्निनामा, महिमा, अमृतलालसा ८ अम्बिकाम० ४।शङ्खिनी, शिखरा देवी, मृदुरत्ना, सुशीतला, छाया, भूतपनी, धन्या, इन्द्रमाता, वैष्णवी, तृष्णा, रागवती, मोहा, कामकोपा, मदोत्कटा, इन्द्रा, बधिरा १६ अम्बिकाद्वि ०४। स्पर्शः, रसः, गन्धः, प्राणः, अपानः, समानः, उदानः, व्यानः८ श्रीदेवीप्र०५। तमोहता,प्रभा, अमोघा, तेजनी, दहनी, भीमास्या, ज्वालिनी, शोषा, शेषिणी, रुद्रनायिका, वीरभद्रा, गणाध्यक्षा, चन्द्रहासा, गहरा, गणमाता, अम्बिका १६ श्रीदेवी ०५। धारा, वारिधरा, वाह्निकी, वायसी, मर्त्यातीता, महामाया, वज्रिणी, कामधेनुका८ वागीशाप्र ०६। पयोष्णी, वारुणी शान्ता, जयन्ती, वरप्रदा, प्लाविनी,जलमाता, पयोमाता, महाम्बिका, रक्ता, कराली, चण्डाक्षी,महोच्छुष्मा पयस्विनी, महाविद्येश्वरी, काली, कालिका १६ वागीशाद्वि० ६। शङ्किनी, ललिता, लम्बकर्णी, कल्किनी, यक्षिणी, मालिनी, वामनी, वरमानिनी ८ गोमुखीप्र ०७॥ चण्डा, घण्टा, महानादासुमुखी, दुर्मुखी, बला, रेवती, प्रथमा, घोरा, सौम्या, भीमा, महाबला, जया, विजया, अजिता, अपराजिता १६ गोमुखी द्वि०७। महाघण्टा, विरूपाक्षी, शुष्काङ्गी, काममातृका, संहारी,
जातहारी, दंष्ट्राली, शुष्करेवती ८ भद्रकर्णीप्र०। पिपीलिका, पुष्पहारी, अशनी, सर्वहारिणी, भद्रहारी, शुभाचारी, हेमा, योगेश्वरी, चित्रा, भानुमती, छिद्रा, सैंहिकी, सुरभी, समा, सर्वभव्या, वेगाख्या १६ भद्रकर्णीद्वि ०८। ऐन्द्री, चित्रभानुः, वारुणी, दण्डिः, माणरूपी, हंसः, स्वात्मशक्तिः, पितामहः ८ अणिमात्र०। केशवः, रुद्रः, चन्द्रमाः, भास्करः, बाह्यात्मा, अन्तरात्मा, आत्मा, महेश्वरः, परमात्मा, अणुजीवः, पिङ्गलः, पुरुषः, पशुः, भोक्ता,भूतपतिः, भीमः १६। अणिमाद्वि० ९।श्रीकण्ठः, अन्तः, सूक्ष्मः, त्रिमूर्त्तिः, शशकः, अमरेशः, स्थितीशः, भारभूतः ८ लघिमाप्र०।स्थाणुः, हरः, चण्डेशः, भूतीशः सद्योजातः, गुहेशः, क्रूरसेन, सुरेश्वरः, क्रोधीशः ,चण्डः, प्रचण्डः, शिवः, एकरुद्रः,कूर्मः, एकनेत्रः, चतुर्मुखः १६ लघिमाद्वि० १०। अजेशः, क्षेमरुद्रः,सोमेशः, लाङ्गली, चण्डारुः, अर्धनारीशः, एकान्तः, अन्तः८ महिमाम० शिखीशः, शकलः, चण्डः, द्विरण्डः, कलः, पाली, भुजङ्गः,पिनाकी, खगिः, कामः, ईशः, श्वेतः, भृगुः, महिमाद्वि ० ११। संवर्त्तः, नकुलीशः, वाडवः, हस्तिः, चण्डयक्षः, गणपतिः, महामृगुः, अजः ८ प्राप्तिप।त्रिविक्रमः, महाजिह्वः, ध्वाङ्गः, श्रीभद्रः,महादेवः, दधीचः, कुमार, परावरः, महादंष्ट्रः, करालः,सूचकः, सुवर्धनः, महाध्वास, महानन्दी, गण्डी, गोपालकः १६ प्राप्ति द्वि० १२। पुष्पदन्तः, महानन्दः, विपुलानन्दकारकः, शुक्लः, विशालः, कमलः, बिल्वः, अरुणः ८ प्राकाम्यप्र०। रतिप्रियः, सुरेशानः, चित्राङ्गः, सुदुर्जयः, विनायकः, क्षेत्रपालः, महामोहः, जाङ्गलः, वत्सपुत्रः, महापुत्रः, ग्रामाधिपः, देशाधिपः, सर्वस्थानाधिपः, मेघनादः प्रचण्डकः, कालदूतः १६ प्राकाम्यद्वि ० १३\। मङ्गला, चर्चिका, योगेशा, हरदायिका, भासुरा,
सुरमाता, सुन्दरी, मातृका ८\। ईशित्वप्र।गणाधिपः, मन्त्रज्ञः, वरदेवः, षडाननः, विदग्धः, विचित्रः, अमोघः, मोघः, अश्वः, रुद्रः, सोमेशः, उत्तमोदुम्बरः, नारसिंह, विजयः, इन्द्रगुहः, अपाम्पतिः १६ ईशित्वाद्वि ० १४। गगनः, भवनः, विजयः, अजयः, महाजयः अङ्गारः, व्यङ्गारः, महायशाः ८ वशित्वप्र ०। महाहर्षः, प्रचण्डेशः, महावर्णः, महासुरः, महारोमा, महागर्भः, प्रथमः, कनकः, खरजः, गरुडः, मेघनादः, गर्जकः, गजत्वक्छेदकः, वाहः, त्रिशिखः, मारिः १६ वशित्वद्वि ० १५। विनादः, त्रिकटः, वसन्तः, अविद्युत्, महाबलः, कमलः, दमनः ८ कामावसायिकाकाप्र०। धर्मः, अतिबलः, सर्पः, महाकाथः, महाहनुः, सबलः, भस्माङ्गा, दुर्जयः, दुरतिक्रमः, वेतालः, रौरवः, दुर्धराभोगः, वज्रः, कालाग्निरुद्रः, सिंहनादः, महागुहः१६ कामावसायिकाद्वि० १६। ततो दाक्षादिशिवतृतीयावरणदेवतानां प्रथमद्वितीयावरणदेवतास्तत्कोष्ठवाह्याष्टत द्बाह्यषोडशकोष्ठेषु स्थाप्याः। ता यथा- मनोहरा, महानादा, चित्रा,चित्ररथा, रोहिणी, चित्राङ्गी, चित्ररेखा, विचित्रिका ८ दाक्षा प्र० चित्रा, विचित्ररूपा, शुभदा, कामदा, शुभा, क्रूरा, पिङ्गलादेवी, खड्गिका, लम्बिका, सती, दंष्ट्राली, राक्षसी, ध्वंसी, लोलुपा, लोहितामुखी १६ दाक्षाद्वि० १। सर्वाशिनी, विश्वरूपा, लम्पटा, आमिषप्रिया, लम्बोष्ठी, दीर्घदंष्ट्रा, लम्बजानुः, महारिणी ८ दाक्षायिकाप्र०।गजकर्णा, अश्वकर्णा, महाकाली, सुभीषणा, वातवेगरवा, घोरा, घना, घनरवा, घोरघोषा, महाघण्टा, सुघण्टा, घण्टिका, घण्टेश्वरी, महघोरा, अघोरा, अतिघोरिका १६ दाक्षायिकाद्वि० २।अतिघण्टा, अतिघोरा, कराला, करभा, विभूतिः, भोगदा, कान्तिः, शङ्खि-
नी ८चण्डाप्र०। पत्रिणी, गान्धारी, योगमाता, सुपीवरा, उत्तालका, उत्सुका, वीरा, संहारी, रमणी, फलहारी, जीवहारी, स्वेच्छाहारी, तुण्डिका, रेवती, रङ्गिणी, सङ्गा १६ चण्डाद्वि० ३। चण्डी, चण्डमुखी, चण्डा, चण्डवेगा, महारवा, अकुटी, चण्डरूपा, चण्डभ्रूः ८ चण्डायिकाप्र०\। चण्डघ्राणा, चला, चलजिह्वा, चलेश्वरी, चलवेगा, महाकाया, महामाया, विद्युता, कङ्काली, कृशाङ्गी, किंशुका, चण्डघोषिका, महाहासा, महारावा, चण्डभा,अनङ्गचण्डिका १६ चण्डायिकाद्वि० ४\। चण्डाक्षी, कामदा, शूकरा, कुक्कुटानना, गान्धारी, दुन्दुभिः, दुर्गा, सौमित्रा, ८ हराप्र०।अमृतोद्भवा, महालक्ष्मीः, वर्णदा, जीवरक्षिणी, हरिणी, क्षीणजीवा, चन्द्रा, चतुर्भुजा, व्योमचारी, व्योमरूपा, व्योमव्यापी, शुभोदया, गृहचारी, सुचारी, विषाहारी,विषान्तिका १६ हराद्वि०५\। जम्भा, अच्युता, कङ्कारी, देविका,दुर्धरा, वहा, चण्डिका, चपला ८ हरायिकाप्र०।चाण्डका,चामरी, भण्डिका, शुभानना, पिण्डिनी, मुण्डिनी, मुण्डा, शाकिनी, शार्ङ्गरी, कर्तरी, हर्त्तरी, भामिनी, यज्ञदायिनी, यमदंष्ट्रा,महादंष्ट्रा, कराला १६ हरायिकाद्वि० ६। विकराली, कराली, कालजङ्घा, यशस्विनी, वेगा, वेगवती, विद्या, वेदाङ्गा, ८ शौण्डाप्र०। वज्रा, शङ्खवती, शङ्खा, अवला, एकबला, बला, अतिबला, लोला, कुम्भिनी, स्तम्भिनी, अञ्जनी, मोहिनी, माया, विकटाङ्गी, नली, कल्लोला १६ शौण्डादि० ७।दन्तुरा, रौद्रभागा, अमृता, सुकुला, चलजिह्वा, अर्धनेत्रा, रूपिणी, दारिका ८ शौण्डायिकाप्र०। खादका, रूपनाशा, संहारी, अक्षया, अन्तका, कण्डनी, पेषणी, महाग्रामा, कृतान्तिका, दण्डिनी, किङ्करी, बिम्बा, वर्णिनी, अमलाङ्गिनी,
विद्राणी, द्राविणी, १६ शौण्डायिकाद्वि० ८। प्लवनी, प्लावनी, शोभा, मन्दा, मदोत्कटा, मदा, क्षया, महादेवी ८ प्रमथाम०। कामसन्दीपनी, अतिरूपा, मनोहरा, महावशा, मदग्राहा, विह्वला, मदविह्वला, अरुणा, घोषणी, दिव्या, रेवती, भाण्डनायिका,स्तम्भनी, घोररक्ताक्षी, घोररूपा, सुघोषणा १६ प्रमथाद्वि० ९।घोरा, घोरतरा, अघोरा, अतिघोरा, अघनायिका, धावनी, क्रोष्टुकी, मुण्डा ८ प्रमथायीप्र०।भीमा, भीमतरा, अभीमा, शस्त्री, सुवर्चला, स्तम्भनी, मोहनी, रौद्री, रुद्रवती, अचलाचला, महाबला, महाशान्तिः, शिवाशीला, शिवाशिवा, बृहत्कुक्षी, महानासा १६ प्रमथायीद्वि० १०। कालकर्णी, कराला, कल्याणी, कपिला, शिवा, इष्टिः, तुष्टिः, प्रतिष्ठा ८ मन्मथाप०। शान्तिः, तुष्टिकरी, पुष्टिः, जया, श्रुतिः, धृतिः, कामदा, शुभदा,सौम्या, तेजनी, कामतान्त्रिका, धार्मिकी, धर्मिणी, शीला, पापहा, धर्मवर्धनी १६। मन्मथाद्वि ११। धर्मरक्षा, निवाता, धर्मा, धर्मवती, सुमतिः, दुर्मतिः, मेधा, विमला ८ मन्मथायिकाप्र०। शुद्धिः ,बुद्धिः, मतिः, कान्तिः, वर्तुला, मोहवर्धनी, बला, अतिबला, भीमा, प्राणवृद्धिकरी, निर्लज्जा, निर्घृणा, मन्दा, सर्वपापक्षयङ्करी, कपिला, अतिविधुरा १६ मन्मथायिकाद्वि० १२। रक्ता, विरक्ता, उद्वेगा, शोकवर्धनी, कामा, तृष्णा, क्षुधा, मोहा ८ भीमाप्र०। जया, निद्रा, अभया, आलस्या, सुतृष्णा,रोदनी, दरा, कृष्णाकृष्णाङ्गिनी, वृद्धा, अशुद्धोच्छिष्टाशनी, वृषा, कामदा, भोगिनी, दग्धा, दुःखदा, सुखदा १६ भीमामाद्रि० १६। आनन्दा, सुनन्दा, महानन्दा, शुभङ्करी, वीतरागा, महोत्साहा, जितरागा, मनोरमा ८ भीमायिकाप्र०। मनोन्मनी, मनःक्षोभा, मदा, उन्मादा, मदाकुला, मदोद्गर्भा,
मदारामा, कामानन्दा, सुविह्वला, महावेगा, सुवेगा, महाभोगा, क्षयावहा, क्रमणी, क्रामणी, चक्रा १६ भीमायिकाद्वि० १४॥ योगावेगा, सुवेगा, अतिवेगा, सुवासिनी, देवी, मनोरथावेगा,रुद्रावर्त्तवती, मतिः ८ शकुनाप्र०। रोधनी, क्षोभणी, बाला, अतिघोषा, सुघोषिणी, विद्युता, त्रासिनी, मनोवेगा, सुचापला, विद्युजिह्वा, महाजिह्वा, भ्रुकुटीकुटिलानना, स्फुरज्ज्वाला, महाज्वाला, मुज्वाला, क्षयान्तिका १३ शकुनाद्वि० १५।ज्वालिनी, भस्माङ्गी, भस्मान्तका अन्तका, भाविनी, प्रजा,विद्या, ख्यातिः८ शकुनायिकाम०।उल्लेखा, पताका, भोगा,भोगवती, खम्रा, योगव्रता, योगमाता, योगाख्या, योगपारगा, ऋद्धि, बुद्धि, धृतिः, कान्तिः, स्मृतिः, साक्षाच्छुतिः, धरा १६शकुनायिकाद्वि० १६। परेष्टा, परादित्या, अमृता, फलनाशिनी, हिरण्याक्षी, सुवर्णाक्षी, कपिञ्जला, कामरेखा ८ सुमतीप्र०। रत्नदीपा, वसुद्वीपा,वसुद्रीपा, रत्नदा, रत्नमालिनी, स्त्रशोभा, सुशोभा, महाशोभा, महाद्युतिः, शबरी, शाम्बरी, ग्रन्थिपादा, ग्रन्थिकर्णा, ग्रन्थिकरानना, हयग्रीवा, हयजिह्वा, सर्वग्रासा १६ सुमतीद्वि० १७ सर्वाशी महाभक्षा, महादंष्ट्रा,अतिरौरवा, स्फुलिङ्गा, विस्फुलिङ्गा, कृतान्ता, भास्करानना, ८ सुमत्यायिकाप्र०। रागा, रागवती, क्रोधा, महाक्रोधा, रौरवा, क्रोधनी, सूदनी, कल्हा, कलहावती, कलान्तिका, चतुर्भेदा, दुर्गा, दुर्गमानगा, नाली, कुनाली, सौम्या, १६ सुमत्यायिकाद्वि० १८। पाटली, पाटनी, पाटी, विटिपिटा, कङ्कटा, सुघटा, प्रघटा, घटोद्भवा ८ गोपाम०।नादाक्षी, नादरूपा, सर्वाकारा, सर्वागमा, सर्वगमा, अग्रचारी, सुचारी, चण्डनाडी, सुवाहिनी, सुयोगा, वियोगा, हंसाक्षी, विलासिनी, सर्वगा, सुविरावा,
बन्धनी १६ गोपाद्वि० १९। भेदिनी, छेदिनी, सर्वकारी, क्षुधाशनी, उच्छुष्मा गान्धारी, भस्माशी, वडवानला ८ गोपायिकाप्र०। अन्ववज्वालिनी, ज्वाला, दीपा, क्षामा, अन्तरिक्षा, हल्लेखा, हृद्रमा, मायिकापरा, आमयासादिनी, भिल्ली, सह्यासह्या, सरस्वती,रुद्रशक्तिः, महाशक्तिः, महामाहा, रोदिनी १६ गोपायिकाद्वि० २०। नन्दिनी, निवृत्तिः, प्रतिष्ठा, विद्यानाशी, खग्रसिनी,चामुण्डा, प्रियदर्शिनी ८ नन्दाप्र०। गुह्या, नारायणी, मोहा, प्रज्ञा, वज्रिणी, कङ्कटा, काली, शिवा, घोषा, वीरा, माया, कामेशी, वाहिनी, भीषणा, स्वर्गा, माला १६ नन्दाद्वि० २१।विनायकी, पूर्णिमा, रङ्गिणी, कूर्दनी, इच्छा, कपालिनी, दीपनी, जयन्तिका ८ नन्दायिकाप्र०। पावनी, अम्बिका, सर्वाशा, पूतना, छागलीमोदिनी, लम्बोदरी, संहारी, कालिनी, कुसुमा,शुक्रा, तारा, ज्ञाना, क्रिया, गायत्रिका, सावित्री १६ नन्दायिकाद्वि० २२। दन्तुरी, फेत्कारी, क्रोधहंसा, षडङ्गुला, आनन्दा, सुदुर्गा, संहारी, अमृतापितामहीम०। कुलान्तिका, अनला, प्रचण्डा, मर्दिनी, शुभा, सर्वभूताभया, वडवामुखी, लम्पटा, पनगा, कुसुमा, विपुलान्तिका, केदारा, कूर्मा, दुरिता, मन्दरोदरी, खड्गचण्डा १६ पितामहीद्वि० २३। वज्रा, मन्मथा,चोरा, विकारा, रिपुभेदिनी, रूपा, चतुर्भुजा, योगा, ८पितामहायिकाप्र०। भूताभया, महाबाला, खर्परा, भस्मा,कान्ता, सृष्टि, द्विभुजा, ब्रह्मरूपिणी, सद्यःफेत्कारिका, कर्णमोटी, महामोहा, महामाया, गान्धारी, पुष्पमालिनी, शब्दायी,सुमहाघोषा १६ पितामहायिकाद्वितीयावरणमिति २४। एवं सर्वा देवताः प्रतिष्ठाप्य शिवमनोन्मनीम नोन्मनदेवानां पूर्वोक्तमन्त्रैरन्यासां नाममन्त्रैरावाहनपूर्वोक्तध्यानपूर्वकं षोडशो-
पचारैःछत्रचामरादर्शादिराजोपचारैश्च यथाविभवं स्थापनक्रमेण काण्डानुसमयेन पदार्थानुसमयेन वा यथाशक्ति पूजनं कृत्वा सपत्नीकयजमा- नसहितः पुष्पाञ्जलिं दत्त्वा नमोऽन्तैर्नाममन्त्रैः प्रत्येकं पायसबलिं च दत्त्वा दण्डवत्प्रणमेदाचार्यः। अस्मिन्नेव च समये कैश्चित्सहायैः सहितः पुरोहितो रुद्रक्षेत्रे तदभावे रुद्राभिषेकार्थमेव कृते प्रतिष्ठापितमण्डपदेवते मण्डपे बाणलिङ्गमूर्तिंमहादेवं लिङ्गपुराणगतेन विष्णुप्रोक्तेन भवादिशिवना- मसहस्रेण यथाविभवं सम्पूज्य सपत्नीकयजमानसहितः पुष्पाञ्जलिं दत्वा क्षीरेण दध्ना पञ्चगव्येन वा पूरितं ताम्रमयं मृन्मयं वा कलशसहस्रं पूर्वोक्तविधिना तदग्रे स्थापयित्वा सर्वेषु कलशेषु ब्रह्मकूर्चान्निक्षिप्य तत्कलशस्थितक्षीरादिना ब्रह्मकूर्चैस्तमेव महादेवं रुद्राध्यायं पठन्नभिषेचयेत्। ततो महादेवस्यानुज्ञया तदभिषेकावशिष्टेन क्षीरादिना“ॐ अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः। **सर्वेभ्यः शर्वसर्वेभ्यो नमस्तेअस्तु रुद्ररूपेभ्यः ”**इत्यघोरमन्त्रेण, “त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम्।उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमामृतात्” इति त्र्यम्बकमन्त्रेण वा राजानमभिषिञ्चेत्पुरोहित एव। अघोरमन्त्रस्य सांहितीर्देवता उपनिषद ऋषयः रुद्रोदेवता स्वराडनुष्टुप्छन्दः राज्ञोऽभिषेके विनियोगः।त्र्यम्बकमन्त्रस्य वसिष्ठऋषिर्मृत्युञ्जयरुद्रो देवताऽनुष्टुप्छन्दः। विनियोगः स एव। ततः प्रधानमण्डपे पूर्वाग्नेयादिदिग्विदिग्गनेष्वष्टसु कुण्डेषु स्थण्डिलेषु वा ब्रह्मसहिता होतारोऽष्टौ पूर्वैशान्यन्तरालगते कुण्डेषु स्थण्डिले वा आचार्यो नृपएव पुरोहितो वा ब्रह्मसहितो यथास्वगृह्यमग्निप्रतिष्ठादिप्रधानदोमप्राचीनमङ्गकाण्डं कृत्वा प्रधानहोमसमये अघोरमन्त्रेण त्र्यम्वकमन्त्रेण वा घृतपलाशसमिदाज्यचरुलाजशा-
लिनीवारतण्डुलैः प्रतिद्रव्यमष्टोत्तरसहस्रमष्टोत्तरशतं वाऽऽहुतीर्जुहुयुः मन्त्रयोर्ऋषिदेवताच्छन्दांस्युक्तान्येव। जयाभिषेकाङ्गहोमेविनियोग इति विशेषः। अन्ते च स्वाहाकारः। एवं सर्वत्र।तत्र याम्ये होत्रा कृष्णवामसा भवितव्यम्। तत्तद्वेदशाखागतान्यग्निमुखानि तुलादानादिप्रयोगेषु द्रष्टव्यानि विस्तरभयान्नोच्यते। होमसमये द्वारजापकजप्यानि तत्तद्वेदगतानि शान्ति सूक्तान्यपि तत्रैव द्रष्टव्यानि। यद्वा प्रतिकुण्डं भिन्नभिन्नाः प्रधानहोममन्त्राः। यथा — “ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि। तन्नो रुद्रः प्रचोदयात्" इति पुरुषमन्त्रः प्राक्कुण्डे। अस्य सांहितीर्देवता उपनिषदऋषयः, रुद्रो देवता, गायत्रीछन्दः, विनियोगः प्राग्वत्। एवमग्रेऽपि। “ॐ जातवेदसे सुनवामसोममरातीयतो निदहाति वेदः। नः पर्षदतिदुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः" इत्याग्नेये “रुद्रो वा एषयदग्निः “इति श्रुतेश्चरौद्रो मन्त्रः। अस्य काश्यपो जातवेदा अग्निस्त्रिष्टुप्। अघोरेभ्य इत्यादिघोरमन्त्रः प्रागुक्त एव दक्षिणे। “ ॐ निशिनिशि जय स्वाहा खगराक्षसभेदन\। रुधिराज्यार्द्रनिर्ऋत्यै स्वाहा नमः स्वधा नमः” इतिपौराणो नैर्ऋतो मन्त्रो नैर्ऋत्ये।
“ॐ नमोऽस्तु वामदेवाय नमो ज्येष्ठाय शूलिने।
रुद्राय कालरूपाय कलाविकरणाय च॥
बलाय बलप्रमथनाय सर्वभूतदमनाय च।
मनोन्मनाय देवाय मनोन्मन्यै नमोनमः॥”
इतिमन्त्रःपौराणःपश्चिमे। ॐ समीर समीर स्वाहा स्वधा नमो नमः" इति पौराणो मन्त्रो वायव्ये।“ॐ सद्योजातं प्रपद्यामि सद्योजाताय वै नमः। भवे भवे नातिभवे भवस्वमां भवोद्भवाय नमः" इति मन्त्र उत्तरे।
अस्य सांहिती देवता उपनिषदो रुद्रो बृहती। “ॐ ईशानाय कद्रुद्राय रुद्राय प्रचेतसे त्र्यम्बकाय शर्वाय। तन्नोरुद्रः प्रचोदयात्" इत्यैशान्ये। अस्य अघोरः कण्वो रुद्रो गायत्री। “ॐ ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम्। ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवोम्" इति पूर्वैशान्यन्तरालगते प्रधानकुण्डे। अस्य सांहिती देवता उपनिषदो रुद्रो गायत्री। एवं प्रधानहोमं कृत्वा स्वाहान्तैर्नामभिः प्रत्येकमाज्येनैकैकामाज्याहुतिंस्वकुण्डे जुहुयादाचार्य पूर्वोक्तमण्डलदेवताभ्यः। ततः स्विष्टकृदादि। अघोरमन्त्रेण प्रायश्चित्ताहुतिपुरःसरं सर्वे पूर्णाहुतिप्राचीनमुत्तराङ्गकाण्डं कृत्वा राज्ञा दिक्पालादिभ्यो बलिदाने कृते सर्वैरवशिष्टोमद्रव्यैः पुनः राजानम्अ घोरमन्त्रेण त्र्यम्बकमन्त्रेण वाभिषिञ्चेयुः। ततोऽभिषिक्तेन राज्ञा यथास्वगृह्यंपुण्याहवाचने कृते, त्र्यम्बकमन्त्रेण हेममयं मृणालयुक्तं कौतुकं राज्ञोदक्षिणकरे बघ्नीयादाचार्यः। ततस्तत्रैव महामण्डपे राजानमधिवासयेत्।राज्ञा च मूत्रोत्सर्गाद्यावश्यकवर्जं तत्रैवाधिवस्तव्यम्। ऋत्विग्भ्यश्चाधिवासनदक्षिणा यथाशक्ति देया। गीतवादित्रपुराणादिभिश्च तस्यां रात्रौ जागरणं कार्यम्। उपोषणं च तद्दिने सर्वेषाम्। अशक्तस्य हविष्याशनम्। ततोऽपरेद्युःप्रातरुत्थाय नित्यकर्म कृत्वा सर्वे स्वस्वकुण्डे यथाशाखं पूर्णाहुतिं जुहुयुः। अथाचार्यःपुरोहितर्त्विगादिसहितः प्रधानमण्डपादुचरतः कृते द्वारदेशात्पदमात्रे निखातैः प्रागादिक्रमेण पलाशोदुम्बराश्वत्थवटमयैस्तोरणैर्युक्ते दशहस्ते राजाभिषेकमण्डपे तोरणेषु हेमकुम्भान्निधाय दिग्गजाटष्टकं चावाह्य सर्वतो दर्भमाला आबध्य द्वारदेशे कुम्भान्संस्थाप्य द्वारादिप्रदेशेषु इक्षुस्तवराजनिष्पावाजाजिधान्यकविकारव
द्गोक्षीरकुसुम्भपुष्पलवणाख्यान्यष्टमङ्गलद्रव्याणि प्रकीर्य साधारणविधया च मण्डपप्रतिष्ठां कृत्वा तन्मध्यस्थायां रचितस्वस्तिकादिमण्डलायामा स्तृतदर्भायां विकीर्णाष्टमङ्गलद्रव्यायां वेद्यां सुवर्णरूप्यताम्रान्यतरमयं क्षीरिवृक्षजं वा माण्डलिकानन्तरजिन्महाराजानां क्रमेणैकसपादसार्द्ध हस्तोछ्रायायामं भद्रासनं संस्थाप्य तदुपरि परिहितनववस्त्रं सायुधमलङ्कृतं शुद्धभस्मोद्धूलितसर्वाङ्गं राजानमुपवेश्य तद्वामतस्तत्पत्नीं चोपवेश्य “तन्महेशाय विद्महे वाग्विशुद्धाय धीमहि। तन्नःशिवःप्रचोदयात्॥ ”इतिशिवगायत्र्या शिवकुम्भेनाभिषिच्य पूर्वोक्तया गौरीगायत्र्या वर्धन्या चाभिषिच्य शेषकलशैः स्थापनक्रमेण रुद्राध्यायं पठन्नभिषिञ्चेत्, अघोरमन्त्रेण वा। तदा च प्रतिकलशं तदावृत्तिः।अभिषेकश्च कलशनिहितान्कूर्चान् कलशमुखेष्वानीय तद्द्वारा राजमूर्धनि यथोदकं पतति तथा कार्यः, कूर्चैःप्रोक्षणं वा। तदा चेतरेऽपि ब्राह्मणाः स्वस्वशाखागतान् “सुरास्त्वामभिषिञ्चन्तु” इत्यादिपौराणांश्चाभिषेकमन्त्रान्पठेयुः।शङ्खभेर्यादिनानावाद्यशब्दश्च विधेयः।मन्त्र्यादयो राजसेवकाःपौरादयश्च जयादिशब्दै राजानं वर्धयेयुः। ततः कलशान्तर्गतपिष्टौषधिलेपपूर्वकं राजा शुद्धोदकेन स्नात्वा क्षौमे वाससी परिधाय घृतप्रभूतशुक्लमणिखचितमुकुटादिदिव्यभूषणनृपचिह्न आचार्यादिभिः प्रणीता निनयनादौ कर्मशेषे समापिते यथाचारं भस्मधारणं कुर्यात्।नृपचिह्नानि च नवोपकल्पितानि शिविकावैजयन्तीचन्द्रसमप्रभच्छत्रशङ्खचामरभेर्यादीन्युत्तमानि भूषणानि च प्रभूतान्याचार्यो राज्ञेदद्यात्। ततः कृतजयाभिषेकप्रतिष्ठासिद्ध्यर्थम् अष्टषष्टिपलहेमनिर्मितं नवरत्नालङ्कृतं सुरद्रुमं
दशधेनुशतानि सुशोभनं क्षेत्रं प्रत्येकं शतद्रोणमितांस्तिलांस्तण्डुलांश्च सोपधानतूलिकाद्युपस्करां शय्याम्अश्वादिवाहनं रथादियानं च आचार्यायामुकशर्मणे दक्षिणामहं सम्प्रददेन ममेति गुरवे दक्षिणां दद्यात्। परिमाणतो मूल्यतश्चैतदर्घमितानि सुरद्रुमादीनि मिलितेभ्यः सर्वेभ्यो होतृभ्यस्तथैव तदर्घमितानि सर्वाणि मिलितेभ्यो द्वारजापकेभ्यस्तदर्धमितानिब्रह्मभ्यो गुरुवदेव दद्यात्।सर्वे च स्वस्त्युक्तिकामस्तुत्यादिपूर्वकं प्रतिगृह्णीयुः। पुरोहिताय चजयाभिषेकाङ्गभूतरुद्राभिषेकप्रतिष्ठासिद्ध्यर्थंयथाशक्ति सुवर्णादूर्ध्वं हिरण्यं दक्षिणां दद्यात्।रुद्राभिषेकोपस्करं च बाणलिङ्गकलशमण्डपादिकं प्रतिपादयेत्। तत इतरसहायभूतब्राह्मणेभ्योऽपि यथाशक्ति सुवर्णंदक्षिणां दद्यात्।दीनानाथादिभ्यश्च यथाशक्ति भूयसीम्।ब्राह्मणभोजनं च सहस्रावरं यथाशक्ति सङ्कल्पयेत्। ततः स्थापितदेवतानामुत्तरपूजां कृत्वा सर्वाःप्रतिमाः कलशादिसर्वोपस्कर- युताःसोपस्करं च मण्डपद्वयमाचार्यहस्ते प्रतिपादयेत्\। होमोपकरणानि स्रुगाज्यचरुस्थाल्यादीनि तत्तद्धोनृहस्ते, हविः शेस्षाश्च तत्तद्ब्रह्महस्ते प्रतिपादयेत्। ततस्तत्तत्कुण्डस्थितानग्नीन् यथाविभवं गन्धादिदक्षिणान्तोपचारैः सम्पूज्य नमस्कृत्य सर्वान् प्रदक्षिणीकृत्य “गच्छ गच्छ सुरश्रेष्ठ" इति सर्वान् विसर्जयेत्। तत आचार्यादिभिः कर्मणः सम्पूर्णतामच्छिद्रतां च वाचयित्वा राजा आचार्यादिसहितो महादेवस्य महतीं पूजां यथाविभवं महता सम्भारेण रुद्रमन्त्रेण कृत्वा “यस्य स्मॄत्या च” इत्याद्युक्त्वा सकलस्वकीयसुहृन्मन्त्रिपरिजनादियुतो भुञ्जीत।तद्दिने च न कस्यापि निगडबन्धनादि कुर्यात्पूर्वबद्धांश्चमोचयेदिति।
इति जयाभिषेकप्रयोगः।
एवं षष्ठे दिने जयाभिषेकं सम्पाद्य मङ्गल्यसुस्वप्रदर्शने समीचीने च निमित्ते सति व्रजदित्युक्तम्। तत्र प्रस्थानतःसप्तमे दिने कियद्दूरे गत्वावस्थेयमित्यपेक्षायाम्—
विष्णुधर्मोत्तरे,
क्रोशमात्रं ततो गच्छेन्नाधिकं तु कदाचन।
गत्वा देशे शुभे तिष्ठेत्पूजयित्वा सुरद्विजान्॥
ततः क्रमेण गच्छेच्च परदेशं महीपतिः।
आत्मसैन्यानुरूपेण कृतरक्षः पथा द्विज।
कृतरक्षः सन् आत्मसैन्यस्यानुरूपेण यवसेन्धनधान्यादिमत्तया योग्येन पथा मार्गेण गच्छेत्।
त्रिरात्रमुषितो गच्छेद्भूयो नक्षत्रसम्पदा।
नक्षत्रसम्पदेति चन्द्रशुद्धिनिषिद्धयोगकरणादिराहित्योपलक्षणम्।
यवसेन्धनतोयानां रक्षको विषदूषणात्।
परानभिमुखो गच्छेत्प्रभूतयवसेन्धनः॥इति।
मनुः,
कृत्वा विधानं मूले तु यात्रिकं च यथाविधि।
मूले, मूलभूते स्वदेशे। विधानं, तद्रक्षणार्थंसैन्यस्थापनादि।
उपगृह्यास्पदं चैव चारान् सम्यग्विधाय च॥
संशोध्य त्रिविधं मार्गं षड्विधं च बलं स्वकम्।
साम्परायिककल्पेन यायाद्रिपुपुरं प्रति॥
त्रिविधं मार्गं,जलस्थलवनरूपं मार्गम्। षड्विधं बलं, “मौलं च भृतकं चैव” इत्यादिनाभिहितम्। साम्परायिककल्पेन, युद्धकल्पेन।
शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत्।
गतप्रत्यागते चैव स हि कष्टतरो रिपुः॥ इति।
मत्स्यपुराणे तु कालविशेषेण सेनायां विशेष उक्तः—
पदातिनागबहुलां सेनां प्रावृषि योजयेत्।
हेमन्ते शिशिरे चैव रथवाजिसमाकुलाम्॥
खरोष्ट्रबहुलां सेनां तथा ग्रीष्मे नराधिपः।
चतुर्विधवलोपेतां वसन्ते वा शरद्यथ॥
सेना पदातिबहुला यस्य स्यात्पृथिवीपतेः।
अभियोज्यो भवेत्तेन शत्रुर्विषयमाश्रितः॥
गम्ये वृक्षावृते देशे स्थितं शत्रुं तथैव च।
किञ्चित्पङ्केत्तथा यायाद्बहुनागो नराधिपः॥
रथाश्वबहुलो यायात् शत्रुं समपथाश्रयम्।
जलाश्रयं नौबहुलस्तथा राजा रिपुं जयेत्॥
खरोष्ट्रबहुलो राजा शत्रुं च वनसंस्थितम्।
न वनस्थोऽभियोज्योऽरिः सदा प्रावृषि भूभुजा।
हिमपातयुते देशे स्थितं ग्रीष्मेऽभियोजयेत्।
यवसेन्धनसंयुक्तं काले पार्थिव हैमने॥
शरद्वसन्तौ धर्मज्ञ कालौ साधारणौ मतौ।
विज्ञाय राजा हितदेशकालौदैवं त्रिकालं च तथैव बुद्धा।
यायात्परं कालविदां मतेन सञ्चिन्त्यमानं द्विजमन्त्रविद्भिः॥ इति।
विष्णुधर्मोत्तरे,
रामउवाच।
साङ्ग्रामिकमहं त्वत्तः श्रोतुमिच्छामि भू
भुजाम्।
सर्वंवेत्सि महाभाग त्वं देव परमेष्ठिवत्॥
पुष्करउवाच।
द्वितीयेऽहनि सङ्ग्रामो भविष्यति यदा तदा।
गजाश्वान्स्नापयेद्राजा सर्वौषधिजलैः शुभैः॥
गन्धमाल्यैरलङ्कुर्यात् पूजयेच्च यथाविधि।
नृसिंहं पूजयेद्विष्णुं राजलिङ्गान्यशेषतः॥
छत्रं ध्वजं पताकां च वर्म चैव महाभुज।
आयुधानि च सर्वाणि तथा पूज्यानि भूभुजा॥
तेषां सम्पूजनं कृत्वा रात्रौ प्रमथपूजनम्।
कृत्वा तु प्रार्थयेद्राजा विजयायेतराय वा॥
प्रमथांश्च सहायार्थे धरणीं च महीभुजम्।
भिपक्पुरोहितामात्यमन्त्रिमध्ये तथा स्वपेत्॥
संयतो ब्रह्मचारी च नृसिंहंसंस्मरन् हरिम्।
रात्रौ दृष्टे शुभे स्वप्ने समरारम्भमाचरेत्॥
रात्रिशेषे समुत्थाय स्नातः सर्वौषधीजलैः।
पूजयित्वा नृसिंहं तु वाहनाद्यमशेषतः॥
पुरोधसा हुतं पश्येज्ज्वलितं जातवेदसम्।
पुरोधाः पूर्ववतत्र मन्त्रांस्तु जुहुयात्पुनः॥
दक्षिणाभिः शुचिर्विप्रान पूजयेत्पृथिवीपतिः।
ततोऽनुलिम्पेद्गात्राणि गन्धद्वारेति पार्थिवः॥
चन्दनागुरुकर्पूरकान्तकालीयकैः शुभैः।
मूर्ध्नि कण्ठे समालभ्य रोचनां च तथा शुभाम्॥
आयुष्यं वर्चसं चैव मन्त्रेणानेन मन्त्रितम्।
अलङ्ककरणमावध्याच्छ्रियं धातुरितिस्रजम्॥
या ओषधय इत्येवं धारयेदोषधीः शुभाः।
नवो नवेति वस्त्रं च कार्पासं बिभृयाच्छुभम्॥
ऐन्द्राग्नेति ततो वर्म धन्वनागेति वै धनुः।
ततो राजा समादद्यात्सशरं त्वभिमन्त्रितम्॥
कुञ्जरं वा रथं वाश्वमारुहेदभिमन्त्रितम्।
आरुह्य शिविराद्राजाविनिष्क्रम्य समे शुभे।
देशे त्वदृश्यः शत्रूणां कुर्यात्प्रकृतिकल्पनाम्॥इति।
अथ पुरोहितकर्तृकमाश्वलायनोक्तं सन्नहनं राजधर्मत्वादुच्यते।
सङ्ग्रामे समुपोढे राजानं सन्नाहयेदात्वार्षमन्तरेधीति पश्चाद्रथस्थावस्थाय जीमूतस्येव भवति प्रतिकमिति कवचं प्रयच्छेदुत्तरया धनुरुत्तरां वाचयेत्स्वयं चतुर्थींजपेत्पञ्चम्येषुधिं प्रयच्छेदभिप्रवर्तमानें षष्ठीं सप्तम्याश्वानष्टमीमिषूनवेक्षमाणं वाचयत्यहिरित्रभोगेःपर्येति बाहुमिति तलंनह्यमानमथैनं सारयमाणमुपारुह्याभीवर्त्तं वाचयति प्रयो वां मित्रावरुणेति च द्वे अथैनमन्वीक्षेताप्रतिरथशाससौपर्णैः प्रधारयन्तु मधुनो घृतस्येतत्सौपर्णंसर्वा दिशोऽनुपरि यायादादित्यमौशनसं वावस्थाय प्रयोधयेदुपश्वासय पृथिवीमुत द्यामिति तृचेन दुन्दुभिमभिमृशेदवसृष्टा परापतेतीषून्विसर्जयेद्यत्र बाणाःसम्पोतन्तीति युध्यमानेषु जपेत्संशिष्याद्वा संशिष्याद्वा। इति। ( आ० गृ० सू० अ० ३ \। कं० १२। )
अस्यार्थः। समुपोढे उपस्थिते। सन्नाहयेत्, पुरोहित इति शेषः। आत्वेति सूक्तं, जपेदितिशेषः ।पादग्रहणेन ऋग्ग्रहणे प्राप्तेऽप्यत्र सूक्तग्रहणमितिवृत्तिकृत्। जीमूतेति, अस्य मुक्तस्याद्ययेति शेषः, राज्ञे इति च शेषः। उत्तरया “धन्वनागा" इति धनुः प्रयच्छेत् \। उत्तरां “वक्ष्यन्ती वेदा” इति वाचयेत्, राजानमितिशेषः। स्वयं पुरोहितः"ते आचरन्ति" इति जपेत्। पञ्चम्या “वह्नीनां पि-
ता” इति इषुधिं प्रयच्छेत्। इषवो धीयन्ते यत्र स इषुाधः। यथष्टादगभिमुखगमने “रथे तिष्ठन्” इति जपेत्। स
मम्या“तीव्रात् घोषान्” इति अश्वाननुमन्त्रयेत। अष्टमीं “रथवाहनम्” इति इषूनवेक्षमाणं राजानं वाचयेत्। ज्याघातपरित्राणं तलमुच्यते। तेन नह्यमानमेतां वाचयेत्। सारथिना सारयमाणं राजानं रथे आरुह्य “अभीवर्तेन" इति सूक्तं वाचयेत्। प्रयो वामित्यृचौ च। एनं राजानमन्त्रीक्षेत एतैः सूक्तैः। “आशुः शिशान" इत्यप्रतिरथं सूक्तम्। “शास इसेति" सूक्तं शासः। सौपर्णसूक्तानां बहुत्वाद्विशेषमाह — प्रधारेति। एतत्सूक्तं सौपर्णंभवति नान्यत्। अथ राजा सर्वदिशो रथेनानुक्रमेण गच्छेत्। यस्यां दिश्यादित्यस्तां दिशमास्थायाहनि चेत्, रात्रौ चेद्यस्यां दिशि शुक्रस्तां दिशं परिगृह्य योधयेद्राजा। नापि प्रत्यादित्यं नापि प्रतिशुक्रमित्यर्थः। उपश्वासयेत्यादौ राजा कर्त्ता। यत्र बाणा इत्यत्र तु पुरोहितः कर्त्ता ।संशिष्याद्वा। अथ वा पुरोधा आचक्षीत एतस्मिन् काले इयमृक्तवेति। यथा आत्वा हार्षमन्तरेधीतिसूक्तं पश्चाद्रथस्यावस्थाय ब्रूहि, जीमूतस्येति कवचं गृहाणेत्येवमादि। अध्यायान्तलक्षणार्थंद्विर्वचनमिति।
मनुः,
दण्डव्यूहेन तं मार्गं यायात्तु शकटेन वा।
वराहमकराभ्यां वा सूच्या वा गारुडेन वा॥
यतः शङ्केत सभयं ततो विस्तारयेद्वलम्।
पाद्मेन चैव व्यूहेन निवसेत सदा स्वयम्॥
सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत्।
भयं यतो वा शङ्केत तां प्राचीं कल्पयेद्दिशम्॥
गुल्मांश्च स्थापयेदाप्तान्शतसङ्ख्यांस्ततस्ततः77।
स्थाने युद्धे च कुशलानभीरूनविकारिणः॥ इति।
शकटादिव्यूहानां लक्षणानि लक्षणप्रकाशे द्रष्टव्यानि।
विष्णुधर्मोत्तरे,
कुञ्जरं वा रथं वाश्वमारुहेदभिमन्त्रितम्।
आरुह्य शिविराद्वाजा विनिष्क्रम्य समे शुभे॥
देशे त्वदृश्यःशत्रूणां कुर्यात्प्रकृतिकल्पनाम्।
संहतान् योधयेदल्पान् कामं विस्तारयेद्बहून्॥
सूचीमुखमनीकं स्यादल्पानां बहुभिः सह।
व्यूहाःप्राण्यङ्गरूपाश्च द्रव्यरूपाश्च कल्पिताः॥
गारुडो मकरव्यूहश्चक्रं श्येनस्तथैव च।
अर्द्धचन्द्रश्च चन्द्रश्च शकटव्यूह एव च॥
व्यूहश्चसर्वतोभद्रः सूचीव्यूहस्तथैव च।
पद्मश्च मण्डलव्यूहः प्राधान्येन प्रकीर्तिताः॥
व्यूहानामथ सर्वेषां पञ्चधा सैन्यकल्पना।
द्वौ पक्षौ बन्धपक्षौ द्वावुरस्थःपञ्चमो भवेत्॥
एकेन यदि वा द्वाभ्यां भागाभ्यां युद्धपाचरेत्।
भागत्रयं स्थापयेत्तु तेषां रक्षार्थमेव च।
न व्यूहे कल्पना कार्या राज्ञो भवति कर्हिचित्।
राज्ञो व्यूहे कल्पना, व्यूहरचनामध्ये पक्षादिका या कल्पना तत्तत्प्रदेशावस्थानरूपा सा न कार्या भवति। तत्र हेतुः—
पत्रच्छेदे फलच्छेदे वृक्षश्छेदावकल्पने।
पुनः प्ररोहमायानि मूलच्छेदे विनश्यति॥
छेदावकल्पने छेदकरणे।
स्वयं राज्ञा न योद्धव्यमपि सर्वास्त्रशालिना।
नित्यं लोके हि दृश्यन्ते शक्तेभ्यः शक्तिमत्तरा॥
सैन्यस्य पश्चात्तिष्ठेत्तु क्रोशमात्रे महीपतिः।
भग्नसन्धारणं तत्र योधानां परिकीर्तितम्॥
प्रधानभङ्गेसैन्यस्य नावस्थानं विधीयते।
तत्र, क्रोशमात्रावस्थिते राज्ञि। युद्धादिना परराष्ट्रग्रहणंराज्ञोऽवश्यकर्त्तव्यमित्याह—
याज्ञवल्क्यः,
य एव धर्मो नृपतेः स्वराष्ट्रपरिपालने।
तमेव कृत्स्नमाप्नोति परराष्ट्रं वशं नयन्॥ इति।
शङ्खलिखितौ, राजक्रतुरेवाश्वमेधस्तं नासार्वभौमः प्रतिपादयितुमर्हति। अश्वमेधेन यक्ष्य इति परविषयमभियायाद्देशकालशक्तिसम्पन्नः प्रभूतयवसेन्धनोदकाविच्छिन्नसाम्परायिकः पथि संविहितसर्वोपकरणो दुर्गासारामात्यदेशदण्डाक्रन्दाद्यगुणविधिज्ञः पर्षदं प्रति नयवान् विदितमध्वानं हितमनुक्रामेत् यथाभूमिभागस्तथा विनियोगः श्रेयान् पानभोजनोपनिवेशस्थानशङ्काप्रतिविधानकुशलो भूपतिरवाहितः शत्रुणा सह युद्ध्येत्। इति।
युद्ध्यता राज्ञाकिं कर्त्तव्यमित्यपेक्षायाम्—
विष्णुधर्मोत्तरे,
न भग्नान् पीडयेच्छत्रूनेकायनगता हि ते।
मरणे निश्चिताः सर्वे हन्युः शत्रूंश्चमूरपि॥
शठा भङ्गच्छलेनापि नयन्ति स्वभुवं परान्।
तेषां स्वभूमिसंस्थानां वधः स्यात्सुकरस्तदा॥
न संहतान्न विरलान् योधान् व्यूहे प्रकल्पयेत्।
आयुधानां तु सम्पर्दो यथा न स्यात्परस्परम्॥
तथा तु कल्पना कार्या योधानां भृगुनन्दन।
भेत्तुकामः परानीकं संहतैरेव भेदयेत्॥
भेदरक्षापरेणापि कर्त्तव्या संहता तथा॥
स्वेच्छया कल्पयेद्व्यूहं ज्ञात्वा वाऽरिप्रकल्पितम्।
व्यूहं भेदावहं कुर्याद्रिपुव्यूहस्य पार्थिवः॥
गजस्य देया रक्षार्थंचत्वारस्तु रथा द्विज।
रथस्य चाश्वाश्चत्वारश्चत्वारस्तस्य चर्मिणः॥
चर्मिभिश्च समास्तत्र धन्विनः परिकीर्तिताः।
पुरतश्चर्मिणो देया देयास्तदनु धन्विनः॥
धन्विनामनु चाश्वीयं रथांस्तदनु योजयेत्।
रथानां कुञ्जराश्चानु दातव्याः पृथिवीक्षिता॥
पदातिकुञ्जराश्वानां वर्म कार्यंप्रयत्नतः।
अवर्मयित्वा यो वाहमात्मानं वर्मयेन्नरः॥
स राम नरकं याति सुकृतेनापि कर्मणा।
शूराः प्राङ्मुखतो देया न देया भीरवः क्वचित्॥
शूरान् वा मुखतो दत्त्वा स्कन्धमात्रप्रदर्शनम्।
कर्त्तव्यं भीरुसङ्गेन शत्रुविद्रवकारकम्॥
दारयन्ति पुरस्तात्तुविद्रुता भीरवः पुरः। इति।
यदि च परबलं दृष्ट्वा शत्रुर्युद्धोपक्रमं न करोति आसनमेव करोति तदा किं कर्त्तव्यमित्यपेक्षायाम्—
मनुः,
उपरुध्यारिमासीत राष्ट्रंचास्योपपीडयेत्।
दूषयेच्चास्य सततं यवसान्नोदकेन्धनम्॥
भिन्द्याच्चैव तडागानि प्राकारपरिखास्तथा।
समवस्कन्दयेच्चैनं रात्रौ वित्रासयेत्तथा॥
उपजप्यानुपजपेद्बुध्येतैव च तत्कृतम्।
युक्ते च दैवे युद्ध्येत जयप्रेप्सुरपेतभीः॥
उपजपेत्, भेदं कुर्यात्।
एवं विजयमानस्य येऽस्य स्युः परिपन्थिनः।
तानानयेद्वशं सर्वान् सामादिभिरुक्रमैः॥
यदि ते तु न तिष्ठेयुरुपायैः प्रथमैस्त्रिभिः।
दण्डेनाभिप्रसह्यैतांश्छनकैर्वशमानयेत्॥ इति।
सामादीनुपायानभिधाय युद्धं गत्यन्तराभाव एव कर्त्तव्यमित्यभिप्रायेणोक्तम्—
श्रीरामायणे,
तत्र साम प्रयोक्तव्यमार्येषु गुणवत्सु च।
दानं लुब्धेषु भेदश्च शङ्कतेष्वितिनिश्चयः॥
दण्डस्तथैव पात्यश्च नित्यकालं दुरात्मसु। इति।
मनौ,
साम्ना भेदेन दानेन समस्तैरुत वा पृथक्।
विजेतुं प्रयतेतारीन्नयुद्धेन कदाचन॥
अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः।
पराजयश्चसङ्ग्रामे तस्माद्युद्धं विवर्जयेत्॥ इति।
तथा,
त्रयाणामप्युपायानां पूर्वोक्तानां परिक्षये।
तथा युद्ध्येत सम्पन्नो विजयेत रिपून् यथा॥
संहतान् योधयेदल्पान् कामं विस्तारयेद्बहून्।
सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्ययोधयेत्॥
युद्ध्येत78 स्यन्दनाश्वेन समेऽनूपोन्नते द्विपैः।
वृक्षगुल्माहते चापैरसिचर्मायुधैः स्थले॥
कौरुक्षेत्रांश्चमात्स्यांश्च पाञ्चालांश्छूरसेनजान्।
दीर्घांल्लघूंश्चैव नरानुग्रानीकेषु योजयेत्॥
प्रहर्षयेद्वलं व्यूह्य भृशार्तांश्च परीक्षयेत्।
चेष्टाश्चैव विजानीयादरीन् योधयतामपि॥इति।
मनुः,
समोत्तमाधमै राजा त्वाहूतः समरे परैः।
न निवर्तेत सङ्ग्रामात्क्षात्रं धर्ममनुस्मरन्॥
आहवेषु. मिथोऽन्योन्यं जिघांसन्तो महीक्षितः।
युद्ध्यमानाः परं शक्त्यां स्वर्गंयान्त्यपराङ्मुखाः॥
न कूटैरायुधैर्हन्याद्युज्यमानो रणे रिपून्।
न कर्णिभिर्नापि दिग्धैर्नाग्निज्वालिततेजनैः॥
मिथःपरस्परं, स्पर्धमाना इतिशेषः। दिग्धैः विषाक्तैः।
महाभारते,
राज्ञां नियोगाद्योद्धव्यं ब्राह्मणेन विशेषतः। इति।
राज्ञोऽधिकमित्यनुवृत्तौ—
गौतमः,
सङ्ग्रामे संस्थानमनिवृत्तिश्च। इति।
देवल,
प्रजार्थंक्षत्रियो युद्ध्येत्स्वान् प्राणान् सम्परित्यजेत्।
अश्वमेधफलं कृत्स्नं निसर्गेणाधिगच्छति॥
शस्त्रेण निहतः सङ्ख्ये द्विषद्भिरपराङ्मुखः।
शक्रलोकमवाप्नोति स्ववीर्याद्विजितं शुभम्॥
आहवेऽभिमुखे शूरं महितानि द्विषद्गणैः।
भिन्द्युर्यावन्ति शस्त्राणि तावन्तः क्रतवोऽस्य ते॥
क्षतेभ्यः प्रस्रुतं रक्तं क्षितिपांसुषु संस्पृशेत्।
स देवलोके तावन्तं कालं तिष्ठति वै ध्रुवम् ॥
नास्ति राज्ञां समरतनुत्यागसदृशो धर्मः।
गोब्राह्मणमित्रधनरक्षणार्थंमृतास्ते स्वर्गभाजः॥
याज्ञवल्क्यः
,
य आहवेषु युध्यन्ते भूम्यर्थमपराङ्खाः।
अकूटैरायुधैर्यान्ति ते स्वर्गं योगिनो यथा॥ इति।
यमः,
क्षत्रियस्योरसि क्षत्रं पृष्ठे ब्रह्म प्रतिष्ठितम्।
तस्मात्पृष्ठं रणे रक्षेन्मा भवेद्ब्रह्मघातकः॥ इति।
पृष्ठं रणे रक्षेदित्यनेन पलायननिषेध।
मनुः,
न च हन्यात्स्थलारूढं न क्लीबं न कृताञ्जलिम्।
न मुक्तकेशमासीनं न तवास्मीति वादिनम्॥
न सुप्तं न विसन्नाहंन नग्नंन निरायुधम्।
नायुद्ध्यमानं पश्यन्तं न परेण समागतम्॥
नायुधव्यसनं प्राप्तं नार्त्तंनातिपरिक्षतम्।
न भीतं न परावृत्तं सतां धर्ममनुस्मरन्॥ इति।
बौधायनः,
भीतमत्तोन्मत्तप्रमत्तविसन्नाहस्त्रीवालवृद्धब्राह्मणैर्न युद्ध्येतान्यत्राऽऽततायिनः। इति।
गौतमः,
न दोषो हिंसायामाहवेऽन्यत्राश्वसारथ्यनायुधकृताञ्जलिप्रकीर्णकेशपराङ्मुखोपविष्टस्थलवृक्षारूढदूतगोब्राह्मणवादिभ्यः।
देवलः,
तृणखादी परप्रेप्सुरलसः शरणं गतः।
षण्ढःपरार्दितो लिङ्गी स्थविरः पतितः शिशुः॥
न धर्मयुद्धे हम्तव्या ज्ञेया योधैरनापदि। इति।
व्यासः,
ये हता निशितैः शस्त्रैः क्षत्रधर्मपरायणाः।
ते गता ब्रह्मसदनं न मेऽत्रास्ति विचारणा॥
न यज्ञैर्दक्षिणाभिर्वा न तपोभिर्न विद्यया।
स्वर्गंयान्ति तथा मर्त्त्यायथा योधा रणे हताः॥
न ह्यधर्मोऽस्ति पापीयान् क्षत्रियस्य पलायनात्।
युद्धाद्धि धर्मः श्रेयान् वै पन्थाः स्वर्गस्य विद्यते॥ इति।
आपस्तम्बः,
ब्राह्मणस्वान्यपजिगीषमाणः प्रत्यानेतुमिच्छन् युद्धयमानो हतोऽसौ साक्षायजः। इति। (?)
धर्म इत्यर्थः। अत्र व्यासवाक्ये “योधा रणे हता” इति सामान्यत उपादानात् आपस्तम्बवाक्येऽपि “युद्ध्यमानो हत" इत्युपादानात्स्थानापत्त्याक्षत्रियातिरिक्तस्यापि क्षत्रवृत्त्या जीवतो युद्धमरणमत्यन्तं धर्मसाधनं, पलायनं सामर्थ्ये सति गोब्राह्मणादीनामसंरक्षणं चात्यन्तमधर्मसाधनमिति द्रष्टव्यम्।
आदित्यपुराणे,
शूरस्याग्रे यदा विप्रआर्त्त उक्रोशते भृशम्।
न च तं त्रायते पापाच्छूरो नरकभाग्भवेत्॥
ब्राह्मणानां गवां चैव रक्षार्थंहन्यते यदि।
स शुरो जीवितं हित्वा इन्दुलोकं प्रपद्य॥ इति।
याज्ञल्क्ये,
पदानि क्रतुतुल्यानिभग्नेष्व विनिवर्तिनाम्।
राजा सुकृतमादत्ते हतानां विपलायिनाम्॥इति।
आदित्यपुराणे,
प्रजार्थे निहता ये च राजानो धर्मतत्पराः।
अग्निविद्युद्धता ये च सिंहव्याघ्रहताश्च ये॥
प्राप्नुवन्ति च ते सर्वे पुरीमैरावतीमिमाम्।
निहताः, शस्त्रादिना। अग्निविद्युद्धता इत्यादावपि प्रजार्थे इत्यनुषज्यते।
मनौ,
यदस्य सुकृतं किञ्चिदमुत्रार्थमुपार्जितम्।
भर्त्ता तत्सर्वमादत्ते परावृत्तहतस्य तु॥ इति ।
आदित्यपुराणे,
सङ्ग्रामे प्रस्थितं भूपं भृत्यस्त्यजति यः क्षणात्।
स तेन नृपदण्डेन मूढो नरकमृच्छति॥
जित्वारिं भोगसम्प्राप्तिर्मृतस्य च परा गतिः।
निष्कृतिः स्वामिपिण्डस्य नास्ति युद्धसमा गतिः॥
शूराणां यद्विनिर्याति रक्तमाधावतां क्वचित्।
तेनैव सह पाप्मानं सर्वंत्यजति वै मुने॥
तथा व्रणचिकित्सायां वेदनां सहते तु याम्।
ततो नास्त्यधिकं लोके तपः परमदारुणम्॥
मृतस्य नास्ति संस्कारो नाशौचं नोदकक्रिया।
कर्त्तुमिच्छति यस्येह सङ्ग्रामादधिकं हि किम्॥
वराप्सरः सहस्राणि शूरमायोधने हतम्।
अभिद्रवन्ति कामार्त्ता मम भर्त्ता भविष्यति॥
यःसहायान् परित्यज्य स्वस्थः सन् गन्तुमिच्छति।
असून्हि तस्य कृन्तन्ति देवाः शक्रपुरोगमाः॥ इति।
तथा,
तोषयित्वा नृपं युद्धे राज्ञां हत्वाग्रतः स्थितम्।
जित्वा न हरति द्रव्यं स नरः स्वर्गमाश्रितः॥
मुद्राति यदि राष्ट्राणि यदा न हरते धनम्।
यदि वध्येत तत्रैव स नरः स्वर्गमाश्रितः॥
युद्धार्जितं यत् तत्किंकर्त्तव्यमित्यपेक्षायाम्—
मनुः,
रथाश्वं हस्तिनं छत्रं धंनं धान्यं पशून्स्त्रियः।
सर्वद्रव्याणि कुप्यं च यो यज्जयति तस्य तत्॥
राज्ञश्च दद्युरुद्धारमित्येषा वैदिकी श्रुतिः।
राज्ञा च सर्वयोधेभ्यो दातव्यमपृथग्जितम्॥
सर्वद्रव्याणि, वस्त्रादीनि।कुप्पं, सुवर्णरजतान्यताम्रादि। अपृथग्जितं, योधैःसह सम्भूय जितम्। अत एव गौतमेन पृथग्जिते वाहनादौ च विशेष उक्तः—
जेता लभेत साङ्ग्रामिकं वित्तं वाहनं तु राज्ञो योद्धृंश्च पृथग्जये यथार्हंसभाजयेद्वाजा। इति।
पृथग्जये, स्वयमेकाकिनैवार्जिते वित्ते।योद्धृन्यथार्हम्, यथोचितं पूर्वकृतमानसत्कारादिकमपेक्ष्य। सभाजयेत् पूजयेत्। पूर्वशत्रुविजयानन्तरं राज्ञः कर्त्तव्यमुक्तम्—
मनुना,
जित्वा सम्पूजयेद्देवान् ब्राह्मणांश्चैव धार्मिकान्।
प्रदद्यात्परिहारांश्चख्यापयेदभयानि च॥
सर्वेषां तु विदित्वैषां सममेव चिकीर्षितम्।
स्थापयेत्तत्र तद्वंश्यं कुर्याच्च समयक्रियाम्॥
प्रमाणानि च कुर्वीत तेषां धर्मान् यथोदितान्।
रत्नैश्च पूजयेदेनं प्रधानपुरुषैः सह॥
आदानमप्रियकरं दानं च प्रियकारकम्।
अभीप्सितानामर्थानां कालयुक्तं प्रशस्यते॥
जित्वा, परराष्ट्रंजित्वा।देवान्, धार्मिकान् ब्राह्मणांश्च, तद्देशवासिन इति शेषः। सम्पूजयेत्, यथार्हंभूमिसुवर्णदानमानादिभिः सत्कुर्यात्। परिहारान्, न मया लोभाद्याविष्टेनास्य जयः कृतः किन्त्वयमस्मानेवमेवमपकृतवांस्ततोऽस्य मगा जयः कृतइत्यादीनि स्वनिरपराधताख्यापनानि। यद्वा। परिहारान्, दानानि, लब्धं च सुवर्णादिकं मया ब्राह्मणसात्कृतमित्यादिकांश्च।तथा स्वामिदृढभक्तैर्यैर्ममापकृतं तेषामपराधा मया क्षान्ताः स्वस्वव्यापारमनुतिष्ठन्त्वित्यभयं च ख्यापयेत्। तदाह—
याज्ञवल्क्यः,
नातः परतरो धर्मो नृपाणां यद्रणार्जितम्।
विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश्चाभयं सदा॥ इति।
एषां सर्वेषां, परकीयामात्यादीनाम्। चिकीर्षितम्, अभिप्रायम्। समं, तुल्यम्। विदित्वा, ज्ञात्वा। तद्वंश्यं, सङ्ग्रामहतस्य राज्ञो वंशे भवम्। स्थापयेत्, तत्पदेऽभिषिञ्चेत्। समयक्रियाम् इतः परं त्वयाऽस्मास्वेवं दिशा वर्त्तितव्यमितिसमयबन्धम्। तेषाम् परेषां राज्ञाम्। यथोदितान्, यथाकुलक्रमागतान्। धर्मान्, आचारान्। प्रमाणानि कुर्वीत, शथपरूपत्वेन कारयेत्। यदि त्वमस्मात्समयबन्धाच्च्युतो भवसि तदास्मात्कुलक्रमागताद्धर्माच्च्युतो भविष्यसीति शपथान् कारयेदित्यर्थः। अथ वा। तेषां पूर्वेषां राज्ञां, यथोदितान्
यथाकृतान्, धर्मान् प्रजारक्षणप्रकारान् ब्राह्मणामात्यप्रभृतिभ्यो वृत्तिदानानि च प्रमाणानि अविप्लाव्यानि, कुर्वीत कारयेत्। अभीप्सितानाम्, रणहतराजवंश्यस्य राज्ञस्तदमात्यानां चापेक्षितानाम्। अर्थानां द्रव्याणाम्। आदानं ग्रहणम्।अप्रियकरम् अनिष्टकरम्।दानं च प्रियकारकं, तेषामिष्टकारकम्। यतोऽवश्यापेक्षितगजाश्वादिधनलाभे राजान्तरैरनाक्रमणीयत्वं सम्भवति, अत एव तत् कालयुक्तं नवीनराज्यलाभकाले युक्तमतः प्रशस्यते।
विष्णुः,
राजा परपुरप्राप्तौ तत्कुलीनमभिषेचयेत् न राजकुलमुच्छिन्द्यात् अन्यत्राकुलीनराजकुलात्। इति।
कात्यायनः,
दुष्टस्यापि नरेन्द्रस्य तद्राष्ट्रं न विनाशयेत्।
न प्रजानुमतो यस्मादन्यायेषु प्रवर्त्तते॥ इति।
राज्ञोऽन्यायप्रवृत्तौ यतः प्रजानामनुमतिर्नेत्यतो राष्ट्रंन पीडयेदितिसिद्धे येषाममात्यादीनामनुमत्याऽन्याये प्रवृत्तिस्तान् पीडयेदेवेति ध्येयम्। यदा च परराष्ट्रं वशे कृतं तदा तद्देशाचारादीन् न लङ्घयेदित्याह—
याज्ञवल्क्यः,
यस्मिन् देशे य आचारो व्यवहारः कुलस्थितिः।
तथैव परिपाल्योऽसौ यदा वशमुपागतः॥ इति।
यातव्यः शत्रुर्यदि युद्धं करोति तदा तं हत्वा जित्वा वा तत्पदे तद्वंश्यमृभिषिश्चेदित्युक्तम्। यदि च स विजिगीषु प्रवलं निर्णीय युद्धोपस्थितावपि सन्धिं करोति तदा-
पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः।
इति महाभारतोक्तेरवश्यं सन्धिरेव कार्यो न पुनर्विग्रहः।
तदुक्तम्—
मनुना,
सह वापि व्रजेद्युक्तः सन्धिंकृत्वा प्रयत्नतः।
मित्रं हिरण्यं भूमिं वा सम्पश्यंस्त्रिविधं फलम्॥
पाणिग्राहं च सम्प्रेक्ष्य तथाऽऽक्रन्दं च मण्डले।
मित्रादथाप्यमित्राद्वा यात्राफलवाप्नुयात्॥इति।
वाशब्दः पूर्वोक्तयुद्धविकल्पार्थः। प्रयत्नतो युक्तः, यातव्येन प्रयत्नेन दूतप्रेषणादिना युक्तो योगं प्राप्तः सन्।सह, तेन शत्रुणा सह।मित्रं हिरण्यं भूमिं वा त्रिविधं यत्फलं, तत् सम्पश्यन्, समीचीनमिति जानानः। तदन्यतरलाभे सन्धिंकृत्वा, व्रजेत्, स्वपुरं यायात्। मण्डले द्वादशारिमण्डले।पार्णिग्राहं, विजिगीषोः पुरतः स्थितो यातव्यः, पश्चात्स्थितः स्वशत्रुः, स्वभूम्यनन्तरः पार्णिग्राह इत्युच्यते तम्। तथा तत्पश्चादवस्थितं तवभूम्यनन्तरं स्वभिन्नमाक्रन्दसंज्ञकं च\। सम्प्रेक्ष्य, तद्बलावलं ज्ञात्वेत्यर्थः। मित्रात्, मित्रत्वं प्राप्तात् यातव्यात्, अथ वा अमित्रात्, मैत्रीमकुर्वतो यातव्यात्, अर्थाद्विजिगीषुः यात्रायाः फलं, शत्रुजयं, सन्धौ वा मित्रादित्रितयलाभान्यतरत्, अवाप्नुयात् प्राप्नुयात्।
विष्णुः,
परेणाभियुक्तश्च सर्वात्मना राष्ट्रंगोपायेत्सर्वतश्चात्मानं गोपायेत्। इति।
मनु,
क्षेमां सस्यप्रदां नित्यं पशुवृद्धिकरीमपि।
परित्यजेन्नृपो भूमिमात्मार्थमविचारयन्॥
आपदर्थं धनं रक्षेद्दारा रक्ष्या धनैरपि।
आत्मानं सर्वतो रक्षेद्दारैरपि धनैरपि॥
सह सर्वाः समुत्पन्नाःप्रसमीक्ष्यापदो भृशम्।
संयुक्तांश्चवियुक्तांश्चसर्वोपायान्नयेद्बुधः79॥
संयुक्तान् समुदितान्। वियुक्तान्, पृथक्पृथग्भूतान्। नयेत् प्रयोजयेत्।
उपेतारमुपेयं च सर्वोपायांश्चकृत्स्नशः।
एतद्त्रयं समाश्रित्य प्रयतेतात्मसिद्धये॥ इति।
उपेतारम् उपयोक्तारमात्मानम्। उपेयम् उपायसाध्यं शत्रुम्।
इति यात्राप्रकरणम्।
अथ युद्धार्थंमस्थितस्य राज्ञः परदेशे चातुर्मास्ये प्राप्ते किं कर्त्तव्यमित्यपेक्षायाम्—
विष्णुधर्मोत्तरे,
राम उवाच।
कथं हि चतुरो मासान् कार्यं केशवपूजनम्।
पार्थिवेन सुरश्रेष्ठ तन्ममाचक्ष्व पृच्छतः॥
पुष्कर उवाच।
उद्युक्तेन सदा भाव्यं राज्ञा भृगुकुलोद्वह ।
आषाढशुक्लपक्षान्तं राजा स्थानमुपाश्रयेत्॥
आषढशुक्लपक्षः अन्ते यत्र क्रियायाम्। आषाढशुक्लपक्षपर्यन्तं राज्ञा उद्युक्तेन परराष्ट्रग्रहणोद्योगवता भाव्यमित्यर्थः।तदनन्तरं स्थानं चातुर्मास्यावस्थानयोग्यं स्थलमुपाश्रयेत्। अत
एव तस्य स्थानस्याग्रे योग्यताकथनम् “अधृष्यम्" इत्यादिना कृतम्।
अघृष्यं परराष्ट्राणां प्रभूतयवसेन्धनम्।
तमोऽपेतं विपङ्कंच प्रावृट्कालाऽहतं तथा॥
तमोऽपेतमित्यनेन सतमसां दर्यादीनां निषेधः।प्रावृट्कालाहतमित्यनेन निम्नप्रदेशनिषेधः।तत्र प्रावृट्काले जलागमने दूष्यादीनामनवस्थाने ऽवस्थातुमशक्यत्वात्।
यत्रोष्यच स्वं विषयं सर्वंशक्नोति रक्षितुम्।
तत्रस्थश्चतुरो मासान् गजाश्वान् पोषयेन्नृपः॥
स्नेहपानैर्बहुविधैः प्रतिपानैश्च भार्गव।
प्रतिपानैः, स्नेहातिपानकृतरोगादिनिवृत्त्यर्थं कृतै रूक्षीकरणकषायपानैः। अथ वा। स्नेहपानप्रतिपानशब्दाभ्यां पूर्वोत्तरबस्ती गृह्येते, ते च वैद्यकशास्त्रे प्रसिद्धे।
आषाढशुक्लपक्षान्ते दशम्यूर्ध्वंनराधिपः।
उत्सवं सुमहत्कुर्यादेवानामर्चने रतः॥
अर्चायां वा पटे वापि कृतं देवमथार्चयेत्।
अर्चायां प्रतिमायाम् ।
देवभोगमयं विष्णुं श्रीसहायमरिन्दमम्।
बलिभिर्विविधाभिस्तु पुष्पैर्धूपैः सुगन्धिभिः॥
उत्सवं सुमहत्कुर्यात्ततः पञ्चदिनं नृपः।
ततः प्रभृति नित्यं स्याद्वासुदेवस्य चार्चनम्॥
सात्वतैर्भार्गवश्रेष्ठ सांवत्सरपुरोहितैः।
गीतनृत्यैस्तथा देवं विशेषेणात्र पूजयेत्॥
अस्मिन्नेव तथा काले कोटिहोमं समाचरेत्।
कार्त्तिक्यां तत्समाप्तिस्तु यथा भवति भार्गव॥
शुक्लपक्षात्रिभागेऽन्त्ये कार्त्तिकस्य ततो नृपः।
उत्सवं सुमहत्कुर्याद्देव देवार्चनं तथा॥
वैकुण्ठं पूजयेद्देवमर्चायामथ वा पटे।
महादानं ततो दद्यात्प्रेङ्खां दद्यात्तथैव च॥
प्रेङ्खा दोला। “दोला प्रेङ्खादिका स्त्रियाम्” इत्यमरः। दोलायात्रां कुर्यादित्यर्थः।
मल्लानामथ वेश्यानां वन्दिनां नर्त्तकैः सह।
दद्यादितिशेषः।
यात्राविधानं सकलं तदा कुर्यान्महीपतिः।
एतत् कृत्वा ततो यात्रा कार्या भवति पार्थिवैः॥
शरत्काले गतातङ्कैःपुष्टांश्वरथकुञ्जरैः।
एवं हि राज्ञा चतुरोऽपि मासान् पूज्यो भवेद्देववरोऽरिहन्ता।
सन्त्यक्तनिद्रं मधुसूदनं च सम्पूज्य यात्राभिमतपदा स्यात्॥
इति विष्णुधर्मोत्तरे चातुर्मास्ये कृतयात्रस्य राज्ञोऽवस्थानविष्णुपूजनविधिः।
अथ सामान्यतस्तिथिविशेषमासविशेषविहितो देवताविशेषपूजन विधिः।
विष्णुधर्मोत्तरे,
पूजयेच्चतुरो मासान् सुप्तं मधुनिषूदनम्।
प्रौष्ठपादामले पक्षे पूजयेच्च शतक्रतुम्॥
प्रौष्ठपादो भाद्रपदः।
नवम्यामाश्वयुक्शुक्ले भद्रकालीं तु पूजयेत्।
रवौ स्वातिमनुप्राप्ते कुर्यान्नीराजनं तथा॥
सम्वत्सरात्कोटिहोमं कुर्याच्चघृतकम्बलम्।
राज्यसंवत्सरग्रन्थ्योः कुर्यात्तदुडुपूजनम्॥
प्रौष्ठपादामले पक्षे शतक्रतुपूजाभिहिता सा च तत्पक्षीयायामष्टम्यामिन्द्रध्वजोच्छ्रायदिने कर्तव्येत्यभिधास्यते। एवं भद्रकालीपुजानीराजनघृतकम्बला अग्रेऽभिधास्यन्ते। राज्येति। राज्याभिषेकनक्षत्रपूजनं राज्ञो जन्मदिनविहितसंवत्सरग्रन्थिनक्षत्रपूजनं च प्रतिसंवत्सरं कुर्यादित्यर्थः।
कर्माण्यथैतानि नराधिपस्य नित्यानि ते राम मयोदितानि।
एतानि कृत्वा विधिवन्नरेन्द्रश्चिरं समग्रां वसुधां प्रशास्ति॥
इति विष्णुधर्मोत्तरोक्तस्तिथिविशेषमासविशेष विहितो देवताविशेषपूजादिविधिः।
अथ तिथिविशेषे मासविशेषे च विहिता ब्रह्मपुराणोक्ता देवयात्रा।
वैशाखादिषु मासेषु षट्सु देवगृहेषु च।
यात्रोत्सवः सदा कार्यःप्रतिसंवत्सरेष्वपि॥
कार्या च ब्रह्मणे यात्रा प्रतिपद्यपि सर्वदा।
द्वितीयायां च देवेभ्यो विद्यारम्भे महोत्सवे॥
भागीरथ्ये तृतीयायां कर्तव्या च सुशोभना।
विनायकाय नागेभ्यश्चतुर्थ्यामथ कारयेत्॥
स्कन्दाय षष्ठ्यांसप्तम्यां सूर्येभ्यश्च यथाक्रमम्।
पुरन्दराय चाष्टम्यां रुद्राय सगणाय च॥
दुर्गाभ्यश्चैव मातृभ्यो नवम्यामथ सर्वदा।
भूम्यै दशम्यां कर्त्तव्या सर्वोपकरणान्विता॥
एकादश्यां समासेन विधात्रे विश्वकर्मणे।
द्वादश्यां विष्णवे कार्या सायुधाय महात्मने॥
त्रयोदश्यां तु कामाय चतुर्दश्यां कपर्दिने।
पौर्णमास्यां तु देवेभ्यस्तथा चन्द्रमसे तथा॥
अमावास्यायां तु पर्वान्ते पितृभ्यश्चात्र कुत्रचित्।
चतुर्दश्यां चतुर्थ्यांवा पितृराजे यमे तथा॥
द्वादश्यां पौर्णमास्यां वा नागेभ्यः पञ्चमेऽहनि।
नारायणाय सर्वासु कार्या तिथिषु सर्वदा॥
यात्रां च कर्तुकामेन प्रारम्भे तु दिने दिने।
विनायकाय पूजा च कर्त्तव्या मोदकोत्करैः॥
द्वितीयेऽहनि कर्तव्या ग्रहक्षान्तिर्यथाक्रमम्।
गन्धर्वेभ्यस्तथा पूजा चतुर्थेऽहनि शास्त्रवित्॥
पञ्चमे स्थाननागाय पयसा पायसेन च।
षष्ठे देयं ब्राह्मणेभ्यो भोजनं च सदक्षिणम्।
स्नपनं सप्तमे कार्यंदेशं कृत्वा सुरक्षितम्।
सुधावदातं कर्त्तव्यं चित्रितं देवतागृहम्॥
रत्नस्थानं तु देवेभ्यो विहितं कारयेत्तथा।
स्रग्वस्त्रमाल्यहेमाद्यैः प्रधानं देवमर्चयेत्॥
ततोऽर्चास्नपनं कार्यं कल्पशाखाक्रमेण च।
पुण्याहगीतनृत्याद्यैर्होमैर्बल्युपहारकैः॥
ततोऽर्चास्नपनस्यान्ते पौरैर्वृद्धपुरःसरैः।
आनेतव्यं च महता विभवेनोदकं शुभम्॥
नित्यं सन्निहितातीर्थाद्यथाप्राप्तैर्घटैर्नवैः।
देशकालानुसारेण गजाश्ववृषमानवैः॥
तेनोदकेन प्रतिमा स्नाप्या भूमौ च शास्त्रवित्।
नटभूमिश्च कर्त्तव्या सर्वदोषविवर्जिता॥
प्राप्ते तु यात्रादिवसे कूटागारं तु कारयेत्।
पुष्पैर्माल्यैस्तथा वस्त्रैःपताकाभिश्चशोभितम्॥
घण्टासहस्रनिनदं सर्वक्षोभासमन्वितम्।
आरोप्या प्रतिमा तत्र सुसूक्ष्मा च सुशोभना॥
कूटागारं च वोढव्यं गजैरश्वैर्नरैर्वृषैः।
देशकालानुसारेण वस्त्रमाल्याद्यलङ्कृतैः॥
सबलेनानुगन्तव्यं राज्ञा देवस्य पृष्ठतः।
सुदूरे चानुमन्तव्यं तत्प्रयुक्तैश्चमन्त्रिभिः॥
यस्य यस्य समीपे तु स देवो याति पूजितः।
तेनातिथ्यं च कर्त्तव्यं तस्मै धूपादिभिस्तथा॥
क्ष्वेडितोत्कुष्टशब्दैश्च जयवाद्यस्वनेन च।
यथागमं च कर्त्तव्यं नगरे च प्रदक्षिणम्॥
ततो देवगृहं प्राप्य सम्पूज्य प्रतिमां नयेत्।
महान्तमुत्सवं कुर्वन् गीतनृत्तसमाकुलम्॥
तस्यां रात्रौ ततो देया दीपाःशतसहस्रशः।
रङ्गभूमौ दिदृक्षूणां प्रकाशार्थंमहात्मनः॥
तैस्तैः सुभाषितैः श्लोकैर्हर्षयित्वा जनांस्तथा।
सर्वेषामनुकम्पार्थंधर्मचक्रं प्रवर्त्तयेत्॥
रङ्गोपजीविनां पश्येत् तृतीयेऽहनि कौशलम्।
यथाशक्ति धनं तेभ्यो दद्याद्दम्भं च वर्जयेत्॥
प्रेक्षाकाले प्रधानास्ते पूजितव्याः क्रमेण तु।
सम्मानपूर्वं विधिवत्ताम्बूलकुसुमादिभिः॥
यात्रावसाने भूतानि पूजनीयानि सर्वदा।
पूजोपचारैर्बलिभिस्तथा नक्तञ्चरानपि॥
अदृष्टविग्रहानेव दिदृक्षूणां महोत्सवम्।
सन्ध्यायां परया भक्त्या त्यक्त्वा सन्देहमात्मनः॥
सर्वमस्तीति विज्ञाय चेतसा निर्मलेन च।
एकान्ते देवताः पूज्या वैशाखे मासि पूर्ववत्॥
गृहे गृहस्थैः सम्पूज्याः स्त्रियश्च गृहदेवताः।
आचारान् पालयेदेतान् यस्तु राजा समाहितः॥
सपुत्रपौत्रसंयुक्तो दीर्घायुर्धनवान् भवेत्।
सर्वत्र जयमाप्नोति याति स्वर्गे च शाश्वतम्॥
यदेतद्वैष्णवं वाक्यं देशेऽस्मिन् लङ्घ्यते जनैः।
तदा सस्यानिनश्यन्ति घोरैरुदकविप्लवैः॥
अतिवृष्टिरनावृष्टिर्दुर्भिक्षं च तथा श्रुतिः।
दम्भाभिमानलोभांस्तु तस्मत्त्यक्त्वा प्रयत्नतः॥
यदुक्तं विष्णुना वाक्यं तत्कुर्यात्कृतनिश्चयः। इति।
इति ब्रह्मपुराणोक्तदेवयात्राप्रकरणम्।
अथ कौमुदीमहोत्सवः।
तत्रस्कन्दपुराण,
प्रातः प्रभृति राजा च आज्ञापयति कौमुदीम्।
देवरात्रिं च देवस्य रुद्रस्यासुरनाशिनीम्॥
सुसंमृष्टोपलिप्ताभी रथ्याभिः क्रियतां पुरम्।
वासोभिः संहतैः सर्वे भवन्तु पुरवासिनः॥
स्रग्विणच शिरःस्नाताः सदाम्पत्या यथाक्रमम्।
गायन्तु गायनाश्चैव नृत्यन्तु नटनर्त्तकाः॥
उच्छ्रीयन्तां पताकाश्चगृहवीध्यापणेषु च।
गृहाणि चोपलिप्तानि नित्यमेव भवन्तु वः॥
पुष्पप्रकरतुष्टानि धूपैर्नानाविधैरपि।
स्रग्दामवान्तिसर्वाणि वनमालाकुलानि च॥
ब्राह्मणाश्चैवभोज्यन्तां क्रियन्तां बलयस्तथा।
ब्रह्मघोषश्च सर्वत्र पुण्याहोदीरणानि च॥
दीपा रात्रौ च सर्वत्र राजमार्गे गृहेषु च।
अनन्तराः क्रियन्तां वै प्रचुरं स्नेहवर्त्तयः॥
तरुणाःसह पोषिद्भिः समन्तात्पर्यटन्तु च।
रममाणा हसन्तश्व गायन्तो नृत्तसेविनः॥
भाण्डवाद्यानि वाद्यन्तां नृत्यन्तां दिव्ययोषितः।
महादेवस्य पूजां च गन्धपुष्पादिकीं शुभाम्॥
उपहारांश्च विविधान् शयनानि महान्ति च।
बलयः पुष्कलाश्चैव भक्ष्यभोज्यैरलङ्कृताः॥
दीपांश्च विविधाकारान् पानानि कृशरांस्तथा।
फलानि च विचित्राणि मांसं पक्वंतथाऽऽमकम्॥
सुवर्णमणिचित्राणि ईश्वराय प्रयच्छत।
वध्यन्तां पशवश्चात्र भोज्यन्तां च द्विजोत्तमाः॥
यो न कुर्यादिदं सर्वंपुरवासी नरः क्वचित्।
पातयेत्तस्य शारीरं दण्डं राजा महायशाः॥
राजापि संयतः शान्तः शुचिः मयतमानसः।
दिवसे दिवसे रुद्रं स्नापयेत प्रयत्नवान्॥
पञ्चगव्येन शुद्धेन तैलेन च सुगन्धिना।
क्षीरेण सर्पिषा दध्ना रसैश्चबहुभिः शुभैः॥
पुष्पैः फलैश्चबीजैश्च रत्नैश्चाद्भिः समन्वितैः।
भस्मना गन्धयुक्तेन उदकेन सुगन्धिना॥
एकैकशःस्वयं राजा घटानां दशभिः शतैः।
दिवसे दिवसे व्यास त्र्यम्बकं सोऽभिषेचयेत्॥
गन्धैः पुष्पैश्च धूपैश्चजाप्यैर्बलिभिरेव च।
पूजयित्वा ततो राजा विप्रानन्यांश्च भोजयेत्॥
सत्कृत्वा पशुभिर्मेध्यैर्वस्त्रैर्मणिभिरेव च।
बलिवस्त्रान्नदानेन स्तूयमानो गृहान्व्रजेत्॥ इति।
इति कौमुदीमहोत्सवः।
अथेन्द्रध्वजोच्छ्रायविधिः।
तत्र देवीपुराणे,
शुभे ऋक्षेऽथ करणे मुहूर्ते शुभमङ्गले।
दैवज्ञः सूत्रधारश्चवनं गच्छेत् सहायवान्॥
देवीप्रतिष्ठाविधिना यात्रायां यः प्रचोदितः।
गत्वाऽन्विष्य शुभं वृक्षं प्रियङ्गुंधवमर्जुनम्॥
उदुम्बमनकर्णं च पञ्चैतान् शोभनान्हरेत्।
उदुम्बम्, उदुम्बरम्।
ध्वजार्थे वर्जयेद्वत्स देवतोद्यानजान् द्रुमान्॥
कन्यामध्योत्तमा यष्टीःकरमानेन कल्पयेत्।
एकादशकरा वत्स नवपञ्चकराऽपरा॥
कन्या कनीयसी।
अनिबद्धां कृमिचितां तथा पक्षिनिकेतनम्।
अनिबद्धां, लतादिभिरवेष्टिताम्।
वल्मीकपित्र्यवनजां सुशुष्कां च सकोटराम्॥
पित्र्यवनजां, श्मसानोत्पन्नाम्।
कुब्जां च घटसंसिक्तां तथा स्त्रीनामगर्हिताम्।
विद्युद्वज्रहतां चैव दग्धां च परिवर्जयेत्॥
अलाभे चन्दनं चाम्रशालशाकमयं तथा।
कर्त्तव्यं शक्रचिह्नार्थे न चान्यवृक्षजं क्वचित्॥
शुभभूमिभवं ग्राह्यंशुभतोयं शुभावहम्।
शुभतोयं, शुभतोयोत्पन्नम्।
ततः सम्पूजयेद्वृक्षं प्राङ्मुखोदङ्मुखोऽपि वा।
नमो वृक्षपते वृक्ष त्वामर्चयति पार्थिवः॥
ध्वजार्थमन्यथा नेदं तत्त्वया उपगम्यताम्।
रात्रौ देयो बलिः श्वभ्रे दिक्षु वृक्षे तथैव च॥
वासं वने महावृक्ष कृत्वा ह्यन्यत्र गम्यताम्।
ध्वजार्थे देवराजस्य रक्षितं त्वां नयाम्यहम्॥
पूजयित्वा ततो वृक्षं बलिं भूम्यां प्रदापयेत्।
प्रभाते छेदयेद्वृक्षं शुभस्वप्नादिदर्शनैः॥
उदङ्मुखः प्राङ्मुखो वा मध्वक्तेनाथ पर्शुना।
पूर्वोत्तरं पतन् शस्तो निःशब्दो निर्व्रणः शुभः॥
अलग्नः पादपेऽन्यस्मिन्नन्यथा तु परित्यजेत्।
अष्टाङ्गुलं त्यजेन्मूलमग्रं तत्र जले क्षिपेत्॥
तथा तं चानयेद्वत्स शकटेन वृषैरथ।
युवभिर्बलसम्पन्नैः प्रयत्नात्पुरतः पुरम्॥
नीयमाना यदा यष्टिः समा वा चतुरस्त्रिका।
वृत्ता वा भङ्गमादत्ते राजपुत्रपुरोहितौ॥
पीड्येते इति शेषः।
आराभङ्गे बलं भिन्द्यान्नेम्या भङ्गेक्षयस्तथा।
रथस्य त्वक्षभङ्गेतु शान्तिंतत्र तु कारयेत्॥
इन्द्रं यच्छेतिमन्त्रेण जातवेदोमयेन वा।
तथा नीत्वा शुभे लग्ने पुरे तामुपवेशयेत्॥
द्वारे शोभां पुरे रथ्याहट्टेष्वपि च कारयेत्।
पटुभिः पटहनिनादैर्वेश्यासङ्घस्य मङ्गलैः॥
द्विजानां वेदशब्दैश्च तां नयेद्यत्र चोच्छ्रयेत्।
तत्रस्थां चित्रकर्मानिर्मितैस्तां तु वेष्टयेत्॥
वस्त्रैस्तदैव कृतोनैः शुभैः सूक्ष्मैर्यथाक्रमम्।
नन्दोपनन्दसंज्ञाश्चकुमार्यःप्रथमांशके॥
प्रथमांशके, प्रथमभागे।
देव्यो जायाविजायाख्याः षोडशांशैर्व्यवस्थिताः।
अम्बिकां शत्रुजरित्रींनत्त्वाथ ध्वजदैवतम्॥
ध्वजस्य परिमाणे ताः सम्पाद्यैव विनिर्दिशेत्।
षोडशांशविहीनानि कुर्याच्छेपाणि बुद्धिमान्॥
वाससां चित्रवर्णानां स्वयम्भूः प्रथमामदात्।
सुभक्तां चतुरस्रां च विश्वकर्मा द्वितीयकम्॥
अष्टास्रिंच स्वयं शक्रो नीलरक्तामदात्पुरा।
कृष्णं यमेन दत्तं च वरुणेन महांशुकम्॥
माञ्जिष्टं जलजाकारं वायुर्देवोऽपि षष्ठकम्।
नीलवर्णंच तत्प्रादात्स्कन्दो बहुविचित्रितम्॥
वृत्तं तु दहनः प्रादात्सुवर्णंतच्च अष्टमम्।
वैडूर्यसदृशं चेन्द्रो ग्रैवेयं पुनरप्यदात्॥
चक्राङ्काकृतित्रत्सूर्यो विश्वेदेवास्तु पद्मकम्।
नीलं नीलोत्पलाभासमृषयोऽपि च तद्ददुः॥
शुक्रेण गुरुणा न्यस्तं विशालं तच्च मूर्द्धनि।
ग्रहैरपि विचित्राणि तानि दत्तानि मातृभिः॥
यद्यद्येनैव दत्तं तु केतोस्तत्तस्य भूषणम्।
तद्दैवं तद्विजानीयाद्यन्त्रादिभिरथोच्छ्रयेत्॥
कर्षन्ती प्रवरांभूमिं यष्टी राष्ट्रं निहन्ति च।
बालानां तलशब्देन देशघातं विनिर्दिशेत्॥
नृपघातकरी शीर्णा सर्वशान्ता शुभावहा।
शम्भुसूर्ययमेन्द्रेन्दुधनदानां च वारुणैः॥
वह्नेर्नागस्य मन्त्रैश्च होतव्या दधिचाक्षताः।
शुक्रं स्कन्दं गुरुं रुद्रमप्सरोभिः प्रपाठयेत्॥
हुत्वा च विधिवद्वह्निंज्वाला लक्षेच्च बुद्धिमान्।
सुतेजाःसुमनोदीप्ता महती रविसप्रभा॥
रक्ताशोकसमाकारा रथभेरीस्वना शुभा।
शङ्खदुन्दुभिमेघानां नादाः शस्तास्तु पावके॥
कदलीष्विक्षुदण्डेषु पताकाश्च समुच्छ्रयेत्।
अन्याश्च विविधाः शोभाः शक्रकेतौ समुच्छ्रयेत्॥
प्रौष्ठपद्यामथाष्टम्यां शुक्लायां शोभने दिने।
आश्विने चाथ शुक्लायां श्रवणेनाथ उच्छ्रयेत्॥
अत्रापि शुक्लायामष्टम्यामितिद्रष्टव्यम्।
घोषैश्च नटवृन्दैश्च पटुभेरीनिनादितम्॥
वितानध्वजशोभाढ्यं पताकाभिः समुज्ज्वलम्।
विष्णवीशशक्रमन्त्रेण सिंहरक्षाकृतेन च॥
दृढमातृकरन्ध्रस्थं शुभतोरणमार्गणम्।
अवलम्बितमुत्तानमभग्नपीठकं समम्॥
न द्रुतं च समुत्थाप्यःकेतुर्वासवजो विभो।
उच्छ्रितं रक्षयेत्प्राज्ञः काकोलूककपोतयोः॥
न तत्र लङ्घनं दद्यादन्येषामपि पक्षिणाम्।
यन्त्रेण चोच्छ्रयं कुर्यादिन्द्रकेतोर्यथाविधि॥
यथा सुसंस्कृतं पूज्यं सुखयन्त्रसुयन्त्रितम्।
रात्रौ जागरणं कुर्यादिन्द्रमन्त्रानुकीर्त्तनम्॥
पुरोहितः सदैवज्ञःशुभशान्तिरतः सदा।
केतुपातो नृपं हन्यात्पताका महिषीवधम्॥
पीठको युवराजस्य सचिवमनुकम्पनम्।
राष्ट्रंतोरणपातेन ध्वज अन्नक्षयो भवेत्॥
पतिते शक्रदण्डे च नृपमन्यं समादिशेत्।
कृमिजालसमुत्थाने शलभात्तस्कराद्भयम्॥
सुसमे संस्थिते शान्तिर्नृपस्य नगरस्य च।
तिष्ठत्येवोच्छ्रितो यावत्तावद्युगसमाः समाः।
निरता यजने केतो रञ्जीरन्निन्द्रकन्यकाः॥
पतिते तु तथा कार्या पूजोत्थाने तु यादृशी।
रात्रौ शुभं कृत्यतमं नादृष्टं काकपोतकैः॥
नृपतिः सह राष्ट्रीयैर्यश्चैवं कारयेत्क्रतुम्।
नगरे वा पुरे खेटे यद्येवं कुरुते नृपः॥
पौरन्दरं नगरद्वारे वृषसिंहसमुच्छ्रितम्।
केतुं समस्तघोराणां नाशनं जगदं मतम्॥
एनंपूर्वं हरिः केतुं प्राप्तवान् वृषवाहनात्।
ततो ब्रह्माथ तेनैव ब्रह्मणा शक्रमागतः॥
तेन सोमस्य तद्दत्तं ततो दक्षं समागतः।
तदाप्रभृति कुर्वन्ति नृपा अद्यापि चोच्छ्रयम्॥
एवं यः कारयेद्राजा केतुं विजयकारकम्।
तस्य पृथ्वी धनोपेता सद्वीपा वशगा भवेत्॥इति।
इति देवीपुराणोक्त इन्द्रध्वजोच्छ्रायविधिः।
विष्णुधर्मोत्तरेऽपि स विशेषत उक्तः।
राम उवाच।
शक्रसम्पूजनं कार्यंकथं राज्ञा सुरोत्तम।
सम्यक् भाद्रपदे मासि तन्ममाचक्ष्व पृच्छतः॥
पुष्कर उवाच।
असुरैस्तु सुरा भग्नाःपुरा युद्धे भृगू्त्तम।
ब्रह्माणं शरणं जग्मुः सर्वभूतहिते रतम्॥
ते तमूचुः सुराः सर्वे निर्जिता दानवैर्वयम्।
तानुवाच ततो ब्रह्मा क्षीरोदे मधुसूदनम्॥
गच्छध्वं सहिताः सर्वे स वः श्रेयः करिष्यति।
एवमुक्ताःसुराः सर्वे क्षीरोदे केशवं ययुः॥
ददृशुश्च तदा देवं वासुदेवं जगद्गुरुम्।
अमृताध्मातमेघाभं शङ्खचक्रगदाधरम्॥
तुष्टुवुश्च महाभागं त्रिदशास्तं पुनः पुनः।
सर्वेषामीश्वरं देवं भुवनस्यैककारकम्॥
देवा ऊचुः।
नमस्ते पुण्डरीकाक्ष शरणागतवत्सल।
देवारिबलदर्पघ्न त्रिदशेन्द्रसुखप्रद॥
चामीकराभवसन तार्क्ष्यप्रवरकेतन।
शेषपर्यङ्कशयन लक्ष्मीहृदयवल्लभ।
सुरासुरशिरोरननिर्घृष्टचरणाम्बुज।
उन्निद्रचारुकमलविराजितकराम्बुज॥
सदैव देव भग्नानामस्माकमसुरैर्भवान्।
गतिस्तेन स्म सम्प्राप्तादैत्यभग्नास्त्वदन्तिकम्॥
प्रसीद देवदेवेश जहि तानसुराधमान्।
येऽस्माकं देवदेवेश पीडयन्ति सदैव तु॥
श्रीभगवानुवाच।
ध्वजमेतं प्रदास्यामि भवतामरिनाशनम्।
दृष्टमात्रेण येनेह विद्रविष्यन्ति दानवाः॥
पुष्कर उवाच।
एतदुक्त्वा ध्वजं तेषां ददौ विष्णुरनुत्तमम्।
सौवर्णमुत्थितं दिव्यं शक्रध्वजमितिश्रुतम्॥
तमादाय सुराः सर्वे प्रययुर्दानवालयम्।
देवानुपगतान् श्रुत्वा दानवा निर्ययुस्ततः॥
सुसन्नद्धबलाः सर्वे प्रगृहीतायुधास्ततः ॥
दृष्ट्वा ते च बलं तेषां शक्रकेतुं विराजितम्॥
तत्तेजसा महाभाग मूढीभूताः क्षणेन तु।
मूढीभूतास्ततो दैत्यास्त्रिदिशैर्विनिपातिताः॥
केचिद्भग्ना दिशो जग्मुः समुद्रं विविशुस्ततः।
ततो लब्धजयः शक्रः पूजयामास तं ध्वजम्॥
पूजयित्वा नृपतये वसवे प्रददौ तदा।
गर्गोक्तेन विधानेन तं च पूजितवान् वसुः॥
तेनास्य तुष्टो भगवानिदं वचनमब्रवीत्।
इन्द्र उवाच।
येऽप्यन्ये भूमिपाः श्रेष्ठाः शक्रध्वजमहोत्सवम्।
अद्यप्रभृति धर्मज्ञ करिष्यन्ति समाहिताः॥
तेषां तु विविधा वृद्धिर्भविष्यति सदा द्विज।
दुर्भिक्षं मरणं व्याधिः परचक्रभयं तथा॥
सर्वाप्येतानि नश्यन्ति कृते शक्रध्वजोत्सवे।
पुष्कर उवाच।
ततः प्रभृति राजानो राम शक्रमहोत्सवम्।
कुर्वन्ति गर्गकथितं सर्वामयविनाशनम्॥
धन्यं यशस्यं रिपुनाशनं च कीर्तिप्रदं धर्मफलप्रदं च।
कार्यंनरेन्द्रेर्विजयाय यत्नाच्छक्रोत्सवं तत्कथयामि तुभ्यम्॥
पुष्कर उवाच।
शिबिरात्पूर्वदिग्भागे भूमिभागे तथा शुभे।
प्रागुदक्प्रवणे कुर्याच्छक्रार्थंभवनं शुभम्॥
वासोभिः शयनैः शुद्धैर्नानारागैस्तथैव च।
ततः शक्रध्वजस्थानं मध्ये सम्प्राप्य यत्नतः॥
मघवन्तं पटे कुर्यात्तस्य भागे तु दक्षिणे।
वामभागे पटे कुर्याच्छवीं देवीं तथैव च॥
प्रोष्ठपादसिते पक्षे प्रतिपत्प्रभृति क्रमात्।
तयोस्तु पूजा कर्त्तव्या सततं वसुधाधिपैः॥
वनप्रवेशविधिना शक्रयष्टिं ततो नृपः\।
आनयेद्गोरथेनाथ वाऽऽनयेत्पुरुषैरयम्॥
अर्जुनस्याजकर्णस्य प्रियकस्यधवस्य च।
मुरदारुतरोश्चैव तथैवोदुम्बरस्य च॥
चन्दनस्याथ वा राम पद्मकस्याथ वा यदि।
अलाभे सर्व्ववृक्षाणां यष्टिं कुर्वीत वैणवीम्॥
सुवर्णनद्धां सर्वज्ञ तां च सम्यक्प्रवेशयेत्।
प्रोष्ठपादासिते पक्षे अष्टम्यां रिपुसूदन॥
क्रमममाणा विज्ञेया शक्रयष्टिस्ततो नृप।
चतुर्भिरङ्गुलैर्हीना साग्नेभवति शर्मदा॥
अष्टाङ्गुलं तथा मूले छित्वा तोयेऽथ तां क्षिपेत्।
यायादुद्धृत्य नगरं सम्यगेव प्रवर्तते।
तस्याः प्रवेशे नगरं पताकाध्वजमालिच॥
सिक्तराजपथं कुर्यात्तथालङ्कृतनागरम्।
नटनर्त्तकसङ्कीर्णंतथा पूजितदैवतम्॥
सम्पूजितगृहं राम तथा पूजितवानयम्।
पौरैरनुगतो राजा सुवेशैः फलपाणिभिः॥
अष्टम्यांवाद्यघोषेण तां तु यष्टिं प्रवेशयेत्।
प्राक्शिरस्कां ततः कुर्याद्वस्त्रैःसञ्छादितां शुभैः॥
पूजितां पूजयेत्तां तु यावत्स्याद्द्वादशीदिनम्।
एकादश्यां सोपवासो नृपः कुर्यात्सनागरम्॥
सांवत्सरेण सहितो मन्त्रिणा च पुरोधसा।
रात्रौजागरणं कार्यंनागरेण जनेन तु॥
स्थाने स्थाने महाभाग देया प्रेक्ष्या तथा मधु।
पूजयेन्नृत्यगीतेनरात्रौशक्रं नराधिपः॥
द्वादश्यां तु शिरःस्नातो नृपतिः प्रयतस्ततः।
यन्त्रेणोत्थापनं कुर्याच्छक्रकेतोः समाहितः॥
सुयन्त्रितं तु तं कुर्याद्गृहस्तम्भचतुष्टयम्।
पूजयेत्तन्महाभागं गन्धमाल्यान्नसम्पदा॥
नित्यं च पटयोः पूजां यष्टिपूजां च कारयेत्।
बलिभिस्तु विचित्राभिस्तथा ब्राह्मणपूजनैः॥
नित्यं च जुहुयान्मन्त्रैः पुरोधाः शाक्रवैष्णवैः।
नित्यं गीतेन नृत्येन तथा शक्रं च पूजयेत्॥
द्वादश्यां पूजयेद्राजा ब्राह्मणान्धनसञ्चयैः।
विशेषेण च धर्मज्ञ सांवत्सरपुरोहितौ॥
उत्थाने च प्रवेशे च शक्रं स्तूयाभराधिपः।
वक्ष्यमाणेन मन्त्रेण कुशलश्चपुरोहितः॥
पूजयेदुच्छ्रितं केतुं भूषणैर्विविधैरपि।
छत्रेण च तथा वस्त्रैर्माल्यदामैस्तथैव च॥
एवं सम्पूजयेद्राम तथा दिनचतुष्टयम्।
पञ्चमे दिवसे प्राप्ते शक्रकेतुं विसर्जयेत्॥
पूजयित्वा महाभाग बलेन चतुरङ्गिणा।
नीत्वा करीन्द्रैस्त्रितयं ततो नद्यां प्रवाहयेत्॥
वाद्यघोषेण महता सङ्गीतिस्तत्र कीर्त्तिता।
पौरा जानपदास्तत्र क्रीडां कुर्युस्तदाम्भसि॥
उत्सवं च तदा कार्यंजलतीरगतैर्महत्।
एतद्विधानं नृपतिस्तु कृत्वा प्राप्नोति वृद्धिं धनवाहनानाम्।
नाशं तथा शत्रुगणस्य राम महत्प्रसादं त्रिदशाधिनाथात्॥ इति।
शक्रध्वजोच्छ्रायकाले राज्ञा शक्रस्याशीर्वादरूपाः केचिन्मन्त्रा विष्णुधर्मोत्तरोक्ताः पठनीयाः। ते च—
पुष्कर उवाच।
शृणु मन्त्रानिमान् सम्यक् सर्वकल्मषनाशनान्।
प्राप्ते शक्रध्वजोच्छ्राये यान् पठेत्प्रयतो नृपः॥
वर्द्धस्वेन्द्र जितामित्र वृत्रहन् पाकशासन।
देवदेव महाभाग त्वं हि वर्द्धिष्णुतां गतः॥
त्वं प्रभुः शाश्वतश्चैव सर्वभूतहिते रतः।
अनन्ततेजा विरजा यशोविजयवर्द्धनः॥
अप्रभुस्त्वं प्रभुर्नित्यमुत्तिष्ठ सुरपूजित।
ब्रह्मा स्वयम्भूर्भगवान् सर्वलोकपितामहः॥
रुद्रः पिनाकभृद्दृप्तःशतभृद्देवसंस्तुतः।
योगस्य नेता कर्त्ताच तथा विष्णुरुरुक्रमः॥
तेजस्ते वर्द्धयन्त्वेते नित्यमेव महाबलाः।
अनादिनिधनो देवो ब्रह्मगोपः सनातनः॥
अग्नेस्तेजोमयो भागो रुद्रात्मा पार्वतीसुतः।
कार्तिकेयः शक्तिधरः षड्वक्रोऽसिगदाधरः॥
स ते वरेण्यो वरदस्तेजो वर्द्धयतां विभो।
देवसेनापतिः स्कन्दः सुरप्रवरपूजितः॥
आदित्या वसवो रुद्राः साध्या देवास्तवाश्विनौ।
मरुद्गणा80 लोकपालाश्चन्द्रः सूर्योऽनिलोऽनलः॥
देवाय ऋषयश्चैव यक्षगन्धर्वराक्षसाः।
समुद्रा गिरयश्चैव नद्यौभूतानि यानि च॥
तेजस्तपांसि सत्यं च लक्ष्मीःश्रीः कीर्त्तिरेव च।
प्रवर्द्धयन्तु ते तेजो जय शक्र शचीपते॥ इति।
इत्याशीर्वादरूपान् मन्त्रान् पठित्वा इन्द्रप्रार्थनां कुर्यात्। प्रार्थनारूपाश्च मन्त्रास्तत्रैव पठिताः।
तव चापि जयान्नित्यमिह सम्पद्यते शुभम्।
प्रसीद राज्ञां विप्राणां प्रजानामपि सर्वशः॥
तवप्रसग्दात्पृथिवी नित्यं सस्यवती भवेत्।
शिवं भवतु निर्विघ्नं शाम्यन्तामीतयो भृशम्॥
नमस्ते देवदेवेश नमस्ते बलसूदन।
नमुचिघ्न नमस्तेऽस्तु सहस्त्राक्ष शचीपते॥
सर्वेषामेव लोकानां त्वमेकः परमा गतिः।
त्वमेव परमं त्राणं सर्वस्यासि जगत्पते॥
पाशो ह्यसि पथः स्रष्टुं त्वमनल्पान् पुरन्दर।
स्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोऽम्बरे॥
स्वमेव धनविक्षॆप्तात्वामेवाहुः पुनर्धनम्।
त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः॥
स्रष्टा त्वमेव लोकानां संहर्त्ताचापराजितः।
त्वं ज्योतिः सर्वलोकानां त्वमादित्यो विभावसुः॥
त्वं महद्भूतमाश्चर्यंत्वं राजा त्वं सुरोत्तमः।
त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम्॥
त्वमेव चामृतं देव त्वं मोक्षः परमार्चितः।
त्वं मुहूत निमेषस्त्वं लवस्त्वं वै पुनः क्षणः॥
शुक्रस्त्वं बहुलश्चैव कला काष्टा त्रुटिस्तथा।
संवत्सरर्तवो मासा रजन्यश्च दिनानि च॥
त्वमुत्तमा सगिरिवरा वसुन्धरा सभास्वरं वितिमिरमम्बरं तथा।
महोदधिः सातीमीतीमिङ्गिलस्तथा महोर्मिमानुरुमकरो झषाकुलः॥
महायशास्त्वमिह सदा प्रपूज्यसे महर्षिभिर्मुदितमना महाद्युते।
महर्षिभिः पिबसि च सोममध्वरे वषट्कृतान्यपि च हवींषि भूतये॥
त्वं विप्रैःसततामहेज्यसे फलार्थं त्वं देवैरतुलबलौछागीयसे त्वम्।
त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा वेदाङ्गान्यधिगनयन्ति सर्ववेदैः॥
वज्रस्य81 भर्त्ता भुवनस्य गोप्ता वैश्वानरं वाहनमभ्युपैति।
नमः सदाऽस्मै त्रिदशेश्वराय लोकत्रयेशाय पुरन्दराय॥
अजोऽव्ययः शाश्वत एकरूपो विष्णुर्वराहः पुरुषः पुराणः।
त्वमन्तकः सर्वहरःकृशानुःसहस्रशीर्षा शतमन्युरीश॥
कविं सप्तजिह्वंत्रातारमिन्द्रं सवितारं सुरेशम्।
हृदयाभिशक्रं वृत्रहणं सुषेणमस्माकं वीरा उत्तरे भवन्तु॥
त्रातारमिन्द्रेन्द्रियकारणात्मन् जगत्प्रधानं च हिरण्यगर्भम्।
लोकेश्वरं देववरं वरेण्यमानन्दरूपं प्रणतोऽस्मि नित्यम्॥
इमं स्तवं देववरस्य कीर्त्तयेन्महात्मनस्त्रिदशपतेः सुसंगतः।
अवाप्य कामान्मनसोऽभिरामान् स्वर्लोकमायाति च देहभेदे॥
इति प्रार्थनामन्त्राः।
इन्द्रध्वजभङ्गेफलाफलं विष्णुधर्मोत्तर एवोक्तम्—
पुष्कर उवाच।
इन्द्रध्वजशिरो भज्येत्पतेदिन्द्रध्वजो यदि।
भज्यते शक्रयष्टिर्वा तृपतेर्नियतं वधः॥
यन्त्रभङ्गेतथा ज्ञेयं रज्जुच्छेदे तथैव च।
मातृकायास्तथा भङ्गेपरचक्रभयं द्विज॥
दिव्यान्तरिक्षभौमाः स्युरुत्पातास्तत्र वै यथा।
तेषां तीव्रतमं ज्ञेयं फलमत्यन्तदारुणम्॥
निलीयते चेत्क्रव्यादः शक्रयष्टौ यदा द्विज।
राजा वा म्रियते तत्र स वा देशो विनश्यति॥
इन्द्रध्वजोपकरणं यत्किञ्चिद्विजसत्तम।
विनश्यत्यस्य विज्ञेया पीडा नगरवासिनाम्॥
इन्द्रध्वजनिमित्ते तु प्रायश्चित्तमिदं स्मृतम्।
इन्द्रयागं पुनः कुर्यात्सौवर्णेनेन्द्रकेतुना॥
राज्यं दत्वा च गुरवे घनेन प्रतिमोचयेत्।
सप्ताहं पूजयित्वा च ध्वजं दद्याद्द्विजातिषु॥
शान्तिरैन्द्री भवेत्कार्या यष्टव्यश्च पुरन्दरः।
महाभोज्यानि कार्याणि ब्राह्मणानां दिने दिने॥
गावश्चदेया द्विजपुङ्गवेभ्यो हिण्यवासोरजतैः समेताः।
एवं कृते शान्तिमुपैति पापं वृद्धिस्तथा स्यान्मनुजाधिपस्य॥
इन्तीन्द्रध्वजदुर्निमितेषु फलाफलं शान्तिकं च।
अथ नीराजनशान्तिः।
विष्णुधर्मोत्तरे।
राम उवाच।
नीराजनविधिं त्वत्तः श्रोतुमिच्छामि सत्तम।
कथं कार्या नेरन्द्रस्य शान्ती नीराजने प्रभो॥
पुष्कर उवाच।
पूर्वोत्तरे तु दिग्भागे नगरात्सुमनोहरे ।
विस्तीर्णंकारयेद्राजा सुमनोहरमाश्रम्॥
कटैर्गुप्तं कुशास्तीर्णं पताकाध्वजशोभितम्।
तोरणत्रितयं तत्र प्राङ्मुखं कारयेच्छुभम्॥
कार्यं षोडशहस्तं तु तोरणं तु समुच्छ्रितम्।
वैपुल्यं दशहस्तं तु तत्र कार्यं भृगूत्तम।
तोरणाद्दक्षिणे भागे तत्र कार्यमथाश्रमम्॥
देवता च भवेद्यत्र तथाग्निहवनक्रिया।
अष्टहस्तायतोत्सेधमुल्मुकानां तु वामतः॥
कार्यंभवति शुष्काणां कूटं भृगुकुलोद्भव।
पञ्चरङ्गकसूत्रेण शतग्रन्थिं मनोरमाम्॥
मध्यमे तोरणे कुर्याच्छतपाशीं तु मध्यगाम्।
छादयित्वा कुशेस्तां तु मृदा संछादयेत्पुनः॥
तस्याश्चलङ्घनं वर्ज्यंप्रयत्नात्सर्वजन्तुभिः।
न लङ्घिता सा यावत्स्यात्प्रथमंराजहस्तिना॥
चित्रां त्यक्त्वा यदा स्वातिं सविता प्रतिपद्यते।
सतः प्रभृति कर्त्तव्या यावत्स्वातौ रविः स्थितः।
आश्रमे प्रत्यहं देवाः पूजनीया द्विजोत्तम॥
देवाः, हरिहरादिमतिमाः। तानेव दर्शयति—
ब्रह्मा विष्णुश्च शम्भुश्च शक्रश्चैवानलानिलौ॥
विनायकःकुमारश्चवरुणो धनदो यमः।
विश्वान्देवान्महाभाग उच्चैःश्रवसमेव च॥
अष्टौ महागजाः पूज्यास्तेषां नामानि मे शृणु।
कुमुदैरावणौ पद्मः पुष्पदन्तोऽथ वामनः॥
सुप्रतीकोऽञ्जनो नील एतेऽष्टौ देवयोनयः।
पूजा कार्या ग्रहर्क्षणां तथैव च पुरोधसा॥
ततश्चजुहुयाद्वह्नौपुरोधास्सुसमाहितः।
यथाभिमतदेवानां मन्त्रैस्तल्लिङ्गसंज्ञकैः॥
तथा च मन्त्रहीनानां प्रणवेन महाभुज।
प्रणवेन, प्रणवाद्येन नाममन्त्रेण।
समिधः क्षीरवृक्षाणां तथा सिद्धार्थकानि च।
घृतं तिलांश्च धर्मज्ञ तथा चैवाक्षतानि च॥
हुत्वा च कलशान् कुर्यात् सोदकान् गन्धसंयुतान्।
पूजितान्माल्यगन्धैश्च वनस्पतिविभूषितान्॥
पञ्चरङ्गकसूत्रेण कुर्याद्वस्त्रगतांस्तथा।
भल्लातशालिसिद्धार्थवचाकुष्टप्रियङ्गवः॥
तोरणात्पश्चिमे भागे कलशैः पूर्वकल्पितैः।
ततः संस्नापनीयाः स्युर्मन्त्रपूतैर्गजोत्तमाः॥
तुरगाश्च महाभाग अलङ्कृत्यततस्तु तान्।
ततोऽभिषेकनागस्य तथा तत्तुरगस्य च॥
अन्नपिण्डं ततो देयमभिमन्त्र्यपुरोधसा।
तस्याभिनन्दने राज्ञो विजयः परिकीर्त्तितः॥
त्यागे च तस्य विज्ञेयं महद्भयमुपस्थितम्।
निष्क्रामयेत्तोरणैस्तु ततो हि प्रथमं गजान्॥
तत्रापि प्रथमं राम अभिषिक्तगजोत्तमम्।
तस्यादौ शतपाशीं तु नरः पञ्चनखोऽपि वा॥
जघन्यो लङ्घयेत्तां तु राज्ञो मरणमादिशेत्।
जघन्यो नरः, शूद्रचाण्डालादिः। जघन्यः पञ्चनखः, श्वादिः।
दुर्भिक्षं तत्र विज्ञेयं खरोष्ट्रेैश्चैव लङ्घने।
लङ्घयेद्वामपादेन यदि तां नृपकुञ्जरः॥
राज्ञीपुरोहितामात्यराजपुत्राहितं भवेत्।
राज्ञस्तु मरणं ब्रूयादाक्रमेत्तां यदाऽपरः ॥
राज्ञोऽपि जयमाचष्टे लङ्घयन्दक्षिणेन ताम्।
राजहस्तिनि निष्कान्ते सा त्वपास्थातदा भवेत्॥
निष्क्रामेयुस्ततः सर्वे प्राङ्मुखास्तोरणैर्गजाः।
ततोऽश्वाः सुमहाभाग ततस्तु नरसत्तमाः॥
ततश्छत्रं ध्वजं चैव राजलिङ्गानि यानि च।
आश्रमे तानि संस्थाप्य पूजयेदायुधानि च॥
पञ्चरङ्गकसूत्रेण यास्ताः प्रतिसराः कृताः।
दुष्यादृष्येतिमन्त्रेण निषघ्नीयात्पुरोहितः॥
सर्वेषां नृपनागानां तुरगाणां च भार्गव।
स्वगृहेषु ततो नेयाः कुञ्जरास्तुरगैः सह॥
स्वातिस्थःसविता यावत्तावच्छायासु संस्थितान्।
पूजयेत्सततं राम नाक्रोशेनैव ताडयेत्॥
राजचिह्नानि सर्वाणि पूजयेदाश्रमे सदा।
पूजयेद्वरुणं नित्यं यथावद्विधिना82 द्विज॥
भूतेज्या च तथा कार्या रात्रौ बलिभिरुत्तमैः।
आश्रमं रक्षणीयं स्यात्पुरुषैः शस्त्रपाणिभिः॥
वसेतामाश्रमे नित्यं सांवत्सरपुरोहितौ।
अश्ववैद्यप्रधानश्च तथा नागभिषग्वरः॥
दीक्षितस्तैस्तथा भाव्यं ब्रह्मचारिभिरेव च।
स्वातिं त्यक्त्वा यदा सूर्यो विशाखां प्रतिपद्यते॥
अलङ्कुर्याद्दिने तस्मिन् वाहनं च विशेषतः।
पूजिता राजलिङ्गाश्च कर्त्तव्या नरहस्तगाः॥
हस्तिनं तुरगं छत्रं खड्गं चापं च दुन्दुभिम्।
ध्वजं पताकां धर्मज्ञ कालज्ञस्त्वभिमन्त्रधेत्॥
अभिमन्त्र्य ततः सर्वान् कुर्यात्कुञ्जरधूर्गतान्।
कुञ्जरोपरिगौ स्यातां सांवत्सरपुरोहितौ॥
अश्ववैद्यप्रधानश्च तथा नागभिषग्वरः।
ततोऽभिमन्त्रितं राजा समारुह्य तुरङ्गमम्॥
निष्क्रम्य तोरणैर्नागमभिमन्त्रितमारुहेत्।
तोरणेन विनिष्क्रम्य कुर्यात्पुरविसर्जनम्॥
बलिं विसृज्य विधिवद्राजा कुञ्जरधूर्गतः।
रत्नैरलङ्कृतः सर्वैर्वीज्यमानश्च चामरैः॥
उल्मुकानां च निचयमादीपितमनन्तरम्।
राजा प्रदक्षिणं कुर्यात् त्रीन्वारान्सुसमाहितः॥
चतुरङ्गबलोपेतः सर्वसैन्यसमन्वितः।
क्ष्वेडाकिलकिलाशब्दैः सर्ववादित्रनिस्वनैः॥
वल्गितैश्चपदातीनां हृष्टानां मनुजोनम।
एवं कृत्वा गृहं गच्छेद्राजा सैन्यपुरःसरः॥
जनं सम्पूज्य च गृहात्सर्वमेव विसर्जयेत्।
शान्तिर्नीराजनाख्येयं कर्त्तव्या वसुधाधिपैः॥
क्षेम्या वृद्धिकरी राम नरकुञ्जरवाजिनाम्।
धन्या यशस्या रिपुनाशनी च सुखावहा शान्तिरनुत्तमाच।
कार्या नृपैराष्ट्रविवृद्धिहेतोः सर्वप्रयत्नेन भृगुप्रवीर॥ इति।
इति नीराजनशान्तिः।
आश्विनशुक्लनवम्यां राज्ञो भद्रकाली पूजाभिहिता।
विष्णुधर्मोत्तरे,
राम उवाच।
विधिना पूजयेत्केन भद्रकालींनराधिपः।
नवम्यामाश्विने मासि शुक्लपक्षे नरोत्तम।
पुष्कर उवाच।
पूर्वोत्तरे तु दिग्भागे शिबिरात्सुमनोहरे।
भद्रकालीगृहं कुर्याच्चित्रवस्त्रैः स्वलङ्कृतम्॥
भद्रकालींपटे कृत्वा तत्र सम्पूजयेद्द्विज।
आश्विने शुक्लपक्षस्य83 नवम्यां प्रयतस्ततः॥
तत्र खड्गं च वर्माद्यं छत्रं केतुं च पूजयेत्।
राजलिङ्गानि सर्वाणि तथा शस्त्राणि पूजयेत्॥
पुष्पैर्गन्धैः फलैर्भक्षैर्भोज्यैश्चसुमनोहरैः।
बहुभिश्च विचित्राभिः प्रेक्षादानैस्तथैव च॥
रात्रौ जागरणं कुर्यात्तत्रैव वसुधाधिपः।
एवं84 हि सम्पूज्य जगत्प्रधानं यात्रा तु देया वसुधाधिपेन।
प्राप्नोति सिद्धिं परमां महीशो जनस्तथान्योऽपि हि वित्तशक्त्या॥
इत्याश्विनशुक्लनवम्यां भद्रकालीपूजा।
अथ प्रकारान्तरेणाश्विनशुक्लनवम्यां देवीपूजा।
देवीपुराणे,
ब्रह्मोवाच।
हते घोरे महावीरे सुरासुरभयङ्करे।
देव्या उपासका देवाः प्रभूता राक्षसास्तथा॥
आगता घातिनं दृष्ट्वा महिषंतं सुदुर्जयम्।
ब्रह्मविष्णुयमेशाना इन्द्रचन्द्रयमानिलाः॥
आदित्या वसवो रुद्रा ग्रहा नागाश्च गुह्यकाः।
समेत्य सर्वे देवास्ते देवीं भक्त्या च तुष्टुवुः ॥
वरं च सर्वलोकानां प्रददौ भयनाशिनी।
वलिं ददुश्व भूतानां महिषाजामिषेण तु।
पुरेषु शङ्खभेर्यश्च शतशोऽथ सहस्रशः।
कृता दुन्दुभिनादाश्चपटुशब्दाःसमर्दलाः॥
पताकाध्वजयन्त्रादिघण्टाचामरशोभितम्।
तद्दिनं कारयाञ्चक्रुर्देवीभक्ताः सुरोत्तमाः।
एवं तस्मिन्दिने वत्स भूतप्रेतसमाकुलम्।
कृताथ सर्वदेवैश्च महापूजाथ शाश्वती॥
आश्विने मासि मेघान्से महिषारिनिबर्हिणीम्।
देवीं सम्पूजयित्वा ये अर्द्धरात्रेऽष्टमीमुखे॥
घातयन्ति पशून् भक्त्या ते भवन्ति महाबलाः।
बलिं च ये प्रयच्छन्ति सर्वभूतविनायकी॥
तेषां तु तुष्यते देवी यावत्कल्पं तु शाङ्करम्।
क्रीडन्ति विविधैर्भोगैर्देवलोके सुदुर्लभे ॥
नाधयो व्याधयस्तेषां न च शत्रुभयं भवेत्।
न च देवग्रहा दैत्या न सुरा न च पन्नगाः॥
पीडयन्ति सुराध्यक्ष देवीपादसमाश्रितान्।
यावद्भूर्वायुराकाशं जलं वह्निः शशी ग्रहाः॥
तावच्चचण्डिका पूज्या भविष्यति सदा भुवि।
प्रावृट्काले विशेषेण आश्विने चाष्टमीषु च॥
महाशब्दो नवम्यां च लोके ख्यातिं गमिष्यति।
एतत्तदेव राजेन्द्र स्वर्गवासफलप्रदम्॥
परापरविभागं तु क्रियायोगेन कीर्त्तितम्॥
इन्द्र उवाच।
आश्विनस्य सिते पक्षे नवभ्यां प्रतिवत्सरम्।
श्रोतुमिच्छाम्यहं तात उपवासव्रतादिकम्॥
ब्रह्मोवाच।
शृणु शक्र प्रवक्ष्यामि यथा त्वं परिपृच्छसि।
महासिद्धिमदं धन्यं सवशत्रुनिबर्हणम्॥
सर्वलोकोपकारार्थंविशेषादपि वृत्तिषु॥
कर्त्तव्यं ब्राह्मणाद्यैस्तु क्षत्रियैर्लोकपालकैः।
गोधनार्थंतथा वैश्यैः शूद्रैःपुत्रसुखार्थिभिः।
सौभाग्यार्थं तथा स्त्रीभिरन्यैश्च धनकाङ्क्षिभिः॥
महाव्रतं महापुण्यं शङ्कराद्यैरनुष्ठितम्।
कर्त्तव्यं देवराजेन्द्र देवीभक्तिसमन्वितैः॥
कन्यासंस्थे रवौ शक्र शुक्लामारभ्य नन्दिकाम्।
अपाचिताश्यथैकाशी नक्ताशी त्वथ वाय्वदः॥
प्रातःस्त्रायी जितद्वन्द्वस्त्रिकालं शिवपूजकः।
जपहोमसमायुक्तः कन्यका भोजयेत्सदा॥
अष्टम्यां नव गेहानि दारुजाति शुभानि च।
एकं वा वित्तभावेन कारयेत्सुरसत्तम।
तस्मिन्देवी प्रकर्त्तव्या हैमी वा राजतापि वा।
मूर्द्धाक्षिलक्षणोपेता खड्गे शुलेऽथ पूजयेत्॥
सर्वोपहारसम्पन्नवस्त्ररत्नफलादिभिः।
कारयेद्रथदोलादिबलिपूजां च दैविकीम्॥
पुष्पादिद्रोणबिल्वाढ्यजातीपुन्नागचम्पकैः।
विचित्रां रचयेत्पूजामष्टम्यां समुपावसेत्॥
दुर्गाग्रतो जपेन्मन्त्रमेकचित्तः शुभान्वितः।
तदर्धयामिनीशेषे विजयार्थंनृपः पशुम्॥
पञ्चाब्दंलक्षणोपेतं गन्धधूपसुगन्धितम्।
विधिवत्कालिकालीति जप्त्वा खड्गेन घातयेत्॥
तदुत्थं रुधिरं मांसं गृहीत्वा पूजनादिषु।
नैर्ऋतेभ्यः प्रदातव्यं महाकौशिकिमन्त्रितम्॥
तस्याग्रतो नृपः स्नायाच्छत्रुं कृत्वाथ पिष्टजम्।
खड्गेन घातयित्वा तु दद्यात्स्कन्दविशाखयोः॥
ततो देवींस्नापयेत्प्राज्ञः क्षीरसर्पिर्जलादिभिः।
कुङ्कुमागुरुकर्पूरचन्दनैश्चार्च्यधूपयेत्॥
देयानि पुष्परत्नानि वासांसि त्वदृतानि च।
नैवेद्यं सुप्रभूतं तु देयं देव्याः मृभावितैः॥
देवीभक्ताश्च पूज्यन्ते कन्यकाप्रमदादयः।
द्विजान् दीनान्धपाखण्डानन्नदानेन तर्पयेत्॥
नन्दाभक्ता नरा ये तु महाव्रतधराश्चये।
पूजयेत्तान् विशेषेण यस्मात्तद्रूपमम्बिका॥
मातॄणां चैव देवीनां पूजा कार्या तदा निशि।
ध्वजच्छत्रपताकादि उच्छ्रयेदम्बिकागृहे॥
रथयात्राबालक्षेमं स्फुटवाद्यरवाकुलम्।
कारयेत्तुष्यते येन देवी पशुनिपातनैः॥
अश्वमेधमवाप्नोति भक्तितः मुरसत्तम।
महानवम्यां पूजेयं सर्वकामप्रदायिका।
सर्वेषु वत्स वर्णेषु तव भक्त्या प्रकीर्तिता।
कृत्वाऽऽप्रोति यशो राज्यं पुत्रायुर्धनसम्पदः॥ इति
इति देवीपुराणे महानवम्यां देवीपूजा ।
अथ चिह्नेषु देवीपूजाविधिः।
तत्र देवीपुर राणे,
ब्रह्मोवाच।
क्षीराशी कार्त्तिकारम्भे देव्या भक्तिरतो नरः।
शाकयावक एकाशी प्रातःस्नायी शिवारतः॥
पूजयेत्तिलहोमं तु दधिक्षीरघृतादिभिः।
कुर्याद्देव्यास्तु मन्त्रेण शृणु पुण्यफलं हरे॥
महापातकसंयुक्तो वृक्तो वाप्युपपातकैः।
मुच्यते नात्र सन्देहो यस्मात्सर्वगता शिवा॥
अन्यो वा भावनायुक्तस्त्वनेन विधिना शिवाम्।
स्वयं वा अन्यतो वापि पूजयेत्पूजयीत वा॥
न तस्य भवति व्याधिर्न वा शत्रुकृतं भयम्।
नोत्पातग्रहदौस्थ्यं वा न च राष्ट्रं विनश्यति॥
सदा स्वभावसम्पन्ना ऋतवः शुभदा घनाः।
निष्पत्तिः सर्वसस्यान्नां तस्करा न भवन्ति च॥
प्रभूतपयसो गावो ब्राह्मणाश्च क्रियापराः।
स्त्रियः पतिव्रताः सर्वा रूपनिर्वृतिकारिणः॥
फलपुष्पवती धात्री सस्यानि रसवन्ति च।
भवेयुर्नात्र सन्देहश्चाम्बिकाविधिपूजनात्॥
जयन्ती मङ्गला काली भद्रकाली कपालिनी।
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते॥
अनेनैव तु मन्त्रेण जपहोमं तु कारयेत्।
प्रातस्तु संस्मृता वत्स महिषघ्नीप्रपूजिता॥
अघं नाशयते क्षिप्रं यथा सूर्योदये तमः।
सिंहारूढा ध्वजे यस्य नृपस्य रिपुहाउमा।
द्वारस्था पूज्यते वत्स न तस्य रिपुजं भयम्।
कपिसंस्था महामाया सर्वशत्रुविनाशिनी॥
वृषे यथेप्सितं दद्यात्कलभेश्रियमुत्तमाम्।
हंसे विद्यार्थकामांस्तु बर्हिणेऽभीष्टपुत्रदा॥
गरुत्मति महामाया सर्वरोगविनाशिनी।
महिषस्था महामारींशमयेद्धजसंस्थिता॥
करिनासर्वकार्येषु नृपैः कार्या त्रिशूलिनी।
पद्मस्था चर्चिका रौप्या धर्मकामार्थमोक्षदा॥
प्रेतस्था सर्वभयहा नित्यं पशुनिपातनैः।
पूजिता देवराजेन्द्र नीलोत्पलकरा वरा॥
भवेत्तु सिद्धिकामस्य चिह्नाग्रे संव्यवस्थिता।
चिह्नानि, राज्ञो ध्वजपताकादीनि, तेषामग्रे।
गन्धपुष्पार्चितां कृत्वा वस्त्रहेमसुचर्चिताम्॥
फलशालियवैः शूकवर्द्धमानैर्विभूषिताम्।
शोभनामुच्छ्रयेदग्रे पताकां वा मनोरमाम्।
चामरं कलशं शङ्खं सातपत्रं वितानकम्॥
भवेत्तु सिद्धिकामस्य नृपस्य फलदायकम्।
नमो विश्वेश्वरि दुर्गे चामुण्डे चण्डहारिणि।
ध्वजं समुच्छ्रयिष्यामि वसोर्धारां सुखावहाम्॥ इति।
इति चिह्नेषु देवीपूजाविधिः।
अथाश्ववद्भिर्नृपैराश्विनशुक्लप्रतिपदमारभ्य महानवमी वदश्वशान्त्यर्थं लोहाभिसारिकं कर्म कार्यम्। यथोक्तम्—
देवीपुराणे,
आश्वयुक्शुक्लप्रतिपत्स्वातियोगे शुभे दिने।
। श्रवा नाम प्रथमं श्रियमाहरत्॥
तस्मात्साश्वैर्नरैस्तत्र पूज्योऽसौ श्रद्धया सदा।
पूजनीयाश्च तुरगा नवमीं यावदेव हि॥
शान्तिः स्वस्त्ययनं कार्यं तदा तेषां दिने दिने।
धान्यं भल्लातकं कुष्टं वचासिद्धार्थकांस्तथा॥
पञ्चवर्णेन सूत्रेण ग्रन्थिं तेषां तु बन्धयेत्।
वायव्यैर्वारुणैः सौरैःशाक्रैर्मन्त्रैः सवैष्णवैः॥
वैश्वदेवैस्तथा मन्त्रैर्होमः कार्यो दिने दिने।
तुरगा रक्षणीयास्तु पुरुषैःशस्त्रपाणिभिः॥
नैव ताड्याः क्वचित्तत्र न च वाह्याः कथञ्चन। इति।
भविष्योत्तरेऽपि विशेष उक्तः।
कन्यागते सवितरि शुक्लपक्षेऽष्टमी तु या।
मूलनक्षत्रसंयुक्ता सा महानवमी स्मृता॥
तस्यां सदा पूजनीया चामुण्डा मुण्डमालिनी।
तस्यां ये ह्युपयुज्यन्ते प्राणिनो महिषादयः॥
सर्वे ते स्वर्गतिं यान्ति घ्नतां पापं न विद्यते।
यावन्नचालयेद्गात्रं पशुस्तावन्न हन्यते॥
न तथा बलिदानेन पुष्पधूपविलेपनैः।
यथा सन्तुष्यते मेषैर्महिषैर्विन्ध्यवासिनी॥
बलिदानं च मांसमाषसहितौदनेन क्रियमाणम्।
एवं च विन्ध्यवासिन्यां नवरात्रोपवासिना।
एकभक्तेन नक्तेन स्वशक्त्यायाचितेन च॥
पूजनीया जनैर्देवी स्थाने स्थाने पुरे पुरे।
स्नातैः प्रमुदितेष्टैर्ब्राह्मणैः क्षत्रियैर्नृपैः॥
वैश्यैः शूद्रैर्भक्तियुक्तैर्म्लेच्छैरन्यैश्च मानवैः।
स्त्रीभिश्च कुरुशार्दूल तद्विधानमिदं शृणु॥
जलाभिलाषी नृपतिः प्रतिपत्मभृति क्रमात्।
लोहाभिसारिकं कर्म कारयेद्यावदष्टमी॥ इति।
लोहाभिसारिकविधानं च—
तत्रैवोक्तम्,
प्रागुदक्प्रवणे देशे पताकाभिरलङ्कृते।
मण्डपं कारयेद्दिव्यं नवसप्तकरं वरम्॥
नवसप्तकरं, षौडशहस्तप्रमाणमित्यर्थः।
आग्नेय्यां कारयेत्कुण्डं हस्तमात्रं सुशोभनम्।
मेखलात्रयमंयुक्तं योन्या स्वच्छन्दलाभया॥
राजचिह्नानि सर्वाणि शस्त्राण्यस्त्राणि यानि च।
आनीय मण्डपे तानि सर्वास्त्राण्यधिवासयेत्॥
ततस्तु ब्राह्मणः स्नातः शुक्लाम्बरधरः शुचिः।
ॐकारपूर्वकैर्मन्त्रैस्तल्लिङ्गैर्जुहुयाद्घृतम्॥
लोहनामाऽभवत्पूर्वंदानवः सुमहाबलः।
स देवैःसमरे कुद्धैर्बहुधा शकलीकृतः॥
तदङ्गसम्भवं लोहं सर्वंयद्दृश्यते क्षितौ।
शस्त्रास्त्रमन्त्रैर्होतव्यं पायसं घृतसंयुतम्।
हुतशेषं तुरङ्गाणां राजानमुपहारयेत्॥
लोहाभिसारिकं कर्म तेनैतदृषिभिः स्मृतम्।
घृतपल्ल्ययनानश्वान् गजांश्चसमलङ्कृतान्॥
भ्रामयेन्नगरे नित्यं नन्दिघोषपुरस्कृतम्।
प्रत्यहं नृपतिः स्नात्वा सम्पूज्य पितृदेवताः॥
पूजयेद्राजचिह्नानि फलमाल्यविलेपनैः।
तस्याभिसरणाद्राज्ञो विजयः समुदाहृतः॥
पूजामन्त्रान् प्रवक्ष्यामि पुराणोक्तानहं तव।
यैः पूजिता प्रयच्छन्ति कीर्तिमायुर्यशोबलम्॥ इति।
एते च मन्त्रा यात्राप्रकरणेऽभिहिता इति तत्रैवानुसन्धेयाः।
इति लोहाभिसारिकं कर्म।
अथ गवोत्सर्गः।
तत्र देवीपुराणे,
कृष्णपक्षे त्वमावास्या कार्तिकस्य ततः परे।
योऽह्नि कुर्याद्गवोत्सर्गमश्वमेधफलं लभेत्॥
सुवर्णदाने गोदाने भूमिदाने च यत्फलम्।
तत्फलं कोटिगुणितं गवोत्सर्गेण लभ्यते॥
तस्मान्मनोरमे स्थाने शाद्बले गर्तवर्जिते।
शर्करा अश्मरहिते शङ्खभेरीनिनादिते॥
स्तम्भद्वयं समारोप्य पूर्वपश्चिमसंस्थितम्।
तत्र दर्भमयी कार्या शरवंशभवाथवा॥
मध्ये कम्बलसंयुक्ता दीर्घरज्जुः सुशोभना।
उभयोः पार्श्वयोर्विप्रावेदध्वनिसमन्विता॥
एवंविधानतः कृत्वा उत्सर्गंकारयेत्ततः।
प्रथमं गच्छते होता यजमानसमन्वितः॥
ब्रह्मक्षत्रविशः शूद्रास्तथा गावः प्रजाः पुनः।
तथान्ये वर्णबाह्यास्तु चण्डालपरिवर्जिताः॥
गच्छन्ति मुदिता हृष्टा हास्यतोषसमन्विताः।
यस्त्वेषं कुरुते राजा पुरे ग्रामेऽथ पत्तने॥
नश्यन्ति चेतयः सर्वा प्रजानां नन्दनं चिरम्।
नाकाले म्रियते राजा पुत्रपौत्रैश्चवर्द्धते॥
देवा भवन्ति सुप्रीतास्तथा वै मातरस्तथा।
गोलोकं च लभेद्वत्स सर्वान् कामानवाप्नुयात्॥
ईतयः प्रसिद्धाः। यथा—
अतिवृष्टिरनादृष्टिर्मूषकाः शलभाः शुकाः।
अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः॥ इति।
इति गवोत्सर्गः।
अथ वसोर्धारा।
तत्र देवीपुराणे,
विद्याधर उवाच।
यथा सा सर्वगा देवी सर्वेषां च फलप्रदा।
तथाहंश्रोतुमिच्छामि वसोर्द्धारा सविस्तराम्॥
अगस्त्य उवाच।
ब्रह्मणा या समाख्याता देवराजस्य पृच्छतः।
विधिश्व पापहा श्रोतुः शृणुष्वावहितो मम॥
वसोर्द्धारास्थिता देवी सर्वकामप्रदायिका।
तथा ते कथयिष्यामि शृणु पुण्यविवृद्धये॥
सर्वेषामेव देवानामुक्तादेवी मयोत्तमा।
विशेषेण तु वह्निस्था आयुरारोग्यदा मता॥
विजयं भूमिलाभं च मानवानां प्रियं तथा।
विद्यासौभाग्यपुत्रादि कुण्डस्था सम्प्रयच्छति॥
तस्मान्नृपेण भूत्यर्थं वसोर्द्धाराश्रिता शिवा।
पूजनीया यथाशक्त्या सर्वकामफलप्रदा॥
रुद्रादित्या ग्रहा विष्णुर्ब्रह्मा यक्षाः सकिन्नराः।
हुताशनमुखाः सर्वे दृष्टादृष्टफलप्रदाः॥
गोदानं भूमिदानं च रत्नसर्पिस्तिलादि च।
दानानि च महान्त्याहुस्तेषां धारा विशिष्यते॥
विप्राणां कोटिकोटीनां भोजयित्वा तु यत्फलम्।
लभते तदवाप्नोति धारां दत्त्वा हुताशने॥
व्यतीपाते न सन्देहः स च सूक्ष्मः प्रकीर्त्तितः।
अयनं विषुवच्चैव दिनच्छिद्रं तथैव च॥
दुष्पापं दानहोमानां धारायां लभ्यते नृप।
तस्मान्नृपेण वृद्ध्यर्थंदृष्टादृष्टजिगीषुणा ॥
वसोर्द्धारा प्रकर्त्तव्या सर्वकामसुखावहा।
समां वा अर्द्धमर्द्धंवा ऋतुमासार्द्धवासरम्॥
समाम् अब्दम्।
कृत्वा विभवरूपण शाश्वतं लभते फलम्।
एकाहमपि यो देवीं कल्पयित्वा हुताशने॥
पातयेत्सर्पिषो धारां स लभेदीप्सितं फलम्।
देवीमातृसमीपस्थं शिवविष्णुसमीपगम्॥
भानोः प्रजापतेर्वापिवसोर्धारागृहं भवेत्।
चिरन्तनेषु सर्वेषु स्वयं वा संस्कृतेषु च॥
पर्वतेषु च दिव्येषु नदीनां सङ्गमेषु च।
गुहासु च विचित्रासु गृहगर्भेषु भूमिषु॥
दत्त्वा समाहितान् कामान् विधिना लभते नृप।
अथ सामान्यतो गेहं समसूत्रं जलोन्मुखम्॥
वास्तुसंशुद्धविन्यासमेकादशकरं परम्।
त्रीणि पञ्चाथवा सप्त दश वा नव कारयेत्॥
विंशकं यावदेकोनत्रिंशदूर्ध्वंन कारयेत्।
पक्वेष्टं शैलदार्वंवा सालिन्दं सहतोरणम्॥
पञ्चसप्तनवास्यं वा गवाक्षकविभूषितम्।
सर्वतोभद्रविन्यासं क्रमवृद्ध्या विवर्द्धितम्॥
ऊर्ध्वं च धूमनिष्काशं सप्रकाश विशेषतः।
सदेवसङ्ग्रहं कार्यमथवा देवतागमम्॥
सदेवसङ्ग्रहं, प्राचीनस्थापितदेवप्रतिमम्। देवतागमं, तत्कालातीतदेवप्रतिमम्।
तस्य मध्ये भवेत्कुण्डं हस्तादिशुभलक्षणम्।
चतुष्कमथ वा वृत्तं पङ्कजाकृति वाथ वा॥
अथवेत्यनेन योनिकुण्डमुच्यते। अत एव “योन्यां कामफलप्रदम्” इत्यनेनाग्रे तत्फलमुक्तम्।
पृथिवीजयदं शाक्रं वृत्तं कामफलप्रदम्।
शाक्रं चतुरस्रम्।
पङ्कजे जयमारोग्यं योन्यां कामफलप्रदम्।
शेषाः कार्यविभागेन कुण्डाः कार्या विजानता॥
सामान्यं सर्वहोमेषु शाक्रकुण्डं नरोत्तम।
विस्तारखाततुल्यं तु त्रिमेखलसमन्वितम्॥
चतुस्त्रिद्वे च वा कुर्यादङ्गुलान् कुण्डमानतः।
द्विगुणान् द्विगुणे कुण्डे होमसारेण कारयेत्॥
होमसारेण, होमानुसारेण।
एवं संसाधयेद्विप्रस्ततः पात्रं सशृङ्खलम्।
हैमं वा राजतं वापि ताम्रं वा लक्षणान्वितम्॥
चतुर्भिःकटकैर्युक्तमयः शृङ्खलसङ्ग्रहम्।
तस्य मध्ये भवेद्रन्ध्रंकर्षार्धस्य शलाकया॥
हेमोत्थया प्रमाणेन चतुरङ्गुलमानया।
घृतनिष्क्रमणार्थाय कार्यंसम्यग्विपश्चिता॥
पलैर्दशभिरर्द्धोनैर्नाड्येका तु यथा व्रजेत्।
पञ्चभिस्तु शतैर्होमः सप्तत्याथ षडग्रया॥
यथा पूर्णाव्रजद्वत्स तथा कुर्यान्न चान्यथा।
हस्तमात्रं भवेद्धैमं शृङ्खलं भुजगाकृति॥
रन्ध्रे सूत्रनिबद्धं च अवलम्ब्य अधस्ततम्।
मणिं वा पङ्कजं पात्रमाबद्धं कारयेत्तले॥
एवं कार्यानुरूपेण द्विगुणं त्रिगुणं च वा।
कुर्यात्पात्रं घृतं चैव प्रतिष्ठा देव चोदिता॥
उद्देशं किश्चिदत्रापि कथयामि नृपोत्तम।
समापनमृतुर्मासपक्षाहोरात्रपूर्ववत्॥
लग्नादि शोधयेद्वत्स सर्वकामप्रदं यथा।
क्षणिकेषु च कार्येषु भक्तियुक्तः क्षणे शुभे॥
क्षणं देवी च द्रष्टव्या यथा सर्वगता शिवा।
तत्र भूता ग्रहा नागास्त्रिविधापि शिवागुणाः॥
नित्ये नैमित्तिके होमे मन्त्रयोगेन दापयेत्।
यो यस्य भक्तिमासक्तस्तस्य कुर्यात्सुसन्निधिम्॥
सग्रहांल्लोकपालांश्च मातरो भुजगान् शिवान्।
कल्पयेत्सर्वहोमेषु देवी एतेषु संस्थिता॥
स्थूलरूपा तु तैस्तुष्टैस्तुष्टा देवी महाफला।
कालादिबलिगन्धादि प्रतिष्ठावश्च कारयेत्॥
यथासम्पत्ति सम्पन्नः सर्वकालं प्रदापयेत्।
तदा मातृग्रहान् भूतान् लोकपालान्निवेशयेत्।
हैमान् राजतताम्रान् वा स्वनिवेशोपलक्षितान्॥
स्वर्णपुष्पबलिगन्धदक्षिणादि यथाक्रमम्।
मातॄणां लोकपालानां ग्रहाणां च यथाविधि॥
हृदयेन प्रदेयं च मूलमन्त्रैः पुरातनैः।
अथ वा सर्वसामान्यां वैदिकीमपि कारयेत्॥
अथर्वविधिना वत्स पूर्वोक्तां वा यथा पुरा।
प्रभूतमन्नं नैवेद्यैर्भूरिदक्षिणसंयुतैः॥
कुर्यान्महाप्रयत्नेन नान्यथा च कदाचन।
छेदे भयं विजानीयात्तदर्थं तत्र कारयेत्॥
महाव्याहृतिहोमेन पात्रमत्र निवेशयेत्।
मूलमन्त्रेण देव्यास्तु शृङ्खलं हृदयेन तु॥
घृतं शिरसो मन्त्रेण शिखया चानुतापयेत्।
कवचेन तथा वह्निं रक्षयित्वा प्रदापयेत्॥
अस्त्रेण नेत्रमन्त्रेण सर्वे सर्वत्र निक्षिपेत्।
लोकपालान् ग्रहान्नागान् द्वादशार्धेन पूजयेत्।
शिवाद्यान्सनकाद्यांश्च देवाद्यानपि पूजयेत्॥
नित्येषु च महाप्राज्ञ निमित्तेषुविशेषतः।
अग्नेर्वर्णश्च गन्धश्च शब्दश्चाकृतयस्तथा॥
विकाराश्चतदा वत्स बोद्धव्या सिद्ध्यसिद्धिदाः।
तदन्ते वत्स सत्कार्या सर्वकामप्रदायिका॥
येन सानिद्ध्यमायाति सर्वहोमेषु मङ्गला।
सहस्रार्चिर्महातेजा नमस्ते बहुरूपिणे॥
नमस्ते नीलकण्ठाय पीतवासाय पावक।
स्रुवमेखलहस्ताय ब्रह्माण्डं दहते नमः॥
सर्वाशिने सर्वगतपावकाय नमोनमः।
उग्राय उग्ररूपाय स्त्रीलिङ्गाय स्वतेजसे॥
वसु अश्विनिरूपाय सर्वाहाराय वै नमः।
त्वं रुद्र घोरकर्मासि घोरहा परमेश्वर॥
विष्णुस्त्वं जगतां पालो ब्रह्मा सृष्टिकरः स्मृतः।
त्वं च सर्वात्मको देव लोकपालतनुः स्थितः॥
इन्द्राय वह्नये देव यमाय पिशिताशिने।
वरुणानिलसोमाय ईशदेवाय वै नमः॥
सूर्याय चन्द्ररूपाय भूसुताय बुधाय च।
बृहस्पतये शुक्राय सौरये राहुकेतवे॥
सर्वग्रहस्वरूपाय व्यालमातङ्गरूपिणे।
वृष्टिसृष्टिस्थितिभूतिकर्त्रे च वरदाय च॥
नमस्ते स्कन्दमातस्ते स्कन्दपित्रे नमोनमः।
कुण्डे वा मण्डले वापि स्थण्डिले वाथ तां विभो॥
महानसे वा भ्राष्ट्रे वा हुत्वा इष्टं लभेन्नरः।
घृतं क्षीरं रसं धान्यं तिलान् व्रीहीन् कुशान्यवान्॥
भावादभावतो वापि सततं होमयेत्तु यः।
एवं वित्तविहीनोऽपि नरो विगतकिल्बिषः॥
किं पुनर्नित्यहोमे तु वसोर्धारा हुताशने।
सर्वमङ्गलमन्त्रेण आहुतिं सम्प्रदापयेत्॥
लोकपालग्रहाणां तु ओङ्कारेण नमोऽन्तकैः।
स्वैः स्वैर्मन्त्रैस्तु शेषाणां होमः कार्यो नृपोत्तम॥
अन्नं चित्रं विशुद्धं च संस्कृतं घृतपायसैः।
होमयोद्विधिवद्विप्रो बलिंचापि प्रदापयेत्॥
सितवस्त्रधरो भूपः सबलः’सहवाहनः।
पूजयेच्छत्ररत्नादीन्मातरं पितरं द्विजान्॥
आचार्यान् बान्धवांल्लोकान्सर्वाश्रमरताश्चये।
नटनर्त्तकवेश्याश्च कन्यका विधवाः स्त्रियः॥
दीनान्धकृपणांश्चैव अन्नदानेन पूजयेत्।
एवं निवेशनं कृत्वा नित्यं जप्यं शतं शतम्॥
प्रातर्मध्याह्नमन्ध्यायां तत्र शान्तिः प्रकीर्त्तिता।
भवते नुपराष्ट्रस्य पूर्वोक्तफलदायकम्॥ इति।
एवं वसोर्धारानिवेशनं विधाय तत्र धूमस्य वर्णभेदेन फलाफलम्—
तत्रैवोक्तम्,
ब्रह्मोवाच,
तप्तहाटकवर्णाभः सूर्यसिन्दूरकान्तिभृत्।
शङ्खकुन्देन्दुपद्माभो घृतक्षीरनिभः शुभः॥
जपाभः शङ्खपुष्पाभो लाक्षाजलजसन्निभः।
शुभदःसर्वकार्याणां विपरीतो ह्यसिद्धिदः॥
मेघदुन्दुभिशङ्खानां वेणुवीणास्वनःशुभः।
वृषेभशिखिकाकानां कोकिलस्य न पूजितः॥
कुड्डुमागुरुकर्पूरमदरोचनगन्धवान्।
अदो, मृगमदः।
मांस्येलाकुष्टतगरसितगन्धिश्च पूजितः॥
हंसच्छत्रेभगोकुम्भपद्माकरकृतिः शुभः॥
सिंहबर्हिणशैलानां चामराकृतिरिष्टदः।
सधूमोऽमृतगन्धी च शुकास्यचरणोपमः॥
छिन्नज्वालोऽथ वा रोदी नेष्टःसर्वेषु पावकः।
सुसंहतशिखः शस्त ऊर्ध्वं प्रज्वलितोऽथ वा॥
लेलिहानःशुभः कुन्ददीप्तिमान् वरदोऽनलः।
एवंविधः सदैवाथ यज्ञे वैश्वानरो हितः॥
यात्रायां शक्रकेतौ च सर्वकार्येषु सिद्धिदः।
न्यूना या वहते धारा मानात्सर्पिन सा शुभा॥
नाधिका शस्यते विप्र दुर्भिक्षकलिकारिका।
त्रुट्यते वहमाना या शाम्यते वा हुताशनः॥
सापि चान्यं नृपं त्विच्छेद्या च धारा पतेद्वहिः।
ऋजुनादा महारूपा मनोज्ञा प्रियकारिका॥.
सुवर्णा हेमवर्णा च धारा राज्यविवृद्धये।
सन्तता पतते या च तनोतीव च पावकम्॥
तनोति नृप राष्ट्रंसा वसोर्धारा न संशयः।
सुगन्धि स्त्रस्थं विमलं कृमिकीटविवर्जितम्॥
शस्यते वसुधारायां सर्पिर्गव्यं च पूजितम्।
अभावाद्गव्यमाज्यं वा होतव्यं च सुशोभनम्॥
घृतक्षौद्रपयोधारा सर्वपीडानिवारिणी।
गुडूचीशकलैर्होमः सहकारदलैः शुभः॥
अश्वत्थमालतीदूर्वा आयुरारोग्यपुत्रदाः।
सौभाग्यं च श्रियं देवी प्रयच्छत्यविचारणात्॥
आर्क्याद्या वा शुभा वत्स सफलाः सार्वकामिकाः।
होतव्याः सर्वकालं तु सातत्यात्समिधो नृप॥
सर्वकालं घृतं प्रोक्तं निमित्ते च निमित्ततः।
विशुद्धे सर्पिषो यानि तानि चात्र विचारयेत्॥
ज्वालावच्च शुभं गन्धं सर्वहोमेषु लक्षयेत्।
संयतैः संयताहारैः सर्वशास्त्रार्थपारगैः॥
जपहोमरतैर्भूप धारा देया तु तद्विधैः।
पाखण्डिविकलान् लुब्धान् धर्मापेतान् बहिष्कृतान्॥
सर्वकालप्रवादांश्च न वदेन्नावलोकयेत्।
मृत्युञ्जयमहामन्त्रं चतुर्थ्यन्तं जपेत्तथा॥
भाग्यवान् नित्यहोमे तु अन्यथा विफलं भवेत्।
सामान्या या भवेद्वारा तत्र जप्यं शतं शतम्॥
प्रातर्मध्याहसन्ध्यासुसर्वकामसमृद्धये।
वसुद्रव्यं घृतं वाज्यममृतं हविष्कामिकम्॥
तस्य धारा सदा देया वसोर्धारा हि सा मता।
वसुनापत्यकामेन दक्षेण च महात्मना॥
मया च विष्णुना शक्र रुद्रेण च सहोमया।
आत्मानं च स्वरूपेण धारायां तु प्रपातितम्॥
देवी सान्निध्यमायाता सर्वकामप्रदायिका।
तस्मात्वमपि राजेन्द्र वसोर्धारां प्रदापय॥
नातः परतरं पुण्यं विद्यते नृपसत्तम।
वसोर्धाराप्रदानस्य एकाहमपि यद्भवेत्॥
नृपेण पुष्टिकामेन परराज्यजिगीषुणा।
देया धारा सदा वत्स रिपुनाशाय विद्धि ताम्॥
विच्छेदो नित्यहोमस्य न कार्यस्तु कदाचन।
महादोषमवाप्नोति यः कुर्याद्विमुखान् सुरान्॥
द्रव्याभावे घृताभावे नृप तस्करजं भयम्।
यदि नो वहते धारा तदा च्छिद्रं न विद्यते॥
होमं कृत्वा क्षमापेत देवं देवीं नृपोत्तम।
पुनः प्राप्ते भवेद्वत्स प्रतिष्ठा विधिचोदिता॥
महत्याश्विनमासे तु अष्टमीनवमीषु च।
कार्तिक्यां माघचैत्रे तु चित्रायां रोहिणीषु च।
वैशाख्यां तु प्रदातव्या ज्यैष्ठ्यां ज्येष्ठस्य सत्तम॥
आषाढे द्वादशी प्रोक्ता अष्टमी पूर्णिमा नभे।
नभस्ये रोहिणी वत्स चतुर्थ्यांभौमवासरे॥
सङ्क्रान्तिषु च सर्वासु गुरुसौरभवासु च।
चन्द्रसूर्योपरागेषु प्रतिष्ठा यज्ञकर्माणि॥
पुत्रोत्सवे प्रदातव्या जन्मपुष्पाभिषेचने।
जन्मदिनाभिषेके पुष्पाभिषेके च।
मार्गे व्रतनिबन्धे तु सुघोरे केतुदर्शने।
ग्रहकृत्योपशमने धारा देया शुभावहा॥
एवं यो वाहयेद्धारां शास्त्रदृष्टेन कर्मणा।
तस्य भूः सिद्ध्यत सर्वासनागा सहसागरा॥
अश्वमेधसमं पुण्यं दिनहोमात्मजायते।
वाजपेयं शतं रात्रावग्निष्टोमशतं तथा॥
आधयो व्याधयस्तस्य न भवन्ति कदाचन।
आयुरारोग्यमैश्वर्यं तदन्ते च शिवो भवेत्॥ इति।
तथा,
हिमवद्धेमकूटे च विन्ध्ये माहेन्द्रपर्वते।
वैदिशे तु जयन्ते वा महासेने च भूभृति॥
गोपगिरौ महापुण्ये चित्रकूटेऽथ यामुने।
कालञ्जरेऽथ वा काश्यां प्रयागे देवपर्वते॥
उज्जयिन्यां च यो धारांदापयेद्वा महेश्वरि।
एतेषु पुण्यदेशेषु विषुवायनसङ्क्रमे॥
पुष्करे नैमिषे वत्स देया पञ्चमुखेक्षिते।
गिरौ धाराप्रदानेन ग्रहपीडा न जायते॥
बहुवक्रगते देहे वत्सरं न भयं भवेत्।
जन्मतारार्क्षपीडायां दत्ता धारा व्यपोहति॥
जम्बूमार्गे सदापूजा धारापाते विशिष्यते।
सर्वकामानवाप्नोति नर्मदायां महामुने।
धारादानेन गङ्गायां कालिन्द्यां वा महाह्रदे॥
दत्त्वा विधानविहितं न भयं जायते क्वचित्।
शनिसूर्यकृतां पीडां गुरुभौमीं व्यपोहति॥
यथापूजाविधानेन प्रतिसंवत्सरे स्थिता।
पीडां निवारयेद्वत्स संवत्सरग्रहोद्भवाम्॥
मन्त्रं जपेत्सङ्कथितं नं भयं विद्यते क्वचित्।
एकान्ते दुष्टरहिते पापजन्तुविवर्जिते॥
धाराहोमश्च कर्त्तव्यो यथोक्तः श्रियमिच्छता।
जिह्वायां पातयेद्धारां न द्रुतां न विलम्बिताम्॥
सावधानेन मनसा मृत्युञ्जयनिपातिता।
मन्त्रयोगाद्भवेत्सिद्धिर्दृष्टादृष्टप्रसाधिका॥
ग्रहोद्भवां हरेत्पीडां त्रिविधामपि दुःस्थिताम्।
ग्रहाश्चत्रिविधाः प्रोक्तास्तेषां मन्त्रा विधानतः॥
अंशजा मूलमन्त्राश्च पीठपादगतास्तथा।
होमकाले प्रयोक्तव्याः पूजाकाले तथैव च॥
एवं सिद्धिमवाप्नोति इह स्वर्गापवर्गिकाम्।
तावत्काले क्रियायोगाद्धारायां लभते मुने।
धारादानं प्रकर्त्तव्यं यत्र कुत्र घटादिभिः।
तैर्मन्त्रैर्नित्यहोमे च पूर्वंच कथितो विधिः॥ इति।
इति देवीपुराणोक्तो वसोर्धाराविधिः।
अथ शत्रुनाशनं कृत्तिकास्नानम् ।
विष्णुधर्मोत्तरे,
पुष्कर उवाच।
कृतोपवासो याम्यर्क्षॆसोपवासस्य भार्गव।
पुरोधाःस्नपनं कुर्यात्कृत्तिकासु यथाविधि॥
अकालमूलैःकलशैर्मृन्मयैरथ काञ्चनैः।
उज्ज्वलैर्लक्षणैः पूर्णैस्तथा तार्थोदकैः शुभैः।
अग्निमन्थशिरीषाणां न्यग्रोधाश्वत्थयोरपि॥
पत्रपूर्णैस्तथा युक्तैस्तिलैः कृष्णैर्द्विजोत्तम।
वह्निं कुमारं शशिनं रुद्रं वरुणमेव च॥
पूजयेत्कृत्तिकाश्चैव गन्धमाल्यान्नसम्पदा।
पीतरक्तैस्तथा वर्णैर्घृतधूपैस्तथैव च॥
दध्ना गव्येन लाजाभिरग्निमन्थेन चाप्यथ।
कृसरोल्लोपिकाभिश्च अपूपैश्च पृथग्विधैः॥
देवतानां यथोक्तानां प्रियङ्गुंजुहुयात्ततः।
गर्दभाश्वमयूराणां लोमानि मनुजोत्तम॥
अग्निमन्थगृहात् धूमं कृत्वा रुक्माङ्गदं मणिम्।
धारगेद्दक्षिणां दद्याच्छक्त्याकनकमेव च॥
श्वेतवासास्ततः पश्चात्पूजयेन्मधुसूदनम्।
कर्मैतत्सर्वतः कृत्वा वह्न्याधानमथाप्नुयात्॥
कर्मेतदुक्तं रिपुनाशकारि सर्वाग्निकर्मप्रसमृद्धिदं च।
धन्यं यशस्यं च तथैव काम्यं नित्यं कृतं धर्मभृतां वरिष्ठ ॥
इति शत्रुनाशनं कृत्तिकास्नानम्।
अथापरं शत्रुनाशनं कर्म।
विष्णुधर्मोत्तरे,
राम उवाच।
अग्न्याधेयमवाप्नोति शत्रुनाशमथापि वा।
स्वेच्छया कर्मणा केन सदा यादोनृपात्मज॥
शत्रुनाशकरं कर्म कथयस्व तथाऽपरम्।
सदहं श्रोतुमिच्छामि तत्र श्रद्धा सदा मम॥
पुष्कर उवाच।
कृतोपवासो याम्यर्क्षॆकृत्तिकासुसदैव तु।
पूजयेद्वासुदेवं तु कुङ्कुमेन सुगन्धिना॥
रक्तैश्च कुसुमैर्हृद्यैधूपं दद्याच्च गुग्गुलम्।
घृतेन दीपं दद्याच्च रक्तवर्णंतथैव च॥
निवेदनीयं देवाय तथा सर्वंनिवेदयेत्।
होतव्याश्च समिद्धेऽग्नौ तथैवासुरसर्षपाः।
आयुधानि प्रदेयानि ब्राह्मणेभ्यस्तु दक्षिणा।
कर्मैतदुक्तं रिपुनाशकारि कार्यंसदा शत्रुगणप्रमाथि।
कृत्वैतदग्न्यं रिपुनाशमाशु प्राप्नोति राजा नहि संशयोऽत्र॥
इति शत्रुनाशनं कर्मः।
अथ शत्रुनाशिनी घृतकम्बलशान्तिः।
तत्र विष्णुधर्मोत्तरे,
राम उवाच।
शान्तिमाचक्ष्व मां देव घृतकम्बलसंज्ञिताम्।
कार्या या पार्थिवेन्द्राणां विजयाय पुरोधसा॥
पुष्कर उवाच।
पूर्वोत्तरे तु दिग्भागे नगरात्सुमनोहरे।
प्रागुदक्प्रवणे देशे शान्त्यगारं तु कारयेत्॥
शुभमत्यन्तविस्तीर्णंनानावस्त्रसमन्वितम्।
पुनर्वसुगते चन्द्रे तत्र यायान्नराधिपः॥
पुरस्कृत्य महाभाग सांवत्सरपुरोहितौ।
आभिषेचनिका मन्त्रा ये मयाभिहिताः पुरा॥
देवादयस्तु तेषां वै स्थानं तत्र प्रकल्पयेत्।
ते च मन्त्रा राज्याभिषेकप्रकरणे पठिताः।
गन्धमण्डलकैर्मुख्यैर्यथास्थानं पुरोहितः॥
आवाहनं ततः कुर्यात्स्नातस्तत्र सुखोषितः।
देवादीनां तु सर्वेषां ब्राह्मणैः सहितो द्विज॥
आवाहितानां सर्वेषां गन्धमाल्यान्नसम्पदा।
दैववित्पूजनं कुर्यात्तथा नृपपुरोहितौ॥
एवं सम्पूजनं कृत्वा सोपवासास्तु ते त्रयः।
स्वप्युश्च तां निशां तत्र सर्वएव समाहिताः॥
ततो नैर्ऋतकं कर्म प्रदिशेत्तु पुरोहितः।
नैर्ऋतकं कर्म, बलिदानादि।
कृत्वा त्रिभागशेषायां रात्रौ कुर्यात्तु शान्तिकम्॥
हुत्वा दशगुणंतत्र स्नापयेत्तं नराधिपम्।
पूर्वमेव तथा स्नातं सिद्धार्थोत्सादितं तथा॥
पूर्णेन घृतकुम्भेन मन्त्रेणानेन कालवित्।
आज्यं तेजः समुद्दिष्टमाज्यं पापहरं स्मृतम्॥
आज्यं सुराणामाहार आज्ये लोकाः प्रतिष्ठिताः।
भौमान्तरिक्षदिव्यं वा यत्ते किल्बिषमागतम्॥
सर्वं तदाज्यसंस्पर्शात्प्रणाशसुपगच्छतु।
ततो विरूक्षितं स्नातं स्नानवेद्यां नराधिपम्॥
गच्छेतां तु पुरस्कृत्य सांवत्सरपुरोहितौ।
स्नानवेदी प्रकर्तव्या लाजाकुसुममण्डिता॥
चतुर्भिःपूर्णकुम्भैस्तु विदिक्षु ह्युपशोभिता।
चत्वारि तस्याश्चर्माणि प्राग्रीवाणि समास्तरेत्॥
वृषस्य द्वीपिनश्चैव सिंहशार्दुलयोस्तथा।
भद्रासनं न्यसेद्राम तेषामुपरि चर्मणाम्॥
स्वासीनं नृपतिं तत्र वस्त्रैराच्छादयेन्नवैः।
कार्पासिकैस्ततः पश्चादाविकैः कृमिजैस्ततः॥
ततस्तु सर्पिषः कुम्भैः पूर्णैस्तमभिषेचयेत्।
कुम्भाष्टकं तु कर्त्तव्यमष्टाविंशतिरेव वा॥
अथ वाष्टशतं राम वृद्धिरेषा गुणोत्तरा।
ततोऽपनीय वस्त्राणि तस्यां वेद्यां पुरोहितः॥
शूलेन मृन्मयं भिन्द्याच्छत्रुं क्रोधसमन्वितः।
राज्ञस्तु कलशं दद्यात्स्वयं सांवत्सरस्ततः॥
आभिषेचनमन्त्रेण स्वर्चितं कल्पितं दृढम्।
ज्योतिष्मतीं त्रायमाणामभयामपराजिताम्॥
जीवां विश्वेश्वरी पाठांसमङ्गामभयं तथा।
सहां च सहदेवीं च पूर्णकोशां शतावरीम्॥
अरिष्टिकां शिवां भद्रां कलशं तत्र विन्यसेत्।
ब्राह्मीं क्षेपामजां चैव सर्वबीजानि काश्चनम्॥
मङ्गल्याश्च यथालाभं सर्वौषध्यो रसस्तथा।
रत्नानि सर्वगन्धाश्च बिल्वं च सविकङ्कतम्॥
एवं स्नातो घृते दृष्ट्वा वदनं दर्पणं तथा।
मङ्गलालम्भनं कृत्वा धौतवासाः समाहितः॥
ओयुधाभ्यर्चनं85 कार्यं वाहनाभ्यर्चनं तथा॥
राजचिह्नार्चनं कृत्वा ह्यलङ्कृत्य स्वकां तनुम्।
अनुलेपनमादद्याद्गन्धद्वारेतिमन्त्रितम्॥
शुभं चन्दनमादद्याछ्रीसूक्तेनाभिमन्त्रितम्।
श्रियं धातर्मयि धेहि मन्त्रः सुमनसां भवेत्॥
रायस्पोषेति च तथा मन्त्रोऽलङ्करणे स्मृतः।
ततोऽनुलिप्तः सुरभिस्रग्वी रुचिरभूषणः॥
केशवाभ्यर्चनं कृत्वा वन्हिस्थानं ततो व्रजेत्।
वन्हेरुत्तरदिग्भागे तथा प्रागुक्तचर्मणाम्॥
सिंहासनं न्यसेत्पृष्ठे परार्द्ध्यास्तरणैर्युतम्।
ततस्तु राम चर्माणि प्राग्ग्रीवाणि तु विन्यसेत्॥
वृषस्य वृषदंशस्य करिणः पृषतस्य च।
तेषामुपरि सिंहस्य व्याघ्रस्य च ततः परम्॥
ध्रुवा द्यौरितिमन्त्रेण नृपं तत्रोपवेशयेत्।
दर्भपाणिस्ततो राजा तथैव च पुरोहितः॥
तयोर्हस्तगतावग्रेदर्भौसङ्घन्थयेद्विजः।
ततः पुरोधा जुहुयाद्ब्राह्मैर्मधुघृतं शुचिः॥
रौद्रवैष्णववायव्यशाक्रसौम्यैस्सवारुणैः।
बार्हस्पत्यैस्ततः कुर्यात्तन्त्रमुत्तरसंज्ञितम्॥
दैवज्ञः प्रयतः कुर्याद्देवतानां विसर्जनम्।
यान्तु देवगणाः सर्वे सानुगास्सपरिच्छदाः॥
आदाय पार्थिवात्पूजां पुनरागमनाय च।
ततश्चपूजयेद्राजा सांवत्सरपुरोहितौ॥
धनेन ब्राह्मणानां च ततो दद्यात्तु दक्षिणाम्।
मङ्गलालम्भनं कृत्वा खड्गपाणिर्गृहान्व्रजेत्॥
शान्तिघोषेण महता राजा कुञ्जरगस्ततः।
शान्तिर्मया तेऽभिहिता नृवीर धन्या यशस्या रिपुनाशनी च।
सुखावहा राष्ट्रविवृद्धिकर्त्री कार्या नृपैर्धर्म्माविवृद्धिदा च ॥ इति।
इति विष्णुधर्मोत्तरे घृतकंम्बलशान्तिः।
अथाथर्वणपरिशिष्टोक्तो घृतकम्बलः।
ततो ज्येष्ठं घृतकम्बलं ब्रह्मणः पुत्रमकरोत्तस्य ह वा एतस्य घृतकम्बलस्य सावित्रीगणशरीरस्य शन्तातीयः शिरः त्रिषष्ठीयं मुखं रुद्रगणौ चक्षुषी घृतलिङ्ग आस्यं नैक्षन्तो जिह्वादन्तौष्ठावभयापराजितौ कृत्यादूपणवातनौश्रोत्रे शर्म्मवर्म्मस्वस्त्ययनौबाहू मातृनामावास्तोष्पत्यौपादौ पायुश्च भैषष्ठंन्यायः (?) प्राणापानाविति मीमांसन्त इत्येष ह वै ज्येष्ठो घृतकम्बलो ब्रह्मणः पुत्रोऽपराजितगणेनेष्ट्वेन्द्रोऽसुरानजयद्राज्यमलक्ष्मी- मरातिं दुष्टस्वप्नदुर्भूतान्यजयद्यथा चैवंविद्वान् घृतकम्बलं कुरुते सर्वकामानाप्नोति सर्वव्याधिरहितो भवतीति ब्रह्मलोकमवाप्नोतीति ब्राह्मणम्।
यदा सर्वमिदं व्याप्तमसुरैर्नावशेषितम्।
स्थातुं देवाः पराभूतास्तेऽथर्वाणमुपागताः॥
कर्म स्वकं कुरुष्व त्वं यद्भृग्वाङ्गिरसोर्म्मतम्।
असुराणां वधार्थायेत्युक्तः कर्ताऽथ सोऽभवत्॥
परचक्रोपसृष्टस्य राज्ञो विजयमिच्छतः।
प्रतिराष्ट्रस्य वा भूयः श्रीकामस्येच्छतः श्रियम्॥
प्रादुर्भावेऽद्भुतानां तु ग्रहाणां विग्रहे तथा।
शङ्कमानोऽभिचाराद्वा कारयेद्घृतकम्बलम्॥
घृतमात्रा तु विज्ञेया मागधप्रस्थसम्मिता।
शतानि पञ्च द्रोणानां पलैकशतमेव च॥
घृतप्रमाणं वक्ष्यामि माषकं पञ्च कृष्णलः।
माषकानि चतुःषष्टिः पलमेकं विधीयते॥
द्वात्रिंशत्पलिकं प्रस्थं मागधैः परिकीर्त्तितम्।
आढकं तु चतुःप्रस्थश्चतुर्भिर्द्रोणमाढकैः॥
द्रोणप्रमाणं विज्ञेयं ब्रह्मणा निर्मितं पुरा।
द्वादशाभ्यधिकौर्नित्यं पलानां पञ्चभिः शतैः॥
घृतं द्रोणशतं वाथ षष्टिद्रोणावरं तथा।
यथाशक्ति प्रयुञ्जीत घृतं कृत्वा तु भागशः॥
चतुर्भागोऽभिषेकाय चतुर्भागस्तु हूयते।
भागो देयः सदस्येभ्यः कर्त्ता भागेन युज्यते॥
आविकं कम्बलं पूर्णंवासोऽर्थमुपकल्पितम्।
प्रावृत्त्य स्नापयेदेनमित्युवाच बृहस्पतिः॥
न राक्षसा न गन्धर्वा न पिशाचा न चासुराः।
क्रूराःपुरुषधर्मज्ञा न हिंसन्ति घृतार्चितम्॥
न हिंसन्ति घृतार्चितमिति।
इत्याथर्वणपरिशिष्टोक्तो घृतकम्बलः।
अथ प्रकीर्णकम्।
तत्र नानास्मृतिपुराणादिषूक्ता राज्ञो धर्मा निरूपिताः। अथेदानीं तस्यावश्यं श्रोतव्यत्वेन काचित्काचिद्राजनीतिर्निरूप्यते। तत्र—
महाभारते,
सञ्जयो विदुर प्राप्तो गर्हयित्वा च मां गतः।
अजातशत्रोः श्वोवाक्यं सभामध्ये स वक्ष्यति॥
तस्याद्य कुरुवीरस्य न विज्ञातं वचो मया।
तन्मे दहति गात्राणि तदकार्षीत्प्रजागरम्॥
जाग्रतो दह्यमानस्य श्रेयो यदनुपश्यसि।
तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि॥
यतः प्राप्तः सञ्जयः पाण्डवेभ्यो न मे यथावन्मनसः प्रशान्तिः।
सर्वेन्द्रियाण्यप्रकृतिं गतानि किं वक्ष्यतीत्येव हि मेऽद्य चिन्ता॥
इतिधृतराष्ट्रप्रश्ने विदुरवाक्यम्—
अभियुक्तं बलवता दुर्बलं हीनसाधनम्।
हृतस्वंकामिनं चोरमाविशन्ति प्रजागराः॥
कच्चिदेतैर्महादोषैर्न स्पृष्टोऽसि नराधिप।
कञ्चिच्च परवित्तेषु गृद्ध्यन्नपरितप्यसे॥
इति विदुरप्रश्ने धृतराष्ट्रवाक्यम्—
श्रोतुमिच्छामि ते धर्म्यंपरं नैःश्रेयस वचः।
अस्मिन् राजर्षिवंशे हि त्वमेकः प्राज्ञसम्मतः॥
ततश्च विदुरस्योत्तरवाक्यम्—
निषेवते प्रशस्तानि निन्दितानि न सेवते।
अनास्तिकःश्रद्दधान एतत्पण्डितलक्षणम्॥
क्रोधो हर्षश्च दर्पश्च ह्रीस्तम्भोऽमान्यमानिता।
यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते॥
क्रोधः परद्वेषः। हर्षः सुखम्। तत्कार्यंमुखादिविकारो वा। दर्प अन्तःसारविशेषः। ह्रीस्तम्भो निर्लज्जता। अमान्यमानिता, अमान्यानां मानयितुमयोग्यानां सम्मानकरणम्।
यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे।
कृतमेवास्य जानन्ति स वै पण्डित उच्यते॥
यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः।
समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते॥
यस्य सञ्चारिणी प्रज्ञा धर्मार्थावनुवर्त्तते।
कामादर्थं वृणीते यः स वै पण्डित उच्यते॥
सञ्चारिणी, परोक्तस्य युक्तिसिद्धस्पार्थस्य श्रवणानन्तरं स्वमात्रयुद्धार्थाग्रहरहिता ।संसारिणीतिपाठे सम्यकप्रसरणशीला ।कामादर्थं वृणीत इति। कामापेक्षया धर्मसाधनत्वेनार्थस्य प्राधान्यमनुसृत्यार्थहान्या यः कामं न सेवत इतिभावः।
यथाशक्ति चिकीर्षन्ति यथाशक्तिं च कुर्वते।
न किश्चिदवमन्यन्ते नराः पण्डितबुद्धयः॥
क्षिप्रं विजानाति चिरं शृणोति विज्ञाय चार्थ भजते च कामान्।
नासम्पृष्टो ह्युपयुङ्गे परार्थे तत्प्रज्ञानं प्रथमं पण्डितस्य॥
असम्पृष्टः परार्थे नोपयुक्ते, नोपक्रमते।
नाप्राप्यमभिवाञ्छन्ति नष्टं नेञ्छन्ति शोचितुम्।
आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः॥
निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः।
अवन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते॥
नान्तर्वसति कर्मण इति। कर्मणः अन्तः कर्मणो मध्ये न वसति नोपरमत इत्यर्थः।
आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते ।
हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ॥
न हृष्यत्यात्मसम्माने नावमानेन तप्यते।
गाङ्गो इद इवाक्षोभ्यो यः स पण्डित उच्यते॥
तस्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम्।
उपायज्ञो मनुष्याणां नरः पण्डित उच्यते॥
प्रवृत्तवाक् चित्रकथ ऊहवान् प्रतिभानवान्।
आशु ग्रन्थस्य वक्ता च यः स पण्डित उच्यते॥
प्रतिभानवान् धृष्टः।
यद्वा—
प्रज्ञानवनवोल्लासशालिनी प्रतिभा मता। तद्वान्।
श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा।
असम्भिन्नार्यमर्यादः पण्डिताख्यां लभेत सः॥
तथा,
अर्थंमहान्तमासाद्य विद्यामैश्वर्यमेव च।
विचरत्यसमुन्नद्धो यः स पण्डित उच्यते॥
असमुन्नद्धः, गर्वरहितः। एवमुपादेयत्वेन पण्डितलक्षणान्यभिधाय हेयत्वेन मूढलक्षणान्यपि तत्रैवोक्तानि।
अश्रुतश्च समुन्नद्धो दरिद्रश्चमहामनाः।
अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः॥
स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति।
मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते॥
अकामान् कामयति यः कामयानान् परित्यजेत्।
बलवन्तं च यो द्वेष्टि तमाहुर्मुढचेतसम्॥
अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च।
कर्म चारभते दुष्टं तमाहुर्मूढचेतसम्॥
संसारयति कृत्यानि सर्वत्र विचिकित्सते।
चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ॥
कृत्यानि कार्याणि। संसारयति आरभते। सर्वत्र, तेषु कार्येषु।विचिकित्सते, इदंमदिष्टसाधनं भवति न वा, इदं मच्छक्यं भवति न वेत्यादिसन्देहवान् भवति।
श्राद्धं पितृभ्यो न ददाति दैवतानि न चार्चति।
सुहृन्मित्रं न भजते तमाहुर्मूढचेतसम्॥
अनाहूतः प्रविशति अपृष्टो बहु भाषते।
अविश्वस्ते विश्वसिति मूढचेता नराधमः ॥
परं क्षिपति दोषेण वर्त्तमानः स्वयं तथा।
यश्च क्रुद्ध्यत्यनीशानः स च मूढतमो नरः॥
स्वयं तथा वर्त्तमानः, दोपतवान्।
आत्मनो बलमज्ञाय धर्मार्थपरिवर्जितम्।
अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते॥
नैष्कर्म्यात् कर्माकरणात्।
अशिष्यं शास्ति यो राजन् यश्च शून्यमुपासते।
कदर्यंभजते यश्च तमाहुर्मूढचेतसम्॥
कदर्यं, धने सत्यपि दानभोगरहितम्।
तथा,
एकः सम्पन्नमश्नाति वस्ते वासश्च शोभनम्।
योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः॥
सम्पन्नं, पक्वंमिष्टमन्नम्।
एकःपापानि कुरुते फलं भुङ्क्ते महाजनः।
भोक्तारो विप्रमुच्यन्ते कर्त्ता दोषेण लिप्यते॥
महान् बहुतरो जनः परिवारा यस्य स महाजनः।
एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता।
बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रंसराजकम्॥
एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु।
पञ्च जित्वा विदित्वा षट् सप्त हित्वा सुखी भव॥
एकया, बुद्ध्या दण्डनीत्या वा। द्वे, कार्याकार्ये। त्रीन्,
मित्रोदासीनशत्रून्। चतुर्भिः, सामदानदण्डभेदैरुपायैः। पञ्च, पञ्च ज्ञानेन्द्रियाणि च पञ्च कर्मेन्द्रियाणि च। षट्, सन्धिविग्रहयानासनद्वैधीभाव- संश्रयाख्यान् षड्गुणान्।सप्त—
स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम्।
महच्च दण्डपारुष्यमर्थदूषणमेव च॥
इतिव्यसनानि।
एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते।
सराष्ट्रंसप्रजं हन्ति राजानं मन्त्रविप्लवः॥
एकःस्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत्।
एको न गच्छेदध्वानं नैकःसुप्तेषु जागृयात्॥
एकमेवाद्वितीयं तद्यद्राजन्नावबुद्ध्यसे।
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव।
एकमेव सत्यं सत्यवचनं स्वर्गस्य सोपानम्।
एकःक्षमावतां दोषो द्वितीयो नोपपद्यते।
यदेनं क्षमया युक्तमशक्तं मन्यते जनः॥
सोऽस्य दोषो न मन्तव्यः क्षमा हि परमं धनम्।
अक्षमावान् परं दोषैरात्मानं चैवयोजयेत्॥
एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा।
विद्यैका परमा तृप्तिरहिंसैका सुखावहा॥
द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव।
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्॥
ब्राह्मणं, ब्रह्म नयतीति ब्राह्मणः, णीञ्प्रापण इत्यस्मात्।
ब्रह्मज्ञः परिव्राट् तस्य परिभ्रमणस्योक्तत्वात्।
द्वे कर्मणी नरः कुर्वन्नस्मिंल्लोके विरोचते।
अब्रुवन् परुषं किञ्चिदसतोऽनर्चयंस्तथा॥
द्वाविमौ पुरुषव्याघ्र परप्रत्ययकारिणौ।
स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः॥
द्वाविमौ कण्टको तीक्ष्णौ शरीरपरिशोषिणौ।
यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः॥
द्वाविमौ न विराजेते विपरीतेन कर्मणा।
गृहस्थश्च निरारम्भः कार्यवांश्चैव भिक्षुकः॥
द्वाविमौ पुरुषो राजन् स्वर्गस्योपरि तिष्ठतः।
प्रभुश्चक्षमया युक्तो दरिद्रश्च प्रदानवान्॥
न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ।
अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम्॥
द्वावम्भसि विनिक्षेप्यौ गाढं बद्धा गले शिलाम्।
धनिनं चाप्रदातारं दरिद्रं चातपस्विनम्॥
त्रयोपाया मनुष्याणां श्रूयन्ते भरतर्षभ।
कनीयान्मध्यमः श्रेष्ठ इति वेदविदो विदुः॥
त्रयोपाया इति छान्दसः सन्धिः।
त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः।
नियोजयेद्यथावत्तांस्त्रिविधेष्वेव कर्मसु॥
त्रय एवाधना राजन् भार्या दासस्तथा सुतः।
यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम्॥
हरणं च परस्वानां परदाराभिमर्षणम्।
सुहृदश्व परित्यागस्त्रयो दोषा भयप्रदाः॥
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः \।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्॥
भक्तं च भजमानं च तवास्मीति च वादिनम्।
त्रीनेतान् शरणं प्राप्तान् विषमेऽपि न सन्त्यजेत्॥
वरप्रदानं राज्यं च पुत्रजन्म च भारत।
शत्रोश्च मोक्षणं कृच्छ्रात्त्रीणि चैकं च तत्समम्॥
चत्वारि राज्ञा तु महाबलेन वर्ज्यान्याहुः पण्डितस्तानि विद्यात्।
अल्पप्रज्ञैः सह मन्त्रं न कुर्यान्न दीर्घसूत्रैरलसैश्चारणैश्च॥
चत्वारि ते तात गृहे वसन्तु श्रेयोऽभिजुष्टस्य गृहस्थधर्मे।
वृद्धज्ञातिरवसन्नः कुलीनः सखा दरिद्रो भगिनी चानपत्या॥
चत्वार्याह महाराज साद्यस्कानि बृहस्पतिः।
पृच्छते त्रिदशेन्द्राय तानीमानि निबोध मे॥
साद्यस्कानि, सद्यःफलानि।
देवतानां च सङ्कल्पमनुभावं च धीमताम्।
विनयं कृतविद्यानां विनाशं पापकर्मणाम्॥
सङ्कल्पं चिकीर्षितम्।
पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः।
पिता माताग्निरात्मा च गुरुश्च भरतर्षभ॥
पञ्चैवपूजयंल्लोके यशः प्राप्नोति केवलम्।
देवान् पितॄन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान्॥
पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि।
मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः॥
पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेदेकमिन्द्रियम्।
ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम्॥
दृतेःचर्मपुटकस्य।
षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता।
निद्रा तन्द्री भयं क्रोध आलस्यं दीर्घसूत्रता॥
षडिमान् पुरुषो जह्याद्भिन्नांनावमिवार्णवे।
अप्रवक्तारमाचार्यमनधीयानमृत्विजम्॥
अरक्षितारं राजानं भार्यांचाप्रियवादिनीम्।
ग्रामकामं च गोपालं वनकामं च नापितम्॥
षडेव तु गुणाः पुंसा न हातव्याः कदाचन।
सत्यं दानमनालस्यमनसूया क्षमा धृतिः॥
षडिमानि विनश्यन्ति मुहूर्त्तेनानवेक्षणात्।
गावःसेवा कृषिर्भार्या विद्या वृषलसङ्गतिः॥
षडेते ह्यवमन्यन्ते नित्यं पूर्वोपकारिणम्।
आचार्यं शिक्षिताः शिष्याः कृतकृत्या नरेश्वरम् ॥
नारीं विगतकामाश्च कृतार्थाश्चप्रयोजकम्।
नावं निस्तीर्णकान्तारा आतुराश्च चिकित्सकम्॥
निस्तीर्णकान्ताराः, निस्तीर्णदुर्गगजलमार्गाः।
आरोग्यमानृण्यमविप्रवासः सद्भिर्मनुष्यैः सह सम्प्रयोगः।
स्वप्रत्यया वृत्तिरभीतवासः षड्जीवलोकस्य सुखानि राजन्॥
स्वप्रत्यया, स्वीधीना \। “प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु” इति कोषः। वृत्तिः जीविका “वृत्तिर्वर्त्तनजीवने” इत्यमरः।
ईर्ष्यीघृणी त्वसन्तुष्टः क्रोधनो नित्यशङ्कितः।
परभाग्योपजीवी च षडेते नित्यदुःखिताः॥
अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च।
वश्यश्च पुत्रोऽर्थकरी च विद्या षट् जीवलोकस्य सुखानि तात॥
षण्णामात्मनि नित्यानामैश्वर्यमधिगच्छति।
न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः॥
षण्णाम्, इन्द्रियाणाम्। ऐश्वर्यं, वशित्वम्।
षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते।
चौराःप्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः॥
प्रमदाःकामयानेषु यजमानेषु याजकाः।
राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः॥
सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदयाः।
प्रायशो यैर्विनश्यन्ति कृतमूला अपीश्वराः॥
स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यंच पञ्चमम्।
महच्च दण्डपारुष्यमर्थदूषणमेव च॥
अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः\।
ब्राह्मणान् प्रथमं द्वेष्टि ब्राह्मणश्च विरुद्ध्यते॥
ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति।
रमते निन्दया चैषां प्रशंसां नाभिनन्दति॥
नैतान् स्मरति कृत्येषु याचितश्चाभ्यसूयते।
एतान्दोषान्नरः प्राज्ञोबुध्येद्द्बुद्धा विसर्जयेत्॥
अष्टाविमानि हर्षस्य नवनीतानि भारत।
वर्त्तमानानि दृश्यन्ते तान्येव सुसुखान्यपि॥
समागमश्चसखिभिर्महांश्चैव धनागमः।
पुत्रेण च परिष्वङ्गः सन्निपातश्च मैथुने॥
समये च प्रियालापः स्वयूथ्येषु समुन्नतिः।
अभिप्रेतस्य लाभश्चपूजा च जनसंसदि॥
समये हर्षादिसमये।
अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च।
पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च॥
नवद्वारमिदं वेश्म त्रिस्थूणं पञ्चमाक्षिकम्\।
क्षेत्रज्ञाधिष्ठितं विद्वान् यो वेदः स परः कविः॥
नवद्वारमिति ।चक्षुःश्रोत्रनामामुखपायूपस्थरूपनवद्वारम् ।त्रिस्थूणं, त्रीणि सत्वरजस्तमांसि वातपित्तकफा वा स्थूणा आधारस्तम्भा यस्य तत् ।पञ्चसाक्षिकं पञ्च ज्ञानेन्द्रियाणि
साक्षिणो गृह्यमाणविषयनिवेदयितारो यत्र तत्तादृशम्। क्षेत्रज्ञाधिष्ठितं, क्षेत्रं शरीरं जानाति आत्मत्वेन बुध्यते स क्षेत्रज्ञो जीवः तदधिष्ठितम्। परः कविः, उत्कृष्टः पण्डितः।
दशधर्मंन जानन्ति धृतराष्ट्र निबोध तान्।
मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः॥
त्वरमाणश्च लुब्धश्च भीतः कामी च ते दश।
तस्मादेतेषु सर्वेषु न प्रसज्जेत पण्डितः॥
मत्तः, मद्यपानादिनाऽनवहितः। प्रमत्तः, असावधानः। उन्मत्तः, वातरोगादिमान्। श्रान्तः, अध्वगमनभारवहनादिना परिश्रान्तः।
तथा,
यः काममन्यू प्रजहाति राजा पात्रे प्रतिष्ठापयते धनानि।
विशेषविच्छुतवान् क्षिप्रकारी तं सर्वलोकः कुरुते प्रमाणम्॥
जनाति विश्वासयितुं मनुष्यान्विज्ञातदोषेषु दधाति दण्डम्।
जानाति मात्रां च तथा क्षमां च तं तादृशं श्रीर्जुषते समग्रा॥
मात्रां, दण्डपरिमाणम्। कस्मिन्नपराधे कियान् दण्डः कर्तव्य इत्यादिकम्।
सुदुर्बलं नावजानाति कञ्चिद्युक्तोरिपुं सेवते बुद्धिपूर्वम्।
न विग्रहं रोचयते बलिष्ठैः काले च यो विक्रमते स धीरः॥
युक्तः, युक्तिमान्। युक्तिश्च स्वसंरक्षणपूर्वकपरनिग्रहानुकूलो यत्नः।
प्राप्यापदं न व्यथते कदाचिदुद्योगमन्विच्छति चाप्रमत्तः।
दुःखं च काले सहते महात्मा धुरन्धरस्तस्य जिताः सपत्नाः॥
अनर्थकं विप्रवासं गृहेभ्यः पापैः सन्धिंपरदाराभिमर्शम्।
दम्भं स्तैन्यं पैशुनं मद्यपानं न सेवते यः स सुखी सदैव॥
न सरम्भेणारभते त्रिवर्गमाकारितः86 शंसति तत्त्वमेव।
न मित्रार्थे रोचयते विवादं नापूजितः कुप्यति चाप्यमूढः॥
न योऽभ्यसूयत्यनुकम्पते च न दुर्बलः प्रातिभाव्यं करोति।
नात्याहिते किञ्चित्क्षमते विवादं सर्वत्र तादृक् लभते प्रशंसाम्॥
दुर्बलः, असमर्थः। प्रातिभाव्यं, प्रतिभूत्वम्। “अत्याहितं महाभीतिः कर्म जीवानपेक्षि च" इत्यमरः।
यो नोद्धतं कुरुते जातु वेषं न पौरुषेणापि विकत्थतेऽन्यान्।
न मूर्छितः कटुकान्याह किञ्चित्प्रियं सदा तं कुरुते जनो हि॥
मूर्छितः, वृद्धिं प्राप्तः, अथ वा दुःखितः।
न वैरमुद्दीपयति प्रशान्तं न दर्पमारोहति नास्तमेति।
स्न दुर्गतोऽस्मीति करोत्यकार्यंतमार्यशीलं परमाहुरार्याः॥
दर्पं, गर्वम्। अस्तम्, अकिञ्चनत्वम्। दुर्गतः, दरिद्रः।
न स्वे सुखे वै कुरुते प्रहर्षंनान्यस्य दुःखे भवति प्रहृष्टः।
दत्त्वा न पश्चात्कुरुतेऽनुतापं स कथ्यते सत्पुरुषार्यशीलः॥
देशाचारान्समयान् जातिधर्मान् बुभूषते यः स परावरज्ञः।
स यत्र तत्राभिगतः सदैव महाजनस्याधिपत्यं करोति॥
समयान्, राज्ञा ज्ञातिश्रेष्ठैश्च कृतान् कर्त्तव्याकर्त्तव्यनियमान्।
दम्भं मोहं मत्सरं पापकृत्यं राजद्विष्टं पैशुनं पूगवैरम्।
मत्तोन्मत्तैर्दुर्जनैश्चापि वादं यः प्रज्ञावान् वर्जयेत्स प्रधानः॥
पूगवैरम्, पूगैः समुदायापन्नैः सह वैरम्।
दमंशौचं दैवतं मङ्गलानि प्रायश्चित्तं विविधांल्लोकवादान्।
एतानि यः कुरुते नैत्यकानि तस्योत्थानं देवता धारयन्ति॥
दमं, बाह्येन्द्रियनिग्रहम्।
समैर्विवाहं कुरुते न हीनैःसमैः सख्यं व्यवहारं कथाश्च।
गुणैर्विशिष्टांश्च पुरोदधाति विपश्चितस्तस्य नयाःसुनीताः॥
मितं भुङ्क्तेसंविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्म कृत्वा।
ददात्यमित्रेष्वपि याचितः स्वं तमात्मवन्तं प्रजहत्यनर्थाः॥
चिकीर्षितं विप्रकृतं च यस्य नान्ये जनाः कर्म जानन्ति किञ्चित्।
मन्त्रे गुप्ते सम्यगनुष्ठिते च नाल्पोऽप्यस्य च्यवते कश्चिदर्थः॥
यः सर्वभूतप्रशमे निविष्टः सत्यो मृदुर्मानकृच्छुद्धभावः।
अतीव स ज्ञायते ज्ञातिमध्ये महामणिर्जात्य इव प्रसन्नः॥
य आत्मनाऽपत्रपते भृशं नरः स सर्वलोकस्य गुरुर्भवत्युत।
अनन्ततेजाः सुमनाः समाहितः स तेजसा सूर्य इवावभासते॥
तथा,
मिथ्योपेतानि कर्माणि सिद्ध्येयुर्यानि भारत।
अनुपायप्रयुक्तानि मा स्म तेषु मनः कृथाः॥
मिथ्योपेतानि छद्मयुक्तानि।अनुपायप्रयुक्तानि, उपायैर्विना प्रयुक्तानि।
तथैव योगविहितं87 न सिद्ध्येत्कर्म चेन्नृप।
उपाययुक्तं मेधावीन तत्र ग्लपयेन्मनः॥
अनुबन्धानपेक्षेत सानुबन्धेषु कर्मसु।
सम्प्रधार्य च कुर्वीत न वेगेन समाचरेत्॥
अनुबन्धं च सम्प्रेक्ष्य विपाकं चैत्र कर्मणाम्।
उत्थानमात्मनश्चैव धीरः कुर्वी वा न वा॥
अनुबन्धं, कारणम्। विपाकं, कार्यफलमित्यर्थः। उत्थानं, स्वोदयम्। कुर्वीत, परिणामशुद्धौ कुर्यात्, तदभावे न कुर्यादित्यर्थः।
यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये।
कोशे जनपदे दण्डे न स राज्येऽवतिष्ठते॥
स्थाने, यथास्थितत्वे\। दण्डोऽत्र सैन्यम्।कोशदेशसैन्यानांयथावस्थितिवृद्धिक्षयेषु यः प्रमाणं परिमाणमियत्तां न जानाति स राज्ये नावतिष्ठते राज्यभ्रष्टो भवतीत्यर्थः।
यस्त्वेतानि प्रमाणानि यथोक्तान्यनुपश्यति।
युक्तो धर्मार्थयोर्ज्ञाने स राज्यमधिगच्छति॥
न राज्यं प्राप्तमित्येव वर्त्तितव्यमसाम्प्रतम्।
श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम्॥
असाम्प्रतं, नीतिविरुद्धम्।
भक्ष्योक्त्तमप्रतिच्छन्नं मत्स्यो बडिशमायसम्।
लोभाभिपाती ग्रसते नानुबन्धमपेक्षते॥
“बडिशं मत्स्यवेधनम्” इत्यमरः।अनुबन्धम् अनु पश्चात्वन्धं बन्धनम्।
यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत्।
हितं च परिणामे यत्तदाद्यं भूतिमिच्छता॥
आद्यम्, अदनीयं भोक्तव्यमित्यर्थः।
वनस्पतेरपक्वानि फलानि प्रचिनोति यः।
स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति॥
यस्तु पक्वमुपादत्ते काले परिणतं फलम्।
फलाद्रसंस लभते बीजाच्चैव फलं पुनः॥
यथा मधु समादत्ते रक्षन्पुष्पाणि षट्पदः।
तद्वदर्थान्मनुष्येभ्य आदद्यादविहिंसया॥
पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत्।
मालाकार इवारामे न यथाङ्गारकारकः॥
अङ्गारकारको यथा समूलं वृक्षमुत्पाट्यतत्राग्निंदत्त्वा
अङ्गारान् करोति तथा न कुर्यादितिभावः।
किन्तुमे स्यादिदं कृत्वा किन्तु मे स्यादकुर्वतः।
इति कर्माणि सञ्चिन्त्य कुर्याद्वा पुरुषो न वा॥
अनारभ्या भवन्त्यर्था केचिन्नित्यं तथाऽगताः।
कृतः पुरुषकारो हि भवेत्तेषु निरर्थकः॥
के चित्कदाचित् अनारभ्याः। के चिदर्था नित्यं सर्वदैव तथाऽगताः अनारभ्याः। तेषु कृतः पुरुषकारः पुरुषप्रयत्नः निरर्थको भवेत्।
कांश्चिदर्थान्नरः प्राज्ञो लघुमूलान्महाफलान्।
क्षिप्रमारभते कर्त्तुं न विघ्नयति तादृशान्॥
ऋजु पश्यति यः सर्वंचक्षुषा प्रपिबन्निव।
आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः॥
सुपुष्पितः स्यादफलः फलितः स्याद्दुरारुहः।
अपक्वः पक्वसङ्काशो न स शीर्येत कर्हिचित्॥
सुपुष्पित इति। अफलः, अजनितपरकार्योत्पत्तिः सन्, सुपुष्पितः, सम्यक्तया दर्शिततत्कार्यारम्भप्रत्याशः, स्यात्, भवेत्। स्वकार्यानुरोधेन फलितः सम्पादितपरकार्यःसन् दुरारुहः परेषामधृष्यः स्यात्। अपक्वःअनिष्पादितसम्पूर्णफलःसन् पक्वसङ्काशो निष्पादितस्वप्रयोजनतया शीर्णो न भवेत्।
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्।
प्रसादयति यो लोकं तं लोकोऽनुप्रसीदति॥
यस्मात्त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव।
सागरान्तामपि महीं लब्ध्वा स परिहीयते॥
पितृपैतामहं राज्यं प्राप्तवान्स्वेन तेजसा88।
वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः॥
धर्ममाचरतो राज्ञः सद्भिश्चरितमादितः।
वसुधा वसुसम्पूर्णा वर्द्धते भूतिवर्द्धिनी॥
अथ सन्त्यजतो धर्ममधर्ममनुतिष्ठतः।
प्रतिसञ्चेष्टते भूमिरग्नौ चर्माहितं यथा॥
प्रतिसञ्चेष्टते, सङ्कुचितफलवती भवति। अग्नावाहितं चर्म यथा सङ्कुचितं भवति तथा भवतीतिभावः।
य एव यत्नः क्रियते परराष्ट्रविमर्दने।
स एव यत्नः कर्त्तव्यः स्वराष्ट्रपरिपालने॥
धर्मेण राज्यं विन्देत धर्मेण परिपालयेत्।
धर्ममूलां श्रियं प्राप्यं न जहाति न हीयते॥
न जहातीत्यत्रापि श्रियमित्यनुषज्यते।
अप्युन्मत्तात्प्रलपतो बालाच्च परिजल्पतः।
सर्वतः सारमादद्यादश्मभ्य इवकाञ्चनम् ॥
सुव्याहृतानि सुक्तानि सुकृतानि ततस्ततः।
सञ्चिन्वन् धीर आसीत शिलाहारी शिलं यथा॥
क्षेत्रपतितवल्लरीग्रहणं शिलं तदाहारवान् ऋषिः शिलाहारी।
गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः।
चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः॥
भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा।
अथ या सुदुहा राजन्नैव तां वितुदन्त्यपि॥
यदतप्तंप्रणमति न तत्सन्तापयन्त्यपि।
यच्च स्वयं नतं दारु न तत्सन्नमयन्त्यपि॥
एतयोपमया धीरः सन्नमेत बलीयसे।
इन्द्राय स प्रणमते नमते यो बलीयसे॥
पर्जन्यनाथाः पशवो राजानो मन्त्रिबान्धवाः।
पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेदबान्धवाः॥
सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ।
मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते॥
विद्या, आत्मज्ञानम्।
मानेन रक्ष्यते धान्यमश्वान् रक्षत्यनुक्रमः।
मानेन, मापनेन। मानहीनं स्थापितं धान्यं राक्षसा हरन्तीति लोके प्रवादोऽपि। अनुक्रमः, चलनम्। “अनध्वा वाजिनां जरा" इत्यत्राप्यभिहितम् ।
अभीक्ष्णदर्शनं गाश्च स्त्रियो रक्ष्याः कुचैलतः॥
कुचैलं, कुत्सितवस्त्रम्। सुवेषा हि स्त्रियो यतः सर्वोऽपि कामयते।
न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः।
अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते॥
य ईर्षुः परवित्तेषु रूपे वीर्ये कुलान्वये।
सुखसौभाग्यसत्कारे तस्य व्याधिरनन्तकः॥
अकार्यकरणाद्भीतः कार्याणां च विवर्जनात्।
अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत्॥
विद्यामदो धनमदस्तथैवाभिजनो मदः।
मदा एतेऽवलिप्तानामेत एव सतां दमाः॥
असन्तोऽभ्यर्चिताः सद्भिः क्वचित्कार्ये कदाचन।
मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम्॥
गतिरात्मवतां सन्तः सन्त एव सतां गतिः।
असतां च गतिः सन्तो न त्वसन्तः सतां गतिः॥
जिता सभा वस्त्रवता मिष्टाशा गोमता जिता।
अध्वा जितो यानवता सर्वंशीलवता जितम्॥
शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति।
न तस्य जीवितं नार्थो न धनेन नबन्धुभिः॥
आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम्।
तैलोत्तरं दरिद्राणां भोजनं भरतर्षभ।
सम्पन्नतरमेवान्नं दरिद्रा भुञ्जते सदा।
क्षुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा॥
प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते।
जीर्यन्त्यपि हि काष्ठानि दरिद्राणां महीपते।
अवृत्तेर्भयमन्त्यानां मध्यानां मरणाद्भयम्॥
उत्तमानां तु मर्त्यानामवमानात्परं भयम्।
अन्त्यानाम्, अधमानाम् अवृत्तेः, जीवनोपायाभावाद्भयम्।
ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः।
ऐश्वर्यमदमत्तो हि नापतित्वा विबुद्ध्यते॥
ऐश्वर्यमदः पापिष्ठोऽत्यन्तं पतनहेतुर्येषु ते तथाविधाः।
इन्द्रियैरिन्द्रियार्थेषु वर्त्तमानैरनिग्रहैः।
तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव॥
योजितः पञ्चवर्गेण सहजैनात्मकर्षिणा।
आपदस्तस्य वर्द्धन्ते शुक्लपक्ष इवोडुराट्॥
अविजित्य य आत्मानममात्यान् विजिगीषते।
अमित्रान्वाऽजितामात्यः सोऽवशः परिहीयते ॥
आत्मानमेव प्रथमं द्वेषरूपेण यो जयेत्।
ततोऽमात्यानमित्रांश्चन मोघं विजिगीषते।
यः पुरुषः प्रथममात्मानमेव मन एवद्वेषरूपेण द्विष्टत्वेन जयेत्। ततोऽमात्यान्स्वप्रधानपुरुषान् अमित्रांश्चमोघं नि-
रर्थकं न विजिगीषते। मनसो जयाभावे तु मोघं विजिगीषत इति भावः।
वश्येन्द्रियं जितात्मानं धृतदण्डं विकारिषु।
परीक्ष्यकारिणं वीरमत्यन्तं श्रीर्निषेवते॥
रथः शरीरं पुरुषस्य राजन्नात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः।
तैरप्रमत्तः कुशली सदश्वैर्दान्तैः सुखं याति रथीव धीरः॥
एतान्यनिगृहीतानि व्यापादयितुमप्यलम्।
अविधेया इवादान्तं हयाः पथि कुसारथिम्॥
अनर्थमर्थतः पश्यन्नर्थंचैवाप्यनर्थतः।
इन्द्रियैरजितैर्बालःसुदुःखं मन्यते सुखम्॥
धर्मार्थौयः परित्यज्य स्यादिन्द्रियवशानुगः।
श्रीप्राणधनदारेभ्यः क्षिप्रं स परिहीयते॥
अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः।
इन्द्रियाणामनैश्वर्यादैश्वर्याद्भ्रश्यते हि सः॥
आत्मनाऽऽत्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतैः।
आत्मा ह्येवात्मनो बन्धुरात्मैव रिपुरात्मनः॥
बन्धुरात्मात्मनस्तस्य येनैवात्माऽऽत्मना जितः।
स एव नियतो बन्धुः स एव नियतो रिपुः॥
क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ।
कामश्च राजन् क्रोधश्च तो प्रज्ञानं विलुम्पतः॥
अपिहितौ, आच्छादितौ।
समवेक्ष्येह धमार्थौसम्भारान् योऽधिगच्छति।
स वै सम्भृतसम्भारः सततं सुखमेधते॥
यः पञ्चाभ्यन्तरान् शत्रूनविजित्य मनोमयान्।
जिगीषति रिपूनन्यान् रिपवोऽभिभवन्ति तम्॥
आभ्यन्तरान् पञ्च शत्रून्, पञ्च ज्ञानेन्द्रियाणि।
मनोमयान् मनःप्रधानान्। अविजित्य, स्वस्वविषयाप्रवणान् अकृत्वा। अन्यान् रिपून्, बाह्यान् शत्रून्।
दृश्यन्ते हि महात्मानो बध्यमानाः स्वकर्मभिः।
इन्द्रियाणामनीशत्वाद्राजानो राज्यविभ्रमैः॥
असन्त्यागात्पापकृतामपापांस्तुल्यो दोषःस्पृशते मिश्रभावात्।
शुष्केणार्द्रंदह्यते मिश्रभावात्तस्मात्पापैः सह सन्धिं न कुर्यात्॥
निजानुत्पततः शत्रून् पञ्च पञ्चप्रयोजनान्।
यो मोहान्न निगृह्णाति तमापद्ग्रसते नरम्॥
अनसूयार्जवं शौचं सन्तोषः प्रियवादिता।
दमः सत्यमनायासो न भवन्ति दुरात्मनाम्॥
आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता।
वाक्चैव गुप्तादानं च नैतान्यन्त्येषु भारत॥
आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान्।
वक्ता पापमुपादत्ते क्षममाणो विमुच्यते॥
हिंसा बलमसाधूनां राज्ञां दण्डविधिर्बलम्।
शुश्रूषा तु वलं स्त्रीणां क्षमा गुणवतां बलम्॥
वाक्संयमो हि नृपतेः सुदुष्करतमो मतः।
अर्थवच्च विचित्रं च न शक्यं बहु भाषितुम्॥
अभ्यावहति कल्याणं विविधा वाक्सुभाषिता।
सैव दुर्भाषिता राजन्ननर्थायोपपद्यते॥
रोहते सायकैर्विद्धं वनं परशुना हतम्।
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम्॥
कर्णिनालीकनाराचान् निर्हरन्ति शरीरतः।
वाक्शल्यस्तु न निर्हर्तुंशक्यो हृदिशयो हि सः॥
वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि।
परस्य नामर्मसु ते पतन्ति तान् पण्डितो नावसृजेत्परेभ्यः॥
यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम्।
बुद्धिं तस्यापकर्षन्ति सोऽवाचीनानि पश्यति॥
बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते।
अनयो नयसङ्काशो हृदयान्नापसर्पति॥
यावत्कीर्त्तिर्मनुष्यस्य पुण्या लोके प्रगीयते।
तावत्स पुरुषव्याघ्रः स्वर्गलोके महीयते॥
न देवा दण्डमादाय रक्षन्ति पशुपालवत्।
यं तु रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम्॥
यथा यथा हि पुरुषः कल्याणे कुरुते मनः।
तथा तथाऽस्य सर्वार्थाःसिद्ध्यन्ते नात्र संशयः॥
नैनं छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्त्तमानम्।
नीडं शकुन्ता इत्र जातपक्षाश्छन्दांस्येनं प्रजहत्यन्तकाले॥
मद्यपानं कलहं पूगवैरं भार्यापत्योरन्तरं ज्ञातिभेदम्।
राजद्विष्टं स्त्रीपुंसयोर्विवादं वर्ज्यान्याहुर्यश्च पन्थाः प्रदुष्टः॥
सामुद्रिकं वणिजं चौरपूर्वंशलाकधूर्तं च चिकित्सकं च।
अरिं च मित्रं च कुशीलवं च नैतान्साक्ष्ये त्वधिकुर्वीत सप्त॥
सामुद्रिकं वाणिजं, समुद्रव्यवहारकारिणं पोतवणिजम्।
चौरपूर्वं, पूर्वं चौर्यवृत्या जीवन्तम्। शलाकधूर्तं, द्यूतकरम्।
कुशीलवं, नटं चारणं वा। “चारणास्तु कुशीलवा" इत्यमरः।
मान्मग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः।
एतानि चत्वार्यभयङ्कराणि भयं प्रयच्छन्त्ययथाकृतानि॥
मीयतेऽनेनेति मानं कालः।तेन स्वस्वकाले कृतान्येतान्यभयङ्कराणि ।अयथाकृतानि अकालकृतानि भयङ्कराणीत्यर्थः।
अगारदाही गरदः कुण्डाशी सोमविक्रयी।
पर्वकारश्च सूची च मित्रध्रुक्पारदारिकः॥
अमृते जारजः कुण्डस्तदन्नभक्षकःकुण्डाशी। पर्वकारः, शरकर्त्ता सूची सूचयति पैशुन्यमाचरति स तथा।
भ्रूणहा गुरुतल्पी च यश्च स्यात्पानपो द्विजः।
अतितीक्ष्णश्च काकश्च नास्तिको वेदनिन्दकः॥
“भ्रूणोऽर्भकेस्त्रैणगर्भे” इत्यमरः। तं हन्ति स तथा। गुरुतल्पं गुरुपत्नी “तल्पं शय्याट्टदारेषु" इत्यमरः। साऽस्त्यस्य गम्यत्वेन स गुर्वङ्गनागामीत्यर्थः। काकः, इतस्ततो भोजनकर्ता।
स्रुवप्रग्रहणो व्रात्यःकीनाशश्चात्मपाक्यपि।
रक्षेत्युक्तश्च यो हिंस्यात्सर्वे ब्रह्महभिः समाः॥
स्रुवप्रग्रहणः, ग्रामयाजक आभिचारिको वा। व्रात्यः, जातकर्मादिसंस्काररहितः। कीनं पापं तेनाश्नाति स तथा। स्वयंहलधरो वा। आत्मपाकी, देवपित्रादीन् विहाय केवलमात्मार्थं पाककर्त्ता। आत्मवानपीति पाठे आत्मश्लाघी।
तृणोल्कयाज्ञायते जातरूपं वृत्तेन भद्रो व्यवहारेण साधुः।
शूरो भयेष्वर्थकृच्छ्रेषु धीरः कृच्छ्रास्वापत्सु सुहृदश्चारयश्च॥
तृणोल्कया, तार्णेन वह्निना। जातरूपं, सुवर्णम्।
जरा रूपं हरति हि धैर्यमाशा मृत्युः प्राणान् धर्मचर्यापसूया।
क्रोधः श्रियं शीलमनार्यसेवा ह्रियं कामः सर्वमेवाभिमानः॥
श्रीर्मङ्गलात्प्रभवति प्रागल्भ्यात्सम्प्रवर्द्धते।
दाक्ष्यात्तुकुरुते मूलं संयमात्प्रतितिष्ठति॥
मङ्गलात्, पुण्यात्।
अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च।
पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च॥
एतान् गुणांस्तात महानुभावानेको गुणः संश्रयते प्रसह्य।
राजा यदा संश्रयते मनुष्यं सर्वान् गुणानेष गुणो विभाति॥
अष्टौ नृपेमानि मनुष्यलोके स्वर्गस्य लोकस्य निदर्शनानि।
चत्वार्येषामन्ववेतानि सद्भिश्चत्वारि चैषामनुयान्ति सन्तः॥
निदर्शनानि, नितरां दृश्यते यैस्तानि। यथा—
यज्ञो दानमध्ययनं तपश्च चत्वार्येतान्यन्ववेतानि सद्भिः।
दमः सत्यमार्जवमानृशंस्यं चत्वार्येतान्यनुयान्ति सन्तः॥
एतानि चत्वारि सद्भिः सत्सङ्गत्या अन्ववेतानि प्राप्तानि। दमादीनि तु चत्वारि अनु लक्षीकृत्य सन्तः यान्ति तत्प्राप्त्यर्थंयतन्ते यत एतैर्विना सत्त्वमेव न भवति।
इज्याध्ययनदानानि तपः सत्यं क्षमा घृणा।
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः॥
तत्र पूर्वश्चतुर्वर्गो दम्भार्थमपि सेव्यते।
उत्तरस्तु चतुर्वर्गो नामहात्ममु तिष्ठति॥
न सा सभा यत्र वसन्ति वृद्धा न ते वृद्धा ये न वदन्ति धर्मम्।
नासौ धर्मो यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनाभ्युपेतम्॥
सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम्।
शौर्यंच चित्रभाष्यं च दश संसर्गयोनयः॥
रूपं, शरीरसौन्दर्यम् उज्ज्वलवेषता च। विद्या, अत्युत्कटा वेदशास्त्रादिःसभाचातुर्यादिश्च \। कौल्यं, महाकुलप्रसूतत्वम्। चित्रभाष्यं, विचित्रं भाषणम्। संसर्गयोनयः, सेवादिसंसर्गस्य कारणानि।
पापं कुर्वन् पापकीर्तिः पापमेवाश्नुते फलम्।
पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यमत्यन्तमश्नुते॥
तस्मात्पापं न कुर्वीत पुरुषःशंसितव्रतः।
पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः।
नष्टप्रज्ञःपापमेव नित्यमारभते नरः॥
पुण्यं प्रज्ञांवर्धयति क्रियमाणं पुनः पुनः।
वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः॥
पुण्यं कुर्वन् पुण्यकीर्तिः पुण्यं स्थानं स्म गच्छति।
तस्मात्पुण्यं निषेवेत पुरुषः सुसमाहितः॥
असूयको दन्दशूको निष्ठुरो वैरकृच्छठः।
स कृच्छ्रं महदाप्नोति न चिरात्पीपमाचरन्।
अनसूयुःकृतप्रज्ञः शोभनान्याचरन्सदा।
न कृच्छ्रं महदाप्नोति सर्वत्र च विरोचते॥
प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पण्डितः।
प्राज्ञो ह्यवाप्य धर्मार्थौशक्नोति सुखमेधितुम्॥
दिवसेनैवतत्कुर्यात् येन रात्रौ सुखं वसेत्।
अष्टमासेन तत्कुर्याद्येन वर्षाःसुखं वसेत्॥
पूर्वे वयसि तत्कुर्याद्येन वृद्धः सुखं वसेत्।
यावज्जीवेन तत्कुर्याद्येनामुत्र सुखं वसेत्॥
जीर्णमन्नं प्रशंसन्ति भार्यांच गतयौवनाम्।
शूरं विजितसङ्ग्रामं गतपारं तपस्विनम्।
भार्यामिति यौवनेऽप्यस्या धर्मच्युतिनं जातेति गतयोवनां सतीं प्रशंसन्ति स्तुवन्ति न तु यौवनवतीं, यौवने धर्मक्षतेः सम्भावितत्वादितिभावः। गतपारं, तपस्याया गतपारम्। तपस्यामध्ये ऐहिकासिद्धीनां विघ्नभूतानां सम्भावितत्वात्।
धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते।
असंवृतं तद्भवति ततोऽन्यदवदीर्यते॥
गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम्।
अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः॥
ऋषीणां च नदीनां च कुलानां च महात्मनाम्।
प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च॥
द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी।
क्षत्रियः शीलभाग्राजंश्विर पालयते महीम्॥
सुवर्णपुष्पं पृथिवीं चिन्वन्ति पुरुषास्त्रयः।
शुरश्च कृतविद्यश्च यश्च जानाति सेवितुम्॥
बुद्धिश्रेष्ठानि कर्माणिबाहुमध्यानि भारत।
तानि जङ्घाजघन्यानि भारप्रत्यवराणि च॥
बुद्धिश्रेष्ठानीत्यादि। कर्माणि बुद्धिमात्रेण राजसेवादायीनि मन्त्रित्वादीनि श्रेष्ठानि।बाहुबलेन तादृशानि धनुर्द्धरत्वादीनि मध्यानि।जाङ्गिकत्वादीनि जघन्यानि अधमानि। भारवाहित्वादीन्यत्यधमानीत्यर्थः।
आपद्धर्मे महाभारते,
बाह्यश्चेद्विजिगीषुः स्याद्धर्मार्थकुशलः शुचिः।,
जवेन सन्धिं कुर्वीत पूर्वान् पूर्वान् विमोचयन्॥
यो धर्मविजिगीषुः स्याद्बलवान् पापनिश्चयः।
आत्मनः सन्निरोधेन सन्धिंतेनापि रोचयेत्॥
अपास्य राजधानीं वा तरेद्द्रव्येण वाऽऽपदम्।
तद्भावयुक्तो द्रव्याणि जीवन्पुनरुपार्जयेत्॥
तद्भावो राजभावः।
यास्तु कोशबलत्यागाच्छक्यास्तरितुमापदः।
कस्तत्राधिकमात्मानं सन्त्यजेदर्थधर्मवित्॥
न त्वेवात्मा प्रदातव्यः शक्ये सति कथञ्चन।
तथा,
अकाले कृत्यमारब्धं कर्तुर्नार्थाय कल्पते।
तदेव काल आरब्धं महतेऽर्थाय कल्पते॥
तथा,
न च कश्चित्कृते कार्ये कर्तारं समवेक्षते।
तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत्॥
कारयेत्, कुर्यात्।
तथा,
कारणात्प्रियतामेति द्वेष्योभवति कारणात्।
अर्थार्थी जीवलोकोऽयं न कश्चित्कस्य चित्प्रियः॥
आत्मार्थे सन्ततिस्त्याज्या राज्यं रत्नं धनानि च।
अपि सर्वस्वमुत्सृज्य रक्षेदात्मानमात्मना॥
तथा,
ब्राह्मणा वै परं श्रेयो दिवि चेह च भारत।
एते धर्मस्य वेत्तारः कृतज्ञाः सततं प्रभो॥
पूजिताःशुभकर्तारः पूजयेत्तान्नराधिपः।
तथा,
तत्रैवब्रह्मदत्तोपाख्याने पूजन्या वाक्येषु।
सान्त्वे प्रयुक्ते सततं कृतवैरे न विश्वसेत्।
क्षिप्रंस वध्यते मूढो न हि वैरं प्रशाम्यति॥
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्।
विश्वासाद्भयमुत्पन्नमपि मूलं निकृन्तति॥
कामं विश्वासयेदन्यान् परेषां च न विश्वसेत्।
तथा,
नास्ति वैरमतिक्रान्तं सान्त्वितोऽस्मीति नाश्वसेत्।
विश्वासाद्वद्ध्यते लोके तस्माच्छ्रेयोऽप्यदर्शनम्॥
तरसा ये न शक्यन्ते शस्त्रैः सुनिशितैरपि।
साम्ना तेऽपि निगृह्यन्ते गजा इव करेणुभिः॥
तथा,
कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि।
छन्नं सन्तिष्ठते वैरं गूढोऽग्निरिव सागरे॥
न हि वैराग्निरुद्भूतः कर्म चाप्यपराधजम्।
शाम्यत्यदग्ध्वा नृपते विना ह्येकतरक्षयात्॥
तथा,
सदा न विश्वसेद्राजा पापं कृत्वेह कस्य चित्।
अपकृत्य परेषां हि विश्वासाद्दुःखमश्नुते॥
दैवं पुरुषकारश्च स्थितावन्योन्यसंश्रयात्।
उदाराणां तु सत्कर्म दैवं क्लीबाउपासते॥
दत्त्वाभयं यः स्वयमेव राजा न तत्प्रमाणं कुरुतेऽर्थलोभात्।
सर्वस्य लोकादुपलभ्य पापं सोऽधर्मबुद्धिर्निरयं प्रयाति॥
दत्त्वाऽभयं स्वयं राजा प्रमाणं कुरुते यदि।
स सर्वसुखकृज्ज्ञेयः प्रजा धर्मेण पालयन्॥
माता पिता गुरुर्गोप्ता वह्निर्वैश्रवणो यमः।
सप्त राज्ञो गुणानेतान्मनुराह प्रजापतिः॥
पिता हि राजा राष्ट्रस्य प्रजानां योऽनुकम्पनः।
तस्मिन् मिथ्याविनीतो हि तिर्यग्गच्छति मानवः॥
यस्तु रञ्जयते राजा पौरजानपदान् गुणैः।
न तस्य भ्रंशते राज्यं स्वयं धर्मानुपालनात्॥
नित्योद्विग्नाः प्रजा यस्य करभारप्रपीडिताः।
अनर्थैर्विप्रलुप्यन्ते स गच्छति पराभवम्॥
प्रजा यस्य विवर्द्धन्ते सरसीव महोत्पलम्।
स सर्वफलभाग्राजा स्वर्गलोके महीयते॥
बलिना विग्रहो राजन्न कदाचित्प्रशस्यते।
बलिना विग्रहो यस्य कुतो राज्यं कुतः सुखम्॥
तथा,
वाङ्मात्रेण विनीतः स्याद्धृदयेन यथा क्षुरः।
श्लक्षणपूर्वाभिभाषी च कामक्रोधौ च वर्जयेत्॥
सपत्नसंहिते कार्ये कृत्वा सन्धिंन विश्वसेत्।
अपक्रामेत्ततः शीघ्रं कृतकार्योविचक्षणः॥
शत्रुं च मित्ररूपेण सान्त्वेनैवाभिसान्त्वयेत्।
नित्यशश्चोद्विजेत्तस्माद्गृहात्सर्पयुतादिव॥
यथाबुद्धिः परिभवेत्तमतीतेन सान्त्वयेत्।
अनागतेन दुष्प्रज्ञं प्रत्युत्पन्नेन पण्डितम्॥
अञ्जलिं शपथं सान्त्वं प्रणम्य शिरसा वदेत्।
अश्रुप्रमार्जनं चैव कर्तव्यं भूतिमिच्छता॥
वहेदमित्रं स्कन्धेन यावत्कालस्य पर्ययः।
प्राप्तकालं तु विज्ञाय भिन्द्याद्घटमिवाश्मनि॥
तथा,
नात्मच्छिद्रं रिपुर्विद्याद्विद्याच्छिद्रं परस्य तु।
गृहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः॥
बकवच्चिन्तयेदर्थान् सिंहवच्च पराक्रमेत्।
वृकवच्चावलुम्पेत शरवञ्च विनिष्पतेत्॥
पानमक्षास्तथा नार्यो मृगया गीतवादिते।
एतानि युक्त्या सेवेत प्रसङ्गो ह्यत्र दोषवान्॥
तथा
,
देशकालौसमासाद्य विक्रमेत विचक्षणः।
देशकालव्यतीतो हि विक्रमो निष्फलो भवेत्॥
दण्डेनोपनतं शत्रुं यो राजा न नियच्छति।
स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा॥
सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः।
आमःस्यात्पक्वसङ्काशो न च शीर्येत कस्य चित्॥
आशां कालवतीं कुर्यात् तां च विघ्नेन योजयेत्।
विघ्नं निमित्ततो ब्रूयान्निमित्तं चापि हेतुतः॥
भीतवत्संविधातव्यं यावद्भयमनागतम्।
आगतं तु भयं दृष्ट्वा प्रहर्त्तव्यमभीतवत्॥
योऽरिणा सह सन्धाय सुखं स्वपिति विश्वसन्।
स वृक्षाग्रे प्रसुप्तो वा पतितः प्रतिबुद्ध्यते॥
वा शब्द इवार्थे।
ये सपत्नाः सपत्नानां सर्वांस्तानुपसान्त्वयेत्।
आत्मनश्चापि बोद्धव्याश्चारा विनिहिताः परैः॥
चारस्त्वविदितः कार्य आत्मनोऽथ परस्य च।
पाखण्डांस्तापसादींश्च परराष्ट्रेप्रवेशयेत्॥
उद्यानेषु विहारेषु प्रपास्वावसथेषु च।
पानागारेषु वेशेषु तीर्थेषु च सभासु च॥
वेशेषु, वेश्याजनाश्रयेषु।
विश्वासयित्वा तु परं तत्त्वभूतेन हेतुना।
अथास्य प्रहरेत्काले किञ्चिद्विचलिते पदे।
अशङ्क्यमपि शङ्केत नित्यं शङ्केत शङ्कितात्।
भयं ह्यशङ्किताज्जातं समूलमपि कृन्तति॥
अशङ्क्यंशङ्कानर्हम्।
पुत्रो वा यदि वा भ्राता पिता वा यदि वा सुहृत्।
अर्थस्य विघ्नं कुर्वाणा हन्तव्या भूतिमिच्छता॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः।
उत्पथप्रतिपन्नस्य दण्डो भवति शासनम्॥
तथा,
अमित्रं नैव मुञ्चेत वदन्तं करुणान्यपि।
दुःखं तत्र न कर्त्तव्यं हन्यात्पूर्वापकारिणम्॥
प्रहरिष्यन् प्रियं ब्रूयात्महत्यैव प्रियोत्तरम्।
असिनापि शिरश्छित्वा शोचेत च रुदेत च॥
निमन्त्रयीत सान्त्वेन सम्मानेन तितिक्षया।
लोकाराधनमित्येतत्कर्त्तव्यं भूतिमिच्छता॥
इत्येवमादीनि नीतिशास्त्राणि सर्वथा शृणुयादिति शिवम्।
प्रत्याशं परिवर्द्धतेऽर्थिजनतादैन्यान्धकारापहे
श्रीमद्वीरमृगेन्द्रदानजंलधिर्यद्वक्रचन्द्रोदये।
राजादेशितमित्रमिश्रविदुषस्तस्योक्तिभिर्निर्मिते-
ग्रन्थेऽस्मिन् खलु राजनीतिविषयः पूर्तिंप्रकाशोऽगमत्॥
इति श्रीमत्सकलसामन्तचक्रचूडामणिमरीचिमञ्जरीनीराजि
तचरणकमल—
श्रीमन्महाराजाधिराजप्रतापरुद्रतनूज—
श्रीमन्मधुकरसाहसूनु—
श्रीमन्महाराजाधिराजचतुरुदधिवलयवसुन्धराहृदयपुण्डरी
कविकासदिनकर—
श्रीवीरसिंहदेवोद्योजितश्रीहंसपण्डितात्मज—
श्रीपरशुराममिश्रसूनुसकलविद्यापारावारपारीणधुरीण—
जगद्दारिद्र्यमहागजपारीन्द्रविद्वज्जनजीवातु—
श्रीमन्मित्रमिश्रकृते वीरमित्रोदयाभिधनिबन्धे
राजनीतिप्रकाशः पूर्त्तिमगात्।
]
-
“१ तत्साध्यं ताडनमित्यर्थः” ↩︎
-
“तत्सर्वमुपकल्प्यताम्–इत्यपि पाठः ।” ↩︎
-
“अतः पूर्वे किञ्चित् त्रुटितंभाति ।” ↩︎
-
“मृगचर्मा इत्यपि पाठः ।” ↩︎
-
“सुरभा सुलभा इत्यपि पाठः ।” ↩︎
-
“१ दिशोरवस्थितास्सर्वे देवा इत्यर्थः ।” ↩︎
-
“धृत्वा धात्रो रूपमिदम् " ↩︎
-
" न च मोक्षायेत्यपि पाठः” ↩︎
-
“वर्धते इत्यर्थः” ↩︎
-
“अयं श्लोको मुद्रितमत्स्यपुराणे नोपलभ्यते ।” ↩︎
-
“अत्र मुद्रितमात्स्ये ‘राजा यत्तु वदेद्वाक्यं श्रोतव्यं तत्प्रयत्नतः’ इति पाठो लभ्यते ।” ↩︎
-
“तद्वसन् इति मुद्रितमात्स्ये पाठः ।” ↩︎
-
“तुषाणां श्चैव इति मुद्रितमात्स्ये पाठः ।” ↩︎
-
“‘अत्र कशेरुफलमूलानि इक्षुमूलं तथा विषम् । दूर्वा क्षीरघृतैर्मण्डः सिद्धोऽयं मासिकः परः’ ॥ इति मुद्रितमात्स्येऽधिकं वर्तते ।” ↩︎
-
“वृष्या चेति मात्स्ये पाठः ।” ↩︎
-
“पर्णी शताहा इति मात्स्ये पाठः ।” ↩︎
-
“‘नीपश्चारिष्टकाक्षोडवातामसोमवाणकम्’ इति मात्स्ये पाठः ।” ↩︎
-
“पतङ्गी इति मात्स्ये पाठः ।” ↩︎
-
“गन्धनाकुली इति मात्स्ये पाठः ।” ↩︎
-
“लोध्रपुष्पिणी इति मा० पा० ।” ↩︎
-
“तुश्चरिका इति मा० पा० ।” ↩︎
-
“इतः पूर्वे किश्चित् त्रुटितं भाति ।” ↩︎
-
“‘पधात्पिष्टेन चालिप्य’ इति मा० पा०” ↩︎
-
“स्तम्भन्यासेषु वर्ज्यानि तुलाविधिषु सर्वदा । इति मा०पा० ।” ↩︎
-
“शालया याम्यया हीनं यद्द्विशालं तु शालया । इति मा० षा० ।” ↩︎
-
“पादिकम् इति मा० षा० ।” ↩︎
-
“अत्र–‘सेनापर्नृपस्यापि गृहयोरन्तरेण तु । नृपवासगृह कार्यं भाण्डागारं तथैव च ॥सेनापतेर्गृहस्थापि सातुर्वर्ण्यस्य चान्तरे वासाय च गृहं कार्ये राजपूज्येषु सर्वदा ॥ अन्तरप्रभवाणां चस्वपितुर्गृहमिष्यते । तथा हस्तशतादर्धे गदितं बनवासिनाम् ॥ इत्यधिकं मात्स्ये वर्तते ।” ↩︎
-
" पश्चाच्छ्रेयोच्छ्रयम् इति मा० षा० ।" ↩︎
-
“पक्वेष्टका भवद्भित्तिः षोडशांशेन विस्तरात् । इति मा० षा० ।” ↩︎
-
“१ नदेवधूर्तसविवचत्वराणां समन्ततः। इति. मा० षा०।” ↩︎
-
“पृष्ठभागस्तु इति. मा० षा० ।” ↩︎
-
“पायसम् इति मा० षा० ।” ↩︎
-
“फलं पिष्ठ्वा कृतोदकम् इति मा० पा० ।” ↩︎
-
" सर्वदिक्षु विवर्धयेत् इति मा० पा० ।" ↩︎
-
“वधस्थानमिति मा० पा० ।” ↩︎
-
“अर्धशुष्कम् इति मा० पा० ।” ↩︎
-
“किञ्चिदष्टौ चपुष्कलामति क्वचित्पाठः ।” ↩︎
-
“आत्मीयं दर्शयेद्दोषम् इति मात्स्ये पाठः ।” ↩︎
-
“देहविपर्ययः ।” ↩︎
-
“अपत्यवतीम् ।” ↩︎
-
“लोक इति शेषः ।” ↩︎
-
“केचिद्दैवात्स्वभावाद्वा कालात्पुरुषकारतः। संयोगे केचिदिच्छन्ति फलं, कुशलबुद्धयः ॥ इति विज्ञानेश्वरसम्मतः पाठः ।” ↩︎
-
“इत आरभ्य ‘नं पौरुषादृते’ इत्यन्तानि पद्यानि मुद्रितमनुपुस्तके नोपलभ्यन्ते ।” ↩︎
-
" ऽर्धरात्रे इति मुद्रितमनौ पाठः।" ↩︎
-
“अत्र ‘उदासीन गुणानाह स एवं इत्यपेक्षितं त्रुटितमिव भाति।” ↩︎
-
" बहुप्रदत्वम् ‘स्युर्वदान्यस्थूललक्षदानशौण्डा बहुप्रदे’ इत्यमरः।" ↩︎
-
“अत्रापि ‘तेषां वशीकारोपायमाह स एव’ इत्यपेक्षितम्। एत्पद्यस्थतच्छब्देन पूर्वोक्तद्विसप्ततिप्रकारराजमण्डलस्य परामर्शात् तदनन्तरमेवास्य पद्यस्य विद्यमानत्वात्।” ↩︎
-
“योधान्मत्वा प्रभूतांश्चइति मात्स्ये पाठः ।” ↩︎
-
“अर्जनं पकलोहानां हयानामपि मारणम्। इति मात्स्येपाठः।” ↩︎
-
“मन्त्रैरेतैर्यथान्यायं पिशाचानां प्रकीर्तिता। इतिमुद्रितलिङ्गपुराणे पाठः।” ↩︎
-
“सत्यभामा चेत्यपि पाठः।” ↩︎
-
“भाविनी इत्यपि पाठः।” ↩︎
-
“सैन्या इति पाठः।” ↩︎
-
" महाजया इत्यपि पाठः।" ↩︎
-
“सर्वभव्या च वेगाख्या इत्यपि पाठः।” ↩︎
-
" श्रीकण्ठोऽन्तश्च सूक्ष्मश्च त्रिमूर्तिः शशकस्तथा । इत्यपि पाठः।" ↩︎
-
“इदमर्धंमु० लिं० पु० नास्ति।” ↩︎
-
“इदमप्यर्धं नास्ति।” ↩︎
-
" ऋक्ष इति च पाठः।" ↩︎
-
“दण्डी इति च पाठः।” ↩︎
-
“शुक्लो विशाल इत्यपि पाठः।” ↩︎
-
“अश्वीरुद्रश्चइत्यपि पाठः।” ↩︎
-
“सुन्दरश्च इत्यपि पाठः।” ↩︎
-
“गजश्चच्छेदको बाहुरिति च पाठः।” ↩︎
-
“सद्योनाद इत्यपि पाठः।” ↩︎
-
“सर्वासती इत्यपि पाठः।” ↩︎
-
“रक्तामालांशुका इत्यपि पाठः।” ↩︎
-
“अत्र लिङ्गपुराणे -वज्रा शङ्कातिशङ्का वा वला चैवावला। " ↩︎
-
“जलावर्ता च धीमती इत्यपि पाठः।” ↩︎
-
“रङ्कारी कुण्डली तथा इत्यपि पाठः।” ↩︎
-
“नन्दिनी इत्यपि पाठः ।” ↩︎
-
“खड्गचक्रेत्यपि पाठः ।” ↩︎
-
“पूर्वोक्तलक्षणैर्युक्तमिति च पाठः।” ↩︎
-
“स्वस्तिरुद्राय इत्यपि पाठः।” ↩︎
-
“मृणालेन इत्यापि पाठः।” ↩︎
-
“यमयतीति यमः सर्वनियन्ता वायुस्तद्धिता याम्या वायव्येत्यर्थः। तस्याम् ईशानेन तन्मन्त्रेणेत्यर्थः।” ↩︎
-
“कृतसंज्ञान् समन्तत इति मुद्रितमनौपाठः।” ↩︎
-
“स्यन्दनाश्वैः समे युद्धेदनूपे नौद्विपैस्तथा। इति मुद्रितमनु पुस्तके पाठः।” ↩︎
-
“सृजेत् इति मुद्रितमनुपाठः।” ↩︎
-
“भृगुरङ्गिरसश्चैव विश्वेदेवा मरुद्गणाः। लाकपालायश्चैव चन्द्रः सूर्योऽनिलोऽनलः॥ईति मुद्रितविष्णुधर्मोत्तरे पाठः।” ↩︎
-
“वज्रस्य भर्ता भुवनस्य गोप्ता वृत्रस्य हर्ता नमुचेर्निहन्ता। कृष्णे वसानो वसने महात्मा सत्यानृते यो विविनक्ति लोके॥ यं वाजिनं गर्भमपां सुराणां वैश्वानरं वाहनमभ्युपैति। इति मुद्रितविष्णुधर्मोत्तरे पाठः।” ↩︎
-
“तथाऽप्सु विधिवद्विद्भज इति मुद्रितविष्णुधर्मोत्तरे पाठः।” ↩︎
-
“शुक्लपक्षे तु अष्टम्याम् इति मुद्रितविष्णुधर्मोत्तरे पाठः।” ↩︎
-
“अत्र - " ↩︎
-
“अञ – “अभ्यर्चनं ततः कुर्याद्देवादीनां पृथक्पृथक्। तेषामेव ततो वन्हौ चतुर्थ्यन्तैस्तु नामभिः॥ ओङ्कारपूतं जुहुयाद्घृतं बहु पुरोहितः। इत्यधिकं मुद्रितविष्णुधर्मोत्तरे वर्तते।” ↩︎
-
“पृष्टः।” ↩︎
-
“यज्ञकृतम्।” ↩︎
-
“कर्मणा इत्यपि पाठः। " ↩︎