तीर्थप्रकाशः

अथ वीरमित्रोदयस्य तीर्थप्रकाशः
सिन्दूरारुणगण्डमण्डलगलद्दानाम्भसां धारया
सिञ्चन्तं पदसक्तभक्तजनताविघ्नौघधूलीरिव।
धम्मिल्लालिमिवालिवृन्दमनिशं मूघ्र्ना दधानं हर-
प्रेयांसं गिरिजाङ्गजं गजमुखं वन्देऽरविन्देक्षणम् ॥ 1 ॥
दधानं भृङ्गालीरनिशममले गण्डयुगले
ददानं सर्वार्थान्निजचरणसेवासुकृतिने।
दयाधारं सारं सकलनिगमानामपि परं
गजास्यं स्मेरास्यं तमिह कलये चित्तनिलये ॥ 2 ॥
ह्मदयभुवि मुमनीन्द्रैः सेविता नारदाद्यै-
स्तनुरुचिभिरजस्त्रं पारदाभां पिबन्ती।
अतिविततगभीरग्रन्थसिन्धाविदानीं
प्रभवतु करुणातः शारदा पारदा नः ॥ 3 ॥
स्फूज्र्जद्धूर्जटिताण्डवे प्रतिदिशं वेगोच्छलज्जाह्नवी
वीचीध्वाननिपीतभृङ्गिमुरजस्फारस्वनाडम्बरे।
लालाटामृतरश्मिखम्डमसकृद्व्योमस्थितेऽध्र्दे विधो-
राघातादघसञ्जयं दलयतु प्रोत्तालतालायितम् ॥ 4 ॥
प्रातः काले प्रयातो दिशिदिशि विबुधैरर्चितः पुष्पतृष्ट¬ा
प्रेमाद्र्रैर्दृष्टिपातैर्मनसि मनसिजं दीपयन् गोपिकानाम्।
कृत्वाऽग्रे धेनुसङ्घं सजलजलधरश्यामलो वेत्रपाणिः
कालिन्दीकूलकेलिः प्रदिशतु भवतां वाञ्छितं नन्दसूनुः ॥ 5 ॥
श्रीकाशीराजवंसप्रबलजलनिधेर्मेदिनीमल्लनामा
पूर्णः पीयूषरश्मिः समजनि जनतानन्दसन्दसन्दोहसिन्धुः।
बन्धुर्दीनद्विजानां तदनु च समभूदूÐज्जर्तैरज्र्जुनाभो
गर्जत्प्रत्यर्थिसैन्यप्रमथननिपुणैरर्जुनो भूमिपालः ॥ 6 ॥
बुन्देलक्षितिपालवंशविलसद्रत्नं प्रयत्नं विना
यः पृथ्वीं निखिलां विधाय वशगां राज्यं चकाराद्भुतम्।
शौर्यौदार्यगुणैरगण्यमहिमा दाताऽवदाताशयः
श्रीमान् कीर्त्तिसुधासमुद्रलहरीनिध्र्दौतदिङ्मण्डलः ॥ 7 ॥
तस्मादभूद्विमलविष्णुपदावलम्बो
लम्बोदराङ्घ्रिकमलार्चनवीताविन्घः।
निन्घन् रणे प्रतिभटान् प्रकटोग्रदर्पो
भूपालभालतिलको मलखाननामा ॥ 8 ॥
सदासमाराधनतुष्टरुद्रः प्रतापरुद्रस्तनयस्तदीयः।
कृपासमुद्रः शरणागतानां बभूव राजा वसुधाधिपानाम् ॥ 9 ॥
ततोऽभूदुद्भूतप्रचुरगुणगाम्भीर्यगरिमा
हिमाद्रिस्थेमाऽसौ मधुकरनृपः शूरविकृपः।
यमालिङ्गयालिङ्य प्रणयरसिकं प्रेमतरला
न पूर्वेषामेषा स्मरति विरहं हन्त कमला ॥ 10 ॥
सत्कीर्त्तिर्नृपवृन्दवन्दितपदः सह्ग्रामयज्ञाह्गणे
दीक्षावान्सकलं निपीय धवलैः सोमं यशोराशिभिः।
शश्वत्प्रज्वलति प्रतापदहने खड्गस्त्रुगाकर्षिता
यो वीरः प्रजुहाव वैरिनिवहप्राणाहुतीरन्वहम् ॥ 11 ॥
दिनकर इव विस्फुरत्प्रतापो
हिकरवत्कमनीयकान्तिपूरः।
करिकर इव यत्करः सदानो
मधुकरसाहमहीपतिर्महीयान् ॥ 12 ॥
एते दक्षिणभूमिभूमिपतयः प्राच्या उदीच्या इमे
राजानो नृपवृन्दवन्दितपदाम्भोज प्रतीच्या अमी।
वन्दन्ते नतमौलिविलसद्रनत्नाङ्कुरास्त्वामिति
द्वाःस्था यस्य वदन्ति सम्भ्रमभरादद्धा निबद्धाञ्जलि ॥ 13 ॥
दण्डेन क्षोणिचक्रं भ्रमयति निभृतं यत्प्रतापः कुलालो
येनाकृष्टासिवल्ली दिशि दिशि तनुते हन्त हल्लीसकानि।
उल्लङ्घ्याब्धीन् यदीया व्रजति दश दिशः कीर्त्तिवल्लीमतल्ली
तादृक् पुत्रस्तदीयः समजनि जगतीमम्डले वीरसिंहः ॥ 14 ॥
अस्ति स्वस्तिलकायमानकरकानीहारहारप्रभा-
प्रादुर्भावपराभवव्यसनिभिर्लिम्पन् यशोभिर्द्दिशः।
मुष्णन् वैरिमहांसि विज्ञजनतां पुष्णन् समं बन्धुभि
र्दिग्विरुयातबुदेलवंशतिलकः श्रीवीरसिंहो नृपः ॥ 15 ॥
कस्तावब्दलकर्णभार्गवमहादानप्रमाणस्तवः
कश्चासौ कुरुपाण्डुपाण्डुरयशः प्रस्तावनाविस्तरः।
यावद्वर्षति वीरसिंहनृपतिर्वृष्टीरिमाः काञ्नी-
र्धीराः प्रावृषि तावदञ्जनरुचिर्धारा न धाराधरः ॥ 16 ॥
वीरः श्रीवीरासिंहः क्षितिरमणमणिः पाणिना दालकाले
दर्भाम्भोहेमधारावितरणमकरोद्भागशः संविभज्य।
अर्थिभ्यो हेम, दर्भान् प्रतिनृपतिमहासौधगर्भावनीभ्यः,
प्रादादम्भः प्रवाहान् प्रतिनृपतिमृगीलोचनालोचनेभ्यः ॥ 17 ॥
एते भाविनि वीरसिंहनृपतौ दानाद्वितीये भुवि
द्वेषेणैव ह्मदा द्विधा ननु भविष्यन्तीति चिन्ता वत ।
धात्रा कामवगवी पशुर्विरचिता चिन्तामणिग्र्रावतां
नीतो, दुर्वहदारुदारुणतनुर्देवद्रुमोऽयं कृतः ॥ 18 ॥
नानादानविधानकौशलमयीमाकल्परम्यां महीं
दृप्यद्दप्र्पचयस्वरुपमचरादारोप्य बीजं ततः।
तच्चासिच्य विविच्यमानविलसद्भक्तिद्रवैः कल्पितो
भूपौ कल्पमहीरुहोऽत्र विधिना श्रीवीरसिंहः कृती ॥ 19 ॥
पीतध्वान्तेन नित्यं प्रसृमरमहसा मुग्धदुग्धाब्धिभासा
वीरश्रीवीरसिंहक्षितितिलकलसत्कीर्त्तिसोमेन साकम्।
अद्धा स्पध्र्दा करिष्यत्ययमिति मिषतो लाञ्छनस्याञ्जनाक्तं
वक्त्रं कृत्वा विधात्रा दिशि दिशि शनकैभ्र्रम्यते शीतरश्मिः ॥ 20 ॥
एषा शेषांशुशुभ्रैर्निजरुचिनिचयैर्निÐज्जतोन्निद्रचन्द्रा
सान्द्रा विक्षिप्य वीचीर्वहति शतमुखी यस्य सत्कीर्त्तिसिन्धुः।
तस्याः कापि प्रणाली वहति सुरनदी नर्मदा कापि रेखा
काबेरी कापि प्रसरति शरयूश्चन्द्रभागा च कापि ॥ 21 ॥
सेवामेवास्य राज्ञः कलय मलयजस्वच्छकीर्तेः पितृणां
मार्गे मागा निरागास्तनय भवतरां निस्कृपस्तत्कृपाणः।
इत्थं श्रीवीरसिंहक्षितिरमणमणेः सर्वतः पर्वतस्थाः
शिक्षां प्रत्यर्थिबाला निरवधि तनयं स्वस्वमध्यापयन्ति ॥ 22 ॥
सूनुस्तस्य गुणैस्त्रिलोकविदितैः श्रेष्ठः कनिष्ठीकृत-
प्रौढप्रौढनन्द्र्रचारुचरितश्चामीकराभो युवा।
वीरः श्रीलजुझारसिंहनृपतिः सङ्ग्रमसिंहो रण-
स्फूज्र्जत्स्फाकृपाणपाणिररिभिः प्रोग्द्रीवमालोक्यते ॥ 23 ॥
गायन्ति यस्य चतुरर्णवतीरकुञ्ज-
गुञ्जन्मदोध्दतमध्रुव्रतकैतवेन।
नूहारहारहरिणाङ्कमयूखभांसि भूयांसि दिङ्मृगदृशो बहुशो यशांसि ॥ 24 ॥
येनाकारि निजारिपार्थिववधूवाष्पाम्बुसिक्ता मही
रिक्ता येन कृताश्च कोषनिवहाः प्रत्यर्थिपृथ्वीभूजाम्।
दानं यस्य निरस्यति क्षितिपतेः कर्णादिकानां यशः
तस्य श्रीलजुझारसिंहनृपतेः साम्यं कथं कथ्यताम् ॥ 25 ॥
कैलाशं गिरिशं हिमं हिमगिरिं शीतांशुमुक्तामणीन्
नीरं क्षीरपयोनिधेः करिवरं जातं च पाथोनिधेः।
यत्कीर्त्तिर्महसा जिगाय धरणीधौरेयधुर्यः शतं
वर्षाण्यत्र जुझारसिंहनृपतिर्जीयात्स भत्र्ता भुवः ॥ 26 ॥
राज्यं प्राप जुझारसिंहनृपतिर्यस्याग्रतो भूपते-
स्तत्पुत्रोऽपि गुणार्णवः समजनि श्रीविक्रमार्को नृपः।
तत्सूनुर्नरसिंहदेवनृपतिस्तं वीरसिंहं विना
भेजे राज्यपरम्परासुखमिदं मन्ये महेन्द्रोऽपि किम् ॥ 27 ॥
गोपाचलस्थध्ररणीसुरवंशपझ-
चण्डांशुराविरभवद्द्विजजातिवन्धुः।
श्रीनन्दनन्दनपदद्वयचित्तवृतिः
श्रीहंसपण्डित इति प्रथमानकीर्तिः ॥ 28 ॥
यो दूरवारकुलभूरनुभूतसौख्यः
क्षीहंसपण्डित इति प्रथितः पृथिव्याम्।
आसीद्विवेकचतुरश्चतुरः समग्र-
वेदानधीत्य कृतकर्मकलाकलापः ॥ 29 ॥
यज्ञादिकर्मकारणाय किलावतीर्णः
पूर्णः श्रिया निजकुलाभरणायमानः।
मिश्रः परः परशुराम इति द्विजेन्द्र-
स्तस्याभवत्स तनयो विनयोदितश्रीः ॥ 30 ॥
यो दर्भाग्रसमानबुद्धिविभवः प्रख्यातकीर्तिर्गुणैः
श्रौतस्मात्र्तसमस्तकर्मकुशलाञ्चण्डीश्वराख्याद्गुरोः।
अध्यायान्तमधीत्य शास्त्रमखिलं मीमांसया मांसलः
शश्वत्कण्डितकण्डनः समभवत्सङ्ख्यावतामग्रणीः ॥ 31 ॥
पुत्रस्तस्य विभाति सद्गुणनिधिद्र्दानाम्बुसृष्टाम्बुधि-
र्वीरः श्रीयुतमित्रमिश्रसुकृती कल्याणकल्पद्रुमः।
कीर्तिरिदिक्षु विदिक्षु यस्य रजनीजानिप्रभाभासम्वरा
गायन्ति द्विजदारका हिमहरक्षीराब्धिशुभ्रा भुवि ॥ 32 ॥
चातुर्य चतुराननस्य निभृतं गाम्भीर्यमम्भोनिधे-
रौदार्यं विबुधद्रुमस्य मधुरां वाचं च वाचस्पतेः ॥
धैर्यं धर्मसुतस्य शर्म सकलं देवाधिपस्याहरत्
श्रीमान् ख्यातनयः सदा सविनयः श्रीमित्रसेनः सुधीः ॥ 33 ॥
दाता दापयिता दयादमपरः श्रीमानमात्सर्यवान्।
धीरोऽधीतसम्स्तशास्त्रनिवहव्याख्यारसख्यातिमान्।
नानानाटकसट्टकप्रकरणग्रन्थौगतात्पर्यवि-
द्वादे न्यक्कृतवावदूकनिचयो यो गीतकीर्तिर्बुधैः ॥ 34 ॥
मन्त्रे यो रसनायितः प्रविलसत्कीच्र्यालवालायितः
श्रीमद्वीरमहीपतेः प्रतिपदं प्रेमास्पदं योऽजनि ॥ 35 ॥
तेनानेकनिबन्धसिन्धुमनिशं निर्मथ्य बुद्ध्या पुन-
र्वेदान् साङ्गपदक्रमोपनिषदानम् श्रुत्वावधार्यापि च ।
धर्मार्थादिपुमर्थनिर्णयपरः श्रीवीरसिंहाज्ञया
ग्रन्थोऽयं रचितः परोपकृतयोः श्रीवीरमित्रोदयः ॥ 36 ॥
मा कुर्वन्तु मुधा बकुधाः परचयं ग्रन्थेषु नानाविधे-
ष्वत्यन्तं न हि तेषु सर्वविषयः कश्चित् क्वचिद्वत्र्तते।
पश्यन्तु प्रमयादन्न्यमनसो ग्रन्थं मदीयं त्विमं
धर्माधर्मसमस्तनिर्णयविधिर्यस्मिन् दरीदृश्यते ॥ 37 ॥
अंहःसंहरणाय सर्वजगतामन्तस्तमः शान्तये
लब्ध्वाऽऽज्ञां नृपवृन्दवन्द्यचरमश्रीवीरासिंहप्रभोः।
श्रीमत्पण्डितहंसवंशतिलकः श्रीमित्रमिश्रः सुधी-
र्विद्वद्वृन्दशिरोमणिर्वितनुते तीर्थप्रकाशं परम् ॥ 38 ॥
तीर्थस्वरुपं तीर्थानां पुरुषार्थनिमित्तता।
तीर्थकीत्र्तनमाहात्म्यं विभागाश्चपि तीर्थगाः ॥ 1 ॥
तीर्थयात्राधिकारश्च यात्राङ्गानुष्ठितिस्तथा।
यात्रायानकथाऽगम्यगम्यदेशादिकीत्र्तनम् ॥ 2 ॥
कालशुद्धिश्च यात्रायां दूराद्यात्राफलं तथा।
तीरिथप्राप्तिदिने कृत्यं तीर्थप्रात्पावुपोषमम् ॥ 3 ॥
मुण्डनं च तथा तीर्थस्नानं तीर्थे च तर्पणम्।
तीर्थश्राद्धं च तीर्थेषु देवतादर्शनादिकम् ॥ 4 ॥
प्रतिग्रहनिषेधादिस्तीर्थेऽनुष्ठानपद्धतिः।
जम्बूद्वीपस्य वर्षाणामद्रीणां चापि कीत्र्तनम् ॥ 5 ॥
उद्देशः सर्वतीर्थानां नदीनां चापि तत्फलम्।
सामान्यतः समुद्दिष्टमथ काशीविवेचनम् ॥ 6 ॥
ततः प्रयचागमहिमा गङ्गायाः सागरस्य च ।
सङ्गमादिकमप्यत्र वण्र्यते जाह्नवी ततः ॥ 7 ॥
कीत्त्र्यते यमुना चापि नम्र्मदा तदनन्तरम् ।
ततो गयाविधिः सम्यक् मन्दारमहिमा ततः ॥ 8 ॥
अथ कोकामुखविधिः कुक्षेत्रफलं ततः।
पथूदकादिमाहात्म्यं सरस्वत्याः फलं ततः ॥ 9 ॥
अथ प्रभासमाहात्म्यं महिमा पुष्करस्य च ।
स्तुतस्वामिस्तुतिकथा बदरीवर्णतं ततः ॥ 10 ॥
लोहार्गलस्य माहात्म्यं केदारमहिमा महान्।
शालग्रामगुणग्रामो नैमिषोन्मेषणं ततः ॥ 11 ॥
इन्द्रप्रस्थस्य माहात्म्यमयोध्यामहिमोदयः।
मथुरामहिमश्लाघा चित्रकूटानुकीत्र्तनम् ॥ 12 ॥
कालञ्जरस्य महिमा शृङ्गबेरपुरं ततः ।
अवन्ती द्वारका तापी तापीसागरसङ्गमः ॥ 13 ॥
पयोष्णीस्नानमहिमा सही गोदावरी ततः ।
सह्रामलकमाहात्म्यं गोकर्णमहिमा महान् ॥ 14 ॥
सप्तकोटीश्वरकथा सेतुबन्धफलश्रुतिः।
पुरषोत्तममाहात्म्यमेकाम्रगुणगुम्फनम् ॥ 15 ॥
अथ कोणार्कमाहात्म्यं विरजक्षेत्रनिर्णयः ।
कालरूपस्य महिमा करतोयानुकीत्र्तनम् ॥ 16 ॥
ब्राहृपुत्रनदशलाघा जल्पीशगुणजल्पनम् ।
ततो नानातीर्थफलमथ पृथ्वनीप्रदक्षिणा ॥ 17 ॥
महाप्रस्थानगमनं ग्रन्थेऽस्मिन् वण्र्यते क्रमात्।
श्रीमित्रमिश्रविदुषा विदुषां मोदहेतवे ॥ 18 ॥
तत्र तीर्थस्वरूपम् ।
महाभारते,
भीष्म उवाच।
शृणु तीर्थानि गदतो मानसानि ममानघ।
येषु सम्यङ्नरः स्नात्वा प्रयाति परमां गतिम् ॥
सत्यं तीर्थं क्षमा तीर्थं तीर्थमिन्द्रियनिग्रहः।
सर्वभूतदया तीर्थं तीर्थमार्जवमेव च ॥
दानं तीर्थं दमस्तीर्थं सन्तेषस्तीर्थमुच्यते।
ब्राहृचर्यं परं तीर्थं च प्रियवादिता॥
ज्ञानं तीर्थं धृतिसतीर्थं तपस्तीर्थमुदाह्मतम्।
तीर्थानामपि तत्तीर्थं विशुद्धिर्मनसः परा॥
न जलाप्लुतदेहस्य स्नानमित्यभिधीयते।
स स्नातो यो दमस्नातः शुचिः शुद्धमनोमलः॥
विषयेष्वनिशं रागो मानसो मल उच्यते।
तेष्वेव हि विरागोऽस्य नैर्मल्यं समुदाह्मतम्॥
चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुद्ध्यति।
शतशोऽथ जले धौतं सुराभाण्डमिवाशुचि॥
दानमिष्टं तपः शौचं तीर्थं सेवा श्रुतं तथा।
सर्वाण्येतान्यतीर्थानि यदि भावो न निर्मलः ॥
निगृहीतेन्द्रियग्रामो यत्रैव वसते नरः।
तत्र तस्य कुरुक्षेत्रं नैमिषं पुष्कराणि च ॥
ज्ञानपूते ध्यानजले रागद्वेषमलापहे।
यः स्नाति मालसे तीर्थे स याति परमां गतिम्॥
एतते कथितं राजन् मानसं तीर्थलक्षणम्।
भौमानामपि तीर्थनां पुण्यत्वे कारणं शृणु॥
यथा शरीरस्योद्देशाः के चिन्मेध्यतमाः स्मृताः।
तथा पृथिव्या उद्देशाः केचित्पुण्यतमाः स्मृताः॥
प्रभावादद्भुताद्भूमेः सलिलस्य च तेजसा।
परग्रहान्मुनीनां च तीर्थानां पुण्यता स्मृता॥
तस्माभ्दौमेशषु तीर्थेषु मानसेषु च नित्यशः।
उभयेषु च यः स्नाति स याति परमां गतिम् ॥ इति ।
भौमानामपीत्यपिना मानतीर्थलक्षणं श्रुतमेव, इदानीं भौमानां तीर्थानां पुण्यत्वे कारणं शृण्विति प्रतिपाद्यते। यथा शरीरस्योद्देशाः देहस्यावयवाः केचित् उत्तमाङ्गदक्षिणश्रवणादयः स्वभावत एव पुण्यतमाः तथा पृथिव्या उद्देशाः केचन पृथिवीप्रदेशः भूमेरद्भुतात् प्रभावात् विलक्षणात्स्वभावात् पुण्यतमा दर्शनस्नानादिना पुण्यहेतवः। तथा सलिलस्य च, सलिलस्यापि केचन देशाः। अर्थात् सलिलस्य तेजसा प्रभावेण विलक्षणस्वभावेनेतियावत्, पुण्यतमा इत्यर्थः। यथा दक्षिणश्रवणस्य स्पर्श आचमनानुकल्पः स्वाभाव्यात् न तु वामश्रवणस्य, तथात्रापि देशविशेषादीनां तथात्वमित्यर्थः। मुनीनां परिग्रहादिति। पुर्व मुनिभिराश्रितत्वात् न्सानाद्यनुष्ठानाच्चेत्यर्थः। प्रभावोऽत्रानादिसिद्धः पुण्यताप्रयोदको देशस्य जलस्य वा स्वभावभेदः। मुनिपरिग्रहाच्चागन्तुको धर्मः। मुनिपदं देवादीनामुपलक्षणम्। वस्तुतो मुनिपरिगृहीतानामनादिरेव प्रभावः। स्तुत्यर्थमेव परिग्रहकीत्र्तनम्। एवं चान्यानाहितस्वभावविशेषेण पुण्यहेतुर्भूमिर्जलं वा तीर्थमिति सिद्ध्यति। तेन शालग्रामशिलादिसान्निध्याद्देशस्य तदीय स्नानोदकादेश्च तत्सम्पर्केण पुण्यहेतुत्वेऽपि न तीर्थत्वम्। मानसं तु तीर्थव्यपदेशस्तीर्थकार्यकारित्वान्दौणः। उक्तलक्षणेनासङ्गहात्। एवमनीद्दशेषु यत्र तीर्थपदप्रयोगः स गौणः। मानसानां पृथगेव वा तीर्थत्वं स्नानवत्।
यथा
नित्यं नैमित्तिकं चैव क्रियाङ्गं मलकर्षणम्।
तीर्थाभावे तु कत्र्तव्यमुष्णोदकपरोदकैः॥
इति सर्वाङ्गीमजलसंयोगरूपं स्नानं शङ्खेनोक्तम्।
आग्नेयं भस्मना स्नानमद्भिर्वाणमुच्यते।
आपोहिष्ठेति च ब्रााहृं वायव्यं गोरजः स्मृतम्॥
इति भस्मस्नानादिकं हारीतेनोक्तम्।
मानसं विष्णुचिन्तनम्।
इतियोगियाज्ञवल्कयेनोक्तं स्नानं पृथगेव। एवञ्च तादृशभूमौ तादृशजले च प्रवृत्तिभेदात्तीर्थशब्दो नानार्थः। गुरुत्वेन वा द्वयोरनुगमः। अन्यानाहितेत्यत्रन्यपदेन शालग्रामसान्निध्यादीनां विशिष्योपादानादभावसमुदायप्रवेशान्न दोषः।
पुण्यजनकताऽवच्छेदकशक्तिविशेषावच्छिन्नत्वमेव वा तीर्थत्वम्। विशेषपदेनैव शालग्रामादिसान्निध्यव्युदासः। तत्र तीर्थत्वाव्यवहारात्। अन्यथा तत्रापि तीर्थप्राप्तिनिमित्तकश्चाद्धापत्तेः। अभियुक्तैर्महर्षिभिस्तीर्थत्वेन परिभाषितानां काशीकाञ्चीप्रभृतीनामेव तीर्थत्वं नान्येषामित्यपि साधीयः। यथा दाक्षिनन्दनोदीरितनदीवृद्धिसञ्ज्ञादौ, यथा वा मन्त्रादौ, तादृशपरिभाषाविषयत्वमेव शरणं तथात्रापीति। तदुक्तम् -
याज्ञीकानां समाख्यानां निर्दोषं मन्त्रलक्षणम्। इति
तत्तत्तीर्थभेदास्तत्तद्देशवासिप्रसिद्ध्याऽवसेयाः। एवं सङ्गयोर्नद्योरेतद्भागे इयं नदी परतभागे सेत्यत्रापि तत्तद्देशीयशिष्टव्यवहार एव नियामकः। एवं तन्नदीच्युतप्रवाह्स्य तन्नदीत्वान्यनदीत्वशङ्कायामपि। तथा मध्यविच्छिन्नस्तोतसि ग्रीष्मशुष्यद्वर्षाप्रवृत्तश्रोतासि वा तन्नदीत्वे देशव्यवस्थैव शरणम्।
इदानीं तीर्थानुसरणस्य पुरुषार्थसाधनताऽभिधीयते।
महाभारते
ऋषिभिः क्रतवः प्रोक्ता वेदेष्विह यथाक्रमम्।
फलं चैव तथा तत्तवं प्रेत्य चेह च सर्वशः॥
न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते।
बहूपकरणा यज्ञा नानासम्भारविस्तराः॥
प्राप्यन्ते पार्थिवैरेते समृद्धैर्वा नरैः क्वचित्।
नार्थन्युनैरवगणैरेकात्मभिरसंहतैः॥
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं नरेश्वर।
ऋषीणां परमं गुह्रामिदं भरतसत्तम॥
तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते।
अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च॥
अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते।
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदाक्षिणैः॥
न तत्फलमवाप्नोति तीर्थाभिगमनेन यत्।
अवगणैः, तक्षादिसहायरहितैः। यज्ञस्य कुण्डमण्डपादिसाध्यत्वात्। एकात्मभिः, पत्नीरहितैः। असंहतैःष ऋत्विगादिसङ्घातरहितैः। अनुपोष्योति। तेनात्र त्रिरात्रोपोषणतीर्थाभिगमनकाञ्चनदानगोदानानां चुर्णामपि प्रत्येकं दारिद्य्रभावः फलमित्यर्थः। अग्निष्टोमादिभिरित्यनेन केषा चित्तीर्थानां यज्ञादधिकफलत्वं दर्शतमिति सामान्यतो यज्ञफतुप्यफलतोक्ता न विरुद्धते।
तथा
तस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्।
विद्या तपश्य कीर्त्तिश्च स तीर्थफलमश्नुते॥
हस्तयोः संयमः, परहीडाचौय्र्यादिनिवृत्त्या। पादयोः संयमः, अगम्यदेशगमनपरताडनादिनिवृत्त्या। मनसः संयमः, कुत्सितसङ्कल्पादिनिवृत्त्या। विद्याऽत्र
तत्त्तीर्थगुणज्ञानम्। तपः, तीर्थोपवासादि। कीर्तिः, सञ्चरित्वेन प्रसिद्धिः। यद्यपि कीत्र्तशून्यस्य तीर्थफलाभाव इत्यसमञ्जसं, न वा प्रसिद्धिः कर्तुं शक्या कीत्र्यर्थं धर्मानुष्ठानानौचित्यात्। तथापि कीर्तिपदमधार्मिकत्व व्यतिरेकपरम्।
तथा
अकोपनश्च रोजेन्द्र सत्यवादी दृढव्रतः।
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते॥
आत्मोपमत्वं च हितकरणेन अहिताकरणेन च। तदेतानि तीर्थयात्राप्रकरणपाठ
#ात्तीर्थयात्राङ्गानि। यद्वा। हस्तसंयमादिशून्यानां तीर्थे पापक्षयो न तु यथोक्तं फलमित्यत्र तात्पय्र्यम्। तथा च -
शङ्खः,
नृणां पापकृतां तीर्थे पपस्य शमनं भवेत्।
यथोक्तफलदं तीर्थं भवेच्छुद्धात्मनां नृणाम्॥ इति ।
पापकृतां कर्मानधिकारापादकपातकादिमताम्। पापमात्रस्य संसाय्र्यव्यतिर्कात्। यथोक्तं फलं, पापक्षयातिरिक्तं स्वर्गादि। शुद्धात्मनाम्, ऐहिकमहापातकादिशून्यानाम्।
तथा स एव,
तीर्थान्येव तु सर्वाणि पापघ्नानि सदा नृणाम्।
परस्परानपेक्षाणि कथितानि मनीषिभिः॥
सर्वेप्रस्त्रवणाः पुण्याः सर्वे पुण्याः शिलोच्चयाः।
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्।
विद्या तपश्च कीर्तश्च स तीर्थफलमश्नुते॥
सदा, संयमाद्याभावेऽपि। परस्परानपेक्षाणि, प्रत्येकं फल साधनानि।
वायुपुराणे,
तीर्थान्यनुसरन् धीरः श्रद्दधानः समाहितः।
कृतपापो विशुद्धेत किं पुनः शुद्धकर्मकृत्॥
तिर्यग्योनिं न गच्छेच्च कुदेशे च न जायते।
स्वर्गी भवति वै विप्रो मोक्षोपायं च विन्दति॥
अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्नसंशयः।
हितुनिष्ठश्च पञ्चैते न तीर्थफलभागिनः॥
श्रद्धा, वैदिककर्मणि फलावश्यम्भावनिश्चयः। समाहितः, असद्देशगमनासत्प्रसङ्गादिनिवृत्तिपूपसमाधानयुक्तः। कृतपापः, इह जन्मनि शुद्धकर्मकत्र्ता तु प्राचीनजनितपापक्षयवान् भवतीत्यत्र किम्पुनर्वाच्यपमिसर्थः। पापात्मा, पापाचरणशीलः। नास्तिकः, देहाभिन्न आत्मेति बुद्धिमान। अच्छिन्नसंशयः, फलोपायेतिकत्र्तव्यतासु सन्दिहानः। हितुनिष्ठः, कुहेतुभिः शास्त्रोपप्लावकः।
स्मृतिसारसमुञ्चये,
मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे चगुरौ।
यादृशी भावना यस्य सिद्धिर्भवति तादृशी॥
इत्युक्तम्। अनेन श्रद्धया फलावाप्तिरिति स्पष्टीकृतम्।
तथा,
कामं क्रोधं च लोभं च यो जित्वा तीरिथमावसेत्।
न तेन किञ्चिन्न प्राप्तं तीर्थाभिगमनाद्भवेत्॥
तीर्थानि तु यथोक्तेन विधिना सञ्चरन्ति ये।
सर्वद्वन्द्वसहा धीरास्ते नराः स्वर्गगामिनः॥
देवलः,
कृत्वा पापमविज्ञानं भ्रूणहत्यादि तत्पुनः।
विनश्यति महायज्ञैरथ वा तीर्थचय्र्यया॥
याज्ञवल्क्यः,
अनुपाताकिनस्त्वेते महापातकिनो यथा।
अश्वमेधेन शुद्ध्यन्ति तीर्थानुसरणेन वा॥
देवनः,
तीर्थे पुण्यतमे यथावद्देहसन्न्यासात् ब्रााहृणो महापातकान्मुच्यते।
महाभारते,
अज्ञानेनापि यस्येह तीर्थयात्रादिकं भवेत्।
सर्वकामसमृद्धः स स्वर्गलोके महीयते॥
स्थानं च लभते नित्यं धनधान्यसमाकुलम्।
ऐश्वय्र्यज्ञानसम्पन्नः सदा बवति भोगवान्॥
तारिताः पिरस्तेन नरकात् प्रपितामहाः।
अज्ञानेन, तीर्थज्ञानं विना। तीर्थयात्रादिकमित्यादिपदात् स्नानदानादिपरिग्रहः। एदद्वलात् फलकामनां विनापि काम्यफलनिर्वाहो गम्यते। कामनाकृतं त्वधिकफलं भवत
अकामकृतात् कामकृते पुण्येऽप्याधिक्यस्मरणात्। तथाच -
आपस्तम्बः, यः प्रमत्तो हन्ति प्राप्तं देषफलं सहसह्कल्पेन भूयः एवमन्येष्वपि दोषवत्सु कर्मसु तथा पुण्यक्रियाक्विति।
प्रमत्तः, अज्ञः। प्राप्तं देषफलं, हिसाजन्यदोषपलं लभते। तदेव सङ्कल्पेन सह चेत्स्यात् तदा भूयोऽधिकं भवति। अन्येषु, निषिद्धभोजनादिषु। पुण्यक्रियासु, स्नानादिषु। ननु-
तीर्थं प्राप्यानुषङ्गेण स्नानं तीर्थे समाचरन्।
स्नानजं फलमाप्नोति तीर्थयात्रापले न तु॥
इति शङ्खवचनविरोधात् कथमज्ञानात्तीर्थयात्राफलमिति चेत्, न। चत्र प्रयोजनान्तरमात्रमुद्दिश्य गच्छति तत्र यात्राफलाभावस्य शङ्खेन बोधनात्। यत्र तीर्थमेव तत्त्वेनाज्ञात्वा सामान्यजलबुद्ध्योद्दिश्य गच्छति तत्राज्ञानतस्तीर्थयात्राफलस्य पूर्ववाक्ये बोधनेनाविरोधात्।
भारते,
तथा पुण्यानि तीर्थानि पुण्यान्यायतनानि च।
उपास्य पुण्यं लब्ध्वा च भवत्यमरलोकभाक्॥
अत्र च “न ते शक्या दरिद्रेण” इत्यादिवचनजातेन धनानपेक्षाणां तीर्थानां यागाद्यपेक्षयाऽतिशय उक्तः। न च जपोपवासादेरपि धननिरपेक्षतया कथमन्यापेक्षयाऽतिशयः तीर्थानामेवेतिवाच्यम्। उपवासस्य कायक्लेशसाध्यतया ततोऽपि तीर्थस्यातिशयात्। उपवासासहिष्णूनां तत्रसामथ्र्याच्च। किञ्च-
संवत्सरशतं साग्रं निराहारस्य यत्फलम्।
प्रयोगे माधमासेऽस्य त्र्यहस्नातस्य तत्फलम्॥
इत्यादितीर्थफलमुक्तम्। न चैतावानुपवासराशिः कर्तुञ्च शक्यो विशेषतः कलियुगे। तस्माद्बहुवित्तव्ययायासनिरपेक्षतया तीर्थसेवा धर्मान्तरेभ्यो विशिष्यते।
अथ तीर्थकीर्तनादिमाहात्म्यम्.
भारते,
कीर्तनाच्चैव तीर्थस्य स्नानाच्च पितृतर्पणात्।
धुन्वन्ति पापं तीर्थे ये ते प्रयान्ति सुखं परम्॥
कौम्र्ये, तीर्थानि प्रकृत्य।
यत्र स्नानां जपो होमः श्राद्धदानादिकं कृतम्।
एकैकशो मुनिश्रेष्ठाः पुनात्यासप्तमं कुलम्॥
भारते धौम्यतीर्थयात्रायाम्,
दिशस्तीर्थानि शैलांश्च शृणु मे गदतो नृप।
यान् श्रृत्वा गदतो राजन् विशोको भवितासि ह॥
द्रौपद्या चानया साद्र्धं भ्रातृभिश्च नरेश्वर।
श्रवणाच्चैव तेषां त्वं पुण्यमाप्स्यसि पाण्डव॥
गत्वा शतगुणं चैव तेभ्य एव नरोत्तम।
ब्राहृपुराणे,
वाराणस्यां महातीर्थे नरः स्नात्वा विमुच्यते।
एवं प्रयागमधिकृत्य-
दर्शनात्तस्य तीर्थस्य नामसङ्कीत्र्तनादपि।
मृत्तिकालभनाद्वापि नरः पापात्प्रमुच्यते॥
गङ्गामदिकृत्य-
गङ्गागङ्गेति यैर्नाम योजनानां शतैरपि।
स्थितैरुच्चारितं हन्ति पापं जन्मत्रयाÐज्जतम्॥
अत्र तेषामित्यध्याहाय्र्यम्। एवं “सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्मदम्” इत्यादि तत्र तत्र स्पष्टीभविष्यति।
भारते,
यान्यगम्यानि तीर्थानि दुर्गाणि विषमाणि च।
मनसा तानि गच्छेत सर्वतीर्थसमीहया॥
एवम् -
मनसाऽप्यभिकामस्य पुष्कराणि तपस्विनः।
पापानि विप्रणस्यन्ति नाकपृष्ठे च पूज्यते॥ इति ।
अथ तीर्थविभागः
ब्राहृपुराणे,
नारद उवाच
कियन्ति तानि तार्थानि किम्फलानि सुरेखर।
सर्वेषामेव तीर्थानां सर्वदा किं विशिष्यते॥
ब्राहृोवाच।
चतुर्विधानि तीर्थानि स्वर्गे मत्त्र्ये रसातले।
दैवानि मुनिशार्दूल आसुराम्यार्षकाणि च॥
मानुषाणि च लोकेषु विख्यातानि सुरादिभिः।
ब्राहृविष्णुशिवैर्देवैर्निर्मितं दैवमुच्यते॥
त्रिभ्यो यदेकं जायेत तस्मान्नातः परं विदुः। इति।
एवं च वाराणसीप्रभासपुष्करादीनि दैवानि।
रेवाखण्डे,
ब्रााहृी सरस्वती मत्र्तीर्गङ्गा मूर्त्तिस्तु वैष्णवी।
नर्मदा शाङ्करी मूर्त्तिस्तिस्तो नद्यस्त्रिदैवताः॥
ब्राहृपुराणे,
गोदावरी भीमरथी तुङ्गभद्रा च वेणिका।
तापी पयोष्णी विन्ध्यस्य दक्षिणे तु प्रकीर्त्तिताः॥
भागीरथी नर्मदा च यमुना च सरस्वती।
विशोका च वितस्ता च हिमवत्पर्वताश्रिताः॥
एता नद्यः पुण्यतमा देवतीर्थान्युदाह्मताः॥
तथा,
केनापि न कृतं यत्र देवशातमिति स्मृतम्। इति।