विस्तारः (द्रष्टुं नोद्यम्)
Mitramisra: Viramitrodaya, Samayaprakasa
Based on the ed. by Vishnu Prasada Bhandari, Benares 1935
(Chowkhamba Sanskrit Series; 30, XIII)
Input by members of the Sansknet project
http://sansknet.ac.in (now defunct)
STRUCTURE OF REFERENCES (added):
MV-S_nn = Mitramiśra’; Vīramitrodaya-Samayaprakāśa_pagination of CSS ed.
NOTES:
- After p. 265 of the printed edition, the pagination jumps back to “257” - “264”.
- Where page breaks cut through sentences, the pagination has been moved to the daṇḍa that is closest to the page break
BOLD for pagination and subject headings
{म्व्-स्_१}
श्रीगणेशाय नमः ।
अथ वीरमित्रोदयस्य समयप्रकाशः ।
कोपाटोपनटत्सटोद्भटमटद्भ्रूभीषणभ्रूकुटि
भ्राम्यद्भैरवदृष्टि निर्भरनमद्दर्वीकरोर्वीधरम् ।
नीर्वाणारिवपुर्विपाटविकटाभोगत्रुटद्धाटक-
ब्रह्माण्डोरुकटाहकोटि नृहरेरव्यादपूर्वं वपुः ॥ १ ॥
सटाग्रव्यग्रेन्दुस्रवदमृतबिन्दुप्रतिवलन्-
महादैत्यारम्भम्फुरितगुरुसंरम्भरभसः ।
लिहन्नाशाचक्रं हुतवहशिखावद्रसनया
नृसिंहो रंहोभिर्दमयतु मदंहो मदकलम् ॥ २ ॥
संसारध्वंसिकंसप्रमुखसुररिपुप्रांशुवशावतसभ्रंशी वंशीधरो वः प्रचुरयतु चिरं शं स राधारिरंसी ।
यच्चूडारूढगूढास्मतमधुरमुखाम्भोजशोबां दिदृक्षुर्गुञ्जाभिः सानुरागालिकानकटनटच्चन्द्रकव्यक्तचक्षुः ॥ ३ ॥
लीलाभ्रान्तिविसर्पदम्वरतया व्यग्राद्धकान्तं पदन्यासन्यञ्चदुदञ्चदद्रिवसुधाभोगीन्द्रकूर्माधिपम् ।
फूत्कारस्फुरदुत्पतत्फणिकुलं रिङ्गज्जटाताडनध्मातव्योमगभरिदुन्दुभि नटन्नव्यात्स वो धूर्ज्जटिः ॥ ४ ॥
कुम्भोद्भ्रान्तमधुव्रतावलिवलट्झङ्कारकोलाहलैः शुण्डास्फालनविह्वलैः स्तुत इव व्यालैर्वियत्प्लाविभिः ।
मज्जत्कुम्भमहावगाहनकृतारम्भो महाम्भोनिधौ हेरम्बः कुरुतां कृताम्बरकरालम्बश्चिरं वः शिवम् ॥ ५ ॥
समन्तात्पश्यन्ती समसमयमेव त्रिभुवनं
त्रिभिर्न्नैत्रैर्द्देर्भिर्दशभिरपि पान्ती दश दिशः ।
दधाना पारीन्द्रोपरि चरणमेकं परपदा
हतारिर्वो हन्यान्महिषमथनी मोहमहिषम् ॥ ६ ॥
वामान् भिन्दन्नवामान् भुवमनु सुखयन्पूरयन्नर्थिकामान्
श्रीमान् भीमानुकारी बहलबलभरैर्मेदिनीमल्लनामा ।
आसीदासीविषेन्द्रद्युतिधवलयशा भूपचक्रावतसः
सीकाशीराजवंशे विधुरिव जलधौ सर्वभूसार्वभौमः ॥ ७ ॥
{म्व्-स्_२}
सङ्ग्रामग्रामकामो निरुपममहिमा सत्त्वविश्रामधाम
क्रामन्नेवारिचक्रं मिहिर इव तमो विक्रमोरुक्रमेण ।
सारैर्मेरोरुदारैरपर इव गिरिर्मेदिनीमल्लनेन
प्रख्यातः क्षोणिचक्र समजनि नुपातिर्मेदिनीमल्लनामा ॥ ८ ॥
निर्यद्भिस्तर्ज्जयद्भिर्विधुमिव जगतीमर्ज्जुनाभैर्यशोभिः
सम्पूर्यावार्यवीर्यो विशिखवितरणैरर्ज्जुनो दुर्ज्जनानाम् ।
साम्राज्योपार्ज्जर्नश्रीरगणितगुणभूरर्ज्जुनप्रांशुबाहुर्-
नाम्नाभूदर्ज्जुनो ऽस्मान्नरपतिरतुलो मेदिनीमल्लभूपात् ॥ ९ ॥
बुद्धिः शुद्धिमती क्षमा निरुपमा विद्यानवद्या मनो
गाम्भीर्यैकनिकेतनं वितरणे दीनार्तिनिर्दारणम् ।
आसीदर्ज्जुनभूपतेर्विदधेतो विद्रावणे विद्विषां
भूमीनामवनं च कारणगुणात्कार्यं यशो ऽप्यर्ज्जुनम् ॥ १० ॥
तस्मादाविरभूत्प्रभूतमहिमा भूमपितेरर्ज्जुना-
त्सौजन्यैकनिधिर्गुणैरनवधिर्लावण्यवारान्निधिः ।
भिन्दन् दुर्जनमर्ज्जयन् बहुयशः प्रौढप्रतापोदयैर्-
दुर्जेयो मलखाननाम निखिलक्ष्मामण्डलाखण्डलः ॥ ११ ॥
यस्मिन् शासति नीतिभिः क्षितिमिमां निर्वैरमासीज्जगत्पारीन्द्रेण समं करीन्द्ररभसारम्भो ऽपि सम्भावितः ।
श्येनः क्रीडति कौतुकी स्म विहगैश्चिक्रीड नक्रैर्झषः किं वान्यद्गहने ऽभवत्सह मृगैः शार्दूलविक्रीडितम् ॥ १२ ॥
हिमविशदयशो ऽभिशोभिताशो महिमतिरोहितवारिधिप्रभावः ।
समजनि मलखानतः प्रतापैस्त्रिजगति रुद्र इव प्रतापरुद्रः ॥ १३ ॥
शुचि धनमर्थिन्नि सहसा यशसा सममानने गुणो जगतः ।
पुत्रे भूरभिदध्रे चेतो रुद्रे प्रतापरुद्रेण ॥ १४ ॥
जातः प्रतापरुद्रात्ससमुद्रां पालयन्नवनीम् ।
कृतरिपुकाननदाहो मधुकरसाहौ महीपतिः शुशुभे ॥ १५ ॥
पृथुः पुण्याभोगैर्विहितहितयोगैरनुदयत्खलायोगैर्योगैः कृतसुकतियोगैरपि गुरुः ।
भुजस्तम्भालम्बासशयितविश्वम्भरतया बभौ प्रौढोत्साहः स मधुकरसाहः क्षितिपतिः ॥ १६ ॥
प्रजागणरुजापहो द्युतिमहोदयाविष्कृतः
सुधांशुरिव मांसलो रसभरैः सभारञ्जनः ।
{म्व्-स्_३}
प्रदीप्तकुमुदावलिर्द्विजपतिश्च नक्षत्रपो
नृपो जयति सत्कृपो मधुकरः कृतारित्रपः ॥ १७ ॥
विन्यस्य वीरसिंहे भूपतिसिंहे महीभारम् ।
ज्ञानानलमलदाहो मधुकरसाहो दिवं भेजे ॥ १८ ॥
अन्तर्गम्भीरतान्धूकृतरिपुनिवहो नृत्यसङ्गीतरङ्गी ।
सन्मातङ्गी तुरङ्गी धरणिपतिरभूद्वीरसिंहो नृसिंहः ॥ १९ ॥
अमुष्य प्रस्थाने सति सपदि नानेभनिवहैरिहैको ऽपि द्वेषी न खलु रणशेषी समजनि ।
परं तस्थौ दुःस्थो गहनकुहरस्थो ऽपि भयतः क्षिपन्नुच्चैर्दिक्षु भ्रमितचकितं चक्षुरभितः ॥ २० ॥
दानं कल्पमहीरुहोपरि यशः क्षीरोदनीरोपरि प्रज्ञा शक्रपुरोहितोपरि महासारो ऽपि मेरूपरि ।
दावाग्नेरुपरि प्रतापगरिमा कामोपरि श्रीरभृत्सिंहातिक्रमवीरसिंहनृपतेः किं किं न कस्योपरि ॥ २१ ॥
दानैरर्थिनमर्थनाविरहिणं प्रत्यर्थिनं च क्षणात्कुर्वाणे सति वीरसिंहनिखिलक्ष्मामण्डलाखण्डले ।
कामं चेतसि कामधेनुरतनोत्कल्पद्रुमः कल्पितं मोघीभूतजनिः समाश्रितखनिश्चिन्तां च चिन्तामणिः ॥ २२ ॥
भ्रामम्भ्राममसम्भ्रमं त्रिजगतीवक्राणि चक्रे चिराच्चारं शीलितविष्णुपादपदवीब्रह्माण्डभाण्डोपरि ।
ब्रह्माण्डं निजमण्डमण्डलमिवाच्छाद्यैव सैवाधुना विश्वेषामपि यस्य भास्वरयशोहंसी वतंसीयति ॥ २३ ॥
जलकणिकामिव जलधिं कणमिव कनकाचलं मनुते ।
नृपसिंहवीरसिंहो वितरणरंहो यदा तनुते ॥ २४ ॥
यदा भवति कुण्डलीकृतमहाधनुर्मण्डलस्तदा नयनताण्डवत्रुजितखाण्डवः पाण्डवः ।
मनोवितरणोत्सुकं वहति वीरसिंहो यदा तदा पुनरुदारधीरयमवर्णि कर्णो जनैः ॥ २५ ॥
शौर्यौदार्यगभीरताधृतिदयादानादिनानागुणानुर्वीदुर्वहभारवत्यहिपतिस्पर्द्धालदोःशालिनि ।
{म्व्-स्_४}
संयोज्यैव जुहारसिंहधरणीधौरेयचूडामणौ मज्जन् ब्रह्मणि वीरसिंहसुकृती तस्थौ स्वयं निर्गुणः ॥ २६ ॥
नद्यः स्वादुजला द्रुमाश्च सुफला भूरुर्वरा भूसुरा वेदध्वानविधूयमानदुरिता लोका विशोका बभुः ।
राजन्नीतिनिरीतिरीति पितरीवोर्वीमिमां शासति श्रीद्धीरजुहारसिंहनृपतौ भ्रूभङ्गभग्नद्विषि ॥ २७ ॥
सङ्गरामोत्कटताण्डवोद्भटभटैरारब्धहेलाहठैश्चण्डाडम्बरपूरिताम्बरतटक्षीराब्धिगोध्रावटैः ।
भूभृत्सिंहजुहारसिंहधरणीजानेः प्रयाणे रणे शौर्यौदार्यधनो ऽपि को नु धरणीचक्रे न चक्रे भयम् ॥ २८ ॥
तावद्वीरगभीरहुङ्कृतिरवस्तावद्गजाडम्बरस्तावत्तुङ्गतुरङ्गरिङ्गणचमत्कारश्चमूनामपि ।
तावत्तोयमहामहीभृदटवीदुर्गग्रहो विद्विषां यावन्नैव जुहारसिंहनृपतिर्युद्धाय बद्धोत्सवः ॥ २९ ॥
अयं यदि महामना वितरणाय धत्ते धियं भियं कनकभूधरो ऽञ्चति हियं च कर्णो ऽटति ।
दधीचिरपचीयते बलिरलीकरूपायते तदातिमलिनायते स किल कल्पभूमीरुहः ॥ ३० ॥
प्रासादागतडागनागमणिभूदानादिनानातपःप्रागल्भ्येन महेन्द्रचन्द्रवरुणब्रह्मेशविष्णुस्थली ।
प्राचण्ड्यन जिता मिता वसुमती कोदण्डदोर्हण्डयोर् जागर्त्तीति जुहारसिंहनृपतेः कुत्र प्रतापो न वा ॥ ३१ ॥
ब्रह्माभूच्चतुराननः स्मरहरः पञ्चानन षण्मुखः स्कन्दो भूपजुहारसिंहयशसो गानोत्सवे ऽत्युत्सुकः ।
तस्याभोगमुदीक्ष्य भूधरनभोनद्यस्त्रिलोकी दिशः सप्तद्वीपमयी मही च विधिना विज्ञेन निर्वाहिताः ॥ ३२ ॥
तुङ्गत्वादनवाप्य दैवततरोः पुष्पाणि सर्वाः समं
श्रीमद्वीरजुहारसिंहनृपतेर्द्दानं समानं जगुः ।
व्रीडादुर्वहभारनिर्भरनमद्ग्रीवे तु देवद्रुमे
श्लाघन्ते सुलभायमानकुसु प्रास्तं भूरि देवस्त्रियः ॥ ३३ ॥
भीमो यः सहदेव एव पृतनादुर्धर्षपार्स्वा लसन्
श्रीभूमनिकुलः सदाजुनमहाख्यातिः क्षमामण्डले ।
{म्व्-स्_५}
कर्णश्रीः कृतवर्मभीष्मघटनाशौटीर्यदुर्योधनो
रोषादेष युधिस्थिरो यदि भवेत्कः स्यादमुष्याग्रतः ॥ ३४ ॥
सत्कीर्तिग्रामदामाभरणभृतजगद्विक्रमादित्यनामा
धाम्नो भूम्ना महिम्ना विघटितरिपुणा विक्रमोपक्रमेण ।
सुप्रांशुः पीवरांसः पृथुभुजपरिघस्तस्य वंशावतंसो
विश्वोदञ्चत्प्रशंसो गुणिगणहदयानन्दनो नन्दनो ऽभूत् ॥ ३५ ॥
आशापूर्त्तिप्रकुर्वन् करवितरणतः पद्मिनीप्राणबन्धुः
प्रोद्यद्दिव्याम्बरश्रीः स्फुटमहिमरुचिः सर्वदाध्वस्तदोषः ।
जम्भारातेरिहोच्चैरचलसमुदयात्सुप्रभातप्रकाशी
पुत्रो राज्ञः पवित्रो रचयति सुदिनं विक्रमादित्य एव ॥ ३६ ॥
सार्थाकुर्वन्निरर्थीकृतसुरविटपी चार्थिसार्थं निजार्थैर्
व्यर्थीभूतारिपृथ्वीपतिरमरगुरुस्पर्द्धिवर्द्धिष्णुबुद्धिः ।
मानैर्यानादिदानैर्बहुविधगुणिभिर्गीयते यः सभायां
भ्रातर्जातः स भूयः सुकविकुलमुदे विक्रमादित्य एव ॥ ३७ ॥
दानं दीनमनोरथावधि रणारम्भो ऽरिनाशावधि
क्रोधो वागवधि प्रतापयशसोः पन्था दिगन्तावधि ।
दाक्षिण्यं क्षितिरक्षणावधि हरौ भक्तिश्च जीवावधि
व्यालुप्तावधि वीरविक्रमरवेः श्रेयः परं वर्द्धते ॥ ३८ ॥
हेमाद्रेः श्रियमन्यथैव कुरुते चक्रे च गौरीं तनुं कैलाशोपरि शोभते पटयति स्पष्टं च दिङ्मण्डलम् ।
भोगीन्द्रं न दधे श्रुतौ बल जटागूढां च गङ्गां व्यधाल्लोकानामयमीश्वरो ऽस्य यशसस्त्वैश्वर्यमुज्जृम्भते ॥ ३९ ॥
श्रीगोपाचलमौलिमण्डलमणिः श्रीदूरवारान्वये
श्रीहंसोदयहंसपण्डित इति ख्यातो द्विजाधीश्वरः ।
यं लक्ष्मीश्च सरस्वती च विगतद्वन्द्वं चिरं भेजतुर्-
भोक्तारं रभसात्समानमुभयोः सान्नाढयमाढयं गुणैः ॥ ४० ॥
पटु दिक्षु विदिक्षु कुर्वतीनां नटलीलां स्फुटकीर्त्तिनर्त्तकीनाम् ।
स्फुरदध्वरधूमधोरणीह च्युतवेणीति जनैरमानि यस्य ॥ ४१ ॥
ततो ऽनल इवारणेरतुलधामभूर्भूभुजां
शिरोमाणरुरोमणिर्धरणिनामवाभ्रुवः ।
रथी बहुगुणी धनी भुवि वनीपकश्रीखनी
रमारमणमिश्रणी परशुराममिश्रो ऽजनि ॥ ४२ ॥
{म्व्-स्_६}
येनागत्व पुरा पुरारिनगरे विद्यानवद्यार्जिता
श्रीचण्डीश्वरमग्निहोत्रितिलकं लब्ध्वा गरीयोगुरुम् ।
शुद्धा सैव महोद्यमेन बहुधा भान्ती भवन्ती स्थिरा
तद्वंस्येषु कियन्न कल्पलतिकेवाद्यापि सूते फलम् ॥ ४३ ॥
आस्यारविन्दमनुपास्य गुरोरपास्य
लास्यं चतुर्मुखमुखेषु सहस्वतीह ।
सालङ्कृतिश्च सरसा च गुणान्विता च
यस्यातनोति रसनोपरि ताण्डवानि ॥ ४४ ॥
अङ्के लोमलतेव सीमनि दृशोरेकेव रेखाञ्चनी
कस्तूरीमकरीव भालफलके धारेव मूर्ध्न्यालकी ।
ऊर्द्ध्वं भृङ्गपरम्परेव कबरी सौरभ्यलोभाकुला
यस्यैवाध्वरधूमधोरणिरभूदाशाकुरङ्गीदृशः ॥ ४५ ॥
सुभासुरयशोनिधेः सुनिरवद्यविद्यानिधेः सुचारुकवितानिधेः स्मृतिनिधेः श्रुतिश्रीनिधेः ।
अयं सुकृतगौरवात्परशुराममिश्राङ्गणैर् अनूनगरिमा पितुर्जगति मित्रमिश्रो ऽजनि ॥ ४६ ॥
धर्मार्थैकनिकेतनं विधिमयं कर्मावनीदर्शनं
स्मृत्यम्भोजमहोदयं श्रुतिमयं श्रीवीरमित्रोदयम् ।
द्राक्सिद्धीकृतकार्यसिद्धिशतया श्रीवीरसिंहाज्ञया
तेने विश्वमुदे पुरे पुरभिदः श्रीमित्रमिश्रः कृती ॥ ४७ ॥
हारीतगोभिलपराशरनारदादिमुन्युक्तमर्थमखिलं हृदये ऽवधार्य ।
श्रीवीरसिंहनृपदेशितमित्रमिश्रो विद्वन्मणिः प्रकुरुते समयप्रकाशम् ॥ ४८ ॥
तत्र कालप्रकाशे तु क्रमो ऽयमभिधीयते ।
नित्यकालस्वरूपं प्राव्कालोपाधिरथोदितः ॥
सम्वत्सरायनर्तूनां क्रमेणाथ विनिर्णयः ।
मासपक्षतिथीनां च क्रमेणाथ निरूपणम् ॥
सामान्यतस्तिथीनां च ग्राह्याग्राह्यविवेचनम् ।
प्रतिपन्निर्णयात्पस्चात् द्वितीयाया विनिर्णयः ॥
तृतीयानिर्णयस्यान्ते चतुर्थीनिर्णयः स्मृतः ।
पञ्चमीनिर्णयात्पश्चात्षष्ठीनिर्णय ईरितः ॥
सप्तमीनिर्णयस्यान्ते ऽष्टमीसामान्यनिर्णयः ।
कृष्णजस्माष्टमी पश्चाद्विस्तरेण निरूपिता ॥
नवमीनिर्णयो रामनवम्याश्चाथ निर्णयः ।
{म्व्-स्_७}
महानवम्यास्तदनु निर्णयः समुदीरितः ॥
दशमीनिर्णयः पश्चादेकादश्या विनिर्णयः ।
द्वादशीनिर्णयस्यान्ते त्रयोदश्या विनिस्चयः ॥
सामान्यतश्चतुर्दश्या निर्णयो ऽथ प्रकीर्त्तितः ।
नरसिंहचतुर्दश्या निर्णयो ऽत्र प्रकीर्त्तितः ॥
अथात्रैव प्रसङ्गेन जयन्तीनां विनिश्चयः ।
ज्येष्ठकार्तिकमाघेषु चतुर्दश्र्या विनिर्णयः ॥
शिवरात्रिः पारणा च तत्राथ परिकीर्तिता ।
अथ पञ्चदशीकृत्ये श्रावणीकृत्यनिर्णयः ।
उषाकर्म प्रसङ्गेन उत्सर्गसमयास्त्रिधा ॥
कार्त्तिके पञ्चदश्यास्तु निर्णयस्तदनन्तरम् ।
होलिकानिर्णयः पर्वनिर्णयस्तदनन्तरम् ॥
ग्रहणेचैकभक्ते च नक्ते कालस्य निर्णयः ।
नक्तैकभक्तथोः प्राप्तौ निर्णयस्तदनन्तरम् ॥
अयाचितस्य नक्षत्रोपवासस्याथ निश्चयः ।
सङ्क्रान्तिनिर्णयात्पश्चान्मलमासो निरूपितः ॥
मलमासे ऽथ कृत्यानामकृत्यानां च निर्णयः ।
गुरुशुक्रादिबाल्यादौ कार्याकार्यविवेचनम् ॥
श्राद्धकालेष्वमावास्या अष्टकान्वष्टका तथा ।
अष्टकापूर्वदिवसो वृद्धिः पक्षो ऽसितस्ततः ॥
आश्वयुक्कृष्णपक्षश्च तत्रैव भरणी तथा ।
त्रयोदशीचतुर्दश्यौ क्रमेणेह निरूपिते ॥
प्रकीर्णकश्राद्धकालाः काम्यश्राद्धदिनं ततः ।
युगाद्याश्च युगान्ताश्च ततो मन्वन्तरादयः ॥
कल्पाद्या व्यतिपातश्च वैधृतिश्चावमं दिनम् ।
नवान्नश्राद्धकालश्च नवश्राद्धदिनं ततः ।
प्रेतपिण्डस्य कालश्च तदन्ते परिकीर्त्तितः
पाथेयश्राद्धकालश्च प्रायणोत्तरमीरितः ॥
अस्थिसञ्चंयने कालो दाने प्रेतोदकस्य च
दशादमध्ये दर्शस्य पाते प्रेतक्रिया ततः ॥
षोडशश्राद्धकालाश्च तदनन्तरमीरिताः ।
तिथिद्वैये पार्वणादिश्राद्धनिर्णय ईरितः ॥
{म्व्-स्_८}
लक्षणं चापराह्णादेः कुतपस्य निरूपणम् ।
श्राद्धवेलापिण्डदाननिषिद्धसमयास्ततः ॥
प्रकीर्णकालाः प्रतिपदाद्या पुण्यतिथिस्ततः ।
नक्षत्रवारादिवशात्पुण्याश्च तिथयस्ततः ॥
अतः परं निशायां तु कृत्याकृत्यविवेचनम् ।
चतुष्पथस्य सेवाया निषेधस्तदनन्तरम् ॥
वर्ज्जनीयानि चोक्तानि तिथिकाल्विशेषयोः ।
पर्वकृत्यं युगधर्मा युगवर्ज्वानि चाप्यथ ॥
कलिधर्माः कलिवर्ज्यान्यथोक्तानि विशेषतः ।
दीक्षाकालस्ततस्तस्यापवादः परिकीर्त्तितः ॥
नामकी त्तनकालश्चाधानकालास्ततः परम् ।
पशोः कालस्ततः कालश्चातुर्मास्येष्टिसामयोः ॥
एवमत्र विशेषेण मित्रमिश्रेण सूरिणा ।
स्मृतीः सर्वाः समालोक्य समयो ऽत्र निरूपितः ॥
तत्र तावत्कालसद्भावे प्रमाणानि श्रुत्यादीनि ।
तथाहि ।
तस्मात्काल एव दद्यात्काले न दद्यादिति ऋग्वेदश्रुतिः ।
अत्र काल इत्यत्र यथाक्रमं विहिते प्रतिषिद्धे इत्यध्याहारः ।
“तं काले काल आगते यजत"इति यजुः ।
तथा, “सम्वत्सरमासादिकाल आगते ऽविजायत"इति च ।
“अहमेव कालो नाहं कालस्य"इति च ।
“काच सन्ध्या कश्चसन्ध्यायाः काल"इति सामवेदः ।
“कालं काल विभक्तिं च"इति मनुस्मृतिः ।
“श्राद्धकालाः प्रकीर्त्तता"इति याज्ञवल्क्यः ।
तथा धारणाध्यानसमाधित्रयरूपात्संयमविशेषाद्योगिनो ऽतीतादिकालं प्रत्यक्षतः पश्र्यन्तीति योगशास्त्रे प्रत्यक्षमपि मानमुक्तम् ।
सुखमहमस्वाप्सं न किञ्चिदवेदिषमिति सुप्तोत्थितस्मरणान्यथानु पपत्तिकल्पितं साक्षिप्रत्यक्षमपि प्रमाणमित्यौपनिषदाः ।
सर्वेन्द्रियवेद्य इति जैमिनीयाः ।
अनादिरेष भगवान् कालो ऽनन्तो ऽजरः परः ।
इति पुराणमपि मानम् ।
तस्मादस्ति कालः ।
स द्विविधः अखण्डः सखण्डश्च ।
आद्य ईश्वराद्भिन्न इति तार्किकाः ।
अभिन्न इति वेदान्तिनो नवी-नतार्किकाश्च ।
ईश्वारभेदे–
श्रुतिः, स विश्वकृद्विश्वविदात्मयोनिर्ज्ञः कालकालो गुणी सर्वविद्यः ।
प्रधानक्षेत्रज्ञपातेर्गुणेशः सेसारमोहस्थितिबन्धहेतुः ॥
इति ।
कालकालः = जन्यस्य सम्वत्सरादिरूपस्य कालस्याकलनात् ।
{म्व्-स्_९}
विष्णुधर्मोत्तरे ऽपि–
अनादिनिधनः कालो रुद्रः सङ्कर्षणः स्मृतः ।
कलनात्सर्वभूतानां स कालः परिकीर्त्तितः ॥
कर्षणात्सर्वभूतानां स तु सङ्कर्षणः स्मृतः ।
सर्वभूतशमित्वाच्च स तु रुद्रः प्रकीर्त्तितः ॥
अनादिनिधनत्वेन स महान्परमेश्वरः ।
इति ।
[संवत्सरनिर्णय]
एतेन परत्वापरत्वाभ्यामनुमाने आकाशादौ विनिगमकाभावादतिरिक्तकालसिद्धिरित्यपास्तं श्रुतेरेव विनिगमकत्वात् ।
एतच्च यथातथास्तु ।
नास्य कालस्यादृष्टार्थस्मरणादन्यः कर्मण्युपयोग इति न निरूप्यते ।
संवत्सरादिरूपस्तु सूर्यादिगत्यवच्छिन्नः कर्मणि"पोर्णमास्यां पौर्णमास्या यजेत्” “देशे काल उपायेन"इत्यादिश्रुतिस्मृतिभिरधिकरणत्वेन विनियुक्तत्वाद्विचार्यते ।
सूर्यादिगतिपरिच्छेद्यत्वं चोक्तम्–विष्णुधर्मोत्तरे तस्य सूक्ष्मातिसूक्ष्मस्य तथातिमहतो द्विजाः! ।
मानसङ्ख्या बुधैर्ज्ञेया ग्रहगत्यनुसारतः ॥
इति ।
प्रत्यक्षोपलभ्यमाननिमेषादिक्रियापरिच्छेदश्च तत्रैव–
लब्वक्षरसमा मात्रा निमेषः परिकीर्त्तितः ।
अतः सूक्ष्मतरः कालो नोपलभ्यो भृगूत्तम! ॥
नोपलभ्यं यथा द्रव्यं सुसूक्ष्मं परमाणुतः ।
द्वौ निमेषौ त्रुटिर्ज्ञेया प्राणो दश त्रुटिः स्मृतः ॥
विनाडिका तु षट् प्राणास्तत्षष्टया नाडिका स्मृता ।
अहोरात्रं तु तत्शटया नित्यमेव प्रकीर्त्तितम् ॥
त्रिंशन्मुहूर्तास्च तथा अहोरात्रेण कीर्त्तिताः ।
तत्र पञ्चदश प्रोक्ता राम! नित्यं दिवाचराः ॥
तथा पञ्चदश प्रोक्ता राम! नित्यं निशाचराः ।
उत्तरां तु यदा काष्ठां क्रमादाक्रमते रविः ॥
तथा तथा भवेद्वृद्धिर्दिवसस्य महाभुज! ।
दिवसश्च यथा राम! वृद्धिं समधिगच्छति ॥
तदाश्रितमुहूर्तानां तथा वृद्धिः प्रकीर्त्तिता ।
इत्यादि ।
तत्र श्रुतौ निमेषादिकालानां संवत्सरावयवत्वेनोक्तत्वादवयविरूपः संवत्सरः प्रधानत्वाद्विचार्यते ।
संवत्सरो नाम सम्यग्वसन्त्ययनर्तुमासपक्षतिथ्यादयो ऽस्मिन्निति व्युत्पत्त्या"द्वादश
मासाः संवत्सर"इतिश्रुतेश्च द्वादशमासात्मकः कालविशेषः ।
स पञ्चविधः ।
{म्व्-स्_१०}
सौरबार्हस्पत्यसावनचान्द्रनाक्षत्रभेदात् ।
तथा च ज्योतिःशास्त्रे–
सौरबृहस्पतिसावनशशधरनाक्षत्रिकाः क्रमेण स्युः ।
मातुलपातालातुलविमलवराङ्गानि वत्सराः क्रमशः ॥
इति ।
अस्यार्थः ।
गणकप्रसिद्ध्या कटपया वर्गाः ।
शुद्धस्वरः शून्यार्थः ।
तत्र वर्गाक्षरसह्खययाङ्कसङ्ग्रहः ।
तेन मातुलेत्यत्र पवर्गात्पञ्चमेन मकारेण पञ्चसङ्ख्या लभ्यते टबर्गषष्ठेन तकारेण षट्सङ्खया ।
यवर्गतृतीयेन लकारेण त्रित्वसङ्खया ।
एवं चाङ्कानां वामतो गतिरिति प्रकारेण मेलने सावनदिनानां पञ्चषष्टयधिकशतत्रयं सौरसंवत्सरो भवति ।
एवं पातालशब्द एकषष्टयधिकशतत्रयसङ्ख्यामाचष्टे ।
तावत्सूर्योदयपरिमितो बहिस्पत्यः संवत्सरः ।
एवमतुलशब्दः षष्ठ्यधिकशतत्रयसङ्खयामाह ।
तावत्सूर्योदयपरिमितस्सावनः सवत्सरः ।
एवे विमलशब्दः चतुष्पञ्चाशदधिकशतत्रयसङ्ख्यामाचष्टे ।
तावत्सूर्योदयपरिमितश्चान्द्रः ।
एव वराङ्गशब्दश्चतुर्विंशत्यधिकशतत्रयसङ्ख्यामाह तावत्सूर्योदयपरिमितो नाक्षत्रः संवत्सर इति ।
नन्वधिकमासवान्संवत्सरः कथं द्वादशमासात्मको ऽधिमासस्य त्रयोदशत्वादिति चेत्, न ।
“षष्टया तु दिवसैर्मासः कथितो बादरायणैः ।
इतिवचनात् षष्टिदिवसात्मकस्यैकमासत्वेन द्वादशसङ्ख्यानपायात् ।
“अस्ति त्रयोदशो मास"इति श्रुतिस्तु त्रयोदशदर्शान्तत्वेनेत्यदोषः ।
ये तु प्रभवादिषष्टिसंवत्सराः ते बार्हस्पत्यस्यैव भेदाः ।
माघशुक्लं समारभ्य चन्द्राकारै वासवर्क्षगौ ।
जीवयुक्तौ यदा स्यातां षष्ट्यब्दादिस्तदा स्मृतः ॥
इति विष्णुधर्मोक्तेः ।
ते च–
प्रभवो विभवः शुक्लः प्रमोदो ऽथ प्रजापतिः ।
अङ्गिराः श्रीमुखो भावो युवा धातेश्वरस्तथा ॥
बहुधान्यः प्रमाथी च विक्रमो ऽथ वृषस्तथा ।
चित्रभानुः सुभानुश्च तारणः पार्थिवो व्ययः ॥
सर्वजित्सर्वधारी च विरोधी विकृतिः खरः ।
नन्दनो विजयश्चैव जयो मन्मथदुर्मुखौ ॥
हेमलम्बो विलम्बश्च विकारी शार्वरी प्लवः ।
शुभकृच्छोभनः क्रोधी विश्वावसुपराभवौ ॥
प्लवङ्गः कीलकः सौम्यः साधारणविरोधकृत् ।
परिधावी प्रमादी च आनन्दो राक्षसो ऽनलः ॥
पिङ्गलः कालयुक्तश्च सिद्धार्थो रौद्रदुर्मती ।
{म्व्-स्_११}
दुन्दुभी रूधिरोद्गारी रक्ताक्षी क्रोधनः क्षयः ॥
इति ।
एते प्रभवादयश्चान्द्रा अपीति माधवः ।
मीनादिस्थे मेषादिस्थे वा सूर्ये सौरसंवत्सरारम्भः ।
बृहस्पतिमध्यमराशिभोगेन बार्हस्पत्यारम्भः ।
यत्किञ्चिद्दिवसमारभ्य यत्किञ्चिथिमारभ्य वा चान्द्रारम्भः ।
यत्किञ्चिन्नक्षत्रादिमारभ्य सावनारम्भः ।
अथैषां विनियोगः ।
तत्र चान्द्रस्य तिलकव्रताब्दिकश्राद्धादावुपयोगः ।
तिलकव्रतमुक्तम्–
भविष्यपुराणे:
वसन्ते किंशुकाशोकशोभिते प्रतिपत्तिथिः ।
शुक्ला तस्यां प्रकुर्वीत स्नानं नियममास्थितः ॥
ललाटपट्टे तिलकं कुर्याच्चन्दनपङ्कजम् ।
ततः प्रभृत्यनुदिनं तिलकालङ्कृतं मुखम् ॥
विधार्यं वत्सरं यावच्छशिनेव नभस्तलम् ।
इति ।
अत्र प्रतिपत्तिथावुपक्रमविधानादस्य व्रतस्य चान्द्रसंवत्सरसाध्यत्वावगतिः ।
आब्दिके तु ब्रह्मसिद्धान्ते–
प्रतिसंवत्सरश्राद्धे मासश्चान्द्रमसः स्मृतः ।
इति ।
सुजन्मादिव्रते सौरः ।
विष्णुधर्मोत्तरे–
भगवन्कर्मणा केन तिर्यग्योनौ न जायते ।
इत्युपक्रम्य–
मेषसङ्गक्रमणे भानोः सोपवासो नरोत्तमः ॥
इत्यादिना व्रतस्वरूपमभिधाय–
व्रतं चरन् वत्सरमेतदिष्टं म्लेच्छेषु तिर्यक्षु न चापि जन्म ।
इत्युपसंहारात् ।
एवं यत्र सङ्क्रान्तिपुरस्कारेण कर्माण्युक्त्वा"संवत्सरं प्रकुर्वीत"इत्युक्तिस्तत्र संवत्सरः सौरो ग्राह्यः ।
“ब्रह्महा द्वादशाब्दं चरेत्"इत्यादिप्रायश्चित्तादौ सावनः ।
आयुर्दायविभागश्च प्रायश्चित्तक्रिया तथा ।
सावनेनैव कर्तव्या शत्रूणां चाप्युपासना ॥
इतिज्योतिर्गर्गोक्तेः ।
बार्हस्पत्यस्य तु यवदानादौ–
संवत्सरे तु दादॄणां तिलदानं महाफलम् ।
परिपूर्वे तथा दानं यवानां द्विजसत्तम! ॥
इदापूर्वे च वस्राणां धान्यानां चानुपूर्वके ।
इत्पूर्वे रजतस्यापि दानं प्रोक्तं महाफलम् ॥
इति विष्णुधर्मोक्तेः ।
अत्र सम्परीत्यादि वत्सरशब्दस्यादिः ।
{म्व्-स्_१२}
तेन संवत्सरपरिवत्सरेत्यादिपञ्चनामका वत्सरा उक्ता भवन्ति ।
एतेषां पञ्चकस्य युगमिति सञ्ज्ञा ।
तथा च प्रभवादि प्रकृत्य–
ब्रह्मवैवर्त,–
संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः ।
इदावत्सरस्तृतीयश्चतुर्थश्चानुवत्सरः ॥
इद्वत्सरः पञ्चमस्तु कालस्तु युगसञ्ज्ञकः ।
इति ।
बार्हस्पत्य एव कदाचिल्लुप्तसंवत्सर इत्यभिधीयते ।
तथाच–
वसिष्ठः:
सहजां गतिमासाद्य यद्यतीचारगो गुरुः ।
अवशिष्टं पूर्वराशिं नायास्यत्युपभुक्तये ॥
अन्तर्भाव्योपभुक्तांशं वक्रानन्तरितं तदा ।
मासैर्द्वादशभिर्लुप्तसंवत्सर इतीरितः ॥
सहजां = वक्रातीचारभिन्नाम् ।
तथाचायमर्थः ।
यद्यतीचारगो गुरुः पूर्वराश्यवशिष्टांशानां भोगार्थं स्वाभाविकगतिमास्थितः पुनस्तं राशिं नैति तदोपभुक्तांशमतिचारभुक्तांशम् अन्तर्भांव्यारभ्य तद्दिनप्रभृतीतियावत् द्वादशमासं लुप्तसंवत्सरो भवतीत्यर्थः ।
अस्य क्वचिदपवादः ।
मेषे झषे वृषे कुम्भे यद्यतीचारगो गुरुः ।
न तत्र काललोपः स्यादित्याह भगवान्यमः ॥
इति ।
पराशरः–
मासान् दशैका दश वा प्रभुज्य राशेर्यदा राशिमुपैति जीवः ।
भुह्क्ते न पूर्वं न पुनस्तथापि न लुप्तसंवत्सरमाहुरार्याः ॥
लुप्तसंवत्सरे कर्मनिषेधो राजमार्तण्डे,
अतीचारगतो जीवस्तं राशिं नैति चेत्पुनः ।
लुप्तसंवत्सरो झेयः सर्वकर्मसु गर्हितः ॥
इति ।
अस्यापवादमाह–
व्यासः:
यदातिचारं सुरराजमन्त्री करोति गोवृश्विचमीनसंस्थः ।
नायात्यसौयद्यपिपूर्वराशिं शुभाय पाणिग्रहणं वदन्ति ॥
इति संवत्सरनिर्णयः ।
अथायनं निरूप्यते ।
तत्र यद्यप्ययनशब्देन"अयनं वर्त्म मार्गाध्व"इति कोशात् मार्गंसामान्यमुच्यते ।
तथाप्यत्र सौरर्त्तुत्रितयम् अयनमुच्यते ।
“तस्मादादित्यः षण्मासान् दक्षिणेनैति षडुतरेण"इति तैत्तिरीयश्रुतेः ।
{म्व्-स्_१३}
सौरमृतुत्रयमुपक्रम्य विष्णुधर्मोत्तरे ऽपि, ऋतुत्रयं चायनं स्यादिति ।
सिद्धान्तशिरोमणावपि–
कर्किमृगादिषट्के ते चायने दक्षिणसौम्यके स्तः ।
इति ।
अस्यादित्यगतिपुरस्कारेण वि धानात्सौरत्वमेव ।
केचित्तु मार्गशीर् षादिषण्मासा उदगयनं ज्येष्ठादिष्ण्मासा दक्षिणायनमित्याहुस्तत्र मूलं ज्थोतिःशास्रे मृग्यमिति माधवः ।
अनयोश्च सौम्यदक्षिणयोर्विनियोगः उदगयन आपूर्यमाणपक्षे पुण्यनक्षत्रे चौलकर्मोपनयनगोदानविवाहादिरित्यादिः ।
तथा–
मातृभैरववाराहनारसिंहत्रिविक्रमाः ।
महिषासुरहन्त्री च स्थाप्या वै दक्षिणायने ॥
इत्यादिः तत्तत्प्रकरणोदितस्तत्र तत्र बोध्यः ।
सामान्यतश्चोक्तं ज्योतिषरत्नमालायाम्–
गृहप्रवेशत्रिदिवप्रतिष्ठाविवाहचौलव्रतबन्धपूर्वम् ।
सौम्यायने कर्म शुभं विधेयं यद्गर्हितं तत्खलु दक्षिणे तु ॥
इति ।
इत्ययननिर्णयः ।
अथ ऋतुर्निर्णीयते ।
स च मासद्वयात्मकः ।
तथाच तैत्तिरीयश्रुतिः–द्वन्द्वमुपदधाति ।
तस्माद् द्वन्द्वमृतव इति ।
द्वन्द्वः मासद्वयम् ।
मधुश्च माधवश्च वासन्तिकावृतू शुक्रश्च शुचिश्च ग्रैष्मावृतू नभश्च नभस्यश्च वार्षिकावृतू इषश्चोर्जश्च शारदावृतू सहश्च सहस्यश्च हैमन्तिकावृतू तपश्च तपस्यश्च शैशिरावृतू इति श्रुतेः ।
अत्र च ऋतू इति द्विवचनं तद्घटकमासद्वयाभिप्रायेण ।
अत्र च मध्वादिशब्दास्चैत्रादिवाचकाः ।
तथा च–
माधवीये:
चैत्रो मासो मधुः प्रोक्तो वैशाखो माधवो भवेत् ।
ज्येष्ठमासस्तु शुक्रः स्यादाषाढः शुचिरुच्यते ॥
नभोमासः श्रावणः स्यात् नभस्यो भाद्र उच्यते ।
इषश्चाश्वयुजो मासः कार्तिकश्चोर्जसञ्ज्ञकः ॥
सहोमासो मार्गशिरः सहस्यः पौषसञ्ज्ञितः ।
माघमासस्तपः प्रोक्तस्तपस्यः फाल्गुनः स्मृतः ॥
इति ।
एते चर्तवो मधुश्च माधवश्चेतिपूर्वादाहृतश्रुतेः षड्विधाः ।
“षड्वा ऋतव"इति श्रुतेश्च ।
{म्व्-स्_१४}
यत्तु ऐतरेयिब्राह्मणे"द्वादशमासाः पञ्चर्त्तव"इति पञ्चत्वाभिधानं तत्तत्रैव समाहितम्–“हेमन्तशिशिरयोः समासेन"इति ।
समास एकीकरणं तेनेत्यर्थः ।
वसन्तादयो ऽपि प्रत्येकं द्विविधाः सौराश्चान्द्राश्च ।
तत्र चैत्रादीनां चान्द्रत्वेन तद्घटितास्ते चान्द्राः ।
श्रुतिरपि–चन्द्रमाः षड्ढोता स ऋतून् कल्पयतीति ।
बड्वृचश्रुतौ–विश्वान्यन्यो भुवनान्यभिचष्टे ऋतूनन्यो विदधज्जायते पुनरिति ।
अत्राभिचष्ट इत्यतः सञ्चारादिक्रियाजनकत्वेन सूर्योक्तेरन्य इत्यतश्चन्द्र एव ऋतुविधायक उक्तः ।
केचित्तु पुनर्ज्जायते इति लिङ्गादृतुकल्पकत्वं चन्द्रस्येति, तन्न ।
सूर्यस्यापि पुनः पुनर्जायमानत्वस्य श्रुतावुक्तत्वात् ।
ननु यदा मलमासो भवति तदा कथं द्विमासऋतुरितिचेत्, षष्ठ्या तु दिवसैर्मासः कथितो बादरायणैः ।
इति वचनात् षष्टिदिनात्मकस्य मासस्यैकत्वात् ।
सौरस्तु विष्णुधर्मोत्तरे–
सौरं मासद्वयं राम! ऋतुरित्यभिधीयते ।
इति ।
विष्णुपुराणे ऽपि–द्वौ मासावर्कजावृतू इति ।
बौधायनेनापि–“मीनमेषयोर्वा वसन्त"इत्युक्तः ।
यद्यपि बोधायनवाक्येन वसन्तमात्रे सौरत्व मुक्तं तथापि विष्णुधर्मोत्तरवाक्यपर्यालोचनयाग्रे ऽपि बोध्यम् ।
एतेषां विनियोगस्तु श्रुतिस्मृतिपुराणादिषु द्रष्टव्यः ।
तत्र श्रुतिः–वसन्ते ब्राह्मणो ऽग्निमादधीत ग्रीष्मे राजन्य आदधीत शरदि वैश्य आदधीतेत्यादिः ।
तथा वर्षासु रथकार इति ।
आश्वलायनः-हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टका इति ।
विष्णुधर्मोत्तरे ऽपि- वसन्तादिऋतुषु षट्सु षण्मूर्त्तिव्रते पृथक्पूजाविशेषा उक्ताः ।
तत्रैव स्नानानुलेपनादिदानं ग्रीष्मे पानकदानं चोक्तम् ।
देवीपुराणे तु–वर्षासु तिलदानं शरद्यन्नदानम् ।
हेमन्तशिशिरयोर्वस्त्रदानमिति माधवः ।
तथा दिव्यादिव्यवस्था ऋतुविशेषपुरस्कारेणोक्ता तत्र तत्र द्रष्टव्येति ।
इति ऋतुनिर्णयः ।
अथ मासो निर्णीयते ।
स च चान्द्रसौरसावननाक्षत्रभेदेन चतुर्विधः ।
तथाच–
ज्योतिःशास्रे:
प्रथमः सावनो मासो द्वितीयश्चान्द्र उच्यते ।
नाक्षत्रस्तु तृतीयः स्यात्सौरो मासश्चतुर्थकः ॥
इति ।
{म्व्-स्_१५}
एतल्लक्षणानि विष्णुधर्मोत्तरे:
चन्द्रमाः पौर्णमास्यन्ते भास्करादतिरिच्यते ।
राशिषट्कं तदा राम! मासार्धेन न संशयः ॥
भागद्वादशकेनैवं तिथ्यां तिथ्यां क्रमेण तु ।
चन्द्रमाः कृष्णपक्षान्ते सूर्येण सह युज्यते ॥
असन्निकर्षादारभ्यासन्निकर्षमथापरम् ।
चन्द्रार्कयोर्बुधैर्मासश्चान्द्र इत्यभिधीयते ॥
सावने तु तथा मासे त्रिंशत्सूर्योदयाः स्मृताः ।
आदित्यराशिभोगेन सौरो मासः प्रकीर्त्तितः ॥
सर्वर्क्षपरिवर्तैस्तु नाक्षत्रो मास उच्यते ।
इति ।
चान्द्रो द्विविधः कृष्णादिः शुक्लादिश्च ।
तत्र कृष्णादिस्तु उदाहृतविष्णुधर्मोत्तरे दर्शितः ।
शुक्लादिमाह–
हारीतः:
इन्द्राग्नो यत्र हूयेते मासादिः स प्रकीर्तितः ।
अग्नीषोमौ स्मृतौ मध्ये समाप्तौ पितृसोमकौ ॥
इति ।
अत्रेन्द्राग्न्यग्नीषोमपितृसोमशब्दैरमावास्योत्तरप्रतिपत्पौर्णमास्यमावास्या उपलक्ष्यन्ते ।
आद्यायामिन्द्राग्नियागविधानात् पौर्णमास्या मग्नीषोमीयविधानादमावास्यायां पिण्डपितृयज्ञे सोमस्य पितृमतो विधानात् ।
तेन शुक्लादिर्मासः प्रतिपादितो भवति ।
अनयोश्च व्यवस्थोक्ता–
न्निकाण्डमण्डनेन:
चान्द्रो ऽपि शुक्लपक्षादिः कृष्णादिर्वेति च द्विधा ।
कृष्णपक्षादिकं मासं नाङ्गीकुर्वन्ति केचन ॥
ये ऽपीच्छान्ते न तेषामभीष्टो विन्ध्यस्य दक्षिणे ।
इति ।
अत्र विन्ध्यदक्षिणतः कृष्णादिनिषेधादुत्तरतो द्वयोरपि विकल्पः ।
तत्रापि शुक्लादिर्मुख्यः कृष्णादिर्गौणः ।
चैत्रे मासि जगद्ब्रह्मा ससर्ज प्रथमे ऽहनि ।
शुक्लपक्षे यमग्रं तु तदा सूर्योदये सति ॥
प्रवर्तयामास तदा कालस्य गणनामपि ।
ग्रहान्नागानृतून्मासान्वत्सरान्वत्सराधिपान् ॥
इति ब्रह्मपुराणे मासर्त्तुसंवत्सरारम्भोक्तेः ।
नहि कृष्णादिवादिनां संवत्सरो भिद्यते ।
शुक्लादिनैव मलमासोक्तेश्च कृष्णादिना तदसम्भवाच्च ।
{म्व्-स्_१६}
यद्यपि यत्किञ्चित्त्रिंशत्तिथिसमुदायात्मको मासश्चान्द्र एव भवति तिथिघटितत्वात्, तथापि तत्र चैत्रादिव्यवहाराभावान्नासौ तृतीयविधात्वेन क्वचिदभिहितो धर्मशास्त्रे ।
एवं सौरादावपि मासशब्दो गौणः ।
अन्यथानेकशक्तिकल्पनापत्तेः ।
न च विनिगमनाविरहः ।
मस्यन्ते पिरमीयन्ते स्वकला वृद्धिहानितः ।
मास एते स्मृता मासास्त्रिंशत्तिथिसमन्विताः ॥
इति सिद्धान्तशिरोमणिना वृद्धिहानिभ्यां चन्द्रकलापरिगणनस्यैव मासपदप्रव्कत्तिनिमित्तत्वप्रदर्शनात् इति ।
केचित्तु सर्वमासेषु सौरचान्द्रयोरेव सौर एव वा मुख्यो मासशब्द इत्याहुः ।
तदसत् ।
उक्तसिद्धान्तशिरोमणिवचनघिरोधात् ।
चतुर्ष्वपि मासपदप्रयोगस्तु छत्रिन्यायेन द्वादशविधपुत्रेषु पुत्रपदप्रयोगवदविरुद्धः ।
गौणमासानामपि वचनात्तत्र तत्र ग्रहणमविरुद्धम् ।
नास्ति वचनस्यातिभार इति न्यायात् ।
असति विशेषप्रमाणे चान्द्रस्यैव ग्रहणम् ।
एवं चैत्रादिशब्दा अपि चान्द्रस्यैव वाचकाः ।
अनेकार्थत्वस्यान्याय्यत्वात् ।
मासविशेषवचनत्वाच्च ।
“नक्षत्रेण युक्तः कालः” “सास्मिन् पौर्णमासी"इति सञ्ज्ञायामिति पाणिनिप्रदर्शितयोगबलाच्च ।
न चायं योगः सौरमासे ऽपि सम्भवति मीनादिस्थे सवितरि कदाचिच्चित्रादियुक्तपौर्णमासीयोगसम्भवे ऽपि कन्याधनुर्मकरस्थे सवितरि अश्विनीपुष्यमघायुक्तपौर्णमासीनां कदाचिदप्यसम्भवात् ।
न च यदा नक्षत्रयोगो न स्यात् तदा कथं चैत्रत्वमितिवाच्यम् ।
कदाचिद्योगस्यैव तथात्वात् ।
तथा च च्यवनः–
अन्त्योपान्त्यौ त्रिर्भौ ज्ञेयौ फाल्गुनश्च त्रिभो मतः ।
शेषा मासा द्विभा ज्ञेयाः कृत्तिकादिव्यवस्थया ॥
इति ।
अन्त्योपान्त्यौ = आश्विनभाद्रौ ।
एतच्च त्रिभत्वादिकं द्वित्रिनक्षत्रयोगेन यथा कृत्तिकारोहिण्यन्यतरयोगः कार्तिक्यां मृगार्द्रान्यतरयोगो मार्गशीर्ष्यामित्यादि ।
न च कार्तिकीं प्रकृत्य–“यदा याम्यं तु भवति क्वचित्तस्याम्"इति पाद्मे भरणीयोगस्याप्युक्तेः कथं द्विभत्वमिति वाच्यम् ।
पौर्णमास्यन्तिमक्षणे कृत्तिकारोहिण्यन्यतरयोगस्य विवक्षितत्वात् ।
चैत्रादीनां चान्द्रत्वं स्पष्टमुक्तम्–
ज्योतिःशास्त्रे:
मेषादिस्थे सवितरि यो यो मासः प्रपूर्यते चान्द्रः ।
चैत्रादिः स तु विज्ञेयः पूर्त्तिद्वित्वे ऽधिमासो ऽन्त्यः ॥
ब्रह्मगुप्तो ऽपि–
मेषगरविसङ्क्रान्तिः शशिमासे भवति यत्र तच्चैत्रम् ।
{म्व्-स्_१७}
एवं वैशाखाद्य वृषादिसङ्क्रान्तियोगेन ॥
इति ।
अनयोश्च लक्षणयोर्यथा नाधिमासादिष्वव्याप्तिस्तथा वक्ष्यते सावननाक्षत्रमासयोस्तु चैत्रादिपदप्रयोगाभावात्तद्वचनत्वमनाशङ्क्यमेव ।
मुख्यगौणमासानां व्यवस्था–
ब्रह्मसिद्धान्ते:
अमावास्यापरिच्छिन्नो मासः स्याद्ब्राह्मणस्य तु ।
सङ्क्रान्तिपौर्णमासाभ्यां तथैव नृपवैश्ययोः ॥
ज्योतिर्गर्गः:
सौरो मासो विवाहादौ यज्ञादौ सावनः स्मृतः ।
आब्दिके पितृकार्ये च चान्द्रो मासः प्रशस्यते ॥
आब्दिके = सांवत्सरिके ।
पितृकार्ये = षाण्मासिकादौ ।
तथा स एव–
आयुर्दायविभागश्च प्रायश्चित्तक्रिया तथा ।
सावनेनैव कर्तव्या शत्रूणां चाप्युपासना ॥
उप्रासना = समयपालनम् ।
यथा पाण्डवः कौरवाणाम् ।
पितामहः–
दैवे कर्मणि पित्र्ये च मासश्चान्द्रमसः स्मृतः ।
इति ।
विष्णुधर्मोत्तरे–
नक्षत्रसत्राण्ययनानि चेन्दोर्मासेन कुर्याद्भगणात्मकेन ।
इति ।
ब्राह्मे–
तिथिकृत्ये च कृष्णादिं व्रते शुक्लादिमेव च ।
विवाहादौ च सौरादिं मासं कृत्ये विनिर्दिशेत् ॥
इति मासः ।
अथ दिवसः
स चतुर्विधः ।
तदुक्तम्–
विष्णुधर्मोत्तरे:
तिथिनैकेन दिवसश्चान्द्रे माने प्रकीर्त्तितः ।
अहोरात्रेण चैकेन सावनो दिवसः स्मृतः ॥
आदित्यराशिभोगेन सौरो दिवस उच्यते ।
चन्द्रनक्षत्रभोगेन नाक्षत्रो दिवसः स्मृतः ॥
इति ।
राशिभोगेनौभुज्यमानराशित्रिंशत्तमेन भागेनेत्यर्थः ।
इति दिवसः ।
अथ पक्षः ।
सद्विविधः शुक्लकृष्णभेदात् ।
तथाच–
षट्त्रिंशन्मते:
{म्व्-स्_१८}
तत्र पक्षावुभौ मासे शुक्लकृष्णौ क्रमेण तु ।
चन्द्रवृद्धिकरः शुक्लः कृष्णश्चान्द्रक्षयात्मकः ॥
इति ।
अनयोर्विनियोगमाहाश्वलायनः–
उदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे चौलकर्मोपनयनगोदानविवाहाः ।
तथा, हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टका इत्यादि ।
इति पक्षः ।
अथ सामान्यतस्तिथिर्निर्णीयते ।
तत्र तिथिर्नामामासञ्ज्ञकसर्वानुस्यूतनित्यकलाव्यतिरिक्तानां प्रतिपद्द्वितीयादिसञ्ज्ञानां
पञ्चदशकलनां मध्ये एकैकस्याः कलायाश्चन्द्र मण्डलस्य सूर्यमण्डलेन सह परमसन्निकर्षानन्तरं विप्रकर्षः परमविप्रकर्षानन्तरं वा सन्निकर्षो यावता कालेन भवति तावान्कालो यथाक्रमं शुक्लकृष्णपक्षगतो निरूढलक्षणया प्रतिपत्द्वितीयादिशब्दैः प्रतिपाद्यः ।
तथा चोक्तम्–
स्कान्दे प्रभासखण्डे:
(*)अमाषोडशभागेन देवि! प्रोक्ता महाकला ।
संस्थिता परमा माया देहिनां देहधारिणी ॥
(*) अस्यार्थः ।
या महामाया आधाररूपा देहिनां देहधारिणी संस्थिता सा चन्द्रमण्डलस्य षोडशभागेन पिरमिता चन्द्रदेहधारिणी अमानाम्नी महाकलेति प्रोक्ता क्षयोदयरहिता नित्या तिथिसञ्ज्ञकैव ।
इतरा अपि पञ्चदशकला दिवसव्यवहारोपयोगिन्यः क्षयोदयवत्यः पञ्चदशतिथयो भवन्तीति तिथयः षोडशैवेत्यविरुद्धं वचनमिति ।
अमादिपौर्णमास्यन्ता या एव शशिनः कलाः ।
तिथयस्ताः समाख्याताः षोडशैव वरानने! ॥
इति ।
षट्त्रिंशन्मते ऽपि–
तत्र पक्षावुभौ मासे शुक्लकृष्णौ क्रमेण हि ।
चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः ॥
पक्षत्याद्यास्तु तिथयः क्रमात्पञ्चदश स्मृताः ।
दर्शान्ताः कृष्णपक्षे ताः पूर्णिमान्ताश्च शुक्लके ॥
इति ।
सा च तिथिर्द्विविधा पूर्णा खण्डा च ।
तत्रोदयमारभ्योदयपर्यन्ता पूर्णा ।
आदित्योदयवेलाया आरभ्य षष्टिनाडिकाः ।
सम्पूर्णा इति विख्याताः ।
इति नारदीयोक्तेः ।
{म्व्-स्_१९}
प्रतिपत्प्रभृतयः सर्वा उदयादोदयाद्रवेः ।
सम्पूर्णा इति विख्याता हरिवासरवर्जिताः ॥
इति स्कान्दोक्तेश्च ।
केचित्तु उदयादस्तमयपर्यन्ताया अपि सम्पूर्णत्वं दिनमात्रसाध्येषु भावति ।
त्रिसन्ध्यव्यापिनी या तु सैव पूज्या सदा तिथिः ।
न तत्र युग्मादरणमन्यत्र हरिवासरात् ॥
इति पराशरवचनात् ।
त्रिसन्ध्यव्यापिनी प्रातर्मध्याह्नसायंसन्ध्याव्यापिनी ।
न तु प्रातःसन्ध्याद्वयं सायंसन्ध्या चेति, सङ्खयायाः पृथक्त्वनिवेशित्वात्"तिस्र आहुतीर्जुहोति"इतिवत् ।
त्रिसन्ध्यं यः पठेदित्यादौ तथा व्युत्पत्तेश्च ।
तस्मादहर्मात्रसाध्येषु तन्मात्रव्यापिन्यपि सम्पूर्णे त्याहुः ।
सम्पूर्णेतरा खण्डा ।
तत्र सम्पूर्णा एकदिनमात्रे सत्त्वात्तत्तिथिप्रयुक्तस्य कार्यस्य इतरदिने प्रसक्तेः सन्देहाभावान्न निर्णेया ।
खण्डा तु दिनद्वेये सत्त्वात् गुणानुरोधेन च प्रधानावृत्तेरन्याय्यत्वेन तत्प्रयुक्तस्य कार्यस्य सकृदनुष्टेयत्वात् व्क तदनुष्ठानमिति सन्देहान्निर्णेया भवति ।
निषेधे तु खण्डाप्यनिर्णेयैव ।
निमित्तं कालमादाय वृत्तिर्विधिनिषेधयोः ।
विधिः पूज्यतिथौ तत्र निषेधः कालमात्रके ॥
तिथीनां पूज्यतानाम कर्मानुष्ठानयोग्यता ।
निषेधस्तु निवृत्त्यात्मा कालमात्रमपेक्षते ॥
इति वृद्धगार्ग्योक्तेः ।
अत्र कालस्य निमित्तत्वं नामानुपादेयत्वं न तु वास्तवनिमित्तत्वं सर्वस्य कर्मणो नैमित्तिकत्वापत्तेः ।
न चेष्टापत्तिः ।
अमावास्यायां पितृभ्यो दद्यादित्यादौ तत्र तत्र सप्तम्यादिभिरङ्गत्वावगतेः ।
न च सापि निमित्तसप्तम्येवेति वाच्यम् ।
उपपदविभक्तितः कारकविभक्तेर्बलीयस्त्वात् ।
न चैवं सर्वव्यापिकाम्यत्वापत्तिः अकरणे प्रत्यवायश्रवणादिनानैमित्तिकत्वात् ।
न चैवं यत्र वीप्सामात्रश्रवणं तत्र निमित्तपरत्वमेव स्यान्न काम्ये कालपरतेति वाच्यम् ।
निमित्तत्वेनैव श्रुतस्यापि कालस्य उपस्थितत्वादङ्गत्वेनापि बोधकाभावादितिकेचित् ।
वस्तुतो नैवोपस्थितस्यापि तस्य काम्ये प्रयोगे ग्रहणं बार्हद्गिरादिवत् किन्त्वन्यस्यैव यस्य कस्य चित् ।
ज्योतिष्टोमे तु वीप्सारहितेन वाक्यान्तरेण वसन्तप्राप्तिरित्यन्यत्र विस्तरः ।
“निषेधः कालमात्रकऽ; इत्ययं न वाचनिको ऽर्थः किन्तु न्यायप्राप्त इत्याह–निषेधस्त्वित्यादिना ।
अयमर्थः ।
विधिवाक्येषु विधेयार्थस्य श्रेयःसाधनत्वं वाक्यार्थः ।
निषेधेषु तु कालविशेषे रागप्राप्तस्यानर्थहेतुत्वम् ।
एवं च षष्ठीषु तैलमित्यादौ षष्ठ्यां तैलाभ्यङ्गकरणे ऽनर्थप्रसक्तेरवगतेर्द्विनद्वये ऽपि षष्ठ्यां तन्निषेध इति ।
{म्व्-स्_२०}
तस्माद्यावत्तिथिबावित्वेन निषेधस्य निर्णीतत्वान्निषेधेषु खण्डा न निर्णेयेति सिद्धम् ।
न चैवं सर्वनिषेधानां न्यायादेव तात्कालिकत्वसिद्धौ–
अभ्यङ्गे चोदधिस्नाने दन्तधावनमैथुने ।
जाते च मरणे चैव तत्कालव्यापिनी तिथिः ॥
इति स्कान्दे–अभ्यङ्गादौ पुनर्वचनानर्थक्यमिति वाच्यम् ।
मन्वादौ च युगादौ च ग्रहणे चन्द्रसूर्ययोः ।
व्यतीपाते वैधुतौ च तत्कालव्यापिनी क्रिया ॥
इति स्कान्द एव मन्वादौ तत्कालव्यापित्वविधानस्तुत्यर्थं दृष्टान्ततया तदुपादानात् ।
तत्कालव्यापिनी तिथिरित्यस्यायमर्थः ।
तेषामभ्यङ्गादीनां कालमनुष्ठानकालं व्याप्नोत्वधिकरणत्वेनेति ।
केचित्तु अभ्यङ्गादिषु वि हितेष्वेव तत्कालव्यापिनी तिथिरनेन वचनेनोक्तेत्याहुः ।
तदसत् ।
दन्तधावनमैथुनयोस्तिथिविशेषेषु विधेरदर्शनात् निषेधदर्शनाच्चेति तत्र खज्डायामपि तत्तदहर्भागरूपकालविहितेषु कर्मसु तत्तदहर्भागरूपका लव्यापिनी एव तिथिर्ग्राह्या ।
कर्मणो यस्य यः कालस्तत्कालव्यापिनी तिथिः ।
तया कर्माणि कुर्वीत हासवृद्धी न कारणम् ॥
इति वृद्धगाज्ञवल्क्योक्तेः ।
अहर्भागरूपः कर्मकालश्च प्रातःसङ्गवमध्याह्नापराह्लसायाह्नरूपस्विमुहूर्तात्मकः ।
लेखाप्रभृत्यथादित्यान्मुहूर्तास्त्रय एव च ।
प्रातस्तु सेस्मृतः कालो भागश्चाह्नः स पञ्चमः ॥
सङ्गवस्त्रिमुहूर्तो ऽथ मध्याह्नस्तत्समः स्मृतः ।
ततस्त्रयो मुहूर्ताश्च अपराह्णो विधीयते ॥
पञ्चमो ऽथ दिनांशो यः स सायाह्न इति स्मृतः ।
यद्यदेतेषु विहितं तत्तत्कुर्याद्विचक्षणः ॥
इति पराशरोक्तेः ।
यस्तुद्वेधा त्रेधा विभागः स यत्र कर्मविशेषे विहितस्तत्र ग्राह्यः तस्मिन्नसति तु पञ्चधाविभाग एवेति धर्मशास्त्रविदः ।
तेषां चायमाशवः ।
अत्र हि यद्यदेतेषु विहितं तत्तदत्र कुर्वादिति न विधेर्य विधित एव तत्सिद्धेः ।
किन्तु यद्यद्यद्विहितं कालापेक्षं तत्तदेतेष्विति विधीयते"मैत्रावरुणः प्रेष्यति चान्वाह"इतिवदपेक्षितार्थविधेः तेन सामान्यविधिरयमिति ।
इदं चोपवासादन्यत्र तस्याहो रात्रसाध्यत्वादिति वक्ष्यते ।
ततश्च पूर्वेद्युरेव कर्मकालव्याप्तौ एकदेशसम्बन्धे वा पूर्वैव आद्ये कालशास्त्रलाभात् द्वितीये कालमात्रलाभात् ।
{म्व्-स्_२१}
अत एव परत्रैव तथात्वे परैव ।
दिनद्वये वैषम्येण सम्बन्धे याधिका सैव ।
साम्येनैकदेशसम्बन्धे तु यत्कर्म प्रातरुपक्रम्य प्रातरेव समाप्यते तत्र प्रधानोपक्रमकालीना ग्राह्या ।
यो यस्य विहितः कालः कर्मणस्तदुपक्रमे ।
तिथिर्याभिमता सा तु कार्या नोपक्रमोज्झिता ॥
इति बौधायनोक्तेः नात्र युग्मवाक्यप्रवृत्तिः ।
यत्तु–
कर्म पूर्वमुपक्रम्य मध्याह्नादौ समाप्यते ॥
तत्र वक्ष्यमाणयुग्मवाक्यादिप्रवृत्तिः एवं दिनद्वयव्याप्तावव्थाप्तौ चेत्युत्सर्गः ।
मदनरत्नस्तु साम्येन वैषम्येण वा दिनद्वय एकदेशसम्बन्धे ऽपि यद्येकत्रैवानुष्ठानपर्याप्तः कालस्तदा तत्रैव यद्युभयत्र तदा युग्मवा क्यादिना निर्णयः ।
यदि नोभयत्र किन्तु कर्मैकदेशसम्बन्धस्तत्रापि यदि समस्तदोपक्रमवाक्यात् यदि विषमस्तदाधिक्येनेत्याह ।
अथ यद्युग्मवाक्यादिनिर्णायकं तदुच्यते ।
युग्मवाक्यं तावन्निगमे–
युग्माग्नियुगभूतानां षण्मुन्योर्वसुरन्ध्रयोः ।
रुद्रेण द्वादशीयुक्ता चतुर्दश्या च पूर्णिमा ॥
प्रतिपद्यप्यमावास्या तिथ्योर्युग्मं महाफलम् ।
एतद्व्यस्तं महादोषं हन्ति पुण्यं पुराकृतम् ॥
इति ।
युग्मं = द्वितीया, अग्निस्तृतीया, युगं = चतुर्थी, भूतं = पञ्चमी, षटुषष्ठी ।
मुनिः = सप्तमी, वसुरष्टमी ।
रन्ध्रं = नवमी ।
रुद्र = एकादशी ।
युग्माग्न्योः युगभूतयोः षण्मुन्योः वसुरन्ध्रयोः रुद्रद्वादश्योः चतुर्दशीपूर्णिमयोः अमावास्याप्रतिपदोश्च तिथ्योर्युग्मे परस्परवेधः ।
तत्तत्कर्माधिकरणतिथ्यवच्छेदकत्वेन समपतितो महाफल इति स्तुत्युन्नीतः कालविशेषविधिः ।
एतत् युग्मं व्वस्तम् ।
युग्मगतायाः पूर्वतिथेस्तत्पूर्वतिथिवेध उत्तरतिथेः स्वोत्तरतिथौ वेधो महादोष इति न हि निन्दान्यायेन पूर्वविधिस्तुतिः ।
एकवाक्यतालाभात् ।
न तु स्वतन्त्रनिषेधकल्पनं वाक्यभेदापत्तेः ।
न च विनिगमनाविरहः ।
नियमविधौ लाघवात् निषेधे गौरवात् ।
एतद्युग्यवाक्यविरुद्धमपरमापस्तम्बादिषु युग्मवाक्यम्–
प्रतिपत् सद्वितीया स्याद् द्वितीया प्रतिपद्युता ।
चतुर्थासंयुता या च सा तृतीया फलप्रदा ॥
चतुर्थी च तृतीयायां महापुण्यफलप्रदा ॥
इत्यादि ।
{म्व्-स्_२२}
तथा खर्वदर्पवाक्यं व्याघ्रोसनसोः–
खर्वो दर्पस्तथा हिंसा त्रिविधं तिथिलक्षणम् ।
खर्वदर्पापरौ पूज्यौ हिंसा स्यात् पूर्वकालिकी ॥
इति ।
खर्वः = साम्यम् ।
दर्पो = वृद्धिः ।
हिंसा = क्षयः ।
तथा शुक्लकृष्णपक्षवाक्यमपि विष्णुधर्मोत्तरे:
वज्र उवाच ।
नक्षत्रं देवदेवेश! तिथिं चार्द्धविनिर्गताम् ।
दृष्टोपवासः कर्तव्यः कथं शङ्कर! जानता ॥
ईश्वर उवाच ।
सा तिथिस्तदहोरात्रं यस्यामभ्युदितो रविः ।
तया कर्माणि कुर्वीत हासवृद्धी न कारणम् ॥
सा तिथिस्तदहोरात्रं यस्यामस्तमितो रविः ।
तया कर्माणि कुर्वीत हासवृद्धी न कारणम् ॥
शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितो रविः ।
कृष्णापक्षे तिथिर्ग्राह्या यस्यामस्तमितो रविः ॥
इति ।
अत्र पूर्ववाक्यविहितोदयास्तमयतिथिव्यवस्थार्थं शुक्लकृष्णपक्षवाक्यम् ।
कोचेत्तु–
दैवकार्ये तिथिर्ज्ञेया यस्यामभ्युदितो रविः ।
पितृकार्ये तिथिर्ज्ञेया यस्यामस्तमितो रविः ॥
इति वचनानुसारेणोदयास्तमयतिथ्योर्देवपित्र्यविषयत्वेन व्यवस्थामाहुः ।
तन्न ।
उपक्रमोपसंहारयोर्भिन्नविषयत्वापत्तेः ।
वक्ष्यमाणसाकल्यवचनेन दैवे ऽप्यस्तमयव्यापित्वविधानाच्च ।
उक्तवचनस्य तु पित्र्ये ऽस्तमयव्यापिनीविधान एव तात्पर्यम् ।
दैव उदयव्यापिन्यभिधानं त्वनुवादः"यज्ञोपवीती हि देवेभ्यो दोहयति"इतिवत् स्तुत्त्यर्थः ।
तथा साकल्यवचनं देवलीयम्–
यां तिथिं समनुप्राप्य उदयं याति भास्करः ।
सा तिथिः सकला ज्ञेया स्नानदानव्रतादिषु ॥
यां तिथिं समनुप्राप्य अस्तं याति दिवाकरः ।
सा तिथिः सकला ज्ञेया स्नानदानव्रतादिषु ॥
अत्रेयं व्यवस्था ।
युग्मवाक्यानि दैवविषयकाणि ।
खर्वदर्पवाक्यं पित्र्यविषयम् ।
द्वितीयादिकयुग्मानां पूज्यतानियमादिषु ।
एकोद्दिष्टादिवृद्ध्यादौ ह्रासवृद्ध्यादिचोदना ॥
{म्व्-स्_२३}
इति व्यासनिगमवचनात् ।
अत्र पूज्यतानियमादिष्वित्यादिपदेन सकलदैवकर्मोपादानम् ।
एकोद्दिष्टादीत्यादिपदेनाभ्युदयिकश्राद्धातिरिक्तस कलपित्र्योपादानम् ।
वृद्ध्यादीत्यादिपदे वातद्गुणसंविज्ञानबहुव्रीहिणा यज्ञोपवीतादिदैवधर्मवतां दैवश्राद्धादीनां पित्र्याणां च पुत्रवृद्धिनि मित्तवशेनानियतकालकत्वेनानिर्णेयत्वात् ।
ह्रासवृद्ध्यादीत्यादिपदेन साम्यं तेषां चोदना खर्वदर्पवाक्यमित्यर्थः ।
युग्मवाक्यानां तु मिथोविरोधे तदविषयीभूततिथिषु च दशम्यादिषु शुक्लकृष्णवाख्याद्व्यवस्था अपेक्षितविघानात् ।
अत एव शुक्लकृष्णपक्षवाक्योपक्रमे उपवासग्रहणं दैवमात्रोपलक्षणम् ।
न चोपवास एव शुक्लकृष्णवाक्याद्व्यवस्था तदतिरिक्ते तु
विरुद्धयुग्मवाक्यद्वयविरोधात् विकल्प एवास्त्विति वाच्यम् ।
तत्र उपवासप्रक्रमे ऽपि"तया कर्माणि कुर्वीत"इति बहुवचनेन कर्ममात्रे तदवगमात् ।
यत्तु देवलवाक्यं तत् युग्मवाक्यादिना पूर्वस्यामुत्तरस्यां वा ग्राह्यत्वेन प्राप्तायां तत्तदहर्भागे तत्तिथ्यभावे तिथेः प्रधानत्वादहर्भागस्य च गुणभूतत्वाद् गुणमुख्यव्यतिक्रमन्यायेन तिथावेव कर्तव्यत्वे प्राप्ते अहर्भागे एवानुष्ठानसिद्ध्यर्थमिति ।
एतच्च साकल्यवचनं मन्वादिव्यतिरेकेण ।
तत्र मन्वादौ चेत्यादिप्रागुदाहृतवचनेनापवादात् ।
प्राच्यास्तु द्वि तीयादिकयुग्मानामिति पूर्वार्द्धे न विवादः ।
“एकोद्दिष्टादिवृद्ध्यादौ ह्रासवृद्ध्यादिचोदना"इत्यत्र तु एकोद्दिष्टमादिः प्रकृतिर्यस्य माध्याह्निकश्राद्धस्येत्यतद्गुणसंविज्ञानबहुव्रीहिणा माध्याह्निकश्राद्धान्युच्यन्ते ।
मुख्यैकोहिष्टस्याशौचान्तदिन एवानुष्ठेयत्वेनानिर्णेयत्वात् ।
वृद्ध्यादावित्यनेन पौर्वाह्णिकं श्राद्धमुच्यते ।
हासवृद्धी चन्द्रस्य तयोरादिराश्रयः कृष्णशुक्लपक्षौ तत्सम्बन्धिनी चोदना शुक्लकृष्णपक्षवाक्यमित्यर्थः ।
अथवा ह्रास वृद्धी कृष्णशुक्लपक्षौ तावादिर्निर्मित्तभूता यस्याश्चोदनाया निर्णयस्ये त्यर्थः ।
तदयमर्थः ।
आपराह्णिकश्राद्धातिरिक्तनिर्णयश्राद्धे शुक्लकृष्णवाक्यान्निर्णय इति ।
आपराह्णिकश्राद्धे तु
ययास्तं सविता याति पितरस्तामुपासते ।
तिथिं तेभ्यो ऽपरो दत्तो ह्यपराङ्णः स्वयम्भुवा ॥
इतिहेतुमन्निगदयुक्तपरिशिष्टवाक्यात् पक्षद्वये ऽप्यस्तमवव्यापिन्येव, यद्यपि शुक्लकृष्णवाक्यं दशम्यादिविषये दैवे ऽपि प्रवर्तत इति नास्य पित्र्यमात्रविषयत्वं तथापि आपराह्णिकश्राद्धातिरिक्तश्राद्धेषु शुक्लकृष्णवाक्यमेव निर्णायकमिति व्यवस्थार्थं ह्रासवृद्ध्यादिचोदनेति वाक्यमित्यदोषः ।
अत एव शुक्लकृष्णवाक्ययिप्रश्नवाक्ये उपवासग्रहणं तादृशपित्र्योपलक्षणम् ।
खर्वदर्पादिवाक्यं तु प्राच्यनिबन्धृभिरलिखनान्निर्मूलम् ।
{म्व्-स्_२४}
समूलत्वे तु अमावास्याविषयमेव ।
यदा चतुर्दशी यामं तुरीयमनुपृरयेत् ।
अमावास्या क्षीयमाणा तदैव आद्धमिष्यते ॥
इति परिशिष्टैकवाक्यत्वात् ।
यदपि"कर्मणो यस्य यः काल"इति वाक्ये “ह्रासवृद्धी न कारणम्ऽ; इत्यत्र ह्रासवृद्धिग्रहणं तदपि शुक्लकृष्णपरमेवेत्याहुः ।
तन्न ।
हासवृद्धिपदस्य पूर्वार्द्धेपस्थिततिथिगतह्रासवृद्धिपरत्वे सम्भवति अत्यन्तानुपस्थितचन्द्रह्रासवृद्धिपरत्वस्यायुक्त्वात् ।
यज्ञपरत्वे लक्षणापत्तेश्च ।
किञ्च पूर्वार्द्धे युग्मवाक्यं दैव एवेति नियमविधानात् ।
उपक्रमानुरोधेनोत्तरार्द्धे ऽपि पित्र्य एव शुक्लकृष्णवाक्यमिति नियमौचित्यात्तदतिक्रमेण पित्र्ये शुक्लकृष्णवाक्यमेवेतिनियमकरणे वैरूष्यापत्तेः ।
एतेन यत् विवेकतिथितत्वयोरेकोद्दिष्टादीत्यादिपदेन पार्वणग्रहणात् वृद्ध्यादीत्यादिपदेन क्षयसाम्ययोग्रीहणात् हासवृद्ध्यादीत्यादिपदेन “यया स्तंऽ; इतिवाक्यस्य ग्रहणादेकोद्दिष्टे पविणे च तिथिवृद्धिक्षयसाम्यप्रयुक्तसन्देहे सति शुक्लकृष्णपक्षवाक्यास्तमयवाक्याभ्यां क्रमेण निर्णय इत्युक्तम्, तदपास्तम् ।
वैरूप्यापत्तेः समानत्वात् ।
किञ्च वृद्ध्यादावितिपदेन सन्देहप्रतिपादनं व्यर्थं सर्वनिर्णयवाक्वानां सन्देह एव प्रवृत्तेः ।
तेषु सत्स्वपि कर्मकालव्याप्तो सत्यां सन्देहाभावान्न सन्देहोत्थापकत्वमपि तेषां किन्तु तिथिखण्डत्वस्यैवेत्युक्तम् ।
या च ययास्तमित्यादेः पार्वणविषयत्वेन व्यवस्था साप्ययुक्ता ।
अस्य हि सत्यपि अपराह्णसमभिव्याहारे–
पूर्वाह्णे दैविकं कार्यमपराह्णे तु पैतृकम् ।
तथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिष्यते ॥
इत्यादिवाक्यपर्यालोचनया द्विधाविभक्तदिनापराह्नविषयत्वात् सकलपित्र्यविषयत्वे ऽपि न कापि क्षतिः ।
एकोद्दिष्टादेरपि हि कुतपपूर्वार्द्ध उपक्रमे ऽपि तादृशापराह्ण एव समाप्यमानत्वात् ।
एवं च–
देवकार्ये तिथिर्ज्ञेया यस्यामभ्युदितो रविः ।
पितृकार्ये तिथिर्ज्ञेया यस्यामस्तमितो रविः ॥
उदिते दैवतं भानौ पित्र्यं चास्तमिते रवौ ।
द्विमुहूर्तं त्रिरन्हश्च सा तिथिर्हव्यकब्ययोः ॥
इत्यादिसामान्यवचनान्युपपद्यन्ते ।
अन्यथा पार्वणमात्रविषयत्वे सङ्कोचापत्तेः ।
न चोपक्रमप्रभृतिसमाप्तिपर्यन्तं पार्वण एवापराह्णसम्बन्धात् ऽययास्तंऽ; इतिवचनस्य तद्विषयत्वमेवास्त्विति वाच्यम् ।
शुक्लपक्षगतपार्वणस्यापि पूर्वह्ण एवोपक्रमात् उपक्रमप्रभृतिसमाप्तिपर्यन्तमपराह्वसम्बन्धाभावात् ।
{म्व्-स्_२५}
शुक्लपक्षस्य पूर्वाह्णे श्राद्धं कुर्याद्विचक्षणः ।
कृष्णपक्षे ऽपराह्णे तु रौहिणं तु न लङ्घयेत् ॥
इति पार्वणं प्रकृत्याभिधानात् ।
तस्मात् ययास्तमित्यादि न पार्वणे ऽस्तमयव्यापितिथिविधायकं किन्तु सर्वपित्र्ये खर्वदर्पवाक्यप्राप्तास्तमयव्यापित्वानुवादमात्रम् ।
एतेन–
दैवे कर्मणि सम्प्राप्ते यस्यामभ्युदितो रविः ।
सा तिथिः सकला ज्ञेया पित्र्ये ऽर्थे चापराह्णिकी ॥
इति मार्कण्डेयवचनमपि सत्यप्यपराह्णसमभिव्याहारे सर्वपित्र्यविषयत्वेनैव व्याख्यातम् ।
तस्मादुक्तयुक्त्या पित्र्ये खर्ववाक्यात्, दैवे युग्मवाक्यात्, युग्मवाक्यविरोधे तदविषयतिथिषु च शुक्लकृष्णवाक्यान्निर्णय इति सिद्धम् ।
यत्र पूर्वविद्धीया ग्राह्यत्वं युग्मादिवाक्यादवगतं यथा द्धितीयाविद्धायास्तृतीयायास्तत्र तृतीयाया द्वितीयादिनास्तमयात् पूर्वं त्रिमुहूर्तायास्ततो ऽधिकाया वा सत्त्वे एवाग्राह्यत्वम् ।
न तु ततो न्यूनायाः सत्त्वे ।
एवं यत्र उत्तरविद्धाया ग्राह्यत्वं युग्मादिवाक्यादवगतं यथा तृतीयाविद्धाया द्वितीयायास्तत्र द्वितीयायास्तृतीयादिने उदयादुर्ध्वं त्रिमुहूर्तायास्ततो ऽधिकाया वा सत्त्वे एव तत् न तु ततो न्यूनत्वे ।
पक्षद्वये ऽपि थिथयस्तिथिं पूर्वां तथोत्तराम् ।
त्रिभिर्मूहूर्तैर्विध्यन्ति सामान्यो ऽयं विधिः स्मृतः ॥
इति पैठीनसिवचनात्,
उदिते दैवतं भानौ पित्र्यं चास्तमिते रवौ ।
द्विमुहूर्तं त्रिरह्नश्च सा तिथिर्हव्यकव्ययोः ॥
इतिविष्णुधर्मोत्तरवचनाच्च ।
अस्तमिते इत्यादिकर्मणि क्तः ।
अस्तं गन्तुमारब्ध इत्यर्थः ।
अस्तमयोत्तरमन्हो ऽसत्त्वात् ।
अत्रोदयव्यापिन्या द्विमुहूर्तसत्तास्तमयव्यापिन्यास्त्रिमूहूर्तसत्ता विधीयते ।
न तु हव्ये योदयव्यापिनी कव्ये यास्तमयव्यापिनी तस्या द्वित्रिमूहूर्तसत्तोद्देश्यविशेषणस्याबिवक्षितत्वात् ।
अत एव–
यां प्राप्यास्तमुपैत्यर्कः सा चेत् स्यात् त्रिमुहूर्तगा ।
धर्मकृत्येषु सर्वेषु सम्पूर्णां तां विदुर्बुधाः ॥
इति शिवरहस्ये सामान्यतो धर्मकृत्येष्वित्युक्तम् ।
विष्णुधर्मंवाक्ये च द्विमुहूर्तग्रहणमनुकल्पत्वेन द्रष्टव्यम् ।
त्रिमूहूर्ता न कर्तव्या या तिथिः क्षयगामिनी ।
द्विमुहूर्तापि कर्तव्या या तिथिर्वृद्धिगामिनी ॥
{म्व्-स्_२६}
इति दक्षवचने ऽपिशब्दश्रवणात्, पूर्वार्द्धे क्षयगामिन्यास्त्रिमुहूर्ताया निषेधस्य प्राप्तिपूर्वकत्वेन वृद्धिसाम्ययोस्त्रिमुहूर्तग्राह्यत्वलिङ्गाच्च ।
वस्तुतस्तु पूर्वोत्तरार्द्धयोरेकवाकयतार्थमुत्तरार्द्धगतापिशब्दानु षङ्गेण द्विमुहूर्तानुकल्पस्तुत्यर्थत्वमेव युक्तं न तु स्वतन्त्रो निषेधो वा क्यभेदापत्तेः ।
एतेनायं स्वतन्त्रो निषेधः अतस्तत्र चतुर्थमुहूर्तस्पर्शिनी ग्राह्या इति माधवोक्तमप्यपास्तम् ।
एवं यत्र पूर्वविद्धोत्तरविद्धा वा निषिध्यते तत्रापि यदि पूर्वतिथिर्वोधिका यथा प्रतिपत् द्वितीयायास्तत्र प्रतिपदूदयानन्तरं त्रिमुहूर्ता ततो ऽधिका वोत्तरतिथेर्वेधिका, यदि उत्तरतिथिर्वेधिका यथा द्वितीया प्रतिपदस्तत्र द्वितीया प्रतिपदिदने ऽस्तमयात्प्राक् त्रिमुहूर्ता ततो ऽधिका वा न ततो न्यूनेति ।
पक्षद्वये ऽपि तिथयस्तिथिं पूर्वां तथोत्तराम् ।
त्रिभिर्मुहूर्तैर्विध्यन्ति सामान्यो ऽयं विधिः स्मृतः ॥
इतिपैठीनसिवचनात् ।
यानि तु–
व्रतोपवासदानादौ घटिकैकापि या भवेत् ।
तथा:
आदित्योदयवेलायां या स्तोकापि तिथिर्भवेत् ।
इत्यादीनि त्रिमुहूर्तन्यूनाया अपि सम्पूर्णत्वप्रतिपादकानि तान्यष्टाकपाल आग्नेयाधिकरणन्यायेन त्रिमुहूर्तवेधस्तावकानि स्तोकापीत्यपिशब्दोपादानादित्यलम् ।
अयं च निर्णयो ऽहोरात्रसाध्योपवासादिकर्मातिरिक्तविषयः ।
उपवासादौ तु या पूर्वदिने शुद्धा सत्युत्तरदिने नास्ति त्रिमुहूर्तन्यूनास्ति वा तत्रायुग्मापि पूर्वैव त्रिमुहूर्तन्यूनाया युष्मशास्त्राविषयत्वात् ।
या तु पूर्वदिने त्रिमुहूर्तविद्धोत्तरदिने त्रिमूहूर्ता ततो ऽधिका वा तत्र युग्मवाक्यान्निर्णयः ।
न चोत्तराया युग्मवाक्यवि षयभूतत्वे ऽपि पूर्वैव कार्या ।
पूर्वदिने ऽहोरात्रकालव्यापित्वादितिवाच्यम् युग्मत्वेनोपक्रमकालीनत्वेन च बलीयस्त्वात् उपवासस्य च सङ्कल्परूपत्वात् तस्य च"प्रातः सङ्कल्पयेद्विद्वान्"इतिवचनेन प्रातः काले विधानेनोत्तरतिथेः प्रथानकालत्वाच्चेति केचिद् वदन्ति ।
हेमाद्रिमदनरत्नयोस्तूपवासे तु यत्र पूर्वतिथिविद्धोत्तरा निषिद्धा यथा प्रतिपद्विद्धा द्वितीया तत्र त्रिमुहूर्तन्यूनयापि प्रतिपदा विद्धा द्वितीया यद्युत्तरदिने त्रिमुहूर्तन्यूनाप्यस्ति तदोत्तरैव ।
घटिकार्घं त्रिभागं वा स्वल्पं वा दूषयोत्तिथिम् ।
पञ्चगव्यघटं पूर्णं सुराया बिन्दुको यथा ॥
{म्व्-स्_२७}
तथा:
सर्वप्रकारवेधो ऽयमुपवासस्य दूषकः ।
तथा उपवासं प्रक्रम्य–
घटिकामात्रवेधो ऽपि दुषयत्युत्तरां तिथिम् ॥
इतिषट्त्रिंशन्मतनिगमस्मृत्यन्तरैर्दूषकवेधोक्तेः ।
उदये तूपवासस्य नक्तस्यास्तमये तिथिः ।
तथा:
व्रतोपवासनियमे घटिकैकापि या भवेत् ।
उदये सा तिथिर्ग्राह्या विपरीता तु पैतृके ॥
आदित्योदयवेलायां याल्पापि च तिथिर्भवेत् ।
पूर्णा इत्येव मन्तव्या प्रसूता नोदयं विना ॥
इत्यादिबौधायननिगमादिवचनैः स्वल्पाया अपि उदयगामिन्या ग्राह्यत्वाभिधानात् ।
यदा तूत्तरदिने स्वल्पापि न लभ्यते तदा निषिद्धपूर्वतिथिविद्धाप्युपोष्या ।
अविद्धानि निषिद्धैश्चेन्न लब्यन्ते दिनानि तु ।
मुहूर्तैः पञ्चभिर्विद्धा ग्राह्यैवैकादशी तिथिः ॥
तदर्धविद्धान्यन्यानि दिनान्युपवसेन्नरः ।
इति ऋष्यशृङ्गोक्तेः ।
निषिद्धैरविद्धानि चेन्न लभ्यन्त इत्यन्वयः ।
पञ्चमुहूर्तविद्धाया एकादश्र्या ग्राह्यत्वं च यदा दशमी पञ्चमुहूर्ता परदिने एकादशी द्विमुहूर्ता द्वादशी च क्षयं गता तदा ज्ञेयम् ।
अरुणोदयमारभ्य पञ्चमूहूर्तवेध इति मदनरत्ने ।
तदर्द्धविद्धानीति तु निषिद्धवेधोपललक्षणम् ।
घटिकार्द्धं त्रिभागं वेत्यादिवाक्यानुसारात् ।
यत्र तु पूर्वविद्धा ग्राह्येत्युक्तं तत्र त्रिमुहूर्तवेध एवेति विशेष इति युक्तम् ।
इति श्रीमत्सकलसामन्तचक्रचूडामणिमरीचिमञ्जरीनिराजितचरणकमलश्रीमन्महाराजाधिराजप्रतापरुद्रतनूजश्रीमन्महाराजमधुकरसाहसूनुश्रीमन्महाराजाधिराजचतुरुदधिवल यवसुन्धरापुण्डरीकविकासदिनकर-श्रीवीरसिंहदेवोद्योजितश्रीहंसपण्डितात्मजश्रीपरशुराममिश्रसुनुसकलव् इद्यापारावारपारीणधुरीणजगद्दारिद्र्यमहागजपारीन्द्रविद्वज्जनजीवातुश्रीमन्मित्रमिश्रकृते श्रीवीरमित्रोदयाभिधनिबन्धे समयप्रकाशे सामान्यतिथिनिर्णयः ।
{म्व्-स्_२८}
[प्रतिपन्निर्णयः]
एवं सामान्यतस्तिथौ निर्णीतायां विशेषतस्तिथिर्निर्णीयते ।
तत्र प्रतिपत्तावन्निर्णीयते ।
तस्या मुख्यत्वात् ।
प्रतिपदुपवासेषु शुक्ला कृष्णा वा पूर्वैव ।
प्रतिपत् पञ्चमी चैव उपोष्या पूर्वसंयुता ।
इति जाबालिवचनात् ।
प्रतिपत् प्चमी भूता सावित्री वटपूर्णिमा ।
नवमी दशमी चैव नोपोष्याः परसंयुताः ॥
इति ब्रह्मवैवर्त्ते परविद्धाया निषेधाच्च ।
यत्तु–
प्रतिपत् सद्वितीया स्यात् द्वितीया प्रतिपद्युता ।
इत्यापस्तम्बवचनं तदुपवासेतरदैवकर्मविषयम् ।
उपवासे ऽपि अनपराह्णिकप्रतिपद्विषयं च वक्ष्यमाणवचनानुसारात् ।
इदं चोपवासेतरदैवकर्मण्युत्तरविद्धाया ग्रहणं तत् कृष्णपक्षे ।
शुक्लपक्षे प्रतिपद्यप्यमावास्ये तिपूर्वविद्धाया एव विधानात् ।
न चैतदप्युपवासमात्र उपसंह्रिबतामिति वाच्यम् ।
शुक्लपक्षप्रतिन्मात्रविषययुग्मवचनस्य विशेष्यत्वे शुक्लकृष्णोभयसाधारणेरुपबासवाक्यैरुपसंहारायोगात् ।
न च सामान्यवाक्यान्येव विशेषरूपेण युग्मवाक्येनोपसंह्रियन्तामितिवाच्यम् ।
तन्मते युग्मवाक्यस्य उपवासातिरिक्तदैवकर्मविषयत्वस्याप्यवश्यवाच्यत्वात्तेनैवोपवासे ऽपिसिद्धौ सामान्यवचनानर्थक्यापत्तेः ।
माधवाचार्यास्तु उपसंहारमेव मत्वापस्तम्बवाक्यात् कृष्णोपवासे ऽप्युत्तरैव ग्राह्येत्याहुः ।
दैवान्तरेषु तु कृष्णाया उत्तरविद्धात्वं शुक्लायाश्च पूर्वविद्धात्वमविवादमेव ।
इदं चीपवासे दैवान्तरेषु च शुक्लायाः पूर्वविद्धात्वं न सायं त्रिमूहुर्त्तसत्त्वे किन्तु आपराह्णिक्या एव ।
प्रतिपत्सम्मुखी कार्या या भवेदापराह्णिकी ।
इति स्कन्दोक्तेः ।
यत्तु गौडैः एतस्य वचनस्य निर्मूलत्वम्, समूलत्वे आपराह्णिकपित्र्यविषयत्वं यच्छब्दयोगात् ।
वचनान्तरप्राप्तां पित्र्य आपराह्णिकीमुद्दिश्य सम्मुखीत्वस्य लाघवेन विधानादित्युक्तम् ।
तन्न ।
तथात्वे प्रतिपत्पुरस्कारेण सम्मुखीत्वविधानानर्थक्यापत्तेः ।
प्रतिपत् सैव विज्ञेया या भवेदापराह्णिकी ।
दैवं कर्म तया कार्यं पित्र्यं च मनुरब्रवीत् ॥
इति माधवोदाहृतव्यासवचनविरोधाच्च ।
यदपि च यच्छब्दयोगादापराह्णिक्या उद्देश्यत्वमुक्तम् ।
तदप्ययुक्तम् ।
उक्तयुत्त्या सम्मुखीमुद्दिश्यापराह्णिकत्वस्यैव विधेयत्वावगमात् ।
यच्छब्दयोगस्तु व्यवहितकल्पनयापि न दुष्यति"यदाहवनीये जुहोति"इतिवत् ।
{म्व्-स्_२९}
यदा तु सम्मुख्यापराह्णिकी न लभ्यते तदोत्तरैव"प्रतिपत् सद्वितीया स्यात्"इतिसामान्यवचनात् ।
माधवस्तु तत्रापि सायान्हव्यापिन्या ग्राह्यत्वमाहानुकल्पत्वात् ।
शेषं तु सामान्यनिर्णयादवसेयमिति ।
चैत्रशुक्लप्रतिपत्तु संवत्सरारम्भादिप्रयुक्ताभ्यङ्गादावौदयिकी ग्राह्या ।
चैत्रे मासि जगत ब्रह्मा ससर्ज प्रथमे ऽहनि ।
शुक्लपक्षे समग्रं तु तदा सूर्योदये सति ॥
इति ब्राह्मोक्तेः ।
दिनद्वये तत्सत्त्वासत्त्वयोः पूर्वैव ।
चैत्रसितप्रतिपदि यो वारो ऽर्कोदये स वर्षेशः ।
उदयद्वितये पूर्वा नोदययुगले ऽपि पूर्वा स्यात् ॥
इति ज्योतिर्निबन्धधृतवचनात् ।
वत्सरादौ वसन्तादौ बलिराज्ये तथैव च ।
पूर्वविद्धैव कर्तव्या प्रतिपत् सर्वदा बुधैः ॥
इति वृद्धवशिष्ठोक्तेश्च ।
नवरात्रारम्भप्रतिपत्तु–
अमायुक्ता न कर्तव्या प्रतिपच्चण्डिकार्चने ।
मुहूर्तमात्रा कर्तव्या द्वितीयादिगुणान्विता ॥
इति देवीपुराणवचनात् ।
तिस्रो ह्येताः पराः प्रोक्तास्तिथयः कुरुनन्दन! ।
कार्त्तिकाश्वयुजोर्मासोश्चैत्रे मासि च भारत! ॥
इति प्रतिपदमुपक्रम्य ब्रह्मपुराणाच्च परयुता कार्या ।
यत्तु–
देवीपुराणे:
शृणु राजन्! प्रवक्ष्यामि चण्डिकापूजनक्रमम् ।
आश्विनस्य सिते पक्षे प्रतिपत्सु शुभे दिने ॥
इत्युपक्रम्य–
शुद्धे तिथौ प्रकर्तव्यं प्रतिपच्चोर्ध्वगामिनी ।
आद्यास्तु नाडिकास्त्यक्त्वा षोडश द्वादशापि वा ॥
अपराङ्णे च कर्तव्यं शुद्धे सन्ततिकाङ्क्षिभिः ।
इत्यापराह्णिक्या ग्राह्यत्वमुक्तं तत् परदिने प्रतिपदो ऽभावे ज्ञेयम् ।
पूर्वविद्धा तु या शुक्ला भवेत् प्रतिपदाश्विनी ।
नवरात्रव्रतं तस्यां न कर्तव्यं शुभेच्छुना ॥
इति मार्कण्डेयदेवीपुराणयोः पूर्वविद्धानिषेधाच्च ।
विशेषो नवरात्रे ऽत्र वक्ष्यते ।
बल्युत्सवप्रतिपत्तु पूर्वा"वत्सरादौ वसन्तादौ"इति पूर्वोदादृतवचनात् ।
{म्व्-स्_३०}
पूर्वविद्धा प्रकर्तव्या शिवरात्रिर्बलेर्दिनम् ।
इति पाद्मोक्तेश्च ।
अन्यविशेषो दीपोत्सवे वक्ष्यते ।
होलाका प्रतिपत् औदयिकी ।
प्रवृत्ते मधुमासे तु प्रतिपद्युदिते रवौ ।
इति भविष्योक्तेः ।
उभयत्र तथात्वातथात्वयोस्तु वत्सरादौ वसन्ता दाविति वचनात् पूर्वैव ।
इयं कामपूजायां प्रातर्युता ग्राह्या ।
वृत्ते तुषारसमये सितपञ्चदश्यां
प्रातर्वसन्तमये समुपस्थिते च ।
सम्प्राश्य चूतकुसुमं सहचन्दनेन
सत्यं हि पार्थ! पुरुषो ऽथ समां सुखी स्यात् ॥
इति पुराणसमुच्चयोक्तेः ।
भाद्रशुक्लप्रतिपन्महत्तपव्रते रुद्रव्रतत्वात् पूर्वा ग्राह्या ।
रुद्रव्रतेषु सर्वेषु कर्तव्या सम्मुखी तिथिः ।
इति ब्रह्मवैवर्त्तोक्तेः ।
अथ द्वितीया निर्णीयते ।
सा च सर्वन्दैवकार्येषु शुक्ला परा कृष्णा तु पूर्वा ग्राह्या ।
युग्माग्नीतिपरविद्धाग्राह्यत्वप्रतिपादकस्य निगमवाक्यस्य–
प्रतिपत् सद्वितीया स्याद् द्वितीया प्रतिपद्युता ।
इत्यापस्तम्बवचेनेन,
प्रतिपत् सम्मुखी कार्या द्वितीया द्विजसत्तम! ।
इति ब्रह्मवैवर्तवचनेन च विरोधे–
शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितो रविः ।
कृष्णपक्षे तिथिर्ग्राह्या यस्यामस्तमितो रविः ॥
इति मार्कण्डेयवाक्येन व्यवस्थाविधानात् ।
केचित्तु युग्माग्नीति वाक्ये"चतुर्दश्या च पूर्णिमा"इति पौर्णमासीसमभिव्याहारात् सर्वं वाक्यं स्वत एव शुक्लपक्षविषयमिति न शुक्लपक्षे इत्यस्य
व्यवस्थापकत्वमिति वदन्ति ।
तत्तु समभिव्याहाररूपसन्निधिवशेन सामान्यविषययुगादिश्रुति सङ्कोचायोगात् प्रतिपद्यप्यमावास्येति पक्षद्वयवर्त्यमाप्रतिपत्समभिव्याहाराच्चायुक्तमिति पूर्वोक्तैव व्यवस्था ज्यायसी ।
नन्वेवं युग्मादिवाक्यानां सर्वदैवकार्यतिथिविषयत्वे–
एकादश्यष्टमी षष्ठी द्वितीया च चतुद्र्दशी ।
त्रयोदशी अमावास्या उपोष्याः स्युः परान्विताः ॥
{म्व्-स्_३१}
इत्युपवासमात्रविषयकपरान्विताग्राह्यत्वप्रतिपादकविष्णुधर्मोत्तरवाक्यानर्थक्यं स्यात् ।
एतद्वचनाभावे हि–
तृतीयैकादशी षष्ठी तथा चैवाष्टमी तिथिः ।
वेधादधस्ताद्धन्युस्ता उपवासे तिथीस्त्विमाः ॥
इति नारदीयवाक्ये तृतीयाया द्वितीयादूषकत्वाभिधानद्वारा उपवासे परविद्धद्वितीयाया निषेधात् सा उपवासातिरिक्तदैवविषयैव स्यात् ।
विष्णुधर्मोत्तरवाक्येन च उपवास एव पुनः परान्विताविधाने सति विधिनिषेधयोर्विरोधे सति शुक्लकृष्णवाक्याभ्यां व्यवस्थापनात् ।
तथाचात्र उपवासग्रहणस्य उपलक्षणमात्रपरतया परविद्धायाः पूर्वविद्धायाश्च शुक्लकृष्णपक्षव्यवस्थया सर्वदैवविषयत्वं सिद्धं भवति ।
एवं सर्वत्र सामान्यतो निर्णीते ऽर्थे विशेषतो निषेधे पुनर्विशेषविधानस्य इदमेव प्रयोजनं द्रष्टव्यम् ।
यच्च कृष्णद्वितीयायाः पूर्वविद्धाया ग्राह्यत्वमुक्तं तत् पूर्वाह्णसंस्पर्शे सत्येव ।
प्रतिपत् सम्मुखी कार्या या भवेदापराह्णिकी ।
पौर्वाह्णिकी च कर्तव्या द्वितीया तादृशी विभो! ॥
इति स्कन्दपुराणवचनात् ।
चस्त्वर्थे ।
तादृसी सम्मुखी पूर्वविद्धेत्यर्थः ।
अस्य च वाक्यस्य पौर्वाह्णिकत्वपूर्वविद्धत्वोभयविधानपरत्वे गौरवप्रसङ्गात् ।
यत्र पूर्वविद्धत्वं प्राप्तं तत्रैव पौर्वह्णिकत्वविधानात् कृष्णपक्षविषयत्वमेव ।
अस्मिंश्च वाख्ये यद्यपि पूर्वाह्णापराह्णशब्ददर्शनात् द्वेधा विभाग एव प्रतिभासते ।
तथापि सायान्हमात्रव्यापिन्यामविद्यमानस्यापराह्णिकत्वस्य द्वेधाविभागपक्षे ऽसम्भवात् पञ्चधाविभागपक्षोपादानेनैवापराह्णिकत्वमुपपादनीयम् ।
तथा च तत्साहचर्यात् पौर्वाह्णिकत्वमपि पञ्चधाविभागपक्षेणैव, अन्हः पूर्वो भागः पूर्वाह्ण इत्येवं व्युत्पत्त्या प्रातः-कालसम्बन्धित्वमेव व्याख्येयम् ।
नन्वेवं व्याख्याने एतस्याः शुद्धत्वादेव ग्राह्यत्वं प्राप्तमिति वचनामिदमनर्थकं स्यात् ।
मैवम् ।
एतद्वचनाभावे हि या पूर्वेद्युः सर्वं प्रातः कालं परित्यज्य प्रवृत्ता परेद्युश्च त्रिमुहूर्ता ततो ऽधिका वा सा कृष्णपक्षगतत्वेन पूर्वैव ग्राह्या स्यात् ।
एतद्वचनसत्त्वेतु तस्याः पौर्वाह्णिकत्वाभावात् ।
परेद्युश्च परविद्धावचनानां युग्माग्नीत्यादीनां प्रवृत्तेः परस्या एव ग्राह्यत्वसिद्धिरित्यस्य वचनस्य प्रयोजनं व्यतिरेकतः सिद्धं भवति ।
ननु युग्मादिवाक्यानां शुक्लकृष्णवाक्याभ्यां शुक्लकृष्णविषयत्वेन व्यवस्थापितानां कथं कृष्णपक्षे प्रवृत्तिः ? उच्यते ।
युग्मादिवाक्यानां"द्वितीया प्रतिपद्युता"इत्यादिवचनैर्विरोधे खलु शुक्लकृष्णवाक्ययोर्व्यवस्थापकत्वम् ।
{म्व्-स्_३२}
यदा तु तानि वचनानि पौर्वाह्विकीत्यनेन वि शेषवचनेन सम्बध्यन्ते या प्रतिपद्युक्ता ग्राह्या सा पौर्वाह्णिकीत्येवमर्थतया तदा एतादृशानामेव युग्माग्निवाक्यविरोधात् शुक्लकृष्णपक्षपरतया व्यवस्थापनम् ।
या तु सर्वं प्रातः कालं परित्यज्य प्रवृत्ता परदिने च त्रिमुहूर्ता ततो ऽधिका च तस्यां पूर्वविद्धाग्राह्यत्ववचनाभावात् भवेदेव युग्मवाक्यानां
प्रवृत्तिरिति ।
या तु परेद्युस्त्रिमुहूर्तन्यूना सा पूर्वाह्णसंस्पर्शाभावे ऽपि पूर्वैव ग्राह्या सन्देहाभावात्, परविद्धावचनानामप्रवृत्तेश्च ।
प्राच्यास्तु इदं वचनं न लिखन्ति ।
माधवानन्तभट्टमते तु सर्वा द्वितीया परा ॥
तथा च–
माधवः:
पूर्वेद्युरसती प्रातः परेद्युस्त्रिमूहूर्तगा ।
सा द्वितीया परोपोष्या पूर्वविद्धा ततो ऽन्यथा ॥
इति ।
श्रावणादिमासचतुष्टयासितपक्षद्वितीयासु अशून्यशयनाख्ये व्रते चन्द्रोदयव्यापिनी ग्राह्या तस्य चन्द्रोदये विधानात् ।
चन्द्रोदयव्रतत्वं चास्य
चन्द्राय चार्घ्यो दातव्यो दध्यक्षतफलादिभिः ।
इति पुराणान्तरवचनात् ।
व्रतं चोक्तम्–
भविष्ये:
अशून्यशयनं नाम द्वितीयां शृणुभारत! ।
यामुपोष्य न वैधव्यं स्त्री प्रयाति नराधिप! ॥
इति ।
अत्रोपोष्येत्यनेनोपासनमुक्तं न तु भोजननिवृत्तिः ।
नक्तं प्रणम्यायतने हरिं भुञ्जीत वाग्यतः ।
इतिपुराणान्तरे नक्तभोजनविधानात् ।
दिनद्वये चन्द्रोदये तत्सत्त्वासत्त्वयोः परैव ।
चतुर्ष्वसितपक्षेषु मासेषु श्रावणादिषु ।
अशून्याख्यं व्रतं कुर्याज्जयया तु फलाधिकम् ॥
इतिपुराणान्तरे जयायुक्ताविधानादिति मदनरत्नः ।
कार्त्तिकशुक्लद्वितीया यमपूजायामापराङ्णिकी ग्राह्या ।
ऊर्जे शुक्लद्वितीयायामपराह्णे ऽर्चयेद्यमम् ।
इतिस्कान्दोक्तेः ।
भविष्ये–
प्रथमा श्रावणे मासि मासि भाद्रे तथा परा ।
तृतीयाश्वयुजे मासि चतुर्थी कार्तिके भवेत् ॥
{म्व्-स्_३३}
श्रावणे कलुषा नाम तथा भाद्रे च गीर्मता ।
आश्विने प्रेतसञ्चारा कार्त्तिके याम्यका मता ॥
इत्युक्त्वा ग्रथमायां व्रतं द्वितीयायां सरस्वतीपूजां तृतीयायां श्राद्धमुक्त्वा चतुर्थ्यामुक्तम्–
कार्त्तिके शुक्लपक्षस्य द्वितीयायां युधिष्ठिर! ।
यमो यमुनया पूर्वं भोजितः स्वगृहे ऽर्चितः ॥
अतो यमद्वितीयेयं त्रिषु लोकेषु विश्रुता ।
अस्यां निजगृहे विप्र! न भोक्तव्यं ततो नरैः ।
स्नेहेन भगिनीहस्ताद्भोक्तव्यं पुष्टिवर्द्धनम् ॥
दानानि च प्रेदयानि भगिनीभ्यो विधानतः ।
सर्वा भगिन्यः सम्पूज्या अभावे प्रतिपन्नकाः ॥
प्रतिपन्नकाः = भगिनीत्वे परिकल्पिता इति हेमाद्रिः ।
इति द्वितीयानिर्णयः ।
अथ तृतीयानिर्णयः ।
रम्भातृतीयातिरिक्ता तृतीया उपवासादिसकलदैवेषु चतुर्थीयुता ग्राह्या ।
तदुक्तम्–
ब्रह्मवैवर्त्ते:
रम्भाख्यां वर्जयित्वा तु तृतीयां द्विजसत्तमाः!
अन्येषु सर्वकार्येषु गणयुक्ता प्रशस्यते ॥
गणः = चतुर्थी ।
आपस्तम्बः–
चतुर्थीसंयुता या च सा तृतीया फलप्रदा ।
अवैधव्यकरी स्त्रीणां पुत्रपौत्रप्रदायिनी ॥
अत्र चतुर्थीयुततृतीयायाः प्रशंसाश्रवणेन विधेयतावगम्यते ।
द्वितीयायुक्ततृतीयाया निषेधश्च श्रूयते ।
तथा च–
स्कन्दपुराणे:
द्वितीयया तु या विद्धा तृतीया न कदाचन ।
कर्तव्या व्रतिभिस्तात! धर्मकामार्थतत्परैः ॥
विहायैकां तु रम्भाख्यां तृतीयां पुण्यवर्धिनीम् ।
तच्चात्र ऋषिभिः प्रोर्क्त वचनं कृत्तिकासुत! ॥
ब्रह्मवैवर्ते च–
तृतीया तु न कर्तव्या द्वितीयोपहता विभो! ।
द्वितीयया युतां तां तु यः करोति नराधमः ॥
{म्व्-स्_३४}
संवत्सरकृतेनेह नरो धर्मेण मुच्यते ।
तथा:
द्वितीयाशेषसंयुक्तां कुरुते नृपसत्तम! ।
स याति नरकं घोरं कालसूत्रं भयङ्करम् ॥
द्वितीयाशेषसंयुक्तां या करोति विमीहिता ।
सा वैधव्यमवाप्नोति प्रवदन्ति मनीषिणः ॥
स्कन्दपुराणे–
तृतीया तु न कर्तव्या द्वितीयासंयुता तिथिः ।
या करोति विमूढा स्त्री पुरुषो वा शिखिध्वज! ।
द्वितीयासंयुतां तात! पूर्वधर्माद्विलुप्यते ॥
विधवात्वं दुर्भगत्वं भवेन्नैवात्र संशयः ।
कलाकाष्ठापि या चैव द्वितीया सम्प्रदृश्यते ॥
सा तृतीया न कर्तव्या कर्तव्या गणसंयुता ।
य इच्छेत्परमं गुह्यं ब्रतकर्त्ता शिखिध्वज! ॥
भविष्यत्पुराणे–
कार्या द्वितीयया सार्द्धं न तृतीया कदाचन ।
इति ।
अत्र"रम्भाक्यां वर्जयित्वा"इति"विहायैकां तु रम्भाख्यां"इति च श्रवणाद्रम्भाव्रते द्वितीयायुक्ततृतीया ग्राह्येति गम्यते साक्षाद्विधानाच्चयथोक्तम्–
स्कन्दपुराणे:
बृहत्तपा तथा रम्भा सावित्री वटपैतृकी ।
कृष्णाष्टमी च भूता च कर्तव्या सम्मुखी तिथिः ॥
तथा:
कृष्णाष्टमी तथा रम्भा तृतीया पटपैतृकी ।
बृहत्तपा तथा ब्रह्मन! कर्तव्या सम्मुखी तिथिः ॥
एवं च युग्माग्नीतियुग्मवाक्यमपि रम्भाव्रतविषयमेव ।
न च द्वितीयायुततृतीयानिषेधाः चतुर्थीयुततृतीयाविधय उपवासमात्रविषयाः ।
एकादश्यष्टमी षष्ठी पौर्णमासी चतुर्दशी ।
अमावास्या तृतीया च ता उपोष्याः परान्विताः ॥
इति बृहस्पतिवचनानुगुण्यादितिवाच्यम् ।
अन्येषु सर्वकार्येषु गणयुक्ता प्रशस्यते ।
इत्यादिवचनेषु उपवासव्यतिरिक्तकार्ये ऽपि परविद्धात्वसह्कीर्त्तनात् एकादश्यष्टमीतिवाक्यं तु तिथिविशेषे उपवासे परविद्धत्वं प्रतिपादयति ।
{म्व्-स्_३५}
न तु कार्यान्तरे परविद्धत्वं निवर्तयति ।
उभयार्थत्वे वाक्यभेदप्रसङ्गात् ।
केचित्तु द्वितीयायुक्ततृतीयाविधिः शुक्लतृतीयाविषयः ।
निषेधस्तु कृष्णतृतीयाविषयः ।
नचैवं रम्भावाक्यमनर्थकं स्यादितिवाच्यम् ।
एकादश्र्यष्टमीतिप्रागुक्तवचनवशादुपवासे शुक्लपक्षगताया अपि तृतीयायाः परविद्धत्वाश्रयणात्तदपवादत्वेन रम्भावाक्यारम्भोपपत्तेरित्याहुः ।
तदयुक्तम् ।
वैपरीत्यस्यापि वस्तुं शक्त्यत्वात् ।
द्वितीयायुततृतीयाविधिः कृष्णतृतीयाविषयः ।
निषेधस्तु शुक्लतृतीयाविषय इति ।
किञ्च–
शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितो रविः ।
कृष्णपक्षे तिथिर्ग्राह्या यस्यामस्तमितो रविः ॥
इतिवचनं विपरीतमेवार्थमवगमयति ।
अत्र हि कृष्णपक्षगतायास्तृतीययास्तिथेर्यस्यामस्तमितो रविरितिद्वितीयायुताया ग्राह्यत्वं प्रतीयते ।
शुक्लपक्षगतायास्तु तस्या एव तिथेर्यस्यामभ्युदितो रविरिति चतुर्थीयुताया ग्राह्यत्वम् ।
वस्तुतस्तु न शुक्लकृष्णभेदेन विधिनिषेधयोर्विषय व्यवस्था युक्तिमती ।
तथासति द्वितीयायुक्ततृतीयानषेधकानां चतुर्थीयुक्ततृतीयाविधायकानां च प्रागुदाहृतानां बहूनां सङ्कोचापत्तेः ।
अस्मत्पक्षे तु न तथा वाक्यसङ्कोचः ।
रम्भाव्रतपरित्यागेन द्वितीयायुततृतीयानिषेधानां चतुर्थीयुततृतीयाविधीनां च शुक्लपक्षे ऽपि प्रवृत्तेरङ्गीकरणात्"अन्येषु सर्वकार्येषु"इति वचनं च भवत्पक्षे बाध्यते ।
केवलं युग्मवाक्यमेव तु रम्भाव्रतविषयत्वेनास्मत्पक्षे सङ्कोच्यते इति विशेषः ।
अयं च द्वितीयावेधः स्वल्पो ऽपि त्याज्यो न तु मुहूर्तत्रयपरिमित एव ।
“द्वितीयाशेषसंयुक्ताम्” “ककलाकाष्ठापि या चैव"इत्यादिवचनेभ्यस्तथावगमात् ।
अत एव तृतीयापि
चतुर्थीयुता स्वल्पापि ग्राह्या न तु त्रिमुहूर्तत्वकर्मकालत्वादरः ।
अयं चाल्पस्यापि द्वितीयावेधस्य निषेधः, अल्पोत्तरतृतीयापरिग्रहश्च शिष्टाचारात् गौरीदैवत्यव्रताविषय एव ।
व्रतान्तरेषु तु निषेध्यद्वितीयावेधादेस्त्रिमुहूर्तत्वमादरणीयमेव यदा तूत्तरदिने अल्पापि तृतीया न लभ्यते तदा सर्वव्रतेषु द्वितीयायुक्तापि ग्राह्यैव ।
एकादशी तृतीया च षष्ठी चैव त्रयोदशी ।
पूर्वविद्धापि कर्तव्या यदि न स्यात् परे ऽहनि ॥
इति वृद्धवसिष्ठवचनात् ।
यदा तु पूर्वदिने तृतीया शुद्धा सती उत्तरदिने वर्द्धते तदा शुद्धामपि त्यक्त्वा चतुर्थीयुक्तैव ग्राह्या"गणयुक्ता प्रशस्यत"इत्यादिवचनैः चतुर्थीयुक्तायाः प्राशस्त्यावगमादिति केचित् ।
{म्व्-स्_३६}
अन्ये तु एतादृशविषये निषेधवाक्यानामप्रवृत्तेः शुद्धाधिकायामप्युत्तरविद्धैव तृतीया ग्राह्येत्येतदर्थप्रतिपादकस्य वचनस्यानुपलम्भात् गणयुक्तादिवाक्यानां च तृतीयायाः द्वितीयावेधचतुर्थीवेधयोः सतोः पूर्वविद्धा वा ग्राह्या उत्तरविद्धा वा ग्राह्या इत्येवं सन्देहे सति निर्णायकत्वात् एतादृशविषये च तिथेः पूर्णत्वेन सन्देहानुदयात् निर्णायकगणयुक्तादिवाक्याप्रवृत्तेः पूर्वैव तृतीया ग्राह्येत्याहुः ।
तदयं सङ्क्षेपः ।
रम्भाव्र तारिक्तेषु उपवासादिसकलदेवकार्येषु न द्वितीयाविद्धा तृतीया ग्राह्या किन्तु चतुर्थींयुक्ता ।
गौरीव्रतेषु स्वल्पयापि द्वितीयया युक्ता वर्ज्या न द्वितीयायास्त्रिमुहूर्तत्वादरः ।
तथा गौरीव्रत एव अत्रिमुहूर्तापि चतुर्थीयुक्ता ग्राह्या व्रतान्तरेषु वेध्यवेधकयोस्तृतीयाद्वितीययोस्त्रिमुहूर्तत्वमाश्रयणीयमेव ।
यदा तु स्वल्पापि तृतीयोत्तरदिने न लभ्यते तदा द्वितीयाविद्धापि सर्वव्रतेषु ग्राह्यैव रम्भाव्रते तु द्वितीयायुक्तैव ग्राह्या तदलाभे च द्वितीयायुक्तापि शुद्राधिका पुनः पूर्णत्वात् पूर्वैवादेयेति ।
इति तृतीयानिर्णयः ।
अथ चतुर्थीनिर्णयः ।
चतुर्थी पञ्चमीयुता ग्राह्या युगभूतानीतिवाक्यात् ।
एकादशी तथा षष्ठी अमावास्या चतुर्थिका ।
उपोष्याः परसंयुक्ताः पराः पूर्वेण संयुताः ॥
इति वृद्धवशिष्ठवाक्याच्च ।
विनायकव्रते तु तृतीयायुक्ता चतुर्थी ग्राह्या ।
तदुक्तम्–
ब्रह्मवैवर्त्ते:
चतुर्थीसंयुता या तु तृतीया सा फलप्रदा ।
चतुर्थी च तृतीयायां महापुण्यफलप्रदा ॥
कर्तव्या व्रतिभिर्वत्स! गणनाथसुतोषिणी ।
इति ।
अत्र गणनाथेतिविशेषणसामर्थ्यात् गणनाथव्रते तृतीयायुक्ता चतुर्थी ग्राह्येति गम्यते ।
एवं च–
चतुर्थीसंयुता कार्या तृतीया च चतुर्थिका ।
तृतीयया युता नैव पञ्चम्या कारयेत्क्वचित् ॥
इति यत् भविष्यत्पुराणस्थं वचनम्, यच्च–
चतुर्थी चैव कर्तव्या तृतीयासंयुता विभो! ।
इति स्कन्दपुराणस्थं वचनम्, तदुभयमपि गणनाथव्रतविषयमेव ।
सि द्विविनायकव्रते च मध्याह्नव्यापिनी चतुर्था प्राह्या ।
{म्व्-स्_३७}
चतुर्थीं गणनाथस्य मातृविद्धा प्रशस्यते ।
मध्याहव्यापिनी सा तु परतश्चेत् परे ऽहनि ॥
इति बृहस्पतिवचनात् ।
परतश्चेत् परे ऽहनीत्यस्यायमर्थः ।
यदि परेद्युरेव मध्याह्नव्याप्तिः तदैव परे ऽहनि पञ्चमीविद्धेत्यर्थः ।
पक्षान्तरेषु तु मातृचिद्धैव ग्राह्येति ।
प्रातः शुक्लतिलैः स्नात्वा मध्याह्ने पूजयेन्नृप! ।
इतिगणपतिकल्पे मध्याह्नस्य कर्मकालत्वावगमाच्च ।
यदा तु पूर्वन्दिने मातृविद्धा परेद्युरेव च मध्याह्नव्यापिनी भवति तदा मातृविद्धात्वगुणयोगेन परदिन एव विनायकव्रतमनुष्ठेयम् ।
तत्रैव कर्मकालव्याप्तेः ।
एवं नागदेवताव्रते ऽपि मध्याह्नव्यापिनी चतुर्थी ग्राह्या ।
युगं मध्यन्दिने यत्र तत्रोपोष्य फणीश्वरान् ।
क्षीरेणाप्याय्य पञ्चम्यां पारयेत् प्रयतो नरः ।
विषाणिं तस्य नश्यन्ति न तं हिंसन्ति पन्नगाः ॥
इति मध्याह्ने नागपूजाविधानात् ।
एतावांस्तु विशेषः ।
यदा पूर्वेद्यु रेव मध्याह्नव्याप्तिः तदैव पूर्वा ।
पक्षान्तरेषु पञ्चमीयुक्तैव ग्राह्या ।
पञ्चम्या नागतिथित्वेन तद्योगस्य प्राशस्त्यात् केचित्तु नागदेवताव्रते ऽपि विनायकव्रतवत् तृतीयायुक्ता ग्राह्येत्याहुः ।
तदयुक्तम् ।
प्रमाणविरहात् ।
पूर्वोदाहृतभविष्यत्पुराणस्थस्कन्दपुराणस्थवचनयोः प्रमाणत्वमितिचेत्, न ।
तयोः सामान्यतः प्रवृत्तेः ।
तत्र हि चतुर्थी तृतीयायुक्ता ग्राह्येत्येयावत् प्रतीयते न पुनर्नागचतुर्थी तृतीयायुक्तेति ।
पूर्वोदाहृतब्रह्मवैवर्तंवचनानुगुण्यात्तु गणनाथसुतेषिणी च चतुर्षीं तृतीयायुक्ता ग्राह्येत्येतदेवैतयोर्वचनयोर्हृदयमवगच्छामः ।
तेन नागदेवताव्रते दिनद्वये मध्याह्नब्याप्त्यादिना चतुर्थीग्रहणसन्देहे युग्मवाक्यात् परैव ग्राह्या, यदा तु पूर्वदिन एव मध्याह्नवब्याप्तिस्तदा कर्मकालशास्त्रस्य प्राबल्यात् पूर्वा ग्राह्या ।
यत्तु –
द्वितीया पञ्चमीवेधात् दशमी च त्रयोदशी ।
चतुर्दशी चोपवासे हन्युः पूर्वौत्तरे तिथी ॥
इति पञ्चमीयुक्तचतुर्थीन्निषेधकं वचनं तद्विनायकव्रतविषयम् ।
गौरीव्रते तु तृतीयायुक्तचतुर्थी ग्राह्या तृतीयाया गौरीदेवतात्वेन तद्योगस्य प्राशस्त्यात् ।
चतुर्थ्यां गौरीव्रते तु भविष्यत्पुराणे ऽभिहितम्–
विनायकं समभ्यर्च्य चतुर्थ्यां यदुनन्दन! ।
सर्वविघ्नविनिर्मुक्तः कार्यसिद्धिमवाप्नुयात् ॥
इत्यभिधायानन्तरमेवाभिहितम्–
{म्व्-स्_३८}
निद्रां रतिं शिवां भद्रां कीर्तिं मेधां सरस्वतीम् ।
प्रज्ञां तुष्टिं तथा कान्तिं तत्रैवाहनि पूजयेत् ॥
विद्याकामो विशेषेण पूजयेच्च सरस्वतीम् ।
इति ।
लिङ्गपुराणे ऽपि–
चतुर्थ्यां तु गणेशस्य गौर्याश्चैव विधानतः ।
पूजां कृत्वा लभेत् सिद्धिं सौभाग्यं च नरः क्रमात् ॥
इति ।
नारदीयपुराणे ऽपि–
माघशुक्लचतुर्थ्यां तु गौरीमाराधयेदूबुधः ।
चतुर्थी वरदा नाम गौरी तत्र सुपूजिता ॥
इति ।
जया च यदि सम्पूर्णा चतुर्थी हसते पुनः ।
जया सैव हि कर्तव्या नागविद्धां न कारयेत् ॥
इति वचनमपि गौरीव्रते कैमुत्यन्यायेन तृतीयायुक्तचतुर्थीं ग्राह्यतया प्रतिपादयति ।
अयं हि अस्य वचनस्यार्थः ।
यदा परदिने चतुर्थीह्रासेन पञ्चमी विद्धा भवति पूर्वदिने पुनर्जया सम्पूर्णदिनव्यापिनी भवति तदा शुद्धा तृतीयापि चतुर्थीव्रते ग्राह्या न तु दोषभूयिष्ठा पञ्चमीविद्धा चतुर्थीति ।
न त्विदं वचनं चतुर्थीव्रते शुद्धतृतीयां ग्राह्यतया प्रतिपादयति पञ्चमीविद्धचतुर्थीनिषेधपरत्वात् ।
उभयपरत्वे च वाक्यभेदादिति ।
केचित्तु इदं वचनं विनायकव्रतविषयमित्यङ्गीकृत्यान्यथा व्याचक्षते ।
यदा पूर्वदिने मध्याह्ने जया सम्पूर्णा उत्तरदिने पुनर्हासवशाच्चतुर्थी मध्याह्वादर्वागेव समाप्यते तदा दिनद्वये कर्मकाले चतुर्थ्या अभावे सति किं दिनं ग्राह्यामत्यपेक्षायामिदं वचनमारभ्यते-जया च यदि सम्पूर्णेति ।
जयाया मध्यान्हव्यापित्वे ऽपि जयायुक्ता पूर्वैम्व चतुर्थी ग्राह्या न तु नागविद्धा परा चतुर्थी ।
गौर्याश्चतुर्थी वटधेनुपूजा दुर्गाचनं दुर्मरहोलिके च ।
वत्सस्य पूजा शिवरात्रिरेताः परा विनिघ्नन्ति नृपं सराष्ट्रम् ॥
इतिपुराणमुञ्चयवचनादपि गौरीव्रते तृतीयायुक्ता चतुर्थी ग्राह्येति प्रतीयते ।
गौर्याश्चतुर्थी = गौरीव्रतसम्बन्धिनी चतुर्थी ।
धेनुपूजा = तत्सम्बन्धिनी बहुलाचतुर्थी ।
वत्सस्य पूजा = वत्सद्वादशी ।
केचित्तु शुक्लचतुर्थी पञ्चमीयुता कृष्णचतुर्थी तृतीयायुता ग्राह्या ।
“शुक्लपक्षे तिथिर्ज्ञेय"इत्यादिवचनादित्याहुः ।
तदयुक्तम् ।
तृतीयायुक्तचतुर्थीग्रहणवाक्यस्य पूर्वोक्तैव व्यवस्था साध्वीति ।
सङ्कष्टचतुर्थी तु चन्द्रोदयव्यापिनी ग्राह्या तस्यास्तत्कल्पे चन्द्रोदयकालत्वविधानात् ।
इति चतुर्थीनिर्णयः ।
{म्व्-स्_३९}
अथ पञ्चमीनिर्णयः ।
पञ्चमी उपवासादिसकलदैवकर्मसु पूर्वयुता ग्राह्या युगभूतानामिति युरमवाक्यात् ।
स्कन्दपुराणे ऽपि–
पञ्चमी च तथा कार्या चतुर्थीसंयुता विभो! ।
इति ।
भविष्यत्पुराणे ऽपि–
पञ्चमी तु चतुर्थ्या तु कार्या षष्ठ्या न संयुता ।
इति ।
एकादशी तथा षष्ठी अमावास्या चतुर्थिका ।
उपोष्याः परसंयुक्ताः पराः पूर्वेण संयुताः ॥
इति वशिष्ठवाक्ये परिगणितव्यतिरिक्तायाः परशब्दसङ्गृहीतायाः पञ्चभ्या उपवासे पूर्वसंयुक्तत्वाभिधानाच्च ।
तेन यद्यपि
प्रायः प्रान्त उपोष्या हि तिथिर्देवफलेप्सुभिः ।
इति शिवरहस्यसौरपुराणयोस्तिथिप्रान्तस्योपवासे अङ्गत्वाभिधानात्तिथिद्वैधे परविद्धा तिथिरुपवासे ग्राह्येति प्रतीयते ।
तथाप्यस्य सामान्यविधित्वात् प्रागुदाहृततत्तद्विशेषवचनैः उपवासे पञ्चम्याः पूर्वयुक्तत्वं युक्तमेव ।
एतदेवाभिप्रेत्य प्रायः प्रान्त इति प्रायःशब्दः प्रयुक्तः ।
यत्तु
पञ्चमी तु प्रकर्तव्या षष्ठ्या युक्ता तु नारद! ।
इति विरुद्धवचनं तत् स्कन्दोपवासविषयम् ।
स्कन्दोपवासे स्वीकार्या पञ्चमी परसंयुता ।
इति तद्वाक्यशेषे ऽभिधानात् नागदेवताव्रतविषयं च ।
श्रावणे पञ्चमी शुक्ला सम्प्रोक्ता नागपञ्चमी ।
तां परित्यज्य पञ्चम्यश्चतुर्थीसहिता हिताः ॥
इतिवचनात् ।
अत्र श्रावणोपादानान्मार्गशुक्लपञ्चमी व्रते पूर्वैवेति बोध्यम् ।
केचित्तु पञ्चमीविषयविरुद्धवचनानां शुक्लकृष्णभेदेन व्यवस्थामाहुः ।
तदयुक्तम् ।
चतुर्थ्या संयुता कार्या पञ्चमी परया न तु ।
देवे कर्मणि पित्र्ये च शुक्लपक्षे तथासिते ॥
इति माधवाद्युदाहृतवचने पक्षद्वयवर्त्तिम्पञ्चम्याः पूर्वयुक्तत्वाभिधानात् ।
अत्र पित्र्यग्रहणं दृष्टान्ततया कृतम् ।
यथा पित्र्ये अपराह्णाद्यनुरोधेन षष्ठीयुक्तपञ्चमीं परित्यज्य चतुर्थीसंयुता पञ्चमी उपादीयते तथा दैवे ऽपीति ।
नच दैवे पूर्वाह्णस्य कर्मकालत्वात् कर्मकालशास्त्रस्य च प्रबलत्वात् परयुक्तैव पञ्चमी उपादेयेति शङ्कनीयम् ।
पूर्वोदाहृततत्तद्विशेषवचनानां प्रबलतरत्वात् एतादृश एव च विषये"यां तिथिं समनुप्राप्य"इतिसाकल्यवचनमुपपद्यते ।
{म्व्-स्_४०}
अन्यथा साकल्यवचनमनवकाशं स्यात् ।
अत एवोपवास एव पञ्चमी पूर्वयुतान्यत्र दैवे ऽप्युत्तरैवेत्यष्यभिधानमयुक्तमव ।
दैवे कम्मेणीति दैवमात्रे पृर्वयुतत्वप्रतीतेः परयुक्तपञ्चमीवचनानां स्कन्दोपवासवचनेन विषयदानाच्च ।
ननु व्यासनिगमगतयुग्मशास्त्रात् पञ्चम्याश्चतुर्थीयुक्ताया ग्राह्यत्वं प्रतीयते ।
आपस्तम्बाद्युदाहृतयुत्मशास्त्रात्तु–
प्रति पत्सद्वितीया स्यात् द्वितीया प्रतिपद्युता ।
चतुर्थीसंयुता या च सा तृतीया फलप्रदा ॥
पञ्चमी च प्रकर्तव्या षष्ठ्या युक्ता च नारद! ॥
इत्येवंरूपात् षष्ठीयुक्ता पञ्चमी ग्राह्येति प्रतीयते ।
ततश्च युग्मशास्त्रयोर्विरोधे व्यवस्थापकवचनान्तरस्यापोक्षितत्वात् युक्ता शुक्लकृष्ण शास्त्रेण ब्यवस्थेति ।
सत्यम् ।
प्रयुक्ता शुक्लकृष्णशास्त्रेण व्यवस्था तां निराकर्तुमेव हारीतवचने “शुक्लपक्षे तथासितऽ; इत्युक्तम् ।
तेन विरुद्धमापस्तम्बादियुग्मशास्त्रं स्कन्दोपवासविषयं युक्तमिति तस्मात् पूर्वोक्तैव व्यवस्था ज्यायसी ।
इति पञ्चमीनिर्णयः ।
अथ षष्ठी निर्णीयते ।
सा च स्कन्दव्रतातिरिक्ते सर्वत्र दैवकार्ये सप्तमीयुक्ता ग्राह्य षण्मुन्योरितियुग्मवाक्यात् ।
एकादश्यष्टमी षष्ठी द्वितीया च चतुर्दशी ।
त्रयोदशी अमावास्या उपोष्याः स्युः परान्विताः ॥
इति विष्णुधर्मोत्तरवाक्याच्च ।
उपवासग्रहणं तु दैवमात्रोपलक्षणमित्युक्तं द्वितीयानिर्णये ।
नागविद्धा तु षष्ठी स्यात्पक्षयोरुभयोरपि ।
दैवे कर्मणि तामन्त्यां पित्र्ये पूर्वेण संयुताम् ॥
इति सुमन्तुना पञ्चमीविद्धानिषेधपुरःसरं दैवे कर्मणि अन्त्यःशब्दोदितायाः सप्तमीविद्धाया विधानाच्च ।
नागविद्धा तु या षष्ठी शिवविद्धातु सप्तमी ।
दशम्येकादशीविद्धा नोपोष्या स्यात् कथञ्चन ॥
इति शिवरहस्यसौरपुराणयोः ।
नागविद्धा तु या षष्ठी रुद्रविद्धो दिवाकरः ।
कामविद्धो भवेद् विष्णुर्न ग्राह्यास्ते तु वासराः ॥
इति निगये पूर्वविद्धा निषेधाच्च ।
अत्रापि उपवासग्रहणं पूर्ववत् ।
नागः पञ्चमी ।
{म्व्-स्_४१}
शिवो रुद्रश्चाष्टमी ।
दिवाकरः = सप्तमी ।
कामस्त्रयोदशी ।
विष्णुर्द्वादशी ।
पञ्चमीवेधस्तु–
नागो द्वादशनाचीभिर्दिक् पञ्चदशबिस्तथा ।
भूतो ऽष्टादशनाचीभिर्दुषयत्युत्तरां तिथिम् ॥
इति स्कन्दपुराणवचनात् षण्मुहूर्तात्मको न तु सामान्यतस्त्रिमुहूर्तामकः ।
स्कन्दषष्ठी तु–
कृष्णाष्टमी स्कन्दषष्ठी शिवरात्रिश्चतुर्दशी ।
एताः पूर्वयुताः कार्यास्तिथ्यन्ते पारणं भवेत् ॥
इति व्रह्नवैवर्तवचनात् पञ्चमीयुतैव ग्राह्या ।
कृष्णाष्टमी = कृष्णपक्षगता अष्टमी ।
व्रतप्रकाशप्रसिद्धरुद्रदैवत्यकृष्णाष्टमीव्रतसम्बान्धिनी वा जन्माष्टमीत्यपि केचित् ।
इदं वचनं या द्वादशनाडीमितपञ्चम्या विद्धा षष्ठी सामान्यतः सर्वदैवकार्येषु निषिद्धा तस्या एव स्कन्दव्रते प्रतिप्रसवार्थम् ।
तथाच स्कन्दव्रते ऽपि द्वादशनाडीविद्धाया निषिद्धत्वात् ततो न्यूनपञ्चमीयुतैव ग्राह्येति ज्ञातव्यम् ।
तस्याः शुद्धत्वेन सर्वत्रापि ग्राह्यत्वे वचनानर्थक्यापत्तेः ।
किञ्च"नागो द्वादशनाडीभिः"इति वाक्यं न सर्वत्र द्वादशनाडीमितपञ्चम्या उत्तरतिथिदूषकत्वाभिधानपरं तदभिधाने गौरवात् किन्तु यत्र दूषकत्वं प्राप्तं तत्रैव दूषकत्वानुवादेन द्वादशनाडीमितत्वविधानपरम् ।
स्कन्दव्रते तु पूर्वयुताया एव ग्राह्यत्वाभिधानान्न दूषकत्वमिति द्वादशनाडीमितपञ्चमीविद्धायामपि तत्कार्यम् ।
यत्तु–
एकादशी तृतीया च षष्ठी चैव त्रयोदशी ।
पूर्वविद्धापि कर्तव्या यदि न स्यात्परे ऽहनि ॥
इति वशिष्ठवचनं तत् न सर्वदैवविषयम् ।
पूर्वेद्युः षण्मुहूर्तपञ्चमीविद्धायाः षष्ठ्यास्त्रिमुहूर्ताधिकक्षयासम्भवेन उत्तरदिने ऽपि त्रिमुहूर्ताया अवश्यम्भावित्वात् “यदि न स्यात्ऽ; इत्यास्यानुपपत्तेः, किन्तु एकभक्तादिकाले मध्यान्हादौ परे ऽहनि यदि न स्यात्तदा या स्कन्दव्रतातिरिक्ते सवर्त्र निषिद्धा पूर्वविद्धा सापि कर्तव्येति प्रतिप्रसवार्थम् ।
युक्तं चैतत् ।
कालशास्त्रस्य प्रबलत्वात् ।
द्वादशनाड्यादिवेधस्य नक्तैकभक्तादिव्यतिरिक्तविषयत्वं वदतो हेमाद्रेरप्ययमेवाभिप्रायो निर्णीयते ।
भाद्रपदकृष्णपक्षगतषष्ठी चन्द्रषष्ठी ।
सा चद्रोदययव्यापिनी ग्राह्या ।
तद्वद्भाद्रपदे मासि षष्ठी पक्षे सितेतरे ।
चन्द्रषष्ठीव्रतं कुर्यात् पूर्ववेधः प्रशस्यते ॥
{म्व्-स्_४२}
चन्द्रोदये यदा षष्ठी पूर्वाह्णे चापरे ऽहनि ।
चन्द्रोदये ऽसिते पक्षे सैवोपोष्या प्रयत्नतः ॥
इति वचनात् ।
इति षष्ठीनिर्णयः ।
अथ सप्तमी निर्णीयते ।
सा च सर्वत्र दैवे पूर्वविद्धैव ग्राह्या ।
षण्मुन्योरिति युग्मवाक्यात् ।
षष्ठी तु सप्तमी तात! अन्योन्यं तु समाश्रितम् ।
पूर्वविद्धा द्विजश्रेष्ठ! कर्तव्या स्पतमी तिथिः ॥
इतिब्रह्मपुराणवचनातु:
पञ्चमी सप्तमी चैव दशमी च त्रयोदशी ।
प्रतिपन्नवमी चैव कर्तव्या सम्मुखी तिथिः ॥
इति पैठीनसिवचनात् ।
ननु–
षष्ठ्येकादश्यमावास्या पूर्वविद्धा तथाष्टमी ।
सप्तमी परविद्धा च नोपोष्यं तिथिपञ्चकम् ॥
इति उपवास एव विद्धाया निषेधात्तत्रैव पूर्वविद्धाया ग्राह्यत्वमस्तु ।
तत्रापि–
षष्ठीसमेता कर्तव्या सप्तमी नाष्टमीयुता ।
() पतङ्गोपासनायेह षष्ठ्यामाहुरुपोषणम् ॥
() पतङ्गः सूर्यः
इति भविष्यत्पुराणवचनात्–
षष्ठ्या युक्ता सप्तमी च कर्तव्या तात! सर्वदा ।
षष्ठी च सप्तमी यत्र तत्र सन्निहितो रविः ॥
इतिस्कन्दपुराणवचनाच्च सौरोपवासविषयत्वमेव वास्तु ।
नैतद्युक्तम् ।
सप्तमी नाष्टमीयुक्ता न सप्तम्या युताष्टमी ।
सर्वेषु व्रतकल्पेषु अष्टमी परतः शुभा ॥
इतिब्रह्मवैवर्तवाक्ये सर्वव्रतेषु परविद्धाया निषेधात् ।
पतङ्गोपासनायेत्यादेरुपलक्षणतया पूर्वविद्धायाः सर्वविषयत्वोपपत्तेः ।
यदा तु पूर्वेद्युः अस्तमयोत्तरं प्रवृत्ता परेद्युश्च तिथिक्षयवशेन त्रिमुहूर्तया अष्टम्या विद्धत्वात् शुद्धा पूर्वविद्धा वा न लभ्यते ।
तदा"गुणे त्वन्याय्यकल्पना"इतिन्यायात् गुणानुरोधेन प्रधानत्यागायोगात् निषेधमतिक्रम्यापि व चनाभावे ऽपि गुणकालत्वेन अष्टमीविद्धाया एवोपादानं न्याय्यम् ।
माघशुक्लसप्तमी चारुणोदयव्यापिनी ग्राह्या ।
{म्व्-स्_४३}
सूर्यग्रहणतुल्या तु शुक्लमाघस्य सप्तमी ।
अरुणोदयवेलायां तत्र स्नानं विधीयते ॥
इति वचनात् ।
वैशाखशुक्लसप्तम्यां गङ्गापूजा तत्र मध्यान्हव्यापिनी ग्राह्या शिष्टाचारात् ।
इति सप्तमीनिर्णयः ।
अथाष्टमीनिर्णयः ।
सा च व्रतमात्रे शुक्ला परा कृष्णा पूर्वा ।
शुक्लपक्षे ऽष्टमी चैव शुक्लपक्षे चतुर्दशी ।
पूर्वविद्धा न कर्तव्या कर्तव्या परसंयुता ॥
कृष्णपक्षे ऽष्टमी चैव कृष्णपक्षे चतुर्दशी ।
पूर्वविद्धा तु कर्तव्या परविद्धा न कुत्रचित् ॥
उपवासादिकार्येषु एष धर्मः सनातनः ।
इति निगमोक्तेः ।
शिवशक्त्युत्सवे तु सर्वा परा ।
अष्टमी नवमीयोगे महोत्साहे! महोत्सवः ।
शिवशक्त्योः शिवक्षेत्रे पक्षयोरुभयोरपि ॥
इति पाद्मोक्तेः ।
उपवासे तु पक्षद्वये ऽप्यष्टमी परयुतैव ग्राह्या ।
उपवासे सप्तमी तु वेधाद्धन्त्युत्तरं दिनम् ।
पक्षयोरुभयोरेष उपवासविधिः स्मृतः ॥
इति नारदीयवचने पक्षद्वये ऽपि सप्तमीविद्धानिषेधात् ।
यत्तु
“कृष्णपक्षे ऽष्टमी चैव"इतिपूर्वोदाहृतनिगमवचने उपवासग्रहणं तद्रुद्रोपवासविषयम् ।
रुद्रव्रतेषु सर्वेषु कर्तव्या सम्मुखी तिथिः ।
अन्येषु व्रतकल्पेषु यथोहिष्टामुपावसेत् ॥
इतिवचनात् ।
यत्तु–
कृष्णाष्टमी स्कन्दषष्ठी शिवरात्रिश्चतुर्दशी ।
एताः पूर्वयुताः कार्यास्तिथ्यन्ते पारणं भवेत् ॥
इति ब्र्हनवैवर्तवचनं तज्जन्माष्टमीपरमिति मदनरत्ने ।
बाद्रशुक्लाष्टमी दूर्वाष्टमी ।
सा च पूर्वा ग्राह्या ।
श्रावणी दुर्गनवमी दूर्वा चैम्व हुताशनी ।
पूर्वविद्धा तु कर्त्त्वया शिवरात्रिर्बलेर्दिन्नम् ॥
इति बृहद्यमोक्तेः ।
{म्व्-स्_४४}
शुक्लाष्टमी तिथिर्यातु मासि भाद्रपदे भवेत् ।
दूर्वाष्टमी तु सा ज्ञेया नोत्तरा सा विधीयते ॥
इति पुराणसमुच्चयाच्च ।
यत्तु–
मुहूर्ते रौहिणे ऽष्टम्यां पूर्वा वा यदि वा परा ।
दूर्वाष्टमी तु सा कार्या ज्येष्ठां मूलं च वर्जयेत् ॥
इति पराभिधानं तत् पूर्वदिने ज्येष्ठादियोगे वेदितव्यम् ।
दूर्वाष्टमी सदा त्याज्या ज्येष्ठामूलर्क्षसंयुता ॥
तथा–
ऐन्द्रर्क्षे पूजिता दूर्वा हन्त्यपत्यानि नान्यथा ।
भर्त्तुरायुर्हरा मूले तस्मात्तां परिवर्जयेत् ॥
इतिनिषेधात् ।
इयं च कन्यार्के अगस्त्योदये च न कार्या ।
शुक्ले भाद्रपदे मासि दूर्वासञ्ज्ञा तथाष्टमी ।
सिंहार्क एव कर्तव्या न कन्यार्के कदाचन ॥
इतिस्कान्दोक्तेः ।
अगस्त्य उदिते तात! पूजयेदमृतोद्भवाम् ।
वैधव्यं पूर्वशोकं च दशवर्षाणि पञ्च च ॥
इति तत्रैव दोषोक्तेश्च ।
अत्रैव ज्येष्ठाव्रतमुक्तम्–
लैङ्गे:
कन्यार्के याष्टमी शुक्ला ज्येष्ठर्क्षे महती स्मृता ।
अलक्ष्मीपरिहाराय ज्येष्ठां तत्र प्रपूजयेत् ॥
इति ।
इयं च ज्येष्ठर्क्षयुक्ता ग्राह्या ।
दिनद्वये तथात्वे परा कार्या ।
नवम्या सह कार्या स्यादष्टमी नात्र संशयः ।
मासे भाद्रपदे शुक्लपक्षे ज्येष्ठर्क्षसंयुता ॥
रात्रिर्यस्मिन्दिने कुर्यात् ज्येष्ठायाः परिपूजनम् ।
इतिस्कान्दोक्तेः ।
नक्षत्रयोगश्च मध्यान्हादूर्द्ध्वम् ।
मघ्यान्हात्पूर्वं चेत् पूर्वैव ।
यस्मिन् दिने भवेज्ज्येष्ठा मध्यान्हादूर्द्ध्वमप्यधः ।
तस्मिन् हविष्यं पूजा च न्यूना चेत् पूर्ववासरे ॥
इतिवचनात् ।
एतच्च तिथिप्रयुक्तं नक्षत्राभावे केवलतिथौ कार्यम् ।
नक्षत्रप्रयुक्तं तु केवलनक्षत्रे ।
प्रत्याब्दिकं तिथावुक्तं यज्ज्येष्ठादैवतं व्रतम् ।
नीलज्येष्ठाव्रतं यच्च विहितं केवलोडुनि ॥
इतिमात्स्योक्तं नीलज्येष्ठाव्रतमपि तिथिप्रयुक्तमेवेति माधवः ।
तत्राष्टम्यां यदा वारो भानोर्नक्षत्रमेव च ।
नीलज्येष्ठेति सा प्रोक्ता दुर्लभा बहुकालिकी ॥
{म्व्-स्_४५}
इतितल्लक्षणार्थे स्कान्दवचने तत्रेति सप्तम्या निर्दिष्टाया अष्टम्यास्तत्र “जयां जुहुयात्ऽ; (अ ० ३ पा ०४ अधि ० १३) इतिवत् प्राधान्यावगतेः ।
मदनरत्नादयस्तु नक्षत्रव्रतमेवेत्याहुः ।
नील्जयेष्ठापदस्य नक्षत्रपरत्वादिति ।
आश्विनबहुलाष्टमी महालक्ष्मीव्रतसमाप्तौ चन्द्रोदयव्यापिनी ग्राह्या ।
पूर्वा वा परविद्धा वा ग्राह्या चन्द्रोदये सदा ।
त्रिमुहूर्तापि सा पूज्या परतश्चोर्ध्वगामिनी ॥
इतिसङ्ग्रहोक्तेः ।
ऊर्ध्वङ्गामिनी = चन्द्रोदयोर्ध्वगामिनी त्रिमुहूर्ता चेत् परतो ऽन्यथा तु पूर्वा ।
यत्तु–
कन्यागते ऽर्के प्रारभ्य कर्तव्यं न श्रियो ऽर्चनम् ।
हस्तप्रान्तदलस्थे ऽर्के तद्व्रतं न समापयेत् ।
दोषैश्र्चतुर्भिः सन्त्यक्ता सवेसम्पत्करी तिथिः ॥
पुत्रसौभाग्यराज्यायुर्नाशिनी सम्प्रकीर्त्तिता ।
तस्मात्सर्वप्रयत्नेन त्याज्या कन्यागते रवौ ॥
विशेषेण परित्याज्या नवमीदूषिता यदि ।
त्रिदिने चावमे चैव अष्टमीं नोपवासयेत् ॥
पुत्रहा नवमीविद्धा स्वघ्नी हस्तार्कगे रवौ ।
इति नवमीयुक्ताया निषेधकथनं तदर्धरात्रादूर्ध्वं त्रिमुहूर्तत्वाभावे त्रिमुहूर्तेत्युपादानात् ।
त्रिस्पृगादिनिषेधश्च प्रथमारम्भविषयः ।
प्रारव्धस्य षोडशवार्षिकव्रतस्य मध्ये ऽनुष्ठाने लोकविगर्हणा स्यादिति ।
इति महालक्ष्म्यष्टमी ।
आश्विनशुक्लाष्टमी तु दुर्गाष्टमी सा च सामान्यनिर्णयादेव नवमीविद्धा कार्या ।
यद्यपि च
सामान्यनिर्णयादेवास्या उत्तरविद्धत्वं तथापि इयं लेशतो ऽपि सप्तमीविद्धा न कर्तव्या ।
तथा च–
स्मृतिसङ्ग्रहे:
सप्तमीलेशसंयुक्तां मोहादज्ञानतो ऽपिवा ।
महाष्टमीं प्रकुर्वाणो नरकं प्रतिपद्यते ॥
सप्तमी कलया यत्र परतश्चाष्टमी भवेत् ।
तेन शल्यमिदं प्रोक्तं पुत्रपौत्रक्षयप्रदम् ॥
पुत्रान् हन्ति पशून् हन्ति हन्ति राष्ट्रं सराजकम् ।
हन्ति जातानजातांश्च सप्तमीसहिताष्टमी ॥
इतिसप्तमीमिश्रिताया निषेदात् ।
यच्च–
सप्तम्यामुदिते सूर्ये परतो याष्टमी भवेत् ॥
तत्र दुर्गोत्सवं कुर्यान्न कुर्यादपरे ऽहनि ॥
इति,
{म्व्-स्_४६}
तद् यदाश्विनकृष्णाष्टमीमारभ्य–
कन्यायां कृष्णपक्षे तु पूजयित्वाष्टमीदिने ।
नवम्यां बोधयेद्देवीं गीतवादित्रनिस्वनैः ॥
इति देवीपुराणे कृष्णपक्षाष्टम्यां देवीबोधनमुक्तं तद्विषयम् ।
यच्च–
भद्रायां भद्रकाल्याश्च मद्ये स्यादर्चनक्रिया ।
तस्माद्वै सप्तमीविद्धा कार्या दुर्गाष्टमी बुधैः ॥
इति ।
यच्च मदनरत्ने–
महाष्टम्याश्विने मासि शुक्ला कल्याणकारिणी ।
सप्तम्यादियुता कार्या मूलेन तु विशेषतः ॥
तथा निर्णयामूते–
अहं भद्रा च भद्राहं नावयोरन्तरं क्वचित् ।
सर्वसिद्धिं प्रदास्यामि भद्रायामर्चिता ह्यहम् ॥
इति देवीपुराणम्, तथा तत्रैव–
विष्टिं त्यक्त्वा महाराज! मम पूजां करोति यः ।
कृत्स्नं तस्य फलं न स्यात्तेनाहमवमानिता ॥
इत्यनेन सप्तमीविद्धाया अपि ग्राह्यत्वमुक्तम् ।
तदपरदिने कलाकाष्ठादिरूपाया अष्टम्या अभावे ।
यत्तु–
यदाष्टमीं तु सम्प्राप्य चास्तं याति दिवाकरः ।
तत्र दुर्गोत्सवं कुर्यान्न कुर्यादपरे ऽहनि ॥
दुर्भिक्षं तत्र जानीयान्नवम्यां यत्र पूजयेत् ।
इति वचनं तद्दशम्यां नवम्यसत्त्वे ।
यदा सूर्योदये न स्यान्नवमी चापरे ऽहनि ।
तदाष्टमीं प्रकुर्वीत सप्तम्या सहितां नृप! ॥
इति स्मृतिसङ्ग्रहादिति मदनरत्ने ।
वस्तुतः पूर्वोदाहृतदेवीपुराणात् कृष्णपक्षाष्टमीविषयमिदमिति
प्रतिभाति ।
अत्र च पुत्रवता उपवासो न कार्य इत्युक्तम्–
कालिकापुराणे:
उपवासं महाष्टम्यां पुत्रवान्न समाचरेत् ।
यथा तथा वा पूतात्मा व्रती देवीं प्रपूजयेत् ॥
इति ।
इयं च मूलयुक्तातिप्रशस्तेत्युक्तं हेमाद्रौ स्कन्दपुराणे–
कन्यां गते सवितरि शुक्लपक्षे ऽष्टमी तु या ।
मूलनक्षत्रसंयुक्ता सा महानवमी स्मृता ॥
नवम्यां पूजिता देवी ददात्यभिमतं फलम् ।
इति ।
{म्व्-स्_४७}
इयमपि सप्तमीयुक्ता न कार्येत्युक्तम्–
निर्णयामृते दुर्गोत्सवे:
मूलेनापिहि संयुक्ता सदा त्याज्याष्टमी बुधैः ।
लेशमात्रेण सप्तम्या अपि स्याद् दूषिता यदि ।
इति ।
इति दुर्गाष्टमीनिर्णयः ।
पौषशुक्लाष्टमी बुधवारयुता महाभद्रा ।
तदुक्तम्–
भविष्योत्तरे:
पुष्ये मासि यदा देवि! शुक्लाष्टम्यां बुधो भवेत् ।
तदा सा तु महापुण्या महाभद्रेतिकीर्त्तिता ॥
इति ।
इयमेव भरणीसंयुक्ता जयन्ती ।
तथाच–
तत्रैव:
पुष्ये मासि यदा देवि! अष्टम्यां नगजे ! शुभे ! ।
नक्षत्रं जायते पुण्यं यल्लोके रौद्रमुच्यते ॥
तदा तु सा महापुण्या जयन्ती अष्टमी शुभा ॥
इति ।
रौद्रं = क्रूरदैवत्यत्वाद्भरणी ।
आर्द्रेति कल्पतरुः ।
तन्न ।
तत्र तद्योगासम्भवात् ।
अथ कृष्णजन्माष्टमी निर्णीयते ।
यद्यपीयं–
प्राजापत्यर्क्षसंयुक्ता कृष्णा नभसि चाष्टमी ।
इति विष्णुधर्मोत्तरात्,
मासि भाद्रपदे ऽष्टम्यां कृष्णपक्षे ऽर्द्धरात्रके ।
इति भविष्योत्तराच्च श्रावणभाद्रयोः प्रतीयते ।
तथाप्येकमूलकल्पनालाघवात् पौर्णमास्यन्तं मासमादाय भाद्रे अमावास्यान्तमादाय श्रावणे ग्राह्या इत्यनुसन्धेयम् ।
एवं च"तिथिकृत्ये च कृष्णादिम्"इति वचनं नात्र श्रावणस्य पौर्णमास्तन्तत्वविधायकं किन्तु एतदतिरिक्तविषयकल्पना लाघवात् ।
भाद्रस्तु यद्यपि भाद्रश्रुत्यामावास्यान्त एव प्राप्नोति मूलश्रुतिकल्पनागौरवस्य फलमुखत्वेनादोषत्वात् तथापि"तिथिकृत्ये च कृष्णादिम्"इतिवचनात् तिथ्यन्तरकृत्येषु तत्तन्मासपदे लक्षणाश्रयणवदिहापि लक्षणाश्रयणमदोषः ।
सा च द्विविधा शुद्धा सप्तमीविद्धा च ।
तत्र द्विविधा अपि सूर्योदयादूर्ध्वगामिनी न वेति द्विविधा ।
तादृश्यपि रोहिणीयोगायोगभेदेन द्विविधा ।
तत्र
सूर्योदयोर्ध्वमसत्यां सर्वस्यामपि न सन्देहः ।
परे ऽहन्यष्टम्यभावात् ।
सूर्योदयोर्ध्वगामिन्यां तु शुद्धायां विद्धायां वा रोहिणीयोगस्यान्यतरत्र सत्त्वे सैव ।
{म्व्-स्_४८}
प्राजापत्यर्क्षसंयुक्ता कृष्णा नभसि चाष्टमी ।
मुहूर्तमपि लभ्येत सोपोष्या सा महाफला ॥
मुहूर्तमप्यहोरात्रे यस्मिन् युक्तं हि लभ्यते ।
अष्टम्यां रोहिणीऋक्षं तां सुपुण्यामुपावसेत् ॥
इति विष्णुरहस्योक्तेः ।
तेनोत्तरदिन एव रोहिणीयोगे पूर्वनिशीथव्यापिनी शुद्धापि त्याज्येति हेमाद्रिमाधवादयः ।
शिष्टास्तु पूर्वामेवोपवसन्ति ।
तेषामयमाशयः ।
अत्रार्द्धरात्रस्य वक्ष्यमाणरीत्या कर्मकालत्वात् कर्मकालशास्त्रस्य च सर्वापेक्षया बलवत्त्वात् परीदने च तदभावात् पूर्वैवेति ।
न च रोहिणीयोगशास्त्रानुरोधेनोत्तरेति वाच्यम् ।
तस्य गुणफलसम्बन्धार्थकत्वेन बुधवारादियोगशास्त्रवनिर्णायकत्वात् ।
अन्यथा
प्रेतयोनिगतानां च प्रेतत्वं नाशितं नरैः ।
यैः कृता श्रावणे मासि ह्यष्टमी रोहिणीयुता ॥
किं पुनर्बुधवारेण सोमेनापि विशेषतः ॥
किं पुनर्नवमीयुक्ता कुलकोय्यास्तु मुक्तिदा ।
इति पाद्मात् पूर्वेझुरर्द्धरात्रगतां रोहिणीयुतामष्यष्टमीं परित्यज्य बुधवारादियुता परा कर्तव्या आपद्येत ।
न चेष्टापत्तिः ।
कुलकोटयास्तु मुक्तिदा किं पुनर्बुधवारेणेत्यादिना"यदि कामयेत वर्षुकः पर्जन्यः स्यात्"इतिवत् (अ० ३ पा० ८ अधि० ६) गुणफलसम्बन्धार्थकत्वप्रतीतेः ।
एतेन आचार्यचूडामण्युक्तं बुधावारादियोगस्य निर्णायकत्वं प्रत्युक्तम् ।
तिथितत्त्वकारादयो ऽपि बुधवारादियोगस्यानिर्णायकत्वं मन्यन्ते ।
एवं च–
प्राजापत्यर्क्षसंयुक्ता कृष्णा नभसि चाष्टमी ।
मुहूर्तमपि लभ्येत–
इति विष्णुरहस्यवचनमपि गुणफलसम्बन्धपरं व्याख्येयम् ।
यत्तु–
उदये चाष्टमी किञ्चित् नवमी सकला यदि ।
इति स्कान्दवचने उदयग्रहणं तच्चन्द्रोदयपरं"तारापत्युदये तथा"इतिवचनान्तरैकवाक्यत्वात् ।
न च–
दिवा वा यदि वा रात्रौ नास्ति चेद्रोहिणी कला ।
रात्रियुक्तां प्रकुर्वीत विशेषेणेन्दुसंयुताम् ॥
इतिवचनात् परदिने रोहिणीयोगाभाव एव रात्रियुक्ताष्टमी ग्राह्ये ति वाच्यम् ।
तस्य तद्दिने स्वल्पस्यापि रोहिणीयोगस्याभावे ऽपि न्यायप्राप्तशुद्धा ष्टमीव्रतकर्तव्यतानुवादकत्वात् इति शिष्टमतमनवद्यम् ।
दिनद्वये रोहिणीयोगे ऽयोगे वा शुद्धाधिका पूर्वैव तदतिक्रमे कारणाभावात् ।
{म्व्-स्_४९}
विद्धाधिकायां त्वन्यतरस्मिन्नेव दिने निशीथे रोहिणीयोगे सैव रोहिणीयोगप्राशस्त्यात् ।
पूर्वत्रैव योगे–
सप्तमीसंयुताष्टम्यां निशीथे रोहिणी यदि ।
भविता साष्टमी पुण्या यावच्चन्द्रदिवाकरौ ॥
इति वक्ष्यमाणसप्तमीविद्धानिषेधप्रतिप्रसवार्थकवह्विपुराणात् ।
दिनद्वये निशीथे रोहिणीयोगे तूत्तरैव ।
वर्जनीया प्रयत्नेन सप्तमीसंयुताष्टमी ।
सऋक्षापि न कर्तव्या सप्तमीसंयुताष्टमी ॥
इति ब्रह्मवैवर्तवचनात् ।
अत एव विद्धाधिकायां द्विनद्वये ऽपि निशीथ मतिक्रम्य रोहिणीयोगे ऽष्टम्याश्च दिनद्वये निशीथे सत्त्वासत्तवयोः परैव ।
अन्यतरस्मिन्नेव सत्त्वे सैव ।
सर्वथा रोहिणीयोगरहितायामष्टम्यां निशीथे दिनद्वयसत्त्वान्यतरसत्त्वेष्वयमेव न्यायो द्रष्टव्यः ।
न च–
अलाभे रोहिणीभस्य कार्याष्टम्यस्तगामिनी ।
तत्रोपवासं कृत्वैव तिथ्यन्ते पारणं भवेत् ॥
इति गौडधृतविष्णुरहस्यवचनात् रोहिण्यलाभे सर्वथा पूर्वैव ग्राह्या स्यादितिवाच्यम् ।
वाक्यस्य हेमाद्र्यादिभिरनिबन्धनान्निर्मूलत्वात् ।
समूलत्वे वा परदिने निशीथे रोहिणीयोगाभावविषयत्वादिति ।
अत्र चार्द्धरात्रपूजोपवासश्च द्वयं प्रधानम् ।
अर्द्धरात्रे तु रोहिण्यां यदा कृष्णाष्टमी भवेत् ।
तस्यामभ्यर्चनं शौरेर्हन्ति पापं त्रिजन्मजम् ॥
इति भविष्यपुराणात्"सोपोष्या सा महाफला"इति पूर्वोदाहृतवचनाच्च ।
त्रिकालं पूजयेद्देवं दिवारात्रौ विशेषतः ।
अर्धरात्रावपि तथा पुष्पैनार्नाविधैरपि ॥
इति भविष्योक्तपूजा त्वङ्गभूता फलसम्बन्धाभावात् ।
न चैवं पूजोपवासयोः फलभेदात् समानफलकत्वे ऽपि वा निरपेक्षविधानात् चित्रोद्भिदादिवदेकैकस्याप्यनुष्ठानप्रसङ्ग इति वाच्यम् ।
सोपवासो हरेः पूजां कृत्वा तत्र न सीदति ।
इति भविष्यवचनात् समुच्चयावगतेः"द्वादशरात्रे हवींषि निर्वपेत्"इतिवचनादाधानपवमानेष्टयोरिव ।
भाष्यकारमतेन च फलश्रुतेः काम्यत्वमेव ।
प्राजापत्यर्क्षसंयुक्ता कृष्णा नभसि चाष्टमी ।
वर्षे वर्षे तु कर्तव्या तुष्टयर्थं चक्रपाणिनः ॥
{म्व्-स्_५०}
इति वीप्साश्रवणान्नित्यत्वोपपत्तेः ।
न चात्र तुष्टयर्थमितिफलश्रवणात् फलनिमित्तोद्देश्यद्वयनिमित्तवाक्यभेदः स्यादिति वाच्यम् ।
विजातीयानेकोद्देश्यद्वयनिमित्तवाक्यभेदः स्यादिति वाच्यम् ।
विजातीयानेकोद्देश्यत्वनिमित्तस्य तस्यादोषत्वात् ।
न च नित्यत्वे ऽस्याकरणे प्रायश्चित्तश्रवणं स्यादितिवाच्यम् ।
विशिष्य तदनुक्तावपि प्राणायामशतं कार्यं सर्वपापापनुत्तये ।
इत्यादेः सामान्यतः श्रुतस्यात्रापि प्राप्तेरित्यनवद्यम् ।
इति जन्मष्टमीनिर्णयः ।
अथास्याः पारणनिर्णयः ।
तत्र केवलाष्ट्यम्युपवासे पारणदिने चाष्टम्यनुवृत्तौ तदन्ते कार्यम् ।
विष्णुधर्मोत्तरे–
जयन्ती शिवरात्रिश्च कार्ये भद्राजयान्विते ।
कृत्वोपवासं तिथ्यन्ते तथा कुर्याच्च पारणम् ॥
इति ।
अत्र जयन्तीशब्दो जन्माष्टमीमात्रवचनः तिथिमात्रान्ते पारणाविधानात् ।
रोहिणीसहिताष्टम्युपवासे तु पारणदिने उभयानुवृत्तावुभयान्ते तत् कार्यम् ।
कार्या विद्धा तु सप्तम्या रोहिणीसहिताष्टमी ।
तत्रोवासं कुर्यात्तु तिथिभान्ते च पारणम् ॥
इति पद्मपुराणात् ।
इदं चोभयान्ते पारणं महानिशातो ऽर्वागुभ यान्ते भोजनपर्याप्तकाललाभे ।
न रात्रौ पारणं कुर्यादृते वै रोहिणीव्रतात् ।
अत्र निश्यपि तत्कुर्यात् वर्जयित्वा महानिशाम् ॥
इति गौडनिबन्धोदाहृतब्रह्माण्डपुराणात् ।
महानिशा च सार्द्धयामानन्तरं याममात्रो रात्रिभागः ।
महानिशा तु विज्ञेया मध्यं मध्यमयामयोः ।
इति स्मृतेः रोहिणीव्रतं चात्र तदुक्ताष्टमीव्रतमेव प्रकरणात् ।
एवं च–
सर्वेष्वेवोपवासेषु दिवा पारणमिष्यते ।
अन्यथा पुण्यहानिः स्यादृते धारणपारणम् ॥
अन्यतिथ्यागमो रात्रौ तामसस्तैजसो दिवा ।
तामसे पारणं कुर्यात् तामसीं गतिमाप्नुयात् ॥
इति गरुडपुराणादौ रात्रिपारणनिषेधो जन्माष्टमीपारणातिरिक्तपरः ।
यदा तु तादृशे काले उभयान्तो न लभ्यते तदान्यतरान्ते ऽपि तत् कार्यम् ।
{म्व्-स्_५१}
भान्ते कुर्यात्तिथेर्वापि शस्तं भारत! पारणम् ।
इति जन्माष्टमीं प्रक्रम्य वन्हिपुराणात् ।
यदा तु महानिशायाः पूर्वं पारणापर्याप्तः कालो न लभ्यते तदा तत्रापि कुर्यात् ।
तिथ्यर्क्षयोर्यदा च्छेदो नक्षत्रान्तमथापि वा ।
अर्द्धरात्रे ऽपि वा कुर्यात् पारणं त्वपरे ऽहनि ॥
इति हेमाद्रिधृतवचनात् ।
अर्द्धंरात्रे = महानिशायाम् ।
तत्रैव भोजननिषेधात् प्रतिप्रसवस्योचितत्वात् ।
नक्षत्रान्तमिति तिथ्यन्तस्याप्युपलक्षणम् ।
गौडास्तु अर्द्धरात्रेन तत् कुर्यात् इति पठित्वा यद्यर्धरात्रे उभयोरन्यतरस्य वान्तस्तदा नार्द्धरात्रे पारणं किन्तु दिवैव ।
वर्जयित्वा महानिशामिति पर्युदासैकवाक्यतालाभादित्याहुः ।
यत्तु–
तिथ्यन्ते वोत्सवान्ते वा व्रती कुर्वीन्त पारणम् ।
इति कालादर्शवचनं तदशक्तविषयमिति मदनरत्ने ।
हेमाद्रिस्तु उभयान्ते पारणं शक्तविषयमशक्तस्य तु अन्यतरान्ते ततो ऽप्यशक्तस्योत्सवान्त इत्याह ।
इति श्रीमत्सकलसामन्तचक्रचूडामणिमरीचिमञ्जरीनीराजितचरणकमल श्रीमन्महाराजाधिराजप्रतापरुद्रतनूजश्रीमन्महाराजमधुकरसाहसूनु-चतुरुदधिवलययसुन्धराहृदयपुण्डरीकविकाशदिनकर श्र श्रीमन्महाराजाधिराजवीरसिंहदेवोद्योजित-श्रीहंसपण्डितात्मज-श्रीपरशुराममिश्रसुनु-सकलविद्यापारावारपारीणधुरीणजगद्दारिद्रयमहागजपारीन्द्रविद्वञ्चनजीवातु-श्रीमन्मित्रमिश्रकृते वीरमित्रोदयनिबन्धे समयप्रकाशे जन्माष्टमीनिर्णयः ।
अथ नवमी निर्णीयते ।
सा तु अष्टमीसंयुता ग्राह्या ।
वसुरन्ध्रयोरितियुग्मवाक्यात् ।
पद्मपुराणे ऽपि–
अष्टमी नवमीविद्धा नवम्या चाष्टमी युता ।
अर्द्धनारीश्वरप्राया उमामाहेश्वरी तिथिः ॥
इति ।
भविष्यपुराणे ऽपि द्वादशीकल्पे–
नवम्या सह कार्या स्यादष्टमी नवमी तथा ।
तथा = अष्टम्या सहेत्यर्थः ।
निषेधमुखेनापि नवम्या अष्टमीविद्धत्वंस्कन्दपुराणादावभिहितम्–
{म्व्-स्_५२}
न कार्या नवमी तात! दशम्या तु कदाचन ।
इति स्कन्दपुराणम्
नवम्येकादशी चैव दिशा विद्धा यदा भवेत् ।
तदा वर्ज्या विशेषेण गङ्गाम्भः सुरया यथा ॥
इति पद्मपुराणं च ।
दिक् दशमी ।
नवम्या अष्टमीवेधविधिर्दशमीवेधनिषेधश्च द्वयं ब्रह्मवैवर्त्ते दर्शितम् ।
अष्टम्या नवमी विद्धा कर्तव्या फलकाङ्क्षिभिः ।
न कुर्यान्नवमीं तात! दशम्या तु कदाचन ॥
इति ।
ननु कृष्णनवम्या अष्टमीविद्धत्वे ऽपि शुक्लपक्षनवम्या दशमीविद्धत्वमस्तु ।
शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितो रविः ।
इति वचनबलादिति चेत्, न ।
पूर्वोक्तेषु वचनेषु दधमीवेधस्य साक्षान्निषिद्धत्वात् ।
ननु पूर्वोङ्क्तनिषेधस्य कृष्णशुक्लपक्षोभयसाधारणत्वेन सामान्यरूपस्य कृष्णपक्षे सङ्कोचो ऽस्त्विति चेत्, मैवम् ।
भवदुक्तो ऽपि"शुक्लपक्षे तिथिर्ग्राह्या"इत्ययं सङ्कोचहेतुरपि सामान्यरूप एव तस्मात् पक्षयोरुभयोरपि पूर्वविद्धैव नवमीति सिद्धम् ।
चैत्रशुक्लपक्षे नवमी रामनवमी सा च मध्याह्नव्यापिनी ग्राह्या ।
मेषे पूषणि सम्प्राप्ते लग्ने कर्कटकाह्वये ।
आविरासीत्स कलया कोसल्यायां परः पुमान् ॥
इत्यगस्त्यसंहितावचनात् मघ्याह्नस्य जन्मकालत्वात् ।
जयन्तीषु च जन्मकालस्यैव पूजारूपकर्मकालत्वात् ।
जन्माष्टम्यादौ तथा दर्शनात् ।
सैव मध्याह्नयोगिनी यदि पुनर्वसुयुता अतीव पुण्यतमेत्युक्तं–
तत्रैव:
चैत्रशुद्धात्र नवमी पुनर्वसुयुता यदि ।
सैव मध्याह्नयोगेन महापुण्यतमा भवेत् ॥
इति ।
सा रामनवमी यदि दिनद्वये ऽपि मध्याह्नस्पर्शिनी दिनद्वये ऽपि मध्याह्नास्पर्शिनी दिनद्वये ऽपि मध्याह्नैकदेशस्पर्शिनी वा तदा पुनर्वसुयुता ग्राह्या ।
पुनर्वस्वृक्षसंयोगः स्वल्पो ऽपि यदि दृश्यते ।
चैत्रशुद्धनवम्यां तु सा पुण्या सर्वकामदा ॥
इत्यगस्त्यसंहितावचनात् ।
यदा तादृश्या दिनद्वये ऽपि पुनर्वसुयोगस्तदा या मध्याह्ने पुनर्वसुयोगिनी सा ग्राह्या ।
जन्मकाले ऋक्षयोगस्यरोहिणीयोगवत् प्रशस्तत्वात् ।
{म्व्-स्_५३}
यदा दिनद्वये ऽपि मध्याह्ने व्रत्तमाना दिनद्वये ऽपि च मध्याह्ने पुनर्वसुयोगस्तदाप्युत्तरैव ।
यदा दिनद्वये मध्याह्ने मध्याह्नं परिहृत्य वा वर्तमाना पुनर्वसुयोगश्च मध्याह्नं परिहृत्यैव तदाप्युत्तरैव ।
यदा दिनद्वये मध्याह्नयोगिनी दिनद्वये तदयोगिनी दिनद्वये तदेकदेशयोगिनी वा सर्वथैव पुनर्वसुयोगाभावस्तदाष्युत्तरैव ।
यदा तु उत्तरदिने मन्याह्ने वर्तमाना पूर्वदिने ऋक्षयोगवत्यपि तदापि परैव ।
यदा तु पूर्वदिने मध्याह्ने वर्तमानापि उत्तरदिने च पुनर्वसुयोगस्तदाप्युत्तरैव ।
सर्वथाष्टमीविद्धाया निषिद्धत्वादिति ।
नवमी चाष्टमीविद्धा त्याज्या विष्णुपरायणैः ।
उपोषणं नवम्यां तु दशम्यां पारणं भवेत् ॥
इत्यगस्त्यसंहितावचनात् ।
एतेषां च पक्षाणां स्पष्टत्वार्थमुक्तानां नातीव पौनरुक्त्यं शङ्कनीयम् ।
अत्रैवं केचित् ।
नवमी चाष्टमीविद्धा त्याज्या विष्णुपरायणैः ।
इत्यत्र विष्णुपरायणानां वैष्णवानाम् अष्टमीविद्धा नवमी नोपोष्या दशमीविद्धोपोष्या ।
अवैष्णवानां तु अष्टमीविद्धाप्युपोष्येति मन्यन्ते ।
तदसत् ।
विष्णुपरायणैः सद्भिरिदं सर्वं कर्तव्यमित्युपदेशपरत्वेनापि तस्य विशेषणस्योपपत्तौ अवैष्णवानामष्टमीविद्धाविध्यापादककर्त्तृविशेषणत्वाङ्गीकारस्यानुचितत्वात् ।
वस्तुतस्तु विष्णुपदस्य प्रकृतरामात्मकविष्णुपरत्वात् परायणैरित्येतत्तन्मन्त्रदीक्षितपरं सङ्गुणविधावपि श्रुतम्–
तस्मिन् दिने तु कर्तव्यमुपवासव्रतं सदा ।
इति सदाशब्दयुक्ते नित्यप्रयोगावध्याकाङ्क्षितत्वात् प्रकृते ऽन्वेति ।
तेन सदाशब्दप्रयोगात् प्रतीयमानं नित्यत्वमेतह्रतस्य राममन्त्रदीक्षितान् प्रत्येव भवति ।
ननु–
प्राप्ते श्रीरामनवमीदिने मर्त्त्यो विमूढधीः ।
उपोषणं न कुरुते कुम्मीपाकेषु पच्यते ॥
अकृत्वा रामनवमीव्रतं सर्वव्रतोत्तमम् ।
व्रतान्यन्यानि कुरुते न तेषां फलभाग् भवेत् ॥
इत्यादिषु अकरणे दोषप्रतिपादनात् नित्यत्वावेदकेषु वचनेषु मर्त्य इत्यादिसामान्यशब्दश्रवणात सर्वान् प्रत्येवेदं कुतो नेति चेत्, मैवम् ।
तन्नित्यत्वं हि"विष्णुपरायणैः"इत्यनेन"तस्मिन् दिने तु कर्तव्यम्"इत्यादिना च राममन्त्रदीक्षितान् प्रत्येव न सर्वान् प्रति ।
{म्व्-स्_५४}
लोके ऽपि राममन्त्रदीक्षारहिता रामनवम्यामनुपवसन्तः शिष्टा अपि बहुशो दृष्टा एव ।
सूर्यग्रहे कुरुक्षेत्रे महादानैः कृतैर्मुहुः ।
यत् फलं तदवाप्नोति श्रीरामनवमीव्रतात् ॥
इत्यादिवाक्यविहितः काम्यप्रयोगस्तु सर्वेषां भवति ।
ननु यथा विष्णुपरायणैरित्यस्य नित्याधिकारविधावन्वयस्तथा कामाधिकारवि धावप्यन्वयो ऽस्त्वितिचेत्, न ।
खण्डतिथौ काम्यप्रयोगस्य निषिद्धत्वात् खण्डतिथिनिर्णयवाक्यानां नित्यप्रयोगविधिमात्रशेषत्वात् तदन्तर्गतस्य विश्नुपरायणैरित्येतस्य पदस्य नित्यप्रयोगमात्रान्वयस्यैवोचितत्वात् इति ।
अत्र पारणं तु यदा पूर्वविद्धायामुपवासस्तदा नवमीमतिक्रम्यैव कर्तव्यं सामान्यवचनात् दशम्यामेव पारणमिति विशेषवचनाच्च ।
न चात्र रात्रिपारणादिप्रसक्तिः कापि ।
इति रामनवमीनिर्णयः ।
आश्विनशुक्लनवमी दुर्गानवमी सैव महानवमी ।
तथा च–
भविष्ये:
आश्वयुक्शुक्लपक्षे तु अष्टमी मूलसंयुता ।
सा महानवमी नाम त्रैलोक्ये ऽपि सुदुर्लभा ॥
इति ।
मूलग्रहणमुपलक्षणम् ।
दुर्गापूजां प्रक्रम्य तत्रैव–
दुर्गापूजासु नवमी मूलाद्यृक्षत्रयान्विता ।
महती कीर्तिता तस्यां दुर्गां महिषमर्द्दिनीम् ॥
इय च उपवासादिषु अष्टमीविद्धैव ग्राह्या ।
तथाच–
पद्मपुराणे:
श्रावणी दुर्गनवमी दूर्वा चैव हुताशनी ।
पूर्वविद्धा प्रकर्तव्या शिवरात्रिर्बलेर्दिनम् ॥
इति ।
न कुर्यान्नवमीं तात! दशम्या तु कदाचन ।
इति स्कान्दाच्च ।
बलिदाने च नवमी सूर्योदयसम्बन्धिनी ग्राह्या ।
सूर्योदये परं रिक्ता पूर्णा स्यादपरा यदि ।
बलिदानं प्रकर्तव्ये तत्र देशे शुभावहम् ॥
बलिदाने कृते ऽष्टम्यां पुत्रभङ्गो भवेन्नृप! ।
इति देवीपुराणात् ।
यदपि तत्र–
आश्वयुक्शुक्लनवमी मुहूर्तं वा कला यदि ।
सा दिथिः सकला ज्ञेया लक्ष्मीविद्याजयार्थिभिः ॥
{म्व्-स्_५५}
इति सौरपुराणम् ।
तदपि बलिदानपरमेवेति ।
यदपि
नवम्यामपराह्णे तु बलिदानं प्रशस्यते ।
दशमीं वर्जयेत्तत्र नात्र कार्या विचारणा ॥
इति नारदवचनं तच्छुद्धाधिकानिषेधपरमिति मदनरत्ने ।
अलमतिप्रसङ्गेन ।
विस्तरस्तु नवरात्रनिर्णये द्रष्टव्यः ।
इति नवमीनिर्णयः ।
अथ दशमी निर्णीयते ।
तस्यां च तिथ्यन्तरवद्धेयोपादेयविभागवचनं नास्ति ।
तिथ्यन्तरे हि तिथिः क्वचित् पूर्वविद्धा ग्राह्या क्वचिदुत्तरविद्धा दशम्यां च तथा न किञ्चित् नियामकं वचो ऽस्ति ।
तेन दशमी दिनद्वये ऽपि कर्मकालव्या पिनी पूर्वा परा वेच्छया ग्राह्या ।
सम्पूर्णा दशमी ग्राह्या परया पूर्वयाथवा ।
युक्ता न दूषिता यस्मात् तिथिः सा सर्वतोमुखी ॥
इति स्कन्दपुराणात् ।
सम्पूर्णा कर्मकाले विशेषाश्रवणाद्दिनद्वये ऽपि ।
इतरेषु पक्षेषु पूर्वा ।
दशमी चैव कर्तव्या सदुर्गा द्विजसत्तम्! ।
इति स्कन्दपुराण एवोक्तत्वादिति ।
सदुर्गा = नवमीविद्धा ।
ननु
सम्पूर्णा दशमी ग्राह्या परया पूर्वयाथ वा ।
इत्यनेन अव्यवस्थायां प्राप्तायां विकल्पपर्यवसानात्तस्य चाष्टदोषदुष्टत्वात् केवलं पुरुषेच्छाप्रसरस्यानुचितत्वादवश्यं किञ्चिदास्थातव्यं व्यवस्थापकं शास्त्रमितिचेत्, सत्यम् ।
शुक्लपक्षे तिथिर्ग्राह्या यस्यामब्युदितो रविः ।
कृष्णपक्षे तिथिर्ग्राह्या यस्यामस्तमितो रविः ॥
इति मार्कण्डेयोक्तास्त्येव व्यवस्था ।
तेन नास्त्येव स्वच्छन्दं पुमिच्छाप्रसरः ।
अत एवोक्तं व्यतिरेकमुखेन–
उदासीने तु शास्त्रार्थे पुरुषेच्छा नियामिका ।
इति ।
एवं सति यानि परविद्धानिषेधकानि–
नन्दाविद्धा तु या पूर्णा द्वादशी मकरे सिता ।
भृगुणा नष्टचन्द्रा च एता वै निष्फलाः स्मृताः ॥
इति कूर्मपुराणे ।
पूर्णा = दशमी ।
नन्दा = एकादशी तद्विद्धा निष्फले ति गम्यते ।
{म्व्-स्_५६}
प्रतिपतू पञ्चमी भूतसावित्री वटपूर्णिमा ।
नवमी दशमी चैव नोपोष्याः परसंयुताः ॥
इति ब्रह्मवैवर्ते:
नागविद्धा तु या षष्ठी शिवविद्धा च सप्तमी ।
दशम्येकादशीविद्धा नोपोष्याः स्युः कथञ्चन ॥
इति शिवरहस्यसौरपुराणादिषु वचनानि तानि कृष्णपक्षविषयाण्येव न व्याप्तयादिपक्षविषयाणि ।
अत्रोपवासग्रहणं मुख्यतया सर्वकर्मोपलक्षणमेव युक्तमिति सङ्क्षेपः ।
इति दशमीसामान्यनिर्णयः ।
ज्येष्ठशुक्लदशमी दशहरा ।
दशमी शुक्लपक्षे तु ज्येष्ठमासे कुजे ऽहनि ।
अवतीर्णा सरित् स्वर्गाद्धस्तर्क्षे सा यतो ऽमला ॥
हरते दश पापानि तस्माद्दशहरा स्मृता (*) ।
(*) दश पापानि च मनुनोक्तानि यथा–
पारुष्यमनृतं चैव पैशून्यं चापि सर्वशः ।
असम्बनद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ॥
अदत्तानामुपादानं हिंसा चैवाविधानतः ।
परदारोपसेवा च कायिकं त्रिविधं स्मृतम् ॥
परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम् ।
वितथाभिनिवेशश्च त्रिविधं कर्म मानसम् ॥
इति ।
इति स्कन्दपुराणात् ।
अत्र योगविशेष उक्तस्तत्रैव–
ज्येष्ठे मासि सिते पक्षे दशम्यां बुधहस्तयोः ।
गरानन्दे व्यतीपाते कन्याचन्द्रे वृषे रवौ ॥
दशयोगे नरः स्नात्वा सर्वपापैः प्रमुच्यते ।
अत्र च यत्रैव योगबाहुल्यं सैव ग्राह्या ।
आश्विनशुक्लदशमी विजयादशमी ।
तां प्रक्रम्य पुराणसमुच्चये–
दशम्यां च नरैः सम्यक् पूजनीयापराजिता ।
ईशानीं दिशमाश्रित्य अपराह्णे च यत्नतः ॥
इयं च यद्युत्तरैव श्रवणयुता तदा सैव ग्राह्या ।
उदये दशमी किञ्चित् सम्पूर्णैकादशी यदि ।
श्रवणर्क्षे यदा काले सा तिथिर्विजयाभिधा ॥
{म्व्-स्_५७}
इति कश्यपोक्तेः ।
अन्येषु पक्षेषु नवमीयुक्ता ग्राह्या ।
या पूर्णा नवमीयुक्ता तस्यां पूज्यापराजिता ।
इति पुराणसमुच्चयात् ।
इति दशमीनिर्णयः ।
अथैकादशी निर्णीयते ।
सा च सर्वकार्येषु परयुतैव ग्राह्या ।
“रुदेण द्वादशीयुक्ता"इति युग्मवाक्यात् ।
एकादशी न कर्तव्या दशमीसंयुता विभो!
पूर्वविद्धा न कर्तव्या तृतीया षष्ठिरेव च ।
अष्टम्येकादशी भूतो धर्मकामार्थवाञ्छिभिः ॥
इति स्कन्दपुराणभविष्यपुराणयोः पूर्वविद्धाप्रतिषेधाच्च ।
चैत्रशुक्लैकादशी वैश्यकर्तृकवास्तुपूजने ऽपराह्णव्यापिनी ग्राह्या ।
तत्रापराह्णे वास्तुश्च वैश्यानां वंशधारकः ।
अर्घ्यैर्माल्यैश्च वस्त्रैश्च पूज्यो रङ्गैर्विचित्रितैः ॥
इति तां प्रकृत्य ब्रह्मपुराणात् ।
आषाढशुक्लैकादश्यादिषु विष्णुशयनादि कार्यम् ।
तत्र–
ब्रह्मपुराणे:
एकादश्यां तु शुक्लायामाषाढे भगवान् हरिः ।
भुजङ्गशयने शेते तदा क्षीरार्णवे सदा ॥
एकादश्यां तु शुक्लायां कार्त्तिके मासि केशवम् ।
प्रसुप्तं बोधयेद्रात्रौ श्रद्वाभक्तिसमन्वितः ॥
भविष्योत्तरे ऽपि–
प्राप्ते भाद्रपदे मासि एकादश्र्यां दिने सिते ।
कटिदानं भेवद्विष्णोर्महापातकनाशनम् ॥
कटिदानम् = अङ्गपरिवृत्तिकरणम् ।
वराहपुराणादौ तु एतेष्वेव मासेषु शुक्लद्वादशीषु शयनादिकमुक्तम् ।
आषाढमासे द्वादश्र्यां सर्वशान्तिकरं शुभम् ।
य एतेन विधानेन ज्ञात्वा मे कर्म कारयेत् ॥
स पुमान्न प्रणश्येत संसारेषु युगे युगे ।
तथा–
इयं च द्वादशी राजन्! प्रबोधार्थं विनिर्मिता ।
मयैषा सर्वलोकानां हितार्थं शेषशायिना ॥
{म्व्-स्_५८}
तथा हेमाद्रयुदाहृते भविष्ये ऽपि–
द्वादश्यां शुक्लपक्षे तु प्रस्वापावर्तनोत्सवाः ।
इति ।
न चात्र द्वादशीपदस्य एकादशीपरत्वमिति कस्य चिदुक्तिर्युक्ता ।
तथात्वे प्रमाणाभावात् लक्षणापत्तेश्च ।
प्रतिपद्धनदस्योक्ता पवित्रारोपणे तिथिः ।
श्रियो देव्या द्वितीया तु तिथीनामुत्तमा स्मृता ॥
तृतीया स्याद्भवान्यास्तु चतुर्थी तत्सुतस्य च ।
पञ्चमी धर्मराजस्य तथा षष्ठी गुहस्य च ॥
सप्तमी भास्करस्योक्ता दुर्गाया अष्टमी स्मृता ।
मातृणां नवमी चैव दशमी वासुकेः स्मृता ॥
एकादशी ऋषीणां च द्वादशी चक्रपाणिनः ।
त्रयोदशी ह्यनङ्गस्य शिवस्योक्ता चतुर्दशी ॥
मम चैव मनिश्रेष्ठ! पौणमासी तिथिः स्मृता ।
यस्य यस्य च देवस्य यन्नक्षत्रं तिथिश्च या ॥
तस्य देवस्य तस्मिंस्तु शयनावर्तनादिकम्।
इति मत्स्यपुराणवचनविरोधापत्तेश्च ।
तस्मात् कालान्तरविधानमेव साधीयः ।
क्वचित्तु आषाढकार्त्तिकपौर्णमास्योः स्वापप्रबोधावुक्तौ ।
तथा च–
यमः:
क्षीराव्धौ शेषपर्यङ्के आषाढयां संविशेद्धरिः ।
निद्रां त्यजति कार्त्तिक्यां तयोः सम्पूज्जयेत्सदा ॥
ब्रह्महत्यादिकं पापं क्षिप्रमेव व्यपोहति ।
आषाढी कार्त्तिकी चात्र पौर्णमासी ।
तत्रैव प्रचुरतरप्रयोगात् ।
आषाढशुक्लपक्षान्ते भगवान् मधुसूदनः ।
भोगिभोगे निजां मायां योगनिद्रां समाप्नुयात् ॥
शेते ऽसौ चतुरो मासान् यावद्भवति कार्त्तिकी ।
विशिष्टा न प्रवर्तन्ते तदा यज्ञादिकाः क्रियाः ॥
इति विष्णुधर्मोत्तरे पक्षान्त इति स्पष्टमभिधानाच्च ।
एतेनाषाढस्येयमाषाढी एकादशी कार्त्तिकस्येयं कार्त्तिकी एकादशीति कल्पतरुव्याख्यानमपास्तम् ।
तेन पौर्णमास्यपि एकः काल इति सिद्धम् ।
विष्णुधर्मोत्तरे तु एकादशीमारभ्य दिनपञ्चकं शयनप्रबोधावुक्तौ ।
एकादश्यामाषाढस्य शुक्लपक्षे जनार्दनम् ।
देवाश्च ऋषयश्चैव गन्धर्वाप्सरसां गणाः ॥
{म्व्-स्_५९}
अभिष्टुवन्ति ते गत्वा सततं दिनपञ्चकम् ।
उत्सवं चैव कुर्वन्ति गीतनृत्यसमाकुलम् ॥
ततस्तु चतुरो मासान् योगनिद्रामुपासते ।
सुप्तं च तमुपासन्ते ऋषयो ब्रह्मसम्मिताः ॥
कर्त्तिकस्य सिते पक्षे तदेव दिनपञ्चकम् ।
विबोधयन्ति देवेशं गत्वा सेन्द्रा सेन्द्रा दिवौकसः ॥
तस्मात्तथैव कुर्वीत तदापि च महोत्सवम् ।
न चात्र स्वापप्रबोधौ एकादश्यामेव दिनचतुष्टयं तु पूजेति कस्यचिदुक्तिर्युक्ता ।
“ततस्तु चतुरो मासान्"इति"विबोधयन्ति देवेशम्"इति च पञ्चदिनसाध्योत्सवानन्तरं तयोः कर्तव्यत्वप्रतीतेः ।
तेनेदमपि एकं कालान्तरमिति युक्तम् ।
एते च कालाः शक्त्यनुसारेण यथासम्प्रदायं च व्यवस्थिताः ।
एते च स्वापपरिवर्तनप्रबोधाः रात्रिसन्ध्यादिनेषु कार्याः ।
निशि स्वापो दिवोत्थानं सन्ध्यायां परिवर्तनम् ।
इति भविष्योक्तेः ।
विष्णुर्दिवा न स्वपिति न च रात्रौ विबुध्यते ।
इति विष्णुधर्मोत्तराच्च ।
एवं च “प्रसुप्तं बोधयेद्रात्रौऽ; इति ब्रह्मपुराणं रात्रौ प्रसुप्तं दिवा बोधयेदित्येव भविष्यवचनैकवाक्यतया व्याख्येयम् ।
अन्यथा विकल्पापत्तेः ।
तदपेक्षया च पदधर्मस्य सन्निधानस्यैव बाधौचित्यात् ।
अन्यथा तद्वशेन पदधर्मस्याप्यबाधे पदस्य सुतरामबाधापत्तेः पर्युदासोच्छेदापत्तिः ।
केचित्तु निशि स्वाप इत्यस्मिन्ननाश्वासाद्रात्रावपि प्रबोधमाचरन्ति ।
तत्तु वचनस्य हेमाद्रयादिसकलनिबन्धादृतत्वादसमञ्जसम् ।
अत्र च द्वादश्यां रात्र्यादिभागेषु क्रमेण अनुराधाश्रवणरेवतीनामादिमद्यावसानेषु जायमानेषु प्रस्वापावर्तनोद्बोधाः प्रशस्ताः ।
तथा च–
भविष्ये:
मैत्राद्यपादे स्वपितीह विष्णुः श्रुतेश्च मध्ये परिवर्तमेति ।
पौष्णावसाने च सुरारिहन्ता प्रबुध्यते मासचतुष्टयेन ॥
आभाकाद्येषु मासेषु नृपते! माधवस्य च ।
द्वादश्या शुक्लपक्षे च प्रस्वापावर्तनोत्सवाः ॥
यदा द्वाश्यां रात्र्यादिभागेषु तत्तन्नक्षत्रबागानामयोगो नक्षत्रमात्रस्यैव तु योगस्तदा नक्षत्रमात्रयुक्तरात्र्यादिभागेष्वेव शयनादिकं कार्यम् ।
पादयोगो यदा न स्यादृक्षेणापि तदा भवेत् ।
{म्व्-स्_६०}
इति वराहपुराणवचनात् ।
विष्णुर्दिवा न स्वपिति न च रात्रौ विबुध्यते ।
द्वादश्यामृक्षसंयोगे पादयोगो न कारणम् ॥
इति विष्णुधर्मोत्तराच्च ।
यदा द्वादश्यां रात्र्यादिभागेषु नक्षत्रमात्रस्याप्यभावस्तदा द्वादश्यामेव सन्ध्यायां शयनादिकं कार्यम् ।
तथा च–
वराहपुराणे:
द्वादश्यां सन्धिसमये नक्षत्राणामसम्भवे ।
आबाकासितपक्षेषु शयनावर्तनादिकम् ॥
सन्धिसमये इति शयनादावन्वेति ।
सन्धिसमयः सन्ध्याकालः ।
हेमाद्यादिसम्मतो ऽप्ययमर्थः ।
इति विष्णुशयनकालः ।
अस्यामेवाषाढशुक्लैकादश्यां चातुर्मास्यव्रतारम्भ उक्तो–
महाभारते:
आषाढे तु सिते पक्षे एकादश्यामुपोषितः ।
चातुर्मास्यव्रतं कुर्याद्यत्किञ्चिन्नियतो नरः ॥
असम्भवे तुलार्के ऽपि कर्तव्यं तत् प्रयत्नतः ।
अथैकादशीव्रतं निर्णीयते ।
तत्र–
पक्षे पक्षे तु कर्तव्यमेकादश्यामुपोषणम् ।
इत्यादिनारदीयादिवचने तावत् यत्रोपवासश्रवणं तत्राष्टयामिकाभोजनसङ्कल्पो विधीयते ।
उपवासपदस्य व्रतविशेषपर्यायस्य सङ्कल्पवाचित्वस्येष्टत्वात् ।
यानि तु व्रतं नियमो धर्म इत्यादिसमभिव्यहारवन्ति नञ्युक्तवाक्यानि यथा–
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि ।
वनस्थयतिधर्मो ऽयम्
इत्यादीनि तत्रापि"नोद्यन्तमादित्यमीक्षेत"इत्यादाविव सङ्कल्प एव लक्षणया विधीयते ।
या तु तत्र भोजननिन्दा सा"नहि निन्दा निन्दितुं प्रवर्तत"इति न्यायेन व्रतस्तुत्यर्था न तु स्वतन्त्रनिषेधोन्नायिका गौरवात् ।
न शङ्खेन पिवेत्तोयं न खादेत् कूर्ण्मंशूकरौ ।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि ॥
इत्यादौ तु निषेधप्रायपाठात् व्रतादिपदसमभिव्याहाराभावाच्च भो जननिषेध एव ।
तत्र सङ्कल्पलक्षणायां प्रमाणाभावात् ।
न चैकमूलक ल्पनालाघवार्थं सेतिवाच्यम् ।
{म्व्-स्_६१}
तस्योत्तरकालनित्वात् ।
अन्यथा निषादस्थपत्यधिकरणविरोधापत्तेः ।
(अ। ६ पा। १ अधि। १३) अत्र भोजनं स्मृतिलोकप्रसिद्धो ऽब्यवहार एव निषिध्यते न तु सर्वादननिवृत्तिः ।
अत एव गृहस्थस्य कृष्णैकादश्यादौ व्रतभोजननिषेधयोः प्राप्तौ–
उपवासनिषेधे तु किञ्चिद्भक्ष्यं प्रकल्पयेत् ।
इति किञ्चिद्भक्षणविधानम् ।
न चैतद्विध्यन्यथानुपपत्त्यैव भुजेरदनीयमात्रादनपरतेति वाच्यम् ।
अस्य च वचनस्य रागद्वेषादिकृतनिराहारव्यावृत्त्या सार्थकत्वात् ।
अयं च निषेधः कलञ्जभक्षणनिषेधाधिकरणन्यायेन नित्य एव ।
अयं च कृष्णे शुक्ले च सर्वान् प्रति प्रवर्तते ।
अष्टवर्षाधिको मर्त्यो ह्यशीतिर्न च पूर्यते ।
यो भुङ्क्ते मामके राष्ट्रे विष्णोरहनि पापकृत् ।
स मे वद्यश्च दण्डयश्च निर्वास्यो देशतः स मे ॥
इति नारदोक्तेः:
गृहस्थो ब्रह्मचारी च आहिताग्निस्तथैव च ।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि ॥
इत्यग्निपुराणाच्च ।
अत्र चाष्टवर्षग्रहणमुपनयनोपलक्षणम् ।
अशीतिग्रहणं च शक्त्युपलक्षणमिति केचित् ।
तन्न ।
प्रमाणाभावात् ।
न च–
गृहस्थो ब्र्हनचारी च यो ऽनश्नंश्च तपश्चरेत् ।
प्राणाग्निहोत्रलोपेन अवकीर्णी भवेत्तु सः ॥
इति वचनविरोध इति वाच्यम् ।
अस्य-
एकभक्तेन नक्तेन तथैवायाचितेन च ॥
उपवासेन चैकेन पादकृच्छ्रः प्रकीर्त्तितः ॥
एतत् त्रिगुणितं प्राजापत्यम्
इत्यादिविहितप्राजापत्यानुष्ठाने त्रैगुण्यसम्पत्त्यर्थं स्वस्थानविवृद्धिन्यायप्राप्तोपवासावृत्तिनिवृत्त्यर्थत्वात् ।
अत एव"अनश्नंस्तपश्चरेत्"इति यावत्तपश्चरणमनशनाभ्यासार्थको वर्तमानकालप्रत्ययः ।
“प्राणाग्निहोत्रलोपेनऽ; इति तु"तेन ह्यन्नं क्रियते"इति वदर्थवादमात्रम् ।
प्राणाग्निहोत्रं नाम तद्"यदू भक्तं प्रथममागच्छेत् तद्धोमीयम्"इति विहितो भोजनाश्रितो नियमविशेषो नित्यतया विहितः ।
न चास्य आश्रयभूतभोजनाभावे लोपो दोषाय भवति तस्मादर्थवादः ।
हेमाद्रिस्तु ब्रह्मचारिगृहस्थयोर्मरणान्तिकानशनरूपतपोनिवृत्त्यर्थमिदं वचनमित्याह ।
{म्व्-स्_६२}
यदपि–
आहिताग्निरनड्वांश्च ब्रह्मचारी च ते त्रयः ।
अश्नन्त एव सिद्ध्यन्ति नैषां सिद्धिरनश्नताम् ॥
इतिसाङ्ख्यायनवचनं तत् भोजनाभावे ऽशत्त्याध्ययनाग्निहोत्रादिलोपप्रसक्तौ तन्निवृत्त्यर्थम् ।
नैषां सिद्धिरनश्नतामितिहेतुवन्निगदात् ।
अग्निहोत्रादेः श्रौतत्वेन स्मार्त्तभोजननिवृत्तिबाधौचित्यात् ।
एवं चाग्निहोत्राद्यविरोधेन नित्योपवासविधिः प्रवर्तते ।
काम्यस्तु श्रौतस्यापि नित्याग्निहोत्रादेर्बाधक एव प्रमाणबलाबलापेक्षया प्रमेयबलाबलत्वस्य ज्यायस्त्वात् ।
काम्येन तु श्रौतेन काम्यस्मार्त्तनिवृत्तिरिष्टैव श्रौतत्वेन बलीयस्त्वाधिक्यात् ।
एतेन नित्यस्य काम्यस्य स्मार्त्तोपवासस्य श्रौतेनाग्निहोत्रादिना निवृत्तिरिति यत् कैश्चिदुक्तं तन्निरस्तम् ।
इत्यलं प्रसक्तानुप्रसक्तेन ।
तस्मान्निषेधे पक्षद्वये ऽपि सर्वेषामधिकारः ।
व्रते तु नित्यप्रयोगे गृहस्थव्यतिरिक्तानां पक्षद्वये ऽप्यधिकारः ।
गृहस्थस्य तु शु क्लपक्षगत एव ।
एकादश्यां न भूञ्जीत पक्षयोरुभयोरपि ।
वनस्थयतिधर्मो ऽयं शुक्लामेव सदा गृही ॥
इति देवलोक्तेः ।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि ।
ब्रह्मचारी च नारी च शुक्लामेव सदा गृही ॥
इति भविष्योत्तरोक्तेश्च ।
यथा शुक्ला तथा कृष्णा द्वादशी मे सदा प्रिया ।
शुक्ला गृहस्थैः कर्तव्या भोगसन्तानवर्द्धिनी ॥
मुमुक्षुभिस्तथा कृष्णा तेन तेनोपदर्शिता ।
इति भविष्यपुराणाच्च ।
यानि तु–
यथा शुक्ला तथा कृष्णा विशेषो नास्ति कश्चन ।
इत्यादिसामान्यवचनानि तानि गृहस्थातिरिक्तविषय उपसंहर्त्तव्यानि ।
एवं च सामान्यवचनेन गृहस्थं प्रति उपवासाप्राप्तेः शुक्लामेव सदा गृहीत्यनेन गृहस्थं प्रति शुक्लोपवासविधिरिति केचित् ।
अन्ये तु एवकारेण"न चतुस्त्रिंशदिति ब्रूयात् षड्विंशतिरित्येव ब्रूयात्” (अ। ९ पा। ४ अघि। २) इतिवत् विधिश क्तिप्रतिबन्धाद्वाक्यभेदापत्तेश्च गृहस्थं प्रति शुक्लोपवासविध्यसम्भवादन्यस्य च विधेरभावादनुवादत्वानुपपत्तेर्न सामान्योभयैकादश्युपवासविधीना वनस्थयतिविषयत्वेनोपसंहारः, किन्तु यत् कृष्णामप्युपवसेत्तद्वनस्थो यतिश्चेत्येवं तदन्तर्गतकृष्णोपवासस्यैव ।
{म्व्-स्_६३}
एवं च सामान्यविधित एव गृहस्थस्य शुक्लामात्रप्राप्तेः शुक्लामेवेत्यनुवाद इत्याहुः ।
अपरे तु सामान्यवचनेब्य एव गृहस्थं प्रत्यपि उपवासप्राप्तेः परिसङ्खयार्थं शुक्लामेवेति वचनम्"अत्र ह्येवावपन्त्यत एवोद्वपन्ति"इतिवदित्याहुः ।
कर्वथा तावद्गृहस्थस्य शुक्लैवेति सिद्धिम् ।
यत्तु–
सङ्क्रान्त्यामुपवासं च कृष्णैकादशिवासरे ।
चन्द्रसूर्यग्रहे चैव न कुर्यात् पुत्रवान् गृही ॥
इत्यादिकृष्णैकादश्युपवासनिषेधकं वचनं तद् गृहस्थसामान्यपुरस्कारेण कृष्णानिषेधे सत्यपि पुत्रवद्गृहस्थस्य दोषाधक्यज्ञापनार्थमिति माधवादयः ।
तन्न ।
सामान्यविधेगृहन्थव्यतिरिक्त प्रत्युपसंहृतत्वात् शुक्लामेव सदा गृहीत्यस्य च गृहस्थं प्रात शुक्लाविधानार्थत्वेनानुवादत्वेन वा सार्थक्यात् परिसङ्खयापक्षस्य च वाक्यभेदनायुक्तत्वात् गृहस्थं प्रति कृष्णोपवासाप्रर्पतीनषधासम्भवात् पुत्रवद्गृहन्थं प्रति"कृष्णैकादशिवासर"इतिवचनस्य दोषाधिक्यख्यापनार्थत्वायोगात् ।
वचनं तु–
शयनीबोधिनीमध्ये या कृष्णैकादशी भवेत् ।
सैवोपोष्या गृहस्थेन नान्या कृष्णा कदाचन ॥
इति वचनेन गृहस्थं प्रति शयनीबोधिनीमध्यवर्त्तिन्याः कृष्णाया विहितत्वात्तत्र पुत्रवद्गृहस्थं प्रति पर्युदासार्थमिति हेमाद्रिप्रभृतयः ।
इदं च वैष्णवव्यतिरिक्तपरम् ।
नित्यं भक्तिसमायुक्तैर्नरैर्विष्णुपरायणैः ।
पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम् ॥
इति ।
तथा:
यथा शुक्ला तथा कृष्णा यथा कृष्णा तथेतरा ।
तुल्ये ऽनुमन्यते यस्तु स वै वैष्णव उच्यते ॥
इति नारदीयतत्वसागरवचनाभ्यां तस्य सवकृष्णोपवासप्रतीतेः ।
एवं काम्यैकादशीव्रतं पक्षद्वये सर्वैः कार्यम ।
पुत्रवांश्च गृहस्थश्च बन्धुयुक्तस्तथैव च ।
उभयोः पक्षयोः काम्यं व्रतं कुर्यात्तु वैष्णवम् ॥
इति हेमाद्रयुदाहृतवचनात् ।
यत्तु–
रविवारे ऽर्कसङ्क्रान्त्यामेकादश्यां सितेतरे ।
पारणं चोपवासं च न कुर्यात् पुत्रवान् गृही ॥
इत्यादिवचनैर्निषेधेन पर्युदासेन वा रविवारादावुपवासनिवृत्तिः ।
सा तत्प्रयुक्तोपवासस्य न तु
तदधिकरणकस्यैकादश्र्युपवासस्यापि ।
{म्व्-स्_६४}
तन्निमित्तोपवासस्य निषेधो ऽयमुदाहृतः ।
प्रयुत्त्यन्तरयुक्तस्य न विधिर्न निषेधनम् ॥
इति जैमिनिवचनात् ।
अत एव–
भृगुभानुदिनोपेता सूर्यसङ्क्रान्तिसंयुता ।
एकादशी सदोपोष्या पुत्रपौत्रप्रवर्धिनी ॥
इति विष्णुधर्मोत्तरमपि सङ्गच्छते ।
रविवारादिप्रयुक्त उपवासश्च संवर्तेनोक्तः–
अमावास्या द्वादशी च सङ्क्रान्तिश्च विशेषतः ।
एताः प्रशस्तास्तिथयो भानुवारस्तथैव च ॥
अत्र स्नानं जपो होमो देवतानां च पूजनम् ।
उपवासस्तथा दानमेकैकं पावनं स्मृतम् ॥
इति ।
पारणं चोपवासं चेत्यत्र समाप्तिपर्यायपारणपदसमभिव्याहारादुपवासपदमुपवासोपक्रमपरम् ।
तेनोपवासव्रतं रविवारादौ पुत्रवद्गृहस्थातिरिक्तः कुर्यादित्येव तात्पर्यार्थः ।
न तु तन्निमित्तपारणाया अपि पृथङ्निषेधः ।
रविवारादिप्रयुक्तपारणाया अभावात् ।
न च–
सप्त वारानुपोष्यैव सप्तधा संयतेन्द्रियः ।
सप्तजन्मकृतात्पापात्तत्क्षणादेव मुच्यते ॥
इतिवचनविहितशनिवारप्रयुक्तोपवासपारणाया रविवारनिमित्तता ।
तथा:
नित्यं द्वयोरयनयोर्नित्यं विषुवतोर्द्वयोः ।
चन्द्रार्कयोर्ग्रहणयोर्व्यतीपोतषु पर्वसु ॥
अहोरात्रोषितः स्नानं श्राद्धं दानं तथा जपम् ।
यः करोति प्रसन्नात्मा तस्य स्यादक्ष्यं च तत् ॥
इति सङ्क्रान्ति पूर्वदिवसविहितोपवासपारणायाश्च सङ्क्रान्तिनिमित्ततेति वाच्यम् ।
परे ऽहनि तु पारयेदित्यादिवचनादुत्तरदिनत्वेन रविवारादेरधिकरणत्वं न तु तत्प्रयुक्ता पारणा ।
रविवारे पारयोदित्यादिवचनाभावात् ।
कृष्णैकादशीप्रयुक्तपारणायास्तु दशम्युपवासविध्यदर्शनेन कथमप्यसम्भवाच्च न च तर्हि तदधिकरणकपारणाया एव निषेधः अत एव तन्निमित्तोपवासस्येत्युपवासमात्रग्रहणमिति वाच्यम् ।
द्वादश्यां रविवारे एकादशीपारणाभावप्रसङ्घात् ।
तस्माद् यथोक्तैव व्याख्या युक्तेति ।
यदपि च-
व्यतीपाते कृते श्राद्धे पुत्री नोपवसेद्गृही ।
{म्व्-स्_६५}
इतिवचनेन श्राद्धदिने उपवासनिषेधनं तत् एकादशीव्यतिरिक्तविषय एव ।
उपवासो यदा नित्यः श्राद्धं नैमित्तिकं भवेत् ।
उपवासं तदा कुर्यादाघ्राय पितृसेवितम् ॥
इति वृद्धयाज्ञवल्क्योक्तेः ।
यस्मिन् दिने पितुः श्राद्धं मातुर्वाथ भवेद्गुह! ।
तस्मिन्नेव दिने तात! भवेदेकादशीव्रतम् ॥
अन्यद्वापि व्रतं स्कन्द! तदा कार्यं च तच्छृणु ।
न लुप्यते यथा श्राद्धं तूपवासो ऽथवा गुह! ॥
इति विप्रतिपन्ने ऽर्थे उपायः परमो मतः ।
इष्टो हितार्थं सर्वोषां नराणां शिखिवाहन! ॥
श्राद्धदिनं समासाद्य उपवासो यदा भवेत् ।
तदा कृत्वा तु वै श्राद्धं भुक्तशेषं च यद् भवेत् ॥
तत्सर्वं दक्षिणे पाणौ गृहीत्वान्नं शिखिध्वज! ।
अवजिघ्रेदनेनाथ तेन श्राद्धं शिखिध्वज! ।
पितॄणां तृप्तिदं जातं व्रतभङ्गो न विद्यते ॥
इति स्कन्दपुराणोक्तेश्च ।
यदपि च–
पत्यौ जीवति या नारी उपवासं व्रतं चरेत् ।
आयुष्यं हरते भर्त्तुर्नरकं चैव गच्छति ॥
इति वचनं तदपि भर्त्रननुज्ञाविषयम् ।
भार्या भर्त्तुर्मतेनैव व्रतादीन्याचरेत् सदा ॥
इति कात्यायनोक्तेः ।
नारी खल्वननुज्ञाता भर्त्रा पित्रा सुतेन वा ।
निष्फलं तु भवेत्तस्या यत् करोति व्रतादिकम् ॥
इति मार्कण्डेयपुराणाच्च ।
अत्र पित्रादिग्रहणं भर्त्रसन्निधानाविषयं विधवाविषयं च न स्त्री स्वातन्त्र्यमर्हतीति वचनात् ।
एतच्च विधवया पक्षद्धये ऽपि कार्यम् ।
एकादश्या विना रण्डा यतिश्च सुमहामते! ।
पच्यते ह्यन्धतामिस्रे यावदाभूतसम्प्लवम् ॥
इति वचने रण्डायतिसमभिव्याहारात् ।
एवं च सधवाया गृहस्थवच्छुक्लायामेवाधिकार इत्यनवद्यम् ।
{म्व्-स्_६६}
अथ व्रते एकादशीद्वैधं निर्णीयते ।
सा च द्विविधा सम्पूर्णा विद्धा च ।
तत्र उदयात् प्राङ्मुहूर्तद्वयमारभ्य प्रवृत्तायाः पुनः सूर्योदयपर्यन्तसत्त्वे सम्पूर्णा ।
आदित्योदयवेलायाः प्राङ्मुहूर्तद्वयन्विता ।
एकादशी तु सम्पूर्णा विद्धान्या परिकीर्त्तिता ॥
इति भविष्यपुराणात् ।
अत एव–
प्रतिपत्प्रभृतयः सर्वा उदयादोदयाद्रवेः ।
सम्पूर्णा इति विख्याता हरिवासरवर्जिताः ॥
इति स्कन्दपुराणे सामान्यत उक्तस्य सम्पूर्णत्वस्य हरिवासरपर्यायैकादश्यां पर्युदासः कृतः ।
अत्र च यत् सामान्यतः सिद्धं उदयादारभ्य प्रवृत्तत्वं उदयपर्यन्तं च सत्त्वमिति द्वयमभिहितं सम्पूर्णत्वं तन्मध्ये पूर्वमेव एकादश्यां पर्युदस्यते नोत्तरमपि भविष्यैकवाक्यत्वात् ।
तेन अरुणोदयमारभ्य पुनः सूर्योदयपर्यन्तं सत्त्व एव एकादशी सम्पूर्णोतिसिद्धम् ।
यत्तु–
आदित्योदयवेलाया आरभ्य षष्टिनाडिका ।
सम्पूर्णैकादशी नाम
इतिवचनं तदनुकल्पभूतसम्पूर्णत्वविधायकमिति वक्ष्यते ।
विद्धा तु दशम्या अरुणोदयस्पर्शे सति ।
या तु कृत्स्ना अरुणोदयव्यापिनी द्वितीयसूर्योदयादवार्गेव समाप्ता सा न विद्धा न सम्पूर्णा किन्तु खण्डमात्रम् ।
तस्मादुदयादर्वाक् मुहूर्तद्वयान्विता सम्पूर्णेति युक्तम् ।
यत्तु–
अरुणोदयकाले तु दिशागन्धो भवेद् यदि ।
इत्यादिवचनेषु अरुणोदयपदं तदपि मुहूर्तद्वयपरमेव ।
यत्तु ब्रह्मवैवर्त्ते–
चतस्रो घटिकाः प्रातररुणोदय इष्यते ।
तथा–
अरुणोदयवेधः स्यात् सार्द्धं तु घटिकात्रयम् ।
इति ।
अत्रापि मुहूर्तद्वयोपलक्षणम् ।
एकमूलकल्पनालाघवात् ।
अयं चारुणोदयबेधो वैष्णवान् प्रत्येव ।
दशमीवेधसंयुक्तो यदि स्यादरुणोदयः ।
नैवोपोष्यं वैष्णवेन तद्धि नैकादशीव्रतम् ॥
इतिगारुडोक्तेः ।
यत्तु–
सूर्योदयस्पृशाप्येषा दशम्या गर्हिता सदा ।
इतिसूर्योदयवेधवचनं तद्वैष्णवातिरिक्तविषयं परिशेषात् इति माधवादयः ।
{म्व्-स्_६७}
केचित्तु अरुणोदयवेधो ऽपि सर्वसाधारणः ।
वेधसामान्यवचनात् ।
वैष्णवग्रहणं तु अरुणोदयवेधस्य वैष्णवान् प्रति अरुणोदयवेध एवेति नियमार्थम् ।
एवं च सामान्यप्राप्तं वेधद्वयमपि वैष्णवेतरान् प्रति प्रवर्तते ।
तत्रारुणोदयवेधक्ष्तावत् काम्यव्रतविषयः ।
उदयात् प्राक् त्रिघटिकाव्यापिन्येकादशी यदि ।
सन्दिग्धैकादशी नाम त्याज्या वै धर्मकाङ्क्षिभिः ॥
पुत्रराज्यसमृद्ध्यर्थं द्वादश्यामुपवासयेत् ।
तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम् ॥
इतिगारुडोक्तेः ।
न चैतद् वैष्णवान् प्रत्येवोपसंहियतामितिवाच्यम् ।
तेषां"नैवोपोष्यं"इत्यनेनोपवाससामान्यनिषेधात् ।
एकादशीवृद्धौ द्वादशीवृद्धौ सर्वेषां नित्योपवासविषयो ऽपि सः ।
एकादशीं दिशा युक्तां वर्धमाने विवर्जयेत् ।
क्षयमार्गस्थिते सोमे कुर्वीत दशमीयुताम् ॥
इतिभविष्योक्तेः ।
सेम = एकादशी ।
दशमीशेषसंयुक्ता उपोष्यैकादशी तदा ।
यदा न स्यात् त्रयोदश्यां मुहूर्तं द्वादशी तिथिः ॥
इतिविष्णुरहस्योक्तेः ।
अत्र यदा न स्यादित्युक्तेर्यदि स्यात्तदा दशमीविद्धा न कार्येत्यर्थादुक्तं भवति ।
एकादश्या द्वादश्या वा विध्यभावे तु अरुणोदयवेधो न प्रवर्तते किन्तु सूर्योदयवेध एव ।
अन्यथा सूर्योदयवेधानर्थक्यापत्तेः ।
तथा च वृद्ध्यभावे अरुणोदयविद्धैव शुद्धा ।
सूर्योदयवेधे तु वृद्ध्यभावे उत्तरैव ।
कुर्यादलाभे संयुक्ता नालाभे ऽपि प्रवेशिनीम् ।
इतिवचनात् ।
संयुक्ता = अरुणोदयविद्धा ।
ग्रवेशिनी = सूर्योदयविद्धेत्याहुः ।
सर्वथारुणोदयविद्धा वैष्णवैः
सर्वदा त्याज्येत्यविवादम् ।
शुद्धाप्येकादश्या द्वादश्या वा वृद्धौ त्याज्या ।
सम्पूर्णैकादशी यत्र द्वादश्यां वृद्धिगामिनी ।
द्वादश्यां लङ्घनं कार्यं त्रयोदश्यां च पारणम् ॥
इति नारदोक्तेः ।
सम्पूर्णा–
उदयात्प्राक् यदा विप्र! मुहूर्तद्वयसंयुता ।
इति परिभाषिता ।
द्वादशीमात्रवृद्धौ तु सम्पूर्णां प्रक्रम्य वासः–
एकादशी यदा लुप्ता परतो द्वादशी भवेत् ।
उपोष्या द्वादशी तत्र यदीच्छेत् परमां गतिम् ॥
इति ।
मचैतत्स्मार्त्तविषयमिति वाच्यम् ।
तेषामीद्दशे विषये शुद्धायामेवोपवासविधानस्य वक्ष्यमाणत्वात् ।
वैष्णवस्तु विष्णुमन्त्रदीक्षावान् ।
{म्व्-स्_६८}
वैखानसाद्यागमोक्तदीक्षां प्राप्तो हि वैष्णवः ।
इत्याद्युक्तेः ।
एवं च वैष्णवस्य पुत्रादयो ऽवैष्णवाश्चेन्न तान् प्रत्ययं निर्णय इति ध्येयम् ।
अत्र च विद्धानिषेधः संयोगपृथक्त्वन्यायेन व्रतार्थः पुरुषार्थश्च ।
व्रतार्थता तावत् प्रकरणात् ।
पुरुषार्थता तु–
दशमीशेषसंयुक्ता गान्धार्या समुपोषिता ।
तस्याः पुत्रशतं नष्टं तस्मात्तां परिवर्जयेत् ॥
दशम्यनुगता यत्र तिथिरेकादशी भवेत् ।
तत्रापत्यविनाशः स्यात् परेत्य नरकं व्रजेत् ॥
इत्यादिना पुरुषगतानिष्टस्मरणात् ।
जम्भस्येयं पुरा दत्ता दशमीशेषसंयुता ।
उपोष्य तां प्रमादेन प्रायश्चित्तं चरेद्द्विजः ॥
कृच्छ्रपादं नरश्चीर्त्वा गां च दद्यात् सवत्सिकाम् ।
सुवर्णस्यार्द्धकं देयं तिलद्रोणसमन्वितम् ॥
इतिप्रायश्चित्तविधानाच्चेति केचिति ।
तत्त्वं तु"अङ्गे फलश्रुतिरर्थवाद"इति न्यायेन क्रत्वर्थनिषेधातिक्रमे नरकादिश्रवणं निन्दार्थवाद एव ।
प्रायश्चित्तमपि अनारब्याधीतमपि अधिकारपशुन्यायेनोत्तरदिनक्रियमाणव्रतार्थमेवाभ्युदितेष्टिवदितियुक्तमित्यलं प्रसक्तानुप्रसत्त्या ।
इति वैष्णवान् ग्रत्येकादशीनिर्णयः ।
अथ स्मार्तान् प्रति ।
तत्र शुद्धाभेदेन द्विविधापि एकादशी प्रत्येकं नवविधा ।
शुद्धा विद्धा तथा त्रेधा भिन्ना न्यूनसमाधिकैः ।
त्रिधैकैका पुनर्भिन्ना द्वादश्यूनसमाधिकैः ॥
इतिवचनात् ।
अत्र न्यूनसमेत्यादौ भावप्रधानो निर्द्देशः ।
द्वितीयसूर्योदयाव्यवहितप्राक्क्षणे समाप्ता समा ततो ऽर्वाक्समाप्तान्यूना उदयोत्त रभाविनी अधिका ।
अत्र च विद्धा सकलमते सूर्योदयवेधेनैव ।
अरुणोदयवेधमादायाष्टादशभेदासम्भवात् ।
तावद्ध्रासवृद्ध्योरसम्भवात् ।
ते च शुद्धन्यूनन्यूनद्वादशिका १ शुद्धन्यूनसमद्वादशिका २ शुद्धन्यूनाधिकद्वादशिका ३ शुद्धसमन्यूनद्वादशिका ४ शुद्धसमसमद्वादशिका ५ शुद्धसमाधिकद्वादशिका ६
शुद्धाधिकन्यूनद्वादशिका ७ शुद्धाधिकसमद्वादशिका ८ शुद्धाधिकाधिकद्वादशिका ९ एवं विद्धायामपीत्यष्टादश भेदाः ।
तत्र निर्णयसङ्ग्राहकश्लोकौ प्राच्यनिबन्धेषु–
{म्व्-स्_६९}
आद्यासु षट्सु पूर्वैव व्यवस्थानन्तरद्वये ।
गृहमेधियतीनां स्यान्नवम्यां स्यात् परे ऽहनि ॥
विद्धात्रये तु पूर्वा स्याद्व्यवस्थानन्तरद्वये ।
अपरे ऽहनि शेषाः स्युः सप्तमी तु व्यवस्थया ॥
इति ।
माधवस्त्वष्टौ भेदानाह–शुद्धानधिकानधिकद्वादशिका १ शुद्धानधिकाधिकद्वादशिका २ शुद्धाधिकाधिकद्वादशिका ३ शुद्धाधिकानधिकद्वादशिका ४ एवं विद्धापि ।
उभयथापि निर्णयः समान एव ।
अनधिकत्वस्य साम्येन क्षयेण च सम्भवात् ।
तत्र प्रथमे पक्षे सन्देह एव नास्ति ।
द्वितीये ऽप्याद्यैव ।
शुद्धा यदा समा हीना समा हीनाधिकोत्तरा ।
एकादशीमुपवसेन्न शुद्धां वैष्णवीमपि ॥
इतिस्कान्दोक्तेः ।
शुद्धैकादशी शुद्धा सतीत्यर्थः ।
समा हीना वा अनधिकेतियावत् ।
उत्तरा = वैष्णवी च द्वादशी ।
यानि तु–
एकादशी भवेत् पूर्णा परतो द्वादशी यदि ।
तदा ह्येकादशीं त्यक्त्वा द्वादशीं समुपोषयेत् ॥
इत्यादिवचनानि तान्येकादश्या अप्याधिक्ये योज्यानि ।
पूर्णाप्येकादशी त्याज्या वर्द्धते द्वितयं यदि ।
इति वाक्यान्तरैकवाक्यत्वात्, वैष्णवविषयाणि वा ।
तेषां द्वादशीमात्रवृद्धौ परेद्युरुपवासस्य साधितत्वात् ।
अनन्तभट्टमाधवादीनामत्र विवाद एव ।
हेमाद्रिस्तु अस्मिन् द्वितीये पक्षे शुद्धैकादश्युपवासविधायकानां वचनानां गृहस्थविषयकत्वं शुद्धद्वादश्युपवासविधायकानां तु यतिविषयत्वम् ।
सम्पूर्णैकादशी यत्र द्वादशी च परे ऽहनि ।
तत्रोपोष्या द्वादशी स्याद् द्वादश्यामेव पारणम् ॥
न गर्भे विशते जन्तुरित्याह भगवान् हरिः ।
इति वचनात् ।
अत्र च न गर्भे विशते जन्तुरित्यतो यतिप्रतीतेरित्याह ।
अत्रार्थे स्पष्टमूलवचनं पृष्वीचन्द्रोदये नारदीयनाम्ना लिखितम् ।
सम्पूर्णैकादशी शुद्धा द्वादश्यां नैव किञ्चन ।
द्वादशी च त्रयोदश्यामस्ति तत्र कथं भवेत् ॥
पूर्वा गृहस्थैः कार्या स्यादुत्तरा यतिभिस्तथा ।
इति ।
तृतीयपक्षे तु सर्वेषां परैव ।
सम्पूर्णैकादशी यत्र प्रभाते पुनरेव सा ।
सर्वैरेवोत्तरा कार्या परतो द्वादशी यदा ॥
{म्व्-स्_७०}
इति नारदोक्तेः ।
चतुर्थपक्षे तु गृहियतिभेदेन व्यस्था ।
प्रथमे ऽहनि सम्पूर्णा व्याप्याहोरात्रमास्थिता ।
द्वादश्यां च तथा तात! दृश्यते पुनरेव सा ॥
पूर्वा कार्या गृहस्थैश्च यतिभिश्चोत्तरा विभो! ।
इति नारदोक्तेः ।
यतिग्रहणं गृहिभिन्नोपलक्षणम् ।
जघन्ये लक्षणाया न्याय्यत्वात् ।
सम्पूर्णां प्रकम्य–
पुनः प्रभातसमये घटिकैका यदा भवेत् ।
तत्रोपवासो विहितो वनस्थस्य यतेस्तथा ॥
विधवायाश्च तत्रेव परतो द्वादशी न चेत् ।
इतिवचनाञ्च ।
विधवायोश्चति चकारात् विधुरग्रहणम् ।
एकाङ्गवि कलत्वसाम्यात् ।
केचित्तु गृहस्थयतिग्रहणं सकामनिष्कामोपलक्षणम् ।
सम्पूर्णैकादशी यत्र प्रभाते पुनरेव सा ।
पूर्वामुपवसेत् कामी निष्कामस्तूत्तरां वसेत् ॥
इति मार्कण्डेयोक्तेः ।
न च प्रागुदाहृतवचनानुसारात् सकामनिष्कामपदं गृहियतिपरमस्त्विति वाच्यम् ।
निष्कामस्तु गृही कुर्यादुत्तरैकादशीं सदा ।
प्रातर्भवतु वा मा वा द्वादशी च द्विजोत्तम! ॥
इति स्कन्दपुराणे गृहिणो ऽपि निष्कामस्योत्तरत्रोपवासविधानादित्याहुः ।
विष्णुप्रीतिकामनायां तु एतादृशे विषये दिनद्वये ऽप्युपवासः कार्यः ।
सम्पूर्णैकादशी यत्र प्रभाते पुनरेव सा ।
त्रयोदसी उषः काले उपोष्या तत्र काभवेत् ॥
उपोष्ये द्वे तिथी तत्र विष्णुप्रीणनतत्परैः ।
इति स्कन्दपुराणोक्तेः ।
केचित्तु द्वे उपोष्ये इत्यनेन नैकस्योपवासस्य आवृत्या विधानं किन्तु कैश्चित्पूर्वा कैश्चिदुत्तरेति तिथिद्वयोपोष्यत्वप्रतिपादनपरं पूर्वैकवाक्यत्वादित्याहुः ।
या तु विद्धानधिकानधिकद्वादशिका तस्यां विद्धैवोपाष्या ।
यदि दैवात्तु संसिद्ध्येदेकादश्यां तिथित्रयम् ।
तत्र क्रतुशतं पुण्यं द्वादशीपारणं भवेत् ॥
इति नारदोक्तेः ।
एकादशी न लभ्यते द्वादशी सकला भवेत् ।
उपोष्या दशमीविद्धा ऋषिरुद्दालको ऽब्रवीत् ॥
इति ऋष्यशृङ्गोक्तेश्च ।
अत्र च विद्धाया अनाधिक्यं साम्येन क्षयेण च भवति ।
तत्र क्षयेण तस्मिन् पुत्रवद्गृहिभिन्नैः सर्वैर्विद्धैवोपोष्या ।
{म्व्-स्_७१}
एकादशीक्षयदिन उपवासं करोति यः ।
तस्य पुत्रा विनश्यन्ति मघायां पिण्डदो यथा ॥
इत्यादिवचने पुत्रवतामुपवासपर्युदासात् ।
एवं च-
एकादशी दिशाविद्धा परतो ऽपि न वर्द्धते ।
यतिभिर्गृहिभिश्चैव सैवोपोष्या क्षये तिथिः ॥
इति पाद्मे गृहिपदं पुत्रवद्भिन्नगृहिपरं द्रष्टव्यम् ।
तेषान्तु द्वादश्यामेव
दिनक्षये तु सम्प्राप्ते नोपोष्या दशमीयुता ।
उपोष्या द्वादशी शुद्धा त्रयोदश्र्यां च पारणम् ॥
इतिभविष्योक्तेः ।
अत्रच दिनक्षये विद्धानिषेधस्य पुत्रवद्विषयत्वात् द्वादश्युपवासो ऽपि तद्विषय एवेति ध्येयम् ।
साम्येन अनाधिक्ये तु पुत्र वतामपि पूर्वत्रैव"दिनक्षय"इत्यादिना क्षय एवैतेषां विद्धोपवासपर्युदासात् ।
अत एव-
एकादशी कलाप्येका परतो न च वर्द्धते ।
गृहिभिः पुत्रवद्भिश्च विद्धोपोष्या तदा तिथिः ॥
इति हेमाद्रयुदाहृतं भविष्यपुराणवचम्न सङ्गच्छते ।
अत्र वृद्धिनिषेधात् साम्यप्रतीतिः ।
यतीनां तु साम्येनानाधिक्ये परैव ।
दशमीमिश्रिता पूर्वा पूर्णा च द्वादशी परा ।
शुद्धैव द्वादशी राजन्नुपोष्या मोक्षकाङ्क्षिभिः ॥
इति विष्णुरहस्योक्तेः ।
क्षयेणानाधिक्ये तु पूर्वैव"यतिभिर्गृहिभिस्च"इति पाद्मानुसारात् ।
यत्तु–
दिनपयेक्षऽपि शुद्धैव द्बादसी मोक्षकाङ्क्षिभिः ।
उपोष्या दशमीविद्धा नोपोष्यैकादशी सदा ॥
इति सुमन्तुवचनं तत् क्षयशब्देन वृद्ध्यभावलक्षणया साम्यपरमेव व्याख्येयम् ।
अन्यथा पाद्मस्य निर्विषयत्वापत्तेः ।
न चैतद्वचनानुरोधात् पाद्मस्यैव लक्षणया साम्यपरत्वमस्त्विति वाच्यम् ।
क्षये परा साम्ये पूर्वेत्यनौचित्यापत्तेः ।
मदनरत्नस्तु साम्ये क्षये च यतीनां परैव पूर्वोदाहृतसुमन्तुविष्णुरहस्यवचनाभ्याम् ।
पाद्मे यतिग्रहणं तु नियमपर्याययतियुक्तामुमुक्षुनैष्ठिक्बरह्नचारिवानप्रस्थपरमित्याह ।
यत्तु तिथितत्त्वादौ–
कुर्यादलाभे संयुक्तां नालाभे ऽपि प्रवेशिनीम् ।
इति कूर्मपुराणवचनान्न कदाचिदपि विद्धोपवासविधिरित्युक्तम् ।
तदसत् ।
अस्य वचनस्याचार्यचूडामणिप्रभृतिभिरनुदाहृतत्वेन निर्मूलत्वात् समूलत्वे वामुमुक्षुविषयत्वेनोपपत्तिः ।
अन्यथा–
अविद्धानि निषिद्धैश्चेन्न लब्यन्ते दिनानि तु ।
{म्व्-स्_७२}
मुहूर्तैः पञ्चभिर्विद्धा ग्राह्यैवैकादशी तिथिः ॥
इति सूर्योदयविद्धाप्रतिप्रसवार्थकस्य ऋष्यशृङ्गवचनस्याचार्यचूडामणिप्रभृतिभिरपि उदाहृतस्यानर्थक्यापत्तेः ।
या तु विद्धानधिकाधिकद्वादशिका सा परैव ।
एकादशी यदा लुप्ता परतो द्वादशी भवेत् ।
उपाष्यो द्वादशी शुद्धा यदीच्छेत्परमं पदम् ॥
इति ब्रह्मवैवर्त्तोक्तेः ।
गौडास्तु–
पक्षहानौ स्थिते सोमे लङ्घयेद्दशमीयुताम् ।
इत्युत्तरार्द्धं पठित्वा शुक्लपक्षे दशमीविद्धा त्याज्या कृष्णपक्षे तु दशमीविद्धा ग्राह्येत्याहुः ।
तत्रेदं वक्तव्यम् ।
किमत्र विद्धानिषेधः शुक्लपक्ष एवेति विधीयते किं वा विद्धाविधिः कृष्णपक्ष एवेति ।
आद्ये कृष्णपक्ष एकादशीद्वादश्योर्वृद्धावपि विद्धाकर्तव्यतापत्तिः ।
द्वितीये तु शुक्लपक्षे तदनाधिक्ये ऽपि त्यागापत्तिः ।
न चेष्टापत्तिस्तेषामप्यसम्मतत्वात् ।
यत्तु मदनरत्ने–
सर्वत्रैकादशी कार्या दशमीमिश्रिता नरैः ।
प्रातर्भवतु वा मा वा यतो नित्यमुपोषणम् ॥
इति वचनं प्रातस्त्रयोदशीदिने द्वादशी भधतु वा मा वेति व्याख्याय त्रयोदश्र्यां द्वादशीसत्त्वे ऽपि विद्धायामेवोपवास इत्युक्तम् ।
तदयुक्तम् ।
एकादशी यदा लुप्तेत्याद्युदाहृतवचनविरोधापत्तेः ।
प्रातपदेन तृतीयप्रातः कालानुपस्थितेश्च ।
वचनस्य त्वयमर्थः ।
दशमीवेधे प्रातः सङ्कल्पकाले एकादशी भवतु वा मा वा सर्वथोपवासः कर्तव्य एवेति ।
वस्तुतस्तु हेमाद्षादौ"द्वादशीमिश्रिता नरैः"इत्येव वाक्यमुदाहृतमिति न कश्चिद्दोषः ।
या तु विद्धाधिकाधिकद्वादशिका सा सर्वेषां परैव विद्धानिषेधवाक्यानां निरङ्कुशं तत्रैव प्रवृत्तेः ।
या तु विद्धाधिकानधिकद्वादशिका सा सर्वैरपि परैवोपोष्या ।
द्वादशीमिलिता कार्या सर्वत्रैकादशी तिथिः ।
द्वादशी च त्रयोदश्यां विद्यते यदि वा नवा ॥
इति पोझोक्तः ।
एकादशी द्वादशी च रात्रिशेषे त्रयोदशी ।
तत्र क्रतुशतं पुण्यं त्रयोदश्यां च पारणम् ॥
इति कूर्मोक्तेश्च ।
अस्मिंश्च क्षयेण द्वादश्या अनाधिक्ये कौर्मोक्तेः पुत्रवद्गृहस्थैर्नोपवासः कार्यः ।
एकादशी द्वादशी च रात्रिशेषे त्रयोदशी ।
{म्व्-स्_७३}
उपवासं न कुर्वीत पुत्रपौत्रसमन्वितः ॥
इति कौर्मोक्तेः ।
किन्तु नक्तमेव ।
एकादशी यदा वृद्धा द्बादशी च क्षयं गता ।
क्षीणा सा द्वादशी ज्ञेया नक्तं तत्र विधीयते ॥
इति वृद्धपराशरोक्तेः ।
केचित्तु दिनक्षयनिमित्तोपवासनिषेध"उपवासनिषेधे तु"इतिवचनात् किञ्चिद्भक्षयेदित्याहुः ।
तन्न ।
नक्तादिविधेर्वि शेषत आम्नानात् ।
यत्तु–
एकादशी विवृद्धा चेच्छुक्ले कृष्णे विशेषतः ।
उत्तरां तु यतिः कुर्यात् पूर्वामुपवसेद्गृही ॥
इति प्रचेतोवचनं तत् शुद्धाविषयं"सम्पूर्णैकादशी यत्र"इत्यादिबहुवाक्यैकवाक्यत्वात् ।
माधवस्तु अस्माद्वचनात् विद्धायामपि इयं व्यवस्थेत्याह ।
अत्र च येषु पक्षेषु विद्धोपवासप्रसक्तिस्तत्र रात्रौ पूजाव्रतसङ्कल्पावनुष्ठेयौ ।
विद्धोपवासे ऽनश्र्नंस्तु दिनं त्यक्त्वा समाहितः ।
रात्रौ सम्पूजयेद्विष्णुं सङ्कल्पं च तदाचरेत् ॥
इति अनन्तभट्टोदाहृतस्मृतिवचनात् ।
येषु तु शुद्धोपवासप्रसक्तिस्तत्र यदि पूर्वदिने मध्यरात्रात् पूर्वं दशमी तदा"प्रातः सह्कल्पयेद्विद्वान्” “पूर्वाह्ने दैवकार्याणि"इत्यादिसामान्यवचनेभ्यः प्रातरेव तावनुष्ठयौ ।
यदा तु मध्यरात्रोत्तरं दशम्या वेधस्तदा मध्याह्नोत्तरं पूजाव्रतसङ्कल्पा वनुष्ठेयौ ।
दशम्याः सङ्गदोषेण मध्यरात्रात् पेरण तु ।
वर्जयेच्चतुरो मासान् सह्कल्पार्चनयोस्तथा ॥
इति अनन्तभट्टोदाहृतवचनात् ।
एवं च–
अर्धरात्रात् परा यत्र एकादश्यां तु लभ्यते ।
तत्रोपवसनं कर्तुं न चेच्छेद्दशमीकला ॥
इतिस्मृतिवचने ऽप्युपवासग्रहणं प्रातःसह्कल्परूपोपवासनिषेधार्थमेव व्याख्येयं न तूपवासनिषेधार्थमित्यनन्तभट्टः ।
हेमाद्रिस्तु प्रथमारम्भविषयमित्याह ।
न चेच्छेदितीच्छानिषे वस्य प्रथमप्रयोग एवाञ्जस्यात् ।
अन्ये तु कपालवेधस्यापि अरुणोदयवेधवन्नित्यवदेव दूषकत्वम् अस्माद् वचनात् ।
अत एव कालनिर्णयदीपिकाविवरणकारेणापि एतन्न दूषितम् ।
अतश्च कपालवेधो देशाचाराद् व्यवस्थित इत्याहुः ।
वस्तुतस्तु
अर्धरात्रे ऽपि केषाञ्चिद्दशम्या वेध इष्यते ।
अरुणोदयकाले तु नावकाशो विचारणे ॥
{म्व्-स्_७४}
कपालवेध इत्याहुराचार्या ये हरिप्रियाः ।
नैतन्मम मतं यस्मात् त्रियामा रात्रिरिष्यते ॥
इतिवचने कैमुतिकन्यायप्रदर्शनात् कपालवेधवचनानि अरुणोदयवेधस्तुत्यर्थान्येवेति युक्तम् ।
अथ पारणानिर्णयः ।
सा चाल्पाल्पतराल्पतमद्वादश्यामपि प्रातर्माध्याह्निकं कर्मोषःकाले ऽपकृष्य कार्या ।
यदा भवति अल्पा तु द्वादशी पारणादिने ।
उषःकाले द्वयं कुर्यात् प्रातर्माध्याह्निकं तदा ॥
इति पाद्मोक्तेः ।
न चोषःकालस्याल्पत्वात् कथं तावत् कर्मानुष्ठेयमिति वाच्यम् ।
विधिबलात् सङ्ख्यादिबाधेन तदनुष्ठानोपपत्तेः ।
अत एव–
महाहानिकरी ह्येषा द्वादशी लङ्घिता नरैः ।
करोति धर्महरणम्–
इति पाद्मे द्वादश्यतिक्रमे दोष उक्तः ।
अपकर्षश्च स्मार्त्तस्यैव न श्रौतस्य ततो बलीयस्त्वात् ।
श्रौतकर्मानीधकृतविषयत्वेन तस्य सावकाशत्वाच्च ।
एवं काम्यस्यापि नापकर्षः ।
अत्र च प्रातर्माध्याह्निकग्रहणान्न नैमित्तिकसङ्क्रान्तिव्यतीपातादियुक्तस्य तत्तत्काले विहितस्य स्नानादिकर्मणः सांवत्सरिकादेर्वापकर्षः ।
एवं भूयस्यामपि द्वादश्र्यां माध्याह्निकापकर्षः प्रातः कार्य एव ।
सर्वेषामुपवासानां प्रातरेव हि पारणा ।
इति माधवोदाहृतवचनात् ।
यदा तु प्रातःकालो द्वादशीप्रथमपादान्तर्गतो भवति तदा तदन्ते पारणा कार्या ।
द्वादश्याः प्रथमः पादो हरिवासरसञ्ज्ञितः ।
तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः ॥
इति विष्णुधर्मोक्तेः ।
इत्येकादशीपारणानिर्णयः ।
इत्येकादशीनिर्णयः ।
अथ द्वादशीनिर्णयः ।
सा तु एकादशीयुक्ता ग्राह्या"रुद्रेण द्वादशी युक्ता"इति युग्मवचनात् ।
द्वादशी च प्रकर्तव्या एकादश्या युता प्रभो! ।
सदा कार्या च विद्वद्भिर्विष्णुभक्तैश्च मानवैः ॥
इति स्कन्दपुराणाच्च ।
{म्व्-स्_७५}
एकादशी तथा षष्ठी अमावास्या चतुर्थिका ।
उपोष्याः परसंयुक्ताः पराः पूर्वेण संयुताः ॥
इति गार्ग्यवचनाच्च ।
सकलकर्मोपलक्षणं चात्रोपवासग्रहणम् ।
यदा चैकादश्युपवासद्वादश्युपवासयोरेकस्मिन् दिने प्रसक्तिस्तदोपवासद्वयमपि तन्त्रेण कार्यम् ।
यदा तु सम्पूर्णयोस्तिथ्योर्भेदेनोपवासद्वयप्रसक्तिस्तदा एकादश्युपवाससंयुक्तां पारणां जलेन कृत्वा द्वादशीव्रतमारभेतेति माधवः ।
अयमेव च न्यायः सर्वत्र उपवासद्वयप्रसक्तौ ध्येयः ।
चैत्रशुक्लद्वादश्यां दमनोत्सव उक्तः–
द्वादश्यां चैत्रमासस्य शुक्लायां दमनोत्सवः ।
इत्यादिना रामार्चन्नचन्द्रिकायाम् ।
तत्र च पारणाहमात्रं विवक्षितम् ।
पारणाहे न लभ्येत द्वादशी घटिकापि चेत् ।
तदा त्रयोदशी ग्राह्या पवित्रदमनार्पणे ॥
इति तत्रैवोक्तेः ।
पवित्रारोपणं च श्रावणशुक्लद्वादश्यां विहितम् ।
श्रावणस्य सिते पक्षे कर्कस्थे च दिवाकरे ।
द्वादश्यां वासुदेवाय पवित्रारोपणं स्मृतम् ॥
इति विष्णुधर्मोक्तेः ।
अथ श्रवणद्वादशीनिर्णयः ।
तत्र विष्णुधर्मोत्तरे–
या राम! श्रवणोपेता द्वादसी महती तु सा ।
तस्यामुपोषितः स्नातः पूजयित्वा जनार्दनम् ॥
प्राप्नोत्ययत्नाद्धर्मज्ञो द्वादशद्वादशीफलम् ।
अयं च स्वल्पो ऽपि योगः फलदः ।
तिथिनक्षत्रयोर्योगो योगस्यैव नराधिप! ।
द्विकलो यदि लभ्येत स ज्ञेयो ह्याष्टयामिकः ॥
इति श्रवणद्वादशीं प्रकृत्य नारदीयोक्तेः ।
योगः रोहिणीयोगादिः ।
तत्र या तावदेकस्मिन्नेव दिने श्रवणयोगवती शुद्धा शुद्धाधिका वा विद्धा विद्धाधिका वा तस्यां सन्देह एव नास्ति ।
यदा विद्धाधिकायां दिनद्वये ऽपि श्रवणयोगस्तदा एकादशीयुता ग्राह्या ।
द्वादशी श्रवणस्पृष्टा स्पृशेदेकादशीं यदा ।
स एव वैष्णवो योगो विष्णुशृङ्खलसञ्ज्ञितः ॥
इति मात्स्योक्तेः ।
हेमाद्रौ तु श्रवणास्पृष्टेति पाठः ।
वणाशब्दश्च स्त्रीलिङ्ग इत्व्यिख्यातम् ।
तन्त्रेण च तदोपवासद्वयं कायम् ।
{म्व्-स्_७६}
यदा तु शुद्धाधिकाया दिनद्वये श्रवणयोगस्तदोत्तरैव ।
उदयव्यापिनी ग्राह्या श्रधणद्वादशी व्रते ।
इति बृहन्नारदीयात ।
यदा तु द्वादश्यां श्रवणयोग एव नास्ति तदा एकादश्यामेव तद्वत्यां श्रवणद्वादशीव्रतं कार्यम् ।
यदा न प्राप्यते ऋक्षं द्वादश्यां श्रवणः क्वचित् ।
एकादशी तदोपोष्या पापघ्नी श्रवणान्विता ॥
इति नारदीयोक्तेः ।
एतस्याश्च सञ्ज्ञाविशेषो–
भाविष्ये–
एकादशी यदा शुक्ला श्रवणेन समन्विता ।
विजया सा तिथिः प्रोक्ता भक्तानां विजयप्रदा ॥
इति ।
विद्धाधिक्ये ऽपि चोत्तरदिने श्रवणयोगाभावे तादृशी दशमीविद्धापि ग्राह्या ।
दशम्येकादशी यत्र सा नोपोष्या भवेत्तिथिः ।
श्रवणेन तु संयुक्त ।
सा शुभा सर्वकामदा ॥
इति वह्निपुराणात् ।
यदा चैकादशीश्रवणद्वादश्युपवासौ दिनभेदेन प्राप्नुतस्तदा शक्तेन द्वयमपि कार्यम् ।
एकादशीमुपोष्यैव द्वादशीं समुपोषयेत् ।
न तत्र विधिलोपः स्यादुभयोर्दैवतं हरिः ॥
इति भविष्योक्तेः ।
स्वीकृतैकादशीव्रतश्रवणद्वादशीव्रतोभयकरणासामर्थ्ये तु एकादशीमुपोष्य द्वादश्यां पूजामात्रं कार्यम् ।
द्वादश्यां शुक्लपक्षे तु नक्षत्रं श्रवणं यदि ।
उपोष्यैकादशीं तत्र द्वादश्यां पूजयेद्धरिम् ॥
इति मात्स्योक्तेः ।
अगृहीतैकादशीव्रतस्तु द्वादश्यामेवोपवसेत् ।
उपोष्य द्वादशीं पुण्यां वैष्णवर्क्षेण संयुताम् ।
एकादश्युद्भवं पुण्यं नरः प्राप्नोत्यसंशयम् ॥
इति नारदीयोक्तेः ।
अत्र च यदा कदाचिच्छ्रवणयोगे ऽपि प्रातरेव सङ्कल्प इति हेमाद्रिः ।
इयं च भाद्रपदे महत्युक्ता ।
मासि भाद्रपदे शुक्ला द्वादशी श्रवणान्विता ।
महती नाम सा ज्ञेया उपवासे महाफला ॥
इति स्कन्दपुराणात् ।
इयं च बुधयुक्तातिप्रशस्ता ।
श्रवणद्वादशीयोगे बुधवारो यदा भवेत् ।
अत्यन्तमहती नाम द्वादशी सा प्रकीर्त्तिता ॥
इति विष्णुधर्मोत्तरात् ।
श्रवणद्वादशीव्रतनिमित्तोपवासपारणं तु पारणादिने उभयानुवृत्तौ तूभयान्ते कर्तव्यमिति मुख्यः कल्पः ।
{म्व्-स्_७७}
तिथिनक्षत्रसंयोगादुपवासो भवेद्यदा ।
पारणं तु न कर्तव्यं यावन्नैकस्य सङ्क्षयः ॥
इति नारदीयोक्तेरितिकेचित् ।
मदनरत्नस्तु अत्र यद्यपि तिथिनक्षत्रयोरन्यतरान्ते पारणं प्रतीयते तथापि तिथ्यन्त एव कार्यम् न तु तिथिमध्ये ऽपि नक्षत्रमात्रान्ते ।
याः काश्चित्तिथयः प्रोक्ताः पुण्या नक्षत्रयोगतः ।
ऋक्षान्ते पारणं कुर्याद्विना श्रवणरोहिणीम् ॥
इति विष्णुधर्मोत्तरे श्रवणान्तस्य पारणायां पर्युदस्तत्वात् ।
नचैवं रोहिव्यन्ते ऽपि सा न स्यादितिवाच्यम् ।
“भान्ते कुर्यात्तिथेर्वापि"इति रोहिणीयोगप्रयुक्तोपवासप्रकरणस्थवन्हिपुराणवचनात्तत्र सेष्टैव न त्वत्रैवं वचनमस्तीत्याह ।
इति श्रवणद्वादशीनिर्णयः ।
अथ तदितरमहाद्वादशीनिर्णयः ।
तत्र ब्रह्मवैवर्त्ते:
उन्मीलिनी वञ्जुलिनी त्रिस्पृशा पक्षवर्द्धिनी ।
जया च विजया चैव जयन्ती पापनाशिनी ॥
द्वादश्यो ऽष्टौ महापुण्याः सर्वपापहरा द्विज! ।
तिथियोगेन जायन्ते चतस्रश्चापरास्तथा ॥
नक्षत्रयोगात्प्रबलपापं प्रशमयन्तिताः ।
एकादशी तु सम्पूर्णा वर्द्धते पुनरेव सा ॥
उन्मीलिनी भृगृश्रेष्ठ! कथिता पापनिशिनी ।
द्वादश्यामुपवासस्तु द्वादश्यामेव पारणम् ॥
वञ्जुली नाम सा प्रोक्ता हत्यायुतविनाशिनी ।
अरुणोदय आद्या स्याद्द्वादशी सकलं दिनम् ।
अन्ते त्रयोदशी भद्रा त्रिस्पृशा सा प्रकीर्त्तिता ॥
कुहूराके यदा वृद्धिं प्रयाते पक्षवर्द्धिनीम् ।
विहायैकादशीं तत्र द्वादशीं समुपोषयेत् ।
पुष्यश्रवणपुष्याद्यरोहिणीसंयुतास्तु ताः ॥
उपोषिताः समफला द्वादस्यो ऽष्टौ पृथक् पृथक् ।
इति ।
चतस्रस्तिथियोगेन चतस्रो नक्षत्रयोगेनेत्यष्टौ ।
आद्या एकादशी ।
अरुणोदये सूर्योदय इति केचित् ।
पक्षवर्द्धिन्यां चोपवासद्वयासमर्थं प्रति द्वादश्युपवासमात्रविधानं श्रवणाद्वादशीव्रतवत् ।
पुष्याद्यं पुनर्वसुः ।
अत्र च तिथिप्रयुक्तासु न को ऽपि विचारः ।
{म्व्-स्_७८}
श्रवणद्वादशी तु निर्णीतैव ।
इतरासु नक्षत्रप्रयुक्तासु तु न श्रवणद्बादशीवदल्पयोगे ऽपि पूज्यत्वं किन्तु सूर्योदयादारभ्य पुनस्तत्पर्यन्तमस्तमयपर्यन्तं वा सत्त्व एव ।
कृत्तिकादिभरण्यन्तं तारावासरसप्तकम् ।
नैते संयोगमात्रेण पुनन्ति सकलां तिथिम् ॥
इति सामान्यवाक्यात् ।
श्रवणे विशेषवचनात्तथेत्युक्तम् ।
एताश्चाष्टौ महाद्वादश्यः काम्याः महापुण्या इत्यादिना फलश्रवणात् ।
यत्तु–
न करिष्यन्ति ये लोके द्वादश्यो ऽष्टौ ममाज्ञया ।
तेषां यमपुरे वासो यावदाभूतसम्प्लवम् ॥
इत्यकरणप्रत्यवायबोधकं वचनं तदनाकरम् ।
इति तदितरमहाद्वादशीनिर्णयः ।
कार्त्तिककृष्णद्वादश्यामुक्तायां वत्सपूजायां प्रदोषव्यापिनी तिथिर्ग्राह्या ।
तस्य तत्काल एव
विधानात् ।
दिनद्वये तत्कालव्याप्तौ पूर्वैव ।
वत्सपूजा वटश्चैव कर्तव्या प्रथमे ऽहनि ।
इति स्मरणात् ।
इति द्वादशीनिर्णयः ।
अथ त्रयोदशीनिर्णयः ।
तत्र शुक्लत्रयोदशी पूर्वविद्धा कार्या ।
त्रयोदशी तु कर्तव्या द्वादशीसहिता मुने! ।
इति ब्रह्मवैवर्त्तोक्तेः ।
कृष्णपक्षत्रयोदश्यां निगमे–
षष्ठ्यष्टमी त्वमावास्या कृष्णपक्षे त्रयोदशी ।
एताः परयुताः कार्याः पराः पूर्वयुतास्तथा ॥
इति विशेषोक्तेश्च ।
यत्तु वृद्धवशिष्ठेनोक्तम्–
द्वितीया पञ्चमी वेधात् दशमी च त्रयोदशी ।
चतुर्दशी चोपवासे हन्युः पूर्वोत्तरे तिथी ॥
इति,
तत्तु शुक्लत्रयोदशीविषयम् ।
निगमे “कृष्णपक्षे त्रयोदशीऽ; इति कृष्णपक्षपुरस्कारेण विशेषाभिधानात् ।
यदा तु परदिने त्रयोदशी नास्ति तदा पूर्वविद्धा कार्या ।
तदाह–
वशिष्ठः:
एकादशी तृतीया च षष्ठी चैव त्रयोदशी ।
पूर्वविद्धापि कर्तव्या यदि न स्यात् परे ऽहनि ॥
इति ।
उपवासे ऽप्ययमेव निर्णयः ।
यत्तु–
एकादश्यष्टमी षष्ठी द्वितीया च चतुर्हशी ।
{म्व्-स्_७९}
त्रयोदशी अमावास्या ता उपोष्याः परान्विताः ॥
इति विष्णुधर्मोत्तरवचनं तत् कृष्णत्रयोदशीविषयम् ।
अन्यथा–
द्वितीया पञ्चमी वेधात् दशमी च त्रयोदशी ।
चतुर्दशी चोपवासे हन्युः पूर्वोत्तरे तिथी ॥
इति वृद्धवसिष्ठवचनविरोधात् ।
अतः कृष्णशुक्लभेदेनोभयोराञ्जस्यम् ।
अत्र च पूर्वविद्धाया ग्राह्यत्वं न सायाह्नमात्रव्यापित्वे किन्तु अपराङ्णव्यापित्वे ।
त्रयोदशी प्रकर्तव्या भवेद्या चापराह्णिकी ।
इति स्कन्दपुराणात् ।
चैत्रे मदनत्रयोदशी तु मध्याह्नब्यापिनी ग्राह्या ।
तत्प्रकरणे–
मध्याह्ने पूजयेद्भत्त्या गन्धपुष्पाक्षतादिभिः ।
इत्युक्तेः ।
सा तु शुक्लपक्षगतत्वात् पूर्वविद्धा ।
तथा शनित्रथोदशी पूर्वविद्धा प्रदोषब्यापिनी कार्या ।
प्रदोषलक्षणं तु–
त्रिमुहूर्तं प्रदोषः स्याद्रवावस्तं गते सति ।
इति ।
स्कन्दपुराणे–
ततस्तु लोहिते भानौ स्नात्वा सनियमो व्रती ।
पूजास्थानं ततो गत्वा प्रदोषे शिवमर्चयेत् ॥
इति ।
दिनद्वये प्रदोषव्यापित्वे तदेकदेशस्पर्शे वा उत्तरा ग्राह्या ।
प्रातः सङ्कल्पयेद्विद्बानुपवासव्रतादिकम् ।
इति सङ्कल्पकालमारभ्य प्रवृत्तेः ।
सदैव तिथ्योरुभयोः प्रदोषब्यापिनी तिथिः ॥
तत्रोत्तरत्र नक्तं स्यादुभयत्रापि सा यतः ।
इति जावालिवचनाच्च ।
एकदेशस्पर्शे ऽपि यत्राधिक्यं तत्र ग्राह्या ।
आधिक्यं देवपूजनभोजनपर्याप्तकालव्यापित्वम् ।
साभ्ये तूत्तरैव ।
मार्गशीर्षशुक्लत्रयोदसी अनङ्गत्रयोदशी ।
मार्शशीर्षे ऽमले पक्षे इत्युपक्रम्य-
अनङ्गेन कृता त्वेषा तेनानङ्गत्रयोदशी ।
इति विष्णुपुराणेक्तेः ।
यद्यापि चात्र सामान्यनिर्णयादपराह्णव्यापिनी पूर्वविद्धा प्राप्यते तथापि–
कृष्णाष्टमी बृहत्तपा सावित्री वटपैतृकी ।
अनङ्गत्रयोदसी रम्भा उपोष्याः पूर्वसंयुताः ॥
इति संवर्तवचनात् सायान्हव्यापिन्या अपि पूर्वविद्धाया ग्रहणम् ।
अन्यथा हि सामान्यनिर्णयादेव प्राप्तेरेतस्य वचनस्य निरर्थकत्वापत्तेः ।
{म्व्-स्_८०}
एवं कार्त्तिककृष्णत्रयोदशी सायाह्नव्यापिनी ग्राह्या ।
कार्त्तिकस्यासिते पक्षे त्रयोदश्यां निशामुखे ।
यमदीपं बहिर्दद्यादपमृत्युर्विनश्यति ॥
इति स्कान्दोक्तेः ।
इति त्रयोदशीनिर्णयः ।
अथ चतुर्दशीनिर्णयः ।
तत्र व्यासः–
शुक्ला चतुर्दशी ग्राह्या परविद्धा सदा व्रते ।
इति ।
पद्मपुराणे–
एकादश्यष्टमी षष्ठी शुक्लपक्षे चतुर्दशी ।
एताः परयुताः कार्याः पराः पूर्वेण संयुताः ॥
इति ।
भविष्यपुराणे–
सदा कार्या त्रयोदश्या न तु युक्ता चतुर्दशी ।
पौर्णमासीयुता सा स्याच्चतुर्दश्या च पूर्णिमा ॥
इति ।
नारदीयपुराणे–
तृतीयैकादशी षष्ठी पौर्णमासी चतुर्दशी ।
पूर्वविद्धा न कर्तव्या कर्तव्या परसंयुता ॥
इति ।
वाराहपुराणे–
एकादशी दशम्या तु सप्तम्या चाष्टमी तथा ।
पञ्चम्या च यदा षष्ठी त्रयोदश्या चतुर्दशी ॥
आसु क्रिया न कुर्वीत पूर्वविद्धासु मानवः ।
नागविद्धा तथा षष्ठी भानुविद्धो महेश्वरः ।
चतुर्दशी कामविद्धा मिश्रास्ता मलिनाः स्मृताः ॥
इति ।
महेश्वरो ऽष्टमी ।
अष्टमीचतुर्दश्यौ शुक्ले ।
चैत्रश्रावणचतुर्दस्यौ शुक्ले अपि रात्रिव्यापिन्यौ ग्राह्ये ।
तथाच–
बौधायनः-
मधोः श्रावणमासस्य शुक्ला या तु चतुर्दशी ।
सा रात्रिव्यापिनी ग्राह्या परा पूर्वाह्नगामिनी ॥
इति ।
परा = मासान्तरगता ।
निशि भ्रमन्ति भूतानि शक्तयः शूलभृत्! यतः ।
अतस्तस्यां चतुर्दश्यां सत्यां तत्पूजनं भवेत् ॥
इति हेमाद्रिलिखितवचनाच्च ।
भाद्रशुक्लचतुर्दसी तु त्रिमुहूर्तव्यापिनी ।
द्विमुहूर्तव्यापिन्यपि सूर्योदयव्यापिनी ग्राह्या ।
“दैवे ह्यौदयिकी ग्राह्या"इति वचानात् ।
{म्व्-स्_८१}
“चतुर्दश्या च पूर्णिमा"इति युग्मवाक्याच्च ।
एवं सकलशिष्टाचारः ।
केचित्तु मध्याह्नव्यापिनी ग्राह्येत्याहुः ।
भविष्योत्तरवचनगतं च लिङ्गं प्रमाणमुपन्यस्यन्ति ।
यथा–
मध्याह्ने भोज्यवेलायां समुत्तीर्य सरित्तटे ।
ददर्श शीला सा स्त्रीणां समूहं रक्तवाससाम् ॥
चतुर्दश्र्यामर्चयन्तं भक्त्या देवं पृथक्पृथक् ॥
इति ।
तन्न ।
“मध्याह्ने पूजयेन्नृप"इति विनायकव्रतवत् अत्र विधायकाश्रवणात् ।
लिङ्गस्य च अर्थवादगतत्वात्, तदुपोद्बलकप्रमाणान्तरा दर्शनात्,“दैवे ह्यौदयिकी ग्राह्या"इति प्रत्यक्षवचनविरोधात् औदयिकी ग्राह्या न मध्याह्नगतेति सङ्क्षेपः ।
शिष्टा अपि औदयिक्यामेव व्रतमाचरन्ति ।
कृष्णचतुर्दशी तु पूर्वविद्धा ग्राह्या ।
आपस्तम्बः–
कृष्णपक्षे ऽष्टमी चैव कृष्णपक्षे चतुर्दशी ।
पूर्वविद्धा तु कर्तव्या परविद्धा न कर्हिचित् ॥
इति ।
यत्तु नारदीये–
अष्टम्येकादशी षष्ठी कृष्णपक्षे चतुर्दसी ।
अमावास्या तृतीया च कर्तव्या परसंयुताः ॥
इति ।
तथा ब्रह्मवैवर्त्ते,
चतुर्दशी दर्शयुक्ता पौर्णमास्या युता विभो! ।
इति, तदुपवासविषयम् ।
एकादश्यष्टमी षष्ठी उबे पक्षे चतुर्दसी ।
अमावास्या तृतीया च ता उपोष्याः परान्विताः ॥
इति पद्मपुराणीयविशेषवचनैकवाक्यत्वात् पूर्वोदाहृतवचनविरोधाच्च ।
उभे पक्षे = = भयपक्षगतेत्यर्थः ।
शिवव्रते तु पक्षद्वयगते चतुर्दश्यौ त्रयोदशीयुते अपराह्णव्यापिन्यौ ग्राह्ये ।
तथा च–
स्कन्दपुराणे,
चतुर्दशी तु कर्तव्या त्रयोदश्या युता विभो! ।
मम भक्तैर्महाबाहो! भवेद्या चापराह्णिकी ॥
दर्शविद्धा न कर्क्तव्या राकाविद्धा कदाचन ।
इति ।
मम भक्तैरितीश्वरवचनात् लिङ्गात् तद्व्रतकिषयता ज्ञायते ।
रुद्रव्रतेषु सर्वेषु कर्तव्या सम्मुखी तिथिः ।
इति वचनाच्च ।
यदपि-
कृष्णपक्षे ऽष्टमी चैव कृष्णपक्षे चतुर्दशी ।
{म्व्-स्_८२}
पूर्वविद्धा तु कर्तव्या परविद्धा न कर्हिचित् ॥
उपवासादिकार्येषु ह्येष धर्मः सनातनः ।
इति:
तदपि रुद्रव्रतविषयम् पूर्वोदितवचनैकवाक्यतया ।
तदितरव्रतेषु"उभे पक्षे चतुर्दशी"इति प्रागुदाहृतपद्मपुराणात् तादृशवृद्धवशिष्ठवचनाच्च उत्तरविद्धा ग्राह्येति ।
इति चतुर्दशीसामान्यनिर्णयः ।
अथ नृसिंहचतुर्दंशीनिर्णयः ।
सा च प्रदोषव्यापिनी ग्राह्या ।
तदुक्तं हेमाद्रौ नृसिंहपुराणे–
वैशाखे शुक्लपक्षे तु चतुर्दश्यां निशामुखे ॥
मज्जन्मसम्भवं पुण्यं व्रतं पापप्रणाशनम् ।
वर्षे बर्षे तु कर्तव्यं मम सन्तुष्टिकारणम् ॥
दिनद्वये तद्व्याप्तौ अंशतः समव्याप्तौ वा परैव ।
विषमब्याप्तौ त्वधिकव्याप्तिमती ।
दिनद्वये ऽप्यव्याप्तौ परा ।
परदिने गौणव्याप्तेः सत्त्वात् पूर्वदिने च तदभावात् ।
यत्तु–
ततो मध्याह्नवेलायां नद्यादौ विमले जले ।
इत्युपक्रम्य–
परिधाय ततो वासो व्रतकर्म समारभेत् ॥
इति तत्रोक्तम् ।
तत् सङ्कल्परूपव्रतोपक्रमविषयं न तु प्रधानस्य मध्याह्नकालत्वज्ञापकम् ।
पूर्वोदाहृतवचनविरोधात् ।
इयं च योगविशेषेणातिप्रशस्ता ।
स्वातीनक्षत्नयोगे च शनिवारे च मद्व्रतम् ।
सिद्धियोगस्य संयोगे वणिजे करणे तथा ॥
पुंसां सौभाग्ययोगेन लभ्यते दैवयोगतः ।
एभिर्योगैर्विन्नापि स्यात् मद्दिनं पापनाशनम् ॥
इति तत्रैवोक्तेः ।
इदं च नृसिंहोपासकानामेव नित्यम् ।
सर्वेषामेव वर्णानामाधिकारो ऽस्ति मद्व्रते ।
मद्भक्तैस्तु विशेषेण कर्तव्यं मत्परायणैः ॥
इति तत्रैवोक्तेः ।
इति नृसिंहजयन्तीनिर्णयः ।
अथात्रैव प्रसङ्गादन्या अपि जयन्त्यो ऽभिधीयन्ते ।
पुराणससुच्चये–
मत्स्यो ऽभूद्धुतभुग्दिने मधुसिते कूर्मो विधौ माधवे
वाराहो गिरिजासुते नभसि यद्भूते सिते माधवे ॥
{म्व्-स्_८३}
सिंहो भाद्रपदे सिते हरितिथौ श्रीवामनो माधवे
रामो गौरितिथावतः परमभूद्रामो नवम्यां मधोः ॥
कृष्णो ऽष्टम्यां नभसि सितपरे चाश्विने यद्दशम्यां
बुद्धः कल्की नभसि समभूच्छुक्लषष्ठ्यां क्रमेण ॥
अह्नो मध्ये वामनो रामरामौ
मत्स्यः क्रोडश्चापराह्णे विभागे ।
कूर्मः सिंहो बौद्धकल्की च सायं
कृष्णो रात्रौ कालसाम्ये च पूर्वे ॥
इति ।
इति जयन्तीनिर्णयः ।
ज्येष्ठशुक्लचतुर्दश्यां सर्वस्मिन् दिने पञ्चाग्निसाधनं कृत्वा प्रदोषे हेमधेनुर्देया ।
ज्येष्ठे पञ्चतपाः सायं हेमधेनुप्रदो दिवम् ।
यात्यष्टमीचतुर्दश्यो रुद्रव्रतमिदं स्मृतम् ॥
इति मात्स्योक्तेः ।
कार्त्तिककृष्णचतुर्दशी दीपावली ।
कार्त्तिके कृष्णपक्षे तु चतुर्दश्यां दिनोदये ।
अवश्यमेव कर्तव्यं स्रानं नरकभीरुभिः ॥
इति भाविष्योक्तेः ।
कार्त्तिको ऽत्र पूर्णिमान्तः ।
अत्र दिनोदय इति श्रवणात् प्रातःकालव्याप्तित्वमिति गौडाः ।
दाक्षिणात्यास्तु विधूदय इति पाठमाहुः ।
तन्मते चन्द्रोदयव्यापिनी ग्राह्या ।
दिनद्वये तद्व्याप्तौ तदव्याप्तौ वा पूर्वैव ।
पूर्वविद्धचतुर्धश्यां कार्त्तिकस्य सितेतरे ।
प्रत्यूषसमये स्नानं कुर्यात्तत्र प्रयत्नतः ॥
इति पृष्वीचन्द्रोदयोदाहृतवचनात् ।
अस्यामेव च रात्रौ दीपदानं कार्यम्
ततः प्रदोषसमये दीपान् दद्यान् मनोहरान् ।
इति वचनात् ।
कार्त्तिकशुक्लचतुर्दश्यां पाषाणचतुर्दशीव्रतम् ।
कार्त्तिके शुक्लपक्षे तु या पाषाणचतुर्दशी ।
तस्यामाराधयेद्गौरीं नक्तं पाषाणभक्षकः ॥
इति देवीपुराणोक्तेः ।
इयमेव वैकुण्ठचतुर्दशी ।
सा रात्रिव्यापिनी ग्राह्या ।
कार्त्तिकस्य सिते पक्षे चतुर्दश्यां नराधिप! ।
सोपवासस्तु सम्पूज्य हरिं रात्रौ जितेन्द्रियः ॥
इति भविष्योक्तेः ।
अस्या एव विश्वेश्वरप्रतिष्ठातिष्ठादिनत्वात् तत्प्रयुक्तपूजादावरुणोदयव्यापिनी ग्राह्या ।
{म्व्-स्_८४}
वर्षे च हेमलम्बाख्ये मासे श्रीमति कार्त्तिके ।
शुक्लपक्षे चतुर्दश्यामरुणाभ्युदयं प्रति ॥
महादेवतिथौ ब्राह्मे मुहुर्त्ते मणिकर्णिके ।
स्नात्वा विश्वेरी देवी विश्वेश्वरमपूजयत् ॥
इति सनत्कुमारसंहितोक्तेः ।
माघशुक्लचतुर्दशी आरटन्त्याख्या ।
सा अरुणोदयविद्धा ग्राह्या ।
माघशुक्लचतुर्दश्यां विष्णोर्देहान्मरीचयः ।
निश्चेरुस्तिलकाकाराः शतशो ऽथ सहस्रशः ॥
अनर्काभ्युदिते काले सत्सु तारांशुकेष्वपि ।
राजा च तत्र सम्पूज्यो यमः प्रलयभास्करः ।
इति ब्रह्मपुराणात् ।
अथ शिवरात्रिनिर्णयः ।
तत्स्वरूपं शिवरहस्ये–
तत्प्रभृत्यथ देवर्षे! माघकृष्णचतुर्दशी ।
शिवरात्रिः समाख्याता प्रियेयं त्रिपुरद्विषः ॥
इति ।
अत्र च रात्रिशब्दस्तिथिलक्षकः सिवशब्दश्च शिवव्रतलक्षकः प्रकरणात् ।
अतश्चायं शिवरात्रिशब्दो शिवव्रतविशेषयोग्यतिथिपरः ।
स्कन्दपुराणे तु–
माघफाल्गुनयोर्मध्ये असिता या चतुर्दशी ।
शिवरात्रिस्तु सा ख्याता सर्वयज्ञोत्तमोत्तमा ॥
इति ।
यत्तु भविष्यपुराणे–
चतुर्दश्यां तु कृष्णायां फाल्गुने शिवपूजनम् ।
तामुपोष्य प्रयत्नेन विषयान् परिवर्जयेत् ॥
इति ।
तत् पौर्णमासान्तमासाभिप्रायं पूर्वोदाहृतवचनैकवाक्यत्वात् ।
तदेतत् शिवरात्रिव्रतमुपवासपूजाजागरणात्मकं ज्ञेयम् ।
तथा च नागरखण्डे–
उपवासप्रभावेण बलादपि च जागरात् ।
शिवरात्रेस्तथा तस्यां लिङ्गस्यापि प्रपूजया ॥
अक्षयान् लभते भोगान् शिवसायुज्यमाप्नुयात् ।
तथा सह्यखण्डे–
स्वयं च लिङ्गमभ्यर्च्य सोपवासः सजागरः ।
अजानन्नपि निष्पापो निषादो गणतां गतः ॥
इति ।
{म्व्-स्_८५}
ब्रह्मपुराणे–
माघे कृष्णचतुर्दश्यां कर्तव्यं व्रतमुत्तमम् ।
उपोषितो वरारोहे! चतुर्दश्र्यां वरानने! ।
इत्याद्यभिधाय प्रतिप्रहरं पूजाजागरणाद्युक्तम् ॥
तथा स्कान्दे–
कृष्णपक्षे चतुर्दश्यां न कञ्चिन्मृगमाप्तवान् ।
अण्वपि प्राणयात्रार्थं क्षुधासम्पीण्डितो ऽवसत् ॥
इत्याद्युक्त्वा–
धनुष्कोट्या हतान्येव बिल्वपत्राणि मानद! ।
पिततानि महाराज! शम्भोः शिरसि भूतले ॥
तत्रैव तस्थौ राजेन्द्र! सर्वरात्रमतन्द्रितः ।
रात्रिशेषं स्थितो व्याधः स्तब्धदृष्टिरनामिषः ॥
प्रभाते विमले जाते दृष्ट्वा तत्रैव शङ्करम् ।
बिल्वपत्रैर्नरश्रेष्ठ! कन्दमूलैश्च पारितः ॥
इति ।
यत्तु क्वचित् एकस्य द्वयोर्वा श्रवणम् ।
यथा,
अथवा शिवरात्रिं तु पूजाजागरणैर्नयेत् ।
इति ।
तथापि अथवेत्यनुकल्पोपक्रमेणाशक्तविषयतयोपपाद्यम् ।
एवमन्यत्रापि–
अखण्डितव्रतो यो हि शिवरात्रिमुपोषयेत् ।
सर्वान् कामानवाप्नोति शिवेन सह मोदते ॥
तथान्यत्र–
कश्चित् पूण्यविशेषेण जलहीनो ऽपि यः पुमान् ।
जागरं कुरुते तत्र स रुद्रसमतां व्रजेत् ॥
इत्यादीनि तानि अशक्तविषयाणि ।
तदेतत् शिवरात्रिव्रतं जन्माष्टमीवत् संयोगमपृथक्त्वन्यायेन नित्यं काम्यं च तत्र नित्यत्वं तावत् स्कन्दपूराणे–
परात्पतरं नास्ति शिवरात्रिः परात्परम् ।
न पूजयति भक्त्येशं रुद्रं त्रिभुवनेश्वरम् ॥
जन्तुर्जन्मसहस्रेण भ्रमते नात्र संशयः ।
इत्यकरणे प्रत्यवायश्रवणात् ।
वर्षे वर्षे महादेवि! नरो नारी पतिव्रता ।
शिवरात्रौ महादेवं कामं भत्त्या प्रपूजयेत् ॥
इति वीप्साश्रुतेः,
अर्णवो यदि वा शुष्येत् क्षीयेत हिमवानपि ।
मेरुमन्दरलङ्काश्च श्रीशैलो विन्ध्य एव च ॥
{म्व्-स्_८६}
चलन्त्येते कदाचिद्वै निश्चलं हि शिवव्रतम् ।
इति वचनाच्च ।
निश्चलं नित्यकर्तव्यमित्यर्थः ।
फलश्रवणात्काम्यतापि स्कन्दपुराण एव–
शिवं च पूजयित्वा यो जागर्त्ति च चतुर्दशीम् ।
मातुः पयोधररसं न पिवेत्स कदाचन ॥
यदीच्छेदक्षयान् भोगान् दिवि देव! मनोरथान् ।
आगमोक्तविधिं कृत्वा प्राप्नोति मरमं पदम् ।
मम भक्तस्तु देवेशि! शिवरात्रिमुपोषकः ॥
गणत्वमक्षयं दिव्यमक्षयं शिवशासनम् ।
सर्वान् भुक्त्वा ततो भोगान् मृतो भूपो ऽभिजायते ॥
काम्यव्रते ईशानसंहितायां विशेषः ।
एवमेतद्व्रतं कुर्यात् प्रतिसंवत्सरं व्रती ।
द्वादशाब्दिकमेव स्याच्चतुर्विशाब्दिकं तु वा ॥
सर्वान् कामानवाप्नोति प्रेत्य चेह च मानवः ।
इति ।
सर्वाधिकारिकत्वं चास्य तत्रैवोक्तम्-
शिवरात्रिव्रतं नाम सर्वपापप्रणाशनम् ।
आचाण्डालमनुष्याणां भुक्तिमुक्तिप्रदायकम् ॥
इति ।
अधिकारिनियमाः स्कन्दपुराणे–
माधमासे तु या कृष्णा फाल्गुनादौ चतुर्दशी ।
सा च पुण्या तिथिर्ज्ञेया सर्वपातकनाशिनी ॥
अहिंसा सत्यमक्रोधो ब्रह्मचर्यं क्षमा दया ।
शान्तात्मा क्रोधहीनश्च तपस्वी ह्यनसूयकः ॥
तस्मै देयमिदं देवि! गुरुपादानुगो यदि ।
अन्यथा यो ददातीह स दाता नरकं व्रजेत् ॥
इति ।
सा चेयं शिवरात्रिरर्द्धरात्रव्यापिनी त्रयोदशीयुता प्रशस्ता ।
त्रयोदसी यदा देवि! दिनभुक्तिप्रमाणतः ।
जागरे शिवरात्रिः स्यान्निशि पूर्णा चतुर्दशी ॥
इति शिवरहस्योक्तेः ।
अत एवात्र वेधो ऽपि न दिवावेध एव किन्तु जन्माष्टमीवद्रात्रिवेधो ऽपि भवत्येव ।
तथा च स्कन्दपुराणे–
निशि भ्रमन्ति भूतानि शक्तयः शूलभृद्यतः ।
अतस्तस्यां चतुर्दश्यां सत्यां तत्पूजनं भवेत् ॥
इति ।
भूतानि शक्तयो योगिन्यो ऽपि शूलभृच्छङ्करश्च यतो रात्रौ भ्रमन्ति अतः सत्यां तस्यां पूजनं भवेदिति हेमाद्रिः ।
{म्व्-स्_८७}
यदा दिनद्वये निशीथव्यापिनी तदा पूर्वैव ग्राह्या ।
तथाच स्कन्दपुराणे–
कृष्णाष्टमी स्कन्दषष्ठी शिवरात्रिश्चतुर्दशी ।
एताः पूर्वयुताः कार्यास्तिथ्यन्ते पारणं भवेत् ॥
तत्रैव–
जन्माष्टमी रोहिणी च शिवरात्रिस्तथैव च ।
पूर्वविद्धैव कर्तव्या तिथिभान्ते च पारणम् ॥
इति ।
तत्रैव–
श्रावणी दुर्गनवमी तथा दूर्वाष्टमी तु या ।
पूर्वविद्धैव कर्तव्या शिवरात्रिर्बलेर्दिनम् ॥
जयन्ती शिवरात्रिश्च कार्ये भद्राजयान्विते ।
माघफाल्गुनयोर्मध्ये या स्याच्छिवचतुर्दशी ॥
अनङ्गेन समायुक्ता कर्तव्या सा सदा तिथिः ।
इति ।
तथा:
आदित्यास्तमये काले अस्ति चेद्या चतुर्दशी ।
तद्रात्रिः शिवरात्रिः स्यात् सा भवेदुत्तमोत्तमा ॥
इति ।
वायुपुराणे-
त्रयोदश्यस्तगे सूर्ये चतसृष्वेव नाडिषु ।
भूतविद्धा च या तत्र शिवरात्रिव्रतं चरेत् ॥
इति ।
माघवोदाहृतस्मृत्यन्तरे-
प्रदोषव्यापिनी ग्राह्या शिवरात्रिचतुर्दशी ।
रात्रौ जागरणं यस्मात्तस्मात्तां समुपोषयेत् ॥
इति ।
अत्र रात्रौ जागरणं यस्मादिति हेतुवशात् प्रदोषशब्दो रात्रिपरो ऽवगन्तव्यः ।
नारदीयसंहितायाम्–
अर्द्धरात्रयुता यत्र माघकृष्णा चतुर्दशी ।
शिवरात्रिव्रतं तत्र सो ऽश्वमेधफलं लभेत् ॥
इति ।
माधवतिथितत्त्वकारौ तु ईदृशविषये बहुकालव्यापित्वात् परैवेत्याहतुः ।
तदेतत्–
अर्धरात्रात्परस्ताच्च जयायोगो यदा भवेत् ।
पूर्वविद्धैव कर्तव्या शिवरात्रिः शिवप्रियैः ॥
इति पद्मपुराणादिवचनानां निर्विषयत्वापत्तरयुक्तम् ।
यदा तु निशीथादूर्ध्वगा त्रयोदशी पेरऽहनि च निशीथाव्यापिन्यपि चतुर्दशी भवति तदा परैव ग्राह्या ।
तथाच हेमाद्रिमाधवोदाहृतपुराणवचनम्–
{म्व्-स्_८८}
माघासिते भूतदिनं हि राजन्नुपैति योगं यदि पञ्चदश्या ।
जयाप्रयुक्तां न तु जातु कुर्याच्छिवस्य रात्रिं प्रियकृच्छिवस्य ॥
इति ।
जयाप्रयुक्तां जयया त्रयोदश्या प्रकर्षेण निशीथादूर्ध्वं युक्तां न कुर्यात् नोपवसेत् किन्तु सकलदिनभूयोरात्रिलाभात् परामेवेत्यर्थः ।
तथाच यत् शिवरात्रिव्रते भूतां कामविद्धां विवर्जयेत् ।
इतिवचनम्, यच्च कामिकवचनम्–
निशाद्वयचतुर्द्द्रश्यां पूर्वा त्याज्या परा शुभा ।
इति,
तदेतादृशविषयमेव ज्ञेयम् ।
अन्यथा पूर्वापादकबहुवचनविरोधः स्यात् ।
पूर्वस्या एव निशीथव्याप्तौ उत्तराया एव वा निशीथव्याप्तौ तत्कालव्यापिनी ग्राह्येत्युक्तम्–
नारदीयेशानसंहितयोः:
माधकृष्णचतुर्दश्यामादिदेवो महानिशि ।
शिवलिङ्गतयोद्भूतः कोटिसूर्यसमप्रभः ॥
तत्कालव्यापिनी ग्राह्या शिवरात्रिव्रते तिथिः ।
अर्द्धरात्रियुता यत्र माघकृष्णचतुर्दशी ।
शिवरात्रिव्रतं तत्र सो ऽश्वमेधफलं लभेत् ॥
तत्रेत्यत्र कुर्वन् इत्यध्याहारः ।
पूर्वेद्युर्वा परेद्युर्वा महानिशि चतुर्दशी ।
व्याप्ता सा दृश्यते यस्यां तस्यां कुर्यात् व्रतं नरः ॥
इति ।
महानिशास्वरूपं तु देवलेनोक्तम्–
महानिशा द्वे घटिके रात्रेर्मध्यमयामयोः ।
इति ।
यदपि स्कन्दपुराणे–
आदौ मार्गशिरे मासि दीपोत्सवदिने ऽपि वा ।
गृह्णीयान्माघमासे वा द्वादशैवमुपोषयेत् ॥
इति काम्यं प्रतिमासं शिवरात्रिव्रतं तत्रापि पूजोपवासजागरणविधानात् तस्य च सकलरात्रिसाध्यत्वात् बहुरात्रिव्यापिन्यामनुष्ठानम् ।
उभयत्र रात्रिव्याप्तिसाम्ये तु–
रुद्रव्रतेषु सर्वेषु कर्तव्या सम्मुखी तिथिः ।
अन्यथा व्रतकल्पेषु यथोद्दिष्टामुपावसेत् ॥
इति पूर्वोदाहृतवचनानुगुण्याच्च पूर्वैव ग्राह्या ।
अस्याश्च महाशिव रात्रेः रविभौमवारान्यतरयोगे प्रशस्ततरत्वं शिवयोगयोगे प्रशस्ततमत्वं च स्कन्दपुराणे–
{म्व्-स्_८९}
माघकृष्णचतुर्दश्यां रविवारो यदा भवेत् ।
भौमो वाथ भवेद्देवि! कर्तव्यं व्रतमुत्तमम् ॥
शिवयोगस्य योगे च तद्भवेदुत्तमोत्तमम् ।
इति ।
तथा त्रिस्पृशातिप्रशस्ता पुराणान्तरे–
त्रयोदशी कलाप्येका मध्ये चैव चतुर्दशी ।
अन्ते चैव शिनीवाली त्रिस्पृश्यां शिवमर्चयेत् ॥
इति ।
शिवरात्रिपूजाप्रकारश्च रुद्रव्रतेषूक्त इति न लिख्यते ।
अथैतत्पारणं तु स्कन्दपुराण एव द्विधोक्तम्–
कृष्णाष्टमी स्कन्दषष्ठी शिवरात्रिश्चतुर्दशी ।
एताः पूर्वयुताः कार्यास्तिथ्यन्ते पारणं भवेत् ॥
इतिवचनात् परदिने यदि दिवा तिथ्यन्तस्तदा तत्रैव ।
नो चेत् दिवैव ।
तथा च स्कन्दपुराणे–
उपोषणं चतुर्दस्यां चतुर्दश्यां च पारणम् ।
कृतैः सुकृतलक्षैश्च लभ्यते वाथवा नवा ॥
ब्रह्मा स्वयं चतुर्वक्त्रैः पञ्चवक्त्रैस्तथा ह्यहम् ।
सिक्थे सिक्थे फलं तस्य वस्तुं शक्तो न पार्वति! ॥
ब्रह्माण्डोदरमध्ये तु यानि तीर्थानि सन्ति वै ।
संस्थितानि भवन्तीह भूतायां पारणे कृते ॥
इतिवचनात् ।
सा त्वस्तमयपर्यन्तव्यापिनी चेत्परे ऽहनि ।
दिवैव पारणं कुर्यात् पारणान्नैव दोषभाक् ॥
इति ।
शिवरात्रिप्रकरणपठितकालादर्शमदनरत्नमाधवादिलिखितस्मृतिवचनात् ।
अन्यतिथ्यागमो रात्रौ तामसस्तैजसो दिवा ।
तामसे पारणं कुर्वन् तामसीं गतिमाप्नुयात् ।
इत्यादिनिन्दावचनाच्च ।
माधवाचार्यास्तु यामत्रयोर्ध्वगामिन्यां प्रातरेव पारणमाहुः ।
इति शिवरात्रिनिर्णयः ।
अथ पौर्णमासीनिर्णयः ।
सा च सावित्रीव्रतातिरिक्ते कार्ये परैव ।
भूतविद्धा न कर्तव्या दर्शः पूर्णा कदाचन ।
वर्जयित्वा मुनिश्रेष्ठ! सावित्रीव्रतमुत्तमम् ।
इतिब्रह्मवैवर्त्तोक्तेः ।
एवं यत्"चतुर्दश्या च पूर्णिमा"इतियुग्मवाक्यं तत् सावित्रीव्रतविषयम् ।
{म्व्-स्_९०}
यत्तु “प्रतिपद्यप्यमावास्या"इत्यमायुग्मवाक्यं तत् सावित्रीव्रतातिरिक्तविषयं द्रष्टव्यम् ।
अत्र च न पूर्वविद्धानिषेधस्तस्यास्त्रिमुहूर्तसत्त्वे किं त्वष्टादशनाडीमितचतुर्दशीसत्त्वे ।
भूतो ऽष्टादशनाडीभिर्दूषयत्युत्तरां तिथिम् ।
इतिविशेषवचनात् ।
माधवस्तु इदं वचनं यत्र भूतविद्धा कर्तव्या यथा सावत्रीव्रते तत्राष्टादशनाडीमिता न ग्राह्येत्येवम्परमित्याह ।
तत्तु निरस्तं प्राक् ।
ज्येष्ठपञ्चदश्योर्वटसावित्रीव्रतम् ।
तत्र पूर्वविद्धा ग्राह्या ।
कृष्णाष्टमी बृहत्तपा सावित्री वटपैतूकी ।
अनङ्गत्रयोदशी रम्भा उपोष्याः पूर्वसंयुताः ॥
इति निगमोक्तेः ।
सावित्री = तद्व्रतसम्बधिनी पौर्णमासी ।
वटपैतृकी = तत्सम्बधिन्येवामावास्या ।
ज्येष्ठे मासि सिते पक्षे पूर्णिमायां तया व्रतम् ।
चीर्णं पुरा महाभक्त्या कथितं ते मया नृप! ॥
इति सावित्रीव्रतं प्रक्रम्य स्कान्दोक्तेः ।
अमायां च तथा ज्येष्ठे वटमूले तथा सती ।
त्रिरात्रोपोषिता नारी विधिनानेन पूजययेत् ॥
इति भविष्योक्तेश्च ।
हेमाद्रौ तु भाद्रपदपूर्णिमायामपीदमुक्तम् ।
गौडास्तु–
मेषे वा वृषभे वापि सावित्रीं तां विनिर्दिशेत् ।
ज्येष्ठकृष्णचतुर्दश्यां सावित्रीमर्चयन्ति याः ॥
वटमूले सोपवासा न ता वैधव्यमाप्नुयुः ।
इति पराशरवाक्याच्चतुर्दश्यामित्याहुः ।
श्रावणीं पौर्णमासीं प्रकृत्याम्नाते रक्षाबन्धने तु अपराह्णव्यापिनी ग्राह्या ।
ततो ऽपराह्णसमये रक्षापोटलिकां शुभाम् ।
कारयेदक्षतैः शस्तैः सिद्धार्थैर्हेमभूषितैः ॥
इति भविष्योक्तेः ।
अत्र च तत इति श्रवणात्पूर्वानुष्ठितोपाकर्माङ्गत्वमेतस्य ।
अतश्च यथा तत्र ग्रहसङ्क्रात्यादिवर्जनमेवमत्रापीति केचित् ।
अन्ये तु अङ्गत्वे प्रमाणाबावात् तत इत्यस्य चाखण्डपर्वाणि अर्थसिद्धत्वेनाविधेयत्वान्न ग्रहसङ्क्रान्त्यादिवर्जनमित्याहुः ।
इदं च भद्रायां न कार्यम् ।
भद्रायां द्वे न कर्तव्ये श्रावणी फाल्गुनी तथा ।
इति सङ्ग्रहोक्तेः ।
अस्यामेव हयग्रीवोत्पत्तिः ।
श्रावण्यां श्रवणे जातः पूर्वं हयशिरा हरिः ।
इति वचनात् ।
अस्यामेव श्रवणाकर्मोक्तम् ।
तत्रास्तमयव्यापिनी ग्राह्या ।
{म्व्-स्_९१}
“श्रावण्यां पौर्णमास्यां श्रवणाकर्म"इति तत्प्रकृत्य"अस्तमिते स्थालीपाकं श्रपयित्वाऽ; इत्याश्वलायनसूत्रात् ।
याज्ञिकास्तु एतस्य विकृतित्वाच्छेषपर्वणि अनुष्ठानमाहुः ।
अस्यामेवोपाकर्म ।
तत्र–
याज्ञवल्क्यः:
अध्यायानामुपाकर्म श्रावण्यां श्रवेणेन वा ।
हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु ॥
अधीयत इत्यघ्यायो वेदः ।
उपाकर्मेन्ति वेदसंस्कारकर्मणो नामधेयम् ।
श्रावण्यां श्रावणपौर्णमास्याम् ।
यद्यपि"नक्षत्रेण युक्तः काल” (४ । ३ । २) इत्यतः सूत्रात् या काचिच्छ्रवणयुक्ता तिथिर्लभ्यते तथापि श्रावणपौणेमास्येवात्र विवक्षिता ।
पारस्करादिवाक्येषु विशिष्योपादानात् ।
तथाच पारस्करः:
अथातो ऽध्यायोपाकर्म ओषधीनां प्रादुर्भावे श्रवणेन श्रावण्यां पौर्णमास्यां श्रावणस्य पञ्चमीं हस्तेन वेति ।
श्रवणेनेति श्रवणस्य पृथगुपादानाच्च ।
एवम् आषाढ्यां प्रौष्ठपद्यामित्यादिष्वपि बोध्यम् ।
हस्तेनेति ।
हस्तयुक्ते कस्मिंश्चिद्दिवसे ।
केचित्तु हस्तेनेत्यतो नक्षत्ररूपकालज्ञाने ऽपि तिथेराकाङ्क्षितत्वात्तत्र यावदनिर्णीतं किञ्चिद्दिनमित्युपस्थितं भवति तावत्सन्निधानात् पञ्चम्येवोपस्थितान्वेति ।
तेन हस्तयुक्तपञ्चम्यामित्याहुः ।
ओषधिर्भावे इति श्रावणस्य त्विति च सर्वत्र सम्बध्यते ।
कालान्तरमप्याह–
बौधायनः:
श्रावण्यां पौर्णमास्यामा पाढ्यां वोपाकृत्य छन्दांस्यधीयीत ।
मनुरपि–
श्रावण्यां प्रौष्ठपद्यां वाप्युपाकृत्य यथाविधि ।
युक्तश्छन्दांस्यधीयीत मासान् विप्रो ऽर्द्धपञ्चमान् ॥
इति ।
अपिशब्दाद्भाद्रपदश्रवणहस्तपञ्चमीनामुपादानम् ।
कात्यायनो ऽपि–
उपाकृत्योदगयने ततो ऽधीयीत धर्मवित् ।
इति ।
गोभिलो ऽपि-प्रौष्ठपदीं हस्तेनेति ।
प्रौष्ठपदीमित्यतः प्राप्येतिशेषः ।
तेन भाद्रपदमासि हस्तयुक्ते कस्मिंश्चिद्दिन इत्यर्थः ।
आश्वलायनस्तु–अथातो ऽध्यायोपाकरणमौषधीनां प्रादुर्बावे श्रावणस्य पञ्चम्यां हस्तेन वा ।
इत्युपाकर्म प्रकृतक्य–
तद्वार्षिकमित्याचक्षत इति ।
{म्व्-स्_९२}
अनेन वर्षासम्बन्धिनोः श्रावणभाद्रपदयोर्मध्ये श्रावणस्य पूर्वं विहितत्वात् सञ्ज्ञाकरणसिद्धं भाद्रपदे ऽनुष्ठानं स्तवयति ।
भाद्रपदे ऽपि श्रवणहस्तपञ्चमीष्वेव यत आश्वलायनसूत्रे मासनक्षत्रतिथीनभिधाय मासान्तराभिधाने पूर्वोक्तमासस्यैव बाधो युज्यते अवान्तरसाजात्ये न तस्य शीघ्रोपस्थितिकत्वात् न नक्षत्रादीनाम् ।
आकाङ्क्षितत्वाच्च तेषामेव ग्रहणम् ।
एते च कालाः स्वस्वगृह्नानुसारा व्यव स्थिताः ।
येषां च शाखायामनेके काला उक्तास्तेषामाकाङ्क्षावशात् पा उक्रमेणोपादानम् ।
पाठक्रमस्य प्रयोजनान्तराभावात् ।
तथा च बहवृचैः श्रावणमासे श्रवणयुक्ते
कस्मिंश्चिद्दिने ।
(*) तत्र च सङ्क्रान्तिग्रहणसू तकादौ हस्तयुक्तपञ्चम्यां तदसम्भवे केवलपञ्चम्यां केवलहस्ते वा तदसम्भवे औषधिप्रादुर्भावाभावे च ईदृशनक्षत्रादियुक्ते भाद्रपदे ऽपि कर्तव्यम् ।
(*) तत्र च तस्मिन् दिने चेत्यर्थः ।
तथा च बह्वृचगृह्यकारिकायाम्–
अवृष्टयौषधयस्तस्मिन् मासे तु न भवन्ति चेत् ।
तदा भाद्रपदे मासि श्रवणेन तदिष्यते ॥
इति ।
एवं श्रावणे ग्रहणादिसत्त्वे भाद्रेण प्रथमारम्भः ।
तस्य तदभावे विहितत्वेन गौणत्वात् ।
याजुषैस्तु श्रावणपौर्णमास्यादिक्रमेण ।
सामगाना हस्तादिक्रमः ।
सूत्रे क्वचिद्विपर्यासेनोपादाने ऽपि–
उपाकर्म प्रकुर्वन्न्ति क्रमात् सामर्ग्यजुर्विदः ।
ग्रहसङ्क्रान्त्ययुक्तेषु हस्तश्रवणपर्वसु ॥
इतिवचनादेष एव क्रम उपादेयः ।
सङ्क्रान्तौ ग्रहणे आशौचे च दोषो मदनरत्नादिबह्नुनिबन्धोदाहृत स्मृतौ–
सङ्क्रान्तौ ग्रहणे चैव सूतके मृतके तथा ।
गणश्राद्धं न कुर्वीत नारदस्य वचो यथा ॥
प्रथमे दोषसंयुक्ते पर्वणि स्यादुपाक्रिया ।
दुःखशोकामयग्रस्ता राष्ट्रे तस्मिन् द्विजातयः ॥
इति ।
अत्र विशेषो गार्ग्ये–
अर्धरात्रादधस्ताच्चेत् सङ्क्रान्तिग्रहणं तथा ।
उपाकर्म प्रकुर्वीत परतश्चेन्न दोषकृत् ॥
तथा–
यद्यर्धरात्रादर्वाक् चेत् ग्रहः सङ्क्रम एव च ।
नोपाकर्म तदा कुर्यात् आवण्यां श्रवणे ऽपि वा ॥
{म्व्-स्_९३}
यानि तु–
त्रयोदश्यादिकं वर्ज्यं दिनानां नवकं ध्रुवम् ।
माङ्गल्येषु समस्तेषु ग्रहणे चन्द्रसूर्ययोः ॥
तथा–
द्वादश्यादिस्तृतीयान्तो वेध इन्दुग्रहे स्मृतः ।
एकादश्यादिकः सौरे चतुर्थ्यन्तः प्रकीर्त्तितः ॥
खण्डग्रहे तयोः प्रोक्त उभयत्र दिनत्रयम् ।
इत्यादीनि निषेधवचनानि तानि माङ्गल्यकर्मान्तरविषयाणि ।
तथाच स्मृतिः:
नित्ये नैमित्तिके जप्ये होमयज्ञक्रियासु च ।
उपाकर्मणि चोत्सर्गे ग्रहभेदो न विद्यते ॥
इति ।
एवं च ग्रहणपूर्वोत्तरदिने श्रवणसत्त्वे तत्रोयाकर्म न त्याज्यम् ।
यदा च ग्रहणसङ्क्रान्तिदुष्टं पर्व तदा कालनियम उक्तः स्मृतिमहार्णवे–
सङ्क्रान्तिर्ग्रहणं वापि यदि पर्वणि जायते ।
तन्मासे हस्तयुक्तायां पञ्चम्यां च तदिष्यते ॥
तथा–
सङ्क्रान्तिर्ग्रहणं वापि पौर्णमास्यां यदा भवेत् ।
उपाकृतिस्तु पञ्चम्यां कार्या वाजसनेयिभिः ॥
इति ।
वाजसनेयिभिरित्यनेन येषां पञ्चमी गृह्य उक्ता त उपलक्ष्यन्ते ।
“सङ्क्रान्तिर्ग्रहणंवा पिऽ; “यदि पर्वणिऽ; इत्यादिसामान्यवाक्यैकवाक्यतालामात् ।
अन्यथा वाजसनेयिभिः पञ्चम्यामेवेति चेत्युभयविधाने वाक्यभेदः स्यात् ।
न च"सङ्क्रान्तिर्ग्रहणं वापि यदि पर्वणि जायते"इत्यस्यानेनोपसंहारो युक्तो नतु लक्षणा लक्षणात उपसंहारस्य न्याय्यत्वात्, अन्यथा"पुरोडाशं चतुर्धा करोति"इत्येतत्समानार्थकत्वार्थमाग्नेयवाक्ये ऽपि लक्षणा स्यादिति वाच्यम् ।
प्रकृते हि उपसंहारे शुद्धपञ्चम्या अपि विधेयत्वेन वाक्यभेदापत्त्या लक्षणैव युक्ता तस्माद्येषां गृह्ये पपञ्चमी नोक्ता तैः पूर्वोदाहृतमनुवाक्यात्,
श्रावणस्य तु मासस्य पौर्णमास्यां द्विजोत्तम! ।
आषाढ्यां प्रौष्ठपद्यां वा वेदोपाकरणं स्मृतम् ॥
इति कूर्मपुराणाच्च प्रौष्ठपद्यामाषाढ्यां वा कार्यम् ।
बौधायनैस्तु आषाढ्यामेवा तेषां केवलाया एवाषाढ्या उक्तत्वात् ।
सामगैस्तु सिंहस्थे सूर्ये हस्तनक्षत्रे कार्यम् ।
प्रौष्ठपदीं हस्तेनेतिपूर्वोदाहृतगोभिलात् ।
प्रौष्ठपदीमित्यत्र प्रोष्ठपदः सौर एव सिंहार्किरूपः ।
{म्व्-स्_९४}
सिंहे रवौ तु पुष्यर्क्षे पूर्वाह्णे विचरेद्बहिः ।
छन्दोगा मिलिताः कुर्युरुत्सर्गं सर्वछन्दसाम् ॥
शुक्लपक्षे तु हस्तेन उपाकर्मापराह्णिकम् ।
इति गार्ग्यवचनात् ।
इदं च छन्दोगानामेव ।
यदपि
उपाकर्मापराह्णे स्यादुत्सर्गः प्रातरेव हि ।
इति,
तदपि छन्दोगविषयमेव ।
अन्येषां तु दैवकर्मत्वात् पूर्वाह्ण एव ।
भवेदुपाकृतिः पौर्णमास्यां पूर्वाह्ण एव तु ।
इति प्रचेतोवचनेन पूर्वाह्णस्यापि विहितत्वात् ।
युज्यते चास्य गार्ग्यवाक्यपर्यालोचनया च्छन्दोगातिरिक्तविषयत्वम् ।
प्रयोगपारिजाते तु सर्वैरपराह्ण एवेत्युक्तम् ।
अत्र पर्वणः सखण्डत्वे औदयिकस्यैव ग्रहणम् ।
तथा च–
कालिकापुराणे:
चतुर्दश्यां समुत्पन्नावसुरौ मधुकैटभौ ।
वेदान् स्वीकुर्वतः पद्मयोनेस्तौ जह्रतुः श्रुतीः ॥
हत्वा तावसुरौ देवः पातालतलवासिनौ ।
आहृत्य ताः श्रुतीस्तस्मै ददौ लोकगुरुः स्वयम् ॥
अभूल्लब्ध श्रुतिर्ब्रह्मा पर्वण्यौदयिके पुनः ।
अतो भूतयुते तस्मिन्नोपाकरणमिष्यते ॥
आसुरं वर्जयेत् कालं वेदाहरणशह्कया ।
भविष्योत्तरे ऽपि–
सम्प्राप्ते श्रावणस्यान्ते पौर्णमास्यां दिनोदये ।
स्नानं कुर्वीत मतिमान् श्रुतिस्मृतिविधानतः ॥
ततो देवान् पितॄंश्चैव तर्पयेत् परमाम्भसा ।
उपाकर्म दिवैवोक्तमृषीणां चैव तर्पणम् ॥
श्रावणस्यान्त इति गौणचान्द्राभिप्रायेण ।
हस्तश्रवणे अपि सखण्डे औदयिके एव ग्राह्ये ।
तथा च–
गृह्यपरिशिष्टे:
धनिष्ठाप्रतिपद्युक्तं त्वाष्ट्रऋक्षसमन्वितम् ।
श्रावणं कर्म कुर्वीत ऋग्यजुः सामपाठकः ॥
त्वाष्ट्रं चित्रा ।
न च श्रावणमिति नैतस्य कर्मणो नामधेयं किन्तु श्रवणाकर्मण इति वाच्यम् ।
व्यासेनैव तस्यापि सञ्ज्ञाकरणात् ।
तथा च–
व्यासः:
श्रवणेन तु यत्कर्म उत्तराषाढसंयुतम् ।
संवत्सरकृतो ऽद्यायस्तत्क्षणादेव नश्यति ॥
{म्व्-स्_९५}
धनिष्ठासंयुतं कुर्यात् श्रावणं कर्म यद्भवेत् ।
तत्कर्म सफलं विद्यादुपाकरणसञ्ज्ञितम् ॥
इति ।
इदं च कर्मकालब्याप्त्यसम्भवे औदयिकशास्त्रम् ।
अत्र च पर्वौदयिकत्वविधिः सर्वयजुःशाखिविषयः ।
पूर्वोक्तैर्धनिष्ठाप्रतिपद्युक्तमित्यादिवक्यैर्यजुः शाखिमात्रं प्रति औदयिकपर्वण उक्तत्वात् ।
न च–
पर्वण्यौदयिके कुर्युः श्रावणीं तैत्तिरीयकाः ।
बह्वृचाः श्रवणे कुर्युर्ग्रहसङ्क्रान्तिवर्जिते ॥
इत्यनेन बह्वृचपरिशिष्टवाक्येन तैत्तिरीयाणामेवोक्तत्वात्तैत्तिरीयमात्रपरत्वमिति वाच्यम् ।
अत्र तैत्तिरीयग्रहणस्य उपलक्षणार्थत्वात् ।
कथमन्यथातुल्यकक्षतया बह्वृचानामुपादानं क्रियेत तुल्यकक्षाणामेव हि समभिव्याहारो युज्यते ।
न हि सम्भवति ब्राह्मणैरिदं कर्तव्यं क्षत्रियैरिदं कठैरिदमिति युज्यते च वैश्यैरिदं कर्त्तब्यमिति ।
एवं च बह्वृचैः श्रवण इति समभिव्याहारो युज्यते याजुषैः पर्वणीति ।
किं च बह्वृचगृह्यपरिशिष्टकारो बह्वृचानामेव कर्मसम्बन्धिधर्मविधानार्थं प्रवृत्तो न तु तैत्तिरीयाणाम् ।
एवं च यत् तत्र तैत्तिरीयसम्बन्धितत्कालादिकं श्रूयते तदंशे ऽनुवाद एव ।
अनुवादश्च यथाप्राप्तस्यैव प्राप्तिश्च प्रकृते पर्वौदयिकत्वविधायककालिकापुराणादिवाक्यात् ।
कालिकापुराणमपि स्वस्वगृह्यप्राप्तपर्वण्येवौदयिकत्वं विदधाति ।
पर्वप्राप्तिश्चाविशेषेण सर्वयाजुषाणामेवेति ।
एवं च तेषामेवानुवादो युज्यते ।
यदपि–
श्रावणी दुर्गनवमी दूर्वा चैव हुताशनी ।
पूर्वविद्धैव कर्तव्या शिवरात्रिर्बलेर्दिनम् ॥
इति ।
तदपि न तैत्तिरीयातिरिक्तानां पूर्वविद्धाविधायकं किन्तु उपाकर्मातिरिक्तविषयम् ।
अथवा छन्दोगकर्त्तृकोपाकर्मविषयम् ।
अपि चात्र पर्वगतविशेषस्यैवौदयिकस्य विधानं युक्तम् अपेक्षितत्वात् समभिव्याहाराच्च ।
न च यदौदयिके पर्वण्युपाकुर्युः तैत्तरीयका एवेति वचनव्यक्तिरस्त्विति वाच्यम् ।
एवं हि विशिष्टानुवादे वाक्यभेदः स्यात् ।
न च यदौदयिके तैत्तिरीयका इत्येव वचनव्यक्तिः पर्वौदयिकत्वं च सन्निधिलभ्यमिति वाच्यम् ।
उपाकर्मणः सन्निहितत्वे ऽपि पर्वणः
सन्निधिलब्यत्वासम्भवात् ।
तथा सति सन्निधित एव श्रवणोपस्थित्या तत्राप्यौदयिकत्वलाभे उत्तरार्द्धं निरर्थकं स्यात् ।
न च तवापि पर्वौन्दयिकत्वग्रहणसङ्क्रान्तिरहित्वरूपविशेषणद्वयविधाने वाक्यभेदापत्तिरितिवाच्यम् ।
एकहायनीत्वपिङ्गाक्षित्वयोर्द्वयोरपि यौगिकत्वेन द्रव्यवचनयोर्विशिष्टद्रव्यविधिवदत्रापि यौगिकाभ्यामन्यतः प्रसिद्धार्थाभ्यां पदाभ्यां विशिष्टं पर्वैव विधीयते इति न किञ्चिदनुपपन्नम् ।
{म्व्-स्_९६}
अन्ये तु तैत्तिरीयकर्त्तृकपर्वौदयिकत्वविशिष्टोपाकर्मविधिमेवच्छन्ति ।
न च विशिष्टविधौ गौरवापत्तेस्तैत्तिरीयकपदे लक्षणा ।
तथा सति"राजा राजसूयेनयजेत"इत्यादावपि त्रैवर्णिकलक्षणाप्रसङ्गादिति ।
गृह्योक्तस्य च पुनर्विधिः कर्त्तृभेदात्, अन्यथा एकविषयानेकस्मृत्युच्छेदापत्तेरिति वदन्ति ।
तन्न ।
स्मृतयो हि स्वातन्त्र्येणैव प्रवृत्ताः युक्तं यत् प्रति स्मृतिविधिरिति, परिशिष्टं पुनः शेषपूरणरूपं शेषिणमुपजीव्यैव प्रवृत्तमिति न तत्र तदननुवादेन विधायकत्वमिति ।
अत्र औदयिकमपि सङ्गव प्रापि ग्राह्यम् ।
तथा च–
गार्ग्यः–
श्रावणी पौर्णमासी तु सङ्गवात्परतो यदि ।
तदैवौदयिकी ग्राह्या नान्यदौदयिकी भवेत् ॥
निगमे ऽपि–
श्रावण्यां प्रौष्ठपद्यां वा प्रतिपत् षण्मुहूर्तकैः ।
विद्धा स्याच्छन्दसां तत्रोपाकर्मोत्सर्जनं भवेत् ॥
इति ।
पर्वेति हस्तश्रवणयोरुपलक्षणम् ।
उदये सङ्गवस्पर्शे श्रुतौ पर्वणि चार्कभे ।
कुर्युर्नभस्युपाकर्म ऋग्यजुःसामगाः क्रमात् ॥
इति पृष्वीचन्द्रोदयधृतवचनात् ।
एतच्चोपाकर्म मलमासे न कार्यम् तथा च–
कात्यायनः:
उत्कर्षः कालवृद्धौ स्यादुपाकरणकर्मणि ।
इति ।
एवं च–
दशहारासु नोत्कर्षश्चतुर्ष्वपि युगादिषु ।
उपाकर्ममहाषष्ठ्योर्ह्येतदुक्तं वृषादितः ॥
इति वाक्ये सौरमानविहितत्वरूपहेतूपन्यासपूर्वकमनुत्कर्षविधानाच्छन्दोगानां सौरमानेन विहितत्वात् तद्विषयमिदमृष्यशृङ्गवचनमि ति ।
केचित्तु शुक्रमौढ्यादिवत् द्वितीयोपाकर्माविषयत्वामिति ।
तथा
च–
स्मृतिसङ्ग्रहे:
गुरुबार्गवयोर्मौढ्ये बाल्ये वा वार्द्धके ऽपि वा ।
तथाधिमाससंसर्पमलमासादिषु द्विजाः ॥
प्रथाधिमाससंसर्पमलमासादिषु द्विजाः ॥
प्रथमोपाकृतिर्न स्यात् कृता कर्मविनाशकृत् ।
इति
आदिपदात् वक्रातिचारसङ्ग्रहः ।
विस्तरस्तु मलमासनिरूपणे द्रष्टव्यः ।
अत्र विशेषो माधवीये–
{म्व्-स्_९७}
वेदोपाकरणे प्राप्ते कुलीरे संस्थिते रवौ ।
उपाकर्म न कर्तव्यं कर्तव्यं सिंहयुक्तके ॥
इति ।
ननु–
श्रावण्यां श्रावणीकर्म यथाविधि समाचरेत् ।
उपाकर्म तु कर्तव्यं कर्कटस्थे दिवाकरे ॥
इत्यनेन निगमवचनेन कर्कटस्थे विधानात् कथं निषेध इति ।
सत्यम् ।
नायं निषेधः ।
किन्तु सिंहविधिविशेष एव"न गिरागिरेतिब्रूयात्"इति वत् (*) (अ। ९ पा। १ अधि। १८) ।
(*)ज्योतिष्टोमे श्रूयते"यज्ञायज्ञीयेन स्तुवीत"इति ।
तत्र यज्ञायज्ञीयमित्यनेन"यज्ञायज्ञा वो गिरागिरा च दक्षसे"इति यज्ञायज्ञपदघटितायामृचि समुत्पन्नं सामाभिधीयते ।
तत्र च गिराशब्दस्य पाठः ।
तत्र योनिगानमघीयानैः सामगैर्गकारेण सहितं “गायीरा गिरा इति गीयते ।
“ऐरं कृत्वोद्गेयम्ऽ; इति ब्राह्मणवाक्येन तु गिराशब्दे गकारलोपपूर्वकमिराशब्देन गानं विधीयते ।
तथा च योनिगानब्राह्मणगानयोसक्तुल्यबलत्वेन विषेषाभावाद्विकल्पेन प्रयोगे प्राप्ते"नगिरा गिरेति ब्रूयात्, यद्गिरागिरेति ब्रूयादात्मानमेव तदुद्घाता गिरेत्"इति गकाररहितगाने बाधमुक्त्वा गकाररहितमिरापदं गेयत्वेन विधीयते ।
एवमत्रापि “वेदोपाकरेणेऽ; “श्रावण्यांऽ; इति वचनयोः समानबलत्वेन सिंहे कर्कटे च विकल्येनोपाकर्मणः प्राप्तौ “नर्मदोत्तरऽ; इति वचनेन देशभेदाद्वयवस्थाप्यत इत्याशयः ।
एवं च सिंहकर्कटयोरुभयोरपि प्राप्तत्वादव्यवस्थायां देशभेदेन व्यवस्थामाह–
प्रयोगपरिजाते बृहस्पतिः:
नर्मदोत्तरभागे तु कर्तव्यं सिंहयुक्तके ।
कर्कटे संस्थिते भानावुपाकुर्याच्च दक्षिणे ॥
इति ।
अस्यार्थः ।
सर्वत्रोपाकरणे प्राप्ते दक्षिणदेशे ऽपि उपाकरणं प्राप्तम् एवं सति तत्रानेन वाक्येन यद्दक्षिणे उपाकुर्यात् तत् कर्कटे यदुत्तरे त्त सिंहे ।
यत्तु–
सिंहे रवौ तु पुष्यर्क्षे पूर्वाह्णे विचरेद्वहिः (*) ।
(*) पूर्वाह्णे ऽविवरे बहिः इति पाठो निर्णयसिन्ध्वादौ ।
अविवरे ग्रहणादिदोषरहिते इति च व्याख्यातम् ।
छन्दोगा मिलिताः कुर्युरुत्सर्गं सर्वच्छन्दसाम् ॥
शुक्लपक्षे तु हस्तेन उपाकर्मापराह्णिकम् ।
इत्यत्र सिंहे रवावित्येतस्योभयत्र सम्बन्धेन यत् सामगानां सिंहार्कविधानं तद्देशभेदप्रापककर्कसिंहव्यवस्थानिवृत्तिफलकतया नित्यवत् प्राप्त्यर्थमिति न किञ्चिदनुपपन्नम् ।
एतच्चोपाकर्म ब्रह्मचारिगृहस्थवानप्रस्थैः कार्यं नित्यत्वात् ।
नित्यत्वं च ब्रह्मयज्ञरूपनित्यकर्माङ्गमन्त्राप्यायकत्वात् ।
{म्व्-स्_९८}
आप्यायकत्वं चोक्तम्–
कात्यायनेन:
प्रत्यब्दं यदुपाकर्म सोत्सर्गं विधिवह्विजैः ।
क्रियते छन्दसां तेन पुनराप्यायनं भवेत् ॥
अयातयामैश्छन्दोभिर्यत् कर्म क्रियते द्विजैः ।
क्रीडमानैरपि सदा तत्तेषां सिद्धिकारणम् ॥
उपाकृत्याधीयीतेत्यतो नित्याध्ययनार्थत्वेनापि सर्वेषामवश्यकर्तव्यत्वम् ।
अध्ययनं च सर्वेषाम् ।
तत्र ब्रह्मचारिणां ब्रह्मचर्यस्य तदर्थत्वादेव सिद्धम् ।
गृहस्थानां तु ग्रहणाध्ययनमुक्तमाश्वलायनेन–
समावृत्तो ब्रह्मचारिकल्पेन यथान्यायमितरे जायोपेयीत्येके प्राजापत्यं तदिति ।
ब्रह्मचारिकल्पेनौयेन नियमविशेषेण ब्रह्मचार्यधीयीत तेनैव युक्तः समावृत्तो ऽप्यधीयीत ।
इतरे ब्रह्मचारिणस्तु यथान्यायं = स्वविध्युक्तप्रकारेण अधीयीरन् ।
तथा जायोपेयी = गृहस्थो ऽपि ब्रह्मचारिकल्पोक्तनियमेन नतु भिक्षादिधर्मेणेत्यर्थः ।
धारणाध्ययनार्थत्वादपि सर्वान् प्रति नियतानुष्ठानमुक्तम्–
गोभिलेन:
उवाकर्मोत्सर्जनं च वनस्थानामपीष्यते ।
धारणाध्ययनाङ्गत्वाद्गृहिणां ब्रह्मचारिणाम् ॥
इति ।
ब्रह्मचारिणो नैष्ठिकाः ।
उपकुर्वाणानामध्ययनार्थत्वादेव प्राप्तत्वात् ।
“अध्याप्येरन्वारव्ध"इत्यतो ऽप्यध्यापकस्य गृहस्थस्यानुष्ठानमुक्तमिति ।
इत्युपाकर्मकालः ।
अथोत्सर्जनम् ।
तत्र मनुः–
पुष्ये तु च्छन्दसां कुर्याद्वहिरुत्सर्जनं द्विजः ।
माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमे ऽहनि ॥
(अ। ४ श्लो। ९६)
पुष्ये = पौषे ।
बहिः ग्रामादिति शेषः ।
उत्सर्जनं कृष्णपक्षाध्ययनराहित्यम् ।
न तु सर्वथानध्ययनम् ।
यथाशास्त्रं तु कृत्वैवमुत्सर्गं छन्दसां बहिः ।
विरमेत् पक्षिणीं रात्रिं यद्वाप्येकमहर्निशम् ॥
(४ । ९७)
अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् ।
वेदाङ्गानि रहस्यं च कृष्णपक्षेषु सम्पठेत् ॥
(४ । ९८)
इति मनूक्तेः ।
प्रथमे ऽहनीति पुष्य इत्यत्रापि सम्बध्यते ।
{म्व्-स्_९९}
यदा श्रावण्यामुपाकर्म तदा पुष्यमासस्य शुक्लप्रतिपदि पूर्वाह्णे, यदा प्रौष्ठपद्यां तदा माघ इति व्यवस्थितो विकल्पः ।
श्रावण्यां प्रौष्ठपद्यां वाप्युपाकृत्य यथाविधि ।
युक्तश्चन्दांस्यधीयीत मासान् विप्रो ऽर्धपञ्चमान ॥
(४ । ९५)
इति मनुनैव अर्द्धपञ्चममासाध्ययनस्य विहितत्वात् ।
अर्द्धपञ्चमान् इति अर्धः पञ्चमो येषु ते सार्द्धांश्चतुर इति यावत् ।
याज्ञवल्क्यस्तु कालान्तरे ऽप्याह–
पौषमासस्य रौहिण्यामष्टकायामथापि वा ।
जलान्ते छन्दसां कुर्यादुत्सर्गं विधिवद्वहिः ॥
इति ।
पौषमासरोहिणी च शुक्लपक्षगतैव ।
मनुविहितशुक्लपक्षबाधे प्रमाणाभावात् ।
अष्टकायामित्यत्रापि पौषमासस्येति सम्बध्यते ।
तेन पौषकृष्णाष्टम्यामित्यर्थः ।
आपस्तम्बः–
तैष्यां पौर्णमास्यां रोहिण्यां वा विरमते ।
तैष्यामिति रोहिण्यामित्यनेनापि सम्बध्यते पूर्वोक्तयाज्ञवल्क्यवाक्यात् ।
बौधायनः- श्रावण्यामाषाढयां वोपाकृत्य तैष्यां माध्यां वोत्सृजेत् ।
आषाढ्यामुपाकृत्य तैष्यां श्रावण्यामुपाकृत्य माघ्यामिति बोध्यम् ।
एतच्च"षण्मासानधीयीत"इति आश्वलायनोक्तमुररीकृत्य ।
उत्सर्जनं प्रकृत्य आश्वलायनः–
मध्यमाष्टकायामेताभ्यो देवताब्यो ऽन्नेन हुत्वापो ऽभ्यवयन्तीति ।
अनेन यद्यपि माघकृष्णाष्टमी प्रतीयते ।
तथाप्यत्र सामीप्यसप्तमीविवक्षया माग्येवोक्ता"अग्नीषोमीयेण चरन्त्युत्तरवेद्याम्"इति वदिति वृत्तिकृता व्याख्यातम् ।
अत एव बड्वृचगृह्यकारिकायां माघ्येवोक्ता ।
अध्यायोत्सर्जनं माघ्यां पौर्णमास्यां विधीयते ।
इति ।
एते च पक्षाः स्वस्वगृह्यानुसाराद्व्यवस्थिताः ।
सामगानां तूत्सर्जनकालमाह–
गार्ग्यः
सिंहे रवौ तु पुष्यर्क्षे पूर्वाङ्णे विचरेद्वहिः ।
छन्दोगा मिलिताः कुर्युरुत्सर्गं सर्वच्छन्दसाम् ॥
इति ।
यदा तु सिंहस्थे सूर्ये हस्त एव प्रथमस्ततः पुष्यस्तदा कर्कटस्थे पुष्ये उत्सर्जनं कार्यमित्युक्तम्–
छन्दोगगृह्यपरिशिष्टे:
मासे प्रौष्ठपदे हस्तात् पुष्यः पूर्वो भवेद्यदा ।
तदा तु श्रावणे कुर्यादुत्सर्गं छन्दसां द्विजः ॥
इति ।
{म्व्-स्_१००}
प्रौष्ठपदे यो हस्तस्तस्मात् पूर्वः पुष्यो यदि श्रावणगतो भवेत् तदा श्रावण एवोत्सर्गं कुर्यादित्यर्थः ।
प्रोष्ठपदश्रावणौ मीनादिसौरमासाभि प्रायेण कर्कसिंहयोरेवाभिधायकौ ।
तेषां सौरमानेनैवोपाकर्मविधानात् ।
अत्यन्ताध्ययनशीलानां तु कालान्तरमुक्तम्–
खादिरगृह्ये:
पुष्ये तूत्सर्जनं कुर्यादुपाकर्मदिने ऽथ वा ।
इति ।
एष च पक्षो"यत् स्वाध्यायमधीते ऽब्दम्"इतिमाधवोपदर्शितश्रुतेः श्रौतः ।
एतच्च दैवत्वात्पूर्वोदाहृतवचनेभ्यश्च सर्वैः पूर्वाह्ण एव कार्यम् ।
पर्वणः सखण्डत्वे सङ्गवव्याप्येव ग्राह्यमित्युक्तमुपाकर्मकालनिरूपणे ।
अस्य वेदाध्ययनार्थं प्रत्यब्दकर्तव्यतामाह–
कात्यायनः:
प्रत्यब्दं यदुपाकर्म सोत्सर्गं विधिवत् द्विजैः ।
क्रियते छन्दसां तेन पुनराप्यायनं भवेत् ॥
अयातयामैश्छन्दोभिर्यत्कर्म क्रियते द्विजैः ।
क्रीच्मानैरपि सदा तत्तेषां सिद्धिकारकम् ॥
इति ।
इत्युत्सर्जनकालनिर्णयः ।
दर्शान्ताश्विनामावास्या तु अभ्यङ्गे प्रातः कालव्यापिनी ग्राह्या ।
इषे भूते च दर्शे च कार्त्तिकप्रथमे दिने ।
यदा स्वाती तदाभ्यङ्गस्नानं कुर्यादिनोदये ॥
इति ब्राह्मोक्तेः ।
दीपदाने तु प्रभातव्यापिनी ग्राह्या ।
एवं प्रभातसमये त्वमावास्यां नराधिप! ।
कृत्वा तु पार्वणश्राद्धं दधिक्षीरघृतादिभिः ॥
दीपान् दत्त्वा प्रदोषे तु लक्ष्मीं पूज्य यथाविधि ।
स्वलङ्कृतेन भोक्तव्यं सितवस्त्रोपशोभिना ॥
इतिभविष्योक्तेः ।
दिनद्वयसत्त्वे परा ।
दण्डैकरजनीयोगे दर्शः स्यात्तु परे ऽहनि ।
तदा विहाय पूर्वेद्युः परेद्युः सुखरात्रिका ।
इतिज्योतिर्वचनात् ।
अस्यामेवापररात्रावलक्ष्मीनिःसारणं कार्यम् ।
एवङ्गते निशीथे तु जने निद्रार्द्धलोचने ।
तावन्नगरनारीभिः शूर्पण्डिडिमवादनैः ॥
निष्काश्यते प्रहृष्टाभिरलक्ष्मीः स्वगृहाङ्गणात् ।
इति भविष्योक्तेः ।
कार्त्तिकपौर्णमासी त्रिपुरदाहे सन्ध्याव्यापिनी ग्राह्या ।
{म्व्-स्_१०१}
पौर्णमास्यां तु सन्ध्यायां कर्तव्यस्त्रिपुरोत्सवः ।
इतिब्राह्मोक्तेः ।
फाल्गुनपौर्णमास्यां होलाका ।
तस्यां च प्रदोषव्यापिनी ग्राह्या ।
निशागमे तु पूज्येत होलाका सर्वतोमुखी ।
इतिवचनात् ।
इयं च भद्रायां न कर्तव्या"भद्रायां द्वे न कर्तव्ये"इतिपूर्वोदाहृतवचनात् ।
एवं च–
भद्रायां विहितं कार्यं होलायाश्च प्रपूजनम् ।
इतिनिबन्धाभासवचनं हेयम् ।
तत्र दिनद्वये प्रदोषसत्त्वे परा पूर्वस्य भद्रायुक्तत्वात् ।
यदा तु पूर्वस्यामेव प्रदोषव्याप्तिर्भद्रायोगश्च भवति, सूर्योदयात् पूर्वं च यदि होलाकादीपनाय कियानपि भद्रारहितः कालो ऽवशिष्यते ।
तदा प्रदोषातिक्रमे ऽपि तत्रैव कार्यम् ।
एका यामद्वयादूर्ध्वं चतुर्दश्यां यदा भवेत् ।
होलां भद्रावसाने च निशीथान्ते ऽपि दीपयेत् ॥
इति भविष्योत्तरात् ।
यानि–
मध्यरात्रमतिक्रम्य विष्टेः पुच्छं यदा भवेत् ।
प्रदोषे ज्वालयेद्वह्निं सुखसौभाग्यदायकम् ॥
इत्यादिवाक्यानि तानि निर्मूलानि ।
यदा तु पूर्वत्र भद्रारिहतः कालो न लभ्यते परतोपि च न प्रदोषव्याप्तिः तदा पूर्वत्रैव भद्रापुच्छे कार्यम् ।
पृथिव्यां यानि कार्याणि शुभानि त्वशुभानि च ।
तानि सर्वाणि सिध्यन्ति विष्टिपुच्छे न संशयः ॥
इति लल्लवचनात् ।
इदं च यदोत्तरत्र सार्द्धयामात्रयात् पूर्वमेव पौर्ण मासीसमाप्तिस्तदा ज्ञेयम् ।
यदा तु तन्मिता ततो ऽधिका वा पौर्णमासी प्रतिपच्च द्वितीयदिने वृद्धिगामिनी तदा प्रतिपत्प्रदोषे ऽपि सा कार्या ।
सार्द्धयामत्रयं पूर्णा द्वितीये दिवसे यदा ।
प्रतिपद् वर्द्धमाना तु तदा सा होलिका स्मृता ॥
इतिभविष्योक्तेः ।
यानि तु–
श्रावणी दुर्गनवमी दूर्वा चैव हुताशनी ।
पूर्वविद्धैव कर्तव्या शिवरात्रिर्बलेर्द्दिनम् ॥
इत्यादीनि पूर्वविद्धाविधायकानि तानि पूर्वदिने भद्राभावे ज्ञेयानि ।
यदा तु पूर्वदिने भद्रा द्वितीयदिने चन्द्रग्रहणं तदा पूर्वत्रैव भद्रापुच्छे होलाका कार्येति दिवोदासः ।
अन्ये तु ग्रहणकाल एवल कार्या ।
{म्व्-स्_१०२}
सर्वेषामेव वर्णानां सूतकं राहुदर्शने ।
स्नात्वा कर्माणि कुर्वीत शृतमन्नं विर्जयेत् ॥
इति वचनेन स्नानोत्तरकर्तव्यत्वप्रतीतेरित्याहुः ।
इति होलाकानिर्णयः ।
अथ पर्वनिर्णयः ।
यद्यपि"पौर्णमास्यां पौर्णमास्या यजेतामावास्यायाममावास्यया यजेत"इतिवाक्याभ्यां साङ्गौ दर्शपूर्णमासौ पर्वणि विहितौ इति प्रतीयते तथापि"पूर्वमहर्देवता गृह्णन्त्युत्तरमहर्यजेत” “पक्षादयोयष्टव्याः पक्षान्ता उपवस्तव्या"इतिवाक्यान्तरैकवाक्यतया पर्वण्युपक्रममात्रं ताभ्यां विधीयते समाप्तिस्तु प्रतिपद्येव ।
अत्र देवताग्रहणमन्वाधानं देवतासङ्कल्पश्च ।
पक्षान्ताः = पौर्णमास्यः पक्षादयः = प्रतिपदः ।
व्यत्त्यभिप्रायं बहुवचनम् ।
उपवासः क्रत्वङ्गभूतयमनियमसङ्कल्पः ।
अथवा पौर्णमास्यमावास्याशब्दयोः सन्धिवाचित्वस्य वक्ष्यमाणत्वात् तस्य चातिसूक्ष्मत्वेनोपक्रमस्यापि तत्र कर्तुमशक्यत्वादत्र लक्षणया पौर्णमास्यमावास्याशब्दाभ्यां पर्वप्रतिपद्रूपं सन्धिपार्स्वद्वयवर्त्ति तिथिद्वयं कृत्स्नप्रयोगार्थत्वेन विधीयते ।
एवं च"सन्धौ यजेत"इत्यत्रापि सन्धिशब्देन तादृशतिथिद्बयमेव लक्ष्यते ।
तथा च सन्धिमभितो यजेतेत्यप्यनुगृह्यते ।
एतदेवाभिप्रेत्याह–
बौधायनः:
सूक्ष्णत्वात् सन्धिकालस्य सन्धेर्विषय उच्यते ।
सामीप्यं विषयं प्राहुः पूर्वेणान्हा परेण वा ॥
इति ।
उभयथा पर्वण्यन्वाधानम् ।
तत्रापि न सम्पूर्णं पर्वान्वाधानकालः किन्तु आद्यं भागत्रयम् ।
यागकालस्तु पर्वचतुर्थांशः प्रतिपद आद्यमंशत्रयं च ।
तथाच–
लौगाक्षिः:
त्रीनंशानौपवस्तस्य यागस्य चतुरो विदुः ।
द्वावंशावुत्सृजेदन्त्यौ यागे च व्रतकर्मणि ॥
इति ।
औपवस्तस्यान्वाधानस्य ।
अन्त्यौ = पर्वप्रतिपदोरन्त्यौ भागौः यागे प्रतिपदो ऽन्त्यो भागो वर्ज्यः, व्रतकर्मणि अन्वाधाने पर्वणो ऽन्त्यो भागो वर्ज्य इत्यर्थः ।
एतच्च द्व्यहसाध्यत्वे ।
सद्यस्कालत्वे तु
पर्वचतुर्थे ऽशे ऽप्यन्वाधानमिति वक्ष्यते ।
तच्चान्वाधानं प्रातरेव ।
“यदहरुपवसथो भवति तदहः पूर्वाह्ण एव प्रातराहुतिं हुत्वा"इति गोभिलोक्तेः ।
एवं यागो ऽपि प्रातरेव ।
{म्व्-स्_१०३}
पर्वणो यश्चतुर्थाम्श आद्याः प्रतिपदस्त्रयः ।
यागकालः स विज्ञेयः प्रातरुक्तो मनीषिभिः ॥
इतिवचनात् ।
प्रातर्यजध्वमित्यादिश्रुतेश्च ।
प्रातकालस्च पञ्चधाविभागेन ।
लेखाप्रभृत्यथादित्ये घटिकास्त्रय एव तु ।
प्रातःकाल इति प्रोक्तो भागश्चान्हः स पञ्चमः ॥
इतिवचनात् ।
चतुरादिविभागेषु–
स एवाध्यर्द्धसंयुक्तः प्रातरित्यभिधीयते ॥
इति ।
आधुनिकानां तच्छब्दव्यवहारस्तु भाक्तो ऽनेकार्थत्वस्यान्याय्यत्वात् ।
एवं यागान्वाधानकाले निरूपिते यदा तावत् पर्वप्रतिपदोः सम्पूर्णत्वं तदा न कश्चित् सन्देहः ।
यदा तु तयोः खण्डत्वं तदा प्रकारचतुष्टयम् ।
आवर्तनात् प्राक् आवर्तने वा तदूर्द्ध्वं वा रात्रौ वा ।
तत्राद्ये पक्षद्वये तद्दिने यागस्तत्पूर्वेद्युरन्वाधानम् ।
पूर्वाह्णे वाथ मध्याह्ने यदि पर्व समाप्यते ।
उपोष्य तत्र पूर्वेद्युस्तदहर्याग इष्यते ॥
इतिलौगाक्षिवचनात् ।
अत्र पूर्वाह्णमध्यान्हशब्दावावर्तनपूर्वभागावर्तनपरौ ।
आवर्तनात्तु पूर्वाह्णो ह्यपराह्णस्ततः परः ।
मध्याह्नस्तु तयोः सन्धिर्यदावर्तनमुच्यते ॥
इति तत्प्रकरणपठितवचनात् ।
एवं चैतत्प्रकरणपठितो ऽपराह्णशब्दो ऽप्यावर्तनोत्तरभागवचनो ऽस्माद्वचनादवगन्तव्यः ।
अन्त्यपक्षद्वये तु यद्यपि–
अपराह्णे ऽथवा रात्रौ यदि पर्व समाप्यते ।
उपोष्य तस्मिन्नहनि श्वोभूते याग इष्यते ॥
इतिलौगक्षिवाक्यात् सन्धिदिने ऽन्वाधाय प्रातर्याग इति अविशेषेण प्रतीयते तथापि अपराह्णसन्धौ तावत्परेद्युश्चन्द्रदर्शनाभावे सन्धिदिने ऽन्वाधानं प्रातर्यागः ।
द्वितीया विमुहूर्ता चेत् प्रतिपद्यापराह्णिकी ।
अन्वाधानं चतुर्दश्यां परतः सोमदर्शनात् ॥
इतिबौधायनवचनेन चन्द्रदर्शने सन्धिदिने यागस्य विहितत्वात् ।
अत्र चतुर्दश्यामन्वाधानं चतुर्दशीदिने किञ्चिदमावास्याप्रवेश एव बोध्यम् ।
यदा चतुर्दशी यामं तुरीयमनुपूरयेत् ।
अमावास्या क्षीयमाणा तदैव श्राद्धमिष्यते ॥
{म्व्-स्_१०४}
इति बौधायनोक्तेः ।
श्राद्धमन्वाधानस्याप्युपलक्षणम् ।
अत एव माधवेन–
चतुर्दश्यां चुतर्यामे अमा यत्र न दृश्यते ।
श्वोभूते प्रतिपद् यत्र भूते कव्यादिकी क्रिया ॥
इति बौधायनवाक्ये अमा सम्पूर्णा न दृश्यते किन्तु स्वल्पा दृश्यत इति व्याख्यातमिति केचित् ।
हेमाद्रिस्तु–
चतुर्दशी च सम्पूर्णा द्वितीया क्षयगामिनी ।
चरुरिष्टिरमायां स्याद्भूते कव्यादिकी क्रिया ॥
इतिवचनाच्चतुर्दश्याममावास्याननुप्रवेशे ऽपि प्रतिपदि चन्द्रदर्शन्ने चतुर्दश्यामन्वाधाय परेद्युरिष्टिरित्याह ।
द्वितीया क्षयगामिनीति चन्द्रदर्शनोपलक्षणम् ।
रात्रिसन्धौ तु सर्वदान्वाधानमेव ।
“अपराह्णे ऽथवा रात्रौ"इतिलौगाक्षिवचनात् ।
न चैतस्यापराह्णसन्धेरिव चन्द्रदर्शनाभावविषयत्वम् ।
चन्द्रदर्शनाभावे सति अपराह्णसन्धावन्वाधानं चेत् किमु वक्तव्यं रात्रिसन्धाविति कैमुतिकन्यायेनैव
प्राप्ते रात्रिसन्धिशास्त्रानर्थक्यापत्तेः ।
अत एव न पौर्णमासीमात्रविषयत्वमपि ।
अपराह्णग्रहणेनैव सिद्धेः ।
अत्र च सन्धिस्तिथिसाम्ये तावद्यथास्थित एव ।
वृद्धिक्षययोस्तु पर्वसन्धिमुपक्रम्य विशेषमाह–
लौगाक्षिः:
तिथेः परस्या घटिकास्तु याः स्युर्न्यूनास्तथैवाभ्यधिकाश्च तासाम् ।
अर्द्धं वियोज्यं च तथा प्रयोज्यं हासे च वृद्धौ प्रथमे दिने तत् ॥
इति ।
अस्यार्थो माधवेन स्पष्टीकृतः ।
वृद्धिः प्रतिपदो यास्ति तदर्द्धं पर्वणि क्षिपेत् ।
क्षयस्यार्द्धं तता क्षिष्त्वा सन्धिर्निर्णीयतां सदा ॥
इति ।
क्षिप्त्वा न्यूनं कृत्वेत्यर्थः ।
ननु एवं यदा पूर्वेद्युरपराह्णसन्धिः परेद्युश्च प्रतिपदश्चतुर्थ एव भागो ऽवशिष्यते तदा कथं सन्धिशास्त्रान्निर्णयः परेद्युर्यागकालाभावात् इतिचेत्, सत्यम् ।
सन्धिर्यत्रापराह्णे स्याद्यागं प्रातः परे ऽहनि ।
कुर्वाणः प्रतिपद्भागे चतुर्थे ऽपि न दुष्यति ॥
इतिवृद्धशातातपेन दोषाभावोत्त्या चतुर्थे ऽपि भागे प्रयोगविधानात् ।
एतच्च पौर्णमास्यामू ।
अमावास्यायां तु चन्द्रदर्शने यागस्य निषेधादपराह्णसन्धौ याग एवेत्युक्तम् ।
हेमाद्रिस्तु “सन्धिर्यत्रापराह्णे स्यात्"इत्येतन्नार्षवचनं किन्तु मण्डनकारिकेयमिति कृत्वा पौर्णमास्यामपि अपराह्णसन्धौ यदि परेद्युर्यागकालो ऽस्ति तदैव तत्र यागस्तदभावे तु पूर्वेद्युरेवेत्युक्तवान् ।
{म्व्-स्_१०५}
अमावास्याया तु चन्द्रदर्शनेनेष्टिरिति सर्वसम्मतम् ।
अत एव तत्र प्रायश्चित्तमुक्तमू–
कात्यायनेन:
यजनीये ऽह्नि सोमश्चेद्वारुण्यां दिशि दृश्यते ।
तत्र व्याहृतिभिर्हुत्वा दण्डं दद्याद्द्विजातये ॥
इति ।
न चैवं चतुर्दश्यामपि चन्द्रदर्शनसम्भवात्तत्र च"यदैवैनं न पुरस्तात् पश्यत्, तर्ह्येवोपवसेत्"इति गोभिलेनान्वाधानस्य पर्युदस्तत्बात् कथं तत्र तदनुष्ठानमिति वाच्यम् ।
“अङ्गगुणविरोधे च तादर्थ्यात्” (अ। १२ पा। २ अधि। ९) इति न्यायेनैतादृशे विषये तत्राप्यङ्गभूतान्वाधानानुष्ठानौचित्यात् ।
अत एव श्रुतिः"तद्धैके दृष्ट्वोपवसन्ति"इति ।
आपस्तम्बो ऽपि उपवसेदित्यनुवृत्तौ–
यदहर्न दृश्यते तदहरमावास्यां श्वो न द्रष्टार इति वेति ।
न च तैत्तिरीयब्राह्मणे:
एषा वै सुमनानामेष्टिर्यमभियजानं पश्चाच्चन्द्माभ्युदेत्यस्मिन्नेवास्मै लोके ऽर्धुकं भवति इति ।
तथा ऐतरेयिब्राह्मणे–
पुरस्तादमावास्यायां चन्द्रमसं युदपैति तद्यजते ।
इति चन्द्रोदये यागविधानस्य प्राशस्त्यावगमात् कथं तत्र यागनिषेध इति वाच्यम् ।
अत्राभ्युदयमात्रश्रवणात्तस्य च प्रतिपद्यपि सम्भवान्नैतस्य चन्द्रदर्शनदिने यागकर्तव्यतापरत्वमिति केचित् ।
तन्न ।
अभिपूर्वस्य उदयतेः प्रत्यक्षदर्शनपरत्वात् ।
अत एव श्रुत्यन्तरे ऽपि"स एष आहुतिभ्यो
जातः पश्चाद्ददृशे"इतिस्पष्टं चन्द्रदर्शने ऽपि यागप्रतीतिस्तस्माच्छास्त्रीयदर्शनाभिप्रायाण्येतानीति हेमाद्रिः ।
वस्तुतस्तु रात्रिसन्धौ चन्द्रदर्शनदिने ऽपि यागानुष्ठानस्य पूर्वं साधितत्वात्तद्विषयाणीति युक्तम् ।
माधवापस्तम्बभाष्यार्थसङ्ग्रहकारादयस्तु पूर्वोदाहृततैत्तिरीयैतरेयिवाक्याभ्यामापस्तम्बास्वलायनशाखिनामपराह्णसन्धौ चन्द्रदर्शन एव यागः ।
तदन्येषां तु बौधायनकात्यायनादीनां चन्द्रदर्शने यागो न भवत्ये वेत्याहुः ।
स्मृत्यर्थसारे तु सन्धिशास्त्रेणैव सर्वदा निर्णयस्तेनापराह्णसन्धावपि सर्वदान्वाधानमेव ।
यानि तु चन्द्रदर्शनदिने यागनिषेधवचनानि तानि तस्यैवोपोलब्दकानि न तु निर्णायकानीत्युक्तम् ।
{म्व्-स्_१०६}
नन्वेवं यागकालनिर्णये क्रियमाणे तिथिवृद्ध्या कदाचित् पक्षवृद्धौ पूर्वयजनीयदिनात्सप्तदशे ऽहन्यपि यागः प्रसज्यते ।
तच्च–
षोडशे ऽहन्यभीष्टेष्टिर्मध्या पञ्चदशे ऽहनि ।
चतुर्दशे जघन्येष्टिः पापा सप्तदशे ऽहनि ॥
इत्यापस्तम्बववचनेन विरुद्धमिति चेत्, न ।
इष्टिग्रहणस्यान्वाधानपरत्वात् ।
यागपरत्वे चतुर्दशे ऽहनि यागाप्राप्तेस्तत्र जघन्योत्त्यनुपपत्तेः ।
अतश्च वृद्धिसामान्यक्षयेषु षोडशपञ्चदशचतुर्दशदिनेषु क्रमेणान्वाधानमितिवाक्यार्थः ।
सप्तदशे ऽन्वाधाननिषेधस्तु नित्यानुवादस्तत्र तस्य कथमप्यप्राप्तेः ।
अत एव बौधायनः–
अत्रापवसथस्य स्थानानि चतुर्दशी पञ्चदशी षोडशी न तु त्रयोदशी सप्तदशीति ।
यत्रौपवसथं कर्म यजनीयात् त्रयादशम् ।
भवेत् सप्तदशं वापि तत्प्रयत्नेन वर्जयेत् ॥
इति ।
इदं षोडशादिदिनेषु अन्वाधानं ह्यहकालत्वे बोद्धव्यम् ।
सद्यस्कालत्वे तु सप्तदशे ऽपि दिने ऽन्वाधानं भवत्येव ।
तच्च सद्यस्कालत्वं पौर्णमसीविशेषे इत्युक्तं–
कात्यायनेन:
सन्धिश्चेत् सङ्गवादूर्द्ध्वं प्राक्पर्यावर्तनाद्रवेः ।
सा पौर्णमासी विज्ञेया सद्यस्कालविधौ तिथिः ॥
इदं च सद्यस्कालत्वं वैकल्पिकम् ।
अन्वाहितिश्चास्तरणोपवासौ पूर्वेद्युरेते खलु पौर्णमास्याम् ।
आवर्तनात् प्राक् यदि पर्वसन्धिः सद्यस्तदा वा क्रियते समस्तः ॥
इति सङ्ग्रहोक्तेः ।
एवं च"पूर्वो पौर्णमासीमुत्तरां वोपवसेत्"इत्युपक्रम्य"सद्यो वा प्रातः"इति
सामान्यतः पौर्णमास्यामुक्तं सद्यस्त्वमावर्तनप्राक्सन्धिविषयमेवोपसंहर्त्तव्यम् एकश्रुतिकल्पनालाघवात् ।
एतच्च वाजसनेयिव्यतिरिक्तविषयम् ।
तेषां तु–
मध्यन्दिनात् स्यादहनीह यस्मिन् प्राक् पर्वणः सन्धिरियं तृतीया ।
सा खर्विङ्का वाजसेनेयिमत्या तस्यामुपोष्याथ परेद्युरिष्टिः ॥
इति बाष्यार्थसङ्ग्रहकारेण तत्रापि द्व्यहकालतोक्तेः ।
इयं तृतीयेति ।
अत्रेयमिति पौर्णमास्येवोच्यते न त्वमावास्या अस्या एवापराह्णरात्रिसन्धिभ्यां पूर्वं द्वैविध्याबिधानात् ।
अत एव पैर्ण्णमासीमेवोपक्रम्य–
खर्विकां तृतीयां वाजसेनेयिनः समामनन्ति ।
इत्यापस्तम्बेनोक्तम् ।
{म्व्-स्_१०७}
इदमपि द्व्यहकालत्वे प्रतिपत्तृतीयांशलाभ एव न चतुर्थांशलाभे तस्यापराह्णसन्धावेव"सन्धिर्यद्यपराह्णे स्यात्"इतिवाक्येन विहितत्वादिति ।
अत्र च यदा पर्वसन्धौ इष्टिस्तदा अन्तिमः पदार्थः प्रतिपद्येव अनुष्ठेयः ।
प्रतिपद्यप्रविष्टायां यदि चेष्टिः समाप्यते ।
पुनः प्रणीय कृत्स्नेष्टिः कर्तव्या यागवित्तमैः ॥
इति गार्ग्योक्तेः प्रणीय अग्निमितिशेषः ।
इति प्रकृतेः कालनिर्णयः ।
अथ विकृतेः ।
तत्र दर्शपूर्णमासविकृतीनामिष्टिपशुबन्धादीनामतिदेशतो द्व्यहकालप्राप्तौ–
यदष्ट्यि पशुना सोमेन वा यजेत सो ऽमावास्यां पौर्णमास्यां वा यजेत ।
इति वचनेन सद्यस्कालता विधीयते ।
तथा दर्शविकृतौ पौर्णमास्यपि पूर्णमासविकृतावमावास्यापि इत्यव्यवस्था च विधीयत इति व्युत्पादितं पञ्चमोपान्त्ये ।
बौधायनस्तु नक्षत्रे वेत्यधिकं नक्षत्रमप्याह ।
तच्च कृत्तिकादिविशाखान्तम् ।
कृत्तिकाः प्रथमं विशाखे उत्तमं तानि देवनक्षत्राणि तेषु कुर्वीत यत्कारी स्यात् ।
इति तैत्तिरीयश्रुतेः ।
रेवती च ।
“यत्किञ्चार्वाचीनं सोमात्तद्रेवत्यां कुर्वीत"इति तत्रैवोक्तेः ।
एतच्च न दर्शपूर्णमासौ प्रति प्रवर्तते प्राकरणिकेन निरवकाशेन पौर्णमास्यादिकालेनानारभ्याधीतस्य सावकाशस्य नक्षत्रस्य पाञ्चदश्येन साप्तदश्यस्य दीक्षणीयास्वरेणोपांशुत्वस्येव बाधित्वात् ।
तत्र पर्वणि विशेषः ।
पौर्णमास्यमावास्याशब्दयोः ।
यः परमो विप्रकर्षः सूर्याचन्द्रमसौः सा पौर्णमासी यः परः सन्निकर्षः सामावास्या ।
इति गोबिलवचनात् परमसन्निकर्षविप्रकर्षक्षणवाचित्वागतेः, तत्र च साङ्गप्रयोगानुष्ठानासम्भवाद्"यदीष्ट्या"इति वाक्येन पौर्णमास्यमावास्यापदलक्षितयोः सन्धिमदहोरात्रयोर्विकृतेर्विधानादावर्तने ततः प्राग्वा ।
पर्वसन्धौ च प्रकृतेरपि तत्रैव विधानाद्युगपत्प्रकृतिविकृत्योः प्रसक्तौ प्रकृतेः पूर्वेद्युः प्रारब्धत्वादन्तरा कर्मान्तरानुष्ठानासम्भवात् प्रकृतौ च प्रातःकालस्यौपदेशिकत्वात् प्रकृतिं कृत्वा विकृतिः कर्तव्येति याज्ञिका आहुः ।
न्यायमूलकमेव वाक्यं चोदाहरन्ति–
आवर्तनात्प्राक् यदि पर्वसन्धिः
कृत्वा तु तस्मिन् प्रकृतिं विकृत्याः ।
{म्व्-स्_१०८}
तदैव यागः परतो यदि स्या-
त्तस्मिन् विकृत्याः प्रकृतेः परेद्युः ॥
इति ।
न चावर्तनात् परतः सन्धौ विकृतेः प्राथम्ये प्रकृतेरौपदेशिकान्वाधानकालबाधः स्यादिति वाच्यम् ।
अन्वाधानस्याङ्गत्वेन तत्कालस्य प्रधानाश्रितेन विकृतिकालेन"अङ्गगुणविरोधे च तादर्थ्यात्” (अ। १२ पा। २ अधि। ९) इतिन्यायेन बाधस्योचितत्वात् ।
एवं सुत्या यद्यप्यपूर्वा तथापि तदहरेव कर्तव्या यदीष्ट्यन्तिवचनात् ।
आग्रयणं तु पौर्णमासात्प्राक् दर्शात्तु परम् ।
यस्मिन् काले ऽमावास्या सम्पद्येत तयेष्ट्वाथैतया यजेत यदि पौर्ण मासी स्यात्तयेष्ट्याथ पूर्णमासेन यजते ।
इति श्रुतेः ।
एतया आग्रयणेष्टया ।
पौर्णमासात्प्राक् आग्रयणं तु सद्यस्कालपौर्णम्मासीविषयमिति हेमाद्रिः ।
मीमांसकास्तु विकृतिकालमन्यथा वदन्ति ।
तथा हि–
सोमस्य वै राज्ञो ऽर्धमासस्य रात्रयः पत्नय आसन् तासाममावास्यां पौर्णमासीं च नोपैत् ।
इतिश्रुतौ तच्छब्दनिर्दिष्टरात्र्योः पौर्णमास्यमावास्याशब्दप्रयोगा दागोपालाङ्गनं तथाप्रसिद्धेश्च तिथिवाचकत्वावगतेः ।
गोभिलसूत्रस्य त्वेकदेशवृत्तिनिमित्तप्रतिपादनार्थत्वेनाप्युपपत्तेः क्षणाभिधानपरत्वाभावादावर्तनतत्पूर्वसाध्यौदयिकपर्वणः प्रकृत्यवरुद्धत्वात् पूर्वपर्वणि प्रातस्तदभावे ऽपि औदयिकप्रधानकालेनातिदेशिकप्रातः कालबाधस्योचितत्वात् पूर्वपर्वण्येव विकृत्यनुष्ठानमिति ।
इति श्रीमत्सकलसामन्तचक्रचूडामणिमरीचिमञ्जरीनीराजितचरणकमल-श्रीमन्महाराजाधिराजप्रतापरुद्रतनुजश्रीमन्मधुकरसाहुसूनुचतुरुदधिवलयवसुन्धराहृदयपुण्डरीकविकासदिनकरश्रीमन्महाराजाधिराजश्रीविरसिं होद्योजितहंसपण्डितात्मजपरशुरामणिश्रसूनुसकलविद्व्यापारावारपारीणधुरीणजगद्दारिद्व्यमहागजपारीन्द्रव् इद्वज्जनजीवातुश्रीमन्मित्रमिश्रकृते वीरमित्रोदयनिबन्धे समयप्रकाशे पर्वनिर्णयः ।
{म्व्-स्_१०९}
अथ ग्रहणकालनिर्णयः ।
तत्र ग्रहणस्वरूपं सूर्यसिद्धान्ते–
छादको भास्करस्येन्दुरधः स्थो घनवद्भवेत् ।
भूच्छायां प्राङ्मुखश्चन्द्रो विशत्यस्य भवेदसौ ॥
अस्यौबास्करस्य ।
असौ = उपरागः ।
यदाधो ऽवस्थित इन्दुर्भास्करस्य छादको भवेत्तदा सूर्योपरागः ।
यदा प्राच्यां गच्छंश्चन्द्रः प्रत्यगवस्थितसूर्यप्रयुक्तभूच्छायां प्रविशति तदा चन्द्रोपराग इत्यर्थः ।
बराहसंहितायामपि:
भूच्छायां स्वग्रहणे भास्करमर्कग्रहे च प्रविशतीन्दुः ।
इति ।
स्वग्रहणे = चन्द्रग्रहणे ।
भास्करं प्रविशति = भास्करं छादयतीत्यर्थः ।
ग्रहणकालमाह–
वृद्धगार्ग्यः:
पूर्णिमाप्रतिपत्सन्धौ राहुः सम्पूर्णमण्डलः ।
ग्रसते चन्द्रमर्कं च दर्शप्रतिपदन्तरे ॥
इति ।
कालविभागो ब्रह्मसिद्धान्ते–
यावान् कालः पर्वणो ऽन्ते तावान् प्रतिपदादिमः ।
रवीन्दुग्रहणानेहा सुपुण्यो मिश्रणाद्भवेत् ॥
इति ।
ग्रहणमर्धं पर्वान्तभागे अर्घं प्रतिपदादिभागे भवति ।
पर्वप्रतिपत्सन्धौ ग्रहणस्य मध्य इत्यर्थः ।
अनेहा = कालः ।
अत्र स्नानमावश्यकम्–
चन्द्रसूर्यग्रहे स्नायात्सूतके मृतके ऽपि च ।
अस्नायी मृत्युमाप्नोति स्नायी पापं न विन्दति ॥
इति लैङ्गात् ।
प्रहणे सङ्क्रमे चैव न स्नायाद्यदि मानवः ।
सप्तजन्मानि कुष्ठी स्यात् दुःखभागी च जायते ॥
इति वृद्धवशिष्ठेनाकरणे दोषोक्तेश्च ।
स्नानजलनियमो–
महाभारते:
गङ्गास्नानं प्रकुर्वीत ग्रहणे चन्द्रसूर्ययोः ।
महानदीषु चान्यासु स्नानं कुर्याद्यथाविधि ॥
इति ।
अत्र यथाविधीतिग्रहणात् यत् स्मृतिरत्नावल्यामुक्तमेतदमन्त्रकं स्नानमिति तत् परास्तम् ।
गङ्गास्तिस्रः ।
तिस्रो नद्यो महापुण्या वेणी गोदा च जाह्नवी ।
(*)गां हरीशाङ्गतः प्राप्ता गङ्गा इति हि कीर्त्तिताः ॥
(*) कालमाधवे तु गां हरीशाङ्घिकात् इति पाठः ।
हरिश्चेशश्च हरीशौ ।
अङ्घ्रिः पादः कं शिरः ।
अङ्घ्रिश्च कं च अङ्घ्रिकम् ।
हरेः पदादीश्वरस्य शिरसो गां भूमिं प्राप्ता गङ्गा ।
यद्यपि जाह्नव्येव तादृसी, न तु वेणीगोदे ।
तथापि “छत्रिणो यान्तिऽ; न्यायेन जाहव्या सहनिर्दिष्टयोस्तयोरपि गङ्गात्वमविरुद्धमिति व्याख्यातं च ।
{म्व्-स्_११०}
इति ब्रह्मपुराणात् ।
गां पृथ्वीम् ।
गङ्गाधरांसत इति क्वचिदुत्तरार्द्धादिः ।
महानद्यः = समुद्रगामिन्यः सरस्वतीनर्मदाद्याः ।
महानद्यः समुद्रगाः इति वचनात् ।
शङ्खः–
वापीकूपताडागेषु गिरिप्रस्रवणेषु च ।
नद्यां नदे देवखाते सरसीषु धृताम्बुनि ॥
उष्णोदकेन वा कुर्याह्न्रहणे चन्द्रसूर्ययोः ।
इति ।
उष्णोदकमातुरस्य ।
आदित्यकिरणैः पूतं पुनः पूतं च वह्निना ।
अतो व्याध्यातुरः स्नायाह्न्रहणे ऽप्युष्णवारिणा ॥
इति व्याघ्रोक्तेः ।
अपिर्भिन्नक्रमः ।
उष्णवारिणापीत्यर्थः ।
अथ वा वक्ष्यमाणयमवचने उपरागप्राक्पठितजननादिसमुच्चयार्थः ।
यत्तु–
मृते जन्मनि सङ्क्रान्तौ ग्रहणे चन्द्रसूर्ययोः ।
अस्पृश्यस्पर्शने चैव न स्नायादुष्णवारिणा ॥
इति यमवचनं तदनातुरविषयम् ।
व्यासः–
सर्वं गङ्गासमं तोयं सर्वे ब्रह्मसमा द्विजाः ।
सर्वं भूमिसमं दानं ग्रहणे चन्द्रसूर्ययोः ॥
इति ।
अत्र जलमात्रस्य गङ्गासमत्वोक्त्या प्राशस्त्याभिधानेनाविहितस्य स्तुत्यानर्थक्यादर्थवादेव येन केनापि जलेन स्नायादिति विधिरुन्नेयः ।
जले पुण्यातिशयक्रममाह–
मार्कण्डेयः:
भूमिष्ठमुद्धृतात् पुण्यं ततः प्रस्रवणोदकम् ।
ततो ऽपि सारसं पुण्यं ततः पुण्यं नदीजलम् ॥
तीर्थतोयं ततः पुण्यं महानद्यम्बु पावनम् ।
ततस्तु परमं गाङ्गं पुण्यं पुण्यस्ततो ऽम्बुधिः ॥
शीतमुष्णोदकात् पुण्यमपारक्यं परोदकात् ।
इति ।
अत्र भूमिष्ठादेः पुण्यातिशयत्वस्तुतिर्भूमिष्ठाद्यसम्भव उद्धृतादिविध्युन्नयनार्था न तु गुणफलसम्बन्धः ।
स्नानफलमात्रार्थिनो गङ्गाकूपसमवाये कूपे ऽपि स्नानप्रसङ्गात् ।
मासविशेषे तर्थिविशेषात् पुण्यातिशयो–
{म्व्-स्_१११}
देवीपुराणे:
कार्त्तिके ग्रहणं श्रेष्ठं गङ्गायमुनसङ्गमे ।
मार्गे तु ग्रहणं शस्तं देविकायां महामुने! ॥
पौषे तु नर्मदा पुण्या माघे सन्निहिता शुभा ।
फाल्गुने वरुणा पुण्या चैत्रे पुण्या सरस्वती ॥
वैशाखे तु महापुण्या चन्द्रभागा सरिद्वरा ।
ज्येष्ठं तु कौशिकी पुण्या आषाढे तापिका नदी ॥
श्रावणे सिन्धुनामा तु तथा भाद्रे तु गण्डकी ।
आश्विने सरयूः श्रेष्ठेति ।
गङ्गायमुनमित्यत्रैकवद्भावः ।
“सर्वो द्वन्द्वो विभाषैकवद्भवति"इति ववचनात् ।
देविका देवहेति अयोध्यामण्डले प्रसिद्धा ।
सन्निहत्या = कुरुक्षेत्रम् ।
यद्यपि पौषे तु नर्मदा पुण्येत्यादौ देशप्राधान्यं प्रतीयते तथापि"कार्त्तिके ग्रहणं श्रेष्ठं"इत्युपक्रमानुरोधात् सर्वत्र ग्रहणस्यैव प्राधान्यमनुसन्धेयम् ।
उपरागविशेषे तीर्थविशेषस्तत्रैव–
गोदावरी महापुण्या चन्द्रे राहुसमन्विते ।
सूर्ये च राहुणा ग्रस्ते तमोभूते महामुने! ॥
नर्मदातोयसंस्पर्शात् कृतकृत्या भवन्ति ते ।
इति ।
मात्स्ये–
गङ्गा कनखलं पुण्यं प्रयागः पुष्करं तथा ।
कुरुक्षेत्रं तथा पुण्यं राहुग्रस्ते दिवाकरे ॥
तत्रैव–
दशजन्मकृतं पापं गङ्गासागरसङ्गमे
जन्मनां तु सहस्रेण यत्पापं समुपार्जितम् ।
तन्नश्येत् सन्निहत्यायां राहुग्रस्ते दिवाकरे ।
इति ।
वारविशेषे ग्रहणे चूचमणियोगमाह–
व्यासः:
सूर्यंवारे रवेर्ग्रासः सोमे सोमग्रहस्तथा ।
चचमणिरिति ख्यातस्तत्रानन्तफलं लभेत् ॥
प्रभासखण्डे–
गावो नागास्तिला धान्यं रत्नानि कनकं महीम् ।
सम्प्रदाय कुरुक्षेत्रे यत्फलं लभ्यते नरैः ॥
तदिन्दुग्रहणे ऽम्भोधौ स्नानाद्भवति षड्गुणम् ।
अत्र कुरुक्षेत्रे यत् फलं लभ्यते इति सिद्धवन्निर्देशानुपपत्त्या कुरुक्षेत्रे गवादि दद्यादिति विधिरुन्नेयः ।
{म्व्-स्_११२}
उपरागे च श्राद्धमावश्यकम् ।
सर्वस्वेनापि कर्तव्यं श्राद्धं वै राहुदर्शने ।
अकुर्वाणस्तु नास्तिक्यात् पङ्के गौरिव सीदति ॥
इति महाभारतोक्तेः ।
यत्तु–
विशिष्टे ब्राह्मणे प्राप्ते सूर्येन्दुग्रहणे ऽयने ।
जन्मर्क्षग्रहपीडासु श्राद्धं कुर्वन्ति चेच्छया ॥
इति वचनं तदुक्तवचनविरोधादिच्छया चेत्यन्वयेन"श्राद्धं प्रति रुचिश्च"इत्येतत्स्वतन्त्रेच्छाकालप्रतिपादकवचनसमानार्थमित्यविरोधः ।
श्राद्धं प्रकृत्य–
कूर्मपुराणे ऽपि:
नैमित्तिकं तु कर्तव्यं ग्रहणे चन्द्रसूर्ययोः ।
बान्धवानां च मरणे नारकी स्यात्ततो ऽन्यथा ॥
इति ।
दानमप्यावश्यकम्–
अयनादौ सदा देयं द्रव्यमिष्टं गृहे च यत् ।
षडशीतिमुखे चैव विमोक्षे चन्द्रसूर्ययोः ॥
इतिशातातपीये सदाश्रुतेः ।
एतच्च स्नानादि रात्रावपि कार्यम् ।
यथा स्नानं च दानं च सूर्यस्य ग्रहणे दिवा ।
सोमस्यापि तथा रात्रौ स्नानं दानं विधीयते ।
इतिदेवलोक्तेः ।
दानं च श्राद्धस्याप्युपलक्षणम् ।
नक्तं तु वर्जयेच्छ्राद्धं राहोरन्यत्र सूतके ।
इति वायुपुराणात् ।
स्नानं दानं तपः श्राद्धमनन्तं राहुदर्शने ।
आसुरी रात्रिरन्यत्र तस्मात्तां परिवर्जयेत् ॥
सन्ध्यारात्र्योर्न कर्तव्यं श्राद्धं खलु विचक्षणैः ।
द्वयोरपि च कर्तव्यं यदि स्याद्राहुदर्शनम् ॥
इतिशातातपविष्णुवचनाभ्यां च ।
एतच्छ मलमासे ऽपि कार्यम् ।
चन्द्रसूर्यग्रहे चैव मरणे पुत्रजन्मनि ।
मलमासे ऽपि देयं स्याद्दत्तमक्षयकारकम् ॥
इति मात्स्योक्तेः ।
अत्र च काम्यमपि स्नानादिकं कार्यम् ।
उषस्युषसि यत् स्नानं सन्ध्यायामुदिते रवौ ।
चन्द्रसूर्योपरागे च प्राजापत्येन तत्समम् ॥
इति दक्षोक्तेः ।
{म्व्-स्_११३}
राहुदर्शनदत्तं हि श्राद्धमाचन्द्रतारकम् ।
गुणवत् सर्वकामीयं पितॄणामुपतिष्ठते ॥
इति विष्णूक्तेः ।
भूमिर्गांवः सुवर्णं वा धान्यं वा यद्यदीप्सितम् ।
तत्सर्वं ग्रहणे देयमात्मनः श्रेय इच्छता ॥
इतिमहाभारतोक्तेश्च ।
एतेषां कालविशेषः स्मृत्यन्तरे–
ग्रस्यमाने भवेत्स्नानं ग्रस्ते होमो विधीयते ।
मुच्यमाने भवेद्दानं मुक्तौ स्नानं विधीयते ॥
इति ।
होमः सुरार्चनस्याप्युपलक्षणम् ।
स्नानं स्यादुपरागादौ मध्ये होमसुरार्चने ।
इति ब्रह्मवैवर्तत् ।
श्राद्धं च होमोत्तरं कार्यम् ।
स्नानं विधाय गङ्गादौ प्राणायामं च तर्पणम् ।
गायत्र्याश्च जपं कृत्वा तिलहोमं समाचरेत् ॥
व्याहृतिग्रहमन्त्रैश्च स्वशाखोक्तैस्तु शक्तितः ।
आमश्राद्धं ततः कार्यं षड्दैवत्यं विशेषतः ॥
दानं दद्याद्यथाशक्तिहिरण्यान्नगवां भुवः ।
इति चन्द्रप्रकाशे स्मृत्यन्तरोक्तेः ।
यत्तु ब्रह्मपुराणे स्नानादि प्रकृत्य–
उपमर्दे लक्षगुणं ग्रहणे चन्द्रसूर्ययोः ।
पुण्यं कोटिगुणं मध्ये मुक्तिकाले त्वनन्तकम् ॥
इति ।
तत आदिमध्यावसानेषु यद्यद् विहितं तस्य तस्य फलादिशयार्थमिति माधवः ।
यत्तु व्यासवचनम्–
त्रिदशाः स्पर्शसमये तृप्यन्ति पितरस्तथा ।
मनुष्या मध्यकाले तु मोक्षकाले तु राक्षसाः ॥
इति ।
तत् स्नानाद्यपेक्षयोत्तममध्यमाधमकालपरम् ।
उपमर्दे लक्षगुणमिति कालान्तरमित्यन्ये ।
स्नानाकरणे कर्मान्तरानधिकारों ब्रह्मपुराणे–
आशौचं जायते नॄणां ग्रहणे चन्द्रसूर्ययोः ।
राहुस्पर्शे द्वयोः स्नात्वा दानादौ कल्पते नरः ॥
इति ।
कल्पते = अधिकारीभवतीत्यर्थः ।
सर्वेषामेव वर्णानां सूतकं राहुदर्शने ।
स्नात्वा कर्माणि कुर्वीत-
इतिषट्र्त्रिशन्मताच्च ।
स्नानं च सचैलम् ।
सर्वेषामेव वर्णानां सूतकं राहुसूतके ।
सचैलं तु भवेत्स्नानम्–
{म्व्-स्_११४}
इतिवृद्धवशिष्ठोक्तेः ।
राहुसूतके = = परागे ।
सचैलत्वं मुक्तिस्नाने ऽप्यविशेषात् ।
ग्रहणे शावमाशौचं विमुक्तौ सौतिकं स्मृतम् ।
तयोः सम्पर्कमात्रेण उपस्पृश्य क्रियाक्रमः ॥
इति ब्रह्माण्डपुराणे संस्पर्शविमुक्त्योः शावजननाशौचोत्त्या तन्निमित्तसनचैलस्नानादिधर्मप्राप्त्यवगतेश्च ।
एतेन मुक्तिस्नानमेव सचैलमिति मदनरत्नमतं
प्रत्युक्तम् ।
रजस्वलापि तीर्थोद्धृतवारिणा स्नायात् ।
न सूतकादिदोषो ऽस्ति ग्रस्ते होमजपादिषु ।
ग्रस्ते स्नायादुदस्यापि तीर्थादुद्धृत्य वारिणा ॥
इतिभार्गवार्चनदीपिकायां सूर्योदयनिवन्धवचनात् ।
स्नानविधिस्तु–
स्नाने नैमित्तिके प्राप्ते नारी यदि रजस्वला ।
पात्रान्तरिततोयेन स्नानं कृत्वा व्रतं चरेत् ॥
इत्यादिर्मिताक्षरायाम् ।
तदहः प्रत्याब्दिकप्ताप्तौ मदनपारिजाते–
गोभिलः:
दशें रविग्रहे पित्रोः प्रत्याब्दिकमुपस्थितम् ।
अन्नेनासम्भवे हेम्ना कुर्यादामेन वा सुतः ॥
इति ।
अत्र दर्शरविपितृसुतशब्दाः प्रदर्शनार्थाः ।
न्यायसाम्यात् ।
तेन चन्द्रग्रहणे ऽपि सपिण्डादिवार्षिकमन्नादिना तद्दिन एव कार्यमिति मदनपारिजात एव व्याख्यातम् ।
एवमेव पृथ्वीचन्द्रोदयनिर्णयामृतप्रयोगपारिजातेषु ।
यानि तु कैश्चित्पठयन्ते–
ग्रस्तोदये यदा चन्द्रे प्रत्यब्दं समुपस्थितम् ।
तद्दिने चोपवासः स्यात् प्रत्यब्दं तु परे ऽहनि ॥
तथा–
ग्रस्तावेवास्तमानं तु रवीन्दू प्राप्नुतो यदि ।
प्रत्यब्दं तु तदा कार्यं परे ऽहन्येव सर्वदा ॥
ग्रहणात्तु द्वितीये ऽन्हि रजोदोषात्तु पञ्चमे ।
इति ।
तेषां दृश्यमानस्मृतिषु निबन्धेषु चादर्शनाद्यावन्मूलोपलम्भनमननुष्ठानलक्षणमप्रामाण्यम् ।
दर्शसङ्क्रान्त्यादिश्राद्धकाले उपरागे तु उप रागश्राद्धेनैव सिद्धिः प्रसङ्गात् काम्येन च नित्यस्य ।
एतच्चोपरागति मित्तं स्नानादि जननाद्याशौचमद्ये ऽपि कार्यम् ।
सूतके मतके चैव न दोषो राहुदर्शने ।
तावदेव भवेच्छुद्धिर्यावन्मुक्तिर्न दृश्यते ॥
इति लैङ्गोक्तेः ।
न चैवम्–
चन्द्रसूर्यग्रहे स्नायात्सूतके मृतके ऽपि वा ।
{म्व्-स्_११५}
अस्नायी मृत्युमाप्नोति स्नायी पापं न विन्दति ॥
इति लैङ्ग एव पूर्ववचनानर्थक्यमिति वाच्यम् ।
गोबलीवर्दन्यायेन वा जननमरणयोरपि
पृथङ्निमित्तत्वप्रतिपादनपरतया वा स्नानाकरणे ऽनिषूविशेषप्रतिपादनपरतया वा सार्थकत्वात् ।
एतेनाशौच उपरागे स्नानमेव कार्यं न दानश्राद्धादीति जीमूतवाहनमतमपास्तम् ।
अविशेषेण शुद्ध्यभिधानात् ।
यावत्तावच्छब्दाभ्यां स्पर्शादिमोक्षान्तव्यापिशुद्ध्यभि धानं स्नानमात्रार्थत्वे ऽनर्थकं स्यात् स्नानस्य स्पर्शकालीनत्वात् ।
सर्वे वर्णाः सूतके ऽपि मृतके राहुदर्शने ।
स्नात्वा श्राद्धं प्रकुर्वींरन्दानं शाठ्यविवर्जितम् ॥
इतिकालादर्शमदनपरिजातचन्द्रप्रकाशलिखितवचनविरोधाच्च ।
ग्रहणे शावमाशौचं विमुक्तौ सौतिकं स्मृतम् ।
तयोः सम्पर्कमात्रेण उपस्पृश्य क्रियाक्रमः ॥
इत्यनेकसापेक्षक्रमविध्यनुपपत्तेश्च ।
यत्तु संवत्सरप्रदीपादिषु वचनम्–
सूतके मृतके चैव न दौषो राहुदर्शने ।
स्नानमात्रं तु कर्तव्यं दानश्राद्धविवर्जितम् ॥
इति ।
तदा यदि समूलं तर्हिं विकल्पः ।
वस्तुतो निर्मूलम् प्रयोगपारिजाते ऽप्यलिस्रनात् दानश्राद्धविवर्जितमितिवैयर्थ्याच्च ।
काम्यं महादानादि आशैचे न भवति ।
तस्यानैमित्तिकत्वात् ।
न ह्युपरागे निमित्ते महादानादि विधीयते किन्तु सङ्क्रान्त्यादाविवाङ्नभूत उपरागकाले ।
कालसन्दंशप्रायपाठादुपरागस्य ।
“सर्वे वर्णा"इत्यङ्गिरोवचनेन सूतकमृतकनिमित्ताशुद्धिष्युदासेन शुद्धेः कर्मविशेषार्थत्वावधारणाच्च ।
अत्र विशिष्टसम्प्रदानाभावे जातिमात्रब्राह्मणे ऽपि देयमित्याह–
बौधायनः:
अश्रोत्रियः श्रोत्रियो वा पात्रं वापात्रमेव वा ।
विप्रब्रुवो ऽपि वा विप्रो ग्रहणे दानमर्हति ॥
इति ।
अश्रोत्रियो ऽन धीतवेदः ।
“श्रोत्रियंश्छन्दो ऽधीत” (५ । २ । ८४) इति तदध्येतरि श्रोत्रियमितिनिपातनात् ।
पात्रं"न विद्यया"इत्यादि प्रसिद्धम् (*) ।
(*) न विद्यया केवलया तपसा वापि पात्रता ।
यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्तितम् ॥
इतियाज्ञवल्क्योक्तम् ।
विप्रबुवलक्षणं षड्त्रिंशन्मते–
गर्भाधानादिसंस्कारवेदोपनयनैर्युतः ।
नाध्यापयति नाधीते स भवेद्ब्राह्मणब्रुवः ॥
इति ।
{म्व्-स्_११६}
वेदग्रहणोत्तरभाविसंस्कारलोपादध्यापनादावनियमाच्चास्य श्रोत्रियाज्जघन्यत्वम् ।
अत्र विप्रो जातिमात्रब्राह्मणः ।
गायत्रीसारमात्रा ये सन्ध्यामात्रयुताश्च ये ।
अज्ञानाः कृषिकर्माणो ब्राह्मणा नामधारकाः ॥
इति चतुर्विशतिमतात् ।
अत्र च न तुल्यवद्विकल्पः ।
सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।
श्रोत्रिये शतसाहस्रं पात्रे त्वानन्त्यमश्नुते ॥
इति दक्षेण फलतारतम्योक्तेः ।
यत्तु–
अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः ।
पात्रभूताय विप्राय भूर्मि दद्यात् सदक्षिणाम् ॥
इत्युपरागे पात्रविधानं तत् काम्यदानपरम् ।
काभ्यदानं प्रक्रम्याभिधानात् भूमिग्रहणस्योपलक्षणत्वात् ।
भूमिदानं पात्र एवेति नियमपरं वा वचनम् ।
अन्यथा लक्षणापत्तेः ।
उपरागकाले पक्वमन्नं परित्याज्यम् ।
“सूतकान्नं च वर्जयेत्"इति ग्रहणं प्रकम्य वृद्धवशिष्टोक्तेः ।
अन्नमुपव्कम् ।
सर्वेषामेव वर्णानां सूतकं राहुदर्शने ।
स्नात्वा कर्माणि कुर्वीत शृतमन्नं विवर्जयेत् ॥
इति षङ्त्रिंशन्मतात् ।
उपरागान्तरितमपि वर्ज्यम् ।
नवश्राद्धेषु यच्छिष्टं ग्रहपर्युषितं च यत् ।
इति मिताक्षरायां स्मृतेः ।
क्वचित् प्रतिप्रसवमाह–
मेधातिथिः:
आरनालं पयस्तक्रं कीलाटं घृतसक्तवः ।
स्नेहपक्वं च तैलं च न कदाचित् प्रदुष्यति ॥
इति ।
अत्र सक्तुस्नेहपव्कयोः प्रतिप्रसवः ।
अन्यत्तु नित्यप्राप्तानुवादः ।
धर्मविशेषो वचनान्तरे–
आरनालं च तक्रं च ह्यादेयं घृतपाचितम् ।
उदकं च कुशच्छन्नं न दुष्येद्राहुदर्शने ॥
इति ।
क्वचित्तु पाठः–
वारितक्रारनालादि तिलदर्भैर्न दुष्यति ।
इति ।
अत्र युक्तमित्यध्याहारः ।
तिलदर्भाः समुच्चिता उपादेयत्वात् ।
तेन राहुदर्शने वारितक्रादि तिलकुशयुतं कुर्यादिति विधीयते न दुष्यतीति दोषाभावस्तु नित्यनुवादः तिलकुशायोगे दोषः स्यादितिख्यापनायेत्यर्थः ।
वर्जनं च भोजने ।
{म्व्-स्_११७}
प्रेतश्राद्धे यदुच्छिष्टं ग्रहे पर्युषितं च यत् ।
दम्पत्योर्भुक्तशेषं च न भुञ्जीत कदाचन ॥
इति वचनात् ।
तत्रैव प्रायश्चित्ताम्नानाच्च ।
अत एव विहितकर्मण्यपि वर्जनीयम् ।
“यदार्याणामभोजनीयं स्यान्न तेन यजेत"इत्यापस्तम्बवचनात् ।
यजिर्विहितकर्मोपलक्षणम् ।
ग्रहणे स्वापभोजननिषेधः ।
शिवरहस्ये–
सूर्येन्दुग्रहणं यावत्तावत् कुर्याज्जपादिकम् ।
न स्वपेन्न च भुञ्जीत स्नात्वा भुञ्जीत मुक्तयोः ॥
इति ।
अत्र शातातपे विशेषः ।
मुक्ते शशिनि भुञ्जीत यदि न स्यान्महानिशा ।
इति ।
महानिशा मार्कण्डेयेनोक्ता–
महानिशा द्वे घटिके रात्रिमध्यमयामयोः ।
इति ।
उभयतो द्वे द्वे मिलित्वा वा द्वे एकैकमुभयत इत्यर्थः ।
सार्द्धप्रहरोत्तरं मुहूर्तचतुष्टयं महानिशेति कल्पतरुः ।
भोजनं स्वगृह एव ।
नाश्र्नीयादथ तत्काले ग्रस्तयोश्चन्द्रसूर्ययोः ।
मुक्तयोश्च कृतस्नानः पश्चाद् भुञ्ज्यात् स्ववेश्मनि ॥
इति ब्रह्मपुराणात् ।
तेन परान्ननिवृत्तिः ।
उपरागात् प्रागपि भोजनं निषेधति–
बृद्धगौतमः:
सूर्यग्रहे तु नाश्नीयात् पूर्वं यामचतुष्टयम् ।
चन्द्रग्रहे तु यामांस्त्रीन् बालवृद्धातुरैर्विना ॥
इति ।
पूर्वत्वं चोपरागयामावधिकम् ।
ग्रहणं तु भवेदिन्दोः प्रथमादधियामतः ।
भुञ्जीतावर्तनात् पूर्वं प्रथमे प्रथमादधः ॥
इति मार्कण्डेयेनेन्दुग्रहे तथोक्तेः ।
प्रथमादधि = प्रथमयामादूर्ध्वं द्वितीये प्रहर इत्यर्थः ।
प्रथमे = रात्रिप्रथमयामे ।
प्रथमादधः दिवसस्य प्रथमयाम इत्यर्थः ।
कालादर्शे तु ग्रहणं तु भवेदिन्दोरित्यस्यानन्तरम्–
स्वेस्त्वावर्तनादूर्ध्वमर्वागेव निशीथतः ।
चतुर्थप्रहरे चत्स्यात् चतुर्थप्रहरादधः ॥
इति च वाक्यं वसिष्ठनाम्ना पठितम् ।
ऊर्ध्वं चेह्न्रहणं रात्रेश्चतुर्थप्रहरादधो भुञ्जीतेत्यर्थः ।
अत्र च न भोजनं विधीयते किन्तु रागतः प्राप्ते भोजने कालो निथम्यते ।
न वा सो ऽपि ।
माध्याह्निकक्रियापकर्षापत्तेः ।
किन्तु मूलकल्पनालाघवादुक्तकालादूर्द्ध्वं भोजनं निषिध्यते ।
{म्व्-स्_११८}
अथ वा"नाद्यात् सूर्यग्रहात् पूर्वं"इति निरवधिकभोजननिषेधस्यावधिसमर्पणमेतत् ।
“रथन्तरे प्रस्तूयमाने ऽभिणी सम्मीलयेत्"इति विहितसम्मीलनस्य"स्वर्दृशं प्रति वीक्षेत"इति स्वर्दृशपदावधिसमर्पणवत् ।
(अ। १ पा। ६ अधि। २) भुजिस्त्वनुवादो वीक्षणवत् ।
बालादीनामन्नं विनास्थातुमशक्तानां विशेषो मात्स्यमार्कण्डेययोः ।
सायाह्ने ग्रहणं चेत् स्यादपराह्णे न भोजनम् ।
अपराह्णे न मध्याह्ने मध्याह्ने न तु सङ्गवे ।
भुञ्जीत सङ्गवे चेत् स्यान्न पूर्वं भोजनक्रिया ।
इति ।
ग्रहणं चेदिति अपराह्ण इत्यादौ, भोजनमिति न मध्याह्न इत्यादावनुषञ्जनीयम् ।
सायाह्नादौ ग्रहणे ऽशक्तानां क्रमेणापराह्णादावेव भोजननिषेधस्ततो ऽर्वाङ् न दोष इत्यर्थः ।
एतच्च सूर्योपरागे न चन्द्रोपरागे तस्यापराह्णादावसम्भवात् ।
अनेनैव न्यायेन चन्द्रोपरागे ऽपि बालादीनां शेषिविरोधो माभूदिति रात्रिं पञ्चधा विभज्य पञ्चमभाग उपरागे चतुर्थे न भोक्तव्यं चतुर्थ उपरागे तृतीये नेत्येव कल्पनीयम् ।
सूर्योपरागे तथा दर्शनात् ।
(*) “अर्थाद्वा कल्पनैकदेशत्वात्” (अ। १ पा। ४ अधि। २ सू। ३)इति न्यायात् ।
(*) सुवेणावद्यति, स्वधितिनावद्यति, हस्तेनावद्यति, इत्यादिष्ववदेयेषु आज्यपशुपुरोडाशेषु हविःषु अवदानहेतवः स्रुवाद्या अव्यवस्थिता अविशेषश्रवणादिति प्राप्त उच्यते-अशक्यार्थविध्यसम्भवादवश्यं विधायकस्य शक्तिः सहकारिणीत्यङ्गीकर्तव्यं तस्माच्छक्तिसहायो विधिरेव यथासामर्थ्यं विधेयं व्यवस्थापयति ।
ततश्च द्रवद्रव्यस्याज्यस्य स्रुवो योग्यः छेदनीयमांसस्य स्वधितिः शस्रविशेषः, सङ्कृतस्य पुरोडाशस्य हस्त इति व्यवस्या ।
तद्वदत्रापि ।
अर्थातुसामर्थ्यात् विधेः कल्पना = व्यवस्थितार्थत्वकल्पना स्यात् एकदेशत्वातुसामर्थ्यकल्पितशब्दस्य विधिवाक्यैकदेशत्वादिति सूत्रार्थः ।
माधवे स्कान्दे–
यदा चन्द्रग्रहस्तावन्निशीथात् परतो भवेत् ।
भोक्तव्यं तत्र पूर्वाह्णे न मध्याह्ने कथञ्चन ॥
पूर्वं निशीथाह्न्रहणं यदा चन्द्रस्य वे भवेत् ।
तदा दिवा न कर्तव्यं भोजनं शिखिवाहन! ॥
इति ।
यच्च हेमाद्रिणा ब्रहनवैवर्त्ते–
चन्द्रसूर्यग्रहे नाद्यादाद्यं यामचतुष्टयम् ।
केचित्रितयमित्याहुर्मुनयो भृगुनन्दन! ॥
इति ।
तच्छक्ताशक्तपरतया व्यवस्थापनीयम् ।
ग्रस्तचन्द्रोदये नाहर्मोजनम् ।
ग्रस्तोदये विधोः पूर्वं नाहर्भोजनमाचरेत् ।
{म्व्-स्_११९}
इति वृद्धवशिष्ठोक्तेः ।
यत्तु–
सन्ध्याकाले यदा राहुर्ग्रसते शशिभास्करौ ।
तदा दिवा न भोक्तव्यमातुरस्त्रीशिशून्विना ॥
इति चन्द्रग्रहे ऽहर्भोजननिषेधकं तद् ग्रस्तोदयविषयम् ।
एकमूलकल्पनालाघवात् ।
अत्राप्यातुरादीनां पूर्ववदेव व्यवस्था ज्ञेया ।
द्वयोर्ग्रस्तास्ते–
शातातपः:
स्नात्वा दृष्ट्वा परे ऽह्नयद्याद्ग्रस्तास्तमितयोस्तयोः ।
इति ।
तयोः = चन्द्रसूर्ययोः ।
यत्तु–
अहोरात्रं तु नाश्नीयाच्चन्द्रसूर्यग्रहो यदा ।
मुक्ति दृष्ट्वा तु भुञ्जीत स्नानं कृत्वा विधानतः ॥
इति ।
तदपि ग्रस्तास्तविषयमेव ।
किन्तु चन्द्रग्रहे सा रात्रिस्तदुत्तरं दिनमित्यहोरात्रमिति द्रष्टव्यम् ।
अत्र दृशिरुदयलक्षणार्थः ।
ग्रस्तावेवास्तमानं तु रवीन्दू प्राप्नुतो यदि ।
तदा परेद्युरुदये स्नात्वाभ्यवहरेन्नरः ॥
इति भृगुणोदये भोजनोक्तेः ।
कालादर्शे ऽपि–
गार्ग्यः:
सन्ध्याकाले यदा राहुर्ग्रसते शशिभास्करौ ।
तदहर्नैव भुञ्जीत रात्रावपि कदाचन ॥
इति ।
अत्र कदाचनेति धारणपराणव्रतस्य पौर्णमास्यादितिथिनक्षत्रादिप्रयुक्तोपवासपारणस्य च निषेधार्थम् ।
उपरागकाले तद्वेधे च भोजने प्रायश्चित्तमुक्तं माधवीये–
कात्यायनेन:
चन्द्रसूर्यग्रहे भुत्त्का प्राजापत्येन शुध्यति ।
तस्मिन्नेव दिने भुत्र्त्का त्रिरात्रेण विशुध्यति ॥
इति ।
अत्र दिनग्रहणमुपरागातिरिक्तभोजननिषेधकालोपलक्षणम् ।
ग्रस्तास्तसमये भोजनं विना सर्वमाह्निकं कार्यम् ।
ग्रस्ते चास्तङ्गते त्विन्दौ ज्ञात्वा मुत्त्यवधारणम् ।
स्नानहोमादिकं कार्यं भृञ्जीतन्दूदये पुनः ॥
इति मदनरत्ने शातातपोक्तेः ।
अत्रेन्दुग्रहणमविवक्षितं ग्रस्तास्तमात्रेणोद्देश्यपर्यवसानात् ।
एवं च रवेरपि ग्रस्तास्ते प्रातःकालीनं स्नानादि कार्यम् ।
अत्रोपवासः काम्यो ब्रह्मपुराणे–
नित्यं द्वयोरयनयोस्तथा विषुवतोर्द्वयोः ।
चन्द्रार्कयोर्ग्रहणयोर्ब्यतीपातेषु पर्वसु ॥
{म्व्-स्_१२०}
अहोरात्रोषितः स्नानं श्राद्धं दानं तथा जपम् ।
यः करोति प्रसन्नात्मा तस्य स्यादक्षयं च तत् ॥
इति ।
लैङ्गे ऽपि–
एकरात्रिमुपोष्यैव स्नात्वा दत्त्वा च शक्तितः ।
कञ्चुकादिव सर्पस्य निवृत्तिः पापकोशतः ॥
इति ।
अत्रोपोषित इति निष्ठयोपोष्येति च पूर्वकालविहितप्रत्ययाच्च पूर्वेद्युरुपवास इति केचित् ।
अपरे त्वयनादिप्रायपाठात् क्तमादिकर्मणिल्यपं(*) च “मुखं व्यादाय स्वपितिऽ; इतिवत् समानकर्त्तृकतामात्रे ऽभिप्रेत्य तदहरेवोपवासमाहुः ।
(*) क्तम् क्तग्रत्ययमित्यर्थः ।
एतदेव युक्तम् ।
ग्रहणे ऽर्कस्य चेन्दोर्वा भुजिः पूर्वमुपोषितः ।
इति पुरश्चरणे पूर्वमुपवासविधानात् ।
अयं च पुत्रवद्गृहस्थभिन्नस्य ।
सङ्क्रान्त्यामुपवासं च कृष्णैकादशिवासरे ।
चन्द्रसूर्यग्रहे चैव न कुर्यात् पुत्रवान् गृही ॥
इति नारदेन पर्युदासोक्तेरिति ।
अत्रेदं वक्तव्यम् ।
नायं पर्युदासः ।
“न होतारं वृणीत"इतिवदेकवाक्यत्वाभावात् ।
(अ। १ पा। ८ अधि। २)प्रत्युत"न तौ पशौ करोति"इतिवदसन्निहितत्वाच्च ।
(अ। १ पा। ८ अधि। ३)भवतु वा पर्युदासस्तथापि सङ्क्रान्त्यादिप्रयुक्ते स्वतन्त्रोपवास एव युक्तः ।
अन्यथा शुक्लैकादश्यादावयनपात एकादश्युपवास उपरागे महादानाङ्गभूतोपवासे चान्द्रायणाद्युपवासे ऽपि पर्युदासः स्यात् ।
अङ्गत्वं चास्याहोरात्रोषित इतिकर्त्तृसंस्कारतयोपवासावगमात् ।
“यो दीक्षितो यदग्नीषोमीयं पशुमालभते"इत्यत्र पूर्वपक्षे दीक्षाया इव कर्त्तृसंस्कारद्वारा स्रानार्थत्वावगमात् ।
अत एवैकादशीप्रकरण उक्तं सङ्क्रान्त्यादावुपवासनिषेधस्तु तत्प्रयुक्तोपवासस्येति ।
अत एव पुरश्चरणाङ्गभृतमुपवासं पुत्रवन्तो ऽपि गृहस्था आचरन्तो दृश्यन्ते शिष्टा अविगोनन ।
तम्मादहोरात्रोषितः स्नात्वेत्याद्यङ्गभूत उपवासः पुत्रवद्गृ हस्थस्यापि भवत्येव ।
यस्त्वेकादश्यादाविव
एकरात्रमुपोष्यैव राहुं दृष्ट्वाक्षयं नरः ।
पुण्यमाप्नोति कृत्वा च स्नानश्राद्धं विधानतः ॥
इति मार्कण्डेयोक्तः स्वतन्त्रस्तत्प्रयुक्त उपवासस्तत्रैवास्य ।
पर्युदास इति ।
ग्रहणप्रयुक्तो भोजननिषेधस्त्वस्य कृष्णैकादश्यामिव भवत्येव बाधकाभावात् ।
एतच्च स्नानादि सर्वं चाक्षुष एवोपरागे ।
न त्वभ्रा दिच्छन्ने न चान्धानाम् ।
{म्व्-स्_१२१}
चन्द्रसूर्योपरागे तु यावद्दर्शनगोचरे ।
इति ।
राहुदर्शनदत्तं हि श्राद्धमाचन्द्रतारकम् ।
स्नानं दानं तपः श्राद्धमनन्तं राहुदर्शने ।
दृष्ट्वा स्नायादित्यादिनैमित्तिकविधिषु चाक्षुषज्ञानवाचिदृशेः प्रयोगात् ।
अन्यथा तदानर्थक्यात्
निमित्तोत्त्यैव ज्ञानमात्रलाभात् नैमित्तिके निमित्तनिश्चयवतो ऽधिकारात् ।
दर्शनं च स्नानादिकर्त्तृगतम्, क्त्वाश्रुतेः ।
यत्रापि"राहुदर्शन"इत्यादौ न त्त्त्काश्रुतिः किन्तु स्वपरसाधारणदर्शनमात्रवाची दृशिस्तत्रापि"एकत्र दृष्ट"इति न्यायेन कर्त्तृगतदर्शनलाभः ।
अत एव रात्रौ रेवर्दिने चन्द्रस्य ग्रहणे न स्नानादिप्राप्तिः ।
अत एव–
रात्रौ रविग्रहः स्याच्चेद्दिवा चन्दग्रहस्तथा ।
नदिश्यमुभयं राज्ञे यच्च शूक्ष्मतमं भवेत् ॥
इति ज्यौतिषिकाणामनादेश्यत्वोक्तिः ।
अन्यथा दृशेर्ज्ञानमात्रवाचित्वे देशान्तरीयोपरागे
स्नानादिप्रसङ्गो दुर्वारः स्वात् ।
“नादेश्यमुभयं राज्ञे"इत्यत्रानादेशवचनमदृर्ष्टाथकं स्यात् ।
मन्मते तु दृष्टार्थम् अयोग्यस्य राजनिवेदनमफलमित्यर्थसिद्धानादेश्यत्वानुवादात् ।
नच–
सूर्यग्रहो यदा रात्रौ दिवा चन्द्रग्रहस्तथा ।
तत्र स्नानं न कुर्वीत दद्याद्दानं च न क्वचित् ॥
इति वचनान्निवृत्तिरिति वाच्यम् ।
निषेधपर्युदासयोर्विकल्पलक्षणापत्तेः। तेन नित्यानुवादः सः ।
अथ दर्शनशब्देन चाक्षुषज्ञानविष्यत्वयोग्यता विवक्ष्यते तथा च न रात्रिदिनोपरागे ऽतिप्रसङ्गस्तथापि ग्रहणदेशीयचाक्षुषत्वेन देशान्तरीयाणामधिकारापत्तिः ।
समानकर्त्तृकत्वस्य परमते ऽविवक्षितत्वात् ।
न च यस्मिन् देशे यश्चन्द्रसूर्योपरागश्चाक्षुषज्ञानयोग्यः स तस्मिन् देशे उदितहोमे सूर्योदयवत् कर्मनिमित्तमिति वाच्यम् ।
अशाब्ददेशस्यावच्छेदकत्वकल्पनातः शाब्दस्य समानकर्तृकत्वस्य तदौचित्यात् ।
अथ समानकर्तृकचाक्षुषज्ञानविषयत्वयोग्यता विवक्ष्यते तर्हि तद्विषयतैवास्तु विशेषणत्वेन पूर्वोपस्थितेः किं योग्यतया जघन्योपस्थितया, तावतैव देशान्तरीयोपरागे ऽतिप्रसङ्गवारणात् ।
तस्माच्चाक्षुष एवोपरागे स्नानादि कार्यं नान्धादिभिरभ्रच्छने वोपरागैति प्राच्याः ।
त एवं वाच्याः ।
“दृष्ट्वा स्नायात्ऽ; इत्यत्र धातुसम्बन्धाधिकारविहितक्त्वाप्रत्ययेन दर्शनस्नानयोः “यावज्जीवमग्निहोत्रं जुहोतिऽ; इत्यत्र णमुला जीवनहोमयोरिव साक्षात्सम्बन्धः प्रतीयते ।
{म्व्-स्_१२२}
स न तावन्निमित्तत्वेन घटादिदर्शने ऽतिप्रसङ्गादार्त्तिवत् ।
(अ। ६ पा। ४ अधि। ६)न च"मृष्यामहे हविषा विशेषणम्"इतिन्यायेन हविषार्त्तिरिवोपरागेण दर्शनं विशेष्यत इतिवाच्यम् प्रतिवसन्तं सोमयागावृत्तिवत्"अमेध्यं दृष्ट्वा जपत्यवद्धं मन"इत्यमेध्यदर्शनावृत्तौ जपावृत्तिवच्च प्रतिदर्शनं स्नानाद्यावृत्तिप्रसङ्गात् ।
नोपरक्तमादित्यमीक्षेतेत्यनीक्षणव्रतपालयितॄणां बह्वायासस्नानादिभिया बुद्धिपूर्वं दर्शनमकुर्वतां दुष्टग्रहणमपश्यतां चानधिकारप्रसङ्गाच्च ।
किञ्च “नाशुची राहुतारकाऽ; इति अशुचेर्दर्शननिषेधान्न तस्य निमित्तता ।
अशुचित्वं च सर्वेषामुपरागकाले ।
ग्रहणे शावमाशौचं विमुक्तौ सौतिकं स्मृतम् ।
तयोः सम्पर्कमात्रेण उपस्पृश्य क्रियाक्रमः ॥
इति ब्रह्माण्डोक्तेः ।
नच निषेधस्य रागप्राप्तविषयत्वेनोपपत्तेर्न वैधे दर्शने प्रवृत्तिरिति वाच्यम् ।
निमित्तस्याविधेयत्वात् ।
ननु न ब्र्हनाण्डपुराणादुपरागस्वरूपणशुचित्वापादकं वक्तुं शक्यं देशान्तरीयोपरागेण देशान्तरीयाणामाशौचापत्तेः ।
किन्तु दर्शनमेव ।
सर्वेषामेव वर्णानां सूतकं राहुदर्शने ।
इतिवचनात् ।
ब्रह्माण्डवचनं तु सम्पर्कमात्रेणाशुचित्वं किमुत् तद्दर्शनेनेत्येवम्परम् अत एव मात्रच्प्रयोगाः ।
तथा चाशुचित्वास्यापि सानानादेरिव दर्शननिमित्तकत्वात् प्राक् दर्शनादशुचित्वाभावान्निषेधाप्रवृत्त्यास्ति दर्शनप्रसक्तिरिति स्यादेव निमित्ततेतिचेत् ।
तथापि जननमरणनिमित्ताशौचवतो दर्शननिषेधात् स्नानादावनधिकारस्य दुष्परिहरत्वात् ।
न चेष्टापत्तिः ।
चन्द्रसूर्यग्रहे स्नायात् सूतके मृतके ऽपि च ।
अस्नायी मृत्युमाप्यनोति स्नायी पापं न विन्दति ॥
इति लैङ्गवचनविरोधात् ।
ननु"नाशुची राहुतारका"इति आशौचसामान्ये निषिद्धस्यापि दर्शनस्य–
सूतके मृतके चैव न दोषो राहुदर्शने ।
इत्यनेन जननमरणाशौचे दर्शनप्रतिप्रसवदर्शनादाशौचे ऽपि अधिकाराविघात् इति चेत्, न ।
न ह्येतेन दर्शनं प्रतिप्रसूयते किन्तु तन्निमित्तं स्नानादि ।
तावदेव भवेच्छद्धिर्यावन्मुक्तिर्न दृस्यते ।
इति वाक्यशेषे कर्माधिकाररूपशुद्धिप्रतिपादनात् ।
एवं च जननाद्याशौचे निषेधप्रवृत्त्या दर्शनाप्रसक्तेर्न दोषो राहुदर्शने इत्यनुवादानुपपत्तिरनधिकारश्च पूर्वोक्त एव ।
न चाशौचिनौ दर्शननिषेधे ऽपि–
{म्व्-स्_१२३}
चन्द्रसूर्यग्रहे स्नायात् सूतके मृतके ऽपि च ।
इतिवचनादधिकारो भविष्यतीतिवाच्यम् ।
मेघच्छन्ने ऽप्यन्धादेरपि अशुचिनस्तदापत्तेः ।
शूद्रस्पर्शादिनाशुचेस्तादृशवचनाभावात्तदप्रसक्तेश्च देशान्तरीये ऽतिप्रसङ्गाच्च ।
तत्र समानदेशीयदर्शनयोग्यत्वादिना विशेषणे तत्र तत्रोपरागस्वरूप्सय निमित्तत्वावगतेः सर्वत्र ददेवास्तु किमर्धजरत्या ।
किञ्च क्वचिदुपराग स्य क्वचिद्दर्शनस्य निमित्तता श्रूयते तत्रावश्यम्भाविन्यन्यतरस्य निमित्तत्वे उपरागस्य दर्शनादर्शनयोरनुगतत्वेन नित्यस्य"य एतेन"इतिन्यायेन (अ। ५ पा। ३ अधि। १३ सू। ३७)निमित्तत्वं युक्तं न त्वनित्यस्य दर्शनस्य ।
अत एव"इडान्त आतिथ्य"इत्यत्र नित्यया पूर्वेडयैव तदन्तता नानित्ययोत्तरयेडयेत्युक्तम् ।
(अ। १ पा। ७ अदि। १३) किञ्च ग्रहणस्यासम्बन्धिकत्वान्निमित्तता युक्ता न तु दर्शनस्य ससम्बन्धिकस्य ।
उक्तं चैतदुत्तराधिकरणे उत्तराशब्दे ।
(९ पा। २ अधि। ५) किञ्चोपरागस्वरूपस्य निमित्तत्वे"न दोषो राहुदर्शने"इत्यनुवादानुपपत्तिः ।
न च प्रमादाद्बुद्धिपूर्वं वा निषेधातिक्रमात् सञ्जाते दर्शने नैमित्तिकं स्नानादि विधीयत इति वाच्यम् ।
निषेधातिक्रमजनितप्रत्यवायपरिहारस्योपायापेक्षत्वात् स्नानादेश्च प्रयोजनापेक्षत्वात् अश्वप्रतिग्रहेष्टिमन्त्रानुवचनयोः"न केशरिणो ददाति” (अ। ३ पा। ४ अधि। १४) “यूपं नोपस्पृशेत्” (अ। ९ पा। ३ अधि। ३) इति निषेधातिक्रमजनितप्रत्यवायपरिहारार्थत्ववत् स्नानादेरपि तदर्थत्वापत्तेः ।
तथाच निषधैकवाक्यत्वेन तदतिक्रम एव स्नानादिविद्यापत्त्योपरागसामान्ये स्नानादिविधिर्दुर्लभः स्यात् ।
ननु द्वितीयपूर्वपक्षे अश्वप्रतिग्रहेष्टेरर्थवादेन दोषनिर्घातार्थत्वावगमाद्दोषस्य च निषिद्धविषयत्वान्मन्त्रवचनस्य च"तस्मादूयूपो नोपस्पृश्य"इति प्रक्रम्य विधानाद्युक्तं प्रत्यवायपरिहारार्थत्वम् ।
इह तु निषेधमनारभ्य दर्शने निमित्तनैमित्तिकविधानान्निषेधैकवाक्यत्वाभावान्न तदतिक्रमजन्यप्रत्यवायपरिहारार्थता ।
किन्तु कथञ्चिदपि विधितो निषेधाभावाद्वा निषेधातिक्रमाद्वा प्रसक्तं दर्शनमनूद्य यो दर्शनवान् स स्नायदितिविधानात् सुलभतरः सामान्यविधिः स्यादिति चेत्, न ।
तथाप्यनतिक्रान्तनिषेधस्याशौचिनो ऽनधिकारस्य दुष्परिहरत्वात् ।
तथा च लैङ्गवचनविरोधः ।
तस्माद् यदि दर्शनमाशौचजनकं तत आशौचिनो ऽनधिकारः, यदि स्वरूपसन्नुपराग आशौ
चजनकस्ततः सर्वेषामनधिकारप्रसङ्गः ।
किं बहुना बुद्धिपूर्वकारी बलान्निमित्तं सम्पाद्य न को ऽपि दुःखाकरे स्नानादौ प्रवर्त्तेतेति सकलो विधिरप्रमाणीकृतः स्यात् ।
{म्व्-स्_१२४}
किञ्च सङ्क्रमे पूर्वोत्तरकालयोः पुण्यत्वम् उपरागे तु यावद्दर्शनविषयता तावदेव ।
चाक्षुषज्ञानविषयतासमकालं स्नानाद्यनुष्ठेयमित्यर्थः सम्पद्यते ।
न चैतत् सम्भवति दर्शनस्नानयोरूर्ध्वाधोमुखसाध्यत्वेन विरोधात् ।
न च दृशेर्भ्रमप्रमासाधारणत्वाज्जले प्रतिबिम्बभ्रमवतः स एवायं चन्द्र इति बिम्बप्रत्यभिज्ञाप्रमावतो वा स्नानाविरोध इति वाच्यम् ।
श्राद्धादिविरोधस्य दुष्परिहरत्वात् ।
“नोपरक्तं न वारिस्थम्"इति निषेधाच्च ।
अत एव नोपघाताग्निवद्दर्श नविशिष्ट उपरागो निमित्तं पूर्वोक्तदोषानतिवृत्तेः ।
विशिष्टोद्देशे वाक्यभेदाच्च ।
न चोद्देश्यविशेषणं दर्शनं विवक्षितं हविरुभयत्ववदवि वक्षितत्वात् ।
नन्वित्थं व्याकुलयतो दर्शनस्य मास्तु निमित्तत्वं किन्तु नीहारकर्त्तृकसन्ध्याहरणे दर्शनविशैष्टजपविधिवदुपराग एव निमित्ते दर्शनविशिष्टं स्नानादि तत्तद्वाक्यविहितस्नानाद्यनुवादेन दर्शनमात्रं वा विधीयते ।
निमित्तनिश्चयस्तु भवदिष्ट एवास्तु ।
नैमित्तिकस्वरूपालोचनेनैव चान्धोदिनिवृत्तिः एकैकाग्न्यादिनाश इवाग्न्याधानस्य भविष्यति ।
अथ वावगते ऽङ्गत्वे दृष्टार्थत्वादारुण्यस्यैकहायनीपरिच्छेदकतयेव दर्शनस्यैव निमित्तनिश्चयत्वेनाधिकारसम्पादनोपयोगिता भविष्यति, नोपरक्तमित्यादिनिषेधस्य वैधे ऽप्रवृत्तेर्नाशुची राहुतारका इति निषेधस्यै तन्मते दर्शनोत्तरं प्रवृत्तेः सर्वेषामधिकारो भविष्यतीति युक्तो ऽयं पन्था इति चेत्, न युक्तः ।
तत्र तावन्न दर्शनशब्दश्चाक्षुषज्ञानवचनः षड्दर्शनानि याज्ञिकदर्शनमित्यादेर्निश्चयमात्रे ऽप्यभियुक्तप्रयोगात् ।
“आत्मा वारे द्रष्टव्य"इति श्रुतेश्च ।
“स ईक्षाञ्चक्रे” “इक्षतेर्नोशब्दम्"इतीश्वरज्ञानस्य दृश्यर्थेक्षतिनाभिधानाच्च ।
ऐतरेये ऽपि-
ऋता वा यस्य रोदसी इति शंसति चक्षुर्वाक्षतं तस्माद्यतरो विवदमानयोराहाहमनुष्टया चक्षुषादर्शमिति तस्य श्रद्दधति ।
इत्यत्र चक्षुर्ग्रहणानर्थक्याच्च ।
अदर्शमित्येतावतैव चाक्षुषज्ञानलाभात् इत्थम्भूतलक्षणे तृतीयाविधानात् छात्रेणोपाध्यायमद्राक्षीदित्युदाहरणात् ।
तस्मात् ज्ञानमात्रमपि दृश्यर्थः ।
अत एव–
रजसो दर्शने नारी त्रिरात्रमशुचिर्भवेत् ।
इति धर्मशास्त्रम् ।
चाक्षुषप्रयोगप्राचुर्यं तु पूर्वपूर्वप्रयोगात् गोशब्दस्येव पशुगवि ।
अस्तु वा चाक्षुषज्ञानवाचिता तथापि न दर्शने विधिः सम्भवति तस्य पक्षप्राप्तत्वे ऽपूर्वविध्यसम्भवात्, अनेकोद्देशेन विधाने वाक्यभेदाच्च ।
अथ दर्शननियमविशिष्टस्नानादि विधीयत इति मतम्, तथापि नान्धादिनिवृत्तिः सुवचा ।
{म्व्-स्_१२५}
तान् प्रत्यपि नैमित्तिकविधिप्रवृत्तेः ।
न हि काम्य इव नैमित्तिकेषु सर्वाङ्गोपसंहारः निमित्तत्वव्याघातात् ।
तदेव हि निमित्तं यत् स्वसत्तायामवश्यमनुष्ठापयति ।
अननुष्ठापकस्य निमित्तत्वानुपपत्तेः ।
न हि सर्वदा सर्वः साङ्गमनुष्ठातुं समर्थः ।
तस्मात् किञ्चिदङ्गहानेनापि नैमित्तिकाधिकारादन्धादीनां मेघच्छन्ने वा दर्शनरूपाङ्गलोपे ऽपि स्नानाद्यधिकारो दुर्निर्वारः ।
अत एव न नैमित्तिकानुरोधेन निमित्तसङ्कोचः निमित्तश्रुतिव्याघातात् ।
“यस्योभावग्नी” (अ। ६ पा। ४ अधि। ८) इत्यत्र तु अग्न्यनुगमनमात्रस्य निमित्तत्वे उभयाग्निनिष्पादकतया कॢप्तस्याग्न्याधेयस्यैकैकाग्निजननसामर्थ्याभावेन प्रधानस्यैव विध्ययोगादाख्यातासमानाधिकरणसुबन्तस्य च व्यवहितपरामर्शकत्वेन प्रकरणान्तराभावेन कर्मभेदाभावादगत्या निमित्तसङ्कोचः ।
न चेह प्रधानभूतस्नानादिनान्धादेर्विरोधो येन तदतिरिक्तविषयता कल्प्येत ।
न चैवमन्धादेरप्याधानाधिकारः स्यादिति वाच्यम् ।
तस्य स्वरूपतो नित्यत्वाभावात्तथात्वे वेष्टापत्तेः ।
व्युत्पादितं चैतद्भट्टसोमेश्बरेण ।
किञ्च प्रतिप्रधानन्यायेन स्नानश्राद्धाद्यर्थं दर्शनावृत्तिप्रसङ्गः ।
उपरागमहाकालैक्ये ऽपि द्व्यहकालाम्नातसाकमेधावयवानामनीकवत्यादीनां प्रातरादिकालेषु साङ्गप्रयोगविधिवत्"ग्रस्यमाने भवेत् स्नानं"इत्यादिकालभेदभिन्नस्नानादिप्रयोगविधिपरिगृहीतत्वात् ।
न चाधानयूपन्यायेन तन्त्रता ।
“वसन्ते ब्राह्मणो ऽग्नीनादधीत” “दीक्षासु यूपं छिनत्ति"इतिवत् (अ। ११ पा। ३ अधि। ३)स्वतन्त्रकालानाम्नानात् ।
न च यूपाहुतिवत्तन्त्रं (अ। ११ पा। २ अधि। ७) “यूपस्यान्तिके ऽग्निं मथित्वा यूपाहुतिं जुहोति"इत्यत्र यूपैकादशिन्यामन्तिकदेशैक्येन तथा, इह तु प्रधानदेशभेदाद्वैषम्यम् ।
न च स्वरुन्यायः ।
(अ। ११ पा। ३ अधि ५) तत्र यूपस्य तन्त्रत्वेन तदनुनिष्पादिप्रथमशकलस्यैकत्वात् तद्रूपत्वात् स्वरोस्तन्त्रता युक्ता ।
इह तु न तथा हेत्वभावात् ।
तस्मादावृत्तिर्दुष्परिहरा ।
न च दर्शनस्य स्नानमात्राङ्गत्वाच्छ्राद्धादौ च तदुत्तरकालत्वस्य स्नानोत्तरत्वेनार्थसिद्धत्वादनावृत्तिरिति वाच्यम् ।
स्नानं दानं तपः श्राद्धमनन्तं राहुदर्शने ।
इति श्राद्धाद्यङ्गत्वावगमात् ।
ननु दर्शनस्य निमित्तनिश्चयत्वेनाधिकारसम्पादनोपयोगितयाङ्गत्वात् सकृद्दर्शने ऽपि तन्निश्चयस्य जातत्वादनावृत्तिरितिचेत्, न, ।
अनुष्ठानकालीनस्य निमित्तनिस्चयस्यापोक्षितत्वादनुष्ठेयार्थस्मरणवत् ।
अन्यथा मध्याह्नकालीनजीवनवतो ऽप्यग्निहोत्राधिकारापत्तेः ।
{म्व्-स्_१२६}
अथ तत्र सायङ्कालावच्छिन्नजीवननिश्चयवतो ऽधिकारस्तदा प्रकृते ऽपि ग्रस्यमानादिकालावच्छिन्नोपरागदर्शनवतः स्नानादावधिकार इति तुल्यः ।
किञ्च स्फयस्य भक्ताश्लेषनिमित्तेज्यायां पूर्वकर्तव्यावाहन इव ज्योतिःशास्त्रादिना प्रयत्नानपनेयप्रतिबन्धकराहित्यरूपयोग्यताया अनिश्चयात्तद्विशिष्ट दर्शननिश्चयाभावादुपरागपूर्वकालकर्तव्यमहादानाङ्गभूताधिवासनादौ त्रिरात्रोपवासादौ च निष्कम्पं न को ऽपि प्रवर्त्तेत ।
किञ्च दर्शनस्य निमित्तत्वे उपरागे स्नायादित्यादौ उपरागादिपदे दर्शनलक्षणाप्रसङ्गः ।
उपरागस्य निमित्तत्वे दर्शने ऽपि सा तुल्यैवेतिचेत्, सत्यम् ।
राहुदर्शने स्नायादिति सप्तमीयुक्तवाक्येषु"यस्य च भावेन भावलक्षणम्” (२ । ३ । ३७) इति भावलक्षणविहितसप्तम्या “गोषु दुह्यमानासु गतऽ; इत्यत्र दोहनस्य गमनकाललक्षकत्ववत् दृशेः काललक्षणार्थत्वावश्यम्भावात्तत्काले च स्नानादेः कर्तुमशक्यत्वात्"सकृत्प्रवृत्ताया"इतिन्यायेन योग्यतालक्षणाया अपि तत्रैव उचितत्वात् ।
यस्य गोर्भावेन दोहनक्रियारूपधात्वर्थेन भावस्य गमनस्य लक्षणमुपलक्षणं गमनपरिच्छेदकालादिप्रतिपादनं तत्र सप्तमी स्यादिति सूत्रार्थः ।
अत एव सप्तम्यन्तदृशियुक्तेषु न दर्शनविधिः प्रसिद्धस्य लक्षणत्वादप्रसिद्धस्य तदयोगात् अभिशब्दादिवद्भावलक्षणविहितसप्तम्या विधिशक्तिप्रतिबन्धात् ।
एवं च क्त्वान्तेष्वप्युपरागदर्शनपदयुक्तवाक्यकॢप्तन्यायेन योग्यताविशिष्टोपरागलक्षणा सुलभा एकमूलकल्पनालाघवात् ।
किञ्च न क्त्वान्तेषु दर्शनविधिः क्त्वो ऽविधायकत्वात्स्नात्यादेः परस्य तु विधेः स्नानादिविधायकत्वाद्विशिष्टविधौ च लक्षणा पत्तेरार्थिकानेकदर्शनत्दुत्तरकालत्वसमानकर्त्तृकत्वविध्यन्तरकल्पनापत्तेश्च ।
उपरागलक्षणायां तु लक्षणैव केवला ।
निमित्तबलादेवोत्तरकालत्वादिलाभात् ।
ततश्चायमर्थः, अनुवादस्यात्यन्तानर्थक्यपरिहाराय–
सूर्यग्रहो यदा रात्रौ दिवा चन्द्रग्रहस्तथा ।
तत्र स्नानं न कुर्वीत दद्याद्दानं न च क्वचित् ॥
इतिदेशान्तरीयोपरागस्य पर्युदासात् समाने देशे चाक्षुषत्वयोग्यमुपरागं शास्त्रतो ज्ञात्वा तत्तत्काले स्नानादि कुर्यादिति ।
जन्मराश्यादौ ग्रहणे दोषस्तत्र च शान्तिकानि शान्तिप्रकाशे द्रष्टव्यानि ।
अत्र मन्त्रदीक्षाग्रहणे
मासर्क्षादि न शोध्यम् ।
सत्तीर्थे ऽर्कविधुग्रासे तन्तुदामनपर्वणोः ।
मन्त्रदीक्षां प्रकुर्वाणो मासर्क्षादीन्न शोधयेत् ॥
चन्द्रसूर्यग्रहे तीर्थे सिद्धक्षेत्रे शिवालये ।
मन्त्रमात्रप्रकथनमुपदेशः स उच्यते ॥
{म्व्-स्_१२७}
इति सारसङ्ग्रहादौ वचनात् ।
अत्र पुरश्चरणविधिः पुरश्चरणचान्द्रिकायाम्–
ग्रहणे ऽर्कस्य चेन्दोर्वा शुचिः पूर्वमुपोषितः ।
तथा समुद्रगामिन्या नाभिमात्रे जले स्थितः ॥
यद्वा पुण्योदके स्नात्वा शुचिः पूर्वमुपोषितः ।
ग्रहणादिविमोक्षान्तं जपेन्मत्रं समाहितः ॥
अनन्तरं दशांशेन क्रमाद्धोमादिकं चरेत् ।
तदन्ते महतीं पूजां कुर्याद्ब्राह्मणतर्पणम् ॥
ततो मन्त्रप्रसिद्ध्यर्थं गुरुं सम्पूज्य तोषयेत् ।
एवं च मन्त्रसिद्धिः स्याद्देवता च प्रसीदति ॥
इति ।
तत्रैव-
होमाशक्तौ जपं कुर्याद्धोमसङ्ख्याचतुर्गुणम् ।
षड्गुणं चाष्टगुणितं यथासङ्ख्यं द्विजातयः ॥
होमस्थानापन्नो जपो होमकाल एव स्थानापत्तेर्धर्मलाभात् ।
ग्रहणादिमोक्षान्तकालपरिच्छिन्नस्य जपस्य चातुर्गुण्यविधानात्तस्य च तत्रासम्भवाच्च ।
पुरश्चरणं च न ग्रस्तोदये ग्रस्तास्ते च भवति ।
स्पर्शादिमोक्षपर्यन्तत्वासिद्धेः ।
स्पर्शमोक्षयोश्च दर्शनयोग्ययोरेव प्रयोजकत्वात् ।
“यावद्दर्शनगोचर"इति वचनात् ।
अत एव नश्राद्धाद्यपि पुरश्चरणानुष्ठातॄणा भवति काम्येन नित्यस्य बाधाच्चेति कश्चित् ।
वस्तुतस्तु काम्यविधेः श्राद्धाद्यनधिकारिणं प्रत्यपि चरितार्थत्वान्न नित्यबाधकत्वम् ।
गोदोहनोक्थ्यादेस्तु प्रणयनज्योतिष्टोमाश्रितत्वाच्चमसाग्निष्टोमसंस्थाबाधं विना निवेशासम्भवाद्वाधकतेति वैषम्यम् ।
अत्र मङ्गलकृत्ये कालनिषेधो हेमाद्रौ–
त्रयोदश्यादिकं वर्ज्यं दिनानां नवकं ध्रुवम् ।
मङ्गल्येषु समस्तेषु ग्रहणे चन्द्रसूर्ययोः ॥
तथा–
द्वादश्यादितृतीयान्तो वेध इन्दुग्रहे स्मृतः ।
एकादश्यादिकः सौरे चतुर्थ्यन्तः प्रकीर्त्तितः ॥
इति ।
अयं चावश्यकानवश्यककार्यविषयतया व्यवस्थापनीयः ।
इति ग्रहणकालनिर्णयः ।
अथैकभक्तनिर्णयः ।
तत्स्वरूपं चोक्तं स्कन्दपुराणे–
दिनार्धसमये ऽतीते भुज्यते नियमेन यत् ।
एकभक्तमिति प्रोक्तमतस्तत्स्याद्दिवैव हि ॥
{म्व्-स्_१२८}
अत्र एकभक्तमितियौगिकेन नाम्ना द्वितीयभोजननिवृत्तिः ।
नियमेनेति सामान्यतो विहितव्रतधर्मप्राप्त्यर्थम् ।
तेन द्वितीयभोजनाभावसहकृतं दिवाभोजनम् एकभक्तशब्दार्थः ।
अत्र विशेषमाह–
देवलः:
दिनार्द्धसमये ऽतीते भुज्यते नियमेन यत् ।
एकभक्तं तु तत्प्रोक्तं न्यूनं ग्रासत्रयेण तु ॥
इति ।
अस्य च मध्याह्नो मुख्यः कालः ।
मध्याह्नव्यापिनी ग्राह्या एकभक्ते सदा तिथिः ॥
इति पाद्मोक्तेः ।
सो ऽपि न सम्पूर्णः ।
किन्तु दिनार्द्धेत्तरसमय एव"दिनार्द्धसमये ऽतीते"इतिवचनात् ।
मध्याह्नो ऽत्र त्रेधाविभागेनेतिहेमाद्रिः पञ्चधाविभागेनेति तु माधवः ।
अन्येतु विनिगमनाविरहात् पञ्चधात्रेधाविभागान्यतरविभागेनावर्तनोत्तरकालो मुख्यकाल इत्याहुः ।
गौणकालस्तु ततो ऽस्तमयावधि दिवैवेत्यभ्यनुज्ञानात् ।
तत्र दिनद्वये तद्व्याप्तो तदस्पर्शे वा पूर्वैव ।
गौणकालव्याप्तेः सत्त्वात् ।
मुख्यकालास्पर्शे ऽपि चैकभक्तानुष्ठानं मुख्यकाल एव–
तिथ्यादिषु भवेद्यावान् ह्रासो वृद्धिः परे ऽहनि ।
तावान् ग्राह्यः स पूर्वेद्युरदृष्टो ऽपि स्वकर्मसु ॥
इति हेमाद्रिधृतवचनात् ।
पूर्वेद्युः पूर्वतिथ्यादिषु ।
क्षयवृद्धिसाम्यानि च सर्वत्र षष्ठिघटिकापेक्षया न तु पूर्वतिथ्याद्यपेक्षयेति केचित् ।
हेमाद्रिस्तु दिनद्वये कर्मकालव्याप्तौ युग्मवाक्यान्निर्णयः ।
द्वितीयादिकयुग्माना पूज्यतानियमादिषु ।
एकोद्दिष्टादिवृद्ध्यादौ द्वासव्द्ध्यादिचोदना ॥
इतिवचनेन नियमादिष्वित्यादिशब्देनेकभक्तोपादानादेकभक्ते ऽपि युग्मवाक्यप्रवृत्तेर्वक्तुं शक्यत्वात् ।
अस्पर्शैकदशसमव्याप्त्योस्तु गौणकालव्याप्त्या निर्णय इत्याह ।
तन्न ।
अर्द्धजरतीयतापत्तः ।
न चायं युग्मवाक्यस्य विषयः ।
कालशास्त्रस्य प्राबल्यात् ।
यथा हि मुख्यकालव्याप्त्यनुरोधेन निर्णयः सम्भवति न युग्मवाक्यादरः ।
एवं गौणकालव्याप्तयापि ।
अन्यथा हि–
खकालादुत्तरः कालो गौणः पूर्वस्य कर्मणः ।
इति सामानय्वाक्यादेव गौणकालप्राप्तो पुनरेकभक्ते तद्विधानानर्थक्यापत्तेः ।
तेन यत्र विशिष्य गौणकालविधिस्तत्र तद्व्याप्त्यापि निर्णय इति सिद्धम् ।
अन्याङ्गभूतमेकभक्तं तत् प्रधाने निर्णीतायां तिथौ मध्याह्ने कार्यम् ।
प्रधानं मध्याह्नकालिकं तत्रैकभक्तं गौणकाले ऽपि कार्यम् ।
{म्व्-स्_१२९}
“अङ्गणगुविरोधे च तादर्थ्यत्"इतिन्यायात् ।
(अ। १२ पा। २ अधि। ९ सू। २५) अत एव यत्र
प्रधानं सायाह्नादिकालिकं तत्र रात्रावप्येकभक्तानुष्ठानमविरुद्धम् ।
यत्तूपवासप्रतिनिधिभूतमेकभक्तं तत् तद्योग्यतिथौ मध्याह्ने कार्यम् ।
इत्येकभक्तनिर्णयः ।
अथ नक्तनिर्णयः ।
तच्च दिवाभोजनाभावविशिष्टरात्रिभोजनरूपम् ।
केचित्तु न नक्तस्य भोजनरूपत्वनियमः ।
किन्तु प्रायिकं तस्य भोजनरूपत्वम् ।
अत एव नवरात्रव्रतस्यापि नक्तव्रतत्वं माधवाद्युक्तं सङ्गच्छत इत्याहुः ।
तत्र च प्रदोषव्यापिनी प्राह्या ।
प्रदोषव्यपिनी ग्राह्या तिथिर्नक्तव्रते सदा ।
इति वत्सवचनात् ।
प्रदोषश्च सूर्यास्तोत्तरत्रिमुहूर्तात्मकः ।
त्रिमुहूर्तः प्रदोषः स्याद्भानावस्तं गते सति ।
नक्तं तत्र प्रकुर्वीत इति शास्त्रविनिश्चयः ॥
इति व्यासोक्तेः ।
यस्तु–
यदा तु द्विगुणा च्छायां कुर्वंस्तपति भास्करः ।
तत्र नक्तं विजानीयान्न नक्तं निशि भोजनम् ॥
इति सौरधर्मादिषु दिनान्त्यमुहूर्तात्मकौ द्विगुणच्छायोपलक्षितः कालो विहितः स गौणः ।
मुहूर्तोनं दिनं नक्तं प्रवदन्ति मनीषिणः ।
नक्षत्रदर्शनान्नक्तमहं मन्ये गणादिप! ॥
इति भविष्यवचने नक्षत्रदर्शनरूपकालस्य स्वसम्मतत्वेन मुख्यत्वप्रतीतेः ।
अन्तिममुहूर्त पूर्वभाविमुहूर्तन्द्वयं च गौणतरः कालः ।
प्रदोषब्यापिनी यत्र त्रिमुहूर्ता दिवा यदि ।
तदा नक्तव्रतं कुर्यात् ।
इति कौर्मोक्तेः ।
एतस्यापि गौणत्वं पूर्वोक्तयुक्तेरेव ।
गौणतरत्वं तु मुख्यकालविप्रकर्षात् ।
मुख्यकाले ऽपि आद्यमुहूर्तद्वयं मुख्यतरम् ।
निशानक्तं तु विज्ञेयं यामार्द्धे प्रथमे सदा ।
इति वचनात् ।
यस्तु–
चत्वारीमानि कर्माणि सन्ध्यायां परिवर्जयेत् ।
आहारं मैथुनं निद्रां स्वाध्यायं च चतुर्थकम् ॥
इति सन्ध्यायां भोजननिषेधस्तत्र सन्ध्याशब्दो नक्षत्रदर्शनपर्यन्तकालपरः ।
{म्व्-स्_१३०}
नक्षत्रदर्शनात् सन्ध्या सायं तत्परतः स्थितम् ।
इति वचनान्तरैकवाक्यत्वात् ।
सायं सन्ध्या त्रिघटिका अस्तादुपरि भास्वतः ।
इति घटिकात्रये ऽपि सन्ध्याशब्दः स सन्ध्यागर्जितादौ बोध्यः ।
अन्ये तु निषेधस्य रागप्राप्तभोजनविषयत्वान्नक्तभोजनस्य विहितत्वान्न निषेधविषयत्वम् ।
अत एव रविवारादिप्रयुक्तरात्रिभोजननिषेधे सत्यपि तत्र नक्तानुष्ठानमुक्तं हेमाद्रिप्रभृतिभिः ।
अतश्च त्रिघटिकात्मकसन्द्यायामपि नक्तं कार्यमेवेत्याहुः ।
वस्तुतस्तु विधिनिषेधयोरविरोधात् त्रिधटिकोत्तरमेव नक्तं कार्यं मुख्यकाललाभात् ।
अन्यथा"न केसरिणोददाति"इत्यस्यापि विहिताश्वदाने ऽप्रवृत्तेरश्वानामपि"तस्य द्वादशशतं"इत्यत्र तस्येति तच्छब्देन परामर्षात् द्वादशशतापत्तिः ।
पर्वरविवारादौ विधिनिषेधयोर्विरोधात्तथैव युक्तम् ।
यत्तु–
ये त्वादित्यदिने ब्रह्मन्नक्तं कुर्वन्ति मानवाः ।
दिनान्ते ते ऽपि भुञ्जीरन्निषेधाद्रात्रिभोजने ॥
इति भविष्यपुराणवचनं तद् भानुसप्तम्यादिविहितसौरनक्तविषयम् ।
त्रिमुहूर्तस्पृगेवाह्नि निशि चैतावती तिथिः ।
तस्यां सौरं चरेन्नक्तमहन्येव तु भोजनम् ॥
इतिसुमन्तुना एवकारेण सौरनक्ते सामान्यतः प्राप्तरात्रिभोजनस्य निषेधात् ।
माधवस्तु"ये त्वादित्यदिन"इति वाक्यादादित्यवारादौ दिवैव गौणकाले नक्तमित्याह ।
एवं यतिविधवाधिकारिकमपि नक्तं दिवैव कार्यम् ।
नक्तं निशाया कुर्वीत गृहस्थो विधिसंयुतः ।
यतिश्च विधवा चैव कुर्यात् तत् सदिवाकरम् ॥
इति वचनात् ।
तदेवं गृहस्थानां प्रदोष एव मुख्यो नक्तकालः ।
तत्र दिनद्वये मुख्यकालव्यापित्वे तदस्पर्शे वा परा ।
गौणकाललाभात् ।
अस्पर्श च नैकभक्तवन्मुख्यकाले भोजनं किन्तु सायाह्न एव ।
प्रदोषे यदि न स्याच्चेद्दिवानक्तं विधीयते ।
आत्मनो द्विगुणा च्छाया मन्दीभवति भास्करे ॥
तन्नक्तं नक्तमित्याहुर्न नक्तं निशि भोजनम् ।
एवं ज्ञात्वा ततो विद्वान् सायाह्ने तु भुजिक्रियाम् ॥
कुर्यान्नक्तव्रती नक्तं फलं भवति निश्चितम् ।
इतिस्कान्दोक्तेः ।
एवं सौरयतिनक्ते ऽपि सायाह्नस्य मुख्यकालत्वात्तद्व्यापिनी ग्राह्या ।
{म्व्-स्_१३१}
दिनद्वये तद्व्याप्तौ तदस्पर्शे वा पूर्वैव ।
तत्र सायान्हरूपस्य मुख्यस्य प्रदोषरूपस्य च गौणस्य कालस्य सत्त्वात् ।
अयं च निर्णयो न भोजनरूप एव नक्ते किन्तु पूजादिरूपे ऽपि द्रष्टव्यः ।
न्यायाविशेषात् ।
अन्याङ्ग उपवासप्रतिनिधौ वा नक्ते तु एकभक्तवदेव निर्णयः ।
इति नक्तनिर्णयः ।
अथ नक्तैकभक्तसन्निपाते निर्णयः ।
तत्र यदेकभक्तनक्तादिविरुद्धं तिथिद्वयप्रयुक्तमेकस्मिन् दिने प्राप्नोति तत्र पूर्वप्रारब्धयोर्द्वयोः पूर्वतिथिप्रयुक्तमनुपसञ्जातविरोधित्वान्मुख्यकल्पेन कार्यम्, इतरत्तु अनुकल्पयेत् ।
इदं च यद्युत्तरदिने द्वितीयगौणकालो न लभ्यते तदा ।
तल्लाभे तु तत्रैव ।
कालस्यात्यन्तबाधाभावे कर्त्रनुरोधस्यापि न्याय्यत्वात् ।
इति नक्तैकभक्तादिसन्निपाते निर्णयः ।
अथायाचितनिर्णयः ।
तच्च याच्ञाराहित्येन लब्धस्य सकृद्भोजनम् ।
अन्ये तु याच्ञाबर्जनसङ्कल्प एवायाचितमित्याहुः ।
तस्य चोपवासवदहोरात्रसाध्यत्वात्तदुभययोगिनी तिथिर्ग्राह्या ।
अन्यतरत्र सत्त्वे त्वहर्व्यापिनी ग्राह्या ।
“अहःसु तिथयः पुण्या"इत्यादिजावालिवचनात् ।
अयाचितान्नभोजनं तु यदैव लभ्यते तदैव दिवा
रात्रौ वानिषिद्धकाले सकृदेव कार्यम् ।
अलाभे तु न कापि क्षतिः ।
इत्ययाचितनिर्णयः ।
अथ नक्षत्रोपवासनिर्णयः ।
तच्चास्तमयसम्बन्धि ग्राह्यम् ।
उपोषितव्यं येनास्तं याति चैव तु भास्करः ।
यत्र वा युज्यते राम! निशीथः शशिना सह ॥
इतिविष्णुधर्मोत्तरात् ।
दिनद्वये ऽस्तमयसम्बन्धे वा पूर्वमेव निशीथव्याप्तेः सत्त्वात् ।
इति नक्षत्रोपवासनिर्णयः ।
अथ सङ्क्रान्तिनिर्णयः ।
तत्र सङ्क्रमस्वरूपं तावत् रविबिम्बमध्यपरमाणोर्मेषादिराश्याद्य परमाणाश्चे सम्बन्धः ।
सच ज्योतिःशात्रे प्रसिद्धः ।
{म्व्-स्_१३२}
अतश्च राशीनां द्वादशत्वात्ते ऽपि द्वादश भवन्ति ।
तथा च–
देवीपुराणे–
द्वादशैव समाख्याताः समाः सङ्क्रान्तिकल्पनाः ।
कल्पना = भेदाः ।
ते च सङ्क्रान्तिसामान्यनिमित्तकेषु विधिप्रतिषधेषु समाः साधारणा इत्यर्थः ।
माघवीये तु समा सङ्क्रान्तिकल्पनेति पाठः ।
तदा समा वर्षम् एकैकवर्षसम्बन्धिन्य इत्यर्थः ।
मलमासाधिक्ये ऽपि सङ्क्रान्त्यो द्वादशैवेत्येवमर्थमेवकारः ।
एतासां च पुण्यकालविशेष प्रतिपादनार्थमवान्तरसञ्ज्ञा वसिष्ठेनोक्ताः ।
अयने द्वे विषुवे द्वेचतस्रः षडशीतयः ।
चतस्रो विष्णुपद्यश्च सङ्क्रान्त्यो द्वादश स्मृताः ॥
झषकर्कटसङ्क्रान्ती द्वे उदग्ददक्षिणायने ।
विषुवे तु तुलामेषौ तयोर्मध्ये ततो ऽपराः ॥
वृषदृश्चिककुम्भेषु सिंहे चैव यदा रविः ।
एतद्विष्णुपदं नाम विषुवादधिकं फले ॥
कन्यायां मिथुने मीने धनुष्यपि रवेर्गतिः ।
षडशीतिमुखी प्रोक्ता षडशीतिगुणा फले ॥
झषो मकरः ।
तयोः अयनविषुवतोर्मध्ये ।
अपराः षडशीतिविष्णुपद्यः ।
कालादर्शादौ तु गोलमध्ये ततो ऽपरेतिपाठः ।
गोलं च विषुवायनाभ्यां युक्तं राशिचक्रं तन्मध्ये ऽपरा इत्यर्थः ।
अयं च निष्कृष्टो ऽर्थः ।
कर्कमकरयोः क्रमेण दक्षिणायनोत्तरायण इति सञ्ज्ञा, तुलामेषयोर्विषुव इति, वृषवृश्चिककुम्भसिंहेषु विष्णुपदमिति, कन्यामिथुनधनुर्मीनेषु षडशीतिमुखमिति ।
एता एव च वारभेदेन (नक्षत्रभेदेन) च जाताः प्रत्येकं सप्तसञ्ज्ञा भवन्ति ।
तथाच–
देवीपुराणे:
सूर्ये घोरा विधौ द्वाङ्क्षी भौमे चैव महोदरी ।
बुधे मन्दाकिनी नाम मन्दा सुरपुरोहिते ॥
मिश्रिता शुक्रवारे स्याद्राक्षसी च शनैश्चरे ।
मन्दा ध्रुवेषु विज्ञेया मृदौ मन्दाकिनी तथा ॥
क्षिप्रे ध्याङ्क्षीं विजानीयादुग्रे घोरा प्रकीर्त्तिन्ता ।
चरैर्महोदरी ज्ञेया क्रूरै ऋक्षैस्तु राक्षसी ॥
मिश्रिता चैव निर्द्दिष्टा मिश्रितैर्यदि सङ्क्रमः ॥
इति ।
ध्रुवाणि = उत्तरात्रयं रोहिणी च ।
मृदूनि = अनुराधाचित्रारेवतीमृगशीर्षाणि ।
क्षिप्राणि = अभिजिद्धस्ताश्विनीपुष्याः ।
उग्राणि = पूर्वात्रयं भरणी मघा च ।
{म्व्-स्_१३३}
चराणि = पुनर्वसुश्रवणधनिष्ठास्वातीशतभिषाः ।
क्रूराणि = मूलज्येष्ठार्द्राश्लेषाः ।
मिश्राणि = कृत्तिकाविशाखा च ।
एतत्सञ्ज्ञाप्रयुक्तः पुण्यकालविशेषस्तु वक्ष्यते ।
अत्र च रविबिम्बमध्यपरमाणोर्मेषादिराश्याद्यपरमाणुसंयोगस्यातिसूक्ष्मकालीनत्वेन दुर्ज्ञेयत्वात्तत्रैकस्यापि विहितस्य स्नानादिकर्मणो ऽनुष्ठातुमशक्यत्वेन बहूनां सुतरामशक्यत्वात् ।
सन्निहितकाल अनुष्ठानमर्थसिद्धं यथा सन्धिकालविहितयोर्दर्शपूर्णमासयोः सन्धावनुष्ठातुमशक्यत्वेन सन्निहितकाले करणम् ।
स च सन्निहितकालः किमुभयतः किंवान्यतरतः कियांश्चेत्यपेक्षायाम्–
देवलः:
सङ्क्रान्तिसमयः सूक्ष्मो दुर्ज्ञेयः पिशितेक्षणैः ।
तद्योगाच्चाप्यधश्चोर्द्धं त्रिंशन्नाड्यः पवित्रिताः ॥
तद्योगातुसङ्क्रान्तियुक्तात्सूक्ष्मकालादध उर्ध्वं च मिलित्वा त्रिंशन्नाड्यो ऽत्र शास्त्रकारैः पावित्रिताः स्नानाद्यनुष्ठानयोग्याः कृता इत्यर्थः ।
इदं च उभयतः पञ्चदशघटिकापुण्यत्ववचनं रविबिम्बपरिमाणानां ज्योतिः–शास्त्रे मतभेदेन भिन्नत्वाद्यन्मते स्पष्टभुक्त्यर्द्धं रविबिम्बं तन्मताभिप्रायेण द्रष्टव्यम् ।
एतन्मते सूक्ष्मकालात्पूर्वाम्पञ्चदशभिर्घटिकाभी रविबिम्बपूर्वभागस्य मेषादिराशिचक्रानुप्रवेशः ।
तदुत्तरकालं च तावतीभिरेव घटिकाबिरुत्तरभागस्यापि मेषादिराशिचक्रानुप्रवेशो ज्योतिःशास्त्रे ग्रसिद्धः ।
अयमेव च भोग इत्युच्यते ।
तथा च–
देवीपुराणे:
अतीतानागतो भोगो नाड्यः पञ्चदश स्मृताः ।
इति ।
यानि तु–
अर्वाक् षोडश विज्ञेया नाड्यः पश्चाच्च षोडश ।
कालः पुण्यो ऽर्कसङ्क्रान्तेर्विद्वद्भिः परिकीर्त्तितः ॥
तथा:
नाड्यः षोडश पूर्वेण सङ्क्रान्तेरुत्तरेण च ।
राहोर्दर्शनमात्रण पुण्यकालः प्रकीर्त्तितः ॥
तथा:
सङ्क्रान्तौ पुण्यकालस्तु षोडशोभयतः कलाः ।
इत्यादीनि शातातपमरीचिजाबालिवाक्यानि तानि यन्मते निजपञ्चदशांशयुक्तभुक्त्यर्थं रविबिम्बं तन्मताभिप्रायेण व्याख्येयानि ।
अतश्च बिम्बपरिमाणभेदेन षोडश पञ्चदश वा घटिका उभयतः प्रत्येकं पुण्यकाल इति सिद्धम् ।
हेमाद्रिरत्नाकरादिसम्मतो ऽप्ययमर्थः ।
{म्व्-स्_१३४}
माधवमदनरत्नादयस्तु–
तद्योगाच्चाप्यधश्चोर्द्धं त्रिंशन्नाड्यः प्रकीर्त्तिताः ।
इति देवलवचनात् सङ्क्रान्तिकालात् पूर्वं त्रिंशन्नाड्यः पुण्याः पश्चाच्च त्रिंशन्नाड्यः पुण्याः ।
यानि
तु पूर्वोक्तषोडशपञ्चदशघटिकापुण्यत्वप्रतिपादकानि वचनानि तानि पुण्याधिक्यप्रतिपादनार्थानीत्याहुः ।
इदं च पूर्वोत्तरकालयोः पुण्यत्ववचनं सर्वसङ्क्रान्तिसाधारणम् ।
अविशेषात् ।
यानि तु क्वचिदुत्तरत्र क्कचित् पूर्वत्र क्वचिदुभयत्रेत्येवं सङ्क्रान्तिविशेषकालविधायकानि वक्ष्यमाणवचनानि तानि पुण्याधिक्यप्रतिपादनार्थानि ।
हेमाद्रिमाधवादिसकलनिबन्धृस्वरसो ऽप्येवम् ।
यत्त्वत्र श्रीदत्तरत्ना करादिप्रभृतिभिर्मैथिलैः स्मार्त्तादिभिश्च गौडैरुक्तम्-“पूर्वोदाहृतोभयतः षोडशघटिकापुण्यत्वप्रतिपादकानां शातातपादिवचनानां विष्णुपदीमात्रविषयत्वम् इतरसङ्क्रान्तिषु वक्ष्यमाणरीत्या सर्वत्र
विशेषस्योक्तत्वात् परिशेषेण षोडशघटीपुण्यत्वबोधकसामान्यवाक्यानां तन्मात्रविषयत्वस्यैव युक्तत्वात् ।
अतश्च–
पुण्यः कालो ऽर्कसङ्क्रान्तेः प्राक् पश्चादपि षोडश ।
इति स्कन्दपुराणवचनेनाप्यमीषामुपंसहारो लाघवात्"इति, तन्न ।
शातातपेन–
अयनादौ सदा देयं द्रव्यमिष्टं गृहेषु यत् ।
षडशीतिमुखे चैव विमोक्षे चन्द्रसूर्ययोः ॥
इत्युपक्रमे अयनादावित्यादिशब्देन विषुवद्विष्णुपद्योरुपसङ्ग्रहात् सर्वसङ्क्रान्तिषु दानादिविधिप्रतीतेः सूक्ष्मकाले च दानाद्यनुपपत्तेः स्थूलकालापेक्षायाम्"अर्वाक् षोडश विज्ञेया"इत्याद्युपरितनेन वचनेन उभयतः षोडशघटिकारूपस्थूलकालविधेः सर्वसङ्क्रान्तिविषयत्वस्य स्पष्टत्वात् ।
न च स्पष्टस्य सामान्यविधेरुपसंहारो युज्यते ।
यथोक्तं भट्टपादैः–
सामान्यविधिरस्पष्टः संहियेत विशेषतः ।
इति ।
अतश्चोपसंहारायोगात् सर्वविषयत्वमेव युक्तम् ।
एवं च सर्वसङ्क्रान्तिसाधारण्येन उभयतःषोडशघटिकापुण्यत्ववचनैः उभयतः पुण्यत्वे स्थिते विशेषवचनानि पुण्यातिशयार्थानि ।
तत्र–
वशिष्ठः:
मध्ये तु विषुवे पुण्यं प्राग्विष्णौ दक्षिणायने ।
षडशीतिमुखे ऽतीते अतीते चोत्तरायणे ॥
मध्ये उभयत इति यावत् ।
प्राच्यास्तु–
षाढीतिमुखे ऽतीते वृत्ते च विषुवद्वये ।
{म्व्-स्_१३५}
इति देवीपुराणवाक्यात् वृत्त इत्याहुः ।
वस्तुतस्तु वृत्तं वर्तनं भावे क्तः वर्तमानकाले इति अनन्तभट्टव्याख्यैव युक्ता ।
वशिष्टवचनैकवाक्यतालाभात् ।
विष्णौ = विष्णुपद्याम् ।
इदं च विष्णुपदीषु प्राक् पुण्यत्ववचनं प्रशस्ततरत्वद्योतनार्थम् ।
पुण्यकालो विष्णुपद्याः प्राक् पश्चादपि षोडश ।
इति स्कन्दपुराणवचनेन पूर्वापरषोडशघटिकारूपपुण्यकालस्याष्युक्तत्वात् ।
अतश्च विष्णुपद्यां पराः षोडश घटिका इतरसङ्क्रान्त्येपक्षया पुण्यतराः पूर्वाः षोडश पुण्यतमा इति व्यवस्था ।
हेमाद्रिमदनत्नादिसम्मताप्ययमर्थः ।
अन्ये तु विष्णुपदीपूर्वकालपुण्यत्वप्रातपादवाक्यस्य निर्मुलत्वात् स्कान्दवचनादुभयत एव षाडश घाटकाः पुण्यकाल इत्याह्नुः ।
षडशीतिमुखे ऽतीते पुण्यतमत्वम् ।
तत्रापि–
षडशीत्यां व्यतीतायामष्टिरुक्तास्तु नाडिकाः ।
पुण्याख्या विष्णुपद्याश्च प्राक्पश्चादपि षोडश ॥
इति वचने चब्देन इतरसङ्क्रान्त्यपेक्षया उभयतः पुण्यतरत्वस्य सूचितत्वात् ।
तथा–
वृद्धवशिष्ठो ऽपि:
अतीतानागते पुण्ये द्वे उदग्दक्षिणायने ।
त्रिंशत् कर्कटके नाड्यो मकरे विंशतिः परा ॥
ब्रह्मवैवर्त्ते तु मकरे तु दशाधिका इति चतुर्थपादः ।
बृहस्पतिरपि–
अयने विंशतिः पूर्वा मकरे विंशतिः परा ।
अयने = दक्षिणायने ।
अत्र सर्वत्र विरुद्धानां वचनानां पुण्याधिक्यपरत्वेन व्यवस्था द्रष्टव्या ।
अतश्च विंशत्यपेक्षया सामान्यवचनसिद्धषोडशघटिकारूपकालस्यापि पुण्यतरत्वं सिद्धं भवति ।
सन्निकृष्टत्वात् ।
विषुवविषये पुनः–
स एव–
वर्तमाने तुलामेषे नाड्यस्तूभयतो दश ।
षडशीतिविषये वृद्धवशिष्ठः–
षडशीत्यां व्यातीतायामष्टिरुक्तास्तु नाडिकाः ।
अष्टिः षोडश ।
अष्टिच्छन्दसः षोडशाक्षरत्वात् ।
मदनरत्नादिसम्मतश्चायं पाठः ।
हेमाद्रिमाधवादौ तु षष्टिरिति पाठः ।
तं च हेमाद्रिः प्रत्येकं पञ्चदशेति मिलित्वा षष्टिरिति व्याख्यातवान् ।
विष्णुपद्यां तु सङ्खयाविशेषस्य अश्रवणात् सामान्यवचनोक्ता एव षोडशघटिकाः पूर्वं पुण्याः ।
{म्व्-स्_१३६}
अत्र चायं निष्कृष्टो ऽर्थः ।
तुलामेषयोः प्रागूर्च्वं दश दश घटिकाः पुण्याः, कर्के विंशतिः पूर्वं मकरे उर्द्ध्वम्, षडशीत्यां षोडश पराः, विष्णुपद्यां पूर्वा इति ।
एवं वारनक्षत्रप्रयुक्तमन्दादिसप्रसञ्ज्ञासु सङ्क्रान्तिषु यत्–
त्रिचतुःपञ्चसप्ताष्टनवद्वादश एव च ।
क्रमेण घटिका ह्येतास्तत्पुण्यं पारमार्थिकम् ॥
इति देवीपुराणवचनं तदपि पुण्याधिक्यप्रतिपादनार्थं द्रष्टव्यम् ।
अत्र चैताः पूर्वभोगिन्य उत्तरभोगिन्यो उभयतोभोगिन्यो वा यदि दिवामध्र्याह्नादिषु जायन्ते तदा दिवैव तत्र तत्रोक्तप्रशस्तकाललाभात् सप्तेव ।
यदा पूर्वभोगिन्यां सूर्योदयोत्तरम् अव्यवधानेन जायमानायामुत्तर, भोगिन्यां वा अस्तात् पूर्वं जायमानायां दिवा पूर्वोत्तरौ प्रशस्तकालौ न लभ्यते तदा सामान्यवचनप्राप्तस्य पूर्वभोगिन्यामुत्तरस्य उत्तरभोगिन्यांवा पूर्वस्यैव कालस्य ग्रहणं न पुनः प्रशस्तकालभ्रान्त्या रात्रेरिति ।
तथा च–
वशिष्ठः:
अह्नि सङ्क्रमणे पुण्यमहः कृत्स्नं प्रकीर्त्तितम् ।
रात्रौ सङ्क्रमणे भानोर्दिनार्द्धं स्नानदानयोः ॥
अत्र हि पूर्वार्द्धम् अह्नि मध्याह्नादौ सङ्क्रमणे ऽहःपुण्यत्वस्य पूर्वोत्तरनाडीपुण्यवचनैरेव सिद्धत्वान्न यथाश्रुतार्थपरं किन्तु उक्तविषये प्रशस्तकाललाभेन प्रसक्तस्य रात्रिपुण्यस्य प्रतिषेधार्थम् ।
अतश्चोदयानन्तरमे व पूर्वभोगिन्यामस्तात् पूर्वं वोत्तरभोगिन्यां जायमानायामहन्येव स्नानाद्यनुष्ठयम् ।
यासु तु उभयतोभोगिनीषु उभयोरपि कालयोः साम्यं तासु दिवापि प्रशस्तकाललाभात् न रात्रावनुष्ठानप्रसङ्गः ।
माधवमदनरत्नादयो ऽप्येवम् ।
रात्रिसङ्क्रमे तु यद्यपि–
या याः सन्निहिता नाड्यस्तास्ताः पुण्यतमाः स्मृताः ।
इति वचनात्,
राहुदर्शनसङ्क्रान्तिविवाहात्ययवृद्धिषु ।
स्नानदानादिकं कार्यं निशि काम्यव्रतेषु च ॥
इति वचनाच्च रात्रेरपि पुण्यकालत्वं प्राप्नोति, तथापि–
रात्रौ सङ्क्रमणे भानोर्दिवा कुर्यात्तु तत् क्रियाम् ॥
इति गोभिलवचनेन दिवैव पुण्यकालः ।
स च न सम्पूर्णं दिनं किन्तु रात्रौ सङ्क्रमणे भानोर्द्दिनार्द्धं स्नानदानयोः ।
इति वशिष्ठवचनात् अर्द्धमेव ।
तदापि च यद्यर्द्धरात्रात् पूर्वं सङ्क्रमस्तदा पूर्वदिनस्य यद्यूर्ध्वं तदोत्तरस्य यदा तु अर्धरात्रे तदोभयोरिति व्यवस्थितमित्याह–
{म्व्-स्_१३७}
स एव–
अद्धरात्रादधस्तस्मिन् मध्याह्नस्योपरि क्रिया ।
ऊर्ध्वं सङ्क्रमणे चोर्ध्वमुदयात् प्रहरद्वयम् ॥
सम्पूर्णे अर्द्धरात्रे तु यदा सङ्क्रमते रविः ।
प्राहुर्दिनद्वयं पुण्यं मुक्त्वा मकरकर्कटौ ॥
मध्याह्नः = आवर्तनम् ।
तच्च पूर्वदिनस्य, उदयश्चोत्तरदिनस्य सन्निधानात् ।
सम्पूर्णे = अर्द्धरात्रिदलद्वयसन्धौ ।
माधवस्तु तृतीयप्रहरस्य प्रथमघटिका द्वितीयस्य चान्त्येत्येवं घटिकाद्वयमर्द्धरात्रमित्याह ।
दिनद्वयं च न सम्पूर्णं किन्तु अर्द्धावच्छिन्नमेव ।
रात्रौ सङ्क्रमणे भानोर्दिनार्द्धं स्नानदानयोः ।
इति सामान्यतो रात्रिसङ्क्रमे दिनार्द्धपुण्यत्वस्यैवोपक्रमे अभिधानात् ।
अनन्तभट्टहेमाद्रिमदनरत्नादयो ऽप्येवम् ।
कालादर्शमाधवादयस्तु–
सङ्क्रमस्तु निशीथे स्यात् षड्यामाः पूर्वपश्चिमाः ।
सङ्क्रान्तिकालो विज्ञेयस्तत्र स्नानादिकं चरेत् ॥
इति भबिष्योत्तरपुराणवचनादर्द्धरात्रसङ्क्रमे कृत्स्नं दिनद्वयमित्याहुः ।
वस्तुतस्तु एतस्य अनन्तभट्टेन निर्मूलत्वस्योक्तत्वात् हेमाद्प्यादिव्याख्यैव ज्यायसी बहुसम्मता च ।
तस्मात् पूर्णे अर्द्धरात्रे सङ्क्रमे पूर्वदिनोत्तरार्द्धमुत्तरदिनपूर्वार्द्धं च पुण्यं सन्निधानात् ।
तदपि न समुच्चयेन किन्तु विकल्पेन अन्यथा प्रधानावृत्त्यापत्तेः, सो ऽपि पूर्वदिनोत्तरार्द्धवर्त्तितिथ्या यद्यभिन्ना सङ्क्रमकालीना तिथिर्भवेत् तदा पूर्वदिनोत्तरार्द्धम्, यदा तु द्वितीयदिनपूर्वार्द्धतिथ्या अभिन्ना तदोत्तरदिनपूर्वार्द्धं ग्राह्यमित्येवं व्यवस्थितः ।
तथा च–
देवीपुराणे:
आदौ पुण्यं विजानीयात् यद्यभिन्ना तिथिर्भवेत् ।
अर्द्धरात्रे व्यतीते तु विज्ञेयमपरे ऽहनि ॥
पूर्वार्द्धस्य अयमर्थः ।
अर्द्धरात्रसङ्क्रमे यदि पूर्वदिनोत्तरार्द्धे सङ्क्रमकाले च एकैव तिथिर्भवेत् तदादौ
पूर्वदिनोत्तरार्धे पुण्यं जानीयादिति ।
यदि तु उत्तरदिनपूर्वार्धतिथ्याभिन्ना तदोत्तरदिनपूर्वार्धमित्यर्थसिद्धम् ।
अर्धरात्रोत्तरं सक्रङ्मे तु भिन्नायामभिन्ना तदोत्तरदिनपूर्वार्धमित्यर्थसिद्धम् ।
अर्धरात्रोत्तरं सक्रङ्मे तु भिन्नायामभिन्नायां वा पूर्वदिनतिथौ परे ऽहन्येवेत्युत्तरार्धार्थः ।
यदा तु अर्धरात्रसङ्क्रमकालीना तिथिर्दिनद्वयार्धयोरपि भवति तदा पूर्वभीगिनीषु पूर्वदिनोत्तरार्धम् उत्तरभोगिनीषु उत्तरदिनपूर्वार्धम् उभयतोभोगिनीषु ऐच्छिको विकल्प इति व्यवस्था ।
{म्व्-स्_१३८}
अनन्तभट्टमदनरत्नादयो ऽप्येवम् ।
यत्त्वत्र श्रीदत्तेनोक्तम्–अभिन्नायां तिथौ पूर्वदिनपूर्वार्धे पुण्यम्, भेदे तु"सम्पूर्णे तूभयोर्देयम्"इति देवीपुराणवचनादुभयत्रेति ।
तन्न ।
“सम्पूर्णे तूभयोर्देयम्"इति देवीपुराणेनोभयत्रदेयत्वे विहिते प्रधानावृत्त्यापत्तेः समुच्चयायोगात् अव्यवस्थितविकल्पे प्राप्ते"आदौ पुण्यं विजानीयात्"इत्युत्तरवचनेन व्यवस्थामात्रकरणे लाघवात् ।
तदयमत्र निष्कृष्टार्थः ।
अर्धरात्रात् पूर्वं सङ्क्रमे पूर्वदिनोत्तरार्धं तदुत्तरं सङ्क्रमे उत्तरदिनपूर्वार्धे निशीथसङ्क्रमे तु यदि पूर्वदिनोत्तरार्धवर्त्तितिथ्याभिन्नायां तिथौ सङ्क्रमः तदा पूर्वादनोत्तरार्धं यदि तु उत्तरदिनपूर्वार्धवर्त्तितिथ्याभिन्नायां तिथौ सङ्क्रमस्तदा उत्तरदिनपूवार्धं यदा तु दिनद्वयार्धवर्त्तितिथ्याभिन्नायां तिथौ सङ्क्रमस्तदा पूर्वभोगिर्नाषु पूर्वदिनोत्तरार्धम् उत्तरभोगिनीषु उत्तरदिनपूर्वार्धम उभयभोगिनीषु ऐच्छिको विकल्प इति ।
यत्तु–
विष्णुपद्यां धनुर्मीननृयुक्कन्यासु वै यदा ।
पूर्वोत्तरगतं रात्रौ भानोः सङ्क्रमणं भवेत् ॥
पूर्वाह्ने पञ्च नाड्यस्तु पुण्याः प्रोक्ता मनीषिभिः ।
अपराह्णे च पञ्चैव श्रौते स्मार्त्ते च कर्मणि ॥
इति पूर्वापरदिनगतास्तमयोदयपूर्वोत्तरनाडीपुव्यत्वप्रतिपादकं निगमवचनं तत् अतिशयप्रदर्शनार्थं द्रष्टव्यम् ।
मदनरत्ने ऽप्येवम् ।
इयं च रात्रिसङ्क्रमव्यवस्था अयनभिन्नविषया पूर्वोदाहृतवशिष्ठवचनेन सकलस्य रात्रिनिर्णयस्य अयने"मुक्त्वा मकरकर्कटौ"इति पर्युदासात् ।
अतश्च तयोः कथमित्यपेक्षायां माधवमदनरत्नौ तावत्–
मिथुनात् कर्कसङ्क्रान्तिर्यदि स्यादंशुमालिनः ।
प्रभाते वा निशीथे वा कुर्यादहनि पूर्वतः ॥
कार्मुकं तु परित्यज्य ज्ञषं सङ्क्रमते रविः ।
प्रदोषे वार्धरात्रे वा स्नानं दानं परे ऽहनि ॥
इत्यादिभविंष्योत्तरवचनानुसारादर्द्धरात्रतदूर्ध्वसङ्क्रमे ऽपि कर्के ऽहन्येव पुण्यं पूर्वं मकरे तु अर्द्धरात्रतदधःसङ्क्रमे ऽपि परे ऽहन्येव ।
एवं च रात्रिसङ्क्रमे ऽपि दिवापुण्यत्वविधानादर्थाद्रात्रौ स्नानादिप्रतिषेध उन्नीयते ।
केषु चित्तु वचनेषु रात्रिकर्तव्यतापि ।
यथात्रैव तावद्वशिष्ठवचने सर्वसङ्क्रान्तिसाधारणरात्रिसङ्क्रमणनिमित्तकदिवाकर्तव्यत्वस्यायने–“मुक्त्वा मकरकर्कटौ"इति पर्युदासात्तत्र रात्रावपि कर्तव्यता ।
अत एव–
राहुदर्शनसङ्क्रान्तिविवाहात्ययवृद्धिषु ।
{म्व्-स्_१३९}
स्नानदानादिकं कार्यं निशि काम्यव्रतेषु च ॥
इति सामान्यतो याज्ञवल्क्यवचनमपि अयनविषयम्, अन्यथा इतरसङ्क्रान्तिषु दिवैव पुण्यत्वविधानादेतस्य निर्विषयत्वापत्तेः ।
यद्यपि चोदाहृतभबिष्योत्तरादिवचनात् तत्रापि
दिवापुण्यत्वविधिरस्त्येव तथापि"मुक्त्वा मकरकर्कटौ"इतिपर्युदासाद्रात्रिपुण्यत्वमप्यस्ति ।
अतश्च युक्तं सामान्यवचनस्यायनविषयत्वम् ।
एवं चायने रात्रिपुण्यत्वदिवापुण्यत्वयोर्विकल्पे देशाचाराद्व्यवस्थेति ।
हेमाद्रिस्तु–
प्राहुर्दिनद्वयं पुण्यं मुत्त्का मकरकर्कटौ ।
इतिपर्युदासो न सकलस्य रात्रिनिर्णयस्य किन्तु सन्निहितस्यार्द्धरात्रसङ्क्रमणनिमित्तकस्य दिनद्वयस्यैव ।
अतश्चायमर्थः ।
यथा इतरसङ्क्रान्तिषु अर्द्धरात्रे जायमानासु दिनद्वयं पुण्यं न तथा अयने तस्मिंस्तु अर्द्धरात्रे जायमाने पूर्वोदाहृतभविष्योत्तरवचनान्मकरे उत्तरं दिनं कर्के पूर्वं पुण्यम् ।
भविष्योत्तरवाक्ये हि न प्रदोष अर्द्धरात्रे वा जायमानाया मकरसङ्क्रान्तेः परदिने पुण्यं प्रभाते ऽर्द्धरात्रे वा जायमानायाः कर्कसङ्क्रान्तेः पूर्वदिने पुण्यमिति प्रतिपाद्यते ।
तथा सति–
धनुर्मीनावतिक्रम्य कन्यां च मिथुनं तथा ।
दिनान्ते पञ्च नाड्यस्तु तदा पुण्यतमाः स्मृताः ॥
उदये च तथा पञ्च दैवे पित्र्ये च कर्मणि ।
इतिस्कन्दपुराणवचनविरोधापत्तेः ।
अतश्च भविष्योत्तरवचनमेवं व्याख्येयम्"प्रदोषे वार्द्धरात्रे वा"इत्यत्र वाशब्दौ यथातथार्थे"वोपमानविकल्पयोः"इति निघण्टुस्मरणात् ।
तेनायमर्थः ।
यथा प्रदोषे जायमानाया मकरसङ्क्रान्तेः पूर्वदिनार्द्धे पुण्यं तथा अर्दधरात्रे जायमानायाः परे ऽहनीति ।
एवं प्रभातवाक्ये ऽपि ।
अतश्चार्द्धरात्रसङ्क्रमे मकरे उत्तरं दिनं कर्के पूर्वम्, अर्धरात्रादधः पश्चाद्वा सङ्क्रमे तु उभयत्रापि इतरसङ्क्रान्तिसरूप एव निर्णयः ।
न चैवं रात्रिपुण्यत्वप्रतिपादकानां याज्ञवल्क्यादिवचनानां निर्विषयत्वापत्तिः सर्वसङ्क्रान्तिषु रात्रिसङ्क्रमे दिवैव पुण्यकालाभिधानादितिवाच्यम् ।
उभयविधवचनदर्शनाद्रात्रिसङ्क्रमे रात्रौ दिवा च पुण्यकालः ।
“पापाः सन्निहिता"इतिवचनात्तु रात्रेः पुण्यतरत्वमिति हेमाद्रिग्रभृतयः ।
अनन्तभट्टस्तु दिवा प्रमादादिना असम्भवे रात्रावनुष्ठेयमित्याह ।
प्राच्यास्तु रात्रिसन्निहितदिनभागसङ्क्रान्तौ षोडशघटिकादिरूपविहितसमयेन रात्रेरपि व्यावृत्तत्वा त्तद्विषयतया रात्रिपुण्यत्ववचनानामुपपत्तिरित्याहुः ।
अत्र च विहितं स्नानश्राद्धदानादि निषिद्धं च यात्रामैथुनादि अन्यतो ऽनुसन्धेयम् ।
{म्व्-स्_१४०}
रवे राशिसङ्क्रमवन्नक्षत्रसङ्क्रमे ग्रहान्तराणां च राशिनक्षत्रसङ्क्रमे स्नानाद्यनुष्ठानम् ।
तत्कालं चाह–
जैमिनिः:
नक्षत्रराश्यो रविसङ्क्रमे स्युरर्वाक् परत्रापि रसेन्दुनाढ्यः ।
पुण्यास्तथेन्दोस्त्रिधरापलैर्युगे एकैव नाडी मुनिभिः शुभोक्ता ॥
नाड्यश्चतस्रः सपलाः कुजस्य बुधस्य तिस्नो मनवः पलानि ।
सार्द्धाश्चतस्रः पलसप्तयुक्ता गुरोश्च शुक्रे सपलाश्चतस्रः ॥
द्विनागनाढ्यः पलसप्तयुक्ता शनैश्चरस्याभिहिताः सुपुण्याः ।
आद्यन्तमध्ये जपहोमदानं कुर्वन्नवाप्नोति सुरेन्द्रधाम ॥
अर्वाक् परत्रापीति सर्वत्र सम्बध्यते ।
रसेन्दुनाड्यः = षोडश घटिकाः ।
त्रिधरापलैः = त्रयोदशपलैः ।
सपला = एकपलाधिकाः ।
मनवश्चतुर्दशपलानि ।
नागा अष्टौ द्विगुणिताः षोडश ।
ग्रहान्तरसङ्क्रमे च रात्रौ जायमाने रात्रावेव स्नानादि कार्यं रविसङ्क्रमवत्
दिवापुण्यत्ववचनाभावात् ।
काम्यं चेदं तत्र स्नानादिफलश्रवणात् ।
रविसङ्क्रमणे प्राप्ते न स्नायाद्यस्तु मानवः ।
सप्तजन्म भवद्रोगी निर्धनश्चैव जायते ॥
इतिवन्नित्यत्वाश्रवणाच्च ।
इतिसङ्क्रान्तिनिर्णयः ।
अथ मलमासो निर्णीयते ।
मलमासत्वं च एकमात्रसङ्क्रान्तिराहित्ये सति शुक्लादिमासत्वम् ।
एकमात्रराहित्यं
चासङ्क्रान्तत्वेन सङ्क्रान्तिद्वयवत्त्वेन च भवतीति द्वेधामलमासः अधिकमासः क्षयमासश्चेति ।
तथाच–
काठकगृह्ये:
यस्मिन् मासे न सङ्क्रान्तिः सङ्क्रान्तिद्वयमेव वा ।
मलमासः स विज्ञेयो मासः स्यात्तु त्रयोदशः ॥
इति ।
न सङ्क्रान्तिरित्यनेनाधिमासस्य ग्रहणम् ।
सङ्क्रान्तिद्वयमित्यनेन क्षयस्य ।
तत्राधिमासस्वरूपमाह–
भृगुः:
एकराशिस्थिते सूर्ये यदा दर्शद्वयं भवेत् ।
हव्यकव्यक्रियाहन्ता तदा ज्ञेयो ऽधिमासकः ॥
इति ।
दर्शद्वयं = दर्शानत्द्वयम् ।
“दर्शः सूर्येन्दुसङ्गमे"इतिदर्शशब्दस्य सङ्गमे मुख्यत्वात् ।
सङ्गमस्य चामावास्यान्त्यक्षण एव ज्योतिःशास्त्रे प्रसिद्धत्वात् ।
मासश्चात्र चान्द्र एव मलमासप्रयोजकः ।
{म्व्-स्_१४१}
चान्द्रो मासो ह्यसङ्क्रान्तो मलमासः प्रकीर्त्तितः ।
इति ब्रह्मसिद्धान्तात् ।
सो ऽपि च शुक्लादिरेव ।
इन्द्राग्नी यत्र हूयेते मासादिः स प्रकीर्त्तितः ।
अग्नीषोमौ स्मृतौ मध्ये समाप्तौ पितृसोमकौ ॥
तमतिक्रम्य तु रविर्यदि गच्छेत् कदाचन ।
आद्यो मलिम्लुचो ज्ञेयो द्वितीयः प्राकृतः स्मृतः ॥
इति लघुहारीतोक्तेः ।
आद्यद्वितीयशब्दाभ्यां तस्येतरमासापेक्षया द्वैगुण्यम् उत्तरमाससञ्ज्ञत्वं च सूचयति ।
अत एव–
ज्योतिः पितामहः:
षष्टया तु दिवसैर्मासः कथितो बादरायणैः ।
पूर्वमर्द्धं परित्यज्य कर्तव्या चोत्तरे क्रिया ॥
इति ।
“त्रयोदशमासाः संवत्सर"इति श्रुतिवचनं तत् त्रिंशद्दिवसमासाभिप्रायेण ।
मासविशेषसञ्ज्ञत्वं चास्य चैत्रादिलक्षणाक्रान्तत्वात् ।
तथाहि–
मीनादिस्थो रविर्येषामारम्भप्रथमे क्षणे ।
भवेत्ते ऽन्दे चान्द्रमासाश्चैत्राद्या द्वादश स्मृताः ॥
इति व्यासेन मीनादिस्थे रवौ प्रतिपदाद्यलक्षणसम्बन्धेन चैत्रादिलक्षणमुक्तम् ।
शक्यते
चेदमधिमासे ऽपि योजायतुम् ।
यत्तु–
मेषगरविसङ्क्रान्तिः शसिमासे भवति यत्र तच्चैत्रम् ।
एवं वैशाखाद्या वृषादिसङ्क्रान्तियोगेन ॥
इतिब्रह्मगुप्तोक्तं चैत्रादिलक्षणं तच्छुद्धमासाभिप्रायेण प्रायिकम् न तु मुख्यं मलमासाव्यापकत्वात् ।
अन्यथा वृद्धव्यवहारे मलमासे चैत्रादिशब्दप्रयोगानुपपत्तेः ।
या तु–
वत्सरान्तर्गतः पापो पज्ञानां फलनाशकृत् ।
नैरृतैर्यातुधानाद्यैः समाक्रान्तो विनामकः ॥
इति ज्योतिःशास्त्रे तस्य नामशून्यत्वोक्तिः सा विरुद्धमलिम्लुचादिनामकत्वात् ।
विद्यमानस्यापि वा नाम्नस्तत्प्रयुक्तकर्मानर्हत्वेनासत्कल्पत्वात् ।
अथ वा ब्रह्मगुप्तोक्तमेव लक्षणं मुख्यं न तु व्यासोक्तं क्षये ऽसम्भवात् ।
अधिकस्य च षष्टिदिनात्मकत्वात् तेन च मेषदिसङ्क्रान्तिसम्भवात् ।
तेन सम्भवन्ति मलमासस्य चैत्रादयः सञ्ज्ञाः ।
अधिकमासस्य मलत्वं चाधिक्यात् ।
अत एव–
गृह्यपरिशिष्टे:
मलं वदन्ति कालस्य मासं कालविदो ऽधिकम् ।
{म्व्-स्_१४२}
एतस्य च नपुंसकसञ्ज्ञा ज्योतिःशास्त्रे–
असङ्क्रान्तो हि यो मासः कदाचित्तिथिवृद्धितः ।
कालान्तरात्समायाति स नपुंसक उच्यते ॥
अत्र स्फुटमानागतासङ्क्रान्त एवाधिमासत्वेन ग्राह्यः ।
न तु मध्यममानागतः, तस्य श्रौतस्मार्त्तव्यवहारानुपयोगात् ।
तथाहि"इन्द्राग्नी यत्र हूयेते"इत्यादिवचनेन शुक्लप्रतिपदादिदर्शान्तासङ्क्रान्तमासस्य विधिनिषेधयोग्याधिमासत्वमवगम्यते ।
न च मध्यममानागतासङ्कान्तयो नियमेन शुक्लप्रतिपदादिदर्शान्ताः ।
अस्य नियतो भवनकालो वशिष्ठसिद्धान्ते दर्शितः–
द्वात्रिंशद्भिर्गतैर्मासैर्दिनैः षोडशभिस्तथा ।
घटिकानां चतुष्केण पतत्येको ऽधिमासकः ॥
इति पूर्वाधिमासानन्तरमेतावति काले ऽतीते सति द्वितीयो ऽधिमासो मध्यममानेन भवतीत्यस्यार्थः ।
अत्र च वाक्ये दर्शान्तमासविवक्षायां कृष्णद्वितीयायां घटिकाचतुष्टये गते ऽधिमासोपक्रमः प्राप्नोति ।
अनियतोपक्रमावसानद्वात्रिंशन्मासविवक्षायां चानियततिथ्युपक्रमत्वमधिमासस्य प्रसज्येत ।
ततश्चोभयथाप्यधिमासस्य शुक्लप्रतिपदादिनियमभङ्गप्रसङ्गः ।
तस्मात्स्फुटमानागतशुक्लप्रतिपदादिदर्शान्तासङ्क्रान्तस्यैवाधिमासविषयश्रौतस्मार्त्तव्यवहारेषु उपयोगः ।
अत एवोक्तं सिद्धान्तशिरोमणौ, असङ्क्रान्तमासो ऽधिमासः स्फुटः स्यादिति ।
स्फुटः = स्फुटमानागतः ।
मध्यममानागतासह्क्रान्तस्य तु ज्योतिःशास्त्रीयव्यवहार एवोपयोगः ।
अयं चाधिमासो न मध्यममानागताधिमालवन्नियतः ।
यानि तु"मासे त्रिंशत्तमे भवेत्"इत्यादिवचनानि तानि सम्भवाभिप्रायेण न तु नियतानि व्यभिचारस्य स्फुटत्वात् ।
क्षयमासस्तु द्विसङ्क्रान्तिः शुक्लप्रतिपदादिश्चान्द्रः ।
“द्विसङ्क्रान्तिमासः क्षयाख्यः कदाचित्"इतिसिद्धान्तसिरोमणिवचनात् ।
स च कार्त्तिकादिषु त्रिष्वेव भवति नान्येषु ।
यदा चायं तदा वर्षमध्ये क्षयमासस्योभयतो ऽधिकमासद्वयं भवति ।
अत एव सिद्धानतशिरोमणौ–
क्षयः कार्त्तिकादित्रये नान्यतः स्यात्तदा वर्षमध्ये ऽधिमासद्वयं च ।
इति ।
वर्षं चात्र पूर्वासङ्क्रान्तादिकं चान्द्रमासद्वादशकं न तु चैत्रादिकम् ।
क्षयमासोत्तरचैत्रादिके षट्के कदाचिदपि द्वितीयाधिमासासम्भवात् ।
तत्सम्भवकालश्च तत्रैव–
गतो ऽब्ध्यद्रिनन्दैर्मिते शाककाले
तिथीशैर्भविष्यत्यथाङ्गाक्षसूर्यैः ।
{म्व्-स्_१४३}
गजाद्रथग्निभूमिस्तथा प्रायशो ऽयं
(*) कुवेदेन्दुवर्षैः कविद्गोकुभिश्च ॥
इति ।
(*) एतत्प्रतिपाद्या सङ्ख्या च व्यवधानकालबोधिका ।
क्लचित् गोकु भिः १९ हीनैः कुवेदेन्दुभि (१४१) अर्थात् क्वचित् १४१ वर्षैः क्वचिच्च १२२ वर्षैर्व्यवधानं भवतीति मावः ।
तथाच पूर्वोक्त ९७४ सङ्ख्यायां १४१ सङ्ख्याया मेलने १११५ जायते तत्र तन्मेलेन १२५६ जायते तत्र १२२ मेलने १३७८ जायते इत्यवधेयम् ।
अब्धयः = चत्वारः ।
अद्रयः = सप्त ।
नन्दा = नव एषां प्रातिलोम्येन पातः । ९७४ एभिर्मितैर्वर्षैः पूर्वं क्षयो जात इत्यर्थः ।
तिथयः = पञ्चदश ।
ईशा = एकादश १११५ एभिर्मिन्ते कदाचिद् भविष्यति ।
अङ्गं = षटः अक्षाः = पञ्च ।
सूर्याः = द्वादश ।
एकत्र सर्वे १२५६ ।
गजा = अष्टौ ।
अद्रयः = सप्त ।
अग्न्यः = त्रयः ।
भूः = एका ।
एकत्र १३७८ ।
कुः = एकः ।
वेदाः = चत्वारः ।
इन्दुः = एकः ।
एकत्र १४१ ।
गावः = नव ।
कुः = एकः ।
एकत्र १९ ।
एभिर्मिते वर्षे कश्चिद्भवीष्यती त्यर्थः ।
अयं च क्षयमासो मेषगरविसङ्क्रान्तिरित्यादिमासलक्षणप्रयोजकसङ्क्रान्तिद्वययुक्तत्वान्मासद्वयात्मकः ।
अत एव रत्नमालायाम्–
यत्र मासि रविसङ्क्रमद्वयं तत्र मासयुगलं क्षयाह्वयम् ।
इति ।
अत एव पूर्वसङ्क्रान्त्युपलक्षितस्य कार्त्तिकादेरुत्तरसङ्क्रान्त्युपलक्षितमार्गशीर्षाद्यपेक्षया पृथगवस्थानाभावात् द्विसङ्क्रान्तः क्षय इत्युच्यते ।
अन्ये तु–
मेषादिस्थे सवितरि यो यो मासः प्रपूर्यते चान्द्रः ।
चैत्रादिः स तु विज्ञेयः-
इति वचनोक्तलक्षणानुसारात् क्षये पूर्वराशिस्थे रवौ दर्शान्त्यसमाप्त्यभावादुत्तरराशिस्थरवावेव तत्समाप्तेरुत्तरमासरूपत्वमेवेत्याहुः ।
क्षयमासस्य अंहस्पतिसञ्ज्ञत्वं तत्पूर्वोत्तरभाविनोश्चाधिमासयोः संसर्पाधिमाससञ्ज्ञत्वं चोक्तम्–
बार्हस्पत्यसंहितायाम्:
यस्मिन् मासे न सङ्क्रान्तिः सङ्क्रान्तिद्वयमेव च ।
संसर्पांहस्पती एतावधिमासश्च निन्दितः ॥
इति ।
अत्र पूर्वासङ्क्रान्तद्विसङ्क्रान्तयोः संसर्पंहस्पतिसञ्ज्ञा उत्तरासङ्क्रान्तत्याधिमासत्वं क्रमेणाभिधानादवगम्यते इति मदनरत्नः ।
संसर्पश्च न मलमासः किन्तु शुद्धः उत्तरस्त्वशुद्धः ।
एकस्मिन्नपि वर्षे चेत् द्वौ मासावधिमासकौ ।
पूर्वो मासः प्रशस्तः स्यापदरस्तु मलिम्लुचः ॥
{म्व्-स्_१४४}
इति जावलिवचनात् ।
यदाश्विनादिषट्के मलमास एकः अपरश्च चैत्रादिषट्के तदा पूर्वस्य शुद्धत्वप्रतिपादकं वचनान्तरमपि–
ब्रह्मसिद्धान्ते:
चैत्रादर्वाङ्नाधिमासः परतस्त्वधिको भवेत् ।
ज्योतिःसिद्धान्ते ऽपि–
धटकन्यागते सूर्ये वृश्चिके वाथ धन्विनि ।
मकरे वाथ कुम्भे वा नाधिमासो विधीयते ॥
धटः = तुला ।
न चैतद्वाक्यद्वयं कदाचिदपि तत्राधिमासपाताभावपरम् ।
मासः कन्यागते भानावसङ्क्रान्तो भवेद्यदि ।
दैवं पित्र्यं तदा कर्म तुलास्थे कर्तुरक्षयम् ॥
इति पितामहादिवचनविरोधात् ।
इदं च संसर्पस्य शुद्धत्वप्रतिपादनं विवाहादिव्यतिरिक्तक्षयाहादिश्राद्धादिविषयम् ।
यद्वर्षमध्ये ऽधिमासयुग्मं तत्र कार्त्तिकादित्रितये क्षयाख्यः ।
मासत्रयं त्याज्यमिदं प्रयत्नाद्विवाहयज्ञोत्सवमङ्गलेषु ।
इति ज्योतिःशास्त्रवचनात् ।
इति मलमासनिर्णयः ।
अथ मलमासे कार्याकार्यनिर्णयः ।
तज्ञ पौठीनसिः–
श्रौतस्मार्त्तक्रियाः सर्वा द्वादशे मासि कीर्त्तिताः ।
तस्मात् त्रयोदशे मासि निष्फलास्ताः प्रकीर्त्तिताः ॥
अत्र च मलमासस्य त्रयोदशत्वं सङ्क्रान्तियुक्तशुद्धद्वादशमासापेक्षया न तु वास्तवम् ।
अत्र यद्यपि सर्वा इत्युपादानात् सर्वकर्मणां निवृत्तिप्रतीतिस्तथापि–
इष्ट्यादि सर्वं काम्यं तु मलमासे विवर्जयेत् ।
इत्यादिवक्ष्यमाणवचनानुसारात् ।
नित्यनैमित्तिके कुर्यात् प्रयतः सन् मलिम्लुचे ॥
इत्यादिप्रतिप्रसववचनेभ्यश्च काम्यानामेव निवृत्तिः न तु नित्यनैमित्तिकानाम् ।
तेषामपि चानन्यगतिकानामेव तत्रानुष्ठानं न सगतिकानाम् ।
तथाच–
काठकगृह्ये:
मले ऽनन्यगतिं कुर्यान्नित्यां नैमित्तिकीं क्रियाम् ।
बृहस्पतिरपि–
नित्यनैमित्तिके कुर्यात् प्रयतः सन् मलिम्लुचे ।
इति ।
अनन्यगतिकानि नित्यनैमित्तिकानि उदाहृतानि–
{म्व्-स्_१४५}
गृह्यपरिशिष्टादौ:
अवषट्कारहोमाश्च पर्व चाग्रयणं तथा ।
मलमासे ऽपि कर्तव्यं काम्या इष्टीश्च वर्जयेत् ॥
अवषट्कारहोमा = अग्निहोत्रौपासनवैश्वदेवादयः ।
इदं चारब्धविषयम् ।
आरम्भं दर्शपूर्णेष्टयोरग्निहोत्रस्य चादिमम् ।
इति मदनरत्ने आरम्भस्यैव निषेधात् ।
पर्वौदर्शपूर्णमासौ स्थालीपाकश्च ।
आग्रयणं = पुराणान्नालाभे ।
एतेषां च नित्यत्वमकरणे प्रत्यवायश्रव णादिना बोध्यम् ।
अनन्यगतिकत्वं चैतेषां मलमासमध्ये विहितकालसमाप्तेः ।
दर्शपूर्णमासादीनां हि तत्तत्कालावच्छिन्ने जीवने निमित्ते विहितानां मलमास एव कालसमाप्तिः ।
येषां तु ज्योतिष्टोमादीनां विहितकालस्य वसन्तादेर्मलमासे ऽसमाप्ति, शुद्धे ऽप्यनुवृत्तेस्तानि न तस्मिन् कार्याणि ।
अत एवाग्रयणस्यापि मासद्वयात्मकवर्षाकालविहितस्य शुद्धमासे ऽपि काललाभाद् वक्ष्यमाणमलमासकर्तव्यतानिषेधकवचनस्योपपत्तिः ।
इदं चाग्रे निरूपयिष्यामः ।
यमः–
चन्द्रसूर्यग्रहे स्नानं श्राद्धदानजपादिकम् ।
कार्याणि मलमासे ऽपीति ।
अत्र चन्द्रसूर्यग्रहणं कपिलषष्ठ्याद्यलभ्ययोगोपलक्षणम् ।
रोगे चालभ्ययोगे च सीमन्ते पुंसवे ऽपि वा ।
इतिमरीचिवचनेन तत्रापि मलमासे कर्तव्यत्वप्रतीतेः ।
इदं चात्र कर्तव्यतावचनं तन्निमित्तकस्य स्नानादेरेव न तु काम्यस्य"काम्यं नैव कदाचन"इति निषेधात् ।
तथा–
गर्भे वार्धुषिके भृत्ये श्राद्धकर्मणि मासिके ।
सपिण्डीकरणे नित्ये नाधिमासं विवर्जयेत् ॥
तीर्थस्नानं जपो होमो यवव्रीहितिलादिभिः ।
जातकर्मान्त्यकर्माणि नवश्राद्धं तथैव च ॥
मघात्रयोदशीश्राद्धं श्राद्धान्यपि च षोडश ।
इति ।
गर्भे = गर्भसंस्कारे पुंसवनादौ ।
वार्धुषिके = वार्धुषिककृत्ये वृद्धिग्रहणे ।
भृत्ये = तत्कृत्ये भृतिग्रहणे ।
मासिके श्राद्धकर्मणि अमावास्याश्राद्धादौ ।
षोडशश्राद्धानामत्रैव पूथगुपादानात् ।
जातकर्मणि यच्छ्राद्धं दर्शश्राद्धं तथैव च ।
मलमासे ऽपि तत्कार्यं व्यासस्य वचनं यथा ॥
इतिव्यासवचनेन दर्शश्राद्धस्यापि मलमासकर्तव्यताप्रतीतेश्च ।
{म्व्-स्_१४६}
यत्तु–
संवत्सरातिरेकेण यो मासः स्यात् त्रयोदशः ।
तस्मिन् त्रयोदशे श्राद्धं न कुर्यादिन्दुसङ्क्षये ॥
इतिकौथुमिवचनं तत् कार्त्तिकादिमासविशेषसम्बन्ध्यमावास्याविहितफलविशेषार्थश्राद्धविषयम् ।
आमायामेव सर्वकामार्थविहितकाम्यश्राद्धविषयं वा ।
न तु नित्यदर्शश्राद्धविषयम् ।
तस्य प्रागुक्तव्यासवचनात्,
नित्यनैमित्तिके कुर्यात् प्रयतः सन् मलिम्लुचे ।
तीर्थस्नानं गजच्छायां प्रेतश्राद्धं तथैव च ॥
इत्यादिसामान्यवचनाच्च मलमासे कर्तव्यत्वप्रतीतेः ।
दाक्षिणात्यसकलनिबन्धस्वरसो ऽप्येवम् ।
गौडास्तु न नित्यपदेनावश्यकर्तव्यपार्वणश्राद्धादिग्रहणं तथा सति प्रेतश्राद्धादेरपि तत एव कर्तव्यतासिद्धौ तेषां पृथग्ग्रहणवैयर्थ्यापत्तेः ।
किन्त्वहरहः क्रियमाणस्नानसन्ध्यादिपरम् ।
अतश्च पार्वणश्राद्धस्य सामान्यतः प्रतिप्रसवाभावादुदाहृतकौथुमिवचनान्मलमासे निषेध एव ।
यत्तु व्यासवचनं तत् पिण्डपितृयज्ञाख्यश्राद्धपरम् ॥
इन्द्राग्नी यत्र हूयेते मासादिः स प्रकीर्त्तितः ।
अग्नीषोमौ स्मृतौ मध्ये समाप्तौ पितृसोमकौ ॥
तमतिक्रम्य तु रविर्यदि गच्छेत् कदाचन ।
आद्यो मलिम्लुचो ज्ञेयो द्वितीयः प्राकृतः स्मृतः ॥
इतिलघुहारीतवचने"समाप्तौ पितृसोमकौ"इत्यभिधाय तमतिक्रम्येत्यनेन मलमासस्वरूपाभिधानात् पितृविशिष्टसोमदैवत्यपिण्डपितृयज्ञस्य मलमासकर्तव्यताप्रतीतेस्तदेकवाक्यतालाभाय
व्यासवचनस्याप्येतत्परत्वौचित्यादित्याहुः ।
नित्ये = नित्यदाने ।
वर्षे चाहरहःश्राद्धं दानं च प्रतिवासरम् ।
गोभूतिलहिरण्यानां मासे ऽपि स्यान्मलिम्लुचे ॥
इतिमात्स्यानुसारात् ।
वर्षे = प्रथमवर्षे ।
अहरहःश्राद्धम् = अहरहर्विहितमुदकुम्भश्राद्धम् ।
तथा च–
कौथुमिः:
अब्दमम्बुघटं दध्यादन्नं चापि सुससञ्चितम् ।
संवत्सरे विवृद्धे ऽपि प्रतिमासं च मासिकम् ॥
तथा च त्रिंशत्सोदकुम्भान्नदानान्येकं मासिकमधिकं भवति ।
अत एव–
वशिष्ठः, संवत्सरमध्ये यद्यधिमासो भवेत् मासिकार्थं दिनमेकं वृद्धिं नयेत् ।
{म्व्-स्_१४७}
यत्त्वत्र जीमूतवाहनेनोक्तम्-अमावास्यामृतस्य तदधिकरणकं मासिकं न मासवृद्धौ वर्द्धनीयं"संवत्सरातिरेकेण"इति पूर्वोदाहृतकौथुमिवचनादिति, तन्न ।
अस्मिन् वचने मासिकानुपादानेनैतस्य तत्परत्वे प्रमाणाभावादुक्तयुक्त्या पार्वर्णविषयत्वस्यैव युक्तत्वात्, ।
तीर्थस्नानम् आवृत्तम् ।
अनावृत्तनिषेधस्य वक्ष्यमाणत्वात् ।
तदपि तीर्थाधिकरणकं तीर्थनिमित्तकस्य निमित्तवशादेव प्राप्तेः ।
होमो ऽत्रौपासनहोमो यवव्रीहितिलादिभिरिति द्रव्योपादानात् ।
जातकर्मग्रहणं नामकरणादिसंस्कारोपलक्षणम् ।
तथाच माधवोदाहृतायां स्मृतौ–
श्राद्धजातकनामानि ये च संस्कारसव्रताः ।
मलिम्लुचे ऽपि कर्तव्याः काम्या इष्टीश्च वर्जयेत् ॥
श्राद्धं = जनननिमित्तकं जननसमभिव्याहारात् ।
तस्य जातकर्मानङ्गत्वेन तत्प्रतिप्रसवेन तस्याप्रतिप्रसवात् पृथगभिधानोपपत्तिः ।
जातकं = जातकर्म ।
संस्कारा = निष्क्रमणान्नप्राशनादयो ये चतुर्थादिमासविशेषनियताः ।
ः–
नामान्नप्राशनं चौलं विवाहं मौञ्जिबन्धनम् ।
निष्क्रमं जातकर्मापि काम्यं वृषविसर्जनम् ॥
अस्तं गते गुरौ शुक्रे बाले वृद्धे मलिम्लुचे ।
उपायनमुपारम्भं व्रतानां नैव कारयेत् ॥
इति गर्गवाक्यं जातकर्मादीनां निषेधकम्, तन्मुख्यकालाकृतानां वेदितब्यम् ।
यथा च स एव–
नामकर्मादिजातं च यथाकालं समाचरेत् ।
अतिपाते तु कर्तव्यं प्रशस्ते मासि पुष्यदे ॥
अन्त्यकर्मौदाहास्थिसञ्चयादि ।
नवश्राद्धं = मरणदिनाच्चतुर्थान्दिदिनकृत्यम् ।
बहुस्पतिः–
नित्यनैमित्तिके कुर्यात् प्रयतः सन् मलिम्लुचे ।
तीर्थश्राद्धं गजच्छायां प्रेतश्राद्धं तथैव च ॥
अत्र गजच्छाया–
परमान्नं तु यो दद्यात् पितॄणां मधुना सह ।
छायायां च गजेन्द्रस्य पूर्वस्यां दक्षिणामुखः ॥
इतिविश्वामित्रोक्ता गजस्यैव छाया ग्राह्या ।
न तु–
यदेन्दुः पितृदैवत्ये हंसश्चैव करे स्थितः ।
याम्या तिथिर्भवेत् साहि गजच्छाया प्रकीर्त्तिता ॥
इति तेनैवोक्ता ।
सूर्यस्य हस्ते ऽवथाने कन्यासङ्क्रान्तेरवश्यम्भावेन मलमासासम्भवात् ।
दाक्षिणात्या अप्येवम् ।
स्मार्त्तास्तु–
{म्व्-स्_१४८}
सैंहिकेयो यदा भानुं ग्रसते पर्वसन्धिषु ।
गजच्छाया तु सा प्रोक्ता तत्र श्राद्धं प्रकल्पयेत् ॥
इति वाराहोक्ता ग्राह्येत्याहुः ।
अत्र दाक्षिणात्यमते गजच्छायादेः सगतित्वे ऽपि वचनात्कर्तव्यता बोध्या ।
एवमनन्यगतिकत्वेन नित्यनैमित्तिकानां मलमासे कर्तव्यतोक्ता ।
यानि तु सगतिकानि तानि नित्यान्यपि न तत्र कार्याणि ।
तानि च कानिचित् काठकगृह्यपरिशिष्टे दर्शितानि ।
सोमयागादिकर्माणि नित्यान्यपि मलिम्लुचे ।
पुत्रेष्टयाग्रयणाधानचातुर्मास्यादिकानि च ॥
महालयाष्टकाश्राद्धोपाकर्माद्यपि कर्म यत् ।
स्पष्टमासविशेषाख्याविहितं वर्जयेन्मले ॥
अत्र हि सोमयागादेर्मासद्वयात्मकवसन्तादिकालिकत्वेन शुद्धे ऽपि विहितकाललाभात्सगतिकत्वम् ।
एवमन्यत्राप्यनुसनेधेयम् ।
पुत्रेष्टिर्जातेष्टिः ।
तस्या नैमित्तिकत्वे ऽपि शेषिविरोधान्निमित्तानन्तरकालबाधे जाते पर्वोपसङ्ग्रहवच्छुद्धकालोपसङ्ग्रहस्य न्याय्यत्वात् सगतिकत्वम् ।
आग्रयणस्य तु मासद्वयात्मकवर्षाकालिकत्वेन स्पष्टमेव सगतिकत्वम् ।
यत्तु कर्तव्यतावचनं तत् पुराणान्नालाभविष्यमित्युक्तं प्राक् ।
महालयाद्दिर्वक्ष्यते ।
काम्यान्यपि यानि शेषिविरोधाद्विलम्बं न सहन्ते यथा कारीर्यादीनि तानि मलमासे ऽपि भवन्त्येव ।
नैमित्तिकानि काम्यानि निपतन्ति यथा यथा ।
तथा तथैव कार्याणि न कालस्तु विधीयते ॥
इति दक्षवचनात् ।
अत्र नैमित्तिकानि काम्यानीति सामानाधिकरण्यम् तथा च दुःस्वप्नादिनिमित्तेन कर्तव्यतयोपस्थितानि काम्यानीत्यर्थः ।
शुद्धकाम्यानामपि वर्जनमारम्भसमाप्त्योरेव ।
असूर्यो नाम ये मासा न तेषु मम सम्मताः ।
व्रतानां चैव यज्ञानामारम्भश्च समापनम् ॥
इतिब्रह्मसिद्धान्तात् ।
अनुवृत्तिस्तु तत्रापि कर्तव्यैव ।
प्रारब्धं कर्म यत् किञ्चित् तत् कार्यं स्यान्मलिम्लुचे ।
इति तत्रैवोक्तेः ।
अत एव काम्यचातुर्मास्यव्रतोपक्रमसमाप्तिकालयोर्मध्ये ऽधिमासपाते तत्र
तस्याविच्छेदेनानुष्ठानमुक्तम् ।
अधिमासनिपाते ऽपि ह्येष एव विधिः स्मृतः ।
इति ।
यत्तु–
प्रवृत्तं मलमासात् प्राक् यत्काम्यमसमापितम् ॥
आगते मलमासे ऽपि तत्समाप्यमसंशयम् ।
{म्व्-स्_१४९}
इति मलमासे ऽपि काम्यकर्मणः समाप्तिप्रतिपादकं काठकगृह्यं तत् सावनमानोपजीविकृच्छ्रचान्द्रायणाहीनसत्रादिविषयम् ।
कालमाधवो ऽप्येवम् ।
हेमाद्रिस्तु प्रारम्भमात्रं
काम्यकर्मणो मलमासे निषिद्धम् ।
समाप्तिस्तु तस्य मलमासे ऽपि कर्तव्यैव प्रागुदाहृतकाठकगृह्यात् ।
यस्तु खमापनमिति ब्रह्मसिद्धान्तवचने समाप्तिनिषेधः स मलमास एव मोहात् प्रारब्धस्य तस्य तत्रैव समापने दोषातिशयप्रदर्शनार्थ इत्याद्द ।
तदेवं सङ्क्षेपतो वर्ज्यत्वे सिद्धे प्रपञ्चार्थं वचनान्युदाहियन्ते ।
ज्योतिःपराशरः–
अग्न्याधेयं प्रतिष्ठां च यज्ञदानव्रतानि च ।
वेदव्रतवृषोत्सर्गचूडाकरणमेव च ॥
माङ्गल्यमभिषेकं च मलमासे विवर्जयेत् ।
बाले वा यदि वा शुक्रे वृद्धे वास्तमुपागते ॥
मलमास इवैतानि वर्जयेद्देवदर्शनम् ।
अग्न्याधानं च प्रथमम् ।
अग्न्यनुगमनिमित्तं तु पुनराधानं नैमित्तिकत्वात् कर्तव्यमेव ।
प्रतिष्ठाप्यपूर्वैव ।
चण्डालादिस्पर्शनिमित्ता तु पुनःप्रतिष्ठा तत्र कार्यैव ।
यज्ञदानानि सगतिकानि ।
अगतिकानां प्रतिप्रसवोक्तेः ।
यत्तु–
वापीकूपतडागादिप्रतिष्ठां यज्ञकर्म च ।
न कृर्यान्मलमासे तु महादानव्रतानि च ॥
इति नारदवचेन महादानानामेव प्रतिषेधः स प्रत्यवायातिशयार्थः ।
यत्त्वनन्तभट्टहेमाद्रिजीमृतवाहनशूलपाण्यादिभिर्दानपदं महादानपरमतश्च तेषामेवात्र निषेध इत्युक्तम्, तन्न ।
अन्येषामपि सगतिकत्वेन ग्रतिषेधस्योचितत्वात् ।
अस्ते सन्ध्यागते बाले भृगौ मासि मलिम्लुचे ।
देवतादर्शनं दानं महादानं विवर्जयेत् ॥
इत्यादिलघुहारीतवचनेषु दानमहादानपदयोरुपादानेनोपसंहारासम्भवाच्च ।
न चैतेषां निर्मूलत्वं जीमूतवाहनकालविवेकस्मार्त्तपुस्तकादावुपलम्भात् ।
तस्मात् प्रत्यवायातिशयार्थमेव पृथङ्महादाननिषेध इति युक्तम् ।
अन्ये तु शेषिबाधापत्तेरवश्यकर्तव्ये दानादावन्येषामेव प्रतिप्रसवो न महादानानां तेषां पुनर्निषेधादित्याहुः ।
नारायणोपाध्यायास्तु दानान्तराणि मुमुक्षोः फलाभिसन्धिविरहेण कुर्वाणस्य मलमासे ऽपि भवन्ति महादानानि तु न तथा पुनर्निषेधादित्याहुः ।
कृत्यचिन्तामणौ तु दानमित्यत्र यानमिति पाठः ।
वेदव्रतानि महानाम्नीव्रतानि ।
{म्व्-स्_१५०}
वृषोत्सर्गः काम्यः ।
एकादशाहिकस्य षोडशश्राद्धवदगतिकत्वेन निषेधायोगात् ।
माङ्गल्यम् अन्यदपि विवाहादि ।
अत एव भीमपराक्रमे–
अधिमासके विवाहं यात्रां चूडां तथोपनयनादि ।
कुर्यान्न सावकाशं माङ्गल्यं न तु विशेषेज्याम् ॥
इति ।
अत्र सावकाशमित्यनेनैव सिद्धे पुनर्विवाहादिग्रहणं निवकाशत्वे ऽपि प्रतिषेधार्थमिति स्मार्त्तः ।
अभिषेको राज्ञः स च प्रथमः ।
राज्ञो ऽभिषेकः प्रथमः शुद्धं कालं प्रतीक्षते ।
प्रत्याब्दिकस्तु नित्वत्वात् कालमात्रे ऽपि वा भवेत् ॥
इति मदनरत्नोदाहृतवचनात् ।
वस्तुतस्तु द्वितीयादिरपि मलमासे निषिद्ध एव सगतिकत्वात् ।
वचनं
तु शुक्रास्तादिकाले ऽपि कर्तव्यतापरम् ।
देवदर्शनमपि पुराणादिप्रसिद्धानामनादिदेवतानां प्रथमम् ।
अनादिदेवतां दृष्ट्वा शुचः स्युर्नष्टभार्गवे ।
मलमासे ऽप्यनावृत्त तीर्थस्नानं विवर्जयेत् ॥
इति स्कन्दपुराणात् ।
अत्र हि पूर्वार्द्धगतनिन्दापोक्षितो निषेधो न स्वतन्त्रः कल्प्यः ।
येनानावृत्तपदस्योत्तरत्रैवान्वयाद्देवदर्शनमावृत्तमपि निषिध्येत किन्तूपस्थि तत्वात्त्यजेदित्ययमेव ।
अत एव वर्जनविधौ तीर्थस्नानदेवदर्शनयोः समुच्चितत्वादपिशब्दोपपत्तिः ।
अतश्चोभयोरपि वर्जनक्रियाकर्मत्वाविशेषादनावृत्तपदार्थस्योभयपरिच्छेदकत्वोपपत्तेर्देवदर्शनस्यापि प्रथमस्यैव मलमासे निषेधः ।
किञ्चावृत्तदेवदर्शननिषेधे तावत्कालमनादिदेवतापूज्यतापत्तिः ।
न चेष्टापत्तिः ।
अनादिदेवतार्चार्थं कालदोषो न विद्यते ।
नित्यास्वभ्यासयोगेन तथैवैकादशीव्रतम् ॥
इति ज्योतिःपराशरवचनविरोधापत्तेः ।
अत्र च स्कान्दे तीर्थस्नानग्रहणं तीर्थयात्रादेरुपलक्षणम् ।
अत एव तीर्थयात्रां विवर्जयेदिति गार्ग्यवचने पाठः ।
अस्य च प्रतिप्रसवो गयायाम् ।
तथाच–
वायुपुराणे:
गयायां सर्वकालेषु पिण्डं दद्याद्विचक्षणः ।
अधिमासे जन्मदिने अस्ते च गुरुशुक्रयोः ॥
न त्यक्तव्यं गयाश्राद्धं सिंहस्थे च बृहस्पतौ ।
सत्यव्रतः–
वर्षे वर्षे तु यच्छ्राद्धं मातापित्रोर्मृते ऽहनि ।
मलमासे न कर्तव्यं व्याघ्रस्य वचनं यथा ।
मातापित्रोरित्युपलक्षणम् ।
तेन वार्षिकं श्राद्धं मलमासे न कार्यमित्येव विवक्षितम् ।
युक्तं चैतत् ।
“मासपक्षतिथिस्पृष्ट"इति वचनेन तत्तन्मासीयतत्तत्तिथौ विधानात् ।
{म्व्-स्_१५१}
स्पष्टमासविशेषाख्याविहितं वर्जयेन्मले ।
इत्यनेन निषेधात् ।
यानि तु–
प्रतिसंवत्सरश्राद्धे नाधिमासं विदुर्बुधाः ।
जातकर्मणि यच्छ्राद्धं नवश्राद्धं तथैव च ॥
प्रतिसंवत्सरं श्राद्धं मलमासे ऽपि तत् स्मृतम् ।
इत्यादिशातातपादिवचनानि तानि मलमासमृतानां पुनर्मलमासे तत्रैव प्रत्याव्दिकं कार्यं न शुद्ध इत्येवम्पराणि ।
वर्षे वर्षे तु यच्छ्राद्धं मृताहे तन्मलिम्लुचे ।
कुर्यात्तत्र प्रमीतानामन्येषामुत्तरत्र तु ॥
इति शातातपेनैव विषयदानात् ।
मलिम्लुचे तु सम्प्राप्ते ब्राह्मणो भ्रियते यदि ।
ऊनाभिधेयमासो ऽसौ कथं कुर्यात्तदाब्दिकम् ॥
यस्मिन् राशिगते भानौ विपत्तिः स्याद्द्विजन्मनः ।
तस्मिन्नेव प्रकुर्वीत पिण्डदानोदकक्रियाः ।
अधिमासे विपन्नानां सौरं मानं समाश्रयेत् ।
स एव दिवसस्तस्य श्राद्धपिण्डोदकादिषु ॥
इति व्यासवचनेनैकवाक्यत्वाच्च ।
न चेदं वचनं मलमासमृतस्य सौरेणैव मासेन सर्वदा प्रत्याब्दिककर्तव्यतापरमिति समयप्रकाशकृद्व्याख्यानं युक्तम् ।
मलमासमृतस्याब्दान्तरे कदाचिन्मृताहाप्राप्तौ श्राद्धलोपापत्तेः ।
तस्मान्मलम्मासमृतस्य पुनर्मलमासे तत्रैव प्रत्याब्दिकं कार्यं न शुद्ध इत्येव व्याख्या ज्यायसी बहुसम्मता च ।
शुद्धमासमृतानां तु द्वितीयाद्याब्दिकं शुद्ध एव कार्यं प्रथमाब्दिकं तु मल एव ।
तथाच–
हारीतः:
असङ्क्रान्ते ऽपि कर्तव्यमाब्दिकं प्रथमं द्विजैः ।
तथैव मासिकं श्राद्धं सपिण्डीकरणं तथा ॥
असङ्क्रान्ते रवौ मलमासे इत्यर्थः ।
यमो ऽपि–
आब्दिकं प्रथमं यत् स्यात्तत् कुर्वीत मलिम्लुचे ।
त्रयोदशे तु सम्प्राप्ते कुर्वीत पुनराब्दिकम् ॥
अस्यार्थः ।
प्रथमाब्दिकं मल एव स्यात् ।
पुनराब्दिकं द्वितीयाद्याब्दिकं तु यदि तद्दिने मलमासपातस्तदा त्रयोदशे शुद्धे कुर्वीतेत्यर्थः ।
{म्व्-स्_१५२}
लघुहारीतो ऽपि–
प्रत्यब्दं द्वादशे मासि कार्या पिण्डक्रिया सुतैः ।
क्वचित्त्रयोदशे ऽपि स्यादाद्यं मुक्त्वा तु वत्सरम् ॥
प्रत्यब्दं द्वादशे मासीत्युत्सर्गो मलमासाभावे ।
क्वचिद् द्वितीयाब्दिकादौ नलमासपाते त्रयोदशे शुद्धे कार्यम् ।
आद्याब्दिकं मलमासपाते ऽपि द्वादश एव मासे कार्यमित्यर्थः ।
इयं च मलमासपाते द्वादशे मासि कर्तव्यता न संवत्सरमध्ये मलमासपाते ।
तथाच सति द्वादशे मासि मृततिथ्यलाभेन सपिण्डनानुपपत्तेः ।
कार्त्तिकमृतस्याश्विने प्रत्याब्दिकप्रसङ्गात् ।
किन्त्वन्तिमस्यैव मलमासत्वे आद्याब्दिकस्य तत्र कर्त्तब्यता ।
तदयमर्थः ।
मलमासमृतानां यदा कालक्रमेण कदाचिन्मृतिमास एव मलमासस्तदा तदीयमाब्दिकं तत्रैव कार्यम् ।
शुद्धमासमृतानां तु द्वितीयाद्याब्दिकं शुद्ध एव प्रथमाब्दिकं तु मल एवेति ।
एवं च–
श्राद्धीयाहनि सम्प्राप्ते अधिमासो भवेद्यदि ।
श्राद्धद्वयं प्रकुवीन्त एवं कुर्वन्न मुह्यति ॥
इति वशिष्ठवचनं मासिकविषयं व्याख्येयम् ।
यानि तु"मासद्वये ऽपि तत्कार्यं व्याघ्रस्य वचनं यथा”
“पितृकार्याणि चोभयोः"इत्यादीनि गालवादिवचनानि तान्यप्येवमेव व्यवस्थापनीयानि ।
कौथुमिः–
वर्षवृद्ध्याभिषेकादि कर्तव्यमधिके न तु ।
वर्षवृद्धिः = वर्धाम्पनं प्रतिवर्षं क्रियमाणम् ।
हारीतः–
अधिमासे न कर्तव्यं श्राद्धमभ्युदयं तथा ।
तथैव काम्यं यत् कर्म वत्सरात् प्रथमादृते ॥
सपिण्डीकरणादूर्ध्वं यत्किञ्चित् श्राद्धिकं भवेत् ।
इष्टं वाप्यथत्रा पूर्वं तन्न कुर्यान्मलिम्लुचे ॥
अत्र चाभ्युदयनिषेधद्वारा तदङ्गकस्य चौलोपनयनादेरेव निषेधो द्रष्टब्यः ।
“चूडां मौञ्जीबन्धनं च"इत्यादिप्रागुदाहृतवाक्यैकवाक्यत्वात् ।
तत्रापि प्रथमवत्सरसम्बन्धिमलमासकर्तव्यनामकर्मादिप्रयुक्तमाभ्युदयिकं मल एव कार्यमिति “वत्सरात्प्रथमादृतऽ; इत्यस्यार्थः ।
केचित्तु प्रथमसम्वत्सरे सपिण्डीकरणोत्तरदिने क्रियमाणमाभ्युदयिकं मलमासे ऽपि कार्यमित्यर्थमाहुः ।
हेमाद्रिस्तु वत्सरात् प्रथमादृत इति सपिण्डीकरणादूर्ध्वमित्यत्रान्वेति ।
तथा च सपिण्डीकरणादूर्ध्वं यानि प्रथमसंवत्सरसम्बन्धीनि पुनर्मासिकानि क्रियन्ते तानि मलमासे ऽपि कार्याणि इत्याह ।
{म्व्-स्_१५३}
शूलपाणिस्तु–
असङ्क्रान्ते ऽपि कर्तव्यमाब्दिकं प्रथमं द्विजैः ।
तथैव मासिकं पूर्वं सपिण्डीकरणं तथा ॥
इति लघुहारीतवचने पूर्वपदं सपिण्डनोत्तरभाविमासिकश्राद्धनिषेधार्थम् ।
अतश्चतानि मलमासे कर्तव्यानीत्याह ।
अयं च सपिण्डीकरणोत्तरभाविश्राद्धनिषेधो युगादिश्राद्धभिन्नविषयः ।
ते तु मलमास एव कार्याः ।
दशहरासु नोत्कर्षश्चतुर्ष्वपि युगादिषु ।
डपाकर्मणि चोत्सर्गे ह्येतदिष्टं वृषादितः ॥
इति वचनात् ।
अत्र हि वृषादित इत्यभिधानाद्वृषस्थारवावेवदशहरा, तुलामकरमेषसिंहेष्वेव युगादय इति प्रतीतेः ।
यच्च"ज्येष्ठेमासि सिते पक्षे"इत्यादिवचनेषु दशहरादौ चान्द्रमासवाचिज्येष्ठादिपदश्रवणं तदगत्या लक्षणया सौरमासपरम् ।
अतश्च तुलादिस्थरवेः शुद्धमासे असम्भवात् मलमास एव युगादिप्राप्तेरनुत्कर्षसिद्धिः ।
अत्र यत् उपाकर्मोत्सर्जनयोरनुत्कर्षवचनं तत् छन्दोगविषयम् ।
तेषामेव–
सिंहे रवौ तु पुष्यर्क्षे पूर्वाह्णे विचरेद्बहिः ।
छन्दोगा मिलिताः कुर्युरुत्सर्गं सर्वच्छन्दसाम् ॥
शुक्लपक्षे च हस्तेन उपाकर्मापराह्णिकम् ।
इति गार्ग्यवचनेन सिंहस्थे रवावुपाकर्मोत्सर्जनविधानात् ।
अत एव"श्रवणेन श्रावणस्य"इत्यादावाश्वलायनसूत्रे श्रावणपदं न सौरमासपरम् ।
वृषादित इत्यस्य प्रसिद्धसौरमासोपजीविच्छन्दोगपरत्वेनाप्युपपत्तौ श्रावणपदस्य लाक्षणिकत्वे प्रमाणाभावात् ।
अतः
सामगान्यैरुपाकर्मोत्सर्जने मले न कार्ये ।
अत एव–
उत्कर्षः कालवृद्धौ स्यादुपाक्रमादिकर्मणाम् ।
अभिषेकादिवृद्धीनां न तूत्कर्षो युगादिषु ॥
इत्यादिकातीयादिवचनानामप्युपपत्तिः ।
अन्यथा सर्वेषामपि सौरमासोपजीवने वचनानर्थक्यापत्तेः ।
तस्मादुक्तैव व्यवस्थाश्रयणीया ।
यत्तु स्मृतिसङ्ग्रहे–
भृगुभार्गवयोर्मौढ्ये बाल्ये वा वार्द्धके ऽपि वा ।
तथाधिमाससर्म्पमलमासादिषु द्विजाः ॥
प्रथमोपाकृतिर्न स्यात्कृता कर्मविनाशकृत् ॥
इति वचनं तत् सामगानामेव प्रथमोपाकृतिनिषेधकम् ।
माधवादयस्तु दशहरासु नेति वचनस्थं वृषादित इति हेतुवचनमनादृत्य–
{म्व्-स्_१५४}
प्रतिमासं मृताहे च श्राद्धं यत् प्रतिवत्सरम् ।
मन्वादौ च युगादौ च मासयोरुभयोरपि ॥
यौगादिकं मासिकं च श्राद्धं चापरपाक्षिकम् ।
मन्वादिकं तैर्थिकं च कुर्यान्मासद्वये ऽपि वा ॥
इति मरीच्यादिवचनात् युगादिश्राद्धस्योभयत्रकर्तव्यतामाहुः ।
तैर्थिकस्योभयत्रकर्तव्यता तु यदैव तीर्थप्राप्तिः शुद्धे मले वा तदैव श्राद्धं कुर्यादितिव्यवस्था द्रष्टव्या ।
वस्तुतस्तु मन्वादिवाक्येन वैरूप्यापत्तेः एतद्वचनबलात् तीर्थश्राद्धमुभयत्र कार्यमितियुक्तम् ।
आपरपाक्षिकं कृष्णपक्षसामान्यनिमित्तकं मासद्वये कार्यम् ।
महालयनिमित्तस्य तु यदि श्रावणभाद्रयोरधिमासपातस्तदा–
नभो वाथ नभस्यो वा मलमासो यदा भवेत् ।
सप्तमः पितृपक्षः स्यादन्यत्रैव तु पञ्चमः ॥
इति नागरखण्डवचनेनाषाढीतः सप्तमे पक्षे विहितत्वात् मलमासे निषेधः स्पष्ट एव ।
यदा त्वाश्विनस्याधिमासत्वं तदापि न कन्यासम्बन्धभ्रान्त्या मलिनाश्विने महालयः कार्यः किन्तु भाद्रापरपक्ष एव"अन्यत्रव तु पञ्चमः"इत्यभिधानात् ।
न च कन्यायोगाभावे कथं तत्र श्राद्धमिति वाच्यम् ।
सकलस्य पक्षस्य कन्यायोगाभावे कथं तत्र श्राद्धमिति वाच्यम् ।
सकलस्य पक्षस्य कन्यासम्बन्धाभावे ऽपि भाद्रपदकृष्णपक्षस्य कन्यासङ्क्रान्तिस्पर्शवत्त्वेन तत्र श्राद्धस्यानुष्ठानं शक्यत्वात् ।
अत एव–
अन्ते वा यदि वा मध्ये यत्र कन्यां रविर्व्रजेत् ।
स पक्षः सकलः पूज्यः श्राद्धं तत्र विधीयते ॥
इति कार्ष्णाजिनिवचने ऽपि सकलस्य पक्षस्य कन्यायोगाभावे ऽपि तत्र श्राद्धमुक्तम् ।
शूलपाण्यादिमते तु कन्यासम्बन्धनिरपेक्षस्य पञ्चमपक्षस्यैव श्राद्धकालत्वाद्युक्तमेव तत्र श्राद्धानुष्ठानम् ।
यत्तु तन्मते कन्यागतापरपक्षे सकृत्क्रियमाणश्राद्धान्तर तत् कन्यागतापरपक्षस्य पञ्चमत्वासम्भवान्मलिनाश्विने प्राप्तमपि वक्ष्यमाणवचनानुसारात्तुलागतापरपक्ष एव कार्यम् ।
वस्तुतस्तु कन्यागतापरपक्षश्राद्धं न पञ्चमपक्षश्राद्धाद्भिन्नं श्राद्धभेदे विधिकल्पनागौरवापत्तेः ।
पञ्चमपक्षस्य"अन्ते वा यदि वा मध्य"इति वचनेन कन्योपलक्षितस्यैव श्राद्धकालत्वप्रतीतेश्च ।
न च कन्यासम्बन्धाभावे पञ्चमपक्षे
श्राद्धकरणापत्तिः ।
तस्मिन् कन्यासम्बन्धस्यावश्यकत्वात् ।
श्रावणभाद्रयोर्हि मलमासत्वे पञ्चमपक्षस्य कन्यासम्बन्धो न भवेत् ।
तदा च सप्तमपक्षस्य विहितत्वात् कन्योपलक्षित एव श्राद्धप्राप्तिरिति न कापि क्षतिः ।
{म्व्-स्_१५५}
यदा तु आश्विनस्य मलिनत्वं तदापि पञ्चमपक्षस्य कन्यासम्बन्धो ऽस्त्येव अमायामेव कन्याप्रवेशात् तेन एकमेव श्राद्धमिति युक्तं बहुसम्मतं च ।
तदपि चाश्विनस्य मलिनत्वे ऽपि कन्योपलक्षितस्य मुख्यस्यैव पञ्चमपक्षस्य लाभात्तत्रैव कार्यम् ।
यत्तु–
मासः कन्यागते भानावसह्क्रान्तो भवेद्यदि ।
दैवं पित्र्यं तदा कर्म तुलास्थे कर्तुरक्षयम् ॥
इति ज्योतिः पितामहवचनं तुलास्थरवौ कर्तव्यत्वबोधकं तन्महालयातिरिक्तव्रीहिपाकादिश्राद्धपरम् ।
अथवा महालयस्य"यावद्वृश्चिकदर्शनम्"इति गौणकाले ऽपि विहितत्वाद् गौणकालभ्रान्त्या मलिनाश्विने क्रियमाणस्य निषेधद्वारा तुलास्थरवौ कर्तव्यताबोधकम् ।
यत्तु कालादर्शेन–
आब्दोदकुम्भमन्वादिमहालययुगादिषु ।
इति कर्तव्येषु महालयपरिगणनं कृतं तत् महालयाख्यतीर्थपरम् ।
माधवसम्मतो ऽप्ययमर्थः ।
अत्र च ज्योतिः पितामहवाक्ये दैवस्यापि कन्याकर्तव्यस्य तुलायां कर्तव्यत्वप्रतीतेर्दुर्गास्थापनादिकमपि तत्रैव कार्यम् ।
यदुक्तम्–
ज्योतिषे:
सम्पूर्णे मिथुने ऽधिको यदि भवेन्मासस्तदा कर्कटे
शेते बुद्ध्यति वृश्चिके स भगवान् मासैश्चतुर्भिर्हरिः ।
कन्यायां तु शचीपतिः सुरगेणैर्वन्द्यस्तदोत्तिष्ठते
दुर्गा चैव तुलागमे समधिके शेषास्तदन्ये सुराः ॥
परिशिष्टे ऽपि–
द्विराषाढे समुत्पन्ने कर्कटे शयने हरौ ।
आखण्डलस्तु कन्यायां तुलायां पार्वती तथा ॥
द्विराषाढश्चात्र–
मिथुनस्थो यदा भानुरमावास्याद्वयं स्पृशेत् ।
द्विराषाढः स विज्ञेयो विष्णुः स्वपिति कर्कटे ॥
इतिवचनोक्तो मुख्य एव ग्राह्यः ।
माधवाद्येषु षट्ष्वेकमासि दर्शद्वयं भवेत् ।
द्विराषाढः स विज्ञेय–
इत्यादिस्तु गौणो ऽत्र न ग्राह्य इति बहवः ।
क्षयमासमृतस्य प्रत्याब्दिके विशेषो–
हेमाद्रौ भविष्ये:
तिथ्यर्धे प्रथमे पूर्वो द्वितीये ऽर्द्धे तथोत्तरः ।
मासाविति बुधैश्चिन्त्यौ क्षयमासस्य मध्यमौ ॥
इति ।
आब्दिकवद्वर्धापने ऽपि ज्ञेयम् ।
इति मलमासे कार्याकार्यनिर्णयः ।
{म्व्-स्_१५६}
अथ गुरुशुक्रादिमौझयादौ कार्याङ्कार्यनिर्णयः ।
बृहस्पतिः–
बाले वा यदि वा वृद्धे शुक्रे वास्तं गते रवौ ।
मलमास इवैतानि वर्जयेद्देवदर्शनम् ॥
अनादिदेवतां दृष्ट्वा शुचः स्युर्नष्टभार्गवे ।
मलमासे ऽप्यनावृत्ततीर्थयात्रां विवर्जयेत् ॥
आवृत्ततीर्थदोषाभावमात्रं न तु फलमिति मिश्राः ।
तन्न ।
बाधकाभावात् ।
लल्लो ऽपि–
नीचस्थे वक्रसंस्थे ऽप्यतिचरणगते बालवृद्धास्तगे वा
सन्न्यासो देवयात्राव्रतनियमविधिः कर्णवेधस्तु दीक्षा ।
मौञ्जीबन्धो ऽङ्गनानां प्रतिनियमविधिर्वास्तुदेवप्रतिष्ठा
वर्ज्याः सद्भिः प्रयत्नात् त्रिदशपतिगुरौ सिंहराशिस्थितेच ॥
इति ।
अस्यापवादो ब्राह्मे–
मुण्डनं चोपवासं च गौतम्यां सिंहगे रवौ ।
कन्यागते तु कृष्णायां न तु तत्तीरवासिनाम् ॥
बाल्यादिलक्षणान्युक्तानि ब्रह्मसिद्धान्ते–
रविणासत्तिरन्येषां ग्रहाणामस्त उच्यते ।
ततो ऽर्वाक् बार्धकं मौढ्यादूर्ध्वं बाल्यं प्रकीर्त्तितम् ॥
एतत्परिमाणमप्युक्तं तत्रैव–
पक्षं प्राग्दिशि वृद्धत्वं पश्चात्पञ्चदिनं कवेः ।
शैशवं प्राक् तु पञ्चाहं पश्चाद्दशदिनं स्मृतम् ।
शैशवं वार्द्धकं पक्षं प्राक् पश्चाच्च बृहस्पतेः ॥
बार्हस्पत्ये ऽपि–
प्राक्पश्चादुदितः शुक्रः पञ्चसप्तदिनं शिशुः ।
विपरीतं तु वृद्धत्वं तद्वद्देवगुरोरपि ॥
अत्र परिमाणविरोधे देशभेदादापत्कृता वा व्यवस्था ।
अत एब–
मिहिरः:
बहवौ दर्शिताः काला ये बाल्ये वार्द्धके ऽपि च ।
ग्राह्यास्तत्राधिकाः शेषा देशभेदादुतापदि ॥
देशभेदश्च गार्ग्येणेक्तः ।
यथा–
शुक्रो गुरुः प्राक् परतश्च बालो
विन्ध्ये दशावन्तिषु सप्तरात्रम् ।
{म्व्-स्_१५७}
वङ्गेषु हूणेषु च षट् च पञ्च
शेषे च देशे त्रिदिनं वदन्ति ॥
गङ्गायां विशेषो वायुपुराणे–
गङ्गायां सर्वकालेषु पिण्डं दद्याद्विचक्षणः ।
अधिमासे जन्मदिने अस्ते च शुरुशुक्रयोः ॥
न त्यक्तव्यं गयाश्राद्धं सिंहस्थे च बृहस्पतौ ।
तथा–
गोदावर्यां गयायां च श्रीशैले ग्रहणद्वये ।
सुरासुरगुरूणां च मौढ्यदोषो न विद्यते ।
ग्रहणे = ग्रहणनिमित्तककुरुक्षेत्रयात्रादौ ।
अत एव लल्लः–
उपप्लवे शीतलभानुभान्वोरर्धोदये वा कपिलाख्यषष्याम् ।
सुरासुरेज्यास्तमये ऽपि तीर्थे यात्राविधिः सङ्क्रमणे च शस्तः ॥
इति ।
इति गुरुशुक्रादिमौढ्यादिनिर्णयः ।
अथ श्राद्धकालः ।
तत्र तावदमावास्या कालः ।
तत्र शातातपः–
दर्शश्राद्धं तु यत् प्रोक्तं पार्वणं तत् प्रकीर्त्तितम् ।
अपराह्णे पितॄणां च तत्र दानं प्रशस्यते ॥
यमः–
पक्षान्ते निर्वपेत्तेभ्यो ह्यपराह्णे तु पैतृकम् ।
कात्यायनः–
पिण्डान्वाहार्यकं श्राद्धं क्षीणे राजनि शस्यते ।
वासरस्य तृतीयेंऽशे नातिसन्ध्यासमीपतः ॥
पिण्डान्वहार्यकसञ्ज्ञा चैतस्य पिण्डपितृयज्ञोत्तरं क्रियमाणत्वात् ।
अत एव–
मनुः–
पितृयज्ञं तु निर्वत्य विप्रश्चन्द्रक्षये ऽग्निमान् ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् ॥
(अ। ३ श्लो। १२२)
अपराह्णश्चात्र त्रेधाविभक्तदिनतृतीयांशः ।
वासरस्य तृतीयेंऽश इत्यभिधानात् ।
चन्द्रक्षये = अमावास्यायाम् ।
न च पितृयज्ञपदेन–
पितृयज्ञं तु निर्वर्त्य तर्पणाख्यं द्विजो ऽग्निमान् ।
पिण्डान्वाहार्यकं कुर्याच्छ्राद्धमिन्दुक्षये सदा ॥
इति मात्स्यानुसारात्तर्पणमेवोच्यते न तु पिण्डपितृयज्ञ इति वाच्यम् ।
मनुवचने पितृयज्ञपदेन तर्पणस्य ग्रहणे पिण्डान्वाहार्यपदस्य नामधेयत्वानुपपत्तेः ।
{म्व्-स्_१५८}
तद्धि तत्प्रख्यन्यायेन नामधेयम् ।
न च पिण्डपितृयज्ञोत्तरकालत्वस्याविधाने तत्सम्भवति ।
तेन पितृयज्ञपदं पिण्डपितृयज्ञपरम् ।
मात्स्यवचने तु पितृयज्ञपदेन तर्पणमेवाच्यते ।
तच्च न मेधातिथ्युक्तं पञ्चमहायज्ञान्तर्गतपितृयज्ञरूपं तर्पणं तस्य श्राद्धदिने प्रसङ्गसिद्धत्वन तत्पश्चाद्भावविधानानुपपत्तेः ।
किन्तु जलतर्पणमेव ।
तत्पश्चाद्धावो ऽपि च यद्यपि स्नातस्य श्राद्धविधानात्तर्पणस्य च स्नानाङ्गत्वात् प्राप्त एव तथापि–
पितृयज्ञस्तु तर्पणम् ।
श्राद्धं वा पितृयज्ञः स्यात् पित्र्यो बलिरथापि वा ।
इति वचनोक्तत्रिप्रकारपितृयज्ञप्राप्तौ जलतर्पणपुनर्वचनं साग्निकस्य श्राद्धदिने पितृयज्ञान्तरव्यावृत्त्यर्थमिति गौडाः ।
अन्ये तु स्नानप्रयोगान्तर्गतस्य तर्पणस्य कातीयानामेव प्राप्तेरन्येषां स्नानप्रयोगान्तर्भावे प्रमाणाभावात् प्रसज्येत कदाचिच्छ्राद्धोत्तरं तर्पणम् ।
अतश्च तन्नियमार्थत्वे सम्भवति परिसङ्खयाविध्ययोगाज्जलतर्पणोत्तरभाव एव मत्स्यपुराणवाक्ये नियम्यत
इत्याहुः ।
सर्वथा मनुवाक्ये पितृयज्ञशब्दः पिण्डपितृयज्ञपर एव ।
अतश्च तन्निमित्तकमेव दर्शश्राद्धस्य पिण्डान्वाहार्यकसमाख्यानमिति सिद्धम् ।
तादृशं च तत् पिण्डपितृयज्ञाधिकारिणः साग्निकस्यैव सम्भवतीति तद्बिषयमेवेदं झन्दोगपरिशिष्टवचनं मनुवचनं च ।
न तु सर्वविषयम् इतरान् प्रति तत्समाख्यासम्भवात् ।
अत एव परिशिष्टोक्तो वासरतृतीयांशरूपो ऽपराङ्णः पिण्डपितृयज्ञाधिकारिण आहिताग्नेरेव ।
“नातिसन्ध्यासमीपत"इत्यपि च दिनान्त्यमुहूर्त एव तं प्रति निषिध्यते न तु सायाह्नरूपस्त्रिमुहूर्तः ॥
तथात्वे पञ्चममुहूर्तात्मकदिनतृतीयभागरूपापराह्णमध्ये ऽवशिष्टयोरेकादशद्वादशयोः पिण्डपितृयज्ञश्राद्धयोरनुष्ठानासम्भवात् ।
पिण्डपितृयज्ञस्यापि त्रेधाविभक्तापराह्ण एव विहितत्वात् ।
एतेन"नातिसन्ध्यासमीपत"इत्यस्य सायाह्ननिषेधपरत्वमिति माधवोक्तिर्निरस्ता ।
अयं च परिशिष्टोक्तः कालविधिर्येषां चन्द्रदर्शनवति प्रतिपद्दिने दर्शेष्टेर्निषेधस्तेषामेवेति परिशिष्टप्रकाशकारः ।
तेन तादृशानुष्ठानकर्त्तॄन् साग्निकान् प्रति या गकालानुरोधेनामावास्या परिसिष्टानुसारेण मिर्णीयते ।
तत्र च त्रेधाविभक्तापराह्ण एव कालः ।
चन्द्रक्षये तु प्राशस्त्यमात्रं"क्षीणे राजनि शस्यते"इति वचनात् ।
चन्द्रशक्षयश्च तत्रैवोक्तः–
अष्टमेंऽशे चतुर्दश्याः क्षीणो भवति चन्द्रमाः ।
अमावास्याष्टमेंऽशे च पुनः किल भवेदणुः ॥
इति ।
{म्व्-स्_१५९}
क्षीणः = चतुर्थभागोनकलावशिष्टः ।
तथैवाग्रे परमसूक्ष्मताभिधानात् ।
अमासप्तमांसे च कृत्स्नक्षयः तेनोभयं क्षयशब्दवाच्यम् ।
मार्गशीर्षज्येष्ठामावास्ययोस्तु अमाष्टमाम्श एव क्षय इत्युक्तम्–
तत्रैव:
आग्रहायण्यमावास्या तथा ज्येष्ठस्य या भवेत् ।
विशेष आभ्यां ब्रुवते चन्द्रवारविदो जनाः ॥
अत्रेन्दुराद्ये प्रहरे ऽवतिष्ठते चतुर्थभागोनकलावशिष्टः ।
तदन्त एव क्षयमेति कृत्स्न एव ज्योतिश्चक्रविदो वदन्ति ॥
आभ्याम् = अनयोः ।
तदन्त एव अमान्त एव ।
मलमासयुक्ताब्दे त्वनयोरपीतरतुल्य एव क्षय इत्युक्तम्–
तत्रैव:
यस्मिन्नब्दे द्वादशैकश्च पव्ययस्तस्मिंस्तृतीयापरिदृश्यो नोपजायेतेति ।
पव्यो = मासः ।
तृतीयया चतुर्थभागोनत्वात् त्रिभागमात्रावशिष्टया कलया परिदृश्यो ऽनयोरपि अमावास्ययोराद्ययामे न जायेत किन्तु इतरमासवदत्रानयोरण्यामावास्ययोः क्षय इत्यर्थः ।
अत्र पौर्णमास्यन्तौ ज्येष्ठमार्गशीर्षाविति परिशिष्टप्रकाशकारः ।
तदेवं त्रेधाविभक्तापराह्ण एव मुख्यः
कालः ।
चन्द्रक्षये तु प्राशस्त्यमात्रमिति सिद्धम् ।
अत्रापराह्णव्याप्तौ त्रिमुहूर्ताधिकवृत्तिक्षयाभावेन दिने कृत्स्नकालव्याप्तिरितरदिने तदस्पर्शेन एकदेशव्याप्त्या वा भवति तत्र तदस्पर्शचतुर्दश्यपेक्षयामावास्यायाः साम्येन वृद्ध्या क्षयेण वा ।
तत्र या तावत् पूर्वेद्युरेव कृत्स्नकालव्यापिनी परेद्युश्च तदेकदेशमपि न स्पृशाति सा पूर्वैव ।
यापि तादृस्येवोत्तरत्र तदे कदेशव्यापिनी सापि पूर्वैव ।
परं यदि यजनीयदिने चन्द्रदर्शनादेकदेश व्याप्तिदिन एव यागः ।
यदि तु तिथिवृद्ध्या चन्द्रादर्शनात् प्रतिपद्येव यागस्तदा एकदेशव्याप्तिदिन एव कार्यम् ।
अन्यथा त्रयाणामनावाधानादीनामेककालत्वानुपपत्तेः गोभिलभाष्यसवरसो ऽप्यवम्म् ।
या तु
पूर्वेद्युरेवैकदेशब्यापिन सा सुतरा पूर्वा ।
यदा चतुर्दशी यामं तुरीयमनुप्रयेत् ।
अमावास्या क्षीयमाणा तदैव श्राद्धमिष्यते ॥
इति परिशिष्टवचनाच्च ।
या तु परेद्युरेव कुत्स्नकालव्यापिनी पूर्वेद्युस्तदेकदेशस्पर्शेन तदस्पर्शेन वा विद्यमाना सोत्तरैव ।
{म्व्-स्_१६०}
या तु दिनद्वये ऽपि वैषम्येणैकदेशव्यापिनी सा यैवाधिका सैव ग्राह्या ।
या तु दिनद्वये साम्येनैकदेशव्यापिनी सा यदि क्षयेण तादृशी तदा"यदा चतुर्दशीयामं"इति पूर्वादाहृतक्षीयमाणवाक्यात् पूर्वैव, यदि तु वृद्ध्या तादृशी तदोत्तरा ।
वर्द्धमानाममावास्यां लभेच्चेदपरे ऽहनि ।
यामांस्त्रीनधिकान्वापि पितृयज्ञस्तततो भवेत् ॥
इति परिशिष्टवचनात् ।
चन्द्रदर्शनादर्शनकृतस्तयोरपवादस्तु पूर्वमेवोक्तः ।
एवं यदा साम्येन तादृसी तदापि दर्शनादर्शनकृत एव निर्णयः ।
यदा च केषुचित्पक्षेषु चतुर्दशीमिश्रामायामनुष्ठानं प्राप्नोति तदा यदि अमाप्रतीक्षया सर्वानुष्ठानं सम्भवति तदा सा प्रतीक्षणीया नो चेच्चतुद्देश्यामपि सर्वमनुष्ठेयम् ।
अथ निरग्निकानां साग्निकानामपि एकदिने त्रितयानुष्ठाननियमरहितानामापस्तम्बास्वालयादीनाममावास्यानिर्णयः ।
अत्र च पञ्चधाविभक्तापराह्णव्यापिनी ग्राह्या ।
दिनद्वये ऽप्यराह्णव्याप्तौ क्षये पूर्वा वृद्धौ साम्ये च परा ।
अमावास्या तु याहि स्यादपराह्णद्वये ऽपि सा ।
क्षये पूर्वा परा वृद्धौ साम्यऽपि च परा स्मृता ॥
इतिमाधवोदाहृतवचनात् ।
क्षयादयश्चात्र परतिथेरेव ।
तत्तिथेरेवेतिकेचित् ।
दिनद्वये साम्येनैकदेशव्याप्तावप्ययमेव निर्णयः ।
दिनद्वये ऽप्यवराह्णस्पर्शिन्यां तु साग्निनिरग्निकभेदेन व्यवस्था ।
अपराह्णद्वयाव्यापी यदि दर्शस्तिथिक्षये ।
आहिताग्नः सिनीवाली निरग्न्यादेः कुहूः स्मृता ॥
इति जाबालिवचनात् ।
आदिशब्देन च स्त्रीशूद्रयोर्ग्रहणम् ।
स्त्रीभिः शूद्रैः कुहूः कार्या तथा चानग्निकैर्द्विजः ।
इतिलौगाक्षिवचनात् ।
आहिताग्निपदं चात्र स्मार्त्ताग्नेरप्युपलक्षणमिति मदनपारिजातः ।
सिनीवाल्यादिलक्षणमुक्तम्–
व्यासेन:
दृष्टचन्द्रा सिनीवाली नष्टचन्द्रा कुहूः स्मृता ।
इति
हेमाद्रिस्तु निरग्निकैः कुतुपकालव्यापिनी ग्राह्या ।
दिनद्वये तद्व्याप्तौ क्षये पूर्वैव साम्यवृद्ध्योस्तूत्तरैवेत्याह ।
इत्यमावास्यानिर्णयः ।
अथाष्टकाकालनिर्णयः ।
तत्राश्वलायनः–हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टका इति
{म्व्-स्_१६१}
हेमन्तशिशिरौ ऋतू तौ चात्र दर्शान्तमार्गादिचतुष्टयमासरूपौ ।
अपरपक्षाः = कृष्णपक्षाः ।
चतुर्ष्विति च
मलमासे ऽनुष्ठाननिषेधार्थम् ।
एतदुक्तं भवति-मार्गशीर्षादिचतुर्षु मासेषु कृष्णाष्टम्यश्चतस्रस्तास्वष्टकार्ः कत्तव्याः ।
अष्टका इत्येतच्चाश्वलायनमते श्राद्धहोमयोः कात्यायनमते च होममात्रस्य नामधेयम् ।
अष्टमीष्वष्टका इत्युत्पत्तिविधौ काले अष्टकारूपकर्मविधानात् ।
“अष्टका पितृदैवत्ये"इत्यतो ऽपि व्याकरणात् कर्मपरत्वम् ।
एवञ्च यद्यपि याज्ञवल्क्ये"अमावास्याष्टका"इत्युपक्रम्य"श्राद्धकालाः प्रकीर्त्तिता"इत्यत्रापाततः कालवाचको ऽप्यष्टकाशब्दः प्रतीयते ।
तथापि स"द्रव्यं ब्राह्मणसम्पत्तिः"इति वदाश्वलायनोक्तस्य कालस्य लक्षणया बोधकः ।
पद्मपुराणे तु:
प्रौष्ठपद्यष्टका भूयः पितृलोके भविष्यति ।
इत्यनेन भाद्रपदकृष्णाष्टम्याम् अपराप्यष्टका उक्ता ।
एवञ्च वर्षे पञ्च अष्टका इति सिद्धम् ।
आश्वलायनस्तु भाद्राष्टकाया माघ्यावर्षमिति सञ्ज्ञान्तरं परं कृतवान् ।
तत्र च अष्टकाघर्मातिदेशादष्टकातः कर्मान्तरमितिभाष्यकारादिभिर्व्याख्यातम् ।
एवञ्चाश्वलायनीयैर्भाद्रकृष्णाष्टम्यां पौराणाष्टका माध्यावर्षं च तन्त्रेणानुष्ठेयमिति न्यायविदः ।
गोभिलस्तु"चतुरष्टको हेमन्तस्ताः सर्वाः समांसाश्चिकीर्षेत्"इत्यभिधायाग्रे अष्टकपक्षमप्युक्तवान् ।
चतुरष्टको हेमन्त इत्येतच्च त्रिऋतुः संवत्सर इत्ये तत्पक्षाभिप्रायेण ।
यद्वा"हेमन्तशिशिरयोः समासेन"इत्यतः पञ्चर्त्तुसंवत्सराभिप्रायेण बोध्यम् ।
विष्ण्वादिस्मृतौ यत्र तिस्रो ऽष्टकास्तिस्रो ऽन्वष्टका इत्येतत्त्रयाणामुपादानं तत्र तद्धेमन्तगतानामेव ।
अव्यवधानेन तासामत्रोपस्थितिसम्भवात् ।
यद्यपि–
ब्रह्माण्डपुराणे–
ऐन्द्षां तु प्रथमायां च शाकैः सन्तर्पयेत्पितॄन् ।
प्राजापत्यां द्गितीयायां मांसैः शुद्धैश्च तर्पयेत् ॥
वैश्वदेव्यां तृतीयायामपूपैश्च यथाक्रमम् ।
वर्षासु मेध्यशाकैश्च चतुर्थ्यामेव सर्वदा ॥
इत्यत्र मासविशेषो नोक्तस्तथापि–
पौषे कृष्णाष्टकायां तु शाकैः सन्तर्पयेत् पितॄन् ।
इतिब्रह्मपुराणवचनान्तरात् पौषकृष्णाष्टकायां शाकसन्तर्पणोक्तेः पौषमाघफाल्गुनगता एव तिस्र उक्ता भवन्ति ।
कूर्मपुराणे तु पौषादिगा एव तिस्र इति स्पष्टमुक्तम् ।
{म्व्-स्_१६२}
अमावास्याष्टकास्तिस्रः पौषमासादिषु त्रिषु ।
इति ।
पौषश्चात्र शुक्लादिमासाभिप्रायेण ।
आग्रहायण्यतिक्रान्तौ कृष्णास्तिस्रो ऽष्टकास्तथा ।
इतिविष्णुधर्मोत्तरात् ।
एवं च ब्रह्मपुराणविष्णुधर्मोत्तरयोः फाल्गुनकृष्णाष्टमीव्यतिरिक्ता हेमन्तशिशिरयोस्तिस्रः उक्ता इति ।
ब्रह्मवैवर्तवायुपुराणयोस्तु–
पुत्रदानाय मूलं स्युरष्टकास्तिस्र एव च ।
कृष्णपक्षे वरिष्ठा हि पूर्वा चैन्द्री विभाव्यते ॥
प्राजापत्या द्वितीया स्यात् तृतीया वैश्वदेवकी ।
आद्यापूपैः सदा कार्या मांसैरन्या भवेत्तथा ॥
शाकैः कार्या तृतीया स्यादेष द्रव्यगतो विधिः ।
या चाप्यन्या चतुर्थी स्यात्तां च कुर्याद्विशेषतः ॥
इति ।
यद्यप्यत्रापि मासो नोक्तस्तथाप्यत्र शाकाष्टकात्वेनोक्तायास्तृतीयायाः–
शाकं तु फाल्गुनाष्टम्यां स्वयं पत्न्यपि वा पचेत् ।
इत्यनेन फाल्गुनाष्टम्याः शाकाष्टकात्वेन प्रत्यभिज्ञानान्मार्गशीर्षाष्टकापरित्यागेन तिस्र उक्ताः ।
“या चाप्यन्या चतुर्थी स्यात्"इत्यनेन भाद्रकृष्णाष्टम्येवाभिहिता ।
वर्षासु मेध्यशाकैश्च चतुर्थ्यामेव सर्वदा ।
इत्यत्र तस्या एव चतुर्थीत्वेन परामर्शात् ।
अन्ये तु मार्गकृष्णाष्टमीमारभ्य तिस्रः ।
एवं च पूर्वोदाहृतब्रह्माण्डपुराणैकवाक्यतासम्भवेनैकश्रुतिकल्पनालाघवे सति पृथक् श्रुतिकल्पनमनुचितमेव ।
चतुर्थी तु भाद्रकृष्णाष्टम्येव न तु फाल्गुनकृष्णाष्टमी कथमन्यथा"एतास्तिस्र"इयं चतुर्थी"इति ब्रूयात् ।
गोभिलवत् प्रथमत एव चतस्र इति न वदेदिति ।
तदेवं पौराणमते ऽपि वर्षे चतस्रो ऽष्टकाः कार्याः ।
अशक्तौ तु"एकस्यां वा"इत्याश्वलायनसूत्रोक्तैका पुराणोक्ता च भाद्रकृष्णाष्टमीति द्वे ।
तत्रापि सूत्रोक्तासु फाल्गुनाष्टम्येव ।
“या माघ्याः पौर्णमास्या उपरिष्टात् द्व्यष्टका तस्यामष्टमी ज्येष्ठया सम्बध्यते तामेकाष्टकेत्याचक्षते"इत्यापस्तम्बेनै कस्या एव फाल्गुनाष्टम्या उक्तत्वात् ।
द्व्यष्टका दिनद्वयसम्बन्धात् ।
सा प्रकारद्वयेन व्याख्याता तद्भाष्यकृता मलमासत्वेन खण्डतिथिसत्त्वेन वा ।
ज्येष्ठया सम्बध्यत इति प्रदर्शनार्थं न तु यदैव ज्येष्ठायुक्ता तदैवोपादेया नान्यदेत्येवमर्थमिति ।
इत्यष्टका ।
{म्व्-स्_१६३}
अथान्वष्टका ।
तत्राश्वलायनः-अपरेद्युरन्वष्टक्यमिति ।
अपरेद्युरष्टकादिनात् ।
विष्णुरपि तिस्रो ऽन्वष्टका इति तिस्रः पूर्वेद्युरिति ।
पूर्वेद्युः = अष्टकातः पूर्वेद्युरिति ।
तदपि कर्मनामधेयम् ।
अष्टकाया नित्यत्वमुक्तम्–
वायुपुराणे:
यस्य तु प्रतिगच्छेयुरष्टकाभिरपूजिताः ।
मोघस्तस्य भवेल्लोको लब्धं चास्य विनश्यति ॥
इति ।
आस्वलायनेन च पूर्वेद्युः पितृभ्यो दद्यादिति अष्टकाश्राद्धात्पूर्वेद्युः श्राद्धान्तरमुक्तम् ।
एतत्त्रयमपि
प्रधानमिति केचित् ।
पूर्वेद्युः श्राद्धमङ्गमित्यपरे ।
इत्यन्वष्टका ।
अथ वृद्धिश्राद्धकालः ।
ब्राह्मे–
जन्मन्यथोपनयने विवाहे पुत्रकस्य च ।
पितॄन्नान्दीमुखान्नाम तर्पयेद्विधिपूर्वकम् ॥
वेदव्रतेषु चाधानयज्ञपुंसवनेषु च ।
नवान्नभोजने स्नाने ऊढायाः प्रथमार्त्तवे ॥
देवारामतडागादिप्रतिष्ठासूत्सवेषु च ।
राजाबिषेके बालान्नभोजने वृद्धिसञ्ज्ञकम् ॥
वनस्थाद्याश्रमं गच्छन्पूर्वेद्युः सद्य एव या ।
पितॄन् पूर्वोक्तविधिना तर्पयेत्कर्मसिद्धये ॥
विष्णुपुराणे–
यज्ञोद्वाहप्रतिष्ठासु मेखलाबन्धमोक्षयोः ।
पुत्रजन्मवृषोत्सर्गे वृद्धिश्राद्धं समाचरेत् ॥
छन्दोगपरिशिष्टे–
स्वपितृभ्यः पिता दद्यात्सुतसंस्कारकर्मसु ।
पिण्डानोद्वाहनात्तेषां तस्याभावे तु तत्क्रमात् ॥
सुतग्रहणं सुताया अप्युपलक्षणम् ।
“आवृतैव कुमार्या"इत्याश्वलायनोक्तेः ।
आवृत् कर्तव्यताप्रकारः ।
ओद्वाहनाद्विवाहपर्यन्तम् ।
तस्याभावे = संस्कार्यपितुरभावे ।
तत्क्रमातुसंस्कार्यपितृक्रमादित्यर्थः ।
इदं च पुत्रस्याद्यो द्वाह एव ।
{म्व्-स्_१६४}
तस्यैव संस्कारकत्वात् ।
द्वितीयादौ तु ।
पुत्रः स्वयमेव कुर्यात्
नानिष्ट्वा तु पितॄन् श्राद्धे कर्म वैदिकमारभेत् ।
इति शातातपोक्तेः ।
अत्र नानिष्ट्वेतिवचनेनैव सर्वत्र नान्दीश्राद्धप्राप्तौ यज्ञोद्वाहप्रतिष्ठास्वित्यादिपुनर्वचनं नियमार्थम् ।
न चोपसंहारः"नानिष्ट्वा"इत्यस्यानर्थक्यापत्तेः ।
न चोत्पत्तिविनियोगाभ्यां साप्तदश्य इव सार्थकतोभयोरपि विनियोजकत्वात् ।
तेनोक्तादन्यत्रानियमः ।
अस्यापवादः—
छन्दोगपरिशिष्टे:
नाष्टकासु भवेच्छ्राद्धं न श्राद्धे श्राद्धमिष्यते ।
न सोष्यतीजातकर्मप्रोषितागतकर्मसु ॥
अत्र जातकर्मणि श्राद्धं निषिध्यते ।
जनननिमित्तं तु तद्भवत्येव ।
कालविशेषमाह–
हेमाद्रौ वशिष्ठः:
पूर्वेद्युर्मातृकं श्राद्धं कर्माहे पैतृकं तथा ।
उत्तरेद्युः प्रकुर्वीत मातामहगणस्य तु ॥
वृद्धशातातपः–
पृथग्दिनेष्वशक्तश्चेदेकस्मिन्पूर्ववासरे ।
श्राद्धत्रयं तु कुर्वीत वैश्वदेवं च तान्त्रिकम् ॥
तत्रापि कालभेदमाह–
स एव:
पूर्वाह्णे मातृकं श्राद्धमपराह्णे च पैतृकम् ।
ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतम् ॥
एतदसम्भवे वृद्धमनुः–
अलाभे भिन्नकालानां नान्दीश्राद्धत्रयं बुधः ।
पूर्वेद्युर्वै प्रकुर्वीत पूर्वाह्णे मातृपूर्वकम् ॥
तत्रापि प्रातरेव ।
प्रातर्वृद्धिनिमित्तकमितिशातातपोक्तेः ।
एतत्पुत्रजन्मनो ऽन्यत्र ।
पूर्वाह्णे वै भवेद्वृद्धिर्विना जन्मनिमित्तकम् ।
पुत्रजन्मनि कुर्वीत श्राद्धं तात्कालिकं बुधः ॥
इत्यत्रिवचनात् ।
पुत्रजन्मेत्यनियतनिमित्तोपलक्षणम् ।
नियतेषु निमित्तेषु प्रातर्वृद्धिनिमित्तकम् ।
तेषामनियतत्वे तु तदानन्तर्यमिष्यते ॥
इति लौगाक्षिवचनात् ।
अत्र प्रातरितिदिनत्रयादिपक्षोपलक्षणम् ।
नियतनिमित्तत्वेन शक्यानुष्ठानत्वात् ।
कर्माङ्गश्राद्धे ऽप्येत एव कालाः ।
{म्व्-स्_१६५}
निषेककाले सोमे च सीमन्तोन्नयने तथा ।
ज्ञेयं पुंसवने श्राद्धं कर्माङ्गं वृद्धिवत्कृतम् ॥
इति पारस्करवचने वृद्धिश्राद्धकालातिदेशात् ।
इति वृद्धिश्राद्धकालाः ।
अथ कृष्णपक्षश्राद्धकालः ।
तत्र याज्ञवल्क्यः–
प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् ।
शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते ॥
इति ।
(अ। १ श्लो। २६४)
असमर्थं प्रत्याह गौतमः-पञ्चमीप्रभृति वापरपक्षस्येति ।
ततो ऽप्यसामर्थ्ये मनुः:
कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् ।
श्राद्धे प्रशस्तास्तिथयो यथैता न तथेतराः ॥
इति ।
(अ। ३ श्लो। २७६)
तत्राप्यसामर्थ्ये कात्यायनः, अपरपक्षे कुर्वीतोर्द्ध्व्रं वा चतुर्थ्या यदहः सम्पद्येतेति ।
सम्पद्येतौश्राद्धसाधनम् ।
यदाप्येकदिने तदामावास्याश्राद्धात्पृथक् कार्यम्"अमावास्याष्टका वृद्धिः कृष्णपक्षे"इति पृथङ्निर्द्देशात् ।
अमावास्यायामपि तन्त्रेणेत्यपरे ।
अत्राप्यसामर्थ्ये सम्वत्सरमध्ये चतुर्वारमित्याह देवलः ।
पार्वणमधिकृत्य–
अनेन विधिना श्राद्धं कुर्यात्संवत्सरे सकृत् ।
द्विश्चतुर्वा यथाश्राद्धं मासे मासे दिने दिने ॥
चतुःपक्षे कन्याकुम्भवृषतुलार्के त्रिःकरणपक्षे निर्ज्ञातत्वात्प्रशस्तत्वाच्च ।
अत्राप्यसामर्थ्ये संवत्सरमध्ये त्रिवारम् ।
तत्रापि कन्याकुम्भवृषार्के
अनेन विधिना श्राद्धं त्रिरब्दस्येह निर्वपेत् ।
कन्याकुम्भवृषस्थे ऽर्के कृष्णपक्षे च सर्वदा ॥
इति मात्स्योक्तेः ।
ततो ऽपि हीनशक्तेर्द्विवारमुदाहृतदेवलवचनात् ।
तच्च कन्यायां कुम्भवृषयोरन्यतरे वा प्रशस्तत्वात् ।
तत्राप्यसामर्थ्ये सकृत् देवलवचनादेव ।
तदपि कन्यायामेवातिप्रशस्तत्वात् ।
एतच्च नित्यं “शाकेनाप्यपरपक्षं नातिक्रामेत्"इतिकात्यायनोक्तेः ।
अत एव गौतमेनानेकान् कालानभिधायोक्तम्–कालनिथमः शक्तित इति ।
काम्यं च ।
{म्व्-स्_१६६}
“प्रतिपद्धनलाभाय"इत्यादिमार्कण्डेयपुराणात् ।
एतल्लोपे प्रायश्चित्तमेव गौणकालानाम्नानात् ।
इति कृष्णपक्षश्राद्धकालः ।
अथ कन्यागतापरपक्षः ।
ब्राह्मे–
अश्वयुक्कृष्णपक्षे तु श्राद्धं कुर्याद्दिने दिने ।
त्रिभागहीनं पक्षं वा त्रिभागं त्वर्द्धमेव वा ॥
अश्वयुक्पदं पौर्णमास्यन्ताश्विनपरम् ।
प्रौष्ठपद्याः परः पक्ष इति यावत् ।
दिनशब्दो ऽत्र तिथिपरः पक्षस्य तिथिघटितत्वात् ।
अत एव–
विष्णुधर्मोत्तरे:
तिथिनैकेन दिवसश्चान्द्रे माने प्रकीर्तितः ।
अहोरात्रेण चैकेन सावनो दिवसः स्मृतः ॥
इति ।
एवं चैकस्मिन्नेव दिने श्राद्धयोग्यतिथिद्वयलाभे श्राद्धद्वयं तिथिवृद्धौ च श्राद्धावृत्तिः कृतत्वात् ।
एतेनाहन्यहनीति कल्पतरूक्तिः परास्ता ।
पारिजातप्रदीपग्रकाशभाष्यश्राद्धीववेकप्रीतहस्तकभानूपाध्यायादयो ऽप्येवम् ।
त्रिभागहीनं = तृतीयभागहीनं पञ्चमीमारभ्य, त्रिभागं = तृतीयभागं दशमीमारभ्य
पञ्चमीं तिथिमारभ्य यावच्चन्द्रार्कसङ्गमम् ।
कृष्णपक्षे दशम्यादौ–
इति वाक्यादिति कल्पतरुप्रभृतयः ।
श्राद्धविवेकस्तु त्रिभागहीनमिति षष्ठ्यादिकल्पः त्रिभागमित्येकादश्यादिकल्पः ।
प्रौष्ठपद्याः परः पक्षस्तत्रापि च विशेषतः ।
पञ्चम्यूर्ध्वं च तत्रापि दशम्यूर्द्ध्वं ततो ऽप्यति ॥
इति बिष्णुधर्मोत्तरादिति ।
तस्मादुभयवाक्यदर्शनाद्युक्तो विकल्पः स च व्यवस्थितः ।
येषां चतुर्दश्यां श्राद्धं नास्ति तेषां पञ्चम्यादिदशम्या दिकल्पौ ।
येषां तदस्ति तेषां षष्ठ्याद्येकादश्यादिकल्पाविति ।
भानूपाध्यार्यनीलाम्बराचार्यादयो ऽप्येवमाहुः ।
अर्द्धमवेति ।
अर्द्धं पक्षस्याष्टमीमारभ्येति कल्पतरुप्रभृतयः ।
अर्द्धं तृतीयभागस्यैवोत्तरोत्तरलघुकालोपदेशात्सन्निधानाच्चेति विवेककूत् भानूपाध्यायश्च ।
तत्र
त्रयोदश्यादिकल्प इति विवेककारः ।
भानूपाध्यायस्तु येषां चतुर्दश्यां श्राद्धं नास्ति तेषां द्वादश्यादिः कल्पः येषां तदस्ति तेषां त्रयोदश्यादिरित्याह ।
वस्तुतस्तु अस्य वाक्यस्यानेककालोपदेशमात्रे तात्पर्याद्गुरुलघुकालोपदेशस्यार्थिकत्वादुत्तरोत्तरलघुकालोपदेशकत्वाभावात् त्रिभागमित्यत्र भागितया बुद्धिस्थीकृतस्य
{म्व्-स्_१६७}
पक्षस्यार्धमित्यत्र परित्यागे हेत्वभावात्त्रिभागपदार्थस्य सन्निधाने ऽपि भागितयानुपस्थितेः पक्षविशेषणत्वाच्चार्धपदार्थेनान्वयायोगात् “अथापरपक्षे श्राद्धं पितृभ्यो दद्यात्पञ्चम्यादिदर्शान्तमष्टम्यादिदशम्यादि सर्वस्मिंश्चऽ; इति गौतमैकवाक्यतया मूलश्रुतिकल्पनालाघवाच्च अर्धं पक्षार्धमित्येव व्याख्यानमुचितम् ।
अत्र पक्षश्राद्धादिकल्पानां गुरुलघुकल्पत्वेनेच्छाविकल्पासम्भवादेकादयो तिस्रो देया इतिवत्फलतारतम्यमिति श्राद्धविवेकः ।
नित्ये फलाभावान्न फले तारतम्यं किन्तु शक्त्यपेक्षया व्यवत्थितो विकल्पः ।
एककल्पाश्रयणे च तदनिर्वाहेन कल्पान्तराश्रयणे तस्मिन्प्रयोगे तस्यैव पक्षस्य कथञ्चिन्निर्वाह्यत्वाद्व्रीहियवादिवदितिमिश्राः ।
वस्तुतस्तु षोडशिग्रहणादाविव फलभूमैव कल्पयितुं युक्तः ।
नित्यस्यापि कथाञ्चित्फलवत्त्वाच्छक्तस्य लघुकल्पाश्रयणे फलाभावकल्पनाया अन्याय्यत्वात् षोडशिग्रहणादावतिप्रसक्तेश्च ।
अत्र च दिने दिन इति वीप्साश्रवणाच्चतुर्दश्यामपि पार्वणं कार्यं"वजेयित्वा चतुर्दशीम्"इति निषेधस्तु अपरपक्षान्तरचतुर्दशीविषय इति प्रदीपविवेकौ ।
तन्न ।
श्राद्धं शस्रहतस्यैव चतुर्दश्यां महालये ।
इति वाक्यविरोधात् ।
क्लपतरुभानूपाघ्यायनीलाम्बराचार्यादयो ऽप्येवमाहुः ।
तत्राशक्तं प्रति सकृत्करणमुक्तं हेमाद्रौ नागरखण्डे–
आषाढ्याः पञ्चमे पक्षे कन्यासंस्थे दिवाकरे ।
यो वै श्राद्धं नरः कुर्यादेकस्मिन्नपि वासरे ॥
तस्य संवत्सरं यावत्सन्तृप्ताः पितरो ध्रुवम् ।
इति ।
अत्र कन्यासंस्थत्ववचनं प्राशस्त्यार्थं न तु तस्यैव श्राद्धकालत्वम् ।
आषाढमिवधिं कृत्वा यः स्यात्पक्षस्तु पञ्चमः ।
श्राद्धं तत्र प्रकुर्वीत कन्यां गच्छतु वा न वा ॥
इत्यादित्यपुराणे तदनादरोक्तेः ।
बृहन्मनुः–
मध्ये वा यदि वाप्यन्ते यत्र कन्यां रविर्व्रजेत् ।
स पक्षः सकलः पूज्यः श्राद्धं तत्र विधीयते ॥
इति ।
पक्षो ऽर्धमासः ।
तेन श्रावणस्याधिमासत्वे ऽप्यपरपक्षस्य न पञ्चमत्वक्षतिरिति केचित् ।
वस्तुतस्तु–
नभो वाथ नभस्यो वा मलमासो यदा भवेत् ।
सप्तमः पितृपक्षः स्यादन्यत्रैव तु पञ्चमः ॥
इति नागरखण्डोक्तेः सप्तमपक्ष एव तत् न्याय्यमित्युक्तं मलमासकर्तव्यनिर्णये ।
{म्व्-स्_१६८}
अत्र सर्वत्र पक्षः श्राद्धकाल उक्तः ।
शाठ्यायनिना तु–
नभस्यस्यापरे पक्षे तिथिषोडशकस्तु यः ।
कन्यागतान्वितश्चेत्स्यात्स कालः श्राद्धकर्मणि ॥
इति षोडशदिनानि श्राद्धकाल उक्तः ।
पक्षस्तु पञ्चदशतिथ्यात्मकः ।
“पञ्चदश वा अर्धमासस्य
रात्रय"इतिश्रुतेः ।
तत्कथमपरपक्षे षोडशश्राद्धसङ्खयासम्पत्तिः ।
पौर्णमास्या सहेति केचित् ।
नान्दीमुखानां प्रत्यब्दं कन्याराशिगते रवौ ।
पौर्णमास्यां तु कुर्वीत वराहवचनं यथा ॥
इति धनञ्जयहलायुधादिलिखितवाक्यात् ।
अत एव ब्रह्मवायुपुराणयोः पौर्णमास्यादितिथिषोडशकस्य फलमुक्तमित्युक्तं कामरूपनिबन्धे ।
अथ वा यदा तिथिवृद्ध्या षोडशदिनात्मकः पक्षः स्यात्तदा वृद्धिदिने ऽपि श्राद्धं कार्यमित्येवमर्थं षोडशग्रहणमिति हेमाद्रिः ईज्यस्वमातामहसन्न्यासिपुत्रीधिकारिकश्राद्धाभिप्रायमित्यन्ये ।
तस्यापि
जीवत्पितृकत्वेनामावास्योत्तरप्रतिपदि मातामहश्राद्धविधानात् ।
वस्तुतस्तु–
अहःषोडशकं यत्तु शुक्लप्रतिपदा सह ।
चन्द्रक्षयाविशेषेण सापि दर्शात्मिका स्मृता ॥
इति देवलोक्तेस्तत्रापि श्राद्धविधानादिति ।
सकृन्महालये तिथ्यादि शोध्यम् ।
सकृन्महाले काम्ये पुनः श्राद्धे ऽखिलेषु च ।
अतीतविषये चैव सर्वमेतद्विचिन्तयेत् ॥
इति पृष्वीचन्द्रोदये नारदोक्तेः ।
एततुनिषिद्धतिथ्यादि ।
तदेवाह वसिष्ठः-
नन्दायां भार्गवदिने चतुर्दश्यां त्रिजन्मसु ।
एषु श्राद्धं न कुर्वीत गृही पुत्रधनक्षयात् ॥
त्रिजन्मसु रोहिण्यादिनक्षत्रत्रयेषु ।
तदाह वृद्धगार्ग्यः–
प्राजापत्ये च पौष्णे च पित्र्यर्क्षे भार्गवे तथा ।
यस्तु श्राद्धं प्रकुर्वीत तस्य पुत्रो विनश्यति ॥
इति ।
प्राजापत्यं = रोहिणी, पौष्णे = रेवती, पित्र्यं = मघा क्वचिदस्यापवादो–
हेमाद्रिमाधवयोः:
अमापाते भरण्यां च द्वादश्यां पक्षमध्यके ।
तथा तिथिं च नक्षत्रं वारं च न विचारयेत् ।
इति ।
सकृत्करणं च पितुर्मृताहे तत्र वचनवारादिपिण्डदाननिषेधविन्तेत्याह–
{म्व्-स्_१६९}
कात्यायनः:
या तिथिर्यस्य मासस्य मृताहे तु प्रवर्तते ।
सा तिथिः पितृपक्षे तु पूजनीया प्रयत्नतः ॥
तिथिच्छेदो न कर्तव्यो विनाशौचं यदृच्छया ।
पिण्डश्राद्धं च कर्तव्यं विच्छितिं नैव कारयेत् ॥
अशक्तः पितृपक्षे तु करोत्येकदिने यदा ।
निषिद्धे ऽपि दिने कुर्यात्पिण्डदानं यथाविधि ॥
इति ।
अत्र प्रतिदिनं श्राद्धकरणे नन्दादि न वर्ज्यम् ।
नभस्यस्यापरे पक्षे श्राद्धं कुर्याद्दिने दिने ।
नैव नन्दादि वर्ज्यं स्यान्नैव वर्ज्या चतुर्दशी ॥
इति कार्ष्णाजिनिवचनात् ।
इतरपक्षेषु चतुर्दशी वर्जनीया ।
विषसर्पश्वापदाहितिर्यग्ब्राह्मणघातिनाम् ।
चतुर्दश्यां क्रिया कार्या अन्येषां तु विगर्हिता ॥
इतिमरीचिना:
श्राद्धं शस्त्रहतस्यैव चतुर्दश्यां महालये ।
इति कालादर्शाद्युदाहृतवचनेन च शस्त्रहततिरिक्तश्राद्धनिषेधात् इत्युक्तम् ।
शस्त्रहतस्य पित्रादेस्तु तत्र भवत्येव ।
शस्त्रेण तु हता येवै तेभ्यस्तत्र प्रदीयते ।
(अ। १ श्लो। २६४)
इतियाज्ञवल्क्योक्तेः ।
नन्दादिवर्जनं तु पञ्चम्यादिपक्षेषु न भवति विभागादिपरिमाणहानिप्रसङ्गात् ।
अत एव षष्ठ्यादिपक्षे न चतुर्दशीवर्जनम् ।
यत्तु सूर्यसिद्धान्ते–
षड्विंशे धनुषो भागे द्वाविंशे ऽनिमिषस्य च ।
मिथुनाष्टादशे भागे कन्यायाश्च चतुर्दशे ॥
इत्युक्त्वा–
अत ऊर्द्ध्वं तु कन्याया यान्यहानि तु षोडश ।
क्रतुभिस्तानि तुल्यानि पितृभ्यो दत्तमक्षयम् ॥
इतिषोडशदिनानि श्राद्धकालत्वेनोक्तानि तानिं काम्यश्राद्धान्तरविषयाणीति शूलपाणिप्रभृतयः ।
यत्तु–
सूर्ये कन्यास्थिते श्राद्धं यो न कुर्याद्गृहाश्रमी ।
कुतस्तस्य धनं पुत्राः पितृनिश्वासपीडिताः ॥
इत्यादिवचनैः पञ्चमपक्षनिरपेक्षमेव कन्यानिमित्तकं श्राद्धान्तरं विधीयते तस्य चापरपक्ष एव कन्यासङ्क्रमणे तन्त्रम्, भेदे तु पृथगेव,
{म्व्-स्_१७०}
कन्यायां सकृदेवानुष्ठानमिति शूलपाणिनोक्तम्, तत् विधिमेदे गौरवात्पञ्चमपक्षे च कन्या सङ्क्रमणावश्यम्भावात्कन्योपलक्षितस्यैव पञ्चमपक्षस्य श्राद्धकालत्वोपपत्तेः"आदौ वा यदि वा मध्ये"इत्युदाहृतवाक्यैकवाक्यतयैकश्रुतिमूलकल्पनालाघवाच्चायुक्तम् ।
अत्र–
नभस्यस्यापरे पक्षे तिथिषोडशकस्तु यः ।
कन्यागतान्वितश्चेत्स्यात्स कालः श्राद्धकर्मणि ॥
इत्युत्पत्तिवाक्ये श्राद्धकर्मणीत्येवचननिर्द्देशादेवमेव श्राद्धं सङ्ख्यायुक्ततिथिसमुच्चयवशादाग्नेयवद्यावत्तिथ्यभयस्यते ।
यत्तु–
स पक्षः सकलः पूज्यः श्राद्धषोडशकं प्रति ।
इति कर्मणि सङ्ख्याश्रवणं न तद्भेदकं तस्यैकदेशकन्यासम्बन्धमात्रेणापि सकलपक्षपूज्यत्वगुणपरत्वेन कर्मोत्पत्तिपरत्वा भावात् ।
उत्पत्तिगताया एव सङ्ख्याया भेदकत्वात् ।
श्राद्धषोडशकमितिद्वितीयानिमित्तभूतलक्षणार्थकर्मप्रवचनीयप्रतियोगेन श्राद्धानामुद्देश्यत्वाच्च “दिनेदिनेऽ; इतिवीप्सावशात्"त्रिभागहीनं पक्षं वा"इत्यादिषु अत्यन्तसंयोगद्वितीयावशात्"स पक्षः सकलः पूज्य"इतिसकलादिशब्दवशादभ्यसप्रतीतेश्च ।
एवं च कालभेदात्सायम्प्रातः कालयोः साङ्गहोमप्रयोगावृत्तिवत्सर्वासु तिथिषु साङ्गश्राद्धावृत्तिः ।
कार्यकालस्य प्रयोगावच्छेदकत्वेन कालसमुच्चये प्रयोगावृत्तेरवश्यम्भावात् ।
एवं च यदभ्यासपक्षे ऽन्तेदक्षिणादानं ब्राह्मणैक्यं चेति हेमाद्रिणोक्तं तच्चिन्त्यम् ।
अन्येषामप्यारादुपकारकाणां प्रधानपूर्वोत्तरभाविनामङ्गानां सुतरां
तन्त्रतापत्तेश्च ।
एवञ्च पक्षश्राद्धे निर्विघ्नतार्थं सकृदेव ब्राह्मणैः सहोपसंवादे कृते ऽपि यदि ब्राह्मणानामाशौचप्राप्तिस्तदा तेषां त्याग एवे ।
शास्त्रीयनिमन्त्रणाभावात् ।
तथा कर्तुरपि केनचिदप्यभ्यासपक्षेण प्रवृत्तस्यान्तरा यद्याशौचनिपातस्तदापि “श्राद्धे पाकपरिक्रियाऽ; इत्युक्तमुख्यप्रारम्भाभावात्सङ्कल्पाभावाच्च"प्रारब्धे सूतकन्नास्ति"इत्यस्याप्रवृत्तेः प्रारब्धाभ्यासपक्षत्याग एव ।
किन्त्वाशौचापगमोत्तरं सकृदादिपक्षेण यथावन्महालयश्राद्धं कार्यं केनापि पक्षेण तस्याजातत्वात् ।
पूर्वकृतप्रयोङ्गाणां तु सहकार्यन्तराभावान्निष्फलत्वमेव ।
आशौचातिरिक्तप्रतिबन्धे तु प्रतिनिधिना कर्तव्यमित्यलं प्रसङ्गेन ।
महालये श्राद्दाकरणे गौणकाल
उक्तो हेमाद्रौ–
यमः–
हंसे वर्षासु कन्यास्थे शाकेनापि गृहे वसन् ।
पञ्चम्योरन्तरे कुर्यादुभयोरपि पक्षयोः ॥
इति ।
{म्व्-स्_१७१}
कृष्णशुक्लपक्षसम्बन्धिन्योः पञ्चम्योरन्तरा ।
अत्र प्राप्ताप्राप्तविवेकेनामावास्याया ऊर्ध्वमर्वाक् पञ्चम्या गौणकालविधाने तात्पर्यम् ।
तत्राप्यसम्भवे वृश्चिकसङ्क्रान्तिं यावत्कस्मिंश्चिद्दिने ।
यावच्च कन्यातुलयोः क्रमादास्ते दिवाकरः ।
तावच्छ्राद्धस्या कालः स्याच्छून्यं प्रेतपुरं तदा ॥
इति ब्रह्मपुराणात् ।
अत्र क्रमाच्छ्राद्धस्य काल इत्यन्वयः ।
कन्यायामसम्भवे तुलायामित्यर्थः ।
अत एव–
नागरखण्डे:
प्रेतपक्षे ऽप्यतिक्रान्ते यावत्कन्यागतो रविः ।
तावच्छ्राद्धं प्रवाञ्छन्ति दत्तं वै पितरः सुतैः ॥
ततस्तुलागते ऽप्येके सूर्ये वाञ्छन्ति पार्थिव! ।
श्राद्धं स्ववंशजैर्दत्तं क्षुत्पिपासासमाकुलाः ॥
मासद्वयं प्रतीक्षन्ते गृहद्वारं समाश्रिताः ।
वायुभूताः पिपासार्त्ताः क्षुत्क्षामाः पितरो नॄणाम् ॥
यावत्कन्यागतः सूर्यस्तुलास्थश्च महीपते! ॥
इति ।
तत्रापि कार्त्तिकामावास्यायां विशेषः ।
येयं दीपान्विता राजन्! ख्याता पञ्चदशी भुवि ।
तस्यां दद्यान्न चेद्दत्तं पितॄणां वै महालये ॥
इति भविष्योक्तेः ।
अत्र यद्यपि कार्त्तिकपौर्णमास्यामपि दीपदानं विहितं तथाप्यमावास्यैव पञ्चदशीशब्देन ग्राह्या ।
कृष्णपक्षस्य पित्र्ये प्रशस्तत्वात् दीपावलीत्वेन तस्या एव ख्यातत्वाच्च ।
महालयो भाद्रापरपक्षः पितॄणां तत्रातिशयेन लयात् ।
पितॄणां महस्योत्सवस्यालयतया वा ।
अथ तत्रैव भरण्यां श्राद्धं महाफलम् ।
भरणी पितृपक्षे तु महती परिकीर्त्तिता ।
अस्यां श्राद्धं कृतं येन स गयाश्राद्धकृद्भवेत् ॥
इति मत्स्यपुराणात् ।
अथ त्रयोदशी ।
अत्र–
प्रौष्ठपद्यामतीतायां मघायुक्तां त्रयोदशीम् ।
प्राप्य श्राद्धं हि कर्तव्यं मधुना पायसेन च ॥
तथा–
यो वा सम्बर्धयेद्देहं प्रत्यहं स्वात्मविक्रयात् ।
श्राद्धं तेनापि कर्तव्यं तैस्तैर्द्रव्यैः सुसञ्चितैः ॥
{म्व्-स्_१७२}
त्रयोदश्यां प्रयत्नेन वर्षासु च मघासु च ।
नास्मात्परतरः कालः श्राद्धेष्वन्यत्र विद्यते ॥
तथा, (अ। ३ श्लो। २७३)
यत्किञ्चिन्मधुना मिश्रं प्रदद्यात्तु त्रयोदशीम् ।
तदप्यक्षयमेव स्याद्बर्षासु च मघासु च ॥
इत्यादि शङ्खब्रह्मपुराणमन्वादिवचनेषु मघायुक्तैव त्रयोदशी श्राद्धकालत्वेन यद्यपि श्रूयते तथापि केवलापि सा श्राद्धकालः ।
प्रौष्ठपद्यामतीतायां तथा कृष्णा त्रयोदशी ।
प्रौष्ठपद्यूर्द्धं कृष्णत्रयोदशीति ।
अपि जायेत सो ऽस्माकं कुले कश्चिन्नरोत्तमः ॥
प्रावृट्काले सिते पक्षे त्रयोदश्यां समाहितः ।
मधुप्लतेन यः श्राद्धं पायसेन समाचरेत् ॥
तथा– (अ। ३ श्लो। २७४)
अपि नः स कुले भूयाद्यो नो दद्यात्त्रयोदशीम् ।
पायसं मधुसर्पिभ्यां प्राक्छाये कुञ्जरस्य च ॥
इति विष्णुमन्वादिस्मृतिषु केवलाया अपि श्रवणात् ।
योगवचनं तु प्राशस्त्यार्थम् ।
तथा वर्षात्रयोदश्यां मघासु च विशेषतः ।
(अ। १ श्रा। प्र। श्लो। २६१)
इति योगियाज्ञवल्क्येन विशेषत इत्यनेन प्राशस्त्यार्थत्वोक्तेः ।
त्रयोदशी भाद्रपदी कृष्णा मुख्या पितृप्रिया ।
तृप्यन्ति पितरस्तस्यां स्वयं पञ्चशतं समाः ॥
मघायुतायां तस्यां तु जलाद्यैरपि तोषिताः ।
तृप्यन्ति पितरस्तद्वद्वर्षाणामयुतायुतम् ॥
इति चन्द्रिकास्थवाक्येन शुद्धामभिधाय मघायोगे प्राशस्त्याभिधा नाच्च ।
“वर्षासु च मघासु च"इत्यादौ चकारस्तु न तिथ्या सहेतरेतरयोगार्थः किन्तु परस्परनिपेक्षैकक्रियान्वयलक्षणसमुच्चयार्थः ।
मधुमांसैश्च शाकैश्च पयसा पायसेन च ।
एष नो दास्यति श्राद्धं वर्षासु च मघासु च ॥
इति वसिष्ठवाक्ये केवलमघाया अपि श्राद्धकालत्वोक्तेः ।
न चैवं
त्रयोदश्यां प्रयत्नेन वर्षासु मघासु च ।
इत्यादौ वर्षाया अपि पृथक्श्राद्धकालता स्यादिति वाच्यम् ।
“प्रावृट्काले सिते पक्षे त्रयोदश्यांऽ; इति, तथा"वर्षात्रयोदश्याम्"इत्यादौ विशेषणत्वावगतेः ।
{म्व्-स्_१७३}
अत्र शूलपाणिः–
प्रौष्ठपद्यामतीतायां मघायुक्तां त्रयोदशीम् ।
प्राप्य श्राद्धं हि कर्तव्यं मधुना पायसेन च ॥
इति शङ्खवाक्ये प्रत्यक्षविधिश्रवणात् ।
अपि नः सकुले भूयाद्यो नो दद्यात्त्रयोदशीम् ॥
तथा–
अपि जायेत सो ऽस्माकं कुले कश्चिन्नरोत्तमः ।
प्रावृट्काले सिते पक्षे त्रयोदश्यां समाहितः ॥
मधुप्लुतेन यः श्राद्धं पायसेन समाचरेत् ।
इतिकेवलत्रयोदशीप्रतिपादकयोर्मनुविष्णुवाक्ययोः तथा–
एष नो दास्यति श्राद्धं वर्षासु च मघासु च ।
इति केवलमघाप्रतिपादकवसिष्ठवाक्यस्य चार्थवादत्वात्कथञ्चित्प्रत्यक्षविध्येकवाक्यत्वे च सम्भवति स्वतन्त्रविध्यन्तरकल्पनानैचित्या त्केवलवाक्यानां लक्षणया श्रुतिकल्पनालाघवाय योगविषयत्वकल्पनमेवोचितम् ।
गजच्छायाकुञ्जरच्छायायोगौ तु त्रयोदसीश्राद्ध एव फलातिशयार्थावन्यमुन्युक्तत्वादित्याह ।
तदयुक्तम् ।
यद्येकविधिकल्पनालाघवाय स्वारसिकनैरपेक्ष्यबाधेनाप्यनाकाङ्क्षितेतरोपलक्षणमाश्रीयते ।
तर्हि तत एव लाघवाद्गजच्छायाख्ययोगयुक्तायामेव त्रयोदश्यां कुञ्जरप्राक्छाय एव च देशे श्राद्धं स्यान्नान्यत्र ।
सर्वोपसंहारेण विशिष्टविषयिण्या एव श्रुतेः कल्पने लाघवात् ।
अथ–
रूपतो हि निराकाङ्क्षभिन्नत्वेनावधारिताः ।
अन्योन्यानादरेणैव प्रार्थयन्ते प्रयोजनम् ॥
इतिन्यायेन तत्तदृषिवचनानुरूपनानाश्रितिकल्पनमपि प्रामाणिकम् ।
ततः केवलमघात्रयोदशीप्रतिपादकवाक्यानामपि निष्परिपन्थितत्तदर्थश्रुतिकल्पकत्वमित्यलम् ।
एतच्च श्राद्धं महालयादिश्राद्धेभ्यो भिन्नम् ।
प्रौष्ठपद्यामतीतायां तथा कृष्णत्रयोदशीम् ।
तथा"प्रौष्ठपद्यूर्ध्वं कृष्णत्रयोदशी"इत्यादिवञ्चनेषु महालयादिश्राद्धानुपस्थितेः ।
एतच्च नित्यम् ।
प्रौष्ठपद्यामतीतायां तथा कृष्णत्रयोदशीम् ।
इत्युपक्रम्य–
एतांस्तु श्राद्धकालान्वै नित्यानाह प्रजापतिः ।
श्राद्धमेतेष्वकुर्वाणो नरकं प्रतिपद्यते ॥
{म्व्-स्_१७४}
इति विष्णुधर्मोत्तरात् ।
काम्यं च ।
एतदुपक्रम्य–
प्रजामिष्टां यशः स्वर्गमारोग्यं च धनं तथा ।
नॄणां श्राद्धे सदा प्रीताः प्रयच्छन्ति पितामहाः ॥
इतिशङ्खोक्तेः ।
यस्त्वत्र श्राद्धनिषेधो ज्योतिर्बृहस्पतिना:
कृष्णपक्षे त्रयोदश्यां यः श्राद्धं कुरुते नरः ।
पञ्चत्वं तस्य जानीयात् ज्येष्ठपुत्रस्य निश्चितम् ॥
इति दर्शितः स एकवर्गविषयः ।
त था च–
कार्ष्णाजिनिः:
श्राद्धं नैवैकवर्गस्य त्रयोदश्यामुपक्रमेत् ।
न तृप्तास्तत्र ये यस्य प्रजां हिंसन्ति तस्य ते ॥
इति ।
एतद्वचनं हेमाद्रिणा द्वेधा व्याख्यातम् ।
एकशब्दः केवलपरः ।
पितृवर्गमात्रस्य न कुर्यात्किन्तु मातामहवर्गस्यापि कुर्यात् ।
दर्शादावसमर्थस्य पितृवर्गश्राद्धमात्रेणापि नित्यशास्त्रार्थसिद्धेरापस्तम्बसूत्रादौ दर्शनादेकवर् गयजनप्रसक्तिः ।
यद्वा नैङ्कवर्गस्य पार्वणमात्रं न कर्तव्यं किन्तु सर्वेषां पितृपितृव्यादीनामपि पार्वणैकोद्दिष्टानि कार्याणीत्यर्थः ।
न तृप्ता इति वाक्यशेषात् ।
अथवा सपिण्डकश्राद्धविषयो निषेधः ।
अयनद्वितये श्राद्धं विषुवद्वितये तथा ।
युगादिषु च सर्वासु पिण्डनिर्वपणादृते ॥
इतिपुलस्त्योक्तेः ।
महालयत्रयोदशीश्राद्धं च युगादिश्राद्धादभिन्नं युगादित्वाविनाभावेन तदुपस्थितेरिति केचित् ।
अस्तु वा भेदस्तथापि–
मघायुक्तत्रयोदश्यां पिण्डनिर्वपणं द्विजः ।
ससन्तानो नैव कुर्यान्नित्यं ते कवयो विदुः ॥
इतिबृहत्पराशरेण विशिष्यापरपक्षत्रयोदशीश्राद्धे पिण्डनिषेधात्तद्विषयः श्राद्धनिषेध इत्यदोषः काम्यश्राद्धविषयो वा ।
आपस्तम्बेन–
त्रयोदश्यां बहुपुत्रो बहुमित्रो दर्शनीयापत्योयुवमारिणस्तु भवन्ति ।
इति काम्यश्राद्धं प्रकृत्य दोषोक्तेः पुत्रवद्गृहस्थविषयो वा ।
त्रयोदश्यां तु वै श्राद्धं न कुर्यात् पुत्रवान्गृही ।
इति तं प्रति स्मृत्या निषेधात् ।
असन्तानस्तु यस्तस्य श्राद्धे प्रोक्ता त्रयोदशी ।
सन्तानयुक्तो यः कुर्यात्तस्य वंशक्षयो भवेत् ।
इतिहेमाद्रौ नागरखण्डे सन्तानवतो दोषोक्तेश्च ।
अत्र सन्तानशब्दः पुत्रपरः"नकुर्यात्पुत्रवान्गृही"इतिस्मृतेः ।
अत्र त्रयोदशीमहालयमधाश्राद्धानां तन्त्रं युगादिश्राद्धभेदे तु तस्यापि ।
{म्व्-स्_१७५}
अन्यो विशेषः श्राद्धप्रकाशे द्रष्टव्यः ।
इति त्रयोदशी ।
अथ चतुर्दशी ।
मरिचिः:
विषसर्पश्वापदाहितिर्यग्ब्राह्मणघातिनाम् ।
चतुर्दश्यां क्रियाः कार्या अन्येषां तु विगर्हिताः ॥
विषदिभिर्ब्राह्मणान्तैर्घातो येषामिति विग्रहः ।
नागरखण्डे:
अपमृत्युर्भवेद्येषां शस्त्रमृत्युरथापि वा ।
उपसर्गमृतानां च विषमृत्युमुपेयुषाम् ।
वह्निना च प्रदग्धानां जलमृत्युमुपेयुषाम् ॥
श्राद्धं तेषां प्रकर्तव्यं चतुर्दश्यां नराधिप! ।
मार्कण्डेयुपराणे–
युवानः पितरो यस्य मृताः शस्त्रेण वा हताः ।
तेन कार्यं चतुर्दश्यामिति ।
युवत्वं च षोडशवर्षादूर्ध्वं त्रिंशद्वर्षपर्यन्तमिति श्राद्धविवेकादयः ।
अत्र सर्वत्र लिङ्गमविवक्षितमुद्देश्र्यविशेषणत्वात् ।
अत्र चापमृत्युर्भवेदित्यादिश्रवणाद्रोगं विना मृतत्वं चतुद्दर्शीश्राद्धप्रयोजकम् ।
एवं च कृतपत्यनुगमनाया अपि चतुर्दशीश्राद्धं भवत्येवेति गौडाः ।
अन्ये तु अवैधमरणं चतुर्दशीश्राद्धप्रयोजकं प्रायो ऽनशनाभ्यां तु विधितो ऽपि विपन्नानां भवत्येव ।
प्रायो ऽनशनशस्त्राग्निविषोद्वन्धनिनां तथा ।
इतिब्रह्मपुराणात् ।
तथा युद्धहतानामपि ।
“युद्धहतानां श्राद्धकर्मणि चतुर्दशी प्रशस्ता"इति विष्णुस्मरणादित्याहुः एतच्चैकोद्दिष्टरूपम् ।
चतुर्दश्यां तु यच्छ्राद्धं सपिण्डीकरणात्परम् ।
एकोद्दिष्टविधानेन तत्कार्यं शस्त्रघातिनः ।
इति गार्ग्योङ्क्तेः ।
अन्यो ऽत्र विस्तरः श्राद्धप्रकाशे बोघ्यः ।
इति चतुर्दशी ।
अथाश्विनशुक्लप्रतिपदि दौहित्रकर्तृकं मातामहश्राद्धम् ।
सङ्ग्रहे:
जातमात्रो ऽपि दौहित्रो विद्यमाने ऽपि मातुले ।
कुर्यान्मातामहश्राद्धं प्रतिपद्याश्विने सिते ॥
इति ।
{म्व्-स्_१७६}
इयं सङ्गवव्यापिनी ग्राह्येति निर्णयदीपे–
प्रतिपद्याश्विने शुक्ले दौहित्रस्त्वेकपार्वणम् ।
श्राद्धं मातामहं कुर्यात्सपिता सङ्गवे सदा ॥
जातमात्रो ऽपि दौहित्रौ जीयत्यपि च मातुले ।
प्रातः सङ्गवयोर्मध्ये आर्यस्य प्रतिपद्भवेत् ॥
इतिवचनात् ।
अथ प्रकीर्णकनित्यश्राद्धकालाः ।
तत्र विष्णुधर्मोत्तरे–
श्राद्धे सङ्क्रमणं भानोः प्रशस्तं पृथिवीपते! ।
विषुवाद्वितयं तत्र अयने द्वे विशेषतः ॥
आवश्यकम–
उपप्लवे चन्द्रमसो रवेश्च त्रिष्वष्टकास्वप्ययनद्वये च ।
पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः ॥
श्राद्धं कृतं तेन समाः सहस्रं रहस्यमेतत् पितरो वदन्ति ।
इतिविष्णुपुराणात् ।
काम्यत्वम्–आदित्यसङ्क्रमणमित्यादिविष्णुवाक्यात् ।
द्रव्यब्राह्मणसम्पत्त्युपलक्षितः कालः श्राद्धकालः ।
तथाच–
निगमः, अपरण्क्षे यदहः सम्पद्येतामावास्या या तु विशेषेणाष्टका तीर्थतिथिद्रब्यब्राह्मणसम्पत्सु चिकीर्षेदिति ।
वृद्धिसङ्क्रमद्रव्यब्राह्मणसम्पत्त्यादिनिमित्तविहितानां नैमित्तिकत्वेनावश्यकत्वम् ।
हारीतवचानादपि:
तीर्थद्रव्योपपत्तौ च न कालमवधारयेत् ।
पात्रं च ब्राह्मणं प्राप्य सद्यः श्राद्धं विधीयते ॥
सद्य इति आवश्यकम् ।
यमः–
राहुदर्शनदत्तं च श्राद्धमानन्त्यमुच्यते ।
विष्णुः–
राहुदर्शनदत्तं हि श्राद्धमानन्त्यमुच्यते ।
गुणवत्सर्वकामीयं पितॄणामुपतिष्ठति ॥
सर्वकामीयं = सर्वकामविहितम् ।
लिङ्गपुराणे–
सर्वस्वेनापि कर्तव्यं श्राद्धं वै राहुदर्शने ।
सर्वस्वेनापीत्यनेनावश्यकत्वम् ।
श्राद्धेच्छोपलक्षितश्च कालः श्राद्धकालः ।
{म्व्-स्_१७७}
मार्कण्डेयपुराणे–
विशिष्टब्राह्मणप्राप्तौ सूर्येन्दुग्रहणे ऽयने ।
विषुवे सति सङ्क्रान्त्यां व्यतीपाते च पुत्रकाः ॥
श्राद्धार्हद्रव्यसम्पत्तौ तथा दुःस्वप्नदर्शने ।
जन्मर्क्षग्रहपीडासु श्राद्धं कुर्वीत चेच्छया ॥
चशब्दो भिन्नक्रमः ।
इच्चया चेत्यर्थः ।
आवश्यकत्वमिच्छायां निमित्ते विधानात् ।
ब्रह्मपुराणे–
पौर्णमासीषु यच्छ्राद्धं कर्तव्यमृक्षगोचरे ।
मासनक्षत्रसंयोगे ।
भाद्रपदपौर्णमास्यां विशेषो ब्रह्मपुराणे–
नान्दीमुखानां प्रत्यब्दं कन्याराशिगते रवौ ।
पौर्णमास्यां तु कर्तव्यं वराहवचनं यथा ॥
ये स्युः पितामहादूर्द्ध्वं ते तु नान्दीमुखास्त्रयः ।
प्रसन्नमुखसञ्ज्ञास्तु मङ्गलायतनास्तु ते ॥
पितामहातुपितुःपितामहादित्यर्थः ।
यमः–
आषाढ्यामथ कर्त्तिक्यां माघ्यां त्रीन् पञ्च वा द्विजान् ।
तर्पयेत्पितृपूर्वं तु तदस्याक्षयमुच्यते ॥
मत्स्यपुराणे–
वैशाख्यामुपरागे च तथा वत्स! महालये ।
एषु वचनेषु पौर्णमासीविशेषाणां ग्रहणमावश्यकत्वार्थमतिशयार्थं वा ।
विष्णुधर्मोत्तरे–
आश्विनस्यापरे पक्षे प्रथमे कार्त्तिकस्य च ।
यस्तु श्राद्धं सदा कुर्यात्सो ऽश्वमेधफलं लभेत् ॥
निद्रां त्यजति सर्वात्मा तस्मिन्काले जनार्दनः ।
तत्र श्राद्धमथानन्तं नात्र कार्या विचारणा ॥
देबलः–
अयुग्मास्तिथयः सर्वा युग्माभ्यः प्रतिपूजिताः ।
कालतः पूजितौ मासौ माघप्रौष्ठपदावुभौ ॥
पक्षयोः शुक्लपक्षश्च बहुलः श्राद्धपूजितः ।
उक्ता तिथिपरीक्षेयं न नक्षत्रेषु प्रचक्ष्यते ॥
{म्व्-स्_१७८}
उत्तराः श्रवणस्तिष्यो मृगशीर्षं प्रजापतिः ।
हस्तः शतभिषकू स्वातिश्चित्रा पित्र्यमथाश्विनम् ॥
नक्षत्राणि प्रशस्तानि सदैवैतानि पैतृके ।
अपराणि च नक्षत्राण्युच्यन्ते कारणैः क्वचित् ॥
यस्मिन् गुणोदितं विप्रं पात्रभूतमथाप्नुयात् ।
श्राद्धस्य पूजितः कालो भवेत्स एव वा पुनः ॥
कारणैः = माघपञ्चदशीयोगादिभिः ।
अथ काम्यश्राद्धकालाः ।
तत्र कात्यायनः–अथ काम्यानि भवन्ति स्त्रियो ऽप्रतिरूपाः प्रतिपदि, द्वितीयायां स्त्रीजन्म, अश्वास्तृतीयायाम्, चतुर्थ्यां क्षुद्रपशवः, पुत्राः पञ्चम्याम्, षष्ठ्यां द्यूतर्द्धिः, कृषिः सप्तम्याम्, अष्टम्यां वाणिज्यम्, एकशफं नवम्याम्, गावो दशम्याम्, परिचारका एकादश्याम्, द्वादश्यां धनधान्ये कुप्यम्, ज्ञातिश्रैष्ठयं त्रयोदश्यां युवानस्तस्मिन्म्रियन्ते शस्त्रहतस्य चतुर्दश्याममावास्यायां सर्वम् ।
मनुः–(अ। ३ श्लो। २७७)
युक्षु कुर्वन् दिनर्क्षेषु सर्वान्कामान्समश्नुते ।
अयुक्षु तु पितॄनर्चन्प्रजां प्राप्नोति पुष्कलाम् ।
याज्ञवल्क्यः–(अ। १ श्रा। प्र। २६५-२६८)
स्वर्गं ह्यपत्यमोजश्च शौर्यं क्षेत्रं बलं तथा ।
पुत्रान्श्रैष्ट्यं ससौभाग्यं समृद्धिं मुख्यतां सुतान् ॥
प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतींस्तथा ।
अरोगित्वं यशो वीतशोकतां परमां गतिम् ॥
विद्यां धनं भिषक्सिद्धिं कुप्यं गा अप्यजाविकम् ।
अश्वानायुश्च विधिवद्यः श्राद्धं सम्प्रदास्यति ॥
कृत्तिकादिभरण्यन्तं स कामानाप्नुयादिमान् ।
आस्तिकः श्रद्दधानश्च व्यपेतमदमत्सरः ॥
प्रवृत्तचक्रता = सर्वत्राप्रतिहताज्ञाशालिता ।
विष्णुः–सततमादित्याह्नि श्राद्धं कुर्वन्नारोग्यमाप्नोति, सौभाग्यं चान्द्रे, समरविजयं कौजे:
सर्वान्कामान्बौधे, विद्यामभीष्टां जैवे, धनं शौक्रे, जीवितं शनैश्चरे ।
इति काम्यश्राद्धकालाः ।
{म्व्-स्_१७९}
अथ युगादथः ।
विष्णुपुराणे–
वैशाखमासस्य सिततृतीया नवम्यसौ कार्त्तिकशुक्लपक्षे ।
नभस्यमासस्य तमिस्रपक्षे त्रयोदशी पञ्चदशी च माघे ॥
एता युगाद्याः कथिताः पुराणैरनन्तपुण्यास्तिथयश्चतस्रः ।
पानीयमप्यत्र तिलैर्विमिश्रं दद्यात् पितृभ्यः प्रयतो मनुष्यः ॥
श्राद्धं कृतं तेन समाः सहस्रं रहस्यमेतन्मुनयो वदन्ति ।
नागरखण्डे–
अधुना शृणु राजेन्द्र!युगाद्याः पितृवल्लभाः ।
यासां सङ्कीर्त्तनेनैव क्षीयते पापसञ्चयः ॥
नवमी कार्त्तिके शुक्ला तृतीया माधवे सिता ।
अमावास्या तपस्ये च नभस्ये च त्रयोदशी ॥
त्रेताकृतकलीनां तु द्वापरस्यादयः स्मृताः ।
स्नाने दाने जपे होमे विशेषात्पितृतर्पणे ॥
कृतस्याक्षयकारिण्यः सुकृतस्य महाफलाः ।
इति ।
तपस्ये = माघ इत्यर्थः ।
मत्स्यपुराणे–
वैशाखस्य तृतीया या नवमी कार्त्तिकस्य तु ।
पञ्चदश्यपि माघस्य नभस्ये तु त्रयोदशी ॥
युगादयः स्मृता ह्येता दत्तस्याक्षयकारकाः ।
इति ।
अत्र नक्षत्रविशेषात्प्राशस्त्यविशेषमाह–
देवलः:
तृतीया रोहिणीयुक्ता वैशाखस्य सिता शुभा ।
मघाभिः सहिता या तु नभस्ये तु त्रयोदशी ॥
युगादयः स्मृता ह्येता दत्तस्याक्षयकारकाः ।
इति ।
ब्रह्मपुराणे–
वैशाखशुक्लपक्षस्य तृतीयायां कृतं युगम् ।
इत्याद्युपक्रम्य–
एताश्चतस्रस्तिथयो युगाद्या दत्तं कुलं चाक्षयमासु विन्द्यात् ।
युगे युगे वर्षशतेन यच्च युगादिकाले दिवसेन तद्भवेत् ॥
इति ।
भविष्ये–
वैशाखस्य तृतीया या समा कृतयुगेन तु ।
नवमी कार्त्तिके या तु त्रेतायुगसमा तु सा ॥
माघे पञ्चदशी राजन्! कलिकालसमा तु सा ।
एताश्चतस्रो राजेन्द्र! युगानां प्रभवाः शुभाः ॥
{म्व्-स्_१८०}
युगादयस्तु कथ्यन्ते तेनैताः पूर्वसूरिभिः ।
उपवासस्ततो दानं श्राद्धं होमो जपस्तथा ॥
तदा तु क्रियते किञ्चित्सर्वं कोटिगुणं भवेत् ।
इति ।
कृतयुगेन समेति सम्पूर्णकृतयुगधर्मप्राप्तिरस्यामेकस्यां तिथौ भवतीत्याह हेमाद्रिः ।
अर्थवादमात्रमित्यन्ये ।
प्रभासखण्डे–
यदा चन्द्रश्च सूर्यश्च यदा तिष्यबृहस्पती ।
एकाराशौ समेष्यन्ति प्रवेक्ष्यति तदा कृतम् ॥
इति ।
अत्र च पौर्णमासी तु माघस्येति भविष्यवचनात्,
माघे च पौर्णमास्यां तु घोरं कलियुगं तथा ।
इति ब्रह्मवैवर्त्तात्"अमावास्या च तपस"इति नागरखण्डात्"माघे चन्द्रक्षये ऽहनि” “दर्शे तु माघमासस्य"इतिब्रह्मपुराणादिवचनात् माघामावास्यापौर्णमास्योर्युगभेदेन व्यवस्थेति ज्ञेयम् ।
अत्र च–
श्राद्धं कृतं तेन समाः सहस्रं रहस्यमेतन्मुनयो वदन्ति ।
इति विष्णुपुराणात् पितृकर्मप्राधान्यात्
आब्दिके पितृकार्ये च मासश्चन्द्रमसः स्मृतः ।
इति स्मृतेस्तस्य च शुक्लकृष्णादिभेदेन उभयथोपपत्तेः ।
माघासिते पञ्चदशी कदाचिदुपैति योगं यदि वारुणेन ।
ऋक्षेण कालः स परः पितॄणां न ह्यल्पपुण्यैर्नृप! लभ्यते ऽसौ ॥
इतिमकरादित्ये तदसम्भवात् कुम्भादित्ये च सम्भवात् अस्मिन्पक्षे च पूर्णिमामावास्ययोरपि युगादित्वसम्भवात् चान्द्रमासयुगादयो ग्राह्या इति पूर्वपक्षमुपन्यस्य-
दशहरासु नोत्कर्षः चतुर्ष्वपि युगादिषु ।
उपाकर्म महाषष्ठ्यां ह्येतदुक्तं वृषादितः ॥
इति ऋष्यशृङ्गवचनात्सौरमासगता एव ग्राह्या इति हेमाद्रिः ।
एतास्तु पितृकर्मसु अपराह्णव्यापिन्यो ग्राह्या दैविके पूर्वाह्नव्यापिन्यः ।
कृष्णपक्षे तिथिर्ग्राह्या यस्यामस्तं गतो रविः ।
शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितो रविः ॥
इतिस्मृतेः ।
शुक्लकृष्णभेदेन व्यवस्थेत्यन्ये ।
अत एव–
नारदीयभविष्योत्तरयोः:
द्वे शुक्ले द्वे तथा कृष्णे युगाद्याः कवयो विदुः ।
शुक्ले पूर्वाह्निके ग्राह्ये कृष्णे चैवापराह्णिके ॥
इति ।
इति युगादयः ।
{म्व्-स्_१८१}
अथ युगान्ताः ।
आदित्यपुराणे–
दिनर्क्षं रेवती यत्र गमनं चैव राशिषु ।
युगान्तदिवसं तत्र तत्र दानमनन्तकम् ॥
राशिषु गमनं सङ्क्रान्तिरित्यर्थः ।
ग्रहणं विषुवे चैव सौम्ये वा मिहिरो यदि ।
सप्तमी शुक्लकृष्णा वा युगान्तदिवसं विदुः ॥
इति ।
सौम्य उदगयने यदि शुक्ला कृष्णा वा सप्तमी ग्रहणविषुवोत्तरायणोपेता सूर्यवारोपेता तदा युगान्तदिवस इत्यर्थः ।
ब्रह्मपुराणे विशेषः–
सूर्यस्य सिंहसङ्क्रान्त्यामन्तः कृतयुगस्य तु ।
अथ वृश्चिकसङ्क्रान्त्यामन्तस्त्रेतायुगस्य तु ॥
ज्ञेयस्तु वृषसङ्क्रान्त्यां द्वापरान्तस्तु सङ्ख्यया ।
तथाच कुम्भसङ्क्रान्त्यामन्तः कलियुस्य तु ॥
पद्मपुराणे–
युगादिषु युगान्तेषु स्नानदानजपादिकम् ।
यत्किञ्चित् क्रियते तस्य युगान्तफलमुच्यते ॥
ब्रह्मपुराणे ऽपि–
युगादिषु यागान्तेषु श्राद्धमक्षयमुच्यते ।
इति ।
इति युगान्ताः ।
अथ मन्वन्तरादयः ।
मात्स्ये–
अश्वयुक्शुक्लनवमी द्वादशी कार्त्तिके तथा ।
तृतीया चैव माघस्य तथा भाद्रपदस्य च ॥
फल्गुनस्याप्यमावास्या पौषस्यैकादशी तथा ।
आषाढस्यापि दशमी तथा माघस्य सप्तमी ॥
श्रावणे चाष्टमी कृष्णा तथाषाढे च पूर्णिमा ।
कार्त्तिकी फाल्गनी चैत्री ज्येष्ठा पञ्चदशीं सिता ॥
मन्वन्तरादयस्त्वेता दत्तस्याक्षयकारकाः ।
आसु तोयमपि स्नात्वा तिलदर्भविमिश्रितम् ॥
पितॄनुद्दिस्य यो दद्यात्स गतिं परमां लभेत् ।
स्नानं दानं जपो होमः स्वाध्यायः पितृतर्पणम् ॥
सर्वमेवाक्षयं विद्यात् कृतं मन्वन्तरादिषु ।
{म्व्-स्_१८२}
अमावास्यातिरिक्ताः सर्वाः शुक्ला ग्राह्याः ।
आसां च तोयमपि इत्यपिशब्दान्नित्यत्वम् ।
शूलपाणिस्त्वेतस्य निर्मूलत्वात्काम्यत्वमेवेत्याह ।
हेमाद्रौ पुराणान्तरे–
आश्विने दशमी शुक्ला श्रावणी कार्त्तिकी तथा ।
मन्वन्तरादयो ह्येता दत्तस्याक्षयकारकाः ॥
इति ।
इति मन्वन्तरादयः ।
अथ कल्पादयः ।
नागरखण्डे–
अथ कल्पादयो राजन्! कथ्यन्ते तिथयः शुमाः ।
यासु श्राद्धे कृते तृप्तिः पितॄणामक्षया भवेत् ॥
चैत्रशुक्लप्रतिपदि श्वेतकल्पः पुराभवत् ।
तस्य शुक्लत्रयोदश्यामुदानः समजायत ।
कल्पस्तु नारसिंहाख्यः कृष्णायां प्रतिपद्यभूत् ॥
अथ कृष्णत्रयोदश्यां गौरीकल्पो ऽप्यकल्पत ।
वैशाखस्य तृतीयायां शुक्लायां नीललोहितः ॥
चतुर्दश्यां तु शुक्लायां प्रवृत्तो गरुडाभिधः ।
समानस्तु द्वितीयायां कृष्णायामुदपद्यत ॥
माहेश्वरं चतुर्दश्यां कृष्णपक्षे समागमत् ।
ज्येष्ठशुक्लतृतीयायां वामदेवस्य सम्भवः ॥
पौर्णमास्यां तु तस्यैव कौर्मः प्रववृते नृप! ।
कृष्णपक्षे तृतीयायामाग्नेयः समजायत ॥
पितृकल्पस्त्वमावास्यां तस्यैवाश्रित्य पप्रथे ।
शुचौ शुक्लचतुर्थ्यां तु कल्पो राथन्तरो ऽभवत् ॥
तस्यां तस्यैव कृष्णायां सोमकल्पः समापतत् ।
श्रावणे शुक्लपञ्चम्यां रौरवः समवर्तत ॥
तस्यैव कृष्णपञ्चम्यां मानवः समपद्यत ।
षष्ठीं प्रौष्ठपदे शुक्ले प्राप्य प्राणाभिधो ऽभवत् ॥
सितेतरायां षष्ठ्यां तु तस्यासीत्पुष्कराह्वयः ।
बृहत्कल्पस्तु सप्तम्यां नभसः प्रत्यपद्यत ॥
षष्ठ्यां प्रौष्ठपदे ऽष्टम्यां शुक्लायामाश्विनस्य तु ।
कृष्णायामपि वैकुण्ठः प्रविवेश विशाम्पते! ॥
कार्त्तिकस्य सिताष्टस्यां कल्पः कन्दर्पसञ्ज्ञकः ।
असितायां पुनर्यज्ञे लक्ष्मीकल्पस्य कल्पना ॥
{म्व्-स्_१८३}
मार्गशुक्लनवम्यां च कल्पः सद्यो ऽन्वपद्यत ।
असितायां च सावित्रीकल्पः प्रारम्भमभ्यगात् ॥
पुष्ये दशम्यां शुक्लायामीशानः प्रादुरास ह ।
असितायामघोरस्य कल्पस्योपक्रमो ऽभवत् ॥
एकादश्यां तु शुक्लायां माघे व्यानः प्रजग्मिवान् ।
तस्यामेव तमिस्रायां वराहः प्राप भूपते! ॥
सारस्वतस्तु द्वादश्यां शुक्लायां फाल्गुनस्य तु ।
कृष्णायामपि वैराजो विरराज महामते! ॥
इति त्रिंशदमी कल्पास्तिथयः परमेष्ठिनः ।
आरम्भतिथयस्तेषामुक्ताः पुण्यतमा मया ॥
तासु श्राद्धे कृते पुण्यमाकल्पस्थायि कल्पते ।
मत्स्यपुराणे तु अन्यास्तिथयः कल्पादित्वेनोक्ताः ।
यथा:
ब्रह्मणो हि दिनादिर्यः कल्पस्यादिः प्रकीर्त्तितः ।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च ॥
पञ्चमी चैत्रमासस्य तस्यैवान्त्या तथापरा ।
शुक्ला त्रयोदशी माघे कार्त्तिकस्य तु सप्तमौ ॥
नवमी मार्गशीर्षस्य स्पतैवैताः स्मराम्यहम् ।
कल्पानामादयो ह्येता दत्तस्याक्षयकारकाः ॥
तस्यैवान्त्येति ।
तस्य चैत्रस्य अन्त्या अमावास्येत्यर्थः ।
वैशाखफाल्गुनयोः कृष्णतृतीया चैत्रपञ्चमी तदमावास्येति चतस्रः कृष्णाः ।
माघत्रयोदशीकार्त्तिकदशमीमार्गशीर्षनवमीति तिस्रः शुक्लाः ।
एवं सप्त ।
सप्तैव स्मरामीत्युक्तेर्नान्यस्मृतकल्पादिपरिसङ्खया ।
प्राशस्त्यद्योतनार्थो वा एवशब्दः ।
इति कल्पादयः ।
अथ व्यतीपातः ।
वाराहपुराणे–
दर्शे शतगुणं दानं तच्छतघ्नं दिनक्षये ।
शतघ्नं तत्तु सङ्कान्त्यां शतघ्नं विषुवे ततः ॥
युगादौ तच्छतगुणमयने तच्छताहतम् ।
सोमग्रहे तच्छतघ्नं तच्छतग्नं रविग्रहे ॥
असङ्ख्येयं व्यतीपाते दानं वेदविदो विदुः ।
{म्व्-स्_१८४}
घ्नं = गुणितम् ।
विष्कुम्भादियोगेषु सप्तदशो योगो व्यतीपात इति ।
अस्य घटिकासु विशेषो ज्योतिःशास्त्रे–
विंशतिर्द्वियुतोत्पत्तौ भ्रमणे चैकविंशतिः ।
तपने दशनाड्यस्तु पतने सप्तनाडिकाः ॥
उत्पत्त्यादयो भागाः ।
द्वियुता विंशतिः द्वाविंशतिरित्यर्थः ।
तत्र फलं नरसिंहपुराणे–
फलं लक्षघ्नमुत्पत्तौ भ्रमणे कोटिरुच्यते ।
तपने दशकोट्यस्तु पतने दत्तमक्षयम् ॥
हेमाद्री याज्ञववल्क्यः–
उत्पत्तौ लक्षगुणं कोटिगुणं भ्रमणनाडिकायां तु ।
अर्वुदगुणितं पतने जपदानाद्यक्षयं पतिते ॥
वृद्धमनुना अन्यथोक्तम्–
श्रवणास्विधनिष्ठार्द्रा नागदैवतमस्तके ।
यद्यमा रविवारेण व्यतीपातः स उच्यते ॥
नागदैवतम् = अश्लेषा ।
मस्तकम् = आदिचरणः ।
एतन्नक्षत्रान्यतमनक्षत्रप्रथमचरणयुक्ता अमावास्या रविवारवती व्यतीपात इति ।
केचित्तु मस्तकं मृगशिर इत्याहुः ।
सूर्याचन्द्रमसोः क्रान्तिसाम्यं ज्योतिःशास्त्रगम्यं व्यतीपात इति कल्पतरुः ।
भृगुः–
क्रान्तिसाम्यसमयः समीरितः सूर्यपर्वसदृशो मुनीश्वरैः ।
तत्र दत्तहुतजापपूजनं कोटिकोटिगुणमाह भार्गवः ॥
इति ।
हेमाद्रौ स्मत्यन्तरे–
पञ्चाननस्थौ गुरुभूमिपुत्रौ मेषे रविः स्याद्यदि शुक्लपक्षे ।
पाशाभिधाना करभेण युक्ता तिथिर्व्यतीपात इतीह योगः ॥
अस्मिन् हि गोभूमिहिरण्यवाससां दानेन सर्वं च विहाय पापम् ।
सुरत्वमिन्द्रत्वमनामयत्वं मर्त्याधिपत्वं लभते मनुष्यः ॥
पञ्चाननस्थौ = सिंहस्थौ ।
पाशाभिधाना = द्वादशीति हेमाद्रिः ।
करभेण = हस्तेनेति ।
अथ वैधृतिः ।
विष्णुः:
वैधुतौ च व्यतीपाते दत्तमक्षयकृद्भवेत् ।
भारद्वाजो ऽपि–
व्यतीपाते वैधृतौ च दत्तस्यान्तो न विद्यते ।
वैधृतिश्च व्यतीपातवत्क्रान्तिसाम्यमिति केचित् ।
योगविशेष इत्यन्ये ।
इति वैधूतिः ।
{म्व्-स्_१८५}
अथावमदिनम् ।
तत्र श्राद्धकालं प्रक्रम्य वशिष्टः–
एकस्मिन्सावसाने ऽह्नि तिथीनां त्रितयं यदा ।
तदा दिनक्षयः प्रोक्तस्तत्र साहस्रिकं फलम् ॥
अथ नवान्नश्रद्धकालः ।
विष्णुधर्मोत्तरे–
व्रीहिपाके च कर्तव्यं यवपाके तथैवच ।
(*)न तौ वाह्यौ महाराज! विना श्राद्धं कथञ्चन ॥
(*) वाह्यौ याप्यावित्यर्थः ।
व्रीहिः = शरत्पव्कधान्यं षष्टिकादि ।
अत एव–
व्रीहयः शालयो मुद्गा गोधूमाः सर्षपास्तिलाः ।
यवाश्चौषधयः सप्त विपदो घ्नन्ति धाविताः ॥
इति परिशिष्टे हैमन्तिकधान्यादिभ्यस्तस्य पृथगुपादानं कृतम् ।
इदं च शुक्लपक्षे कार्यम् ।
तथा च–
ब्रह्मपुराणे:
शुक्लपक्षे नवं धान्यं पक्वं ज्ञात्वा सुशोभनम् ।
गच्छेत् क्षेत्रीविधानेन गीतवाद्यपुरःसरम् ॥
इत्युक्रम्य–
तेन दैवान् पितॄंश्चैव तर्पयेदर्चयेत्तथा ।
कृष्णापक्षनिषेधः कामधेनौ–
कृष्णपक्षे नवान्नं तु न कुर्यान्मानवो यतः ।
पितरस्तं न गृह्णन्ति दाता च नरकं व्रजेत् ॥
ज्योतिषे–
नन्दायां भार्गवदिने त्रयोदश्यां त्रिजन्मनि ।
नवश्राद्धं न कुर्वीत पुत्रदारधनक्षयात् ॥
त्रिजन्मनि = जन्मतिथौ जन्मनक्षत्रे जन्मचन्द्रे वेति कामरूपीये ।
अपरे तु त्रिजन्मनि प्रथमदशमैकोनविंशतिनक्षत्रेषु ।
तथा दीपिकायामपि–
त्रयोदशीं जन्मदिनं च नन्दां जन्मर्क्षतारां सितवासरं च ।
त्यक्त्वा हरीज्येन्दुकरान्त्यमैत्रध्रुवेषु च श्राद्धविधानमिष्टम् ॥
हरिः = श्रवणः ।
इज्यः = पुष्यः ।
इन्दुर्मृगशिराः ।
करो = हस्तः ।
अन्त्यो = रेवती ।
मैत्रमनुराधा ।
ध्रुवमुत्तरात्रयरोहिण्यः ।
ग्राह्यतिथिनक्षत्राण्यपि ज्यौतिष एव–
{म्व्-स्_१८६}
हस्तस्वातिपुनर्वसू मृगशिरःपुष्यानुराधा तथा
मूलायां श्रवणे च रेवतिधने चित्रानले वारुणे ।
ब्राह्मे शक्रविशाखयोश्च तुरगे सौम्येन्दुजीवादिके
चन्द्रे शोभनतारके च शुभदं श्राद्धं नवान्ने कृतम् ॥
अस्य च गौणकाल उक्तः स्मृतौ–
श्यामाकैर्व्रीहिभिश्चैव यवैश्चान्योन्यकालतः ।
प्राग्यष्टुं युज्यते ऽवश्यं न ह्यत्राग्रयणात्ययः ॥
श्यामाकैरित्येतद्वानप्रस्थपरम्"गृहमेधी हि यवाभ्यां शरद्वसन्तयोर्यजेत श्यामाकैर्वनी वर्षासु"इति श्रुतेरिति कामरूपीये ।
इति नवान्नकालः ।
अथ नवोदकादिश्राद्धकालः ।
नवोदके नवान्ने च गृहप्रच्छादने तथा ।
पितरः स्पृहन्त्यन्नमष्टकासु मघासु च ॥
तस्माद्दद्यात्सदोद्युक्तो विद्वत्सु ब्राह्मणेषु च ।
नवोदके = वर्षोपक्रमे ।
आर्द्रास्थरवाविति यावत् ।
गृहप्रच्छादने = नवगृह करणे ।
इति नवोदकनवगृहकरणश्राद्धकालः ।
अथ क्षयाहकालनिर्णयः ।
तत्र ब्रह्मपुराणे–
प्रतिसंवत्सरं कार्यं मातापित्रोर्मृताहनि ।
पितृव्यस्याप्यपुत्रस्य भ्रातुर्ज्येष्ठस्य चैव हि ।
अत्र मात्रादिसम्प्रदानकश्राद्धकविधौ प्रतिसम्बन्धिपुत्रादेरर्थात्कर्त्तृत्वलाभो ऽध्यवसेयः ।
भ्रातुरित्यत्रापि मद्यपठितत्वादपुत्रस्येति पदं सम्बध्यते ।
ज्येष्ठस्येत्यनेनापुत्रस्यापि कनिष्ठस्य भ्रातुर्नावश्यकं श्राद्धमिति गम्यते न पुनः सर्वथा निषेधः ।
न पुत्रस्य पिता कुर्यान्नानुजस्य तथाग्रजः ।
अपि स्नेहेन कुर्यातां सपिण्डीकरणं विना ॥
इति हेमाद्रिधृतवचनैकवाक्यत्वात् ।
अत्र मृताहशब्देन मरणाधिकरणकतिथिसजातीया तिथिर्विवक्षिता ।
संवत्सरान्ततिथौ मृतिसम्बन्धाभावात् ।
सजातीयत्वं च तिथेर्न प्रतिपदादित्वमात्रेण किन्तु तन्मासपक्षसजातीयमासपक्षगतत्वेन च ।
{म्व्-स्_१८७}
मासपक्षतिथिस्पृष्टे यो यस्मिन् म्रियते ऽहनि ।
प्रत्यक्षं तु तथाभूतं क्षयाहं तस्य तं विदुः ॥
इति व्यासवचनात् ।
अत्र च अहःपदम् अहोरात्रपरम् ।
अत्र च–
मृते ऽहनि पितुर्यस्तु न कुर्यात् श्राद्धमादरात् ।
मातुश्च खगशार्दूल! वत्सरान्ते मृताहनि ॥
इति भविष्यपुराणे वत्सरान्तग्रहणान्न मरणाघिकरणकतिथेः श्राद्धाधिकरणत्वं किन्तु वत्सरान्ततिथिसजातीयत्वनिरूपकत्वमेव ।
तेन यत्केन चिदुच्यते प्रतिसंवत्सरमित्यविशेषश्रवणाद्वर्षे भवं वार्षिकमितिव्युत्पन्नसमाख्याबलाच्च मरणाधिकरणकतिथेरपि श्राद्धाधिकरणात्वम् अतश्च सांवत्सरिकं मरणाधिकरणतिथावपि प्राप्तम् ।
“आद्यमेकादशे ऽहनि"इतिवचनादेकादशाहे कर्तव्यमिति, तन्निरस्तं वेदितव्यम् ।
उक्तवाक्ये वत्सरान्तग्रहणेन मरणतिथौ श्राद्धप्राप्तेरभावात् ।
“आद्यमेकादशे ऽहनि"इतिवचनं तु मासिकविषयम् ।
तस्य हि–
मृते ऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् ।
इतिवचनात्तत्तन्मासाद्यभूतायां मृततिथावेव कर्तव्यत्वात् ।
सर्वाद्यमरणाधिकरणकतिथावपि प्राप्तस्य युक्तम्"आद्येमेकादशे ऽहनि"इत्यनेनोत्कर्षविधानम् ।
अत एव तत्रैव मासे भवं मासिकमित्येव समाख्याव्युत्पत्तिः ।
सांवत्सरिके तु उक्तवाक्ये वत्सरान्तग्रहमाद्वर्षान्ते भवं वार्षिकमित्येव समाख्याव्युत्पत्तिः ।
अत्र च"वत्सरान्ते मृताहनि"इत्यत्र सवत्सरान्ते जाते मृताहनीत्यर्थो बोध्यः ।
तथाहि ।
अत्र हि न संवत्सरस्य ग्रहणं तिथिवृद्धिह्र ।
साभ्यां मृताहकालत्वानुपपत्तेः ।
किन्तु चान्द्रत्य ।
अत एव–
आब्दिके पितृकार्ये च मासश्चान्द्रमसः स्मृतः ।
इतिव्यासवचनम् ।
अतश्च चान्द्रसंवत्सरस्य पूर्वतिथ्यन्तत्वेन द्वितयिवत्सराद्यभूताया मृततिथेः पूर्ववत्सरान्तत्वाभावान्न वत्सरान्ते मृताहनीतिसामानाधिकरण्यं किन्तु वत्सरान्ते जाते मृताहनीत्येव वचनार्थः ।
तेन द्वितीयवत्सराद्यमृततिथौ श्राद्धं कार्यम् इति दाक्षिणात्यसम्मतो ऽर्थः ।
शूलपाणिस्तु मासे भवं वर्षे भवमित्येव समाख्याव्युत्पत्तिः न चैवं सर्वाद्यमृततिथौ मासिकसांवत्सरिकादिकरणापत्तिः ।
मृततिथेर्मृततिथिं यावच्चान्द्रस्य माससंवत्सरादेर्विवक्षितत्वात् ।
मृततिथेरिति चावधौ पञ्चमी दर्शाद्दर्शश्चान्द्र इतिवत् ।
{म्व्-स्_१८८}
अतश्च अन्त्यमृततिथेरेव पूर्वमासवर्षशब्दार्थत्वं नोत्तरमासवर्षशब्दार्थत्वं पूर्वमृततिथेः ।
तेन प्रथमवर्षान्तर्गतासु
द्वितीयादिमृतितिथिषु प्रथमादिमासिकानि प्रथमसंवत्सरान्ते च प्रथमवार्षिकम्"आद्यमेकादशो ऽहनि"इति तु मासिकाद्भिन्नमेव सर्वैकोदिष्टप्रकृतिभूतं श्राद्धं विधत्ते न पुनराद्यमासिकस्योत्कर्षमित्याह ।
धनञ्जपशुपतिहलायुधभानूपाघ्यायजीमूतवाहनधवलेश्वरादयस्तु–
यस्मिन्राशिगते भानौ विपत्तिं यान्ति मानवाः ।
तेषां तत्रैव देया स्यात्पिण्डदानोदकक्रिया ॥
इतिवचनात्सांवत्सरिकस्य सौरमासेन कर्तव्यता ।
न चेदं मलमासमृताब्दिकपरं सङ्कोचे मानाभावात् ।
न च ह्रासवशात्तिथिलोपे श्राद्धलोपापत्तिः ।
श्राद्धविघ्ने समुत्पन्ने तिथिलोपे च वा पुनः ।
एकादश्यां प्रकर्वीत कृष्णपक्षे विशेषतः ॥
इतिवचनेनैकादश्यां तत्सम्भवात् ।
चान्द्रमासप्रतिपादके वचने आब्दिकग्रहणं तत् प्रत्यब्दक्रियमाणदुर्गोत्सर्वादिपरमित्याहुः ।
अत्र च—
यां तिथिं समनुप्राप्य उदयं याति भास्करः ।
सा तिथिः सकला ज्ञेया दानाध्यनकर्मसु ॥
यां तिथि समनुप्राप्य अस्तं याति दिवाकरः ।
सा तिथिः सकला ज्ञेया दानाध्ययनकर्मसु ॥
इतिदेवलादिवचनाद्यथा कर्मकालेष्वविद्यमानाया अपि तिथेः सम्पूर् णत्वकल्पनया ग्रहणं न तथा नरणाधिकरणाहोरात्रे त्रिमुहूर्तादिरूपेण उदयास्तमयवर्त्तिन्यास्तिथेर्मरणसम्बन्धितया ग्रहणम्, किन्तु–
पारणे मरणे नॄणां तिथिस्तात्कालिकी स्मृता ।
इतिवशिष्ठवचनेन मरणकालिक्या एवेति ।
अथ क्षयाहाद्यज्ञाने सांवत्सरिककालनिर्णयः ।
तत्र यस्य मरणतिथिर्मरणपक्षश्च न ज्ञायते तन्मासस्तु ज्ञायते ।
तस्य सांवत्सरिकं तन्मासगतामावास्यायां कर्तव्यम् ।
तथाच–
बृहस्पतिः:
न ज्ञायते मृताहश्चेत्प्रमीते प्रोषिते सति ।
मासश्चेत्प्रतिविज्ञातस्तद्दर्शे स्यान्मृताहनि ॥
मृताहनि यद्विहितं तदितिशेषः ।
{म्व्-स्_१८९}
अत्र च यद्यपि मृताहस्यैवाज्ञानमुक्तं तथापि पक्षज्ञाने वक्ष्यमाणरीत्या तत्त्यागस्यानुनितत्वात् शुक्लपक्षगतैकादश्यामेव सांवत्सरिकश्राद्धप्राप्तेः पक्षाज्ञाने ऽप्येतस्य
निर्णायकत्वादत्र मृताहग्रहणं पक्षस्याप्युपलक्षणार्थम् ।
प्रोषित इति मृतति थ्यज्ञानकारणोपलक्षणम् ।
अत एव–
भविष्यपुराणे:
प्रवासमन्तरेणापि स्यातां तौ विस्मृतौ यदा ।
इत्यादि ।
अत्र च सामान्यवचनात्पितृव्यादीनामपि मृताहाद्यज्ञाने अयमेव निर्णय उचितत्वात् ।
एवञ्च–
न जानाति दिनं यस्तु मासं वाथ नराधिप! ।
मृतयोस्तु महाप्राज्ञ! पित्रोस्तु स कथं नरः ॥
इति भविष्यपुराणीयप्रश्नवाक्ये पितृपदमुपलक्षणार्थं द्रष्टव्यम् ।
कालान्तरमाह–
मरीचिः:
श्राद्धविघ्ने समुत्पन्ने अविज्ञाते मृताहनि ।
एकादश्यां तु कर्तव्यं कृष्णपक्षे विशेषतः ॥
अत्र विशेषत इतिश्रवणात् शुक्लैकादश्यामपि श्राद्धं भवतीति गच्छुक्लपक्षैकादश्या एव मुख्यत्वम् ।
यदि तु स न ज्ञायते तदा कृष्णपक्षस्य पित्र्ये प्रशस्तत्वेन विशेषत इत्युक्त्या च कृष्णैकादश्येव मुख्यः कालः ।
तदभावे तु शुक्लैकादश्याः कालत्वमिति विवेकः ।
हेमाद्रादिसकलदाक्षिणात्यमैथिलस्वरसो ऽप्येवम् ।
स्मार्त्तभट्टस्तु प्रागुदाहृतबृहस्पतिवचनोक्तामावात्यापेक्षया कृष्णैकादश्या मुख्यत्वमभिप्रेत्य विशेषत इत्युक्तम् ।
न चैवं"श्राद्धविघ्ने” “विशेषत"इत्यस्यानुपपत्तिस्तत्रामावास्याया ।
अविहि तत्वात् इति वाच्यम् ।
श्राद्धविघ्ने समुत्पन्ने त्वन्तरा मृतसूतके ।
अमावास्यां प्रकुर्वीत शुद्धे चैके मनीषिणः ॥
इतिव्यासवचनेन तत्रामावास्याया विहितत्वादित्याह ।
यदा तु मरणमासो न ज्ञायते दिनं तु ज्ञायते तदा–
भविष्यपुराणे:
दिनमेव तु जानाति मासं नैव तु यो नरः ।
मार्गशीर्षे ऽथ वा भाद्रे माघे ऽवाथ समाचरेत् ॥
बृहस्पतिस्मृतावपि:
तदा ह्याषाढके मासि माघे वा तद्दिनं भवेत् ।
{म्व्-स्_१९०}
अत्रापि शुक्लपक्षज्ञाने तद्गता तत्तिथिर्ग्राह्या ।
नो चेत्कृष्णपक्षगतैव तस्य पित्र्ये ऽतिप्रशस्तत्वात् ।
यदा तु त्रयाणामपि मरणसम्बन्धिमासपक्षतिथीनामज्ञानं तदा यदि प्रस्थानोत्तरमेव जीवनवार्त्ता न ज्ञाता तत्र प्रस्थानतिथ्यादिसजातीयमासतिथिपक्षा ग्राह्याः ।
यथाह–
बृहस्पतिः:
दिनमासौ न विज्ञातौ मरणस्य यदा पुनः ।
प्रस्थानदिनमासौ तु ग्राह्यौ पूर्वोक्तया दिशा ॥
दिनमासग्रहणं पक्षस्याप्युपलक्षणं पूर्ववत् ।
पूर्वोक्तयेत्यस्यायमर्थः ।
मासमात्राज्ञाने भाद्रपदादिगततत्पक्षतिथ्योः, पक्षमात्राज्ञाने तन्मासीयकृष्णपक्षगततत्तिथौ, तिथिमात्राज्ञाने तन्मासीयशुक्लैकादश्याम्, मासपक्षयोरज्ञाने भाद्रपदादिमासीयकृष्णपक्षगततिथौ, पक्षतिथ्योरज्ञाने
तन्मासीयकृष्णैकादश्यादौ, मासतिथ्योरज्ञाने तु भाद्रादिमासीयशुक्लैकादश्यामिति ।
यदा तु त्रयाणामपि प्रस्थानतिथ्यादिसमानजातीयानां मासपक्षतिथीनामज्ञानं यस्य च प्रस्थानोत्तरं बहुकालं जीवनवार्त्ता श्रुता पश्चाच्च मरणनिश्चयश्रवणं तस्याकृतप्रेतकार्यस्य श्रवणतिथ्यादिसजातीयमासपक्षतिथयो ग्राह्याः ।
तथा च
भविष्योत्तरे:
मृतवार्त्ताश्रुतेर्ग्राह्यौ तौ पूर्वोक्तक्रमेण तु ।
पूर्वोक्तक्रमेण त्वित्यस्यायमर्थः ।
एकद्व्यज्ञानकृतो यो निर्णयः पूर्वमुक्तः सो ऽत्रापि द्रष्टव्य इति ।
अत्र च यद्दिने मरणनिश्चयश्रवणं तद्दिने ऽपि कृतप्रेतकार्यस्य आब्दिककरणं वेदितव्यम्। अकृतप्रेतकार्यस्य तु मरणनिश्चयश्रवणोत्तरं प्रतिकृतिदाहादिपूर्वकमौर्ध्वदैहिकं निर्वर्त्य द्वितीयसंवत्सरे श्रवणतिथौ कार्यमितिविवेकः ।
यदा तु त्रयाणामपि श्रवणतिथ्यादिसजातीयमासतिथिपक्षाणामज्ञानम् अथ वा प्रेतकार्यकरणनिश्चयस्तस्याब्दिकविषये–
प्रभासखण्डम्–
मृतस्याहर्न जानाति मासं वापि कथञ्चन ।
तेन कार्यमम्मायां तु श्राद्धं माघे ऽथ मार्गके ।
वाशब्दः पक्षस्याप्यनुग्रहार्थः ।
अत एव चामावास्याग्रहणमुपपद्यते ।
अन्यथा तु–
मासपक्षतिथिस्पृष्टे यो यस्मिन् म्रियते ऽहनि ।
प्रत्यव्दं तु तथाभूतं क्षयाहं तस्य तं विदुः ॥
{म्व्-स्_१९१}
इति व्यासवचनेन पक्षस्यापि मृताहोपपादकत्वेन पक्षज्ञाने तत्त्यागस्य कर्तुमशक्यत्वात् भाद्रादिमासीयशुक्लैकादश्यामेव प्राप्तेरमाग्रहणानुपपत्तिः ।
अयं च त्रितयाज्ञाने ऽपूर्वकालान्तरविधिर्गौरवात् ।
किन्तु अन्यतराज्ञाने ऽपि विहितस्य अमावास्यादिकालस्यार्थादेव उभयाज्ञाने ऽपि प्राप्तेरनुवादमात्रम् ।
अनुवादकत्वादेव च मुख्यकृष्णैकादशीरूपगौणशुक्लैकादशीरूपकालान्तरोपलक्षकत्वममाशब्दस्य माघादिपदस्य च बाद्राद्युपलक्षकत्वं न दोषाय ।
अत एव स्मार्त्तेन स्वमतानुसारेण एत द्वचनव्याख्यानावसरे कृष्णैकादश्यभावे एवामावस्या ग्राह्येत्युक्तम् ।
अथं च नेति मरणप्रवासमरणश्रवणादिना केनापि चिह्नेनेत्यर्थः ।
एवं च मरणसम्बन्धिमासज्ञाने च मरणमासीयप्रवासतिथिर्ग्राह्येत्याद्यपि सूचितं भवति ।
अत्र च मरणसम्बन्धितिथ्याद्यज्ञाने प्रस्थानसम्बन्धिनो मरणश्रवणसम्बन्धिनश्च तिथ्यादेर्ज्ञाने प्रस्थानसम्बन्धितिथ्यादिकमेव ग्राह्यम् ।
प्रागुदाहृतबृहस्पतिवचने मरणसम्बन्धितिथ्याद्यज्ञाने प्रस्थानसम्बन्धितित्यादीनामेव ग्राह्यत्वावगमात् ।
प्रस्थानस्य श्रवणापेक्षया प्राथम्याच्चेति बहवः ।
वस्तुतस्तु श्रवणदिने मरणस्य परम्परया मृताहसम्बन्धावगतेः मुक्यतयावगतस्य सावत्सरिकतिथिसजातीयतिष्यवच्छेदकत्वरूपस्य सम्बन्धविशेषस्य बाधे ऽपि अर्थादवगतस्य सम्बन्धसामान्यस्य सति सम्भवे आनुबन्ध्याग्नीषोमयोः साद्यस्के प्रकृतिदृष्टपौर्वापर्यमात्रस्येव त्यागायोगात् मरणसम्बन्धितिथ्याद्यज्ञाने श्रवणसन्बन्धितिथ्यादिकमेव ग्राह्यम् ।
न च बृहस्पतिवचनविरोधः ।
मरणस्येति षष्ठ्याः सम्बन्धमात्रवाचित्वेन श्रवणद्वारकत्वे ऽपि न कदाचित् क्षातिः"सप्तदशारत्निर्वाजपेयस्य"इतिवत् ।
(अ। ३ पा। १ अधि। ९) तस्मात् मरणसम्बन्धितिथ्याद्यज्ञाने श्रवणसम्बन्धितिथ्यादिग्रहणं तदज्ञाने च प्रस्थानसम्बन्धितिथ्यादिग्रहणं
तस्याप्यज्ञाने प्रभासखण्डोक्तकालग्रहणमिति विवेकः ।
यत्त्वत्र वाचस्पतिना मासस्याज्ञानेन कार्यं मूलाभावादित्युक्तम्, तत् कालार्दशेहमाद्रिस्मार्त्तभट्टाचार्यादिधृतपूर्वोक्तबृहस्पत्यादिवचनैर्मासाज्ञाने भाद्रादिमासानां विहितत्वादुपेक्ष्यम् ।
यस्य तु अज्ञातदेशगतस्य जीवनमरणान्यतरानिर्धारणात्पञ्चदशवर्षाणि प्रतीक्ष्य पश्चात्प्रतिकृतिदाहाद्यौर्ध्वदेहिकं क्रियते तस्य दाहसम्बन्धितिथ्यादिसजान्तीया मासपक्षतिथथयो ग्राह्याः ।
तथा च–
जातुकर्ण्यः:
पितरि प्रोषिते यस्य न वार्त्ता नैव चागतिः ।
ऊर्ध्वं पञ्चदशाद्बर्षात्कृत्वा तु प्रतिरूपकम् ॥
कुर्यात्तस्य च संस्कारं यथोक्तविधिना तथा ।
{म्व्-स्_१९२}
तदानीमिव सर्वाणि शेषकार्याणि सञ्चरेत् ।
तदानीमिव = तदानीं मृतस्येव ।
शेषकार्याणि = मासिकाब्दिकादीनि ।
यत्तु–
यस्य न श्रूयते वार्त्ता यावद्द्वादशवत्सरम् ।
कुशपुत्रकदाहेन तस्य स्यादवधारणम् ॥
इति बृहस्पतिवचनम्:
प्रोषितस्य यदा कालो गतश्चेद्द्वादशाद्विकः ।
प्राप्ते त्रयोदशे वर्षे प्रेतकार्याणि कारयेत् ॥
जीवन् यदि स आगच्छेत् घृतकुम्भे नियोजयेत् ।
उद्धृत्य स्नापयित्वा तु जातकर्मादि कारयेत् ॥
द्वादशाहं व्रतचर्या त्रिरात्रमथवास्य तु ।
स्नात्वोद्वहेत तां भार्यामन्यां वा तदभावतः ॥
अग्नीनाधाय विधिवद्व्रात्यस्तोमेन वा यजेत् ।
अथैन्द्राग्नेन पशुना गिरिं गत्वाथ तत्र तु ॥
इष्टीमायुष्मतीं कुर्यादीप्सितांश्च क्रतूंस्ततः ।
इतिवृद्धमनुवचनं च द्वादशवर्षप्रतीक्षाविधायकं तत् पित्रतिरिक्तपरम् ।
प्रागुदाहृतजातूकर्ण्यावाक्ये पितरीतिविशेषोपादानात् ।
केचित्तु पञ्चाशर्द्वषन्यूनवयस्कस्य पञ्चदशवर्षप्रतीक्षा तदधिकवयस्कस्य द्वादशेति व्यवस्थामाहुः ।
तन्न ।
वाक्यानारूढतयास्या निर्मूलत्वात् ।
जीवन्नित्यादि तु पितर्यपि भवत्येव ।
व्रतचर्या ब्रह्मचर्यरूपा ।
इति मृताहाज्ञाने सांवत्सरिककालनिर्णयः ।
अथ श्राद्धविघ्ने निर्णयः ।
तत्राशौचेन तावत्क्षयाहश्राद्धप्रतिबन्धे आशौचान्त्यदिनोत्तरदिने तत्कर्तव्यम् ।
तथा च–
ऋष्यशृङ्गः:
देये पितॄणां श्राद्धे तु आशौचं जायते यदि ।
तदाशौचे व्यतीते तु तेषां श्राद्धं विधीयते ॥
शुचीभूतेन दातव्यं या तिथिः प्रतिपद्यते ।
सा तिथिस्तस्य कर्तव्या न त्वन्या वै कदाचन ॥
इति ।
देय इतिविशेषणं मृताहातिरिक्तश्राद्धव्यावृत्त्यर्थम् ।
तेषामाशौचे शङ्खवचनेनादेयत्वावगमात् ।
यथा:
दानं प्रतिग्रहो होमः स्वाध्यायः पितृकर्म च ।
प्रेतपिण्डक्रियावर्जमाशौचे विनिवर्तते ॥
इति ।
{म्व्-स्_१९३}
ननु पितृकर्मत्वाविशेषान्मृताहश्राद्धस्यापि पर्युदस्तत्वेनादेयत्वात्कथं मृताहश्राद्धव्यतिरिक्तश्राद्धस्यैवादेयत्वम् ।
अत्र केचिदाहुः ।
प्रेतपिण्डक्रियापदस्य प्रेतैकोद्दिष्टपरत्वात्प्रेतैकोद्दिष्टस्याशैञ्चे देयत्वसिद्धो तद्विकारे सांवत्सरिकैकोद्दिष्टे ऽपि अतिदेशेन
देयत्वे प्राप्ते ऋष्यङ्गवचनेनाशौचान्तकालविधिरिति ।
तन्न ।
साग्निकौरसकर्त्तृकस्य पार्वणविधिना क्रियमाणस्य प्रत्याब्दिकश्राद्धस्यैकोद्दिष्टधर्मानतिदेशाद्देयत्वाप्रसक्तेराशौचान्तकर्तव्यता न स्यात् ।
न चेष्टापत्तिः शिष्टाचारविरोधापत्तेः ।
किञ्च शङ्खवचनात्प्रेतैकोद्दिष्टव्यतिरिक्तपितृकर्मणो देयत्वे सिद्धे सांवत्सरिकैकोद्दिष्टस्यापि उपदेशेनादेयत्वप्राप्तेर्नातिदेशावगतदेयत्वप्रसक्तिः ।
वस्तुतस्तु प्रेतपिण्डक्रियापदं न प्रेतैकोद्दिष्टपरं तत्परत्वे लक्षणापत्तेः ।
किन्तु पिण्डदानमात्रपरम् ।
अतश्च प्रेतैकोद्दिष्टस्यापि आशौचे अदेयत्वान्नातिदेशेन सांवत्सरिकैकोद्दिष्टे देयत्वप्रसक्तिरस्ति ।
तस्मान्नेदृक्व्याख्यानं युक्तम् ।
अन्ये तु न देय इतिविशेषणेन पार्वणादीनामाशौचान्ते अकत्तेव्यता किन्तु कामधेनौ मृताहप्रकरण एवैतस्य ऋष्यशृङ्गवचनस्य लिखितत्वादाकरे ऽपि मृताहप्रकरण एवैतदित्युन्नीयते ।
अतश्च प्रकरणान्मृताहकर्तव्यश्राद्धस्यैवाशौचान्तकर्तव्यतानेन विधीयते न पार्वणादीनामित्याहुः ।
तन्न ।
देयपदस्यानर्थक्यापत्तेः ।
कामधेनुलिखनमात्रेणाकरे मृताहप्रकरणस्थत्वकल्पनस्यान्याय्यत्वाच्च ।
तस्माद्देय इतिविशेषणवशादेव पार्वणादिव्यावृत्तिः कथम् ।
तेषां तावददेयत्वं शङ्खवचनात्स्पष्टमेव ।
मृताहश्राद्धस्य देयत्वं तु–
श्राद्धविघ्ने समुत्पन्ने मृताहे ऽविदिते तथा ।
एकादश्यां प्रकुर्वीत कृष्णपक्षे विशेषतः ॥
इतिलघुहारीतवचनेन ।
अत्र हि मृताहपदं श्राद्धविघ्ने इत्यस्यापि विशेषणं मध्यगतत्वेन विशेषाग्रहणात्साकाङ्क्षत्वाच्च ।
अथ वा यद्यपि मृताहपदमविज्ञात् इत्यनेनैव सम्बध्यते तथापि उपस्थितत्वात्तत्रत्य एव विघ्नो बोध्यः ।
अतश्च विघ्नमात्रे मृताहश्राद्धस्य देयत्वावगमादाशौचविघ्ने ऽपि देयत्वप्रसक्तिः ।
न चैकादश्यादिकालपुरस्कारेणात्र देयत्वावगमान्न ऋष्यशृङ्गवचनेनाशौ चान्तकालविधिसम्भव इतिवाच्यम् ।
अस्य सत्यपि देयताविशेषपरत्वे आर्थिकस्य देयतासामान्यस्योपजीवनेनात्र कालान्तरविधिः सम्भवत्येव ।
यथा सत्यपि आग्नेय्याः स्तोत्रादिविशेषसम्बन्धे ऽर्थसिद्धं क्रतुसामान्यसम्बन्धं लाघवादुपजीव्य"आग्नेय्याग्नीध्रमुपतिष्ठते"इत्यत्राग्निध्रोपस्थानाङ्गत्वेन विधिः ।
{म्व्-स्_१९४}
एवं च अत्रत्यस्य एकादश्यादिकालस्य"न त्वन्या वै कदाचन"इति ऋष्यशृङ्गवचनेन निषेधान्मृताहप्रत्यासन्नमुख्याशौचानन्तरदिनापेक्षया गौणत्वम् ।
निषेधार्थमुपजीव्यस्य तस्य सर्वथा प्रतिषेद्धुमशक्यत्वेन प्रतिषेधस्य सम्भवद्विषयत्वात् ।
अत एव स्मृतिचन्द्रिकाकालादर्शहेमाद्रिप्रमुखैर्लघुहारीतवचनमाशौचविघ्ने ऽपि व्याख्यायाशौचान्तकालापेक्षया एकादश्यादिकालस्य गौणत्वमुक्तम् ।
एतेन यत्केनचिदुक्तमाशौचविघ्ने आशौचान्ततिथौ देयं न कृष्णैकादशी प्रतीक्षणीया तस्या"न त्वन्या वै कदाचन"इत्यनेन प्रतिषेधात् विग्नान्तरविषयत्वमिति ।
यच्च गौडैकदेशिनोक्तम्–
श्राद्धविघ्ने समुत्पन्ने त्वन्तरा मृतसूतके ।
एकादश्यां न कर्त्त्वयं दर्शे वापि विचक्षणैः ॥
इतिबहुनिबन्धधृतवचनादाशौचान्त एव कार्यमिति, तदप्यपास्तं वोदितब्यम् ।
उदाहृतवचनं तु सम्भवद्विषयं व्याख्येयम् ।
अन्यथा–
प्राप्ते प्रत्याब्दिके श्राद्धे त्वन्तरा मूतसूतके ।
आशौचानन्तरं कुर्यात्तन्मासेन्दुक्षये ऽपि वा ॥
इतिकालादर्शधृतगोभिलवचनस्य निर्विषयत्वापत्तेः ।
तस्मादाशौचेन श्राद्धप्रतिबन्धे आशौचान्ते कार्यम् ।
तत्र प्रमादादिना श्राद्धासम्भवे अमावास्यायाम्, तस्याः प्रागुदाहृतकालादर्शन्धृतगोभिलवचनेनाशौचपुरस्कारेण विहितत्वात् ।
तत्राप्यसम्भवे कृष्णेकादश्यां लघुहारीतवचने विघ्नसामान्ये तस्या विहितत्वात् ।
तत्राप्यसम्भवे शुक्लैकादश्यां तस्या अपि विशेषत इ त्युत्त्यानुकल्पत्वेन सूचितत्वात् ।
यत्त्वत्र वाचस्पतिना लघुहारीतवचनस्य आशौचातिरिक्तमृताहप्रतिबन्धविषयत्वमुक्तं तत्"न त्वन्या वै कदाचन"इत्यप्राप्तकालप्रतिषेधानुपपत्तेरयुक्तम् ।
शूलपाणिरप्येवम् ।
इयं चाशौचविघ्ने तदन्तकर्तव्यता पुरषप्रयत्नानपनेयाशौचविघ्ने न तु पुरुषप्रयत्नापनेये तस्य श्राद्धाहर्विहितशौचादेवापगमात् ।
तथा च क्षताशौचस्यापि पुरुषप्रयत्नानपनेयत्वात् क्षताशौचेन विघ्ने तदन्त एव कार्यमितिति केचित् ।
अन्येतु क्षताशौचस्य आशौचत्वे प्रमाणाभावात् आशौचित्वे ऽपि वा–
श्राद्धविघ्ने समुत्पन्ने त्वन्तरा मृतसूतके ।
इतिपूर्वोदाहृतवचनेन जननमरणाशौच एव तदन्तकर्तव्यताविधानात् न क्षताशौचे तदन्ते कार्यं किन्तु एकादश्यादावेवेत्याहुः ।
एवञ्च यन्मते तदन्तकर्तव्यता तन्मते पूर्वदिनकर्तव्यनियमस्यापि उत्तरेद्युरेवानुष्ठानं पूर्वदिने निर्व्रणीभावसंशयेन प्रधानकर्तव्यत्वानिश्चयात् ।
न चोत्तरेद्युरपि पूर्वाह्णरूपकालाभावादननुष्ठानमिति वाच्यम् ।
अङ्गानुरोधेन प्रधानलोपस्यान्याय्यत्वात् ।
{म्व्-स्_१९५}
न वाकाले कृतमकृतमिति वाच्यम् ।
गौणकालस्य विद्यमानत्वात् ।
अन्यथा अशत्क्या सद्यस्कालायाममावास्यायां पूर्वदिनसाध्यान्वाधानादिलोपापत्तेः ।
एवञ्च यद्बाचस्पतिनोक्तं व्रणाशौचस्थले पूर्वदिनकृत्यमनङ्गेमेव निर्व्रणीभावसंशयेन पूर्वदिने प्रधानकर्तव्यत्वानिश्चयादुत्तरदिने च तन्निश्चये पूर्वाह्णरूपकालाभावात्स्फ्याश्लेषे ज्यायामावाहनस्येव बाध इति, तन्निरस्तम् ।
गौणकालसत्त्वेनाङ्गलोपस्यान्याय्यत्वात् ।
यदपि च दृष्टान्तकथनं तदपि दशमे आवाहनस्य निमित्तानन्तरं कर्तव्यत्वाभिधानात् आकराज्ञानमूलम् ।
एवञ्च जननमरणाशौचान्त्यदिनोत्तरदिने श्राद्धकरणे तद्दिन एव पूर्वदिनकृत्यानुष्ठानं पूर्वदिने आशौचसत्त्वेन अनधिकारात् ।
यानि तु अर्थलुप्तानि एकभक्तादीनि तेषां लोप एव ।
वाचस्पतिस्तु पूर्वदिन एव कार्यं तत्र शौचस्यातन्त्रत्वात् एकादशाहश्राद्धवदित्याह ।
अत्र च"देये पितॄणां"इत्यत्र मृताहनिरूप्यश्राद्धस्य तस्मिन्नहनि आशौचे तदन्तकर्तव्यता बोध्यते ।
अतश्च मासिकोनषाण्मासिकत्रैपक्षिकादीनामपि लाभः ।
तेन मासिकसांवत्सरिकयोराशौचविघ्ने तदन्ते कर्तव्यता तदसम्भवे तु अमावास्यादौ ।
आशौचातिरिक्तविघ्ने तु मासिकैकोद्दिष्टं मासिकान्तरदिने कार्यम् ।
तथाचात्रिः–
तदहश्चेत्प्रदुष्येत केन चित्सूतकादिना ।
सूतकानन्तरं कुर्यात्पुनस्तदहरेव वा ॥
इति ।
अत्र च प्रथमस्य कालस्य सूतकविघ्नविषयत्वं ऋष्यशृङ्गबचनैकवाक्यत्वात् ।
द्वितीयस्य तु आदिशब्दोक्तसूतकातिरिक्तविघ्नविषयत्वम् ।
ऋष्यशृङ्गवचनस्य सामान्यवचनत्वे ऽपि अनयोः पक्षयोर्विकल्पस्य अष्टदोषदुष्टत्वाद्भिन्नविषयत्वं युक्तमेव ।
न चैतस्य मासिकैकोद्दिष्टविषयत्वे मानाभावः ।
मासिकं चोदकुम्भं च यद्यदन्तरितं भवेत् ।
तत्तदुत्तरसातन्त्र्यादनुष्ठेयं प्रचक्षते ॥
इतिवचनैकवाक्यतालाभेन तथा निश्चयात् ।
अत एव हेमाद्रौ देवलवचनम्–
एकोद्दिष्टे तु सम्प्राप्ते यदि विघ्नः ग्रजायते ।
मासे ऽन्यस्मिस्तिन्थौ तस्मिन्श्राद्धं कुर्यात्प्रयत्नतः ॥
इति ।
यद्यपि चात्र निमित्तकथनबेलायामेकोद्दिष्टपदं मासिकाब्दिकसाधारणं प्रतीयते तथापि मासे ऽन्यस्मिन्नितिवचनान्मासिकैकोद्दिष्टपरमेव ।
अन्यथा अब्दे ऽन्यस्मिन्निति ब्रूयात् ।
{म्व्-स्_१९६}
इदं च मासिकान्तरदिनरूपकालविधानं न कृष्णैकादश्याद्यसम्भवे तस्य मासिकपुरस्कारेण विशेषविहितत्वात् ।
अत एव स्मृतिचन्द्रिकाकारेण"अमावास्यायां प्रकुर्वीत"इतिवचनं सांवत्सरिकश्राद्धविषयमित्युक्तम् ।
गौडनिबन्धे तु एकादश्यादावकरणे मासिकान्तरदिने कार्यमित्युक्तम् ।
अत्र चोक्तवचने एकोद्दिष्टग्रहणादेकोद्दिष्टरूपेष्वेव मासिकेषु दिनान्तरकालविधानं न पार्वणरूपेषु अनुमासिकेष्विति चन्द्रिकाकारः ।
अत्र च पतितमासिकं कृत्वा पश्चात्तद्दिनमासिकं कार्यं कॢप्तक्रमत्यागे प्रमाणाभावात् इति गौडाः ।
तत्र एक कालकर्त्तृकत्वेन तन्त्रस्यैव युक्तत्वात् ।
श्राद्धक्रमस्य आर्थिकत्वेन तद्वाधे ऽप्यवैगुण्यात् ।
अस्तु वा क्रमस्याङ्गत्वं तथापि अनुपादेयकालानुरोधेन तद्बाधो युक्त एव ।
न च अपराङ्णादेः अतिशयमात्रार्थत्वात्तद्बाधे ऽपि न श्राद्धकालबाध इति वाच्यम् ।
तादृशापराङ्णाद्यनुरोधेनापि तन्त्रस्य युक्तत्वात् ।
अन्यथा कालबाधाभावे भिन्नप्रयोगवचनपरिगृहीतत्वात् सङ्कान्त्यमावास्यादिश्राद्धानामपि भेदेन करणापत्तिः ।
तस्मात्तन्त्रमेव युक्तम् ।
अत एव"तत्तदुत्तरसातन्त्र्यात्"इतिपूर्वोदाहृतवचने तन्त्रमुक्तम् ।
तच्चाङ्गानां न तु प्रधानस्यापि षोडशसङ्ख्याव्याघातापत्तः ।
तस्मात्पतितमासिकं मासिकान्तरदिने तद्दिनमासिकेन सह तन्त्रेण कार्यम् ।
आब्दिकं तु आशौचातिरिक्ते पाकासम्भवादिना विघ्ने तदुत्तरामावास्यादिषु कार्यं न तु आमेन ।
व्यापन्नो ऽप्याब्दिकं नैव कुर्यादामेन कर्हिचित् ।
अन्नेनेदममायां तु कृष्णे वा हरिवासरे ॥
इति कार्ष्णाञ्जिनिवचनात् ।
व्यापन्नः = पाकासम्भवादिना ।
आमनिषेधसाहचर्यात् ।
व्याध्यादिना अशक्तेन तु पुत्रादिद्वारा तद्दिन एवान्नेन करणीयम् ।
अनुपादेयकालानुरोधेनोपादेयकर्त्तृप्रतिनिधेर्न्याय्यत्वात् ।
यत्तु–
श्राद्धविघ्ने द्विजातीनामामश्राद्धं प्रकीर्त्तितम् ।
अमावास्यादिनियतं माससंवत्सरादृते ॥
एकोहिष्टं तु कर्तव्यं पाकेनैव सदा स्वयम् ।
अभावे पाकपात्राणां तदहः समुपोषयेत् ॥
इति लघुहारीतवचनम्, तन्न प्रतिनिधिमात्रस्य निषेधकं किन्तु असगोत्रप्रतिनिधिनिषेधकम् ।
तथा च प्रेतक्रियामधिकृत्य ब्रह्मपुराणे–
न कदाचित्सगोत्राय श्राद्धं देयमगौत्रजैः ।
अगोत्रजैः = द्वारभूतैः न तु सकृत्कर्त्तृभिः सगोत्रायेत्यनन्वयापत्तेः ।
अतश्च प्रेतश्राद्धविकृतित्वात्सांवत्सरिके ऽपि असगोत्रप्रतिनिधिनिषेधात्तदैकवाक्यतया लघुहारीतवचनस्थस्वयम्पदमसगोत्रप्रतिषेधकमेव ।
{म्व्-स्_१९७}
शूलपाण्यादिनिबन्धा अप्येवम् ।
केचित्तु स्वयं पाकेनेत्यन्वयमाहुः ।
अभाव इति पाकपात्राभावो ऽत्र पाकसामग्रयभावोपलक्षकः ।
तदहःसमुपोषयेत्
इति मुक्यकालाकरणनिमित्तं प्रायश्चित्तरूपमुपोषणं तदह्नि कर्तव्यमित्यर्थः ।
श्राद्धं पुनः कृष्णैकादश्यादौ कार्यम् ।
अन्यथा पूर्वोदाहृतकार्ष्णाजिनिवचनविरोधापत्तेः ।
उपनयनादिकालातिपाते ऽपि प्रायश्चित्तं कृत्वा उपनयनाद्यकरणापत्तेश्च ।
तस्मात्तदह्नि उपोषणरूपं प्रायश्चित्तं कृत्वा कृष्णैकादश्यादौ पुनः श्राद्धं कार्यमेव ।
मैथिलास्तु उपोषणमेव श्राद्धस्थानीयमाहुः ।
तस्माद्व्याध्यादिनासम्भवे पुत्रादिद्वारा कार्यम् ।
भार्यारजोयोगे तु तदहरेवात्मादिपव्केनान्नेन मासिकादि कार्यम् ।
यत्तु–
मृताहनि तु सम्प्राप्ते यस्य भार्या रजस्वला ।
श्राद्धं तदा न कर्तव्यं कर्तव्यं पञ्चमे ऽहनि ॥
इतिहेमाद्रिमाधवादिलिखितं वचनम्, तत् यस्य मृतस्य श्राद्धकर्त्री भार्या रजस्वलेति व्याख्येयम् ।
न तु श्राद्धकर्तुर्भार्या रजस्वलेति ।
हेमाद्रिस्तु गृहस्थस्य भार्यया सहैव श्राद्धे ऽधिकाराद्रजस्वलादशायां स्रयनधि कारात् व्यासज्यवृत्तेर्भर्त्तृगतस्याप्यधिकारस्य निवृत्तत्वात्तस्यास्तद्दशापगम एव श्राद्धं कार्यम् ।
एतन्न्यायमूलकं च मृताहनीतिवचनम् ।
यत्तु–
पुष्पवत्स्वपि दारेषु विदेशस्थो ऽप्यनग्निकः ।
अन्नेनैवोब्दिकं कुर्याद्धेम्ना वामेन न क्वचित् ॥
इति लौगाक्षिवचनं तदधिकृतभार्यान्तरसद्भावविषयमित्याह ।
तन्न ।
दम्पत्योः श्राद्धे सहाधिकारे प्रमाणाभावात् ।
न च"पाणिग्रहणाद्धि सहत्वं सर्वकर्मसु"इति वचनं मूलमितिवाच्यम् ।
एतस्य यत्र श्रौतस्मार्त्ताग्निसाध्येषु कर्मसु प्रमाणान्तरेण उभयाधिकारो ऽवगतस्तदनुवादकत्वेन पूर्त्तादिष्विव श्राद्धे उभयाधिकारविधायकत्वाभावात् ।
न च श्राद्धस्यापि अग्निसाध्यत्वादुभयाधिकारिकत्वमिति वाच्यम् ।
अग्निसाध्यत्वे ऽपि अधिकारस्य वक्तुमशक्यत्वात् ।
मृतपित्रादिकस्य अमावास्यादावकरणप्रत्यवायपरिहारार्थे पितृपितामहादिगततृप्त्युद्धारादिफलार्थे वा श्राद्धे पितृत्वाद्यनिरूपिकायास्तस्या मृतपितृकत्वाभावेन अधिकारासम्भवात् ।
न चाधानगतात्मनेपदविरोधः ।
आत्मनेपदाद्धि अग्निस्वामिगतं फलं जनयन्त्यग्निसाध्यानि कर्माणि न अस्वामिगतमित्येतावदवगम्यते न तु सर्वस्वामिगतं फलं जनयन्ति इति ।
{म्व्-स्_१९८}
दम्पत्योर्मध्ये एकस्य रोगादिपीडितस्य तत्परिहारार्थमिष्टौ क्रियमाणायां तदसम्भवात् ।
न च श्राद्धाङ्गपाकस्य मध्यमपिण्डप्राशनस्य च पत्नीसाध्यत्वात् पत्नीशब्दस्य च यज्ञस्वामिवचनत्वात्तस्या अधिकाराभावे कथं तत्कर्त्तृकत्वोपपत्तिरितिवाच्यम् ।
उक्तरीत्या अधिकारासम्भवे पत्नीशब्दस्य लक्षणया यजमानभार्यामात्रपरत्नात् ।
तस्मादधिकारसद्भावे प्रमाणाभावात्तस्यां रजस्वलायामात्मादिपव्केनान्नेन तदहरेव श्राद्धं कार्यम् ।
इति श्राद्धविघ्ने निर्णयः ।
अथ प्रेतश्रद्धानां कालाः ।
तत्र तावत् द्विविधानि प्रेतश्राद्धानि नवानि नवमिश्राणि च ।
नवश्राद्धं दशाहानि नवमिश्रं तु षडृतून् ।
इति स्मृतेः ।
तेन अन्तर्दशाहं क्रियमाणानां श्राद्धानां नवानीतिसञ्ज्ञा ।
सञ्ज्ञाकरणं तु “चान्द्रायणं नवश्राद्धंऽ; इति प्रायश्चित्ताद्युपयोगार्थम् तान्यनेकविधान्युक्तानि हेमाद्युदाहृतनागरखण्डे भर्तृयज्ञेन ।
त्रीणि सञ्चयनस्यार्थे तानि वै शृणु साम्प्रतम् ।
यत्र स्थाने भवेन्मृत्युस्तत्र श्राद्धं तु कारयेत् ॥
एकोद्दिष्टं ततो मार्गे विश्रामो यत्र कारितः ।
ततः सञ्चयनस्थाने तृतीयं श्राद्धमिष्यते ॥
पञ्ञ्चमे सप्तमे तद्वदष्टमे नवमे तथा ।
दशमैकादशे चैव नवश्राद्धानि तानि वै ॥
अत्र चैकादशाहिकस्यापि नवमितिसञ्ज्ञा ।
उक्तं च–
कात्यायनेन:
चतुर्थे पञ्चमे चैव नवमैकादशे ऽहनि ।
यत्तु वै दीयते जन्तोस्तन्नवश्राद्धमुच्यते ॥
अङ्गिराः–
प्रथमे ऽह्नि तृतीये ऽह्नि पञ्चमे सप्तमे तथा ।
नवमैकादशे चैव षण्नवश्राद्धमुच्यते ॥
नवमं चैकादशं चेतिद्वन्द्व इति कालादर्शः ।
ब्रह्मपुराणे–
तृतीये ऽहनि कर्तव्यं प्रेतदाहावनौ द्विजाः! ।
सूतकान्ते गृहे श्राद्धमेकोद्दिष्टं प्रचक्षते ॥
इति
व्यासः–
प्रथमे सप्तमे चैव नवमैकादशे ऽहनि ।
यत्तु वै दीयते जन्तोस्तन्नवश्राद्धमुच्यते ॥
इति ।
{म्व्-स्_१९९}
यद्यप्येतान्यनेकविधानि तथापि वृद्धवशिष्ठोक्तान्येव ।
प्रथमे ऽह्नि तृतीये ऽह्नि सप्तमे नवमे तथा ।
एकादशे पञ्चमे ऽह्नि नवश्राद्धानि षट् तथा ॥
इति साम्प्रतं शिष्टाचारगोचराणि ।
बौधायनेन तु पञ्चैवोक्तानि ।
तत्रापि नवमदिवसकर्तव्यस्य नवश्राद्धस्य विघ्नादिना विच्छेदे तदेकादशे ऽह्नि कर्तव्यमित्युक्तम् ।
मरणाद्विषमेषु दिनेषु एकैकं नवश्राद्धं कुर्यादानवमात् ।
यत्र नवमं विच्छिद्येतैकादशे ऽह्नि तत्कुर्यादिति ।
काण्वस्तु यस्य कस्यापि नवश्राद्धस्यान्तराये उत्तरसमानतन्त्रताकर्तव्यतामाह–
नवश्राद्धं मासिकं च यद्यन्तरितं भवेत् ।
तत्तदुत्तरसातन्त्र्यादनुष्ठेयं प्रचक्षते ॥
इति ।
शिवस्वामी तु–
नवश्राद्धानि पञ्चाहुराश्वलायनशाखिनः ।
आपस्तम्बाः षडित्याहुर्विभाषामैतरेयिणः ॥
इति आश्वलायनशाखिनां पञ्च, आपस्तम्बानां षडिति द्वयोः पक्षयोर्व्यवस्थितिः ।
ऐतरेयिणां च पञ्च षड् वेतिविकल्पं च वक्ति ।
वर्णतो ऽपि व्यवस्थोक्ता–
भविष्यपुराणे:
नव सप्त विशां राज्ञां नवश्राद्धान्यनुक्रमात् ।
आद्यन्तयोर्वर्णयोस्तु षडित्याहुर्महर्षयः ॥
विशां नव राज्ञां सप्त विप्रशूद्रयोः षडिति ।
नवश्राद्धनिमित्तं तु एकमेकादशे ऽहनि ।
इति अत्रिणा त्वेकमेवोक्तम् ।
हेमाद्रौ कालकाण्डे तु–
आद्यं श्राद्धमशुद्धो ऽपि कुर्यादेकादसे ऽहनि ।
कर्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः ॥
इति शङ्खवचने यत् आद्यं तदपि नवमिति व्याख्यातम् ।
कात्यायनगृह्ये ऽपि इदं नावमित्युक्तं तदपि स्वार्थे ऽणुकरणान्नवमेव नावमिति ।
नवश्राद्धानां च यद्यपि–
नवश्राद्धानि कुर्वन्ति प्रेतोद्देशेन यत्नतः ।
एकोद्दिष्टविधानेन नान्यथा तु कदाचन ॥
इति ब्रह्माण्डपुराणात् सपिण्डनपूर्वभावित्वाच्चैकोद्दिष्टरूपत्वम् ।
तथा पि तत्र ब्राह्मणा युग्मसङ्ख्याकाः कार्याः ।
प्रेताय च गृहद्वारि चतुर्थे भोजयेत् द्विजान् ।
द्वितीये ऽहनि कर्तव्यं क्षुरकर्म च बान्धवैः ॥
{म्व्-स्_२००}
चतुर्थे बान्धवैः सर्वैरस्थ्नां सञ्चयनं भवेत् ।
पूर्वान् विप्रान्नियुञ्जीत युग्मांस्तु श्रद्धया शुचीन् ॥
पञ्चमे नवमे चैव तथैवैकादशे ऽहनि ।
युग्मांस्तु भोजयेद्विप्रान् नवश्राद्धं तु तद्विदुः ॥
इति कूर्मपुराणात् ।
शूलपाणौ तु–
अयुग्मान्भोजयेद्विप्रांस्तन्नवश्राद्धमुच्यते इतिपाठः ।
यत्त्वत्र ब्रह्मपुराणाद्यूक्तम्–
चतुर्थे ब्राह्मणानां तु पञ्चमे ऽहनि भूभृताम् ।
नवमे वैश्यजातीनां शूद्राणां दशमात्परम् ॥
इति ।
चतुर्थे ऽहनि विप्रेब्यो देयमन्न हि बान्धवैः ।
यदिष्टं जीवतश्चासीत्तद्दद्यात्तस्य यत्नतः ॥
चतुर्थे ऽहनि–सञ्चयाहनीत्यर्थः ।
तस्य प्रेतस्य जीवतो यत्किञ्चिदभीष्टमासीत्तद्दद्यादित्यर्थः ।
गावः सुवर्णं वित्तं च ग्रेतमुद्दिश्य शक्तितः ।
इति बृहस्पत्युक्तं च धर्मजातं तत् सविस्तरमन्यत्र ज्ञेयम् ।
यद्यपि चैकादशे ऽह्नि नवश्राद्धमपि
विहितम् ।
तथाच– (अ। १ श्रा। प्र। श्लो। २५६)
मृते ऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् ।
इत्यभिधाय–आद्यमेकादशे ऽहनि ।
इति याज्ञवल्क्येनाद्यमासिकस्य मृतदिने प्राप्तस्यैकादशे ऽहनि उत्कर्षाभिधानादाद्यमासिकं च तत्र प्रसक्तम् ।
तथापि वक्ष्यमाणतद्वाक्यपर्यालोचनया एकादशे ऽहनि क्रियमाणं महैकोद्दिष्टं ताभ्यां भिन्नमेव ।
तथाहि–
एकादशाहे यच्छ्राद्धं तत्सामान्यमुदाहृतम् ।
एकादशभ्यो विप्रेभ्यो दद्यादेकादशे ऽहनि ॥
इतिभविष्योत्तरे ।
वराहपुराणे च–
एकादशाहि कर्न्त्तव्यं श्राद्धं प्रेताय यत्नतः ।
श्वः करिष्य इति ज्ञात्वा ब्राह्मणामन्त्रणक्रिया ॥
इत्यत्र च विधीयमानं प्रेतोद्देशेन श्राद्धं ताभ्यां भिन्नमेव ।
नवश्राद्धमासिकयोरत्रात्यन्तमबुद्धिस्थत्वात् ।
कूर्मपुराणे ऽपि–“एकादशे ऽह्नि कुर्वीत प्रेतमुद्दिश्य"इत्यादिना सधर्मकस्य प्रकृतिभूतस्यैकादशाहिकस्यैकोद्दिष्टस्यैव धर्मातिदेशो मासिकेषु दृष्टः ।
{म्व्-स्_२०१}
मत्स्यपुराणे ऽपि–
ततस्त्वेकादशाहे तु द्विजानेकादशैव तु ।
क्षत्रादिः सूतकान्ते तु भोजयेदयुजो द्विजान् ।
इत्यादिना सधर्मकं विधाय–
अनेन विधिना सर्वमनुमासं समाचरेत् ।
इति तथैवैकोद्दिष्टं प्रकृतित्वेन विधायानुमासिकादीना विकृतित्वेनाभिधानम् ।
बृहस्पतिरपि–
एकोद्दिष्टविधानेन यदेकस्य प्रदीयते ।
आवाहनाग्नौकरणरहितं दैववर्जितम् ॥
वस्त्रालह्कारशय्याद्यं पितुर्यद्वाहनायुधम् ।
गन्धमाल्यैः समभ्यर्च्य श्राद्धभोक्रे तदर्पयेत् ॥
भोजनं वानेकविधं कारयेत् ब्यञ्जनानि च ।
यथाशत्क्या प्रदद्याच्च गोभूहेमादिकं तथा ॥
इति ।
अत्रापि नवश्राद्धमासिकयोरनुपस्थितेरकोद्दिष्टमेव नानाधर्मविशिष्टं भिन्नमेव ताभ्यामिति किं भूयसा ।
तत्र च पूर्वोदाहृतमत्स्यपुराणवचनादेकस्मिन्नेव प्रेतस्थाने एकादश ब्राह्मणा इति मुख्यः कल्पः ।
सत्यव्रतो ऽप्येवमाह–प्रातररुत्थाय प्रेतब्राह्मणानेकादशामन्त्र्य अपराह्ने नानाभक्ष्यान्नरसविन्यासैरित्यादिना ।
अथाशौचव्यपगमे प्रातः सुप्रक्षालितपाणिपादः स्वाचान्तः एवं विधानेव ब्राह्मणान् यथाशक्त्युदह्मुखान् गन्धमाल्यवस्त्रालङ्कारादिभिः पूजितान् भोजयेत् ।
इति विष्णुना यथाशक्ति (इत्यनेन) बहवो ऽप्युक्ताः ।
वराहपुराणे तु एकस्यैव ब्राह्मणस्य तत्र तत्र परामर्शादेकस्यापि नियोजनम् ।
यथा–
गतो ऽसि दिव्यलोकं त्वं कृतान्तविहितात्पथः ।
मनसा वायुभूतेन विप्रे त्वाहं नियोजये ॥
पूजयिष्यामि भोगेन एवं विप्रं निमन्त्रयेत् ।
इति,
स्नापनाभ्यञ्जने दद्याद्विप्राय विधिपूर्वकम् ।
इति,
ब्राह्मणं शीघ्रमानयेत् ।
आगतं च द्विजं दृष्ट्वा कर्तव्या स्वागतक्रिया ॥
इति ।
आवरणार्थं छत्रं तद्ब्राह्मणाय प्रदीयते ।
पश्चादुपानहौ दद्यात्पादस्पर्शकरे शुभे ॥
{म्व्-स्_२०२}
सन्तप्तवालुकां भूमिं महाकण्टकिता तथा ।
सन्तारयति दुर्गाणि प्रेतं दददुपानहौ ॥
इति ।
यदापि बहुब्राह्मणपक्षस्तदापि प्रेतोपभुक्तवस्त्रशय्यादिकमेकस्मा एव गुणवते देयमितरेभ्यो यथाशक्ति दक्षिणामात्रमित्युक्तम्–
भविष्योत्तरे, एकादशे ऽहनीत्यनन्तरम्–
भोजनं तत्र चैकस्मै ब्राह्मणाय महात्मने ।
वस्त्रालङ्कारशय्याद्यं पितुर्यद्वाहनादिकम् ॥
गोगृहासनदासांस्तु दद्यात्सम्पूज्य भक्तितः ।
प्रदद्याद्दक्षिणां तेषां सर्वेषामनुरूपतः ॥
इत्यादिविस्तारो ऽन्यत्र ज्ञेयः ।
इह च बहुषु वाक्येषु एकादशाहग्रहणं न आशौचोत्तरदिनोपलक्षकम् ।
एकादशे ऽह्नि यच्छ्राद्धं तत्सामान्यमुदाहृतम् ।
सर्वेषाम्मेव वर्णानां सूतकं तु पृथक् पृथक् ॥
इति पैठीनसिवचनात्,
आद्यं श्राद्धमशुद्धो ऽपि कुर्यादेकादशे ऽहनि ।
कर्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः ॥
इति शङ्खवचनाच्च ।
क्षत्रियादिबिरपि वचनादाशौचे सत्यपि मरणादेकादशाह एवाद्यश्राद्धं कर्तव्यम् ।
तथा एकाहत्र्यहाशौचिभिरपि ।
सद्यःशौचे ऽपि दातव्यं प्रेतस्यैकादशे ऽहनि ।
स एव दिवसस्तस्य श्राद्धशय्याशनादिषु ॥
इति शह्खवचनादेकादशाह एव ।
शूलपाण्यादयस्तु–“अथाशौचव्यपगमे"इति,
तथा:
क्षत्रादिः सूतकान्ते तु भोजयेदयुजो द्विजान् ।
इति वैष्णवमात्स्यवचनतः क्षत्रादिभिरपि स्वस्वाशौचान्ते एकाहत्र्यहाशौचिभिरपि तन्मध्ये दशाहकृत्यानुष्ठाने तदन्त एवैकादशाहश्राद्धं नैकादशे ऽह्नीति वदन्ति ।
तन्मते"सद्यः शौचे ऽपि
दातव्यम्"इति शङ्खवचनस्य का गतिरिति विवेक्तव्यमिति ।
अस्मिन्पक्षे विष्णुवचनेन विरोधस्तावन्नास्त्येव ।
तस्य ब्राह्मणाभिप्रायेणाप्युपपत्तेः ।
सङ्कोचमात्रं हि तदा न तु कस्यचिल्लक्षणा ।
एकादशाहशब्दस्याशौचान्तमात्रपरतयोपलक्षणत्वे एकादशाहशब्दे विधौ लक्षणा स्यात् ।
न च मात्स्यवचोविरोध इति शङ्कनीयम् ।
अविरोधोपपादनार्थं तस्यायमर्थः ।
ब्राह्मण एकादशाहे तत्कुर्वन्न पव्केन भोजयेत् किन्तु तत्र त्यक्तेन यथासङ्खयब्राह्मणभोजनपर्याप्तेनामेन सूतकान्ते पक्त्वा भोजयेदिति ।
{म्व्-स्_२०३}
एवं च सति एकादशाहसूतकान्तरूपकालद्वयोपेतं ब्राह्मणक्षात्रियादिविषयं विधिद्वयमर्थवद्भवति अन्यथा विष्णुवचनादेव सूतकान्तरूपकालोपेतेनैकेनैव
विधिना सर्ववर्णसाधारणाद्यश्राद्धविधिसिद्धौ मात्स्यमनर्थकं स्यात् ।
अयुजो द्विजानिति अयुग्मसङ्खया च नवसप्तत्रयोदशादिरूपा ।
आह बृहस्पतिः–
श्रोत्रिया भोजनीयास्तु नव सप्त त्रयोदश ।
इति ।
अत्रिः–
प्रेतार्थं सूतकान्ते तु ब्राह्मणान् भोजयेत्ततः ।
नवश्राद्धनिमित्तं तु एकमेकादशाहे ऽहनि ॥
एवञ्च सत्येकादशाहिकान्नवश्राद्धादाशौचान्ते विधीयमानं ब्राह्मणभोजनं कर्मान्तरमिति गम्यते इति हेमाद्रिः ।
यदा च"ब्राह्मणे दश पिण्डाः स्युः"इति पारस्करवचनात्प्रतिवर्णं दशद्वादशपञ्चदशत्रिंशत्पिण्डाः, यदा वा"सर्वेभ्य"इति वाक्यात् द्वितीयो दशैव पिण्डा इति पक्षः, सर्वेषां च खस्वाशौचान्त्यदिने दशमः पिण्डस्तदापि क्षत्रियवैश्यशूद्रादीनामेकादशे ऽह्नि प्रेतत्वनिवृत्त्यर्थं कृतेनापि श्राद्धेन अन्त्यदिनक्रियमाणदशमपिण्डसहितेनैव प्रेतत्वनिवृत्तिरित्यन्यत्र विस्तरः ।
शातातपः–
नवश्राद्धं सपिण्डत्वं श्राद्धान्यपि च षोडश ।
एकेनैव तु कार्याणि संविभक्तधनेष्वपि ॥
इति ।
गालवः–
शावे तु सूतकं चेत्स्यान्निशाशेषे तथैव च ।
नवश्राद्धानि देयानि यथाकालं यथाविधि ॥
इति ।
अन्वारोहणे ऽपि भिन्नानि नवश्राद्धानि ।
नवश्राद्धानि सर्वाणि सपिण्डीकरणं पृथक् ।
एक एव वृषोत्सर्गो गौरेका तत्र दीयते ॥
इति ।
क्वचिद्वर्मप्रदीप इत्युक्त्वा लिखितम्–
दैवाद्यदि नवश्राद्धमतीतं प्रथमे ऽहनि ।
तृतीये ऽहनि कर्तव्यं विषमे वाप्यसम्भवात् ॥
इति ।
तत्रैवायमन्यो विशेषः ।
तथा–
नन्दायां भार्गवदिने चतुर्दश्यां त्रिपुष्करे ।
नवश्राद्धं न कुर्वीत त्रिपादे पञ्चके तथा ॥
इति ।
ऋष्यशृङ्गेण विशेषान्तरमुक्तम्–
नवश्राद्धं सपिण्डत्वं पव्कान्नेन समाचरेत् ।
इति ।
{म्व्-स्_२०४}
नवश्राद्धानामावश्यकत्वमुक्तं वृद्धवशिष्ठेन,
अलब्ध्वा तु नवश्राद्धं प्रेतत्वान्न विमुच्यते ।
अर्वाक्तु द्वादशाहस्य लब्ध्वा तरति दुष्कृतम् ॥
इति ।
इति नवश्राद्धानां कालः ।
अथावयवपिण्डकालाः ।
तत्र ब्रह्मपुराणादौ"शिरस्त्वाद्येन पिण्डेन"इत्यारभ्य–“दशमेन तु पूर्णत्वं"इत्यन्तेन ब्राह्मणे दशमपिण्डस्य दशमदिने कर्तव्यतामुक्त्वा–
देयस्तु दशमः पिण्डो राज्ञां वै द्वादशे ऽहनि ।
वैश्यानां पञ्चदशमे देयस्तु दशमस्तथा ॥
शूद्राणां दशमः पिण्डो मासे पूर्णे विधीयते ।
इति प्रतिवर्णं कालभेदेन पिण्डा दशैवोक्ताः ।
विष्णुना तु आशौचदिनसङ्खयया पिण्डसङ्खयोक्ता"यावदाशौचं प्रेतस्योदकं पिण्डमेकं च दद्युः"इति ।
पारस्करेणापि–
ब्राह्मणे दश पिण्डाः स्युः क्षत्रिये द्वादश स्मृताः ।
वैश्ये पञ्चदश प्रोक्ताः शूद्रे त्रिंशत्प्रकीर्त्तिताः ॥
इति ।
प्रेतेभ्यः सर्ववर्णेभ्यः पिण्डान् दद्युर्दशैव तु ।
इत्यपरो ऽपि दशपिण्डपक्षस्तेनैवोक्तः ।
प्रचेतसापि–
पिण्डः शूद्राय दातव्यो दिनान्यष्टौ नवाथवा ।
सम्पूर्णे तु ततो मासे पिण्डशेषं समापयेत् ॥
इत्युक्तम् ।
अत्रैवं व्यवस्थोक्ता ।
यावदाशौचं पिण्डदानमिति मुख्यः पक्षः ।
राज्ञां द्वादशे वैश्यानां पञ्चदश इत्यादिना दशमपिण्डमात्रोत्कर्षस्तु मध्यमः ।
तत्राप्यशक्तौ दशदिनं दशपिण्डदानमिति जघन्य इति ।
अन्ये त्वाहुः ।
अत्रैतद्व्यवस्थाकर्तुर्मते आद्यपक्षादिषु शूद्रादीनां ।
मासं यावद्वात्रपूरकपिण्डासमाप्तौ कथमेकादशाहिकश्राद्धविधिः कथं च विष्णूक्तः–
मन्त्रवर्जं हि शूद्राणां द्वादशे ऽहनि कीर्त्तितम् ।
इतिद्वादशाहे सपिण्डीकरणविधिश्चेत्यादि चिन्त्यम् ।
अतश्च–
सर्वेषामेव वर्णानां सूतके मृतके ऽथ वा ॥
दशाहाच्छुद्धिरेतेषामिति शातातपो ऽब्रवीत् ॥
इत्वाङ्गिरसवचनात्सर्वेषां दशाहमेवाशौचमिति पक्षः साम्प्रतं चायमेव बहुधा प्रचारीभूतः क्षत्रियाद्याचारसंवादी च ।
तदा न कस्यापि वचनस्यानुपपत्तिः ।
{म्व्-स्_२०५}
तथाहि–“प्रेतेभ्येः सर्ववर्णेभ्य"इतिपारस्करवचनमुपपन्नम्, शूद्रे ऽपि एकादशाहिकश्राद्धं द्वादशाहिकसपिण्डीकरणं चोपपन्नमिति ।
केन चिद्धर्मप्रदीप इत्युक्त्वा लिखितम्–
प्रथमे ऽह्नि तृतीये वा पञ्चमे सप्तमे ऽपि वा ।
द्वौ द्वौ पिण्डौ प्रदातव्यौ शेषांस्तु दशमे ऽहनि ॥
इति च ।
तेन"आशौचव्यगम"इतिविष्ण्वादिवाक्यैराशौचवृद्धौ तदन्त एव कर्तव्यता, यानि तु एकादशाहप्रतिपादकानि तानि दशाहाशौचविषयाणि ।
एवं च गात्रपूरकपिण्डदानप्रकाराणामपि अनयैव रीत्याविरोध इति, तन्न ।
“आद्यं श्राद्धमशुद्धो ऽपि"इत्यादिशङ्खवचनविरोधात् ।
तेन पूर्वोक्तैव व्यवस्था ज्यायसीति सिद्धम् ।
त्र्यहाशौचे विशेष उक्तः
शातातपेन:
आशौचस्य च ह्रासे ऽपि पिण्डान् दद्याद्दशैव तु ।
पारस्करः–
प्रथमे दिवसे देयास्त्रयः पिण्डाः समाहितैः ।
द्वितीये चतुरो दद्यादस्थिसञ्चयनं तथा ।
त्रींस्तु दद्यात्तृतीये ऽह्नि वस्त्रादि क्षालयेत्तथा ॥
इति ।
दक्षस्त्वन्यथाऽह–
प्रथमे ऽहनि पिण्डं तु द्वितीये चतुरस्तथा ।
तृतीये पञ्चट वै दद्याद्दशपिण्डविधिः स्मृतः ॥
इति ।
युद्धादिहते ऽपि मनुः–(अ। ५ श्लो। ९८)
उद्यतैराहवे शस्त्रैः क्षत्रधर्महतस्य च ।
सद्यः सन्तिष्ठते यज्ञस्तथाशौचमिति स्थितिः ॥
इति ।
यज्ञः = पिण्डदानादिरूपः ।
स्नतिष्ठते = समाप्तो भवतीत्यर्थः ।
ब्रह्मपुराणे ऽपि–
सद्यःशौचे प्रदातव्याः सर्वे ऽपि युगपत्तथा ।
इति ।
अथ पाथेयश्राद्धकालः ।
शातातपः:
भूलोकात्प्रेतलोकं तु गन्तुं श्राद्धं समाचरेत् ।
तत्पाथेयं हि भवति मृतस्य मनुजस्य च ॥
इति ।
अत्र च शिष्टैः प्रथमदिने क्रियमाणत्वादाद्यदिनं ग्राह्यम् ।
स्मृत्यर्थसारे तु सञ्चयने कृते मनुष्यलोकात्प्रेतलोकं गच्छत आमेन पाथेयश्राद्धमेकोद्दिष्टविधानेन इत्युक्तम् ।
तेन दिनान्तरमपि तस्य कालः ।
अथास्थिसञ्चयने कालः ।
{म्व्-स्_२०६}
तत्र सम्वर्तः–
प्रथमे ऽह्नि तृतीये वा सप्तमे नवमे ऽपि वा ।
अस्थिसञ्चयनं कार्यं दिने तद्गोत्रजैः सम्ह ॥
इति ।
विष्णुस्तु चतुर्थमपि दिनमाह–“चतुर्थे दिवसे ऽस्थिसञ्चयनं कुर्यात्तेषां गङ्गाम्भसि प्रक्षेप"इति ।
दिवोदासनिबन्धे ब्रह्मपुराणे वर्णपुरस्कारेणापि कालविशेष उक्तः–
कुर्युस्तृतीये विप्रस्य चतुर्थे क्षत्रियस्य च ।
पञ्चमे वैश्यजातेस्तु शूद्रस्य दशमे ऽहनि ।
त्र्यहाद्याशौचे विशेषस्तत्रैव–
त्र्यहाशौचे द्वितीये ऽह्नि कर्तव्यस्त्वस्थिसञ्चयः ।
सद्यः शौचे तत्क्षणं तु कर्तव्य इति निश्चयः ॥
अस्थिपलाशदाहे तु शौनकः–
पालाशे त्वस्थिदाहे च सद्यः सञ्चयनं भवेत् ।
भृग्वादिमरणे मनुना विशेषे उक्तः–
तस्य त्रिरात्रमाशौचं द्वितीये त्वस्थिसञ्चयः ।
इति ।
यत्तु कैश्चिन्नवीनैः सर्वकालानां सर्ववर्णविषयत्वेनेनोपन्यसनं तद्ब्रह्मपुराणवाक्यादर्शनमूलकमित्यश्रद्धेयमेव ।
न च ब्रह्मपुराणोक्तव्यवस्थापक्षे सप्तमनवमदिनपक्षयोर्निर्विषयता स्यादिति वक्तव्यम् ।
श्राद्धचिन्तामणौ–
सप्तमे वैश्यजातेस्तु नवमे शूद्रजन्मनः ।
इत्यस्यैव पाठस्यादरणात् ।
अत्र वारनक्षत्रनिषेधो ऽपि येमनोक्तः–
भौमार्कमन्दवारेषु तिथियुग्मेषु वर्जयेत् ।
वर्जयेदेकपादर्क्षे द्विपादर्क्षे ऽस्थिसञ्चयम् ॥
प्रदातृजन्मनक्षत्रे त्रिपादर्क्षे विशेषतः ।
इति ।
तदेतदस्थिसञ्चयनं साग्न्यनग्निकयोरपि दाहदिनादेव कार्यमित्याहाङ्गिराः–
अनग्निमत उत्क्रान्तेः साग्नेः संस्कारकर्मणः ।
शुद्धिः सञ्चयने दाहान्मृताहस्तु यथाविधि ॥
इति ।
अथोदकदानकालः ।
गौतमः–प्रथमतृतीयपञ्चमसप्तमनवमेषूदकक्रियेति ।
अथ दशाहमध्ये दर्शपाते भविष्यपुराणे–
प्रवृत्ताशौचतन्त्रस्तु यदि दर्शः प्रपद्यते ।
समाप्य चोदकं पिण्डान् स्नानमात्रं समाचरेत् ॥
{म्व्-स्_२०७}
आशौचसमाप्तिपर्यन्तमिति शेषः ।
ऋष्यशृङ्गः–
आशौचमन्तरा दर्शो यदि स्यात्सर्ववर्णिनाम् ।
समाप्तिं प्रेततन्त्रस्य कुर्यादित्याह गौतमः ॥
पैठीनसिरपि–
आद्येन्दावेव कर्तव्याः प्रेतपिण्डोदकक्रियाः ।
द्विरैन्दवे तु कुर्वाणः पुनः शावं समश्नुते ॥
द्विरैन्दवे = चन्द्रद्वये ।
दर्शात्प्राचीन एकः क्षीण इन्दुर्दर्शोत्तरमपरो भावी वृद्धिमान् ।
कालादर्शे तु एतदग्रे तथेति कृत्वा वचनान्तरं लिखितम् ।
चन्द्रद्वये तिथिर्नैव देयः प्रेतस्य शान्तये ।
यदि दद्याद्विचन्दे ऽन्नं दातुः कुलविनाशनम् ॥
एवं सामान्येन मातापितृविषये ऽपि दर्श एव पिण्डोदकदानादितन्त्रसमाप्रिप्रसक्तौ–
श्लोकगौतमः:
अन्तर्दशाहे दर्शश्चेत्तत्र सर्वं समापयेत् ।
पित्रोस्तु यावदाशौचं दद्यात्पिण्डतिलाञ्जलीन् ॥
पित्रोरिति विरूपैकशेषः ।
एवं सति यद्गालवेनोक्तम्–
पित्रोराशौचमध्ये ऽपि यदि दर्सः समापेतत् ।
तावदेवोत्तरं तन्त्रं पर्यवस्येत् त्र्यहात्परम् ॥
इति ।
तस्यायमर्थः ।
पित्र्याशौचमध्ये ऽपि दर्शपाते समाप्तिरुत्तरतन्त्रस्योचिता किमुतान्याशौचमध्ये इति पितृव्यतिरिक्तसपिण्डविषये उत्तरतन्त्रस्यावश्यकसमाप्तिप्रदर्शनार्थं न पुनः पितृविषये ऽपि नियमार्थमिति ।
भवतु वा पितृविषये ऽपि नियामकं तथापि"अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्न तु"इत्यनेन न्यायेन शिष्टाचारसहकृतेन"पित्रोस्तु यावदाशौचं"इत्यनेन गोतमवचनेन गालववचनं बाध्यत इति पित्र्याशौचमध्ये दर्शपाते ऽपि यावदाशौचं पिण्डादिकं दद्यात् इतरेषां तु दर्शावधिकमेवोत्तरतन्त्रसमापनमिति विवेकः ।
अथ वा क्षेत्रजस्य बीजिपितृविषयं दत्तकादिपुत्राणां प्रतिग्रहीत्रादिमातापितृविषयं वा गालववचनं गौतमवचनं तु औरसपुत्रिकापुत्रयोर्मातापितृविषयम्। अथ वा औरसादीनां सर्वे षामपि स्वमातापितृविषये आपदनापत्कल्पाश्रयणेन व्यवस्था विज्ञेयेति मदनपारिजातः ।
माधवनिर्णयामतादौ त्र्यहानन्तरं दर्शपाते मातापितृतन्त्रस्यापि समाप्तिर्न तु त्र्यहमध्ये दर्शपाते गौतमवचनमपि तद्विषयकमेव ।
मातापितृव्यतिरिक्तानां तु दशाहमध्ये यदा कदाचिद्दर्शपाते तन्त्रसमाप्तिरेवेति ।
{म्व्-स्_२०८}
दशाहमध्ये दर्शपाते दर्शात्पूर्वं प्रमादालस्यादिना यदा प्रेततन्त्रमनारब्धं तदा तस्य दर्शोत्तरमपि आरम्भः समाप्तिश्चोचितैव तदा द्विरैन्दवतादोषो ऽपि परिहृतो भवति ।
नच"आद्येन्दावेव कर्तव्या"इति वचनात् दर्शानुरोधेनारम्भो ऽपि दर्शात्पूर्वमाक्षिप्त इति शह्कनीयम् ।
आद्योन्दावेवेत्यत्र कर्तव्या इति न विधीयते तथासति"आद्यन्दौ"इति"कर्तव्या"इति च विधेयद्वये वाक्यभेदः स्यात् ।
तेनात्रापि द्विरैन्दव इति निषेधात् द्विरैन्दवत्वमेव निषिध्यत इति ।
क्वचिद्दर्शपातवत् सङ्क्रान्तिव्यतीपातयोरपि पाते तन्त्रसमाप्तिः वचनं च सङ्ग्रह इतिकृत्वा लिखितम् ।
दर्शः सङ्क्रमणं पातो दशाहान्तर्यदा भवेत् ।
तावतैवोत्तरं तन्त्रं समाप्यमिति केचन ॥
इति,
तत्तु निबन्धृभिरधृतं निराकरमिव प्रतिभाति ।
व्यतीपातशङ्क्रान्तिपाते तन्त्रसमाप्तेः शिष्टाचारे ऽप्यदर्शनाच्च इति ।
अथ नवमिश्राणि षोडशश्राद्धानि चेत्येवम्प्रसिद्धानां मासिकानां कालः ।
तत्राश्वलायनः नवमिश्रं तु षडतूनिति ।
षडृतूनित्यस्यार्थो ऽग्रे विवेक्ष्यते ।
तानि च मरणमासादारभ्य संवत्सरं यावत्प्रतिमासं विधीयमानानि द्वादश ऊनमासिकं त्रैपाक्षिकम् ऊनषाण्मासिकमूनाब्दिकं चेत्येव षोडश भवन्ति ।
आह–
जातूकर्ण्यः:
द्वादश प्रतिमास्यानि आद्यषाणमासिके तथा ।
त्रैपाक्षिकाब्दिके चेति श्राद्धान्येतानि षोडश ॥
इति ।
अत्र द्वादशप्रतिमास्यानीति पृथगभिधानादाद्यषाण्मासिकाब्दिकश्बदा ऊनमासिकोनषाण्मासिकोनाब्दिकपराः ।
आह–
गौभिलः:
ऊनषाण्मासिकं षष्ठे मास्यूने चोनमासिकम् ।
त्रैपक्षिकं त्रिपक्षे स्यादूनाब्दं द्वादशे तथा ॥
इति ।
ऊनषाण्मासिकमूने षष्ठे मासि, त्रैपक्षिकं तृतीये पक्षे, उनाब्दिकमूने द्वादशे मासि, ऊनमासिकं तु
द्वादशाहे ऊनमासि वा कार्यम् ।
मरणात् द्वादशाहे स्यान्मास्यूने वोनमासिकम् ।
इति तेनैवोक्तत्वात् ।
अत्रोनमासिकादीनि ऊनमासादिषु कार्याणी त्युक्तम् ।
तत्र कियद्भिर्दिनैरूनेषु कार्याणीत्याकाङ्क्षायां–
गालवः:
त्रिभिर्वा दिवसैरूने द्वाभ्यामेकेन वा तथा ।
आद्यादिषु च मासेषु कुयार्दूनाब्दिकादिकम् ॥
इति ।
{म्व्-स्_२०९}
श्लोकगौतमोंऽपि–
एकद्वित्रिदनैरूने त्रिभानगेनोन एव वा ।
श्राद्धान्यूनाब्दिकादीनि कुर्यादित्याह गौतमः ॥
इति
ऊने = ऊनत्वे ।
आदिशब्दादूनषाण्मासिकोनाद्यमासिकयोर्ग्रहणम् ।
जातूकर्ण्यः–
एकाहेन तु षण्मासा यदा स्युरपि वा त्रिभिः ।
न्यूनाः, संवत्सरश्चैव स्यातां षाण्मासिके तदा ॥
इति ।
षाण्मासिके = ऊनषाण्मासिकोनाब्दिके ।
एकेनाह्ना न्यूने एकदिनपूर्त्तिन्यूने तदन्तिमे दिने इत्यर्थः ।
अत एव–
पैठीनसिः:
षाण्मासिकाब्दिके श्राद्धे स्यातां पूर्वेद्युरेव ते ।
मासिकानि स्वकीये तु दिवसे द्वादशे ऽपि वा ॥
इति ।
पूर्वेद्युः = मृताहात्पूर्वदिने ।
षाण्मासिकाब्दिके = ऊनषाण्मासिकोनाब्दिके इति मदनरत्नः ।
त्रैपक्षिककालमाह–
कार्ष्णाजिनिः:
ऊना न्यूनेषु मासेषु विषमाहे समे ऽपि वा ।
त्रैपक्षिके त्रिपक्षे स्यान्मृताहेष्वितराणि तु ॥
इति ।
भविष्ये–
षष्ठे षाण्मासिकं कुर्यात् द्वादशे मासि चाब्दिकम् ।
त्रैपक्षिकं भवेद्वृत्ते त्रिपक्षे तदनन्तरम् ॥
इति ।
न च कार्ष्णाजिनिना “त्रिपक्षेऽ; इत्युक्तं भविष्ये तु “वृत्ते त्रिपक्षेऽ; इत्युक्तं तेन विरोध ईति वाच्यम् ।
वृत्ते ऽतीत इति नार्थः, किन्तु त्रिपक्ष इत्यधिकरणसप्तम्यनुरोधाद्वृत्ते प्रवृत्ते इत्यर्थ इति कश्चित् ।
केचित्तु–
सूतकान्ते गृहे श्राद्धमेकोद्दिष्टं प्रचक्षते ।
द्वादशे ऽहनि मासे च त्रिपक्षे च ततः परम् ॥
इति ब्रह्मपुराणवाक्ये ऽपि पूर्वोदाहृतवचनोपात्त-वृत्त इति पदस्य अतीत इति यथाश्रुतमेवार्थं कृत्वा अत्रापि त्रिपक्षे इत्यस्याग्रे ऽतीत इति शेषं पूरयन्ति ।
व्यासः–
द्वादशाहे त्रिपक्षे च षण्मासे मासिकाब्दिके ।
श्राद्धानि षोडशैतानि संस्मृतानि मनीषिभिः ॥
अयमर्थः ।
द्वादशाहे इत्यनेन तत्र क्रियमाणमूनमासिकम्, षण्मास इत्यनेनोनषाण्मासिकम्, मासिकं प्रतिमासं मृताहे क्रियमाणं द्वादशसङ्क्याकम्, आब्दिकमूनाब्दिकम् ।
{म्व्-स्_२१०}
अत्र च द्वितीयादिमासिकानि द्वितीयतृतीयादि मासेषु मृताहे कर्तव्यानि आद्यमासिकं तु एकादशे ऽह्नि कर्तव्यमित्याह–
याज्ञवल्क्यः, (अ। १ श्रा। प्र। श्लो। २५६)
मृते ऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् ।
प्रतिसंवत्सरं चैवमाद्यमेकादशे ऽहनि ॥
वत्सरमिति वत्सरपूर्त्तिपर्यन्तं,“कालाध्वनोरत्यन्तसंयोगे” (२ । ३ । ५) इतिद्बितीयेति ।
अत्र कोचेत् ।
आद्यमृततिथिं गृहीत्वोत्तरमुततिथेः पूर्वतिथिपर्यन्तं त्रिंशत्तिथिसमुदायात्मकचान्द्रमासमानेन चैत्रशुक्लपञ्चम्यां मृतस्याग्रिमशुक्लचतुर्थ्यां मासिकम्, एवमूनषाण्मासिकोनाब्दकयोरेकाहन्यूनतापक्षे त्र्यहन्यूतापक्षे च तृतीयायां प्रतिपदि च तयोरनुष्ठानमिति ।
तत्तुच्छम् ।
“मृते ऽहनि तु कर्तव्यं"इति पूर्वोक्तयाज्ञवल्क्यवचनात्,“मृताहष्वितराणि तु"इति कार्ष्णाजिनिवचनाच्च"मासिकानि स्वकीये तु दिवसे"इति,“षाण्मासिकाब्दिकेश्राद्धे स्यातां पूर्वेद्युरेवते"इति पूर्वोपन्यस्तपैठीनसिवचनाच्च ।
तेन पञ्चमीप्रमीतस्याग्रिमपञ्चम्यामेव मासिकमूनषाण्मासिकादि तु चतुर्थ्यामेव ।
त्र्यहन्यूतापक्षे द्वितीयायामेव ।
अत एवोक्तं कालादर्शे:
मासिकान्यपि चोनानि चाष्टाविंशतिमे दिने ।
इति ।
माधवेन तूनषाण्मासिकं सप्तमासगतमृताहदिनात्पूर्वेद्युरनुष्ठेयम् ऊनाब्दिकं च द्वितीयवत्सरादेर्मृताहदिनात्पूर्वेद्युः कर्तव्यमिति ।
अत्रायं मुग्धव्यामोहनिवृत्त्यर्थं स्पष्टः कालविवेकः ।
मासे भवं मासिकमिति व्युत्पत्त्या, मासे ऽतीते भावं मासिकमिति व्युत्पत्त्या वा, माससम्बन्धि मासिकमिति हेमाद्र्युक्तव्युत्पत्त्या वा, मासादौ भवं मासिकमिति व्युत्पत्त्या वा मासिकस्य यद्यपि तन्मासभवनं तन्माससम्बन्धो वा तन्मासान्तर्गतयत्किञ्चित्तिथ्यधिकरणकत्वेनापि सम्भवति ज्योतिष्टोमस्येव वसन्तकालिकत्वं श्राद्धस्येवापरपाक्षिकत्वम् ।
तथापि प्रथमातिक्रमे कारणा भावात् वक्ष्यमाणस्मार्त्तबहुवचनानुरोधाच्च मासोपक्रम एव कर्तव्यता निश्चीयते ।
तानि तु वचांसि ऽ; मासिकानि स्वकीये तु दिवस"इति"मृताहेष्वितराणि तु"इति"मृते ऽहनि तु कर्तव्यं"इति च ।
ब्रह्मपुराणे ऽपि–
द्वादशे ऽहनि मासे च त्रिपक्षे च ततः परम् ।
मासि मासि तु कर्तव्यं यावत्सम्वत्सरं द्विजैः ॥
ततः परतरं कार्यं सपिण्डीकरणं क्रमात् ।
{म्व्-स्_२११}
कृते सपिण्डीकरणे पार्वणं प्रोच्यते पुनः ॥
ततः प्रभृति निर्मुक्तः प्रेतत्वात्पितृतां गतः ।
व्याघ्रपादो ऽपि–
एकादशे चतुर्थे च मासि मासि च वत्सरम् ।
प्रतिसंवत्सरं चैवमेकोद्दिष्टं मृताहनि ॥
इति ।
एवं सत्याद्यमासिकमेकादशाहे, ऊनमासिकमूने मासि द्वादशाहे वा, द्वितीयमासिकं
द्वितीयमासस्याद्यमृततिथौ, तृतीयमासिकं तृतीयमासस्याद्यमृततिथौ क्रियमाणत्वाच्चैत्रशुक्लपञ्चमीप्रमीतस्य वैशाख शुक्लपञ्चम्यां क्रियमाणं द्वितीयमासिकं ज्येष्ठशुक्लपञ्चम्यां तृतीयमासिकं भवति ।
एवमग्रे ऽपि तत्तन्मासे बुध्वा द्वादशमासस्य फाल्गुनस्याद्यमृततिथौ पञ्चम्यां द्वादशमासिकं कृत्वा ऊनाब्दिकं चैत्रशुक्लचतुर्थ्यां भवति ।
यदा तु सपिण्डीकरणे"ततः संवत्सरे पूर्णे सपिण्डीकरणम्"इतिकात्यायनपक्षस्तदा तस्मिन्नेव दिने ऊनाब्दिकसपिण्डीकरणयोर्बद्धक्रमत्वादूनाब्दिकं कृत्वा सपिण्डीकृतिः ।
यदा त्वाश्वलायनपक्षः"अथ सपिण्डीकरणं संवत्सरान्त इति, तदा पूर्वदिने चतुर्थ्यामूनाब्दिकं कृत्वा चैत्रशुक्लपञ्चम्यां द्वितीयवत्सराद्यमृततिथौ सपिण्डीकरणं कृत्वा तत्रैवाब्दिकामितिबोद्धव्यम् ।
वस्तुतस्तु न पक्षद्वयम् ।
कात्यायनवाक्ये ऽपि संवत्सरे पूर्णे सति द्बितीयदिने सपिण्डीकरणमिति व्याख्यासम्भवात् ।
विश्वादर्शे ऽपि मासिकानामाद्यमृततिथिकालिकत्वं कण्ठरवेणोक्तम्–
मासेषूक्तं यदेकादशसु मृतदिनेष्वाद्यमेकादशाहे
न्यूनाब्दे यत्तदर्धे यदपि तदपरे द्वादशाहे त्रिपक्षे ।
इति ।
तत्राद्यमासिकं मृताहे प्राप्तम्–“आद्यमेकादशे ऽहनि"इतिवचनादेका दशे ऽह्नि उत्कृष्य विधीयते ।
ततश्चैकादशे ऽह्नि उत्कृष्य विधीयते ।
ततश्चैकादशीऽह्नि श्राद्धत्रयं नवश्राद्धान्त्यम् आद्यमासिकं स्वतन्त्रैकोद्दिष्टं चेति ।
स्मृत्यर्थसारे ऽप्युक्तं स्वतन्त्रैकोद्दिष्टे क्रियमाणे अन्येषां तन्त्रेणानुष्ठानसिद्धिरिच्छतामस्ति पृथगनुष्ठानपक्षे चादौ स्वतन्त्रैकोद्दिष्टं कार्यमिति ।
एवं च प्रथममासिकोनमासिकत्रैपक्षिकतृतीयमासिकचतुर्थपञ्चमषाण्मासिकोनषाण्मासिकसप्तमाष्टमनवमदशमैकादशद्वादशमासिकोनाब्दिकानि षोडशश्राद्धानि दद्यादिनति हेमाद्युदाहृतसूत्रबोधितः श्राद्धक्रमो ऽप्युपपद्यते ।
अन्यथोनानां तत्तन्मासिकोत्तरत्वं त्रैपक्षिकस्य च द्वितीयोत्तरत्वं न स्यात् ।
एतेन यच्छूलपाणिनोक्तं मासे भवमित्येव समाख्याव्युत्पत्तिः, न चैवं सर्वाद्यमृततिथौ मासिकापत्तिर्मृततिथेर्मृततिथिं यावच्चान्द्रस्य विवक्षितत्वात् ।
मृततिथेरिति वावधौ पच्चमी तेनान्यमृततिथेरेव पूर्वमासशब्दार्थत्वम् अतश्च प्रथममासिकं द्वितीयमृततिथावेवेति ।
{म्व्-स्_२१२}
तन्निरस्तम् ।
उदाहृतसूत्रविरोधात् ।
ननु"प्रतिसंवत्त्सरं चैवं"इतिवचनादाद्यमृततिथिं गृहीत्वा आद्यसांवत्सांरेकस्यापि आद्मासिकवत्प्रवृत्तिः स्यादितिचेत्, सत्यम् ।
“आद्यमेकादशे ऽहनि"इति मासिक इव यद्यत्र वचनं स्यात् ।
प्रत्युत तस्य द्बितीयवत्सराद्यमृततिथावुत्पन्नत्वादाद्यमततिथौ प्राप्तिरेव नास्तीति द्वितीयवत्सरादौ क्रियमाणमाब्दिकमित्युच्यते तृतीयवत्सरादौ तु प्रत्याब्दिकमिति ।
अत एवोक्तम्–
स्मृत्यर्थसारे, द्बितीयसंवत्सरादावाब्दिकं तृतीयसंवत्सरादौ प्रत्याब्दि कमिति क्रम इति ।
निर्णयामृते तु–
व्राह्नणं भोजयेदाद्ये होतव्यमनले ऽथवा ।
पुनश्च भोजयेद्विप्रं द्विरावृत्तिर्भवेदिति ॥
इति ।
अतश्चैकादशे ऽह्नि विधीयमानम् आद्याब्दिकमिति ।
अधिकमासपाते अधिकं मासिकं कार्यम् ।
तदा सप्तदश भवन्ति–
आद्यमेकादशे कार्यमधिके चाधिकं भवेत् ।
इति लौगाक्षिवचनात् ।
अब्दमम्बुघटं दद्यादन्नं वापि सुसञ्चितम् ।
संवत्सरे विवृद्धे ऽपि प्रतिमासं च मासिकम् ॥
इति कौथुमिस्मरणाच्च ।
संवत्सरातिरेके वै मासाश्चैव त्रयोदश ।
तस्मात्र्रयोदशे श्राद्धं न कुर्यान्नोपतिष्ठते ॥
इति ऋष्यशृङ्गवचने त्रयोदशमासिकस्य निषेधश्रवणादधिकमासे ऽपि मासिकविकल्प इति केचित् ।
वस्तुतस्तु एतस्यामावास्याविशेषविहितकाम्यश्राद्धविषयत्वस्य स्थापितत्वान्मासिकवृद्धिरेव युक्ता ।
यत्तु हेमाद्षादौ षोडशश्राद्धानां प्रकारान्तरेण गणनं सपिण्डीकरणादीनां च षोडशश्राद्धान्तर्गतत्वेनोपवर्णनम् ।
तथाहि–
ब्रह्मपुराणे:
नॄणां तु त्यक्तदेहानां श्राद्धाः षोडश सर्वदा ।
चतुर्थे पञ्चमे चैव नवमैकादशे तथा ॥
ततो द्वादशभिर्मासैः श्राद्धा द्वादशसङ्ख्यया ।
कर्तव्याः श्रुतितस्तेषां तत्र विप्रांश्च तर्पयेत् ॥
भविष्यपुराणे ऽपि–
अस्थिसञ्चयने श्राद्धं त्रिपक्षे मासिकानि च ।
रिक्तयोश्च तथा तिथ्योः प्रेतश्राद्धानि षोडश ॥
इति ।
{म्व्-स्_२१३}
रिक्तयोश्च तिथ्योरित्येकेनान्हा न्यूने षष्ठे द्वादशे च मासे इत्यर्थः ।
जातूकर्ण्यः–
द्वादश प्रतिमास्यानि आद्यं षाण्मासिके तथा ।
सपिण्डीकरणं चैवमित्येतच्छ्राद्धषोडशम् ॥
आद्यम् = एकादशाहिकम् ।
षाण्मासिके = ऊनषाण्मासिके ।
एकं पूर्वष ट्कान्तर्गतमूनषाण्मासिकमपरमुत्तरषट्कान्तर्गतमूनाब्दिकम् ।
तत्र यत्तावत्सपिण्डीकरणस्य षोडशश्राद्धान्तर्गतत्वाभिधानं तद्बहुस्मृतिवचोविरोधादसमञ्जसमिव प्रतिभाति ।
श्राद्धानि षोडशापाद्य विदधीत सपिण्डनम् ।
इति लौगाक्षिवचनात्,
तथा–
अर्वाक् सपिण्डीकरणात् कुर्याच्छ्राद्धानि षोडश ।
इति पैठीनसिवचनात्,
श्राद्धानि षोडशादत्त्वा नैव कुर्यात्सपिण्डनम् ।
इति गोभिलवचनाच्च सपिण्डीकरणादीनां षोडशश्राद्धेभ्यः पृथग्भावात् ।
तस्मात्प्रेतत्वनिवृत्त्यर्थकत्वाभिप्रायेण तदन्तर्भावोत्कीर्त्तनन्त्मृतिवाक्येषु द्रष्टव्यम् ।
तेन पूर्वोक्तमासिकस्वरूपसङ्ख्यानुकूल्यं शिष्टा चारश्चानुगृहीतो भवति ।
विरुद्धगणनस्य तु शाखाभदेन देशभेदेन वा व्यवस्था द्रष्टव्येति ।
क्षत्रियादिभिरप्येतदाद्यं श्राद्धं सत्यप्याशौच एका दशे ऽहन्येव कार्यम् ।
आह पैठीनसिः–
एकादशे ऽह्नि यच्छ्राद्धं तत्सामान्यमुदाहृतम् ।
चतुर्णामपि वर्णानां सूतकं तु पृथक्पृथक् ॥
इति ।
शङ्खो ऽपि–
आद्यं श्राद्धमशुद्धो ऽपि कुर्यादेकादशे ऽहनि ।
कर्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः ॥
इति ।
सद्यःशौचादावप्याद्यं श्राद्ध पेकादशे ऽहन्येव ब्राह्मणादिभिस्सर्वैः कार्यम् ।
तथाच–
स एव:
सद्यःशौचे ऽपि दातव्यं प्रेतस्यैकादशे ऽहनि ।
स एव दिवसस्तस्य श्राद्धशय्यासनादिषु ॥
इति ।
सद्यःशौच इत्येकाहत्र्यहाशौचयोरुपलक्षणम् ।
आहिताग्नेर्मरणदिना दन्यस्मिन् दिने दाहे सति दाहदिनादारभ्य नवश्राद्धैकादशाहिकत्रैपक्षिकान्तानि कुर्यात् ।
अनाहिताग्नेस्त्वेकाग्नेर्निरग्नेर्वा मरणदिनादारभ्य ।
{म्व्-स्_२१४}
तदूर्ध्वानि तूभयोरपि मरणादिनादेव ।
तदाह–
कात्यायनः:
श्राद्धमग्निमतः कार्यं दाहादेकादशे ऽहनि ।
ध्रुवाणि तु प्रकुर्वीत प्रमीताहनि सर्वदा ॥
इति ।
ध्रुवाणीति त्रैपक्षिकादूर्ध्वानां सञ्ज्ञा ।
ऊर्ध्वं त्रिपक्षाद्यच्छ्राद्धं मृताहन्येव तद्भवेत् ।
अधस्तु कारयेद्दाहादाहिताग्नेर्द्विजन्मनः ॥
इति जातूकर्ण्यवचनाच्च ।
अग्निमत इति बह्वग्निमान् गृह्यते ।
मरणादेव कर्तव्यं संयोगो यस्य नाग्निभिः ।
दाहादूर्ध्वमशौचं स्याद्यस्य वैतानिको विधिः ॥
इति शङ्खवचनैकवाक्यतालाभात् ।
मरीचिर्मासिकानां मुख्यगौणादिकल्पमाह–
मुख्यं श्राद्धं मासि मासि अपर्याप्तावृतुं प्रति ।
द्वादशाहेन वा कुर्यादेकाहे द्वादशापि वा ॥
इति ।
प्रतिमासं मृताहे मासिकं श्राद्धमिति मुख्यः कल्पः ।
अपर्याप्तौ = प्रतिमासं श्राद्धकरणाशक्तौ ऋतु प्रति ।
ऋतोरत्र चान्द्रस्य सौरस्य वासम्भवान्मासद्वयश्राद्धमग्रिममासि कार्यमिति तस्यार्थः ।
अयमर्थः ।
पूर्वमासे मृतितिथिमुल्लङ्ध्योत्तरमासे मृतितिथौ अतिक्रान्तश्राद्धं प्राप्तकालं च श्राद्धं चेति द्वयं तत्र कार्यम् ।
क्वचित्त्रयमपि ।
यथा एकादशाहे आद्यं निर्वर्त्त्य ऊनमासिकं च स्वकाले कृत्वा
ततो द्वितीयमासिकं त्रैपक्षिकं च तृतीयमासिकेन सह, चतुर्थमासिकेन सह चतुर्थम्, पञ्चमेन सह षष्ठम्, ऊनषाण्मासिकं च सप्तमेन सह, अष्टमं नवमेन, दशममेकादशेन, द्वादशमूनाब्दिकेन सहेति पूर्वमप्युक्तम्"नवमिश्रं तु षडुतरम्"इति ।
तस्याप्ययमेवार्थ इति द्वितीयकल्पः ।
अथ वा द्वादशाहेन द्वादशभिर्दिनैः अपवर्गे तृतीया ।
ताचद्भिर्दिनैरपवृत्तानि द्वादशमासिकानि कार्याणि ।
तत्राशौचोत्तरदिने एकादशाहे आद्यम्, ततस्तदुत्तरदिने तूनाद्यं द्वितीयं च, ततस्तदुत्तरदिने त्रैपाक्षिकं तृतीयं च, ततस्तदुत्तरेषु त्रिषु दिनेषु क्रमेण चतुर्थपञ्चमषष्ठानि, तत उत्तरदिने तूनषाण्मासिके सप्तमं च, ततस्तदुत्तरदिनेषु अष्टमनवमदशमैकादशानि, तत उत्तरदिने द्वादशमूनाब्दिकं चेति
द्वादशभिर्दिनैः षोडश श्राद्धानि कृत्वा तदुत्तरदिने सपिण्डीकरणम् ।
श्राद्धचिन्तागणौ तु द्वादशाहमुपक्रम्य द्वादशभिर्द्दिनैर्द्वादश मासिकानि श्राद्धानि कृत्वा ततः परेहऽनि सपिण्डीकरणमित्युक्तम् इति तृतीयकल्पः ।
{म्व्-स्_२१५}
अथ वा एकस्मिन्नेव दिने एकाहे एकादशाहे द्व ।
दशाहे वा द्वादशापि मासिकानि कृत्वा सपिण्डीकरणं कार्यमिति चतुर्थः कल्पः ।
द्वादशापि षोडशापीत्यर्थः ।
कण्वः–
नवश्राद्धं मासिकं च यद्यदन्तरितं भवेत् ।
तत्तदुत्तरसातन्त्र्यादनुष्ठेयं प्रचक्षते ॥
इति ।
ऋष्यशृङ्गः–
एकोद्दिष्टे तु सम्प्राप्ते यदि विव्नः ग्रजायते ।
मासे ऽन्यस्मिन तिथौ तस्यां कुर्यादन्तरितं च यत् ॥
अन्तरितं मासिकं तदुत्तरसम्बन्धिनि मासि कुर्यादिति कालादर्शे ।
अत्र चकारेण तन्मासिकसमुच्चयः ।
अन्तरितं तन्मासिकं कुर्यादिति निर्णयामृते ।
आशौचादिना तु मासिकान्तराये आशौचान्ते उत्तरमासे मृततिथौ वा अमावास्यायां वा कृष्णैकादश्र्यां वा अनुकल्पेन शुक्लैकादश्यामपि वेति ।
उक्तं च कालनिर्णये–
आशौचोपहतौ तु मासिकविधेराशौचकालात्ययः
शस्तो वोत्तरमासि तद्दिनममावास्या सितैकादशी ।
शुक्ला वाप्यनुकल्पतो ऽत्र गदितेत्यादि ।
एतानि षोडश श्राद्धानि संवत्सरादर्वाक् द्वादशाहादौ सिपण्डीकरणे कर्तव्ये अपकृष्य सपिण्डीकरणात्पूर्वं कर्त्तंव्यानि ।
श्राद्धानि षोडशापाद्य विदधीत सपिण्डनम ।
इति लौगाक्षिवचनात् ।
अर्वाक् सपिण्डीकरणात्कुर्यात् श्राद्धानि षोडश ।
इति पैठनिसिवचनाच्च ।
सपिण्डीकरणात् प्रागपकृष्य कृतान्यपि सपिण्डनोत्तरं पुनस्तानि स्वस्वकाले कर्तव्यानि ।
तदाह–
अङ्गिराः:
यस्य संवत्सरादर्वाक् सपिण्डीकरणं कृतम् ।
मासिकं चोदकुम्मं च देयं तस्यापि वत्सरम् ॥
इति ।
गालवो ऽपि–
अर्वाक् संवत्सराद्यस्य सपिण्डीकरणं कृतम् ।
षोडशानां द्विरावृत्तिं कुर्यादित्याह गौतमः ॥
इति ।
अत्र विशेषमाह कार्ष्णाजिनिः–
अर्वागब्दाद्यत्र यत्र सपिण्डीकरणं कृतम् ।
तदूर्ध्वं मासिकानां स्याद्यथाकालमनुष्ठितिः ॥
इति ।
अस्यार्थः ।
षोडशानां मध्ये यानि स्वस्वकाले द्वित्राणि कृतानि ततः सपिण्डन उपस्थिते तत्पूर्वं यानि अवशिष्टानि अपकृष्य कृतानि तान्येव पुनः कुर्यात् न त्वन्यानि स्वस्वकाले कृतानीत्यर्थः ।
{म्व्-स्_२१६}
विवाहाद्युपस्थितौ तु सपिण्डीकरणात्पूर्वमपकृष्य कृतान्यपि वूध्द्यनन्तरं पुनर्नैव कार्याणीत्याह–
कात्यायनः:
निर्वर्त्य वृद्धितन्त्रं तु मासिकानि न तन्त्रयेत् ।
अयातयामं मरणं न भवेत्पुनरस्य तु ॥
इति ।
वृध्द्यतन्तरं मासिकानि न कुर्यात्तदा अयातयामं नूतनं मरणं न भवेत् ।
अन्यथा नूतनं मरणं भवेदित्यर्थः ।
प्रेतश्राद्धानि शिष्टानि सपिण्डीकरणं तथा ।
अपकृष्यापि कुर्वीत कर्ता नान्दीमुखं द्विजः ॥
इति शाठ्यायनिश्च ।
सपिण्डीकरणोत्तरं वृध्द्यादिपाते तु अनुमासिकान्यपि अपक्रष्टव्यानि ।
सपिण्डीकरणादर्वागपकृष्य कृतान्यपि ।
पुनरपकृष्यन्ते वृद्ध्युत्तरनिषेधनात् ॥
इति कार्ष्णाजिन्युक्तेः ।
अतः सपिण्डीकरणादर्वाक् ऊर्ध्वं चापकर्षः सिद्धः ।
ननु–
प्रेतसंस्कारकर्माणि यानि श्राद्धानि षोडश ।
यथाकालं तु कार्याणि नान्यथा मुच्यते ततः ॥
इति हारीतवचनान्नापकर्षः सिध्द्यतीतिचेत्, सत्यम् ।
संवत्सरान्ते सपिण्डीकरणे अपकर्षो न ।
अर्वाक्सपिण्डीकरणे तु केन निरोद्धव्यो ऽपकर्ष इति षोडशश्राद्धानि कृत्वैव सपिण्डीकरणं संवत्सरात्प्रागपि कर्तव्यमिति ।
सो ऽयमापत्कल्पः ।
यदा प्राक्सपिण्डीकरणात् प्रेतश्राद्धानि करोति तदैकोद्दिष्टविधानेन कुर्यात् ।
यदा तु तदूर्ध्वं करोति तदाब्दिकं श्राद्धं यो यथा करोति पार्वणमेकोद्दिष्टं वा तथा मासिकानि कुर्यात् ।
सपिण्डीकरणादर्वाक् कुर्वन् श्राद्धानि षोडशं ।
एकोद्दिष्टविधानेन कुर्यात्सर्वाणि तानि तु ॥
सपिण्डीकरणादूर्ध्वं यदा कुर्यात्तदा पुनः ।
प्रत्यब्दं यो यथा कुर्यात्तथा कुर्यात्स तान्यपि ॥
इति स्मरणादिति विज्ञानेश्वरः ।
तथा संवत्सरपर्यन्तं प्रतिदिनं प्रेतोद्दे शेन भोजनपर्याप्तान्नसहित उदकुम्भो देयः ।
पद्मपुराणे–
उदकुम्भश्च दातव्यो भोज्यभक्ष्यसमन्वितः ।
यावद्वर्षं नरश्रेष्ठ! सतिलोदकपूर्वकम् ॥
इति ।
{म्व्-स्_२१७}
हेमाद्रौ स्मृतिसमुच्चये–
एकादशाहात्प्रभृति घटस्तोयान्नसंयुतः ।
दिने दिने प्रदातव्यो यावत्स्याद्वत्सरः सुतैः ॥
इति ।
पारस्करेण पिण्डदानमप्यत्र पाक्षिकमुक्तम्–अहरहरन्नमस्मै ब्राह्मणायोदकुम्भं च दद्यात्पिण्डमप्येके निपृणन्तीति ।
अस्मै प्रेताय तदुद्देशेनेत्यर्थः ।
अर्वाक्सपिण्डीकरणे ऽपि देय इत्याह–
याज्ञवल्क्यः, (अ। १ श्रा। प्र। श्लो। २५५)
अर्वाक्सपिण्डीकरणं यस्य संवत्सराद्भवेत् ।
तस्याप्येतत् सोदकुम्भं दद्यात्संवत्सरं द्विजः ॥
इति ।
सपिण्डीकरणोत्तरं मासिकेष्विव नात्र प्रेतशब्दोल्लेखः ।
अस्मादेव वचनादुदकुम्भस्यापकर्षो नास्तीति प्रतीयते ।
यत्तु गोभिलश्राद्धकल्पभाष्ये स्कान्दवचो लिखितम्–
अन्नं चैव स्वशत्त्या तु सङ्खयां कृत्वाब्दिकस्य तु ।
दातव्यं ब्राह्मणेभ्यस्तु यद्वा तन्निष्क्रयं च यत् ॥
अपि श्राद्धशतैर्दत्तैरुदकुम्भं विना नराः ।
दरिद्रा दुःखिनस्तात! भ्रमन्ति च भवार्णवे ॥
ततो ऽपकृष्य दातव्यं प्रेतस्याप्युदकुम्भकम् ।
इति उदकुम्भस्याप्यपकर्षकम्, तत्तु याज्ञवल्क्यवचोविरोधान्नापकर्षपरङ्किन्तु प्रतिदिनमुदकुम्भान्नदानाशक्तौ एकस्मिन्नपि दिने तावन्तो यथासम्भवं यदा कदाचिद्वा वत्सरमध्ये तावन्तो देया इति तदर्थः आचारस्यापि तथादृष्टत्वात् ।
अत्र क्वचित्कुम्भस्यान्नसाहित्यं क्वचिदन्नस्य कुम्भसाहित्यं यद्यपि, तथापि गुणप्रधानभावाविवक्षया इदमन्नमेष कुम्भ इति पृथगेव त्यागः कार्यः ।
अत्र च यदा प्रेतोद्देशेनान्नस्य तत्स्थानीयस्य वा द्रव्यस्य श्रद्धया त्यागः श्राद्धमिति विज्ञानेश्वरोक्तं श्राद्धलक्षणम्, ब्राह्मणस्वीकारप्रयन्तः पितॄनुद्दिश्य द्रव्यत्यागः श्राद्धमिति कल्पतरूक्तम्, पित्रादींश्चतुर्थ्यन्तपदैरुद्दिश्य हविस्त्यागः श्राद्धमिति शूलपाष्युक्तं च श्राद्ध लक्षणम्, तदापि एतच्छ्राद्धलक्षणाक्रान्तत्वादन्नोदकुम्भत्यागो ऽपि श्राद्धरूप एव ।
यत्तु शूलपाणिना अस्य नित्यश्राद्धत्वमुक्तम्–
अहन्यहनि यच्छ्राद्धं तन्नित्यमभिधीयते ।
इति भविष्यपुराणोक्तनित्यश्राद्धलक्षणस्यात्रापि सत्त्वादिति, तन्न ।
अहन्यहनि यच्चोदितं तन्नित्यामत्यभिधानाद्यत्रावधिदिनविशेषानुपादानेन जीवनावधि नियोज्यत्वं प्रतीयते तन्नित्यम् ।
{म्व्-स्_२१८}
“कुर्यादहरहः श्राद्धं"इत्यत्रच तादृशचोदनाचोदितत्वाद्भवति नित्यत्वप्रतीतिः ।
न तु प्रकृते ।
अन्यथा कतिपयदिनक्रियमाणे ऽपि–
अश्वयुक्कृष्णपक्षे ऽपि श्राद्धं कुर्याद्दिनेदिने ।
इत्यापरपक्षिके नित्यश्राद्धत्वप्रसङ्गादिति ।
ऊनमासिकोनषाण्मासिकोनाब्दिकानि नन्दादिषु न कार्याणि ।
गार्ग्यः–
नन्दायां भार्गवदिने चतुर्दश्यां त्रिपुष्करे ।
ऊनश्राद्धं न कुर्वीत गृही पुत्रधनक्षयात् ॥
मरीचिरपि–
द्विपुष्करे च नन्दासु सिनीबाल्यां भृगोर्द्दिने ।
चतुर्दश्यां च नोनानि कृत्तिकासु त्रिपुष्करे ॥
इति ।
त्रिपुष्करं च त्रिपान्नक्षत्रं भद्रा तिथिर्गुरुभौमरविवाराणामन्यतमस्य मेलने भवति ।
द्वयोर्मेलने द्विपुष्करम् ।
रत्नमालायाम्–
विषमचरणं धिष्ण्यं भद्रातिथिर्यदि जायते
सुरगुरुरविक्ष्मापुत्राणां कथं चन वासरे ।
मुनिभिरुदितः सो ऽयं त्रिपुष्करसञ्ज्ञकः ॥
इति ।
त्रिपाद्भं चेत्तिथिर्भद्रा भौमेज्यरविभिः सह ।
तदा त्रिपुष्करो योगो द्वयोर्योगो द्विपुष्करः ॥
इति ।
द्वितीयासप्तमीद्वादशीनां भद्रातिथीनां पुनर्वसूत्तराफाल्गुनीविशाखोत्तराषाढापूर्वाभाद्रपदनक्षत्राणां भानुभौमशनैश्चराणां च मेलने त्रिपुष्करं द्बिमेलने द्विपुष्करम् ।
नन्दाः प्रतिपत्षष्ठ्येकादश्यः ।
शेषं प्रसिद्धम् ।
इति मासिकानां कालनिर्णयः ।
अथ प्रेतक्रियासु विहितनिषिद्धकालाः ।
गार्ग्यः–
प्रत्यक्षशवसंस्कारे दिनं नैव विशोधयेत् ।
आशौचमध्ये क्रियते पुनःसंस्कारकर्म चेत् ॥
शोधनीयं दिनं तत्र यथासम्भवमेव तु ।
आशौचविनिवृत्तौ तु पुनःसंस्क्रियते मृतः ॥
संशोध्यैव दिनं ग्राह्यमूर्ध्वं संवत्सराद्यदि ।
प्रेतकार्याणि कुर्वीत श्रेष्ठं तत्रोत्तरायणम् ॥
कृष्णपक्षश्च तत्रापि वर्जयेत्तु दिनक्षयम् ।
{म्व्-स्_२१९}
प्रेतश्राद्धं प्रकृत्य गार्ग्यः–
नन्दायां भार्गवदिने चतुर्दश्यां त्रिपुष्करे ।
तत्र श्राद्धं न कुर्वीत गृही पुत्रधनक्षयात् ॥
मरीचिः–
एकादश्यां तु नन्दायां सिनीवाल्यां भृगोर्दिने ।
नभस्यस्य चतुर्दश्यां कृत्तिकासु त्रिपुष्करे ॥
श्राद्धं न कुर्वीतेत्यनुषङ्गः ।
प्रेतक्रियामेव प्रकृत्य–
भारते:
नक्षत्रे तु न कुर्वीत यस्मिन् जातो भवेन्नरः ।
न प्रौष्ठपदयोः कार्ंयं तथाग्नेये च भारत! ॥
दारुणेषु च सर्वेषु प्रत्यरौ च विवर्जयेत् ।
ज्यौतिषे यानि चोक्तानि तानि यत्नेन वर्जयेत् ॥
उक्तानि वर्ज्यत्वेनेतिशेषः ।
दारुणानि–
दारुणं चोरगं रौद्रमैन्द्रं नैरृतमेव च ।
इत्युक्तानि ।
ग्रत्यरिः = पञ्चमतारा ।
ज्योतिः पराशरः–
साधारणध्रुवोग्रे मैत्रे नो शस्यते मनुष्याणाम् ।
प्रेतक्रिया कथञ्चित्त्रिपुष्करे यमलधिष्णणे च ॥
साधारणे कृत्तिकाविशाखे ।
ध्रुवाणि = उत्तरात्रयं रोहिणी च ।
उग्राणि = पूर्वात्रयं भरणी मघा च ।
मैत्रमनुराधा ।
यमलधिष्ण्यं = धनिष्ठा ।
कश्यपः–
भरण्यार्द्रा तथाश्लेषा मूलत्रिचरणानि च ।
प्रेतकृत्ये ऽतिदुष्टानि धनिष्ठाद्यं च पञ्चकम् ॥
वराहपुराणे–
चतुर्थाष्टमगे चन्द्रे द्वादशे च विवर्जयेत् ।
प्रेतकृत्यं व्यतीपाते वैधृतौ परिधे तथा ॥
करणे विष्टिसञ्ज्ञे च शनैश्चरदिने तथा ।
त्रयोदश्यां विशेषेण जन्मतारात्रये ऽपि च ॥
जन्मतारात्रयम् = आद्यदशमैकोनेविंशानि ।
नन्दायां भार्गवदिने त्रयोदश्यां त्रिजन्मनि ।
अत्र श्राद्धं न कुर्वीत पुत्रदारथनक्षयात् ॥
इत्यादयश्च निषेधाः प्रेतक्रियातिरिक्ते न प्रवर्तन्ते ।
प्रेतश्राद्धेष्वपि सावकाशेषु न प्रवर्तन्ते ।
निरवकाशेषु स्वकाले ऽनुष्ठीयमानेषु प्रवर्तन्ते ।
{म्व्-स्_२२०}
तदाह गोभिलः–
नन्दायां शुक्रवारेषु चतुर्दश्यां त्रिजन्मसु ।
एकादशाहप्रभृति नैकोद्दिष्टं निषिध्यते ॥
वैजवापः–
युगमन्वादिसङ्क्रान्तिदर्शे प्रेतक्रिया यदि ।
दैवादापतिता तत्र नक्षत्रादि न शोधयेत् ॥
इति प्रेतक्रियाविहितनिषिद्धकालाः ।
अथ सपिण्डीकरणकालः ।
तत्र यजमानप्रेतयोरनाहिताग्नित्वे संवत्सरान्तो मुख्यः ।
उपस्थितवृद्धिपूर्वकालो वा ।
तथाच–
भविष्यपुराणे:
सपिण्डीकरणं कुर्याद्यजमानो ह्यनग्निमान् ।
अनाहिताग्नेः प्रेतस्य पूर्णे ऽब्दे भरतर्षभ! ॥
तथा पुलस्त्यो ऽपि–
निरग्निः सहपिण्डत्वं पितुर्मातुश्च धर्मतः ।
पूर्णे संवत्सरे कुर्याद्वृद्धिर्वा यदहर्भवेत् ॥
अत्र हि कर्तुरुद्देश्यस्य निरग्नित्वे निमित्ते कालो नियम्यते तस्यैव कर्माङ्गत्वेन विधीयमानत्वात् ।
यत्तु काले कर्म विधीयते न कर्मणि काल इतिन्यायविद्वचनं तदनुपादेयत्वाभिप्रायम् ।
न पुनरविधेयत्वपरम् ।
तथात्वे हि कालस्याङ्गत्वमेव न स्यादविधीयमानत्वात् ।
न ह्यविधीयमानमङ्गं भवतीति ।
अत्र हि पूर्ण इति वर्षसमाप्त्युत्तरदिन इत्यर्थः ।
तथाचोशना–
पितुः सपिण्डीकरणं वार्षिके मृतवासरे ।
आधानाद्युपसम्प्राप्तावेतत्प्रागपि वत्सरात् ॥
नागररवण्डे ऽपि–
पितुः सपिण्डीकरणं वत्सरादूर्धतः स्थितम् ।
वृद्धिरागामिकी चेत्स्यात्तदर्वागपि कारयेत् ॥
यच्च पैठीनसिना वत्सरान्ते सपिण्डीकरणमित्युक्तम् ।
तत्रापि सति सप्तम्येव न तु दशान्ते पट इतिवद्वाचकत्वं पूर्वोदाहृतवाक्यविरोधात् ।
यच्च स्मृत्यर्थसारे द्वादशमासोपान्त्यदिने ऊनाब्दिकं तदुत्तरदिने सपिण्डीकरणं तदुत्तरदिने मृताहरूपे प्रथमाब्दिकमिति, तदेतत्"वार्षिके मृतवासर"इतिवचनविरोधादुपेक्षणीयम ।
एवञ्च सति एकोद्दिष्टप्रधानकत्वेन मध्याह्ने सपिण्डनं विधाय पार्वणप्रधानकत्वेन वापराह्णे सपिण्डनं कृत्वा सम्भवे ऽपराह्ण एव गौणकालरूपसायाह्ने वा सांवत्सरिकं कार्यं न तु लोपस्तस्य ।
{म्व्-स्_२२१}
केचित्तु मृताहदिने सपिण्डने आब्दिकलोप एव मुख्यकालस्याभावात्, शेषभोजनं विना सपिण्डीकरणश्राद्धापरिसमाप्ते श्राद्धान्तरारम्भस्यानुचितत्वाच्चेति वदन्ति ।
तन्न ।
नहि गौणकाले ऽनुष्ठानं निषिद्धमपि तु मुख्यकाले ऽनधिकृतस्य गौणकाले ।
न च प्रकृते मुख्यकाले ऽनधिकारप्रतिपादकं किञ्चिदस्ति ।
यच्च शेषभोजनं विना कर्मासमाप्तेर्न कर्मान्तरारम्भ इति ।
तन्न ।
विसर्जनेनैव प्रयोगस्य परिसमाप्तत्वात् ।
तदुत्तरं च रागतः प्राप्ते भोजने प्रतिपत्तिमाकाङ्क्षमाणस्य शेषस्य नियमो न तु शेषभोजनं श्राद्धाङ्गम् ।
भवद्वातद्वि, न रात्रिगतब्रह्मचर्यादिवत्प्रयोगबहिर्भूतमेवाङ्गं तच्च प्रत्याब्दिकेनावश्यकर्तव्यतया विहितेन व्यवहितं सदाब्दिकश्राद्धाङ्गकशेषभोजनेन सह तन्त्रेणैकस्मिन् दिने दैववशापन्नानेकवार्षिकशेषभोजनमिवानुष्ठातुं शक्यमिति न किञ्चिदनुपपन्नम् ।
वृद्धिरभ्युदयः ।
भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्य एव वा ।
सहपिण्डक्रियां कृत्वा कुर्यादभ्युदयं ततः ॥
इति लघुहारीतोक्तः ।
गोमिलो ऽपि यदहर्वा वृद्धिरापद्यते इति वृद्धिर्वा यदहः स्यादिति ।
अत्र वृध्द्यहः सन्निहितं दिनान्तरपमुच्यते ।
अन्यथा तस्मिन्नेव दिने सपिण्डीकरणापत्तिः ।
तच्च विरुद्धम् ।
सपिण्डीकरणस्य मध्याह्नकालत्वात् वृद्धिश्राद्धस्य च प्रातः कालिकत्वात् ।
स्पष्टं चोक्तम्–
नागरखण्डे:
पितुः शपिण्डीकरणं वत्सरादूर्ध्वतः स्थितम् ।
वृद्धिरागामिनी चेत्स्यात् तदर्वागपि कारयेत् ॥
उपलक्षणं चैतन्नान्दीनिमित्तस्य कर्ममात्रस्य ।
तथा च–
शाठ्यायनिः:
प्रेतश्राद्धानि सर्वाणि सपिण्डीकरणं तथा ।
अपकृष्यापि कुर्वीत कर्त्तां नान्दीमुखं द्विजः ॥
इति ।
अयं चापकर्षः सपिण्डनं विना पित्रादीनां पार्वणार्हपितृत्वप्राप्त्यभावेन नान्दीश्राद्धस्य कर्तुमशक्यत्वात्
ज्ञेयो न तु वाचनिक इति केचित् ।
अपरे तु न ह्यदृष्टार्थे हेतुना प्रयोजनम् ।
न ह्यपकर्षे देवतासम्भवः प्रयोजकः किन्तु विधिः ।
देवताया अभावे तु जीवत्पितृकस्येव कर्मलोप एव युक्तः ।
देवतानुरोधेनैवापकर्षे तीर्थश्राद्धाद्यनुरोधेनापकर्षापत्तेः ।
तस्माद्वचनादेवापकर्षः ।
{म्व्-स्_२२२}
किञ्चाहिताग्नैर्दैहित्रस्य विद्यमाने ऽपि निरग्नौ मातुले पार्वणानुरोघेन मातामहसपिण्डीकरणं प्राप्नुयाद्दौहित्रानुरोधेन वा मातुलस्य गौणकाले ऽनुष्ठानप्रसङ्गः,“न पार्वणं नाभ्युदयम्"इति पृथक्वचनवैयर्थ्यापत्तेश्च ।
अभ्युदयश्च अवश्यकर्तव्यो न काम्यः ।
तस्य सपिण्डीकरणानपकर्षे ऽपि पृथक्कर्तुं शक्यत्वात् ।
साग्नेः प्रेतस्य निरग्निकर्त्तृकसपिण्डीकरणकालमाह–
लघुहारीतः:
अनग्निस्तु यदा वीर! भवेत्कुर्यात्तदा गृही ।
प्रेतश्चेदग्निमांस्तस्य त्रिपक्षे वै सपिण्डनम् ॥
गृही = कर्त्ता ।
सुमन्तुरपि-
प्रेतश्चेदाहिताग्निः स्यात्कर्त्तानग्निर्यदा भवेत् ।
सपिण्डीकरणं कार्यं तदा पक्षे तृतीयके ॥
अत्र च “त्रिपक्षे वै सपिण्डनम्ऽ; इत्यत्र तृतीयस्य पक्षस्याधिकरण तोक्ता सप्तमीश्रवणात् ।
न चास्तु सप्तमी परं तु सतिसप्तमी सा, एवं च मासिकाब्दिकादिश्राद्धवन्मृततिथिसजातीयायां तिथौ सपिण्डीकरण मिति वाच्यम् ।
“उपपदविभक्तेः कारकविभक्तिर्बलीयसी"इतिन्यायात्स तिसप्तमीतो ऽधिकरणसप्तम्या एव बलीयस्त्वात्पूरणार्थकप्रत्ययबला ह्वितीयपक्षस्यैव लाभात् ।
न च"पूर्णे संवत्सरे षण्मासे त्रिपक्षे यदहर्वा वृद्धिरापद्यते"इति गोभिलवाक्ये संवत्सर इव षण्मासत्रिपक्षयोरपि पूर्ण इत्यनुषङ्गेणान्वयात्तदुत्तरदिनस्यैव ग्रहणमिति वाच्यम् ।
प्रमाणाभावेन"मासं दर्शपौणर्मासाभ्यामिष्ट्वोपवसाद्भिश्चरन्ति"इत्यत्र मासस्योपसत्स्विवात्र पूर्ण इत्यस्य षण्मासत्रिपक्षयोरननुषङ्गात् ।
तेन सम्पूर्णस्य तृतीयस्याधिकरणत्वमिति ।
हेमाद्रिस्तु पक्षत्रये पूर्ण इति वदन्नपि तृतीयपक्षसम्पूर्त्तिदिनस्यैवाधिकरणत्वमाह सप्तमीस्वारस्यात् न तु तदुत्तरदिनस्येति ।
कर्तुः साग्नित्वे–
सुमन्तुः:
यजमानो ऽग्निमान् राजन्! प्रेतश्चानग्निमान् भवेत् ।
द्वाहशाहे भवेत्कार्यं सपिण्डीकरणं सुतैः ॥
कात्यायनः–
एकादशाहं निर्वर्त्त्य अर्वाग्दर्शाद्यथाविधि ।
प्रकुर्वीताग्निमान् विप्रो मातापित्रोः सपिण्डनम् ॥
इति ।
अत्रार्वाक्दर्शादित्युक्तावपि"एकादशाहे द्वादशाहे वा"इत्यादि बौधायनाद्युक्तविहितकाल एव कर्तव्यम्, तदबाधेनैवोपपत्तौ बाधायोगात् स्वतन्त्रकालकल्पनाप्रसङ्गाच्च ।
{म्व्-स्_२२३}
हेमाद्रिस्तु स्वतन्त्रं कालान्तरमित्याह ।
यत्तु–
या तु पूर्वममावास्या मृताहाद्दशमी भवेत् ।
सपिण्डीकरणं तत्यां कुर्यादेव सुतो ऽग्निमान् ॥
इति जाबालिवचनं तत् मरणदिनावधिकदशमदिनपरम् ।
एवञ्चैकादशं दिनमुक्तं भवति ।
यदा च दर्शो
द्धाविंशतिदिनादूर्ध्वं भवति तदाशौचात्परतो द्वादशसु दिवसेषु षोडशश्राद्धानि कृत्वा त्रयोदशदिवसे सपिण्डीकरणं कार्यम् ।
सपिण्डीकरणं प्रकृत्य–
मासिकार्थवत् द्वादशाहं श्राद्धं कृत्वा त्रयोदशे ऽह्नि वा कुर्यात् ।
इति विष्णूक्तेः ।
अस्यार्थः ।
मासिकानामर्थः प्रयोजनं प्रेतभावनिवृत्तिस्तद्वच्छ्राद्धम् ।
गणाभिप्रायमेकवचनम् ।
तत्रोनमासिकत्रैपक्षिकोनषाण्मासिकानि प्रथमद्वितीयषष्ठद्वादशादिवसेषु कार्याणि दिवसस्य मास त्थानीयत्वात् ।
अत एवाग्रे"संवत्सराभ्यन्तरे यद्यधिकमासको भवेत्तदा मासिकार्थं दिनमेकं वर्धयेत्"इति तेनैवोक्तम् द्वादशाहं त्रयोदश इति चाशौचोत्तरदिनमारभ्यैव"परतो दशरात्रस्य"इति जावालोक्तेः ।
अत्र दहारात्रग्रहणं तत्तदाशौचोपलक्षणम् ।
तता साग्निना प्रवसितेन विच्छिन्नाग्निना वा पार्वणश्राद्धानुरोधेनापि अपकर्षः कार्यः ।
तथा च–
हेमाद्रौ प्रजापतिः:
नासपिण्ड्याग्निमान् पुत्रः पितृयज्ञं समाचरेत् ।
न पार्वणं नाभ्युदयं कुर्वन्न लभते फलम् ॥
इत्यवश्यकर्तव्याभ्युदयसाहचतर्येण पावेणस्योक्तत्वात् ।
अर्वाक् दर्शादितिदर्शोपादानाद्दर्शसम्बन्धिपितृयज्ञवत्पार्वणस्यापि ग्रहणाच्च ।
एतच्च यन्मते पिण्डपितृयज्ञनिमित्तं सपिण्डीकरणापकर्षणं तन्मते ऽपि पितुरिव मातुरपि कार्यम् ।
एकत्वं सा गता भर्त्तुः पिण्डे गोत्रे च सूतके ।
पत्नी पतिपितॄणां तु तस्मात्तद्गोत्रभागिनी ॥
सपिण्डीकरणादूर्ध्वं यत्पितृभ्यः प्रदीयते ।
सर्वेष्वंशहरा याता इति धर्मेषु निश्चयः ॥
इति यज्ञपार्श्वबौधायनवचनाभ्यां पितृपिण्डे तस्या अंशभागित्वात् ।
न चैवं तस्या उद्देश्यत्वापत्तिरिति वाच्यम् ।
एकमूर्त्तित्वमायाति सपिण्डीकरणे कृते ।
इति वचनेन सपत्नीकत्वेनानुद्देशे ऽपि भर्त्तृपिण्डांशोपभोगोक्तेः ।
अन्यथा मातामहेन सह सपिण्डने मातामहपिण्डभोक्तृत्वं न स्यात् ।
न हि सदुहितृकेतिमातामहानामुद्देशः प्रमाणाभावात् ।
{म्व्-स्_२२४}
तस्मात्साग्निना कर्त्रा आशौचोत्तरं द्वादशसु दिवसेषु मासिकानि कृत्वा त्रयोदशे ऽह्नि मरणदिनादारब्य वा द्वादशे दिने एकादशे ऽहनि एव वा दर्शपाते तत्रैव सपिण्डनं कार्यम् ।
अत्र च प्रमादादकरणे त्रिपक्षादिषु विहितेषु कालेषु कार्यम् ।
तथाच–
गोभिलः:
द्वादशाहादिकालेषु प्रमादादननुष्ठितम् ।
सपिण्डीकरणं कुर्यात्कालेषूत्तरभाविषु ॥
इदं च साग्निकस्यैव ।
तस्यैव द्वादशाहादीनां मुख्यत्वात् तदग्रिमाणामनुकल्पत्वेन विधानमुक्तं न तु निरग्निकस्य ।
तस्य वर्षान्तस्यैव मुख्यत्वात्, न च तदुत्तरं विहितः कालो ऽस्तीति ।
भाविष्यपुराणे—
द्वादशे ऽहनि षष्ठे वा त्रिपक्षे वा त्रिमासि वा ।
एकादशे ऽपि वा मासि माङ्गल्यस्याप्युपस्थितौ ॥
अत्र षष्ठे वेत्यत्र मासीति सम्बध्यते ।
तथा च–
बौधायनः–अथ संवत्सरे पूर्णे सपिण्डीकरणं त्रिपक्षे तृतीयमासि षष्ठे वैकादशे वा द्वादशाहे वेति ।
अत्रापि पूर्वोक्तयुत्त्याधिकरणत्वे सिद्धे यदतीते षष्ठे मासीति कस्यचिद्व्याख्यानं तत्र मूलं मृग्यम् ।
कालान्तरमाह–
पैठीनसिः, संवत्सरान्ते विसर्जनं नवममास्यमित्येके ।
विष्णुरपि–
मासिकार्थवत् द्वादशाहं श्राद्धं कृत्वा त्रयोदशे ऽह्नि वा कुर्यात ।
व्याघ्रः साधारण्येनैव द्वादशाहप्राशस्त्यमाह–
आनन्त्यात्कुलधर्माणां पुंसां चैवायुषः क्षयात् ।
अस्थितेश्च शरीरस्य द्वादशाहः प्रशस्यते ॥
कुलधर्माणां = कुलाचारान्नियतकालिकानां वृद्धिश्राद्धवतां चूडाद्यनुष्ठानानाम् ।
अस्थितिश्च राजोपद्रवादिना देशत्यागसम्भावनारूपा रोगादिना कर्मासामर्थ्यरूपा वा ।
प्राशस्त्यं च मुख्यकालानुष्ठितेनेव तस्मिन् काले ऽनुष्ठितेनाप्यनेन प्रेतत्व निवृत्तिर्भवतीति ।
द्वादशाहश्च द्वादशञ्च तदहश्चेतिव्युत्पत्त्या द्वादशं दिनं तच्च मृतदिनावधिकमेव ।
द्वादशानामह्नां सङ्घातो द्वादशाहः षोडशश्राद्धापकर्षकः कालः स चाभ्युदयरूप इति शूलपाणिः ।
ननु कथमस्य प्रशस्तत्वं सपिण्डीकरणं हि पितृत्वप्राप्त्यर्थं न च द्वादशाहे कृतं केवलं तत्पितृत्वापादकं भवति ।
यतो–
विष्णुधर्मोत्तरे:
कृते सपिण्डीकरणे नरः संवत्सरात्परम् ।
{म्व्-स्_२२५}
प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यते ॥
इति ।
अग्निपुराणे ऽपि–
अर्वाक् संवत्सराद्यस्य सपिण्डीकरणं भवेत् ।
प्रेतत्वमपि तस्यापि ज्ञेयं संवत्सरं नृप! ॥
इति ।
अतः पूर्वं कृते ऽपि सपिण्डने वत्सरान्त एव प्रेतत्वनिवृत्तेः कथमस्य प्रशस्तत्बमितिचेत्, षोडशश्राद्धान्यकृत्वा कृते सपिण्डने न पितृत्वप्राप्तिरित्येतत्परमिदं वचनद्वयम् ।
श्राद्धानि षोडशादत्त्वा नैव कुर्यात्सिपण्डनम् ।
इत्यनेनकवाक्यत्वात् ।
अस्मादेव वचनात्षे डशश्राद्धान्यपक्रष्टव्यानीत्यप्युक्तं भवति ।
कथमन्यथा षीडशश्राद्धानामपकर्षाभावे तत्साच्यप्रेतत्वनिवृत्तेरभावेन कृतं सपिण्डीकरणश्राद्धमप्यर्थवत्स्यात् ।
ननु षोडशश्राद्धान्यपकृष्य कृते सपिण्डन प्रेतत्वनिवृत्तेर्जातत्वात्पुनर्मासिकोदकुम्भश्राद्धं न स्यात् ।
सत्यम् ।
यदि–
यस्य संवत्सरादर्वाक् सपिण्डीकरणं भवेत् ।
मासिकं चोदकुम्भं च देयं तस्यापि वत्सरम् ॥
इतिलौगाक्षिवचनं न स्यात् ।
तस्माद्वचनादेव पुनरावृत्तिरिति ।
केचित्तु वृद्धिनिमित्तं विनापकृष्टे सपिण्डने संवत्सरान्त एव प्रेतत्वनिवृत्तिः ।
वृद्धिनिमित्तं त्वपकर्षणे सपिण्डनोत्तरमेवाव्यवधानेन प्रेतत्वनिवृत्तिः ।
अत एव"अर्वाक्संवत्सराद्वृद्धौ"इत्यनेन सपिण्डनापकर्षमभिधा याह–
शात्तातपः:
न पृथक्पिण्डदानं च तस्मादूर्ध्वं विधीयते ।
प्रेतानामिह सर्वेषां ये मन्त्रैश्च नियोजिताः ॥
प्रेतत्वाच्चेह निस्तीर्णाः प्राप्ता पितृगणं तु ते ॥
इति ।
यदि वाशवत्या गौणेकाले ऽनुष्ठान दैवात्तदुत्तरं वृद्ध्याद्यापद्येत तदा वृद्धिकालं प्राप्य प्रेतत्वपरिहारो भवति तस्य वत्सरान्तकालतुल्यत्वादिति वदन्ति ।
अत्रेदं प्रतिभाति ।
कथमस्य वत्सरान्तकालतुल्यत्वमिति ।
यदि चाहिताग्नेर्द्वादशाहस्येव मुख्यत्वेन प्रेतत्वनिवृत्तिफलकस्य सपिण्डनस्यात्र विहितत्वादिति, तदा विहितत्वं गौणस्याप्यस्त्येव ।
मुख्यकालश्च न स्वरूपेण प्रयोजकः अन्यथा वत्सरान्ते सपिण्डनाभावे ऽपि प्रेतत्वनिवृत्तिः स्यादेव तस्मान्मख्यकाले ऽनुष्ठितमेव सपिण्डनं प्रेतत्वनिवर्तकं वाच्यम् ।
एवं सति विहितस्यानर्थकत्वानुपपत्त्या विहितकाले ऽनुष्ठितमेव प्रेतत्वनिवर्तकमित्यस्तु कृतं मुख्यत्वेनोत ।
{म्व्-स्_२२६}
तस्मात्षोडशश्राद्धसहितं सपिण्डीकरणमात्रं प्रेतत्वनिवर्तकं न मुख्यकालसहितमिति ।
केचित्तु सर्वेषामपि कालानाहिताग्निं प्रति मुख्यत्वेन द्वादशादिकालेषु कृतं सपिण्डनं वृद्धिपूर्वं कृतमिव प्रेतत्वनिवर्तकमिति ।
ते च कालाः ।
तत्र तावत् चतुर्विंशतिमते–
सपिण्डीकरणं चाब्दे सम्पूर्णे ऽभ्युदये ऽपि वा ।
द्वादशाहे तु केषाञ्चिन्मतं चैकादशे तथा ॥
इति ।
केचित्तु इदं सकलसाधारणमुख्यकालसङ्ग्राहकं न तु निरग्नेरेकादशाहादिप्रतिपादकम् ।
अन्यथा साग्नेरपि संवत्सरान्तकालसाधकं स्यात् ।
एवं च"या तुपूर्वममावास्या"इत्यादिवाक्यैस्तांस्तान् प्रति प्राप्रानेव कालान् विदधन्नापूर्वश्रुतिमूलमित्याहुः ।
पराशरमाधवीये भविष्ये:
सपिण्डीकरणं कुर्याद्यजमानस्त्वनग्निमान् ।
अनाहिताग्नेः प्रेतस्य पूर्णे ऽब्दे भरतर्षभ! ॥
द्वादशे ऽहनि षष्ठे वा त्रिपक्षे वा त्रिमासि वा ।
एकादशे ऽपि वा मासि माङ्गल्यस्याप्युपस्थितौ ॥
इति ।
एते च सर्वे मुख्याः ।
एषु द्वादशाहः प्रशस्तः ।
आनन्त्यादिवचनात् ।
अन्यत्रेच्छया विकल्प इति माधवः ।
अन्ये तु वत्सरान्तो मुख्यस्तत्सन्निहित एकादशो मासो जघन्यः ।
एवमन्ये विप्रकृष्टा यथापूर्वं जघन्या इति ।
यदा च सपिण्डीकरणार्थं षोडशश्राद्धान्यपकृष्यन्ते तदा मृततिथिसजातीयायां तिथौ कार्याणि ।
एकस्यापि मुख्यकाललाभात् ।
असम्भवे तु सपिण्डनदिने एव निमित्ते सन्निधानात् ।
अथ वा सति कालव्यवधाने प्रागुदाहृतविष्णुवाक्यात् द्वादशसु दिवसेषु
षोडशश्राद्धानि विदध्यादिति ।
शूद्राणां तु द्वादशाह एव सपिण्डनम् ।
तथाच–
विष्णुः, मन्त्रवर्जं हि शूद्राणां द्वादशे ऽह्नीति ।
न च कात्यायनेन–
सर्वेषामेव वर्णानां सूतकान्ते सपिण्डनम् ।
इति विधानान्मासं शूद्रस्याशौचसत्त्वादवयवपिण्डस्य दशमस्य तं प्रति सूतकान्ते विहितत्वात् कथं द्वादशाहे शूद्रस्य सपिण्डनमितिवाच्यम् ।
सर्वेषामेव वर्णानां दशाहं सूतकं भवेत् ।
इत्येतत्पक्षमाश्रित्य वा सच्छूद्रस्य दर्शश्राद्धानुरोधेन एकादशाहविधिवद्वचनबलात्सूतकनिवृत्तिमभ्युपेत्य वा वचनात् सूतकमध्य एव वा कार्यमिति न दोषः ।
{म्व्-स्_२२७}
वस्तुतो द्वादशाहपदं न मरणदिनादारभ्य द्वादशाहपरं किन्तु सूतकान्तदिवसादूर्ध्वं द्विजातिवत् द्वादशसु दिवसेषु द्वादश मासिकानि कृत्वा द्वादशाह एव सपिण्डनं कार्यं न तु द्विजा तिवत्त्रयोदशाहे ।
अत एव तत्रोक्तम्–यद्यधिमासस्तदा त्रयोदशे दिन इति ।
एतेन यत्किञ्चिच्छ्राद्धवृद्धिर्न दिनवृद्धिरिति तदपि परास्तम् ।
देशान्तरस्थिते तु पुत्रे इतिविशेषः ।
तत्र शातातपः–
देशान्तरगतानां च पुत्राणां च कथं भवेत् ।
श्रुत्वा तु वपनं कार्यं दशाहं तु तिलोदकम् ॥
ततः सपिण्डीकरणं कुर्यादेकादशे ऽहनि ।
वर्षान्तकालातिक्रमे कालान्तरमुक्ते माधवीये–
ऋष्यशृङ्गः:
सपिण्डीकरणं श्राद्धमुक्तकाले न चेत् कृतम् ।
रौद्रहस्ते च रोहिण्यां मैत्रभे वा समाचरेत् ॥
एतच्च नक्षत्राद्यनुसारेण वृध्द्याद्युपस्थितौ विहितकालान्तरालाभे ऽपि द्रष्टव्यम् ।
इति सपिण्डनकालः ।
अथ सामान्यश्राद्धतिथिनिर्णयः ।
श्राद्धं च त्रिविधं पार्वणमेकोद्दिष्टं दैविकं च ।
तत्र कण्वः–
एकमुद्दिश्य यच्छ्राद्धमेकोद्दिष्टं प्रकीर्त्तितम् ।
त्रीनुद्दिश्य तु यत्तद्धि पार्वणं मुनयो विदुः ॥
पारस्करः–
देवानुद्दिश्य क्रियते यत्तद्दैविकमुच्यते ।
तन्नित्यश्राद्धवत्कुर्याद्द्वादश्यादिषु यत्नतः ॥
तत्र यस्यां तिथौ पार्वणश्राद्धं विहितं सा यदि दिनद्वयसम्बन्धिनीभवेत्तदा यस्मिन्पूर्वस्मिन्परस्मिन्वा दिने ऽपराह्णव्यापिनी तस्मिन् दिने पार्वणमनुष्ठेयम् ।
कर्मणो यस्य यः कालस्तत्कालव्यापिनी तिथिः ।
तया कर्माणि कुर्वीत ह्रासवृद्धी न कारणम् ॥
इति याज्ञवल्क्यवचनात् ।
मध्याह्नव्यापिनी या स्यात्सैकोद्दिष्टे तिथिर् भवेत् ।
अपराङ्णव्यापिनी या पार्वणे सा तिथिर्भवेत् ॥
इति गौतमवचनाच्च ।
यदा पूर्वेद्युरपराह्णव्यापिनी तदा पूर्वैव, ग्राह्या ।
{म्व्-स्_२२८}
तथाचमनुः–
यस्यामस्तं रविर्याति पितरस्तामुपासते ।
सा पितृभ्यो यतो दत्ता ह्यपराह्णः स्वयम्भुवा ॥
यस्यामपराह्णसम्बन्धिन्यां रविरस्तं याति सा पितृकार्ये प्रशस्ते त्यर्थः ।
तथा च हारीतः–
अपराह्णः पितॄणां तु यापराह्णानुयायिनी ।
सा ग्राह्या पितृकार्ये तु न पूर्वास्तानुयायिनी ॥
अस्तानुयायिनी = अस्तमात्रानुयायिनी ।
तथा च यापराह्णव्यापिन्यस्तानुयायिनी सा पितृकार्ये ग्राह्येत्यर्थः ।
यदा तु दिनद्वये ऽपि नापराह्णव्या पिनी तदापि पूर्वैव ग्राह्या ।
तथाच–
बृद्धयाज्ञवल्क्यः:
देवकार्ये तिथिर्ज्ञेया यस्यामभ्युदितो रविः ।
पितृकार्ये तिथिर्ज्ञेया यस्यामस्तमितो रविः ॥
शिवरहस्यसौरपुराणयोः–
प्रायः प्रान्त उपोष्या हि तिथिर्दैवफलेप्सुभिः ।
मूलं हि पितृतृप्त्यर्थं पैत्रं चोक्तं महर्षिभिः ॥
मारदोयपुराणे–
तिथेः प्रान्तं सुराख्यं हि उपोष्यं कवयो विदुः ।
पित्र्यं मूलं तिथेः प्रोक्तं शास्त्रज्ञैः कालकोविदैः ॥
पित्र्ये ऽस्तमयवेलायां स्पृष्टा पूर्णा निगद्यते ।
न तत्रौदयिकी ग्राह्या दैवे ह्यौदयिकी तिथिः ॥
गोभिलः–
सायाह्नव्यापिनी या तु पार्वणे सा उहाहृता ।
सायाह्नव्यापिता च त्रिमुहूर्तान्यूनाया एव भवति ।
वौधायनो ऽपि–
उदिते दैवतं भानौ पित्र्यं चास्तमिते रवौ ।
द्विमुहूर्तं त्रिरह्नश्च सा तिथिर्हव्यकव्ययोः ॥
भानावुदिते सति यद् द्विमुहूर्तं मुहूर्तद्वयं तद्दैवतं = दैवकर्मयोग्यम् ।
अस्तमिते अस्तं गन्तुमारब्धे भानौ अस्तमयात्पूर्वं यत् त्रिमुहूर्तं तत्पित्र्यं = पित्र्यकर्मयोग्यम् ।
तस्मात्तद्वर्त्तिनी ति थिर्हव्यकव्ययोर्ग्राह्येत्यर्थः ।
दिनद्वये ऽपि वैषम्येणापराह्णैकदेशव्याप्तौ तदाधिक्यवती ग्राह्या “अणुरपि विशेषो ऽध्यवसायकरऽ; इति न्यायात् ।
{म्व्-स्_२२९}
दिनद्वये ऽपि साम्येनापराह्णैकदेशव्याप्तिश्च श्राद्धाङ्गतिथेर्वृध्द्या क्षयेण साम्येन वा भवति, तत्र कस्मिन्दिने पार्वणमितिसंशये–
खर्वोदर्पस्तथा हिंसा त्रिविधं तिथिलक्षणम् ।
सर्वदर्पौ परौ पूज्यौ हिंसा स्यात्पूर्वकालिकी ॥
इति व्याघ्रपचनान्निर्णयः ।
खर्वः = साम्यवांस्तिथिः, दर्पो वृद्धिस्तद्वांस्तिथिः, हिंसा क्षयस्तद्वानिति त्रिविधं तिथिलक्षणं तिथिस्वरूपम् ।
अत्र सर्वत्वादीनां ग्राह्यतिथिगतत्वं खर्वदर्पयोः परयोर्हिसायाश्च पूर्वस्या ग्राह्यत्वाभिधानात् ।
सा च तुल्यकालैकदेशब्याप्तिर्ग्राह्यतिथेर्वृद्धिक्षयसाम्यैरित्थम्भवति समरात्रिन्दिवसमये यदा विंशतिघटीपरिमिता पूर्वतिथिर् भवति द्वाविंशतिघटीपरिमिता चोत्तरतिथिस्तदा दिनद्वये ऽपि साम्येन घटीचतुष्टयपरिमितापराह्णैकदेशव्याप्तिर्भवति ।
ग्राह्यतिथिश्च घटीद्वयेन वर्धते ।
यदा च द्वाविंशतिघटीपरिमिता पूर्वतिथिर्विंशतिघटीपरिमिता चोत्तरतिथिस्तदापि
साम्येन घटीद्बयरूपापराह्णैकदेशव्याप्तिर्भवति तिथैश्च घटीद्वयेन क्षीयते ।
यदा च पूर्वोत्तरदिनयोः पूर्वोत्तरे तिथी एकविंशतिघटीपरमिते स्तस्तदापि साम्येनैव घटीत्रयपरिमितापराह्णैकदेशव्याप्तिर्भवति तिथिश्च साम्यमुपैति ।
अत्र वृद्धिसाम्ययोः परा ग्राह्या क्षये पूर्वेति ।
इति पार्वणनिर्णयः ।
एकोद्दिष्टस्य तु कालमाह हारीतः–
आमश्राद्धं तु पूर्वाह्ण एकोद्दिष्टं तु मध्यतः ।
पार्वणं चापराह्णे तु प्रातर्वृद्धिनिमित्तकम् ॥
उपक्रमकालमाह व्यासः–
कुतपप्रथमे भागे एकोद्दिष्टमुपक्रमेत् ।
आवर्तनसमीपे वा तत्रैव नियतात्मवान् ॥
समप्तिकालमाह श्लोकगौतमः–
आरभ्य कुतपे श्राद्धं कुर्यादारौहिणं बुधः ।
विधिज्ञो विधिमास्थाय रौहिणं तु न लङ्घयेत् ॥
एवं च कुतपरौहिणयोर्मुहूर्तयोरेकोद्दिष्टकालत्वात् तव्द्याप्त्यादिनैव निर्णयः ।
अत्रापि पूर्वेद्युरेव मध्याह्नव्याप्तिरपरेद्युरेव मध्याह्नव्याप्तिरित्यनयोः पक्षयोः–
मध्याह्नव्यापिनी या तु तिथिः पूर्वा परापि वा ।
तस्यां पितृभ्यो दातव्यं हासवृद्धी न कारणम् ॥
{म्व्-स्_२३०}
इति बौधायनवचनान्निर्णयः ।
दिनद्वये ऽपि मध्याह्नव्यापित्वे तत्स्पर्शाभावे वा पूर्वेद्युरेवानुष्ठानम् ।
दैवकार्ये तिथिर्ज्ञेया यस्यामभ्युदितो रविः ।
पितृकार्ये तिथिर्ज्ञेया यस्यामस्तमितो रविः ॥
इति वृद्धयाज्ञवल्क्यवचनादिपूर्वोदाहृतशिवरहस्यसौरपुराणादिवचनेभ्यः ।
दिनद्वये ऽपि साम्येनैकदेशव्याप्तौ पूर्ववदेव खर्वादिवाक्यान्निर्णयः ।
वैषम्येणैकदेशव्याप्तौ तु महत्त्ववशान्निर्णयः ।
दैविकः श्राद्धकाल उक्तो–
ब्रह्मपुराणे:
पूर्वाह्णे दैविकं श्राद्धमपराह्णे तु पार्वणम् ।
एकोद्दिष्टं तु मध्याह्ने प्रातर्वृद्धिनिमित्तकम् ॥
पूर्वाह्णस्तु–
आवर्तनातु पूर्वाह्णो ह्यपराह्णस्तथापरः ।
इत्युक्तः ।
तत्रापि–
प्रातःकाले तु न श्राद्धं प्रकुर्वीत द्विजोत्तमः ।
नैमित्तिकेषु श्राद्धेषु न कालनियमः स्मृतः ॥
इतिमाधवोदाहृताच्छिवराघवसंवादवाक्यात्प्रातः कालविहितवृद्धिश्राद्धातिरिक्तेषु श्राद्धेषु प्रातः कालस्य निषेधात्तदतिरिक्तपूर्वाह्णो दैविकश्राद्धकालः तद्व्याप्त्यैव पूर्ववन्निर्णयः ।
विशेषस्तु यदा वृद्धिक्षयादिभिर्दिनद्वये ऽपि तुल्यकाला कर्मकालव्याप्तिस्तदोत्तरैव ग्राह्या ।
उदिते दैवतं भानौ पित्र्ये चास्तमिते रवौ ।
द्विमुहूर्तं त्रिरह्नो वा सा तिथिर्हव्यकव्ययोः ॥
इति बौधायनवचनात् ।
खर्वादिवाक्यस्य चैतद्भिन्नपित्र्यविषयत्वात् ।
इतिसामान्यश्राद्धतिथिनिर्णयः ।
अथापराह्णदिलक्षणानि ।
स्कन्दपुराणे–
आवर्तनात्तु पूर्वाह्णो ऽप्यपराह्णस्ततः परः ।
इति ।
आवर्तनादित्यत्राङ्प्रश्लेषः कार्यः ।
आवर्तनं नाम दिनमध्यं तथा च आवर्तनावधिकः पूर्वो भागः पूर्वह्णस्तदवधिकः परो भागो ऽपराह्ण इत्यर्थः ।
इममेव विभागमभिप्रेत्य–
मनुराह, (अ। ३ श्लोक। २७८)
यथा चैवापरः पक्षः पूर्वपक्षाद्विशिष्यते ।
तथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिव्यते ॥
इति ।
अत्र माससमभागयोः पूर्वपक्षापरपक्षयोर्दृष्टान्तीकरणात्पूर्वार्धापरार्धरूपौ पूर्वाह्णापराह्णावह्नो भागौ प्रतीयेते ।
{म्व्-स्_२३१}
त्रेधाविभक्तस्याह्नस्त्रयो भागाः पूर्वाह्णमध्यन्दिनापराह्णाः श्रुतौ विनियुक्ताः ।
पूर्वाह्णो वै देवानां मध्यन्दिनो मनुष्याणामपराह्णः पितॄणां तस्मादपराह्णे ददातीति ।
अत्र विधेयापराह्ण्सय स्तुत्यर्थमुक्तस्य पूर्वाह्णमध्यन्दिनयोर्देवमनुष्यसम्बन्धस्य प्रमाणान्तराप्रतीतत्वात्पूर्वाह्णे देवेभ्यो ददाति मध्यन्दिने मनुष्येभ्य इति विधी कल्प्येते इति ।
स्कन्दपुराणे–
ऊर्ध्वं सूर्योदयात्प्रोक्तं मुहूर्तानां तु पञ्चकम् ।
पूर्वाह्णः प्रथमः प्रोक्तो मध्याह्नस्तु ततः परः ॥
अपराह्णस्ततः प्रोक्तो मुहूर्तानां तु पञ्चकम् ॥
शातातपो ऽपि–
तस्मादह्नस्तु पूर्वाह्णे देवा अशनमभ्यवहरन्ति ।
मध्यन्दिने मनुष्या अपराह्णे पितर इति ॥
चतुर्धा विभागमाह गोभिलः:
पूर्वाह्णः प्रहरं सार्द्धं मध्याह्नः प्रहरं तथा ।
आतृतीयादपराह्णः सायाह्नश्च ततः परः ॥
इति ।
पञ्चधा विभागद्योतिका शतपथश्रुतिः–आदित्यस्त्वेव सर्व ऋतवः स यदैवोदेत्यथ वसन्तो यथा
सङ्गवो ऽथ ग्रीष्मो यथा मध्यन्दिनो ऽथ वर्षा यदापराह्नो ऽथ शरद्यदैवास्तमेत्यथ हेमन्त इति ।
पञ्चदशमुहूर्तात्मकस्य दिवसस्य त्रिमुहूर्तपरिमित एको भागः ।
एवं पञ्च भागाः प्रातःसङ्गवमध्याह्नसायाह्नापराह्णसञ्ज्ञा भवन्ति ।
व्यासो ऽपि–
मूहूर्तत्रितयं प्रातस्तावानेव तु सङ्गवः ।
मध्याह्नस्त्रिमुहूर्तः स्यादपराह्णो ऽपि तादृशः ॥
सायाह्नस्त्रिमुहूर्तस्तु सर्वधर्मबहिष्कृतः ।
इति ।
पञ्चदशधा विभाग उक्तः ग्रभासखण्डे–
अह्नो मुहूर्ता विज्ञेया दश पञ्च च सर्वदां ।
इति ।
अह्नस्त्रिंशद्घटीपरिमितत्वे न्यूनाधिकत्वे वा मुहूर्ताः पञ्चदशैवेति सर्वदेत्यस्यार्थः ।
मुहूर्तानां क्रमेण नामानि–
रौद्रः श्वेतश्च मैत्रश्च तथा सारभटः स्मृतः ।
सावित्रो वैश्वदेवश्च गान्धर्वः कुतपस्तथा ॥
रोहिणस्तिलकश्चैव विभवो निकृतिस्तथा ।
{म्व्-स्_२३२}
शम्बरो विजयश्चैव भेदाः पञ्चदश स्मृताः ॥
इति ।
अष्टधा विभागादयस्तु तादृशव्यवहाराभावान्न निरूपिताः ।
अथैषामहर्भागानां परिमाणानि निरुप्यन्ते ।
तत्र प्रातःसङ्गवयोस्त्रिमुहूर्तपरिमितत्वमेव पूर्वाह्णस्तु द्विधाविभागे सार्धसप्तमुहूर्तपरिमितः, त्रिधा विभागे पञ्चमुहूर्तपरिमितः, चतुर्धाविभागे सार्धप्रहरपरिमितः ।
एवं त्रिविधः पूर्वाह्णः ।
मध्याह्नो ऽपि त्रिधाविभागे पञ्चमुहूर्तपरिमितश्चतुर्धाविभागे प्रहरप रिमितः पञ्चधाविभागे त्रिमुहूर्तपारमित इति त्रिविधः ।
अपराह्णो ऽपि द्विधाविभागे सार्धसप्तमुहूर्तपरिमितः, त्रिधाविभागे पञ्चमुहूतपरिमितः, चतुर्धाविभागे प्रहरार्धपरिमितः, पञ्चधाविभागे त्रिमुहूर्तपरिमित इति चतुर्विधो ऽपराह्णः ।
सायाह्नश्च चतुर्धाविभागे प्रहरपरिमितः, पञ्चधाविभागे त्रिमुहूर्तपरिमित इति द्विविधः सायाह्नः ।
एते च पूर्वाह्णादयस्तु तत्तत्कर्मसु यथाविनियोजकं यथालाभं ग्राह्या यवब्रीह्यादिवत् ।
यद्वा"आवर्तनात्तु पूर्वाह्ण"इत्यादिवाक्यैस्सार्धस्पतमुहूर्तात्मकस्य कालस्य पूर्वाह्णत्वे बोधिते तदन्तर्गतसार्धप्रहराद्यात्मकस्याल्पपरिमाणस्य तदन्तर्गतत्वात्पूर्वाह्वत्वप्राप्तौ"पूर्वाह्णः प्रहरं सार्धम्"इत्यादिवचनानां वैयर्थ्यापत्तेरधिकाधिकपरिमाणपूर्वाह्णाद्यपेक्षयाल्पाल्पपरिमाणपूर्वाह्णादेस्तरतमभावः कल्पनीय इति हेमाद्रिः ।
अथ कुतपकालः ।
स्कन्दवायुपुराणयोः:
कुं यत्र गोपतिर्गोभिः कार्त्स्न्येन तपति क्षणे ।
स कालः कुतपो ज्ञेयस्तत्र दत्तं महाफलम् ॥
कुं = पृथिवीम् ।
गोपतिः = सूर्यः ।
गोभिः = किरणैः ।
सर्वपृथिवीतापकत्वं खमध्यगतस्य सूर्यस्य भवतीति तदुपलक्षितः कालः कुतपशब्देनोच्यत इत्यर्थः ।
स चाह्नो ऽष्टमो मुहूर्तः ।
तदुक्तम्–
वायुपुराणे:
मुहूर्तात्सप्तमादूर्ध्वं मुहूर्तान्नवमादधः ।
स कालः कुतपो ज्ञेयः पितॄणां दत्तमक्षयम् ॥
कालिकापुराणे–
ब्राह्मणः कम्बलो गावो रूप्याग्न्यतिथयो ऽपि च ।
तिला दर्भाश्च मध्याह्नो नवैते कुपाः स्मृताः ॥
{म्व्-स्_२३३}
प्रभासखण्डे ऽपि–
मध्याह्नः खड्गपात्रं च तथा नेपालकम्बलः ।
रूप्यं दर्भास्तिला गावो दौहित्रश्चाष्टमः स्मृतः ॥
पापं कुत्सितमित्याहुस्तस्य सन्तापकारिणः ।
अष्टावेते यतस्तस्मात्कुतपा इति विश्रुताः ॥
इति कुतपः ।
अथ श्राद्धवेला ।
तत्र निषेधमुखेन तावत्सा निरूप्यते ।
मनुः– (अ। ३ श्लो। २८०)
रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्त्तिता हि सा ।
सन्ध्ययोरुभयोश्चैव सूर्ये चैवाचिरोदिते ॥
इति ।
अत्र सन्ध्याशब्देन–
उदयात्प्राक्तनी सन्ध्या घटिकात्रयमिष्यते ।
सायंसन्ध्या त्रिघटिका ह्यस्तादुपरि भास्वतः ॥
इति परिभाषिता सन्ध्या न गृह्यते ।
किन्तु मुख्यैव रविमण्डलोपलम्भयोग्यकालरूपा ।
परिभाषिताया रात्रिनिषेधेनैव सिद्धेः ।
मत्स्यपुराणे–
सायाह्नस्त्रिमुहूर्तः स्याच्छ्राद्धं तत्र न कारयेत् ।
बौधायनः–
चतुर्थे प्रहरे प्राप्ते श्राद्धं तत्र न कारयेत् ।
एते च न निषेधा विकल्पप्रसङ्गात् ।
न च"दीक्षितो न ददाति"इतिवद्विकल्पपरिहारः ।
विधिनिषेधयोरुभयोरपि प्रकरणाच्छ्राद्धार्थत्वेन भिन्नविषयत्वात् ।
तेनैते पर्युदासा एव ।
यत्त्वत्र शूलपाण्यादिभिरुक्तं न विकल्पभिया पर्युदासाङ्गीकरणं विधिनिषेधयोः सामान्यविशेषरूपत्वेन तुल्यबलत्वाभावात् तदप्रसक्तेः, किन्तु एकवाक्यतालाघवात् इति ।
तत्तु आकराज्ञानप्रयुक्तम् ।
अन्यथा"न तौ पशौ करोति"इत्यत्रापि विकल्पाभावप्रसङ्गाच्च ।
तस्मादुक्तविधयैव पर्युदासत्वम् ।
एतेषां च पर्युदासत्वम् अमावास्याविधिशेषतया रात्र्यादीतरामावास्यायामि ति शूलपाणिः ।
तदयुक्तम् ।
रात्र्यादिभागानां सावनदिनावयवत्वेन अमावास्याशब्दवाच्यचान्द्रतिथ्यवयवत्वाभावेनेदृशपर्युदासानुपपत्तेः ।
तेन रात्र्याद्यतिरिक्तसावनदिनभागे इति सावनदिनसङ्कोचेनैव पर्युदासत्वम् ।
न च सावनदिनविध्यभावात्कथं तच्छेषत्वेन पर्युदासत्वम् ।
अमावास्यादिविधीनामेव सावनदिनविधायकत्वात् ।
ते हि अहोरात्रं विना कर्मकरणाशक्तेस्तद्वदहोरात्रपरा भवन्ति ।
{म्व्-स्_२३४}
यथा वसन्तादेर्निमित्तत्त्वश्रवणम् अजीवतो ऽनुष्ठानासम्भवाद्वसन्ताद्यवच्छिन्नजविनपरं भवति ।
अत एवाद्येत्यादिसङ्कल्पवाक्ये सावनदिनस्याधिकरणत्वेनोल्लेखः शिष्टानाम् ।
पुराणेष्वपि च"अद्य जन्माष्टमीं प्राप्य"इति सह्कल्पवाक्यं सावनदिनस्य विधिं सूचयति ।
तेन सावनदिनसङ्कोचेनैव पर्युदासः ।
ननु पर्युदासस्यापि पर्युदसनीयप्राप्तिसापेक्षत्वात्सर्वश्राद्धेषु च पूर्वाह्णापराह्णादितत्तद्वेलानां नियतत्वेन रात्र्यादिप्राप्त्यभावात्कथमेते पर्युदासा इति चेत्,
प्रातःसन्ध्यातत्समीपपर्युदासस्तावत्प्रातर्वृद्धिनिमित्तकवचनप्राप्तपुत्रजन्मातिरिक्तवृद्धिश्राद्धविषयः ।
समीपमपि चात्र मुहूर्तमात्र"सूर्योदयमुहूर्ते च"इति शातातपवचनात् ।
सायंसन्ध्या तत्समीपसायाह्नादिपर्युदासाश्च पार्वणश्राद्धविषयाः ।
तथा श्राद्धस्य पूर्वाह्नादपराह्णो विशिष्यते ।
वासरस्य तृतीये ऽंशे–
इत्यादिवचनैर्द्वेधात्रेधाविभागान्तर्गतापराह्णस्य रात्रिपर्यन्तस्य तत्र विहितत्वात् ।
चतुर्थप्रहरसायाह्नदिवसाष्टमभागान्त्यमुहूर्तानां च तारतम्येन वर्ज्यत्वं द्रष्टव्यम् ।
रात्रिपर्युदासस्य तु ग्रहणपुत्रजन्मादिनिमित्त श्राद्धविषयत्वम् ।
तेषां–
राहुदर्शनसङ्क्रान्तिविवाहात्ययवृद्धिषु ।
स्नानदानादिकं कुर्युंर्निशि काम्यव्रतेषु च ॥
इत्यादिदेवलादिवाक्यै रात्रौ प्राप्तत्वात् ।
दर्शप्रकरणगतस्यापि च निषेधस्य प्रकरणे निवेशाम्भवादुत्कर्ष इति केचित् ।
अन्ये तु विधिपर्युदासयोरेकग्रहणादिविषयत्वेन तुल्यबलत्वाद्विकल्पापत्तेस्तीर्थश्राद्धविषयत्वं रात्रिपर्युदासस्य ।
तद्धि प्रकृतिप्राप्तस्यापराह्णस्य औपिदेशिकेन निमित्तानन्तर्येण बाधाद्रात्रावपि सामान्यतः प्राप्नोति न तु ग्रहणादिवत्तत्पुरस्कारेम विधिरस्तीति तत्र विकल्पप्रसत्त्यभावात्स एव रात्रिपर्युदासस्य विषयः ।
यत्तु–
अकाले ऽप्यथवा काले तीर्थश्राद्धं च तर्पणम् ।
इत्यादिवचनं तदपि वाशब्दोपनिबन्धाद्वचनान्तरपर्युदस्तपरात्रेरन्यत्र प्राप्तप्रातस्सायाह्नादिगौणकालस्यापि मुख्यत्वद्योतनार्थं न पुना रात्रावपि तत्कर्तव्यतापरमित्याहुः ।
अपरे तु प्रकरणाबाधे सम्भवति तद्वाधस्यायोगात्प्रकृतावेव दैवान्मानुषाद्वा प्रतिबन्धादसमाप्ते श्राद्धे यदि रविरस्तमियात्तदा प्रारब्धत्वाद्रात्रावपि तत्समापने प्रसक्ते न नक्तं श्राद्धं कुर्वीतेति पर्युदासः ।
तथा च सामिकृतमेव स्थापयित्वा परेद्युः कृत्वातत्समापनीयं यजमानेनापि च तदुत्तरमेव भोक्तव्यम् ।
{म्व्-स्_२३५}
अत एव"प्रारब्धे वा योजनमापरिसमापनात्"इत्यापस्तम्बसूत्रम् अध्येतृभाष्यानुगतमित्याहुः ।
वस्तुतस्तु अपराह्णादिविधयो न नियमार्थाः किन्तु प्राशस्त्यातिशयार्थाः ।
दर्शश्राद्धं तु यत्प्रोक्तं पार्वणं तत्प्रकीर्त्तितम् ।
अपराह्णे पितॄणां तु तत्र दानं प्रशस्यते ॥
इत्यादि शातातपादिवचनेभ्यस्तथैवावगमात् ।
अतश्च तेषामनियतत्वात्तत्र सर्वबेलानां प्रसक्तौ युक्ते रात्रिपर्युदासः ।
तेन रात्रिसन्ध्याद्वयतदन्तिकप्रातःसायाह्नव्यतिरिक्ततदन्तरालवर्त्तिमुहूर्तवनकमपि अनैमित्तिकश्राद्धानां काल इति सिद्धम् ।
तन्मध्ये ऽपि कुतपादिमुहूर्तपञ्चकं पार्वणे ऽतिप्रशस्तम् ।
ऊर्ध्वं मुहूर्तात्कुतपाद्यन्मुहूर्तचतुष्टम ।
मुहूर्तपञ्चकं वापि स्वधाभवनमिष्यते ॥
इति शातातपवचनान्त् ।
एकोद्दिष्टे च माध्याह्नः शस्तः ।
स चात्र गान्धर्वं हित्वा कुतपरोहिणात्मकमुहूर्तद्वयमेव ।
प्रारभ्य कुतपे श्राद्धं कुर्यादारौहिणं बुधः ।
विधिज्ञो विधिमास्थाय रौहिणं तु न लङ्घयेत् ॥
इति गौतमवचनात् ।
सायाह्नस्य च निषिद्धस्यापि–
स्वकालातिक्रमे कुर्याद्रात्रेः पूर्वं तयावधिः ।
इतिव्यासवचनेन पुनर्विधानात् गौणत्वम् ।
तत्रापि आद्यद्वितीयतृतीयमुहूर्तानां गौणगौणतरगौणतमता ।
दिनाष्टमभागान्त्यमुहूर्तयोः पुनर्निषेधात् न तु सर्वथा विहितत्वमेव रात्रिप्रातः कालवत् ।
तयोः सायाह्नवत् पार्वणैकोद्दिष्टविषये पुनर्विधानाभावात् ।
न चाद्यमुहूर्तस्यपुनर्निषेधात्तच्छेषभागस्य गौणतयाभ्यनुज्ञा गम्यत इति वाच्यम् ।
तस्य सामर्थ्याद्वृद्धिश्राद्धस्योक्तत्वात् ।
सङ्गवस्तु न निषिध्धो नापि प्रशस्तः ।
भवतु वा एकोदिष्टवृद्ध्यादिषु मध्याह्नप्रातरादिश्रुतिर्नियमार्था अपराह्णश्रुतिस्तु पार्वणे पूर्वोदाहृतवाक्यैः प्राशस्त्यातिशयार्थैव ।
अतश्च युक्तो रात्र्यादिपर्युदासः ।
अत्र च पार्वणस्यापराह्णकालत्वे ऽपि प्रारम्भः कुतप एव ।
अह्नो मुहूर्ता विज्ञेया दश पञ्च च सर्वदा ।
तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः ॥
मध्याह्ने सर्वदा यस्मान्मन्दीभवति भास्करः ।
तस्मादनन्तफलदस्तत्रारम्भो विशिष्यते ॥
{म्व्-स्_२३६}
इति मत्स्यपुराणात् ।
न चेदं वचनमेकोद्दिष्टविषयम् ।
तद्विषयत्वे प्रारम्भग्रहणस्य वैयर्थ्यापत्तेः ।
एतस्यापि च विकृतिभूते पार्वणे व्यवस्था स्मर्यते मार्कण्डेयेन–
शुक्लपक्षस्य पूर्वाह्णे श्राद्धं कुर्याद्विचक्षणः ।
कृष्णपक्षापराह्णे तु रौहिणं तु न लङ्घयेत् ॥
इति ।
शूलपाण्यादिभिस्तु वापुपुराणत्वेनेदं वचनं लिखितम् ।
इदं हि वचनं शुक्लपक्षसम्बन्धिनां युगमन्वादिसांवत्सरिकादीनां सर्वेषा सर्वस्य प्रयोगस्य पूर्वाह्णकालत्वं कृष्णपक्षसम्बन्धिनां चापराह्णकालत्वं न विदधाति ।
एकत्रापराह्णादेर्बाधप्रसङ्गात् अपरत्र च प्राप्तत्वात् ।
नच कृष्णपक्षांशे ऽनुवादः शुक्लपक्षाम्श एव तु प्रकृतिप्राप्तापराह्णबाधेनैव पूर्वाह्णविधिरिति वाच्यम् ।
अबाधेनोपपत्तौ तस्याप्यन्याय्यत्वात् ।
तेन द्वेधाविभक्तपूर्वाह्णान्तर्गतस्य कुतपपूर्वभागस्य तादृशापराह्णान्तर्गतस्य च तदुत्तरभागस्य पक्षभेदेनोपक्रमकालत्वव्यवस्थापनमेवानेन वाक्येन क्रियत इति सिद्धम् ।
एतेनैवैतद्वचनसिद्धमेवार्थं युगादिषु प्रतिपादयत्–
द्वे शुक्ले द्वे तथा कृष्णे युगादी कवयो विदुः ।
शुक्ल पौर्वाह्णिके ग्राह्ये कृष्णे चैवापरह्णिके ॥
इति स्मत्यन्तरवचनं व्याख्यातम् ।
अन्ये तु यथाश्रुतान्येव वचनान्येतानि व्याचक्षते ।
तदेवं पार्वणैकोद्दिष्टबेला ।
देवश्राद्धादौ तु"पूर्वाह्णे दैविकं श्राद्धं"इत्यादिवचनात्पूर्वाह्नो ग्राह्यः ।
देवश्राद्धं च–
देवानुद्दिश्य यच्छ्राद्धं तद्दैविकमुच्यते ।
इत्यादिना विश्वामित्रोक्तम् ।
पूर्वाह्णशब्देनात्र सङ्गवो गृह्यते ।
प्रातः–कालनिषेधस्यात्रापि प्रवृत्तौ बाधकाभावात् ।
एवमामश्राद्धं तु पूर्वाह्ने इत्यत्रापि स एव ।
कालात्प्रातस्तनादूर्ध्वं त्रिमुहूर्ता तु या तिथिः ।
आमश्राद्धं तत्र कुर्याद्द्विमुहूर्तापि वा तिथिः ॥
इति व्याघ्रपादवचनात् ।
अयं चामश्राद्धे पूर्वाह्नविधिर्द्विजातिकर्त्तृकामश्राद्ध एव न तु शूद्रकर्त्तृकामश्राद्धे ऽपि ।
द्विजातिकर्त्तृके ऽह्नि प्रयोगे आमस्यानियतत्वाच्छ्रद्रकर्त्तृकप्रयोगे च
नियतत्वादुभयत्र पूर्वाह्णविधौ नित्यानित्यसंयोगविरोधापत्तेः ।
एवञ्च–
मध्याह्वात्परतो यस्तु कुतपः समुदाहृतः ।
आममात्रेण तत्रापि पितॄणां दत्तमश्रयम् ॥
इति शातातपवचनस्यापि सविषयकत्वं भवेदिति हेमाद्रिः ।
तन्न ।
{म्व्-स्_२३७}
नित्यसंयोगविरोधो हि फलचमसाधिकरणन्यायेन (अ। ३ पा। ५ अधि। १८) वा स्यात् संस्थाधिकरणन्यायेन वा ।
(अ। ८ पा। ३ अदि। ४) नाद्यः, पूर्वाह्णादिकालस्याभिषवादिवदामादिद्रव्यधर्मत्वाभावात् ।
न द्वितीयः, आमश्राद्धस्यान्नश्राद्धापेक्षया भिन्नत्वात् ।
वचनं तु यदि साकरं तदा सर्वत्रामश्राद्धे पूर्वाह्णविकल्पितं कालान्तरं विधत्तां न तु शूद्रामश्राद्धे कश्चिद्विशेषः ।
तेन शूद्रेणापि पूर्वाह्ण एवामश्राद्धं कार्यम् ।
एवं"प्रातर्वृद्धिनिमित्तकं"इति वचनात्पुत्रजन्मातिरिक्तनान्दीश्राद्धस्य प्रातः कर्तव्यता ।
पुत्रजन्मनि तु निमित्तस्वाभाव्यात्तदनन्तरकालस्यैव मुख्यत्वम् ।
अत्र च प्रातःकालः पञ्चधाविभागेन पक्षान्तरेषु प्रातर्विभागाभावात् ।
यस्तु त्रेधाचतुर्धाविभक्तदिनाद्यभागयोरपि क्वचित्प्रातःशब्दप्रयोगः स गौण इत्युक्तं पर्वनिर्णये ।
इति श्राद्धवेला ।
अथ पिण्डदाननिषिद्धकालाः ।
तत्र पुलस्त्यः–
अयनद्वितये श्राद्धं विषुवद्वितये तथा ।
युगादिषु च सर्वासु पिण्डनिर्वपणादृते ॥
मत्स्यपुराणे–
सङ्क्रान्तिषु च कर्तव्यं पिण्डनिर्वापणादृते ।
अत्र सङ्कान्तिग्रहणेनैवायनादिलाभे पुनस्तद्ग्रहणं दोषातिशयार्थमिति हेमाद्रिः ।
अन्ये तु भ्रान्तिप्राप्तनिषेधमाहुः ।
वस्तुतस्तु ऋषिभेदान्निषेधोपपत्तिः ।
वाचस्पतिनोक्तम्–
ततः प्रभृति सङ्क्रान्तावुपरागादिपर्वसु ।
त्रिपिण्डजमाचरेच्छ्राद्धमेकोद्दिष्टं मृताहनि ॥
इतिमत्स्यपुराणवचनात्सङ्क्रान्त्यादावपि त्रिपिण्डं श्राद्धं कार्यम् ।
न चोक्तवचने निषेधानुपपत्तिः तस्य समूलत्वे विकल्पेनोपपत्तेरिति, तन्न ।
त्रिपिण्डपदस्य पार्वणपरत्वात् ।
अन्यथा पिण्डानुवादेन त्रित्वविधाने प्रसरभङ्गापत्तेः ।
नच त्रिपिण्डपदेन पिण्डमात्रविधानं त्रित्वं तु अवयुत्यानुवाद इति वाच्यम् ।
भवन्मते निषेधवाक्यस्य निर्मूलत्वेन पिण्डदानरूपप्राकृताङ्गस्य पुनार्विधाने पूर्वत्वापत्तेः ।
पिण्डदानस्य प्राधान्यपक्षे तु तस्य श्राद्धपदेनैव सिद्धेः पुनर्विधाने
ब्राह्मणभोजनरूपप्रधानान्तरपरिसङ्खयापत्तेः ।
न च निषेधस्य समूलत्वाङ्गीकारेणैव पाक्षिकत्वोपपादनार्थं पिण्डदानविधिरिति वाच्यम् ।
{म्व्-स्_२३८}
त्रिपिण्डपदस्य प्रकृतिप्राप्तपार्वणानुवादकत्वेनैकोद्दिष्टविधिशेषत्वोपपत्तौ वाक्यभेदविकल्पयोरन्याय्यत्वात् ।
ब्रह्मपुराणे मत्स्यपुराणीयश्लोकं पठित्वा–
यदा च श्रोत्रियो ऽभ्यति गृहं वेदविदग्निचित् ।
इति ।
मघायुक्तां भाद्रपदापरपक्षत्रयोदशीम् ।
प्रकृत्य देवीपुराणम्–
तत्रापि महती पूजा कर्तव्या पितृदैवते ।
तत्र पिण्डप्रदानं तु ज्येष्ठपुत्री विवर्जयेत् ॥
पूजा = श्राद्धलक्षणा ।
पितृदैवतं = मघा ।
बृहत्पराशरः–
भरणीषु च कुर्वीत पिण्डनिर्वपणं न हि ।
अयं च भरणीप्रयुक्तश्राद्धे पिण्डदाननिषेधः ।
तस्या अपि महालयान्तर्गतायाः श्राद्धकालत्वस्य–
भरणी पितृपक्षे तु महती परिकीर्तिता ।
अस्यां श्राद्धं कृतं येन स गयाश्राद्धकृद्भवेत् ॥
इति मत्स्यपुराणे उक्तत्वात् ।
तथा स्मृत्यन्तरे–
गण्डवैधृतिपाते च पिण्डास्त्याज्याः सुतेप्सुभिः ।
अत्रापि तत्तत्प्रयुक्तश्राद्ध एव निषेधः ।
यानि तु–
भानौ भौमे त्रयोदश्या नन्दाभृगुमघासु च ।
पिण्डदानं मृदा स्नानं न कुर्यात्तिलतर्पणम् ॥
तथा–
नन्दाश्वकामरव्यारभृग्वग्निपितृकालभे ।
इत्यादीनि प्रयोगपारिजातोदाहृतवाक्यानि तानि महालयापरपक्षविहितसकृदादिपक्षषे ।
यानि–
नन्दायां भार्गवदिने त्रयोदश्यां त्रिजन्मसु ।
रेवत्यां च मघायां च कुर्यान्नापरपाक्षिकम् ॥
इत्यादीनि श्राद्धनिषेधकानि वचनानि तदेकवाक्यतया श्राद्धनिषेधकानि व्याख्येयानीति केचित् ।
वस्तुतस्तु हेमाद्रौ तिथौ वारे च श्राद्धस्य बिहितत्वात्तत्प्रयुक्तश्राद्ध एव पिण्डदाननिषेधः ।
अत एव पठन्ति ।
तिथिवारप्रयुक्तो यो दोषो वै समुदाहृतः ।
स श्राद्धे तन्निमित्ते स्यान्नान्यश्राद्धे कदाचन ॥
इति ।
स्मृतिरत्नाबल्यां–
पुत्रे जाते व्यतीपाते ग्रहणे चन्द्रसूर्ययोः ।
श्राद्धं कुर्यात्प्रयत्नेन पिण्डनिर्वपणादृते ॥
{म्व्-स्_२३९}
एवञ्च–
मकरे वर्तमाने तु ग्रहणे चन्द्रसूर्ययोः ।
दुर्लभं त्रिषु लोकेषु गङ्गायां पिण्डपातनम् ॥
इति हेमाद्रिधृतब्रह्मवैवर्तवचनं तद्गङ्गायां ग्रहणविषयम् ।
कार्ष्णाजिनिः–
विवाहव्रतचूडासु वर्षमर्द्धं तदर्द्धकम् ।
पिण्डदानं मृदा स्नानं न कुर्यात्तिलतर्पणम ॥
वृद्धिमात्रे तथान्यत्र पिण्डदाननिराक्रिया ।
कृता गर्गादिभिर्मुख्यैर्मासमेकं तु कर्मिणाम् ॥
इदं च सपिण्डानामपि ।
तथा च–
ज्योतिःपराशरः–
विवाहे विहिते मासांस्त्यजेयुर्द्वादशैव हि ।
सपिण्डाः पिण्डनिर्वापे मौञ्जीबन्धे षडेव हि ॥
अस्यापवादस्तत्रैव–
महालये गयाश्राद्धे मातापित्रोः क्षये ऽहनि ।
यस्य कस्यापि मर्त्त्यस्य सपिण्डीकरणे तथा ॥
कृतोद्वाहो ऽपि कुर्वीत पिण्डनिर्वपण सदा ।
ननु उक्तेषु वाक्येषु न पिण्डदाननिषेधसम्भवः ।
किमयं प्रतिषेधो वा स्यात्पर्युदासो वा ।
नाद्यः ।
शास्त्रप्राप्तस्य पिण्डदानस्य निषेधे"नतौ पशौ करोति"इति वद्विकल्पापत्तेः ।
न द्वितीयः ।
तत्तच्छ्राद्धविध्येकवाक्यत्वाभावात् ।
अत्र हि अनेकानि श्राद्धानि एकस्मिन् वाक्ये उपादाय पिण्डदाननिषेधः शृयमाणो न तत्तच्छ्राद्धप्रकरणे पठित इति वक्तुं शक्यते ।
अतश्च यथैव"न तौ पशौ करोति"इत्यत्राङ्गविधेरसन्निधानात्पर्युदासासम्भवस्तथैवात्र स्मृत्यन्तरविहिततत्तच्छ्राद्धविधीनामसन्निधानान्न पर्युदाससम्भवः ।
अतः कथमुक्तश्राद्धेषु पिण्डदाननिवृत्तिरिति चेत्, न ।
अयनद्वितये श्राद्धं विषुवद्वितये तथा ।
इत्यादिवाक्येषु स्मृत्यन्तरविहितश्राद्धानुवादेन न पिण्डदानं पर्युदत्यते येनोक्तदोषावकाशः स्यात् किन्तु अपूर्वकर्मोत्पत्तिः क्रियते ।
स्मृत्यन्तरत्वाच्च न विहितस्य विधानं दोषाय ।
{म्व्-स्_२४०}
तेन पिण्डनिवर्पणादृत इत्यस्य स्ववाक्यविहिततत्तच्थ्राद्धविध्येकवाक्यत्वसम्भवात्पर्युदासत्वोपपत्तेर्युक्तैव पिण्डदाननिवृतिः ।
इति पिण्डदाननिषेधकालः ।
इति श्रीमत्सकलसामन्तचक्रचूडामणिमरीचिमञ्जरीनीराजित चरणकमलश्रीमन्महाराजाधिराजप्रतापरुद्रतनूजश्रीमहाराजमधुकरसाहसूनु-
चतुरुदधिवलयवसुन्धराहृदयपुण्डरीकविकासदिनकरश्रीवीरसिंहदेवोद्योजितश्रीहंसपण्डितात्मजश्रीपरशुराममिश्रसूनु सकलविद्यापारावारपारीणधुरीणजगद्दारिद्षमहागजपारीन्द्रविद्वज्जनजीवात्- श्रीमन्मित्रमिश्रकृते वीरमित्रोदयाभिधनिबन्धे समयप्रकाशे श्राद्धकालनिर्णयः ।
अथ प्रकीर्णककालाः ।
तत्र वैशाखस्नानकालः–
मधुमासस्य शुक्लायामेकादश्यामुपोषितः ।
पञ्चदश्यां च भो वीर! मेषसङ्क्रमणे तु वा ॥
वैशाखस्नाननियमं ब्राह्मणानामनुज्ञया ।
मधुसूदनमभ्यर्च्य कुर्यात्सङ्कल्पपूर्वकम् ॥
इति पाद्मे ।
कार्त्तिकश्च–
प्रारभ्यैकादशीं शुक्लामाश्विनस्य तु मानवः ।
प्रातः स्नानं प्रकुर्वीत–
इति विष्णुरहस्ये ।
पूर्ण आश्वयुजे मासि पौर्णमास्यां समाहितः ।
मासं समग्रं परया भत्त्या स्नायीत कार्त्तिके ॥
इत्यादित्यपुराणे ।
इदं चानुदिते ।
कार्त्तिके बिन्दुतीर्थे यो ब्रह्मचर्यपरायणः ।
स्नास्यत्यनुदिते भानौ भानुजातस्य भीः कुतः ॥
इति स्कान्दोक्तेः ।
माघे ऽपि विष्णुः:
तुलामकरमेषेषु प्रातःस्नायी भवेन्नरः ।
{म्व्-स्_२४१}
ब्राह्मे–
एकादश्यां शुक्लपक्षे पौषमासे समारभेत् ।
द्वादश्यां पौर्णमास्यां वा शुक्लपक्षे समापनम् ॥
विष्णुः–
दर्शं वा पौर्णमासीं वा प्रारभ्य स्नानमाचरेत् ।
इदं चाभ्युदिते रवौ ।
“किञ्चिदभ्युदिते रवौ"इति पाद्मोक्तेः ।
बाह्ने तु–
अरुणोदयमारभ्य प्रातःकालावधि प्रभो! ।
माघस्नानवतां पुण्यं क्रमात्तत्र च धारणा ॥
इति ।
अथ प्रतिपत्प्रभृतिपुण्यतिथयः ।
तत्र प्रतिपत् पाद्मे–
चैत्रे मासि महाबाहो! पुण्या प्रतिपदा पुरा ।
तस्यां यस्तपनं दृष्ट्वा स्नानं कुर्यान्नरोत्तमः ॥
न तस्य दुरितं किञ्चिन्नाधयो व्याधयो नृप! ।
पुत्रस्तत्रैव–
एतास्तिस्रः पुरा प्रोक्तास्तिथयः कुरुनन्दन! ।
कार्त्तिकाश्वयुजे मासि चैत्रे वापि तथा नृप! ॥
इति ।
एता इति पूर्वोक्ताः प्रतिपदः ।
इति प्रतिपत् ।
अथ द्वितीया ।
स्कन्दपुराणे–
आश्विने मासि वै पूण्या द्वितीया शुक्लपक्षगा ।
दानं प्रदत्तमेतस्यामनन्तफलमुच्यते ॥
लिङ्गपुराणे–
वृश्चिके च द्वितीयायां शुक्लायां प्रतिपूजनम् ।
इति ।
इति द्वितीया ।
अथ तृतीया ।
चैत्रमासं प्रक्रम्य पद्मपुराणे–
तृतीयायां यजेहेवीं शङ्करेण समन्विताम् ।
गन्धपुष्पधूपदीपैर्दमनेन सुमालिना ॥
वैशाखमासे यत्पुण्या तृतीया शुक्लपक्षजा ।
अनन्तफलदा ज्ञेया स्नानदानादिकर्मसु ॥
भविष्योत्तरे–
गुडापूपाश्च दातब्या मासि भाद्रपदे तथा ।
तृतीयायां पायसं च वामदेवस्य तृप्तये ।
{म्व्-स्_२४२}
माघे मासि तृतीयां गुडस्य लवणस्य च ।
दानं श्रेयस्करं राजन्! स्त्रीणां च पुरुषस्य च ॥
इति तृतीया ।
अथ चतुर्थी ।
भविष्यपुराणे–
शिवा शान्ता सुखा राजन्! चतुर्थी त्रिविधा मता ।
मासि भाद्रपदे शुक्ला शिवा लोकेषु पूजिता ॥
मासि माघे तथा शुक्ला या चतुर्थी महीपते! ।
ज्ञेया सा शान्तिदा नित्यं शान्तिं कुर्यात्सदैव तु ॥
यदा शुक्लचतुर्थ्यां तु वारो भौमस्य वै भवेत् ।
तदा सा सुखदा ज्ञेया सुखानामेति कीर्त्तिता ॥
इति चतुर्थी ।
अथ पञ्चमी ।
भविष्यपुराणे–
शुक्लायामथ पञ्चम्यां चैत्रे मासि शुभानना ।
श्रीर्विष्णुलोकान्मानुष्यं सम्प्राप्ता केशवाज्ञयो ॥
तस्मात्तां पूजयेत्तत्र यस्तां लक्ष्मीर्न मुञ्चति ।
तथा–
पुण्या भाद्रपदे प्रोक्ता पञ्चमी नागपञ्चमी ।
स्कन्दपुराणे–
शुक्ला मार्गशिरे पुण्या श्रावणे या च पञ्चमी ।
स्नानदानैर्बहुफला नागलोकप्रदायिनी ॥
अथ षष्ठी ।
भविष्यपुराणे–
येयं भाद्रपदे मासि षष्ठी तु भरतर्षभ! ।
स्नानदानादिकं सर्वमस्यामक्षयमुच्यते ॥
तथा–
येयं भाद्रपदे मासि षष्ठी स्याद्भरतर्षभ! ।
यो ऽस्यां पंश्र्यति गाङ्गेयं दक्षिणापथवासिनम् ॥
ब्रह्महत्यादिपापैस्तु मुच्यते नात्र संशयः ।
तथा–
या षष्ठी शुक्लपक्षस्य मार्गशीर्षे हरिप्रिया ।
महाषष्ठी तु सा ख्याता-इति ।
इति षष्ठी ।
{म्व्-स्_२४३}
अथ सप्तमी ।
भविष्यपुराणे–
मासि भाद्रपदे शुक्ला सप्तमी या गणाधिप! ।
अपराजितेति विख्याता महापातकनाशिनी ॥
या तु मार्गशिरे मासि शुक्लपक्षे तु सप्तमी ।
तदा सा कथिता वीर! सर्वानन्दकरी शुभा ॥
स्नानदानादिकर्माणि यस्यामक्षयमश्नुते ।
तथा–
नन्दा मार्गशिरे शुक्ला सप्तम्यानन्ददायिनी ।
जयन्तीनाम सा प्रोक्ता महापापापहा तिथिः ॥
विष्णुः–
सूर्यग्रहणतुल्या तु शुक्ला माघस्य सप्तमी ।
इति सप्तमी ।
अष्टम्यश्च जयन्त्यष्टकादुर्गाष्टमीरूपास्तत्र तत्रोक्ताः ।
इत्यष्टमी ।
अथ नवमी ।
देवीपुराणे–
आश्विनस्य तु मासस्य नवमी शुक्लपक्षगा ॥
जायते कोटिगुणितं दानं तस्यां नराधिप! ।
शुक्लपक्षे नवम्यां तु कार्तिकस्य समाहितः ।
स्नायाद्दद्यान्नमस्कुर्यादक्षयं लभते फलम् ॥
इति नंवमी ।
अथ दशमी ।
ज्येष्ठस्य शुक्लदशमी संवत्सरमुखी स्मृता ।
तस्यां स्नानं प्रकुर्वीत दानं चैव विशेषतः ॥
ब्रह्माण्डपुराणे–
कार्तिकस्य तु मासस्य दशमी शुक्लपक्षगा ।
तस्यां व्रतादि कुर्वाणो लभते वाञ्छितं फलम् ॥
एकादशी द्वादशी च ।
वाराहपुराणे–
एकादश्यामुपवसेत्पक्षयोरुभयोरपि ।
द्वादश्यां यो ऽर्चयेद्विष्णुमनन्तफलभाग्भवेत् ॥
अथ त्रयोदशी ।
स्कान्दे–
चैत्रे त्रयोदशी पुण्या तस्यां दशगुणं फलम् ।
{म्व्-स्_२४४}
अथ चतुर्दशी ।
स्कान्दे–
चैत्रे चतुर्दशी शुक्ला श्रावणप्रोष्ठपादयोः ।
माघस्य कृष्णपक्षे यो दाने बहुफला हि सा ॥
इति चतुर्दशी ।
अथ पौर्णमासी ।
विष्णुधर्मोत्तरे–
वैशाखी कार्त्तिकी माघी पौर्णमासी महाफला ।
इति ।
अथ नक्षत्रवारादिवशात्पुण्यास्तिथय उच्यन्ते ।
श्रवणेन समायुक्ता तृतीया या विशेषतः ।
बुधश्रवणसंयुक्ता तृतीया यदि लभ्यते ॥
तस्यां स्नानोपवासादि अननत्फलदं भवेत् ।
भविष्योत्तरे माघशुक्लतृतीयां प्रकृत्य–
श्रवणेन समायोगात् कुरुक्षेत्रसमा स्मृता ॥
विशेषाद्बुधसंयुक्ता तृतीया तु विशेषतः ।
यमः–
चतुर्थ्यां भरणीयोगे शनैश्चरदिनं यदि ।
तदाभ्यर्च्य यमं देवं मुच्यते सर्वकिल्विषैः ॥
मविष्यपुराणे–
शुक्लपक्षस्य सप्तम्यां भानुवारो भवेद्यदि ।
सप्तमी विजयानाम तत्र दत्तं महाफलम् ॥
तथा–
शुक्लपक्षस्य सप्तम्यां नक्षत्रं पञ्चतारकम् ।
पुण्यमिति वक्ष्यमाणेन सम्बन्धः ।
रौहिण्याश्लेषाहस्तपुष्यमघाः पञ्चतारकात्वेन ज्योतिःशास्त्रे प्रसिद्धाः ।
शुक्लपक्षे तु सप्तम्यां यदा सङ्क्रमते रविः ।
महाजया तदा स्याद्धि मप्तमी भास्करप्रिया ॥
स्नानं दान जपो होमः पितृदेवादिपूजनम् ।
सर्वें कोटिगुणं प्रोक्तं भास्करस्य वचो यथा ॥
आदित्यपुराणे–
रेवती रविसंयुक्ता सप्तमी स्यान्महाफला ।
महाभारते–
शशिपुत्रसमायुक्ता परिपूर्णा सिताष्टमी ।
तस्यां नियमकर्त्तारो न स्युः खण्डितसम्पदः ॥
शशिपुत्रः = सौम्यः ।
{म्व्-स्_२४५}
भविष्यपुराणे–
पौषे बुधाष्टमी शुक्ला महाभद्रा महाफला ।
इति ।
ब्रह्माण्डपुराणे–
पौषे मासि यदा देवि! अष्टम्यां यमदैवतम् ।
नक्षत्रं जायते पुण्यं यल्लोके रौद्रमुच्यते ॥
तदा सा तु महापुण्या जयन्ती चाष्टमी स्मृता ।
इति ।
यमदैवतं = भरणी ।
तस्य क्रूरदेवताकत्वाद्रौद्रत्वम् ।
भविष्ये–
ज्येष्ठशुक्लदशम्यां च भवेद्भौमदिनं यदि ।
ज्ञेया हस्तर्क्षसंयुक्ता सर्वपापहरा तिथिः ॥
देवीपुराणे–
पुष्यर्क्षैकादशी शुक्ला सुपुण्या पापनाशिनी ।
विष्णुधर्मोत्तरे–
एकादश्यां शुक्लपक्षे यदर्क्षं वै पुनर्वसुः ।
नाम्ना सा विजया ख्याता तिथीनामुत्तमा तिथिः ॥
यो ददाति तिलप्रस्थं प्राप्य कालं तु वत्सरम् ।
उपवासपरस्तस्य प्रकरोति समं फलम् ॥
तस्यामाराध्य गोविन्दं जगतामीश्वरेश्वरम् ॥
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ।
विष्णुधर्मोत्तरे–
चैत्रे भाग्यर्क्षसंयुक्ता द्वादशी स्यान्महाफला ।
हस्तयुक्ता तु वैशाखे ज्येष्ठे तु स्वातिसंयुता ।
ज्येष्ठया तु तथाषाढे मूलोपेता तु वैष्णवे ॥
वैष्णवः = श्रावणः ।
तथा भाद्रपदे मासि श्रवणेन च संयुता ।
आश्विने द्वादशी पुण्या भवत्याजर्क्षसंयुता ॥
कार्त्तिके रेवतीयुक्ता सौम्ये कृत्तिकया युता ।
सौम्यो = मार्गशीर्षः ।
पौषे मृगशिरोयुक्ता माघे चादित्यसंयुता ।
फाल्गुने पुष्यसहिता द्वादशी पावनी परा ॥
नक्षत्रयुक्तास्वेतासु स्नानदानमुपोषणम् ।
इति ।
माघ्यां तु समतीतायां श्रवणेन तु सेयुता ।
द्वादशी या भवेत् कृष्णा प्रोक्ता सा तिलवैष्णवी ॥
तथा:
मूलर्क्षगे शशधरे माघमासि प्रजायते ।
एकादशी कृष्णपक्षे सोपवासो जितेन्द्रियः ॥
{म्व्-स्_२४६}
द्वादश्यां षट्तिलाहारं कृत्वा पापैः प्रमुच्यते ।
वराहपुराणे–
चैत्रकृष्णचतुर्दश्यामङ्गारकदिनं यदि ।
पिशाचत्वं पुनर्न स्यात् गङ्गायां स्नानभोजनात् ॥
लिङ्गपुराणे–
कार्त्तिके भौमवारेण चित्रा कृष्णा चतुर्दशी ।
तस्यामाराधितः स्थाणुर्यच्छेत् शिवपुरं ध्रुवम् ॥
देवीपुराणे–
तथा कृष्णचतुर्दश्यां भौमाहे पितृतर्पणम् ।
विष्णुधर्मोत्तरे:
पौर्णमासीषु सर्वासु मघर्क्षसहितासु च ।
दत्तानामिह दानानां फलं दशगुणं स्मृतम् ।
महती पूर्णमासी सा युक्ता पूर्णेन्दुना गुरौ ॥
ज्योतिःशास्त्रे–
दृस्येते सहितौ यस्यां दिशि चन्द्रबृहस्पती ।
पौर्णमासी तु महती प्रोक्ता संवत्सरे तु सा ।
तस्यां दानोपवासाद्यमक्षयं परिकीर्त्तितम् ॥
तथा:
मासाख्यर्क्षे चन्द्रगुरू तस्मात्पञ्चदशो रविः ।
पूर्णिमा जीववारे तु महच्छब्दा हि सा तिथिः ॥
इति ।
हरिक्षेत्रे च गङ्गायां सामुद्रे नैमिषे तथा ।
महाशब्दतिथौ स्नानं दानं श्राद्धमनन्तकम् ॥
इति ।
ऐन्द्रे गुरुः शशी चैव प्राजापत्ये रविस्तथा ।
पूर्णमासी तु सा ज्ञेया महाज्यैष्ठीति कीर्त्तिता ॥
वायुपुराणे–
आग्नेयं च यदा ऋक्षं कार्तिक्यां तु भवेत्क्वचित् ।
महती सा तिथिर्ज्ञेया स्नानदानादिषूत्तमा ॥
यदा याम्यं भवेदृक्षं पुण्यं तस्यां तिथौ क्वचित् ।
तिथिः सापि महापुण्या ऋषिभिः परिकीर्त्तिन्त्ता ॥
प्राजापत्यं यदा ऋक्षं यदा तस्यां नराधिप! ।
सा महाकार्त्तिकी प्रोक्ता देवानामपि दुर्लभा ॥
मन्दे वार्के गुरौ वापि वारेष्वेतेषु च त्रिषु ।
त्रीण्येतानि च ऋक्षाणि प्रोक्तानि व्रह्नणा स्वयम् ॥
तत्राश्वमेधिकं पुण्यं स्नातस्य च भवेन्नृप! ।
दानमक्षयतां याति पितॄणां तर्पणं तथा ॥
{म्व्-स्_२४७}
ब्रह्मपुराणे–
पुण्या महाकार्त्तिकी स्याज्जीवेन्दौ कृत्तिकासु च ।
मघास्वात्योश्च जीवेन्दौ महामाघीति कथ्यते ॥
ज्योतिः शास्त्रे–
मेषस्थस्च यदा सौरिः सिंहे च गुरुचन्द्रमाः ।
भास्करः श्रवणाख्ये तु महामाघी तु सा स्मृता ॥
शातातपः–
अमावास्यां भवेद्वारो यदा भूमिसुतस्य वै ।
जाह्नवीस्नानमात्रेण गोसहस्रफलं लभेत् ॥
महाभारते:
अमा सोमेन भौमेन गुरुणा रविणा तथा ।
तत्तीर्थं पुष्करं नाम सूर्यग्रहशताधिकम् ॥
विष्णुपुराणे:
अमावास्या यदा मैत्रविशाखाऋक्षयोगिनी ।
श्राद्धे पितृगणस्तृप्तिं तदाप्नोत्यष्टवार्षिकीम् ॥
क्वचित्तु विशाखास्वातियोनीति पाठः ।
अमावास्या यदा पुष्ये रौद्रर्क्षे वा पुनर्वसौ ।
द्वादशाब्दीं तथा तृप्तिं प्रयान्ति पितरो ऽर्च्चिताः ॥
वासवाजैकपादर्क्षे पितॄणां तृप्तिमिच्छता ।
वारुणे चाप्यदैवत्ये देवानामपि दुर्ल्लभा ॥
माघासिते पञ्चगशी कदाचिदुपैति योगं यदि वारुणेन ।
ऋक्षेण कालः स परः पितॄणां न ह्यल्पपुण्यैर्नृप! लभ्यते ऽसौ ॥
व्यासः–
वारुणेन समायुक्ता मधौ कृष्णा त्रयोदशी ।
गङ्गायां यदि लभ्येत सूर्यग्रहशतैः समा ॥
शनिवारेण संयुक्ता सा महावारुणी स्मृता ।
शुभयोगसमायुक्ता शनौ शतभिषा यदि ।
महामहेति विख्याता त्रिकोटिकुलमुद्धरेत् ॥
अर्धोन्दय उक्तो महाभारते–
अमार्कपातश्रवणैर्युक्ता चेत्पुष्यमाघयोः ।
अर्धोदयः स विज्ञेयः कोटिसूर्यग्रहैः समः ॥
क्वचित्तु किञ्चिदूनो महोदय इति पाठः ।
दिवैव योगः शस्तो ऽयं न तु रात्रौ कदाचन ।
इति ।
कपिलषष्ठी वाराहपुराणे–
नभस्ये कृष्णपक्षे या रोहिणीपातभूसुतैः ।
{म्व्-स्_२४८}
युक्ता षष्ठी पुराणज्ञैः कपिला परिकीर्त्तिता ॥
व्रतोपवासनियमैर्भास्करं तत्र पूजयेत् ।
कपिलां च द्विजाग्र्याय दत्त्वा क्रतुफलं लभेत् ॥
पुराणसमुच्चये तु–
भाद्रमास्यसिते पक्षे भानौ चैव करे स्थिते ।
पाते कुजे च रोहिण्यां सा षष्ठी कपिलाभिधा ॥
इति ।
अत्र च भाद्रपदो दर्शान्तमासाभिप्रायेण ।
तत्रैव कृब्णपक्षे षष्ट्यां रोहिणी सम्भवति ।
अयं च यदा सम्पूर्णः तदैव पुण्यः ।
तदुक्तम्–
संयोगे तु चतुर्णां तु निर्द्दिष्टा परणेष्ठिना ।
हस्तस्थसूर्यश्च फलातिशयार्थः ।
शङ्खः–
अमावास्या तु सोमेन सप्तमी भानुना सह ।
चतुर्थी भूमिपुत्रेण बुधवारेण चाष्टमी ॥
चतस्नस्तिथयः पुण्यास्तुल्याः स्युर्ग्रहणादिभिः ।
सर्वमक्षयमत्रोक्तं स्नानदानजपादिकम् ॥
शातातपः–
अङ्गारकदिने प्राप्ते चतुर्थी वा चतुर्दशी ।
भोमवारेण पुण्यासौ सोमवारे कुहूर्यथा ॥
मार्कण्डेयः–
एकादश्यां सिते पक्षे पुष्यर्क्षं यदि जायते ।
द्वादश्यां वा तदाशेषपापक्षयकरं स्मृतम् ॥
व्यासः–
शुक्ले वा यदि वा कृष्णे चतुर्थी वा चतुर्दशी ।
भौमवारेण पुण्यासौ सोमवारे कुहूर्यथा ॥
इति ।
इति नक्षत्रवारादियोगप्रयुक्तपुण्यतिथयः ।
अथ रात्रिकरणीयवर्ज्यानि ।
रात्रौ स्नानं न कुर्वीत दानं चैव विशेषतः ।
नैमित्तिकं च कुर्वीत स्नानं दानं च रात्रिषु ॥
इति रात्रिकरणीयवर्ज्यानि ।
अथ चतुष्पथसेवावर्जनकालः ।
मध्यं दिने ऽर्धरात्रे च श्राद्धं भुक्त्वा तु सामिषम् ।
सन्ध्यययोरुभयोश्चैव न सेवेत चतुष्पथम् ॥
इति ।
इति चतुष्पथवर्जनकालः ।
{म्व्-स्_२४९}
अथ तिथिविशेषवर्ज्यानि ।
तत्र सिंहार्के शुक्लचतुर्थ्यां चन्द्रदर्शनं न कार्यम् ।
मार्कण्डेयः–
सिंहादित्ये शुक्लपक्षे चतुर्थ्यां चन्द्रदर्शनम् ।
मिथ्याभिदूषणं कुर्यात्तस्मात्पश्र्येन्न तं तदा ॥
इति ।
षष्ठीवर्ज्यानि ।
षष्ट्यां तैलं वर्जयेदभ्यङ्गे ।
तथाच रत्नमालायाम्–
षष्ठीषु तैलं पलमष्टमीषु क्षौरक्रियां चैव चतुर्दशीषु ।
स्त्रीसेवनं नष्टकलासु पुंसामायुःक्षयार्थं मुनयो वदन्ति ॥
इति ।
अथ सप्तमीवर्ज्यानि ।
तत्र भविष्यपुराणे–
सप्तम्यां न स्पृशेत्तैलं नीलवस्त्रं न धारयेत् ।
न चाप्यामलकैः स्नानं न कुर्यात्कलहं नरः ॥
सप्तम्यां नैव कुर्वीत ताम्रपात्रेण भोजनम् ॥
बुधः–
निम्बस्य भक्षणं तैलं तिलैस्तर्पणमञ्जनम् ।
सप्तम्यां नैव भुञ्जीत ताम्रपात्रेण भोजनम् ॥
इति ।
अथाष्टमीवर्ज्यानि ।
तत्र व्यासः–
षष्ठ्यष्टमी त्वमावास्या पक्षद्वयचतुर्दशी ।
अत्र सन्निहितं पापं तैले मांसे भगे क्षुरे ॥
एषां केचिदासु तिथिषु क्रमेण निषेधमिच्छन्ति ।
षष्ठ्यां तैलमनायुष्यमष्टम्यां पिशितं तथा ।
कामभोगश्चतुर्दश्याममायां तु क्षुरक्रिया ॥
इति स्मरणात् ततो ऽन्यत्र दोषाभाव इति, तन्न ।
मांसाशने पञ्चदशी तैलाभ्यङ्गे चतुर्दशी ।
इति मनुनान्यत्रापि तैलादिनिषेधात् ।
तैलनिषेधे च सर्वत्र तिलतैलस्यैव निषेधः तैलपदस्य तत्रैव
शक्तेः ।
सामान्यतो ऽभ्यङ्गनिषेधे तु स्नेहनिषेध एवेति ।
अत्राष्टम्याः पर्वरूपत्वात्तत्प्रयुक्ताः सर्वे निषेधास्तत्र प्रवर्तन्ते ।
पर्वरूपत्वं चोक्तं–
विष्णुपुराणे:
चतुर्दशी अष्टमी च अमावास्या च पूर्णिमा ।
पर्वाण्येतानि राजेन्द्र! रविसङ्क्रान्तिरेवच ॥
{म्व्-स्_२५०}
इत्येतानि अभिधाय–
तत्रैव:
तैलस्त्रीमांसभोगी यः पर्वस्वेतेषु वै पुमान् ।
विण्मूत्रभोजनं नाम प्रयाति नरकं नरः ॥
इति ।
पर्वपुरस्कारेण निषेधो वौधायने:
पर्वसु नादीयीत न मांसमस्नीयात् पर्वसु हि रक्षःपिशाचव्यभिचारिवीन्नतम्बिनीति ।
मनुः–
चतुर्दश्यष्टमी दर्शः पौर्णमास्यर्कसङ्क्रमः ।
एषु स्त्रीतैलमांसानि दन्तकाष्ठानि वर्जयेत् ॥
पञ्चदश्यां चतुर्दश्यामष्टम्यां च विशारदः ।
तैलं मांसं व्यवायं च क्षुरं चैव विवर्जयेत् ॥
हारीतः–
श्लेष्मातके तथालक्ष्मीर्नित्यमेव कृतालया ।
भगे मांसे क्षुरे तैले नित्यं तिष्ठति पर्वसु ॥
मत्स्यपुराणे–
छिनत्ति वीरुधो यस्तु वीरुत्सेस्थे निशाकरे ।
पत्रं वा पाटयेत्तेषां ब्रह्महत्यां स विन्दति ॥
वीरुत्संस्थे = वनस्पतिगते ।
वनस्पतिगतत्वं च त्रिमुहूर्तचतुर्थस्थत्वम् ।
त्रिमुहूर्तं वसेदर्के त्रिमुहूर्तं वसेज्जले ।
त्रिमुहूर्तं वसेद्गोषु त्रिमुहूर्तं वनस्पतौ ॥
इतिस्मृतेः ।
पैठीनसिः–
सायंसन्ध्यां परान्नं च तिलपिष्टं तथैवच ।
अमावास्यां न सेवेत रात्रौ मैथुनभोजने ॥
अमावास्यां प्राप्येत्यर्थः ।
वस्तुतस्तु अमावास्यामिति सप्तम्यन्तम् ।
वस्या वास्या वसी वासी अमापूर्वा अमेति च ।
इत्येवं नवधा प्रोक्ता कृष्णपञ्चदशी तिथिः ॥
इति कोशात् ।
तथा–
नामायां हरितान् छिन्द्यात्कुशांश्च समिधस्तथा ।
अयं च निषेधो दैवपित्र्यकर्मार्थव्यतिरेकेण ।
तथाच कात्यायनेन अमायां
दर्भच्छेदनिषेधमभिधायोक्तम्–
पितृदेवजपार्थं वा समादद्यादिति ।
{म्व्-स्_२५१}
तथा कात्यायनस्मतावपि–
मासे नभस्यमावास्यां दर्भो ग्राह्यो नवः स्मृतः ।
अयातयामास्ते दर्भा नियोक्तव्याः पुनःपुनः ॥
इति ।
कुशाः शाकं च पुष्पाणि गवार्थे च तृणादिकम् ।
आहरेद्देवपित्र्यर्थममावास्याहनि द्विजः ॥
इति दीपिकाधृतवचनाच्च ।
स्मृतिससुच्चये–
सायंसन्ध्यां परान्नं च पुनर्भोजनमैथुने ।
तैलं मांसं शिलापिष्टममावास्यां विवर्जयेत् ॥
मार्कण्डेयः–
अमावास्यासु सर्वासु नवं वस्त्रं न धारयेत् ।
इति पर्ववर्ज्यानि ।
अथ कालविशेषवर्ज्याः ।
स्कन्दपुराणे–
शिरःकपालमान्त्राणि नखचर्मतिलास्तथा ।
पतानि क्रमशो नित्यमष्टम्यादिषु वर्जयेत् ॥
शिरो = नारिकेलम् ।
कपालमलावू ।
आन्त्रं = पटोलं दीर्घम् ।
नखं = निष्पावाः, चर्मौमसूर्यः ।
तिलाः = वृन्ताकमिति ।
बृहतिप्रसिद्धिरिति हेमाद्रिः ।
षट्त्रिंशन्मते–
सङ्क्रान्त्यां पञ्चदश्यां च द्वादश्यां श्राद्धवासरे ।
वस्त्रं च पीडयेन्नैव क्षुरेणापि न हिंस्यते ॥
हेमाद्रौ तु चतुर्थचरणे करेणापि हि बुध्यते इति पाठः ।
व्यासः–
तैलं न संस्पृशेदामं वृक्षादीन् छेदयेन्न च ।
पक्षादौ च रवौ षष्ट्यां रिक्तायां च तथा तिथौ ॥
अत्रामनिषेधो ऽधिकनिषेधार्थः सामान्येन तैलस्य निषेधात् ।
बृहस्पतिः–
अमावास्येन्दुसङ्क्रान्तिचतुर्दश्यष्टमीषु च ।
नरश्चाण्डालयोनौ स्यात्तैलस्त्रीमांससेवनात् ॥
पुराणे तु पूर्वार्धे–
कुहूपूर्णेन्दुसङ्क्रान्तिचतुर्दश्यष्टमीषु च ।
इति ।
उत्तरार्द्धं तदेव ।
वामनपुराणे–
नन्दासु नाब्यङ्गमुपाचरेत क्षौरं च रिक्तासु जयासु मांसम् ।
पूर्णासु योषित् परिवर्जनीया भद्रासु सर्वाणि समारभेत ॥
{म्व्-स्_२५२}
नाभ्यङ्गमर्के न च भूमिपुत्रे क्षीरं च शुक्रे च कुजे च मांसम् ।
बुधेन योषा न समाचरेत शेषेषु सर्वाणि सदैव कुर्यात् ॥
चित्रासु हस्ते श्रवणेषु तैलं क्षीरं विशाखाप्रतिपत्सु वर्ज्यम् ।
मूले मृगे भाद्रपदासु मांसं योषिन्मघाकृत्तिकयोत्तरासु ॥
यमः–
तथासिताष्वष्टमीषु भूताहेन्दुक्षये तथा ।
तैलाभ्यङ्गं क्षौरकर्म स्त्रीसङ्गं च विवर्जयते ॥
वाराहपुराणे–
न मृच्च नोदकं वापि न निशायां तु गोमयम् ।
गोमूत्रं च प्रदोषे च गृह्णीयाद्बुद्धिमान्नरः ॥
अयं च निषेधः शौचाद्यतिरिक्तकर्मसु तत्र मृद्ग्रहणस्य विहित त्वात् ।
माण्डव्यः–
श्रुतिबेधजातकान्नप्राशनयात्राप्रतिमार्चाः ।
रविभवनस्थे कार्यं जीवे न कार्यो विवाहस्तु ॥
रविभवनं = सिंहराशिः ।
अयं च नर्मदोत्तरभागे, न दक्षिणे ।
तथा च—
ज्योतिःशास्त्रे:
सिंहे गुरौ सिंहलवे विवाहो नेष्टश्च गोदोत्तरतश्च यावत् ।
भागीरथीयाम्यतरं च यावत्तावच्च दोषस्तपने ऽपि मेषे ॥
स्कान्दे–
स्नानं चैव महादानं स्वाध्यायं पितृतर्पणम् ।
प्रथमे ऽव्दे न कुर्वीत महागुरुनिपातने ॥
स्नानं काम्यं पुष्पस्नानादि ।
भविष्यपुराणे–
सुप्ते विष्णौ निवर्तन्ते क्रियाः सर्वाः शुभादिकाः ।
विवाहव्रतबन्धादिचूडासंस्कारदीक्षणम् ॥
यज्ञो गृहप्रवेशश्च प्रतिष्ठा देवभूभृताम् ।
पुण्यानि यानि कर्माणि न स्युः सुप्ते जगत्पतौ ॥
इति ।
मनुः–
चत्वारीमानि कर्माणि सन्ध्यायां परिवर्जयेत् ।
आहारं मैथुनं निद्रां स्वाध्यायं च चतुर्थकम् ॥
वृद्धमनुः–
आहारं मैथुनं निद्रां सन्ध्याकाले विवर्जयेत् ।
कर्म चाध्ययनं वापि तथा दानप्रतिग्रहौ ॥
{म्व्-स्_२५३}
आहाराज्जायते व्याधिर्गर्भो रौद्रश्च भैथुनात् ।
स्वपनात्स्यादलक्ष्मीकः कर्म चैवात्र निष्फलम् ॥
अध्येता नरकं याति दाता नाप्नोति तत्फलम् ।
प्रतिग्रहे भवेत्पापी तस्मात्सन्ध्यां विवर्जयेत् ॥
तथा हेमाद्रौ स्मृतिः–
रात्रौ दानं न कुर्वीत कदाचिदपि केन चित् ।
हरन्ति राक्षसा यस्मात्तस्माद्दातुर्भयावहम् ॥
विशेषतो निशीथे तु न शुभं कर्म शर्मणे ।
अतो विवर्जयेत्प्राज्ञो दानादिषु महानिशाम् ॥
अस्यापवादो देवलेनोक्तः–
राहुदर्शनसङ्क्रान्तिविवाहात्ययवृद्धिषु ।
स्नानदानादिकं कुर्यान्निशि काम्यव्रतेषु च ॥
वसिष्ठो ऽपि–
ग्रहणोद्वाहसङ्क्रान्तियात्रार्त्तिप्रसवेषु च ।
दानं नैमित्तिकं ज्ञेयं रात्रावपि तदिष्यते ॥
तथा–
यज्ञे विवाहे यात्रायां तथा पुस्तकवाचने ।
दानान्येतानि शस्तानि रात्रौ देवालये तथा ॥
तथा हेमाद्रौ–
अश्वत्थसागरौ सेव्यौ न स्प्रष्टव्यौ कदाचन ।
कोणवारे स्पृशेत् पूर्वमुत्तरं पर्वणि स्पृशेत् ॥
कोणः = शनैश्चरः ।
तैलाभ्यङ्गे निषेध उक्तः सुमन्तुना–
तैलाभ्यङ्गो नार्कवारे न भौमे नो सङ्क्रान्तौ वैधृतौ विष्टिषष्ठ्योः ।
पर्वस्वष्टम्यां च नेष्टः स इष्टः प्रोक्तान्मुक्त्वा वासरे सूर्यसूनोः ॥
योगियाज्ञबल्क्यः–
मोहात्प्रतिपदं षष्ठीं कुहूं रिक्तां तिथिं तथा ।
तैलेनाभ्यञ्जयेद्यस्तु चतुर्भिः सह हीयते ॥
पञ्चम्यां च चतुर्दश्यां सप्तम्यां रविसङ्क्रमे ।
द्वादशीं सप्तमीं षष्ठी तैलस्पर्शे विवर्जयेत् ॥
त्रयोदश्यां तृतीयायां प्रतिपन्नवमीद्वये ।
तैलाभ्यङ्गं न कुर्वीत कुर्युर्वा नवमीं विना ॥
यच–
पञ्चमी दशमी चैव तृतीया च त्रयोदशी ।
एकादशी द्वितीया च पक्षयोरुभयोरपि ॥
{म्व्-स्_२५४}
अभ्यञ्चनस्पर्शनाद्यैर्यो ऽत्र स्नेहं निषेवते ।
चतुर्णां तस्य वृद्धिः स्यात् धनापत्यबलायुषाम् ॥
इति ।
गर्गेण कासां चिद्ग्रहणं तत्पव्कतैलपरम् ।
सूर्यशुक्रादिवारेषु निषिद्धासु तिथिष्वपि ।
स्नाने वा यदि वास्नाने पव्कतैलं न दुष्यति ॥
इति षट्त्रिंशन्मतादिति केचित् ।
अन्ये तु रागप्राप्ततैलविषयो निषेधः ।
एवं च सर्वतैलनिषेधप्राप्तौ पव्कं प्रतिप्रसूयते ।
विहिते च तैलाभ्यङ्गे आममप्युपादेयमेवेति सङ्क्षेपः ।
यमो ऽपि–
घृतं च सार्षपं तैलं यत्तैलं पुष्पवासितम् ।
न दोषः पव्कतैलेषु स्नानाभ्यङ्गेषु नित्यशः ॥
कात्यायनो ऽपि–
माङ्गल्यं विद्यते स्नानं वृद्धिपर्वोत्सवेषु च ।
स्नेहमात्रसमायुक्तं मध्याह्नात्प्रविशिष्यते ॥
इति ।
मांसनिषेधकालो नन्दिपुराणे–
यदि नाम चतुर्दश्यां सदा मांसं विवर्जयेत् ।
वर्जयेदयने मुख्ये कृतस्वर्गमतिर्नरः ॥
चतुर्थी चाष्टमी चैव द्वादशी च चतुर्दशी ।
तथा पञ्चदशी वार्या षडशीतिमुखानि च ॥
सङ्क्रमे चापि सूर्यस्य विषुवे चापि वार्षिके ।
मांसात्तु विरतो मर्त्यो याति स्वर्गं दिनत्रयम् ॥
तथाचाश्वयुजं मासं वर्जयेन्मांसभक्षणे ।
बहुमासकृतं पुण्यं लभेताश्वयुजान्नरः ॥
मांसभोजनसन्त्यागात् पुरुषः सुध्धमानसः ।
यो नरः कार्त्तिके मासि मांसं तु पेरिवर्जयेत् ॥
संवत्सरस्य लभते पुण्यं मांसविवर्जनात् ।
कालनिर्णयदीपिकायां तु यदि नाम चतुर्दश्यामिति स्थाने यदि नाम च शर्वर्यामिति पाठः ।
इति कालीवेशषवर्ज्यानि ।
अथ पर्वानुष्ठेयानि ।
विष्णुः–पर्वसु अवश्यं तिलहोमान् कुर्यादलङ्कृतस्तिष्ठेत् एवमाचारसेवी स्यात् ।
मनुः–(अ। ४ श्लो। १५०)
सावित्रान् शान्तिहोमांश्च कुर्यात्पर्वसु नित्यशः ।
{म्व्-स्_२५५}
सावित्रानुसवितृदेवताकान् ।
अत्र च द्रव्यमक्षताः ।
शान्तिकामस्तु जुहुयात् गायत्र्या चाक्षतैः शुचिः ।
इति स्मृतेः ।
कात्यायनः–
पौर्णमास्याममावास्यामधः स्वापो विधीयते ।
अनाहिताग्नेरप्येष पश्चादग्नेर्विधीयते ॥
अनाहिताग्निः = स्मार्त्ताग्निमान् ।
आपस्तम्वः–दिवा आदित्यः सत्त्वीनि गोपायति ।
नक्तं चन्द्रमाः तस्मादमावास्यायां साधीयसीमात्मनो गुप्तिमिच्छेत् ।
प्राजापत्येन ब्रह्मचर्यकालेन च जायया सहैतां रात्रिं सूर्याचन्द्रमसौ वसत इति ।
प्राजापत्येनौरथ्योपसर्पणराहित्येन ।
तथा:
मासे नभस्यमावास्या तस्यां दर्भोच्चयो मतः ।
अयातयामास्ते दर्बा नियोक्तव्याः पुनः पुनः ॥
इति पर्वानुष्ठेयानि ।
अथ नानायुगधर्माः ।
तत्रौपकायनः–
श्रुतिश्च शौचमाचारः प्रतिकालं विभिद्यते ।
नानाधर्माः प्रवर्तन्ते मानवानां युगे युगे ॥
श्रुत्यादिप्रमाणं शौचादिराचारश्च प्रतिकालं प्रतियुगं भिद्यते ।
अनेन श्लोकपूर्वार्धेन प्रतियुगमाचारशब्दवाच्याग्निहोत्रादिकर्मणां भेद उक्तस्तद्भेदादेव च तत्प्रतिपादकश्रुत्यादिप्रमाणस्यापि भेद उक्तस्तत्र कर्मभेदे हेतुमाहोत्तरार्धेन–नानाधर्मा इत्यादिना ।
धर्मा अरोगत्वादयस्तदुक्तं–
मनुना,(अ। १ श्लो। ८३-८४)
अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः ।
कृतत्रेतादिषु त्वेषामायुर्हसति पादशः ॥
वेदोक्तमायुर्मर्त्त्यानामाशिषश्चैव कर्मणाम् ।
फलन्त्यनुयुगं लोके प्रभावाश्च शरीरिणाम् ॥
इति ।
तथारण्यके पर्वणि हनूमद्दर्शने कृतादिधर्मानुदाहृत्योक्तम्–
पादेनैकेन कौन्तेय! धर्मः कलियुगे स्थितः ।
तामसं युगमासाद्य कृष्णो भवति केशवः ॥
वेदाचाराः प्रशाम्यन्ति धर्मयज्ञक्रियास्तथा ।
{म्व्-स्_२५६}
ईतयो व्याधयस्तन्द्रीदोषाः क्रोधादयस्तथा ।
उपद्रवाश्च वर्तन्ते आधयः क्षुद्भयं तथा ॥
इति ।
तदयमर्थः ।
युगस्वभावादहरहरपचीयमानज्ञानकर्मेन्द्रियशक्तीनां द्विजातीनां कतिपयाङ्गसहिताग्निहोत्रादिकर्मणां प्रमादालस्यादिभिस्तत्तदङ्गहानात्तत्त्वेनाप्रत्यभिज्ञायमानानां भेदादिव तत्प्रतिपादकानां श्रुत्यादीनामपि भेद इव भवति न पुनः श्रुत्यादीनां कर्मणां वा वास्तवो भेद इत्यभिप्रायः ।
अनयैव च दिशा एवञ्जातीयकानि वचनानि बोध्यानि ।
मनुरपि–(अ। १ श्लो। ८५-८६)
अन्ये कृतयुगे धर्मास्त्रेतायां ज्ञानमुच्यते ।
अन्ये कलियुगे नॄणां युगह्रासानुरूपतः ॥
तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते ।
द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे ॥
तपः = कृच्छ्रचान्द्रायणादि ।
तदुक्तम्–
स्कन्दपुराणे:
वेदोक्तेन प्रकारेण कृच्छ्रचान्द्रायणादिभिः ।
शरीरशोषणं यत्तत्तप इत्युच्यते बुधैः ॥
इति ।
परं = प्रधानम् ।
महाभारते–
तपः परं कृतयुगे त्रेतायां ज्ञानमुत्तमम् ।
द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे ॥
तथा–
तपः परं कृतयुगे त्रेतायां ज्ञानमुत्तमम् ।
द्वापरे यज्ञमेवाहुः कलौ दानं दया दमः ॥
बृहस्पतिः–
तपो धर्मः कृतयुगे ज्ञानं त्रेतायुगे स्थितम् ।
द्वापरे चाध्वरः प्रोक्तस्तिष्ये दानं दया दमः ॥
तिष्यः = कलिः ।
शिवपुराणे–
ध्यानं परं कृतयुगे त्रेतायां लिङ्गपूजनम् ।
द्वापरे ऽध्ययनं तिष्ये महादेवस्य कीर्त्तनम् ॥
तथा–
ध्यानं परं कृतयुगे त्रेतायां यजनं तथा ।
द्वापरे लिङ्गपूजा च कलौ शङ्करकीर्त्तनम् ॥
विष्णुधर्मोत्तरे–
ज्ञानं परं कृतयुगे त्रेतायां च ततः परम् ।
{म्व्-स्_२५७}
द्वापरे च तथा यज्ञः प्रतिष्ठा तु कलौ युगे ॥
कृतादिषु युगेषु प्राचुर्येण प्रवर्तमानानि प्रमाणान्याह–
पराशरः:
कृते तु मानवा धर्मास्त्रेतायां गौतमा मताः ।
द्वापरे शङ्खलिखिताः कलौ पाराशराः स्मृताः ॥
तपः परं कृतयुगे इत्याद्युक्तं तत्र हेतुमाह–
स एव:
कृते त्वस्थिगताः प्राणास्त्रेतायां मांसमाश्रिताः ।
द्वापरे रुधिरे चैव कलौ त्वन्नादिषु स्थिताः ॥
प्राणनादिवृत्तिपञ्चकोपेतो वायुविशशेषः प्राणः, स चास्थिमांसादिमयेषु शरीरेषु कर्मसूत्रनिबद्धो
युगसामर्थ्यादस्थ्यादिषु स्थितो भवति ।
साक्षात्प्रवत्तिनिवृत्त्यनौपयिकानां युगस्वभावादिप्रतिपादकानां वचनानां प्रतिषेधे विशेषपर्यवसायितामाह–
स एव:
युगे युगे च ये धर्मास्तत्र तत्र च ये द्विजाः ।
तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः ॥
तेषामित्युपलक्षणम् ।
कामक्रोधलोभादीन् सर्वान् दोषान्कालकृतान् ज्ञात्वा कस्यापि निन्दां न कुर्यादित्यर्थः ।
नन्वेवम्–
जितो धर्मो ह्यधर्मेण सत्यं चैवानृतेन च ।
जिताश्चारैश्च राजानः स्त्रीभिश्च पुरुषाः कलौ ॥
इत्यादिवचनबोधितयुगधर्मानुसारिणां प्राणिनामनिन्द्यत्वे:
धर्मं चर सत्यं वद,
नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम् ।
स्थितिर्हि सत्यं धर्मस्य तस्मात्सत्यं न लोपयेत् ॥
इत्यादीनि विधिनिषेधाविषयाणि श्रुतिस्मृतिशास्त्राण्यप्रमाणीकृतानि स्युरिति चेत्, न ।
युगानुरूपं स्वस्वसामर्थ्यमालोच्य मुक्यकल्पेनानुकल्पे न वा नित्यनैमित्तिकानि कर्माण्यनुतिष्ठता प्रतिषिद्धानि च वर्जयतां प्रमादकृतपातकप्रायश्चित्तानि चाचरतामत्यन्ताशक्तानां वानिन्द्यत्वम् ।
तदन्येषां निन्द्यत्वमिति वस्तुस्थिरिः ।
एवं सत्यपि वस्तुतो निन्द्यस्यापि स्वयं दोषान्नाविष्कुर्यादिति तेषां निन्दा न कर्तव्येत्यस्याभिप्राय इति ।
बृहस्पतिः–
कृते यदब्दाद्धर्मः स्यात्तत्र्रेतायामृतुत्रयात् ।
द्वापरे तु त्रिपक्षेण कलावहनि तद्भवेत् ॥
{म्व्-स्_२५८}
ब्रह्माण्डपुराणे–
त्रेतायामाब्दिको धर्मो द्वापरे मासिकः स्मृतः ।
यथाशक्ति चरन् प्राज्ञस्तदह्ना प्राप्नुयात्कलौ ॥
विष्णुपुराणे–
यत्कृते देशभिर्वर्षैस्त्रेतायां हायनेन तु ।
द्वापरे तत्तु मासेन चाहोरात्रेण तत्कलौ ॥
स्कन्दपुराणे–
ब्रह्माकृतयुगे देवस्त्रेतायां भगवान् रविः ।
द्वापरे भगवान् विष्णुः कलौ देवो महेश्वरः ॥
कृते नारायणः सूक्ष्मः शुद्धमूर्त्तिरुपास्यते ।
त्रेतायां यज्ञरूपेण पाञ्चरात्रेण द्वापरे ॥
भागवते–
कृतं त्रेता द्वापरं च कलिरित्यत्र केशवः ।
नानावर्णाभिधाकारो नानैव विधिनेज्यते ॥
कृते शुक्लस्चतुर्बाहुर्जटिलो बल्कलाम्बरः ।
कृष्णाजिनोपवीती च चित्रदण्डकमण्डलुः ॥
मनुष्यास्तु तदा शान्ता निर्वैराः सुहृदः समाः ।
यजन्ते तपसा देवं शमेन च दमेन च ॥
हंसानुवर्णो वैकुण्ठो वर्यो योगेश्वरो ऽमलः ।
ईश्वरः पुरुषो ऽसक्तः परमात्मेति गीयते ॥
त्रेतायां रक्तवर्णो ऽसौ चतुर्बाहुस्त्रिमेखलः ।
हिरण्यकेशस्त्रय्यात्मा स्रुक्स्रुवाद्युपलक्षणः ॥
तं तदा मनुजा देवं सर्वदेवमयं हरिम् ।
यजन्ति विद्यया त्रय्या धर्मिष्ठा ब्रह्मवादिनः ॥
विष्णुर्यज्ञः पृस्निगर्भः सर्वदेव उरुक्रमः ।
वृषाकपिर्जयन्तश्च उरुगाय इतीर्यते ॥
द्वापरे भगवान् श्यीमः पीतवासा निजायुधः ।
श्रीवत्सादिभिरङ्कैश्च लक्षणैरुपलक्षितः ॥
तं तथा पुरुंषं मर्त्त्या महाराजोपलक्षणम् ।
यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवो नृप! ॥
नमस्ते वासुदेवाय नमः सङ्कर्षणाय च ।
प्रद्युम्नायानिरुद्धाय तुब्यं भगवते नमः ॥
नारायणाय ऋषये पुरुषाय महात्मने ।
विश्वेश्वराय विश्वाय सर्वभूतात्मने नमः ॥
{म्व्-स्_२५९}
इति द्वापर उर्वीशं स्तुवन्ति जगदीश्वरम् ॥
नानातन्त्रविधानेन कलावपि यथा शृणु ।
कृष्णवर्णान्वितं कृष्णं साङ्गोपाङ्गास्त्रपार्षदम् ॥
यज्ञैः सङ्कीर्त्तनप्रायैर्यजन्ति हि सुमेधसः ।
एवं युगानुरूपेण भगवान्युगवर्त्तिभिः ॥
मनुजैरिज्यते राजन्! श्रेयसामीश्वरो हरिः ।
विष्णुधर्मोत्तरे–
पुष्करं तु कृते सेव्यं त्रेतायां नैमिषं तथा ।
द्वापरे तु कुरुक्षेत्रं कलौ गङ्गां समाश्रयेत् ॥
वामदेवः–
कृते तु सर्वतीर्थानि त्रेतायां पुष्करं परम् ।
द्वापरे तु कुरुक्षेत्रं कलौ गङ्गा विशिष्यते ॥
इति नानायुगधर्माः ।
अथ नानायुगवर्ज्यानि ।
तत्र शातातपः–
त्यजेद्देशं कृतयुगे त्रेतायां ग्राममुत्सृजेत् ।
द्वापरे कुलमेकं तु कर्त्तारं तु कलौ युगे ॥
कृते सम्माषणादेव त्रेतायां स्पर्शनेन च ।
द्वापरे चान्नमादाय कलौ पतति कर्मणा ॥
इति नानायुगवर्ज्यानि ।
अथ कलियुगधर्माः ।
महाभारते–
यस्त्वोन्नमः शिवायेति मन्त्रेणानेन शङ्करम् ।
सकृत्कालं समभ्यर्चेत्सर्वपापैः प्रमुच्यते ॥
सर्वावस्थां गतो वापि युक्तो वा सर्वपातकैः ।
यस्त्वोन्नमः शिवायेति मुच्यते तु कलौ नरः ॥
शाठ्येनापि नमस्कारः प्रयुक्तः शूलपाणये ।
संसारदोषसङ्घानामुच्छेदनकरः कलौ ॥
तथा–
सदा तं यजते यस्तु श्रद्धया मुनिपुङ्गव! ।
लिङ्गे ऽथ स्थण्डिले वापि कृतके विधिपूर्वकम् ॥
युगदोषं विनिर्जित्य रुदुरलोके प्रमोदते ।
लिङ्गपुराणे–
कलौ रुद्रो महादेवः शङ्करो नीललोहितः ।
{म्व्-स्_२६०}
प्रकाशते प्रतिष्ठार्थं धर्मस्य विकृताकृतिः ॥
ये तं विप्रास्तु सेवन्ते येन केनापि शङ्करम् ।
कलिदोषं विनिर्जित्य प्रयान्ति परमं पदम् ॥
व्यासः–
ध्यायन्कृते यजन् यज्ञैस्त्रेतायां द्वापरे ऽर्चयन् ।
यदाप्नोति तदाप्नोति कलौ सङ्कीर्त्य केशवम् ॥
भागवते–
कलिं सभाजयन्त्यार्या गुणज्ञाः सारभागिनः ।
यत्र सङ्कीर्त्तनेनैव सर्वः स्वार्थो ऽपि लभ्यते ॥
सङ्कीर्त्तनेनौहरिसह्कीर्त्तनेन ।
न ह्यतः परमो लाभो देहिनां भ्राम्यतामिह ।
यतो विन्देत परमां शान्तिं नश्यति संसृतिः ॥
अग्निपुराणे–
नास्ति श्रेयस्करं नॄमां विष्णोराराधनान्मुने! ।
युगे ऽस्मिंस्तामसे घोरे यज्ञदेवविवर्जिते ॥
कुर्वीताराधनं राजन्वासुदेवे कलौ युगे ।
यदभ्यर्च्य हरिं भत्त्या कृते वर्षशतं नृप! ।
विधानेन फलं लेभे अहोरात्रात्कलाविति ॥
तथा:
कलौ कलिमलध्वंसं सर्वपापहरं हरिम् ।
ये ऽर्चयन्ति नरा नित्यं ते ऽपि वन्द्या यथा हरिः ॥
धर्मोत्कर्षमतीवानुप्राप्नोति पुरुषः कलौ ।
स्वल्पायासेन धर्मज्ञस्तेन तुष्टो ऽस्म्यहं कलौ ॥
धन्ये कलौ भवेद्विप्रा अल्पक्लेशैर्महत्फलम् ॥
विष्णुपुराणे–
देवतावेश्मपूर्णानि नगराणि कलौ युगे ।
कर्तव्यानि महीपालैः स्वर्गलोकमभीप्सुभिः ॥
कूर्मपुराणे–
गङ्गामेव निषेव्रेत प्रयागे तु विशेषतः ।
नान्यत्कलियुगोद्भूतं मलं हन्तुं सुदुष्करम् ॥
त्कन्दभविष्यपुराणयोः–
भुक्तिमुक्तिफलप्रेत्सुरल्पोपायेन चेन्नरः ।
तीर्थान्येवाश्रयेद्विद्वान्कलौ गङ्गां विशेषतः ॥
गङ्गोत्तरवहा काश्यां लिङ्गं विश्वेश्वरं मम ।
उभे विमुक्तिदे प्लंसां प्राप्ते दावानले कलौ ॥
{म्व्-स्_२६१}
नारदीये–
कलौ तत्परमब्रह्मप्राप्तये सत्वरं नॄणाम् ।
गङ्गाभजनमेवाहुर्महोपायं महर्षयः ॥
कामिकसंहितायाम्–
न भवेद्वेदमन्त्राणां संसिद्धिः शुद्धिवर्जिते ।
मन्त्रेर्विना न सिध्द्यान्ति प्रज्ञाः शुद्धिस्तु दुर्लभा ॥
काले कलौ विशेषेण शुद्धं घस्तु न दृश्यते ।
कलौ युगे हि तमसा नष्टधर्मे भयङ्करे ॥
अनवच्छिन्नसन्तानो धर्मतन्तुर्हि जाह्नवी ।
विना गङ्गां धर्ममयीं गतिः स्याच्च कथं कलौ ।
शिरसः कर्त्तनं तस्य प्राणत्यागो ऽपि वा वरः ।
समर्थस्तु कलौ काले गङ्गां यो नाभिगच्छति ॥
भविष्यपुराणे–
कलौ कलुषचित्तानां पापद्रव्यरतात्मनाम् ।
विधिहीनक्रियाणां च गतिर्गङ्गां विना नहि ॥
अनाश्रित्य तु गङ्गां हि मुक्तिमिच्छति यः कलौ ।
सूर्यं द्रष्टुमिहोद्युक्तो जात्यन्धसदृशस्तु सः ॥
वृथा कुलं वृथा विद्या वृथा यज्ञा वृथा तपः ।
वृथा दानानि तस्येह कलौ गङ्गां न याति यः ॥
इति कलियुगधर्माः ।
अथ कलियुगवर्ज्यानि ।
ब्रह्मपुराणे–
दीर्घकालब्रह्मचर्यं धारणं च कमण्डलोः ।
गोत्रान्मातृसपिण्डात्तु विवाहो गोवधस्तथा ।
नराश्वमेधौ मद्यं च कलौ वर्ज्यं द्विजातिभिः ॥
तथा–
ऊढायाः पुनरुद्वाहं ज्येष्ठांशो गोवधस्तथा ।
कलौ पञ्च न कुर्वीत भ्रातृजायां कमण्डलुम् ॥
क्रतुः–
देवराच्च सुतोत्पत्तिर्दत्ता कन्या न दीयते ।
न यज्ञे गोवधः कार्यः कलौ च न कमण्डलुः ॥
आदित्यपुराणे–
शपथाः शकुनाः स्वप्नाः सामुद्रिकमुपश्रुतिः ।
उपयाचितमादेशाः सम्भवन्ति कलौ क्वचित् ॥
{म्व्-स्_२६२}
तस्मात्तन्मात्रलाभेन कार्यं यत्तन्न कारयेत् ।
तथा धर्मज्ञसमयवशादन्यान्यपि कलौ वर्ज्यानि ।
विधवायां प्रजोत्पत्तौ देवरस्य नियोजनम् ।
वालिकाक्षतयोन्याश्च वरेणान्येन सङ्गतिः ॥
कन्यानामसवर्णानां विवाहश्च द्विजातिभिः ।
आततायिद्विजाग्रयाणां धर्मयुद्धेन हिंसनम् ॥
द्विजस्याब्धौ तु नौयातुः शोधितस्यापि सङ्ब्रहः ।
सत्रदीक्षा च सर्वेषां कमण्डलुविधारणम् ॥
महाप्रस्थानगमनं गोसञ्ज्ञप्तिश्च गोसवे ।
सौत्रामण्यामपि सुराग्रहणस्य च सङ्ग्रहः ॥
अग्निहोत्रहवण्याश्च लेहो लीढापरिग्रहः ।
वानप्रस्थाश्रमस्यापि प्रवेशो विधिचोदितः ॥
वृत्तस्वाध्यायसापेक्षमघसङ्कोचनं तथा ।
प्रायश्चित्तविधानं च विप्राणां मरणान्तिकम् ॥
संसर्गदोषः स्तेयान्यमहापातकनिष्कृतिः ।
वरातिथिपितृभ्यश्च पशूपाकरणक्रिया ॥
दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रहः ।
(*)सवर्णानां तथादुष्टैः संसर्गः शोधितैरपि ॥
(*) सवर्णान्याङ्गनादुष्टैरिति पाठान्तरं निर्णयसिन्ध्वादौ ।
अयोनौ सङ्ग्रहे वृत्ते परित्यागो गुरुस्त्रियाः ।
परोद्देशात्मसन्त्याग उच्छिष्टस्यापि वर्जनम् ॥
प्रतिमाभ्यचनार्थाय सङ्कल्पश्च सधर्मकः ।
अस्थिसञ्चयनादूर्ध्वमङ्गस्पर्शनमेव च ॥
शामित्रं चैव विप्राणां सोमविक्रयणं तथा ।
षड्मक्तानशनेनान्नहरणं हीनकर्मणः ॥
शूद्रेषु दासगोपालकुलमित्रार्धसीरिणाम् ।
भोज्यान्नता गृहस्थस्य तीर्थसेवातिदूरतः ॥
शिष्यस्य गुरुदारेषु गुरुवद्वृत्तिशीलिता ।
आपद्वृत्तिर्द्विजाग्षाणामश्वस्तनिकता तथा ॥
प्रजार्थं तु द्विजाग्त्याणां प्रजारणिपरिग्रहः ।
व्राह्नणानां प्रवासित्वं मुखाग्निधमनक्रिया ॥
बलात्कारदिदुष्टस्त्रीसङ्ग्रहो विधिचोदितः ।
{म्व्-स्_२६३}
यतेस्तु सर्ववर्णेषु भिक्षाचर्या विधानतः ।
नवोदके दशाहं च दक्षिणा गुरुचोदिता ॥
ब्राह्मणादिषु शूद्रस्य पचनादिक्रियापि च ।
भृग्वग्निपतनैश्चैव वृद्धादिमरणं तथा ॥
गोतृप्तिशिष्टे पयसि शिष्टैराचमनक्रिया ।
पितापुत्रविरोधेषु साक्षिणां दण्डकल्पनम् ॥
यतेः सायङ्गृहत्वं च मुनिभिस्तत्त्वतत्परैः ।
एतानि लोकगुप्त्यर्थं कलेरादौ महात्मभिः ॥
निवर्त्तिन्तानि कर्माणि व्यवस्थापूर्वकं बुधैः ।
समयश्चापि साधूनां प्रमाणं वेदवद्भवेत् ॥
पुराणान्तरे–
ऊढायाः पुनरुद्बाहं ज्येष्ठांशं गोवधं तथा ।
कलौ पञ्च न कुर्वीत भ्रातृजायां कमण्डलुम् ॥
निगमे ऽपि–
अक्षता गोपशुश्चैव श्राद्धे मांसं तथा मधु ।
देवराच्च सुतोत्पत्तिः कलौ पञ्च विवर्जयेत् ॥
व्यासः–
चत्वार्यब्दसहस्राणि चत्वार्य्बदशतानि च ।
कलेर्यदा गमिष्यन्ति तदा त्रेतापरिग्रहः ॥
सन्न्यासश्च न कर्तव्यो ब्राह्मणेन विजानता ।
देवलः–
यावद्वर्णविभागो ऽस्ति यावद्वेदः प्रवर्तते ।
अग्निहोत्रं च सन्न्यासं तावत्कुर्यात्कलौ युगे ॥
लौगाक्षिः–
अर्धाधानं स्मृतं श्रौतस्मार्त्ताग्न्योस्तु पृथक्कृतिः ।
सर्वाधानं तयोरैक्यकृतिः पूर्वयुगाश्रया ॥
इति कलिवर्ज्यानि ।
अथ दीक्षाकालः ।
कालोत्तरे–
शरद्वसन्तयोर्योगो दीक्षाकर्मविधौ स्मृतः ।
तयोरसम्भवे वर्षा विनान्यत्रापि शस्यते ॥
शरद्वसन्तयोर्योग इति शरदि वसन्ते चेत्यर्थः ।
तत्र मासफलानि तु संहितायाम्–
असिद्धिर्भूमिसम्पत्तिर्मरणं बन्दुनाशनम् ।
{म्व्-स्_२६४}
आयुर्वृद्धिः प्रजानाशः सम्पत्ती रत्नसञ्चयः ॥
शुभप्राप्तिः स्थाननाशो मेधार्थश्च वशीकृतिः ।
चैत्रादीनां फलं ज्ञेयं मलमासं विवर्जयेत् ॥
कारणे तु अन्यथा मासफलान्युक्तानि ।
वैशाखपूर्वजे मासे मन्त्रारम्भः सुदुःसहः ।
वैशाखे धनदायी च ज्येष्ठे मृत्युप्रदो भवेत् ॥
आषाढे पुत्रलाभाय श्रावणे शुभदो मतः ।
बाद्रे चैव ज्ञानहानिस्तथासिद्धिः प्रकीर्त्तिता ॥
आश्विने सर्वसिद्धिश्च कार्त्तिको ज्ञानसिद्धिदः ।
शुभकृन्मार्गशीर्षः स्यात्पौषो दुःखविधायकः ॥
माघे मेधाविवृद्धिश्च फाल्गुने सर्ववश्यता ॥
इति ।
अत्राषाढस्य सम्यक्फलता पूर्ववाक्ये ऽनिष्टफलदत्वमुक्तमतो विकल्पः ।
सिद्धान्तशेखरे तु विशेषः ।
शरत्काले च वैशाखे दीक्षा श्रेष्ठफलप्रदा ।
फाल्गुने मार्गशीर्षे च ज्येष्ठे दीक्षात्र मध्यमा ॥
आषाढः श्रावणो माघः कनिष्ठाः सद्भिरादृताः ।
निन्दितश्चैत्रमासस्तु पौषो भाद्रपदस्तथा ॥
निन्दितेष्वपि मासेषु दीक्षोक्ता ग्रहणे शुभा ।
कारणे–
आषाढपूर्वमासे च आषाढे मार्गशीर्षके ।
दीक्षां न कारयेद्धीमानन्यमासेषु कारयेत् ॥
शुक्लपक्षे शुभर्क्षे च शुभवारतिथौ तथा ।
इति ।
क्रियाकाण्डशेखरे तु–
न विना पर्व दीक्षा स्यात् वर्षासु मधुपौषयोः ।
अन्यत्र तु सदा कार्या विशुद्धौ गुरुशिष्ययोः ॥
वर्षादौ हि निमित्तानि प्रशस्तान्युपलक्ष्य वै ।
इति वर्षादिनिषिद्धकालेष्वपि शुभशकुनाद्युपलम्मे सति दक्षिकार्येत्याह हेमाद्रिः ।
अगस्तिसंहितायाम्–
शुक्लपक्षे ऽथ कृष्णे वा दीक्षा सर्वसुखावहा ।
इति ।
कालोत्तरे विशेषः ।
दीक्षारम्भः प्रकर्तव्यो भूतिकामैः सिते तथा ।
मुक्तिकामैः कृष्णपक्ष इति ।
{म्व्-स्_२६६ (“२५७”)}
संहितायां तु–
पूर्णिमा पञ्चमी चैव द्वितीया सप्तमी तथा ।
त्रयोदशी च दशमी प्रशस्ताः सर्वकामदाः ॥
इति ।
अन्यत्रापि–
कृष्णाष्टम्यां चतुर्दश्यां पञ्चपर्वदिने ऽथवा ।
इति ।
मन्त्रसारसङ्ग्रहे–
द्वितीया पञ्चमी चैव षष्ठी चापि विशेषतः ।
द्वादश्यामपि कर्तव्यं त्रयोदश्यामथापि वा ॥
इति ।
मन्त्ररत्नावल्यामपि–
चतुर्थीं नवमीं षष्ठीमष्टमीं च चतुर्दशीम् ।
पौर्णमासीं विना शेषा हिता मुक्तौ मुमुक्षुभिः ॥
हेमाद्रौ स्मृत्यन्तरे–
सप्तम्यां च नवम्यां च एकादश्यामथापि वा ।
दशम्यां च त्रयोदश्यां दीक्षाकर्म प्रशस्यते ॥
क्वचित्तु त्रयोदश्याममावास्यामिति पाठः ।
सितेन्दुज्ञगुरूणां तु परीक्षेते गुणागुणैः ॥
गुणैर्युक्ता तु सङ्ग्राह्या गुणैर्हीनां तु व्रजयेत् ।
इति ।
सितः = शुक्रः ।
ज्ञो = बुधः ।
एषां गुणागुणैः तिथिवारसंयोगजैः उदितास्तमितवक्रातिचारुरूपैर्दीक्षालग्ने केन्द्रत्रिकोणषडष्टमान्त्यस्थितिरूपैर्गुणागुणैः ।
कालोत्तरे–
चतुर्थ्यामथवाष्टम्यां चतुर्दश्यां तथैव च ।
पूर्णिमायां प्रकर्तव्यं भूतिकामैः सिते सदा ॥
मुक्तिकामैः कृष्णपक्षे यत्किञ्चित्कर्म चाचरेत् ।
दिनच्छिद्राणि मुक्त्वाथ याश्चान्यास्तिथयः स्मृताः ॥
इति ।
तत्वसागरसंहितायां विशेषः ।
तां तां तिथिं समालोच्य तद्भक्तांस्तत्र दीक्षयेत् ।
इन्द्र उवाच ।
कस्य का तिथिरुद्दिष्टा समासाद्वद नांरद! ।
नारद उवाच ॥
ब्रह्मणः पौर्णमास्युक्ता द्वादशी चक्रधारिणः ।
चतुर्दशी शिवस्योक्ता वाचः प्रोक्ता त्रयोदशी ॥
द्वितीया च श्रियः प्रोक्ता पार्वत्यास्तु तृतीयिका ।
नित्या मार्गेषु पार्वत्या अष्टमी च चतुर्दशी ॥
{म्व्-स्_२६६ (“२५८”)}
चतुर्थी गणनाथस्य भानोः प्रोक्ता तु सप्तमी ।
एवं मुक्यास्तु तिथयः सुरेन्द्र! परिभाषिताः ॥
इति ।
रत्नावल्याम्–
आदित्यं मङ्गलं सौरिं त्यक्त्वा वारास्तु भूतये ।
इति ।
संहितायां तु–
रवौ गुरौ सिते सोमे कर्तव्यं बुधशुक्रयोः ।
इति ।
सिते = शुक्लपक्षे इत्यर्थः ।
संहितायाम्–
अश्विनीरोहिणीस्वातिविशाखाहस्तभेषु च ।
ज्येष्ठोत्तरात्रयेष्वेव कुर्यान्मन्त्राभिषेचनम् ॥
रत्नावल्याम्–
त्रीण्युत्तराणि रोहिण्यः पुष्यकं मृगशीर्षकम् ।
हस्तः स्वातिरनुराधा मघा मूलं च रेवती ।
अभिजित् श्रवणं चे ति शिवयोगे चतुर्दशी ॥
कारणे–
पौष्णं रोहिण्यथादित्यं श्रवणं चाश्विनी तथा ।
सावित्रं त्वाष्ट्रवायव्यमैन्द्रं नैरृतमेव च ॥
तिष्यं त्रिरुत्तरार्द्रा च सौम्यं शिष्यत्रिजन्मभम् ।
नक्षत्राणि प्रशस्तानि दीक्षाकर्मणि सुव्रत! ॥
इति ।
पौष्णं = रेवती ।
आदित्यं = पुनर्वसुः ।
सावित्रं = हस्तः ।
त्वाष्ट्रं = चित्रा ।
वायव्यं = स्वातिः ।
ऐन्द्रं = ज्येष्ठा ।
नैरृतं = मूलम् ।
सौम्यं = मृगशीर्षकम् ।
शिष्यत्रिजन्मभं = शिष्यजन्मनक्षत्रदशमैकोनविंशातिनक्षत्रम् ।
अन्यत्रापि–
उत्तरात्रयरोहिण्यो रेवतीपुष्यवासवम् ।
धनिष्ठावायुमित्राग्निपित्र्यं त्वाष्ट्रं च नैरृतम् ॥
ऐशवैष्णवहस्ताश्च दीक्षायां तु शुभावहाः ।
इति ।
योगा अप्युक्ता रत्नावल्याम्–
योगाश्च प्रीतिरायुष्मान्सौभाग्यः शोभनः स्मृतः ।
सुकर्मा च धृतिर्बृद्धिर्ध्रवः सिद्धिश्च हर्षणः ॥
वरीयांश्च शिवः सिद्धो ब्रह्मा ऐन्द्रश्च षोडश ।
निन्द्यानि तानि सर्वाणि प्रशस्तानि विमुक्तये ॥
प्रतिपत्पूर्वाषाढा च पञ्चमी कृत्तिका तथा ।
पूर्वाभाद्रपदा षष्ठी दशमी रोहिणी तथा ॥
द्वादश्यां सर्वनक्षत्रमर्यम्णा च त्रयोदशी ।
{म्व्-स्_२६७ (“२५९”)}
नक्षत्रयोगा इत्येते देवानामपि नासदाः ॥
शकुन्यादीनि विष्टिं च विशेषेण विवर्जयेत् ।
इति ।
कारणे–
राशयश्च चराः श्रेष्ठा मध्यमाश्चोभयोः स्मृताः ।
स्थिराश्च नैधनस्थाने ग्रहाः सर्वे विवर्जिताः ।
आचार्यशिष्ययोरानुकूल्ये शुभप्रदं भवेत् ॥
क्रियाकाण्डशेखरे–
राश्यादिवर्गसंशुद्धिर्लग्ने चर्न्द्राकयोरपि ।
बलं गोचरसिद्धिश्च ज्योतिःशास्त्रे प्रतीयताम् ॥
लग्नदोषा ग्रहदोषाः सर्वे नश्यन्ति वै शुभे ।
लग्नस्थे भार्गवे प्रौढे केन्द्रस्थे वा बृहस्पतौ ॥
इत्यादिनिपुणं वीक्ष्य दीक्षां कुर्वीत देशिकः ।
मौमुक्षवीं प्रत्ययं तु न कालनियमः स्मृतः ॥
इति ।
मन्त्रवर्णेषु सिद्धार्णात्सुसिद्धान्मेलयेद् बुधः ।
वैरिवर्णानुदासीनान् गुणयेद्दशभिः पृथक् ॥
सिद्धराशौ हरेद्भागं वसुभिर्भानुभिः स्वरैः ।
त्रिधा स्थाप्यात्र यः शेषो यामसङ्ख्योदिता हि सा ॥
त्रिधा स्थाप्यात्र यः शेषो यामसह्ख्योदिता हि सा ॥
रिपुराशिगतः शेषो मासो ऽसौ परिकीर्त्तितः ।
हरेत्पञ्चदशैर्भागं तिथिज्ञानाय केवलम् ॥
मासि तस्मिन् तथा यामे कुर्वीत ग्रहणं मनोः ।
ज्योतिःशास्त्रशुनिर्णीते लग्ने वा दीक्षितो भवेत् ॥
इति ।
एतदुक्तं भवति ।
देयमन्त्रवर्णान् कोष्ठचक्रे चतुष्कोष्ठात्मकमेककोष्ठमङ्गीकृत्य सिद्धसाध्यसुसिद्धवैरिभेदेन पृथक्कृत्य तन्मध्ये सिद्धसुसिद्धवर्णानेकीकृत्य साध्यवैरिवर्णान् प्रत्येकं दशभिर्गुणयित्वा सर्वमेकीकृताह्कान् पृथक् स्थानत्रये संस्थाप्य प्रथममष्टभिर्हरेत् ।
अवशिष्टाङ्कसमो यामः ।
एवं भानुभिर्हृते ऽविशिष्टाङ्कसमो मासः ।
पञ्चदशभिर्हृते शेषाह्कसमा तिथिः ।
तत्र तस्मिन् मासे शुक्लपक्षे तस्मिन् दिने तस्मिन् प्रहरे मन्त्रमुपदिशेत् ।
मुमुक्षुदीक्षायां कृष्णपक्ष इति विशेषः ।
रत्नावल्याम्–
निन्द्यानि तानि सर्वाणि प्रशस्तानि विमुक्तये ।
संहितायाम्–
पञ्चाङ्गशुद्धदिवसे स्वोदये तिथिवारयोः ।
गुरुशुक्रोदये शुद्धलग्ने द्वादशसोधिते ॥
प्रवृद्धे बलसंयुक्ते शुक्रे दवगुरौ तथा ।
{म्व्-स्_२६८ (“२६०”)}
शुभे विधुसमायोगे शुभवर्गे शुभोदये ॥
इत्यादौ सर्वमन्त्राणां सङ्ग्रहः सर्वसौख्यकृत् ।
इति ।
तथान्यत्र–
शिष्यत्रिजन्मदिवसे सङ्क्रान्तिविषुवे ऽयने ।
अन्येषु पुण्ययोगेषु ग्रहणे चन्द्रसूर्ययोः ॥
शिष्यानुकूले काले वा देहशुद्धिः सुभावहा ।
इति ।
महाकापिलपञ्चरात्रे–
एवं नक्षत्रतिथ्यादौ करणे योगवासरे ।
मन्त्रोपदेशो गुरुणा साधनं च शुभावहम् ॥
इति ।
गुरुणा कर्त्तब्य इति शेषः ।
साधनं = साधनारम्भ इत्यर्थः ।
कार्यमिति शेषः ।
अथ पूर्वोक्तदीक्षाकालापवादः ।
अगस्तिसंहिताथाम्–
सूर्यग्रहणकाले तु नान्यदन्वेषितं भवेत् ।
सूर्यग्रहणकालेन न समो ऽन्यो ऽस्ति कश्चन ॥
तत्र यद्यत्कृतं सर्वमनन्तफलदं भवेत् ।
इति ।
न मासतिथिवारादिशोधनं सूर्यपर्वणि ।
ददातीष्टं गृहीतं यत् तस्मिन्काले गुरोर्नृषु ॥
सिद्धिर्भवति मन्त्रस्य विनायासेन वेगतः ।
कर्तव्यं सर्वयत्नेन मन्त्रासिद्धिमभीप्सुभिः ॥
इति ।
तस्मिन्काले यद्गुरोर्गृहीतं तत् नृषु इष्टं ददातीति सम्बन्धः ।
प्रन्थान्तरे–
सत्तीर्थे ऽर्कविधुग्रासे तन्तुदामनपर्वणोः ।
मन्त्रदीक्षां प्रकुर्वाणो मासर्क्षादीन् न शोधयेत् ॥
कालान्तरे–
धीक्षायाममिषेके च तथा मन्त्रपरिग्रहे ।
व्रतग्रहणमोक्षे च द्रव्यारम्भणकर्मणि ॥
कार्त्तिक्यां चैव वैशाख्यां स्वर्भानोरपि दर्शने ।
चन्द्रसूर्योपरागेषु षडशीतिमुखेषु च ॥
ग्रहनक्षत्रयोगेषु विषुवेषूत्सवेषु च ।
अयनेषु च सर्वेषु योगः सर्वार्थसिद्धिदः ॥
क्रियाकाण्डशेखरे–
प्रसिद्धास्तिथयो राहुदर्शनं गुरुपर्व च ।
पवित्रकतिथिश्चापि दीक्षाकर्मविधौ परा ॥
इति ।
प्रसिद्धाः = समनन्तरोक्तास्तिथयः ।
{म्व्-स्_२६९ (“२६१”)}
सिद्धान्तशेखरे–
विषुवे ऽप्ययनद्वन्द्वे आषाढ्यां दमनोत्सवे ।
दीक्षा कार्या तु कालेषु पवित्रारोपकर्मणि ॥
इति ।
अन्यत्रापि–
पुण्यतीर्थे कुरुक्षेत्रे देवीपीठचतुष्टये ।
प्रयागे श्रीगिरौ काश्यां कालाकालौ न शोधयेत् ॥
देवीपीठचतुष्टयमु = ड्डीयानजालन्धरपूर्णागिरिकामरूपाख्यम् ।
श्रीगिरौ = श्रीपर्वते इति केचित् ।
अन्यत्रापि–
शशिदिनकरयोर्ग्रहणे जन्मनि शिष्यस्य मकरसङ्क्रान्तौ ।
करुणासमये च गुरोर्नक्षत्रादीष्यते न दीक्षायाम् ॥
इति ।
तत्वसागरसंहितायाम्–
तिथिं विनापि दीक्षायां विशिष्टावसरं शृणु ।
दुर्लभे सद्गुरूणां हि सकृत्सङ्ग उपस्थिते ॥
तदनुज्ञाय दातव्या स दीक्षावसरो महान् ।
ग्रामे वा यदि वारण्ये क्षेत्रे वा दिवसे निशि ॥
आगच्छति गुरुर्दैवाद्यदा दीक्षा तदा भवेत् ।
यदैवेच्छा तदा दीक्षा गुरोराज्ञानुरूपतः ॥
न तिथिर्न जलं होमो न स्नानं न जपक्रिया ।
दीक्षायाः कारणं किन्तु स्वेच्छावाप्ते हि सद्गुरौ ॥
इह केचित् चन्द्रग्रहे दीक्षा न कार्या जडत्वं तदा स्यादित्याहुः ।
ते तु"सत्तीर्थे ऽर्कविधुग्रासे” “चन्द्रसूर्योपरागेषु च” “शशिदिवाकरयोर्ग्रहणे” “राहुदर्शनं गुरुपर्व च"इत्यादिबहुमुनिवचनविरोधात् अनादरणीया इति ।
विष्णुदीक्षायां विशेषः–
पञ्चरात्रे:
द्वादश्यां शुक्लपक्षस्य सूर्यसङ्क्रमणे तथा ।
द्वादश्यां कृष्णपक्षस्य पौर्णमास्यां मुने ऽथवा ॥
अमावास्यामपि तथा कालमुद्दिश्य देशिकः ।
नवैकद्वित्र्यहःपूर्वमधिवासनमारभेत् ॥
तत्त्व(न्त्र)सागरसंहितायामपि–
ब्रह्मणः पोर्णमास्युक्ता द्वादशी चक्रधारिणः ।
एवं ग्रहणादिकालेषु उक्तमासशुक्लद्वादश्यादिषु विष्णुदीक्षा कार्या इति ।
इति दीक्षाङ्कालाः ।
{म्व्-स्_२७० (“२६२”)}
अथ विष्णोर्नामकीर्त्तनकालः ।
विष्णुधर्मोत्तरे–
अथ सर्वाणि नामानि सर्वकार्ये हरेर्जपेत् ।
तथा–
चक्रिणं हलिनं चैव शार्ङ्गिणं खङ्गिनं तथा ।
मोक्षार्थी प्रवसन् राजन्!दिक्षु प्राच्यादिषु स्मरेत् ॥
अजितं चाच्युतं चैव सर्वं सर्वेश्वरं पृथुम् ।
संस्मरेत्पुरुषं भत्त्या व्यवहारेषु सर्वदा ॥
कूर्मं वराहं मत्स्यं वा जलप्रतरणे स्मरेत् ।
भ्राजिष्णुमग्निजननं जपेन्नाम त्वतन्द्रितः ॥
सङ्ग्रामाभिमुखो गच्छन्संस्मरेदपराजितम् ।
केशवं पुण्डरीकाक्षं पुष्कराक्षं तथा जपेत् ॥
नेत्रबाधासु सर्वासु हृषीकेशं तथैव च ।
अच्युतं चामृतं चापि जपेदौषधकर्मणि ॥
गरुडध्वजानुस्मरणादापदो मुच्यते नरः ।
ज्वरदोषशिरोरोगविषवीर्यं प्रशाम्यति ।
ग्रहनक्षत्रपीडासु देवबाधाटवीषु च ॥
दस्युवैरिनिरोधेषु व्याघ्रसिंहादिसङ्कटे ।
अन्धकारे तथा तीव्रे नारसिंहेति कीर्त्तयेत् ॥
नारायणं शार्ङ्गधरं श्रीधरं गजमोक्षणम् ।
वामनं खङ्गिनं चैव दुःस्वप्नेषु च संस्मरेत् ॥
अग्निदाहे समुत्पन्ने संस्मरेज्जलशायिनम् ।
बलभद्रं तु युद्धार्थी कृष्यारम्भे हलायुधम् ॥
उत्तारणं वणिज्यार्थी श्रीशमभ्युदये नृप! ।
मङ्गल्यं मङ्गले विष्णुं माङ्गल्येषु च कीर्त्तयेत् ॥
अग्निष्वार्त्तेष्वशेषेषु विशोकेति तथा जपेत् ।
उत्तिष्ठन्कीर्त्तयेद्विष्णुं प्रसुप्ते माधवं नरः ॥
भोजने चैव गोविन्दं सर्वत्र मधुसूदनम् ।
नारायणं सर्वकाले क्षुतप्रस्खलितादिषु ॥
ध्याने देवार्चने होमे प्रणिपाते प्रदक्षिणे ॥
कीर्त्तयेद्वासुदेवं च अनुक्तेष्वपि यादवम् ।
कार्यारम्भे तथा राजन्! यथेष्टं नाम कीर्त्तयेत् ॥
सर्वाणि नामानि हि तस्य राजन्!
सर्वार्थसिध्द्यै हि भवन्ति पुसः ।
{म्व्-स्_२७१ (“२६३”)}
तस्मद्यथेष्टं खलु देवनाम
सर्वेषु कार्येषु जपेत्तु भत्क्या ॥
इति विष्णोर्नामकीर्त्तनकालः ।
अथाधानकालः ।
तत्र श्रुतिः–
जातपुत्रः कृष्णकेशो ऽग्नीनादधीतेति ।
एतच्च वयोवस्थाविशेषोपलक्षणम्,
तामाशिषमाशासे तं तवे ज्योतिष्मतीमिति ब्रूयाद्यद्यस्य पुत्रो जातः स्यात् ।
इत्यादिषु यद्युपबन्धदर्शनादजातपुत्रस्याप्याधानपूर्वत्वात् ।
एवं च उपलक्ष्यवयोवस्थाविशेषणीभूतवयस आधानकालत्वं सूचितं भवति ।
कालान्तरमाह–
बौधायनः, विवाहो व्याख्यातो ऽत्राग्न्याधेयस्य कालो यथाश्रद्धमत ऊर्द्धं जीवति पितर्यग्नीनादधीतेति बौधायनः ।
जीवादिमृते वा जायामवाप्य दशमे ऽहन्यग्निमादधीतेति शालाकिः ।
जायामवाप्येत्युत्क्या विवाहस्य सार्वकालिकत्वेन दक्षिणायने ऽपिर्वण्यपीत्युक्तं भवति ।
जीवति पितरीति पक्षे चौपासनं धारयतो न प्रत्यवाय इत्युक्तं बौधायनेनैव–“न दुर्ब्राह्मणो भवत्यौपासनं धारयमाण"इति ।
एष त्रैवर्णिकसाधारणः कालो ऽधुना वर्णाविशेषपुरष्कारेण ऋतुविशेषा विविच्यन्ते ।
तत्र श्रुतिः–वसन्ते ब्राह्मणो ऽग्नीनादधीत, ग्रीष्मे राजन्यः, शरदि वैश्यो, वर्षासु रथकार इति ।
रथकारो न"माहिष्येण करण्यां तु रथकारः प्रजायते"इति याज्ञबल्क्योक्तो जातिविशेषः, किन्तु सौधन्वनापरपर्यायः ।
आपस्तम्बस्तु–वसन्तो ब्राह्मणस्य ग्रीष्मो राजन्यस्य हेमन्तो वा शरद्वैश्यस्य वर्षासु रथकारस्य ।
ये त्रयाणां वर्णानामेतत्कर्म कुर्युस्तेषा मेष कालः ।
शिशिरः सार्ववार्णिक इति ।
ये त्रयाणां वर्णानामिति ।
ये ब्राह्मणक्षत्रियवैश्याः एतेषां त्रयाणां वर्णानां मध्ये एतत्कर्म रथकर्म कुर्युस्तेषामेष काल इति, एवं च रथकारो न जातिविशेषः किन्तु त्रैवर्णिङ्क एवेति ।
कालान्तरमाह–
बौधायनः–यदैवैनं श्रद्धोपनमेदथादधीत सैवास्यर्द्धिः तदेतदार्त्तस्यातिवेलं वा श्रद्धायुक्तस्येति ।
आर्त्तः = व्याधितः ।
अतिवेलं श्रद्धायुक्तो ऽतिशयेन श्रद्धावान् ।
{म्व्-स्_२७२ (“२६४”)}
अथ कामनाविशेषेण ऋतव उक्ताः ।
कात्यायनेन–वसन्तो ब्राह्मणब्रह्मवर्चसकामयोः ग्रीष्मः क्षत्रियश्रीकामयोः वर्षाः प्रजापशुकामवैश्यरथकृतामिति ।
एतेन ब्राह्मणक्षत्रियवैश्यानां काम्या अन्ये ऽपि काला इति सिद्धम् ।
वसन्तादयो द्विविधाः ।
सौरचान्द्रभेदेन ऋतुविवेचने = क्ताः ।
सौरा अपि मीनमेषौ मेषवृषौ वेत्यादिभेदेन द्विविधा इत्यपि चोक्तम् ।
एवं च चैत्रवैशाखज्येष्ठास्तथा पूर्वोदाहृतात्"शिशिरः सार्ववर्णिक"इत्येतस्मान्माघफाल्गुनौ च मिलित्वा पञ्च मासा ब्राह्मणस्याधानकाल इति सिद्धम् ।
एतन्मूलिकैव माघादिपञ्चमासा वसन्त इति याज्ञिकप्रसिद्धिरिति ।
अथ तिथयः ।
तत्रापस्तम्बः–अमावास्यायां पौर्णमास्यां वा अधिय इति,
तथा फाल्गुनीपूर्णमास आदधीतेत्युक्त्वा द्व्यहे पुरैकाहे वेति ।
द्व्यहे दिनद्वयम्, पुरा पूर्वमेकाहे एकदिनपूर्वमित्यर्थः ।
एवं च द्व्यहेतिपक्षे त्रयोदश्याम् ।
एकाहेतिपक्षे चतुर्दश्यामादधीतेत्यर्थः ।
बौधायनसक्तु-या वैशाख्याः पौर्णमास्या उपरिष्टादमावास्या भवति सा सकृत्सवन्त्सरस्य रोहिण्या सम्पद्यते तस्यामादधीतेति ।
आश्वलायनः-वसन्ते पर्वणि आदधीतेति ।
सत्याषाढस्तु–आदधीतेत्युपक्रम्य–आमावास्यायां पौर्णमास्यामापूर्यमाणपक्षे वा पुण्ये नक्षत्रे ऽत्र यत्त्रीणि निपतन्ति तत्समूहम् ।
विप्रतिषेधे ऋतुनक्षत्रं बलीय इति ।
पुण्यनक्षत्राणि तु कृत्तिकादिचतुर्दशनक्षत्राणि"कृत्तिकाः प्रथमं"इत्यादि श्रुतेः ।
वाजसनेयके तु नक्षत्रनिन्दापूर्वकमुक्तम्–अमवास्यायामग्नीनादधीतेति, तेन पर्वाभ्यर्हितमिति ।
अथ नक्षत्राणि ।
तत्र कात्यायनः–कृत्तिकारोहिणीमृगशिरः फल्गुनीषु हस्तो लाभ कामस्य चित्रा चेति ।
बौधायनः–कृत्तिकासु रोहिण्यां पुनर्वसुफल्गुन्योश्चित्रायामिति ।
आश्वलायनः-अग्न्याधेयं कृत्तिकासु रोहिण्यां मृगशिरसि फल्गुनीषु विशाखयोरुत्तरयोः प्रौष्ठपदयोरेतेषामेकस्मिन् कस्मिंश्चित् ।
आपस्तम्बस्तु–कृत्तिकासु ब्राह्मण आदधीत मुख्यो ब्र्हनवर्चसी भवति ।
गृहांस्तस्याग्निर्द्दाहको भवति ।
रोहिण्यामाधाय सर्वान् रोहान् रोहति ।
मृगशीर्षे ब्रह्मवर्चसकामो यज्ञकामो वा यः पुराभद्रः सन्पापीयान् स्यात्स पुनर्वस्वोरादधीत ।
{म्व्-स्_२७३}
पूर्वयोः फल्गुन्योर्यः कामयेत, दानकामा मे प्रजाः स्युरिति ।
उत्तरयोर्यः कामयेत फलदः स्यादिति ।
एतदेव विपरीतमथापरं पूर्वयोराधाय पापीयान् भवति उत्तरयोर्वशीयान् हस्ते यः कामयेत प्रमे दीयेतेति चित्रायां राजन्यो भ्रातृव्यवान् विशाखयोः प्रजाकामो ऽनुराधे वृद्धिकामः उत्तरेषु प्रौष्ठपदेषु प्रतिष्ठाकामः सर्वाणि नित्यवदेके समामनन्ति ।
अस्यार्थः ।
मुख्यः = श्रेष्ठः ।
कल्वान् रोहान् गजादीन् रोहति आरोहति ।
पुराभद्रः = पूर्वाफल्गुनीफलमुत्तराफल्गुनीषु, उत्तराफल्गुनीफलं पूवीफल्गुनीष्वित्यर्थः ।
अत्र अकाम्यमानमपि अनिष्टं फलं भवति वस्तु सामर्थ्यात्"यो ब्राह्मणायावगुरेत् इतिवत् ।
गर्गसंहितायाम्–
पुष्याग्नेयत्र्युत्तरादित्यपौष्णज्येष्ठाचित्राकादिदैवत्यभेषु ।
कुर्युर्वह्नयाधानमाद्यं वसन्तग्रीष्मोष्मान्तेष्वेव विप्रादिवर्णाः ॥
पौष्णं = रेवती ।
कः = ब्रह्मा तद्देवत्या रोहिणी ।
आद्यं = प्रथमाधानम् ।
अत्राद्यमित्युपादानात् पुनराधानादौ न ऋतुनक्षत्रादिनियमः ।
अपूर्वे ऽपि सोमपूवीधाने न ऋतुनक्षत्रादर इत्युक्तम्–आपस्तम्वेन,
सोमेन यक्ष्यमाणो नर्त्तुं सूर्क्षेन्न नक्षत्रमिति ।
यः सर्वकर्मभ्यो ऽग्निहोत्रदर्शपूर्णमासादिभ्यः पूर्वं सोममेव कर्तुमिच्छति स ऋतुं नक्षत्रं च न सूर्क्षेतौनाद्रियेत ।
पर्व तु अपेक्षेदेव तथाच–
धूर्तस्बामिः-सोमाधानमेकदीक्षापक्षे पर्वण्येव नैकादश्यादिषु सोमाधानस्य पवीपेक्षणादिति ।
रुद्रदत्तेन तु नक्षत्रग्रहणं प्रदर्शनार्थमिति न पर्वादर इति उक्तम् ।
अत्रेदं विचार्यते ।
किमनेन सोमकालमात्रबाध उताधानमात्रकालबाध उक्त इति ।
नाद्यः, प्रकरणादाधानकालमात्रबाधो युक्तो न सोमस्य तस्याप्रकृतत्वात् ।
किञ्च न हि सोमे आपस्तम्बेन नक्षत्राण्युक्तानि येन कथञ्चिद्बुद्धिस्थतामात्रेण बाध उच्येतेति ।
न द्वितीयः ।
एवं सति अत्र वाक्ये ब्राह्मणं प्रति ऋत्वनादरकथनमनर्थं स्यात्, सोमकालत्वेनाधाने ऽपि वसन्तस्यावर्जनीयत्वात् ।
न च वसन्तस्तदानीं सोमाङ्गमेव नाधानाङ्गमिति वाच्यम् ।
तस्य साधारणत्त्वात् ।
कालस्य हि अधिकरणत्वेनैवोपकारकत्वम् ।
सति च तस्मिन् कथं नाङ्गत्वमिति ।
किञ्च उत्कर्षाद्ब्राह्मणस्य सोमः स्यादित्यन्तरागर्भिण्यधिकरणे"सोमेन यक्ष्यमाण"इत्यत्र दर्शपूर्णमासोत्तरकालतारूपः सोमकाल आधानसोमयोरेकाहसम्बन्धेन बाध्यत इत्युक्तम् ।
{म्व्-स्_२७४}
तत्तुल्यन्याये नात्रापि वसन्तानादरेण कालान्तरे आधाने क्रियमाणे सोमाधानयोरेकाहसम्बन्धार्थं सोमस्याप्यृतुर्बाध्यत एव तस्मान्न सोमकालमात्रस्य न वाधानकालमात्रस्य बाधः अतो वचनमनर्थकमिति ।
अत्र वदामः ।
सत्यम्, नैकमात्रकालबाध इति, किन्तु सोमाधानयोर्द्वयोरपि कालो बाध्यते ।
तत्र परं वसन्त उभयाङ्गभूतो बाध्यते ।
नक्षत्रं तु आधानाङ्गभू तमेवेति ।
अत एव"यदैवैनं यज्ञ उपनमेदथादधीत"इति भारद्वाजेन नक्षत्राद्यनादर उक्तो यक्ष्यमाणत्वाभिसन्धिमत इति न किञ्चिदनुपपन्नम् ।
उत्तरायणं सर्वमाधानकाल इत्युक्तमाचार्यैरित्युक्तं बौधायनभाष्ये केशवस्वा मिना ।
यद्यपि ज्योतिःशास्त्रे लग्नाद्युक्तमाधाने, तथापि तदुपादेयमेव तस्य स्मार्त्तत्वे ऽपि आधानपुरष्कारेणैव विहितत्वादनन्यथासिद्धत्वेनावश्यमुपसंहर्त्तव्यत्वात् ।
अपरे तु स्मार्त्तत्वेनास्य स्मार्त्ताधान एवोपसंहारो न श्रौताधान इति वदन्ति ।
एतच्च मलमासादिषु तथा गुरुशुक्रमौढ्यादिषु न कार्यम् ।
इत्याधानकालः ।
अथ निरूढपशुबन्धकालः ।
तत्र याज्ञवल्क्यः-(अ। १ श्लो। १२५)
प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा ।
कर्तव्याग्रयणेष्टिश्च चातुर्मास्यानि चैव हि ॥
इति ।
अयनम् अयनं प्रतीति प्रत्ययनं प्रतिदक्षिणायनं प्रत्युत्तरायणं चेत्यर्थः ।
अत्रायनस्य सम्पूर्णसाधारणत्त्वे ऽपि अयनाद्यदिन एव कार्यम् ।
“आवृत्तिमुख आवृत्तिमुखे"इत्यापस्तम्वस्मरणात् ।
आवृत्तिः ।
उत्तरावधेर्मकराद्दक्षिणावधेर्वा कर्कात्सूर्यस्य परावृत्तिस्तस्य मुखमाद्यं दिनमित्यर्थः ।
निरूढपशुबन्धमुपक्रम्य कालान्तरमाह–
आपस्तम्बः–संवत्सरे संवत्सरे यजेत षट्सु षटूसु वा मासेष्वित्येके ।
ऋतुव्यावृत्तौ सुयवसे वेति ।
संवत्सरे पूर्णे इति शेषः ।
तेन वर्षान्तरे आधानदिवस इत्यर्थ इत्येके भाष्यकृतः ।
केचित्तु
“उपपदविभक्तेः कारकविभक्तिर्बलीयसी"इत्यनुशासनात् संवत्सरस्यैवाधिकरणत्वे तत्र च कदेत्यपेक्षिते ऋतुव्यावृत्तावित्येकः सुवयस इत्यपर इति कालद्वयम् ।
ऋतुव्यावृत्तौ = र्सवत्सरमध्ये यस्मिन् कस्मिंश्चित् ऋतुव्यावृत्तिदिन इत्यर्थः ।
सुयवसे = सुष्ठुयवसमर्जुनं तृणं यस्मिन् वर्षास्वित्यर्थः ।
भाष्यकारमते ऋतुव्यावृत्तौ प्रतिऋतुव्यावृत्तावेवं संवत्सरे षट् इति पक्षान्तरं सुयवस इति च पक्षान्तरं स्वतन्त्रमेव संवत्सरपक्षादिति ।
{म्व्-स्_२७५}
षट्सु षट्सु मासेषु इति च पक्षान्तरम् ।
षण्मास इत्यप्याधानप्रभृतिषण्मासपूर्त्तौ बोध्यमिति भाष्यकृतः ।
केषाञ्चिन्मते तु षण्मासे इत्येतत्पक्षे आवृत्तिमुख इति योजयन्ति ।
एवं च भाष्यकारमते प्रतिसंवत्सरमाधानदिन इत्येकः पक्षः, आधानदिनात् षट्सु
षट्सु मासेष्विति द्वितीयः, संवत्सरमध्ये प्रतिऋतुव्यावृत्ताविति तृतीयः, संवत्सरमध्ये वर्षाकाल एवेति चतुर्थः ।
आवृत्तिमुख इति पञ्च कालाः ।
केषाचिन्मते तु संवत्सरे संवत्सरे इति पक्षे यस्मिन् कस्मिंश्चिदृतावेकः, सुयवसे वेत्यपरः, षट्सु षट्सु मासेष् इति पक्षे च आवृत्तिमुख इति तृतीय इति ।
अत्र च प्रतिनियतदिनपक्षे न पर्वनियमः ।
पक्षान्तरे तन्नियम एव यदि स्तोतिवचनात् ।
कात्यायनो ऽपि कालद्वयमाह–पश्विज्या संवत्सरे संवत्सरे प्रावृषि आवृत्तिमुखयोर्वेति ।
कालान्तरमाह बौधायनः-पशुबन्धेन यजेतेत्युपक्रम्य आमावास्येन वा हविषेष्ट्वा नक्षत्रे वेति ।
आमावास्येन हविषेष्ट्वेति यजनीयमहः ।
अपरे तु शुक्लपक्षः सम्पूर्ण इति आहुः ।
नक्षत्रे = कृत्तिकाः प्रथमं विशाखा उत्तममिति तैत्तिरीयशाखोक्तचतुर्दशपुण्यनक्षत्रेष्वित्यर्थः ।
अथवा न क्षीयते चन्द्रमा अस्मिन्निति नक्षत्रं पौर्णमासीत्यर्थ इति ।
एतन्मते पौर्णमास्यां दर्शपौर्णमास प्रयोगारम्भात्पौर्णमासीमारभ्य दर्शपर्यन्तं न कर्मान्तरारम्भः, न कर्मवति कर्मान्तरारम्भ इति नियमात् ।
भाष्यकारस्तु ततो नानीजानं पशुना संवत्सरो ऽतीयादित्यर्थवादान्तर्गतवाक्यपर्यालोचनया आधानदिवसात्संवत्सरमध्ये यस्मिन् कस्मिंश्चित्पर्वणि पशुः कार्य इति षष्ठं कालमाह ।
एष च पुशुर्नित्यः"संवत्सरे संवत्सरे"इति प्रत्ययनमिति च वीप्साश्रवात्, एतदकरणे मन्वाद्युक्तप्रायश्चित्तस्य वक्ष्यमाणत्वाच्च ।
इति पशुकालः ।
अथ चातुर्मास्यानां कालो निर्णीयते ।
तत्र चातुर्मास्यानि कर्तव्यानीत्युक्तं याज्ञबल्क्येन–चातुर्मास्यानि चैव हीति ।
कर्तव्यानीत्यनुषङ्गः ।
तत्र चातुर्मास्यपदं वैश्वदेववरुणप्रघाससाकमेधशुनासीरीययागसमुदायनामधेयं राजसूयवत् ।
तानि च यावज्जीविकप्रयोगवन्ति, संवत्सरप्रयोगवन्ति, द्वादशाहप्रयोगवन्ति चेति त्रिविधानि ।
प्रयोगपर्याप्रकालपरिसमाप्यान्यपि केचिन्मन्यन्ते ।
तत्र संवत्सरप्रयोगवन्त्यपि द्विविधानि, ऋतकुयाजिकल्पेन चातुर्मास्ययाजिकल्पेन चेति ।
{म्व्-स्_२७६}
एतेषां प्रयोगाणां भेदे च प्रमाणं वक्ष्यमाणतत्तत्कालविधित एवावसेयम् ।
तत्र सर्वेषां प्रयोगाणां दर्शपौर्णमासोत्तरकर्तव्यत्वमुक्तं,“दर्शपौर्णमासाभ्यामिष्ट्वा"इत्यनेन ।
अधुना सांवत्सरिकादिप्रयोगेषु कालविशेषो विविच्यते ।
तत्र सांवत्सरिकप्रयोगे ऋतुयाजिकल्पे वैश्वदेवादिकाल उक्त आपस्तम्बेन ।
वसन्ते वैश्वदेवेन यजते प्रावृषि वरुणप्रघासैः शरदि साकमेधैरिति विज्ञायते ।
अत्र त्रिषु पर्वसु नियतः काल उक्तः ।
शुनासीरीये तु ऋतुयाजिसञ्ज्ञानुरोधाच्छिशिर एव ग्राह्य इति प्रतिभाति ।
अत्रापि पक्षे शुक्लपक्षः अपेक्षित एव ।
“उदगयन आपूर्यमाणपक्षे समस्तानि वैकल्पिकेषु
अनेकेषु कालेषु सत्स्वपि"इत्यनेन भारद्वाजवचनेनोक्तस्य तस्याबाधेनैवोपपत्तौ बाधकल्पनायोगात् ।
चातुर्मास्ययाजिकल्पे तथा यावज्जीवप्रयोगे ऽपि काल उक्तेनैव यश्चतुर्षु चतुर्षु मासेषु यजते स चातुर्मास्ययाजी ।
तत्रापि नियममाह-फाल्गुन्यां पौर्णमास्यां चैत्र्यां वा वैश्वदेवेन यजेत ।
ततश्चतुर्षु मासेषु आषाढ्यां वा श्रावण्यां वरुणप्रघासैर्यजेत ।
ततश्चतुर्षु मासेषु पूर्वस्मिन् पर्वण्युपक्रम्य द्व्यहं साकमेधैर्यजेत ।
ततो द्व्यहेत्र्यहे चतुरहे ऽर्द्धमासे मालि चतुर्षु वा मासेषु शुनासीरीयैरिति ।
अत्र यदा फाल्गुन्यामुपक्रमस्तादाषाढ्यामित्यादि, यदा चैत्र्यां तदा श्रावण्यामिति ।
अस्य पक्षस्य
ऋतुयाजिपक्षादयमेव भेदो यदृतुयाजि पक्षे वसन्तान्ते वैश्वदेवैरिष्ट्वा प्रावृडाद्यपर्वणि वरुणप्रघासानुष्ठानमपि सम्भवति ।
चातुर्मास्ययाजिपक्षे चतुर्षु चतुर्षु च मासेष्विति नियम इति ।
द्वादशाहकल्पं बौधायनभारद्वाजावाहतुः ।
तत्र भारद्वाजः–द्वादशाहानि यक्ष्यमाणः प्रतिपदि वैश्वानरपार्जन्याभ्यां द्वितीये वैश्वदेवेन तृतीये चतुर्थे वोपरम्य पञ्चमे वरुणप्रघासैः षष्ठे सप्तमे वोपरम्याष्टमे नवमे वा साकमेधैर्दशमे एकादशे वोपरम्य द्वादशे शुनासीरीयया, त्रयोदशे पशुरिति संवत्सरप्रतिमा वै द्वादश रात्रयः संवत्सरमेव यजेतेति विज्ञायते ।
त्रयोदशे पशुरिति यदि पशुना समाप्तिस्तत्पक्षे बोध्यम् ।
अत्र द्वितीयादिपदानि द्वितीयादितिथिपराणि प्रतिपदीति उपक्रमात् स्पष्टे चोक्तं बौधायनेन–
द्वादशाहे ऽपि चातुर्मास्यैर्यजेताथ प्रथमायां वैश्वदेवेनेष्ट्वा चतुर्थ्यां वरुणप्रघासैरष्टम्यां नवम्यां च साकमेधेः द्वादश्यां शुनासीरीयैः पुरुषो यजेतेति विज्ञायत इति ।
{म्व्-स्_२७७}
कालान्तरमप्युक्तं बौधायनेन–
नक्षत्रे प्रयोग इत्येक आहुरूदगयन आपूर्यमाणपक्षे पुण्याहे प्रयुञ्जीतेति ।
अत्र पक्षे आपूर्यमाणस्य पक्षस्य पुण्यनक्षत्रे उपक्रमः ।
नक्षत्रे प्रयोग इत्येतस्य विशेषणमुदगयनत्वादीति तद्भाष्यकृतः ।
यावज्जीविकप्रयोगपक्षे आरम्भस्तु चातुर्मास्ययाजिकल्पेनैव ।
द्वितीयसंवत्सरे परं विशेष उक्तो बौधायनेन-
कथमु खलु यावज्जीवप्रयुक्तानां चातुर्मास्यानामनुप्रयोगो भवतीति फाल्गुन्यां वा चैत्र्यां वा पौर्णमास्यां शुनासीरीयपुरुषो य जेताथ वैश्वदेवायोपवसेत् वैश्वदेवेनेष्ट्वा पौर्णमासवैमृधाभ्यां यजेताथ चेदिष्टया पशुना सोमेन वा यजेत कथं तत्र कुर्यादिति प्रतिकृष्यैतस्य पक्षस्य शुनासीरीयपुरुषो यजेतैषामेकेन यजेताथ वैश्वदेवायोपवसेत् वैश्वदेवेनेष्ट्वा पौर्णमासवैमृधाभ्यां यजेतेति ।
अथो एतद्बौधायनस्य पक्षं वेदयन्ते याव्जजीविकान्येव चातुर्मास्यानि स्युरिति ।
अनुप्रयोगो = द्वितीयः प्रयोगः ।
अत्र यदा फाल्गुन्यां पूर्वसंवत्सरे उपक्रमस्तदा फाल्गुन्यां यदा चैत्र्यामुपक्रमस्तदा चैत्र्यामिति ।
अथ चेदिष्ठ्येति यदि प्रयोगसमाप्त्यर्थं इष्ट्यादि क्रियते तदायं क्रमः ।
चेदित्युक्त्या यावज्जीवप्रयोगसमाप्त्यर्थैकत्वात्पश्वादीनां पाक्षिकत्वमिति ।
अथो एतद्बौधायनस्येत्याद्युत्त्या च यावज्जीविकप्रयोगो ऽपि पाक्षिको बोध्यः ।
कालान्तरमपि बौधायन आह–
यथाप्रयोगमित्यौपमन्यव इति ।
यथाप्रयोगमिति यावता कालेन प्रयोगसमाप्तिर्भवति तावति काले सन्ततं पूर्वाह्नादौ कुर्यादिति ।
अत्र पक्षे उदगयनपुण्यनक्षत्र एवोपक्रम इति ।
एतद्रुद्रदत्तादयो न मन्यन्ते ।
न हि यथाप्रयोगमित्यनेन चातुर्मास्यकालविधानं किन्तु ब्रह्मचर्यकालस्य नियमः प्रयोगदिनमितैव व्रतचर्येति ।
एतच्च स्पष्टमुपक्रमानुसारादेवावगम्येत् ।
तथा च सूत्रं–
यावज्जीवप्रयुक्तान्येव चातुर्मास्यानि स्युरन्तरमिथुनानि प्रथमे त्वेव संवत्सरे व्रतं चरेदित्यत्रोहस्माह शालाकिः सांवत्सरिकान्येव चातुर्मास्यानि ब्रह्मचर्यवन्तीति ।
यथाप्रयोगमित्यौपमन्यव इति ।
अस्यार्थः ।
बौधायनमते यावज्जीविकान्येव चातुर्मास्यानि कर्तव्यानि अन्तरिमिथुनवन्ति, प्रथमसंवत्सरयवव्रतचर्योति च ।
शालिकिमते तु सांवत्सरिकेष्वे वायं नियमो न यावज्जीविकेषु ।
उपमन्युमते तु प्रयोगदिने एव व्रतचर्येति ।
{म्व्-स्_२७८}
अपरे तु मास्तु यथाप्रयोगमित्यतः सन्ततकरणं तथापि"उदगयन आपूर्यमाणपक्षे समस्तानि"इति भारद्वाजवचनात्समस्तानां संलग्नानां प्रयोग इति ।
ऐहिकान्यपि चातुर्मास्यान्युक्तानि शाङ्ख्यायनेन ।
अथ सोमकालः ।
तत्र श्रुतिः–वसन्ते वसन्ते ज्योतिषा यजेतेति ।
याज्ञवल्क्यो ऽपि प्रतिसंवत्सरं सोम इति ।
अयमपि दर्शपौर्णमासोत्तरं कर्तव्य इत्युक्तं"दर्शपौर्णमासाभ्यामिष्ट्वा सोमेन यजेतेति वचनात् ।
अयमुत्सर्गः ।
सोमाधाने दर्शपौर्णमासेभ्यः पूर्वमपि तस्य करणात् ।
आश्वलायनेनापि"प्रागपि सोमेनैकेन"इत्यनेन दर्शपौर्णमासेभ्यः पूर्वमपि सोमकर्तव्यताकथनाच्च ।
एतच्च वसन्ते ऽपि पर्वणि कार्यं यदिष्ट्येतिवचनात् ।
कालान्तरमण्याह बौधायनः–
आमावास्येन हविषेष्ट्वा नक्षत्रे वेति ।
अस्यार्थः पशुकालनिरूपणे प्रतिपादितः ।
इति सोमकालः ।
प्रत्याशं परिवर्द्धते ऽर्थिजनतादैन्यान्धकारापहे
श्रीमद्वीरमृगेन्द्रदानजलधिर्यद्वक्रचन्द्रोदये ॥
राजादेशितमित्रमिश्रविदुषस्तस्योक्तिभिर्निर्मिते
ग्रन्थे ऽस्मिन्समयप्रकाशनपरः पूर्त्तिं प्रकाशो ऽगमत् ॥
इति श्रीमत्सकलसामन्तचक्रचूडामणिमरीचिमञ्जरीनीराजितचरणकमलश्रीमन्महाराजाधिराजप्रतापरुद्रतनूज–श्रीमन्महाराजमधुकरसाहसूनुचतुरुदधिबलयवसुन्धराहृदयपुण्डरीकविकासदिनकर
श्रीवीरसिंहदेवोद्योजित-
श्रीहंसपण्डितात्मजपरशुराममिश्रसूनुसकलविद्यापारावारपारीणधुरीणजगद्दारिद्रयमहागजपारीन्द्रविद्वज्जनजीवातु श्रीमन्मित्रमिश्रकृते
वीरमित्रोदयाभिधनिबन्धे समयप्रकाशः समाप्तः ।
शुभं भूयात् ।