आचाररत्नम्

[[आचाररत्नम् Source: EB]]

[

॥अथ आचाररत्नप्रारंभः॥

यो देवः सवितास्माकं धियो धर्मादिगोचरे। प्रेरयेत्तस्य तद्भर्गस्तद्वरेण्यमुपास्महे॥

<MISSING_FIG href="../books_images/U-IMG-1726477337aaaazx.png"/>

मुक्ताचिदुमद्देमनीरधवलच्छायैर्मुखैस्त्रीक्षणैर्युक्तामिंदुकलानिवद्धमुकुटां तत्त्वार्थचर्णात्मिकाम्।
गायत्रीं वरदाभयकुशकशाशुभ्रंकपालंगुणं शंखं चक्रमथारविन्दयुगुलं हस्तैर्वहंतीं भजे॥
:

अथात्र किंचित् प्रास्ताविकम्।

<MISSING_FIG href="../books_images/U-IMG-1726041317आचार्य_रत्नम्_1-removebg-preview.png"/>

आचाररत्ननामधेयोऽस्त्ययंब्रह्माचारप्रतिपादकोऽभिनवआह्निकप्रमाणनिबंधः। अत्रारुणोदयादार- भ्याद्वितीयसूर्योदयमहरहः कर्तव्यानां ब्राह्मणकर्तृकाचाराणांतत्तद्विधिनिषेधानामकरणप्रत्यवायानांचय- थावद्विचारः प्रमाणैर्निर्णीतोस्ति। तत्रकोनामायंब्रह्माचारः किंचब्राह्मणलक्षणमितिसंभवविजिज्ञासेतित- दत्रकिंचिदुल्लिख्यते—आचारः प्रवृत्तिविषयत्वं यथाऽऽलौकिकाविगीत शिष्टाचारविषयत्वमिति, अपिच—विद्वेषरागरहिताअनुतिष्ठंतियद्विजाः। विद्वासस्तंसदाचारधर्ममूलविदुर्बुधा। इत्याचारलक्षणम्।ब्राह्मण- श्चाऽदृष्टविशेषप्रयोज्यधर्मवान्। ब्रह्मवेद, परब्रह्मवा वेत्त्यधीतेवेतिब्राह्मणशब्दव्युत्पत्तिः। लक्षणंच—विशुद्धमातापितृजन्यत्वंब्राह्मणत्वमिति। विशुद्वत्वंनामपट्कर्माधिकारवत्त्वम्। तथा—जात्याकुलेन वृत्तेनस्वाध्यायेनश्रुतेनच। एभिर्युक्तोहियस्तिष्ठेन्नित्यंसद्विजउच्यते। इति। वसिष्ठोपि—योगस्तपोदमोदानं- सत्यंशौचंदयाश्रुतम्। विद्याविज्ञानमास्तिक्यमेतद्ब्राह्मणलक्षणम्। इत्याह। ब्राह्मणगुणप्रयुक्तंफलंतु—सर्वत्रकदांताश्रुतपूर्णकर्णाजितेंद्रियाःप्राणिवधान्निवृत्ताः। प्रतिग्रहे संकुचिताग्रहस्तास्तेब्राह्मणास्तारयितुं समर्थाः। इति। एवंगुणविशिष्टत्वमीप्सिततममस्तिलोकानाम्। तदेवचेह ब्रह्मवर्चसतेजोर्पकत्वेनात्यत निश्रेयसकरभवतिस्वःपदास्पदंचामुत्र। तदिदयथावद्ब्राह्माचारावगमपूर्वका चरणमृतेनसुलभं सदाचारो- प्याह्निकप्रमाणनिवधैकवेद्यइत्यन्योन्यसंवत्वा दत्यतावश्यकीतज्ज्ञानापेक्षा। आचाराशसकाविद्यन्तेयद्यपि भूयिष्ठा आह्निकग्रथास्तथापिनैकेनपुंसानेकेषासग्रहालोचनपरस्पर विसंवादमार्जनादिशक्यमिति श्रीमद्वारा- णसीक्षेत्र मंडनायमानश्रीमन्नारायणभट्ट पौत्रेनलक्ष्मणभट्टषिदुपाखिलाह्निक-

प्रस्तावना,

निर्णायकप्रमाणसमुच्चयात्मकोयंप्रथोव्यरचि। सोयंभूयसायासेन संपाद्य यथामतिसंशोध्यानंक्यचप्रकाशितो- स्माभिरधुना। अस्यादर्श पुस्तकेष्वेकं गोमांतकांतर्गतमाशेलग्रामवासिभिः वे. शा. सं. वासुदेवशास्त्रिधूप- करैर्दत्तमाद्यंते पद्भागरहितमंतरांत-रात्रुटियुङ्लाशुद्धच। द्वितीयंश्रीकाशी-क्षेत्रवासिभिः वे. शा. सं. बाबुरामचंद्रदीक्षितजडेइत्याख्ययाप्रसिद्धैर्दत्तं पांक्तंनातिशुद्धं चेत्युभाभ्यांप्रतिस्थलंपरस्परविसदृशाभ्याम- प्यस्मत्षु-स्वकंसंवाद्ययथाकथंचित्संस्कृत्य प्रकाशितमिमंग्रंथं निसर्गदयालवो-विद्वांसो-त्रत्यानिशोधना वसरेमानुपशेमुपीसुलभानिस्खलितानिपरिशोध्यानेनाभिनवग्रंथरत्नेनस्वीयस्वीयभारतीकोशोदवसितानिमं- डयंत्वित्याशास्ते-

विद्वदेकांतवशंवदःपणशीकरोवासुदेवशर्मा।

आचाररत्नविषयानुक्रमणिका।

विषयाः

[TABLE]

कर्णादुपवीतस्खलनेप्रायवित्तम् हस्तवर्तिब्राह्मादितीर्थानि यतेः परदत्तोदकेनाचमनम्
शौचस्थलविचारः सव्योपगृहीतदक्षहस्तेफलाधिक्यम् दंतधावनम्
यज्ञियकाष्ठानि धृतब्रह्मगंथिपवित्रोनाचामेत् दंतधावनकाष्ठानि
शौचेउपानद्धारणनिषेधः आचमने जलप्रमाणम् निषिद्धकाष्ठानि
दिन-रात्रि-संध्याकालविचारः गोकर्णाकृति हस्तेनाचमनम् दंतधावनेनिषिद्धदिनानि
श्रुतिस्मृतिविरोधेश्रुतेः प्राबल्यम् आचमनेशीर्षस्थानांस्थानांस्पर्शः विहितनिषिद्धानिष्काष्ठानि
स्नानाभ्यंगामुत्तरंमूत्रपुरीषोत्सर्गनिषेधः उपस्पर्शेदक्ष-शंखादिमतभेदौ प्रोषितभर्तृकायारजस्वलायाश्चदं तधावन निषेधः
अभ्यंगलक्षणम् व्याघ्रपादमतेनाचमनम् कर्तुर्नियमाः प्रतिनिधेरपिस्युः
ब्रह्मसूत्रंविनाभुक्तौमलोत्सर्गनप्राय गायत्रीपादैर्व्याहृतिभिर्वाचमनम् दंतधावननिषेधेपिजिह्रोल्लेख्या
देवोद्यानेमूत्रौश्चारेदंडः आचमननिमित्तानि उषः पानलक्षणम्
बालादीनांनीतेनियमाः रौद्रपित्रासुरमंत्रांतेऽपस्पर्शः पवित्रेदर्भ संख्या
शौचविचारः आचमनासंभवेकर्णस्पर्शः पुंड्रधारणम्,
शौचेकतिविधामृदोग्राह्याः द्विस्त्रीराचमननिमित्तानि आज्यावलोकनम्
गृहिब्रह्मचार्यादिभेदेनशौचम् कालतआचमनापवादः कुशविचारः
आतुरस्त्रीशूद्रादिशौचम् महानिशालक्षणम् पवित्रकरणप्रकारः
गंधलेपक्षयंयावच्छौचम् निमितेप्यनाचमनेप्रायश्चित्तम् वृत्तग्रंथिब्रह्मग्रंथिलक्षणम्
नाभेरूर्ध्वंदक्षहस्तोऽधस्तुवामः आचमनापवादः पवित्रस्यमंत्रद्धारणम्
पादप्रक्षालननिर्णयः आचमननिषेधः पवित्रदर्भसंख्या
गंडुषसंख्या यज्ञोपवीतेनष्टे विचारः हेम - रजत-खड्ग धारणविचारः
नृणांद्वादशमलाः आचांतेप्यशुचिम् लोहत्रयधारण विचारः
शौचनियमातिक्रमेप्रायश्चित्तम् अनुच्छिष्टस्थलानि रक्षार्थंमंगुलीयकम्
आचमनविचारः अलाब्वादियतिपात्राणि माणिक्यादिरत्नखचितांगुलीयकधारणम्

[TABLE]

संध्याप्रशंसा संध्याभेदेनार्घ्यभेदाः मालासंस्कार विधिः अनुदित होमिनोगौणकालः
संध्यास्वरूपम् अर्घ्योतरक्वचित्तर्पणम् अग्रह्यामालाः होमे मुख्यगौणकालावाह
आराननिर्णयः गायत्रीस्वरूपम् अंगुलिभिर्जपप्रकारः होमकालातिक्रमेप्रायश्चित्तम्
प्राणायामनिर्वचनम् गायत्रीश्चतुर्थपादः विधानांत्तरम् अर्धाधानिनोहोमक्रमः
पूरक- कुंक्षक रेचकलक्षणम् आत्मरक्षा गायत्रीतर्पणम्. सुसमिद्धेग्नौहोमविधानम्
मात्रास्वरूपम् प्रणवन्यासः गायत्रीपुरश्चरणम् अग्निधमनसाधनानि
नासिकाधारणेगुल्यः महाव्याहृतिन्यासः पुरश्चरणप्रयोगः होमद्रव्याणि
प्रणवस्वर विचारः अक्षरन्यासः उपस्थानम् आहुतिमानम्
ऋृष्यादिस्मरणविचारः पदन्यासः अभिवादनम् आपत्कालेहोमप्रकारः
व्याहृतीनामूषयः पादन्यासः नामविचारः समस्य होमः
न्यासविवारः अक्षरदेवताः उत्तरकृत्यम् पुनराधानप्रसंगाः
संध्यायांजलग्रहणविचारः मुद्राप्रकारः संध्याया उक्तकालातिक्रमेप्रायश्चित्तम् औपासनविच्छेदेप्रायश्चित्तम्
मार्जनम् गायत्रीजपप्रकारः रात्रिप्रहर पर्यंतं दिवाकर्माभ्यनुज्ञा ग्रामसीमालक्षणम्'
मंत्राचमनम् जपस्थानानि औपासन होमनिर्णयः ब्रह्मचारिणोऽग्निकार्यम्
नवभिर्द्वितीयंमार्जनम् जपकालेऽदर्शनीयानि औपासनहोमः अग्निकार्यलोपे प्रायश्चित्तम्
अघमर्षणम् जपगताविबिधाभेदाः अन्यकर्तृकहोमे विशेषः ऋत्विजांनियमाः
सूर्यार्घ्यदानम् जपमाला विचारः अनुदितादिलक्षणम् व्रतिनामभक्ष्यवस्तूनि
दिनद्वितीयेदेवपूजापंचमेवा रजस्वलायाआतुरायाः शुद्धिः पितृगाधायांतर्पणप्रशंसा देवपूजा
नित्यदानम् आमलकस्नानम् पितृगण क्रमोबोपदेवस्य पूजापात्राणि
शुभवस्त्वालंभः अभ्ययास्नानम् अत्रसविस्तरोनिर्णयः पूजोपचारक्रमः
तृतीयभागेदेवादिदर्शनानि तिभ्यृक्षपरत्वेन विहितनिषिद्धदिनानि विधवाकर्तृकतर्पणम् देवप्रबोधनम्
चतुर्थभागेमध्याह्नस्नानम् उष्णोदकस्नानम् तर्पणेदर्भा कथंग्राह्याः प्रतिमा विचारः
गृदास्नानेनिषिद्धदिनानि मंत्रस्नानंबह्वृचपरिशिष्टे अंजलि संख्या मधुपर्कमानम्
गोमयस्नानम् विभूतिस्नानम् प्रत्यंजलिमंत्रावृत्तिः देवानास्नानप्रकारः
बौधायनोक्त स्नानविधिः स्नानप्रकार क्रियासारे अंजलिनातर्पणनिर्णयः ताम्रप्रतिमायामपिगव्याभिषेकः
कात्यायनोक्त स्नानविधिः पंचमहायज्ञाः तर्पणेविभक्तिविचारः स्नानादिषुद्रव्यमानम्
आश्वलायन परिशिष्टोक्तंस्नानम् ब्रह्मयज्ञ. संबुद्ध्यते न द्वितीयातेनवातर्पणम् महाभिषेकस्नानमानम्
पाद्यभविष्योक्त स्नानविधिः तद्विधिस्तैत्तिरीयकश्रुतौ नामाज्ञानेबौधायनः माषपलादिमानम्
स्नानगताभेदा पंचयज्ञाकरणेप्रायश्चित्तम् काडर्ष्यादितर्पणम् वस्त्रादिविचारः
अनेकस्नानानांयुगपत्प्राप्तौव्यवस्था पंचमहायज्ञाधिकारिणः यमतर्पणे विशेषः यक्षकर्दमः
स्नाननिमित्तानि. तर्पणेतिलग्रहणविचारः भीष्मतर्पणम् पुष्पार्पण विचारः
अंत्यजपरिगणनम् मन्वाद्यायुगाद्याश्च मोदप्रमोदादितर्पणम् निषिद्धपुष्पाणि
एक्शाखैकपाषाणयोश्चां डालोपवेशे कस्मिन्संस्कारे कतिदिनं तर्पणंवर्ज्यम् श्राद्धांगतर्पणम् पर्युषित विचारः
स्पृष्टास्टष्टिविचारः आर्द्रवासप्यभ स्थेन कर्मकार्यम् वस्त्रनिष्पीडनविचारः
रात्रिस्रानेविशेषः उद्धृतज लेनतर्पणेविशेषः मध्याह्नसंध्या
तुलसी ग्रहणादौविशेषः शंखमानम् पूजनेदिङ्नियमः शिवनिर्माल्यलंघननिषेधः
अधोमुखपुष्पार्पणनिषेधः ग्रस्थप्रमाणम् सूर्यपूजा पुरुषार्थप्रबोधेचतुर्धाव्यवस्था
लक्षपूजायांविशेषः पूजाधिकारिणः परार्थेपूजाजपादौदीपः नैवेद्यग्रहणाग्रहणविचारः
विल्वपत्रेषुविशेषः क्षत्रियादीनांपूजाप्रकारः पुष्पविचारः चंडाधिकारः
धूपविचारः स्त्रीशूदविषयेविचारः गणेशपूजा विष्णुनैवेद्योग्राह्यः
विजयधूपः देवप्रतिष्ठाधिकारिणः पुष्पाध्यायोदेवीपुराणीयः विष्णुपूजा
दीपविचारः श्रौतार्चनम् शिवपूजा विष्णुपूजाप्रशंसा
वर्त्यांदिप्रमाणम् न्यासादिविधिः रुद्राक्षधारणविचारः केशवादिचतुर्विंशतिमूर्तयः
दीपनिर्वाणनिषेधः पुरुषसूक्तन्यासः शिवमूर्तिलिंगादिविचारः पंचायतनपूजासारेशालग्राम- पूजाविचारः
नैवेद्यविचारः षडंगन्यासः शिवनाभिलिंगलक्षणम् पूजालोपेदिनसंख्ययार्चाशुद्धिः
पक्वनैवेद्यवैश्वदेवस्यपूर्वापरीभावः पुरुषसूक्तेनार्चनक्रमः लिंगमानम् चंद्रिकायांविष्णुपूजाविधिः
नैवेद्यांशदानम् पूजांतेदोमः बौधायनोक्तशिवपूजा अत्रपुष्पाणि
फलतांबूलदानम् ब्रह्मविष्णुदुर्गादिपूजाविचारः शिवपूजायांविशेषः द्वात्रिंशदपराधाः
प्रणामविधिः पौराणक्रमः विहितनिषिद्धपुष्पाणि प्रकारांतरेणद्वात्रिंशदपराधाः
प्रदक्षिणा विधिः आगमोक्तक्रमः धूपविचारः शालग्रामचिह्नविशेषेणमूर्तयः
गीतवादित्रादिदानम् पंचायतनस्थापनविचारः प्रदक्षिणाप्रमाणम् पूज्यशालिग्रामपरिगणनम्
शंखपूजा पूज्यपूजकांतरालंप्राची सोमसूत्रविचारः

[TABLE]

[TABLE]

श्राद्धभोक्तु सायंसंध्यानिषेधः स्वापेनिषिद्धस्थलानि अनृतावपिस्त्री संभोगाक्वचिदनुज्ञा आशौचेपंचमहायज्ञनिर्णयः
श्राद्धभुर्जाप्रायश्चित्तम् संभोगेनिषिद्धदेशदिनानि गम्याः स्त्रियः आशौचेवैश्वदेवविचारः
सायं वैश्वदेवविचारः तत्रवर्ज्यदिनानि अगम्याः स्त्रियः आशौचिनोदीक्षाश्रौतयोर्विचारः
रात्रे प्रथमयामेकार्याणि पर्वाणिचतुर्दश्यादीनि गर्भिणीपतिवर्ज्यानि ऋत्विजांदीक्षितानांनाशौचम्
शयन विचारः निषिद्धवारनक्षत्रादि सुखसंभोगयोगः श्रोते विशेषः
खट्वाकीदृशीशयने योग्या ऋतु दिननियमः भार्याप्रशंसा भोजनोत्तरं कर्तव्याकर्तव्ये
शयनेदिग्विचारः आपदिपर्वस्यपिसंभोगाभ्यनुज्ञा दुःखप्रशांतिः एकादशाहेप्रातः संध्यासूत किवत्
स्वापकालेशिरोदेशेस्थाप्यानि संभोगोतरंशौचविचारः आशौचे कार्याकार्यनिर्णयः ग्रंथोपसंहारः
शयनेजाप्यम् आम हेमश्राद्धादौनश्राद्धनियमाः अत्रसंध्याहोमादेर्निर्णयः

इत्याचाररत्नगतेविषयानुक्रमणिका ॥

श्रीगणेशायनमः॥श्रीवेदपुरुषायनमः॥मंगलाचरणम्।सिंदूरारुणगंडंदेवंविघ्नौघतिमिरमार्तंडम्। नृत्यच्छुं- डादंडंसिद्धीशंगणपतिं वदे॥१॥ सतिमिरजगदुद्द्योतद्युमणेर्वंशांकुरःश्रीमत्। तज्जयतिरामनामरज निचराणांविभेदनंधाम॥२॥ नारायणंराजभिरर्चितांर्धिनमामिहंसीवयदीयकीर्तिः। तेजोंतरात्तन्महसां- विभेदंस्वस्यापिकीर्त्यंतरतस्तमाह॥३॥ विद्याप्रद्योतनोद्द्योतखद्योतीकृतवादिनम्। पितरंरामकृष्णाख्यंवंदे- स्नेहभरान्वितम्॥४॥ स्पर्धामग्निनिवेशादुमयाप्राप्तामुमासमाख्यातः। द्युनदीनिर्मलचित्तांमातरमेकांसीं- सदावंदे॥५॥ येनोद्धृतास्वस्यकुलप्रतिष्ठामहावराहेणमहीवतोयात्। गगेवविद्याभिससारयस्माद्दिवाकरं- नौमितमग्रजाग्र्यम्॥६॥ अधीत्यलक्ष्मणाख्येनकम लाकरसोदरात्। आचाररत्नंसुधियायथामतिवितन्यते॥७॥॥तत्रपरिभाषा॥॥ तत्रविधिरूपआचारेशुचित्वमधिकारितावच्छेदकम्—सदाकुर्याद्धर्मकार्यमापद्य पिशुचिर्नरइतिटोडरानंदेसप्तर्पिस्मृतेः। श्रुतिस्मृत्युदितंकर्मनकुर्यादशुचिःक्वचिदितिप्रयोगपारिजा तेभृगुक्तेश्च।अतएवत्रिकांडमंडः—पतितोनैवकुर्वीतशास्त्रीयंकर्मकिंचन। अद्विजेष्वेवयोधर्मोधर्मःसाधा- रणोऽपिवा। सत्यंवक्त व्यमित्यादि पतितोऽपिसमाचरेत्। नन्वेवंपतितस्यस्नानसंध्यादिनस्यात्। स्यात्। सचतेषूदकोपस्पर्शी शुद्ध्येदितिगौतमोक्तेः पतितस्य स्नानांगमंत्रप्राप्तिः सांगाधिकारन्यायात्। नचमंत्रहीनंस्नानम्। तद्राहित्यविध्यभावात्। अतएवाशौचेपिसमंत्रकंस्नानंभोजनंचभवतीत्युक्तं स्मृत्यर्थ- सारे। शुचिना कर्मकर्तव्यमित्यस्यसर्वकर्मसाधारण्याच्छौचार्थसंध्याप्राप्तिः। संध्याहीनोऽशुचि- र्नित्यमनर्हःसर्वकर्मस्वितिस्मृतेः। अत्रसंध्यापदंसर्वसंध्यापरमविशेषादितिविज्ञानेश्वरः। नचद्विजातिकर्म भ्योहानिः पतनमितिवचनान्न संध्येतियुक्तम्। पतितस्यव्रतोपदेशात्तदंगत्वेनैवसंध्यादिप्राप्तेः। वचनत्विज्याध्ययनादिनिवृत्त्यर्थमितिविज्ञानेश्वरः। तेनव्रतारंभात्प्राक्पतितावस्थायांसंध्यादि नेतिसिद्धम्। त्रिकांडमंडनः—पतितोऽपिनिषिद्धानांवर्जनेऽधिकृतोभवेदिति। केचितु — अदीक्षितस्यवामोरुकृतंसर्वे निरर्थकमितिपाद्मात्कार्तिकमाहात्म्या

दागमदीक्षाप्यधिकारिविशेषणमित्याहुः। तन्न। उपक्रमानुरोधेनतस्यकार्तिकव्रतमात्रपरत्वात्। अनर्थकं परमपुरुषार्थसाधनंनेत्याचारचंद्रोदयः। शक्तिश्चाधिकारिविशेषणम्। तदभावेऽन्येनकारणीयं पाष्ठन्यायात्।—यथाकथंचिन्नित्यानिशक्त्यवस्थानुरूपतः। येनकेनापिकार्याणिनैवनित्यानिलोपयेदितिमाधवीये- बौधायनोक्तेश्च।यथाकथंचित्किंचिदंगहीनेनापीत्यर्थः।येनकेनापि स्वतः परतोवेत्यर्थः। नित्या नीतिनैमित्तिकप्रारब्धकाम्योपलक्षणम्।नैत्यिकस्याप्यकरणेप्रत्यवायात्। समाप्तेः शास्त्रार्थत्वेनप्रारब्धं काम्यंनित्यायतइतिन्यायाच्च।यत्तु काम्येप्रतिनिधिर्नास्तिनित्येनैमित्तिकेचसइति तदनारब्धकाम्यपरम्।अन्येनाप्यसंभवेनदोषः। अत्यंतरोगयुक्तेंगेराजचौरभयादिषु। गुर्वग्निदेवकृत्येपुनित्यहानौनपापभागि- तिमाधवीयेशैवागमात्। अत्रनित्यपदेनप्रारब्धकाम्यग्रहणम्। औपदेशिकनित्यग्रहेणैवसिद्धावातिदेशिक- नित्यग्रहेमानाभावात्।शौचस्नानादौचनप्रतिनिधिः। अन्यशौचेनान्यस्याप्रायत्यानपगमात्। मंत्रस्नानादिविधि वैयर्थ्यापत्तेश्च।उपवासोऽप्यधिकारिविशेषणम्। स्नानंसंध्यातर्पणादिजपहोमामरार्चनम्।उपवासवताकार्यं सायंसंध्याहुतीर्विनेतिवाराहात्।उपवासवताऽनश्नतेत्यर्थः। उपवासोऽनशनम्।अनुवादोयम्—सायंप्रात र्द्विजातीनां उपास्यपश्चिमांसंध्यामित्यादिनैवसिद्धेरितिकेचित्।तन्न।इहवचनाभावेकर्मवैगुण्यानापत्तेः। सायं संध्याहुत्योःपौर्वाह्निकस्यच भोजनोत्तरपूर्वकालत्वसिद्धावपिमाध्याह्निकादेरनश्नदधिकारित्वासिद्धेश्च।इक्षु- रापःफलंमूलंतांबूलंपयऔषधम्।भक्षयित्वापिकर्तव्याः स्नानदानादिकाःक्रिया इतिचतुर्विंशतिमते स्मृत्यर्थसारे चेक्ष्वादिपरिगणनानुपपत्तेश्च।नचायमपूर्वविधिः।रागतःप्राप्तेः।नापिभक्षयित्वैवेतिनियमः। अपिशब्दवैयर्थ्यापत्तेः।इक्ष्वादिभक्षणोत्तरमनाचम्यापिक्रियाःकार्याइतिस्मृतिरत्नावली।तन्न — आचांतःकर्म शुद्धःस्यात्तांबूलौपधजग्धिकृदितिविष्णूक्तिविरोधात्।अनाचम्येत्यध्याहारप्रसंगाच्च। तस्मादशक्तंप्रत्येतद- पिशब्दादितियुक्तम्।अस्नाताशीमलंभुंक्तेअजपीपूयशोणितम्।अहुताशीकृमीन्भुङ्क्तेअदत्वाविद्धिभोजनः। अजपीअदत्वेत्यत्राशीत्यनुषज्यते।

कालिकापुराणे—जलस्यापिनरश्रेष्ठप्राशनाद्भेषजादृते। नित्यक्रियानिवर्तेतकाम्यनैमित्तिकैः सह शिव- पुराणे— उपवासयुतः कर्मशिव पूजादिकंचरेत्। स्नानमप्यधिकारिविशेषणम्**—स्नातोऽधिकारी भवतिदैवैपित्र्येचकर्मणि। पवित्राणांतथाजप्येदानेचविधिदर्शित इतिवर्धमान परिभाषायांविष्णूक्तेश्च। पवित्रंपुनातेर्मंत्रः पवित्रमुच्यतइतिनिरुक्तात्**। अस्नात्वानाचरेत्कर्मजपहोमादिकिंचनेतिदक्षोक्तेश्च।आग्नेये- स्रानानामपिसर्वेषांवारुणेनचमानवः। कर्तुमर्हतिकर्माणिविधिवत्सर्वदाद्विजः। मार्केडेये—शिरःस्नातस्तु कुर्वीतदैवंपित्र्यमथापिवा।आग्नेये—अशिरस्कंभवेत्स्नानंस्नानाशक्तौतुकर्मिणाम्।1तथा—असामर्थ्याच्छरीर स्यकालशक्त्याद्यपेक्षया। मंत्रस्नानादयः पंचएकइच्छंतिसूरयः।आर्द्रेणवाससावापिमार्जनंदैहिकंविदुः। उपवीतित्वंवद्धशिखत्वंचाधिकारिविशेषणम्।—सदोपवीतिनाभाव्यंसदाबद्धशिखेनच।विशिखोव्युपवीतश्च- यत्करोतिनतत्कृतमितिकात्यायनोक्तेः॥ ॥ उपवीतंद्विधा—नवसूत्रंसंस्थानविशेषश्च। तत्राद्यंशूद्रस्यनेत्यु- क्तंमिताक्षरायाम्।अंत्यंशूद्रस्यापिभवति। उपवीतिनाकर्मकर्तव्यमित्यस्यापिसर्वकर्मशेषत्वेनशूद्रस्याप्य- दृष्टार्थकर्मण्युपवीतावश्यंभावात्। यत्तशूद्रंप्रकृत्य—नशिखीनोपवीतीस्यान्नोच्चरेत्संस्कृतांगिरमितिपाद्मंतद- सच्छूद्रपरमकर्मकालपरंनवसूत्रपरंवा। उपवीताद्युत्तरीयवस्त्रेणापीतिपारिजातकल्पतरूविश्वामित्रः—यज्ञोपवीतेद्वेधार्येश्रौतस्मार्तेचकर्मणि। तृतीयमुत्तरीयार्थंव2स्त्राभावेतदिष्यते। तृतीयमुत्तरीयार्थमित्येतावतैवानु कल्पत्वेसिद्धेवस्त्राभावइत्युक्तिरुत्तरीयाभावएवानुकल्पत्वार्था। तेनतृतीयेधृतेउत्तरीयलाभेतदपिधार्यमिति केचित्। तन्न। एकस्यैवकदा चिदनुकल्पत्येप्राधान्येचविरोधात्। वयंतूत्तरीयस्यसर्वकर्मार्थत्वात्प्रतिकर्म धारणानुपपत्तेश्चतदुपवीतवत्सर्वार्थंसकृदेवधार्यम्। एवंतृतीयोपवीतमपितदंगीकारेणकर्मविशेषारंभोत्तरंमु- ख्योत्तरीयलाभेपिनतद्ग्रहः। षाष्ठन्यायात्।नचतृतीयत्यागापत्तिः।सर्वार्थत्वेन धृतत्वात् उत्तरीय

स्यसर्वदासत्त्वासंभवादितियुक्तमुत्पश्यामः। शिष्टाचारोप्येवम्। उपवीतमुक्तंगोभिलसूत्रे—उपवीतंकुरुतेसूत्रंवस्त्रंस्रंवाकुशरज्जुमिति।सूत्रोपवीतकरणप्रकारश्छंदोगपरिशिष्टे—शुचौदेशेशुचिः सूत्रंसंहतांगुलिमूलके। आवेष्टयषण्णवत्यातत्त्रिगुणीकृत्ययत्नतः। त्रिगुणीकृत्यषण्णवतित्रयंगृह्णीया- दित्यर्थः। अर्ब्लिगकैस्त्रिभिर्मंत्रैप्रक्षाल्योर्ध्ववृतं त्रिवृत्। सप्रदक्षिणमावर्त्यगायत्र्यात्रिगुणीकृतम्। ततः प्रदक्षिणावर्तं समं स्यान्नवसूत्रकम्। त्रिरावेष्ट्यदृढंबद्ध्वाब्रह्मविष्ण्वीश्वरान्नमेत्। यज्ञोपवीतंपरममिति- मंत्रेणधारयेत्। सूत्रंसलोमकंचेत्स्यात्ततः कृत्वाविलोमकम्। सावित्र्यादशकृत्वोद्भिर्मंत्रिताभिस्तदुक्षयेत्। विधवारचितंसूत्रमनध्यायकृतंचयत्। विच्छिन्नंवाप्यधोयातं भुक्त्वा निर्मितमुत्सृजेत्। अधःकटि देशात् ॥ ॥ ऊर्ध्ववृतलक्षणमदनरत्ने—करेणदक्षिणेनोर्ध्वगतेनत्रिगुणीकृतम्। वलितंमानवेशास्त्रे सूत्रमूर्ध्व वृतंस्मृतम्। श्राद्धालोकेदेवलः—यज्ञोपवीतंकुर्वीतसूत्राणिनवतंतवः। एकेनग्रंथितस्तंतुर्द्विगुणस्त्रि गुणोथवा। त्रिगुणनवतंतुकासंभवेएकेनेतिगोपालसिद्धांतः। हरनाथीयेश्राद्वालोकेचवृद्धमनुः—त्रिवृताग्रंथिरेकेनत्रिभिःपंचभिरेववा। एकेनैतत्प्रवरसंख्ययाग्रंथौचवेष्टनमितिहरनाथः। रत्नावल्याम्— यज्ञोपवीतेमौंज्यांचतथाकुशपवित्रके। ब्रह्मग्रंथिंविजानीयादन्यव्रतुयथारुचि। **देवलः —**सावित्र्यात्रिवृतं कुर्यान्नवसूत्रंचतद्भवेत्। वध्नीयात्तत्सजीवंतुपितृभ्योनमइत्यथ। भ्रमदेवोक्षितव्यंस्यात्पितॄणांतृप्तिदंहितत्। त्रिस्ताडयेत्करतलेदेवानां तृप्तिदंहितत्। सव्येमृदं गृहीत्वारिंमस्थापयेद्भूरितिब्रुवन्। अभिमंत्र्याथभूर- ग्निश्चेतिवृत्तत्रयंत्रिभिः। हरिब्रह्मेश्वरेभ्यश्चप्रणम्यचदधात्यथ। **मनुः—**ॐकारश्चाग्निनागौच सोमः पितृप्रजापती। वायुः सूर्यः सर्वदेवाइत्याहुस्तंतुदेवताइति ॥ ॥ उपवीतमानंछंदोगपरिशिष्टे —पृष्ठवंशेचनाभ्यांचधृतंयद्विंदतेकटिम्। तद्धार्यमुपवीतंस्यान्नातोलंवंनचोच्छ्रितम्। देवलः— स्तनादूर्ध्वमधो- नाभेर्नकर्तव्यंकदाचन। मदनरत्नेभृगुः—उपवीतंवटोरेकंद्वेतथेतरयोः स्मृते। एकमेवयती- नांस्यादितिशास्त्रविनिश्चयः। इतरौगृहिवनस्थौ। यतिस्त्रिदंडी। स्मृत्यर्थसारे — ब्रह्मचारिणएकंस्या- त्स्नातस्यद्वेबहूनिवा।

**आपस्तंवः—**बहूनिवायुष्कामस्येति। हेमाद्रौभरद्वाजः—दक्षिणंबाहुमुद्धृत्य वामस्कंधेनिवेशितम्। यज्ञोपवीतमित्युक्तंदैवकार्येषुशस्यते। कंठावलंवितंचैवब्रह्ममासूत्रंयदाभवेत्। तन्निवीतमितिख्यातंशस्तं कर्मणिमानुषे। उत्क्षिप्तेवामवाहौतुदक्षिणस्कंधमाश्रितम्। प्राचीनावीतमित्युक्तंतत्पित्र्येष्वेवकर्मसु। कृष्णभट्टीयेऽत्रिः—ऋषितर्पणचंडालभाषणेशववाहने। विण्मूत्रोत्सर्जनेस्त्रीणांरतिसंगेनिवीतयः। देवलः—सकृच्चोद्धरणात्तस्यप्रायश्चित्तीयतेद्विजः। आशार्के—मंत्रन्यस्तोपवीतंयन्नोद्धरेत्तत्कदाचन। मोहाद्द्वि- जस्तदुद्धृत्यपुनर्मत्रेणधारयेत्। हेमाद्रौभृगुः—मंत्रपूतंस्थितंकार्येयस्माद्यज्ञोपवीतकम्। नोत्तारयेत्ततः प्राज्ञोयइच्छेच्छ्रेय आत्मनः। देहस्थमेवतत्क्षाल्यमुत्तार्यंनकदाचन। कृष्ण भट्टीयेआचारचंद्रोदयेचभृगुः—चैत्रोमैत्रःकठःकण्वश्चरकोवाजसेनकः। कंठादुत्तीर्य सूत्रंतुकुर्याद्वै क्षालनंद्विजः। बद्वृचःसाम गश्चैवयश्चान्योयाजुषस्तथा। कंठादुत्तार्यसूत्रंतुपुनःसंस्कारमर्हति। अभ्यंगेचोदधिस्नानेमातापित्रोःक्षयेहनि। कंठादुत्तार्यसूत्रंतुकुर्याद्वैक्षालनंद्विजः। श्राद्धालोकेयमः—श्राद्धेधावनकालेचतैलाभ्यंगादिकर्मणि। अत्रकायाद्बहिः कुर्यान्नान्यत्रेत्यब्रवीन्मनुः। अपरार्के—उपानहौचवासश्चधृतमन्यै र्नधारयेत्। उपवीतमलंकारंछत्रंकरकमेवच। टोडरानंदेगौतमः—उपानद्वस्त्रेतुकृतनिर्णेजनेआपदिधार्येइति। **मनुः—**मेखलामजिनंदंडमुपवीतंचनित्यशः। अप्सुप्रास्यविनष्टानिगृह्णीतान्यानिमंत्रतः। **हारीतः—**मनोव्रतपतीभिश्चतस्रआज्याहुतीर्हुत्वापुनर्यथार्थंप्रतीयादिति। यथायंप्रतीयात्उपनयनोक्तमार्गेणसमंत्रकं- धारयेदित्यर्थः॥॥ **स्कंधावरोहणेप्रायश्चित्तमुक्तंभृगुणाधर्मप्रकाशे—स्कंधावरोहणे यज्ञसूत्रेत्रिः प्राणसंयमः। षट्कूर्परगतेतस्मिन्द्विपङ्कं मणिबंधके। वामहस्तव्यतीतेतुतत्त्यक्त्वाधारयेन्नवम्। तस्माद्य ज्ञोपवीतस्यचलनंन कदाचनेति प्रायश्चित्तंसर्वोपवीतनाशे॥॥ कात्यायनवाक्ये पूर्वार्धे पुरुषार्थः शिखाबंधउक्तः। उत्तरार्धेतस्यकर्मार्थतोक्ता। प्रायश्चित्तद्वयार्थमनृतवदनवर्जनवत्नतुशिखाबंधद्वयं उपवीतेऽपिभेदापत्तेरित्युक्तंप्रयोगरत्नेपितामहचरणैः।वर्धमानोप्येवम्।**एतेनप्रतिकर्मशिखाबंधो ऽपास्तः।या

तुस्नानकालेशिखाबंधोक्तिःसादैवान्मुक्तशिखस्यशिखाबंधार्थनतुसतीमपिशिखांमुक्त्वापुनर्बंधनीयेत्येतर्थ-मित्याचारादर्शः। शुद्रस्यत्वनियताः केशवेपाइतिथवसिष्ठोक्तेः शिखाविकल्पः। सचसदसच्छूद्रविषय त्वेनव्यवस्थितइतिशिखाबंधेपिविकल्पइतिशूद्राचारशिरोमणिःकौमुद्यांतुकर्मकालेशूद्रस्यनशिखाबध- नियमइत्युक्तम्। सर्वेषां शिरसिक्वचित्केशसत्वेतत्रैवशिखाबंधः। सशिखवपनेनखल्वाटत्वादिनावा- सर्वथाकशाभोवकौशीशिखाब्रह्मग्रंथियुतांदक्षिणकर्णेस्थाप्येतिदिवोदासः। तथाचाचारचंद्रोदयेकाठक- गृह्ये—अथचेत्प्रमादान्नशिखास्यात्तदाकौशीशिखांब्रह्माग्रंथियुतदक्षिणकर्णेनिदध्यादिति। शिखाभिन्न केशानामपिकर्मकालेबंधः। मुक्तकेशैर्नकर्तव्यं प्रेतस्नानंविनाक्वचित्। स्नानं दानंजपहोमंमुक्त- केशोनकारयेदितिवृद्धवसिष्ठोक्तेः। नचपूर्वार्धेप्रेतस्नानान्यस्नानएवमुक्तकेशनिषेधः। उत्तरार्धेस्नानपदवै- यर्थ्यापत्तेः। स्नाने तदनुवादेदानादौतद्विधौवैरूप्यापत्तेः उत्तरार्धेएवसर्वव्रतन्निषेधेवाक्यभेदापत्तेः पूर्वार्धवैयर्थ्यापत्तेश्च। नचप्रेतस्नानपर्युदासार्थैपूर्वार्धं। आद्यपाद वैयर्थ्यापत्तेः। तेनोत्तरार्धैकवाक्यतया प्रेतस्रानान्यकर्ममात्रेमुक्तकेशनिषेधः। नचोत्तरार्धवैयर्थ्यम्। सर्वकर्मप्राप्त्यर्थत्वात्। नचकेशपदं शिखा परम्। लक्षणायांमानाभावात्। मुक्तकेशइत्यत्रापितथापत्तेश्च॥॥ उत्तरीयमप्यधिकारिविशेषणम्। सोत्तरीयस्ततः कुर्यात्सर्वकर्माणि भावितइतिब्रह्मांडात्। यत्तु—कर्तव्यमुत्तरंवासः पंचस्वेतेषुकर्मसु। स्वाध्यायोत्सर्गदानेषुभोजनाचमनेतथेतिबौधायनोक्तौ पंचग्रहणानर्थक्यप्रसंगान्नसर्वत्रवस्त्रद्वय नियम इति।तन्न। सर्वत्वस्यानुपसंहार्यत्वात्। अतः सर्वत्र वस्त्रद्वयनियमइतिमाधवः॥॥ आचमनमप्यधि कारिविशेषणम्। देवार्चनादिकार्याणितथागुर्वभिवादनम्। कुर्वीतसम्यगाचम्यप्रयतोपिसदाद्विज- इतिमार्कंडेयात्। यःक्रियाकुरुतेमोहाद नाचम्येहनास्तिकः। भवंतिहिवृथातस्य क्रियाः सर्वानसंशयइतिवर्धमानपरिभाषायांवायुपुराणाच्च॥॥ प्राणायामोपि—प्राणानायम्यकुर्वीतसर्व कर्माणिसंयत इति वृद्धमनूक्तेः। प्रयोगपारिजातेसंग्रहे—ते देवार्चनेजपेहोमेसंध्ययोःश्राद्धकर्मणि। यागे- दानेवतेस्नानेप्र

णायामास्त्रयस्त्रयः। प्रणवोपि—त्रिमात्रस्तु प्रयोक्तव्यः कर्मारंभेषुसर्वतइतिस्मृतेः। सर्वतइति- सार्वविभक्तिकस्तसिः। अनोंकृत्यकृतंसर्वंनभवेत्सिद्धिकारकमितिशांतिहेमाद्रौयोगियाज्ञवल्क्योक्ते- श्च॥॥विद्वत्तापि—नह्यविद्वान्विहितोस्तिहि विदुषएवकर्मण्यधिकारात्॥॥आर्षछंदोदैवतंचविनियोग- स्तथैवच। ब्राह्मणेनप्रयत्नेनवेदितव्यंविपश्चिता। अविदित्वातुयः कुर्याद्याजनाध्यापनंजपम्। होममंतर्जलादीनि तस्यचाल्पफलंभवेदितितत्रैवतदुक्तेश्च—मंत्रार्थज्ञोजपन्जप्यंकुर्वन्नध्ययनंद्विजः। स्वर्ग लोकमवाप्नोतिनरकंतुविपर्ययेइतिप्रयोगपारिजातेव्यासोक्तेः। अविदित्वामुर्निछंदोदैवतंयोगमेवच। योऽध्यापयेद्यजेद्वापिपापीयान्जायतेहिसः। ब्राह्मणंविनियोगंच छंद आरषचदैवतम्। अज्ञात्वापंचयोमंत्रेन सतत्फलमश्नुतइतिचंद्रिकायांव्यासोक्तेश्च।अयमेवऋष्यादिस्मरणक्रमः।यत्तुसर्वानुक्रमेऋषिदैवतच्छं दांस्यनुक्रमिष्यामोनह्येतज्ज्ञानमृतेश्रौतस्मार्तकर्मप्रसिद्धिरितितदृग्वेदिपरम्।अथऋग्वेदाम्नायेशाकलक इत्युपक्रमात्। कृष्णभट्टीयेसंग्रहे—नचस्मरेदृषिच्छंदः श्राद्धेवैतानिकेमखे। ब्रह्मयज्ञेचवैतर्हिय- ज्ञतर्पणकर्मणिइति॥॥ कटिसूत्रंगृहस्थेनधार्यम्। कौपीनंकटिसूत्रंचब्रह्मचारीतुधारयेदितियमोक्त- स्यतस्य सर्वेषांचैतदविरोधीतिगौतमीयेगृहस्थादावतिदेशात्। गृहस्थस्यकौपीननिषेधानुपपत्तेश्चेतिके- चित्। तन्न। यत्किंचित्कुरुतेधर्मंवैदिकंवाथतांत्रिकम्। कटिबधेनसंयुक्तंसंर्वतन्निष्फलंभवेत्। रौप्यंकार्पासकंहैमंपट्टसूत्रकृतंतथा। वर्जयेत्कर्मकालेषुकांचींविप्रोविशेषत इतिसंस्कारप्रयोगपारिजाते गृहस्थधर्मेष्वाश्वलायनोक्तेः। कटिबंधःकटिसूत्रबंधः। प्रकरणाद्गृहस्थस्यैवायंनिषेधः। कर्मकालग्रहाद कर्मकालेननिषेधः। रौप्यादेरेवनिषेधेत्यंतादृष्टार्थत्वापत्तेरौर्णादेरपिनिषेधः। श्रुतौ नम्लेच्छितवैनापभाषित- वैम्लेच्छोहवाएषयदपशब्दइतितत्कर्म कालपरम्।पर्वाणस्तर्वाणो नामऋषयोवभूवुस्तेपर्वाणस्तर्वाण इति प्रयोक्तव्येयद्वानस्तद्वानइतिप्रयुंजते याज्ञे पुनः कर्मणिनापभाषंतइतिश्रुतेरिति केचित्। अन्ये तु तेसुराहेलयो हेलयइतिवदंतः परावभूवुरित्यकर्मकालेपिदोषश्रुतेरकर्मकालेप्यपभाषणेदोषइत्याहुः। पृथ्वी चंद्रोदयेनारदः —आसनेशयने

मितिचंद्रिका ।कामवर्जितइत्युक्तेः काम्यपरतास्यात्तदपितत्रैवोक्तम्—नाहंकर्तासर्वमेतद्ब्रह्मैवकुरुते सदा। एतद्ब्रह्मार्पणंप्रोक्तमृषिभिस्तवदर्शिभिः। **—**तावूलाभ्यंजन चैव कांस्यपाने च भोजनम्। यतिश्चब्रह्मचारी च विधवा च विवर्जयेत्॥॥ **पंचायतनसारेषट्त्रिंशन्मते—**स्नानतर्पणदानेपुताग्रेगव्यंनदुष्यति।होमेकार्ये तथादोहेपाकेचपरिवेषणे। अपरार्केमरीचिः—नियस्यभक्षणंतैलंतिलैस्तर्पणमंजनम्। सप्तम्यांनैवकुर्वीत ताम्रपात्रेच भोजनम्। भारते—बलिर्भिक्षातथार्धं च पितॄणां च तिलोदकम्। ताम्रपात्रेणदातव्यमन्यथाल्प फलंभवेत्। श्राद्धहेमाद्रौपैठीनसिः—लौहानांसीसकायसरीतिशेषाणिपात्राणिचेत्ययज्ञियानि। ब्राह्मे— कृत्वामूत्रपुरीषे च रथ्यामाक्रम्यवापुनः। पादप्रक्षालनंकुर्यात्स्वाध्याये भोजनेतथा॥॥ शाट्यायनिः — दानमाचमनं होमं भोजनं देवतार्चनम्। प्रौढपादोनकुर्वीतस्वाध्यायं पितृतर्पणम्। इदंसर्वकर्मोपलक्षणम्। प्रौढपादलक्षणंतेनैवोक्तम्—आसनारूढपादोवाजान्वोर्वाजंघयोस्तथा। कृतावसक्थिकोयश्च प्रौढपादः स उच्यते। पादोपरिपाददाता प्रौढपाद इति हरदत्तः। तन्न। नाक्रम्यपादंपादेननचव्यवहितौकरौ। जपेन्नप्रौढ- पादस्तुनप्रकाशकरः सदेतिस्मृतिरत्नावल्यांपुनः प्रौढपादोक्तेः॥॥ **मदनरत्नेवर्धमानपरिभाषायांच- वायवीये—**दानंप्रतिग्रहो होमो भोजनं बलिरेव च। सांगुष्ठेनसदाकार्यमसुरेभ्योऽन्यथाभवेत्। अंगुलि- संगतांगुष्ठेनेतिहेमाद्रिः। बौधायनः—भोजनं हवनं दानमुपहारः प्रतिग्रहः। बहिर्जानुनकार्याणितद्वदाचमनं स्मृतम्। ज्योतिर्निबंधे—क्षुतस्खलनजृंभासुनृणामायुः प्रहीयते। तदेतरेणकर्तव्यो जीवपूर्वोगुलिध्वनिः। मदनरत्नेविष्णुपुराणे—जीवेतिक्षुवतोब्रुयाज्जीवेशुक3स्रवेपिच॥॥**अपरार्केशापातपः—**अजाविरेणुसंस्पर्शा- दायुर्लक्ष्मीश्च हीयते। श्वकाकोष्ट्रखरोलूकसूकरग्रामपक्षिणाम्। **कृष्णभट्टीये—**शूर्पवातोनखाग्रांबुस्नान- वस्त्रंघटोदकम्। मार्जनीरेणुकेशांबुर्हति पुण्यं पुराकृतम्। दिवाकृत

मितिक्वचित्पाठः। घटोदकंघटस्फोटप्रेतकुंभोदकम्। **स्मृतिसारे—**अजारजः खररजस्तथा संमार्ज नीरजः। दीपमंचकयोश्छायाहंतिपुण्यंदि वाकृतम्॥॥ हारीतः—समित्पुण्यकुशादीनि श्रोत्रियः खयमाहरेत्। शूद्रानीतैः क्रयक्रीतैः कर्म कुर्वन्व्रजत्यधः। अत्रशूद्रानीतैः क्रयक्रीतैरितिसामानाधिकरण्येनसंबंधः। अन्यथावेतनदानेन क्रयत्वाविशेषादारामादेः स्वयमपिपुष्पाद्याहरणेदोषापत्तेः। कुशेष्वप्येवम्। अतोद्विजेभ्यः कुशक्रयेनदोषः। स्वयमितिशक्तपरम्। तेनैवनियमसिद्धौशूद्राहृतनिषेधानुपपत्तेः। तेनस्वाशक्तौशिष्य पुत्राद्याहरणेप्यदोषः। श्राद्धहेमाद्रौ—जपे होमे तथादाने स्वाध्यायेपितृकर्मणि। तत्सर्वंनश्यतिक्षिप्रमूर्ध्व पुंड्रंविनाकृतम्।स्कांदेकार्तिकमाहात्म्ये—अधौतेनतुवस्त्रेणनित्यांनैमित्तिकींक्रियाम्। कुर्वन्फलंनचाप्नोति- दत्तंभवतिनिष्फलम्। **चंद्रिकायांयमः—**अभ्युक्षेत्तुप्रयत्नेनप्रातरात्र्युषितोगृहम्।मध्याह्ने चैवसायंचनचान- भ्युक्षितेयजेत्।**तत्रैवप्रचेताः—**वैश्वानरेणय4त्किंचित्कुरुतेप्रोक्षणंद्विजः। गंगातोयसमं सर्वंप्रवदंतिमनीषिणः। **भारते—**सर्वाणियेषांगांगेयैस्तोयैः कार्याणि देहिनाम्। गांत्यक्त्वामानवाविप्रदिवितिष्ठंतितेजनाः। **मार्कंडेये—**दीपभांडमयीछायाविभीतककुरंटजा। वर्जनीयासदापुत्रयदिजीवितुमिच्छसि। अधोवस्त्रेणयोवायुंकुरुते- शिरसिद्विज। स्थालेनचर्मशूर्पाभ्यांसुकृतंतस्यनश्यति। **भारते—**रक्तंमाल्यं न धार्यंस्याच्छुक्लंधार्यंतुपंडितैः। वर्जयित्वातुकमलं तथाकुवलयं प्रभो। रक्तंशिरसिधार्यंतुतथावानेयमित्यपि। कांचनीयापियामालानसा- दुष्यतिकर्हिचित्॥॥ अग्निपुराणे —प्रचारे मै थुने चैवप्रस्रावेदंतधावने। स्नाने भोजनकाले च षट् सुमौनं समाचरेत्। प्रचारः पुरीषोत्सर्गः। प्रस्रावोमूत्रोत्सर्गः। अत्रविशेषोवक्ष्यते। **नागदेवाह्निकेंगिराः—**संध्ययोरु- भयोर्जप्येभोजनेदंतधावने। पितृकार्ये च दैवे च स्त्राने मूत्रपुरीषयोः।गुरूणां संनिधौ दाने यागे चैव विशेषतः। एषुमौनंसमातिष्ठन्स्वर्गमाप्नोति मानवः। चंद्रोदयेयोगीश्वरः — यदिवाग्यमलोपः स्याञ्जपादिषुकथं

चन। व्याहरेद्वैष्णवंमंत्रंस्मरेद्वाविष्णुमव्ययम्। छंदोगपरिशिष्टे—यत्रदिड्रियमोनस्याज्जपहोमादिकर्मसु। तिस्रस्तत्रदिशः प्रोक्ताऐंद्रीसौ- म्यपराजिता। तत्रैव —यत्रोपदिश्यतेकर्मकर्तुरंगंनकथ्यते। दक्षिणस्तत्रविज्ञेयः कर्मणांपारगःकरः। **मनुः—**कुत्सितेवामहस्तः स्याद्दक्षिणः स्यादकुत्सिते। छंदोगपरिशिष्टे—आसीनऊर्ध्वः प्रह्वोवानियमोयत्रनेदृशः। तदासीनेन कर्तव्यंनप्रह्वेणनतिष्ठता। श्राद्धदीपकलिकायां विष्णुः— दक्षिणाभिमुखः कर्मचरेत्पित्र्यंयथाविधि। उत्तराभिमुखोदैवमितिदिङ्नियमःस्मृतः। पित्र्येदक्षिणामुखत्वं बह्वृचेतरपरम्। तेषांपिंडपितृयज्ञप्रकरणेसर्वकर्माणितांदिशमितिसूत्रे पित्र्ये आग्नेयीमुखत्वोक्तेः। कात्यायनः—मुख्यकालेयदावश्यं कर्मकर्तुं न शक्यते। गौणका लेपिकर्तव्यंगौणोप्यत्रेदृशोभवेत्। त्रिकांडमंडनः—स्वकालेयदुत्तरः कालोगौणः सर्वस्यकर्मणः। उत्तरग्रहान्नपूर्वकालस्यगौणत्वम्। तेनसम स्यपक्षहोमादावल्पद्वादश्यांचमाध्याह्निकस्यचापकर्षेनप्रायश्चित्तम्। उत्तरकालावधिरुक्तोवृहन्नारदीये —दिवोदितानिकर्माणिप्रमादादकृतानिवै। यामिन्याः प्रथमंयामंयावत्कर्माणिकारयेत्। चंद्रोदयेसंग्रहे—रात्रौ- प्रहरपर्यंतंदिवाकर्माणिकारयेत्। ब्रह्मयज्ञंचसौरंचवर्जयित्वा विशेषतः। रात्रौब्रह्मयज्ञनिषेधस्तैत्तिरीयेतरपरः। तस्यद्वावनध्यायौयदात्माऽशुचिर्यद्देशइतितत्सूत्रात्तैत्तिरीयश्रुतौरात्रावपिब्रह्मयज्ञोक्ते श्च। नित्यश्राद्धमपि- रात्रौवेतिवक्ष्यते। त्रिकांडमंडनः—यद्वागामिक्रियामुख्यकालस्याप्यंतरालवत्। गौणकालत्वमिच्छंतिकेचि- त्प्राक्तनकर्मणि। इदं श्रौतपरम्। स्मृत्यर्थसारे—सर्वत्रगौणकालेषुकर्मचोदितमाचरन्। प्रायश्चित्तंव्याहृ- तिभिर्हुत्वाकर्मसमाचरेत्।—प्रायश्चित्तमकृत्वावागौणकाले समाचरेत्।अनयोः पक्षयोः शक्ताशक्तविषयत्वे- नव्यवस्थेतिपारिजातः। **रत्नावल्याम्—**मुख्यकालं समाश्रित्य गौणमप्यस्तु साधनम्। नमुख्यद्रव्यलोभेन- गौणकालप्रतीक्षणम्। कालहेमाद्रीस्कांदे— यदाभवतिचाल्पातुद्वादशीह्यरुणोदये।उपःकालेद्वयंकुर्या- त्प्रातर्माध्याह्निकंतदा। सर्वधर्मादिकंकृत्वाद्वादशींसाधयेन्नरः। यत्त्वतएवाब्दिकादिश्राद्धापकर्षोपीतिकेचित्। तन्न। तस्यापरह्णका।

लनियमात्‌। धर्मपदस्यप्रातर्माध्याह्निकपदाभ्यामुपसहाराच्च ॥ ॥ शांतिहेमाद्रौ—तस्मात्सर्वप्रयत्नेनस्व-सूत्रंनविलंघयेत्‌ ॥ वसिष्ठः—पारंपर्यागतोये, पांवेदः सपरिवृंहणः। तच्छाखंकर्मकुर्वीततच्छाखा ध्ययनंतथा। वर्धमानपरिभाषायां—स्वशाखांयःसमुत्सज्यपरशाखा॥ ९॥ श्रयंद्विजः।कर्तुमिच्छति दुर्मेधामोघंतत्तस्ययत्कृतम्‌। शातातपः—सर्वश्रुत्युपसंहारादुक्तः श्रौतोयथाविधिः। सर्वस्मत्युपसंहारा- त्स्मार्तोंप्युक्त। स्तथाविधिः। अस्यापवादश्छंदोगपरिशिष्टे—बह्वल्पंवास्वगृह्योक्तंयस्यकर्मप्रचोदितम्‌। तस्यतावतिशास्त्रार्थेकृतेसर्वः कृतोभवेत्‌। अत्र। कर्मोपासनाद्येवनतुश्राद्धादीतिस्मृतिरत्नावली—यत्तुस्वगृह्येनोक्तंयस्यच्चसाकांक्षमुक्तंतत्परकीयमपिग्राह्मम्। तथाचकर्मप्रदीपे—यन्नाम्नातंस्वशाखायां- पारक्यमविरोधिच। विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादिकर्मवत्। अपरार्केप्येवम्‌यत्त्वाशार्के—अक्रियाविविधाप्रोक्ताविद्वद्भिःकरमकारिणाम्‌।अक्रियाचपरोक्ताचतृतीयाचायथाक्रिया। परोक्तापर- शाखोक्ता। तत्स्वगृह्यविरुद्धपरशाखोक्तनिषेधकम्‌। शक्तस्यसर्वस्मृत्युपसंहारः। अशक्तस्यस्वगृह्योय- क्तमितिनिष्कर्षः। आपस्तंवादीनांस्वसूत्रेऽनुक्तौविशेषोयज्ञकांडे—आपस्तंवादिभिरपिस्वसूत्राभावत स्तथा। बौधायनोक्तंकर्तव्यमन्यथापतितोमवेत्‌। अभिहोत्रादिकंचयच्छाखोक्तमाध्वर्यवंतदीय मेवांगीकार्यम्। आधानंयेनसूत्रेणतेनैवेज्यादिकाः क्रियाइतियज्ञपार्श्वोक्तेःछंदोपरिशिष्टे—प्रवृत्त- मन्यथाकुयौद्यदिमोहात्कथंचन। यतस्तदन्यथाभूतंततएवसमापयेत्‌। समाप्तेयदिजानीयान्मयैत- दन्यथाकृतम्‌। तावदेवपुनःकुर्यान्नावृत्तिःसर्वकर्मणः। प्रधानस्याक्रियायांतुसांगंतत्क्रियतेपुनः। तदंगस्याक्रियायांतुनावृत्तिनेच तत्किया। अन्यथावैपरीत्येनेत्यर्थइतिहेमाद्भिः। तन्न। तदंगस्येत्यग्रिम- ग्रंथविरोधात्‌। गुणक्रमानुरोधेनप्रधानावृत्तेरन्याय्यत्वाच। अतस्यागस्तदर्धः म। यतइति प्रयोगम्यध्येंगत्यागेप्रधानत्यागेवाज्ञातेतादारभ्यांगावृत्तिःप्रधानादिचकार्यमित्यर्थः। तवदेवेत्यंगपरम्‌।पुनस्त्वर्थे॥॥तदंगस्येत्यंगांगपरम्‌। आवृततिःसांगमप्रधानस्यतत्क्रियांगांगानुष्ठनं। तेन सांगप्रधानांगस्यां गांगास्य चोपवीतित्वादेरकरणे नसांगप्रधानप्रवृत्तिनोपि

तन्मात्रकरणं किंतुविष्णुस्मरणादिकंप्रायश्चित्तमितिवर्धमानः। कल्पतरुरपिप्रधानांगस्यैवाकरणेप्रायश्चित्तंन- त्वंगागाकरणइत्याह। अंगिराः—मार्जनंतर्पणंश्राद्धंनं कुर्याद्वारिधारया। हारीतः—मार्जनार्चनवलिकर्म- भोजनानिदेवतीर्थेनकुर्यादिति। अपराकैपैठीनसिः—आ चमन होम तर्पणानिप्राजापत्येन कुर्यादिति। आपस्तंवः—देवागारेतथा श्राद्धेगवांगोष्ठेतथाध्वरे। संध्ययोश्चद्वयोः साधुसंगमेगुरुसंनिधौ। अग्न्यगारविवाहेषुस्वाध्याये भोजनेतथा। उद्धरेद्दक्षिणंबाहुंब्राह्मणानां क्रियापथे। उद्धरेत् सर्व्येसेउत्तरीयंकृत्वादक्षिण- बाहुमुत्तरीयाद्बहिः कुर्यादित्यर्थः इतिव्रतहेमाद्रिःबौधायनः—नाभेरधश्च संस्पर्श कर्मयुक्तो विवर्जयेदिति। **वृद्धपराशरः—**प्रच्छन्नानिचदानानिज्ञानं च निरहंकृतम् जप्यानिचमुगुप्तानि तेषां फलमनंतकम्। योगियाज्ञवल्क्यः—स्त्रीशूद्रपतितां श्चैवरासभंचरजस्वलाम्। जपकालेनभाषेतव्रतहोमादिकेपुच **अम्यापयादमाहसएव—**एतेष्वेवावसक्तेतुयद्यागच्छेद्द्विजोत्तमः। अभिवाद्यततोविप्रंयोगक्षेमंचकीर्तयेत्। कालहेमाद्रौस्कांदे—अभ्यंगे जलधियानेदंतधावनमैथुने। जातेच निधनेचैवतत्कालव्यापिनीतिथिः। **भारते—**प्रसाधनंचकेशानांदंतधावनमंजनम्। पूर्वाह्णएव कर्तव्यं देवतानांचपूजनम्। तत्रैव— नक्तंनकुर्यात्पित्र्याणिभुक्त्वाचैवप्रसाधनम्। पित्र्यं तर्पणश्राद्धादि। संध्योपासनहानौतुदिवास्त्रानं विलुप्यच होमंचनैत्यकंशुद्ध्यैत्मापित्र्यष्टसहस्रकृत्। द्वादशशतंदक्षिणेतिचेदष्टाधिकंसहस्रम्। यत्तुजमदग्निः—एका हंसमतिक्रम्यप्रमादादकृतं यदि। अहोरात्रोषितः स्वात्वागायत्र्याश्चायुतंजपेत्। द्विरात्रेद्विगुणंप्रोक्तं त्रिरात्रे त्रिगुणंतथा। त्रिरात्रात्परतश्चैवशूद्रएवनसंशयः। इति तदेकदिनसाध्या हिकलोपेज्ञेयम्। तथा—नित्ययज्ञात्यये चैववैश्वदेवद्वयस्यच। भोजनेपतितान्नस्यच रुवैश्वानरोभवेत्। **उज्जवलायाम्—**दिवोदितानांनित्यानां कर्मणांसमतिक्रमे। स्नातकव्रतलोपेचप्रायश्चित्तमभोजनम्। ( गृहिणांकर्तव्यानि ) मार्कंडेयः— उदुंबरेवसेन्नित्यं5भवानीसर्व

देवता। ततःसाप्रत्यहंपूज्यागंधपुष्पाक्षतादिभिः। अशून्यादेहली कार्याप्रातःकालेविशेषतः। यस्यशून्या- भवेत्सातुशून्यंतस्यकुलंभवेत्। पादस्यस्पर्शनंतब्रह्मसंपूज्यचलंघनम्। कुर्वन्नरकमाप्नोतितस्मात्तत्परिवर्जयेत्। प्रातःकालेस्त्रिया कार्यंगोमयेनानुलेपनम्। निशायाः प्रथमेयामेधान्य संस्करणादिकम्। कुरुतेयातुमोहेन- वन्ध्याजन्मनिजन्मनि। अकृतस्वस्तिकांयातुक्रमेल्लिप्तां च मेदिनीम्। तस्यास्त्रीणिविनश्यंतिवित्तमायुर्यश स्तथा। मार्जनींचुल्लिकांष्ठी6वंद्यपदं चोपलंतथा। नाक्रमेदंघ्रिणाजातुपुत्रदारधनक्षयात्। उलूखलंचमुसलं- तथाचैव घरट्टकम्।पादक्रमणात्पा पीयान्नाप्नुयादुत्तमांगतिम् ॥ ॥ मदनरत्नेवसिष्ठः—नाग्निब्राह्मणां- तरेव्यवेयान्ना7ग्न्योर्नब्राह्मणयोर्न गुरुशिष्ययोः अनुज्ञयाव्यवेयादिति अंगिराः—दंपत्योर्विप्रयोरग्न्योर्विप्राग्न्यो- र्गोद्विजातिषु। अंतरंयदिगच्छेत्तु विप्रश्चांद्रायणंचरेत्। एतत्कामतोऽत्यंताभ्यासे। सकृत्वेत्येकदि- नाभोजनमितिशूलपाणिः। **आपस्तंबः—**अग्न्यगारेगवांगोष्ठेब्राह्मणानांचसंनिधौ। आहारेजपकालेचपादुके- परिवर्जयेत्। आरुह्यपादुके यस्तुगृहात्परगृहंव्रजेत्। छेत्तव्यौचरणौतस्यनान्योदंडो विधीयते। प्रयोग- पारिजाते भृगुः—नैकवासानचद्वीपेनांतरालेकदाचन। श्रुति स्मृत्युदितं कर्म न कुर्यादशुचिः क्वचित्। द्वीपे- विशेषस्तेनैवोक्तः—वृषभैकशतंयत्रगवांतिष्ठत्यसंयतम्। नतद्धर्महतंद्वीपमितिब्रह्मविदोविदुः।चंद्रिकायां- देवलः—येषुदेशेषुयत्तोयंयाचयत्रैमृत्तिका। येषुदेशेषुयच्छौचंधर्माचारश्चायादृशः।तत्रतन्नावमन्येतधर्मस्तत्रैव- तादृशः॥इतिश्रीमन्नारायणभट्टात्मजरामकृष्णभट्टसुतदिनकरभट्टात्मजलक्ष्मणभट्टकृताचाररत्नेपरिभाषा॥

अधाह्निके। [ ब्राह्ममुहूर्तलक्षणं ] चंद्रोदयेब्राह्मे—ब्राह्ममुहूर्तेउत्थाय चिंतयेदात्मनोहितम्। तल्लक्षणं तत्रैवस्कांदे—रजनीप्रत्ययामार्धब्राह्मः समयउच्यते। विष्णुपुराणे —रात्रेःपश्चिमयामस्यमुहूर्ताय स्तृतीयकः। सब्राह्मइतिविज्ञेयोविहितः सप्रबोधने।

चंद्रिकायाम्—रात्रेस्तुपश्चिमोयामोमुहूर्तोब्राह्मउच्यते।स्मृतिरत्नावल्याम्—ब्राह्मेमुहूर्तेयानिद्रासापुण्यक्ष- कारिणी। तांकरोतितु योमोहात्पादकृच्छ्रेणशुद्ध्यति।एतन्निषिद्धकर्मश्रान्तनिद्रापरम्। अन्यथातूक्तं बह्वृचकारिकायाम्—अविध्युक्तक्रियाश्रांतमतिनिद्रावशंगतम्अर्कोऽभ्यु देतिचेदह्नःशेषंस्थित्वा सवाग्यतः। उदितेयस्यतेविश्वेत्यृग्भिश्चतसृभीरविम्। उपतिष्ठेत विहितकर्म श्रांतस्यनेष्यते। ब्राह्ममुहूर्तोत्थानमावश्यकत्वार्थम्। अंगिराः—उत्थायपश्चिमेयामेरात्रिवासः परित्यजेत्। प्रक्षाल्य हस्तपादास्यान्युपस्पृश्य हरिंस्मरेत्। वामनपुराणे—ब्राह्ममुहूर्तेबुद्ध्येतस्मरेद्देववरानृषीन्। स्मृतिर शुचित्वेऽपि। यदास्यादशुचिस्तत्रस्मरेन्मंत्रंनतूच्चरेदितिनारसिंहात् नाशुचिर्देवर्षिपितॄणांनामानिकीर्तये दितिविष्णुभिन्नपरम्॥ ॥ब्राह्मे—उत्थाय मातापितरौ पूर्वमेवाभिवादयेत्। आचार्यमथविप्रांश्चभूमावेकेन- पाणिना। इदंमूर्खकर्मके। अजाकर्णेन विदुषोमूर्खाणामेकपाणिनेति विष्णूक्तेः। श्रोत्रसमौ करौकृत्वा पुनः सयुक्तेनकरद्वयेनेति मदनपारिजातः। अजावत्कर्णावानम्येतिवा। यत्तु—जन्मप्रभृतियत्किंचिद्व्रतंध- र्मसमाचरेत्। सर्वंतन्निष्फलं तस्य एकहस्ताभिवादनादितिमदनपारिजातेवचनं तद्भूम्यसंस्पृष्टपाणिपरम्॥ ॥अत्रप्रसङ्गात् अभिवाद्यनिर्णयःजमदग्निः—देवताप्रतिमांदृष्ट्वायतिंदृष्ट्वात्रिदंडिनम्। नमस्कारनकुर्या- च्चेदुपवासेनशुद्ध्यति। यतिग्रहणमान्यमानपरमितिस्मृतिरत्नावल्याम्। यवीयसोमातुलादीन्नाभिवा दयेदित्याहगौतमः। ऋत्विक्-श्वशुर-पितृव्य-मातुलानां प्रत्युत्थानम् अनभिवाद्याहिते इति। वृहस्पतिः—जपयज्ञगण- स्थंचसमित्पुष्पकुशानलान्। उदपात्रार्धभैक्षान्नंवहंतं नाभिवादयेत्। नारदीये—तथास्त्रानंप्रकुर्वंतं- जलमध्यगतंतथा। विवादशीलमशुचिंशयानंनाभिवादयेत्। शातातपः—पाखंडंपतितंव्रात्यंमहापात- किनंशठम्। सोपानत्कंकृतघ्नंचनाभिवादेत्कदाचन8। धावंतंचप्रमत्तं चमूत्रोच्चारकृतंतथा। उच्चारः

पुरीषोत्सर्गः। भुंजानमाचमानार्हं (?) नास्तिकंनाभिवादयेत्। वमंतंजृम्भमाणंचकुर्वंतंदंतधावनम्। अभ्यक्तशिरसं चैवस्नांतंनैवाभिवादयेत्। स्रुक्पाणिकमनाज्ञातमशक्तंरिपुमातुरम्। योगिनंचतपः सक्तं- कनिष्ठनाभिवादयेत्। **स्मृत्यर्थसारे—**अभिवाद्यद्विजश्चैतानहोरात्रेणशुद्ध्यति। सर्वेवापिनमस्कार्याः सर्वा- वस्थासुसर्वदा। विष्णुधर्मे—समित्पुष्पकुशादीनिवहंतंनाभिवादयेत्। तद्धारीचैवनान्यान्हिनिर्माल्यंत- द्भवेत्तयोः। मदनरत्ने—सभायांयज्ञशालायांदेवतायतनेषुच। प्रत्येकंतुनमस्कारोहंतिपुण्यंपुराकृतम्। **मिताक्षरायाम्—**दंतधावनगीतादिब्रह्मचारी विवर्जयेदिति। योगीश्वरः—वाक्पाणिपादचापल्यंवर्जयेच्चाति भोजनम्। मनुः—नेक्षेतोद्यंतमादित्यंनास्तंयंतंकदाचन। नोपसृष्टंनवारि9 स्थंनंमध्यंनभसोगतम्। अत्रनञ्प- र्युदासार्थोननिषेधार्थः। व्रतशब्दैकवाक्यत्वात्। सएव—नाश्नीयाद्भार्ययासार्धनैनामीक्षेतचाश्नतीम्। क्षुवतीजृंभमाणांवानचासीनांयथासुखम्।नांजयंतींस्वकेनेत्रेनचाभ्यक्तामनावृताम्।नपश्येच्च10प्रसूयंतींतेजस्का- मो द्विजोत्तमः। योगी—ष्ठीवनासृक्शकृन्मूत्ररेतांस्यप्सुननिक्षिपेत्। पादौप्रतापयेन्नाग्नौनचैनमभिलंघयेत्। जलंपिवेन्नांजलिनानशयानंप्रवोधयेत्।शयानंश्रेष्ठम्।श्रेयांसं नप्रवोधयेदित्युक्तेः। नाक्षैःक्रीडेन्नधर्मघ्नैर्व्याधितै- र्वानसंविशेत्।विरुद्धंवर्जयेत्कर्मप्रेतधूमंनदीतरम्।केशभस्मतुषांगारकपालेपुचसंस्थितिम्। नाचक्षीतधयंतीं- गांनाद्वारेणविशेत्क्वचित्। गौतमः—नवाय्वग्निविप्रादित्यापोदेवान्गाश्चप्रतिपादौप्रसारयेदिति। तत्रक्वचिदृ- ष्टदोषःक्वचिददृष्टो बोध्यः। देवर्त्विक्स्नातकाचार्यराज्ञांछायांपरस्त्रियः। नाक्रमेद्रक्तविण्मूत्रष्ठीवनोद्वर्तनानिच। गुरोर्वभ्रुणोदीक्षितस्यचेतिमनौ। स्नानोदकंश्लेष्म वांतानिचनाक्रमेत्। दूरादुच्छिष्टविण्मूत्रपादांभांसि समुत्सृजेत्। श्रुतिस्मृत्युदितंसम्यङ्नित्यमाचारमाचरेत्। विप्राहिक्षत्रियात्मानोनावज्ञेयाः कथंचन। आमृत्योः श्रियमाकांक्षन्नकंचित्कर्मणिस्पृशेत्। गोब्राह्मणानलान्नानिनोच्छिष्टोनपदास्पृशेत्। नर्निदाताडनेकुर्यात्पुत्रं- शिष्यं चताडयेत्।

कर्मणामनसावाचायत्नाद्धर्मंसमाचरेत्।अस्वर्ग्यंलोकविद्विष्टंधर्ममप्याचरेन्नतु। मातृपित्रतिथिभ्रातृजामि संबंधिमातुलैः। वृद्धबालातुराचार्यवैद्यसंश्रितबांधवैः। ऋत्विक्पुरोहितापत्यभार्यादाससुतादिभिः।विवादं- वर्जयित्वातु सर्वांल्लोकान्जयेद्गृही। पराशय्यापरोद्यानगृहयानानिवर्जयेत् पराप्यदत्तानीति— दाक्षायणीब्रह्मसूत्रीवेणुमान्सकमंडलुः। कुर्यात्प्रदक्षिणंदेवमृद्गोविप्रवनस्पतीन्। दाक्षायणंहेम तन्मयेकुंडले।वैणवीं धारयेद्यष्टि॑सोदकंचकमंडलुम्। यज्ञोपवीतेदंडंचशुभेरौक्मेचकुंडलेइतिमनुःयोगीश्वरः—भूशुद्धिर्मार्जना द्दाहात्कालाद्गोक्रमणात्तथा। सेकादुल्लेखनाल्लेपाद्गृहंमार्जनलेपनात्। गृहस्यपृथग्ग्र होमार्जनलेपयोः प्रत्यहप्राप्त्यर्थइतिविज्ञानेश्वरः। **बह्वृचगृह्ये—**पापकंगंधमाघ्रायाक्षि स्पंदनेकर्णध्वन नेसुचक्षाअहमक्षीभ्यांभूयासंसुवर्चामुखेनसुश्रुत्कर्णाभ्यांमयिदक्षऋतूइतिजपेदगमनीयांगत्वाऽयाज्यंयाजयि त्वाऽभोज्यंभुक्त्वाऽप्रतिग्राह्यंप्रतिगृह्मचैत्यंयूपंवोपहत्य—पुनर्मामैत्विंद्रियंपुनरायुः पुनर्भगः। पुनर्द्रविणमैतु मांपुनर्ब्राह्मणमैतुमांस्वाहा।इमेधिष्ण्यासोअग्नयोयथास्थानमिहकल्पताम्। वैश्वानरोवावृधानोंतर्यच्छतुमेमनो- हृद्यंतरमृतस्यकेतुःस्वाहेतिजपेत्॥इतिश्रीमन्नारायणभट्टात्मजश्रीमद्रामकृष्णभट्टसूनुदिनकभट्टानुजलक्ष्मण- भट्टकृतेआचाररत्नेप्रातःकृत्यपरिभाषाशेषः॥

**अथप्रातःस्मरणादि। विष्णुपुराणे—**प्रातःस्मरामिभवभीतिमहार्तिशांत्यैनारायणंगरुडवा हनमब्जनाभम्11। ग्राहाभिभूतवरवारण मुक्तिहेतुंचक्रायुधंतरुणवारिजपत्रनेत्रम्॥१॥प्रातर्नमामिमनसावच- साचमूर्ध्नापादारविंदयुगुलंपरमस्यपुंसः। नारायणस्यनरकार्णवतारणस्यपारायणप्रवणविप्रपरायणस्य॥२॥प्रातर्भजामिभजतामभयंकरतंप्राक्सर्वजन्मकृतपापभयापहत्यै। योग्राहवक्रपतितांघ्रिगजेंद्रघोरशोकप्रणा शमकरोद्धृतशंखचक्रः॥३॥पंचायतनसारे—प्रातःस्मरामिगणनाथमनाथबंधुसिन्दूरपूर12परिशोभित- गंडयुग्मम्। उद्दंडविघ्नपरिखंड

न चंड दंड माखंडलादि सुरनायकवृंदवंद्यम्॥१॥प्रातर्नमामि चतुराननवंद्यमानमिच्छानुकूलमखिलं च वरंदं धानम्।तं तुं दिलं द्विरसनाधिपयज्ञसूत्रंपुत्रंविलासचतुरंशिवयोः शिवाय॥२॥प्रातर्भजाम्यभयदंखलुभक्तशो- कदावानलंगणविभुंवरकुंजरास्यम्।अज्ञानकाननविनाशनहव्यवाहमुत्साहवर्धनमहं सुतमीश्वरस्य॥३ श्लोकत्रयमिदंपुण्यं सदासाम्राज्यदायकम्।प्रातरुत्थायसततं यः पठेत्प्रयतः पुमान्॥४॥प्रातः स्मरामिखलुतत्सवितुर्वरेण्यं रूपं हि मंडलमृचोथतनुर्यजूंषि। सामानियस्यकिरणाः प्रभवादिहेतुं ब्रह्माहरात्मकमलक्ष्यमचिंत्यरूपम्॥१॥प्रातर्नमामितरणिंतनुवाङ्मनोभिर्ब्रह्मेंद्रपूर्वकसुरैः स्तुतमर्चितं च। वृष्टिप्रमोचनविनिग्रहहेतुभूतं त्रैलोक्यपालनपरं त्रिगुणात्मकं च॥२॥प्रातर्भजामि सविता रमनंतशक्तिं पापौघशत्रुभयरोगहरं परं च। तंसर्वलोककलनात्मककालमूर्तिगोकंठबंधनविमोचनमादिदेवम्॥३॥श्लोकत्रयमिदं भानोः प्रातः प्रातः पठेत्तुयः। सर्वव्याधिविनिर्मुक्तः परमं सुखमाप्नुयात्॥४॥प्रातः स्मरामि शरदिंदुकरोज्ज्वलाभांसद्रत्नवन्मकरकुंडलहार13भूपाम्। दिव्यायुधोर्जित सुनील सहस्रहस्तांरक्तो- त्पलाभचरणां भवतीं परेशाम्॥१॥प्रातर्नमामि महिषासुरचंडमुंडशुंभासुरप्रमुखदैत्यविनाशदक्षाम्। ब्रह्मोंद्ररुद्रमुनिमोहनशीललीलांचंडीं समस्त सुरमूर्तिमनेकरूपाम्॥२॥प्रातर्भजामिभजतामभिलाष14दात्रीं धात्रीं समस्त जगतांदुरितापहंत्रीम्। संसारबंधन विमोचनहेतुभूतांमायांपरामधिगतां15परमस्यविष्णोः॥३॥श्लोकत्रयमिदं देव्या श्चंडिकायाः पठेत्तुयः16। सर्वान्कामानवाप्नोतिविष्णु लोकेमहीयते॥४॥प्रातः स्मरामि भवभीतिहरं सुरेशं गंगाधरं वृषभवाहनमंविकेशम्। खट्वांगशूलवरदाभयहस्तमीशं संसाररोगहरं- मौषधमद्वितीयम्॥१॥प्रातर्नमामि गिरिशं गिरिजार्धदेहं सर्गस्थितिप्रलयकारणमादिदेवम्। विश्वेश्वरं विजितविश्वमनोभिरामं संसाररोगहर०॥२॥प्रातर्भजामिशिवमेकमनंतमाद्यं वेदांत वेद्यमनघं पुरुषं पुराणम्। नामादिभेदरहितं षड्भावशून्यं संसार०॥३॥प्रातः समुत्थाय शिवं विचिंत्य श्लोकत्र

यं यः पठतीहभत्त्या। सदुःखजातंविविधप्रभूतं हित्वापदंयातितदेवशंभोः॥४॥पराशरमाधव्याम् —ब्रह्मामुरारिस्त्रिपुरांतकारीभानुः शशी भूमिसुतो बुधश्च। गुरुश्चशुक्रःसहभानुजेन17कुर्वतु सर्वेममसुप्रभातम्॥१॥भृगुर्वसिष्ठः क्रतुरंगिराश्चमनुः पुलस्त्यः पुलहः सगौतमः। रैभ्योमरीचि- श्च्यवनश्चदक्षः कुर्वतु सर्वेममसुप्रभातम्॥२॥सनत्कुमारः सनकः सनंदनः सनातनोप्यासुरिपिंगलौच। सप्तस्वराः सप्तरसातलानि कुर्वंतुसर्वेममसुप्रभातम्॥३॥सप्तार्णवाः सप्तकुलाचला श्चसप्तर्षयो द्वीपवराश्चसत। भूरादिकृत्वा भुवनानि सप्तकुर्वंतु सर्वेममसुप्रभातम्॥४॥पृथ्वीसगंधासरसा स्तथापःस्पर्शी चवायुर्ज्वलितं18चतेजः। नभःसशब्दं महता सहैव कुर्वंतु सर्वऽममसुप्रभातम्॥५॥श्रीःकामधेनुःसचवक्रतुंडश्चिं तामणिः श्रीतुलसी च गंगा। अरुंधतीकौस्तुभकल्पवृक्षाः कुर्वतुसर्वेममसुप्रभातम्॥६॥इत्थंप्रभातेपरमं पवित्रं पठेत्स्मरेद्वाशृणुयाच्च भक्त्या। दुःस्वप्ननाशस्त्विह सुप्रभातंभवेच्च नित्यं भगवत्प्रसादात्॥७॥पुण्यश्लोको नलो राजापुण्य श्लोको युधिष्ठिरः। पुण्यश्लोकाच वैदेहीपुण्यश्लोकोजनार्दनः॥१॥कर्कोटकस्यनागस्यदमयंत्यानलस्यच। ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम्॥२॥अश्वत्थामवलिर्व्यासोहनूमां श्रविभीषणः। कृष्णपरशुराम- श्चसप्तैतेचिरजीविनः॥३॥सप्तैतान्संस्मरेन्नित्यं मार्कडेयमथाष्टम्। जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः॥४॥अहल्याद्रौपदीकुतीता19रामदोदरीतथा। पचैताःसंस्मरेन्नित्यमानवो नैववध्यते॥५॥इत्यादिपठेत्॥प्रयोगपारिजातेस्कांदे—समुद्रवसनेदेविपर्वतस्तनमंडिते। विष्णुपत्निनमस्तेस्तुपादस्पर्श क्षमख मे॥कात्यायनः—श्रोत्रियंसुभगंगांचअग्निमग्निचितंतथा। रोचनां चंदनं गधं मृदं गंदर्पणं मणिम्। गुरुमग्निंरविंपश्यन्नमस्येत्प्रातरेवहि। आचारादर्शविशेषःभारते—अवलोक्योनचादर्शोमलिनो बुद्धिमत्तरैः॥

**॥कात्यायनः—**पापिष्ठंदुर्भगंमद्य20ंनग्नमुत्कृत्तनासिकम्। प्रातरुत्थाययः पश्येत्तत्कले21 रुपलक्षणम्। नग्नंबाल22भिन्नम्। दुष्टत्वात्। इतिश्रीलक्ष्मणभट्टकृतेआचाररत्नेप्रातःस्मरणम् ॥

** अधबहिर्विहारः ॥ प्रयोगपारिजातेशौनकः—ग्रामाद्बहिः समागत्यमलमूत्रे समुत्सृजेत्। पराशरः —ग्रामाद्धनुः शतंगच्छेन्नगराच्च चतुर्गुणम्। धनुर्द्विपदमिति केचित्। चतुररत्नीतिस्मृत्यर्थसारे**। माधवीयेविष्णुपुराणे—नैर्ऋत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः। दूरादावसथान्मूत्रंपुरीषंचसमाचरेत्। मनुरपि—दूरादावसथान्मूत्रंदूरात्पादावनेजनम्। उच्छिष्टान्ननिषेकं च दूरादेव समुच्चरेत्। दिनपरमिदम्। रात्रौमूत्रपुरीषे तु गृहाभ्याशे23 समाचरेदिति संग्रहादिति चंद्रोदयःदेवलः—विण्मूत्राद्याचरेन्नित्यंसंध्यासु परिवर्जयेत्। एतन्निरुद्धेतरपरम्। नवेगंधारयेन्नोपरुद्धः क्रियांकुर्यादिति गौतमोक्तेःविष्णुः —ब्राह्येमुहूर्ते मूत्रपुरीषोत्सर्गं कुर्यादिति। स्वापादौ निमित्ते आचम्य मूत्रपुरीषे कुर्यादित्युक्तं चंद्रिकायाम्प्रयोगपारिजातेदक्षः—उभेमूत्रपुरीषे तु पूर्वमादाय मृत्तिकाम्। आददानश्च वैपश्चात्सचैलोजलमाविशेत्। न च प्रह्रोनचोत्तिष्ठन्नाशुचिर्नलषन्द्विजः। क्रमादग्न्यादिवाय्वंतदिङ्मुखोनाहरेन्मृदम्। हलायुधे—अष्टांगुलंखनित्वा च द्वादशांगुलमेववा। तदधोमृत्तिकाग्राह्या सर्वत्रैव विचक्षणैः। चाच्चतुरंगुलम्। यत्तु—विनालोहं विनाकाष्ठमृत्तिकायेनचोद्धृता। विष्ठानुलेपनंतस्यपुनः स्नानेन शुद्ध्यतीत्याचारचंद्रोदयेवचनंत- न्निर्मूलम्। सायणीयेमरीचिः—विप्रेशुक्लातुमृच्छौ चेरक्ताक्षत्रेविधीयते। हारिद्रवर्णावैश्ये तु शूद्रेकृष्णेतिनिर्दिशेत्। कौमुद्यांकश्यपः—कृष्णास्त्रीशूद्रयोस्तथेत्याह। मनुः—यस्मिन्देशेतुयत्तोयंयाचयत्रै- वमृत्तिका। सैवतत्रप्रशस्तास्या

त्तयाशौचं विधीयते। एतेनययोक्तमृदलाभे किंचिद्गुणहीनमृदेवग्राह्यानतुतद्वर्णद्रव्यांतरंप्रतिनिधेयम्। युक्तंचैतत्। गुणीभूतशुक्लत्वानुरोधेन प्रधानीभूतमृत्वत्यागेमानाभावात्। आश्वलायनः—अंतर्जलेदेवगृहे- वल्मीकेमूषकस्थले। अन्यशौचावशेषाश्चनग्राह्याःपंचमृत्तिकाः। अन्यशौचेत्यत्र कर्मधारयोनतु षष्ठी- तत्पुरुषः। तत्पुरुषापेक्षयाकर्मधारयस्यलघुत्वात्। तेनैकस्यैवशौचांतरशेषा अपिनिषिद्धाः। सएव—मार्गरथ्याश्मशानस्यांपांशुलांमलिनांत्यजेत्। कीटांगारास्थिसहितांनाहरेच्छर्करान्विताम्। वापीकूपतडागे- षुनाहरेद्बाह्यमृत्तिकाम्। अंतर्जलगताग्राह्या दूरतोमणिबंधनात्। जलांतः स्थितमृन्निषेधउद्धृतोदक- शौचविषयः। जलांतःशौचेतुयमः—वापीकूपतडागेषुनाहरेद्बाह्यतोमृदम्। इदंचारण्यविषयम्। स्मृत्यर्थ- सारे—आरण्यकेषुत्वेवंस्याद्ग्राह्येष्वाहरणंविदुरित्युक्तेः। स्मृतिचिंतामणावप्येवम्आचारादशैहारीतः—मृद्धानीकंठेसमासज्यदक्षिणपार्श्वेकमंडलुमाधायेति।चंद्रिकायांविष्णुः—ब्रह्मसूत्रग्रीवायामासज्योच्चरेदि ति।तत्रैवापस्तंवः—कृत्वामूर्ध्न्युपवीतकमितिमाधवीयेंऽगिराः। कृत्वायज्ञोपवीतंतुपृष्ठतःकंठलंवितम्। विण्मूत्रंतुगृहीकुर्याद्यद्वाकर्णे समाहितम्। पृष्ठेनिधानंचानेकवगम्य। एकावस्त्रस्यसांख्यायनेनयद्ये- कवस्त्रोयज्ञोपवीतंकर्णेकृत्वेत्युक्तेरितिपृथ्वीचंद्रचंद्रिकादयः। कर्णश्चदक्षिणः। पवित्रंदक्षिणेकर्णे कृत्वाविण्मूत्रमुत्सृजेदितिलिङ्गात् पवित्रस्यदक्षिणकर्णस्थत्वोक्तेरुपवीतमपितत्रैवेतिमाधवीये। द्विवस्त्रत्वे —नियम्यप्रयतोवाचं निवीतांगोवगुंठित इति मनूक्तेर्निवीतमित्याचारादर्शःमदनरत्नेप्येवम्। स्मृतिरत्नावल्यांतु—दिवासंध्यासुकर्णस्थब्रह्मसूत्रउदङ्मुखइति ब्रह्मचारिप्रकरणे याज्ञवल्क्यो- क्तेर्ब्रह्मचारिणः कर्णेनिधानं गृहिणस्तुपृष्ठलंवितमित्युक्तम्। वस्तुतस्तुनिवीतपृष्ठलंवितयोर्विवस्त्रा दिपरत्वात् यद्येकवस्त्रइत्यस्यब्रह्मचारिपरत्वासंभवात् पृथ्वीचंद्रोक्तिरेवन्याय्या।ब्रह्मचारिप्रकरणेयाज्ञवल्क्यो- क्तिस्तुप्रथमंब्रह्मचारिधर्माभिधानात् प्रत्युतसाधिका। गौतमीयेइतरेपांचैतद विरोधीतिगृहस्थादौ ब्रह्मचारिधर्मातिदेशसाधकत्वादित्युक्तम्। अतएवस्मृत्यर्थसारे—उपवीतंनि

वीतंपृष्ठतःकंठलंबितंकृत्वाएकवस्त्रश्चेद्दक्षिणकर्णेनिधायेति। ज्योतिर्निबंधे—दक्षेकर्णेचमूत्रेतुपुरीषेवाम- कर्णके। धारयेद्ब्रह्मसूत्रंतुमैथुनेह्युपवीतवानित्युक्तम्। स्मृतिसारेकृष्णभट्टीयेचैवम्। अत्रमूलंमृग्य- मित्यपिकेचित्। तत्रदेशाचारतोव्यवस्था। शूद्रस्यनकर्णेनिधानं उपवीताभावात्। नचोपवीतंवस्त्र विन्यासादितिबौधायनादिभिरुपवीतकार्यत्वेनोक्तस्यवस्त्रोत्तरीयादेः कर्णेनिधानंतत् कर्णेनिधान- संस्कारोननिवीतादिवदंगम्। मानाभावात्। विशिखोव्युपवीतश्चेत्यादेः श्रौतस्मार्तकर्मपरत्वात्।नचैतत्स्मार्त रागतः प्राप्तेः। भोजनादौतुप्रायश्चित्ताम्नानात्तन्नि यमः। नच—पिवतोमेहतश्चैवभुंजतोऽनु- पवीतिनः। प्राणायामत्रयंषट्कंनक्तंचत्रितयंक्रमादितिवाक्यान्मेहनांगत्वं। तस्यद्विजपरत्वात्। तदा- हवृद्धपराशरः—यज्ञोपवीतेन विनाभोजनंकुरुतेद्विजः। अथमूत्रपुरीषेवारेतः सेचनमेववा। त्रिरात्रोषोषि- तोविप्रः पादकृच्छ्रंतु भूमिपः। अहो रात्रोषितोवैश्यः शुद्धिरेषापुरातनी। अतः शूद्रस्योत्तरीय वाससोनक- र्णेनिधानमितिशूद्राचारशिरोमणिः। तन्न। संस्कारत्वेमानाभावात् भोजनादावपिप्रायश्चित्तस्यद्विजपरत्वा- पत्तेश्च। नैमित्तिकंहीदंकर्णेनिधानम्। केचित्तुद्व्यंगुलादिनिर्मितोत्तरीयस्यकर्णेनिधानंस्थूलवस्त्रादेरसंभवा दित्याहुः। वस्तुतस्तुकर्मकाले एवोपवीतोत्तरीयादि धारणनियमात्सदोपवीताभावान्नकर्णे निधानमिति ॥ ॥ यमः—राजमार्गश्मशानानिक्षेत्राणिचखलानि च। उपरुद्धोनसेवेतछायांदृश्यंचतुष्पथम्। उदकंचोदकां तंचपंथानंचविवर्जयेत्। राजमार्गचतुष्पथयोरुक्तिर्दोषाधिक्यार्थी पथः पृथगुक्तेरित्येके। दंडधारणरूपदृ- ष्टप्रयोजनिकेत्याचारादर्शः। समीपलक्षणार्थेतिहलायुधः।स्वच्छायायांत्वेवमेहेदित्युक्तेः पुरुषांतरच्छा- यापिनिषिद्धेत्याचारादर्शःशौनकः—अग्नौचगच्छंस्तिष्ठन्वैरथ्यांतीर्थेश्मशानके। अंगारेगोमयेनद्यांयज्ञ- भूमिषुसर्वदा। फालैजलेचितायांचवत्मीके गिरिमस्तके। देवालयेनदीतीरेदर्भपुष्पकुशस्थले। सेव्यच्छायेषुवृक्षेषुमार्गगोष्ठांबुभस्मसु। स्थानेष्येतेषु सर्वेषुकुर्यान्मूत्रादिकंचन। वायुवार्यर्क गोसोमतुलसी स्त्रीद्विजन्मनः। पश्यन्नभिमुखोमूत्र पुरीषादीन्नकारयेत्। नफालकृष्टेन जलेननद्यांनचपर्वतेइति मनुना पर्वतमात्रनिषेधात्। गिरि

मस्तकग्रहणंदोषाधिक्यार्थम्। अतः पर्वतवासिनांपर्वतापरिहारेपिमस्तकः परिहार्यइतिचंद्रिकाकात्यायनः—मूत्रपुरीषेष्ठीवनंचातपेनकुर्यादिति। याज्ञवल्क्यः—नप्रत्यग्न्यर्कगोसोमसंध्यांबुस्त्रीद्विजन्मनः।विष्णुः—गोमयांगारवल्मीकफालकृष्टेंबरेतरौ। संसत्वेशा24द्वलोद्यानेनमेहेतकदाचन। अंवरेऽतरिक्षे। विष्णुः—नोच्चरेदाकाशेइति। आकाशेऽसंवृते। यदाकाशःस्मृतोभीमस्तस्मान्नासंवृते क्वचित्। कुर्यान्मूत्रंपुरीषंवान भुंजीतपिबेन्नवेतिवायुपुराणात्। अतोट्टालिकादौननिषेधइत्याचारादर्शः। तन्न।अंतरिक्षनिषेधेनैवतन्नि- षेधात्। चंद्रोदयेवृद्धमनुः—दशहस्तंपरित्यज्यमूत्रंकुर्याज्जलाशयात्। शतहस्तंपुरीषेतुतीर्थैचैव च तुर्गुणम्। मनुः—दूरादावसथान्मूत्रदूरात्पादावने जनम्। उच्छिष्टान्ननिषेकचदूरादेवसमाचरेत्। मदनपारिजाते- बृहद्विष्णुः—अंतर्धायतृणैर्भूमिंशिरःप्रावृत्यवाससा। वाचंनियम्ययत्ने नष्ठीवनोच्छ्वासवर्जितः। तृणैरयज्ञियै। अयज्ञियैरनार्द्रैःसंच्छाद्यकाष्ठतृणैर्महीमितियमोक्तेः॥ ॥ यज्ञियकाष्ठान्युक्तानिब्राह्मे—शमीपलाशन्य- ग्रोधप्लक्षवैकंकतोद्भवाः। अश्वत्थोदुंबरौबिल्वश्चंदनः सरलस्तथा। सालश्चदेवदारुचश्चदिरश्चेतियज्ञियाः। काष्ठाद्यंतर्धानंकुर्यान्नवेतिस्मृत्यर्थसारे। प्रयोगपारिजातेसंग्रहे—नसोपान25त्पादुकीवाछत्रीवानांतरिक्षगः। हारीतः—प्राणास्येसमावेष्टयेदिति। याज्ञवल्क्यः—दिवासंध्यासुकर्णस्थब्रह्मसूत्रउदङ्मुखः। कुर्यान्मूत्र पुरीषेचरात्रौचेद्दक्षिणामुखः।केचित्तुदिवापदेनैवसंध्याप्राप्तौपुनरुक्तिरह निमनूक्तसुखमुखत्वबाधार्थेत्याहुः। तन्न। संध्यायादिवारात्रिभेदेन पुनरुक्तेरुपपत्तेः। अतएवाखंड मंडलावच्छिन्नः कालोदिवसः। खंडमंडलावच्छिन्नः कालः संध्या। तद्भिन्नारात्रिरितिशास्त्रेषुचव्यवहारः। अतोरात्रौदक्षिणामुखो- ऽन्यथोदङ्मुखइतिवाच्येपुनःसंध्याग्रहोऽव्यभिचारा

र्थइतितुवयम्।यत्तु—प्रत्यङ्मुखस्तुपूर्वाह्णेपराह्णेप्राङ्मुखस्तथा। उदङ्मुखस्तुमध्याह्नेनिशायांदक्षिणामुख इतियमोक्तिः सासूर्यसांमुख्यनिषेधपरा। सदैवोदङ्मुखःप्रातःसायाह्नेदक्षिणामुखइतिदेव लोक्तेरितिपृथ्वीचंद्रपारिजातादयः। प्रातःपदंदिनपरम्। सायाह्नपदंरात्रि परम्। योगीश्वरोत्क्त्य- नुसाराद्विकल्पइतिचंद्रिकामदनपारिजातकृत्यरत्नेषु।युक्तस्तूपसंहारःसामान्यविशेषयो र्विकल्पायोगा त्।तस्याष्टदोषग्रस्तत्वाच्च। केचित्तुतुल्यार्थत्वेपिमनुविपरीतायास्मृतिःसानशस्यतइति बृहस्पतिस्मृते- रन्यस्मृतीनांदुर्बलत्वेनाप्रामाण्यंनतुविकल्प इत्याहुः।तन्न। प्रत्यक्षश्रुतिविरोधेपिस्मृतीनामप्रामाण्यंनास्ती त्युक्तमाचार्यैर्विरोधाधिकरणे। किंत्वनुष्ठानलक्षणंतत्। स्मृतिविरोधेप्य प्रामाण्यंस्मृतीनांदूरापास्तम्। वृहस्पतिस्मृतिस्तुप्राशस्त्यार्थाकृतयुगपरा। कृतेतुमानवाधर्मास्त्रेतायांगौतमाः स्मृताः। द्वापरेशंख- लिखितौकलौ पाराशरस्मृतिरितिमाधवीयेवृहस्पतिस्मृतेःयत्तुमनुः—छायायामंधकारेवारात्रावह निवाद्विजः। यथासुखमुखःकुर्यात्प्राणवाधाभयेषुच। तन्नीहारादिजातदिङ्मोहविषयमितिमाधवःशिव- धर्मोत्तरे—नविण्मूत्रमवेक्षेतछायांनैवात्मनोऽपिच।दर्शनेयमः–दृट्वासूर्यंनिरीक्षेतगामग्निंब्रह्मणंतथा। कृत्य- रत्नेजाबालिः—स्त्रानंकृत्वार्द्रवासास्तु विण्मूत्रंकुरुतेयदि। प्राणायामत्र्यंकृत्वा पुनः स्नानेनशुद्ध्यति। कौमें तै लाभ्यक्तोऽथवाकुर्याद्यदिमूत्रपुरीषके। अहोरात्रेणशुद्ध्येतश्मश्रुकर्मणिमैथुने॥॥ अभ्यंगउक्तःप्रायश्चित्त- शूलपाणावायुर्वेदे—मूर्ध्निदत्तंयदातैलंभवेत्सर्वांगसंगतम्। स्रोतांसितर्पयेद्बाहूअभ्यंगः सउदाहृतः। तैलमल्पं- यदांगेपुनचस्याद्बाहुतर्पणम्। सामार्ष्टिः पृथगभ्यंगोमस्तकादौ प्रकीर्तितः। माधव्यांशातातपः—अनुदकमूत्रपुरीषकरणे सचैलंस्नानंव्याहृतिहोमंचकुर्यादिति। एतच्छौचंविनाचिरकालंस्थिताविति मदन- पारिजातः। विलंबाभावेस्नानमात्रम्। विनाद्भिरप्सुवाष्यंतः शरीरंयोनिषेवते। सचैलोवाद्विराप्लुत्यगा- मालभ्यविशुद्ध्यतीतिमनूक्तेः। अत्यंतार्तस्येदमितिशूलपाणिः। मिताक्षरायांमरीचिः — ब्रह्मसूत्रंविना- भुंक्तेविण्मूत्रंकुरुतेतथा। गायत्र्यष्टसहस्रेणप्राणायामेन शुद्ध्य

ति।स्मृत्यर्थसारे—विनायज्ञोपवीतेनविण्मूत्रेषट्प्राणायामाः। मत्याभक्षपानविण्मूत्रेत्वष्टशतजपइति। प्रयोगपारिजातेभरदाजः—मलमूत्रेत्यजेद्विप्रोविस्मृत्यैवोपवीतधृक्।उपवीतंतदुत्सृज्यदध्यादन्यन्नवंतदा।निवीतादिविस्मृत्येत्यर्थः। स्मृत्यर्थसारे—चांडालादिस्पृष्टश्चेत्युरीषादिकरोतितदात्रिरात्रमुपवासइति। माधवीयेसंवर्तः कृतमूत्रपुरीषोवाभुक्तोच्छिष्टोपिवाद्विजः। श्वादेःस्पर्शेजपेद्देव्याः सहस्रंस्रानपूर्वकम्। प्रयोगपारिजातेकौमै—देवोद्यानेतुयःकुर्यान्मूत्रोच्चारंसकृद्द्विजः। छिंद्याच्छिश्नंतुशुद्ध्यर्थंचरेच्चांद्रायण- व्रतम्। देवायतनेप्येतत्। विष्णुपुराणे—तिष्ठेन्नातिचिरंतत्रेति। तत्र मूत्रपुरीषोत्सर्गस्थले। हारीतः— लोष्ठे- नप्रमृजीतशुष्ककाष्ठेनवेति। लोष्ठकाष्ठाभावेगौतमोक्तिविरोधादित्याचारादर्शःभरद्वाजः—अपकृष्य- चविण्मूत्रंकाष्ठलोष्ठतृणादिना। यत्तुगौतमः—नपर्णलोष्ठाश्मभिर्मूत्रपुरीषेअपकर्षयेदिति। तदशीर्णविषयं यज्ञियपर्णविषयंवा। मार्जनंवामहस्तेनवीरणाद्यैरयज्ञियैरितिस्मृत्यंतरात्। गौतमोक्तिरुक्तकाष्ठादिसंभव- इतिचंद्रिकाअत्रिः—शुद्ध्यर्थचत्रिभिःकाष्ठैस्तृणैर्वापिनिघर्षयेत्। आश्वलायनः—विण्मूत्रोत्सर्जनं कुर्या- द्धृतशिश्नउदङ्मुखः। स्कांदे—वामेनपाणिनाशिश्नंधृत्वोत्तिष्ठेत्सदाद्विजः। देवलः—आशौचान्नोत्सृजेच्छि- श्नंप्रस्रावोच्चारयोस्तथा। नैतेबालस्यनियमाउदङ्मुखादयः। तं प्रकृत्य—नतस्याचमनकल्पोविद्यतेन- तस्योदङ्मुखोदिवारात्रौदक्षिणामुखइत्यादयोनियमाइतिगौतमोक्तेः॥ इतिश्रीमन्नारायणभट्टात्मजश्री० लक्ष्मण भट्टकृतेआचाररत्नेमूत्रपुरीषोत्सर्गविधिः॥॥

अथशौचम्दक्षः—शौचेयत्नःसदाकार्यःशौचमूलोद्विजः स्मृतः। शौचाचारविहीनस्यसमस्तानिष्फलाः क्रियाः। ब्रह्मांडपुराणेसुनिर्णिक्तेमृदंदद्यान्मृदंतेत्वपएवच। सुनिर्णिक्तेक्षालितेपाणिपादादावितिकल्पतरुः। काष्ठादित्रोंच्छितइत्यन्ये। गौतमः—गंधलेपाद्यपगमेशौचममेध्यस्यतदद्भिः पूर्वंमृदाचेति। अपगम इति निमित्तसप्तमी। स्मृत्यर्थसारे— त्रिपर्वपूरमात्रावामृत्तिकाक्षप्रमाणिका। अक्षोऽशीति

गुंजः। परिमाणमिदंनगुदे। अर्धप्रसृतिमात्रमितिदक्षेणगुदेप्रमाणांतरोक्तेरित्याचारादर्शः। मृद्ग्रहणंग्रावा सक्तमृद्धात्रीतः। तदसंभवेन्यतोवेति। शौचंदिवोदङ्मुखोरात्रौदक्षिणामुखःकुर्यादित्युक्तम्। चंद्रिकायां- शौनकः—लिंगशौचंपुराकार्यंगुदशौचंततः परम्। एकातुमृत्तिकालिंगेतिस्रःसव्यकंरेमृदः। करद्वयेमृद्द्वयं स्यान्मृत्प्रमाणमथोच्यते। आर्द्रामलकमात्राचलिंगशौचेतुमृत्तिका। मूत्रात्तुद्विगुणंशुक्रेमिथुनेत्रिगुणं भवेत्। शुक्रेमैथुनंविनाशुक्रोत्सर्गे। पुरीषेतु–पंचापानेमृदः क्षेप्याःकरेवामेदशस्मृताः। हस्तयोः सप्तदातव्याः पुरीषेमृत्प्रमाणकम्। अर्धप्रसृत्तिमात्रंस्यात्तदर्धंतुततःपरम्। ऐकैकंपादयोर्दद्याद्धस्तयोर्लिंगशौचवत्। एकैकमितिमूत्रपरमितिकृष्णभट्टीये। उभयपरमितियुक्तम्। दक्षः—अर्धप्रसृतिमात्रातुप्रथमामृत्तिका- स्मृता। द्वितीयाचतृतीयाचतदर्धार्धाःप्रकीर्तिताः। लिंगेष्येवंसमाख्यातात्रिपर्वीपूर्यतेयया। चंद्रिकायांत्वंगिराः—प्रथमाप्रसृतिर्ज्ञेयाद्वितीयातुतदर्थिका। तृतीयामृत्तिकाज्ञेयात्रिभागकरपूरिणीति। एकालिंगइतिमूत्रशौचे।पंचापानेइति विट्शौचे।पंचापानेदशैकस्मिन्नुभयोः सप्तमृत्तिकाइतियाज्ञवल्क्योक्तेःयत्तुविवस्वान्—तिस्रोमृदोलिंगशौचेग्राह्याःसांतरमृत्तिकाः। वामेपाणौमृदःपंचतिस्रः पाण्योर्द्वयोरपीति। सांतराःकिंचिन्न्यू- नाइत्यर्थः। यच्चयमः—द्वेलिंगेमृत्तिकेदेयेइति। यदपिशंखः –मेहने मृत्तिकाः सप्तलिंगेद्वेपरिकीर्तित इति। तल्लेपभूयस्त्वेविण्मूत्रोत्सर्गशुद्ध्यर्थम्।मृद्वार्यादेयमर्थवदिति मनूक्तेः।गुदेपंचेतिप्रयोगपारिजातपृथ्वीचंद्रा दयःचंद्रिकाचारादर्शौतु—एकालिंगेगुदेतिस्रस्तथैकत्रकरेदेशेति26मनूक्तेर्गुदेतिस्रः। गुदेपंचसं ख्यातु—अर्धप्रसृतिमात्रातुप्रथमामृत्तिकाभवेत्। पूर्वपूर्वार्धमात्रास्तुचतस्रोन्याः प्रकीर्तिता इतिवृद्धवसिष्ठेनाल्प- परिमाणोक्तेरविरुद्धा। यत्तुशातातपः – आर्द्रामलक27मात्रास्तु

ग्रासाइंदुव्रतेस्मृताः। तथैवाहुतयः सर्वाः शौचार्थेयाश्चामृत्तिकाइति तद्धस्तशौचपरम्। गुदलिंगयोर्मृ- त्परिमाणांतरोक्तेरित्यूचतुः। यमः—उभयोः सप्तदातव्याः पुनरेकागुदेतथेति पुनर्दानंसर्वपक्षेषु- ज्ञेयमितिचंद्रिका।हारीतः—दशसव्येषट्पृष्ठेसप्तोभाभ्यांतिसृभिःपादौक्षालयेदिति। पृष्ठेसव्यहस्तस्य। तिसृभिरितिलेपभूयस्त्वइत्याचारादर्शः। एकत्वत्रित्वयोस्तुल्यवद्विकल्पइत्यन्ये। मिताक्षरायांशौनकः— एतच्छौचंगृहस्थानांद्विगुणंब्रह्मचारिणाम्। त्रिगुणंस्याद्वनस्थानांयतीनांस्याच्चतुर्गुणम्। दिवायद्विहितंशौचं तदर्धनिशिकीर्तितम्। तदर्धमातुरे प्रोक्तमातुरस्यार्धमध्वनि। द्वैगुण्यादिसंख्यामात्रेतदुत्तरंस्मृतिष्वभिधा- नादितिटोडरानंदः। नेदंयुक्तम्। संख्यार्धासंभवात्।अत्रमध्यामृदर्धपरिमाणाग्राह्येतिस्मृतिकौमुदी- शूद्राचारशिरोमणिश्च। आतुरेऽर्धमशक्तपरम्। शक्तस्य पूर्णमेव। दिवाशौचस्यनिश्यर्धं पथिपादोवि- धीयते। आर्तःकुर्याद्यथाशक्तिस्वस्थःकुर्याद्यथोदितमित्यादिपुराणादितिचंद्रिका।योगीश्वरः—स्त्रीशूद्रादेर- शक्तानांबालानांचोपवीतिनाम्।गंधलेपक्षयकरंशौचंकुर्यान्नसंख्यया। वातादिनाशुष्केलेपेगंधनिवृत्तावपि- लेपक्षयार्थलेपग्रहः। तन्निवृत्तावपिगंधानुवृत्तौतद्वारणायगंधपदम्। बालस्यपंचमाद्वर्षप्रभृतिमृदाद्यावश्यकम्।—बालस्यपंचमाद्वर्षाद्रक्षार्थंशौचमाचरेदितिस्मृतेः। आदित्यपुराणे—स्त्रीशूद्रयोरर्धमानंप्रोक्तं शौचंमनीपि भिः।एतच्छौचंद्विजातीनामर्धशुद्रेप्रकीर्तितमिति।तद्गृहस्थशूद्रान्यपरम्। तस्य—एतच्छौचंगृहस्थानामित्ये- वसिद्धेरितिकेचित्। तन्न। गृहस्थेशूद्रेअर्धेनैतच्छौचमित्यस्यबाधात्। अतएव—नयावदुपनीयंतेद्विजाः शूद्रास्तथांगनाः। गंधलेपक्षयकरंशौचमेपांविधीयतइतिपराशरस्मृतौ। स्त्रीशुद्रपदमकृतोद्वाहपरम्। अनुपनीतसाहचर्यात्पराशरमाधवीये।अतएवार्धसंख्यागृहस्थपरा।वस्तुतस्तुशूद्रगृहस्थपदयोःसामान्य विशेषाभावस्यतुल्यत्वाच्छूद्रगृहस्थस्यविकल्पइति सोपिव्यवस्थितः। विवाहाभावेद्वादशवर्षोत्तरंषोडश- वर्षोत्तरंवामृत्संख्यानियमोऽन्यथानेतिकौमुदी। एतेन स्त्रिया अर्धसंख्याचशूद्रस्यचनविधवापरा। अन्यथा- गंधलेपक्षयकरशौचचाधापत्तेरित्याचारचंद्रोदयो।

क्तिःपरास्ता। बृहन्नारदीये—व्रतस्थानांच सर्वेषांयतिवच्छौचमिष्यते। विधवानांचराजेंद्रएवंशौचंप्रकीर्तितम्। अतोऽर्धसंख्यासधवास्त्री परेतिवयंप्रतीमः। यत्तुदक्षः—एकस्मिन्विशतिर्हस्तेद्वयोर्देयाश्चतुर्दशेति। तत्पूर्वोक्त- शौचेनगंधलेपानपगमेज्ञेयमितिकेचित्। ब्रह्मचार्यादिप रमितिमाधवीये।गृहस्थस्याप्यवदानसमामृत्स्यादि- तिमरीच्युक्ताल्पपरिमाणश्रुतेरविरोधइतिचंद्रिका।अपरार्केदक्षः—न्यूनाधिकंनकर्तव्यंशौचंशुद्धिमभीप्स- ता।प्रायश्चित्तेनयुज्येतविहितातिक्रमेकृते। इदंसंख्यामानमुभयपरमविशेषादितिटोडरानंदः। तदपियावदु क्तेन गंधलेपनाशे। अनाशेत्वधिकम्। यावत्तुशौचंमन्येततावच्छौचं विधीयतइति तत्रैव देवलोक्तेः। तेनशौचंदृष्टार्थं संख्यानियमोऽदृष्टार्थइत्युक्त मित्याचारादर्शःपरास्तः। यावन्नापैत्यमेध्याक्तोगंधोलेपश्चत- त्कृतः। तावन्मृद्वारिचादेयं सर्वासुद्रव्यशुद्धिष्वितिमनूक्तिविरोधात्। चंद्रिकाप्येवम्। इदंवाक्यद्वयंदक्षोक्ति- विरोधाच्चातुराश्रम्येतरपरं तत्रसंख्यादेरश्रुतेरितिप्रांचः। सगंधलेपानामेवतेषां कर्मस्यादितियत्किंचिदेतत्। पुरीषाद्युत्सर्गेप्रवृत्तस्यतदभावेसायणीयेप्रयोगपारिजातेवृद्धपराशरः—उपविष्टस्तुविण्मूत्रंकर्तुंयश्चनविं- दति। सकुर्यादर्धशौचंतु- स्वल्पशौचस्यसर्वदा। दातव्यमुदकंतावन्मृदभावोयदाभवेत्। वृहस्पतिः— भुंजानस्य तुविप्रस्यकदाचि- त्प्रस्रवेद्गुम्। उच्छिष्टमशुचित्वंचतस्यशौचंविधीयते। पूर्वंकृत्वैवशौचंतुततः पश्चादुपस्पृशेत्। ततः कृत्वोपवासंचपंचगव्येनशुद्ध्यति। पैठीनसिः—मूत्रोच्चारेकृतेशौचनस्यादंतर्जलाशये। इदंनद्यादिविषयमितिप्रयोगपारिजाते। असंभवइतिस्मृतिरत्नावल्याम्। पात्रवतोवा।अपात्रस्यतुविवस्वा- न्—रत्निमात्रंजलंत्यक्त्वाकुर्याच्छौच मनुद्धृतैः। पश्चात्तच्छोधयेत्तीर्थमन्यथाह्य शुचिर्भवेत्। तीर्थशौचस्थानम्। यस्मिन्स्थानेकृतंशौचंवारिणातद्वि शोधयेदितिऋष्यशृंगोक्तेःपराशरः— धर्मविद्दक्षिणहस्तमधःशौचेन योजयेत्। तथाचवामहस्तेननाभेरूर्ध्वंनशोधयेत्। देवलः—प्रकृतिस्थितिरेपाहिकारणादुभयक्रिया। कारणा- द्धस्तरोगादेः। उभयक्रियावामेनाप्यूर्ध्वंदक्षिणेनाप्यधइत्यर्थः। स्मृतिसंग्रहे — करस्थमुद

पात्रंचेत्कुर्यान्मूत्रपुरीषयोः। तज्जलंमूत्रसदृशंसुरापानेनतत्समम्। एतदपवादमाहवृद्धपराशरः— अरण्ये निर्जलेरात्रौचौरव्यालाकुलेपथि। कुर्वन्मूत्रपुरीषेतुद्रव्यहस्तोनदुष्यति। मृदादिहस्ते धृत्वानदुष्यतीत्यर्थः। स्मृतिदीपिकायामाचारादर्शचदेवलः—प्रथमंप्राङ्मुखः स्थित्वापादौप्रक्षालयेच्छनैः। उदङ्मुखोवादैवत्ये- पैतृकेदक्षिणामुखः। इत्येवंमृद्भिराजानुप्रक्षाल्यचरणौपृथक्। हस्तौवामणिबंधाच्चकुर्यादाच मनंततः। यत्त्वापस्तंबआह प्रत्यक्पादावसेचनमिति तत्केवलपादक्षालनपरमित्याचारादर्शःकृष्णभट्टीये— स्वयंप्रक्षालयेत्पादौशूद्रादिर्वाकथंचन। शौचादृतेवामपादंपश्चादक्षिणमेवच। शौचेप्रथमंदक्षिणं अन्यत्रवामम्। अत्रदक्षिणंपादमवनेनिजे सव्यंपादमित्यादिलिंगात्पादप्रक्षालनक्रमोज्ञेयः। क्षत्रियवैश्ययोः क्षालयितृसत्वे सव्यंवापूर्वदक्षिणवेत्यनियमइतिनारायणवृत्तिः। दक्षिणोपक्रमपादौ क्षालयेदितिकात्यायनभाष्याच्चशौचा- दृतेवामपादमितिनिर्मूलम्॥॥ निवीतंपृष्ठलवितंकर्णस्थंवाआहस्तशौचात्। तावत्तयोरपवित्रत्वेनोपवीत- संबंधायोग्यत्वात्। अपवित्रत्वंचशौचाम्नानात्। उपचीतस्य कर्मांगत्वेन विधानान्निवीतादिनाचमनासंभवाच्च। अतएववृद्धपराशरः—कृत्वातुशौचप्रक्षाल्यपादहस्तौचमृञ्जलैः। निबद्धशिखकच्छस्तुद्विजआचमनचरेत्। कृत्वोपवीतंसव्येसेवाग्यतः कार्यसंयतम्28। शिखकच्छइत्यत्र व्युत्क्रमोबोध्यः। कच्छबंधोक्ते. पूर्वशौचान्मुक्त- कच्छत्वम्। शिखाबंधश्चदैवान्मुक्तशिखस्य शिखाबंधार्थंनतुमूत्रपुरीषोत्सर्गकालेशिखामोचनार्थम्। आश्वलायनः—कुर्याद्द्वादशगंडूषान्पुरीषोत्सर्जनेबुधः। मूत्रोत्सर्गेतुचतुरोभोजनांतेतुषोडश। भक्ष्यभोज्याव- सानेचगंडूषाष्ट कमाचरेत्। स्मृतिरत्नावल्याम्— पुरतः सर्वदेवाश्चदक्षिणेपितरस्तथा। ऋषयः पृष्ठतः सर्वेवा मेगंडूषमुत्सजेत्। स्मृतिरत्नावल्यांकृष्णभट्टीयेच—चतुरष्टद्विषट्द्व्यष्टगंडूषैःशुद्ध्यतेक्रमात्। मूत्रेपुरीषेभु- ज्यंतेरेतःसंस्रवणेपिच।स्मृतिसंग्रहे— सकर्दमेतुवर्णसुप्रविश्यग्राम

संकटम्। जंघयोर्मृत्तिकास्तिस्रःपादयोर्द्विगुणंभवेत्। **विष्णुः—**नाभेरधस्तात्कायिकैर्मलैः सुराभिर्वोपहतौ मृत्तोयैस्तदंगंप्रक्षाल्याचांतःशुद्ध्येत्। अन्ययोपहृतौमृत्तोयैस्तदंगंप्रक्षाल्यस्नात्वेन्द्रियोपहतस्तूपोष्य पंच गव्येनदशनच्छदोपहतश्चेति। **मनुः—**वसाशुक्रमसृङ्मजामूत्रविट्कर्णविष्णखाः। श्लेष्माश्रुदूषिकास्वेदो द्वादशैतेनृणांमलाः। दूषिकानेत्रमलः॥॥ **अत्रशौचमाबौधायनः—**आददीतमृदोयश्चषट् सुपूर्वेषुशुद्धये। उत्तरेषुतुषट्स्वद्भिःकेवलाभिर्विशुद्ध्यति। मनुस्तुद्वादशस्वपिमृज्जलाभ्यांशुद्धिमाह—विण्मूत्रोत्सर्गशु- द्ध्यर्थंमृद्वार्यादेयमर्थवत्। दैहिकानांमलानांचशुद्धिषुद्वादशस्वपीति। कृत्यरत्नेयमः—मूत्रादौ पादयोस्ति स्रोहस्तयोस्तिस्रएवच। मृदःपंचदशामेध्येहस्तादीनांविशेषतः। एतदात्मीय मूत्रादिस्पर्शे। परत्नशोणित स्पर्शेरेतोविण्मूत्रजेतथा। चतुर्णामपि वर्णानांद्वात्रिंशन्मृत्तिकाः स्मृताः। शूलपाणौदेवलस्तु—मानुषास्थिवसां विष्ठामार्तवंमूत्ररेतसी। मज्जानंशोणितंवापिपरस्ययदिसंस्पृशेत्। स्नात्वासंमृज्यलेपादीना- चम्यसशुचिर्भवेत्। तान्येवखानिसंस्पृश्यपूतःस्यात्परिमार्जनात्। मार्जनोत्तरमाचमनंच। शंखः—तिस्रस्तुमृत्तिकादेयाः कृत्वाचनखशोधनम्। नखशोधनंनखांतर्गतमलशोधनम्। एवंपादयोः। मनुः—अज्ञानात्प्राश्यविण्मूत्रं मुरासंस्पृष्टमेवच। पुनःसंस्कारमर्हतित्रयोवर्णाद्विजातयः। रेतःप्राशनेप्येवम्। विज्ञानेश्वरीयेप्रचेताः— नखकेशमृल्लोष्ठभक्षणेअहोरात्रमभोजनाच्छुद्धिरिति। संवर्तः—कृत्वामूत्रंपुरीषं वायदानैवोदकंभवेत्। स्नात्वालब्धोदकःपश्चात्सचैलस्तुविशुद्ध्यति॥॥ शौचोक्तेनियमातिक्रमेप्रायश्चित्तं स्मृतिरत्नावल्याम्— गायत्र्यष्टशतंचैवप्राणायामत्रयंतथा। प्रायश्चित्तमिदंप्रोक्तं नियमातिक्रमेसति॥ इतिश्रीमन्नारायणभट्टात्मजं ० लक्ष्मणभट्टकृताचाररत्नेशौचविधिः॥

** अथाचमनम्।** शौचोत्तरमाचामेत्—एवंशैौचंतुनिर्वर्त्यपश्चादाचमनंचरेदितिबृहन्नारदीयात्। पूर्वोक्तवृद्धपराशरोक्तेश्च। याज्ञवलल्कः—अंतर्जानुशुचौदेशेउपविष्टउदङ्मुखः। प्राग्वाब्राह्मेणतीर्थेन- द्विजोनित्यमुपस्पृशेत्। उपस्पृशेदाचामेत्। अत्रविज्ञानेश्वरेण द्विजोनशुद्रा

दिरित्युक्तेः शूद्राचमनेउपवेशनादिनियमोनेतिकेचित्। युक्तंतुब्राह्मतीर्थस्यैवद्विजेनियमः। उपवेशनादि सर्वसाधारणम्। स्थितस्याचमननिषेधात्। हारीतः— ऐशान्यभिमुखो भूत्वोपस्पृशेत्तुयथाविधि। हेमाद्रीदेवलः—उदङ्मुखोवादैवत्येपैतृकेदक्षिणामुखः। स्मृतिरत्नावल्याम्— याम्यप्रत्यङ्मुखत्वेनकृ- तमाचमनंयदि। प्रायश्चित्तंतदाकुर्यात्स्नानमाचमनं क्रमात्॥॥ तीर्थान्याहयाज्ञवल्क्यः— कनिष्ठादेशिन्यं गुष्ठमूलान्यग्रंकरस्यच। प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात्। वसिष्ठः—अंगुल्यग्रेषुमानुषंपाणिमध्ये आग्नेयतीर्थमार्षकनिष्ठिकामूलइतितीर्थानि। ब्राह्मणस्य दक्षिणहस्तेपंचतीर्थानीतिप्रचेतःस्मृतेः। दक्षिणेत्युपलक्षणम्। अंजलितर्पणेदक्षिणहस्ताभावेचवामहस्तेपितदपेक्षणात्। ब्राह्मणपदंक्षत्रियाद्युप- लक्षणम्।ब्राह्मणतीर्थेनद्विजोनित्यमुपस्पृशेदिति याज्ञवल्क्येनद्विजपदोक्तेः। हेमाद्रीचंद्रिकायामप्येवम्—कायंकनिष्ठिकामूलेतीर्थमुक्तंद्विजस्यत्वितिवर्धमानपरिभाषायांशंखोक्तेश्च। शूद्रस्यतर्पणादौपित्रा दितीर्थाक्षेपाच्च। अतएव—ब्राह्मणविप्रस्तीर्थेनेतिमनूक्तौविप्रपदमाचमनकर्तृमात्रोपलक्षणमित्याचा- रादर्शः। अत्रविकल्पिततीर्थस्वीकरणमाचमनाद्यप्रयोगेवेद्यंनप्रतिप्रयोगमितिचंद्रिका। वस्तुतस्तुएकाच- मनांतर्गतत्रिःप्राशनेप्येकमेवतीर्थम्। ब्राह्मेणनित्यमुपस्पृशेदितियाज्ञवल्क्योक्तेर्ब्राह्ममुख्यम्। यत्तु हेमाद्रौशंखः—प्राजापत्येनतीर्थेनत्रिः प्राश्नीयाज्जलंशुचिरिति। यच्चमनुः—कायत्रैदशिकाभ्यांवान पित्र्येणकदाचनेति। तद्ब्राह्मतीर्थस्यक्षताद्यवरोधेज्ञेयमितिपृथ्वीचंद्रः। हारीतः—वामहस्ते कुशान्कृत्वा समाचामतियोद्विजः। उपस्पृष्टंभवेत्तेनरुधिरेणमलेनच। वामहस्तेकेवले। उभयत्रस्थितैर्देर्भेः समाचामतियोद्विजः। सोमपानफलंतस्यभोक्तायज्ञफलंलभेदितिगोभिलोक्तेःश्राद्धहेमाद्रौगौतमः— वामहस्तेस्थितेदर्भेदक्षिणेनपिबेन्नतु। वस्त्राजिनोपग्रहणेनदोषः पिबतोभवेत्। चंद्रोदयेयमः— तावन्नोपस्पृशेद्विद्वान्यावद्वामेननस्पृशेत्। दक्षिणंकरमितिशेषइतिपृथ्वीचंद्रः। जलमितिचंद्रिकापरार्कौ। हस्तस्थंजलमित्याचारादर्शःआचारप्रदीपे—दक्षिणेसंस्थितंतोयंतर्जन्यासव्यपाणिना। तत्तोयंस्पृशतेय- स्तुसोमपानफलं लभेत्।

आचारचंद्रोदयेप्येवम्। आश्वलायनः—ग्रंथीकृतपवित्रेणनभुंजीयान्नचाचमेत्। ग्रंथिर्ब्रह्मग्रंथिः। नब्रह्म ग्रंथिनाचामेन्नदूर्वाभिःकदाचनेतिचंद्रोदयेस्मृतिसारात्। कौशिकः—अपवित्रकरः कश्चिद्ब्राह्मणोयद्यु पस्पृशेत्। अकृतंतस्यतत्सर्वभवत्याचमनंतथा। याज्ञवल्क्यः—अद्भिस्तुप्रकृतिस्थाभिर्हीनाभिःफेन- बुद्बुदैः। हृत्कंठतालुगाभिस्तुयथासंख्यंद्विजातयः। शुद्धेरन्स्त्रीचशूद्रश्चसकृत्स्पृष्टाभिरंततः। प्रकृति स्थाभिरफेनाभिः। अंततस्तालुनेतिविज्ञानेश्वरः। तत्समीपवर्तिनादंतेनेतिहेमाद्रिः। ओष्ठप्रांतेनेत्याचारा दर्शः। माषमज्जनमात्राहृदयंगमाभवतीत्युशनःस्मरणादे कैकपादहान्याकंठतालुतदंतर्गतत्वमि तिहेमाद्रिः। द्विजपदादनुपनीतानामपितेषामुपनीतवदाचमनमित्याचारचंद्रोदयः। तन्न। नह्यस्मिन्युज्यते कर्मकिंचिदार्मौजिबंधनात्। शूद्रेणहिसमस्तावद्यावद्वेदेनयुज्यतइतिमनूक्तेः। उपनयनात्पूर्वंशूद्र समत्वोक्तेः शृद्रपदाचमनमितियुक्तम्। बौधायनस्तुशूद्राणामार्कछिष्ठि (?) तानामार्यवदाचमनंवैश्य वच्छौचमिति। हारीतः—विवर्णंगंधवतोयंफेनिलंचविवर्जयेत्। प्रकृतिस्थाभिरित्युक्तेयत्स्वभावतएवगंधा दिमत्तन्ननिषिद्धम्। माधव्यप्रचेताः—अनुष्णाभिरफेनाभिः पूताभिर्वस्त्रचक्षुपा ।हेमाद्रौबौधायनः—शब्दमकुर्वंस्त्रिरपोहृदयं गमाः पिबेदितिटोडरानंदेगोभिलः। हृदयस्पृशएवाप उपस्पृशेदुच्छिष्टोहैवातोन्य याभवतीति। दक्षः—प्रक्षाल्यपादौहस्तौ चत्रिः पिबेदंवुवीक्षितम्। यमः— रात्राववीक्षितेनापिशुद्धिरुक्तामनीषिभिः। उदकेनातुराणांतुयथोष्णेनोष्णपायिनाम्। मार्कंडेयगारुडयोः—अंतर्जानुतथाचामेत्त्रिचतुर्वापिबेदपः। अत्रचतुष्ट्वस्यत्रित्वेनैच्छिकोविकल्पइतिमाधव्यांहेमाद्रैच। दैवपितृकर्मविषयत्वेनव्यवस्थेयन्ये। त्रित्वेनचतुष्ट- याभावेइतिमदनपारिजातःमैथिलाश्च —त्रिरित्यर्वाङ्निषेधपरमितिमदनपारिजातः। यत्रमंत्रवदाचमनं अग्निश्चमेत्यादि तेनसहचतुष्ट्वमन्यत्रत्रिरितिहरदत्तः। हेमाद्रौदेवलः —अथापः प्रथमात्तीर्थाद्दक्षिणात्रिः पिबेत्समम्। प्रथमाद्ब्राह्मात्। सममव्यवधानेनेत्यर्धइत्युक्तं। तत्रैव भरद्वाजः—आयतंपूर्वतः कृत्वागोकर्णाकृतिवत्करम्। संहतांगुलि

नातोयंगृहीत्वापाणिनाद्विजः। मुक्तांगुष्ठकनिष्ठाभ्यांशेषेणाचमनंचरेत्। माषमज्जनमात्रास्तुसंगृह्यत्रिः पिबेदपः। माषमज्जनमात्रपानंब्राह्मणमात्रपरम्।क्षत्रियादेस्तुन्यूनम्। स्मृत्यर्थसारे—पीतावशिष्टांबुपाने वामहस्तेनपानेपराकार्धमिति। भविष्ये—दक्षिणंतुकरंकृत्वागोकर्णाकृतिवत्पुनः। त्रिःपित्रेद्दक्षिणेनांबुद्वि रास्यंपरिमार्जयेत्। पुनर्ग्रहणात्पूर्वंगोकर्णाकृतिनाहस्तेनोदकंगृहीत्वांगुष्ठकनिष्ठिकेबहिःकृत्यपुनर्गोकर्णा कृर्तिकुर्यादितिहेमाद्रिःबह्वृचपरिशिष्टे — पाणिपादमुखंप्रक्षाल्यशुचौदेशे भूमिष्ठपादः कनिष्ठांगुष्ठौ विश्लिष्टौवितत्यतिस्रोंतरांगुलीःसंहतोर्ध्वाःकृत्वात्रिःपिबेत् संहतमध्यमांगुलिभिःपाणिप्रक्षाल्यसव्यपाणि पादौशिरश्चाभ्युक्ष्येति। आचारादर्शेभविष्ये—समौंचचरणौकृत्वातथावद्धशिखोनृप। घनांगुलिकरंकृत्वा एकाग्रःसुमनाद्विजः। आचामेदितिशेषः। याज्ञवल्क्यः—त्रिःप्राश्यापोद्विरुन्मृज्यखान्यद्भिः समुपस्पृशेत्। प्रतिस्थमुदकंग्राह्यम्। अंतरापाणिमाप्लाव्यवारिणेतिशिवधर्मोत्तरात्शौनकः—ताम्रपात्रस्थितैर्वा पितथातोयाशयस्थितैः। कुर्वन्नाच मनंत्रिप्रोनित्यंखानिसमालभेत्। तदभावेतुकुर्वीतपात्रधारोदकेनच। खानिशीर्षण्यानि। खानिचोपस्पृशेच्छीर्षण्यानीतिगौतमोक्तेः। शीर्षण्यानिततःखानिमूर्धानंचनृपाल भेदितिविष्णुपुराणाचेति हेमाद्रिः। नाभेरूर्ध्वानीतिमिताक्षरायाम्चंद्रोदयेहारीतः— वाम हस्तेत्वपः कृत्यायःखानिसमुपस्पृशेत्। वृथैवाचमनंतस्यप्रायश्चित्तीयतेहिसः। दक्षः—संमृज्यांगुष्ठमूलेन द्विरुन्मृज्यात्ततोमुखम्। संहतांगुलिभिःपूर्वमास्यमेतदुपस्पृशेत्। अंगुष्ठेनप्रदेशिन्याघ्राणंचसमुपस्पृशेत्। अंगुष्ठानामिकाभ्यांतुचक्षुःश्रोत्रेततःपरम्। अंगुष्ठमध्यमाभ्यांचक्षुषी। अंगुष्ठानामिकाभ्यांश्रोत्रे। कनिष्ठांगुष्ठा भ्यांनाभिंहृदयंतुतलेनवै। सर्वाभिश्चशिरःपश्चाद्बाहूचाग्रेणसंस्पृशेत्। अंगुलिभिस्तिसृभिर्मध्यमाभिः। मध्य माभिर्मुखंपूर्वंतिसृभिःसमुपस्पृशेदिति चंद्रिकायांयोगयाज्ञवल्क्योक्तेः। पाठादेवक्रमेसिद्धेपश्चादितिवचनं चाह्वनंतरंशिरःस्पर्शार्थम्। शंखस्तु—तर्जन्यंगुष्ठयोगेनस्पृशेन्नासापुटद्वयम्। अंगुष्ठस्यानामिकयायोगेन श्रवणेस्पृशेत्। मध्यमांगुष्ठयोगेनस्पृशेन्नेत्रद्वयं ततः। कनिष्ठांगुष्ठ

योगेनस्पृशेत्स्कंधद्वयंततः। नाभिंचहृदयंतद्वत्स्पृशेत्पाणितलेनतु। संस्पृशेच्चतथाशीर्षमयमाचमनेविधिः। चंद्रोदयेपैठीनसिः—अग्निरंगुष्ठस्तस्मात्तेनैवसर्वाणिस्पृशेदिति। **आश्वलायनः—**पाणिनापोऽग्निमंत्रेण अवमृज्याथसंस्पृशेत्। विप्रस्यनेतराणांतुतन्मुखालंभनंस्मृतम्।सूर्यायदक्षिणेनेत्रेवामेसोमायवायवे। नसोदिंग्भ्यःश्रवणयोर्वाह्वोरिंद्रायसंस्पृशेत्। पृथिव्यैपादयोर्जान्वोरंतरिक्षायगुह्यके। दिवेनाभौब्रह्मणेचवि ष्णवेहृदयेतथा। शिवायेतिशिरस्यंतेहस्तंप्रक्षालयेत्ततः। अंगुष्ठतर्जन्यग्राभ्यांनेत्रयोराचमंस्पृशेत्। अंगुष्ठमध्यमाभ्यांचनासाश्रवणयोस्ततः। अंगुष्ठानामिकाभ्यांचकनिष्ठाभ्यांचबाहुके। सांगुष्ठैरखिलैरेवस्थाने ष्वन्येषुसंस्पृशेत्। व्याघ्रपादः —केशवादित्रिभिः पीत्वाचतुर्थेनमृजेत्करम्। पंचमेनचषष्ठेनद्विरोष्ठा वन्मृजेत्क्रमात्। तौसप्तमेनावमृजेदेकवारंतुमंत्रवित्। अष्टमेनतुमंत्रेणत्वभिमंत्र्यजलंशुचि। वामंसंप्रोक्षये- त्पाणिमन्यंचनवमेनच।दक्षिणंदशमेनांघ्रिंवाममेकादशेनवै।मूर्धानंद्वादशेनाथस्पृशेदूर्ध्वोष्ठपृष्ठकम्। संकर्ष णायनमइत्यनेनांगुलिमूर्धनि। अंगुष्ठतर्जन्यग्राभ्यांसंस्पृष्टाभ्यांजलैःसह। नासारंध्रेवासुदेवंप्रद्युम्नाभ्यामुभे स्पृशेत्। अंगुष्ठानामिकाभ्यांचसंश्लिष्टाभ्यांजलैःसह। अनिरुद्धायनमइतिसंस्पृशेद्दक्षिणेक्षणम्। पुरुषोत्त- ममंत्रेणताभ्यांवामांस्पृशेद्दृशम्। तथांगुष्ठकनिष्ठाभ्यांसंश्लिष्टाभ्यांजलैःसह। अधोक्षजनृसिंहाभ्यांश्रोत्रे द्वेसंस्पृशेत्क्रमात्। नाभिमच्युतमंत्रेणताभ्यामेवस्पृशेद्बुधः। श्रीजनार्दनमंत्रेणतलेनहृदयंस्पृशेत्। उपेंद्रायेतिमूर्धानंस्पृशेत्सजलपाणिना। सर्वांगुल्यग्रभागैस्तुसमाश्लिष्टैर्जलैः सह। भुजौतुहरिकृष्णाभ्यां संस्पृशेद्दक्षिणोत्तरौ। प्रयोगपारिजातेभरद्वाजः— देव्याःपादैस्त्रिभिःपीत्वाअब्लिंगैर्नवधास्पृशेत्। पुनर्व्याहृतिगायत्र्याशिरोमंत्रैर्द्विधास्पृशेत्। स्मृत्यर्थसारे—तदोंकारेणाचमनंयद्वाव्याहृतिभिर्भवेत्। सावित्र्याचापिकर्तव्यंयद्वाकार्यममंत्रकम्। तैत्तिरीयश्रुतौ—त्रिराचामेद्द्विःपरिमृज्यसकृदुपस्पृश्यशिर श्चक्षुषीनासिकेश्रोत्रेहृदयमालभतइति तदेतद्ब्रह्मयज्ञप्रकरणपाठात्तदंगमेवेति नपुरुषार्थाचमनेकर्मां गाचमनेवाप्रवर्तते। **हेमाद्रौबौधायनः—**त्रिःपरिमृजेद्द्विरित्येकइति। **तत्रैवकण्वः—**अथर्ववेदेतिहास पुराणानिध्यायन्ब्राह्मेणतीर्थेनोष्ठयोः

सलोमदेशमुन्मृज्यादिति। हेमाद्रौदक्षः—नाग्रांगुल्यानपृष्ठैर्वापरिमृज्यात्कथंचन। आपस्तंबः—दक्षिणेन पाणिनासव्यंप्रोक्ष्यपादौ शिरश्चेंद्रियाण्युपस्पृशेत्। चक्षुषीनासिकांश्रोत्रेचेत्यथाप उपस्पृशेदितिव्यासः। अक्षिणीनासिके29कर्णावोष्ठौचतदनंतरम्। ततः स्पृशेन्नाभि देशंपुनरापश्चसस्पृशेत्। बौधायनः— खान्यद्भिः संस्पृश्यपादौनाभिंशिरः सव्यंपाणिमंततः प्रोक्षेदिति। पैठीनसिः —पादौप्रोक्ष्यसव्ये पाणौशे पाअपोनिनयेदिति। अत्रदेशाचारतोव्यवस्थेतिपृथ्वीचंद्रः। चंद्रिकायांतुयथाशाखंव्यवस्थेत्युक्तम्। शूद्राधिकारेगौतमः—आचमनार्थेपादप्रक्षालनमेवैकइति। ब्राह्मे—स्त्रीशूद्रयोरनित्यांभःक्षालनाच्च करौष्ठयोः। आचमनक्रियेतिशेषइति पृथ्वीचंद्रः॥॥ अथाचमननिमित्तानि। यमः— उत्तीर्योदकमाचामेदवतीर्यतथैवच। ब्रह्मांडे—निष्ठीवितेतथाभ्यंगेभुक्त्वाचपरिधायच। उच्छिष्टानांचसंस्पर्शेत थापादावसेचने। उच्छिष्टस्यचसंभापादशुच्यप्रयतस्यच। सदेहेषुचसर्वेषुशिखांमुक्त्वातथैवच। विनायज्ञो पवीतेननित्यंचसमुपस्पृशेत्। जिह्वयाचैवसंस्पृश्यदंतासक्तंतथैवच। देवलः—भोजनेदंतलग्नानिनिर्हृत्या चमनंचरेत्। हारीतः—स्त्रीशूद्रोच्छिष्टाभिभाषणेमूत्रपुरीषोत्सर्गदर्शनेदेवतामभिगंतुमाचामेदिति। जपादौस्त्री शूद्रभाषणेइत्युक्तंमाधवीयेस्मृत्यर्थसारेचप्रजापतिः—उपक्रमेविशिष्टस्य कर्मणः प्रयतोपि सन्। कृत्वाचपितृकर्माणि सकृदाचम्यशुद्ध्यति। चंद्रिकायांहारीतः—सुषुप्सुराचामेदिति। आपस्तंबः—स्वप्नेक्षवथौसिंघाणिकालभेलोहितस्य केशस्यवसानामग्नेर्गवांब्राह्मणस्यस्त्रियाश्चालंभे नीवीपरिघायउपस्पृशेदिति। सिंघाणिकानासामलः। केशस्यभूमिगतशिरोगतस्यचेति प्रयोगपारिजातः। च्युतकेशनखस्पर्शेइतिस्मृत्यर्थसारे। अग्न्यादिस्पर्शआचमनंनिमित्तंविनास्पर्शेइति पृथ्वीचंद्रः। ब्राह्मणस्पर्शेआचमनमग्निगोस्पर्शवत्प्रायश्चित्तत्वेनविहितेइतिमदनरत्ने। ब्राह्मणस्योच्छिष्टस्येतिप्रयोग पारिजातः। नीवीअधोवासोग्रंथिरितिचंद्रिका \। १

मार्कंडेयपुराणे —देवार्चनादिकार्याणितथागुर्वभिवादनम्। कुर्वीतसम्यगाचम्यतद्वदेवभुजिक्रियाम्। वृहस्पतिस्मृतीकर्मप्रदीपेच—पितृमंत्रानुचरणेआत्मालंभेक्षणे तथा। अधोवायुसमुत्सर्गे आक्रंदेक्रोध संभवे। मार्जारमूषिकास्पर्शेप्रहासेनृतभाषणे। निमित्तेष्वेषुसर्वेषुकर्मकुर्वन्नपः स्पृशेत्। आलंभेविहिते हृदयस्पर्शइतिकल्पतरुः। आत्मस्तुतावितिवर्धमानः। स्पृशेदितिस्पर्शमात्रमिति स्मृतिरत्नावलिः। आचामेदितिवर्धमानः। मार्जारकर्तृकेस्पर्शे आचमनंस्वयंकृतेस्नानमित्याचारचंद्रोदयः। वनमार्जारस्पर्शे स्नानम्। अभोज्यसूतिकापंढमार्जाराखूंश्चकुक्कटान्। संस्पृश्यशुद्ध्यतिस्रानादुदक्याग्रामसूकराविति वचनादितिशूलपाणिः। केचित्तुमार्जारस्पर्शःपुच्छान्यदेशपरः। कर्मकालेअबुद्धि पूर्वस्पर्शविपयोवा। पुच्छेविडालकंस्पृष्ट्वास्नात्वाविप्रोविशुद्ध्यति। भोजनेकर्मकालेचविधिरेषउदाहृतइतितत्रैवबुद्धिपूर्वेस्नान विधानादन्यदाशुचिरेव। मार्जारश्चैवदर्वीचमारुतश्चसदाशुचिरितिमनूक्तेरित्याहुः। याज्ञवल्क्यः — रौद्रपित्र्यासुरान्मंत्रांस्तथाचैवाभिवारकान्। व्याहृत्यालभ्यचात्मानमपःस्पृष्ट्वान्यदाचरेत्। अपःस्पृष्ट्वान्यदा चरेदित्युक्तेर्यत्ररौद्रादिपाठोत्तरं कर्मनोक्तंतत्रनोदकस्पर्शः। संग्रहे—श्राद्धारंभेऽवसानेच चपादशौचार्चनांतयोः। विकिरेपिंडदानेचकुर्यादाचमनंकृती। तत्रप्रथममेवद्विःशेषाणितुसकृत्सकृत्। चंद्रिकायांकौर्मे — उच्छिष्टंपुरुषंदृष्ट्वाऽभोज्यंचापितथाविधम्। आचामेदश्रुपातेचलोहितस्यतथैवच। शातातपः–आचामेच्चर्वणेनित्यंमुक्त्वातांबूलचर्वणम्। ओष्ठौविलोमकौस्पृष्ट्वावासोविपरिधायच। चर्वणेआदावंतेच। अनाचम्यभक्षणेऽष्टशतजपोभोजनेतूपवासइतिस्मृत्यर्थसारात्अपरार्के- प्राणस्यायमनंकृत्वा आचामेत्प्रयतोषिसन्। मनुः—वेदमध्येष्यमाणश्चाप्यन्नप्रश्नंश्चसर्वदा। आचामेदिति संबंधः। विष्णुः–पंचनखास्थिनिःस्रेहंस्पृष्ट्वाचामेच्चंडालम्लेच्छसंभाषेचेति। पाराशरे– श्वपाकंवापिचंडा लंविप्रःसंभाषतेयदि। द्विजसंभाषणंकुर्यात्सावित्रींतुसकृज्जपेत्। उच्छिष्टैःसहसंभाषेत्रिरात्रेणविशुद्ध्यपि। द्विजोनूचानइतिमाधवःचंद्रिकायांपाद्मे– चंडालादीन्जपेहामेदृष्ट्वाचामेद्द्विजोत्तमः।

यत्तुस्मृत्यर्थसारे—अंत्यसंभाषणे कर्मकुवन्नाचामेदित्युक्तंतच्चित्यम्।—तूष्णीमासीतचजपंश्चंडाल- पतितादिकान्। दृष्ट्वातान्वार्युपस्पृश्याभाष्यस्ना त्वाविशुद्ध्यतीतिचंद्रोदयेवर्धमानपरिभाषायां योगयाज्ञवल्क्यो क्तेः।—चंडालपतितौदृष्ट्वानरः पश्येतभास्करम्। स्नातस्त्वेतौसमालोक्यसचैलंस्नानमाचरेदितिचंद्रिकायां च्यासोक्तेश्चमाधवीये—चंडालैकपथंगत्वागायत्रीस्मरणाच्छुचिः। यत्तुव्याघ्रपादः—चंडालपतित- चैवदूरतः परिवर्जयेत्। गोबालव्यजनादर्वाक्सवासाजलमाविशेदिति। तत्संकटपरम्। अतएववृहस्पतिः—युगंचद्वियुगचैवत्रियुगंचचतुर्युगम्।चंडालसूतिकोदक्यापतितानामधःक्रमात्। अंगिराः—श्वादीन्स्पृष्ट्वा पिवाचामेत्कर्णंवादक्षिणंस्पृशेत्। नाभेरधःस्पर्शए तत्।—नाभेरूर्ध्वंकरौमुक्त्वाशुनायद्युपहन्यते। तत्रस्नानमधस्ताच्चेत्प्रक्षाल्याचम्यशुद्ध्यतीतितेनैवोक्तेः। चंद्रिकायांशातातपः—चर्मकारजका30श्चैवव्याधव्या लोपजीविनौ। निर्णेजकः सौनिकञ्चनटः शैलूषकस्तथा। मुखेभगस्तथाश्वाचयनिताः सर्ववर्णगाः। चक्रीध्वजीवध्यजीवीग्राम्यकुक्कुटसूकरौ। एतेर्यदंगस्पृष्ट॑स्याच्छिरोवर्जंद्विजातिषु। तोयेनक्षालनं कृत्वाआचांतःप्रयतोमतः। रजकोवस्त्रादिरागकर्ता। आचारादर्शेसंवर्तः— चर्मारंरजकंवैणंधीवरंनटमेवच। एतान्स्पृष्ट्वानरोमोहादाचामेत्प्रयतोपिसन्। इदंशिरोहीनांगस्पर्शे। शिरःस्पर्शेस्नानंवक्ष्यते। शांखायनः —क्षुतेनिष्ठीवितेचैवदतोच्छिष्टेतथानृते। पतितानांचसंभाषेदक्षिणंश्रवणंस्पृशेत्। आदित्यावसवो- रुद्राचायुरग्निश्चधर्मराट्। विप्रस्यदक्षिणेकर्णेसवैतिष्ठंतिसर्वदा। विप्रोक्तेःक्षत्रियादीनांदक्षिणकर्णस्पर्शोन। विप्रपदमाचमनकर्तृमात्रोपलक्षणमित्याचारचंद्रोदयः। तन्न। उपलक्षणत्वेमानाभावात्। इदंचाचमनासंभवे। तथाचहरनाथीयेमार्कंडेये — कुर्यादाचमनस्पर्शंगो पृष्ठस्यार्कदर्शनम्। कुर्वीतालंभनंवापि

दक्षिणश्रवणस्यच। यथाविभवतोह्येतत्पूर्वाभावेपरंपरम्। विज्ञानेश्वरादावप्येवम्। टोडरानंदेपराशरः— गंगाचदक्षिणेश्रोत्रेऽनामिकायांहुताशनः। उभयोःस्पर्शने चैवतत्क्षणादेवशुद्ध्यतीति। बौधानयः— नीवींंविस्रंस्य31परिधायापउपस्पृशेदार्द्रतृणंगोमयं भूमिंगामोपधींवेति॥॥ अथद्विराचमननिमित्तानियाज्ञवल्क्यः —स्नात्वापीत्वाक्षुतेसुप्तेभुक्त्वारथ्योपसर्पणे। आचांतःपुनराचामेद्वासो विपरिधायच। वस्त्रपरिधानेसकृद्द्विराचमनयोर्विकल्पइति केचित्। पूर्ववासः परित्यज्यान्यवासः परिधानेद्विराचमनम्। तस्यैवान्यथापरिधानेस कृदाचमनमितिटोडरानंदः। कर्माधिकारार्थेद्विरन्यत्रसकृदित्यन्ये। **कौर्मे—**रेतोमूत्रपुरीषाणामुत्सर्गेऽशुचिभाषणे। संध्ययोरुभयोस्तद्वदाचांतोप्याचमेत्पुनः। मूत्रपुरीषयोर्द्विराचमनं कर्माधिकारार्थं। हारीतेनतत्रसकृदाचमनविधेर्व्यवस्थासंभवेऽष्टदोषदुष्टविकल्पयोगात्। ब्राहो—होमेभोजन कालेचसंध्ययोरुभयोरपि। आचांतःपुनराचामेज्जपहोमार्चनेषुच। उभयोरित्युपलक्षणम्। संध्यात्रयांबुपाने षुपूर्वंपश्चाद्द्विरा चमेदितिस्मृत्यर्थसारात्। संध्यात्रयेंऽबुपानेचेत्यर्थः। सायणीयेनंदसूरिः—भूम्युपवीत विन्यासेसस्नेहौषधभक्षणे। पैतृकेकर्मणिस्नेहभक्षणेंताद्ययोःसकृत्। बौधायनः–हविर्भक्षणकालेचत द्द्विराचमनंस्मृतम्। **कौर्मे—**प्रक्षाल्यपाणिपादौचभुंजानोद्विरुपस्पृशेत्। ष्ठीवित्वादा32 वनारंभेकासश्वासागमे तथा। चत्वरंवाश्मशानंवासमागम्यद्विजोत्तमः। स्मृत्यर्थसारे—रोदनेपीत्वावलीढेभुक्त्वाचाभ्यंगे द्विराचामेदिति। द्विराचमनेंऽगभूतंपाणिपादक्षालनंसकृत्। दृष्टोपकारस्यैकत्वात्। आस्यस्पर्शादित्वदृष्ट भेदादावर्तते। तत्रत्रिराचम्यांगान्युपस्पृश्यपुनःसांगाचमनक्रियेत्येवंदाक्षायणयज्ञेदर्शपूर्णमासावृत्तिवदित्या- चारादर्शः॥॥ अथाचमनापवादःकालतः। **हेमाद्रौपैठीनसिः—अपेयंहिसदातोयंरात्रौमध्यमया मयोः। स्नानंचैवनकर्तव्यंतथैवाचमनक्रिया। तत्रैवविश्वामित्रः—**महानिशातुविज्ञेया मध्यस्थंप्रहरद्वयम्।

तम्यास्नाननकुर्वीतिकाम्यमाचमनतथा। तत्रैषट्त्रिंशन्मते—मूत्रोच्चारेमहारात्रौकुर्यान्नाचमनतुयः। प्रायश्चित्ती यतेविप्रप्राजापत्यार्धमर्हति॥॥ महानिशाद्वेधा। तत्राद्यामाहमार्कंडेयः—महानिशाद्वेघटिकेरात्रौमध्यम यामयोः। द्वितीयस्यांत्यातृतीयस्याद्येत्यर्थः। द्वितीयातुविश्वामित्रोक्ताद्रव्यतःस्मृत्यर्थसारे —अस्निग्ध औषधेजग्धेस्निग्धेबुद्धेसलेपने। नाचामेद्भोजनेवृत्तेशुद्ध्यर्थक्रमुकादिषु। अन्येषुचामभक्ष्येषुससारे33पुमुगधिषु। तावूलेकमुकेहोमेभुक्तस्नेहानुलेपने। इक्षुदडेतिलेमूलपत्रपुष्पफलेषुच। तथात्वक्तृणकाष्ठेषुनाचामेदाम भक्षणे। मधुपर्केचसोमेचप्राणाहुतिपुचाप्सुच। आस्यहोमेषुसर्वेषुनोच्छिष्टोभवतिद्विजः। क्रमुकादिष्वित्यनादि शब्दात्तावूलादीनि। पुनरग्रेतांबूलक्रमुकयोर्ग्रहणादत्रपूर्वाचमननिषेधः। अतएवशुद्ध्यर्थमित्युक्तम्। प्राणाहुतिष्वितितासामत्रसाध्यत्वादुच्छिष्टस्यचमत्रपाठासभवादाचमनेप्राप्तेतन्निषेधः। तेनविपयसप्तमीयम्। तेनभोजनेअमृतोपस्तरणमसीत्येतदुत्तरनाचमनम्। अतएवाप्स्वितिप्राणाहुतिसाहचर्यादमृतापिधानमसी तिपीताप्पर34। अन्यथोच्छिष्टम्यमत्रपाठासभवात्। तेनतस्मिन्नप्पानेकर्तव्येनोच्छिष्टत्वमित्युक्तश्राद्धहेमाद्रौ। नचैवपुरीषाद्युत्सर्गोत्तरमाचमनेकर्तव्येतनाधिकारसिद्ध्यर्थमाचमनातरापत्ति। आरभणीयान्यायेनोपपत्तेः। यथादर्शपूर्णमासागारभणीयातिदेशादारभणीयायाप्राप्तानवस्थाप्रसगातम्वात्मनिस्वातिदेशासभवाच्चनतथेहापि। नचैवमाचमनेसकृञ्जलपानोत्तरमाचमनापत्ति।पुनर्जलपानस्यगायत्र्यादिमत्रसाध्यत्वादुच्छिष्टस्य तदसभयादितियुक्तम्। अनवस्थापत्तेर्दत्तोत्तरत्वात्। हेमाद्रावेवसममव्यवधानेनेत्युक्तेश्च। कृष्णभट्टीये—अनाचात पिबेद्यस्तुपीत्वानाचामयेद्यदि। गाययष्टशतजप्ताप्राणायामेनशुद्ध्यति॥॥ आचमनापवाद आचारसार—अपोजग्ध्योषधजग्ध्वाकृत्वाताबूलचर्वणम्। सौगधिकानिसर्वाणिनाचमेतविचक्षण। अपोजग्ध्ये त्यमृतापिवानमसीतिमत्रै। पीत्वायो येष्यमाणश्चआचामेत्प्रयतोपिसन्नितिमनूक्तेरिति

कल्पतरुः। अप्सूच्छिष्टतानिषेधात्पीत्वापइतिनैमित्तिकमाचमनमित्याचारादर्शः। **विश्वादर्शआपस्तंबं—**संध्यार्थेभोजनार्थेवापितृदेवप्रयोजने। शूद्राहृतेननाचामेज्जपादिहवनेषुच। **संवर्तः—**शूद्राशुच्येकहस्तैश्चदत्ता भिर्नकदाचन। शूद्राहृतजलनिषेधःसर्वकर्मसुज्ञेयः। स्मृत्यर्थसारे—नपादप्रक्षालनशेषेणनाचमनशेषेण नाग्न्युदकशेषेणकर्माणिकुर्यात्। यदिकुर्याद्भूमौजलंस्रावयित्वातत्रांबुपात्रं स्थापयित्वोद्धृत्यकुर्यादिति। आपस्तंबंः—नवर्षधारयाचामेन्नप्रदरोदकेनाकारणादिति। प्रदरःस्वयंभिन्नोभूभागः। वसिष्ठः—प्रदरादपिगोतृप्तेराचामेतेति। नेदंकलौ। गोतृप्तिशिष्टेपयसिशिष्टैराचमनक्रियेति माधवीयेकलिवर्ज्येषु पाठात्। स्मृतिसारे—एलालबंगकर्पूरगंधाद्यैर्वासितैर्जलैः। नाचामेदद्भिरुष्णा भिस्तथाशौचावशेषितैः। चंद्रोदयेसंग्रहे—पात्रावशिष्टंयच्छौचेपाणिपादावनेजने। भूमौतदंबुनिःस्राव्यशेषे णाचमनंचरेत्। चंद्रिकायां विष्णुस्मृतावप्येवम्। देवजानीये–शौचशेषंपादशेषंपीतशेषंतथैवच। अपेयंतद्विजानीयात्पर्युक्षण कृतिंविना। स्मृत्यर्थसारे—पादशौचशिखाकच्छबंधधौतोपवीतकम्। विनाचांतोऽशुचिर्नित्यंबद्धेकंठे शिरस्यपि। प्रयोगपारिजातेभृगुः—आच्छन्नदक्षिणांसस्तुनाचामेद्धिकदाचन। अकृत्वापादशौचंचतिष्ठ- न्मुक्तशिखोपिवा। विनायज्ञोपवीतेनआचांतोप्यशुचिर्भवेत्। तिष्ठन्नितिजलस्थेतरपरम्। जानोरूर्ध्वंजलेतिष्ठ- न्नाचांतःशुचितामियात्। अधस्ताच्च्छतकृत्वोपिसमाचांतोनशुद्ध्यतीतिविष्णूक्तेः। अधस्ताज्जान्वोः। चंद्रिकायांविष्णुः—नस्पृशन्नहसन्जल्पन्नश्वचांडालदर्शने। आचामेदितिशेषः। तत्रैवप्रचेताः —नासमपाद- आचामेदिति। स्मृत्यर्थसारे—उपविष्टःसमाचामेज्जानु मात्रादधोजले। तथा—सोपानत्कोधृतोष्णीषः पर्यंकासनयानगः। दुर्देशेप्रपदश्चैवनाचामन्शुद्धिमाप्नुयात्। आचांतःकर्मशुद्धः स्यात्तांबूलौषधिजग्धिकृत्। **नागदेवाह्निकेयमः—**मधुपर्केभोजनांतेसंध्यादौनित्यकर्मणि। आसनस्थोषि चाचामेदन्यत्रकुक्कुटासनः। **स्मृत्यर्थसारे—**नयज्ञोपवीतमुत्तरीयंचान्यथाकृत्वाचामेत्सम्यग्धृत्वापुनराचामेत्॥॥ यज्ञोपवीतेनष्टेअन्यत्सूत्रं- वस्त्रंचोपवीयाचामेत्। **हारीतः —**नजले

शुष्कवस्त्रेणस्थलेचैवार्द्रवाससा। तर्पणाचमनंजप्यंमार्जनादिकमाचरेत्। पैठीनसिः—अंतरेकंबहिरेकं कृत्वापादमाचमेदिति। व्यासः—शिरःप्रावृत्यकंठंचमुक्तकच्छशिखोपिबा। अकृत्वापादयोःशौचमाचांतो ष्यशुचिर्भवेत्। गौतमः—नमुख्याविप्रुषउच्छिष्टंकुर्वंतिनचेदंगेनिपतंतीति। अंगस्पर्शेआपस्तंबः— यआस्या द्विंदवःपतंतउपलभ्यंतेतेष्वाचामेत्। गौतमः—मंत्रब्राह्मणमुच्चारयतोबिंदवःशरीरउपलभ्यंतेनतेष्याचमन मिति। मनुः—स्पृशंतिर्बिदवः पादौयस्याचामयतःपरान्। तेपार्थिवैःसमाज्ञेयानतैरप्रयतो भवेत्। अत्रपाद ग्रहणाज्जंघादिस्पर्शेदोषइतिमेधातिथिः। तन्न। प्रयांत्याचमतोयाश्चशरीरे विप्रुपोनृणाम्। उच्छिष्टदोषोनास्त्यत्र भूमितुल्यास्तुतेस्मृताइति माधवीयेयमोक्तौ शरीरग्रहणात्। अतःपादावितिप्रायिकम्। तेनांगांतर स्पर्शेपिनदोषइति सर्वज्ञनारायणःमाधवीयेप्येवंआपस्तंबः—नश्मश्रुभिरुच्छिष्टोभवतियावन्नहस्ते नोपस्पृशतीति। मुखगतैरित्यर्थः। याज्ञवल्क्यः — मुखजाविप्रुषोमेध्यास्तथाचमनविंदवः इति। शंखः— दंतवद्दंतलग्नेपुरसवर्जमन्यत्रजिह्वाभिमर्शनादिति। गौतमस्तुप्राक्च्युतेरेकेइत्याह। च्युतेतुशंखः—च्युतेष्वा स्राववद्विद्यान्निगिरन्नेवतच्छुचिः। मुखोदकमास्रावः। शातातपः—दंतलग्नेमूलफलेभुक्तस्नेहेतथैवच। तांबूलेचे क्षुदंडेचनोच्छिष्टोभवतिद्विजः। स्मृत्यंतरे—अलावुताम्रपात्रस्थंकरकस्थंचयत्पयः। आचम्यस्वयमादायशुद्धो भवतिनान्यथा। स्वयंगृहीत्वाचाचामेन्नपरःप्रयच्छेदित्यर्थः। अलब्वादिपात्रंयतिपरम्। यतिपात्राणिमृद्वेणु दार्बलाबुमयानिचेतियाज्ञवल्क्योक्तेः। अतैजसानिपात्राणितस्यस्युर्निर्व्रणानिचेतिमनूक्तेश्च। अलाबुदारु जंवापिवैणवंमृन्मयंतथा। एतानियतिपात्राणिगृहस्थोन समाचरेदितिपंचायतनसारेव्यासोक्तेश्च। **तत्रैवसंवर्तः—**सौवर्णंराजतंताम्रंमुख्यंपात्रंप्रकीर्तितम्। तदभावेस्मृतंपात्रंस्रवतेयन्नधारितम्। **कृष्णभट्टीये मरीचिः—**कांस्येनायसपात्रेणत्रपुसीसकपित्तलैः। आचांतःशतकत्वोपिनकदाचनशुद्ध्यति। यत्तुस्मृत्यर्थ सारे—सौवर्णरौप्यपात्रैश्चवेणुवित्वाश्मचर्मभिः। अलाबुदारुपात्रैश्चनारिकेलैःकपित्थकैः। तृ

णैःकाष्ठैर्जलाधारैरन्यांतरितमृन्मयैः। वामेनोद्धृत्यवाचामेदन्यदातुरसंभवेइति। तन्मृन्मयमात्रपरम्। तस्यैवसंनिहितत्वात्। तत्राप्यन्यदातुरसंभवेवामेनसंदंशादिनोद्धृतैर्मृन्मयैरित्यर्थः। अतएवास्मृत्यर्थसारे—तंत्रमृन्मयपात्रस्थंजलंनैवोपहन्यतइत्युक्तमितिकेचित्। अन्येतुवामेनपात्रमुद्धृत्यनपिबेद्दक्षिणेन त्वित्युपक्रम्यसौवर्णरौप्यपात्रैश्चेत्याद्युक्तेर्यदिस्वहस्तेनाचामेत्तदैतैरेवेतिपरिगणनबलान्नियमेननान्यैरित्य र्थात्पित्तलकांस्यादिभिर्वामोद्धृतैर्नाचामेदित्याहुः। प्रयोगपारिजातेसंग्रहे—करकालाबुपात्रेणताम्रचर्म पुटेनच। गृहीत्वास्वयमाचामेद्भूमिलग्नेननान्यथा। अत्रभूमिलग्नत्वेमूलंचिंत्यम्।वामेनोद्धृत्येतिस्मृत्यर्थ सारविरोधात्। **माधवीयेस्मृत्यंतरे—**करपत्रेषुयत्तोयंयत्तोयंताम्रभाजने। सौवर्णेराजतेचैवनैवाशुद्धंतु तत्स्मृतम्। **अपरार्केस्मृत्यंतरे—**ताम्राश्मनालिकेराब्जवेणुकालाबुचर्मभिः। स्वहस्तेनापिचाचामेत्सर्वदा शुचिरेवसः। नकेवलमन्यदत्तेनेतितत्रैव॥ इतिश्रीमन्नारायण ०लक्ष्मणभट्टकृतावाचाररत्नेआचमनम्॥

अथदंतधावनम्॥ अत्रिः—मुखेपर्युषितेनित्यंभवत्यप्रयतोनरः। अथार्द्रकाष्ठंशुष्कंवाभक्षयेदंत धावनम्। तस्याद्यंतयोराचामेत्। आग्नेये—शौचकृत्वामृदाचम्यभक्षयेद्दंतधावनमित्युक्तेः। प्रक्षाल्य भंक्त्वातुशुचौदेशेत्यक्त्वातदाचमेदितिगारुडाच्चआचारादर्शविष्णुः—प्रातर्भुक्त्वाचयतवाग्भक्षयेद्दंत धावनम्। भुक्त्वेतियतिपरमितिहलायुधःविष्णुः—कंटकिक्षीरिवृक्षोत्थंद्वादशांगुलमब्रणम्। कनिष्ठांगुलि वत्स्थूलंपर्वार्धकृतकूर्चकम्। दंतधावनमुद्दिष्टंज्वोहोल्लेखनिकातथा। द्वादशांगुलकंविप्रेकाष्ठमाहु र्मनीषिणः। क्षत्रविट्शूद्रजातीनां नवषट्चतुरंगुलम्। **स्मृत्यर्थसारेतु—**तिक्तकषायकटुसुगंधिकंट किक्षीर्यव्रणमृजुकीटाद्यदूषितंद्वादशांगुलंविप्रे क्षत्रादिष्वंगुलिह्रासइत्युक्तम्। शंखः— कुमाराणांचनारीणां कर्तव्यंचतुरंगुलम्। अथतत्काष्ठानिमदीयाःश्लोकाः—आम्राम्रातकसर्जवेणुवृहतीश्रीपर्णिपुन्नागकान् चंषावैकदरंशिरीषखदिरापामार्गनिंवार्जुनान्। नारिंगंवदरीप्रियंगुकुटजान्धात्रीतमालंतथाकंकोलंत्वरिमर्द लोध्रमधुकान्राजादनंपर्णकम्। जात्याट

रूपावतिमुक्तजंबूप्लक्षान्कषायंकटुकटकंच। गृह्णीतशुद्ध्यैदंतानामन्यांस्तत्रविवर्जयेत्। आम्रातक आंबाडाइतिप्रसिद्धः। सजारालइतिन सिद्धः। राजादनंचारोली। कदरःश्वेतसारःखदिरः। खदिरोरक्त सारः। अतिमुक्तजंमोगरावेलीइतिमध्यदेशे। मधूकोज्येष्ठीमधुः। संग्रहे—अपामार्गेधृतिर्मेधाप्रज्ञाशक्ति र्वपुःशुचिः। अंगिराः—प्रक्षाल्यभंक्त्वातज्जह्याच्छुचौदेशेसमाहितः। जातूकर्ण्यः—ईशान्यभिमुखःकुर्याद्वाग्यतोदत धावनम्। कृत्यरत्नेगर्गः—प्राङ्मुखस्यधृतिःसौख्यंशरीरारोग्यमेवच। दक्षिणेन तथाकार्यपश्चिमेनपराजयः। उत्तरेणगवांनाशःस्त्रीणांप्रेष्यजनस्यच॥॥ अथनिषिद्धानि। मदीयाःश्लोकाः—श्लेष्मातकःपिप्पलितिंदु कौपारिजातरिष्टाक्रमुकेंगुदीच।कार्पासभव्यौशणपारिभद्रौकुशेप्टकेवैबकुलश्चशुष्कम्। शाल्मल्यक्षौशिग्रु मोचानखानिकाशोलोष्ठर्सैंधवंचांगुलिश्च। मुक्त्वांगुष्ठानामिकेशिंशपायामृत्स्नापर्णांगारपापाणतार्णम्। कुंभो विभीतकधवौसिकताश्वमल्योनिर्गुंडिगुग्गुलपटौकनकश्चच्छुः। नंदाखष्टमिरंध्रयोर्व्रतदिनेदर्शेरवौभूमिजेश्राद्धे जन्मदिनेचतुर्दशियुगेक्रांतौव्यतीपातके। द्वादश्यांनिजजन्मभेपरतरेतत्पूर्वभेपौर्णमास्यांमांगल्यदिनोपवास दिनयोश्छायासुतेवाभृगौ। प्रतीचीमुखोदक्षिणाशामुखोवा द्विजानांविशुद्धिंनकुर्यादमीभिः। अत्रमूलपृथ्वी चंद्रादिषुस्पष्टम्। पारिभद्रोनिंबतरुरित्यमरः। रक्तमदारइतिहिमाद्रिःयत्तुश्राद्धकाशिकायांस्मृतिः—राणशाकंमृतंमांसंकरेणमथितंदधि। अंगुल्यादंतसंघर्ष स्तुल्यंगोमांसभक्षणैरिति तदंगुष्ठानामिकान्यपरम्। इष्टकालोष्ठपाषाणैरितरांगुलिभिस्तस्था। मुक्त्वात्वनामिकांगुष्ठौनकुर्याद्दंतधावनमितिचंद्रिकायांवृद्धयाज्ञ वल्क्योक्तेः। **वाराहे—**अज्ञातपूर्वाणिनदंतकाष्ठान्यद्यान्नपत्रैश्चसमन्वितानि। नयुग्मपत्राणिनपाटितानिनचार्द्र शुष्काणिविनात्वचाच। **आश्वलायनः—**दीक्षितोब्रह्मचारीचयतिश्चविधवांगना। नित्यमद्याद्दंतकाष्ठममायांतु विवर्जयेत्॥॥ **ब्रह्मचारिणंप्रकृत्यकौर्मे—**नादंशैचैववीक्षेतनाचरेद्दंतधावनम्। अतोब्रह्मचारिणोविकल्पइति केचित्। वस्तुतस्तुपूर्ववाक्येब्रह्मचारिपदनैष्ठिकपरं यतिसाहचर्यादितियुक्तम्॥

स्मृतिमंजर्या—रजखलाचतुर्थेह्रिसूतिकादशमेहनि। स्नानात्पूर्वबंधमोक्षेनिंद्येष्वपिचरेदिति। बंधोनिगडः॥ ॥अर्थविहितनिषिद्धानि—खर्जूरपीलुवटबिल्वकदंबबंधूकाश्वत्थकिंशुकमधूकशमीचजातिम्। अर्कैकरंज कुटजावथतिंतिणींचनिर्गुंड्युदुंबरविशोकककोविदारान्। विद्वानेतान्सदाविद्यात्प्रतिषिद्धविधित्सितान्। अत्र दंतधावनकरणत्वेनसामान्यप्राप्तौविशेषविधिनाशेषनिषेधेसतिपुनर्निषेधःप्रतिनिधित्वेनग्रहणंनेत्यर्थकोमाप निषेधवदित्याचारचंद्रोदयः। विहितनिषिद्धेषुविकल्पइतिकश्चित्। तन्न। व्यवस्थासंभवेविकल्पा योगात्। वयंतुविहितग्रहणेनतदन्यनिषेधेसिद्धेपुनस्तग्रहणंविहितालाभेनिषिद्धान्यग्रहार्थंविहितनिषिद्धान्यालाभेविहि तनिषिद्धग्रहार्थंतद्गणनमितिब्रूमःनारदः—आसनेशयनेयापादुकादंतधावने। पलाशाश्वत्थकौवर्ज्यौसर्वं कुत्सितकर्मसु। धर्मसारे—स्त्रीसंगंखादनंपानंस्वाध्यायंक्षुरकर्मच। नकुर्याद्दंतसंघर्षंतैले शिरसिसंस्थिते। **यमः—**चतुर्दश्यष्टमीदर्शपूर्णिमासंक्रमेरवौ। एषुस्त्रीतैलमांसानिदंतकाष्ठंचवर्जयेत्। **भविष्ये—**दशम्यदंत काष्ठेनजिह्वांलेखयतेयदा। एकादशीविधानायनिराशः स्याद्यमस्तदा। वृद्धमनुः—गतेदेशांतरेपत्यौगंध माल्यांजनादिच। दंतकाष्ठंचतांबूलंवर्जयेद्वनितासती। **प्रयोगपारिजातदक्षः—**अंजनाभ्यंजनेस्नानंप्रवासंदं तधावनम्। नकुर्यात्सार्तवानारीग्रहाणामीक्षणंतथा। **संवर्तः—**रवौविवाह आशौचैवर्जयेद्दंतधावनम्। **मरीचिः—**नाद्यादजीर्णवमथुश्वासकासज्वरार्दितः। **गोभिलः—**श्राद्धेयज्ञेथनियमेनभक्ष्यंप्रोदितेरवौ। **यमः—**मध्याह्र स्नानवेलायांयोभक्षेद्दंतधावनम्। निराशास्तस्यगच्छंतिदेवताः पितरस्तथा। अत्रप्रोदितेइतिमध्याह्नेपितन्निषेधे सिद्धेमध्याह्ननिषेधोदोपाधिक्यार्थइतिकेचित्। वस्तुतस्तुमध्याह्नेतन्निषेधस्तत्पूर्वंप्रोदितेपितत्प्राप्त्यर्थः। अन्यथा निषेधवैयर्थ्यादितियुक्तम्। श्राद्धेदंतधावननिषेधस्तु कर्तुरेव। श्राद्धभुक्प्रातरुत्थायप्रकुर्याद्दंतधावनम्। श्राद्धकर्तानकुर्वीतदंतानांधावनंबधइति प्रचेतोवचनात्। अविभक्तानांज्येष्ठस्यकर्तृत्वेपिफलभाक्त्वात्फलि संस्काराद्दंतधावनवर्जनादयः सर्वेषाम्। एवंप्रतिनिधेरपि। श्राद्धंशिष्येणपुत्रेणतदन्येनापिकारयेत्। नियमाना- चरेत्सो

पिनियतांश्चवसुंधरेइतिहेमाद्रौवाराहाच्चविष्णुरहस्ये—उपवासेतथाश्राद्धेखादित्वादंतधावनम्। गायत्र्या शतसंपूतमंबुप्राश्यविशुद्ध्यति। काशीखंडे—अलाभेदंतकाष्ठानांनिषिद्धेवाथवासरे। गंडूपाद्वादशग्राह्या मुखस्यपरिशुद्धये। स्कांदेप्रभासखंडे—वर्जितेदिवसेदेविगंडूषांश्चैवपोडश। तत्तत्पत्रैःसुगंधैर्वाकारयेद्दंत धावनम्। यत्तु—उपवासेपिनोदुष्येद्दंतधावनमंजनम्। एकादश्यांतृणैःपर्णैर्कुर्याद्दंतधावनमितिकृष्ण भट्टीयेस्कांदंतत्सभर्तृकोपवासपरम्।अंजनसाहचर्यात्। हेमाद्राचप्येवम्। दंतधावननिषेधेऽपिजिह्वोल्लेखो भवति—प्रतिपत्पर्वषष्ठीपुनवम्यांदंतधावनम्। पर्णैरन्यत्रकाष्ठैस्तुजिह्वोल्लेखःसदैवहीतिव्यासोक्तेःस्कांदे—दंतधावनकाष्ठेननजिह्वापरिमार्जयेत् आयुर्वलंयशोवर्चःप्रजापशुवसूनिच। ब्रह्मज्ञांचमेधांचत्वंनोधेहि वनस्पते। मंत्रेणानेनमतिमान्भक्षयेदंतधावनमितिकाशीखंडान्मंत्रोभक्षणेइतिपृथ्वीचंद्रमदनपारिजातौछंदोगपरिशिष्टेप्येवम्। अभिमंत्र्याहृताशाखामंत्रेणानेनवैद्विजाः। ततऊर्ध्वंक्रमेणैवधावयेच्छाखया तयेत्यंगिरःस्मृतेः। शाखाभिमंत्रणइतिस्मृतिरत्नावली। वचनद्वयादुभयत्रेतितुयुक्तम्। सएव—पतितांत्यज पांखंडिदेवाजीवरजस्वलाः। भिषक्पातकिचंडालानप्रेक्ष्यादंतधावने। शुनकंविड्वराहंचगर्दभंताम्रचूडकम्। अन्यान्नैवेदृशान्पश्येद्द्विजशुद्धौविचक्षणः। देवाजीवोदेवलकः। यत्तुकल्पतरौ—ऊर्ध्वेनिपतिते सिद्धिस्तथाचाभिमुखेस्थिते। अतोन्यथानिपतितेआनीयपुनरुत्सृजेदिति तत्सिद्धार्थकादिसप्तमीत्रत प्रकरणानभिज्ञत्वाद्यत्किंचिदेव॥॥ उषःपानम्। **बृहदात्रेयसंहितायाम्—**पिबतिपर्युषितंजलमन्वहंतिमिर वांश्चरमप्रहरेनिशः। यदितदालभतेसतुगारुडींदृशमपास्तसमस्तगदोनरः। **आयुर्वेदेभोजोपि—**अंभसः प्रसृतीरष्टौरवावनुदितेपिवेत्। नवनागबलंप्राप्यजीवेद्वर्षशतंनरः। **शौनकः—**पश्चाद्वादशगंडूषैःशुद्धिंकृत्वा द्विराचमेत्। ललाटेहृदिवाह्वोश्चऊर्ध्वपुंड्राणिधारयेत्। चतुर्भिः संकर्षणादिनामभिश्चंदनादिभिः। विष्णुपुराणे—स्वाचांतस्तुपुनः कुर्यात्पुमान्केशप्रसाधनम् \। आदर्शंजनमांगल्यदूर्वाद्यालंभनानिच। मार्केडेयपुराणे— दक्षिणाभिमुखो

यस्तुविदिक्संमुखएवच। केशान्संस्कुरुतेमर्त्योधननाशंसविंदति॥ इतिश्रीमन्नारायण०लक्ष्मणभट्टकृताचार रत्नेदंतधावनम्॥

**अथाज्यावलोकनम्॥ मदनपारिजातेब्राह्मविष्णुपुराणयोः—**स्वमात्मानंघृतेपश्येद्यदीच्छेच्चिर जीवितम्। **स्कांदे—आदौविप्रस्यवरणंकुर्याद्वस्त्रानुलेपनैः। ततः प्रतिष्ठयेत्पात्रंस्वैर्मंत्रैश्चप्रपूजयेत्। पश्चाद्विप्रायदातव्यंस्वर्णैकेनसमन्वितम्। प्रातराज्यपात्रदानमंत्रोहेमाद्रौगोपथब्राह्मणे—**आज्यंतेजः समुद्भूतमाज्यंपापहरंपरम्। आज्येनदेवास्तृप्यंतिआज्येलोकाः प्रतिष्ठिताः। भौमांतरिक्षदिव्यादियन्मेक ल्मषमागतम्। सर्वंतदाज्यसंस्पर्शात्प्रणाशमुपगच्छतु। अन्यच्च— याऽलक्ष्मीर्यच्चदौस्स्थ्यं मेसर्वगात्रेष्व वस्थितम्। तत्सर्वंशमयाज्यत्वंलक्ष्मींपुष्टिंचवर्धय। इति॥॥ अथकुशाःचंद्रोदयेऽत्रिः—उभयानामिकाभ्यांतुधार्येदर्भपवित्रके। पवित्रमाहमार्कडेयः—चतुर्भिर्दर्भपिंजूलैर्ब्राह्मणस्यपवित्रकम्। एकैकन्यूनमुद्दिष्टंवर्णेवर्णेयथाक्रमम्। यत्तुकात्यायनः—अनंतर्गर्भिणंसाग्रंकौशंद्विदलमेवच। प्रादेशमात्रं विज्ञेयंपवित्रंयत्रकुत्रचिदितितद्वैश्यपरंपूर्ववचनादितिपृथ्वीचंद्रः। **स्मृत्यर्थसारेतु—**सर्वेषांवाभवेद्द्वाभ्यां पवित्रयत्रकुत्रचिदित्युक्तम्। चंद्रिकायांतु—सप्तभिर्दर्भपिंजूलैःकुर्याद्ब्राह्मपवित्रकम्। पंचभिःक्षत्रियस्यै वचतुर्भिश्चतथाविशः। द्वाभ्यांशुद्रस्यविहितमितरेषांतथैवचेति। तथाऽनंत र्गर्भिणमित्यादितुस्थालीपाक परमित्युक्तम्॥॥ रत्नावल्याम्—प्रथमंलंघयेत्पर्वद्वितीयंतुनलंघयेत्। अग्रपर्वस्थितोदर्भस्तपोबृद्धिकरोहि सः। मध्येचैवप्रजाकामोमूलेसर्वार्थसाधकः। चंद्रिकायाम्—अंगुलीमूलदेशेतुपवित्रंधारयेद्द्विजः। राज्ञांद्वि पर्वकेचैवविशामग्रेकरस्यतु। **रत्नावल्याम्—**यज्ञोपवीतेर्मौज्यांचतथाकुशपवित्रके। ब्रह्मग्रंथिंविजानीया दन्यधातुयधारुचि। **पवित्रप्रकारस्तत्रैव—**अंगुष्ठघर्षयेद्विद्वान्तर्जन्यापिपुनः पुनः। ज्ञानमुद्रामधः कुर्यात्पूर्व वद्ग्रंथिंबंधनम्। आश्वलायनः– तारेणकुर्याद्वग्रथिंतुपवित्रस्य द्विजोत्तमः। ग्रंथिरेकांगुलस्तद्वत्तदूर्ध्वं द्व्यंगुलमतम्। तारः प्रणवः। भरद्वाजः—अत्रोक्तसंख्यापिंजूलानेकीकृत्यसमंयथा। मूलानिदक्षिणेहस्ते धृत्वाग्राण्यन्यपाणिना। दक्ष

हस्तेनतद्वाममनुवर्त्यप्रदक्षिणम्। तथैवाग्रेणचावष्ट्यकुर्याद्वग्रथिंयथादृढाम्। वृत्तग्रंथिलक्षणंहेमाद्रौ गारुडे—अर्धप्रदक्षिणीकृत्यशिखांपाशंप्रवेशयेत्। वैष्णवेनैवमार्गेणवृत्तग्रंथौपवित्रके। वैष्णवोमार्गः पश्चाद्भागः। **ब्रह्मग्रंथिरपितत्रैव—**संत्यज्यवैष्णवंमार्गब्राह्ममार्गविमिश्रितम्। सकृत्प्रदक्षिणीकृत्य ब्रह्मग्रंथिःस उच्यते। कर्तुरभिमुखप्रदेशोब्रह्ममार्गः। क्षेमप्रकाशेशंखःप्रकारांतरमाह—त्रिगुणीकृतरज्जुस्तुत्रिवृत्यासंनियो जयेत्।ब्रह्मग्रंथिः सविज्ञेयः सदामौंजादिषुद्विजैः। चंद्रोद‌येव्यासः—करेकंठेशिखायां चकर्णयोरुभयोरपि। पवित्रधारकोयश्चनसपापेनलिप्यते। कात्यायनः— सपवित्रःसदर्भोंवाकर्मागे पितृकर्मणि। अशून्यंतु करंकृत्वा सर्वत्राचमनंचरेत्। नोत्सृज्यंतत्पवित्रंतुभुक्त्वोच्छिष्टं तुवर्जयेत्। **ब्राह्मे—**मंत्रंविनाधृतंयत्त त्पवित्रमफलंभवेत्। तस्मात्पवित्रमंत्राभ्यांधारयेदभिमंत्र्यच। पवित्रंतेतुइत्यादिमंत्रद्वितयमस्यतु। प्रणव स्त्वस्यमंत्रः स्यात्समस्ताव्याहृतिस्तुवा। **पृथ्वीचंद्रोदये—**धृतपवित्रकर्मातेग्रंथिंमुक्त्वातुतत्त्यजेत्। विस्मृत्य यदिपात्रेषुपवित्रंविसृजेत्तथा। प्राजापत्यंचरेत्कृच्छ्रत त्किल्विषविशुद्धये। **आश्वलायनः—**तस्मिन्क्षीणेक्षिपे त्तोयेवह्नौ35 इत्युक्तेरत्रत्योवह्निनिक्षेपोविचारणीय”)वायज्ञसूत्रवत्। भूर्मिज्ञात्वातथाशुद्धांमृद्भिस्तारेणपूरयेत्। **भरद्वाजः—**कर्मांतेषुनरादायपवित्रद्वित यंद्विजः। शुचौदेशेविनिक्षिप्यदध्यादेत त्पुनःपुनः। यद्युच्छिष्टाद्युपहतं पवित्रंविहतंभवेत्। तदैवग्रंथिमुत्सृज्य त्यजेदितरथानहि। **मदनपारिजाते कौशिकः—**पवित्रस्यतुनाशौचमाचातेतुकदाचन। पितॄणांतर्पणेत्याज्य मुच्चारेपूजनेतथा। दर्भेषुतु हेमाद्रौस्कांदे—अनामिकाधृतादर्भाह्येकानामिकयापिवा। द्वाभ्यामनामिकाभ्यां तुधार्येंदर्भपवित्रके। **आश्वलायनः—**अथवानामिकाभ्यांतुग्रंथिहीनंकुशादिकम्। हेमादीन्वाथविभृयात्सर्व कर्मस्वपिद्विजः। **गौडास्तु—**मध्यमानामिका भ्यांतुधारथेद्द्विदलंकुशम्। संध्यादिकर्मजाप्येषुस्वाध्यायेपितृ तर्पणे। केवलानामिकायांतु अज्ञानाद्धारयेत्कुशम्। श्वानमूत्रसमंतोयंपीत्वाचांद्रायणंचरे

दितिहारीतोक्तेःकुशधारणंमध्यमानामिकयोरित्याहुः। तन्न। वचनस्य महानिबंधेषुक्वाप्यनुपलंभात्। सर्ववचनेषुकुशहेमरूप्यपवित्राणाम विशेषोक्तेश्च। कुशानूर्ध्वाग्रान्विभृयात्। वज्रंयधासुरेंद्रस्यशूलंहस्ते हरस्यच। चक्रायुधंयथाविष्णोरेवंविप्रकरेकुशइति चंद्रिकायांगोभिलोक्तौसंदिग्धेषुवाक्यशेषादिति न्यायेनशूलसाम्योक्त्यानिर्णयाच्छूलदृष्टान्तएवमुख्यः। अतएवतत्रैवहस्तग्रहणंत्रिशाखत्वादिनात्रिशूलसा म्याच्च। दर्भसंख्यामाह—समूलाग्रौविगर्भौतुकुशौद्वौदक्षिणेकरे। सव्येचैवतथात्रीन्वैविभृयात्सर्वकर्मसु। छंदोगपरिशिष्टे—द्वौदर्भौदक्षिणेहस्तेसव्येनीनासनेसकृत्। उपवीतेशिखायांचपादमूलेसकृत्सकृत्। अत्रचत्वारःपक्षाः। हस्तद्वयेदर्भधारणम् हस्तद्वयेपवित्रधारणम् दक्षिणेपवित्रंमेकुशाः दक्षिणएवोभयमिति। तृतीयःकातीयपरः—सव्यः सोपग्रहः कार्योदक्षिणः सपवित्रकइतिकात्यायनोक्तेःलघुहारीतः—जपेहोमेतवादानेस्वाध्यायेपितृतर्पणे। अशून्यंतुकरंकुर्यात्सुवर्णरजतैः कुशैः। सुवर्णरजतैरितिबहुत्वमे कसुवर्णाद्यवयवविधारणेपियुक्तम्। सुवर्णत्वादेरवयवावयविवृत्तित्वात्सुवर्णादीनांसमुच्चयः। अनामिका यांतद्धेमधारयेद्दक्षिणेकरेइतिदेवीपुराणे—अनामिकायांहेमधारणोक्तस्तत्समभिव्याहृतंरजतमपितत्रैव धार्यम्। तर्जन्यांरजतंधार्यमितिवचनंतुनिर्मूलम्। कल्पतर्वादिभिरनादरादितिवर्धमानः। तन्न। अनामिकाधृतं हेमतर्जन्यांरूप्यमेवच। कनिष्ठिकाधृतंस्वङ्गंतेनपूतोभवेन्नरइतिश्राद्धहेमाद्रीचंद्रिकायां चयोगयाज्ञवल्क्यविरोधात् तर्जन्यांरूप्यंजीवत्पित्रन्यपरम्—उत्तरीयंयोगपट्टंतर्जन्यांरजतंतथा। नजीव त्पितृकैर्धार्यंज्येष्ठोवाविद्यतेयदीति चंद्रोदयेसंग्रहात्। **आश्वलायनः—**अन्यैर्धृतंनगृह्णीयात्पवित्रंतृण संभवम्। हेमादयस्तुसंग्राह्याः सम्यनिष्टप्यवह्निना। **सएव—**पवित्रेपतितेज्ञातेतथाजपगणेभुवि। प्राणायामत्रयंकुर्या त्स्नात्वाविप्रोऽघमर्षणम्। जपगणोमाला— हेम्नैवसर्वदासर्वंकुर्यादेवाविचारयन्। रौप्यंदक्षप्रदेशिन्यांविभृया द्दीक्षितोद्विजः। अग्रंथिकंचहेमंच तथालोहत्रयोद्भवम्। गायत्र्यक्षरवर्गेण गृह्णीयात्ताम्रमुत्तमम्। अनुष्टुभस्तथा रूप्यंत्रिष्टुभःकनकोत्तमम्। गायत्री चतुर्विंशत्यक्षरा तावदंशंताम्रम्

एवमग्रेपि। द्वात्रिंशदक्षरानुष्टुप्। चतुश्चत्वारिंशदक्षंरात्रिष्टुप्—शलाकाःकारयित्वातोऽभिसृजे दंगुलीयकम्। शुद्धौधार्यदिवारात्रंत्रयंसममथापिवा। आगमेत्वन्यथोक्तम् —सोमसूर्याग्निरूपाः स्युर्वर्णा लोहत्रयंतथा। रौप्यमिंदुःस्मृतोहेमसूर्यस्ताम्रंहुताशनः। लोहभागाः समुद्दिष्टाः स्वराद्यक्षरसंख्यया। तैर्लोहैःकारयेन्मुद्रामसंकलितसंगताम्। अकारादयः षोडश १६ स्वरास्तावंतोभागारौप्यस्य। काद्यामांताः पंचविंशतिः २५ हेम्नः। यादयःक्षांता दश १० ताम्रस्य। साग्रंसहस्रसंजप्यस्पृष्ट्वातांजुहुयात्ततः। तस्यांसंपातयेन्मंत्रीसर्पिषापूर्वसंख्यया। जपःपूर्वोक्तमातृकामंत्रस्य कं खं गं इत्यादिः। निक्षिप्यकुभेतां मुद्रामभिषेकोक्तवर्त्मना। आबाह्यपूजयेद्देवीमुपचारैःसमाहितः। अभिषिच्यविनीतायदद्यात्तांमुद्रिकांगुरुः। इयंरक्षाक्षुद्ररोगविपज्वरविनाशिनी। शारदातिलकेतु—तारताम्रसुवर्णानामर्कषोडशखंदुभिरित्युक्तम्। खेंदवोदश। बोपदेवः—हिंशुमुचप्रमंगोरानीश वेंकेपुगुंवुगो। प्राच्याद्रत्नानिखेटाश्रमध्येमाणिक्यमुष्णगोः। उष्णगुः सूर्यः। हिंशुमित्याद्यक्षरद्वंद्वानिहीरकशुकादिग्रहवोधकानि। **मंत्रशास्त्रे—अर्कैदुरक्तज्ञगुरुभृगु मंदाहिकेतवः। माणिक्यंमौक्तिकंचारुविद्रुमंगारुडंपुनः। पुष्परागंलसद्वज्रनीलंगोमेदकंशुभम्। वैडूर्यनव रत्ना निमुद्रांतैःकल्पयेच्छुभाम्। जपहोमादिकंसर्वकुर्यात्पूर्वोक्तवर्त्मना। योमुद्रांधारयेदेनांतस्यस्यु र्वशगाग्रहाः। विन्यासेविशेषोज्योतिषे—**माणिक्यमंतस्तरणेर्निधेयवज्रंसुमुक्ताविलसत्प्रवालम्। गोमेदकं निर्मलमिंद्रनीलवैडूर्यकंपुष्पमतस्तुपाचिः। पूर्वादितः शुक्रशशांकभौमराह्वर्किके त्विज्यशशांकजानाम्। रत्नानियलेन चमुद्रिकायांन्यस्यानिखेटेषुनिजोच्चगेषु॥ इतिलक्ष्मण भट्टकृताचाररत्नेंगुलीयकप्रकरणम्॥

** अथकुशग्रहणम्**। कुशाः कतिविधाः कदाकथं कैर्ग्राह्याः केऽधिकारिणोगृहीतानामहर्मर्यादांचाह स्मृतिचिंतामणौ—अहन्यहनिकर्मार्थंकुशोद्धारःप्रशस्यते। **तत्रैव—**मासिमास्युद्धृतादर्भामासिमास्ये वचोदिताः। उत्तरोत्तरमासेषुधर्मविद्भिरसंमताः। **षट्त्रिंशन्मते—**मासेनस्यादमावास्यादर्भोग्राह्योनवः स्मृतः। **मदनरत्नेशंखमरीची—**मासेनभस्यमावास्यातस्यांदर्भोच्चयोमतः। अयातयामास्तेदर्भानियो

ज्याश्चपुनःपुनः। आर्द्राल्लुँनीयाद्रात्रौनलुनीयाद्वापिसंध्ययोः। मासःशुक्लादिरितिवधमानःहेमाद्रौ हारीतः—मासेनभस्यमावास्यातस्यां दर्भोच्चयोमतः। यत्तुशंखः— अमायांचैवनच्छिंद्यात्कुशांश्चसमिध स्तथेति तत्तत्कालकर्मपर्याप्तव्यतिरिक्तविषयम्। कुशाःकाशाश्चदूर्वाद्यागवार्थंचतृणादिकम्। निषिद्धेवापिगृह्णीयाद मावास्याहनिद्विजइतिजाबाल्युक्तेरितिपृथ्वीचंद्रः। वनस्पतिगतसोममुहूर्तपरो निषेधः। त्रिमुहूर्तंवसेद- त्रिमुहूर्तंजलेवसेत्। त्रिमुहूर्तंवसेद्गोषुत्रिमुहूर्तंवनस्पतौ। वनस्पतिगतेसोमेयस्तुहिंस्याद्वन स्पतीन्।घोरायां भ्रूणहत्यायांपच्यतेनात्रसंशयइतिसौपर्णाक्तेरितिमदनपारिजातः। रागप्राप्तस्यायं निषेधः वैधतन्निषेधेवि कल्पापत्तेरितिचंद्रिकातत्रैवयमः—समूलस्तुभवेद्दर्भःपितॄणांश्राद्धकर्मणि। श्राद्धमे कोद्दिष्टम्। एकोद्दि ष्टेकुशाः कार्याः समूलायज्ञकर्मणि। बहिर्लूनाः सकृल्लूनाः सर्वत्रपितृकर्मस्वितितेनै वोक्तेः। बहिर्लूना उपमूलंलूनाः। तेचैकोद्दिष्टेतरश्राद्धपराइतिचंद्रिकातत्रैवपुराणे — पित्र्यंमूलेनमध्येन नारंदानंचयत्नतः। दैवकर्मकुशाग्रेणकर्तव्यं भूतिमिच्छता। **तत्रैवसंग्रहे—**होमेतर्पणकालेचविवाहे यज्ञकर्मणि। अगर्भिणस्तुये दर्भाः पुत्रदारधनप्रदाः। तत्रैवहारीतः—पितृदेवद्विजार्थेषुसमूलानाहरे द्द्विजः। स्मृतिचिंतामणौ—सप्त रात्रंशुभादर्भास्तिलक्षेत्रसमुद्भवाः। भरद्वाजः—पलाशाश्वत्थखदिरवटप्लक्ष समीपगाः। विल्ववैकंकतांत स्थास्तच्छायास्थाः कुशाः शुभाः। गृह्यपरिशिष्टे—दर्भाःकृष्णाजिनं मंत्राब्राह्मणाहविरग्नयः। अयातयामा न्येतानिनियोज्यानिपुनःपुनः। इदंनभस्यदर्शच्छिन्नदर्भविषय मितिवर्धमानःएतदपवादस्तत्रैव—येच पिंडाश्रितादर्भायैः कृतंपितृतर्पणम्। अमेध्याऽशुचिलिप्ताये तेषांत्यागोविधीयते। हारीतः—पथिदर्भाश्चितौ दर्भायेदर्भायज्ञभूमिषु। स्तरणासनपिंडेपुषट्कुशान्परिवर्जयेत्। अत्रष्टत्वमविवक्षितम्। ब्रह्मयज्ञेचयेदर्भा येदर्भाः पितृतर्पणे। हतामूत्रपुरीषाभ्यांतेषांत्यागो विधीयते। मूत्रोच्छिष्टधृतायेचेतिवर्धमानधृतःपाठःये त्वन्तर्गर्भितादर्भाये चच्छिन्नानखैस्तथा। क्वाथिताश्चाग्निनादर्भास्तान्दर्भान्परिवर्जयेदितिवृद्धहारीतोक्तेःशंखः—नीवीमध्येस्थिताद

र्भाब्रह्मसूत्रेचयेधृताः। पवित्रांस्तान्विजानीयाद्येतुकर्णेचदक्षिणे। नीवीपरिधानंवस्त्रग्रंथिरितिकल्पतरुःचंद्रो दयेसंग्रहे—अग्निकार्ये चयागेचसमूलान्परिवर्जयेत्। संग्रहे—आचांतःप्राक्कुशांस्त्यक्त्वापाणावन्यांश्च धारयेत्। श्राद्धारंभेतुयेदर्भाः पादशौचेविसर्जयेत्। अर्चनादौतुयेदर्भाउच्छिष्टांतेविसर्जयेत्। पार्वणादौतुयेदर्भा आघ्राणांतेविसर्जयेत्। मार्जनादौतुयेदर्भाःपिंडोत्थाने विसर्जयेत्। उत्तानादौतुयेदर्भा दक्षिणांतेविसर्जयेत्। प्रार्थनादौतुयेदर्भानमस्कारेविसर्जयेत्। विकिरेपिंडदाने चतर्पणेस्नानकर्मणि। आचांतश्चप्रकुर्वीतदर्भ संत्यजनंबुधः। कात्यायनः — समूलाः पितृदैवत्याः कल्माषावैश्नदेविकाः। ह्रस्वाः प्रवरणीयाः स्युः कुशादीर्घास्तुबर्हिषः। प्रवरणीयाःस्नानाद्यर्हाः। दर्भग्रहणमंत्रमाहशंखः—विरिंचिनासहोत्पन्नपरमेष्ठि निसर्गज। नुदसर्वाणिपापानिदर्भस्वस्ति36करोभव। स्मृत्यर्थसारे —हुंफट्कारेणमं त्रेणसकृच्छित्त्वा समुद्धरेत्। हेमाद्रौकार्ष्णाजिनिः — पूर्वतुशिथिलीकृत्यखनित्रेण विचक्षणः। आदद्यात्पितृतीर्थेनहुंफट् हुंफ ट्सकृत्सकृत्। भरद्वाजः— शुनाशुद्धवराहेणमार्जारेणैकचक्षुषा। खरेणकुक्कुटेनैवस्पृष्टः कर्मरिपुः कुशः। कपिनाकृकलासेनपतितेनांत्यजातिना। भिषजारोगिणास्पृष्टःकुशःकर्मस्वशोभनः। देवलेनचषंढेनव्रात्येना ज्ञातजन्मना। वर्ज्यः सूत किनास्पृष्टः कुशो ऽनुष्ठेयकर्मसु। रक्तश्लेष्माश्रुभिःस्पृष्टः क्रियायुक्तःपुराधृतः। उच्छिष्टजनसंस्पृष्टःकुशःकर्मविनाशकः। सूतिकात्रेयिकावेश्याज्ञातपूर्वाभिसारिकाः। अन्याःसदोषाया स्ताभिः कुशःस्पृष्टः क्रियारिपुः। आत्रेयिका गर्भिणी। अपराकै —कुशाः काशायवादूर्वागोधूमाश्चाथकुंदुराः। उशीराब्रहयोमुंजादशदर्भाः सबल्वजाः। बल्वजादक्षिणदेशेमोलइतिप्रसिद्धाइतिहेमाद्रिः। दर्भत्वोक्तिः काशादिस्तुत्यर्था। दर्भाभावेद्विजः37 कर्मकाशैःकुर्वीतसंयतइतिशंखोक्तेःनागदेवाह्निकेसुमंतुः—कुशः काशःशरोगुंद्रोयवादूर्वाश्चबल्वजाः। गोकेशकंदौमुंजश्चपूर्वाभावेपरःपरः। वृद्धपराशरः— दर्भैर्लोहितदर्भैश्चका

शवीरणबल्वजैः। शुकधान्यतृणैर्वापिदर्भ कार्यंचरेद्द्विजः। सएव —काशहस्तस्तुनाचामेन्नदूर्वाभिः कदाचन। बौधायनः— हस्तयोरुभयो र्द्वौद्वावासनेपितथैवच। लेखनेचतथाद्वौद्वौस्तरणेषोडशस्मृताः। कौशिकः— गवांवालपवित्रेणसंध्योपास्तिंकरोतियः। सवैद्वादशवर्षाणिकृत संध्योभवेन्नरः। भरद्वाजः – रोम्णांपवित्रकरणेनियमोनकुशेष्विव। पाद्मे —नदर्भानुद्धरेच्छूद्रोनपिवेत्कापिलंपयः। नोच्चरेत्प्रणवंमंत्रं पुरोडाशंनभक्षयेत्॥ इतिश्रीमन्नारायणभट्टात्मज ० लक्ष्मण भट्टकृतावाचाररत्नेकुशप्रकरणम्॥ 1

अथप्रातःस्नानम्। शंखलिखितौ—अनश्नन्स्नायादिति। अनश्नन्तांबूलाद्यभक्षयन्नितिकल्पतरुःहेमाद्रौकौर्मे —नित्यमभ्युदयात्पूर्वस्नातव्यंशुद्धिमिच्छता। एषसाधारणोधर्मश्चतुर्वर्णस्य नित्यशः। स्त्रीभिः शूद्रैश्चकर्तव्यंमंत्रवर्ज्यंविगाहनम्॥॥ भारते—ब्रह्मक्षत्रविशांचैवमंत्रवत्स्नानमिष्यते। तूष्णीमेवतुशुद्रस्यसन मस्कारकंस्मृतम्। तूष्णीमिति श्रौतस्मार्तमंत्रनिषेधेप्राप्तेनमइतिनमस्कारमंत्रोविधीयते। सएवमृद्गोमय स्नानेपिविज्ञेयः। तेनाश्वकांतेइत्यादिमंत्रोनेतिमदनपालःश्रीदत्ताह्निकेतु तूष्णीमितिवैदिकमंत्र निषेधोनपौराणानामित्युक्तम्। टोडरानंदेप्येवम्। कल्पतरुस्तु — कर्मागमंत्रपाठः शूद्रस्येत्याह। वस्तुतस्तुपौराणोऽपिब्राह्मणैरेवपठनीयः। शूद्रोनमइत्येवोच्चारयेदिति। शूद्रशिरोमणावप्येवम्॥॥ सभर्तृ काणांस्त्रीणांनित्यस्नानशिरस्कम्। सचैलस्नाननिमित्तेप्यशिरस्कत्वविधानात्। व्रतांगेसशिरस्कता विधानाच्च। जाबालिः—सततंप्रातरुत्थायदंतधावनपूर्वकम्। आचरेदुषसिस्नानंतर्पयेद्देवमानुषान्। श्राद्धचंद्रिकायांपुराणे—चतस्रोघटिकाः प्रातररुणोदयउच्यते। यतीनांस्नानकालस्तुगंगांभः सदृशः स्मृतः। यतयो नियताः। अरुणोदयः संध्यापूर्वकालः। संध्यायांनिषेधादितिहरिहरः। तन्न। संध्यापूर्वकाले ऽपिरात्रित्वेननिषेधादित्याचारादर्शः। तदपिन। वक्ष्यमाणपराशरवाक्येनापररात्रेस्नानोक्तेः। **वृद्धपराशरः—**उषस्युपसियत्स्नानंक्रियतेऽनुदितेरवौ। प्राजापत्येनतत्तुल्यंमहापातकनाशनम्। उषः कालस्तुलोहितदिगु

पलक्षितकालात्प्राक्कालइतिकल्पतरुः। नागदेवाह्निकेक्षेमप्रकाशेचविष्णुः—नाडिकाषट्वपंचाशत्प्रातस्त्वे काधिकोरुणः। उषःकालोऽष्टपंचाशच्छेषः सूर्योदयःस्मृतः। यत्तुमार्कडेयः—सूर्योदयंविनानैव स्नानदानादिकःक्रमः। अग्नेर्विहरणंचैवक्रत्वभावश्चलक्ष्यते। इतितदुषःकालासंभवेइति केचित्। उदयपदे नोषःकालोलक्ष्यतइतिवर्धमानःपृथ्वीचंद्रश्च। तेनरात्रौनकुर्यादित्यर्थः। अविहितविशेषविषयमिति दोडरानंदः। इदं नित्यंकाम्यंच। सप्ताहंप्रातरस्नायीद्विजः शूद्रत्वमाप्नुयादितिवसिष्ठोक्तेः। उषस्युषसीति वीप्साश्रुतेश्च। प्रातःस्रानंहरेत्पापमलक्ष्मीग्लानिमेवच। अशुचित्वंचदुःस्वप्नंतुष्टिंपुष्टिंचयच्छतीति काशीखंडाच्च। प्रातःस्नायीभवेन्नित्यंमध्यस्नायीसदाभवेदितिव्याघ्रपादोक्तेर्मध्याह्नस्नानमपिनित्यमिति हेमाद्न्यादयः। नित्यमेवतुमध्याह्ने प्रातश्चक्वचकस्यचिदितिस्मृत्यर्थसारान्मध्याह्ने एव नित्यमित्याचारा दर्शःकामधेनावप्येवम्। **दक्षस्मृतिगारुडयोः—**प्रातर्मध्याह्नयोःस्नानं वानप्रस्थगृहस्थयोः। यतेस्त्रिषवर्ण स्नानंसकृत्तुब्रह्मचारिणः। सकृदित्यशक्तपरम्। स्नायात्प्रातश्चमध्याह्नेब्रह्मचारीगृहीतथेति चंद्रो दयेसंग्रहोक्तेःबहृचपरिशिष्टे—स्नानंप्रक्रम्य तत्प्रातर्मध्याह्नेचगृहस्थः कुर्यादेकतरत्रवेति। कात्यायनः— यथाहनितथाप्रातर्नित्यंस्नायादनातुरः। दंतान्प्रक्षाल्यनद्यादौगेहेचतद मंत्रवत्। अह्निमध्याह्ने। आतुरस्यमंत्र स्नानादिवेतिपृथ्वीचंद्रः।अमंत्रवदल्पमंत्रम्। गृहेपिहिद्विजातीनांमंत्रवत्स्नानमिष्यतेइतिहेमाद्रौजै मिनिस्मृतेः। साग्नेर्नद्यादावप्येवम्। अल्पत्वाद्धोमकालस्य बहुत्वात्स्नानकर्मणः। प्रातः संक्षेपतः स्नानं होमलोपोविगर्हितइति कात्यायनोक्तेः। **चतुर्विंशतिमते—**प्रातर्मध्याह्नयोः स्नानंगृहस्थस्यविधीयते। शक्तश्चदुभयंकुर्यादशक्तस्त्वापराह्निकम्। तत्सशिरस्कम्। जाबालिः— अशिरस्कंभवेत्स्नानंस्नानाशक्तौ तुकर्मिणाम्। **स्मृत्यर्थसारे—**चक्षुरोगीकर्णरोगीशिरोरोगीकफाधिकः। कंठस्नानंप्रकुर्वीतशिरःस्नान समंहितत्। मुखवक्रत्वापादकोरोगः। **आयुर्वेदेपि—**स्नानमर्दितनेत्रास्यकर्णरोगातिसारिषु। आध्मानपीन साजीर्ण

भुक्तवत्सुचगर्हितम्। **हेमाद्रौवाराहे—**त्रिभिःसारस्वतंतोयंपंचाहेनतुयामुनम्। सद्यःपुनातिगांगेयंदर्शना देवनार्मदम्। समुद्रगानांसरितामन्यामामपियत्पयः। पावनंस्नानदानेषुप्राजापत्यसमंस्मृतम्। **रूपनारायणी येब्राह्मे—**नद्यांप्रत्येकशः स्नानेभवेद्गोदानजंफलम् गोप्रदानैश्रदशभिःस्नानेपुण्यंतुसंगमे। **अग्निपुराणे—**भूमिष्ठमुद्धृतात्पुण्यंततः प्रस्रवणोदकम्। ततोपिसारसंपुण्यंतस्मान्नादेयमुच्यते। तीर्थतोयंततः पुण्यंगांगं पुण्यंतुसर्वतः। **चंद्रिकायांयोगयाज्ञवल्क्यः—**त्रिरात्रफलदानद्योयाः काश्चिदसमुद्रगाः।समुद्रगास्तु पक्ष

स्यमासस्यसरितां पतिः। त्रिरात्रफलदाः नदीभिन्नजलाधिकरणकत्रिरात्रस्नानफलदाः। पक्षादावप्येव मितिरूपनारायणः। त्रिरात्रोपवासफलदाइतिहेमाद्रिः। **वृद्धयाज्ञवल्क्यः—**नदीस्नानानिपुण्यानितडा गेमध्यमानिच। वापीकूपे जघन्यानिगृहेष्वत्यवराणिच। **गारुडे—**नित्यंनैमित्तिकंकाम्यंक्रियांगंमलकर्षणम्।तीर्थाभावेतुकर्तव्य मुष्णोदकपरोदकैः। माधवीयेगार्ग्यः —कुर्यान्नैमित्तिकंस्नानंशीताद्भिः काम्यमेवच। नित्यंयादृच्छिकंचैव यथारुचिसमाचरेत्। हेमाद्रावप्येयम्। असमुद्रगताश्चापियाः काश्चिद्विपुलोदकाः। अशोष्याग्रीष्मकालेऽपि तामुस्नानंसमाचरेत्। शुष्यंतियाःकुसरितोग्रीष्मे सूर्यांशुतापिताः। तासुस्नानंनकर्तव्यं दृष्टतोयास्वपिक्वचित्। इदंकाम्यपरम्। **रूपनारायणीयेभविष्ये—**शिवलिंगसमीपस्थंयत्तोयंपुरतः स्थितम्। शिवगंगेतितज्ज्ञेयं तत्रस्नानाद्दिव्रजेत्। तत्रैव—देवार्चादृष्टिपूतेतुस्नानं कृत्वाजलाशये। सर्वपापविनिर्मुक्तः क्षणाद्भवतिनिर्मलः। **चंद्रोदयेवृद्धपराशरः—**कूपेषूद्धृततोयेनस्नानं कुर्वीतवाभुवि। योगयाज्ञवल्क्यः— अलाभेदेवखातानां सरितांसरसांतथा। उद्धृत्यचतुरः पिंडान्पारक्येनानमाचरेत्। सरउत्सृष्टम्। पराशरः कदाचिद्विदुषामत्यान स्नात व्यंपरांभसा। पंचवासप्तवापिंडान्स्नायादुद्धृत्यतत्रतु। शौनकः उद्धृत्य मृत्तिकापिंडान्दशपंचतथा क्षिपेत्। **पैठीनसिः—**त्रीन्पिंडानुद्धृत्यस्नायादिति। बौधायनः। निरुद्धा सुतुमृत्पिं डान्कूपाच्चत्रीन्घटांस्तथा। अत्राप्रतिष्ठितमात्रेपिंडोद्धारइतिप्रांचः। तन्न। अप्रतिष्ठित

जलत्वेनतत्रस्नानाभावात्परस्वोपयोगेचौर्यापत्तेश्चेतिहरिहरादयः। अतःपिंडत्रयोद्धारःसेतुपरः। पंचपिंडो द्धारस्तदन्यपरः। सप्तादिपिंडोद्धार स्तर्पणाद्यर्थमितिपृथ्वीचंद्रः। यथासामर्थ्यव्यवस्थेतिचंद्रिका। सर्वमेतदनुत्सृष्टविषयम्। अनुत्सृष्टेपुनस्नायात्तथैवासंस्कृतेषुचेतिमरीच्युक्तेःपराशरः— नतीर्थेस्त्र्याकुले स्नायान्नासज्जनसमावृते। दर्भहीनोऽन्यचित्तश्चननग्नोनशिरोविना। बौधायनः — शाल्मलीर्तितिणीचैव करंजश्चहरीतकी। कोविदारकबिल्वार्कावदरीचविभीतकः। शेलुश्चखादकश्चैषांछायास्नान विवर्जयेत्। माधवीयेआपस्तंबः—अंत्यजैःखानिताः कूपास्तडागोवाप्यएवच। एषुस्नात्वाचपीत्वाचप्राजापत्येन शुद्ध्यति। खानितग्रहणादखानितेनदोषः। तत्रैवविष्णुः—जलाशयेष्वथाल्पेषुस्थावरेषुमहीतले38। कूपवत्क थिताशुद्धिर्महत्सुनतुदूषणम्। चंद्रिकायांबौधायनः—अधोवर्णोदकेस्नानवर्ज्यनद्यांद्विजातिभिः। तस्यांरजक तीर्थंतुदशहस्तेनवर्जयेत्। तत्रैवपुराणे—स्रवन्नदीपुनस्नायात्प्रविश्यांतः स्थितोद्विजः। मरीचिः—नद्यायच्च परिभ्रष्टंनद्यायच्चविवर्जितम्। गतप्रत्यागतंयच्चतत्तोयपरिवर्जयेत्। स्नानादावितिशेषः। परिभ्रष्टं विच्छिन्नम्। विवर्जितंनदीतोनिःसूतम्। गतप्रत्यागतमविच्छिन्नमावर्ततइतिचंद्रिकाव्याघ्रपादः—सिंहकर्कटयोर्मध्ये सर्वानद्योरजस्वलाः। तासुस्नानंनकुर्वीतवर्जयित्वासमुद्रगाः। स्नानंतर्पणादेरुपलक्षणम्। नस्नानादीनिकर्माणि तासुकुर्वीतमानवइत्यत्रिस्मृतेः तीरवासिनांननिषेधः। नतुतत्तीरवासिनामिति त्रिस्थलीसेतौनिगमात्। समुद्रगानांतु**हेमाद्रौदेवीपुराणे—**समुद्रगामिनीनांतुषड्रात्रंरजइष्यते॥॥ नदीराहकात्यायनः—धनुःसहस्रा ण्यष्टौतुगतिर्यासांनविद्यते। नतानदीशब्दवहागर्तास्तेपरिकीर्तिताः। धनुश्चतुर्हस्तमितिवाचस्पतिः। **भविष्योत्तरे—**आदौकर्कटकेदेविमहानयोरजस्वलाः। त्रिनितुचतुर्थेह्निशुद्धाः स्युर्जाह्नवीयथा॥॥ महानद्य श्चोक्ताब्राह्मे— गोदावरीभीमरथीतुंगभद्रा

चवेणिका। तापीपयोष्णीविंध्यस्यदक्षिणेतुप्रकीर्तिताः। भागीरथीनर्मदाचयमुनाचसरस्वती। विशोका च वितस्ता च विंध्यस्योत्तरतः स्थिताः। चंद्रिकायांवामनपुराणे—गोदावरीभीमरथी कृष्णावेणीसरस्वती। तुंगभद्रासुप्रयोगासत्याकावेरिरेवच। दुग्धोदानलिनीरेवावारिसीता कलखना। एताअपिमहानद्यः सह्यमूला द्विनिर्गताः। अपरार्केमरीचिः—तपनस्यसुतागंगागौतमीचसरस्वती। रजसानाभिभूयंतेवेणाचनद संज्ञिताः। देवलः—शोणसिंधुहिरण्याख्याः कोकलोहितघर्घराः। शतद्रूश्चनदाः सप्तपावनाः परिकीर्तिताः। हेमाद्रौवामनपुराणे—सरस्वतीनदीपुण्यातथावैतरणीनदी। आपगानर्मदा चैव गंगामंदाकिनीनदी। मधु स्रवाअंशुमतीकौशिकीयमुनातथा। दृषद्वतीमहापुण्यातथाहैरण्वतीनदी। रजस्वलात्वमेतासांविद्यतेन कदाचन। इदंत्रिदिनाधिकरजोनिषेधपरम्। पूर्वोक्तभविष्यविरोधादितिहेमाद्रिः। प्रथमंकर्कटेदेवित्र्य हंगंगारजस्वलेत्यंतर्गतरजोविषयम्। गंगाधर्मद्रवः पुण्योयमुनाचसरस्वती। अंतर्गतरजोदोषाः सर्वावस्थासु चामलाइतिनिगमादितिभट्टाः॥॥ रजोयुक्तनदीसानेप्रायश्चित्तमुक्तं त्रिस्थलीसेतौसंग्रहे— कालेन भस्यशुद्धंस्यात्रिरात्रंतुनवोदकम्। अकालेतुदशाहंस्यात्स्नात्वानाद्यादहर्निशम्। कात्यायनः— उषा कर्मणिचोत्सर्गेप्रेतस्नानेतथैवच। चंद्रसूर्यग्रहेचैवरजोदोषोनविद्यते। प्रेतपदेप्रातः पदमित्याचारादर्शेटोडरा नंदेचपाठः। **वृद्धयाज्ञवल्क्यः—**प्रभूतेविद्यमानेपिउदकेसुमनोहरे। नाल्पोदकेद्विजः स्नायान्नदीं चोत्सृज्यकृत्रिमे। वृद्धपराशरः—नस्नायाच्छुद्रहस्तेननैकहस्तेनवातथा। उद्धृताभिरपिस्नायादाहृता भिर्द्विजातिभिः। आपस्तंबः—सशिरोमज्जनमप्सुवर्जयेदस्तमितेचस्नानमिति। अशिरोमज्जनमितिपाठे मज्जनयोग्यजलेगात्रक्षालनंनकार्यमित्यर्थइतिहरिहरःव्यासः — नद्यांचास्तमिते सूर्येवर्जनीयंसदाबुधैः। नस्नानमाचरेद्भुक्त्वानातुरोनमहानिशि। नवासोभिःसहाजस्रंनाविज्ञातेजलाशये। अत्रास्तमितशब्देना द्ययामोनिषिद्धो महानिशाशब्देनमध्ययामः। आचारादर्शेतुअस्तमितपदेनसर्वरात्रिनिषेधः। महानिशा निषेधोदोषाधिक्यार्थइत्युक्तम्। नैमित्तिकंतुस्नानंरात्र्यादावपिकार्यम्

नैमित्तिकंतु कर्तव्यंस्नानंदानंचरात्रिष्वितिवचनात्। हेमाद्रौभविष्ये— नस्नायादुत्सवेऽतीतेमंगलंविनिवर्त्य च। अनुव्रज्यसुहृद्वबधूनर्चयित्वेष्टदेवताः। अत्रशीतलजलस्नानमेवनिषिद्धमितिशिष्टाः। सानमात्रमितितु युक्तम्। तत्रैव— मंगलेष्विष्यतेस्नानंवृद्धौपर्वोत्सवेषुच। स्नेहमंत्रसमायुक्तंमध्याह्नात्प्राग्विशेषतः। अयंपूर्वोक्तप्रतिप्रसवइति हेमाद्रिः। अपूर्वस्नानविधिरेवेतियुक्तंप्रतीमः।योगयाज्ञवल्क्यः—दर्श स्नानंनकुर्वीत मातापित्रोस्तुजीवतोः। स्नानंकुर्वन्निराचष्टेपित्रोरुन्नतिजीविते। मातापित्रोरितिसाहित्यं विवक्षितमिति पृथ्वीचंद्रः। दर्शेरागप्राप्तस्नानपरमितिपारिजातः। दर्शप्रयुक्तस्नानपरमितिटोडरानंदःयत्तुगर्गः—त्रयोदश्यां तृतीयायां दशम्यांचैवसर्वदा। शूद्रविट्क्षत्रियाः स्नानंनाचरेयुःकथंचनेति तन्नित्यनैमित्तिकान्यपरम्। यादृच्छिकंतुयत्स्नानंभोगार्थक्रियतेद्विजैः। तन्निषिद्धंदशम्यादौनित्यनैमित्तिके नत्वित्यापस्तंबोक्तेरितिमदनपारिजातः—अंभोवगाहनंस्नानंविहितंसार्ववर्णिकमितिवचनोक्त स्नान निषेधइतिकल्पतरुः। राग प्राप्तस्नाननिषेधोवैधनिषेधेविकल्पाद्यापत्तेरितिटोडरानंदःगर्गपैठीनसि वसिष्ठाः—पुत्रजन्मनिसंका्रांतौ श्राद्धेजन्मदिनेतथा। नित्यस्त्रानेच कर्तव्येतिथिदोषोनविद्यते। अपराकैब्राह्मे—स्रानंसंक्रमणंस्वप्नं दिग्वासानसमाचरेत्। व्यासः—नादशाकेनवस्त्रेणस्नायात्कौपीन कादृते। नान्यदीयेननार्द्रेणनसूच्या ग्रथितेनच। अत्रेतरकर्मवद्वस्त्रद्वयधारणंनियमितमिति कल्पतरुः। मेधातिथिस्तु— एकेनवाससास्नायाद्वा भ्यामनियमः स्मृतः। बहुभिःप्रतिषेधस्तुस्नानेफलमभी प्सितमित्याह। अपरार्कस्तु— अस्पृश्यस्पर्शने चैव वार्तायांपुत्रजन्मनि। तीर्थेद्विवास39सास्नानमन्य- त्रैकेनवाससेत्याह। वार्तामरणवार्ता। सदोषवीतिनाभाव्यं सदा बद्धशिखेनचेतिवाक्येनबद्धशिखित्व यज्ञोपवीतित्वयोः सर्वदाप्राप्तौ पुनः स्नानप्रकरणे बद्धशिखि यज्ञोपवीतीति कात्यायनोक्तिः शिखाभिन्नकेशबंधोत्तरीय निवृत्त्यर्थेतिहरिहरः। तन्न। अनेनैव सिद्धावेकवस्त्राः प्राचीनावीतिन

इतिकात्यायनोक्तिवैयर्थ्यापत्तेः। यत्त्वेतन्नैमित्तिकस्नानांतरेद्विवस्त्रताज्ञापकमितिनैतज्ज्ञापकायत्तंकिं तु वाचनिकं वांतरादनादावपषितथापत्तेः। मुक्तकेशैर्नकर्तव्यंप्रेतस्रानंविनाक्वचिदितिवृद्धवसिष्ठोक्तेश्च। अतएवाचारादर्शऽस्यानुवादत्वान्नोत्तरीयादिनिवृत्तिरित्युक्तम्। ब्रह्मदत्ताचार्योऽपिसवस्रोऽहरहराप्लुत्ये तिशांखायनसूत्रे सवस्त्रग्रहणंद्वितीयवस्त्रप्राप्त्यर्थमित्याह। हेमाद्रीशौनकः—तथाभ्युक्षणमाहर्तुंपा त्रमौर्दुवरंदृढम्। जपार्थमक्षमालांचरुद्राक्षादिविनिर्मिताम्। एवंसंभृतसंभारः स्नानकर्मसमाचरेत्। अभ्युक्षणं जलम्। औदुंबरंताम्रमयम्। याज्ञवल्क्यः—मृद्गोमयतिलान्दर्भान्पुष्पाणिसुरभीणिच। आहरेत्स्नान कालेतुस्नानार्थेप्रयतः शुचिः। इदंकातीयानांप्रातर्मध्याह्नयोः। आश्वलायनानांतु बह्वृचपरिशिष्टे—प्रातर्गोमयेनकुर्यान्मृदामध्यंदिनेशुद्धाभिरद्भिःसायमितिस्मृतिसारे–जलांतेतिलदर्भांस्तुयोऽनुष्ठानाय याचते। नानुष्ठानफलंतस्यदातुरेबहितत्फलम्। वामने—निषिच्यतीरेकुशषिंजुलानिपूर्वोत्तराग्राणि मृदंन्य सेच्च। प्रक्षाल्यपादौचमुखंचकंठेयज्ञोपबीतंचजलंपिबीत्रिः। यज्ञोपवीतंकंठेकृत्वात्रिः प्रक्षाल्ये त्यन्वयः। पादप्रक्षालनमलस्नानबहिःकार्ये। जलंदेवगृहंचैवशयनंचद्विजालयम्। निर्णिक्तपादः प्रविशेन्नानिर्णिक्तः कथंचनेतित्र्यासोक्तेः। मलस्नानंबहिः कृत्वाआचम्यप्राङ्मुखःस्थितः। प्राणायामांस्ततः कुर्यात्ततोध्यात्वा दिवाकरमिति चंद्रिकायांयमोक्तेश्चवामने—कराभ्यांधारयेद्दर्भानशिखाचंधंविधायच। प्राणायामंतथा कुर्यादितिव्यासः। स्मृत्वों कारंतुगायत्र्यानिबध्नीयाच्छिखांततः। षट्त्रिंशन्मते—शिखाबंधस्तुगायत्र्यानै र्ऋत्याब्रह्मरंभ्रतः। विष्णुः—संकल्पपूर्वकंस्नानं कुर्याद्विप्रःसमाहितः। मनुः—तिथिवारादिकंज्ञात्वा सुसंकल्प्ययथाविधि। स्नायादितिशेषः। व्यासः—स्रोतसोऽभिमुखः स्नायान्मार्जनंचाघमर्षणम्। अन्यत्रा र्कमुखोरात्रौप्राङ्मुखोऽग्निमुखोऽपिवा। संध्यामुखस्तुसंध्यायांतथाचाद्यंतयामयोः। स्रोतोभिमुखत्वंबह्बृच- परम्। स्रोतसोभिमुखःसरित्सुस्नायादन्यत्रादित्याभिमुखइतिबह्वृचपरिशिष्टात्। कातीयतैत्तिरीया दीनां सर्वत्रार्काभिमुखंस्नानम्। आचारदर्पणेप्येवम्। तेषामपि

रात्रौप्रवाहाभिमुखंस्नानंनद्यादानित्युपक्रम्य सूर्याभिमुखोमज्जेदितिसामान्येनकात्यायनोत्तेरिति हरिहरः। अघमर्षणादिसर्वेषांत्रोतोभिमुखम्। ततोंगुष्ठांगुलीभिस्तु श्रोत्रदृङ्नसिकामुखम्। पिधायांतःप्रतिस्रोत स्त्रिर्जपेदघमर्षणमितिव्यासस्मृतेःआश्वलायनः—गृहेगृहमुखंविद्यादन्यत्रापिमुखरवेः। एतद्ब ह्वृचपरम्। अन्येषांतुवृद्धयाज्ञवल्क्यः स्थावरे40षुगृहेचैव सूर्यसंमुखमाप्लवेत्। जीवत्पितृकनिर्णये—नामिमा त्रजलेगलाकृत्वाकेशान्द्विधाद्विजः। जीवत्पितानकुर्वीतदक्षिणेकेशसंचयम्। वृद्धपराशरः— निरुध्यकर्णौ नासांचत्रिः कृत्वोन्मञ्जनंततः। कृष्णभटीयेविश्वामित्रः— नाभिमात्रेजले तिष्ठन्सप्तद्वादशपंचवा। त्रिवारं वापिचाप्लुत्यस्नानमेवंविधीयते। हेमाद्रीसंग्रहे—गंगांगयांकुरुक्षेत्रंप्रयागोदधिसंगमम्। तीर्थान्येतानि संस्मृत्य ततोमज्जेज्जलाशये। तत्रैवव्यासः— कुरुक्षेत्रंगयांगंगांप्रभासंनैमिषंतथा। तीर्थान्येतानिसर्वाणिस्नानकाले भवंतुमे। तत्रैवगंगावाक्यम्—नंदिनीनलिनीसीतामालतीचमलापहा। विष्णुपादाब्जसंभूतागंगात्रिपथ गामिनी। भागीरथीभोगवतीजाह्नवीत्रिदशेश्वरी। द्वादशैतानि नामानियत्रयत्रजलाशये। स्नानोद्यतः41स्मरेन्नित्यं तस्यतत्रभवाम्यहम्।तीर्थस्मृतिकृत्रिमे। ननदीपुनदींब्रूयात्पर्वतेषुनपर्वतम्। नान्यांप्रशंसेत्तत्रस्थस्तीर्थे ष्वायतनेषुचेतिचंद्रोद्येदेवलोक्तेः। गंगादिपुण्यतीर्थानिकृत्रिमादिधु संस्मरेदितिपराशरोक्तेश्चगयादिस्मृतिः संनिहिततीर्थाभावे। गंगायास्तु सर्वत्र। यत्रस्थानेतुयत्तीर्थंनदी पुण्यतमाचया। तांध्यायन्मनसास्नायादन्य त्रेष्टविचितनमितिहेमाद्रौभृगुक्तेः। अन्यत्रउद्धृतजलेइतिटोडरानंदः। स्नानकालेन्यतीर्थेषु जप्यते जाह्नवी जनैः। विनाविष्णुपदींकान्यत्समर्थाह्यपशोधन इतिनिर्णयामृतेस्कांदाच्चप्रतापमार्तंडेप्येवम्॥॥

अथपरिशिष्टोक्तः स्नानविधिः। गोमयंत्वंतरिक्षस्थंसंगृह्य भूमिष्ठंचोपर्यधश्चसंत्यज्यधौतपादपाणिमुख- आचम्यसंध्योक्तवदात्माभ्यु

क्षणादिकृत्वा द्विराचम्यसंयतप्राणः कर्मसंकल्प्य गोमयंवीक्षितमादाय सव्येपाणौकृत्वा व्याहृतिभि स्त्रिधाविभज्य दक्षिणंभागंप्रणवेनदिक्षुविक्षिप्योत्तरंतीर्थेक्षिप्त्वा मध्यमंमानस्तोकइत्यृचाभिमंत्र्य गंधद्वारा मित्यृचामूर्धादिसर्वांगमालिप्यप्रांजलिर्वरुणमवतेहेलइतिद्वाभ्यां प्रसंम्राजेवृहदर्चेति सूक्तेन हिरण्यशृंगं वरुणंप्रपद्येतीर्थंमेदेहियाचतः। यन्मयाभुक्तमसाधूनांपापेभ्यश्चप्रतिग्रहः। यन्मेमनसावाचाकर्मणावा दुष्कृतंकृतम्। तन्नइंद्रोवरुणोवृहस्पतिः सविता च पुनं तुपुनःपुनरितिद्वाभ्यांचप्रार्थ्यं। याः प्रवतइति तीर्थमभिमृश्यावगाह्यस्नातोद्विराचम्य मार्जयेदंवयोयंत्यध्वभिरित्यष्टाभिरापोहिष्ठेतिनवभिरथतीर्थमंगुष्ठेने मं मेगंगइति त्रिःप्रदक्षिणमालोड्यप्रकाशपृष्ठमग्नोऽघमर्षणंत्रिरावर्त्यनिमज्ज्योन्मज्ज्यादित्यमालोक्य द्वादश कृत्वआप्लुत्यशंखमुद्रयायोनिमुद्रयोदकमादाय मूर्ध्निमुखेबाह्नोरुरसिचात्मानं गायत्र्याभिषिच्यत्वंनोअग्ने वरुणस्येतिद्वाभ्यां तरत्समंदीधावतीतिसूक्तेन पुनः स्रायान्मूर्ध्निचाभिषिंचेत्तद्विष्णोरक्षाणोअग्नेय त्किंचेदमित्येताजपेत्। साक्षताभिरद्भिः प्राङ्मुखउपवीतीदेवतीर्थेनव्याहृतिभिर्व्यस्तसमस्ताभिर्ब्रह्मादि देवान्सकृत्सकृत्तर्पयित्वोदङ्मुखोनिवीती सयवाभिरद्भिः प्राजापत्येनतीर्थेनऋषीन्व्याहृतिभिर्द्विद्वि स्तर्पयित्वा दक्षिणामुखः प्राचीनावीती पितृतीर्थे नसतिलाभिरद्भिर्व्याहृतिभिर्भूरित्यादित्रिस्त्रिस्तर्पयेद थतीरमेत्यदक्षिणामुखः प्राचीनावीतीयेकेचास्मदितिवस्त्रंनिष्पीड्योपवीत्यपउपस्पृश्य परिधानीयम- भ्युक्ष्यपरिधाय द्वितीयंप्रोक्षितंप्रावृत्याचामेदथसंध्यामुपासीतेति॥॥ शंखमुद्रालक्षणमागमे —वामांगुष्ठंतु संगृह्यदक्षिणेनतुमुष्टिना। कृत्वोत्तानंततोमुष्टिमंगुष्ठंतुप्रसारयेत्। वामांगुल्यस्तथाश्लिष्टाः संयुक्ताः सुप्रसारिताः।दक्षिणांगुष्ठसंस्पृष्टाःशंखमुद्रेयमीरिता। **योनिमुद्रापितत्रैव—**मिथःकनिष्ठिकेबध्वातर्जनी- भ्यामनामिके। अनामिकोर्ध्वसंश्लिष्टेदीर्घमध्यमयोरधः। अंगुष्ठाग्रद्वयंन्यस्येद्योनिमुद्रेयमीरिता। अयंप्रातः स्त्रानविधिबह्वृचानाम्। कातीयानांतुमध्याह्नस्त्रानविधिरेव॥॥ प्रातः स्नानेयोगयाज्ञवल्क्यः— यएपविस्तरेणोक्तः स्त्रानस्यविधिरुत्तमः। असामर्थ्यान्नकुर्याच्चेत्तत्रायंविधिरुच्यते। स्नानमंतर्जले चैवमार्जनाचमनेतथा। जलाभिमंत्रणंचैवतीर्थस्यपरिकल्पनम्।

अघमर्षणसूक्तेनत्रिरावृत्तेननित्यशः। स्नानाचरणमित्येतदुपदिष्टंमहात्मभिः। अन्यांश्चवारुणान्मंत्रान्कामतः संप्रयोजयेत्। अयंचांगसंकोचोमध्याह्नस्रानेपि। मार्कंडेये—मातरंपितरंजायांभ्रातरंसुहृदंगुरुम्। यमुद्दिश्य निमज्जेतअष्टमांशलभेतसः। चंद्रिकायांबृहद्वसिष्ठोक्तौतु—निमज्जयेत्तुयमुद्दिश्यद्वादशांशं लभेत स इत्युक्तम्। पैठीनसिः —प्रतिकृतिंकुशमयींतीर्थवारिणिमज्जयेत्। कुशोसिकुशपुत्रोसिब्रह्मणा निर्मितः पुरा। त्वयिस्नातेपिसस्नातोयस्येदंग्रंथिबंधनम्। अत्रपूर्ववाक्येनिमज्जेतेतिश्रुतेर्मञ्जनरूपंस्नानं जीवत्प्रतिनिधित्वेन स्नाने। प्रतिकृतिमञ्जनंतुमृत प्रतिनिधित्वेन स्नाने इतिप्रयोगपारिजातः। स्नानोत्तरंतदंगतर्पणं कुर्यात्। स्नानादनंतरंतावत्तर्पयेत्पितृदेवताः। उत्तीर्यपीडयेद्वस्त्रंसंध्याकर्मततःपरमिति चतुर्विंशतिमतात्। स्नानेषु चैवसर्वेषुतर्पयेत्पितृदेवताः। काम्येनित्येविशेषेणतत्प्रकुर्यात्प्रयत्नतइतिचंद्रिकायांव्याघ्रोक्तेश्चचंद्रोदये ब्रह्मांडे—नित्यंनैमित्तिकंकाम्यंत्रिविधंस्नानमुच्यते। तर्पणंतुभवेत्तस्यतदंगत्वेनकीर्तितम्। अस्पृश्यस्पर्शा दिनिमित्तस्नानेतु—अस्पृश्यस्पर्शनेवांतेअश्रुपातेक्षुरेभगे। स्नानंनैमित्तिकंज्ञेयं दैवपित्र्यविवर्जित मितिपराशरोक्तेर्नतर्पणमित्युक्तंगयादासनिबंधेआचारचिंतामणौचवाचस्पतिमिश्रैः। स्नानांगतर्पणं42 विद्वान्कदाचिन्नैवहापयेदितिहेमाद्रौब्रह्मवैवर्ताच्च आशौचेपितद्भवति। स्मृत्यर्थसारेप्येवम्। **माधवीयेयमः—द्वौहस्तौयुग्मतः कृत्वापूरयेदुदकांजलिम्। गोशृंगमात्रमुद्धृत्य जलमध्येजलंक्षिपेत्। चंद्रोदयेदक्षः— प्रादेशमात्रमुद्धृत्य सलिलंप्राङ्मुखःसुरान्। उदङ्मनुष्यांस्तर्पेतपितॄन्दक्षिणतस्तथा। बौधायनः — अनुत्तीर्य मपउपसिंचतीत्यनुतीर्यैवेदम्। तत्प्रकारःपृथ्वीचंद्रोदये—**भूर्देवांस्तर्पयामि। भुवर्देवांस्तर्पयामि। स्वर्देवांस्त र्पयामि। भूर्भुवः स्वर्देवांस्तर्पयामि। एवंऋ

ष्यादीन्। अथवाभूर्देवगणंतर्पयामि। भुवर्ऋपिगणंतर्पयामि।स्वर्मनुष्यगणंतर्पयामि। भूर्भुवःस्वःपितृगणं तर्पयामि। कृष्णभट्टीये— उपवीतीब्रह्मादयोयेदेवास्तान्देवांस्तर्पयापि। भूर्देवानित्यादि। निवीतीकृष्ण द्वैपायनादयोयऋषयस्तानृषींस्तर्पयामि भूर्ऋषीनित्यादि। प्राचीनावीतीसोमः पितृमान्यमोंगिरस्वान ग्निष्वात्ताः कव्यवाहनादयोयेपितरस्तान्पितॄंस्तर्पयामि भूःपितृृनित्यादि। सनकादयोयेमनुष्यास्तान्मनुष्यां स्तर्पयामि भूर्मनुष्यानित्युक्तंजयंतवृत्तौस्मृत्यर्थसारेचैवम्। अत्रदेवपितृृणामेवेज्यत्वात्सांगस्यचा नुष्ठेयत्वाञ्जी वत्पितृकस्याप्यधिकारः। प्राचीनावीति त्वंत्वंप्रकोष्ठादित्युक्तंजीवत्पितृकनिर्णयेगुरुभिः॥॥ संक्षेपातिशय माहशंखः—आब्रह्मस्तंबपपर्यंतं जगत्तृप्यत्वितिक्रमात्। जलांजलित्रयंदद्यादेतत्संक्षेप तर्पणम्। आचारदर्पणेस्मृतिः —प्रातःस्नानेन कर्तव्यंकदाचित्तिलतर्पणम्। इदंचनैमित्तिकविषयमिति तत्रैवोक्तम्। अन्ये तु प्रातःस्नानांगभूतेतर्पणे सर्वदातिल निषेधः। प्रातःस्नाने विशेषोयंतद्विनैबतिलैर्युतम्। नैमित्तिकंच नित्यंचतिलैरेवविधीयते इतिस्मृतिरत्नावल्यां कौशिकोक्तेरित्याहुः॥॥ अत्र विशेषोहेमाद्रौपाद्मे—प्राचीना वीतसंयुक्तःकुशपाणिस्तिलैःसह। असंस्कृतप्रमीतानास्थलेदद्याज्जलां जलिम्। प्रेक्षमाणोदिशंयाम्यांमंत्रे णानेनयत्नतः। असंस्कृतप्रमीतायेगोव्रजादुर्गतिंगताः। तेषांहिदत्तमक्ष य्यमिदमस्तुतिलोदकम्। तत्रैवव्यामः—अनग्निदग्धायेजीवायेप्यदग्धाःकुलेमम। भूमौदत्तेनतोयेन तृप्तायांतुपरांगतिमिति। इदंजल स्थेनैवकार्यम्। जलार्द्रवासाः स्थलगोयः प्रदद्याज्जलांजलिम्। वस्त्रनिश्चोतनंप्रेताअपवार्यपिबंतितेइति सुमंतूक्तेः। अपवार्यांजलित्यक्त्वेतिहेमाद्रिः। **शौनकः—**स्नानांगं तर्पणं कृत्वा यक्ष्मणेजलमाहरेत्। अन्यथाकुरुते यस्तुस्नानंतस्याफलंभवेत्। **तत्रमंत्रः—**यन्मया दूषितंतोयंशारीर43मलसंभवैः। तद्दोषपरिहारार्थंयक्ष्माणंत र्पयाम्यहम्।आश्वलायनः—येकेचास्मत्कुल इतिवस्त्रनिष्पीडनंस्थले। **वृद्धमनुः—**निष्पीड्यस्नानवस्त्रंतु पश्चात्संध्यांसमाचरेत्। अन्यथाकुरु

तेयस्तुस्नानंतस्याफलंभवेत्। सायणीये—मनुष्यतर्पणेचैवस्नानवस्त्रनिपीडने।निवीतीतु भवेद्विप्रस्तथामूत्र पुरीषयोः। आशार्केतु — वस्त्रानिष्पीडनंचैवकुशानांच44विसर्जनम्45। अपसव्येन कर्तव्यं हस्तप्रक्षालनं तथेत्युक्तम्। अतोविकल्पः। बह्वृचानांतुप्राचीनावीती। **बह्वृचपरिशिष्टे—प्राचीनावीतीवस्त्रं निष्पीडयेदित्युक्तेः। इदंचजीवत्पितृकोनकुर्यात्। नजीवत्पितृकः कुर्याद्वस्त्रनिष्पीडनंबुधइतिजीवत्पितृक निर्णयेपुराणात्। यत्तुपराशरः—**निराशाः पितरोयांतिवस्त्र निष्पीडनेकृते। तस्मान्नपीडयेद्वस्त्रमकृत्वा पितृतर्पणमिति तद्रागप्राप्तवस्त्रनिष्पीडनपरम् अतएव मध्याह्नस्राने हेमाद्रौब्रह्मांडे—ततः स्नात्वाविधानेन संतर्प्यपितृदेवताः। जलाशयाद्विनिर्गत्यद्विराचामेत्समाहितः। स्नानवस्त्रमनिष्पीड्यस्थाप्यमास्थलतर्पणात्। स्थलेपितर्पणंकृत्वा ततोवस्त्रनिपीडयेत्। एवंवस्त्रं निष्पीड्यैकंपादंजलेऽन्यंस्थलेकृत्वाआचामेत्। उदकेचोदकस्थस्तु स्थलस्थस्तुस्थलेशुचिः। स्नात्वाचामेत्तदाविप्रः पादौकृत्वास्थले जलेइतिदक्षोक्तेः॥॥ तर्पणोत्तरंदर्भत्यागउक्तःस्मृतिरत्नावल्याम्—विकिरेपिंडदानेचतर्पणेश्राद्धकर्मणि। आचांत स्तुप्रकुर्वीत दर्भसंत्यजनंबुधः। दर्भत्यागेप्राचीनावीतित्वमुक्तंप्राक्॥॥ नदीस्नानेतत्प्रार्थनोक्तकौर्में — ज्ञानतोज्ञानतो वापियन्मेदुश्चरितंकृतम्। तत्क्षमस्वखिलंदेविजगन्मातर्नमोस्तुते। स्नानाकरणेप्रायश्चित्तमुक्तंसग्विधाने—त्रिष्व (श्च) प्रसुवसूक्तं चस्नानलोपो भवेद्यदि। स्मृतिरत्नावल्यांतु— स्नानलोपेगायत्र्यष्टसहस्रजपउक्तः। स्नानमकृत्वाभोजने उपवासंत्रिरात्रं कुर्यादितिस्मृत्यर्थसारे॥ इतिश्रीमन्नारायणभट्टा०लक्ष्मणभट्टकृतावाचार रत्नेप्रातःस्नानम्॥॥

अथस्नानोत्तरकृत्यम्।हारीतः —स्नात्वागात्रमवमृज्यान्नशिरोविधुनुयान्नोत्तरीयविपर्यासंकुर्यादिति। त्रिकांडमंडनः—दीपं शूर्पंतथाशय्यांपादत्राणंचमार्जनीम्। स्नानांतेसंस्पृशेद्यस्तुपुनःस्नानेनशुद्ध्यति। विष्णुः— नतैलवसे स्पृशेन्न पूर्वधृतमक्षालितंवासोबिभृयत्

यातएवसोष्णीषेधौतवाससीबिभृयात् म्लेच्छांत्यजपतितैर्नसंभाषेतइति। उष्णीपंकेशजलापकर्षणार्थंवस्त्र मितिपृथ्वीचंद्रः। अतएव हारीतोक्तौगात्रग्रहणम्। केचित्तुसोष्णीपवासोधारणानुवादेन धौतत्वविधानात्कर्म कालंविनास्नानोत्तरमपिधौतप्रसिद्धोष्णीपधारणम्। वृद्धपराशरेण— यच्चश्मश्रुषुकेशेषु यज्जलंदेहलोमसु। हस्ताभ्यांतन्नवस्त्रेणजलं विद्वान्विमार्जयेदिति शिरोमार्जनवस्त्र निषेधादित्याहुः। वस्तुतस्तु—मार्जये दूमशेषेणनोत्तरीयेणचाशिरइतिव्यासवचनैकवाक्यतयास्नानवस्त्रद्वयसैवनिषेधः। अतएवस्नातोनांगानिमृ ज्याच्चस्नानशाट्यानपाणिने निविष्णुपुराणात्। मार्जननिषेधएतत्परइति पारिजातस्मृत्यर्थसाराचारा दर्शाः। नांगेभ्यस्तोयमुद्धरेदितिवस्त्रनिषेधेसिद्धेस्नानशाटीनिषेधादोषाधिवाक्यार्थ इतिटोडरानंदः। समर्थ स्यमार्जनाभावोऽसमर्थस्यपाणिशाटीमार्जनाभावइतिहरिहरः। चंद्रोदयेसंग्रहे—स्नात्वा दुरंतटेतिष्ठेत्प्राची नावितिनाद्विजः। यावत्स्रवतिदेहांवुतूष्णींभूतादितृप्तये। सुरा विंदुसमाज्ञेयाः पृष्ठतः केशविंदवः। तएवपुरतो ज्ञेयाः सर्वतीर्थोपमाबुधैः। तिस्रःकोट्योर्धकोटीचयानिरो माणिमानवे। स्रवंतिसर्वतीर्थानितस्मान्नपरि मार्जयेत्। देवलः—देवाःपिबंतिशिरसोमुखसाप्सरमस्तथा। वक्षसोषिच गंधर्वा अधस्तात्सर्वजंतवः। अंगानि शक्तौवस्त्रेणपाणिनाचनमार्जयेत्। धौतांवरेणवाप्रोंच्छ्यबिभृयाच्छुष्कवाससी। अमार्जनपक्षेगोदोहनकाल पर्यतंतथैवतिष्ठेदित्याचारदर्पणःहेमाद्रौभरदाजः— वस्त्रोदकमपेक्षतेये मृतादासवर्गिणः। कंचित्कालं स्थितस्तस्माज्जलंभूमौ निपातयेत्। तदुत्तरमपिमार्जनं कार्यशक्तेन। आर्द्रएव तु वासांसि स्नात्वा सेवेतमान वइतिविष्णूक्तेः। **कृष्णभट्टीयेस्कांदे—**ततस्ताचमनं कृत्वा प्रोक्षितं वस्त्रमावहेत्। योगगाज्ञवल्क्यः— स्नात्वैवंवाससीधौतेअक्लिन्ने परिधायच। प्रक्षाल्यो रूमृदाद्भिश्चहस्तौ प्रक्षालवेत्तया। **जाबालिः—**स्नात्वा निवस्यसनजं शोध्येमृदंभसा। अपवित्रीकृते तेहिकौपीनस्नानवारिणा। कौपीनपदोपादानाद्यति परमिदमितिकेचित्। प्रयोगपारिजातेभरद्वाजः—शुचीवोहव्यामरुत इत्युक्त्वा शुद्धमंवरम्। संप्रोक्ष्यदेवस्य त्वेतिव्याहृत्यादायभास्करम्।

त्यंजातवेदसमित्युक्त्वालोकयेत्ततः। आवहंतीत्युदाहृत्यपरिधायद्विराचमेत्। भृगुः— ब्राह्मणस्य सितंवत्रं नृपस्परक्तमुल्बणम्। पीतंवैश्यस्य शूद्रस्यनीलंमलवदिष्यते। उल्बणंरक्तम्। मलवत्कृष्णमिति पृथ्वीचंद्रः। **यत्तुनारसिंहे—**नरक्तमुल्बणंवासोननीलंचप्रशस्यतेमलाक्तंचदशाहीनं वर्जयेदंवरंबुधइतिरक्तनीलवस्त्रयो र्निषेधः सपूर्ववाक्यात्क्षत्रियशूद्रभिन्नविषयः। व्यासः—नाग्निदीप्तेननार्द्रेणनसूच्याग्रथितेनच। कौपीनंशठितं भिन्नंमलिनं केशदूषितम्। छिन्नाग्रंचोपवस्त्रंचकुत्सितंधर्मतोविदुः। भारते —वस्त्रं नान्यावृतंग्राह्यं न चातिविकृतंतथा। योगयाज्ञवल्क्यः —दग्धंजीर्णंचमलिनंमूषकोपहतं तथा। खादितंगो महिष्याद्यैस्तत्याज्यं सर्वथाद्विजैः। **प्रयोगपारिजातेसंग्रहे—**स्नानं46कृत्वार्द्रवत्रंतुऊर्ध्वमुत्तारयेद्बुधः। आर्द्रवस्त्रमधस्ताच्चेत्पुनः स्नानेनशुद्ध्यति। तत्रैवोशना स्नात्वानुपहतं वस्त्रं परिदध्याद्यथाविधि। अभावे पूर्ववसंवा संप्रोक्ष्यप्रणवेनतु। अनुपहतंअपरिहितम्। **जाबालिः—**नार्द्रमेकं च वसनं परिदध्यात्कथंचन। **स्मृतिरत्नावल्यांअंगिराः—**आर्द्रवासास्तुयत्कुर्याञ्जपहोमव्रतादिकम्। सर्वतद्राक्षसंविद्याद्बहिर्जीनुचयत्कृतम्। सप्तवाताहतं वस्त्रंशुष्क वत्प्रतिपादितम्। आर्द्रंवापिद्विजातीनामादृतंगौतमादिभिः। **कृष्णभट्टीये—**ईषद्धौतंस्त्रियाधौतंशूद्रधौतं तथैवच। अधौतंतच्चविज्ञेयं शुष्कंदक्षिणपल्लवैः। **देवलः—**स्वयंधौतेनकर्तव्याः कियाधर्म्यविपश्चिता। नतुनेजकधौतेननाहतेनाचकुत्रचित्। नाहतेनेत्येकंपदम्। स्वयंग्रहणादेदमेजकलिवृत्तेस्तन्निपेधोऽन्देगापिपनिवृत्तेब्राह्मणादिनाधौतेनक्रियाकार्येत्येतदर्थम्। **अहतलक्षणमाहपुलस्त्यः—**ईषद्धौतंनवंश्वेतंसदशंयन्नधारितम्। अहतंतद्विजानीयात्सर्वकर्म सुपावनम्। ब्राह्मे—अच्छिन्नाग्रंचयद्वस्त्रंमृदाप्रक्षालितंचयत्। अहतंधातुरक्तं वात्तत्पवित्रमितिस्थितिः। माधवीयेप्रजापतिः — क्षौमं

वासःप्रशंसंतितर्पणेसदशंतथा। काषायंधातुरक्तंवानोल्बणंतत्तुकर्हिचित्। भृगुः —दिवाकीर्तिकृतंवासः सर्वदापरिवर्जयेत्। **काशीखंडे—**नीलीरक्तंतुयद्वस्त्रंदूरतस्तद्विवर्जयेत्। स्त्रीणांक्रीडार्थसंयोगशय नीयेनदुष्यति। अंगिराः— मृतेभर्तरियानारीनीलीवस्त्रंप्रधारयेत्। भर्तातुनरकंयातिसानारीतदनंतरम्।चंद्रोदयेस्कांदे —स्नानंदानंजपोहोमः स्वाध्यायः पितृतर्पणम्। वृथातस्यमहायज्ञानीलीवासोविभर्तियः। **टोडरानंदेभविष्ये—**नीलीरक्तंयदावस्त्रं विप्रस्त्वंगेषुधारयेत्। अहोरात्रोषितोभूत्वापंचगव्येनशुद्ध्यति। मिताक्षरायांमार्कडेयः—रोमकूपैर्यदागच्छेद्रजोनील्यास्तुकस्यचित्। त्रिवर्णेषुचसामान्यात्तप्तकृच्छ्रं विशोधनम्। नीलीदोपःकार्पासेएव। ऊर्णयांपट्टवस्त्रेवानीलीरागोनदुष्यतीतितत्रैवोक्तेः। नारायणदास निबंधेभृगुः—स्त्रीधृताशयनेनीलीब्राह्मणस्यनदुष्यति। नृपस्यवृद्धौवैश्यस्यपर्वण्येवविधारणमिति। शाता तपः—प्रागग्रमुदगग्रंवाधौतंवस्त्रं प्रसारयेत्। पश्चिमाग्रंदक्षिणाग्रंपुनःप्रक्षालनाच्छुचि। योगयाज्ञवल्क्यः —अभावेधौतवस्त्रस्य शाणक्षौमाजिनानिच। कुतपंयोगपट्टंवाद्विवासायेनवाभवेत्। क्षौममतसीसूत्र कृतम्। कुतपोनेपालकंबलः। धौतेतिविशेपणपदाच्छाणादीनिप्रक्षालितान्यपिगृह्वीयात्। द्विवासेतिपदोषादानाच्चो त्तरीयत्वेनैवशाणादीनांग्रहणं नतुपरिधानीयत्वेनेत्युक्तमपरार्केअन्येतु—परिधेयंसदावासःकार्पासं सदशंसितम्। क्षौमंवाकुतपंवापिनकौशेयंकदाचनेतिजातूकण्यक्तेःक्षौमाजिनयोः परिधानीयत्वमप्याहुः।**यत्तुश्राद्धहेमाद्रौबौधायनः—**क्षौमाणिवासांसितेषामलाभेकार्पा सिकान्यौर्णकानि भवंतीति तच्छ्राद्धेदेय वस्त्रपरम्। स्मृत्यर्थसारे —केशनिर्मितवस्त्रधरणे उपवासइति। व्यासः—नोत्तरीयमधःकुर्यान्नोर्ध्वं नाधस्तनांवरम्। नांतर्वासोविधायान्यद्वसीतवसनंबुधः॥॥ उत्तरीयमाहजातूकर्ण्यः— सग्रंथिपरिमंडल मुत्तरीयंकुर्याद्वस्त्रोत्तरीयात्वे कांगुलंद्व्यंगुलंत्र्यंगुलंचतुरंगुलंवासूत्रैरेवकृतं परिमंडलमुत्तरीयंकुर्यादिति। अंतर्वासउक्तंप्रयोगपारिजातेसंग्रहे —षोडशद्वादशाष्टाभिरंगुलैर्विस्तृतंचयत्। आयतंव्याममात्रंचतदंत- र्वासईरितम्। उत्तरीयांतर्वाससोरभेदइति

केचित्। भेदइत्यन्ये। उत्तरीयार्थेयज्ञोपवीतं47वेत्युक्तम्। परिहितवस्त्रस्यचोर्ध्वभागमुत्तरीयंकुर्यात्। एकंचे- त्तस्योत्तरवर्गेणप्रच्छादयीतेतिपारस्करोक्तेः। उत्तरीयंचपुरोदेशावस्थितदशंनधारयेत्। प्रागग्रंचोत्तरीयंतु कर्मकालेनधारयेदितिपृथ्वीचंद्रोक्तेः। उत्तरीयस्थानीयंतृतीयोपवीतंजीवत्पितृकोनधारयेत्।—उत्तरीयं योगपट्टंतर्जन्यांरजतंतथा। नजीवत्पितृवैर्धार्यज्येष्ठोवाविद्यतेयदीतिचंद्रोदयेसंग्रहात्। उत्तरीयंचनो परिवासोमात्रं किंतुसग्रंथिपरिमंडलमित्यादिजातूकण्यक्तं। उक्तपरिवास48स्तुतस्यापिभवत्येव।— एकवस्त्रोनभुंजीयान्नकुर्याद्देवतार्चनम्। नचार्चयेद्द्विजान्नान्यत्कुर्यादेवंविधोनरइतिगोभिलेननिषेधात्। नन्वेकवस्त्रइत्यस्यसामान्यरूपत्वाज्जीवत्पितृकस्यसर्वोत्तरीयवाधइतिचेत्। न। उत्तरीयशब्दस्ययौगिक त्वेपिजातूकर्ण्यक्तोत्तरीयेरूढेरिति पितृचरणाः। **वर्धमानपरिभाषायांशातातपः—**सव्यादं सात्परिभ्रष्टंकटिदेशधृतांबरम्। एकवस्त्रंविजानीयाद्दैवेपित्र्येचकर्मणि। बौधायनः —अकच्छः पुच्छक च्छोवाविकच्छः49कटिवेष्टितः। यावदास्तेद्विजस्तावच्छूद्रएवनसंशयः। पुच्छकच्छःपुच्छाकारकच्छः। सचाग्रद्वयस्यमेलनेनैकस्यैवाग्रस्यकच्छत्वेनभवतीतिद्वयमपिनिषिद्धम्। अत्रद्विजस्योद्देश्य त्वावच्छेदकत्वे सर्वस्यापितत्त्वापत्तेः। अकच्छत्वादिविशिष्टस्यतत्त्वेवैपरीत्येवागारवैम्। अतोऽकच्छत्वादेवोद्देश्यत्वा त्स्त्रीशूद्रादेरपिकच्छआवश्यकः। नचद्विजपदश्रुतेः शूद्रस्यशूद्रतुल्यत्वानुपपत्तेः कच्छइतियुक्तम्। द्विज त्वस्याविवक्षितत्वात्। तद्ग्रहणंतुकैमुतिकन्यायार्थम्। अत एवशूद्रपदं अकच्छस्यनग्नत्वोक्तिश्च। श्राद्धहेमाद्रौ —नग्नःस्यान्मलवद्वासानग्नः कौशेयकेवलः। नग्नोद्विगुणवस्त्रः स्यान्नग्नोदग्धपटस्तथा। नग्नश्चस्यूतवासाःस्यान्नग्नःकौपीनकेवलः। नग्नःकाषायवस्त्रःस्यान्नग्नश्चार्धपटावृतः। विकच्छोऽनुत्तरीयश्चद्वि कच्छोऽवस्त्रएवच। अधौतवस्त्रोमलवद्वस्त्रः रजकादिधौतवस्त्रोवा। एकस्यपटस्यार्धंप्रावृण्वानोऽर्ध- पटावृतः खंडपटंवसानोवा। परिहितवस्त्रोपरितदुत्तरार्धेनवस्त्रांतरेणवाकटिबंधनं

द्वितीयकच्छः। अत्रमलवन्निषेधः समर्थपरः। नजीर्णमलवद्वासाभवेच्चविभवेसतीतियाज्ञवल्क्योक्तेः। वस्तुतस्तुनग्नःस्यान्मलवद्वासाइत्यादौनिषेधश्रुतेः ननग्नः कर्म कुर्वीतेत्यनेनैकवाक्यत्वाच्चानग्ननग्नत्वोक्तेः कर्मकालपरत्वादस्य पुरुषार्थत्वाद्भिन्नवाक्यमेव युक्तमितिहेमाद्रिः। कौशेय केवलस्य नग्नत्वोक्तेः वासःसहित कौशेयत्वेननग्नत्वम्। भृगुः—नग्नोमलिनवस्त्रः स्यान्नग्नश्चार्द्रपटावृतः। नग्नोरक्तपटस्तथेति चंद्रिकायांद्वितीयपादेपाठः। सर्वकर्मस्वासुरकच्छा निषेधमाहयाज्ञवल्क्यः—जपे होमेतथा दानेदैवे पित्र्ये च कर्मणि। बध्नीयान्नासुरीकच्छांशेषेकर्मणिवेच्छया। तल्लक्षणमाहसएव—परिधानाद्बहिः कच्छानिवद्भा- ह्मासुरीमता। बहिः कच्छातुसंवृतपरिधानवस्त्रांत इतिबर्धमानःस्मृत्यंतरे —संयोजित दशंवापिह्यर्थच्छिन्नदशंतथा। नित्येनैमित्तिकेवापिप्रयत्नेन विवर्जयेत्। अकृत्रिमदशं वस्त्रं प्रशस्तं सर्वकर्मसु। कृष्णभट्टीयेयोगयाज्ञबल्क्यः— जानुमूलंतुवस्रंस्यात्त्रि कच्छंधारयेद्बुधः। मनुः— नाभौचवामकुक्षौ च पृष्ठे चैव यथाक्रमम्। वस्त्रप्रावरणंयत्स्यात्तत्त्रिकच्छमुदाहृतम्। भारते—अन्यदेवभवेद्वासःशयनीयेनराधिप। अन्यद्रथ्यासुदेवानामचयामन्यदेवहि। अन्यच्चलोकयात्रायामन्य दीश्वरदर्शने। **सुमंतुः—**अन्यत्स्नानेतथापाने50 भोजनेचान्यदेवहि। इति श्रीमन्नारायणभट्टा०लक्ष्मणभट्ट कृतावाचाररत्नेस्नानोत्तरकृत्यम्॥

अधतिलकविचारः। विष्णुस्मृतौबृहन्नारदीयेच—यागोदानंजपोहोमः स्वाध्यायः पितृतर्पणम्। भस्मीभवतितत्सर्वमूर्ध्वपुंड्रंविनाकृतम्। पाद्मकार्तिकमाहात्म्येप्येवम्। इदंयागादिसर्वकर्मोपलक्षणार्थेन परिसंख्यार्थम्। उत्तरार्धेसर्वपदश्रुतेः। अपविव्रेणयञ्जप्तमस्नातेनचयद्भुतम्। यच्चशून्यललाटेनतदत्यल्प फलं भवेदित्याश्वलायनोक्तेः। यद्यपिसत्यंशौचमित्यादित्रिपुंड्रेपिवाक्यंतथापितत्क्षत्रियादिपरम्। ऊर्ध्व पुंड्रंद्विजः कुर्यात्क्षत्रियस्तुत्रिपुंड्रकमितिमाधवीयेविष्णुधर्मोत्तरात्माधवचंद्रिकास्मृत्यर्थसारादि भिस्त्रिपुंड्रालिख

नाच्च। काशीखंडेसप्तर्षिवर्णने—ऊर्ध्वपुंड्रांकितालिकाइत्युक्तेश्च। नचकालाग्निरुद्रोपनिपद्युक्तत्वा द्बलवत्रिपुंड्रत्वम्। श्रुतौहिभस्मधारणमात्रमाम्नातंनतु पुंड्रत्वेनकर्मागत्वेनवा। तच्चस्नानत्वनाप्युपपन्नम्। यद्यपिकर्मागंतथापिशैवकर्मपरम्। —विनाभस्मत्रिपुंड्रेणविनारु द्राक्षमालया। पूजितोपिमहादेवो नस्यात्तस्यफलप्रदइति तिथितत्वेर्लैगात्। सितेनभस्मनातिर्यत्रिपुंड्रस्यतुधारणम्। शैवागमेषु निष्ठानां तत्तन्मत्रेण शस्यते इति स्मृतिरत्नावल्यांवचनाच्च। साग्निकपरंवातत्। —स्नात्वापुंड्रंमृदाकुर्याद्धुत्वाचैव तुभस्मनेत्याश्वलायनोक्तेः। तयोरप्यूर्ध्वपुंड्रोपर्येवकुर्यात्। तयोराहितानाहितानाग्न्योः। ऊर्ध्वपुंड्रंविना मोहाद्यदिकुर्यात्त्रिपुंड्रकम्। नतस्यफलमाप्नोतिदानस्याश्रोत्रियेयथेतिस्मृतिरत्नावल्यांवचनात्। यत्तुपाद्म कार्तिकमाहात्म्ये— ऊर्ध्वपुंड्रेत्रिपुंड्रंयःकरोतिसनराधमः। मुक्त्वाविष्णुगृहंपुण्यंसयाति नरकं ध्रुवमिति तद्भस्मान्यपरम्। तद्धारणविधिवैयर्थ्यापत्तेः। यद्वाशुद्धतांत्रिकपरम्। नचश्राद्धेत्रिपुंड्रनिषेधानु पपत्तेस्तत्प्राप्तिः। तदधिकारिणिक्षत्रियेतन्निषेधचरितार्थ्यात्। रागप्राप्तनिषेधोपपत्तेश्च। माधवीयेब्राह्मे — पर्वताग्रेनदीतीरे ममक्षेत्रे विशेषतः। सिंधुतीरेचवल्मीकेतुलसीमूलसंस्थिताः। मृदएतास्तुसंग्राह्यावर्जयेद न्यमृत्तिकाः। **चंद्रोदयेगोभिलः—**गोरोचनंपंचगव्यं पंचांगविल्ववृक्षतः। कालीयकंचंदनंचपद्मकरं क्तचंदनम्। गोमयहोलिकाभस्मश्वेतापीतारुणाचमृत्। पुण्यक्षेत्रोद्भवाग्राह्यानदनद्योस्तुशर्कराः। पंचांगंमूलत्वक्पत्रपुष्पफलानि। कालीयकंपीतचंदनम्। व्यासः — जाह्नवीतीरसंभूतांमृदंमूर्ध्नाबिभर्तियः। विभर्तिरूपंसोऽर्कस्यतमोनाशाय केवलम्। सत्यतपाः —गोमतीतीरसंभूतांगोपीवापी समुद्भवाम्। मृदंमूर्ध्नावहेद्यस्तु सर्वपापैः प्रमुच्यते। **माधवीये—**द्वारवत्युद्भवाद्गोपीचंदनादूर्ध्वपुंड्रकम्। धारयेन्नित्यमेबंहि पापंहंतिदिनेदिने। **पाद्मे—**मृत्तिकाचंदनंभस्मतोयं चैव चतुर्थकम्। एभिर्द्रव्यैर्यथाकाल मूर्ध्वपुंड्रंभवेत्सदा। चंद्रोदयेब्रह्मांडे—जलेनतिलकंकुर्याज्जलांतःकर्म सिद्धये। तोयेनतिलकंस्नानोत्तरमावस्त्रपरिधानादिति पंचायतनसारः। वस्त्रपरिधानोत्तरमपिद्रव्यांतराभावइतिचंद्रोदयःआश्वला

यनः—स्नात्वापुंड्रंमृदाकुर्याद्भूत्वाचैवतुभस्मना। देवानभ्यर्च्यगंधेनसर्वषापापनुत्तये। तत्र विशेष माहव्यासः–ऊर्ध्वपुंड्रंमृदाकुर्यात्त्रिपुंड्रंभस्मनातथा। चंदनेनोभयंकुर्यान्न तिर्यग्गोपिचंदनम्। **चतुर्विंशति मते—**येषु देशेषुयेविप्रादेवास्तीर्थानिमृत्तिकाः। तत्रतान्नावमन्येतधर्माचाराश्चतत्रये। तिलककरणेविशेषो ब्रह्मांडे—अंगुष्ठः पुष्टिदः प्रोक्तोमध्यमायुष्करीभवेत्। अनामिकान्नदानित्यंमुक्तिदाचप्रदेशिनी। एतैरंगुलि भेदैस्तुकारयन्ननखैः स्पृशेत्। तिलकप्रमाणंब्रह्मांडेसत्यव्रतस्मृतौच—दशांगुलप्रमाणंतु उत्तमोत्तममुच्यते। नवांगुलंमध्य मंस्यादष्टांगुलमतःपरम्। सप्तषट्पंचभिः पुंड्रंमध्यमंत्रिविधंस्मृतम्। चतुस्त्रिद्व्यंगुलैः पुंड्रंकनिष्ठंत्रिविधंभवेत्। तिलकाकृतिविशेषोपितत्रैव—वर्तिदीपाकृर्तिवापिवेणुपत्रा कृर्तितथा। पद्मस्य मुकुलाकारंतथैवकुमुदस्यच। मत्स्यकूर्माकृतिंवापिशंखाकारमथा51पिवा। प्रयोगपारिजाते —निटिलेंचैव बाह्वोश्चदंडवत्कर्णपल्लवे। हृदयेकमलाकारमुदरेदीपवल्लिखेत्। वेणुपत्रसमाकारं बाह्वोर्मध्येलिखेत्सुधीः। अधःपृष्ठेस्कंधदेशेलिखेज्जंबूपलाशवत्। निटिलेललाटे।यत्तुपंचायतनसारेपाद्मे— नासामूलंसमारभ्यलला टांतंलिखेन्मृदा।मध्येछिद्रंप्रकर्तव्यंतच्छिद्रं हरिमंदिरमिति। तत्रमूलंमृग्यम्। अत्रकश्चित् —वीक्ष्यादर्शेजले वापियो विदध्यात्प्रयत्नतः। ऊर्ध्वपुंड्रंमहाभागसयातिपरमांगतिमिति ब्रह्मांडोक्तेर्जलेप्रतिबिंबंदृष्ट्वोर्ध्व पुंड्रंर्यादित्याह। तन्मंदम्। नपादुकास्थोनादर्शेनजलेत्ववलोकयन्नितिकृष्णभट्टीये—तिलकप्रकरणेस्मृत्यंत रात्। मयितेजइतिच्छायास्वादृष्ट्वांबुगतांजपेदितियाज्ञबल्क्येनजलेस्वप्रतिबिंबदर्शने प्रायश्चित्तोक्तेश्च वाक्यस्य चंद्रिकाद्यलिखितत्वेन निर्मूलत्वाच्च। स्मृतिरत्नावल्यांपृथ्वीचंद्रेचब्रह्मे —सदर्भेणतुहस्तेनयः कुर्यात्तिलकंबुधः। आचम्यसविशुद्ध्येतदर्भत्यागेनचैवहि। ब्रह्मांडे—नामान्युच्चार्यविधिनाधारयेदूर्ध्व पुंड्रंकम्। ललाटेकेशवं विद्यान्नारायणमथोदरे। माधवंहृदयेन्यस्येद्गोविंदंकंठकूपके। विष्णुंदक्षिण

कुक्षौ तद्भुजेमधुसूदनम्। त्रिविक्रमंकर्णमूलेवामकुक्षौतुवामनम्। श्रीधरंचहृषीकेशंवामयोर्वाहुकर्णयोः। पद्मनाभंपृष्ठदेशेककुद्दामोदरंस्मरेत्। वासुदेवं स्मरेन्मूर्ध्नितिलकंधारयेत्कमात्। केशवादिमंत्राश्चतुर्थीनमों ताद्रष्टव्याः। तिलकलापनक्रमोप्ययमितिप्रयोगपारिजातःआश्वलायनः— मूर्ध्निललाटेनाभौचहृदये कंठकूपके। पार्श्वेबाह्वोः परगलेदक्षसव्येच पश्चिमे। स्तनयोर्मूर्तिमंत्रैश्चस्थानेष्वेष्विंद्रदिङ्मुखः। **तत्रैव—**संकर्पणादिभिः कृष्णेशुक्लेचेत्केशवादिभिः। कृष्णभट्टीयेप्येवम्। **पंचायतनसारेपाद्मे—**एवंद्वादश पुंड्राणिब्राह्मणः सततंचरेत्। चत्वारिभूभृतां प्रोक्तंपुंड्राणिद्वेविशांस्मृते। एकंपुंड्रंचनारीणां शूद्राणांच विधीयते। ललाटेहृदिवावाह्वोचतुःपुंड्राणिधारयेत्। ललाटेहृदयेद्वेतुभालेत्वेकंविधीयते। मदनपारिजाते ब्रह्मांडे—श्यामंशांतिकरंप्रोक्तंरक्तंवश्यकरंतथा। श्रीकरंपीतमित्याहुः श्वेतंमोक्षप्रदायकम्। श्यामं मृगमदादेः। रक्तंसिंदूरादेः। पीतंगोरोचनादेः। हारीतः—अभ्यंगेसूत केचैवविवाहे पुत्रजन्मनि। मांगल्येषुच सर्वेषुनधार्यंगोपिचंदनम्। श्राद्धदीपकलिकायांविष्णुः— ऊर्ध्वपुंड्रंद्विजातीनामग्निहोत्रसमोविधिः। श्राद्ध कालेतुसंप्राप्तेकर्ताभोक्ताचवर्जयेत्। तत्रैवनारायणः—ऊर्ध्वपुंड्रंत्रिपुंड्रंवाचंद्राकारमथापिवा। श्राद्धकर्तान कुर्वीतयावत्पिंडान्ननिर्वपेत्। विश्वादर्शेप्येवम्। श्राद्धदिनेतिलकनिषेधः प्रातः संध्यावंदनादावपीतिश्राद्ध काशिका। तन्न। वर्जयेत्तिलकंभालेश्राद्धकालेकदाचनेतिसत्यव्रतोक्तेःयत्तुपराशरः—ऊर्ध्वंचतिलकं कुर्याद्दैवे पित्र्येचकर्मणीति तत्तर्पणादिपरम्। यत्तु—ऊर्ध्वच तिलकंकुर्यान्न कुर्याच्चत्रिपुंड्रकम्। निराशाः पितरोयांतिदृष्ट्वाचैवत्रिपुंड्रंकमितिवृद्धपराशरेण श्राद्धे ऊर्ध्वपुंड्रंभवतीत्युक्तम् तद्भोक्तृपरं नकर्तृपरमिति पृथ्वीचंद्रः। निष्कर्षस्तुशिष्टाचाराद्व्यवस्था। ऊर्ध्वपुंड्रंचतुलसींश्राद्धेनेच्छंतिकेचन॥ वृद्धाचारः परिग्राह्यस्त स्माच्छ्रेयोर्थिभिर्नरैरितिबृहन्नारदीयात्। **आचारतिलके—**नचोर्ध्वंधारयेद्भस्ममृदं तिर्यड्नधारयेत्। चंदना गरुकस्तूरीकुंकुमानियथेच्छया। स्मृतिरत्नावल्यां—ब्राह्मणानां नृपाणांचभस्ममिश्रचचंदनम्। नेत्रयुग्म प्रमाणंतु त्रिपुंड्रंधारयेद्द्विजः। मध्यमा

नाभिकांगुष्ठैर्ललाटेयत्त्रिपुंड्रकम्। तत्त्रिपुंड्रंभवेच्छस्तंमहापातकनाशनम्। केदारखंडे—ललाटेंगुष्ठरेखा चआदौभाव्याप्रयत्नतः। मध्यमांवतिलकर्जयित्वातुअंगुलीद्वयकेनच। एवंत्रिरेखासंयुक्तं ललाटेयस्य दृश्यते। सशैवः शिववज्ज्ञेयोदर्शनात्पापनाशनः। पुरुषार्थप्रबोधे—श्रौतंभस्मद्विजामुख्यंस्मार्तगौणं प्रकीर्तितम्। श्रौतंभस्मतथास्मार्तंद्विजानामेवकीर्तितम्। औपासनसमुत्पन्नंगृहस्थानांविशेषतः। समिदग्नि समुत्पन्नंधार्यंवै ब्रह्मचारिणा। शूद्राणांश्रोत्रियागारेपचनाग्निसमुद्भवम्। अन्येषामपिसर्वेषांधार्यं दावानलोद्भवम्। अपक्वंमतिपक्वंचसंत्यज्यभसितंसितम्। आदायवाससालोङ्यभस्माधारेविनिक्षिपेत्। **चंद्रोदयेशैवे—**तर्जन्यनामिकामध्यै स्त्रिपुंड्रंतुसमाचरेत्। पंचांगुलैर्न्यसेन्मूर्ध्निप्रणवेनतुमंत्रतः। अंगुलैर्विन्यसेद्भालेशिरो मंत्रेणदेशिकः। सव्येनदक्षिणेकर्णेवामदेवेनवामतः। अघोरेणतुकंठेच मध्यांगुल्यास्पृशेद्बुधः। हृदयंहृदये नैवत्रिभिरंगुलिभिःस्पृशेत्। विन्यसेद्दक्षिणेबाहौशिखामंत्रेणदेशिकः। वामेवाहौन्यसेद्धीमान्कवचेनत्रियंगुलैः। मध्येनसंस्पृशेन्नाभ्यामीशानाभिध मंत्रतः। तत्रैवक्रियासारे —भस्मनावैत्रिपुंड्रंचगृहिणांजलसंयुतम्। धार्यं त्रिपुंड्रंस्त्रीणांचयतीनांजलवर्जितम्। वनस्थव्रतिकन्यानांदीक्षाहीननृणांतथा। षडंगुलायतंमानमपिवाधि कमानकम्। नेत्रयुग्मप्रमाणेनभालेदीप्तंत्रिपुंड्रकम्। अग्निरित्यादिभिर्मंत्रैः षड्भिराथर्वणैस्तथा। त्र्या युपेणचमंत्रेणमेधावीत्या52दिनाथवा। त्रैयंबकेणमंत्रेणसतारेणशिवेनच। पंचाक्षरेणमंत्रेणप्रणवेनयुतेनच। चंदनाद्युपरिप्राज्ञोधारयेद्भस्मवैदिकम्। लौकिकंचंदनाद्यंतुभस्मोपरिनधारयेत्। सुतसंहितायाम्— ऊर्ध्वपुंड्रत्रयंनित्यं धारयेद्भस्मनामृदा। ललाटेऽर्हागमेनिष्ठश्चंदनेनाथवा नरः। अर्हागमेनिष्ठस्तांत्रिकः। **धारणप्रकारेचंद्रोदयेचवाराहे—**दक्षिणेतुभुजेविप्रोबिभृयाद्वैसुदर्शनम्। सव्येतुशंखं विभृयादितिवेद विदोविदुः। **क्षत्रादेस्तुब्रह्मांडे—**चक्रंचदक्षिणे बाहौशंखंवामेपिदक्षिणे। गदांवामेगदाधस्तात्पुनश्चक्रंचधार येत्। शंखोपरितथापद्मंपुनः

पद्मंचदक्षिणे। **हलायुधे—**वामेबाहौगदापद्मंशंखंचक्रंचदक्षिणे। उपर्यधःक्रमोक्तेनधृत्वापापक्षयोभवेत्। हृदयेवाललाटेवाविलिखेन्मत्स्यकच्छपौ। मंत्रमष्टाक्षरंवापित्रीयतेतस्यकेशवः। रामार्चनचंद्रिकायां— ललाटेतुगदाधार्यामूर्ध्निचापःशरस्तथा। नंदकश्चैवहृन्मध्ये शंखचक्रेभुजद्वये। प्रयोगपारिजातेसायणीयेचं शंखः — चक्रांकितःसदातिष्ठेन्मद्भक्तः सर्वदाशुचिः। अनयोर्व्यवस्था **सूतसंहितायाम्—**वेदमार्गै कनिष्ठानां वेदोक्तेनैव वर्त्मना। ललाटेभस्मनातिर्यक्त्रिपुंड्रंधार्यमेवहि। विष्ण्वागमादितं त्रेषुदीक्षितानां विधीयते। शंखचक्रगदापूर्वैरं कनंनान्यदेहिनाम्। वेदमार्गैकनिष्ठस्तु मोहेनाप्यंकितोयदि। पतत्येवन संदेहस्तथापुंड्रांतरादपि। **अत्रैपाव्यवस्था—**शुद्धवैदिकेनशिवभक्तेनबिभूतिरेवधार्या। शुद्धवैदिकेन विष्णुभक्तेन गणपत्यादिभक्तेनचतिलकोधार्यः। तांत्रिक वैदिक वैष्णवेनत्वच्छिद्रतिलकश्चक्रादिच धार्यम्। तांत्रिकवैदिकेन शैवेनबिभूतिस्तिलकश्चबिभूतिमात्रंवाधार्यम्। शुद्धतांत्रिकेणविष्णुभक्तेन सच्छिद्र तिलक श्चक्रादिचधार्यमिति। यत्तुविष्णुः—शंखचक्राद्यंकनंचगीतनृत्यादिकंतथा। एकजातेरयंधर्मोनजातुस्याद्द्विजन्मनः। शंखंचकंमृदायस्तु कुर्यात्तप्तायसेनवा। सशुद्रवद्बहिष्कार्यः सर्व- स्माद्द्विजकर्मणइति। यच्चाश्वलायनः— यथा श्मशानजंकाष्ठमनर्हंसर्वकर्मसु। तथाचक्रांकितोविप्रः सर्वकर्मसुगर्हितइति। यच्च—यस्तुसं तप्तशंखादिलिंगचिह्नतनुर्नरः। ससर्वयातना भोगीचांडालो जन्मकोटिषु। द्विजंतुतप्तशंखादिलिंगांकिततनुंनरः। संभाष्यरौरवंयातियावदिंद्राश्चतुर्दशेतिबृहन्नारदीयं तच्छुद्धवैदिकपरम्। सूतसंहितावाक्येनवैदिकस्यचक्रादिधारणनिषेधादनेन तांत्रिकस्या पितन्निषेधेशंख चक्रादिविध्यानर्थक्यापत्तेः। नचतस्यशूद्रविषयत्वेनसावकाशत्वम्।—शंखंवाशंखचक्रे वातथापंचायु धानिवा। धारयित्वाविप्रोवैब्रह्मकर्मसमारभेदिति नृसिंहप्रसादपाद्मेन, ब्राह्मणः क्षत्रियोवैश्यः शूद्रोवाय दिचेन्नरः। शंखचक्रांकिततनुः शिरसामंजरीधरः। गोपीचंदनलिप्तांगोदृष्टश्चेत्तदघंकुत इतिकाशीखंडेन, दक्षिणेचभुजेविप्रोबिभृयाद्वैसुदर्शनमिति चंद्रोदयेधारणप्रकाशेचवाराहेणब्राह्मणादेरपितद्विधानात्। यत्त्वत्रविप्रा

दिपदं गावोवाएतत्सत्रमासतेत्यादिवत्स्तुत्यर्थं न विप्रादीन्प्रतिविध्यर्थमितिस्मृतिरत्नावली। तन्न। विधिश्रुतेः। तत्रतदभावात्तथेति। एतेषां वाक्यानांपतितब्राह्मणविषयत्वोक्तिरज्ञधीदंध्रणायैव। अत्रयच्च शून्यललाटेने तिभालेतिलकाभावेऽल्पफलश्रुतेरूर्ध्वपुंड्रंत्रिपुंड्रंतिलकमित्येकवचनात्तद विवक्षायांमानाभावाच्चललाटे एक पुंडूंनित्यंद्वादशपुंड्राणितुकाम्यानीतिकेचित्। तन्न। कामयोगाभावात्। नचात्रविश्व जिन्न्यायः। स्वर्गकल्पना नुपपत्तेःफलान्तरेविनिगमकाभावात्। अतएकंपुंड्रमदीक्षितपरं, द्वादशपुंड्राणितुमंत्रसाध्यत्वाद्दीक्षित पराणी तियुक्तंप्रतीमः। द्वादशपुंड्राणिवैष्णवपराणीत्याचारचंद्रोदयः। इति श्रीमन्नारायणभट्ट०लक्ष्मणभट्टकृतावाचा ररत्नेतिलकप्रकरणम्॥॥

अथसंध्यानिर्णयःस्कांदे—उदयात्प्राक्तनीसंध्याघटिकात्रयमुच्यते। सायंसंध्यात्रिघटिकाअस्तादुपरि भास्वतः। दक्षः—रात्र्यंतयामनाड्यौद्वेसंध्यादिःकालइष्यते। दर्शनाद्रविरेखायास्तद53स्तोमुनिभिः स्मृतः। सुधानिधौ— उत्तमातारकोपेतामध्यमालुप्ततारका \। अधमा सूर्यसहिताप्रातः संध्यात्रिधामता। उत्तमासूर्य सहितामध्यमालुप्तभास्करा। कनिष्ठातारकोपेतासायंसंध्यात्रिधामता। संवर्तः—प्रातःसंध्यां सनक्षत्रामुपासी तयथाविधि। सादित्यांपश्चिमांसंध्यामर्धास्तमितभास्कराम्। संध्यायामुपस्थानमेवप्रधानंमार्जनादित्वंगम्। तेतथैवमहाराज दंशितारणमूर्धनि। संध्यागतंसहस्रांशुमादित्य मुपतस्थिरे। इति भारतादितिचंद्रिका।अर्घ्यदानस्यश्रौतत्वादाशौचेतदेवानुष्ठेयमितिचंद्रिकोक्तेर्गायत्रीजपोपस्थानयोराशौचेपाक्षिकत्वस्यवक्ष्यमाण त्वात्। उभयोः संध्ययोः कालेरजसावार्घ्यमुत्क्षिपेदितिवाक्याच्चार्घ्यदानंप्रधानमितिवयम्। भट्टदिन करस्तुसंध्यामुपासीतेतिमन्वादिस्मृतावुपपूर्वस्यासतेरुपस्थानमेववाच्यम्। नोपतिष्ठंतियेसंध्यांस्वस्थावस्था सुवैद्विजाइत्यत्रिस्मृतेरुपस्थानमेवप्रधानमित्याह। उपपूर्वस्यासतेर्ध्यानंवाच्यमितिमाधवःकृष्णभट्टश्च। **स्मृतिरत्नावल्यांशंखः—**प्रातः संध्यांसनक्षत्रां

मध्यमांस्नानकर्मणि।स्नानकर्मणीतिमध्याह्नस्नानोत्तरमितितत्रैवोक्तम्। संध्यायाअकरणे प्रत्यवायो मनुः— नानुतिष्ठतियः पूर्वांनोपास्तेयस्तुपश्चिमाम्। सशूद्रवद्बहिः कार्यः सर्वस्माद्द्विजकर्मणः। याज्ञबल्क्यः — सर्वा वस्थोपियोविप्रः संध्योपासनतत्परः। ब्राह्मण्याच्चन हीयेतह्यन्यजन्मगतोपिसः। याज्ञबल्क्यः— अनार्तश्चो त्सृजेद्यस्तुसविप्रःशूद्रसंमितः। भारते— येनपूर्वामुपासंवेद्विजाः संध्यांनपश्चिमाम्। सर्वोस्तान्धा र्मिकोराजाशूद्रकर्माणिकारयेत्। स्कांदकौर्मयोः— संध्याहीनोऽशुचिर्नित्यमनर्ह. सर्वकर्मसु। यत्किंचि त्कुरुतेकर्मनतस्यफलमाप्नुयात्। विष्णुपुराणे—सर्वकालमुपस्थानंसंध्ययोः पार्थिवेष्यते। अन्यत्रसूतका शौचबिभ्रमातुरभीतितः। विभ्रमःअभ्रादिनासंध्याकालाज्ञानंपैशाच्यंवा। संध्याविधिषुद्विजपदोक्तेर्न शूद्र स्यसंध्याआगमदीक्षायुक्तस्यतदुक्तास्त्येवेतिपंचायतनसारेस्मृतिकौमुद्यांच। ब्राह्मणाद्ब्राह्मण्यामुत्पन्न योःकुंडगोलकयोरपिसंध्या—कुंडोवागोलकोविप्रःसंध्योपासनमात्रविदितिस्मृतिकौमुद्यांस्मृतेःशातातपः—अनृतंमद्यगंधंचदिवामैथु नमेवच। पुनातिबृषलस्यान्नंबहिः संध्याह्युपासिता। गृहेषुप्राकृती संध्यागोष्ठेदशगुणास्मृता। नदीषुशत साहस्राअनंताशिवसंनिधौ। अनंताविष्णुसंनिधावितिचंद्रिकायां वसिष्ठपाठः। प्राकृतीएकगुणा। व्यासः—बहिः संध्यादशगुणागर्तप्रस्रवणादिषु। ख्याततीर्थशतगुणा साहस्रीजाह्नवीजले। माधवीयेऽत्रिः— उभेसंध्येतुकर्तव्येब्राह्मणैश्चगृहेष्वपि॥॥

अथप्रयोगः। बृहत्पराश रः—पूर्वसंध्यातुगायत्रीब्राह्मणीहंसवाहना। रक्तपद्मारुणादेवीरक्तपद्मासनस्थिता।रक्ताभरणभारांगीर क्तमाल्यांबरातथा। अक्षमालाजलाधारवरहस्तामराचिंता। विश्वमातःसुराभ्यर्ये पुण्येगायत्रिवैधसि। आवाहयाम्युपास्त्यर्थमंहोनिघ्नन्पुनीहिमाम्। संध्यामाध्याह्निकीश्वेतासावित्रीरुद्रदेवता54।बृषेद्रवाहनादेवीज्व लत्त्रिशिखधारिणी। श्वेतांबरधराश्वेतनागाभरणभूषिता। श्वेतस्रगक्षमालापिकृतानुरक्तशंकरा।जलाधारजटा धात्रीधरेंद्रप्रभवा।

तया।मातर्भवानिविश्वेशिविश्वेविश्वजनाचिंते। शुभेवरेवरेण्येत्वमाहूतैहिपुनीहिमाम्। संध्यासायंतनी कृष्णाविष्णु55देवीसरस्वती। खगगाकृष्णवस्नातुशंखचक्रगदाधरा। कृष्णस्रग्भूषणैर्युक्तासर्वज्ञानमयीवरा। वीणाक्षमालिकाचापहस्तास्मितवरानना। मातर्वाग्देवतेदेविवरेण्येचधनप्रदे। सर्वामरगणस्तुत्येआहूतै हिपुनीहिमाम्। त्रिशिखंत्रिशूलम्। खगोगरुडः। मदनरत्ने—वृद्धांसरस्वतींकृष्णांपीतवस्त्रांचतुर्भुजाम्। शंखचक्रगदापद्महस्तांगरुडवाहनाम्। वदर्याश्रमवासांतामायांतींसूर्यमंडलात्। सामवेदकृतोत्संगांवनमाला विभूषिताम्। वैष्णवीमक्षरांशां तांदेवीमावाहयाम्यहम्। आचारादर्श— रक्ताभवतिगायत्री सावित्री शुक्ल वर्णिकेतिपाठः। संवर्तः— अथाचम्यकुशैर्युक्तआसनेसमुपस्थितः। करसंपुटकंकृत्वासंध्यांनित्यंसमारभेत्॥ ॥ आसनम्। स्मृतिसारे — कौशेयंकेवलंवापि अजिनंपटमेवच। दारुजंतालपर्णंवा आसनंपरिकल्पयेत्। श्रीपर्ण्यादिदारुविहितं। चंद्रिकायां कौशिकः —कुशासनंसदापूतंयतीनांतुविशेषतः। योगयाज्ञबल्क्यः— कौशेयंवाथवाचर्मचैलंमूलमथापिवा। मार्कंडेये— चित्रासनंयोगपट्टंतथैवमृगचर्मच। कृष्णाजिनंतथातातवर्ज येत्पुत्रवान्गृही।**स्मृतिसमुच्चये—**वंशासनेतुदारिद्र्यपाषाणेव्याधिसंभवः। धरण्यांदुःखसंभूतिर्दौर्भाग्यंभिन्न दारुजे। तृणासनेयशोहानिः पल्लवेचित्तबिभ्रमः। कृष्णाजिनेज्ञानसिद्धिर्मोक्षश्रीर्व्याघ्रचर्मणि। वस्त्रासनेव्याधि नाशः केवले दुःखमोचनम्। अभिचारेनीलवर्णोरक्तोवश्यादिकर्मणि। शांतिकेधवलः प्रोक्तः सर्वार्थश्चित्र कंबलः। मार्कंडेये—तद्वन्नोपविशेत्प्राज्ञः पादेनाक्रम्यचासनम्। **बृहस्पतिः—**वध्वासनेनियम्यासून्स्मृत्वा चर्ष्यादिकंततः। सन्निमीलितदृङ्मौनीप्राणायामंसमभ्यसेत्। **आसनंतुवायुपुराणे—**पद्ममर्धासनं वापितथास्वस्तिकमासनम्। **शांतिहेमाद्रौकौर्मे—**ऊर्वोरुपरिविप्रेंद्रकृत्वापादतलेउभे। समासीनात्मनः पद्ममेतदासनमुत्तमम्। एकपादमथैकस्मिन्विन्यस्योरुणिसत्तम। आसीनोर्धासनमिदं

योगसाधनमुत्तमम्। उभेकृत्वापादतले जानूर्वोरंतरेणहि। समासीनात्मनः प्रोक्तमासनंस्वस्तिकंपरम्। छंदोगपरिशिष्टे—रक्षयेद्वाारणात्मानं परिक्षिप्य समंततः। रक्षा शिखाबंधइतिकेचित्। तन्न। शिखाबंधस्यतत्रानुक्तेः। साप्राणायामात्पूर्वमित्याचारादर्शः। प्राणायामोत्तरमितिकामधेनुः॥॥

प्राणायामनिर्वचनंतुकौर्मे—प्राणाः स्वदेहजोवायुरायामस्तुनिरोधनम्। तद्द्वैविध्यंकौर्मे— सएवद्विविधः प्रोक्तः सगर्भोऽगर्भ एवच। सगर्भमाहुः सजपमगर्भमजंबुधाः। अगर्भायोगाभ्यासोपयोगी। व्यासशौनकौ—प्रणवव्याहृतियुतां गायत्री शिरसासह।त्रिःपठेदायत प्राणः प्राणायामःसउच्यते। प्रणवव्याहृतीतिद्वंद्वेव्याहृतीनांप्रणवयोगोनस्यात्। मध्यमपदलोपिसमासे गायत्र्यास्तद्योगोनस्यात्। मा स्त्वितिचेत् सव्याहृर्तिसप्रणवामितियोगयाज्ञबल्क्यविरोधः। अतोगायत्रीं शिरसा सार्धंजपेद्व्याहृतिपूर्वि काम्। प्रतिप्रणवसंयुक्तांत्रिरयं प्राणसंयमइतियाज्ञवल्क्याद्व्यवस्था।गायत्र्याएवप्रणवयोगे प्रतीति व्यर्थंस्यात्। नचव्याहृतिगायत्रीशिरसांप्रत्येकंतद्योगात्त्रिःप्रणवत्वेनप्रतीतिसार्थकम्। सप्तव्याहृतिभिः सार्धं सप्तोंकारसमन्विताम्। शिरसासहितांदेवीं प्राणायामे नियोजयेदितिचंद्रोदयेयोगयाज्ञबल्क्यविरोधात्। यत्त्वतएव व्याहृतीनामेवादौप्रणवइतिविज्ञानेश्वरस्तच्चिंत्यम्। गायत्रीविशेषणत्वादुभयोः परस्परमन्वया योगात्। गायत्रीविशेषणस्यतयाऽसंबद्धार्थसव्याहृत्यन्वयायोगाच्च। नचवाजपेयन्यायः। तत्रप्रधानेन्वया योगाद्युक्तोंगेष्वन्वयः। षष्ठ्याःसंबंधसामान्येउपपत्तेश्च। नचात्रतथा। अतोयथाजपेतिसृणामेकेनप्रणव पूर्वत्वं तथात्रापिशंकानिरासार्थं विज्ञानेश्वरोक्तिःसमाधेया। प्रतीत्युक्तेरेवशिरसापिप्रणवान्वयः। अतोनवप्रणवाइतिचंद्रिका। तदपिन। व्यासस्मृतौ प्रणवांतशिरोभिधानात्। प्रतिप्रतीकंप्रणवमुच्चारये दंतेचशिरसइतिछंदोगपरिशिष्टाच्च। अतोदशप्रणवाइतिपृथ्वीचंद्रः। शिष्टाचारोप्येवम्। युक्तंचैतदेव— एतामेताः सहानेन तथैभिर्दशभिः सह। त्रिः पठेदायत्तप्राणः प्राणायामः स उच्यतेइ

तिछंदोगपरिशिष्टाच्च। एताव्याहृतयःसप्त एतांगायत्रीं अनेनशिरसा एभिःप्रणवैः दशभिरितियथाप्राप्ता नुवादः प्रतिप्रतीकमित्युक्तेः प्राणायाम. नतुसंततमोंकारदशकं। व्याहृतयःसप्त। भूर्भुवः स्वर्महर्जनस्तपः सत्यंतथैवच। इतिसप्तव्याहृत्यः प्राणायामेषुनित्यशइति चंद्रिकायांयोगयाज्ञबल्क्योक्तेःव्यासः— आदानंरोधमुत्सर्गंवायोस्रिस्त्रिः समभ्यसेत्। शांति हेमाद्रौयोगयाज्ञबल्क्यः—नासिकाकृष्टउच्छ्वासो धृतः पूरकउच्यते। कुंभकोनिश्चलश्वासोरिच्यमानस्तुरेचकः। नीलोत्पलदलश्यामंनाभिदेशेव्यवस्थितम्। चतुर्भुजंमहात्मानंपूरकेणविचिंतयेत्। कुंभकेनहृदिस्थानेध्यायीतकमलासनम्। ब्रह्माणंगौरवर्णचचतुर्वक्रं पितामहम्। रेचकेनेश्वरंविद्याल्ललाटस्थं महेश्वरम्। शुद्धस्फटिकसंकाशं निर्मलंपापनाशनम्। पूरकेणेत्यादितृतीयासप्तम्यर्थे। गौरंरक्तम्। रक्तंप्रजापतिंध्यायेदितिव्यासोक्तेः। पूरकादीनांमिलिता नांप्राणायामत्वम्। पूरककुंभकरेचैःप्राणायामस्त्रि लक्षणो ज्ञेय इतियोगयाज्ञबल्क्योक्तेः। प्रत्येकंत्रिमंत्र पाठेप्रत्येकंप्राणायामत्वमित्याचारादर्शःशौनकः— नासिकामंगुलीभिश्चतर्जनीमध्यमादृते। दक्षिणेन समाकृष्यसव्येनतुविसर्जयेत्। देवजानीयेस्मृत्यंतरे

दक्षिणेश्वासमाहृत्य वाभेचैवविसर्जयेत्। शांतिहेमाद्रावीश्वरगीतासु— रेचकंदक्षिणेप्रोक्तंपूरकंवामतश्चरेत्। जपारंभेतुविज्ञेयोविपरीतचसंस्थितौ। संस्थितिः समाप्तिः। विपरीतोदक्षिणेनपूरकोवामेनरेचकइत्यर्थः। बह्वृचपरिशिष्टे— दर्भपाणिः प्रथमम मंत्रकंपंचदशमात्रिकं प्राणायामत्रयंकृत्यासमंत्रकंसकृत्कुर्यादिति॥॥ मात्रास्वरूपमुक्तसंग्रह —याव त्कालंत्रिरावेष्टयजानुहस्तेनदक्षिणम्। छोटिकाकरणंयत्सामात्रेतिपरि पठ्यते। मात्राभिःपंचदशभिः प्राणा यामोऽधमःस्मृतः। मध्यमोद्विगुणःश्रेष्ठस्त्रिगुणोधारणास्मृता। विज्ञानेश्वरोप्येवम्। गायत्रीरहस्ये स्मृति सारे

पंचांगुलीभिर्नासाग्रपीडनं प्रणवाभिधा।मुद्रेयं सर्वपापघ्नी56वानप्रस्थगृहस्थयोः। कनिष्ठानामिकांगुष्ठै र्नासाग्रस्यचपीडनम्।

ओंकारमुद्रासाप्रोक्तायतेश्चब्रह्मचारिणः। **चंद्रोदयेसंग्रहे—**अंगुष्ठतर्जनीभ्यांतुऋग्वेदीसामगायनः। अंगुष्ठा नामिकाभ्यां चग्राह्यं सर्वैरथर्वभिः। **व्यासः—**अंगुष्ठेनपुटंधार्यं57नासायादक्षिणंपुनः। कनिष्ठानामिकाभ्यांतु वामंप्राणस्यसंग्रहे। **मनुः—**प्राणायामत्रयं कार्यं संध्यासुचतिसृष्वपि॥॥ प्रणवस्वरमाहचंद्रोदयेवृद्ध पराशरः— ऋग्वेदेस्वरितोदात्तउदात्तश्चयजुःश्रुतौ। सामवेदे सविज्ञेयोदीर्घः सप्तएवच। **योगयाज्ञबल्क्यः—आथर्वणेसमुद्दिष्टउदात्तोनात्र संशयः। शांतिहेमाद्रौ—अनुदात्तोदात्तऋग्वेदेषणमात्रः स्वरउच्यते। सर्वोदात्तोयजुःसाम्नांप्लुतातीतः प्लुतस्तथा। पूर्वास्तिस्रोनुदात्तास्तिस्रउदात्ताः। तत्रैव शौनकः— बाष्कले नैकमात्रोयमोंकारः समुदाहृतः। शाकलायनआचार्यो द्विमात्रमभिवांछति। सार्धद्विमात्रंतं प्राहमुद्गलो मुनिपुंगवः। सार्धत्रिमात्र मोंकारंवसिष्ठोमुनिरब्रवीत्। पराशरश्चतुमत्रंप्राहत्वध्यात्मतत्त्ववित्। मात्राश्चार्ध चतस्रोऽस्यविज्ञेयाः परमार्थतः। अथर्वणश्रुतौ यद्येकमात्रमभिध्यायीतेत्येकमात्रउक्तः॥॥ ऋष्यादिस्मरणं कार्यमित्युक्तंतत्रचं द्रोदयेव्यासः— प्रणवस्यऋषिर्ब्रह्मागायत्रीछंदएवच। देवोऽग्निःसर्वकर्मादौ विनियोगः प्रकीर्तितः। देवोग्निरितिजपपरम्। ध्यानकालेपरंब्रह्मजपकालेग्निरिष्यतइतियोगयाज्ञबल्क्योक्तेः॥॥ व्याहृतीनामृषीनाह भरद्वाजः—**भरद्वाजः कश्यपश्चगौतमोऽत्रिस्तथैवच। विश्वामित्रोजमदग्नि र्वसिष्ठ श्चर्पयःक्रमात्। चंद्रिकायाम्— विश्वामित्र जमदग्निर्भरद्वाजोथगौतमः। ऋषिरत्रिर्वसिष्ठश्च कश्यपश्च यथाक्रमम्। **आग्नेये—**गायत्र्युष्णिगनुष्टुप्च बृहतीपंक्तिरेवच। त्रिष्टुप्चजगतीचेतिछंदांस्येतान्यनुक्रमात्। अग्निर्वायुस्तथा सूर्योबृहस्पत्य एवच। इंद्रश्च विश्वेदेवाश्वदेवताः समुदाहृताः58। सूर्यस्थाने आदित्यः अपस्थानेवरुणः चंद्रिकायांपठितः। तत्रैव व्याहृतीनांचसर्वासामृषिरुक्तः प्रजापतिः। **गायत्र्याऋष्याद्याहयोगयाज्ञबल्क्यः—**सवितादेवतायस्यामुखमग्निस्त्रिपात्स्थिता। विश्वामित्रऋषिश्छंदो गायत्रीसाविशिष्यते।

शूद्राचारशिरोमणौशातातपः—तत्सवितुर्वरेण्यमितिसावित्रीब्राह्मणस्य देवसवितरितिराजन्यस्य विश्वा रूपाणीतिवैश्यस्येति। योगयाज्ञबल्क्यः— आपोज्योतिरित्येषमंत्रोयस्तुप्रकीर्त्यते। तस्यप्रजापतिश्चर्षि र्यजुश्छंदोपिवर्णितम्। ब्रह्माग्निवायुसूर्याश्वदेवताः समुदाहृताः॥॥

** न्यासाःचंद्रिकायाम्**— पादयोश्चतथाजान्वोर्जंघयोर्जठरेपिच। कंठेमुखेतयामूर्ध्निक्रमेणव्याहृतीर्न्यसेत्। भूरंगुष्ठद्वयेन्यस्यभुवस्तर्जनिकाद्वये। ज्येष्ठांगुलिद्वयेधीमान्स्वःपदंविनियोजयेत्। करन्यासविधिंकृत्वा अंगन्यासंसमारभेत्। भूः पदंहृदिविन्यस्यभुवः शिरसिविन्यसेत्। शिखायांस्वःपदंन्यस्य कवचेतत्पदं न्यसेत्। अक्ष्णोर्भर्गपदंन्यस्यदिग्विदिक्षुधियः पदम्। तदित्यादिपादपरम्। ततः शिरसासर्वांगन्यासः। शिरस्तस्यास्तुसवगेप्राणायामेपरंन्यसेदितिव्यासोक्तेःन्यासांतरमाहचंद्रोदयेव्यासः— आपोगुह्येन्य सेज्योतिश्चक्षुष्यथरसोमुखे। अमृतंजानुनो59र्ब्रह्महृदयेभूः पदंन्यसेत्। भुवर्नाभौललाटेस्वरोंकारंमूर्ध्नि विन्यसेत्। शौनकः— प्राणानायम्य विधिवद्वाग्यतः संयतेंद्रियः। अथ संध्यामुपासिष्यइतिसंकल्प्य मार्जयेत्॥॥ चंद्रिकायांबृहन्मनुस्मृतौ ब्रह्मांडेच— नद्यांतीर्थेहृदेवापिभाजनेमृन्मयेथवा। औदुंबरेच सौवर्णेराजतेदारवेजलम्। कृत्वाथवामहस्तेवासंध्योपास्तिसमारभेत्। औदुंबरे ताम्रपात्रे। यत्तुव्यासः— वामहस्तेजलंकृत्वायेतुसंध्यामुपासते। सासंध्याबृषलीज्ञेयाह्यसुरास्तैस्तुतर्पिताइति। तत्पात्रांतरसत्वे इतिचंद्रिकादयः। नद्यादिपरमितिवयम्। गंगायांवा पिकायांवातडागे पितथैवच। वामहस्ते जलंगृह्णन्नकुर्यान्मार्जनंक्वचिदितिगायत्रीरहस्ये आपस्तंबोक्तेःबह्वचपरिशिष्टे—स्थिरेतूदकाशये यावतिकर्म कुर्वीततावदुदकस्यविभागंकल्पयित्वातीर्थानितत्राबाह्येत्युक्तम्।बृहस्पतिः— धाराच्युतेन तोयेन संध्योपास्तिर्विगर्हिता इति॥॥

** मार्जनंयोगयाज्ञबल्क्यः**—आपोहिष्ठेतितिसृभिर्ऋग्भिस्तुप्रयतः शुचिः। नवप्रणवयुक्ताभिर्जलं शिरसिमार्जयेत्। नवप्रणवाः प्रतिपादम्।

बह्वृचपरिशिष्टे— सदर्भपाणिनादायोत्तानं शिरसिमार्जयेत्। छंदोगपरिशिष्टे— शिरसोमार्जनं कुर्या त्कुशैःसोदकविंदुभिः। ऋगंतेमार्जनं कुर्यात्पादांतेवासमाहितः। प्रणवो भूर्भुवः स्वर्द्वौगायत्रीच तृतीयकम्। अब्दैवतंतृचंचैव चतुर्थमितिमार्जनम्। योगीश्वरनारायणौ—तृच स्यांतेथवाकुर्यादृषीणांमतमीदृशम्। एवंचत्रयःपक्षाः— ऋगं60तेमार्जनमित्येकः। नवभिः पादैः प्रणवोपेतैर्नवमार्जनानीतिद्वितीयः। तृचांतेमा र्जनमितितृतीयः। व्यासः— यस्यक्षयायेतिजलंसकुशंप्रक्षिपेदधः। हारीतःमार्जनं चकुशाभावेदेवतीर्थेन यद्वाकुश सहितेनदेवतीर्थेन। यत्तुस्मृत्यर्थसारे— पच्छोर्धर्चशऋक्शश्चमार्जने तन्मयेतृचे। ब्रह्महस्तच्युतंतोयं स्वयंशिर सिधारयेदिति तन्मंत्रस्नानपरम्। मंत्रस्नानोपक्रमात्। प्रकारांतरमुक्तं काशीखंडे—आपोहिष्ठेतितिसृभिर्मार्जनंतुततश्चरेत्। भूमौशिरसिचाकाशे आकाशेभुविमस्तके। मस्तकेचतथाकाशेभूमौ चनवधाक्षिपेत्। भूमिशब्देनचरणावाकाशंहृदयंस्मृतम्॥॥ आपोहिष्ठेत्यस्य ऋष्याद्याहयोगयाज्ञबल्क्यः— सिंधुद्वीपोभवेदार्पंगायत्रंछंदएवच। आपश्चदैवतंप्रोक्तंविनियोग श्चमार्जने। **भृगुः—**आपोहिष्ठानवस्वृक्षुसिंधु द्वीपऋषिः स्मृतः। अब्दैवत्यास्तुसप्तर्चो गायत्र्योद्वेत्वनुष्टुभौ। मैत्रायणीय परिशिष्टे—प्रातः सूर्यश्चमेत्युक्त्वा सायमग्निश्चमेतिच। आपः पुनंतुमध्याह्नेकुर्यादाचमनं ततः। प्राणायामोत्तरंसूर्यश्चमेत्या चम्यमार्जयेदिति क्रमःकात्यायनादीनाम्। अन्येषांप्राणायामोत्तरमाचम्यमार्जयित्वासूर्यश्चेतिसकृदाचमनद्वयमिति पृथ्वी चंद्रदेवयाज्ञिकौ।—स्नात्वामंत्रवदाचम्यपुनराचमनंचरेदितिटोडरानंदेनारसिंहात्सकृदाचमनमेव। पिता महः— सूर्यश्चेत्यनुवाकस्यछंदो गायत्रमुच्यते। सवितादेवतातस्यऋषिरचिरितिस्मृतः। चंद्रोदयेसंग्रहे— आपः पुनंतुमंत्रस्य ऋषिः पूतइतिस्मृतः। छंदोनुष्टुभवेद्वापिपृथिवीतस्यदे

वता। तत्रैव —अग्निश्चेतिपिबेत्तोयंत्वस्य सूर्यमृषिंविदुः। देवताग्निर्भवेच्छंदो गायत्रंप्रोक्षणेविधिः। सूर्यस्येत्य स्याग्निर्ऋषिःप्रकृतिरछंदः सूर्यमन्यु मन्युपतिरात्रयोदेवताइतिचंद्रिकामदनपारिजाती। नारायणऋषिः सूर्योदेवतागायत्र्युपरिष्टाद्बृहतीछंदइतिहरिहरः। ब्रह्माऋषिःप्रकृतिरछंद आपोदेवतेति पृथ्वीचंद्रः। अग्निश्चेत्यस्यसूर्यऋषिः प्रकृतिश्छंदः अग्निमन्युमन्युपत्याहानिदेवताइतिचंद्रिका। आपः पुनंत्वित्य स्यमारीचः कश्यपोविष्णुर्वाऋषिः आपोदेवता अनुष्टुप्छंदइतिसएव। नारायणऋषि रितिदेवजानीये॥॥ छंदोगानामाचमनेमंत्रमाह**गौतमः—**अहश्चमादित्यश्चपुनात्वितिप्रातः। रात्रिश्चमावरुणश्चपुनात्विति साय मिति। अनयोः प्रजापतिर्ऋषिलिंगोक्तादेवतेति चंद्रिकाविष्णुः

जानुभ्यामुपरिष्टात्तुशुष्कवासाः स्थितोजले। सांध्यमाचमनं कुर्वन्शुचिःस्यादशुचिस्त्वधः। पुनर्मार्जनमुक्तं बह्वृचपरिशिष्टे

अथपुनराच म्यमार्जयेत्प्रणवव्याहृतिसावित्रीभिरापोहिष्ठेतिसूक्तेनेति। शौनकीयेऽप्ये वम्। गायत्रीकल्पेतु

आपोहिष्ठेतित्रिभिः पादान्ते शंनोदेवीरितिचतुर्भिरर्धर्चांते इदमापइतित्रिभिर्ऋगंते। मार्जनोत्तर मघमर्षणंयोगयाज्ञबल्क्यः। जलपूर्णतुचुलुकनासिकाग्रेविधृत्यच। प्राणा न्निरुंधन्द्रुपदपठित्वा तज्जलं क्षिपेत्। कात्यायनः

जपेदनायतासुर्वात्रिः सकृत्वा61घमर्षणम्। कौर्मे

आपः पाण्योः समादायघ्राणमा सज्यत च। बह्वृचपरिशिष्टे

अथगोकर्णवत्कृतेनहस्तेनोदकमादायनासिकाग्रे धारयन्कृष्णघोर पुरुषाकृतिमात्मान62मंतर्व्याप्यस्थितंविचिंत्य संयतप्राणोऽघमर्षणसूक्तं द्रुपदामृचंवावर्तयेत्तंपाणिस्थेउदके पतितंध्यात्वावामतो भुवितीत्रपातेनक्षिपेदित्येवमेकेन कुर्वेतीति। संध्याकल्पे

स्वहस्तवारिनासाग्रे पठित्वाद्रुपदांक्षिपेत्। अर्धंभूमौ शिरस्यर्धंसर्वंभुव्यघमर्षणम्। अत्रकरपाण्योंरैच्छिकोविकल्पः। योगयाज्ञबल्क्यः—अघमर्षण सूक्तस्यऋषिश्चैवाघमर्षणः। आनुष्टुभंभवेच्छंदोभाववृत्तं63 चदैवतम्। अश्वमेधावभृथकेविनियोगोस्यकल्पितः। अघमर्षणोत्तरमाचमनमाहचंद्रि

**कादौशंखः—**उपस्पृशेत्ततः पश्चान्मंत्रेणानेन मंत्रवित्। अंतश्चरसि भूतेषु गुहायांविश्वतोमुखः। त्वंयज्ञस्त्वंवषट् कार आपोज्योतीरसोमृतम्॥॥

अथसूर्यार्घः। कौर्मे— ॐकारव्याहृतियुतां गायत्रीं वेदमातरम्। जप्त्वाजलांजलिंदद्याद्भास्करं प्रति तन्मनाः। अंजलयस्त्रयः। कराभ्यां तोयमादाय गायत्र्याचाभिमंत्रितम्।आदित्याभिमुखस्तिष्ठंस्त्रिरूर्ध्वं संध्ययोः क्षिपेदितिव्यासोक्तेः। अतएवकेवलगायत्र्यार्ध्यत्रयंनव्याहृतियु तया। तदुहवाएतेब्रह्मवादिनः पूर्वाभिमुखाः संध्यायांगायत्र्याभिमंत्रिता अपऊर्ध्वविक्षिपंत्युद्यंतमस्तंद्यंतमादित्यमितितैत्तिरीयारण्य कात्। अतएवचतुर्थार्घंतुगायत्र्यादद्याद्व्याहृतिसंयुतमितिप्रायश्चित्तार्घ्यविशेषः। कौर्मेतुकात्यायनपरमिद मित्युक्तम्। उत्थायार्कप्रतिप्रोहेत्त्रिकेणांजलिमंभसाइतिकात्यायनस्मृतेः। त्रिकंप्रणवव्याहृति त्रय गायत्र्यः। संध्याकल्पेआश्वलायनः— सकृन्मंत्रेण द्विस्तूष्णीमर्घ्य दद्याद्विचक्षणः। मनुः—परंनम्रः प्रभातेस्यान्मध्याह्नेतु ऋजुः स्थितः। द्विजोऽर्घप्रक्षिपेद्देव्यासायंचोपविशन्भुवि। प्रातर्माध्याह्निकींसंध्यां तिष्ठन्नेवसमर्पयेत्। उप विश्यतुसायाह्नेजले त्वर्ध्यंननिक्षिपेत्। यत्तुवसिष्ठः— उपविश्यचयच्चा र्ध्यसर्वंतन्निष्फलंभवेदिति तत्सायंसंध्याभिन्नपरम्। कश्यपः- त्रिंशत्कोट्यो महावीर्यामंदेहानामराक्षसाः। कृष्णातिदारुणाघोराः सूर्यमिच्छंतिखादितुम्। ततो देवगणाः सर्वेऋषयश्च तपोधनाः। उपासतेत दासंध्यांप्रक्षिपेत्युदकांजलिम्।दाह्यंतेतेनतेदैत्यावज्रीभूतेनवारिणा। अर्घ्यकालःकाशीखंडे— अर्घो दयास्तसमयेतस्मादर्घोदकंक्षिपेत्। कौर्ममार्कडेययोस्तु— जप्त्वाजलांजलिंदद्याद्भास्करंप्रतितन्मनाः। सावित्रींजपेद्विद्वान्प्राङ्मुखःप्रयतःशुचिः। अथोपतिष्ठेदादित्यमुदयंतं समाहितइत्युक्तम्। देवजानी येप्येवम्चंद्रिकायामपि गायत्री जपोत्तरमुपस्थानमुक्तम्। नचआदित्याभिमुखस्तिष्ठंस्त्रिरूर्ध्वसंध्ययोः क्षिपेदितिव्यासोक्तेःसूर्योदयोत्तरमर्घ्यदानमितिवाच्यम्। तस्याआदित्यदिगभिमुखत्वार्थत्वात्। यत्तूप स्थानोत्तरं जपउक्तः सशाखांतरपुरः। **शौनकः—**असावादित्यमंत्रेणप्रदक्षिणमतः परं। अयःस्पृष्ट्वा दक्षिणेतुपश्चाद्देवान्विसर्जयेत्। प्रदक्षिणोत्तरंजलंस्पृशेत्। सायंमंत्रवदाचम्यप्रोक्ष्य

सूर्यस्यचांजलिम्। दत्त्वाप्रदक्षिणंकृत्वाजलंस्पृष्ट्वाविशुध्यतीतिचंद्रोदयेनारसिंहात्॥॥ अर्घ्यदानोत्तरं संध्यातर्पणमुक्तंप्रयोगपारिजाते— अस्यकश्यपऋषिःब्रह्मादेवता गायत्रीछंदः तर्पणेविनियोगः। भूः पुरुषंतर्पयापि ऋग्वेदंतर्पयामि। मंडलं आत्मानं ब्रह्मरूपिणीं गायत्रीं वेदमातरं सांकृतिं संध्यां बालां ब्रह्माणीं उपसं निम्रुचं सर्वसिद्धिकरीं सर्वमंत्राधिपां। सायंतु विष्णुर्देवता अनुष्टुप्छंदः स्वः पुरुषंतर्पयामि सामवेदंतर्पयामि विष्णुरूपिणीं परमात्मानं सरस्वतीं वृद्धां वैष्णवीं। एवंपंचदशकृत्वस्तर्पयित्वा द्विराचामेदिति। संध्याकल्पेप्रयोगपारिजातेचस्मृत्यंतरे—ततस्त्वाचम्य विधिवत्प्राणायामान्नवाचरेत्॥॥ ·

गायत्रीस्वरूपध्यानन्यासादिचंद्रोदयेवृद्धपराशरः— जपेतुत्रिपदाज्ञेयाअर्चनेतुचतुष्पदा। न्यासेजपे तथाध्यानेअग्निकार्ये तथार्चने। सर्वत्रत्रिपदाज्ञेयाब्राह्मणैस्तत्वचिंतकैः। पदशब्दः पादपरः। गायत्र्याश्चतुर्थ पादउक्त गारुडे—परोरजसेसावदोंचतुर्थ पदमीरितम्।षट्त्रिंशन्मते —मानस्तोकेतिमंत्रेणशिखा बंधंतुकारयेत्। जपंहिंसंतिरक्षांसिरक्षाकर्मविवर्जितम्। कात्यायनः— भूर्भुवसुवरित्यापोऽभिमं त्र्यचपरि क्षिपेत्। रक्षयेद्वारिणात्मानं परिक्षिप्य समंततः। प्रणवाद्याव्याहृतीस्तुसावित्रींचजपेत्ततः। शांतिहेमाद्रौ ब्राह्मे—छंदो गायत्रीगायत्र्याःसविताचैवदेवता। शुक्लोवर्णोमुखंचाग्निर्विश्वामित्रऋषिस्तथा। त्रयीशिरः शिखारुद्रोविष्णुर्हृदयमेवच। उपासनेविनियोगःसांख्यायनसगोत्रजा। त्रैलोक्यंचरणंज्ञेयं पृथिवीकुक्षिरेव च। एवंध्यात्वातुगायत्रींजपेद्द्वादशलक्षणाम्। न्यासाकरणेदोपउक्तः शांतिहेमाद्रौ—कर्मणोन्या सहीनस्यगृह्णेत्यर्धंहिराक्षसाः। अस्त्रेणकरशुद्धिकृत्वान्यासंकुर्यादित्युक्तंचंद्रिकायाम्प्रणवन्यासमा योगयाज्ञबल्क्यः—अकारंनाभिदेशेतुउकारंहृदिविन्यसेत्। मकारंमूर्ध्निविन्यस्येदेपन्यासोविमुक्तिदः। व्याहृतिन्यासमाहपराशरः—भूर्लोकंपादयोर्न्यस्यभुवर्लोकंतुजानुनोः। स्वर्लोकंगुह्यदेशेतुनाभिदेशे महस्तथा। जनलोकंतुहृदयेकंठदेशेतपस्तथा। भ्रुवोर्ललाटसंधौतुसत्यलोकः प्रतिष्ठितः।

देशंभुवरिति। पारिजातेगायत्रीरहस्ये— तत्सवितुर्ब्रह्मात्मने सावित्रीशक्तिरंगुष्ठाभ्यांनमः। वरेण्यंविष्ण्वा त्मनेलक्ष्मीशक्तिस्तर्जनीभ्यां नमः। भर्गोदेवस्यशिवात्मनेगौरीशक्तिर्मध्यमाभ्यां नमः। धीमहिपरमात्मने ज्ञानशक्तिरनामिकाभ्यां नमः। धियोयोनःनिरंजनात्मनेईषणाशक्तिः कनिष्ठिकाभ्यांनमः। प्रचोदयान्निरा सात्मनेमायाशक्तिः करतलकरपृष्ठाभ्यां नमः।तत्सवितुर्ब्रह्मात्मनेसावित्रीशक्तिर्हृदयायनमः। वरेण्यं विष्ण्वात्मनलक्ष्मीशक्तिःशिरसे स्वाहा। भर्गोदेवस्यरुद्रात्मने गौरीशक्तिः शिखायैवषट्। धीमहिपरमा त्मनेज्ञानशक्तिःकवचायहुम्। धियोयोनःनिरंजनात्मनेईषणाशक्तिर्नेत्रत्रयायवौषट्। प्रचोदयान्निरासात्मने मायाशक्तिरस्त्रायफट् इतिषडंगः। चंद्रिकायांब्रह्मकल्पेऽक्षरन्यासउक्तः—तकारंविन्यसेत्स्वांगे पादांगुष्ठद्वयेद्विजः। सकारंगुल्फ देशेतुविकारंजंघयोर्न्यसेत्। जान्वोस्तुकारंविन्यस्यवकारंचोरुदेशके।रेकारंवि न्यसेद्गुह्येणकारंबृषणेन्यसेत्। कटिदेशेयकारंतुभकारंनाभिमंडले। गोकारंजठरेयोगीदेकारं स्तनयोर्न्यसेत्। वकारं हृदिविन्यस्यस्य कारंकंठएवतु। धीकारमास्येविन्यस्यमकारंतालुकेन्यसेत्। हिकारंनासिकाग्रेतुधिकारंनयनद्वये। भ्रुवोर्मध्ये तुयोकारंललाटेतुद्वितीयकम्। पूर्वाननेतुनः कारंप्रकारंदक्षिणानने। उत्तरास्येतुचो कारंदकारंपश्चिमानने। विन्यसेन्मूर्ध्नियाकारं सर्वव्यापिनमीश्वरम्। अथपदन्यासः— तत् पादांगुष्ठाभ्यां नमः। सवितुर्जघाभ्यां। वरेण्यंकटिभ्यां। भर्गोनाभ्यै। देवस्यहृदयाय धीमहिकंठाय। धियोमुखाय। योचक्षुर्भ्यां। नः ललाटाय। प्रचोदयातमूर्ध्नि। अथपादन्यासः—प्रथमपादस्य ऋग्वेदऋषिः त्रिष्टुप्छंदः ब्रह्मादेवता भूस्तत्सवितुर्वरेण्यंपादयोर्ब्रह्मणेनमः। द्वितीयपादस्य यजुर्वेदऋषिःअनुष्टुप्छंदःरुद्रोदेवताभुवोभर्गोदेवस्य धीमहिहृदये रुद्राय नमः। तृतीयपादस्य सामवेदऋपिः जगतीछंदः विष्णुर्देवतास्वर्धियोयो नःप्रचोदयात् ललाटेविष्णवेनमः। तुरीयपादस्य विमलऋषिः परमात्मा देवतागायत्रीछंदः परोरजसे सावदोंब्रह्मरंध्रेपरमात्मने नमः। अक्षरदेवताब्राह्मे—आग्नेयंप्रथमंवायव्यंद्वितीयंतृतीयंसौर्यंचतुर्थवैद्युतंपंचमंवारुणंषष्ठं सप्तमंबार्हस्पत्यमष्टमं पार्जन्यंनवम मैंद्रंदशमं गांधर्व पौष्णमेकादशं

शैवंद्वादशंत्याष्ट्रंत्रयोदशंवा सर्वंचतुर्दशंमारुतंपंचदर्श सौम्यंषोडशमां गिरिसं सप्तदशंवैष्णवमष्टादश माश्विनमेकोनविंशं प्राजापत्यं विंशं सर्वदेवमेकविंशंरोद्रंद्वाविंशंब्राह्ममयोर्विशंवैष्णवं चतुर्विंशमिति। चंद्रिकायाम्—अथतत्त्वानिवक्ष्यामि अक्षराणां विशेषतः। पृथिवीह्युदकं तेजोवायुरंवरमेव च। गंधोरमोधरूपंच स्पर्शःशब्दोथवागिति। हस्तावुपस्थंपायुश्रपच्छ्रोत्रेत्वक्चचक्षुषी। जिह्वाघ्राणंमनस्तत्त्वमहं कारोमहांस्तथा। गुणत्रयंचं सततं क्रमशस्तत्त्वनिश्चयः। तत्रैव—सहानित्याविश्वहृदयाविलासिनी प्रभावती लीलाशांताशांतिर्दुर्गासरस्वतीविश्वरूपाविशालाआप्यायनीवि मलातमोमयी हिरण्यरूपा सूक्ष्माविश्वायो निर्ज यावहापद्मालयावराशोभनागदारूपेतिशक्तयइति। अक्षरदेवतातत्त्वशक्तीनामुक्तिरक्षरन्यासोत्तरं देवतादिन्यासार्थं। यद्वामुकदेवताकामुकशक्तिकामुकतत्त्वकामुकाक्षरायनमइत्यक्षरन्यासार्था। अक्षरवि न्यासकालेत त्तद्देवतादिध्येयमित्येवमर्थं वा। चंद्रिकायामंगल्यासमाहव्यासः—हृदितत्सवितुर्व्यस्य न्यसेत्कंठेवरेणियम्। भर्गोदेवस्येतिखंडशिखायांतुततोन्यसेत्। धीमहीति न्यसेद्वफेधियोयोनश्चनेत्रयोः। प्रचोदयादितिपदमस्यार्थे विनियोजयेत्। ॐभूरंगुष्ठयोर्न्यस्य ॐ भुवस्तर्जनीद्वये। ॐ स्वश्चैवतथान्यस्य मध्यमाभ्यांगतेंद्रियः। अनामिका द्वयेधीमान्न्यसेत्तत्पदमग्रतः। कनिष्ठिकाद्वयेभर्गःपाण्योर्मध्येधियःपदम्। अत्रसर्वेमंत्राः सप्रणवानमोंताश्च। ॐकारमादायुच्चार्थंमंत्रबीजमतः परम्। नामग्राह्यंनमतंच जपन्यासः प्रकीर्तितइतिचंद्रिकायांशांति हेमाद्रौचभृगुक्तेः॥॥ अथगायत्री कवचम्। चंद्रिकायां ॐमितिहृदि। भूरितिमुखे। भुवइतिशिरसि \। स्वरितिसवीगे। **तत्रैवव्यासः—**विन्यस्यैवंजपेद्यस्तुगायत्रींवेदमातरम्। ब्रह्मलोकमवाप्नोतिच्यासस्यवचनं यथा।

**मुद्राप्रकारः—चंद्रिकायांब्रह्मकल्पेच—**अथातोदर्शयेन्मुद्राः संमुखं संपुटतथा। ततोविततविस्तीर्णे द्विमुख त्रिमुखेततः। चतुर्मुखंपंचमुखंषण्मुखाधोमुखेततः। व्यापकांजलिकाख्यंचशकटं तदनंतरम्। यम पाशंचग्रथितंततःस्यात्संमुखोन्मुखम्। प्रलंवंमुष्टिकोमीनः

कूर्मोवाराहएवच। सिंहाकांतंमहाक्रांतंततोमुद्गरपल्लवाविति। तल्लक्षणंतत्रैव— संमुखंसंधितौ हस्ता वुत्तानौ कुंचितांगुली। कुंचितावक्राः। संपुटपद्मकोशा भौकरावन्योन्यसंहतौ। विततसंहतौ हस्तावुत्ताना वायतांगुली। विस्तीर्णसंहतौषाणीमिथोमुक्तांगुलिद्वयौ। अंगुल्यौ कनिष्ठे। सं मुखासक्तयोःपाण्योः कनिष्ठाद्वययोगतः। शेषांगुलीनांवैकल्येद्विमुखत्रिमुखादयः। कनिष्ठयोर्योंगेगुष्ठयोर्योंगेचशेषांगुलीनां वैकल्येद्विमुखम्। तर्जन्योर्योगे त्रिमुखम्। मध्यमयोर्योगेचतुर्मुखम्। अनामिकयोर्योगेपंचमुखम्। शेषांगुलीनां संयोगे कनिष्ठायोगनाशने। तिर्यक् संयुज्यमानाग्रौसंयुक्तांगुलिमंडलौ। हस्तौषण्मुखमित्युक्तामुद्रामुद्रा विशारदैः। आकुंचिताग्रौसंयुक्तौन्युजौहस्तावधोमुखम्। उत्तानौतादृशावेवव्यापकां जलिकंकरौ। अधोमुख बद्धमुष्टीमुक्ताग्रांगुष्ठकौकरो। शकटंनामकथितंयमपाशमतःपरम्। बद्धमुष्टिकयोः पाण्योरुत्तानावाम र्तजनी।कुंचिताग्रान्यया युक्तातर्जन्यान्युब्जवक्रया। उत्तानसंधिसंलीनबद्धांगुलिदलौकरौ। संमुखौघटितौ दीर्घागुष्ठौग्रथितमुच्यते। संचितोर्ध्वगुलिर्वामस्ताशादक्षिणेनतु। अधोमुखेन संयुक्तः संमुखोन्मुखमुच्यते। संचितासंवद्धा। उत्तानोन्नतकोटीचप्रलंबः कथितौकरौ। उत्तानानामिकाकनिष्ठिकावित्यर्थः। मुष्टीचान्योन्य संबद्धावुत्तानामुष्टिकोभवेत्। मत्स्यस्तुसंमुखीभूतौयुक्तानामकनिष्ठिकौ। ऊर्ध्वंसंयुक्तवक्राग्रौशेषांगुलिद लौकरौ। अधोमुखःकरोवामस्तादृशादक्षिणेनतु। पृष्ठदेशेसमाक्रांतः कूर्मोनामाभिधीयते। ऊर्ध्वंमध्येवाम भुजःपक्षाभ्यामाश्रयेत्करम्। वराहः कथ्यतेकक्षसमीपा64श्रयकेकरे। सिंहाक्रांतसमाख्यातंकर्णार्पितकरा वुभौ। किंचिदाकुंचिताग्रौचमहाक्रांतंततः परम्। ऊर्ध्वकिंचिद्गतौपाणीमुद्गरोवामतर्जनी। ग्रस्ता दक्षिणहस्तेन पल्लवोदक्षिणः करः। मूर्ध्निअधोमुखःस्थितोदक्षिणःकरःपल्लवइत्यर्थः। चंद्रिकायांमहासंहितायाम्—नजा तुदर्शयेन्मुद्रामहाजनसमागमे। शौनकस्तुयोनिमुद्रामेवाह— षडंगमंत्रैर्विन्यस्ययोनिमुद्रांप्रदर्शयेत्। गायत्रीं संस्मरेद्धीमान्हृदिवासूर्यमं

डले। कृष्णभटीयेव्यासः— हस्ताभ्यांमुकुलीकृत्वानाभिकामूलपर्वणः। अंगुष्ठौतुक्षिपेदुक्ता मुद्रैषा वाहनीबुधैः। अधोमुखीत्वियंचेत्स्या त्स्थापनीमुद्रिकास्मृता। संनिधायोच्छ्रितांगुष्ठ मुष्टया संयोजनीभवेत्। अंतःप्रवेशितांगुष्ठासैवसंरोधिनीमता। नमस्काराभिधामुद्राज्ञेयापाणीतुसंहतौ। प्रसार्यदक्षिणंहस्तं वाम स्योपरिचक्रमात्। कनिष्ठाद्यंगुलीनांच संकोचेन समानयेत्। अंगुष्ठान्मूलपर्यंतसंहाराख्येयमीरिता। हस्त योरुभयोः सम्यगुच्छ्रितामंगुलीषुच। मध्यमातर्जनीयोगात्कनिष्ठोपकनिष्ठयोः। संश्लेषाद्धेनुमुद्रेयंगोस्तनी चेश्वरप्रिया॥॥ **गायत्र्याःस्वरूपमायोगयाज्ञबल्क्यः—**श्वेतवर्णासमुद्दिष्टाकौशेयवसनातथा। श्वेतैर्विलेनैः पुष्पैरलंकारैश्चभूषिता। आदित्यमंडलांतस्थाब्रह्मलोकगतातथा। अक्षसूत्रधरादेवीपद्मासन गताशुंभा65। **बह्वृचपरिशिष्टे—**अथमंत्रदेवतांध्यात्वा आगच्छवरदे देविजपेमे संनिधौभव। गायंतंत्राय सेयस्माद्गायत्री त्वंततःस्मृतेत्याबाह्यपूजयेदिति। **चंद्रिकायांगोभिलः—**आयाहिवरदेदेवित्र्यक्षरेब्रह्मवादिनि। गायत्रिछंद सांमांतर्ब्रह्मयोनेनमोस्तुते। **व्यासः—**तेजोसीतिचमंत्रेणगायत्रीमावहेद्द्विजः66। उपस्थायतुरीयेणनमस्कृत्य जपेच्चताम्। तुरीयेणेतिनमस्तेतुरीयायेत्यादिसावदोमित्यंतेन।आवाहनमंत्राणांयथाशाखंव्यवस्था।

** गायत्रीजपप्रकारमाहयोगीश्वरः—**प्रणवःपूर्वमुच्चार्योभूर्भुवःस्वस्ततःपरम्। गायत्रीप्रणवश्चांतेजप्येष्वेव मुदाहृतम्। बौधायनः—उभयतःसप्रणवांसव्याहृतिकांजपेदिति। वृद्धपराशरः— प्रणवो भूर्भुवः स्वश्चपुनः प्रणवसंयुताम्। अंत्योंकारसमायुक्तांमन्यंतेकवयःपरे। प्रणवोंतेतथाचादौआहुरन्येजपक्रमम्। आदावेवकारो व्याहृत्याचादितस्ततः। तदाद्यांचतदंतांचकुर्यात्प्रणवसंपुटम्।

**देवजानीयेवृद्धमनुः—**षडोंकारांजपेद्विप्रो गायत्रींमनसाशुचिः। तिस्रोव्याहृतयः पूर्वप्रथमोंकारसंयुताः। पुनःसंहृत्यचोंकारमंत्रस्याद्यंतयोस्तथा। तत्रैवहारीतः—प्रणवोव्याहृतयः सावित्रीचेति। अत्रयथासंप्रदाय व्यवस्थेतिपृथ्वीचंद्रः। **स्मृतिरत्नावल्यांतु—**तत्रैकप्रणवाग्राह्यागृहस्थैर्जपकर्मणि। गृहस्यवच्चजप्तव्यासाच वैब्रह्मचारिभिः। संपुटाचषडोंकाराभवेत्सातूर्ध्वरेतसामितिव्यवस्थेत्युक्तम्। ऊर्ध्वरेतसोनैष्ठिकाब्रह्म चारि णश्च।वनस्थायतयः। मोक्षार्थिनंप्रत्याहवृद्धपराशरः— योनवांछतिसंतानंमोक्षमिच्छति केवलम्। अंत्यों कारमसौकुर्वन्नक्षरंपदमाप्नुयात्। **योगयाज्ञबल्क्यस्तु—**प्रणवव्याहृतीसार्धंस्वाहांतोहोमकर्मणि। प्रतिलोमा प्रकर्तव्या। फट्कारांताभिचारकेइत्याह॥॥ अथजपस्थानानि। याज्ञबल्क्यः— अग्नयगारे जलांतेवाजपे द्देवालयेपिवा। पुण्यतीर्थेगवांगोष्ठेसिद्धक्षेत्रेथवागृहे। **शंखः—**गृहेत्वेकगुणंजप्यंनद्यादौद्वि गुणंमतम्। गवांगो ष्ठेशतगुणमग्न्यागारेशताधिकम्। सिद्धक्षेत्रेषुतीर्थेषुदेवतायाश्च संनिधौ। सहस्रशतकोटी नामनंतंविष्णुसंनिधौ। **कौर्मे—**गुह्यकाराक्षसाःसिद्धाहरंतिप्रसभंयतः। एकांतेतुशुभेदेशेतस्माज्जप्यं सदाचरेत्। **पारिजातेसंध्या कल्पे—**प्रातर्नाभौकरौकृत्वामध्याह्नेहृदिसंस्थितौ। सायंजपस्तुनासाग्रेत्रि संध्यजपलक्षणम्। **योगयाज्ञ बल्क्यः—**तिष्ठन्यदाजपंकुर्याद्धस्तोहृदयसंमितः। आसीनजपएवस्याज्जानु मात्रेणसंमितः। **विशेषांतरमा हसएव—**जपस्येहविर्धिवक्ष्येयथाशक्तिसमासतः। नचक्रमन्नविहसन्नपार्श्वमवलोकयन्। नापाश्रितोन जल्पं श्चनप्रावृतशिरास्तथा। पादेनपादमाक्रम्यनचैवहितथाकरौ। नैवंविधंजपंकुर्यान्नचसंश्रावयेज्जपम्। उष्णीषी कंचुकीनग्नोमुक्तकेशोगलावृतः। अपवित्रकरोऽशुद्धःप्रलपन्नजपेत्क्वचित्। क्रोधोमदःक्षुधातंद्रानिष्ठिवन विजृंभणे। श्वनीचदर्शनं निद्राप्रलापश्चजपद्विपः। एतेषांसंभवेवापि कुर्यात्सूर्यादिदर्शनम्। आचम्यवाजपेच्छेषं कृत्वावाप्राणसंयमम्। **चंद्रोदयेसांबपुराणे—**जपंकुर्वन्यदिष्ठीवेत्क्षुवतेजृंभतेपिवा। आचामेद्भुविन्यस्ताक्षः स्पृशेदम्भोथगोमयम्। **योगयाज्ञबल्क्यः—**प्रसार्यपादौनजपेत्कुक्कुटासनए।

उपपातकनाशिनी। लक्षजाप्येनचतथामहापातकनाशिनी। कोटिजाप्येनराजेंद्रयदिच्छतितदाप्नुयात्। मनुः—

सहस्रकृत्वस्त्वभ्यस्यबहिरेतत्त्रिकंद्विजः। महतोप्येनसोमासात्त्वचेवाहिर्विमुच्यते। त्रिकंप्रणवव्याहृतित्रयं गायत्रीच। व्यासः—

अष्टोत्तरशतंनित्यमष्टाविंशतिमेवचा। विधिनादशकंवापित्रिकालेपुजपेद्बुधः। यम स्मृतौनारसिंहेच—

सहस्रपरमांदेवींशतमध्यदिशावराम्। गायत्रींतुजपेन्नित्यंसर्वपापप्रणाशिनीम्। याज्ञब ल्क्यः—

जपन्नासीतसावित्रींप्रत्यगातारकोदयात्। संध्याप्राक्प्रातरेवंहितिष्ठेदासूर्यदर्शनात्। प्रत्यक्प्रत्यङ्मुखः।प्राक्प्राङ्मुखः। अत्रोदयोत्तरंकालांतरेसायंसंध्यावंदनेपिउत्तरावधौ विधेयेनासनप्रत्यङ्मुखत्वयोर्बाधः एवं प्रातरपि। अबाधेनगतौसंभवत्यांबाधायोग्यत्वात्। मनुः—

पूर्वांसंध्यांजपंस्तिष्ठेत्सावित्रीमार्कदर्शनात्। पश्चिमां तुसमासीनः सम्यगृक्षविभावनात्। दशेत्यापत्परमितिचंद्रिका। संभवापेक्षयाविकल्पइतिदेवजानीये। सूर्योदयनक्षत्रावधिर्जपः काम्यः। कामनाभावेविहितदशादिसंख्याग्रहइत्याचारादर्शः। तन्न कामाश्रुतेः। आपद्यष्टसंख्येतिस्मृत्यर्थसारेआपस्तंबः—

सावित्रीसहस्रकृत्वआवर्तयेच्छतकृत्वअपरिमितकृत्वोवेति। अपरिमितेत्यनेनगणनाननिराक्रियते। —असंख्यातंतुयज्जसंतज्जसंनिष्फलंभवेदितिशंखोक्तेः। किंतुसह स्रादिभ्योऽधिकसंख्याग्रहणषाष्ठन्यायादितिकेचित्। युक्तंत्वत्राष्टाविंशत्यादिन्यूनग्रहणमेव। सहस्रकृत्व इत्युक्त्वाशतकृत्वइतिन्यूनप्रक्रमात्। षाष्ठेतुएकादेयातिस्रोदेयाइत्यधिकोपक्रमाद्वैलक्षण्यमिति। चंद्रिकायां योगयाज्ञबल्क्यः—

ब्रह्मचार्याहिताग्निश्चशतमष्टोत्तरंजपेत्। वानप्रस्थोयतिश्चैव सहस्रादधिकंजपेत्। शत मित्य नुदितहोमिपरमितिचंद्रिका

** जपमालाविचारः। माधवीयेशंखः—**

कुशवृस्यांसमासीनः कुशोत्तरीयोवाकुशपवित्रपाणिः सूर्याभिमुखो वाक्षमालामादायदेवतां ध्यायन्जपंकुर्यादिति। स्कांदे—

सौवर्णंराजतंताम्रस्फाटिकरत्नजंतथा। अरिष्टंपुत्रजीवं (?) शंखं पद्मं तथामणिम्। कुशग्रंथिंचरुद्राक्षमुत्तमंचो

त्तरोत्तरम्। **सांबपुराणे—**प्रवालहेममुक्ताभिर्मणिरुद्राक्षपुष्करैः। दर्भारिष्टकबीजैश्च शंखैर्वाजीवकैर्जपेत्। **रामार्चनचंद्रिकायाम्—**तुलसीकाष्ठघटितैर्मणिभिर्जपमालिका। सर्वकर्मसुसर्वेषामीप्सितार्थफलप्रदा। **हारीतः—**स्फटिकेंद्राक्षकैर्मालातथैवांगुलिपर्वभिः। शंखरूप्यमयीमालाकांचनीनिंबजोत्पलैः। पद्माक्षकैश्च रुद्राक्षैर्विद्रुमैर्मणिमौक्तिकैः। गौतमः– अंगुल्याजपसंख्यानमेकमेकमुदाहृतम्। रेखयाष्टगुणंपुत्रजीवै (?) र्दशगुणाधिकम्। शतंस्याच्छंखमणिभिः प्रवालैश्चसहस्रकम्। स्फटिकैर्दशसाहस्रंमौक्तिकैर्लक्षमुच्यते। पद्माक्षैर्दशलक्षंतु सौवर्णैः कोटिरुच्यते। रुद्राक्षमधिकृत्योमासंवादेा। — लक्षकोटिसहस्राणिलक्ष कोटि शतानिच। जपेतुलभतेपुण्यंनात्रकार्याविचारणा। शिवकार्तिकेयसंवादेलैंगे — सर्वमंत्रजपं कुर्याद्द्विजो रुद्राक्षमालया। ब्राह्मे–सशब्दाचंचलायाचत्रुटिताग्रंथिनाविना। भिन्नसूत्रेणग्रथिता पाखंडस्यपुरातनी। मालादुःखप्रदायिन्योग्रथितानिंद्यतंतुभिः। वाराहे–उत्तमाष्टाधिकशतं चतुः पंचाशन्मध्यमा। कनीयसी तदर्थंच परिमाणेन सुंदरि। नोच्छिष्टःसंस्पृशेत्तांतुस्त्रीणांहस्तेनधारयेत्। आकाशेस्थापनंकुर्यान्न चवामेनसंस्पृशेत्। नदर्शयेच्चकस्यापिचितयित्वाचगोपयेत्॥॥ मालासंस्कारविधिःमंत्रदेवप्रकाशि कायाम्–समासेनाक्षसूत्रस्यविधानमिहकथ्यते। पंचविंशतिभिर्मोक्षस्त्रिंशद्भिर्ध नसिद्धयः। सर्वेऽर्थाः सप्तविंशत्यापंचदश्याभिचारकम्। पंचाशद्भिःकाम्यकर्मसिद्धिःस्याच्चतुरुत्तरैः। अष्टोत्तरशतैः सर्वसिद्धिरक्षैः कृतस्रजः। अन्योन्यसमरूपाणिनातिस्थूलाकृतीनिच। जंतुभिर्नविशीर्णानिनजीर्णानिनवानिच। गव्यैस्तुपंच भिस्तानि संप्रक्षाल्यपृथक्पृथक्। ततोद्विजें द्रपुण्यस्त्रीनिर्मितंग्रंथिवर्जितम्। त्रिगुणंत्रिगुणीकृत्य सूत्रंप्रक्षाल्य पूर्ववत्। अश्वत्थपत्रैर्नवभिःपद्माकारंप्रकल्पयेत्। सूत्रंमणींश्वगंधाद्भिःक्षालितांस्तत्रनिक्षिपेत्। तारंशक्तिं मातृकांचसूत्रेचैवमणिष्वथ। विन्यस्यपूजयेदाज्यैर्जुहुयाद्भक्तिसंयुतः। मणिमेकैकमादायसूत्रेतत्रतुयोजयेत्। मुखेमुसंतुसंयोज्यंपृष्ठेपृष्ठंचयोजयेत्। प्रोक्तसंख्यान्यमेकाक्षं मेरुत्वेनाग्रतोन्यसेत्। एकैकमणिमध्येतुग्रंथि बंधंप्रकल्पयेत्। स्वयंग्रथितमालातुश

कस्यापिश्रियंहरेत्। एवंकृताक्षमालायांज्येष्ठेनवर्तयेत्क्रमात्। भुक्तिमुक्तिप्रदःसोयंमालिकागणनक्रमः। अंगुष्ठेनाक्षमालांचचालयेन्मध्यमाग्रतः। तर्जन्यानस्पृशेत्सोयमुक्तिदोगणनक्रमः। अंगुष्ठमध्यमाभ्यांतुजपे दुत्तमकर्मणि। अंगुष्ठानामिकाभ्यांतुजपेदाकृष्टकर्मणि। तर्जन्यं गुष्ठयोगात्तुद्विपदुच्चाटनेजपः। कनिष्ठांगुष्ठ काभ्यांतुजपेन्मारणकर्मणि। जपान्यकालेतांमालांपूजयित्वातुगोपयेत्। जीर्णेसूत्रेपुनःसूत्रग्रंथयित्वाशतं जपेत्। प्रमादात्पतितेहस्ताच्छतमष्टोत्तरजपेत्। जपेन्निषिद्धसंस्पर्शेक्षालयित्वायथोचितम्। अक्षसूत्रंतु निपतेद्भूमौचेत्कुर्वतोपम्। उद्धारंतस्यकुर्वीतजापकोहृदयेनतु। हृदयमघोरायनमइतिमत्रः।**योगयाज्ञ बल्क्यः—**अंगुष्ठस्यतुमध्यस्थंपरिवर्तसमाचरेत्। परिवर्तोभ्रमणम् अगुष्ठाग्रेणयज्जप्तंयज्जप्तंमेरुलघितम्। असंख्यातंतुयज्जप्तंतज्जप्तंनिष्फलं भवेत्। स्मृतिरत्नावल्याम् — पर्वभिस्तुजपः कार्योनांगुलीनांनिपातनैः। तन्निपातैस्तुयज्जप्तंसर्वविद्यात्तदासुरम्। अंगुलीनामंगुष्ठनिपातेगुलिनिषेधोनेत्युक्तम्। मंत्रदेव प्रकाशिकायाम्— तंत्रांगुलिजपंकुर्वन्सांगुष्ठागुलिभिर्जपेत्। अंगुष्ठेनविनाकर्मकृतंतदफलं भवेत्। गौतमोपि—अंगुष्ठेनजपेज्जाप्यमन्यैरंगुलिभिःसह। अगस्त्यसंहितायाम्—मध्यमाद्यद्वयंपर्वजपकाले तुवर्जयेत्। एतंमेरुंविजानीयाद्दूपितंब्रह्मणापुरा। अस्मिन्पक्षेऽनामिकाद्वितीयपर्वप्रभृतिगणना तर्जन्यादि पर्वणिसमाप्तिः।’ पर्वशब्दोरेखावचनइति केचित्। अस्मिन्पक्षेऽनामामध्यरेखामादिंकृत्वातदधः क्रमेण प्रादक्षिण्येनतर्जन्यादिरेखायां समाप्तिः। विधानांतरंमंत्रदेवप्रकाशिकायाम्— अंगुलीपर्वभिर्मत्रजपं नित्यंप्रकल्पयेत्। मध्यमानामिकामध्यपर्वद्वितयकल्पितम्। मेरुप्रदक्षिणीकुर्वन्ननामामूलपर्वसु। आरम्यमध्यमामूलंपर्वातंगणयेत्क्रमात्। अंगुलीर्नवियुंजीतकिंचिदाकुंचितेतले। अंगुलीनांवियोगेतु छिद्रेषुस्रवतेजपः। मालादेरनावश्यकतोक्ता वृद्धपराशरेण—यथाकथंचिद्गणयेत्ससंख्यंतद्भवेद्यथा। चंद्रोदयेसंग्रहे—प्रातसंध्यांगभूतेनगायत्र्याजपितेनच। यथासंख्येनजाप्येनब्रह्मामेप्रीयतांरविः। मध्याह्ने सायं चब्रह्मपदेक्रमाद्रुद्र विष्णुपदे प्रातः पदे मध्याह्न सायंपदेचोह्ये।

॥॥ अथगायत्रीतर्पणम्। नागदेवाह्निकेप्रयोगपारिजातेच— आचम्यप्राणानायम्यगायत्रीतर्पणंकरि ष्यइतिसंकल्प्य तत्सवितुरितिसवितारमावाह्य गायत्रींषडंगेषुविन्यस्यभूः पुरुषसृग्वेदायनमस्तर्पयामि। भुवःपुरुषंयजुर्वेदायनमस्तर्पयामि। स्वःपुरुषंसामवेदायनमस्तर्पयामि। महःपुरुषमथर्ववेदायनमस्तर्पया मि। जनःपुरुषमितिहासपुराणेभ्योनमस्तर्पयामि। तपःपुरुषंसर्वागमायनमस्तर्पयामि। सत्यंसर्वलोकायन मस्तर्पयामि। भुर्भुवःस्वःपुरुषंमंडलांतर्गतंसवितारंतर्पयामि। सवित्रेइतिकेचित्। भूःएकपदांगायत्रींतर्पया मि। भुवःद्विपदांगायत्रींतर्पयामि। स्वःत्रिपदांगायत्रींतर्पयामि। भूर्भुवःस्वःचतुष्पदांगायत्रींतर्पयामिउषसे नमस्तर्पयामि। गायत्रींनमस्तर्पयामि। सावित्रींनमस्तर्पयामि। सरस्वतींनमस्तर्पयामि। वेदमातरं नमस्तर्प यामि। सत्कृतिंनमस्तर्पयामि। सांकृतिमित्यपरे। पृथिवींनमस्तर्पयामि। कौशिकींनमस्तर्पयामि। जयां नमस्तर्पयामि। अपराजितांनमस्तर्पयामि। सहस्रमूर्तिंनमस्तर्पयामि। अनंतमूर्तिंनमस्तर्पयामीति। कृष्णभट्टीयेप्येवम्। श्रीशक्त्यैनमस्तर्पयामीतिकृष्णभट्टः। तन्न मंत्रैरेभिस्तुयोनित्यंचतुर्विंशतिसंमितैः। गायत्रींतर्पयेत्तेनतर्पितंस्याच्चराचरमिति गायत्रीकल्पविरोधात्। तत्रैव— अनेन विधिनाकुर्यात्प्रातः काले चतर्पणम्। मध्याह्णेचैवसायंचमंत्रैरेतैश्चतर्पणम्।

** अथगायत्रीपुरश्चरणम्।** तत्रकाम्येजपेभक्ष्यमुक्तमाचारादर्श—शाकयावकभैक्ष्याणि पयोमूलफलानिच। दधिसर्पिस्तथाह्यापः प्रशस्तंद्युत्तरोत्तरम्। चरमोह्यपवासश्चभक्ष्यंतक्रमयाचितम्। विशशृंगाटशालूकहविष्यान्नानियानितु। एतान्यनुव्रतान्याहुःशस्तानिजपकर्मणि। शाकादिविकल्पेपिभक्ष्य विशेषेणजपारंभेएकादश्युपवासोपिनेतिहरिहरः। तन्न। अस्यरागप्राप्तभक्ष्यनियामकत्वेनोपवासाबाधक त्वात्। **शारदातिलके—**व्याहृतित्रयसंयुक्तांगायत्रींदीक्षितोजपेत्। तत्वलक्षविधानेन भिक्षाशीविजितें द्रियः। तत्त्वानिचतुर्विंशतिः। क्षीरौदन तिलादूर्वाः क्षीरद्रुमसमिद्वराः। पृथक्सहस्रत्रितयं जुहुयान्मंत्रसिद्धये। तर्पणादिततः कृत्वागुरुंसंतोष्ययत्नतः। प्रयोगानाचरेद्विद्वांस्त

दनुज्ञापुरःसरम्। तपर्णादीत्यादिपदेमार्जन विप्रभोजनयोर्ग्रहः॥॥ अथप्रयोगः॥ योगपिठन्यासांते शिरसि ब्रह्मणेऋषयेनमः। मुखेदेवीगायत्रीछंदसेनमः। हृदयेश्रीपरमात्मनेदेवतायैनमः। पुनःशिरसिजमदग्नि67 भरद्वाजभृगुगौतमकश्यपविश्वामित्रवसिष्ठेभ्योऋषिभ्योनमः। मुखे गायत्र्युष्णिगनुष्टुब्बृहतीपंक्तित्रिष्टुब्जग तीभ्यश्छंदोभ्योनमः। हृदयेअग्निवायुसूर्यगुरुवरुणबृषविश्वेभ्योदेवोभ्योनमः। ततोमहाव्याहृतिभिः प्राणायाम त्रयंकृत्वा शिरसिविश्वामित्रायऋषयेनमः। मुखेगायत्रीछंदसेनमः। हृदिसवित्रेदेवतायैनमः ॐ ब्रह्मणेहृदयाय नमः। विष्णवेशिःरसेस्वाहा। रुद्रायशिखायैवषट्। ईश्वरायकवयायहुम्। सदाशिवायनेत्रत्रयायवौषट्। सर्वात्मनेऽस्त्रायफट् इतिषडंगंविधाय हृदिॐभूर्नममुखे। एवं सर्वत्र। भुवःदक्षिणांसे। स्वःवामांसे। महः दक्षोरौ। जनःवामे। तपः जठरे। सत्यं पादांगुलिमूलयोः। तत् गुल्फयोः। सः जानुनोः। विऊरुमूले। तुःलिंगे \। वंनाभौ।वें हृदि। णिंकंठे। यं करांगुलिमूलयोः।भं मणिबंधयोः।र्गौंकूर्परयोः।देंभुजमूलयोः। वं मुखे। स्यंनासिकयोः। धींकपोलयोः। मंनेत्रयोः। हिंकर्णयोः। धिंभ्रुवोः। योंशिरसि। योंचूडाधः। नःवामकर्णे। (प्रं) दक्षिणकर्णे। चों मुखे। दं शिरसि। यात्नमः शिरसि॥ तत् भ्रूमध्ये \। सवितुः नेत्रयोः। वरेण्यंमुखे। भर्गः कंठे। देववहृदि। धीमहिनाभौ। धियः गुह्ये। यः जानुनोः। नःपादयोः। प्रचोदयात् पुनः शिरसि। ॐ आपोज्योतीरसोमृतंब्रह्मभूर्भुवःस्वरोंनमइतिविन्यस्यध्यायेत्। गायत्रीरहस्ये—

पंचवक्रांचतुर्बाहुंप्रतिवक्रं त्रिलोचनाम्। जटाकिरीटांषट्कुक्षिंत्रिपदांस्फटिकप्रभाम्। साक्षसूत्राभयांकुशौदधतीं दक्षहस्तयोः। सवारिजपत्रवरदांलगुडंवामहस्तयोः। आत्मपूजांतेसौरपीठमभ्यर्च्य तत्रमंत्रमूर्तिगायत्र्याः परिकल्प्य तस्यांदेवीमावाह्य पुष्पतिरुपचारैः संपूज्य त्रिकोणस्थाग्नेयकोणादिप्रादक्षिण्येनकोणत्रये ॐ ब्राह्मैनमः। माहेश्वर्यैनमः। वैष्णव्यैनमः इतिसंपूज्य कर्णिकायामेवत्रिकोणाद्बहिरैंद्र्यादिचतुर्दिक्षु

ॐ आदित्याय नमः। रवयेनमः। भानवे नमः। भास्करायनमः। आग्नेयादिचतुष्कोणेषुउंउमायैनमः। प्रंप्रज्ञायैनमः। प्रंप्रभायैनमः। संसंध्यायैनवः। अष्टदलकेसरेषुअंगानिसंपूज्यदेलेषु प्रह्लादिन्यैनमः। प्रभायैनमः नित्यायैनमः विश्वंभरायै० विशालिन्यै० प्रभावत्यै० जयायै० शांत्यै० दलाग्रेषुकांत्यै० दुर्गायै० सरस्वत्यै० विश्वरूपायै ० विशालायै ० ईशायै० व्यापिन्यै० विमलायै ०। द्वितीयाष्टदलमूलेषुतमोपहारिण्यै०। सूक्ष्मायै० विश्वयोन्यै० जयावहायै० पद्मालयायै० परायै० शोभायै० पद्मरूपायै०दलमध्येषुब्राह्मयाद्याः नारसिंहीचाष्टमी ब्राह्मयै० माहेश्वर्यै० कौमार्यै० वैष्णव्यै० वाराह्यै० इंद्राण्यै० चामुंडायै ० नारसिंह्यै० इति। दलाग्रेषुसो मद्यष्टग्रहान्। सोमाय० भौमाय० बुधाय ०बृहस्पतये ० शुक्राय शनैश्चराय० राहवे० केतवे० इति सर्वान्संपूज्य चतुरस्रवीथीद्वयेइंद्रादीन्वज्रादीश्चइंद्राय० अग्नये० यमाय० निर्ऋतये ० वरुणाय वायवे ० सोमाय० ईश्वराय० इति। वज्राय० शक्तये० दंडाय० खङ्गाय० पाशाय ० अंकुशाय० गदायै० त्रिशूलाय० इति संपूज्यधूपादिपूजांसमाप्यजपंकृत्वा जपदशांशेनप्रत्यहं सर्वजपांतेवाहोमं कुर्यात्। अत्रमूलंगायत्री रहस्येज्ञेयम्। इतिगायत्रीपुरश्चरणविधिः ॥

** उपस्थानम्। गायत्रीजपोत्तरंकर्तव्यमुक्तकौर्मगारुडयोः—**सावित्रींप्रजपेद्विद्वान्प्राङ्मुखः प्रयतः शुचिः। अथोपतिष्ठेदादित्यमुदयंतंसमाहितः। **वसिष्ठः—**शास्त्रैस्तुविविधैःसौरैर्ऋग्यजुःसामसंभवैः। उपस्थानं स्वकैर्मं त्रैरादित्यस्यतुकारयेत्। **बह्वृचपरिशिष्टे—**जातवेदसेतच्छंयोरितिनमोब्रह्मणइत्येताभिः प्रदक्षिणं दिशःसाधिपान्नत्वाय संध्यायै सावित्र्यै गायत्र्यै सरस्वत्यैसर्वाभ्योदेवताभ्यश्चनमस्कृत्य। उत्तमेशिखरेदेवि भूम्यांपर्वतमूर्धनि। ब्राह्मणैरभ्यनुज्ञातागच्छदेवियथासुखमितिसंध्यांविसृज्य भद्रंनोअपिवातयमनइत्युक्त्वाशा तिंचत्रिरुच्चार्यप्रदक्षिणंपरिक्रमन्। आसत्यलोकादापातालादालोकालोकपर्वतात्। येसंति ब्राह्मणादेवास्तेभ्यो नित्यंनमोनमः इतिनमस्कृत्य भूमिमुपसंगृह्य

गुरून्वृद्धांश्चोपगृह्णीयादेवंसायमिति। पर्वतवासिनि। ब्रह्मणासमनुज्ञातेतिदेवजानीयेपाठः। आश्वलायनः—जप्त्वोदितेसमुत्तिष्ठन्नुपतिष्ठेद्दिवाकरम्। ऋग्भिश्चतसृभिर्मंत्रैर्गायत्रैरेवबह्वृचः। उपस्थायेतरस्वीयैर्मंत्रैः कुर्यात्प्रदक्षिणम्। चतुः प्रदक्षिणंकुर्याज्जपदोषापनुत्तये। तस्माद्भूरिदमित्युक्त्वाकुर्यात्पूर्वप्रदक्षिणम्। भुवः स्वर्भूर्भुवःस्वेतिचतुर्वारंपृथक्पृथक्। ततःशक्रादिकान्नत्वापूर्वंवाथप्रदक्षिणात्। तत्तन्मंत्रैरुपस्थाय स्पृष्ट्वाभूर्मि नमेद्गुरून्। ततोऽभिवादयेद्भूमौपित्रादिभ्यः सुसंयतः। कीर्तितेभ्योयथान्यायंस्वकीयंनामकीर्तयन्। शौनकः—सायंप्रातरुपस्थायजातवेदसइत्यृचा। तच्छयोर्नमोब्रह्मणइत्युच्चार्यदिशोनमेत्। इममेवरुण तत्त्वे तिसायंकालेविशेषतः। मित्रस्यचर्पणीद्वाभ्यांप्रातःकालेपिसंजपेत्। पिशंगभृष्टिमित्यृचामुखंस्पृश्यप्रदक्षिणम्। भद्रंकर्णेतिमंत्रेणकर्णंस्पृष्ट्वाप्रदक्षिणम्। केश्यग्निमित्यृचैकया शिखांस्पृष्ट्वाप्रदक्षिणम्। संध्यांगायत्रींसावित्रीं सर्वान्देवान्प्रणम्यच। स्मृत्यर्थसारे–यद्वोभयत्रजातवेदसेनवैष्णवैरौद्रैर्वोपतिष्ठेतेति नारायणः। वारुणीभि स्त थादित्यमुपस्थायप्रदक्षिणम्। कुर्वन्दिशोनमस्कुर्याद्दिगीशांश्चपृथक्पृथक्। प्रदक्षिणाभिवादौ च आत्मानंचाभि वादयेत्। आत्मपादौतथाभूमिंसंध्याकालेभिवादयेत्। वारुण्यःसायंसंध्यापराइतिचंद्रिकातत्रैवबौधायनः— सायंजपांतेरात्र्युपस्थानमाहवारुणीभ्यांरात्रिमुपतिष्ठेतइममेवरुणतत्त्वायामीतिद्वाभ्यां। दिगभिवादनेप्रा च्यैदिशेइंद्रायनमः दक्षिणायैदिशेयमायनमइत्यादिप्रयोगइति केचित्। अन्येतु प्राच्यैदिशेयाश्चदेवताएत स्यांप्रतिवसंत्येताभ्यश्चनमोनमइत्यादितैत्तिरीयारण्यकमंत्रैरित्याहुः॥

** अभिवादनम्। यमः—**ज्यायानपिकनीयांसंसंध्याकालेऽभिवादयेत्। विनाशिष्यंचपुत्रंचदौहित्रंदुहितुः पतिम्। सुदर्शनभाष्ये— रोरेममृज्येचिषुवृद्धिरादौठात्पेचवांत्यश्रवशाश्वयुक्षु। शेषेषुनाम्वःकपरः स्वरोंत्यः स्वाप्वोरदीर्घःसविसर्गइष्टः। अस्यार्थः — रोहिणीरेवतीमघामृगज्येष्ठाचित्रासुरौहिणोरैवतइति आदि वृद्धिर्वा। नक्षत्रेभ्योबहुलमितिनक्षत्राणांवालुगुक्तेः। ठात्येप्रोष्ठपदशब्देठकारात्परेपकारेवृद्धिः। उत्तरपदा

धिकारे जेप्रोष्ठपदानामित्युक्तेः। अंत्यमपभरणी शब्द68श्रुतौतथोक्तेः। श्रवणशतभिषक्अश्वयुक्षुवाआदि वृद्धिः।अपभरणः आपभरणः श्रवणः श्रावणः शतभिषक् शातभिषजः अश्वयुक् आश्वयुजः। भरणीशब्देपिवा। नक्षत्रेभ्योबहुलम् वत्सशालेतिचवालुगुक्तेः। शेषेपुनवृद्धिर्नत्यर्थः। कृत्तिकः तिष्य आश्लेषः फल्गुनः हस्तः विशाखः अनूराधः अषाढः श्रविष्ठः। श्रविष्ठेत्यादिनानित्यंलुगुक्तेः। आर्म्वोरार्द्रा मूलयोरंत्यःस्वरः कपरः। आर्द्रकः मूलकः पूर्वाह्णपराह्णेत्यादिनावुन्। स्वाप्योःस्वातीपुनर्वस्वो रत्यःस्वरोदीर्घःसविसर्गश्च। स्वातिः पुनर्वसुः। एषांनाम्नांसंध्याभिवादने प्रथमया निर्देशइतिसुदर्शनाचार्यः। अभिजित् अभिजितः कृत्तिकः कार्तिक इतितुयुक्तम्। धनिष्ठेत्यत्रापिवादिवृद्धिः श्राविष्ठीयः आ षाढीयइत्यपिबहुलोक्तेः। तत्तन्नक्षत्रचरणाक्षरघटितंनामपठंतिशिष्टाः। नागदेवाह्निके—

भोःशब्दकीर्तये दंतेस्वस्यनाम्नोभिवादने। आयुष्मान्भवसौम्येतिवाच्यो विप्रोऽभिवादने। अकारश्चास्यनाम्नोंऽतेवाच्यः पूर्वोत्तरः प्लुतः। तदुत्तरकृत्यमाहवृद्धपराशरः—

यदक्षरपदभ्रष्टमात्राहीनंचयद्भवेत्। तत्सर्वंक्षम्यतांदे विकाश्यप प्रियवादिनि। पुष्पसारसुधानिधौ–प्रातःसंध्यावसानेतु नित्यंसूर्यंसमर्चयेत्। संध्याकालातिक्रमे प्रायश्चित्तं कर्मप्रदीपे—

प्रातःसंध्यांसनक्षत्रांनोपास्तेयः प्रमादतः। गायत्र्यष्टशतंतस्यप्रायश्चित्तंविशुद्धये। प्रातःकालांतरोपलक्षणमिति पृथ्वीचंद्रःदक्षः—

संध्यामकुर्वतःकालेउदयेस्तमयेपिवा। गायत्र्यष्टशतं जाप्यंप्रायश्चित्तंभवेत्तदा। चतुरर्ध्यंतुगायत्र्यादद्याद्व्याहृतिसंयुतम्। कालातीतविशुद्ध्यर्थंततः संध्यांसमाचरे त्। स्कांदे—

उदयास्तमयादूर्ध्वंयावत्स्याद्धटिकात्रयम्। तावत्संध्यामुपासीतप्रायश्चित्तमतः परम्। संध्या कल्पेस्मृत्यंतरे—

प्राणायामत्रयंप्रातर्द्विगुणंसंगवेस्मृतम्। मध्याह्नेत्रिगुणंप्रोक्तमपराह्णेतुषगुणम्। सायाह्ने द्वादशगुणं सूर्यहत्यांततोव्रजेत्। प्रातरादिष्वकरणइत्यर्थः। शातातपः—

निश्यर्धयामेवातीते अर्धयामेपिवासरे। अतिकालमतिक्रांतसेंध्यालोपंनकारयेत्। संध्याकाले

व्यतिक्रांतेजपंकृत्वापुनर्मनः। ऋचंद्व्यृचंतृचंवापिपुनः संध्यामुपासयेत्। पुनस्त्वर्थे। इदंचरात्रिप्रथमया मावधिदिवोदितानीत्याद्युक्तवचनात्। तदूर्ध्वप्रायश्चित्तमात्रम्। यदाप्रातर्मध्याह्नसायंसंध्यानामेककाले प्राप्तिस्तदाप्रातःसंध्यांपूर्वकुर्यात्। संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु। यदन्यत्कुरुते कर्मनतस्य फलभाग्भवेदितिकाशीखंडे प्रातःसंध्याप्रकरणेपाठात्प्रातः संध्यांविनाकर्मांतरेऽनधिकारात्। विज्ञानेश्वर स्तुसंध्यापदंसर्वसंध्यापरमित्याह। मध्याह्नसायंसंध्ययोःसंपातेपूर्वंसायंसंध्या मध्याह्नंसध्यायाः सायंसंध्या धिकारसंपादकत्वाभावात्। प्राप्तकालबाधेमानाभावात् एकस्यगौणकालत्वेसंभवत्युभयोर्गौणकाल त्वस्यान्याय्यत्वाच्च पांचमिकसांतपनीयांतःपात्यग्निहोत्रन्यायाच्च सहालंभेसवनीयोपाकरणन्यायाच्च। यत्तुस्मृत्यंतरे—दिवोदितानि कर्माणिप्रमादादकृतानिवै। शर्वर्याःप्रथमेयामेतानिकुर्याद्यथाक्रममिति तत्सायंसंध्यामुख्यकालातिक्रमेज्ञेयम्। अतएवसायंसंध्यामुख्यकालातिक्रमेतिसृृणामपिगौणेकालेक्रमेणै वानुष्ठानम्। सायंसंध्यागौणकालस्तुरात्रौसार्धप्रहरावधिः। रात्रिभोजनस्यसार्धप्रहरकालोक्त्या संध्याभावे भोजनासंभवात् प्रदोषावसानेसायंसायंसंध्यायागौणकालइतिमाधवीयेदेवजानीयेच। संध्याप्रकरणे प्रायश्चित्तं परिभाषायामुक्तं तत्प्रतिनिधिनापिकार्यमित्युक्तम्। इति श्रीमद्रामेश्वरभट्टसूनु० लक्ष्मण भट्टकृतावाचाररत्नेसंध्याप्रकरणम्॥

** अथौपासनहोमः। हेमाद्रौशाट्यायनिः—**ततःसूर्यमुपस्थायसम्यगाचम्यचस्वयम्।अभ्युक्षणंसमादाय संयतात्मागृहंव्रजेत्। **तत्रैवगार्ग्यः—**त्रिसंध्यांवाग्यतोवारिगुप्तमाहृत्यशोधयेत्। होमोपहारभूगेहद्रव्यात्म परिचारकान्। **चंद्रिकायांप्रचेताः—अभ्युक्षणोद पात्रंतुनतावत्स्याप्यतेक्वचित्। यावन्नाचमनं दत्तंप्रोक्षिता नगलंतिका। असमर्थंप्रत्याहशांखायनिः—**नद्यादौसम्यगाचांतः संयतो गृहमागतः। उद्धृत्यमणिकात्तोयं तेनप्रोक्षणमाचरेत्। गृहेवासमुपस्पृश्यकृत्वास्वर्णकुशोदकम्। कृत्वाचमनमाचांतः पुनः प्रोक्षणमाचरेत्। **चंद्रिकायांगोभिलसूत्रे—**पुराप्रादुष्करणवेलायाः सायंप्रातरपआहरेदनुगुप्तादपिवाकुंभाद्वामणिकाद्वा गृह्णीयादिति। **तत्रैवशाट्यायनिः—**अब्जंहिरण्म।

यंरौप्यंदारवंमृण्मयंदृढम्। ताम्रंपत्रपुटंपुण्यंपात्रमभ्युक्षणायवै। अभ्युक्षणकरणव्युत्पत्त्याजलं। पत्रपुटमन्या लाभपरम्। सर्वालाभेतुपात्राणांपर्णपात्रंविधीयतइत्यापस्तंबोक्तेःआपस्तंबः— शैवालवालुकादूर्वा तृणपर्णायसैरपि। नालिकाभिन्नपात्रेणकांस्यपात्रेणचैवहि। प्राण्यंगफलजेनापिकुर्यान्नाभ्युक्षणंद्विजः। **शाट्यायनिः—**नाहरेदेकपात्रस्तुनाव्रतोनचकन्यका। एकपात्रः पिधानरहितपात्रः। **ततोग्निप्रादुष्करणं कात्यायनः—**सूर्येस्त शैलमप्राप्तेषड्विंशिद्भिःसदांगुलैः। प्रादुष्करणमग्नीनांप्रातर्भासांचदर्शनात्॥

अधहोमः। तत्रशक्तेनार्धाधानंकृत्याश्रौतःस्मार्तश्चहोमःकार्यः। श्रौतंस्मार्तंचयत्किंचिद्विधानं सर्वमाद रा त्।गृहेनिवसताकार्यमन्यदादोषमृच्छतीतिमनूक्तेः। तत्राशक्तःसर्वाधानंकृत्याश्रौतमेव यावज्जीवंजुहुयात् यावज्जीवश्रुतेः। [एतेनैकादश्यांतमकुर्वंतःपरास्ताः। अकरणेप्रत्यवायश्रुतेः अहरहरितिवक्ष्यमाणापस्तं बोक्तेश्च, होमकालातिक्रमेहोमलोपेचप्रायश्चित्तोक्तेश्च, कर्मस्मार्तंविवाहाग्नौ कुर्वीतप्रत्यहंगृहीतियाज्ञब ल्क्योक्तेश्च, अग्निहोत्रंचजुहुयादाद्यंतेद्युनिशोःसदेतिमनूक्तेः, अथतत्रैववसतिहोमकालव्यतिक्रमः। लौकिकोऽग्निर्विधीयेतकाठकश्रुतिदर्शनादितिचंद्रिकायांशौनकोक्तेः, पक्षहोमैश्चतुर्दशचतुर्गृहीतानुपप त्तेश्च, सप्तशतानिविंशतिश्चसंवत्सरेसायमाहुतयोहूयंते सप्तशतानिविंशतिश्चप्रातरित्यादिश्रुत्यनुपपत्तेश्च यत्किंचिदेतत्]। त्रीणिवर्षाणिविप्राइतिभारतात् यावज्जीवाशक्तौवर्षत्रयंवाजुहुयात्। येचाग्निहोत्रंजुह्वति श्रद्दधानायथाम्नायमितिस्मृतेः। तत्राप्यशक्तःस्मार्तमेवजुहुयान्नत्वादध्यात् तत्राप्यशक्तः सदाचारमात्रं कुर्यान्नस्मार्तमपि। श्रौतं कर्मनचेच्छक्तःकर्तुंस्मार्तसमाचरेत्। तत्राप्यशक्तः करणेसदाचारंलभेद्बुधइति चंद्रिकायांव्यासोक्तेःकौर्मे—अथागम्यगृहंविप्रः समाचम्ययथाविधि। प्रज्वाल्यवर्ह्निविधिवज्जुहुया ज्जातवेदसम्। तत्रश्रौतस्मार्तंवाहोमंयजमानएवस्वयंकुर्यात्। अहरहर्यजमानः स्वयमग्निहोत्रंजु हुयात्पर्वणिवेत्यापस्तंबोक्तेः। अत्रपर्वणिस्वयमेवेतिनियमोनतुपर्वण्येवस्वयमिति। पाणिग्रहणादिगृह्यं परिचरेत्स्वयंपत्न्यपिवापुत्रः कुमार्यंतेवा

सीवेत्याश्वलायनोक्तेः। स्वस्याशक्तौमाधवीयेचंद्रिकायचशातातपः— श्रौतयत्स्यात्स्व++++++तमप्यन्यः कुर्यादाचारमंततः। चंद्रोदयेगारुडे—

ऋत्विक्पुत्रोगुरुर्भ्राताभागिनेयोऽथविट्पतिः। एतैरेवहुतंयत्स्यात्तद्धुतं स्वयमेवतु।विट्पतिर्जामाता। तत्रैवकौर्मे—

ऋत्विक्पुत्रोथवापत्नीशिष्योवापिसहोदरः। पत्नीस्मार्तएव। कामं गृह्येग्नौ जुहुयात्सायंप्रातर्होमावितिगोभिलोक्तेः। स्मृत्यर्थसारे

पत्नीकन्याचजुहुयाद्विनापर्युक्षणक्रियाम्। अत्रऋत्विक्त्रिधा—

प्रतिकर्मवृतः, परंपरागतः, एकस्यसर्वकर्मार्थंसकृद्वृतश्च। आद्ययोरेवहोमकर्तृत्वमिति वृत्तिकृत्॥॥ अन्यकर्तृकहोमेविशेषःस्मृत्यर्थसारे—असमक्षंतुदंपत्योर्होतव्यंनर्विगादिना। द्वयोरप्य समक्षंचेद्भवेद्धुतमनर्थकम्। **कात्यायनः—**प्रक्षिप्याग्निंस्वदारेषुपरिकल्प्यर्त्विजंतथा। प्रवसेत्कार्यवान्वि प्रोवृथैवनचिरंवसेत्। **स्मृत्यर्थसारे—**संनिधौयजमानःस्यादुद्देशत्यागकारकः। असंनिधौतुपत्नीस्यादुद्देश त्यागकारिका। असंनिधौतुपतन्याः स्यादध्वर्युस्तदनुज्ञया। उन्मादेप्र सवेवर्तौकुर्वीतानुज्ञयासदा। सर्वदायज मानोवात्यजेत्तद्दिङ्मुखः शुचिः। **मनुः—**उदितेऽनुदितेचैवसमयाध्युषितेतथा। सर्वथावर्तते यज्ञइतीयंवैदिकी श्रुतिः॥॥ अनुदितादिलक्षणमाह कात्यायनः—रात्रेःस्तुषोडशेभागेग्रहनक्षत्रभूषिते। कालंत्वनुदितंज्ञात्वा होमंकुर्याद्विचक्षणः। तथाप्रभातसमयेनष्टेनक्षत्रमंडले। रविर्यावन्नदृश्येतसमयाध्युषितंचतत्। रेखामात्रं चदृश्येतरश्मिभिश्चसमन्वितः। उदितंतंविजानीयात्तत्रहोमंप्रकल्पयेत्। अनुदितहोमः कातीयछंदोगपरः। उदितहोमोबह्वृचपरइतिमदनपारिजातः। अनुदितहोमिभिरर्ध्यंदत्वासूर्यो दयात्पूर्वंहुत्वागायत्रीजप्या। उदित होमिभिस्तुजप्त्वाहोतव्यमिति पृथ्वीचंद्रः। उभयोः संध्यांसमाप्यहोमइति कल्पतरुः॥॥ अनुदितहोमिनोगौणकालमाह कात्यायनः—

हस्तादूर्ध्वंरविर्यावद्गिरिंहित्वानगच्छति। तावद्धोमविधिः पुण्योनान्योऽनुदितहोमिनाम्। यावत्सम्यङ्नभाव्यंतेनभस्यृक्षाणिसर्वतः। नचलोहितिमापैति तावत्सायंच हूयते। रजोनीहारधूमाभ्रवृक्षाग्रांतरितरवौ। संध्यामुद्दिश्यजुहुयाद्व्र

तमस्यनलुप्यते। सायंत्वर्धास्तमितेसूर्येनुदित होमिनोहोमकालः। अस्तमितेतूदितहोमिनः। तथाचोशनाः—अर्धमंडलसंप्राप्तेभानावनुदितेहुतम्। तस्मिन्नस्तमितैहोमोभवेदुदितएवतु॥॥ मुख्यगौणकालावाहा पस्तंबः— तस्मात्संधौहोतव्यंनक्षत्रदृष्ट्वाप्रदोषेनिशायांवासायमिति। संधिरर्धास्तोदयौनक्षत्रमेकं सर्वोदयः प्रदोषः द्वितीययामोनिशेतिमाधवः। सायंप्रातश्च संधिर्मुख्यकालः नक्षत्रदर्शनादयस्त्रयः सायं गौणाइति माधवपृथ्वीचंद्रौधूर्तस्वामिभाष्येरामांडारेचचत्वारोमुख्यकालाइत्युक्तम्। प्रातर्होमकालश्चतुर्धाआप स्तंबेनोक्तः। उपस्युपोदयं—समयाध्युषितं—उदितं—प्रातरिति आश्वलायनः। प्रदोषांतोहोमकालः संगवांतःप्रातस्तमतिनीयचतुर्गृहीतमाज्यंजुहुयादितिप्रदोषातिक्रमेप्रायश्चित्तविधानात्तदंतोमुख्यः कालइति कश्चित्। तन्न। संधौतदुत्तरंच होमे फलतुल्यतापत्तेः। अतःसंधिरेवमुख्यः। कालातिपत्तिर्नवनाडि कोर्ध्वमितिचंद्रिका। प्रातर्द्वादशनाडिकोर्ध्वंकालच तुष्टयातिपत्तिः। स्मृत्यर्थसारे– प्रातर्होमः संगवांतः कालस्त्वनुदितस्तथा। सायमस्तमितेहोमकालस्तुनवनाडिकाः। संगवःपंचधाभक्तदिनद्वितीयांशः। रामांडारोप्येवम्। कालातिक्रमेप्रायश्चित्तोर्ध्वमपिहोमःकार्यः।यदिगृह्येनौसायंप्रातर्होमयोर्हव्यंहोतारं नाधि गच्छेत्कथंकुर्यादित्यासायमाहुतेः प्रातराहुतिर्नित्येत्याप्रातराहुतेःसायमाहुतिरितिगोभिलोक्तेः। गृह्यइति श्रौत स्याप्युपलक्षणम्। अनौचित्यापत्तेः। आसायमितिनकालग्रहणम्। आहुतिपदवैयर्थ्यादिति केचित्। तन्न। सायंहोमोनलब्धश्चेत्तस्यांरात्रावभोजनम्। प्रातर्होमोनलब्धश्चेत्तदहर्भोजनंत्यजेत्। तावताहोमसिद्धिः स्यात्त त्प्रायश्चित्तमिष्यतइतित्रिकांडमंडनविरोधात्। अतएवचंद्रिकायामासायमित्यनेनकालग्रहणं उत्तरस्मि न्कालआगतेहोमश्चेदनिवृत्तः पूर्वस्यसेयंकालातिपत्तिः तस्यांप्रायश्चित्तंमनोज्योतिरित्यादशरात्रमिति भरदाजो क्तेरित्युक्तम्। बह्वृचानात्वतीतबहुहोमानुष्ठानम्। अतीतहोमान्कृत्वादौ काल होमंततश्चरे दितिशौनकोक्तेः। वृत्तिकृताप्येवमुक्तमितिप्रयोगपारिजातःआश्वलायनवृत्तावपि –विहृतेष्वग्निष्वहुते षुहोमांतरकालप्राप्तावुपक्रांतमेवहोमंकालातिपत्ति

प्रायश्चित्तसहितंकृत्वावर्तमानकालमनुद्धृतप्रायश्चित्तसहितंकुर्यात्। अविहृतेषुकालांतरप्राप्तौमन स्वती होममतिपन्नस्यप्रतिहोमं चकृत्वाअनुद्धृतप्रायश्चित्तादीनि। इदमनापत्परम्। आपदितुनकिंचित्प्रायश्चित्तं किंतुहोममात्रं कुर्यात्। आपदितुहोममित्येवप्रतीयादिति बौधायनोक्तेःछंदोगपरिशिष्टे– स्वगृह्योक्तेन विधिनाहोमंकुर्याद्यथाविधि॥॥ **अर्धाधानिनोहोमक्रममाह चंद्रोदयेभरद्वाजः—**होमंवैतानिके कृत्वास्मार्तेकुर्याद्विचक्षणः। स्मृतीनांवेदमूलत्वात्स्मार्तंकेचित्पुराविदुः। **विष्णुः—**बहुशुष्केंधनेचाग्नौसु समिद्धेहुताशने। विधूमेलेलिहानेचहोतव्यंकर्मसिद्धये। योनर्चिषुजुहोत्यग्नौव्यंगारेचैवमानवः। मंदाग्निराम यावीचदरिद्रश्चोपजायते। पात्रादावुद्धृतेह्येग्नौनहोमादिसमाचरेत्। **दामोदरीयेसांबपुराणे—**क्षुत्तृट्क्रो धत्वरायुक्तोहीनमंत्रैर्जुहोतियः। अप्रबुद्धेसधूमेवामोघःस्यादन्यजन्मनि। क्षुत्तृषौप्रमादादेरुपलक्षणमिति रत्नाकरः। स्वल्पेरूक्षेसस्फुलिंगेवामावर्तेभयानके। आर्द्रकाष्ठैः सुसंपूर्णेफूत्करोतिचपावके। कृष्णार्चिषि सुदुर्गंधेतथालिंपतिमेदिनीम्। आहुतीर्जुहुयाद्यस्तुतस्यनाशोभवेद्ध्रुवम्। मदनपारिजाते कात्यायनः— जुहुयुश्चहुतेचैवपाणिशूर्पास्यदारुभिः। नकुर्यादग्निधमनंनकुर्याद्व्यजनादिना। व्रतहेमाद्रौ— मुखेनैवं धमेदग्निंमुखादेषोह्यजायत। नाग्निंमुखेनेतितुयल्लौकिकेयोजयंतितत्। **कात्यायनः—**हविष्येपुयवामुख्या स्तदनुव्रीहयःस्मृताः। अभावेव्रीहियवयोर्दध्नावापयसापिवा। तदभावेयवाग्वावाजुहुयादुदकेनवा। स्मृत्यर्थ सारे–पयोदधियवागूश्वसर्पिरोदनतंडुलाः। सोमोमांसतैलमाषोदशैतान्यग्निहोत्रके। स्यादग्निहोत्रवद्गृह्ये संस्कारोमंत्रवर्जितः। शालिश्यामाकनीवाराव्रीहिगोधूमयावकाः। एतेषांतंदुलाहोम्यायावनालाःप्रियंगवः। प्रियंगवःशालयश्चगोधूमाव्रीहयोयवाः। सारूप्येणापिहौम्याःस्युःस्वरूपेणैववैतिलाः। अत्रव्रीहिपदंपाष्टिक परम्। **छंदोगपरिशिष्टे—**माषकोद्रवगौरादि(?) सर्वालाभेपिवर्जयेत्। **शौनकः—**दध्यादीनाम पक्वानांनाधिश्रयणमुच्यते। उल्मुकेनावज्वलयेदपक्वंपक्वमेवच। सायंहोमेद्रव्यंचप्रातरपिग्राह्यंकर्मैक्यात्। यदिसायंगृहीतं द्रव्यंप्रातर्नलभ्यतेतदाप्रतिनिधिभूतंद्रव्यांतरंग्राह्यं

नतुवैकल्पिकंद्रव्यांतरम्। बृहस्पतिः— प्रस्थधान्यंचतुःषष्टिराहुतिः परिकीर्तिता। तिलानांतुतदर्धंस्यात्त दर्धंस्याद्धृतस्यतु। बौधायनः—व्रीहीणां वायवानांवाशतमाहुतिरिष्यते। कात्यायनः—पाण्याहुति र्द्वादशपर्वपूरिकारसादिनाचेत्स्रुवमात्रपूरिका। दैवेनतीर्थेनचहूयतेहविःस्वंगारिणिस्वर्चिषितच्चपावके। द्वादशपर्वपूरिकाद्रव्यासंभवे टोडरानंदेशंखः—आर्द्रामलकमात्रावैग्राह्याइंदुव्रतेस्मृताः। तथैवाहुतयोग्नौ चशौचार्थेयाचमृत्तिका। बह्वृचपरिशिष्टे—शतंचतुः षष्टिर्वाहुतिर्व्रीहितुल्यानांतदर्धं तिलानांतदर्धं सर्पि स्तैलयोरिति। गोभिलसूत्रे कृतंचेत्प्रक्षाल्यजुहुयादिति। चंद्रिकायांशातातपः—तीर्थायतनसंसृष्टंप्रातरु त्तानपाणिना। द्व्यंगुलंसमिधोतीत्यसर्वत्रजुहुयाद्धविः। चंद्रोदयेसंग्रहे—द्रवस्रुवेणहोतव्यंपाणिना कठिनं हविः। याज्ञबल्क्यः—हुत्वाग्नीन्सूर्यदेवत्यान्जपेन्मंत्रान्समाहितः। आपत्तौ मरीचिः—प्रवसन्नग्निहोत्रीय स्त्रिपंचाश्वाहरादितः। दातव्योहोमएकाहेसायंप्रातः पृथक्पृथक्। तथान्यास्वपिचापत्सुपक्षहोमोविधीयते। तत्प्रकारो मैत्रायणीयपरिशिष्टे—पर्वणोंतेसायंचतुर्दशचतुर्गृहीतानिसकृदुन्नयनमेकासमित्सकृद्धोमःसकृ त्पाणिमार्जनं सकृदुपस्थानमित्येवंप्रातरिति। स्मृत्यर्थसारे—पक्षहोमानशेषान्वाशेषहोमानथापिवा। समस्यजुहुयात्तत्रप्रयोगोयंनिरूप्यते। प्रतिपद्युन्नयेत्सायमापद्यन्यत्रवादिने। यावंत्यौपवसथ्याहात्प्राग्द्दिनानि भवंतिहि। तावंतिपरिगृह्णीयाच्चतुरुन्नयनानितु। एवमेवोत्तरत्रापिप्रातर्होमान्समस्यतु। जुहोत्यौपवसथ्याहात्प्रा तर्होमावधीन्सकृत्। एवमेकत्रपक्षेयेहोमास्तेषामशेषतः। न्यूनानांवासमासःस्यान्नपक्षांतरवर्तिनाम्। सर्वथौ पवसथ्याहेसायंहोमः पृथग्भवेत्। तथैवयजनीयाहेप्रातर्होमोभवेत्पृथक्। तत्रैव—तृतीयेऽनंतरेपक्षेसमासं नसमाचरेत्। आपच्चेदनुवर्तेतदीर्घकालंकथंचन। यावज्जीवमविच्छिन्नंपक्षहोमंसमाचरेत्। यत्तुचंद्रिकायाम्—यदिपक्षहोमेनपक्षत्रयमतीयात्पुनराधेयमितितदनापत्तिपरम्। पक्षहोमेकृतेतत्पक्षमध्येआपन्निवृत्तावाह मरीचिः—पक्षहोमानधोकृत्वागत्वाऽकस्मान्निवर्तितः। होमंपुनःप्रकुर्यात्तुनचासौदोषभाग्भवेत्। पक्षहोमानि त्युपलक्षणम्। अतः शेषहोमा

दावप्येवम्। चंद्रिकायांबैजवापः

एकेभ्युदितहोमाःस्युरन्येनुदितहोमिनः। अन्येभोजनहोमाश्चपक्षहोमास्त थापरे। शौनकः

अग्नावनुगतेयत्रहोमकालद्वयंव्रजेत्। उभयोर्विप्रवासेवालौकिकोऽग्निर्विधीयते। स्मार्त परमिदम्। सर्वांश्चेदनुगतानादित्योभ्युदियाद्वाभ्यस्तमियाद्वाग्न्याधेयंपुनराधेयंवासमारूढेषुचारणीनाशे इत्याश्वलायनोक्तेः। यस्यचोभावनुगतावभिनिम्लोचेदभ्युदियाद्वापुनराधेयंतस्यप्रायश्चित्तमित्यापस्तंबाच्च। कात्यायनः

विहायाग्निंसभार्यश्चेत्सीमामुल्लंघ्यगच्छति। होमकालात्ययेतस्यपुनराधानमिष्यते। शौनकः

अथतत्रैववसतिंहोमकालव्यतिक्रमः। लौकिकोग्निर्विधीयेतकाठकश्रुतिदर्शनात्। प्रोषितेतुयदापत्नीपत्यौ ग्रामांतरंव्रजेत्। होमकालेयदिप्राप्तानसादोषेणयुज्यते। त्रिकांडमंडनः

अग्निहोत्रेणरहितःपंथानंशत योजन म्।आहिताग्निःप्रयायाच्चेदग्निहोत्रंविनश्यति। विनाग्निभिर्यदापत्नीनदीमंबुधिगामिनीम्। अतिक्रामेत्तदाग्नीनां विनाशःस्यादितिश्रुतिः। अब्दंस्वयमजुह्वन्योहावयेदृत्विगादिना। तस्यस्यात्पुनराधानंपवित्रेष्टिरथापिवा। होमातिक्रमेप्रायश्चित्तमुक्तंकारिकायाम्

नित्यहोमेत्वतिक्रांतेसंस्कृत्याज्यंचपूर्ववत्। चतुः कृत्वागृहीत्वाज्यं मनस्वत्याजुहोत्यथ। आद्वादशदिनादेव69मूध्वंविच्छिद्यतेऽनलः। प्रायश्चित्तंतुयत्प्रोक्तमग्नित्यागोपपातके। मनुनातत्प्रकुर्वीततत्तत्कालानुसारतः। प्रायश्चित्तंकृत्वाहोमंकुर्यात्। कालातीतेषुहोमेषुउत्तरेष्वागतेषुच। कालातीतानिहुत्वैवउत्तराणिसमाचरेत्। यस्त्वतीतान्यनुक्रम्यउत्तराणिसमारभेत्। नदैवान्नैवचमुनीन्हविस्त दुपतिष्ठतइतिस्मृतिरत्नावल्यांवचनात्। पुलस्त्यः

अकालेचेत्कृतंकर्मकालंप्राप्यपुनःक्रिया। कालाती तंतुतत्कुर्यादकृतंतद्विनिर्दिशेदिति तद्द्वादशाहोत्तरंज्ञेयम्। द्वादशेतिबह्वृचपरम्। आपस्तंबानांतुचतूरात्र महूयमानोग्निर्लौकिकइत्यापस्तंबोक्तः। औपासनविच्छेदेप्रायश्चित्तमाह चंद्रोदये भरद्वाजः–एकाग्निर्द्वादशाहविच्छिन्नः पुनराधेयोदीर्घकालविच्छेदेऽतिकृच्छ्रमिति। विच्छिन्नोऽहुतः। यत्तुशौनकः

होमद्वयात्ययेदर्शपूर्णमासात्ययेतथा। पुनरेवाग्निमादध्यादितिभार्गवशासनमिति तच्छ्र्रौताग्निपरम्। दर्शपूर्णमाससाहचार्यात्। **आपस्तंवः—**नासतियजमानेग्राममर्यादामग्नीनतिहरेयुर्लौकिकाःसंपद्येरन्निति। **ग्रामसीमोक्तादेवीपुराणे—**नगराद्योजनंखेटःखेटाद्ग्रामोऽर्धयोजनम्। द्विक्रोशंपरमासीमाक्षेत्रसीमाचतु र्धनुः। **चंद्रिकायाम्—**यावंत्योग्राममर्यादानद्यश्चस्युस्ताअतिक्रामंतावन्वारभेयातामाद्यंतयोर्वायदिन लौकि काःसंपद्येरन्निति। **जातूकर्ण्यः—**विनाग्निभिर्यदापत्नीनदीमंबुधिगामिनीम्। अतिक्रामेत्तदाग्नीनां विनाशः स्यादितिश्रुतिः। **चंद्रिकागांवृद्धांगिराः—**मासत्रयषण्मासादिविच्छेदेऽर्धकृच्छ्रकृच्छ्रातिकृच्छ्रंप्रायश्चित्तम्। भरद्वाजगृह्येपि— यावत्कालमहोमीस्यात्तावद्द्रव्यमशेषतः। तद्देयंचैवविप्रेभ्योयथाहोमस्तथैवतत्॥॥ ब्रह्मचारिणःसंध्योत्तरंकर्मोक्तं मदनरत्नेकौर्मे— सायंप्रातर्द्विजः संध्यामुपासीतसमाहितः। अग्निकार्यंततः कुर्यात्संध्ययोरुभयोरपि। देवताभ्यर्चनंकुर्यात्पुष्पैःपत्रेणवांबुना। **तत्रैवलौगाक्षिः—**सायमेवाग्निमिंधेतेत्ये कइति। **याज्ञवल्क्यः—भैक्षाग्निकार्येत्यक्त्वातुसप्तरात्रमनातुरः। कामावकीर्णइत्याभ्यांजुहुयादाहुति द्वयम्। उपस्थानंततः कुर्यात्संमासिंचत्वनेनतु। कामावकीर्णोस्म्यवकीर्णोस्मिकामकामायस्वाहा। कामावपन्नो स्म्यवपन्नोस्मिकामायस्वाहेति। एतद्गुरुकार्यव्यग्रतयाअकरणेज्ञेयम्। अन्यथातु मनुः— अकृत्वाभैक्षचर णमसमिध्यचपावकम्। अनातुरःसप्तरात्रमवकीर्णिव्रतंचरेत्। विज्ञानेश्वरोप्येवम्। सकृल्लो पेतुऋग्विधाने—**मानस्तोकेजपेन्मंत्रंशतसंख्यंशिवालये। अग्निकार्यंविना भुङ्क्तेनपापंब्रह्मचारिणः॥॥ अथवत्याहनि यमाः। **चंद्रिकायांपुलस्त्यः—**सकृत्पर्वणिसर्पिष्मद्धविष्यंलघुभोजनम्। नसायंनोपवासःस्यात्तैलामि षविवर्जनम्। **आपस्तंबः—**अतृप्तिश्चान्नस्ययच्चैतयोः प्रियंस्यात्तदस्मिन्नं इनिभुंजीयातामधश्च शयीयातामिति। **भरद्वाजः —**वर्जयेत्पर्वकालेतुस्त्रीतैलामिपवृक्षजम्। सांख्यायनः–कलहंक्रीतविक्रीतं प्रहासंबहुभाषणम्। तौर्यत्रिकंवृथाशय्यांयक्ष्यमाणोविवर्जयेत्। **जाबालि—**कोविदारान्कुलित्थांश्चवर्जयेत् कोद्रवांस्तथा। दंतशौचं चपूर्वेद्युर्यागस्यैता

निवर्जयेत्। मसूराल्लँवणाक्षारांश्चणकान्कोरदूषकान्। माषान्मधुपरान्नंच वर्जयेत्पर्वणिद्विजः। **गृह्यपरिशिष्टे—**शाकंमांसंमसूरांश्चअणवः कोरदूषकाः। वर्ज्याइतिशेषः। आपस्तंब सूत्रे आधानप्रकरणेऋवीसमन्नंना श्नीयादिति। ऋवीसमन्तरुष्म। **बौधायनः—**सर्वमेवैतदहःकोशामुद्गमाषादिधान्यं वर्जयेदन्यत्रतिलेभ्य इति। **स्मृत्यर्थसारेदिवोदासीये—**लवर्णमधुमांसंचक्षारानश्नन्नहूयते(?)उपवासेन भुंजीतउरुरात्रौचकिंचन। **मिता क्षरायां स्मृत्यर्थसारेच—**यआहिताग्नेर्धर्मः स्यात्स्मार्तौपासनिकस्यच। इति श्रीमद्रामेश्वरभट्टसूनुश्रीमन्न रायण० लक्ष्मणभट्टकृतावाचाररत्नेहोमप्रकरणम्॥

अथहोमोत्तरंकर्म। **मदनरत्नेमरीचिः—**विधायदेवतापूजां प्रातर्होमादनंतरम्। **शौनकः—**प्रातर्मध्यंदिनेसायंविष्णुपूजांसमाचरेत्। अशक्तौविस्तरेणैवप्रातःसंपूज्यकेशवम्। मध्याह्नेचैवसायं चपुष्पांजलिमपिक्षिपेत्। **हलायुधः—**प्रातःकालेसदाकुर्यान्निर्माल्योद्वासनंबुधः। **प्रयोगपारिजातेक्रिया सारे—**मध्यमानामिकामध्येपुष्पंसंगृह्यपूजकः। अंगुष्ठतर्जन्यग्राभ्यांनिर्माल्यमपनोदयेत्। अपनीतंचनिर्माल्यंचडे शायनिवेदयेत्। मध्यमानामिकाभ्यांदेवोपरिपुष्पंधृत्वानिर्माल्यमपनोदयेदित्यर्थः। वाराहे — निर्माल्यंशिरसो त्तार्यधार्यैशिरसिचात्मनः। लिंगेविशेषस्तत्रैव—अशून्यंमस्तकंलिंगेसदाकुर्बीतपूजकः। **विष्णुधर्मोत्तरे—**उशीरकूर्चकंदत्वासर्वपापैःप्रमुच्यते। दत्वागोवालजंकूर्चंसर्वपापंव्यपोहति॥॥ अथनित्य दानम्। **भारते—**एकेनांशेनधर्मस्तुकर्तव्योभूतिमिच्छता। एकेनांशेनकामस्तुएकमंशं विवर्धयेत्। **स्मृतिरत्नावल्यांयाज्ञ बल्क्यः—**दातव्यंप्रत्यहंपात्रेनिमित्तेषुविशेषतः। निमित्तंग्रहणादि। अत्रकेचित्प्रत्यहश्रवणादहनि यदाकदाचि न्नित्यदानमाहुः। **भट्टदिनकरस्तु—**उपोयेतेप्रयामेषुयुंजतेमनोदानायसूरयइतिमंत्रलिंगाद्धोमात्पूर्वंनित्य दानमाह। **चंद्रोदये वामनपुराणे—**होमंचकृत्वालभनं शुभानांततोगृहान्निर्गमनंप्रशस्तम्। दूर्वांचसर्पिर्दधि चोदकुंभंधेनुंसवत्सामृषभंसुवर्णम्। मृद्गोमयंस्वस्ति

कमक्षताश्चतैलंमब्राह्माणकन्यकाश्च। श्वेतानिपुष्पाणितथाशमींचहुताशनंचंदनमर्कर्विवम्। अश्वत्थवृक्षं च समालभेतततश्चकुर्यान्निजजातिधर्मान्। नित्यदानांतंकर्माष्टधाविभक्तदिनाद्यभागेकार्यम्। तदु क्तंनारसिंहे—दिवसस्याद्यभागेतुसर्वमेतत्समाचरेत्॥॥ दिनद्वितीयभागकृत्यंदक्षः— द्वितीयेचतथा भागेवेदाभ्यासोविधीयते। चतुर्धाभक्ताहर्द्वितीयइतिस्मृतिरत्नावल्यां। **कौर्मे—**जपेदध्यापयेच्छिष्या न्धारयेद्वैविचारयेत्। समित्पुष्पकुशादीनांसकालः समुदाहृतः॥॥ **दिनतृतीयभागकृत्यं दक्षः—**तृतीये चतथाभागेकुर्यादर्थस्यसंग्रहम्। **याज्ञबल्क्यः—**उपेयादीश्वरंचैवयोगक्षेमार्थसिद्धये। इदंशक्तस्यनित्यं दृष्टार्थत्वात्। मनुः— देवतान्यधिगच्छेत्तुधार्मिकांश्चद्विजोत्तमान्। ईश्वरं चैवरक्षार्थगुरूनेवचपर्वसु। छागलेयः– यतीनांदर्शनं चैव स्पर्शनंभाषणंतथा। कुर्वाणःपूयतेनित्यंतस्मात्पश्येत्तुनित्यशः। अग्निचित्कपिलासत्रीराजाभिक्षुर्महोदधिः। दृष्टमात्राः पुनंत्येतेतस्मात्पश्येत्तुनित्यशः। **विष्णुपुराणे—**ततः स्ववर्णधर्मेणवृत्त्यर्थंचधनार्जनम्। धनार्जेनेप्रवासकालनियममाह **चंद्रिकायांपैठीनसिः—**मासद्वयं प्रवासोस्तिपरतोनाहिताग्निवत्। आहिताग्निवदनाहिताग्नेरपिमासद्वयमेवप्रवासः।

अथदिनचतुर्थभागेमध्याह्नस्नानम्। तच्चदिवसचतुर्भागे। **तथाचदक्षः—**चतुर्थेतुतथाभागे स्नानार्थंमृदमाहरेत्। अरुक्दिवाचरेत्स्नानंमध्याह्नात्प्राग्विशेषतः। **यत्तुस्मृतिरत्नावल्याम्—**दिनतृतीयेभागे मध्याह्नस्नानमुक्तंतत्पंचधाभागपरम्। **दक्षः—**प्रयतोमृदमादायदूर्वामार्द्रचगोमयम्। **भविष्ये—**नात्यर्थं देहजीर्णायाबंध्यायाश्चविशेषतः। रोगार्तनवसूतायानगोर्गोमयमाहरेत्। गृहीत्वागोमयंस्वच्छंस्थानेच पतितंशुभे। उपर्यधश्चसंत्यज्यप्रत्यग्रंजंतुवर्जितम्। चंद्रिकायाम्—

मृत्तिकातुसमुद्दिष्टाआर्द्रामलकमात्रिका गोमयस्यप्रमाणंतत्त्रेधांगलेपयेत्ततः। त्रेधात्रिवारम्। प्रयोगपारिजातेदेवजानीयेच—

नंदायांभार्गवदिने कृत्तिकासुमघासुच। भरण्यांभानुवारेचगजच्छा याद्वयेतथा। अयनद्वितयेचैवमन्वादिषुयुगादिषु। मृदास्नानं पिंडदानंनकुर्यात्तिलतर्पणम्। विवाहव्रतचूडासुवर्षमर्धंतदर्धकम्। मृदास्त्रानंन

कुर्वीतनिशिसंध्यागृहेषुच। नैमित्तिकेपिचस्नानेतथाभौमार्कवारयोः। त्रयोदश्यांचसप्तम्यां भरण्यांकृत्तिका सुच। वसिष्ठेनमृत्तिकास्नानेप्रकारांतरमुक्तम्—मृदैकयाशिरःक्षाल्यंद्वाभ्यांनाभेस्तथोपरि। पुनश्चतिसृ भिःकायंपङ्गिःपादौतथैवच। स्मृतिप्रदीपिकायाम्— कटिःसक्थीऊरुजंघेचरणौचत्रिभिस्त्रिभिः। तथैव हस्तावाचम्यनमस्कुर्याज्जलंतुतत्। ततो गोमयस्नानमाह यमः—आचम्यगोमयेनापिमानस्तोक्या समालभेत्। अग्रमग्रमितिस्मृत्वामानस्तोकेनवापुनः। मार्जयेगोमयंप्राज्ञःसोदकंभानुदर्शितम्। मार्जयेल्ले पयेत्।

** अथबौधायनोक्तःस्नानविधिः**—अथहस्तौप्रक्षाल्यकमंडलुंमृत्पिंडंचपरिगृह्यतीर्थंगत्वात्रिः पादौक्षालये त्त्रिरात्मानमथापोभिप्रपद्यतेहिरण्यशृंगंवरुणमित्यथांजलिनउपहंतिसुमित्रियानआपओषधयः संत्वितितां दिशंनिरीक्षतियस्यामस्यद्वेष्योभवति दुर्मित्रियास्तस्मैस्युरित्यपउपस्पृश्य त्रिःप्रदक्षिणमुदकमावर्तयतिय दपांक्रूरंयदमेध्यंयदशांतंतदपगच्छतादित्यप्सुनिमज्योन्मज्ज्यचांतःपुनराचामेत् आपोवाइद्थ्सर्वंविश्वा भूतान्यापःप्राणावाआपःपुनंतुपृथिवीमितिपवित्रेकृत्वाद्विर्मार्जयत्यापोहिष्ठेतितिसृभिर्हिरण्यवर्णाइतिचतस भिःपवमानःसुवर्जनइत्यनुवाकेनचांतर्जलगतोधमर्पणेनत्रीन्प्राणायामान्कृत्वोत्तीर्यवासोनिष्पीड्यक्षालितो रुरहता निवासांसि परिधायेति। उपहंति गृह्णति॥

** अथकात्यायनोक्तः**—अथातोनित्यस्त्रानंनद्यादौमृद्गोमयकुशतिलसुमनसआहृत्योदकांतंगत्वाशुचौदेशे स्थाप्यप्रक्षाल्यपाणिपादौकुशोपग्रहोबद्धशिखोयज्ञोपवीत्याचम्योरुंहीतितोयमामंत्र्यावर्तयेद्येतेशतमितिसु मित्रियानइत्यपोंजलिनादायदुर्मित्रियाइतिद्वेष्यंप्रतिनिषिंचेत्कटिवस्त्यूरुजंघेचरणौकरौमृदात्रिस्त्रिःप्रक्षा ल्याचम्यनमस्योदकमालभेदंगानिमृदेदंविष्णुरितिसूर्याभिमुखोनिमज्जेदापोअस्मानितिस्रात्वोदिदाभ्यइत्यु न्मज्ज्यनिमज्ज्ययोन्मज्ज्याचम्यगोमयेनविलिंपेन्मानस्तोकइतिततोभिषिंचेदिमंमेवरुणेतिचतसृभिरिदमापउदुत्तमंमुंचंत्ववभृथेत्यंतेचैतन्निमज्ज्योन्मज्ज्याचम्यदर्भैःपावयेदापोहिष्ठेतितिसृभिरिदमापोहविष्मतीर्देवीरापइतिद्वाभ्यामापोदेवीद्रुपदादिवरांनोदेवीरपांरसमपोदेवीः पुनंतुमेतिनवभिः चित्पतिर्मेत्योंका

रेणव्याहृतिभिर्गायत्र्यावादावंतेचांतर्जलेघमर्षणंत्रिरावर्तयेत् द्रुपदांवायंगौरितिवातृचंप्राणायामंवासशिर समोमितिविष्णोर्वास्मरणमिति। सुमनसामभावेतुलस्यादि। अम्यर्हितत्वात्पाणिशब्दस्यपूर्वनिपातः। तेनपूर्वंदक्षिणोपक्रमंचरणौप्रक्षाल्यपाणीक्षालयेदित्यर्थः। कुशानामुपग्रहोधारणंयस्येतिधृतकुशइत्यर्थः। अंतेचैतदिति इममेवरुणइत्याद्यष्टभिर्मंत्रैरभिषेकोवक्ष्यमाणमंत्राभिषेकोत्तरमपिकार्य इत्यर्थः। आदावंते चेति आपोहिष्ठत्यादौचित्पतिर्मापुनावित्यस्यांतेच प्रणवव्याहृतिगायत्रीभिरभिषिंचेदित्यर्थः। नित्यं मध्याह्नस्त्रानंतेनास्यविधेर्नैमित्तिकस्नानादावप्राप्तिः प्रकृतिविकृतिभावस्यचनित्यपदेननिरासात्। अन्यथा प्रातःस्त्रानमित्येवावक्ष्यत्। प्रातःस्त्रानेतुयथाहनीत्यतिदेशाद्दक्षेणनित्यत्वोक्तेश्चतत्प्राप्तिरितिनिर्णयचिंता मणिः। तन्न। ग्रहणादिस्नानेधर्माभावप्रसक्तेश्च। एषस्नानविधिरित्यस्यातिदेशार्थत्वाच॥

** अथाश्वलायन परिशिष्टोक्तम्—**मध्यंदिनेतीर्थमेत्यधौतपादपाणिमुखोद्विराचम्यायतप्राणः स्ननंसंकल्प्य सदर्भपाणिः शुचौदेशेखनित्रेण भुवंगायत्र्याखात्वोपरिमृदंचतुरंगुलमुद्वास्याध स्तान्मृदंतथाखात्वागायत्र्यादायगर्भमुद्वासितयाप्रतिपूर्यमृदमुपात्तांशुचौतीरेनिधायगायत्र्याप्रोक्ष्यतच्छिरसात्रेधाविभज्यदक्षिणंभागमस्त्रेणदिक्षुदशसुविक्षिप्योत्तरंतीर्थेक्षित्वातृतीयंगायत्र्यभिमंत्रितमादित्यायदर्शयि त्वातेनमूर्ध्नआपादात् गायत्र्याप्रणवेनवासवांगमनुलिप्य सुमित्र्यानआपओषधयःसंत्वितिसकृदद्भिरात्मा नमभिषिच्यदुर्मित्रियास्तस्मैभूयासुर्योस्मान्द्वेष्टियंचवयं द्विष्मइतिमृदम द्भिःप्रक्षालयेदथवरुणप्रार्थनादिनात र्पणांतोक्तेनविधिनानायान्नास्मिन्प्राग्ब्रह्मयज्ञांगतर्पणाद्वस्त्रंनिष्पीडयेदपुत्रादयोह्यंतेतर्प्यभौमादिषुगृहेचनमृ दास्नायादिति। वरुणप्रार्थनादिप्रातःस्रानउक्तम्॥

**अथपाद्मभविष्योत्तरोक्तः—**अनुद्धृतैरुद्धृतैर्वाजलैः स्रानंसमाचरेत्। तीर्थंप्रकल्पयेद्विद्वान्मूलमंत्रेण मंत्रवित्। नमोनारायणायेतिमूलमंत्रउदाहृतः। दर्भपाणिस्तुविधिनास्वाचांतःपयतःसुधीः। चतुर्हस्तसमा युक्तं चतुरस्रंसमंततः। प्रकल्प्यावाहयेद्गंगामेभिर्मंत्रैर्विचक्षणः।

विष्णुपादप्रसूतासिवैष्णवीविष्णुदेवता।त्राहिनस्त्वेनसस्तस्मादाजन्ममरणांतिकात्। तिस्रःकोट्योर्धकोटीच तीर्थानांवायुरब्रवीत्। दिविभुव्यंतरिक्षेचतानितेसतिजाह्नवि। नंदिनीत्येव तेनामदेवेषुनलिनीतिच। क्षमापृथ्वीच विहगाविश्वकायाशिवासिता। विभावरीसुप्रसन्नातथालोक प्रसादिनी। एतानिपुण्यनामानिस्नानकाले प्रकीर्तयेत्। भवेत्संनिहितातत्रगंगात्रिपथगामिनी। सप्तवाराभिजप्तेनकरसंपुटयोजितम्। मूर्ध्निक्षिप्वाजलं भूयस्त्रिचतुःपंचसप्तवा। स्नानंकुर्यान्मृदातद्वदामंत्र्यचविधानतः। अश्वक्रांतेरथक्रांतेविष्णुक्रांतेवसुंधरे। मृत्तिके हरतत्सर्वयन्मयादुष्कृतकृतम्। उद्धृतासिवराहेणकृष्णेनशतवाहुना। नमस्तेसर्वभूतानांप्रभवारणिसुव्रते। एवंस्नात्वाततःपश्चादाचम्यचविधानतः। उत्थायवाससीधौतेअक्लिन्नेपरिधायच। अयंविधिःस्त्रीशूद्रादेर पीत्याचारादर्शः

अथस्नानभेदाः। शंखः—

स्नानंतुद्विविधंप्रोक्तगौणमुख्यप्रभेदतः। तयोस्तुवारुणंमुख्यतत्पुनः षड्रिधिं भवेत्। नित्यंनैमित्तिकंकाम्यंक्रियांगंमलकर्पणम्। क्रियास्नानंततः षष्ठस्नानंत

रमताक्रिया।तल्लक्षणानि सएवाह**—**

अस्नातस्तुपुमान्नार्होनित्याग्निहवनादिषु। प्रातःस्नानं तदर्थंतुनित्यंस्नानं प्रकीर्तितम्। चडालश्वयूपा दिस्पृष्ट्वास्नातोरजस्वलाम्। स्नानार्हस्तुयदास्नातिस्नानंनैमित्तिकंतुतत्। पुष्यस्नानादिकंयसुदैवज्ञ विधिचोदित म्। तद्धिकाम्यंसमुद्दिष्टनाकामस्तत्करोतिवै। अप्तुकामःपवित्राणिअर्चिष्यन्देवताःपितॄन्। स्नानंसमाचरेद्य स्तुक्रियांगंतत्प्रकीर्तितम्। मलापकर्षर्णनामस्त्रानमभ्यगपूर्वकम्। सरःसुदेवखातेषुतीर्थेषुचनदीषुच। क्रिया स्त्रानंसमुद्दिष्टं स्नानंतत्रमताक्रिया। मध्यंदिनीयमपिनित्यमुक्तं माधवीयेविष्णुः– स्नानार्होयोनिमित्तेनकृत्वा तोयावगाहनम्। आचम्यप्रयतःपश्चात्स्नानंविधिवदाचरेत्। योगयाज्ञबल्क्यः—

तूष्णीमेवावगाहेतयदास्यादशु चिःपुमान्। विधिवदितिनित्यस्त्रानधर्मातिदेशः। अतएवदैवपित्र्य विवर्जितमित्युक्तम्। क्रियांगे

पिनित्यधर्माइतिमाधवीये। ग्रहणनिमित्तस्नानेपि—गंगास्नानंप्रकुर्वीतग्रहणेचंद्रसूर्ययोः। महानदीषुचान्या सुस्नानंकुर्याद्यथाविधीतिभारतात् धर्मप्राप्तिः। अनेकेषांस्नानानामेककालपातेनित्यनैमित्तिककाम्यानामु त्तरोत्तरेणपूर्वपूर्वस्यप्रसंगसिद्धिरन्येषांतंत्रता॥

अथस्नाननिमित्तानि॥ मदीयाःश्लोकाः—शैवान्पाशुपतांस्तथाचितिखरांश्चमरलोकयतान्कैवर्ताजर कान्नटोष्ट्रबुरुडान्भिल्लानुदक्याशुनः।यूपंधीवरसूतिगृधपतितान्शूद्रान्वृकान्नास्तिकानस्थ्यार्द्रंशवकाकसूक रशिवागोमायुमद्यैडकान्। व्यंगवानरविडालदीपिकादीपतैलचितिधूमनीलिकाः। अश्वकुक्कुरव राहदेव लान्साविकाशुचिमदिष्णुदाहकान्। स्पृष्ट्वादुःस्वप्नवांतेषुविरक्तक्षुरमैथुने। श्मशानाक्रांत्यजीर्णषुस्नाया दभ्युदयास्तगे। शैवपाशुपतयोरनधिकारिणोःस्नानमितिमदनपारिजातः। श्रोत्रियादीनांसाक्षिनिषेधवद्दो षाभावेपिवाचनिकंस्नानमित्यपि सएव। लोकायतो बौद्धः। उदक्या रजस्वला। विकर्मस्थशूद्रस्पर्शे स्नानंनशुद्रमात्रस्य। विकर्मस्थान्द्विजान्शूद्रान्सवासाजलमाविशेदितिहारीतोक्तेश्च। शूद्रोच्छिष्टंद्विजः स्पृष्ट्वाउच्छिष्टशूद्रमेववा।शुचिमप्यवगुह्यैनंसवासाजलमाविशेदितिचंद्रिकायांव्यासोक्तेश्च। एतच्चकर्म काले। अस्वर्ग्याह्याहुतिः सास्याच्छूद्रसंस्पर्शदूषितेतिवचनात्द्वा—वप्यंत्यांत्य जौस्पृष्ट्वास वासाजलमा विशेत्। अन्येष्वाचमनं प्रोक्तं क्रियायांस्नानमाचरेदिति पराशरोक्तेश्च। मदनपारिजाते- अंसजाम्लेच्छशवरादयइतिकुल्लूकभट्टः।अंत्यजांश्चाहविज्ञानेश्वरीयेंगिराः—चंडालश्वपचक्षत्तासूतोवैदे हकस्तथा। मागधायोगवौचैवसप्तैतेंत्यावसायिनः। पराशरस्त्वन्यानाह—रजकश्चर्मकारश्चनटोबुरुड एवच। कैवर्तमेदभिल्लाचससैतेत्वंत्यजाः स्मृताः। यत्तुरजकादिस्पर्शेआचमनमुक्तंतच्छिरोभिन्नांगस्पर्शे। शिरःस्पर्शेस्नानमिति प्रायश्चित्तशूलपाणिः। शिरःपदंनाभेरूर्ध्वांगोपलक्षणमिति चंद्रिका।अस्थिनरस्यैव। नारंस्पृष्ट्वास्थिसस्नेहमितिमनूक्तेः। इदंद्विजास्थिविषयम्। अन्यस्मिंस्तु स्निग्धेत्रिरात्रमस्निग्धेत्वहोरात्र मितिविज्ञानेश्वरादयः। अमानुषेत्वस्थानि विष्णुः—भक्ष्यवर्ज्यंपंचनखंशवंतदस्थिचस्पृष्ट्वापूर्ववद्वस्त्रं स्वयं

क्षालितंबिभृयादितिचंद्रिकायामंगिराः। साध्वाचारानतावत्स्यात्स्नातापिस्त्रीरजस्वला। यावत्प्रवर्तमानंचरजो नविनिवर्तते।स्नायाद्रजसिनिर्वृत्तेशौचार्थंतुततः पुनः। रोगेणरजःप्रवृत्तौनाशुचित्वमित्युक्तं चंद्रिकायां याज्ञबल्क्यः

उदक्याशुचिभिःस्नायात्संस्पृष्टस्तैरुपस्पृशेत् तैःस्पृष्टैः। इदंचाचेतनस्पृष्टस्पर्शे। चेतनस्पर्शेतु स्नानम्। दिवाकीर्तिमुदक्यांचपतितंसूतिकांतथा। शवंतत्स्पृष्टिनंचैवस्पृष्ट्वास्नानेनशुद्ध्यतीति मनूक्तेः। तृतीयस्यत्वाचमनम्। तत्स्पृष्टिनंस्पृशेद्यस्तुस्नानंतस्यविधीयते। ऊर्ध्वमाचमनप्रोक्तंद्रव्याणां प्रोक्षणतथे तिसंवतौक्तेः। इदंचाकामविषयम्। कामतस्तृतीयस्यापिस्नानम्। पतितचंडालसूतिकोदक्याश्वस्पृष्टितत्स्पृ ष्ट्युपस्पर्शेसचैलम्। उदकोपस्पर्शनाच्छुद्ध्येदितिगौतमोक्तेः। तत्स्पृष्टिपदेनपतितस्पृष्टिग्रहणमित्याचा रादर्शःयत्तु कौर्मे

तत्स्पृष्टस्पृष्टिनंस्पृष्ट्वाबुद्धिपूर्वद्विजोत्तमः। आचामेत्तस्यशुद्ध्यर्थमाहदेवः पितामहइति तदशक्तविषयम्। चतुर्थस्यत्वाचमनम्। संग्रहे

अबुद्धिपूर्वसंस्पर्शेद्वयोः स्नानंविधीयते। त्रयाणांबुद्धिपूर्वेतु तत्स्पृष्टिन्यायकल्पनेतिमाधवीयेसंग्रहोक्तेः। उपस्पृशेच्चतुर्थस्तुतदूर्ध्वप्रोक्षणस्मृतमितितत्रैवस्मृतेश्च। विज्ञा नेश्वरीयेप्येवंचंद्रोदये— कटधूमस्पृशंवांतंविरक्तंक्षुरकर्मिणम्। मैथुनाचरितारंचस्पृष्ट्वास्नानंनविद्यते। भोजनोर्ध्वमुहूर्तोर्ध्ववांतेस्नानमिति स्मृत्यर्थसारेकृष्णभट्टीयेचप्रायश्चित्तशूलपाणिस्तुस्नानमाषमसूराद्य न्नपरम्। मसूरमाषमांसानि भुक्त्वायोवमतिद्विजः। त्रिरात्रमुपवासोस्यप्रायश्चित्तविधीयते। प्राणायामैस्त्रिभिः स्नात्वाधृतंप्राश्यविशुद्ध्यतीतिमोक्तेः। पर्युपितवांतेस्नानम्। भोजनदिनेत्वाचमनमिति श्राद्धहेमाद्रौचंद्रि कायामा चारादर्शचमिताक्षरायांतु — अश्नन्भुक्त्वार्द्रपाणिर्वाचांतोनस्नानमाचरेत्। अन्यदाचमने स्नायात्तथाशोकाश्रुपातनइतियोगयाज्ञबल्क्योक्तेर्वमनेपिस्नानमुक्तम्। वस्त्रान्तरितस्पर्शेप्रचेताः

वस्त्रान्त रितसंस्पर्शःसाक्षात्स्पर्शोभिधीयते। साक्षात्स्पर्शेतुयत्प्रोक्तं तद्वस्त्रांतरितेपिच। शूलपाणावापस्तंबः

एकशाखांसमारूढश्चांडालादिर्यदाभवेत्। ब्राह्मणस्तत्रनिवसन्स्नानेनशुचितामियात्। आदिशब्दा

दुदक्यादीनि। शाखाग्रहणमेकावयव्युपलक्षणम्। तेनैकपाषाणादेरपिग्रहणमितिशूलपाणिः। शाखास्व पिकाष्ठादिषुचंडालेनसहावस्थितः स्नायान्नसचैलमितिसएव। एतदपवादमाहशूलपाणौपराशरः—रथ्याकर्दमतोयानिनावःपंथास्तृणानिच। स्पर्शनान्नप्रदुष्यंतिपक्केष्टकचितानिच। तृणानीतिबहुवचनादेक तृणस्पर्शेत्रानमितिशूलपाणिःमाधवीयेशातातपः—येनकेनचिदभ्यक्तश्चंडालंसंस्पृशेद्यदि। अहोरात्रो षितःस्नात्वापंचगव्येनशुद्ध्यति। उच्छिष्टः संस्पृशेद्विप्रोमद्यशूद्रशुनोऽशुचीन्। अहोरात्रोषितः स्नात्वापंचग व्येनशुद्ध्यति। हेमाद्रौकौर्मे—उच्छिष्टोऽद्भिरनाचांतश्चंडालान्स्पृशतिद्विजः। प्रमादाद्वैजपेत्स्नात्वागायत्र्य ष्टसहस्रकम्। मनुः– यस्तुच्छायांश्वपाकस्यब्राह्मणोवाधिगच्छति। तत्रस्नानंतुतस्यैवघृतंप्राश्यविशुध्यति। शूलपाणौवृद्धशातातपः—अशुचिसंस्पृशेद्यस्तुएकएवसदुष्यति। तंस्पृष्ट्वान्योनदुष्येतसर्वद्रव्येष्वयंविधिः। चंद्रिकायां श्मश्रुकर्मण्यपिस्नानमुक्तम्॥॥ स्पृष्टास्पृष्टौहेमाद्रौशातातपः—ग्रामेतुत्यत्रसंस्पृष्टिर्यात्रा यांकलहेषुच। ग्रामसंदूषणेचैवस्पृष्टिदोषोनविद्यते। संग्रामेराजमार्गादौयज्ञेषुप्रकृतेषुच। उत्सवेषुचसर्वेषु स्पृष्टास्पृष्टिर्नदुष्यति। वृहस्पतिः— तीर्थविवाहेयात्रायांसंग्रामेदेशविप्लवे। नगरग्रामदाहेचस्पृष्टास्पृष्टिर्न दुष्यति। दानेविवाहेयज्ञेच महोत्पातेरुजागमे। आपद्यपिचकष्टायां सद्यः शौचं विधीयते इतियाज्ञब ल्क्योक्तेः। एतद्यत्राहमनेनस्पृष्टइतिनज्ञातंतद्विषयमिति**हेमाद्रिः। मदनपारिजातेप्येवम्।**उच्छिष्टाशु चिस्पर्शपरमिति चंद्रिकायां। शातातपः—काकविष्ठोपघातेसचैलंस्नानंव्याहृतिहोमंचकुर्यादिति। बालस्या स्पृश्यस्पर्श आपस्तंबः—अन्नप्राशनात्प्रयताभवंत्यासंवत्सरादित्येकेयावतावादिशोनप्रज्ञायतइति। स्मृति प्रदीपिकायाम्—शिशोरभ्युक्षणंप्रोक्तंबालस्याचमनंस्मृतम्। रजस्वलादिसंस्पर्शेस्नानमेवकुमारके। तल्लक्ष णंतु—प्राक्चूडाकरणाद्वालःप्रागन्नप्राशनाच्छिशुः। कुमारकस्तुविज्ञेयोयावन्मौंजीनिबंधनम्। आशार्के —सर्वत्रास्पृश्यसंस्पर्शेवारुणंस्नानमुच्यते ॥ ॥ रात्रिस्नाने विशेषमाह चंद्रिकायांयमः—विप्रःस्पृष्टो

निशायांतुउदक्यापतितादिना। दिवानीतेनतोयेनसस्नायादग्निसंनिधौ। माधवीयेमरीचिः

दिवाहृतंतुयत्तोयं गृहयेदिनविद्यते। प्रज्वाल्याग्निंततःस्नायान्नदीपुष्करिणीषुच। पराशरः

यदिगेहेनतोयंस्यात्तदाशुद्धिः कथंभवेत्। धाम्नोधाम्नेतिमंत्रेणगृह्णीयादग्निसंनिधौ। आतुरादिविषये सएव

आतुरेस्नानउत्पन्न दशकृत्वोद्यानातुरः। स्नात्वास्नात्वास्पृशेदेनंततः शुद्ध्येत्सआतुरः। स्नानेनैमित्तिकेप्राप्तेनारीयदि रजस्वला। पात्रांतरिततोयेनस्नानंकृत्वाव्रतंचरेत्। सिक्तगात्रामवेदद्भिःसांगोपांगाकथंचन। नवस्त्रपीडनं कुर्यान्नान्यद्वास श्चधारयेत्। चंद्रिकायामुशनाः

ज्वराभिभूतायानारीजरसाचपरिप्लुता। कथंतस्याभवेच्छौचंशुद्धिःस्यात्केन कर्मणा। चतुर्थेहनिसंप्राप्तेस्पृशेदन्यातांस्त्रियम्। सासचैलावगाह्यापः स्नात्वास्नात्वा पुनःस्पृशेत्। दशद्वादश कृत्वोवाआचमेच्चपुनःपुनः। अंतेचवाससांत्यागस्ततःशुद्धाभवेत्तुसा।दद्याच्छक्त्याततोदानंपुण्याहेन विशुध्यति। शंखः

रथ्याकर्दमतोयेनष्ठीवनाद्येन वा पुनः। नाभेरूर्ध्वंनरः स्पृष्टःसद्यः स्नानेनशुद्ध्यति। स्मृत्य र्थसारे

यत्रपुंसःसचैलंस्यात्स्नानंतत्रसुवासिनी। कुर्वीतैवाशिरःस्नानंशिरोरोगीजटीतथा॥

** अथामलकस्नानम्। चंद्रिकायांक्रतुः**— षष्ठींचसप्तमींचैवनवमींचत्रयोदशीम्। संक्रांतौरविवारेचस्नानमा मलकैस्त्यजेत्। योगयाज्ञबल्क्यः

धात्रीफलैरमावास्यासप्तमीनवमीषुच। यःस्नायात्तस्यहीयंतेतेजआयुर्धनं सुताः। व्यासः

श्रीकामःसर्वदास्नानंकुर्वीतामलकैर्नरः। सायणीयेबृहस्पतिः

सर्वकालंतिलस्नानं पुण्यं च्यासोब्रवीन्मुनिः। षट्त्रिंशन्मते

तथासप्तम्यमावास्यासंक्रांतिग्रहसूतिषु। धनपुत्रकलत्रार्थीतिलपिष्टंन संस्पृशेत्। प्रयोगपारिजातेबृहद्वसिष्ठः

आसीनप्राङ्मुखो भूत्वातैलाभ्यंगसमाचरेत्। व्रतहेमाद्रौमात्स्ये—

तस्मात्कृतोपवासेन स्नानमभ्यंगपूर्वकम्। वर्जनीयंप्रयत्नेन रूपघ्नंतत्परंनृप। पाह्मेमाघमाहात्म्ये—

उपोष्यैकादशींशुक्लांतैलाभ्यंगः कृतस्तथा। द्वादश्यांप्राग्भवेदेहेतेनव्याध्नमुखोऽभवत्। अत्र मदीयः श्लोकः

दिग्विष्टिव्यतिपात वैधृतियुगादिष्वेवमन्वादिपुश्राद्धेजन्मदिने

व्रतेवमदिनेनंदासुरिक्तासुच। ऋष्यग्न्यर्कतिथौवसावहिदिनेकामोत्तराफल्गुनीज्येष्ठाद्रहरिभेषुशुक्रगुरुभौ मार्केषुजन्मत्रये। तैलाभ्यंगंनकुर्वीतमतिमानेषुसर्वदा। दिग्दशमी। अमवदिनंदिनक्षयः। नंदाः प्रतिपत्ष ष्ठ्येकादश्यः। रिक्ताश्चतुर्थीनवमीचतुर्दश्यः। ऋषिः सप्तमी। अग्निस्तृतीया। अर्कःद्वादशी। तिथिः पूर्णिमामावास्ये। वसुरष्टमी। अहिःपंचमी। कामस्त्रयोदशी। हरिमंश्रवणः। अत्रमूलंचंद्रोदयादिषु स्पष्टम्। आयुर्वेदसंहितायाम्—नाभ्यंगस्तत्रबालानांवाद्धानांतुनदोषदः। तत्रपूर्वोक्तेषु। चंद्रिकायांसंग्रहे—स्त्रीणांतुबुधवारेणतैलाभ्यंगंविवर्जयेत्। कृष्णभट्टीये—सोमवारेतथाभ्यंगंपुत्रवान्वर्जयेत्सदा। मार्क डे यः—अपुष्टिःकांतिरल्पायुर्धनंनिर्धनतांतथा। अनारोग्यंसर्वकाममभ्यंगाद्भास्करादिषु। अन्यद्रव्ययुर्ततैलंन दुष्यतिकदाचन। चंद्रिकायांयमः—घृतंचसार्षपंतैलंयत्तैलंपुष्पवासितम्। नदोषपक्वतैलेपुनानाभ्यंगेषु नित्यशः। आयुर्वेदसंहितायाम् — निषिद्धतिथिवारक्षेग्रहणेष्वपिरात्रिषु। किंचिद्गोघृतसंयुक्तं विग्रपादर जोन्वितम्। तिथ्यालोके खौपुष्पंगुरौदूर्वाभूमिंभूमिजवासरे। भार्गवेगोमयंदद्यात्तैलदोषोपशांतये। षट्त्रिंशन्मते—सूर्यशुक्रादिवारेषुनिषिद्धासुतिथिष्वपि। स्नानेवायदिवास्नानेपक्वतैलंनदुष्यति। अत्रतिल तैलमेवनिषिद्धं। तिलानामिदंतैलमितिविकारतद्धितात्। सार्षपादौतुतैलशब्दोगौणः। अयंचतिथि निषेधो भ्यंगएवननित्यस्नानादौ—पुत्रजन्मनिसंक्रांतौश्राद्धेजन्मदिनेतथा। नित्यस्त्रानेचकर्तव्येतिथिदोषोनविद्यत इतिगार्ग्योक्तेः। यादृच्छिकंतुयतस्नानंभोगार्थं क्रियतेद्विजैः। तन्निषिद्धंदशम्यादौनित्यनैमित्तिकेविनेति चंद्रिकोक्तेःमनुः—शिरःस्नातस्तुतैलेननांगंकिंचिदुपस्पृशेत्। तैलेनशिरसोभ्यंगोत्तरमन्येनापितैलेननांगा भ्यंगः। सार्षपादिनातुतदभ्यंगेउभयाभ्यंगेवानदोषः। यद्वाशिरोभ्यंगशेषस्यैवनिषेधः। शिरोभ्यक्तावशिष्टेन तैलेनांगंनलेपयेदिति देवलोक्तेरितिकुल्लूकभट्टःअमांप्रकृत्यचंद्रिकायांप्रचेताः—तैलंचन स्पृशेदाम्नवृक्षादींश्चनकर्तयेत्। तत्रैव बौधायनः—अष्टम्यांचचतुर्दश्यांनवम्यांचविशेषतः। शिरोभ्यंगंवर्जये त्तुपर्वसंधौतथैव च। तत्रैवगर्गः

पंचदश्यांचतुर्दश्यामष्टम्यांरविसंक्रमे। द्वादश्यांसप्तमीषष्ठ्योस्तैलस्पर्शविवर्जयेत्। तत्रैवहारीतः

पंचमीदशमीचैवपौर्णमासीत्रयोदशीम्। तथैवैकादशींचैवयस्तैलमुपसेवते। अभ्यंगात्स्पर्शनाद्वापि भक्षणा च्च तथैवच। उत्तीर्णातस्यवृद्धिःस्याद्धनापत्यबलायुपाम्॥

अथोष्णोदकस्नानम्। तत्रमदीयःश्लोकः—

रवौसप्तमीश्राद्धषष्ठीव्रतेषुस्वजन्माहसंक्रांतिजन्मन्यनिंदौ। ग्रहेस्पृश्यसंस्पर्शनेपौर्णमास्यां मृतौवर्जयेत्स्नानमुष्णोदकेन। अत्रमूलंहेमाद्र्यादौस्पष्टम्। मैथुनेक्षौरे चोष्णोदकंनेतिकृष्णभट्टः। अस्पृश्यस्पर्शेउष्णोदकनिपेधोदिवसे। अस्पृश्यस्पर्शनेनानंनिश्युष्णेनजलेन चेति स्मृत्यर्थसारात्यत्तुपराशरः

वृथाह्युष्णोदकस्नानंवृथाजाप्यमवैदिकम्। यच्चयाजबल्क्यः

अशुचिस्पर्शदुष्टाभिरुद्धृताभिस्तुमानवः। स्नानंसमाचरेद्यस्तुनसशुद्ध्यतिकर्हिचिदिति तद्गंगोदक भिन्नपरम्। बृहन्मनुः

स्नातस्यवह्निप्तनतथैवपरवारिणा। शरीरशुद्धिर्विज्ञेयानतुस्नानफलंलभेदिति तदनातुरस्य। तीर्थसत्वेतु—

भूमिष्ठमुद्धृतंवापिशीतमुष्णमथापिवा। गांगंपयःपुनात्याशुपापमामरणांतिक मितिहेमाद्रौमरीच्युक्तेः। चिरंपर्युषितंवापिशुद्रस्पृष्टमथापिवा। जाह्नव्याःस्नानदानादौ पुनात्येवसदा पयइति तत्रैवादित्यपुराणाच्चयत्तुषट्त्रिंशन्मते

आपःस्वभावतोमेध्याःकिंपुनर्वह्निसंयुताः। तस्मात्संतःप्रशंसंतिस्नानमुष्णेनवारिणेति तदातुरपरम्। आदित्यकिरणैःपूतंपुनःपूतंतुवह्निना। आम्नात मातुरेस्नानंप्रशस्तंचोष्णवारियदितिचंद्रिकायांयमोक्तेः। अनातुरस्यापितीर्थाभावे—

नित्यनैमित्तिकं काम्य क्रियांगंमलकर्षणम्। तीर्थाभावेतुकर्तव्यमुष्णोदकपरोदकैरितियमोक्तेः। मरणादिषुतुतीर्थाभावेपि नोष्णोदकस्त्रानंकिंतुपरोदकैरुद्धृतैर्वेतिचंद्रिका। तत्रेतिकर्तव्यतामाहव्यासः

शीतास्वप्सुनिषिच्यो ष्णामंत्रसंभारयोगतः। गृहेपिशस्यते स्नानंतद्धीनमफलं भवेत्। संभारा मृदादयः। मंत्रमहोदधौ

तीर्था भावेवसदनेस्नायादुष्णेनवारिणा। हस्तयोरप आदायकुर्यात्तत्राघमर्षणम्। स्मृत्यर्थसारे उद्धृतजलस्नाने मार्जनंकार्यम्। अघमर्षणंजलतर्पणंचानित्यमित्युक्तम् गृह्यपरिशिष्टे

नशीतोदकेनशीतोष्णो

दकैनगृहेस्नायान्मंत्रविधिंवर्जयेत्बहिर्वाशुचौदेशेसर्वपश्चात्कुर्यादिति। **पारिजाते आश्वलायनः—स्नानमध्ये त्वाचमनंतर्पणवस्त्रपीडनम्करपात्रगर्ततोयंगृह्णएतानिवर्जयेत्। गृहस्रानेनकुर्वीततर्पणंमार्जनंतथा। नांतरा चमनंकुर्यात्पश्चादाचम्यशुद्ध्यति। चंद्रोदयेयोगयाज्ञबल्क्यः—**वापीकूपगृहस्नानेस्तके मृतकेतथा। मासो च्चारंनकुर्वीततज्जलंरुधिरंभवेत्॥॥ **अथमंत्रस्नानंबह्वृचपरिशिष्टे—**गुचौदेशेशुचिराचांतः प्राणानायाम्य सव्येपाणावपःकृत्वातिसृभिरापोहिष्ठीयाभिस्त्रिःपच्छःप्रणवपूर्वंदर्भोदकैर्मार्जयेत् पादयोर्मूर्ध्निहृदयेमूर्ध्नि हृदयेपादयोर्हृदयेपादयोर्मूर्ध्निचाथार्धशोमूर्ध्निहृदयेपादयोर्हृदयपादयोर्मूर्ध्निचाथऋक्शो हृदयेपादयो र्मूर्ध्नि चाथतृचेनमूर्ध्निमार्जयित्वागायत्र्यादशधाभिमंव्रिताअपःप्रणयेनपीत्वाद्विराचामेदित्येतन्मंत्रस्नानम्। **प्रकारां तरंहेमाद्रौ—**शंनआपस्तुद्रुपदाआपोहिष्ठाघमर्षणम्। एभिश्चतुर्भिर्ऋङ्मंत्रैर्मंत्रस्नानमुदीरितम्। **अन्यकर्तृक रस्नानेमंत्रमाहतत्रैव्यासः—**दाक्षायणमयैः कुभैर्मंत्रवज्जाह्नवीजलैः। कृतमंगलपुण्याहैः स्नानमस्तुतवान घम्। दाक्षायणं सुवर्णं। इत्युक्त्वाजाह्नवीस्थानेतीर्थान्यन्यानिकीर्तयेत्। सर्वतीर्थाभिषेकस्ते भूयादित्यंततो ब्रवीत्। अत्रविशेषश्चंद्रिकायाम्—आदौतावत्प्रभासेबहुगुणसलिलेमध्यमेपुष्करेचगंगाद्वारेप्रयागेकनखल सहितेकुंभकोणेगयायाम्। राहुग्रस्तेचसोमेदिनकरसहितेसंनिहत्यांविशेषाद्देवैर्विख्यात तीर्थैस्त्रिभुवनसहितैः स्नानमच्छिद्रमस्तु। प्राप्यसारस्वतंस्नानंभवेन्मुदितमानसः। सर्वतीर्थाभिषेकाद्धिपवित्राचिदुषांहिवाक्॥॥ अथविभूतिस्नानम्। तदुत्पत्तिश्चंद्रोदयेशिवपुराणे—

भस्मसंपादनविधिःसुलभःसमुदीरितः। पौर्णमास्याम मावास्यामष्टम्यांवाविशुद्धधीः। कपिलायाः शकृत्स्वल्पंगृहीत्वागगनेपतत्। उपर्यधःपरित्यज्यगृह्णीयात्पतितं यदि। पिंडीकृत्यशिवाम्यादौतरिक्षपेन्मूलमंत्र तः। धारयेन्नित्यकार्येषुविभूतिंतुप्रयत्नतः। क्रियासारे—

पद्मपत्रेणवान्येन शुचिपत्रेणवापुनः। सद्येनगोमयं गृह्यतद्वामेनाभिमंत्रयेत्। शुद्धाभूमावघोरेणदहेत्तलौकिका ग्निना। सद्येन सद्योजातंप्रपद्यामीत्यनेन। वामेन वामदेवायनमोज्येष्ठायइत्यनेन। ताम्रकुंभेक्षिपेद्भस्म शुद्धेतत्पुरुषे

णतु। सिकतांगारपाषाणानीशानेनविशोधयेत्। एवंविधिकृतेनैवभस्मनास्नानमाचरेत्। त्रिपुंड्रमथवादध्या त्सर्वपापक्षयोभवेत्। अन्यजातमनाधारंयत्रक्वापिस्थितंचयत्। संस्काररहितंयत्तन्नहिधार्यंकथंचन। शूद्रहस्तस्थितंभस्मद्विजातिर्नैवधारयेत्। तथैवांत्यजहस्तस्थंशद्रैर्धार्यंनजातुचित्॥॥ स्नानप्रकारः क्रियासारे—स्नानस्योपक्रमेपादौ करौ प्रक्षाल्यवाग्यतः। आचम्योक्तासनेस्थित्वाप्राङ्मुखोवाप्यु दङ्मुखः। पवित्रहस्तद्वितयःप्राणायामंसमाचरेत्। ततोमूलेनभसितमष्टकृत्वोभिमंत्र्यच। ईशानेनशिरोदेशं मुखंतत्पुरुषेणतु। स्मृतिभास्करे—

त्र्यायुषैःशिवमंत्रैश्चलिप्यादापादमस्तकम्॥इतिश्रीनारायणभट्ट० लक्ष्मणभट्टकृतावाचाररत्नेमध्याह्नस्नानम्॥

** अथपंचमहायज्ञाः**। तत्स्वरूपमाह **मनुः—**अध्ययनंब्रह्मयज्ञः पितृयज्ञस्तुतर्पणम्। होमोदैवोवलि र्भौतोनृयज्ञोतिथिपूजनम्। पंचैतान्योमहायज्ञान्नहापयतिशक्तितः। सगृहेपिवसन्नित्यंसूनादोषैर्नलिप्यते। सूनाःसएवाह—पंचसूनागृहस्थस्यचुल्लीपेषण्युपस्करः। कंडनीचोदकुंभश्चबध्यतेयास्तुवाहयन्। उप स्करःसंमार्जनी। हारीतः—सूनाःपंचविधाद्भुतावगाहनतरणविक्षोभणविक्षेपणापूतग्रहणयानादिभिराद्यां कुर्वंत्यवेलाविस्पष्टद्रुतगमनाक्रमणादिभिर्द्वितीयां हननप्रहरणबंधनच्छेदनकुद्दनोत्पाटनादिभिस्तृतीयामा क्रमणघर्षणपेषणादिभिश्चतुर्थीउद्दीपनतपनस्वेदनभर्जनपचनादिभिःपंचमींतदेतासूनानीरययोनीरहरहः प्रजाःकुर्वंत्यग्निगुरुशुश्रूषास्वाध्यायैरादितःसूनात्रयंब्रह्मचारिणः पावयंतिपंचभियज्ञैर्गृहवनस्थाः पञ्चपावयंति पवित्रज्ञानध्यानैर्भिक्षवः सूनाद्वयंपावयंति।

**अथब्रह्मयज्ञः।तत्कालंमरीचिराह—**सचार्वाक्तर्पणात्कार्यःपश्चाद्वाप्रातराहुतेः। वैश्वदेवावसानेवानान्य त्रर्तेनिमित्तकात्। मध्याह्नपक्षेतर्पणात्पूर्वम्। **बृहस्पतिः—**यदिस्यात्तर्पणादर्वाग्ब्रह्मयज्ञः कृतोनहि। कृत्वा मनुष्ययज्ञवैततःस्वाध्यायमारभेत्। वृत्तौश्रुतिः— मध्यंदिनेप्रबलमधीयीतयएवंविद्वान्महारात्र उपस्युदि तइति। तैत्तिरीयश्रुतावुदितआदित्यइत्युक्तेरुदयात्प्राक्ब्रह्मयज्ञनिषेधइति माधवः

निषेधोनेतिचंद्रिका। स चार्वाक्तर्पणादितितर्पणस्यपृथगुक्तेर्नब्रह्मयज्ञांगतर्पणंकिंतुस्वतंत्रंप्रधानमतस्त र्पणस्यपृथक्संकल्पः। कृतब्रह्मयज्ञस्यतीर्थप्राप्तौपितृतर्पणंभवति—अकालेप्यथवाकालेतीर्थश्राद्धंतथान रैः। प्राप्तैरेवसदाकार्यंकर्तव्यं पितृतर्पणमितिश्राद्धशूलपाणौदेवीपुराणात्। आश्वलायनानांतुब्रह्म यज्ञांगतर्पणं तत्सूत्रेतद्धर्मैःसंदंशात्। **बृहन्नारदीये—**कुर्यात्प्रतिदिनंर्णीब्रह्मयज्ञं चतर्पणम्। प्रयोगपारिजा तेजैमिनिः—अनुपाकृतवेदस्यकर्तव्योब्रह्मयज्ञकः। वेदस्थानेतुसावित्रीगृह्यतेतत्समाहिसा। उपनयन दिनेनारंभः। आरभेद्ब्रह्मयज्ञंचमध्याह्नेतुपरेहनीतिप्रयोगपारिजातेवचनात्। बृहन्नारदीये वनस्थंप्रक्रम्य—

अधःशायीब्रह्मचारीपंचयज्ञपरायणः। शूद्रस्याधिकारमाहयाज्ञबल्क्यः—

भार्यारतःशुचिर्भृत्यभर्ता श्राद्धक्रियारतः। नमस्कारेणमंत्रेणपंचयज्ञान्नहापयेत्। सर्वत्रमहाकार्येनमस्कारविध्यर्थोमंत्रशब्दइत्या परार्कःकौमुद्यांमाधवीयेच—

स्वाहाकारेनमस्कारोमंत्रः शूद्रेविधीयते। तेनशूद्रःपाकयज्ञैर्यजेत ब्रह्मवान्स्वयम्। नमस्कारमंत्रोदेववताभ्यः पितृभ्यइतिमिताक्षरा। त्रिरावर्तितोनमःशब्दइतिपृथ्वीचंद्रः॥॥अथविधिस्तैत्तिरीयश्रुतौब्रह्मयज्ञेनयक्ष्यमाणःप्राच्यांदिशिग्रामादच्छदिर्दशउदीच्यांवोदितआदित्येदक्षिण तउपवीयोपविश्यहस्ताववनिज्यत्रिराचामेद्द्विःपरिमृज्यसकृदुपस्पृश्यशिरश्चक्षुषीनासिकेश्रोत्रेहृदयमालभ्ययत्सव्यंपाणिंपादौप्रोक्षति दर्भाणांमहदुपस्तीर्योपस्थंकृत्वाप्राङासीनःस्वाध्यायमधीयीतदक्षिणोत्तरौ पाणीपादौकृत्वासपवित्राचोमितिप्रतिपद्यतेत्रीनेवप्रयुक्तंभूर्भुवःस्वरित्याहाधसावित्रींगायत्रींत्रिरन्वाहपच्छोर्धर्चशोनवानमथोप्रज्ञातयैवप्रतिपदाछंदांसिप्रतिपद्यतइति।वामपादांगुष्ठोपरिदक्षिणपादां गुष्ठंनिधायपाद पार्ष्णिमेलनेनोपस्थमितिचंद्रोदयः। इतरेतरपादव्यत्यासेनोपवेशनंतदिति स्मृतिमंजयमदन पारिजातेच।वामोरूपरिदक्षिणजानुनिधानंतदितिवृत्तिकृत्कारिका—

कृत्वोपस्थंकरेसव्येउत्तानेप्राग्दिगंगुलौ। पवित्रे स्थापयेदुक्तप्रागग्रेदक्षिणेनतु। न्यचंप्रागंगुलंतेनसंदध्याद्दक्षिणंकरम्। शौनकः—

सव्यस्यपाणेरंगुष्ठप्रदे शिन्यो स्तुमध्यतः। दक्षिणस्यांगुलीर्न्यस्येच्चतस्रोंगुष्ठ

वर्जिताः। तथासव्यकरांगुष्ठंदक्षिणांगुष्ठवेष्टितम्। कुर्वीतचैवंसंवद्धौपाणीदक्षिणसक्थनि। **चंद्रिकायांयो गयाज्ञबल्क्यः—**प्रदक्षिणंसमावृत्यनमस्कृत्वोपरिश्यच। दर्भेषुदर्भपाणिभ्यांसंहताम्यांकृतांजलिः। विष्णुः —ॐकारंव्याहृतीस्तिस्रः सावित्रींचतथाऋचम्।मनस्येताननुस्मृत्यवेदादीन्समुपक्रमेत्। तैत्तिरीयब्राह्मणे—यत्स्वाध्यायमधीयीतैकामप्यृचंयजुःसामवातद्ब्रह्मयज्ञःसंतिष्ठतइति। व्यासः—वेदमादौसमारम्ययथोपर्यु परिक्रमात्। यदधीतेऽन्वहंशक्त्यास्वाध्यायंतंप्रचक्षते। उपर्युपरीतिप्रथमेऽह्निवेदादिपठित्वातदुत्तरंकं चिद्वेदभागंपठेत्तदन्यदिनेपुवेदादिंपठित्वातदुत्तरान्वेदभागान्पठेदितिचंद्रिका। प्रत्यहंवेदादिपाटोनास्तीति पृथ्वीचंद्रः। स्वाशाखाध्ययनंविप्रह्मयज्ञ इतिस्मृत इति लिंगपुराणादनेकशाखाध्यायिनः स्वशाखामात्रा ध्ययनाद्ब्रह्मयज्ञसिद्धिरित्यपरार्कःयाज्ञबल्क्यः— वेदार्थवपुराणानिसेतिहासानिशक्तितः।जपयज्ञ प्रसिद्ध्य र्थविद्यांचाध्यात्मिकींजपेत्। **मनुः—**सावित्रीमप्यधीयीतगत्वारण्यंसमाहितः। **तैत्तिरीयश्रुतौ—**नमोब्रह्मणइति परिधानीयांत्रिरन्वाहापउपस्पृश्यगृहानेत्ययद्ददातिसादक्षिणेति। ब्रह्मयज्ञस्याद्यंतयोर्विद्युद्वृष्टिमंत्रौपठनीयौ सर्वेषुयज्ञक्रतुष्विति होष्यन्नपउपस्पृशेत् विद्युदसिविद्यमेपाप्मानमिति अथहुत्वोपस्पृशेत्वृष्टिरसि वृश्चमेषाप्मानमिति यक्ष्यमाणोवेष्ट्वावेति तैत्तिरीयश्रुतेःश्रुतिभाष्येमाधवोप्येवम्। इदंतैत्तिरीयमात्रपरम्। अन्यथाबह्वृचयवैश्वदेवादावपितदापत्तिः। होष्यन्नित्युक्तेःसहोमफेप्पेवयज्ञेष्विदमितिकेचित्। **पारिजाते संग्रहे—**नकुर्यादासनस्थस्तुब्रह्मयज्ञकथंचन। **योगयाज्ञबल्क्यः—**जप्त्वाथप्रणवंचापिततस्तर्पणमाचरेत्। तत्रैवस्मृत्यंतरे–कुशानुत्तरतः क्षिप्त्वातथाचमनमाचरेत्। **तैत्तिरीयश्रुतौ—**ग्रामेमनसास्वाध्यायमधीयीतेति। **मनुः—**वेदोपकरणेचैवस्वाध्यायेचैवनैत्यके। नानुरोधोस्त्यनध्यायेहोममंत्रेषुचैवहि। **आपस्तंबस्तु—**मनसा चानध्यायेविद्युतिचाभ्यग्रायांस्तनयिस्नानप्रायत्येप्रेतान्नेनीहारे च श्राद्ध भोजन एवैकैकइत्याह। **अथगौतम—**अथयदिवातौवायात्स्तनयेद्वाविद्योततेवाऽवस्फूर्जेद्वैकांवर्चमेकं

बायजुरेकंवासामाभिव्याहरेद्भूर्भुवःस्वःसत्यंतपःश्रद्धायांजुहोमीतिचैतत्तेनैवचास्यैतदहःस्वाध्याय उपातो भवतीति। एष्वेवाल्पपाठोनान्यानध्यायेष्विति माधवप्रयोगपारिजातौ। अनध्यायांतरेष्वपीतिचंद्रिका मदनरत्नमदनपारिजाताः। अनध्यायेष्वल्पंपर्वण्यल्पतरंपठेदितिदेवजानीये॥॥ पंचयज्ञाकरणेप्रायश्चित्त माहृदक्षः – अनिवर्त्यमहायज्ञान्योभुङ्क्तेप्रत्यहंगृही। अनातुरःसतिधनेस क्रुच्छ्रार्धेनशुद्ध्यति। बौधायनः – एतेभ्यः पंचयज्ञेभ्योयद्येकोपितुहीयते। मनस्वत्याहुतिस्तव्रप्रायश्चित्तंविधीयते।द्व्यहंवापित्र्यहंवापि प्रमादादकृतेषुतु। तिस्रस्तंतुमतीर्हुत्वाचतस्रोवारुणीर्जपेत्। दशाहंद्वादशाहंवाविनिवृत्तेपुसर्वतः। चतस्रो वारुणीर्हुत्वाकार्यस्तांतुमतश्चरुः। तथा—अकृत्वापंचयज्ञांस्तुभुक्त्वाचांद्रायणंचरेत्। उज्वलायांतुभोजनो त्तरंनब्रह्मयज्ञः किंतूपवासः प्रायश्चित्तमेवकार्यमित्युक्तम्॥॥ अधतर्पणम्। तस्यमुख्यकालोमध्या्ह्नएव। कात्यायनादिसूत्रेषुमाध्याह्निकप्रकरणेपाठात्। यत्तु—प्रहराभ्यंतरेपुत्रःपित्रेदद्याज्जलाञ्जलीन्। द्वितीयेतुपयो ज्ञेयंतृतीयेजलमेवच। चतुर्थेशोणितंज्ञेयमितिधर्मविदोविदुरिति। तत्काम्यपरम्। नित्यस्यसायंकालावधिक त्वात्। यत्तुतर्पणंप्रकृत्य—तस्मात्सदैवकर्तव्यमकुर्वन्महतैनसा। युज्यतेब्राह्मणः कुर्वन्विश्वमेतद्विभर्तिसइति। तत्रसदेतियावज्जीवन्यायेनविहितमध्याह्नपरम्। यत्तुप्रातःस्नातेनोदयात्पूर्वकृततर्पणेनमध्याह्नेस्नानाभावेपि पुनस्तर्पणंकार्यम्। अहःकालिकतर्पणस्यावश्यकत्वात्। उदयोत्तरंप्रातस्तर्पणकरणेतेनैवनिर्वाहान्न पुनस्तर्पणम्। वैधस्त्रानपक्षेतुपुनःकरणमितिवाचस्पतिराचारचंद्रोदयश्च। तन्न। उदयात्पूर्वतर्पणेविध्य भावात्। स्नानप्रकरणपाठादावृत्तिरितिचेतृतीयस्त्रानेप्यावृत्त्यापत्तेः। मध्याह्नसंध्यावृत्त्यापत्तेश्च। वसिष्ठः—जपित्वैवंततः कुर्याद्देवर्षिपितृतर्पणम् तर्पणसब्रह्मयज्ञानंतर्यंप्रातर्होमोत्तरंब्रह्मयज्ञपक्षइतिचंद्रिकावृद्धपराशरेणतुमध्याह्नसंध्योत्तरंतर्पणमुक्तं—उपास्यविधिवत्संध्यामुपस्थायचभास्करम् ।गायत्रींशक्तितोजस्वातर्पयेद्देवताः पितॄन्॥॥

अत्राधिकारिणआहमनुः—चतुर्णामपिवर्णानांतर्पणंतुभवेत्सदा। वर्णानामितिनकर्मषष्ठी। सवर्णेभ्यो जलंदेयंनासवर्णेभ्यएवचेति योगयाज्ञवल्क्येन असवर्णतर्पणनिषेधात् असवर्णपदंहीनपरम्। —ब्राह्मणस्त्वन्यवर्णानांनकुर्यात्कर्मकिंचन। कामाल्लोभाद्भयान्मोहात्कृत्वात ज्जातितांव्रजेदितिब्राह्मेऽसवर्ण तर्पणेतज्जातित्वापत्तिहेतूक्तेः। उत्तमजात्यापत्तेस्त्विष्टत्वादिति मदनपारिजातः। असवर्णः पितातर्प्यइति गोविंदराजहरनाथौ। हीनवर्णामातातर्प्येतिगोविंदराजःशातातपः—तर्पणंतुशुचिःकुर्यात्प्रत्यहं स्नातकोद्विजः। बृहन्नारदीये— कुर्यात्प्रतिदिनंवर्णत्रह्मयज्ञंचतर्पणम्। इदंनित्यं। प्रत्यहमित्याद्युक्तेः।—देवताश्चमुनींश्चैवपितृृन्वैयोनतर्पयेत्। देवादीनामृणीभूत्वान रक्तंब्रजत्यधइतिहेमाद्रौब्रह्मवैवर्ते अकरणेप्रत्यवायश्रुतेश्च। जीवत्पितृकस्तुदेवर्षिमनुष्यानेवतर्पयेत्। जीवत्पितृकोप्येतानितिका त्यायनसूत्रात्। अत्रैतानेवेतिनियम्यते। जीवत्पितृकस्यवर्णत्वादेवप्राप्तेः। हेमाद्रौचंद्रिकायांयो गयाज्ञबल्क्यः—कव्यवाडनलंसोमंयममर्यमणंतथा। अग्निष्वात्तान्सोमपांश्चतथाबर्हिंपदः पितॄन्। यदिस्याज्जीवपितृक एतान्दिव्यान्पितृृंस्तथा। येभ्यएवपितादद्यात्तेभ्योवापिप्रदापयेत्। येम्यइतिसंन्यस्तपतितपितृकादि परंतीर्थपरंवेति पृथ्वीचंद्रःअत्र—सपितुःपितृकृत्येषुअधिकारोनविद्यते। नजीवंतमतिक्रम्य किंचिद्वद्या दितिश्रुतिरिति। पित्र्यंजीवत्पितुर्नोक्तमित्यादिस्मृतिभिर्जीवत्पितृकस्यसर्वपित्र्यनिषेधेउद्वाहेपुत्रजननइत्यादि वत्यतिप्रसवाभावात् मातृमातामहतर्पणंनेतिदक्षः। प्रादेशमात्रमुद्धृत्य सलिलप्राङ्मुखःसुरान्। उदङ्मनुष्यांस्तर्प्यतपितॄन्दक्षिणतस्तथा। उदक् उदङ्मुखः। दक्षिणतो दक्षिणामुखः। बौधायनः— अनुतीर्थमपउपसिंचंतीति देवानांदैवेनऋषीणामार्षेणपितॄणांपित्र्येणेत्यर्थः। समाख्यायाअनन्यार्थत्वात्। अपरार्केविष्णुसमुच्चये—प्राजापत्येनतीर्थेनमनुष्यांस्तर्पयेत्पृथक्। वृद्धपराशरः— दक्षिणजानु मूलग्नो दे॒वेभ्यःसेचयेज्जलम्। पुलस्त्यः—मनुष्यतर्पणंकुर्वन्नकंचिज्जानुपातयेत्। पितृतर्पणप्रक्रम्यवृद्धपराशरः—मूलग्नसव्यजानुश्चदक्षिणाग्रकुशेनच। तर्पयेदिति

संबंधः।बौधायनः—अथनिवीतीऋषींस्तर्पयेदिति। यत्तुउपवीतीऋषींस्तर्पयेदित्याचारादर्शस्तद्वचो विरुद्धम्। **चंद्रोदयेपाद्मे—**कृतोपवीतीदेवेम्योनिवीतीचभवेत्ततः। मनुष्यांस्तर्पयेद्भक्त्या ऋषिपुत्रान्नृषींस्तथा। अपसव्यंततःकृत्वासव्यंजानुचभूतले। पितॄंस्तर्पयेदितिसंबंधः। वृद्धगार्ग्यः—नकुर्वी तापसव्यंचनकुर्वीता पिमुंडनम्। अपसव्यनिषेधःप्रकोष्ठादुपरि। अपसव्यंद्विजाग्र्याणांपित्र्येसर्वत्रकीर्तितम्। आप्रकोष्ठात्प्रकर्तव्यं मातापित्रोस्तुजीवतोरितिवचनादित्युक्तंजीवत्पितृकनिर्णयेपितृचरणैः। **हेमाद्रौशंखलिखितौ—**अपसव्यं वासोयज्ञोपवीतेकृत्येति। **तत्रैवप्रचेताः—**अपसव्ययज्ञोपवीतवासस इति। वासउत्तरीयम्। **बौधायनस्तु—**यज्ञोपवीतान्यपेशलानिकृत्वेति। अत्रविकल्पःशाखाविशेषपरत्वे नव्यवस्थितिरितिहेमाद्रिः। **लौगाक्षः—**नजीवत्पितृकःकुर्यात्तिलैः कृष्णैस्तुतर्पणम्। कृष्णपदंशुक्लतिलनि वृत्यर्थमितिकेचित्। कृष्णत्वस्योद्देश्य विशेषणत्वेनाविवक्षितत्वातर्पणेतिलमात्रनिषेधइत्यन्ये। **गोभिलः—**लोमसंस्थांस्तिलान्कृत्वायस्तुतर्पयतेपितॄ न्।पितरस्तार्पितास्तेनरुधिरेणमलेनच। **स्मृत्यर्थसारे—**वामहस्तेतिलान्क्षिप्त्वाजलमध्येतुतर्पयेत्। स्थलेशाट्यांतटे70पात्रेरोममूलेन (?) कुत्रचित्। **कल्पतरौमरीचिः—वामहस्तेतिलाग्राह्यामुक्त्वाहस्तंतु दक्षिणम्।तिलग्रहणंनांगुष्ठेन।—**अंगुष्ठेनतिलैःकुर्याद्देवतापितृतर्पणम्। रुधिरंतद्भवेत्तोयंप्रदाताकिल्विषी भवेदितिब्राह्मोक्तेः। **मरीचिः—**मुक्तहस्तेनदातव्यं मुद्रांतत्रनदर्शयेत्। मुद्रातर्जन्यंगुष्ठयोगः। **चंद्रिकाहेमा द्र्यौर्मरीचिः—**सप्तम्यांरविवारेचगृहेजन्मदिनेतथा। पक्षयोरुभयोराजन्स प्तम्यनिशिसंध्ययोः। विद्यापुत्र कलत्रार्थीतिलान्पंचसुवर्जयेत्। भानौभौमैत्रयोदश्यानंदाभृगुमपासुच। पिंडदानंमृदास्नानंनकुर्यात्ति लतर्पणम्। **मदनरत्नेबौधायनः—**सप्तम्यांरविवारेचजन्मदिवसेषुच। गृहेनिषिद्धं सतिलतर्पणंतद्बहिर्भवेत्। यद्युद्धृतंप्रसिंचेत्तुतिलान्संमिश्रयेज्जले। अतोन्यथातुसव्येनतिला ग्राह्याविचक्षणैः। यस्तुगृहेतिलनिषेधः

सपृथक्तिलपरः। **स्मृतिरत्नावल्यांवृद्धमनुः—**सप्तम्यांभानुवारेचमातापित्रोःक्षयेऽहनि। तिलैर्यस्तर्पणं कुर्यात्सभवेत्पितृघातकः। स्मृत्यर्थसारे—शोभनेशोभनदिनेनकुर्यात्तिलतर्पणम्। हेमाद्रौकालिकापुराणे—रवौशुक्रेत्रयोदश्यांसप्तम्यांनिशिसंध्ययोः। श्रेयोर्थीब्राह्यणोजातुनकुर्यात्तिलतर्पणम्। यदिकुर्यात्ततकुर्या च्छुक्लैरेवतिलैःकृती। प्रयोगपारिजातेदेवजानीये—नंदायांभार्गवदिनेकृत्तिकासुमघासुच। भरण्यांमा नुवारे चगजच्छायाह्वयेतथा। अयनद्वितयेचैवमन्वादिषुयुगादिषु। पिंडदानंमृदास्नानंनकुर्या त्तिलतर्पणम्। मन्वादियुगादिषुनिषेधेमूलचिंत्यम्।मन्वाद्यासुयुगाद्यासुप्रदत्तःसतिलोंजलिः। सहस्रवार्षिकींतृप्तिंपितॄ णामावहेत्सदेतिकालादर्शविरोधात्।आसुतोयमपिस्नात्वातिलदर्भविमिश्रितम्। पितृृनुद्दिश्ययोदद्या त्सगतिंपरमांलभेदिति मन्वादीःप्रक्रम्यनागरखंडाच्च।वैशाखमासस्यच यातृतीयानवम्यसौकार्तिक शुक्लपक्षे। नभस्यमासस्यचकृष्णपक्षेत्रयोदशीपंचदशीचमाघे। इत्युपक्रम्य– पानीयमप्यत्रतिलैर्विमिश्र दद्यात्पितृभ्यः प्रयतोमनुष्यः। श्राद्धकृततेनसमाः सहस्रंरहस्यमेतत्पितरोवदंतीतिहेमाद्रौविष्णुपुराणात्। **बौधायनः—**विवाहेचोपनयने चौलेसतियथाक्रमम्। वर्षमर्धंतदर्धंचनैत्यकेतिलतर्पणम्। सस्कारेपुत थान्यषुमासंमासार्धमेवच। **स्मृतिरत्नावल्यांकात्यायनः—**वृद्धावनंतरश्चैवयावन्मांस.समाप्यते। तावत्पिं डान्नदद्यात्तुनकुर्यात्तिलतर्पणम्। **अत्रमदीयः संग्रहश्लोकः—पित्रोःक्षयेमनुयुगादिषुकामनंदाजन्माह शुक्ररविभौममघासुयाम्ये। जन्मर्क्षवह्निभगृहद्व्ययनेनिशायांसंध्यागजेचतिलतर्पणमत्यनिष्टम्। नंदाः प्रतिपत्षष्ठ्येकादश्यः। यत्त्वेकादशीप्रकृत्यलघुनारदीये—**अकृतश्राद्वनिचयाजलपिंडविनाकृताइति तदेकादशीस्तुत्यर्थं पितृभिरेकादश्यांजलपिंडोपयोगोनकृतइति। एतेनयेचैकादश्यां श्राद्धतर्पणादि निषेधमाहुस्तेनिरस्ता.। प्रतिगृहनिषेधेनपुत्रादीन्प्रत्यपवृत्तेः। अतएवपुत्रादिभिन्नश्राद्धादिनिषेधपरत्वमपिन। **स्मृत्यर्थसारे—**तिथिपारसमायोगान्निषेधोयउदाहृतः। ऋषिभिस्तर्पणेनित्येनैमित्तंनतुवाध्यते। अत. संक्रांत्यादिनिमित्तेनिषिद्धदिनादावपिगृहे तिलतर्पणंकार्यं

तीर्थतर्पणवत्। तिथिवारग्रंहणेनक्षत्रयोगादेरुपलक्षणम्। कात्यायनः—उपरागेपितुः श्राद्धेपातेमायां चसंक्रमे। निषिद्धेपिहिसर्वत्रतिलैस्तर्पणमाचरेत्। संक्रमोऽयनभिन्नइतिप्रयोगपारिजातःतन्न — उपप्लवेचंद्रमसोरवेश्चत्रिष्वष्टकास्वप्ययनद्वयेच ;। पानीयमप्यत्रतिलैर्विमिश्रंदद्यात्पितृभ्यःप्रयतोमनुष्यः। श्राद्धंकृतंतेनसमाः सहस्रंरहस्यमेतत्पितरोवदंतिइति हेमाद्रौविष्णुपुराणविरोधात्। अत्रपानीयमिति वचनादावश्यकतायनश्राद्धद्वयस्योच्यतइति हेमाद्रौ। मकरंप्रकृत्यकृत्यकल्पद्रुमे – तिलैः स्नानंप्रकुर्वीत तिलैरेवाशनंयुधः। देवतानांपितॄणांचतिलैस्तर्पणमाचरेत्। अतःपारिजातोक्तिर्श्चित्या। कात्यायनो क्तिःस्नानांगतर्पणपरा। मुख्येतिलनिपेधएवेति। देवजानीयेगंगादौननिपेधः— तीर्थेतिथिविशेषेचगंगायां प्रेतपक्षके। निषिद्धेपिहिसर्वत्र तिलैस्तर्पणमाचरेदिति पृथ्वीचंद्रधृतवचनात्। तीर्थपदेनैवगंगाग्रहे पुनर्गंगाग्र हःसर्वदातत्रतिलप्राप्त्यर्थः अन्यतीर्थेषुप्राप्तिदिनेएवेति। तिथितीर्थविशेषेषुकार्यप्रेतेच सर्वदेतिप्रयोगपारिजातेबौधायनोक्तेश्च। संक्रांत्यादिनिमित्ते पुत्रानांगेतर्पणेद्विजः। तिथिवारनिषिद्धेपिति लैस्तर्पणमाचरेदिति योगयाज्ञबल्क्योक्तेथ।**हारीतः—**वसित्वावसनंशुष्कंस्थलेविस्तीर्णबर्हिषि। विधिज्ञ स्तर्पणंकुर्यात्पात्रेषुनक दाचन। यत्राशुचिस्थलंवास्यादुदकेदेवताःपितॄन्। तर्पयेत्तुयथाकाममप्सु सर्वप्रतिष्ठितम्। **विष्णुः—**आर्द्रवासादेवर्षिपितृतर्पणमंभःस्थएव कुर्यात्परिवर्तितवासाश्चेत्तीर्थादुत्तीर्येति। अंभःस्यइतिकातीयान्यपरम्। तेषामुत्तीर्यतर्पणंकार्यमित्युक्तेरित्याचारादर्शः। हेमाद्रौषट्त्रिंशन्मते—नतर्पयेत्पितृृन्दिव्यान्जलसंस्थःस्थले क्वचित्। स्थलस्थस्तुक्वचित्कुर्याञ्जलेप्यशुचिचे ( स्थलम्। बौधायनः **—**वस्त्रपरिधायाद्भिरेवाप्स्यथोत्तरं देवान्पितॄंस्तर्पयेदिति। अप्वेवेत्यर्थः।

उद्धृतजलेनतर्पणेविशेषमाह **हारीतः—**पात्राद्वाजलमादायशुभेपात्रेविनिक्षिपेत्। जलपूर्णेतथागर्तेन स्थलेतुविबर्हषि। हेमाद्रौगोभिलः– नोदकेपुनपात्रेपुन क्रुद्धो नैकपाणिना। नोपतिष्ठतितत्तोयंयन्नभूमौ प्रदीयतइति तत्स्थलस्थस्यानुद्धृततर्पणपरम्। पितामहः—

हेमरूप्यमयंपानंताम्रकांस्यसमुद्भवम्। पितॄणांतर्पणेपात्रंमृन्मयंपरित्यजेत्। इदमधिकरणपात्रमिति सर्वनिबंधाः। यस्तुतर्पणेकांस्यनिषेधः समिन्नपरइतिस्मृतिरत्नावली। विकल्पस्तुयुक्तः। शंखलिखितौ – नेष्टकाचितेपितॄंस्तर्पयेत् वापीकूपतडागोदपानेषुसप्तपंचत्रीन्वापिंडा नुद्धृत्यदेवपितॄंस्तर्पयेदिति। एतन्नद्यभावइतिहेमाद्रिःभारते—यइच्छेत्सफलंजन्मजीवितंश्रुतमेववा। सपितृृंस्तर्पयेगंगामभिगम्यसरि द्वराग्। पितृगाथासुयमः—अपिनःसकुलेभूयाद्योनोदद्याज्जलांजलीन्। नदीषुबहुतोयासुशीतलासु विशेषतः। हारीतः—नस्रवंतींवृथातिक्रामेदिति। इदमपिस्नानंकृत्यातर्पणाकरणेयस्तुतीर्थेनरःस्नात्वा नकुर्यात्पितृतर्पणम्। पिबंतिदेहनिःस्रावंपितरोस्यजलार्थिनइतिप्रघट्टकेवचनात्। इदमपिख्याततीर्थपरम्।गिरिपुख्याततीर्थे पुनदीषुचविशेषतः। साकांक्षाः पितरोनित्यंतिष्ठतिसलिलार्थिनइतितत्रैवोक्तेः। केचि त्तुपितृृनतर्पयित्वातुनदीस्तरतियोनरः। तस्यासृक्पानकामास्तेभवंतिभृशदुःखिताइतिवचनान्नद्यां वारुणस्नानाभावेपितर्पणमावश्यकमित्याहुः। पोपदेवः—तातांरात्रितयं सपत्नजननीमातामहादि त्रयंस स्त्रिस्त्रीतनयादितातजननीस्वभ्रातरस्तत्स्त्रियः। तातांवात्मभगिन्यपत्यधवयुग्जायापितासद्गुरुःशिष्या प्ताःपितरोमहालयविधौतीर्थेतथातर्पणे। अस्यार्थःपितामद्यादिशब्दैःपितृजननीत्वाद्युच्यतेन पितामह पत्नीत्वादीतिहेमाद्रिः। युक्तंचैतत्। पितृव्यमातुलमातामहपितामहाइतिसूत्रे पितामहादिशब्दस्यडामहजं तत्वनिपातनात्तस्यचस्त्रियांमातरिपचेतिपित्वविधेः षिद्गौरादिभ्यश्चेतिडीसिद्धेः पुंयोगेङीष्वाभवात् पितुर्मातापितामहीत्यमराच्च। प्रतिपादितंचैतद्भाष्यकाशिकारायमुकुटादौ। सपत्नभ्रातृ भगिनीपितृष्व स्रादीनांनभ्रातृत्वादिनातर्पणम्। यतुपित्रादित्रयंमिलितमुद्दिश्यांजलित्रयंदेयमित्याचारादर्शस्तत्पित्रे पितामहायप्रपितामहायेत्यादिशंखादिविरोधादुपेक्ष्यम्। सस्त्रीत्युक्तेर्मातामहाः सपत्नीकाइतित्रिस्थली सेतौवचनाच्चतर्पणेपिमातामहानांसपत्नीकत्वेनोल्लेखइतिकेचित्। तन्न। अत्रतर्प्यसंग्रहेतात्पर्येणोल्लेखे तात्पर्याभावात्। मातामहीनामंजस्येकत्वत्रित्वविचारायोगात् मातुलान्यादीनां पृथक्तर्पणविधेर

नौचित्यापत्तेश्च। अथमातामहीनांच सपत्नीनामनंतरमित्यादिवाक्यविरोधाच्च। अतस्तर्पणं पृथगेव। तर्पणी यत्वावच्छेदकस्यमातृजनकत्वस्योभयत्रतुल्यत्वेनविनिगमनाविरहेणमातुलयोरिवेतरेतरसाहित्यस्यवक्तु- मशक्यत्वात्। एवंश्वश्रूश्वशुरयोः पृथक्तर्पणं भार्याजनकत्वस्यावच्छेदकस्याभेदात्। मातुलान्यास्तुन- पृथक्तर्पणं मातुलस्यतत्संबंधघटकत्वात्। यदपि मातुलानीचदुहितेतिमातुलान्याः पृथक् श्रवर्णतन्मातुल- स्यसपत्नीकत्वेनैवतर्पणैउपपन्नंनपृथक्तर्पणगमकम्। एवं पितृव्यभ्रातृपुत्रपत्नीनामपि। एवंपितृष्वसुः सभर्तृकायास्तर्पणं तस्यास्तत्संबंघघटकत्वात्। यत्क्षुपितृष्वसुश्च तद्भर्तुरितिगारुडंतत्पूर्ववदेवोपपन्नम्। एवंमातृष्वसृभगिनीपुत्रीणामपि। भागिनेयदौहित्रयोर्नपृथक्तर्पणं किंतुभगिनींसापत्यांपुत्रींसापत्यामि त्येव। पैतृष्वसेयमातृष्वसेयमातुलादीनां पृथक् बंधुत्वस्यावच्छेदकस्यभेदात्। भागिनेयत्वंहिभगिन्यप- त्यत्वम्। बंधुत्वंतुनपैतृष्वसेयादि समनियतं परस्परव्यभिचारात्। बंधवस्त्वात्मपितृमातृबंधवः। केचित्तुसर्वेषां पृथक्तर्पणमाहुः। भ्रातुर्ज्येष्ठस्यैवतर्पणंनकनिष्ठस्य। ज्येष्ठभ्रातृृंस्तर्पयेदितिहारीतो क्तौज्येष्ठग्रहणात्। यत्तुचंद्रोदयेबौधायनः–यदिस्नेहेन कुर्यातांस पिंडीकरणंविना। गयायांतुविशेषेण ज्यायानपि समाचरेदिति तत्सपिंडीकरणपर्युदासाद्दशाहांतकृत्यपरम्। अन्यथापुनर्गयाश्राद्धविधि वैयर्थ्यात्। अन्याभावेकुर्यादेव। एवंपुत्रस्यापि। नच मातानचपिताकुर्यात्पुत्रस्यपैतृकमितिकात्यायनोक्तेः—

अन्याभावेकुर्यादेव। एवंपत्न्याअपि। नपत्न्यैतुपतिर्दद्यादेषधर्मः सनातनइतिस्मृतिरत्नावल्यांवचनात् पत्न्यैचापिपतिर्दद्यादितिगयायातुर्विधानाञ्च अन्याभावेकुर्यात्। पितृष्वस्रादिसत्वे नतद्भर्त्रादितर्पणंद्वार लोपात्। मातु लादिसत्वे नतत्स्त्रीणाम्। जननीसत्वे सपत्नमातृमरणेपितस्याएवतर्पणं नमातामह्यादीनां जनन्यास्तत्रद्वारत्वात्। नचपितृपत्न्यः सर्वामातरइति तासामपिद्वारत्वम्। उत्पादकब्रह्मदात्रोर्गरीयान्ब्रह्मदः पितेत्युक्तेर्जीवत्यपिजनकेब्रह्मद्श्राद्धतर्पणाद्यापत्तेः। नचैवंमातृमरणे पितामहीसत्वेसप त्निपितामही मरणेपिनप्रपितामहीतर्पणंस्यात्। यस्यपितात्रेतःस्यादितिश्राद्धन्यायेनोपपत्तेः। भारते—

ज्येष्ठामातृसमा चैव भगिनीभरतर्षभ।

भ्रातुर्भार्याचतद्वत्स्याद्यस्याबाल्येस्तनंपिबेत्। स्तनपानमुभयोःशेषइतिकेचित्। एकार्धांतर्गतत्वेन भ्रातृपत्न्या एवेत्यन्ये। वयंतुनपूर्वशेषवाक्य भेदेनयोजयामः। यस्यास्तनंपिबेत्सायाकापिमातृसमातस्याअपितर्प णम्॥॥ विधवायाविशेषः **काशीखंडे—**तर्पणंप्रत्यहंकुर्याद्भर्तुःकुशतिलोदकैः। तपितुस्तत्पितुश्चापिनाम गोत्रादि- पूर्वकम्। इदंपुत्रपौत्राभावपरमिति पितामहचरणाः। मदनपारिजातेप्येवम्हेमाद्रौ—द्व्यामुष्याय- णकादद्युर्द्वाभ्यांपिंडोदकेपृथक्। तर्पणंसंन्यासिनानकार्यम्। नकुर्यात्सूतकंभिक्षुः श्राद्धपिंडोदकक्रिया- मितित्रिस्थलीसेतौवचनात्। **शंखः—**पूर्वाग्रैस्तर्पयेद्देवानुदगग्रैश्चमानवान्। तानेवद्वि गुणीकृत्यतपैयेत्प्रयतः- पितॄन्। **हेमाद्रौनारदीये—**तर्पणादीनिकार्याणिपितॄणांयानिकानिचित्। तानिस्युर्द्वि- गुणैर्दर्भैः समपत्रै- र्विशेषतः। **दक्षः—**अग्रैस्तुतर्पयेद्देवान्मनुष्यान्कुशमध्यतः। पितॄंस्तुकुशमूलाग्रै र्विधिःकौशेयथाक्रमम्। **काशीखंडे—**अंगुष्ठद्वयमध्येतुकृत्वादर्भानृजून्द्विजः। कव्यवाडनलादींश्चपितॄन्दि व्यान्प्रतर्पयेत्। प्राचीना- वीतिकोदर्भेर्द्विगुणैस्तिलमिश्रितैः। **शंखः—**विनारूप्यसुवर्णेनविनाताम्रतिलेनच। विनादर्भैश्चमत्रैश्चपितॄ- णांनोपतिष्ठते। हेम्नाचसहयद्दत्तंक्षीरेण मधुनाथवा। तदप्यक्षय्यतांयातिपितॄणां तुतिलोदकम्। रामायणे–पादशौचंविनाभ्यंगतिलहीनं चतर्पणम्। सर्वंतत्रिजटेतुभ्यंयच्चश्राद्धमदक्षिणम्। सत्यव्रतः—खङ्गमौक्ति- कहस्तेनकर्तव्य पितृतर्पणम्। मणिकांचनदर्भैर्वानशुद्धेनकदाचन। अत्रसंभवेसमुच्चयः।एषामन्यत- मेनापियुक्तपाणिसमाचरेत्। द्वाम्यांवाथनिभिर्वापिसर्वेषांतर्पणंबुध इतिहेमाद्रौमरीच्युक्तेः। तिलानामप्य- लाभेतुसुवर्णरजतादिकम्। तदभावेनिर्षिचेत्तुदर्भैर्मत्रेणवाप्यथेति चंद्रोदयेयोगयाज्ञबल्क्योक्तेश्च। **प्रयोगपा- रिजातेवाराहे—**तर्जन्यांरजतंधृत्वा पितृभ्योयत्प्रदीयते। अतोस्तिपरमाणूनामस्यांतोनैवविद्यते। **हारीतः—**कांचनेनतुपात्रेणराजतौदुवरेणच। दत्तमक्षय्यतांयाति स्वङ्गेनाश्मकृतेनच। **मनुः—**राजतैर्भाजनैरेषामथवा- रजतान्वितैः। वार्यपिश्रद्धयादनमक्षय्यायोपकल्पते। **भारते—**अमावास्यांतुयेमर्त्याः प्रयच्छतितिलोदकम्। पात्रमौ

दुंवरंगृह्ममधुमिश्रतपोधनाः। कृतं भवतितैः श्राद्धंसरहस्यंययार्थवत्। खड्गपात्रादिधारणंचांजलिमध्ये। लघुपात्रंकरेकृत्वासौवर्णखाड्गमेवावा। राजतंताम्रजंवापितेनसंतर्पयेत्पितृृनितिहेमाद्रौछागलेयोक्तेः। एतेनखड्गपात्रेणतर्पणंनेतिवदन् मदनपारिजातोऽपास्तः

अंजलिसंख्या। हेमाद्रौकौर्मे—देवतानां सर्वासामेकैकांजलिरिष्यते। तत्रैवब्रह्मांडे—अंजलिद्वितयं दद्याद्देवान्संतर्पयन्बुधः। तत्रैव विष्णुपुराणे—त्रिरपःप्रीणनार्थायदेवानामपवर्जयेत्। तथर्पीणांयथान्यायं सकृच्चापिप्रजापतेः। ब्रह्मांडे—ऋषीणांचमनुष्याणांसकृदेवप्रदीयते। कौर्मे— ऋषीणामेकएवस्यान्मनु ष्याणांद्वयंस्मृतम्। अत्रयथाशाखंव्यवस्था। शाखायामंजलि संख्यानुक्तौविकल्पइतिहेमाद्रिः। शंखः—एकैकमंजलिंदेवाद्वौद्वौतुसनकादयः। अर्हंतिपितरस्त्रींस्त्रींस्त्रियस्त्वेकैकमंजलिम्। हेमाद्रौकौर्मे— त्रयस्त्रयःपितॄणांतुस्त्रीणामेकैकइप्यते। पितृपदेनदिव्यपितरोप्युच्यंतइति पृथ्वीचंद्रःपैठीनसिः—तिलोदकांजलींस्त्रींस्त्रीनुच्चैरुच्चैर्विनिक्षिपेत्। उच्चैरितिपित्र्यंजलिभ्यः पितामहांजलयः किंचिदुच्चाः ततः प्रपितामहस्येति हेमाद्रिः। नच – यश्चैनमुत्पादयतेयश्चैनंत्रायते भयात्। यश्चास्यकुरुते वृत्तिंसर्वेते पितरस्त्रयइति भारतादेपामंजलित्रयापत्तिः। नित्यत्वयाधनेतात्पर्यात्। अन्यथासपत्नमातुरपितत्वापत्तिः। मात्रादिभ्योप्येकैकांजलिरितिश्राद्धहेमाद्रिः। वस्तुतस्तुस्त्रीपदंमात्रादिभिन्नपरम्।– मातृमुख्यास्तुयास्ति स्रस्तासांदद्याज्जलांजलीन्। स्त्रींस्त्रींन्दद्यादथान्यासांस्त्रीणामेकैकमंजलिमितिचन्द्रोदये शालंकायनोक्ते मातुस्त्रीनंजलीन्दद्यादन्यासामेकमंजलिम्सपत्न्याचार्यपत्नीनांद्वौद्वौदद्याज्जलांजलीनितिकाशीखंडात्सापत्नमात्राचार्यपत्नीनांत्रीन्। हेमाद्रौब्रह्मांडे—गुर्वाचार्यश्वशुराणांसुहृत्संबंधिनांसकृत्। मातामह्यादीनामेक स्त्रयोवा। - मातामह्यादिसर्वासामेकैकंतुतिलांजलिम्। दद्यात्तीर्थविशेषेणधर्मपरममास्थितइतिचंद्रिकायां गारुडात्। मातृमातामहांस्तद्वत्स्त्रीस्त्रीनेवत्रिभिस्त्रिभिः। मातामहीश्चयेप्यन्येगोत्रिणोदातृवर्जिताः। तानेकांजलिदानेनप्रत्येकंच पृथक्पृथगितिमदनरत्नेव्यासोक्तेश्चेति

केचित्। अन्येतुमातामह्यादीनामंजलित्रयम्। गारुडेमातामह्यादिपदे अतद्गुणसंविज्ञानबहुव्रीहिणामाता मह्यादिभिन्नानामेकांजलिविधानादित्याहुः। तन्न। मातामह्याद्यादीतिपाठापत्तेः। अन्यथामातामह्याएवां जलित्रयापत्तेः। विरूपैकशेषेमानाभावात्। मातामह्यादीनामंजलि द्वयविधानेनानौचित्यापत्तेश्च। व्यासो क्तौचस्वार्थे द्वितीयाप्रथमार्थे। अग्रेअपिशब्दात् मातामहानांत्वंजलित्रयम्। — पितॄणांप्रीणनार्थाय त्रिरपः पृथिवीपते। पितामहेभ्यश्चतयाप्रीतयेप्रपितामहान्। मातामहायतत्पितत्पित्रेचसमाहितः। इति विष्णुपुराणात्। मातृमातामहांस्तद्वत्स्त्रींस्त्रीनेवनिभिस्त्रिभिरितिव्यासोक्तेश्चेतिचंद्रोदयेमदनरत्नेच। द्वौद्वौ मातामहानांचमातुलानांसकृत्तथेतिब्रह्मांडाद्द्वावितिहेमाद्रौ। विकल्पस्तुयुक्तः॥ अत्रप्रत्यंजलिमंत्रा वृत्तिःननुमंत्रस्यतर्पणकरणत्वात्ससंख्यांजलिदानस्यैककर्मत्वादवरक्षोदिवइतिवत्सकृदेवमंत्रपाठःस्यात्। न। अवघातप्रोक्षणयोस्तएवव्रीहयःपुनरवहन्यंते सैववेदिःपुनःप्रोक्ष्यतइतिद्रव्यैकत्वान्नमंत्रावृत्तिः। इहतुसत्यप्येक कर्मत्वेप्रत्यंजलिद्रव्यभेदान्निर्वाप-लवन-संध्यार्घ्यदान-वन्मंत्रावृत्तिरितिकेचित्। वस्तुतस्तुद्विस्त्रिरितिक्रिया भ्यावृत्तौसुज्विधानात्संख्यायाःकर्मसामानाधिकरण्याभावेनभेदकत्वाभावान्नतर्पणभेदः। किंतुत्रिरावृत्तिर्विशि ष्टमेकंतर्पणंत्रिःप्रोक्षतीतिवत्तदंगंचमंत्रोनावर्तते। तर्पणानावृत्तेः। नचांजलिभेदान्मंत्रावृत्तिः। मंत्रस्यतदनं गत्वात्। निर्वापेतुसंस्कार्यद्रव्यभेदान्मंत्रावृत्तिः। नचेहद्वितीययांजलयः संस्कार्याः। धात्वर्थकर्मतयासक्तु वद्द्वितीयोपपत्तेः। तर्पणस्ययागांगत्वेनांजलिकरणकत्वात्। नचमंत्रोंऽजलिसंस्कारः। मंत्रैश्चदेयमुदकमित्या दिस्मृतौ तृतीययायाज्यावदानक्रियांगत्वादंजल्यंगत्वेमानाभावात्। कारकाणांपरस्परासंबंधाच्च। अतः पशुसोमाधिकरणन्यायेनप्रथमावगतयागैक्यानुरोधेनैकादशांगकरणकैकयागत्ववदंज लित्रय करणकमे कंनर्पणम्। **यत्तुपैठीनसिः—**उदीरतामितित्रिभिर्मन्त्रैस्त्रीनंजलीन्निनयेदिति। तत्राप्येकशेषस्यद्वंद्वापवाद त्वेनत्रयाणांमंत्राणामेकैक

स्मिन्निनयनेकरणत्वासंभवात्त्रीणित्रिभिर्मंत्रैःसाध्यंतइतिकोविरोधः। अर्घ्यदानेपिकराभ्यांतोयमादायगाय त्र्याचाभिमंत्रितमितिव्यासोक्तौ मंत्रसद्रव्यसंस्कारकत्वात्तद्भेदान्मंत्रावृत्तिः। नेहतथेतिनमंत्रावृत्तिरिति युक्तमुत्पश्यामः। अत्रोदीरतामंगिरसआयंतुनऊर्जंपितृभ्योयेचेहमधुवाताइतितृचंजपन्प्रतिसिंचेदि तिकात्यायनसूत्रेशतृप्रत्ययान्मंत्रपाठकालेप्रसेकः। मंत्रातैःकर्मादिरित्यादिपरिभाषा करणमंत्र परे तिहरिहरःश्रीदत्तस्तुनेहायंवर्तमाने। एवंहिमंत्रपाठकालेप्रसेकेगोत्राद्युच्चारणाभावप्रसंगात्। किंतु वर्तमानसामीप्ये। अतोमंत्रपाठोत्तरमेकैकांजलिदानमित्याह। अत्रविनिगमनाभावेनप्रतिमंत्रंगोत्राद्युच्चा रणम्। अन्यथाप्रत्यंजलिश्रीदत्तादिलिखितत्यागानुपपत्तेः। सर्वत्रपितृशब्दश्रुतेः। यत्तुप्रसेकतर्पणयोर्भेद इतिहरिहरस्तच्चित्यम् मानाभावात् शब्दांतराद्भेदइतिचेन्निनयनस्यापिभेदापत्तेः। त्वयैवतृप्यध्वमिति प्रसेकोक्तेश्च। समंत्रकांजलिदानंप्रसेकोंजलित्रयंतर्पणमितिभेदइतिचेत् त्वयादानार्थकत्वस्याप्यनंगी कारात् अतोयत्किंचिदेतत्।

अंजलितर्पणनिर्णयः। सर्वत्रांजलिश्रुतेरंजलिनैवतर्पणमितिकेचित्। अन्येतु—अन्वारब्धेनसव्येन पाणिनादक्षिणेनतु। देवर्षीस्तर्पयेद्विद्वानुदकांजलिभिःपितॄनितिकौर्माद्देवादितर्पणेसव्यान्वारंभः। पितृ तर्पणेत्वंजलिरेवेतिव्यवस्थामूचुः। अपरेतुएकेनवाहस्तेनकुर्याद्देवपितृतर्पणं सव्यान्वारब्धेनोभाभ्यांवे तिश्राद्धहेमाद्रौवसिष्ठोक्तेः सर्वत्रविकल्पमाहुः। अंजलिश्चनहस्तद्वययोगमात्रंकिंतुव्याकोशः। बह्वृचानां त्वनादेशेदक्षिणंप्रतीयादितितत्सूत्राद्धस्तेनैवतर्पणम्। काशीखंडे— तर्पयेच्छुचिभिस्तोयैस्तृप्य त्वितिसमुच्चरन्। वृद्धपराशरः— देवेभ्यश्चनमःस्वाहापितृभ्यश्चनमः स्वधा। अत्रचतुर्थीनिर्देशाद्ब्राह्मणैर्नमः स्वाहेत्यादिप्रयोगइतिपृथ्वीचंद्रः। अत्रचतुर्थ्यादेवादीनांदेवतात्वावगमाद्द्रव्यदेवतासंयोगेनयागत्वकल्प नात्तर्पणेनममेतित्यागइत्युक्तंदेवजानीयेआचारादर्शेच

**तर्पणेविभक्तिविचारः हेमाद्रौसत्यतपाः—**देवपितृमनुष्यादिस्वशाखाविधिचोदनात्। एकैकांजलिना तृप्तिंप्रथमांतेनवाचयेत्।

चंद्रोदयेयोगयाज्ञबल्क्यः—

तृप्यतामितिवक्तव्यंनाम्नातुप्रणवादिना। तत्रैव गोभिलः—

गोत्रकस्तर्पणेप्रोक्तः कर्ताएवंनमुह्यति। शर्मन्नर्घादिकेकायैशर्मातर्पणकर्मणि। हेमाद्रौभविष्ये—

चतुर्थीसर्वकार्येषुप्रथमा तर्पणेस्मृता। छंदोगपरिशिष्टेबृहत्प्रचेतःस्मृतिनागरखंडेषु—

सर्वत्रैवपितःप्रोक्तंपितातर्पणकर्मणि। हेमाद्रौव्यासः—

प्रथमातर्पणेप्रोक्तासंबुद्धिमपरेजगुः। छंदोगपरिशिष्टे—

नमोंतेतर्प यामीतिआदावोमितिच ब्रुवन्। नमांतेइतिहेमाद्रौपाठः। यमः—संबंधनामगोत्रेणस्वधांतनेनमोंततः। तर्पयामिपदेनैवतर्पयेत्पि तृपूर्वकम्। तेनद्वितीयांतनामप्रयोगोपिसिद्धः। प्रयोगस्तुप्रथमापक्षेअस्मत्पितामुकशर्मामुकगोत्रस्तृप्यताम्। तृप्यत्वितिवा। द्वितीयापक्षेअस्मत्पितरममुकशर्माणममुकगोत्रंतर्पयामिनमःस्वधा। स्वधानमइतिवा। संबुद्धिपक्षेस्मत्पितरमुकशर्मन्नमुकगोत्रेदंतेजलंनमःस्वधेति। वस्तुतस्तुबहुस्मृत्यनुसारात्प्रथमतप्रयोगमेव युक्तंपश्यामः। बह्वृचानांगोत्रोच्चारःपूर्वं तस्यगोत्रंनामचगृहीत्वेतिबह्वृचसूत्रात्। यद्यपीदंप्रकरणां तरेउक्तंतथापिविशयेप्रायदर्शनादितिन्यायेनसर्वत्राप्येवंज्ञेयम्। हेमाद्रिस्तु —गुरुषुबहुवचनंकनिष्ठेषुचै कवचनं तेनसगोत्रनामग्रहणंपुरुषंप्रतीतिचंद्रिकायांपैठीनसिस्मृतेः, सकारेणतुवक्तव्यंगोत्रंसर्वत्र धीमतेतिमात्स्याच्चामुकसगोत्रानस्मत्पितॄनमुकशर्मणस्तर्पयामिस्वधानमइतिप्रयोगइत्याह। आचारादर्शे कल्पतरौतु—

अमुकगोत्रःपिताअमुकशर्मातृप्यतामिदंजलंतस्मैस्वधेतिप्रयोगइत्युक्तम्। तन्न। पुनश्चतुर्थंतप्र योगेमानाभावात्। नचस्वधायोगानुपपत्तिर्मानम्। पितॄन्स्वधानमस्तर्पयामीति बौधायनेनवाचनिकतत्प्रयोगा त्प्रथमांते पितृप्रयोगोपपत्तेः। योगयाज्ञबल्क्यः—

नामतस्तुस्वधाकारैस्तर्प्याःस्युरनुपूर्वशः। अमुकदेवशर्मे तिप्रयोगइतिपृथ्वीचंद्रः। चतुर्थ्यंतनामप्रयोगोपिहेमाद्रावुक्तःमदनपारिजातेतु—

पितृतर्पणेवसुरूपेत्या दिकीर्तनंनेत्युक्तम्। तन्न। — संबंधमनुकीर्त्यैवनामगोत्रेत्वनंतरम्। वस्वादिरूपंसंकीर्त्यस्वधा

कारेणतर्पयेदितिवसिष्ठस्मृतिविरोधत्। पित्रादीनांमंत्रैस्तर्पणमात्रादीनांनानेतिहेमाद्रिश्चंद्रिकाच। वैदिकमंत्रैर्देवानाबाह्यनाम्नातर्पयेत्। पितॄन्मंत्रैराबाह्यमंत्रैस्तर्पयेदितिकल्पतरुरत्नाकरवाचस्पत्यादयःआचारचंद्रोदयेप्येवम्

नामाज्ञानेबौधायनः—

पृथिवीषत्पितावाच्यस्तत्पिताचांतरिक्षसत्। अभिधानापरिज्ञानेदिविषत्प्रपिता महः। इदंचापस्तंबादिपरम्। आश्वलायनानांतुतन्नेत्यादि। यदिनामनविद्यात्तत्पितामहप्रपितामहेति ब्रूयादितितत्सूत्रात्। बौधायनः—

शर्मातंब्रह्मणस्योक्तंवर्मांतक्षत्रियस्यतु। गुप्तांतंचैववैश्यस्यदासांत शूद्रजन्मनः। मनुः—

वैश्यस्यधनसंयुक्तंशूद्रस्यप्रेष्यसंयुतम्। स्त्रीणांलक्ष्मीदामितिदांतनाम।दांतनाम स्त्रीणामिति चंद्रोदयेगोभिलोक्तेः। चंद्रिकायांतुदायीशब्दांतमुक्तंदेवीशब्दांतंवा। गोत्रंमातानाम देवीतृप्यत्वेवंस्वधोच्चरन्नितिवाराहादितिदिवोदासः। शूद्रस्यकाश्यपगोत्रं गोत्रनाशेतुकाश्यपइतिव्याघ्र पादोक्तेःतस्मादाहुः सर्वाः प्रजाः काश्यप्यइतिश्रुतेचेति हेमाद्रिः। गोत्राज्ञाप्येवम्। गोत्रस्यत्वपरिज्ञाने काश्यपंगोत्रमुच्यतइतिचंद्रिकायांप्रयोगपारिजातेचस्मृत्यंतरात्। कौमुद्यांतुशूद्राणामपि ब्राह्मणादि वत्सरंपराप्रसिद्धंगोत्रंग्राह्यम्चतुर्णामपिवर्णानांपितॄणांपितृगोत्रतइतिचंद्रिकायांहेमाद्रौबौधायनोक्तेरित्युक्तम्। इदंचद्वि जोढशूद्रोत्पन्नशुद्रपरमितिश्राद्धहेमाद्रिः। सएव – पितृगोत्रंकुमारीणामूढानांभर्तृगोत्रतः। हेमाद्रौवृद्धशातातपः—

ब्राह्मादिषुविवाहेषुयातूढाकन्यकाभवेत्। भर्तृगोत्रेणकर्तव्यास्तस्याः पिंडोदक क्रियाः। आसुरादिषुचान्येषुपितृगोत्रेणधर्मवित्। ब्राह्मादिष्वपिपितृ भर्तृगोत्रयोर्विकल्पेपिवंशपरंपरायाता चारेणव्यवस्था। येनास्यपितरोयाताइत्यादिवचनादितिविज्ञानेश्वरः॥

अथतर्प्याः। हेमाद्रौमात्स्ये—

देवासुरास्तथानागागंधर्वाप्सरसोऽसुराः। क्रूराःसर्पाःसुपर्णाश्चतरवो जृंभकाःखगाः। वाद्याधाराजलाधारास्तथैवाकाशगामिनः। निराधाराश्चयेजीवाःपापकर्मरताश्चये। कृतो पवीतीकृत्यैवनिवीतीचभवेत्ततः। सनकश्चसनंदश्यतृतीयश्च सनातनः।

कपिलश्चासुरिश्चैववोढुःपंचशिखस्तथा। सर्वेतेतृप्तिमायांतुमद्दत्तेनांबुनासदा। मरीचिमत्र्यंगिरसौपुलस्त्यं पुलहंक्रतुम्। प्राचेतसंवसिष्ठंचभृगुंनारदमेवच। देवान्ब्रह्मऋषींचैवतर्पयेदक्षतोदकैः। तत्रैवपैठीनसिः—

गौतमोथभरद्वाजोविश्वामित्रश्चतापसः। जमदग्निर्वसिष्ठश्चकश्यपोत्रिस्तथोत्तमः। स्वारोचिपोरैवतश्चमहाते जाश्चचाक्षुषः। वैवस्वतस्तथातार्प्यइति। चंद्रिकायाम्—

अथकांडऋषीनेतानुदकांजलिभिःशुचिः। अव्यग्रस्तर्पयेन्नित्यंमंत्रैःपर्वाष्टमीषुच। कांडानितिवेदस्य। याजुपपरमितिमाधवःहेमाद्रौभविष्ये—

अथसव्यंततःकृत्वासव्यंजातुंचभूतले। अग्निष्वात्ताबर्हिपदोहविष्मंतस्तथोष्मपाः। सुकालिनस्तथाभौमा आज्यपाःसोमपास्तथा। तर्पयेद्वैपितृृन्भक्त्यासतिलोदकचंदनैः। चंद्रोदयेवृद्धपराशरः—

गायत्रींशक्ति तोजप्त्वातर्पयेद्देवताःपितॄन्। ब्रहोशकेशवात्पूर्वंप्रजापतिमथश्रुतीः। छंदोयज्ञानृषीन्सिद्धानाचार्यांस्तनया नपि। गंधर्ववत्सरर्तूंश्चमासपक्षदिनानितु। देवान्देवानुगांश्चैवनागान्नागकुलानिच। सरितःसागरांस्तीर्था न्पर्वतान्कुलपर्वतान्। किन्नरान्खेचरान्यक्षान्मनुष्यानथतर्पयेत्। वनस्पतीनोषधीश्चभूतग्रामं चतुर्विधम्। ब्रह्मादयोमयाहूताःसमागत्याददंत्वपः। अनृणंमांप्रकुर्वंतुप्रसीदंतुममोपरि। स्मृतपूर्वाग्रदर्भे षुसाग्रेषुसकुशे षुच। प्रादेशिकेषुशुद्धेषुब्रह्मादिभ्योंबुसेचयेत्। उदीरतामंगिरसआयंतुवोर्जमित्यपि। पितृभ्यश्चस्वधा यिभ्योयेचेहपितरस्तथा। अग्निष्वात्तोपहूताश्चतथाबर्हिंपदोपिच। येनःपूर्वेपितरश्चसोमपान्समुदीरयेत्। आवाह्य चपितृृनेतैरपसव्योपवीतिना। दक्षिणाभिमुखोद्वाभ्यांकरराभ्यामंबुसेचयेत्। रुक्मरूप्यतिलैस्ताम्र दर्भमंत्रैः क्षिपेत्पयः। वसून्रुद्रांस्तथादित्यान्नमस्कारसमन्वितान्। ध्रुवोध्वरश्चसोमश्चआपश्चैवानिलोनलः। प्रत्यूषश्चप्रभासश्चवसवोष्टौप्रकीर्तिताः। अजैकपादहिर्बुध्न्योविरूपाक्षोथरैवतः। हरश्चबहुरूपश्चत्र्यंबकश्चसुरे श्वरः। सावित्रश्चजयंतश्चपिनाकीचापराजितः। इंद्रोधाताभगःपूषामित्रोवरुणोर्यमा। अंशुर्विवस्वांस्त्वष्टाच सविताविष्णुरेवच। कव्यवाड नलःसोमोयमश्चैवतथार्यमा। अग्निष्वात्ताःसोमपाश्चतथाबर्हिपदोपिच। यमश्चधर्मराजश्च मृत्युश्चैवतथांतकः। वैवस्वतश्चकालश्च सर्वभूतक्षय

स्तथा। औदुंबरश्चदध्नश्चनीलश्चपरमेष्ठिना। सहितइतिशेषः। वृकोदरश्चचित्रश्चचित्रगुप्तस्तथार्यमा। तस्मात्प्राक्तर्पयित्वैतान्पित्रादींस्तर्पयेततः। मातामहान्मातुलांश्चसखिसंबंधिवांधवान्। स्वजनान्ज्ञातिवर्गी या नुपाध्यायान्गुरूनपि। पितृृन्भृत्यानपत्यांश्चयेभवंतितदाश्रिताः। तान्सर्वास्तर्पयेद्विद्वानहंतेतेयतोजलम्। अत्रध्रुवायनमइतिप्रयोगइतिचंद्रिका। ध्रुवंतर्पयामिनमइतिहेमाद्रिः। कव्यवाडनलएकादेवतेति हरिहरः। कव्यवाट्अनलइतिद्वेदेवतेतिकल्पतरुः। तन्न। कव्यवाडनलश्चेतिगोभिलविरोधात्। यमादितर्पणंचतुर्थ्यं तनामभिरेवेति हेमाद्रिः। कव्यवाडनलः सोमोधर्मश्रेतिचंद्रिकायांपाठः

यमतर्पणेविशेषमाह चंद्रोदयेयमः — देवत्वाद्देवतीर्थेन पितृत्वाद्दक्षिणामुखः। देवत्वंचपितृत्वंचयमस्या स्तिद्विरूपता। हेमाद्रौ ब्राह्मे इदंप्रकृत्य —यज्ञोपवीतिनाकार्यंप्राचीनावीतिनातथा। मनुः—एकैकस्य तिलैर्मिश्रांस्त्रींस्त्रीन्दद्याज्जलांजलीन्। स्मृत्यर्थसारे—दीपोत्सवचतुर्दश्यांकार्यंतुयमतर्पणम्। अंगारक चतुर्दश्यामपिकार्यंसदैववा ॥ ॥ अथभीष्मतर्पणम्। तन्माघशुक्लगाष्टम्यांभीष्मायतुतिलोदकम्। अन्नंच विधिवद्दद्युःसर्वेवर्णाद्विजातयइतिधवलनिबंधस्मृतेः। जीवत्पिताप्येतत्कुर्यात्। जीवत्पितापिकुर्वीत तर्प णंयमभीष्मयोरितिपाद्मादितिपितृचरणाः। इदंचनित्यम्—ब्राह्मणाद्याश्चयेवर्णादद्युर्भीष्मायनोजलम्। संवत्सरकृतंतेषांपुण्यंनश्यतिसत्तमेतिमदनरत्नोक्तेःधवलनिबंधे—भीष्मःशांतनवोवीरः सत्यवादीजितेंद्रियः। आभिरद्भिरवाप्नोतुपुत्रपौत्रोचितक्रियाम्। वैयाघ्रपद्यगोत्रायसांकृत्यप्रवरायच। अपुत्रायददाम्येतज्जलंभीष्मायवर्मणे। वसूनामवतारायशंतनोरात्मजायच। अर्ध्यंददामिभीष्माय आबालब्रह्मचारिणे। इति। अयंतर्पणमंत्रइतिकेचित्। अर्घ्यंददामीत्यग्रेतनेनैकवाक्यत्वान्नार्घ्यमंत्रइति नाम्नातर्पणम्। यत्तु—सत्यव्रतायशुचयेगांगेयायमहात्मने। भीष्मायैतद्ददाम्यर्घ्यमाजन्मब्रह्मचारिणे। वैयाघ्रपद्यःसव्येनानेनमंत्रेणवर्णिकमितिपाद्मंतत्रतदर्पणंगौणम्। अर्घ्योपक्रमात्। नचानयोर्नभेदः। अर्घ्येसव्य

जान्वाचनाद्यभावैनभेदावश्यकत्वादितिवयंप्रतीमः। एतेनापसव्येनेतिवदन् दिवोदासोऽपास्तः। हेमाद्रौब्राह्मे

प्रथमंतपयेद्देवान्ब्रह्मादींश्चततोऋषीन्। मरीचिप्रमुखांश्चैवरुद्रादित्यवसूंस्तथा। यक्षान्पशून्सु पर्णाश्चभूतग्रामंचतुर्विधम्। आचार्यानितरांश्चैवकालस्यावयवानपि। सनकप्रमुखांश्चैवमनुष्यांस्तदनंतरम्। कव्यवाडनलादींश्चततःपितृगणानपि। ततोमातामहानांचपितृव्याणांततःपरम्। पत्नीनांचसुतानांच पितृमातृष्वसुस्तथा। मातुलानीचदुहितास्वासाचार्यर्त्विजस्तथा। शिष्याश्चज्ञातयश्चैवसुहृत्संबंधिनस्तथा। एतेषांतर्पणकार्यंयथावदनुपूर्वशः। ज्ञाताज्ञातान्समुद्दिश्यप्रदेयश्चांजलिस्ततः। तत्रैवस्कांदे— पूर्वंमोदप्रमोदादींस्तर्पयेत्षड्विनायकान्। एतौमोदप्रमोदौसुमुखदुर्मुखाविघ्नविघ्नहर्तारइतिषट्। ततो ब्रह्मादयोदेवाःसनकाद्यास्ततःपरम्। अग्निष्वात्तादिकानांपितॄणामप्यनुक्रमात्। यमायधर्मराजाय कुर्यात्सं तर्पणंबुधः। पितॄणामथमातृणांततोमातामहस्यच। पत्नीश्वशुरबंधूनांसुतसंबंधिनांततः। भारते

पूर्वस्ववंशजातानांकृत्वाद्भिस्तर्पणंबुधः। सुहृत्संबंधिवर्गाणांततोदद्याज्जलांजलीन्। सदानाविजलतज्ज्ञाः प्रयच्छंतिसमाहिताः। नारदीये

अग्निप्रभृतयोदेवास्तर्प्याःस्युरनुपूर्वशः। ततःशतर्चिनाद्यास्तुमुनयः शंसितव्रताः। ततःकांडऋषीन्सर्वांस्तर्पयेच्छ्रद्धयान्वितः। पितृभ्यः प्रत्यहंदद्यात्ततोमातृभ्यएवच। ततोमातामहानांचपितृव्यस्यसु तस्यच। पित्रादितर्पणोत्तरंगारुडे

अथमातामहीनांच स्वपत्नीनामनंत रम्। तर्पणंचपितृव्याणांतत्पत्नीनांततोपिच। पितृष्वसुश्चतद्भर्तुर्मातुलस्यापिनित्यशः। मातुलान्यास्ततो मातृष्वसुस्तत्पत्युरेवच। श्वशुरस्यचकर्तव्यंश्वश्रूणामपितर्पणम्। आचार्याणांततः कुर्यादाचार्यानीभ्यएवच बंधूनांभ्रातृपत्नीनांपुत्रंचैवस्नुपामपि। पुत्रींतस्याःपतिंचैवभगिनीतत्पर्तितथा। भागिनेयंचपौत्रंचदौहित्र्या ज्यमृत्विजम्। शिष्यंचमित्रंसंतर्प्यतत्पत्नीस्तुतथैवच। वाराहे

आत्मनोपिजलंदधादितिद्वैपायनोब्रवीत्। इदंचापुत्रपरम्। शंखः

आसप्तमात्पुरुषात्पितृपक्षेयावतांना मजानीयात्तावतांतर्पणंकुर्यादितिहारीतः। पित्रादीन्मात्रादीन्मातामहादीन्पतृव्यांस्तत्पुत्रान्ज्येष्ठभ्रातॄंस्तत्पत्नीर्मातुलांस्तत्पत्नीर्गुर्वाचार्योपा

ध्यायान्सुहृत्संबंधिबांधवान्द्रव्यान्नदातृषोपकरिक्थिनस्तत्पत्नीश्चतर्पयेदिति। त्रिस्थलीसेतौ— आदौपिताततोमातासपत्नजननीतथा। मातामहाःसपत्नीकाआत्मपत्न्यस्ततःपरम्। सुतभ्रातृपितृव्याश्च मातुलाश्चसभार्यकाः। दुहिताचस्वसाप्रोक्तादौहित्रोभागिनेयकः। पितृष्वसामातृष्वसाश्वशुरौगुरुरिक्थदौ। एतेस्युःपितरस्तस्तर्पणेचमहालये। छंदोगपरिशिष्टे—येचान्येमत्तउदकमर्हंतितांस्तर्पयामीत्यवसानां जलिरिति। तर्पणोत्तरंकाशीखंडे—आब्रह्मस्तंबपर्यंतंदेवर्षिपितृमानवाः। तृष्यंतुपितरः सर्वेमातृमाता महादयः। अतीतकुलकोटीनांसप्तद्वीपनिवासिनाम्। आब्रह्मभुवनाल्लोकादिदमस्तुतिलोदकम्। हेमाद्रौकार्ष्णाजिनिः—देवतानांपितॄणांचजलेदद्याज्जलांजलीन्। असंस्कृतप्रमीतानामेकमेवतटेक्षिपेत्। बौधायनः—जलांजलित्रयंदद्याद्येचान्येसंस्कृताभुवि। असंस्कृतप्रमीतानामेकमेवतटेक्षिपेत्। मंत्रः—यत्रक्वचनसंस्थानांक्षुत्तृष्णोपहतात्मनाम्। तेषांहिदत्तमक्षय्यमिदमस्तुतिलोदकम्। हेमाद्रौभविष्ये—संतर्प्यविधिवद्भक्त्याइमंमंत्रमुदीरयेत्। यैवांधवाधवावायेऽन्यजन्मनिबांधवाः। तेतृप्तिमखिलायांतुयश्चास्म त्तोऽबुवांच्छति ॥

अथश्राद्धांगतर्पणम्। नचतत्रमानाभावः। परेद्युःश्राद्धकृन्मर्त्योनतर्पयतिवैपितॄन्। तस्यतेपितरः क्रुद्धाःशापंदत्त्वाव्रजंतिहीतिबृहन्नारदीयात्। यस्तर्पयतितान्विप्रःश्राद्धंकृत्वापरेहनि। पितरस्तेनतृप्यंतिन चेत्कुप्यंतिवैभृशमितिप्रयोगपारिजातेगर्गेणांगत्वोक्तेश्च।शातातपः—पूर्वंतिलोदकंदत्वाआमश्राद्धं तुकारयेत्। प्रत्यब्देनभवेत्पूर्वंपरेहनितिलोदकम्। पक्षश्राद्धेहिरण्येच अनुव्रज्यतिलोदकम्। अनुव्रज्यश्राद्धंकृत्वातदह्नयेवेत्यर्थः**। बृहन्नारदीये** - पक्षश्राद्धंयदाकुर्यात्तर्पणंतुदिनेदिने। सकृन्महालयेचैव परेहनितिलोदकम्। हेमाद्रौवसिष्ठः—तीरेजलाशयस्यैवनिर्वर्त्यपितृतर्पणम्। निष्पीडयेत्स्नानवस्त्रं दक्षिणाभिमुखःस्थले। तत्रमंत्रोबह्वृचपरिशिष्टे—प्राचीनावीतीयेकेचा स्मत्कुलइतिवस्त्रं निष्पीडयेदिति। चंद्रोदयेवृद्धपराशरः—वस्त्रनिप्पीडनेमंत्रैम्तिलदर्भयुतंत्यजेत्। येमेकुलेलुप्तपिंडाःपुत्रदारविवर्जिताः।

तेषांतुदत्तमक्षय्यमिदमस्तुतिलोदकम्। पितृवंशेमृतायेचमातृवंशेतथैवच। येमेकुलेलुप्तपिंडाः पुत्रदार विवर्जिताः। तेषांतुदत्तमक्षय्यमिदमस्तुतिलोदकम्। पितृवंशेमृतायेचमातृवंशेतथैवच। सदातृप्तिर्भवत्वेपां तिलैस्तुसहवारिणा। अपुत्रायेमृताः केचित्पुमांसोयोपितोपिवा। अस्मद्वंशेतुतेभ्यो वैदत्तंवस्त्रजलंमया। सएव। नपूर्वंतर्पणाद्वस्त्रंनचांभसिनपादयोः। एषुचेत्पीडयेद्वस्त्रंराक्षसंतदतिक्रमात्। मनुः

वस्त्रंत्रिगुणितं यस्तुनिष्पीडयतिमंदधीः। वृथास्नानंभवेत्तस्यपुनः स्नानंविशोधनम्। जाबालिः

नाप्सु निष्पीडयेद्वस्त्रं सर्वथाद्विजसत्तमः। धौतंचद्विगुणीकृत्यभूमिलग्नंनपीडयेत्। वृथास्त्रानंभवेत्तस्ययश्राधोदशमंवुनि। मदनरत्ने पराशरः

द्वादश्यांपंचदश्यांचसंक्रांतौश्राद्धवासरे। वस्त्रंनिष्पीडयेन्नैवनच क्षारेणयोजयेत्। पंचदश्यमा। एकादश्याममायांचमातापित्रोः क्षयेहनि। नपीडयेत्स्नानवस्त्रंनचक्षारेणयोजयेदित्याचार चंद्रोदयेभृगूक्तेः। तत्रैव—शनिभौमास्थितेश्राद्धेकुहूपष्ठीनिरंशके। वस्त्राणांक्षारसंयोगोदहत्या सप्तमंकुलम्। तत्रैव—

आदित्यसौरिधरणी सुतवासरेषुप्रक्षालनायरजकायनवस्त्रदानम्। शंसंतिगर्गयम विष्णुपराशराद्याःपुंसांभवंतिविपदःसहपुत्रपौत्रैः। चंद्रोदयेसंग्रहे

वस्त्रंचतुर्गुणीकृत्यनिष्पीड्य सदशंतथा। वामप्रकोष्ठेनिक्षिप्यस्थलस्थश्चद्विराचमेत्। जाबालिः

निष्पीडितंधौतवस्त्रंयदास्कंधे विनिक्षिपेत्। तदादुष्टंभवेत्कर्मपुनःस्नानंविशोधनम्।

** अधमध्याह्नसंध्या**। दक्षः

अध्यर्धयामादासायंसंध्यामाध्याह्निकीष्यते। संध्यात्रयंतुकर्तव्यंद्विजेनात्मवि दासदा। उपनयनदिनेमध्याह्नसंध्यामाह प्रयोगपारिजातेजैमिनिः

यावद्ब्रह्मोपदेशस्तुतावत्संध्या दिकंचन। ततोमध्याह्नसंध्यादिसर्वकर्मसमाचरेत्। अत्रकश्चिद्बह्वृचानामुपनयनदिनेतिष्ठेदहःशेषमित्यु पवेशननिपेधान्नतद्दिनेमध्याह्नसंध्येत्याह। तत्ररागप्राप्तस्यनिषेधात्। प्रातःसंध्यावन्मध्याह्नसंध्या। विशेषस्तूच्यते

आपःपुनंतुमध्याह्नेकुर्यादाचमनंततः। अर्घ्यदानेव्यासः

मध्याह्ने सकृदेवार्घ्य क्षेपणीयं द्विजातिभिः। शौनकः

मध्याह्नेतुविशेषोयमुपस्थानंतथार्घ्यकम्। अपामंजलिमापूर्यआकृष्णेनेति निक्षिपेत्। हंसवत्याकृष्णेनेतिवार्घ्यंदद्यादित्युक्तं बह्वृच

गृह्ये अर्घ्यदानेऋजुत्वमुक्तम्। कात्यायनः – पुष्पाण्यंबुमिश्राण्यूर्ध्वप्रक्षिप्योर्ध्वबाहुःसूर्यमुदीक्षेतेति। अर्घ्यदानोत्तरंसंध्यातर्पणमुक्तं प्रयोगपारिजाते

कश्यपऋषिः रुद्रोदेवतात्रिष्टुपछंदः पुरुषतर्पणे विनि०। ॐ भूःपुरुषतर्पयामि यजुर्वेदंतर्पयामि मंडलंत ० रुद्ररूपिणंत०अंतरात्मानंत० सावित्रींत० वेदमातरंत०सांकृर्तिंत० संध्यांत० युवतींत ०रौद्रीत० उपसंत० निम्रुचंत० सर्वसिद्धिकरींत सर्वमंत्राधि पंत० एवंपंचदशतर्पणानिकृत्वाद्विराचम्यादित्यमुपतिष्ठेतेति। गायत्रीध्यानम्

सावित्रींयुवतींयुक्तां शुक्लवस्त्रांत्रिलोचनाम्। त्रिशूलिनींवृषारूढांपंचास्यांरुद्रदेवताम्। कैलासविह्नितावासामायांतीसूर्य मंडलात्। वृदांत्र्यक्षरांसाक्षाद्देवीमावाहयाम्यहम्।गायत्रीजपेचंद्रिकायां शातातपः — तिष्ठंश्चेद्वीक्षमाणोऽर्कमासीनःप्राङ्मुखोजपेत्। आसीनश्चेदित्यर्थः। रात्रौमध्याह्नसंध्याकरणे नोपस्थानम्। रात्रौप्रहरपर्यंतमित्यादिसंग्रहादितिचंद्रोदयःकृष्णभटीयप्रयोगपारिजातयोस्तुरात्रौगायत्र्यार्घ्यंदद्यादु पस्थानेहविष्पांतसूक्तंजपेदित्युक्तं। इयंब्रह्मयज्ञात्पूर्वंकार्या। उपास्यविधिवत्संध्यामुपस्थायचभास्करम्। गायत्रींशक्तितोजप्त्वातर्पयेद्देवताःपितृृनितिबृहत्पराशरोक्तेरितिमाधवचंद्रिकामदनरत्नस्मृत्यर्थसार कृष्णभट्टाः। प्रयोगपारिजातस्तु—अपांसमीपेनियतोनित्यकंविधिमास्थितः। सावित्रीमप्यधीयीतगत्वा रण्यं समाहितइतिमनूक्तेर्मध्याह्नसंध्योत्तरंब्रह्मयज्ञमाहसब्रह्मयज्ञप्रकरणानभिज्ञत्वादसंबर्द्धवदन्नुपेक्ष्यः। मदन पारिजातेतुततोर्घ्यंभानवेदद्यात्तिलपुष्पजलान्वितमितिनारसिंहेततःशब्देनं ब्रह्मयज्ञनंतर्यंमध्याह्नसंध्याया इत्युक्तं। जयंतवृत्तावप्येवम्। बह्वृचांतुतत्सूत्रे अथस्वाध्याय विधिरित्युपक्रम्यआप्लुत्येति मध्याह्नस्रानमुक्त्वाततोब्रह्मयज्ञोक्तेरवांतरप्रकरणात्स्नानंब्रह्मयज्ञांगं तयोर्मध्येनसंध्या। अंगांगिनोरंगेनव्य वायापत्तेः कर्मणिकर्मांतरारंभायोगाच्च आगंतूनामंतेनिवेशइतिन्यायाच्च ब्रह्मयज्ञोत्तरमेवसंध्या। नचैवमंते यद्ददातिसादक्षिणेत्युक्तेस्तावत्पर्यंतमवांतरप्रकरणाद्ब्रह्मयज्ञोत्तरमपिसंध्यानस्यादितियुक्तम्। ददातीत्यस्याविधायकत्वात्। अतएववृत्तिकृत्अन्यथादद्यादित्येवावक्ष्यदिति। संध्योत्तरंब्रह्म

यज्ञस्तुआपस्तंबादिपरः। इदमापःप्रवहतधाम्नोधाम्नस्तथैवच। विमोचनेतुतीर्थस्यआप्यायस्वेतिवैजपेत्। देवागातुविदइतिकृत्वाजप्यनिवेदनम्। प्रक्षाल्यतीर्थदेशंचगत्वास्वधर्ममाचरेत्। श्राद्धहेमाद्रावुशनाः

स्रवंत्यादिष्वथाचम्यसोपानत्कोह्यसंस्पृशन्। आगतःसोदपात्रस्तुयत्नेनशुचिरेवसः। तेनोदकेनद्रव्याणि प्रोक्ष्याचम्यपुनर्गृहे। ततःकर्माणिकुर्वीतनित्यवैयानिकानिच। शातातपः

यद्यानीतंतुसव्येनप्रोक्षये द्दक्षिणेनतु। इतिश्रीमन्नारायण० लक्ष्मणभट्टकृतेआचाररत्नेमाध्याह्निकविवरणम्॥

अधदेवपूजा। तत्रप्रयोगपारिजातेवसिष्ठः – कौबेर्यातुधनस्थानमैशान्यांदेवतालयम्। माधवीयेदक्षः -भागेतुपंचमेदेवमर्चयेत्पुरुषोत्तमम्। इति। मंत्रराजविधाने

प्रातर्होमंचकृत्वावादेवतार्चनमारभेत्। यद्वामाध्याह्निकंकृत्वापूजयेत्पुरुषोत्तमम्। इति। चं द्विकायांहारीतः

कुर्वीतदेवतापूजांजपयज्ञा दनंतरम्। अधपूजापात्राणिप्रयोगपारिजाते पैठीनसिः

सीसकायसपाषाणहीनभग्नपात्राणि वर्ज्यानि। हीनानिमानंतः। मानं शिवरहस्ये

षट्त्रिशदंगुलंपात्रमुत्तमंपरिकीर्तितम्। मध्यमंतुत्रिभागोनं कनिष्ठंद्वादशांगुलम्। तत्रैवदेवीपुराणे

वस्वगुलविहीनतुनपात्रंकारयेत्क्वचित्। क्वचिदितिसर्वधर्म कार्येनिषेधइतिटोडरानंदः। तत्रैव—

नानाविचित्ररूपाणिषुडरीकाकृतीनिच। शंखनीलोत्पलाभानि पात्राणिपरिकल्पयेत्। वाराहे

शृणुतत्वेनमेदेविप्रियपात्राणियानिमे। सौवर्णंराजतंताम्रांकांस्य चैवतुयद्भवेत्। सर्वेभ्योभ्यधिकंताम्रतदेवममरोचते। अग्निपुराणे

मृन्मयंचतथाकांस्यमारकूटादि सभवम्। त्रपुसीसलोहजातमर्घपात्रविवर्जयेत्। वैखानसग्रंथेअभिषेकपात्रमुक्तम्– अरत्निमात्रविस्तारं मध्येष्टदलसंयुतम्। प्रतिपद्मदलंमध्येसुषिराणांशतं भवेत्। अष्टोत्तरशतंवापिभूषितंमध्यतस्तथा। स्वचितंचमहारत्नैरेवंधारासहस्रकम्। धाराष्टकेनवायुक्तमभिषेकायकल्पयेत्। विंशत्यावाष्टभिर्वापिद्वाभ्यां वादशभिश्चवा। तत्रैव—

पानीयपात्रंसौवर्णंराजतंताम्रमेवच। वृत्तायतंसुवृत्तंवाभवेदायतमेववा। प्रस्थमानप्रमाणांभः पूरयोग्यांत

रंशुचि। नीराजनक्रियापात्र्योहेमादिद्रव्यनिर्मिताः। तत्रैवपुष्पसारसुधानिधौ –अर्घ्यपात्रंतुवायव्येनैर्ऋत्यां पाद्यपात्रकम्। आग्नेय्यांस्नानकलशमीशेत्वाचमनीयकम्। मध्येतुमधुपर्कःस्यादित्येतत्पात्रलक्षणम्। चंद्रिकायामाचारादर्शेचस्कांदे—नैवेद्यपात्रंवक्ष्यामिकेशवस्य महात्मनः। सौवर्णैराजतंताम्रंकांस्य मृन्मयमेववा। पालाशंपद्मपत्रंविष्णोरतिप्रियम्। पूर्वोक्तमृन्मयनिषेधस्तुकुलालचक्रनिष्पन्नपरः। – कुलाल चक्रनिष्पन्नमासुरंमृन्मयंस्मृतम्। तदेवहस्तघटितंस्थाल्यादिदैविकंमतमिति कल्पतरुदिवोदासीयादौ वचनात्शौनकः

पूजागृहं प्रविश्याथमंडलंपरिकल्प्यच। सौवर्णंचचतुर्द्वारंसप्राकारंसविस्तरम्। मंडपंरचयित्वातुनितानध्वजतोरणैः। कृष्णभट्टीये–दर्शनीयामहामुद्रापूजारंभावसानयोः। संहारमुद्रा कर्तव्यापरिपूर्णेर्चनादिके। अधोमुखाभ्यांहस्ताभ्यामापादतलमस्तकम्। पसारिताभ्यांसंस्पृश्यमहामुद्रेय मीरिता। आचारचिंतामणौ

गंधादिकानिवेद्यांतापूजापंचोपचारिकी। अर्धपाद्याचमनीयमधुपर्का- चमानिच। गंधादिपंचकंचेतिउपचारादशोदिताः। षोडशोपचारास्तत्रैव

आसनंस्वागतंचार्घः पाद्यमाचमनंतथा। मधुपर्काचमस्नानवसनाभरणानिच। गंधपुष्पेधूपदीपौ नैवेद्यंचंदनंतथा। प्रयोगदीपिकायांविष्णुपुराणे

पूर्वमावाहनंप्रोक्तमासनंचततःपरम्। ततश्चपाद्यमर्घ्यंचततस्त्वाचमनीय कम्। स्नानंवस्त्रंचोपवीतंततोगंधादिचंदनम्। पुष्पंधूपंचदीपंच नैवेद्यतदनंतरम्। ततोदेयःप्रणामश्चत तोदेयाप्रदक्षिणा। विसर्जनंततोदद्यादुपचारास्तुषोडश। क्वचित्प्रणामप्रदक्षिणास्थानेतांबूलदक्षिणेउक्ते। हेमाद्रौभविष्ये –आवाहनासनार्घ्यपाद्याचमनमधुपर्कसेवाश्च। भूषणगंधाः सुमनोयुतधूपदीपभोज्यानि। प्रादक्षिण्यंस्तुतिरितिकथयंत्युपचारषोडशकम्। आचारचिंतामणावष्टादशउक्ताः —आसनावाहने चार्घ्यंपाद्यमाचमनंतथा।स्नानंवस्त्रोपवीतंचभूषणानिचसर्वशः। गंधपुष्पेतथाधूपदीपावन्नेनतर्पणम्। माल्यानु लेपनंचैवनमस्कारविसर्जने। पाद्यार्घयोःपौर्वापर्येविकल्पइतिस्मार्त्ताः। तत्रैव—

आसनाभ्यंजनेतद्वदुद्वर्तन निरूपणे। संमार्जनंसर्पिरादिस्नापनावाहने ततः। पाद्यार्घाचमनीयंच

स्नानीयमधुपर्ककौ। पुनराचमनीयंचवस्त्रयज्ञोपवीतके। अलंकारागंधपुष्पेधूपदीपौतथैवच। नैवेद्यमथतां बूलंपुष्पमालातथैवच। अनुलेपनंचशय्याचचामरव्यजनेतथा। आदर्शारार्तिकंचैवनमस्कारोथनर्तनम्। गीतवाद्यादिदानानिस्तुतिहोमप्रदक्षिणम्। दंतकाष्ठप्रदानंचततोदेवविसर्जनम्। उपचाराइमेज्ञेयाः षट्त्रिंशत्सुरपूजने। शांतिहेमाद्रौत्वन्येउक्ताःआवाहनासनेपाद्यमर्घ्यमाचमनं तथा। गंधपुष्पेतथाधूं पदीपंचमधुपर्ककम्। उपहारंतथाचामंस्नानंचांगविभूषणम्। वस्त्रोपवीतमाचाममलंकारान्विलेपनम्। गंधपुष्पेतथाधूपंदीपभंजनमेवच। आदर्शमंगलंसर्वंदेयंसर्वात्मनातथा। होमंभोजनमाचाममलंकारांस्त थापुनः। गंधादिचपुनर्दद्यान्मुखवासंप्रदक्षिणाम्। स्तुतिंदंडनमस्कारमात्मनोपिनिवेदनम्। तत्रैव— स्तुतिः स्वकृतावैदिकीदेवादिकृतावेति।

भार्गवार्चनदीपिकायां षष्टिसंख्याउक्ताः–पूर्वंप्रबोधनंकुर्याज्जयशब्दांस्ततः पुनः। नमस्कारंततः कुर्यात्ततोनीराजनंपरम्। ततोदिव्यासनंदद्यात्ततोवैदंतधावनम्। पादप्रक्षालनंदद्यात्ततोर्ध्यंचप्रकल्पयेत्। आचामंमधुपर्कचपुनराचमनीयकम्। ततःसुगंधितैलेनमर्दनंकारयेद्धरेः। ततोभ्यंगसुगंधैस्तुकुर्यात्तै लाषसारणम्। ततः पुण्योदकैः कुर्यादभिषेकंसुगंधिभिः। क्षीरेणदध्नाचतथाघृतेनमधुनापिच। शर्करयामं त्रपूतैधपुष्पोदकैरपि। महाभिषेकंतथाचाममंगवस्त्रंततोर्पयेत्। वाससीपरिधानार्थमुपवीतंतथाचमम्।गंधमाभरणंपुष्पंधूपनीराजनंतथा। दृष्ट्युत्तारणनैवेद्यौमुखवासंसुगंधिभिः। तांबूलंश्यनंकेशसाधनं वस्त्रदानकम्। किरीटचंदनेदद्यात्ततआभरणानिच। पुष्पनीराजनादर्शामंडपागमनंततः। तत्रासनंपाद्यमर्घ्यमाचामंधूपदीपकौ। नैवेद्यंचसतांबूलंचंद्रनीराजनंपरम्। चामरव्यजनंछत्रंपुरोगीतं मनोहरम्। मृदंगादिस्वनंनृत्यंनमस्कारंप्रदक्षिणाम्। स्तुतिंकुर्यात्ततोविष्णश्चरणौमस्तकेन्यसेत्। निर्माल्यधारणंकुर्यान्नैवेद्यांशस्यभोजनम्। सेवामुद्दिश्योपविंशेन्मंचकेतूलिकांनयेत्। सुखासनेनशयनेनी त्वातंतत्रशाययेत्। अर्चेत्कुसुमतांबूलैः पादौसंवाहयेत्ततः। अत्रविष्णुपदंशिवादेरुपलक्षणम्। विधिवच्चा

र्चयेत्सर्वान्योविप्रोभक्तितत्परइतिपारिजातेवृद्धपराशरोक्तेः। सएव–स्नानेवस्त्रेचनैवेद्येदद्यादाचम नंहरेः। अत्रपितृचरणाः—

सुवर्णप्रतिमादौतंडुलपुंजादिषुचषोडशाद्युपचारपूजैव.। आवाहनाभावेपूजाया असंभवात्। पंचोपचारादशोपचारास्तुपूर्वस्थापितदेवेष्वित्यूचुः।

प्रतिमांविचारः। भविष्ये

सौवर्णीराजतीताम्रीमृन्मयीचतथाभवेत्। पाषाणधातुयुक्तावारीतिकांस्य मयीतथा। शुद्धदारुमयीवापिदेवतार्चाप्रशस्यते। अंगुष्ठपर्वादारभ्यवितस्तिंयावदेवतु। प्रतिमाचतथा कार्यानाधिकाशस्यतेबुधैः। पंचरात्रे

मृद्दारुलाक्षागोमेदमधूच्छिष्टमयीनतु। स्मृतिसारेपुराणे

शैलीदारुमयीलौहीलेप्यालेख्याचसैकती। मनोमयीमणिमयीप्रतिमाष्टविधास्मृता। चलाचलेतिद्विविधा प्रतिष्ठाजीवमंदिरम्। प्रयोगपारिजातेविष्णुधर्मे

तयोरसंभवेचैवसाचेहनवधास्मृता। रत्नजाहेमजाचै वराजतीताम्रजातथा। रैतिक्यर्चातथालौहीशैलजाद्रुमजातथा। अधमाधमाविज्ञेयामृन्मयीप्रतिमाचया। रैतिकी पित्तलजा।स्मृतिसारे

नार्च्यागृहेश्मजामूर्तिश्चतुरंगुलतोधिका। नवितस्त्यधिकाधातुसंभवाश्रे यइच्छता। देवीपुराणे

सप्तांगुलंसमारभ्ययावच्चद्वादशांगुलम्। गृहेष्वर्चासमाख्याताप्रासादेचाधि काशुभा। कपिलपंचरात्रे–मानांगुलप्रमाणेनदशपंचदशांगुला। गृहेतुप्रतिमापूज्यानाधिकातुप्रशस्यते। हयशीर्षपंचरात्रे

दशागुलप्रमाणावातिथ्यंगुलमितापिवा। दानमदनरत्नेप्येवम्। तत्रैवमात्स्ये— व्रीहि भिर्वात्रिभिश्चोर्ध्वैरधमांगुलमीरितम्। मध्यमंतुत्रिभिःसार्धैश्चतुर्भिश्चतथोत्तमम्। मानांगुलमितिख्यातंमात्रां गुलमथोच्यते। गोविंदराजीये देवीपुराणे

तथाचोर्ध्वंस्थिताकार्यासदादेवीचतुर्भुजा। अन्यथातुनकर्तव्या कृताभयकरीसदा। अष्टभुजासदाकार्याप्रासादेवागृहेतथा। ऊर्ध्वस्थितागृहेघोरारौद्राचाभिभवेद्युधि। गृहेनसजटापूज्याशैलजापितथैवच। अष्टभुजाऊर्ध्वाघोरेतिगोविंदराजःवाराहे

गृहेग्निदग्धाभग्ना श्चनार्चाःपूज्यावसुंधरे। एतासां पूजनान्नित्यमुद्वेगंप्राप्नुयाद्गृही। स्कांदे

शालग्रामशिलायास्तुप्रतिष्ठानै वविद्यते। महापूजांतुकृत्वादौपूजयेत्तांततोबुधः। बृहद्वामने-

प्रतिष्ठादिविधानेनविनैववसतेहरिः। सदातत्रशिलामात्रेवक्रचिह्नंवरानने। चक्रचिह्नइत्युक्तेरचक्रे हिरण्यगर्भा दौशालग्रामशिलाकृतमूर्त्यादौचप्रतिष्ठाभवतीतिपंचायतनसारः। अत्रकेचित्प्रतिष्ठावाहनयोर्मिलितयोर्देवता संनिधिजनकत्वात्स्थापितदेवेष्वप्यावाहनमित्याहुः। तन्नआवाहनात्पूर्वंपादस्पर्शादावपि दोषाभावप्रसक्तेः। मालादिदानेपुण्याभावापत्तेश्च। अतो नावाहनम्। पंचायतनसारेतुदेवतायाव्यासंगांतराभावध्यानार्थंप्रतिष्ठि तदेवतायामप्यावाहनमित्युक्तम्। अन्येतुप्रतिष्ठयादेवसन्निधियोग्यताक्रियते आवाहनेनतत्सन्निधिरित्याहुः। दैशिकसान्निध्येपिबौद्धसान्निध्यार्थमावाहनमितिभट्टदिनकरःस्मृतिसारे पुराणेच

उद्वासावाहनेनस्तः स्थिरायामुद्धवार्चने। अस्थिरायांविकल्पात्स्यात्स्थडिलेतुभवेद्द्वयम्। स्नपनंचाविलेख्यायामन्यत्रपरिमार्जनम्। पंचायतनसारेनंदिपुराणे

स्थिरलिङ्गेऽनलेतोयेहृदयेसूर्यमंडले। आवाहनादिचत्वारिकुर्यान्नोद्वासनंतथा। तत्रैवपाद्मे

शालग्रामशिलायांचनावाहनविसर्जने। देवीपुराणे – पाद्येश्यामाकदूर्वाचविष्णुक्रांतादिरिप्यते। गधपुष्पाक्षतयवकुशाग्रतिलसर्षपाः। तत्रैव—

बिल्वरक्ताक्षतैःपुष्पैर्दधिदूर्वाकुशैस्तिलैः। सामान्यः सर्वदेवानामर्घोयं परिकीर्तितः71। अभावेदधिदूर्वादेर्मानसवाप्रकल्पयेत्। रक्तंकुंकुमम्। पुष्पसारसुधानिधौ –इक्षुर्मधुघृतचैवपयोदधिसहैवतु \। प्रस्थप्रमाणंवाग्राह्यं मधुपर्कमिहोच्यते। पंचायतनपूजासारे

जातीलवंग कंकोलान्याचमनीयद्रव्याणि ॥

अथस्नानं। बृहन्नारदीये

वादित्रनिनदैरुच्चैर्गीतमंगलनिःस्वनैः। यः स्नापयतिदेवेशंजीवन्मुक्तो भवेद्धिसः। वादित्राणामभावेतुपूजाकालेचसर्वदा। घटाशब्दोनरैः कार्य. सर्ववाद्यमयीयतः। योगिनीतन्त्रे—

शिवागारेझल्ल72कंचसूर्यागारेचशंखकम्। दुर्गागारेवंशवाद्यंमधूरींचन73वादयेत्। स्कांदे

वेणुवीणास्वनैश्चैव कुर्यात्तुस्नपनंहरेः। शिवशंखेननस्नापयेत्। नशिवंशंखवारिणेतिपंचायतनसारेवचनात्। सर्वत्रैव

प्रशस्तोऽब्जःशिवसूर्यार्चनंविनेतिप्रयोगपारिजातेब्राह्माच्च। शिवार्चनेशंखउक्तः सौरपुराणेपाद्मे— कुशपुण्योदकस्नानाद्ब्रह्मलोकमवाप्नुयात्। रत्नोदकेनसावित्रंकौबेरंहेमवारिणा। नारसिंहंतुसंस्नाप्य कर्पूरागरुवारिणा। इंद्रलोकेसमोदित्वापश्चाद्विष्णुपुरंत्रजेत्। कपिलाक्षीरमादायशंखेकृत्वाजनार्दनम्। यज्ञायुतसहस्रस्यस्नापयित्वालभेत्फलम्। ताम्रमूर्तौगव्याभिषेकोननिषिद्धः। स्नानतर्पणदानेष्वित्यादिपूर्वो क्तवचनात्। नारसिंहे—यःपुनःपुष्पतैलेनसंस्नापयतिकेशवम्। दिव्यौषधियुतेनापितस्यप्रीतोभवेत्सदा। रुद्रयामले –द्वादश्यांचदिवास्वापस्तुलस्यवचयस्तथा। तत्रविष्णोर्दिवास्नानंवर्जनीयंसदाबुधैः। पाद्मे शंखेतीर्थोदकंकृत्वायःस्नापयतिकेशवम्। द्वादश्यांबिंदुमात्रेणकुलानांतारयेच्छतम्। द्वादश्यांस्नाने विकल्पइतिकेचित्। दिवापदोपादानाद्दिवसेनिषिद्धंनतुरात्रावित्यन्ये। विष्णुमूर्तेःस्नाननिषेधो नशालग्रामादेरित्यपरे। **प्रयोगपारिजातेव्यासः—**प्रतिमापट्टयंत्राणां नित्यंस्रानंनकारयेत्। कारयेत्पर्व दिवसेयदावामलधारणम्। पाद्मेवैशाखमाहात्म्ये—चंदनोशीरकर्पूरकुंकुमागरुवासितैः। सलिलैः स्नापयेन्मंत्रीनित्यदाविभवेसति। स्कांदे—क्षीराद्दशगुणंदध्नाघृतेनैवशतोत्तरम्। घृताद्दशगुणं क्षौद्रक्षौद्राच्चैक्षवजंतथा। स्नानादिषुद्रव्यमानमुक्तं शिवधर्मोत्तरे— स्नानंपलशतंज्ञेयमभ्यंगंपंचविंशतिः। पलानांद्वेसहस्रेतुमहास्नानंप्रकीर्तितम्। **हरनाथीये—**अष्टोत्तरपलशतंस्नानेदेयंसर्वथा। व्रतहेमाद्रौ कालिकापुराणे—पंचविंशत्पलंलिंगेअभ्यंगंकारयेदथ। शिवस्यसर्पिषास्नानंप्रोक्तंपलशतेनच। तावतामधुनाचैवदध्नाचैवपुनःपुनः। तावतैवचक्षीरेणगव्येनैवभवत्ततः। भूयःसार्धसहस्रेणपलानामै क्षवंतथा। पलंचकुडवःप्रस्थआढकोद्रोणएवच। धान्यमानेषुबोद्धव्याःक्रमशोऽमीचतुर्गुणाः। मदनरत्ने आथर्वणपरिशिष्टे–पंचकृष्णलकोमाषस्तैश्चतुःषष्टिभिःपलम्। चंद्रिकायांपुलस्त्यः—स्नाप्यमानंचपश्यं तियेघृतेनोत्तरायणे। तेयांतिविष्णुसालोक्यं सर्वपापविवर्जिताः। घृतमानं प्रस्थोवा आढकंवेतितत्रैव। तत्रैववामने— देवमाल्यापनयनंदेवागारसमूहनम्। स्नपनंसर्वदेवानांगोप्रदानसमंस्मृतम्॥॥ वस्त्रादि॥ अग्नि-

पुराणे—दुकूलपट्टकौशेयरांककार्पासकादिभिः। वासोभिः पूजयेद्देवंसुशुभैरात्मनःप्रियैः। विष्णुधर्मोत्तरे —रांकवामृगरोम्याश्चकदस्य74श्चतथाशुभाः। निषिद्धानिवाराहे—नीलिरंजितवस्त्रंयोमर्त्योमह्यंनिवेदयेत्। नवमक्षालितचैवसचिरंरौरवेवसेत्। नीलीदोषः कार्पासएवोक्तः। तथा—यज्ञोपवीतदानेनसुरेभ्योब्राह्मणायवा। भवेद्विप्रश्चतुर्वेदीशुद्धधीर्नात्र संशयः। नंदिपुराणे—अलंकारयोदद्याद्विप्रायचसुरायच। सोमलोकेरमित्वास विष्णुलोकेमहीयते। वस्त्रालंकारादिनप्रत्यहमपूर्वम्। वस्त्रमभ्युक्षणाच्छुध्येदपरंतुदिनेदिनेइतिहरनाथी येतत्वसागरसंहितोक्तेः। अपरंतदेव। ननिर्माल्यंभवेद्वस्रंस्वर्णरत्नविभूषणमितितत्रैव विद्याकरीय निबंधाच्च। उपवीतमपिप्रत्यहंना पूर्ववस्त्रसमत्वादितिहरनाथः॥॥ गंधपुष्पधूपदीपादेवताभेदेनवक्ष्यते। चंद्रिकायांपाद्मे— गंधेभ्यश्चंदनंपुण्यंचंदनादगरुर्वरः। कृष्णागरुस्ततः श्रेष्ठःकुंकुमतुततोवरम्। मदनर त्नेगारुडे—कस्तूरिकायाभागौद्वौचत्वारश्चदनस्यतु। कुंकुमस्यत्रयश्चैवशशिनः स्यात्ततःसमम्। कर्पूरंचं- दनंदर्पः75कुकुमंचसमांशके। सर्वगंधमितिप्रोक्तंसमस्तसुरवल्लभम्। काशीखंडे— कस्तूरिकायाद्वौभागौद्वौ भागौकुंकुमस्यतु। चंदनस्यत्रयोभागाः शशिनस्त्वेकएवहि। यक्षकर्दमइत्येपसर्वदेवमनोहरः। मदनरत्ने — कर्पूरमगरुश्चैवकस्तूरीचंदनंतथा। कंकोलंचभवेदेभिः पंचभिर्यक्षकर्दमः। विष्णुधर्मोत्तरे—दारिद्र्यंपद्मकं कुर्यादस्वास्थ्यंरक्तचंदनम्। उशीरंविप्रविभ्रंशमन्येकुर्युरुपद्रवम्। केवलनिषेधोयंमिलितानांविधाना दितिपंचायतनसारःगारुडेस्कांदेच–योददातिहरेर्नित्यंतुलसीकाष्ठचंदनं। पितॄणां चविशेषेणसदा भीष्टंहरेर्यथा। तुलसीदललग्नेनचंदनेनजनार्दनम्। विलेपयतियोनित्यंलभतेचिंतितं फलम्॥

अथपुष्पाणि। पुष्पदानंकराभ्यामितिकेचित्।तन्न। तत्रदक्षिणकरनियमात्। पुष्पांजलिविधात्रं जलिविधेश्च। यत्तु –यजङ्क

राम्यांयज्ञेशमिति। यच्च—तावेवकेवलौश्लाघ्यौयौतत्पूजाकरौकराविति। तत्कथंचिल्लब्धकरद्वय व्यापारानुवादइतिटोडरानंदः। पुष्पां—जल्यादिपरमितिवयम्। पाद्मे—श्यामापितुलसीविष्णोः प्रियागौरीविशेषतः। विष्णुरहस्ये—तुलसींप्राप्ययोनित्यंनकरोतिममार्चनम्। तस्याहंप्रतिगृह्णामिन पूजांशतवार्षिकीम्। विष्णुधर्मे—रक्तान्यकालजातानिचैत्यवृक्षोद्भवानिच। श्मशानजातपुष्पाणिनैवदेया निकर्हिचित्। विष्णुः—नोग्रगंधिपुष्पंनागंधिनकंटकिजम्। कंटकिजमपिशुक्लंसुगंधिदद्यात्। नरक्तंदद्यात्। रक्तमपिकुंकुमंजलजं चदद्यादिति। विष्णु रहस्ये—नशुष्कैः पूजयेद्देवं कुसुमैर्नमहीगतैः। नविशीर्णदलैःस्पृष्टैर्नाशुभैर्नाविकासिभिः। अतिगंधीन्यगंधीनिअम्लगंधीनिवर्जयेत्। अविकासिभिरितियेपां विकासोनजातः। येषांतुविकासोत्तरंमुकुलत्वंकमलादीनांतेषांसूर्यएवनिषेधइतिवक्ष्यते। भविष्ये—केशकीटापविद्धानिशीर्णपर्युषितानिच। . स्वयंपतितपुष्पाणित्यजेदुपहतानिच। मुकुलैर्नार्चयेद्देवमपक्वंन निवेदयेत्। गंधर्वत्यपवित्राणिकुसुमानिविवर्जयेत्। गंधहीनमपिग्राह्यं पवित्र्यत्कुशादिकम्। तिथ्यालोके मत्स्यसूक्ते—बंधुजीवंचद्रोणंचसरस्वत्यैनदापयेत्। विष्णुधर्मोत्तरे— नगृहेकरवीरोत्यैःकुसुमैरर्चये द्धरिम्। गृहेजातोयः करवीरस्तदुत्थैरित्यर्थइतिपंचायतनसारः। यथाश्रुतमेवतुयुक्तम्। निषिद्धपुष्पा णिगारुडे–नार्कंनोन्मत्तकंकिंचित्तथैवगिरिकर्णिकाम्। नकंटकारिकापुष्पमच्युताय निवेदयेत्। कुटजं शाल्मलीपुष्पंशिरीपंचजनार्दने। निवेदितंभयशोकंनिःस्वतांचप्रयच्छति। करानीतंपटानीतंतत्पुष्पंसकलं त्यजेत्। करोवामः। पटोऽधोवस्त्रम्। देवोपरिधृतंयच्चवामहस्तेच यद्धृतम्। अधोवस्त्रधृतंयच्चतत्पुष्पं परिवर्जयेदितिपंचायतनसारात्विष्णुः—याचितंनिष्फलंपुष्पं क्रयक्रीतंचनिष्फलम्। अस्पृश्य त्वाद्रजस्वलायादेवकार्यनिषेधेसिद्धे। नदेवकार्यंकुर्यादितिहारीतोक्ति र्देवार्थपुष्पनैवेद्यादीत्येतदर्थेति कल्पतरुःविष्णुधर्मोत्तरे—अधोवस्त्रधृतंयच्चजलांतःक्षालितंचयत्। देवतास्तन्नगृह्णंतिपुष्पंनिर्माल्यतां गतम्॥ पर्युषितदिनविचारः। हलायुधेभविष्ये—केशकी

टापविद्धानित्यजेत्पर्युषितानिच। तुलस्यगस्तिबिल्वानांनास्तिपर्युषितात्मता। मदनपारिजाते

जलंपर्युषि तंत्याज्यंपत्राणिकुसुमानिच। तुलस्यगम्तियित्वानिगांगंवारिनदुष्यति। विष्णुधर्मोत्तरे

तुलस्यांबिल्वपत्रेच जलजेषुचसर्वशः। नपर्युषितदोषोस्तिमालाकारगृहेषुच। स्कांदे

पलाशंदिनमेकंचपंकजंचदिनत्रयम्। पंचा हंबिल्वपत्रंचदशाहंतुलसीदलम्। पर्युषितंनेत्यर्थः। हलायुधे

जलजानांसर्वेषांबिल्वपत्रस्यचैवहि। तेषांपर्युषिताशंकाकार्यापंचदिनोर्ध्वतः। तीर्थसौख्येप्राप्ते

तुलसीनोपर्युषिताबिल्वंचत्रिदिनावधि। पद्मंपंच दिनात्याज्यंशेषंपर्युषितंविदुः। तत्रैवस्कांदेदमनमुपक्रम्य

तस्यमालाभगवतःपरमप्रीतिकारिणी। शुष्का पर्युषितावापिनदुष्टाभवतिक्वचित्। पूर्वोक्तदिनसंख्यातिक्रमेपिमालाकारगृहस्थमदुष्टमितिशैवागमःस्मृति सारावल्यां

जलजानांचसर्वेषांपत्राणामहतस्यच। कुशपुष्पम्परजतसुवर्णकृतयोरपि। नपर्युषितदोषोस्ति तीर्थतोयस्यचैवहि। वोपदेवः

विल्वापामार्गजातीतुलसिशमिशता केतकीभृंगदूर्वानंदां भोजाहिदर्भा मुनितिलतगरब्रह्मकह्लारमल्ली ।चंपाश्वारातिकुंभादमनमरुवकाबिल्वतोहानि शस्तास्त्रिंशत्येकार्यरीशोदधि निधिवसुभूभूयमाभूयएव। अस्यार्थः

शताशतावरी। मंदोमंदारः। अहिनीगचंपकः। मुनिरगस्त्यः। ब्रह्मपलाशम्। कह्लारंकुमुदम्। तेननपौनरुक्त्यम्। अश्चारातिः करवीरः। अरीषट्। ईशः एकादश। उदधिश्चत्वारः। निधिर्नव। वसुरष्टौ। भूरेकः। यमौद्वौ।बिल्वमारभ्याहिपर्यंतं गणयित्वादर्भमारभ्य त्रिंशदादिसंख्ययापुनर्गणयेदित्यर्थः। तत्वसागरसंहितायां–यद्वापर्युषितैश्चापिपुष्पाद्यैरविकारिभिः। गंधोदके नचैतानित्रिः प्रोक्ष्यैवप्रपूजयेत्। पारिजातेआदित्यपुराणे — शिवेकुंदंमदंतीचयूथींबंधूककेतकम्। जपंरक्तंत्रिसंध्यैद्वेसिंदूरकुटजानितु। मालतींद्युमृणंचैवहयारिंवर्वरीत्यजेत्। नशस्त्रंशाल्मलंपुष्पंकूष्मांडं चनशोभनम्। कलिकामुकुलैर्नेज्याविनाचंपकपंकजैः। पुष्पमालायाम्

मंदारमर्कधत्तूरशाल्मलीकांचना लजम्। निषिद्धविष्णुपूजायांपुष्पवैभीतकंतथा। निषिद्धंविद्धितंविष्णौशिरीषंशकपुंड्रकम्। नरसिंहस्यपूजायां

निषिद्धंकेतकीद्वयम्। चंद्रिकायामप्येवम्मदनपारिजातेविष्णुधर्मे—क्रकचाख्ययपुष्पाणि तथाधत्तूरकस्यच। कृष्णंचकुटजंदेवपूजाचार्कंनैवदेयंजनार्दने। शाल्मलंचशिरीषंचबृहतींगिरिमल्लि काम्। सर्जकंचैवकूष्मांडंकंचनारंचवर्जयेत्। शातातपः – देवीनामर्कमंदारौसूर्यस्यतगरंतथा। निषिद्ध मित्यर्थः। कार्तिकमाहात्म्ये—गणेशंतुलसीपत्रैर्दुर्गांनैवतुदूर्वया। मुनिपुष्पैस्तुसूर्यंचलक्ष्मीकामोनचार्च येत्। पाद्मे–नबित्वेनार्चयेद्भानुंनकेतक्यामहेश्वरम्। नाक्षतैः पूजयेद्विष्णुनतुलस्यागणाधिपम् ॥

तुलसीग्रहणादौविशेषः। हारीतः—स्नानंकृत्वातुयेकेचित्पुष्पंचिन्वंतिमानवाः। देवतास्तन्नगृह्णंति भस्मीभवतिकाष्ठवत्। तन्मध्याह्नस्नानपरम्। अस्त्रात्वातुलसींछित्त्वादेवतापितृकर्मणि। तत्सर्वंनिष्फलंयातिपंचगव्येनशुध्यति इति पाद्मोक्तेरिति चंद्रिका।अत्रतुलसीपदंपुष्पमात्रपरम् शिष्टाचारानुरोधादितिरुद्रधरःदेवयाज्ञिकनिबंधेस्मृतिसारे—श्रवणेचव्यतीपातेभौमभार्गवभानुषु। पर्वद्वयेचसंक्रांतौद्वादश्यांसूतकद्वये। तुलसींयेविचिन्वंतितेछिंदंतिहरेः शिरः। क्वचिच्छ्रवणस्थाने वैधृतिपदम्। पाद्मे—भृग्वर्कांगारवारेषुद्वादश्यांपंचपर्वसु। येविचिन्वंतितुलसींतेछिंदंतिहरेःशिरः। विष्णुधर्मोत्तरे—रविवारंविनादूर्वांतुलसींद्वादशींविना। जीवितस्याविनाशाय नविचिन्वीतधर्मवित्। तथा — संक्रांतावर्कपक्षांतेद्वादश्यांनिशिसंध्ययोः। यैश्छिन्नंतुलसीपत्रंतैरिछन्नंहरिमस्तकम्। विष्णुधर्मे— नछिंद्यात्तुलसींविप्रोद्वादश्यांवैष्णवःक्वचित्। हरिभक्तिविलासे—संक्रांत्यादौनिषिद्धो पितुलस्यवचयः स्मृतौ। परंश्रीविष्णुभक्तैस्तुद्वादश्यामेवनेष्यते। अयंनिषेधोनकृष्णतुलस्याम्।—तुलसीकृष्णतुलसीतथा रक्तंचचंदनम्। केतकीपुष्पपत्रंचसद्यस्तुष्टिकरंहरेरितिभविष्येकृष्णतुलस्याःपुनरुपादानेनतुलसीत्वा भावात्। जीरकंकृष्णजीरकमितिवत्। पाद्मे–द्वादश्यांतुलसीपत्रेधात्रीपत्रंचकार्तिके। लुनातिसनरोगच्छे न्निरयानतिगर्हितान्। रुद्रयामले—देवार्थेतुलसीछेदोहोमार्थेसमिधस्तथा। इंदुक्षयेनदुष्येतगवार्थे पितॄणस्यच। पाद्मे—–तुलस्यमृतजन्मासिसदात्वंके

शवप्रिये। केशवार्थविचिन्वामिवरदाभवशोभने। इतितुलसीग्रहणमंत्रः। अवंतीखंडेस्कांदे — येऽर्चयं तिहरेर्मूर्तिकोमलैस्तुलसीदलैः। कोटिकोटिसुवर्णानांदानस्यफलमाप्नुयुः। तत्रैव

सुमंजर्यासदलया तुलसीभवयाहरेः। पूजांकुर्वीतयोनित्यंसपूजाफलमश्नुते। शंखः

वानस्पत्येमूलफलेदार्वग्न्यर्थेचगोस्तृणम्। देवतार्थंचकुसुममस्तेयंमनुरब्रवीत्। इदंद्विजपरम्। द्विजस्तृणैधःपुष्पाणिसर्वतः स्वयमाहरेदितियाज्ञ बल्क्योक्तेः। एतन्नित्यपूजापरम्। —पारक्यारामसंजातैः कुसुमैरर्चयेत्सुरान्। तेनपापेनलिप्येऽहंयदे तदनृतं भवेदितिनारदीयादितिपंचायतनसारः। आह्निकमदीपेस्कांदे—पत्रंवायदिवापुष्पफलं नेष्टमधोमुखम्। दुःखदंतत्समाख्यातंयथोत्पन्नंप्रदापयेत्। अधोमुखार्पणंनेष्टंपुष्पांजलिविधिंविना॥॥ लक्षपूजायांविशेषः। लक्षपूजासुसर्वासुपुष्पमेकैकमर्पयेत्। समुदायेनचेत्पूजालक्षपुष्पार्पणंहितत्। लक्षपुष्पादौपुष्पाद्यर्पणं यथेच्छमितिपंचायतनसारेजटमल्ले

येषांशंसंतिपुष्पाणिप्रशस्तान्यर्चनेहरेः। पल्लवाअपितेषांस्युः फलंवार्चाविधौहरेः। पाद्मे

बिल्वपत्रंशमीपत्रंतुलस्यामलकंतथा। कुशपत्रंभृंग राजंसदाग्राह्यंहरेर्बुधैः। बिल्वपत्रेविशेषः शिवधर्मोत्तरे

अच्छिन्नैर्बिल्वपत्रैश्चअच्छिन्नाग्रैस्त्रिपत्रकैः। वामपत्रेवसेद्ब्रह्मापद्मना भश्चदक्षिणे। पत्राग्रेलोकपालाश्चमध्येपत्रेसदाशिवः।पृष्ठभागेस्थितायक्षाःपूर्वभागेऽ मृतंस्थितम्। तस्माद्वैपूर्व भागेनअर्चयेद्गिरिजापतिम्। जटमल्ले

येषांशंसंतिपुष्पाणिप्रशस्तान्यर्चनेहरेः। पल्लवाअपितेषांस्युः फलंवार्चाविधौहरेः। भविष्ये

फलानामप्यलाभेतुतृणगुल्मौषधीरपि। औषधीनाम भावेतुभक्त्याभवति पूजितः। मनसापूजयेदित्यर्थः॥

** अथधूपः। तिथितत्वेकालिकापुराणे**—

मधुमुस्ताघृतंगंधोगुग्गुल्वगरुशैलजम्। सरलंसिद्धसिद्धार्था दशांगोधूपइष्यते। मदनरत्ने

षड्भागकुष्ठंद्विगुणोगुडश्चलाक्षात्रयंपंचनखस्यभागाः। हरीतकीसर्जरस श्चमांसीभागैकमेकंत्वथशैलजस्य। घनस्यचत्वारिपुरस्यचैकंधूपो दशांगःकथितोमुनीद्रैः। द्विगुणोद्व्यंशः। शैलजंमध्यदेशेतूलइतिप्रसिद्धम्। घनोमुस्ता। पुरोगुग्गुलुः। व्रतहेमाद्रौ भविष्ये

अगरुंचं

दनंमुस्तासिह्लकंबृषणंतथा। समभागंतुकर्तव्यंधूपोयममृताह्वयः। तथा—

श्रीखंडंग्रंथिसहितमगरुंसिह्ल कंतथा। मुस्तातर्थेदुर्भूतेशशर्कराचददेत्त्रयम्। इत्येपोऽनंतधूपश्चकथितोदेवसत्तम। तथा— कृष्णागरुं सिह्लकंचवालकंबृषणंतथा। चंदनंतगरंमुस्ताप्रबोधःशर्करान्वितः। तथा—कर्पूरंचंदनंकुष्टमुशीरंसिह्लकं तथा। ग्रंथिकबृषणंभीमकुंकुमंगृंजनंतथा। हरीतकीतथोशीरंयक्षधूपउदाहृतः। तथा —बृषणंसिह्लकंबिल्वं श्रीखंडमगरुंतथा। कर्पूरंचतथामुस्ताशर्करासत्वचंद्विज। इत्येपविजयोधूपःस्वयंदेवेननिर्मितः। बृषणं कस्तूरिकेतिसमयमदीपः। कर्पूरंचंदनंमांसीत्वक्पत्रैलालवंगके। अगरुंसिह्लकंधूपंप्राजापत्यंप्रचक्षते। श्रीखंडंतगरंकुष्टंकर्पूरंसिह्लकंतथा। महानयंस्मृतोधूपःप्रियोदेवस्यसर्वदा। चंद्रिकायांहारीतः— रुहिका76ख्यं कणंदारुसिह्लकंसागरुंसितम्। शंखंजातीफलश्रीशेधूपानिस्युःप्रियाणिवै। रुहिकामांसी। कणोगुग्गुल विशेषः। दारुदेवदारुः। शंखंनखी। नारसिंहे— विनामृगमदंधूपेजीवजातंविवर्जयेत्। एतन्नृसिंहान्यपरम्।महिषाख्यंगुग्गुलंयआज्ययुक्तंसशर्करम्। धूपंददातिराजेंद्रनरसिंहायभक्तिमानिति तत्रैवोक्तेः। देव्यादौतस्यवक्ष्यमाणत्वाच्च। तत्रैव—कृष्णागरुसमुत्थेनधूपेनश्रीधरालयम्। धूपयेद्वैष्णवो यस्तुसमुक्तोनरकार्णवात्। **गौतमः—**तीर्थकोटिशतैर्धौतोयथाभवतिनिर्मलः। करोतिनिर्मलंदेहंधूपशेष स्तथाहरेः। **पाद्मे—**धूपंचारात्रिकं विष्णोः कराभ्यांयः प्रविंदते। कुलकोटिसमुद्धृत्ययातिविष्णोः परंपदम् ॥

**अथदीपः। नारसिंहे—**घृतेनवाथतैलेनदीपप्रज्वालयेन्नरः। अथमहादीपः व्रतहेमाद्रौविष्णुधर्मे— महावर्तिःसदादेयाकृष्णपक्षेविशेषतः। देवस्यदक्षिणेपार्श्वेदेयातैरुतुलानृप। पलाष्टकयुतांराजन्वतिंतत्र प्रकल्पयेत्। महारजनरक्तेनसमग्रेणतुवाससा। वामपार्श्वतुदेवस्यदेयाघृततुलानृप। पलाष्टकयुतांपुण्यां शुक्लांवर्तिंचदीपयेत्। वाससातुसमग्रेणसोपवासोजितेंद्रियः। एवंवर्तिद्वयमिदंसकृद्दत्वामहीयते। १ देवपूजा.

एकामप्यथवादद्यादभीष्टामनयोर्द्वयोः। दीपदानंमहासत्रंकृत्वाफलमुपाश्नुते। **दीपनिर्वाणनिषेधोभविष्ये—**तांश्चदत्वानहिंसेतनच तैलविवर्जितान्। कुर्वीतदीपहिंसांयोमूपकोंऽधःप्रजायते। भविष्योत्तरे– प्रज्वाल्यदेवदेवस्यकर्पूरेणतुदीपकम्। अश्वमेधमवाप्नोतिकुलंचैवसमुद्धरेत्। संवर्तः— देवागारेद्विजानां चदीपंदत्वाचतुष्पथे। मेधावीज्ञानसंपन्नश्चक्षुष्मान्जायतेनरः॥

अथनैवेद्यं। कृष्णभट्टीये—नैवेद्यजलपुष्पादौधेनुमुद्रांप्रदर्शयेत्। गोविंदराजीयेब्रह्मांडे— पत्रंपुष्पंफलंतोयमन्नपानाद्यमौषधम्। अनिवेद्यनभुंजीतयदाहारायकल्पितम्। तत्रैवपाद्मे—अनिवेद्यहरेर्भु जन्सप्तजन्मनिनारकी। निवेदितस्यभक्षणंप्रतिपत्तिरिति गोविंदराजः। तन्न। यद्भक्षयेत्तन्निवेदितमिति वाक्यार्थात्। अनिवेदितभक्षणनिषेधात्सर्वान्ननिवेदननिषेधः। द्व्यवदानद्वारापुरोडाशस्येबोद्धृतान्ननिवेदन द्वारासर्वान्ननिवेदनमितिवाच्यम्। उद्धरणाविधानात्। तद्विधानेपिसर्वपुरोडाशत्यागवत्सर्वान्ननिवेदनसिद्धे श्च। निवेदितशेषत्वेनसर्वस्यनिवेदितत्वांगीकारेलक्षणापानाच्च। पाकैक्येनिवेदितेनैववैश्वदेवः स्विष्टकृद्वत्। यत्तुशातातपः—एकस्मिन्वाप्यशक्तश्चेत्पूर्वंविष्णुनिवेदनम्। वैश्वदेवंततःशिष्टाद्व्यासस्य वचनंयथेतिशिष्ट पदंतत्सर्वपुरोडाशत्यागेशेषात्स्विष्टकृतवद्विष्णोर्निवेदितान्नेनयष्टव्यदेवतांतरमितिश्रीधरोक्तेःसर्वनिवेदने प्युपपन्नमितिगोविंदराजःभट्टिनकरस्तुवैश्वदेवार्थनैवद्यार्थपाकभेदेनिवेदितमेवसंस्कृतमेव भक्षयेदिति नियमद्वयंनयुक्तम्। एकभक्षणेन्यतरनियमबाधात्। उभयभक्षणेनियमद्वयबाधात्। अतोनिवेदितमेव भक्षयेदितिवचोहोमासाधनवटकतांबूलादिपरं। हुतमेवभक्षयेदितिहविष्यपरं। यद्वानिवेदितमेव भक्षये दितिवैश्वदेवानधिकारिपरम्। अथवापाकैक्येप्यहविष्यस्येवपाकभेदेपिनिवेदित स्याहुतस्यापिहुतत्वम स्त्येव। नहिपाकभेदेवैश्वदेवभेदः। महानससंस्कारत्वाद्वैश्वदेवस्य। एवंनिवेदितत्वमपिनचसर्वनिवेदनं। निवेदितस्यदाहादिविधानेनसर्वान्नदाहाद्यापत्तेः। पाकैक्येप्येवम्। तस्मादुद्धृत्यैवनिवेदनमित्याह। **विष्णुः—**मेषीमहिषीछागीनांदुग्धदधिघृतान्यदेयानि।

गारुडे—

तुलसीदलंसंमिश्रंहरेर्यच्छतियःसदा। नैवेद्यमित्यादिस्मृतिरत्नावल्याम्। नैवेद्यस्यत्वभावेतुफलान्य पिनिवेदयेत्। फलानामप्यलाभेतुतृणगुल्मौषधीरपि। औषधीनामलाभेतुतोयान्यपिनिवेदयेत्। तदलाभेतु सर्वत्रमानसंप्रवरंस्मृतम्। नैवेद्यांशदानमुक्तं पारिजातेसंग्रहे—

विष्वक्सेनायदातव्यंनैवेद्यस्यशतांशकम्। पादोदकंप्रसादंचलिंगेचंडेश्वरायतु। तद्विधिः पंचरात्रे—

ततोजवनिकांविद्वानपसार्ययथाविधि। मुख्यादी शानतःपात्रान्नैवेद्यांशंसमुद्धरेत्। टोडरानंदेविष्णुधर्मे—फलानिदत्वादेवेभ्यः सफलांविंदतेश्रियम्। अथ फलंभविष्ये—

फलंचक्वथितंविद्धंकृमिभिस्तद्विवर्जयेत्। यत्नपक्वमपिग्राह्यंकदलीफलमुत्तमम्। अथतांबूलं स्कांदे—

तांबूलानांकिसलयंदत्वास्वर्गमवाप्नुयात्। इति॥

** अथप्रणामः**। टोडरानंदेचंद्रिकायांचवाराहभविष्ययोः—

प्रणम्यदंडवद्भूमौनमस्करेणयोर्चयेत्। सयांगतिमवाप्नोतिनतांक्रतुशतैरपि। हलायुधे—

नदेवंपृष्ठतःकृत्वाप्रणामंक्वचिदाचरेत्। वरमुत्थायकर्तव्यंन वृथाभ्रमणंचरेत्। तत्रैव - एकहस्तप्रणामश्चएकाचैवप्रदक्षिणा। अकालेदर्शनंचैव पुण्यंहंतिपुराकृतम्। एकेति चंडान्यपरम्। तस्याएकप्रदक्षिणायावक्ष्यमाणत्वात्। गोविंदराजीयेभविष्ये—

अग्रेपृष्ठेवामभागेसमीपेगर्भ मंदिरे। जपहोमनमस्कारान्नकुर्याद्देवतालये। वाराहे—

वस्त्रप्रावृतदेहस्तुयोनरःप्रणमेतमाम्। सदासजायते मूर्खः सप्तजन्मसुभामिनि। इदंपरिधानीयान्यपरम्। चंद्रिकायांनारसिंहे

-नमस्कारेणचैकेनअष्टां गेनहरिंस्मरेत्। पद्भ्यांकराभ्यांशिरसापंचांगाप्रणतिःस्मृता। दोर्भ्यापद्भ्यांचजानुभ्यामुरसाशिरसातथा। मनसावचसाभक्त्याप्रणामोष्टांगईरितः। चंद्रिकायांतु—उरसाशिरसादृष्ट्यामनसापिधियापिच। पद्भ्यांकरा भ्यांवाचाचप्रणामोष्टांगउच्यतेइत्युक्तम्। संग्रहे—

शिरोहस्तौचजानूचचिबुकंबाहुकद्वयम्। पंचांगस्तुनमस्का रोविद्वद्भिःसमुदाहृतः। पाद्मे—

भूमिमापीड्यजानुभ्यांशिरआसेव्यवैभुवि। प्रणमद्योहिदेवेशंसोऽश्वमेधफलं लभेत्॥

अथप्रदक्षिणा। वाराहे—

प्रदक्षिणंनकर्तव्यंपुरतः पृष्ठदर्शनात्। चक्रवाद्भामयेदंगंष्पृष्ठतोंगंनदर्शयेत्। अत्रविशेषोवक्ष्यते केदारखंडे—

आरात्रिकंसकर्पूरंयेकुर्वंतिदिनेदिने। तेप्राप्नुवंतिसायुज्यंनात्रकार्याविचारणा। टोडरानंदेविष्णुधर्मे—

गीतवादित्रदानेनसौख्यंप्राप्नोत्यनुत्तमम्। प्रेक्षणीयकदानेनरूपवानभिजायते। प्रेक्षणी यंनृत्यगीतादि। अथशंखपूजाभविष्ये—त्रैलोक्येयानिभूतानिवासुदेवस्यचाज्ञया। शंखेवसंतिविप्रेंद्रतस्माच्छं खंप्रपूजयेत्। तत्रमंत्रः—

त्वंपुरासागरोत्पन्नोविष्णुनाविधृतःकरे। निर्मितः77सर्वदेवैश्वपांचजन्यनमोस्तुते। गर्भादेवादिनारीणांविशीर्यतेसहस्रशः। तवनादेनपातालेपांचजन्यनमोस्तुते। वाराहे—

द्वौशंखौनार्चयेदिति। शिवार्चनंचंद्रिकायांसारसंग्रहे—शंखमानंतुप्रादेशंचतुरगुलमुच्छ्रितम्। क्रियासारे—

प्रस्थांबुप्रमितःशंखः श्रेष्ठस्तत्त्र्यंशपूरकः। मध्यस्तदर्धप्रमितःकनिष्ठःक्रमशोभवेत्। गोक्षीरधवलःस्निग्धोदीर्घनालोबृहत्तनुः। वृत्तोयोदक्षिणावर्तःसज्ञेयःशंखसंज्ञकः। पूर्वोक्तलक्षणोपेतोवामावर्तोथवापियः। प्रस्थोदानरत्नेज्ञेयःमदनरत्नेस्कांदे—

पलद्वयेनप्रसृतंद्विगुणंकुडवंमतम्। चतुर्भि कुडवैःप्रस्थआढकस्तैश्चतुर्गुणैः। चतुराढको भवेद्द्रोणइत्येतद्द्रव्यमानकम्। इति॥

अथपूजाधिकारिणः। तत्रविष्णुपुराणे—

ब्राह्मणःक्षत्रियोवैश्यःशूद्रश्चपृथिवीपते। स्वधर्मतत्परोविष्णु माराधयतिनान्यथा। स्कांदेशालिग्राममाहात्म्ये—

ब्राह्मणक्षत्रियविशांस्त्रीशूद्राणामथापिवा। शालग्रामेधि- कारोऽस्तिनान्येपांतुकदाचन। अन्येसंकरजाः। प्रतिष्ठाहेमाद्रौ—

चत्वारोब्राह्मणैःपूज्यास्त्रयोराजन्य जातिभिः। वैश्यैर्द्वावेवसंपूज्यौतथैकःशुद्रजातिभिः। ब्राह्मणैर्वासुदेवस्तुनृपैःसंकर्षणस्तथा। प्रद्युम्नःपूज्यते वैश्यैरनिरुद्धस्तुशूद्रकैः। प्रयोगपारिजाते मंत्रराजानुष्टुब्विधाने—

शालग्रामशिलांवापिचक्रांकित शिलांतथा।

ब्राह्मणःपूजयेन्नित्यंक्षत्रियादिर्नपूजयेत्। क्षत्रियादिरदीक्षितः। नित्यंसर्वदा। अतोब्राह्मणस्यादीक्षितस्या पिशालिग्रामपूजानित्या।क्षत्रियादे.स्तुदीक्षितस्य। अत्रदीक्षामंत्रविहीनेपीत्युक्तेः अयंविनैवमंत्रेणपुण्य राशिः प्रकीर्तितइति विष्णुपूजाप्रकरणेभविष्योक्तेश्च। विष्णुपूजायामदीक्षित स्याप्यधिकारोनान्यत्रेति टोडरानंदः। तेनादीक्षितस्यापिक्षत्रियादेर्मूर्तिपूजनेऽधिकारः। स्मृत्यर्थसारे—स्त्रीणामप्यधिकारोस्ति विष्णोराराधनंप्रति। यतुस्मृतिकौमुद्यांशद्वाचारशिरोमणौमनुः—जपस्तपस्तीर्थयात्राप्रव्रज्या मंत्रसाधनम्। देवताराधनंचेतिस्त्रीशूद्रपतनानिषडिति तत्स्पर्शवत्पूजापरम्।आर्जवंलोभशून्यत्वंदेव ब्राह्मणपूजनम्। अनभ्यसूयाचतथाधर्मः सामान्यउच्यत इतिटोडरानंदे विष्णूक्तेः। साधारणधर्माश्च तुर्वर्णपराइति व्रतहेमाद्रौविज्ञानेश्वरीयेच। स्त्रीशूद्रपतनानिषडितिशूद्रस्यद्विजसेवाऽविरोधेनस्त्रिया स्तुभर्तृसेवाऽत्यागपरमितिभट्टपादाःजातिविवेके–स्पर्शनंदेवतानांचकायस्थायविवर्जयेत्। नास्याधि कारोधर्मेस्तीतिमनुव्याख्यानेमेधातिथिः। स्नानोपवासदेवतार्चनादौनशूद्रस्यनित्योधिकारइति। शूद्रादेः पूजास्पर्शंविना।—स्त्रीणामनुपनीतानांशुद्राणांचजनेश्वर। स्पर्शनेनाधिकारोऽस्तिविष्णोर्वाशंकरस्यवे तिबृहन्नारदीयात्। यदिभक्तिर्भवेत्तस्यस्त्रीणांनापिवसुंधरे। दूरादेवास्पृशन्पूजांकारयेत्सुसमाहित इतिवाराहाच्च। ब्राह्मण्यपिहरंविष्णुंनस्पृशेच्छ्रेयइच्छती। अनाथावासनाथावातस्यानास्तीहनिष्कृति रितिपंचायतनसाराच्च। सांप्रदायिकास्तुनिषेधेषुस्त्रीशूद्रपदस्याप्यदीक्षितपरत्वाद्विधिषुतत्पदंदीक्षितपर म्। अतोदीक्षितानांतेपांशालग्रामपूजास्पर्शवत्यपिभवति। स्पर्शनिषेधोऽदीक्षितपरइत्याहुः। तन्न। वचनंविनाव्यवस्थाकल्पनेमानाभावात्। अतोऽदीक्षितस्य पूजैवन। यत्तु—मातरःसर्वलोकैस्तुस्थाप्याः पूज्याःसुरोत्तमेतिदेवीपुराणेसर्वपदंतत्स्त्रीशूद्रान्यपरमितिकेचित्। दीक्षितस्याप्यस्पर्शेनेतियुक्तम्। विष्णुमूर्तेःप्रतिष्ठायांचाधिकारः चतुर्वर्णैस्तथा विष्णुःप्रतिष्ठाप्यःसुखार्थिभिरितिकल्पतरौ देवीपुराणात्। अन्येतुसर्वपदसंकोचेमानाभावात् — ब्राह्मणःक्षत्रियोवैश्यःशूद्रोवायदिवास्त्रियः। पूजयेन्मातरोभक्त्यास

सर्वंलभतेफलमितिदेवीपुराणाच्च शुचित्वस्यनैमित्तिकपरत्वाद्दीक्षितस्यतत्पूजाभवतीत्याहुः। कौमुद्यांनार सिंहेशूद्राधिकारे—पुराणंशृणुयान्नित्यंनरसिंहस्यपूजन। कुर्यादितिशेषः। तत्रैव—ब्राह्मणाः क्षत्रियावै श्याःस्त्रियःशूद्रांत्यजातयः। संपूज्यतंसुरश्रेष्ठं भक्त्यासिंहवपुर्धरम्। अत्रांत्य जातयोऽसच्छूद्रानतुचंडाला दयः। चंडालाःसर्वधर्मबहिष्कृताइतिस्मृतेःलिङ्गेपिचातुर्वर्ण्यस्याधिकारउक्तःशिवसर्वस्वेभविष्ये—यस्तुपूजयतेदेविलिंगेमांचजगत्पतिम्। ब्राह्मणःक्षत्रियोवैश्यःशूद्रोवामत्परायणः। तस्यप्रीतःप्रदास्यामिशिवॉ ल्लोकाननुत्तमान्। ब्रह्मचारिणंप्रकृत्यमनुः— देवताभ्यर्चनचैवसमिदाधानमेवच। कुर्यादितिसबधः। तिथि तत्वेस्कांदे–शूद्रःकर्माणियोनित्यस्वीयानिकुरुतेप्रिये। तस्याहमर्चांगृह्णामिचंद्रखंडविभूषिते। इदंपुराण प्रसिद्वजीर्णलिंगविषयमितित्रिस्थलीसेतौभट्टपादाःनूतनलिंगपूजायांतु— यदा प्रतिष्ठितलिंगंमंत्रविद्भिर्य थाविधि। तदाप्रभृतिशूद्रश्चयोषिद्वापिनसंस्पृशेदितिबृहन्नारदीयादस्पर्शपूजाकल्पकाभावाच्चानाधिकारः। यत्तु–लिंगंगृहीयतिर्वापिसस्थाप्यतुयजेत्सदेतिदेवीपुराणंतत्रयतिसाहचर्याद्गृहिपदंद्विजपरम्। नचपर प्रति ष्ठितलिंगादिपूजायुक्ता—यःशूद्रेणार्चितंलिंगंविष्णुवापिनमेन्नरः। तस्येहनिष्कृतिर्नास्तिप्रायश्चित्तशतैरपी तिबृहन्नारदीये अनमस्कार्यत्वोक्तेः। नचैतदन्यथानुपपत्त्यैवशूद्रस्यलिंगादिपूजाकल्पनं अन्यदीयलिंगपूजा निषेधेनापिचरितार्थत्वात्। तिथितत्वेस्कांदे—ब्रह्मचारीगृहस्थोवावान78प्रस्थव्रतेस्थितः। एवदिनेदिनेदे वपूजयेदविकापतिम्। सन्यासीदेवदेवेशंप्रणवेनैवपूजयेत्। नमोंतेनशिवेनैवस्त्रीणांपूजाविधीयते।बौधायनः— स्त्रीशूद्राणां च भवतिनाम्नावैदेवतार्चनम्। सर्वेवागममार्गेणकुर्युर्वेदानुसारिणा। पंचायतन सारे भागवते —वैदिकस्तात्रिकोमिश्रइतिमेत्रिविधोमस्वः। वैदिकोमिश्रकोवापिविप्रादीनांविधीयते। तात्रिकोविष्णुभक्तस्य शूद्रस्यापिप्रकीर्तितः ॥

मंत्रराजानुष्टुप्विधाने—श्रौतार्चनंतुविप्राणांविशेषेणभवेत्सदा। स्मार्तागमार्चनंक्षत्रेवैश्येकेवलमागमः। तस्माद्देवार्चनंश्रौतंविप्रस्यैवतदुच्यते। बह्वृचपरिशिष्टे— प्रतिमाः प्राङ्मुखीरुदङ्मुखोयजेतान्यत्रप्रा ङ्मुखःसंभृतसंभारोयजनभवनमेत्यद्वारेस्थित्वाहस्ततालत्रयेणअपसर्पं तुतेभूतायेभूताभुविसंस्थिताः। येभूताविघ्नकर्तारस्तेनश्यंतुशिवाज्ञयेतिविघ्नानुद्वारसप्रविश्य येभ्योमातामधुमत्पिन्वतेपयएवापित्रे विश्वदेवायबृष्णइतिजपित्वा शुभासने पृथिवित्वयाधृतालोकादेवित्वंविष्णुनाधृता। त्वंचधारयमांदे विपवित्रंकुरुचासनमित्युपविश्यायतप्राणःकर्मसंकल्प्य शुचिशंखंभद्भिःप्रणवेनपूरयित्वा गंधाक्षतपुष्पाणि प्रक्षिप्यसावित्र्याभिमंत्र्यतीर्थान्याबाह्याभ्यर्च्य पत्रपुष्पाणितदुदकेनापोहिष्ठीयाभिरात्मानमायतनंयजनांगा निचाम्युक्ष्यक्रियांगोदकुंभंगंधादिभिरभ्यर्च्यन मोंतनाम्नातत्तन्मंत्रेणवोपचारान्कुर्यादावाहनमासनंपाद्यम र्घ्यमाचमनीयंस्नानमाचमनं वस्त्रमाचमनमुपवीतमाच मनंगंधपुष्पाणिधूपंदीपमुपहारमाचमनंमुखवासं स्तोत्रंप्रणामंप्रदक्षिणाविसर्जनंचकुर्यादसंपन्नोमनसासंपादयेदाचमनमपृथगुपचारःप्रणाम स्तोत्रं प्रदक्षिणा विसर्जनांगम्। अथमंत्राः—गणानांत्वेतिगणपतेः। कुमारश्चित्पितरमितिस्कंदस्य \। आकृष्णेनेत्यादित्यस्य। पावकानइतिसरखत्याः। जातवेदसइतिशक्तेः। त्र्यंबकमितिरुद्रस्य। गंधद्वारामितिश्रियः। इदं विष्णुरिति विष्णोरेवंषोडशेमानुपचारान्पौरुषेणवासूक्तेनप्रत्यृचंसावित्र्यावाजातवेदस्यावाप्राजापत्यावाव्याहृतिभिर्वाप्रणवेनवाकुर्वंतिसएषदेवयज्ञोऽहरहर्गोदानसंमितः सर्वाभीष्टप्रदःस्वर्गापवर्गदश्चतस्मादेनमहरहः कुर्वीतेति। टोडरानंदेवाराहे— अभावेवेदमंत्राणांपंचरात्रोदितोविधिः। उदङ्मुखइतिस्थिरप्रतिमाविषयमितिपारि जातः। **वैशाखमाहात्म्येपाद्मे—**स्वर्णधर्मानुवाकेनमहापुरुषविद्यया। पौरुषेणचसूक्तेनसामभीराजना दिभिः। अर्चयेदितिशेषः। टोडरानंदे योगयाज्ञबल्क्यः— दद्यात्पुरुषसूक्तेनयःपुष्पाण्यपएववा। अर्चितंस्याज्जगदिदंतेनसर्वंचराचरम्।

**अथन्यासादि। शौनकः—**अंगुष्ठाग्रेगोविंदंतर्जन्यांतुमहीधरम्। मध्यमायांहृषीकेशमनामिक्यांत्रि विक्रमम्।कनिष्ठिक्यांन्यसेद्विष्णुंकरम

ध्येतुमाधवम्। एवंन्यासंपुराकृत्वादेहांगन्यासमाचरेत्79। मस्तकेकेशवंन्यस्यभालेनारायणंतथा। माधवंकर्णयोरक्ष्णोर्विष्णुचैवतुनासयोः। मुखेतुमधुसूदनंकंठदेशेत्रिविक्रमम्। वामनंविन्यसेद्वाह्वोःश्रीधरं हृदिविन्यसेत्। नाभ्यांविद्याद्धषीकेशंकट्यांवैपद्मनाभकम्। दामोदरंपादयोश्चन्यासंद्वादश धाचरेत्। ततः पुरुषसूक्तेनसर्वांगन्यासमाचरेत्79अपरार्केनारसिंहे

आनुष्टुभस्यसूक्तस्यत्रिष्टुबंतस्यदेवता। पुरुषोयो जगद्बीजमृषिर्नारायणःस्मृतः। प्रथमांविन्यसेद्वामेद्वितीयांदक्षिणेकरे। तृतीयांवामपादेतुचतुर्थीं दक्षिणेपदे। पंचमींवामजानौतुषष्ठींवैदक्षिणेन्यसेत्। सप्तमींवामकुक्षौचअष्टमींदक्षिणेन्यसेत्। नवमींनाभिमध्येतुदश मींहृदयेतथा। एकादशींकंठदेशेवामवाहौततःपराम्। त्रयोदशींदक्षिणेतुआस्यदेशेचतुर्दशीम्। अक्ष्णोः पंचदशींचैवषोडशींमूर्ध्निविन्यसेत्। यथादेवेतथादेहेन्यासंकृत्वाविधानतः। एवंन्यासविधिकृत्वापश्चाद्यागं समाचरेत्। गोविंदराजीये योगयाज्ञबल्क्यः—

षडंगन्यासइत्येकेउत्तरेपुरुषसूक्तके। अद्भ्यःसंभूतइति हृदयायनमः। वेदाहमितिशिरसेस्वाहा। प्रजापतिश्चरतीतिशिखायैवषट्। योदेवेभ्यइतिकवचायहुम्। रुचंब्राह्ममितिनेत्रत्रयायवौषट्। श्रीश्चेत्यस्त्रायफट्। चंद्रिकायांनारदीये—

एवंन्यासंतुकृत्वादौषश्चाद्देवस्य पूजनम्। गंधमाल्यैःसुरभिभिरात्मानंचार्चयेद्बुधः। ततः पीठंसमाराध्यगंधपुष्पाक्षतैः शुभैः। ऋग्विधाने - वक्ष्येपुरुषसूक्तस्यविधिनात्वर्चनेपुनः। आद्ययावाहयेद्देवमृचातुपुरुषोत्तमम्। द्वितीययासनंदद्यात्पाद्यंचैव तृतीयया। चतुर्थ्यार्घ्यंप्रदातव्यंपंचम्याचमनीयकम्।षष्ठ्यास्नानंप्रकुर्वीतसप्तम्यावस्त्रमेवच। यज्ञो पवीतमष्ट म्यानवम्यागंधमेवच। दशम्यापुष्पदानंचएकादश्यातुधूपकम्। द्वादश्याचतथादीपंत्रयोदश्योपहारकम्। चतुर्दश्यानतिंकुर्यात्पंचदश्याप्रदक्षिणाम्। षोडश्योद्वासनं कुर्यादेवमेवसमर्चयेत्। पौरुषेणचसूक्तेनतद्विष्णोः परमेणच। नैताभ्यांसदृशोमंत्रो वेदेषूक्तश्चतुर्ष्वपि। पूजोत्तरंऋग्विधाने— हुत्वाषोडशभिर्मंत्रैः षोडशान्नस्यचाहुतीः। शेषंनिवेदयेत्तस्मैदद्यादाचमनंततः। जानुभ्यांधरणींगत्वामूर्ध्नाहरिमथोवहेत्। पुनःषोडशभि

र्मंत्रैर्दद्यात्पुष्पाणिषोडश। तच्चसर्वंजपेद्भूयःपौरुषसूक्तमुत्तमम्। षण्मासात्सिद्धिमाप्नोतिह्येवमेव समर्चयेत्। पूजांतेकर्तव्यमाहयोगयाज्ञबल्क्यः—निवेदयेत्तदात्मानंतद्विष्णोरितिमंत्रतः। पाद्मे—ब्रह्माणं विष्णुमीशंवासूर्यमग्निंगणाधिपम्।दुर्गांसरस्वतींलक्ष्मींगौरींवानित्यमर्चयेत्। एतेष्वन्यतरार्चनेनापि नप्रत्यवैतीत्यर्थः। केचित्तुपंचायतनपूजांनित्यांवते—शिवंभास्करमग्निंचकेशवंकौशिकीमपि। मनसान र्चयन्यातिदेवलोकादधोगतिम्। वरंप्राणपरित्यागः शिरसोवापिकर्तनम्। नत्वसंपूज्यभुंजीतकौशिकीं केशवंशिवमितिकालिकापुराणादित्याहुः। केचित्तु—अग्निर्गणेशःपावकःकार्तिकेयोविनायकइति भविष्योत्तरात्तत्पूजामाहुः। एतेनाग्निंस्मार्तमितिवदन्नर्थानभिज्ञत्वादपास्तः। कौशिकींदुर्गाअनर्चयन्न पूज्यत्वज्ञानवानितिवर्धमानसमयमदीपादयः। पुष्पाद्यभावेमनसापिपूजयेदितिवयम्। केचित्तुविष्णुपूजै वनित्या शिवदुर्गादिपूजातुकाम्येत्याहुः। यस्त्वेपांपूजायाअकरणेनिंदार्थवादःससंकल्पेस तिनित्यतापरइ तिश्रीदत्तवाचस्पती। तन्न।विष्णुपूजायामपितत्वापत्तेः—ब्रह्माविष्णुमीशंवागौरींवानित्यमर्चयेदिति पाद्मेवाशन्दश्रवणेपि— तस्मादनादिमध्यांतंनित्यमाराधयेद्धरिमितिचंद्रिकायांकर्माद्विष्णुपूजानित्या। — तत्रापिशालग्रामशिलांवापिचक्रांकितशिलांतथा। ब्राह्मणः पूजयेन्नित्यंक्षत्रियादिर्नपूजयेदितिमंत्रराजानुष्टु ब्विधानात्। शालग्राम शिलापूजांविंनायोश्नातिकिंचन। सचंडालोहिविष्ठायामाकल्पंजायतेकृमिरि तिहलायुधाच्चशालग्रामपूजैवनित्येतिकेचित्। अन्येतुपूर्ववाक्येशालग्रामपदंमूर्त्युपलक्षणमिति पंचायतनसारात्— केशवार्चागृहेयस्यनतिष्ठतिमहीपते। तस्यान्नंनैवभोक्तव्यमभक्षणसमं स्मृतमिति हलायुधेवचनान्मूर्ति पूजापिनित्येत्याहुः। अत्रविष्णोरर्चेतिपाठमाश्रित्य —शंखारिभ्यांगदाब्जाभ्यांपूज्यो विष्णुःश्रियैनरैरित्युक्तलक्षणाविष्णुप्रतिमाशालग्रामसद्भावेप्यावश्यकीतिटोडरानंदः। लिंगेदेवोमहादेवः सर्वदैवव्यवस्थितः। अनुग्रहायलोकानांतस्मान्नित्यंपूजयेदितिभविष्योत्तराल्लिंगपूजानियेत्याहुः। चंद्रिकायांकौर्मे—योमोहादथवालस्यादकृत्वादेवतार्चनम्। भुङ्क्तेसयातिनरकान्सूकरेष्विहजायते। यत्त्वाश्वलायनः —दानाध्य

यनदेवार्चजपहोमव्रतादिकान्। नकुर्याच्छ्राद्धदिवसेप्राग्विप्राणांविसर्जनादिति तन्नित्यवर्जमितिबोपदेवः। विष्णुभिन्नपरमितिपरिचर्या। पूजयिलाशिवंमत्यापितृश्राद्धंप्रकल्पयेदितिर्लैगात्।—

श्राद्धाह्नितुसमभ्यर्च्य नृवराहंजनार्दनमितिविष्णुधर्मोक्तेश्चविहितभिन्नपरमित्यपिकेचित्। सर्वादौसूर्यपूजा—

अपूज्यप्रथमंसूर्य मपरान्यःप्रपूजयेत्। नतद्भूतकृतंपाद्यंसंप्रतीच्छंतिदेवताइतिब्राह्मात्।—

रविर्विनायकश्चंडीईशो विष्णुश्च पंचमः। अनुक्रमेणपूज्यंतेव्युत्क्रमेणमहद्भयमिति। गणेशार्कौसमभ्यर्च्यशैवोविष्णुंप्रपूजयेत्। अर्चयेच्च शिवंपश्चाद्विष्णुमादौतुवैष्णवः। ततःशिवंततोदुर्गामेवंस्यादर्चनक्रिया। अत्रगणेशार्कयोःकमेनतात्पर्यं किंतुतावपूजयित्वाप्रधानंनपूजयेत्। आदौनसर्वादौकिंतुविष्ण्वादौ। पौराणोयं क्रमः।

आगमोक्तस्तुयोगिनीतंत्रे

गणेशसूर्यविष्ण्वीशदुर्गा आवाह्यपूजयेत्। भैरवीतंत्रे

आदौगणपतिदेवंसूर्यंविष्णुमुमापतिम्। दुर्गांचपूजयेद्विद्वानिति।आपस्तंबस्मृती

प्रत्यहंदेवताःपूज्या इत्युक्तिर्वैश्वदेवदेवताभ्योन्याः पराशराद्युक्तप्रतिपदादितिथिदेवताः पूज्याइत्येतदर्थेति दोउरानंदः। तन्न। पूर्ववचनैकवाक्यतयास्यगणेशादिपूजापरत्वात् प्रतिपदादिदेवतापूजनस्यान्यत्रविधानाच्च। पंचाय तनस्थापनमायमलप्रकाशेबौपदेवः

शंभौमध्यगतेहरीनहरभूदेव्योहरौशंकरेभास्येनागसुतार वौहर गणेशाजांधिकाःस्थापयेत्। देव्यांविष्णुशिवैकदंतरवयोलंवोदरेजेश्वरार्येनाः शंकरभागतोऽतिसुखदाव्य स्तास्तुतेहानिदाः। यस्ययइष्टोदवःसतेनमध्ये स्थाप्यःसाधारणतयापूजनेविष्णुः। श्लोकार्थस्तु

पंच सुदेवतासुपूजकाभ्यर्हितत्वेनशिवादौमध्यस्थेशिष्टानामेपक्रमः। शंभौमध्यगे

ईशानेहरिःआग्नेयेसूर्यः नैर्ऋत्येगणेशः वायव्येदुर्गा।हरौमध्यगे

ईशानेशंकरः आग्नेयेगणेशःनैर्ऋत्येसूर्यःवायव्येदुर्गा। रवौमध्यगे

ईशानेहरःआग्नेयेगणेशःनैर्ऋत्ये विष्णुः वायव्येदुर्गा। देव्यांमध्यगायाम् — विष्णुरीशाने शिवआग्नेयेगणेशोनैर्ऋत्येरविर्वायव्ये। गणेशेमध्यगे

विष्णुरीशानेईश्वर आग्नेयेदुर्गानैर्ऋत्येरविर्वायव्ये इतिगोविंदराजःमंत्रमहोदधौ

पंचायतनपक्षेतुमध्येविष्णुंततोर्चयेत्। अग्निनैर्ऋतवायव्येशाने षुगणनायकम्। रविंशिवांशिवंमध्ये गणेशश्चेच्छिवंशिवाम्।रविंविष्णुंरवौ

मध्येविघ्नाजनगजेश्वरान्। भवान्यांमध्यसंस्थायामीशविघ्नार्कमाधवान्। हरेमध्यगतेसूर्यगणेश गिरिजाच्यु तान्। संपूज्यादौमध्यगतंगणेशादिंततोयजेत्। गणेशेमध्यसंस्थेतु पूजयेद्भास्करादितः। एतेनाजेश्वरेनार्या इतिपाठंवदन्नाचार चंद्रोदयोपास्तः॥

अत्रपूज्यपूजकांतराल॑प्राचीतदुक्तमांगमे — पूज्यपूजकयोर्मध्येप्राचीप्रोक्ताविचक्षणैः। प्राच्यैवप्रा चीसोद्दिष्टामुक्त्वावैदेवपूजनं। प्रयोगपारिजातेमंत्रशास्त्रे

देवयमुखमारभ्यदिशंप्राचींप्रकल्पयेत्। तदा दिपरिवाराणामंगाद्यावरणस्थितिः। देवपूजायां

प्राक्पश्चिमोदगास्यश्चप्रातःसायंनिशासुचेतिवचनाद्व्यव स्थेतिवाचस्पतिमिश्राः। सूर्य सप्ताक्षरमंत्रपरमेतदितिपूजारत्नाकरेतिथितत्वेचटोडरानंदे गौतमः

रात्रावुदङ्मुखःकुर्याद्देवकार्यंसदैवहि। शिवार्चनंसदाचैवशुचिःकुर्यादुदङ्मुखः। अर्कमर्कतनुर्यजेदि तिभविष्योक्तेः। सूर्यनित्यार्चनेप्रणवेनपूरकादिभिर्वायुधारणशोषणादिभिर्भूतशुद्धिरंगमितिटोडरानंदःआगमिकास्तुनादेवोदेवमर्चयेदितिवाक्यात्सर्वदेवार्चनांगमित्याहुः॥

** अधसूर्यपूजाभविष्ये**– मेरुमंदरतुल्यो पिराशिः पापस्यदारुणः। आसाद्यभास्करंमर्त्यस्तंनाशय- तितत्क्षणात्। प्रदद्याद्वैगवांलक्षंदोग्ध्रीणां वेदपारगे। एकाहमर्चयेद्भानुंतस्यपुण्यंततोधिकम्। स्मृति रत्नावल्याम्

शिवसूर्यं तथाचेंद्रदुर्गाद्याउग्रदेवताः। योर्चयेत्पणपूर्वंतुसद्यःपततिमानचः। प्रयोगपारि जातेसंग्रहे

संवत्सरत्रयंकुर्याद्यःपरार्थंसुरार्चनम्। संवत्सरंचगायत्रींषण्मासंरुद्रमेवच। प्रणवंवादिनंचैकं सचपातित्यमाप्नुयात्। तदपिमूल्येनभरणे। देवार्चनपरोविप्रोवित्तार्थीवत्सरत्रयम्। सवैदेवलकोनामहव्य कव्येषुगर्हितइति चंद्रिकायांविष्णूक्तेः। आपःक्षीरंकुशाग्राणिघृतंदधितथामधु। रक्तानिकरवीराणितथा रक्तंचचंदनम्। अष्टांगमर्धमापूर्यभानवेद्भिर्निवेदयेत्। हरनाथीयेस्मृतिसारे

दारवेणार्घपात्रेणदत्वार्घंय त्फलंलभेत्। तस्माच्छतगुणंपुण्यंमृत्पात्रेणनराधिप। ताम्रपात्रार्घदानेनपुण्यं दशगुणंस्मृतम्। पालाशपद्मपत्राभ्यां ताम्रपात्रसमंलभेत्।

रौप्यपात्रेणविज्ञेयंलक्षांशोनात्रसंशयः। सुवर्णपात्रविन्यस्तमर्धंकोटिगुणंभवेत्। एवंस्नानेषुनैवेद्येबलिपूजा दिषुक्रमात्। मृन्मयमत्रहस्तकृतंग्राह्यम्। चक्रकृतस्यासुरत्वेननिषेधात्। तथाभविष्ये

कालेयकंतुरुष्कं चरक्तचंदनमेवच। यान्यात्मनःसदेष्टानियान्यशस्तान्यपाकुरु। कालेयं कृष्णागरुं। कालियाकाष्ठमित्यन्ये। तुरुष्कंसिह्लकम्॥

अथपुष्पाणितत्रैव

पुष्पैररण्यसंभूतैःपत्रैर्वागिरिसंभवैः। आत्मारामोद्भवैर्वापिभक्त्यासंपूजयेद्रविम्। पुष्पमालायाम्–जातिंकुंदशमींकुशेशयकुशाशोकंबकंकिंशुकंषुन्नागंकरवीरचंपकजपानेपालिकाकुब्ज कम्। वासंतीशतपत्रिकाविचकिलंमंदारमर्काह्वयंपीताम्रातकनागकेसरमिदंपुष्पंरवेःशस्यते। लोध्रंकैरव मुत्पलंचसकलंसिंहास्यकंपाटलायूथीकुंकुमकर्णिकारतिलकाबाणंकदंबंजपा।काशंकेशरकेतकीमरुब कंद्रोणंत्रिसंध्याह्वयंपुष्पंशस्तमिदंचपूजनविधौसर्वंसहस्रार्चिषः। तमालतुलसीबिल्वशमीभृंगारजोद्भवम्। केतकीदूर्वयोर्धात्र्याःपत्रंदिनकरप्रियम्। पुष्पंशस्तंभृंगराजशाल्मलीकांचनालजम्। निषिद्धविहितं सूर्येतगरंकंटकारिका। गुंजापराजितोन्मत्तवराहंक्रांतयासह ।भविष्ये

करवीरनृपैकस्मिन्नकार्यविनिवे दिते। दशदत्वासुवर्णस्य निष्कानांलभतेफलम्। ग्रथिते नृपशार्दूलतदेतद्द्विगुणं भवेत्। भक्त्यापूजयते योर्कमर्कपुष्पैः सितासितैः। तेजसासोर्कसंकाशोह्यर्कलोकेमहीयते। जपापुष्पसहस्रेभ्यःकरवीरं विशिष्यते। करवीरसहस्रेभ्योबिल्वपत्रंविशिष्यते। बिल्वपत्रसहस्रेभ्यःपद्ममेकंविशिष्यते। वीरपद्मसह सेभ्योबकपुष्पंविशिष्यते। बकपुष्पसहस्रेभ्यः कुशपुष्पंविशिष्यते। कुशपुष्प सहस्रेभ्यः शमीपुष्पंविशिष्यते। सर्वासांपुष्पजातीनांप्रवरंनीलमुत्पलम्। नीलोत्पलसहस्रेणनीलोत्पलशतेनच। रक्तै श्चकरवीरैस्तुयश्चपूजयतेरविम्। वसेदर्कपुरेश्रीमान्सूर्यतुल्यपराक्रमः। शमीपुष्पंबृहत्याश्चकुसुमंतुल्य मुच्यते। करवीरसमाज्ञेयाजातीबकुलपाटलाः। श्वेतमंदारकुसुमंसितपद्मंचतत्समम्। नागचंपकपुन्ना गमुकुराश्चसमाःस्मृताः। प्रहरंतिष्ठतेजातीकरवीरमहर्निशम्। प्रत्येकमुक्तपुष्पेणदशसौवर्णिकंफलम्। स्रजोभिर्मुनिशार्दूलतदेवद्विगुणंभवेत्। मुकुराणिकदंबानिरात्रौदेयानिभानवे। दिवाशेषाणिपुष्पाणि

दिवारात्रौचमल्लिका। तथा—मल्लिकामालतीचैवदूर्वाकाशौतिमुक्तकः। पाटलाकरवीरंचजपाजायंति रेवच। कुब्जकंतगरंचैवकर्णिकारःकुरंटकः। चंषकोवेणिकःकुंदोवालोबर्वरमल्लिका। अशोकस्तिलको लोध्रस्तथाचैवाटरूषकः। शतपत्राणिचान्यानिबकाह्वचविशेषतः। अगस्त्यंकिंशुकंतद्वत्पूजायांभास्कर स्यतु। तुलसीकालतुलसीतथारक्तंचचंदनम्। केतकीपुष्पपत्रंचसद्यस्तुष्टिकरंरवेः। नकंटकारिकापुष्पं तथान्यद्गंधवर्जितम्। नचाम्रातकजैःपुष्पैरर्चनीयोदिवाकरः। येषानप्रतिषेधोस्तिगंधवर्णान्वितानिच। तानिपुष्पाणिदेयानिभानवेलोकभानवे। मुकुरो विचकिलः। अवचयोत्तरंजाती पुष्पंप्रहरपर्यंतंपूजार्हम् ।भविष्ये

यथानलंघयेत्कश्चित्स्नपनंभास्करस्यच। तथाकार्यंप्रयत्नेनलंघितंत्वशुभावहम्॥

अथगणेशपूजा गोविंदराजीयेभविष्ये – गणेशः पूजनान्नित्यंसर्वविघ्नानपोहति। सर्वान्कामानवाप्नोति गणेशंपूजयन्नरः। वाराहे

गृहेलिंगद्वयंनार्च्यगणेशत्रितयंतथा। नर्मदातीरसंभूतांस्त्रीन्गृहीनार्चयेत्सुधीः। गृहिग्रहणात्संन्यासिव्रतिनोर्ननिषेधः। अथदुर्गापूजाटोडरानंदेभविष्यपुराणे— दिग्विभागेषुसर्वेषुकौबे रीदिक्शिवाप्रिया। तस्मात्तन्मुखआसीनःपूजयेत्तुसदांविकाम्। गोविंदराजीयेभविष्ये

यःसदापूजये द्दुर्गांप्रणमेद्वापिभक्तितः। सयोगीसुमतिर्धींमांस्तस्यमुक्तिःकरेस्थिता। आपःक्षीरंकुशाग्राणिअक्षता दधितंदुलाः। सहसिद्धार्थकादूर्वाकुंकुमंरोचनामधुः। अर्घोयंकुरुशार्दूलद्वादशांगउदाहृतः। तथा— नागकेशरकर्पूरंमुरामांसीसवालका। उद्वर्तनसमाख्यातामातॄणां सर्वतःप्रिया। शिवार्चनचंद्रिकायाम् — चंदनागरुकर्पूरकाश्मीरैरोचनान्वितैः। ससिह्लकजटामांसीसटीभिःशक्तिसंभवम्। गंधाष्टकंशुभंवश्यं शक्तिमंत्रेषुयोजयेत्। सिह्लकंशिलारसइतिप्रसिद्धम्॥

अथपुनः पुष्पाणि देवीपुराणे

शृणुशक्रप्रवक्ष्यामिपुष्पाध्यायंसमासतः। ऋतुकालोद्भवैःपुष्पै र्मल्लिकाजातिकुंकुमैः। सितरक्तैश्चकुसुमै स्तथापमैश्चपांडुरैः। किंशुकैस्तगरैश्चैवकिंकिरातैः सचंपकैः। वकुलैश्चैवमंदारैः कुंदपुष्पैस्तिरीटकैः। करवीरार्कपुष्पैश्चशांशषैश्चापराजितैः। सितरक्तै

स्तथापीतैःकृष्णैश्चैवचतुर्विधैः। धत्तूरकातिमुक्तैश्चबंधूकागस्त्यसंभवैः। मदनैःसिंदुवारैश्चसुरभीरुचकै स्तथा। लताभिर्ब्रह्मवृक्षस्यपुष्पैचैवमनोहरैः। मंजरीभिःकुशानांचबिल्वपत्रैःसुशोभितैः। पत्रैःपुष्पैर्यथाला भंसर्वौषधिमयैःशुभैः। धान्यानांसर्वपत्रैश्चपुष्पैश्चैवप्रपूजयेत्। कालोद्भवैरित्याकालिकपुष्पनिषेधः। मंदारैरितिमंदारार्कयोर्दुर्गायां। तौविहितनिषिद्धावित्यन्ये। ब्रह्मवृक्षःपलाशः। देवीपुराणे— केतकीचा तिमुक्तश्चबंधूकवकुलारिपिः (?)। कदबःकर्णिकारश्चसिंधुवारःसमुद्वहः। पुन्नागचंपकश्चैवयूथिकावन मल्लिका। तगरार्जुनमल्लीचबृहतीशतपत्रिका वीराकुसुमकह्लारबिल्वपाटलमालती। जपाविचकिला शोकवर्णनीलोत्पलासिता। पंकजंशतपत्रंचदशधापुण्यवृद्धये। द्रोणपुष्पसमाक्षीरनीलापामार्गपत्रिका। सुरसावर्चरीभद्रासुरभीकणमल्लिका। मदनोमरुपत्रश्चशतधापुण्यवृद्धये। कदंबैरर्चयेद्रात्रौमल्लिको भयतःशुभा। दिवाशेपाणिपुष्पाणियथालाभंनियोजयेत्। प्रत्येकंमुक्तपुष्पेषुदशसौवर्णिकंफलम्। सन्निबद्धेपुतेष्वेवद्विगुणंफलमादिशेत्। सुरसा तुलसीविशेषः। सौवर्णेत्वक्षिणीराजन्भगवत्यैप्रयच्छति। गोसहस्रफलंप्राप्यसूर्यलोके महीयते। तथासुवर्णतिलकंदुर्गादेव्यैप्रयच्छति। सगच्छतिपरंस्थानंयत्र सापरमाकला। धूपोदेवीपुराणे —धूपंकल्याणनागंतुनित्यंदेव्याः प्रियंनृप। दीपनैवेद्येपूर्वोक्तेएव।

अथशिवपूजारुद्राक्षादिचतिथितत्वेर्लेैगे—विनाभस्मत्रिपुंड्रेणविनारुद्राक्षमालया। पूजितोपिमहादेवोनस्यात्तस्यफलप्रदः। तस्मान्मृदापिकर्तव्यंललाटेवैत्रिपुंड्रकम्। कृत्यकल्पद्रुमेउमा संवादे उच्छिष्टोवाविकर्मस्थःसंलिप्तःसर्वपातकैः। नासौलिप्यतिपापेनरुद्राक्षस्यतुधारणात्। लक्षंतुस्पर्शने पुण्यंकोटिर्भवतिचालनात्। दशकोटिसहस्राणिधारणाल्लभतेफलम्। रुद्राक्षदेहसंस्थोपिकुक्कुरोम्रियते यदि। सोपिरुद्रपदंयाति किंपुनर्मानवोगुरुः।सप्तविंशतिरुद्राक्षमालयादेहसंस्थया। यत्करोतिनरः पुण्यं सर्वं कोटिगुणंभवेत्। हस्तेचोरसिकंठेयः शिरसाचैवधारयेत्। सुरासुराणांसर्वेषांसर्वद्योहियथाशिवः। शिखायांबाहुकंठेचकर्णयोश्चापियोनरः। रुद्राक्षंधारयेद्भक्त्यासशैवंलोकमाप्नुयात्। नववक्रचरुद्राक्षं धारयेद्वांमपा

दिवारात्रौचमल्लिका। तथा—

मल्लिकामालतीचैवदूर्वाकाशोतिमुक्तकः। पाटलाकरवीरंचजपाजायंतिरे वच। कुब्जकंतगरंचैवकर्णिकारःकुरंटकः। चंपकोवेणिकःकुंदोवालोबर्वरमल्लिका। अशोकस्तिलको लोध्रस्तथाचैवाटरूपकः। शतपत्राणिचान्यानिबकाह्बंचविशेषतः। अगस्त्यंकिंशुकंतद्वत्पूजायांभास्कर स्यतु। तुलसीकालतुलसीतथारक्तं च चंदनम्। केतकीपुष्पपत्रंचसद्यस्तुष्टिकरंरवेः। नकंटकारिकापुष्पं तथान्यद्गधंवर्जितम्। नचाम्रातकजैःपुष्पैरर्चनीयोदिवाकरः। येषांनप्रतिषेधोस्तिगंधवर्णान्वितानिच। तानिपुष्पाणिदेयानिभानवेलोकभानवे। मुकुरो विचकिलः। अवचयोत्तरंजातीपुष्पंप्रहरपर्यंतंपूजार्हम्। भविष्ये

यथानलंघयेत्कश्चित्स्नुपनंभास्करस्यच। तथाकार्यंप्रयत्नेनलंघितंत्वशुभावहम्॥ .

अथगणेशपूजा गोविंदराजीये भविष्ये–गणेशःपूजनान्नित्यंसर्वविघ्नानपोहति। सर्वान्कामानवाप्नोति गणेशंपूजयन्नरः। वाराहे

गृहेलिंगद्वयंनार्च्यंगणेशत्रितयंतथा। नर्मदातीरसंभूतांस्त्रीन्गृहीनार्चयेत्सुधीः। गृहिग्रहणात्संन्यासिव्रतिनोर्ननिषेधः। अथदुर्गापूजा।टोडरानंदेभविष्यपुराणे

दिग्विभागेषुसर्वेषुकौवे रीदिक्शिवाप्रिया। तस्मात्तन्मुखआसीनः पूजयेत्सदांचिकाम्।गोविंदराजीयेभविष्ये

यःसदापूजये द्दुर्गाप्रणमेद्वापिभक्तितः। सयोगीसुमतिधमांस्तस्यमुक्तिःकरेस्थिता। आपःक्षीरंकुशाग्राणि अक्षतादधि तंदुलाः। सहसिद्धार्थका दूर्वाकुंकुमंरोचनामधुः। अर्घोयंकुरुशार्दूलद्वादशांगउदाहृतः। तथा— नागके शरकर्पूरंमुरामांसीसवालका। उद्वर्तनसमाख्यातामातॄणांसर्वतःप्रिया। शिवार्चनचंद्रिकायाम्

चंदनाग रुकर्पूरकाश्मीरैरोचनान्वितैः। ससिह्लकजटामांसीसटीभिःशक्तिसंभवम्। गंधाष्टकंशुभंवश्य शक्तिमंत्रे षुयोजयेत्। सिह्लकेशिलारसइतिप्रसिद्धम्॥

अथपुनः पुष्पाणि देवीपुराणे

शृणुशक्रप्रवक्ष्यामिपुष्पाध्यायंसमासतः। ऋतुकालोद्भवैःपुष्पै र्मल्लिकाजातिकुंकुमैः। सितरक्तैश्चकुसुमैस्तथापद्मैश्चपांडुरैः। किंशुकैस्तगरैश्चैवकिंकिरातैः सचंपकैः। बकुलैश्चैवमंदारैः कुंदपुष्पैस्तिरीटकैः। करवीरार्कपुष्पैश्वशांशपैश्चापराजितैः। सितरक्तै

स्तथापीतैःकृष्णैश्चैवचतुर्विधैः। धत्तूरकातिमुक्तैश्चबंधूकागस्त्यसंभवैः। मदनैःसिंदुवारैश्चसुरभीरुचकै स्त था। लताभिर्ब्रह्मवृक्षस्यपुष्पैश्चैवमनोहरैः। मंजरीभिःकुशानांचबिल्वपत्रैःसुशोभितैः। पत्रैः पुष्पैर्यथालाभं सर्वोषधिमयैःशुभैः। धान्यानांसर्वपत्रैश्चपुष्पैश्चैवप्रपूजयेत्। कालोद्भवैरित्याकालिकपुष्पनिषेधः। मंदारैरि तिमंदारार्कयोर्दुर्गायां। तौविहितनिषिद्धावित्यन्ये। ब्रह्मवृक्षःपलाशः। देवीपुराणे—केतकीचातिमुक्तश्च बंधूकबकुलारिपिः(?)। कदंबकर्णिकारश्चसिंधुवारःसमुद्वहः। पुन्नागश्चंपकश्चेवयूथिकावनमल्लिका। तगरार्जुनमल्लीचबृहतीशतपत्रिका। वीराकुसुमकह्लालरबिल्वापाटलमालती। जपाविचकिलाशोकवर्ण नीलोत्पलासिता। पंकजंशतपत्रंचदश्पुण्यवृद्धये। द्रोणपुष्पसमाक्षीरनीलापामार्गपत्रिका। सुरसावर्चरी भद्रासुरभीकणमल्लिका। मदनोमरुपत्रश्चशतधापुण्यवृद्धये। कदंबैरर्चयेद्रात्रौमल्लिकोभयतःशुभा। दिवाशेषाणिपुष्पाणियथालाभंनियोजयेत्। प्रत्येकंमुक्तपुष्पेषुदशसौवर्णिकंफलम्। सन्निबद्धेषुतेष्वेवद्वि गुणं फलमादिशेत्। सुरसा तुलसीविशेषः। सौवर्णेत्वक्षिणीराजन्भगवत्सैप्रयच्छति। गोसहस्रफलं प्राप्यसूर्यलोकेमहीयते। तथासुवर्णतिलकंदुर्गादेव्यैप्रयच्छति। सगच्छतिपरंस्थानंयत्रसापरमाकला। धूपोदेवीपुराणे—धूपंकल्याणनागंतुनित्यंदेव्याःप्रियंनृप। दीपनैवेद्येपूर्वोक्तेएव।

** अथशिवपूजारुद्राक्षादिचतिथितत्वेलेैगे**—विनाभस्मत्रिपुंड्रेणविनारुद्राक्षमालया। पूजितोपि महादेवोनस्यात्तस्यफलप्रदः। तस्मान्मृदापिकर्तन्यंललाटेवैत्रिपुंड्रकम्। कृत्यकल्पद्रुमेउमासंवादे—उच्छिष्टोवाविकर्मस्थःसंलिप्तःसर्वपातकैः। नासौलिप्यतिपापेनरुद्राक्षस्यतुधारणात्। लक्षंतुस्पर्शनेपुण्यं कोटिर्भवतिचालनात्। दशकोटिसहस्राणिधारणाल्लभतेफलम्। रुद्राक्षदेहसंस्थोपिकुक्कुरोम्रियतेयदि। सोपिरुद्रपदंयातिकिंपुनर्मानवोगुरुः। सप्तविंशतिरुद्राक्षमालयादेहसंस्थया। यत्करोतिनरःपुण्यंसर्वं कोटिगुणंभवेत्। हस्तेचोरसिकंठेयःशिरसाचैवधारयेत्। सुरासुराणांसर्वेपांसर्वद्योहियथाशिवः। शिखायां बाहुकंठेचकर्णयोश्चापियोनरः। रुद्राक्षंधारयेद्भक्त्यासशैर्वलोकमाप्नुयात्। नववक्रंचरुद्राक्षंधारयेद्वांमपा

दिवारात्रौचमल्लिका। तथा—मल्लिकामालतीचैवदूर्वाकाशोतिमुक्तकः। पाटलाकरवीरंचजपाजायंतिरे वच। कुब्जकंतगरंचैवकर्णिकारःकुरंटकः। चंषकोवेणिकःकुंदोवालोवर्बरमलिका। अशोकस्तिलको लोध्रस्तथाचैवाटरूपकः। शतपत्राणिचान्यानिवकाह्नंचविशेषतः। अगस्त्यंकिंशुकंतद्वत्पूजायांभास्करस्य तु। तुलसीकालतुलसीतथारक्तंचचंदनम्। केतकीपुष्पपत्रंचसद्यस्तुष्टिकरंरवेः। नकंटकारिकापुष्पंतथा न्यद्गंधवर्जितम्। नचाम्रातकजैःपुष्पैरर्चनीयोदिवाकरः। येषांनप्रतिषेधोस्तिगंधवर्णान्वितानिच। तानिपुष्पाणिदेयानिभानवेलोकभानवे। मुकुरो विचकिलः। अवचयोत्तरंजाती पुष्पं प्रहरपर्यंतंपूजार्हम्। भविष्ये

यथानलंघयेत्कश्चित्स्नपनंभास्करस्यच। तथाकार्यंप्रयत्नेनलंघितंत्वशुभावहम्॥

अथगणेशपूजा गोविंदराजीये भविष्ये–गणेशः पूजनान्नित्यंसर्वविघ्नानपोहति। सर्वान्कामानवाप्नोतिगणेशंपूजयन्नरः। वाराहे

गृहेलिंगद्वयंनार्च्यंगणेशत्रितयंतथा। नर्मदातीर संभूतांस्त्रीन्गृहीनार्चयेत्सुधीः। गृहिग्रहणात्संन्यासिव्रतिनोर्ननिषेधः। अथदुर्गापूजा।टोडरानंदे भविष्यपुराणे—दिग्विभागेषुसर्वेषुकौबेरीदिक्शिवाप्रिया। तस्मात्तन्मुखआसीनःपूजयेत्तुसदांविकाम्। गोविंदराजीये भविष्ये— यःसदापूजयेद्दुर्गीप्रणमेद्वापिभक्तितः। सयोगीसुमतिर्धीमांस्तस्यमुक्तिःकरे स्थिता। आपःक्षीरंकुशाग्राणिअक्षतादधितंदुलाः। सहसिद्धार्थकादूर्वाकुंकुमंरोचनामधुः। अर्घोयंकुरु शार्दूलद्वादशांग उदाहृतः। तथा— नागकेशरकर्पूरंमुरामांसीसवालका। उद्वर्तनसमाख्यातामातॄणां सर्वतःप्रिया। शिवार्चनचंद्रिकायाम्—चंदनागरुकर्पूरकाश्मीरैरोचनान्वितैः। ससिह्लकजटामांसीसटी भिः शक्तिसंभवम्। गंधाष्टकं शुभंवश्यंशक्तिमंत्रेषुयोजयेत्। सिह्लकंशिलारसइतिप्रसिद्धम्॥

अथपुनः पुष्पाणि देवीपुराणे

शृणुशक्रप्रवक्ष्यामिपुष्पाध्यायंसमासतः। ऋतुकालोद्भवैः पुष्पै र्मल्लिकाजातिकुंकुमैः। सितरक्तैश्चकुसुमैस्तथापद्मैश्चपांडुरैः। किंशुकैस्तगरैश्चैवकिंकिरातैः सचंपकैः। बकुलैश्चैवमंदारैःकुंदपुष्पैस्तिरीटकैः। करवीरार्कपुष्पैश्चशांशपैश्चापराजितैः। सितरक्तै

स्तथापीतैःकृष्णैश्चैव तुर्विधैः। धत्तूरकातिमुक्तैश्चबंधूकागस्त्यसंभवैः। मदनैःसिंदुवारैश्चसुरभीरुचकैस्तथा। लताभिर्ब्रह्मवृक्षस्यपुष्पैश्चैवमनोहरैः। मंजरीभिःकुशानांचबिल्वपत्रैःसुशोभितैः। पत्रैःपुष्पैर्यथाला लाभंसर्वोषधिमयैःशुभैः। धान्यानांसर्वपत्रैश्चपुष्पैश्चैवप्रपूजयेत्। कालोद्भवैरित्याकालिकपुष्पनिषेधः। मंदारैरितिमंदारार्कयोर्दुर्गायां। तौविहितनिषिद्धावित्यन्ये। ब्रह्मवृक्षःपलाशः। देवीपुराणे

केतकीचातिमु क्तश्चबंधूकबकुलारिषिः(?)। कदंबःकर्णिकारसिंधुवारःसमुद्वहः। पुन्नागश्चंपकश्चैवयूथिकावनमल्लिका। तगरार्जुनमल्लीचबृहतीशतपत्रिका। चीराकुसुमकह्लारबिल्वपाटलमालती। जपाविचकिलाशोकवर्णनी लोत्पलासिता। पंकजंशतपत्रंचदशधापुण्यवृद्धये। द्रोणपुष्पसमाक्षीरनीलापामार्गपत्रिका। सुरसावर्चरी भद्रासुरभीकणमल्लिका। मदनोमरुपत्रश्चशतधापुण्यवृद्धये। कदंबैरर्चयेद्रात्रौमल्लिकोभयतःशुभा। दिवाशेषाणिपुष्पाणियथालाभंनियोजयेत्। प्रत्येकंमुक्तपुष्पेषुदशसौवर्णिकंफलम्। सन्निबद्धेषुतेष्वेवद्विगु णंफलमादिशेत्। सुरसा तुलसीविशेषः। सौपर्णेत्यक्षिणीराजन्भगवत्यैप्रयच्छति। गोसहस्रफलंप्राप्य सूर्यलोकेमहीयते। तथासुवर्णतिलकंदुर्गादेव्यैप्रयच्छति। सगच्छतिपरंस्थानंयत्रसापरमाकला। धूपोदेवीपुराणे — धूपंकल्याणनागंतुनित्यंदेव्याःप्रियंनृप। दीपनैवेद्येपूर्वोक्तेएव।

अथशिवपूजारुद्राक्षादिपतिधितत्वेलैंगे—विनाभस्मत्रिपुंड्रेणविनारुद्राक्षमालया। पूजितोपिमहा देवोनस्यात्तस्यफलप्रदः। तस्मान्यृदापिकर्तव्यंललाटेबैत्रिपुंड्रकम्। कृत्यकल्पद्रुमेउमासंवादे

उच्छिष्टोवाविकर्मस्थःसंलिप्तःसर्वपातकैः। नासौलिप्यतिपापेनरुद्राक्षस्यतुधारणात्। लक्षंतुस्पर्शने पुण्यंकोटिर्भवतिचालनात्। दशकोटिसहस्राणिधारणाल्लभतेफलम्। रुद्राक्षदेहसंस्थोपिकुक्कुरो म्रियते यदि। सपिरुद्रपदंयातिकिंपुनर्मानवोगुरुः। सप्तविंशतिरुद्राक्षमालयादेहसंस्थया। यत्करोतिनरः पुण्यं सर्वंकोटिगुणंभवेत्। हस्तेचोरसिकंठेयःशिरसाचैवधारयेत्। सुरासुराणांसर्वेपांसर्वद्योहियथाशिवः। शिखा यांबाहुकंठेचकर्णयोश्चापियोनरः। रुद्राक्षंधारयेद्भक्त्यासशैबंलोकमाप्नुयात्। नववक्रंचरुद्राक्षंधारयेद्वाम पा

णिना। चतुर्दशमुखंचैवशिखायांधारयेद्बुधः। निश्छिद्राश्चसुपक्वाश्चरुद्राक्षाधारणेस्मृताः। नववक्रादिभे दाःशिवरहस्यपुरुषार्थप्रबोधेच—बभूवुस्तेचरुद्राक्षाअष्टत्रिंशप्रभेदतः। सूर्यनेत्रसमुद्भूताःकपिलाद्वाद- शस्मृताः। सोमनेत्रोत्थिताःश्वेतास्तेषोडशविधाःक्रमात्। वह्निनेत्रोद्भवाःकृष्णादशभेदाभवंतिहि। श्वेत वर्णंतुरुद्राक्षंजातितोब्राह्ममुच्यते। क्षात्रंरक्तंतथामिश्रंवैश्यंकृष्णंतुशूद्रकम्। एकवक्रःशिवःसाक्षाद्ब्रह्महत्यां व्यपोहति। द्विवक्रेहरगौरीस्यागोवर्धनाशयेद्ध्रुवम्। त्रिवस्त्वनलः साक्षात्स्त्रीहत्यां दहतिक्षणात्। चतुर्वक्रः स्वयंब्रह्मानरहत्यांव्यपोहति। पंचवक्रस्तुकालाग्निःसर्वपापप्रणाशकृत्। षड्वक्रःकार्तिकेयस्तुभ्रूणहत्या दिनाशयेत्। सप्तवक्रस्त्वनंतःस्यात्स्वर्णस्तेयादिपापहृत्। विनायकोष्टवक्रस्तुसर्वाव्रतविनाशकृत्। भैरवो नववक्रस्तुशिवसायुज्यकारकः। दशवक्रःस्मृतोविष्णुर्भूतप्रेतभयापहः। एकादशमुखोरुद्रोनानायज्ञफल प्रदः। द्वादशास्यस्तथादित्यः सर्वरोगनिबर्हणः। त्रयोदशमुखःकामःसर्वकामफलप्रदः। चतुर्दशास्यः श्रीकंठोवंशोद्धारकरःपरः। पंचायतनसारेतिथितत्वेच–विनामंत्रंतुयोधत्तेरुद्राक्षान्भुविमानवः। सयातिनर कान्घोरान्यावदिंद्राचतुर्दश। आचारदर्पणेबोपदेवः—रुद्राक्षान्कंठदेशेदशनपरिमितान्मस्त केविंशतीद्वे षट्षट्कर्णप्रदेशेकरयुगलकृतेद्वादशद्वादशैव। बाह्रोरिंदोःकलाभिर्नयनयुगकृतेएकमेकंशिखायांवक्षस्य ष्टाधिकंयःकलयतिशतकंसस्वयंनीलकंठः। पुरुषार्थप्रबोधे–प्रक्षाल्यगंधतोयेनपंचगव्येनचोपरि। शिवांभ साथप्रक्षाल्यश्रीरुद्रेणाभिषेचयेत्। श्रीरुद्राणांप्रतिष्ठेयमेववैदिकसंमता। तांत्रिकेणप्रतिष्ठासाग्राह्यानोवैदि केनतु। अथवावैदिकमते प्रतिष्ठानैव विद्यते। शिवरहस्ये— पंचामृतंपंचगव्यं सानकाले प्रयोजयेत्। रुद्राक्षस्यप्रतिष्ठायांमंत्रपंचाक्षरंतथा। पंचायतनसारेपाद्मे—शालग्राम शिलालिंगेयःकरोतिममार्चनम्। तेनार्चितःकार्तिकेयोयुगानामेकसप्ततिम्। शूलपाणीलैंगे—वरंप्राणपरित्यागःशिरसोवापिकर्तनम्। नचैवा पूज्यभुंजीतशिवलिंगेमद्देश्वरम्। सूतकेमृतकेचैवनत्याज्यंशिवपूजनम्। भारतेभूर्तावपिशिवपूजोक्ता — ताम्यांलिंगेर्चितोदेवस्त्वर्चायांचयुगे

युगेइति। शिवमूर्तिर्दशभुजापूज्या—पिनाकिनंवज्रिणदीप्तशूलंपरश्वधिनंगदिनंस्वायतासिम्। दिव्यंचापमि षुधीचाददानंव्याघ्राजिनंपरिधिणंदंडपाणिमितिभारतात्। चतुर्भुजेत्यन्ये। त्रियंबकेतिमंत्रंतुतथातत्रप्रयोज येत्। देवीपुराणे —वार्क्षवितप्रदंलिंगंस्फाटिकंसर्वकाभदम्। नर्मदागिरिजंश्रेष्ठमन्यद्वापिहिलिंगवत्। कृत्वापूजयविप्रेंद्रलप्स्यसेचेप्सितंफलम्। तिथितत्वेभविष्ये—तथामलकमात्रंतुकृत्वालिंगंहिरण्मयम्। संपूज्यरत्नजटितंशिवलोकेमहीयते। मृद्भस्मगोशकृत्पिष्टताम्रकांस्यसमुद्भवम्। कृत्वालिंगंसकृत्पूज्यवसे त्कल्पायुतंदिवि काशीखंडेनर्मदेशमाहात्म्ये—यावत्योदृपदःसंतितवरोधसिनर्मदे। तावत्योलिंगरूपि ण्यो भविष्यंतिवरान्मम। भविष्ये—बाण लिंगानिराजेंद्रख्यातानिभुवनत्रये। नप्रतिष्ठानसंस्कारस्तेषामा वाहनंनच। एवमेवप्रपूज्यानिशिवरूपाणिभावतः। कालोत्तरे—त्रिपंचवारंयस्यैवतुलासाम्यंनजायते। तद्बाणंहिसमाख्यातंशेषपापाणसंभवम्। क्रियासारे—लिंगस्यशिवनाभेस्तुनहिपीठप्रकल्पनम्। तदाधार शिलैवस्यात्तस्यपीठमितिस्मृतम्। उत्तममध्यमंचैवाधमंलिंगनिधोच्यते। एष्वेकैकंत्रिधातद्वदुक्तमंगुलि मानतः। नवाष्टसप्तांगुलिकंलिंगंश्रेष्ठंतथास्मृतम्। षट्पंचकचतुर्मानंमध्यमंत्रिविधंस्मृतम्। त्रिद्व्येकां गुलिकर्लिंगंत्रिविधंतुकनीयसम्। उत्तमंबुद्बुदाकारंमध्यमंकुक्कुटांडवत्। अधमंगोककुद्वत्स्यादितिलिं गंत्रिधास्मृतम्। तिथितत्वेकालकौमुद्यांचस्कांदे—अक्षादल्पपरिमाणंनलिंगंकुत्रचिन्नरः। कुर्वीतांगुष्ठतोह्र ,स्वनकदाचित्सगाचरेत्। अंगुष्ठतोंगुष्ठपर्वग्रथेः। अंगुष्ठांगुलिमानंतुयत्रयत्रोपदिश्यते। तत्रतत्रबृहत्पर्वग्रंथि भिर्मिनुयात्सदेतिछंदोगपरिशिष्टादित्युक्तंतिथितत्वेसिद्धांतशेखरे—अंगुलादिवितस्त्यतंलिंगगेहेप्रपूज येत्। प्रासादेतुतदूर्ध्वंस्यात्पूजनीयप्रयत्नतः। लिंगमस्तकविस्तारंपूजाभागसमंनयेत्। नादंतत्त्रिगुणं कुर्यान्नाहवस्पीठविस्तृतिः। विस्तारद्विगुणंकुर्यादुन्नतंपीठमुत्तमम्। वृत्तंवाचतुरस्रंवामध्येकंठसमन्वितं। द्विगुणंलिंगनाहाच्चकंठनादंसभाचरेत्। त्रिमेखलमधश्चोर्ध्वसमंवायद्द्विमेखलम्। लिंगमस्तकविस्तारेष ड्भागं विभजेत्ततः। मेखलामेकभागेनकुर्यात्खातंचतत्स

मम्। लिंगदैर्घ्यसमं कुर्यात्प्रणालंपीठबाह्यतः। विस्तारंतत्समंमूलेतदग्रेचतदर्धतः। जलमार्गःप्रकर्तव्य स्तस्यमध्येत्रिभागतः। कुर्यात्पीठार्धंदीर्घंवाप्रणालंचशिवोदितम्। सर्वेषांरत्नलिंगानांसपीठानांविशेषतः। लौहादीनांचलिंगानामेवंलक्षणमाचरेत्। गौतमीतंत्रेतु—लिंगमस्तकविस्तारोलिंगोच्छ्रायसमोभवेत्। परिधिस्तत्त्रिगुणितस्तद्वत्पीठंव्यवस्थितम्। प्रणालिकातथैवस्यात्पंचसूत्रविनिर्णयः। लिंगमस्तकविस्तार दैर्घ्यलिंगोच्चतेसमे। तद्द्विगुणवेष्टन्नाहंलिंगस्थौल्यम्। तत्समंवृत्तचतुस्रंवापीठमधश्चोर्ध्वंचेतितत्वम्। पीठोच्चतालिंगोच्चताद्विगुणा। नंदिपुराणे—त्रिकोणफलकाकारंशूलाग्रंजर्जरंनतम्। कपिलंचा पियल्लिं गंतद्गृहस्थोनपूजयेत्। तथादीक्षितानांद्विजान्येपांस्त्रीणामपितथैवच। लिंगेस्वगुरुणादत्तेपूजानान्यत्रचो दिता। सूतसंहितायांशिवपूजाविधिंप्रक्रम्य समासीनः सदामौनीनिश्चलोदङ्मुखः शुचिः। सोमशंभुः **—**देवस्यदक्षिणेभागेसन्निविष्टःसुखासने। **ज्ञानरत्नावल्याम्—**नप्राच्यामग्रतःशंभोर्नोत्तरेयोपदाश्रये। नप्रतीच्यांयतःपृष्ठतस्माद्दक्षंसमाश्रयेत्। दक्षंदक्षिणभागं। **तिथितत्वेनंदिपुराणे—**चरलिंगेर्चयेद्देवं पूर्वाभिवदनंबुधः। स्थिरलिंगेयथाकामंसुखमादौतथार्चयेत्। **चंद्रिकायांहारीतः—**आराधयेन्महादेवं भावपूतोमहेश्वरम्। मंत्रेणरुद्रगायत्र्याप्रणवेनाथवापुनः। ऐशानेनाथवारौद्रेत्र्यंबकेणसमाहितः। तथोत्तमः शिवायेतिमंत्रेणानेनवायजेत्।

**बौधायनः—**अथातोमहादेवस्याहरहः परिचर्याविर्धिव्याख्यास्यामः। स्नात्वाशुचौदेशेगोमयेनोपलिप्य प्रतिकृतिंकृत्वाक्षतपुष्पैर्यथालाभमर्चयेत्सहपुष्पोदकेनमहादेवमावाहयेदोंभूर्महादेवमावाहयामि ॐ भुवो- महादेवमावाहयामि ॐ स्वर्महादेवमावाहयामि ॐ भूर्भुवःस्वर्महादेवमावाहयामीत्याबाह्यायातुभगवा न्महादेवइत्यथस्वागतेनाभिनंदद्यतिस्वागतंसुस्वागतंभगवतेमहादेवायैतदासनमुपक्लृप्तमत्रास्त्रांभगवा न्महादेवेइत्यत्रकूर्चंददाति भगवतेयंकूर्चेदर्भमयस्त्रिवृद्धरितःसुपर्णस्तंजपस्वेत्यत्रस्थानासनानिकल्पयत्य ग्रेब्रह्मणेकल्पयामिविष्णवे दक्षिणतः स्कंदाय विनायकाय पश्चिमत शूलायमहाकालाय उत्तरतः उमायै नंदिकेश्वरायकल्पयामीतिकल्पयित्वा सावित्र्या योरुद्रोअग्नावितिचपात्रमभिमंत्र्य प्रक्षाल्यत्रिप

तिरःपवित्रमपआनीय सहपवित्रेणादित्यंदर्शयेदोमित्यातमितोस्तासांत्वरितरुद्रेण पाद्यं दद्यात्प्रणवेनार्घ्य मथव्याहृतिभिर्निर्माल्यंव्यपोह्योत्तरतश्चंडेशायनमइत्यथैनंस्नपयत्यापोहिष्ठामयोभुवइतिति सृभिर्हिरण्य वर्णाः शुचयः पावकाइति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेनाथाद्भिस्तर्पयतिभवंदेवं तर्पयामिशर्वंदेवंईशानदेवंपशुपतिंदेवं रुद्रदेवं उग्र देवं भीमं देवं महांतं देवं तर्पयामि ब्रह्मज्ञानंकेतुं रुद्रायत्वरितरुद्रवामदेव्यमापोवाइदमितिचाभिषेकं कुर्याद्व्याहृतिभिःप्रदक्षिणमुदकंपरिषिच्य ॐ नमो भगवते रुद्रायत्र्यंबकायेति तर्पयित्वाथैतानिवस्त्रयज्ञोपवीतानिदद्याद्भवायदेवायनमइतिव्याहृतिभि र्दत्वान्याहृतिभिःप्रदक्षिणमुदकंपरिषिच्यनमस्तेरुद्रमन्यवइतिगंधंदद्यात्सहस्राणिसहस्रशइति पुष्पंदद्य। त्ईशानंत्वा भुवनानामपिश्रियामित्यक्षतंदद्या त्सावित्र्याधूपमुद्दीप्यस्वेतिदीपंदेवस्यत्वासवितुः प्रसवेश्विनो र्बाहुभ्यां पूष्णोहस्ताभ्यां भगवते महादेवाय जुष्टंचरुंनिवेदयामीतित्रियंबक मितिपरिषेकम मृतोपस्तरणमसीतिप्रतिपदंकृत्वाहविरुद्वासयामीतिनिवेद्याभृतापिधानमसीतिप्रतिपदं कृत्वात्र्यंबकमि- त्याचमनीयमथाष्टभिर्नामधेयैरष्टौपुष्पाणिदद्याद्भवाय देवायनमः। शर्वायदेवायनमः। ईशानायदेवाय नमः। पशुपतयेदेवायनमः। रुद्रायदेवायनमः। उग्रायदेवाय नमः। भीमायदेवायनमः। महतेदेवायनमः। त्रह्मणेनमः। विष्णवेनमः। स्कंदायनमः। विनायकायनमः। शूलायनमः। महाकालाय नमः। उमायैनमः। नंदिकेश्वरा यनमः। इतिचरुशेपेणनामधेयैरष्टाहुतीर्जुहोति। भवायदेवाय स्वाहा। शर्वाय देवाय स्वाहा ।ईशानायदेवायस्वाहा। पशुपतयेदेवाय स्वाहा रुद्रायदेवाय स्वाहा।भीमायदेवाय स्वाहा। महतेदेवायस्वाहेत्यथशिष्टैर्गधमाल्यैर्ब्राह्मणानात्मानंवालंकृत्याथैनमृग्यजुःसामाश्चर्वभिः स्तुवंतिसहस्राणि सहस्रशइत्यनुवाकंजप्त्वाअन्यांश्चरौद्रान्मंत्रान्यथाशक्तीत्येके ॐ भूर्भुवःसुवर्भहरोंभगवतेमहादेवायच- रुमुद्वासयामीतिच रुमुद्वास्योद्वासनकालं ॐ भूर्भुवःस्वः महादेवमुद्वासयामीत्युद्वास्य। प्रयातुभगवानीशः सर्वलोकपरायणः। अनेनहविषातुष्टः पुनरागमनायच। पुनः पुनः संदर्शनायचे तिलिंगेप्रतिमास्थानेष्व- प्स्वग्नावावाहनविसर्जनवर्जंसर्वसमानं महत्स्वस्त्ययनमित्याहभगवान्बौधायनः॥

** शिवपूजायांविशेषो भविष्ये**— आपः क्षीरंकुशाग्राणिदध्यक्षतसितामधु। सिताश्चसर्षपाश्चैवअर्धोष्टांगः प्रकीर्तितः। **तत्रैव—**चंदनेप्यगरौज्ञेयंपुण्यमष्टगुणंनृप। कृष्णागरौविशेषेणद्विगुणंफलमादिशेत्। तस्माच्छ तगुणंपुण्यंकुंकुमस्यविधीयते। चंदनागरुकर्पूरैःसूक्ष्मपिष्टैःसकुंकुमैः। शिवस्यार्चांसमालम्यवसे त्कल्पायुतंदिवि। अर्चेतिलिंगोपलक्षणम्।शिवार्चनचंद्रिकायांभविष्ये केदारखंडे

करवीराद्दशगुण मर्कपुष्पंविशिष्यते। अर्कपुष्पाद्दशगुणंधत्तरंहिविशिष्यते। चंपकंनागपुष्पंचकह्लारंचविशिष्यते। नीलोत्पलंचकह्लारात्सहस्रेणविशिष्यते। वकपत्रसहस्रेभ्यएकंधत्तूरकंवरम्। धत्तूरकसहस्रेभ्योबृहती पुष्पमुत्तमम्। बृहतीपुष्पसाहस्रा द्रोणपुष्पंविशिष्यते। द्रोणपुष्पसहस्रेभ्योपामार्गविशिष्यते। अपामार्ग सहस्रेभ्यः कुशपुष्पंविशिष्यते। कुशपुष्पसहस्रेभ्यः शमीपुष्पंविशिष्यते। शमीपुष्पसहस्रेभ्यः श्रीमन्नीलोत्प लंवरम्। शमीपुष्पबृहत्योश्चकुसुमंतुल्यमुच्यते। अपामार्गः अपामार्गपुष्पं। करवीरसमाज्ञेयाजातीब कुलपाटलाः। श्वेतमंदारकुसुमंसितपद्मंचतत्समम्। नागचंपकपुंनागाधत्तूरकुसमाःस्मृताः। तत्समं करवीरसमम्। नागो नागकेसरः। तथा—

केतकीचातिमुक्तंचकुंदोयूथीमदंतिका। शिरीषसर्जबंधूक कुसुमानिविवर्जयेत्। कुंदंवार्षिकशिवपूजायांमाघेविहितम्। अन्यथानिषिद्धम्। तथा — कदकानिक80दंबा निरात्रौदेयानिशंकरे। दिवाशेषाणिपुष्पाणिदिवारात्रौचमलिका। प्रत्येकमुक्तपुष्पेपुदशसौवर्णिकंफलम्। मंत्रान्वितेषुतेष्वेवद्विगुणंफलमिष्यते। बिल्वपत्रैरखंडैस्तुशंकरं पूजयेत्क्वचित्। सर्वपापविनिर्मुक्तः शिवलोके महीयते। तुलसीबिल्वनिर्गुंडीजंबूराव्रणकंतथा। पंचबिल्वमितिप्रोक्तमर्चयेदिंदुशेखरम्। बृहतीकुं कुभैर्भक्त्यायोलिंगंसकृदर्चयेत्। गवामयुतदानस्यफलंप्राप्यशिवंव्रजेत्। तथा — अशोकश्वेतमंदारकर्णिका रवकानिच। करवीरार्कमंदारशमीतगरकेशरम्। पुष्पैरेतैर्यथालाभंयोनरःपूजयेच्छिवम्। सयत्फलमवा प्नोतितदेकाग्रमनाः शृणु। सूर्यकोटिप्रतीकाशैर्विमानैः सर्वकामिकैः।

दोधूयमानश्चमरैःशिवलोकेमहीयते। करवीरोबकश्चैवअर्कउन्मत्तकस्तथा। पालाशोबृहतीचैवतथाचगिरि कर्णिका। तथाकाशस्यपुष्पाणिमंदारचापराजिता। शमीपुष्पाणिचान्यानिकुंजकःशिखिनातथा। अपामार्गस्तथापद्मजातीपुष्पंसकोपनम्। चंपकोशीरतगरंतथावैनागकेसरम्। पुंनागःकिंकिरातंचद्रो णपुष्पंतथाशुभम्। शिंशपोदुंबरश्चैवजपामल्लीतथैवच। पुष्पाणियज्ञवृक्षस्यतथाबिल्वदलंशुभम्। कुसुंभस्य चपत्राणितथा वैकुंकुमस्यच। नीलंचकुमुदंचैवतथारक्तोत्पलानिच। सुरभीणिचसर्वाणिस्थलजान्यंबुजानिच। गृह्णामिशिरसादेवियोमेभक्त्या निवेदयेत्। केसरोबकुलः। किंकिरातःकुरंटकः। सर्वाणीतिनिषिद्धेतरपरम्। वसंतेतुऋतौप्राप्तेसर्वैः पुष्पैर्मनोरमैः। पूजितेतुमहादेवे अश्वमेधफलंलभेदितिवचनादत्रनिषिद्धैरपिपूजा। सर्वशब्दसंकोचेमानाभावात् निषेधस्यकालांतरे सावकाशत्वाच्च। **देवीपुराणे—**वैशाखेमासिकर्तव्या पूजापाटलयासदा। सर्वान्कामानवाप्नोतिज्येष्ठेपद्मार्चनैःसदा। आषाढेबिल्वकह्लारैरीप्सितंलभतेफलम्। नवमल्लिकयापूजानभोमासिमहाफला। कदंबैश्चंपकैरेवनभस्येसर्वकामदा। पूजापंकजमालत्याइषेप्यु दयदायिनी। शतपत्रिकयापूजाकार्तिकेसर्वकामदा। मार्गेनीलोत्पलैःपूजापौषेतुकुब्जकैःसदा। माघेतु कुदकुसुमैरुचकेनचफाल्गुने। शतपत्रैस्तथाचैत्रेयोर्चयेदिंदुशेखरम्। लभतेसर्वयज्ञानांसर्वदानफलं तथा। केदारखंडे—जातीपुष्पंमल्लिकायाश्चपुष्पंसमोगरंनीलपुष्पंतथैव। तथापुष्पंकुटजंकर्णिकारं कौसुंभाख्यंवारिजंरक्तवर्णम्। एतान्येवचपुष्पाणिमध्याह्नेलिंगपूजने। रात्रौमोगरकान्येव पवित्राणिविशेषतः।

अथधूपः। शिवपुराणे —गुग्गुलंघृतसंयुक्तंशिवेयश्चनिवेदयेत्। रुद्रलोकमवाप्नोतिगाणपत्यंचगच्छति। भविष्ये—दधित्थंघृतसंयुक्तंदग्धबिल्वमथापिवा। अग्निष्टोमंस्ययज्ञस्यफलप्राप्नोति मानवः। दधित्थः कपित्थः। बिल्वंबिल्वफलम्। दीपस्तुपूर्वोक्तएव। आदित्यपुराणे—प्रदक्षिणात्रयकुर्वन्शिवस्यायतनेनरः। अश्वमेध सहस्रस्यइष्टस्यलभते फलम्। बह्वृचपरिशिष्टे—एकांविनायकेदद्याद्द्वेसूर्येत्री

णिशंकरे। चत्वारिकेशवेदद्यात्सप्ताश्वत्थेप्रदक्षिणाः। **बृहन्नारदीये—**एकांचंड्यांरवौसप्ततिस्रोदद्याद्वि नायके। चतस्रः केशवेदद्याच्छिवेत्वर्धप्रदक्षिणम्। पदांतरेपदंन्यस्येत्करौचलनवर्जितौ। स्तुतिर्वाचिहृदि ध्यानंचतुरंगंप्रदक्षिणम्। लैंगे—सव्यंव्रजेत्ततोऽसव्यंप्रणालंनैबलंघयेत्। स्कांदे— प्रदक्षिणंप्रकुर्वीतशत मष्टोत्तरंतथा। बृहन्नारदीये

शिवप्रदक्षिणेमर्त्यःसोमसूत्रनलंघयेत्। **प्रदक्षिणाप्रकारस्तु—वृषंचंडं बृषचैवसोमसूत्रंपुनर्बृषम्।चंडंचसोमसूत्रंचपुनश्चडंपुनर्बृम्। प्रतिष्ठाहेमाद्रौ—प्राच्यांनंदिमहाकालौयाम्ये भृंगिविनायकौ। वारुणेबृषभस्कंदौदेवीचंडौतथोत्तरे। त्रैविक्रम्यांत्वीशान्यांचंडउक्तः। तत्रैव बाणलिंगेचलेलौहेसिद्धलिंगेस्वयंभुवि। प्रतिमासुसर्वासुनचंडोऽधिकृतोभवेत्। आदित्यपुराणे— लिंगे स्वायंभुवेचैवरत्नेतैजसनिर्मिते। सिद्धप्रतिष्ठितेचैवनचंडोधिकृतोभवेत्। तथा—**अपसव्यंयतिःकुर्यात्स व्यंतुब्रह्मचारिणः। सव्यापसव्यंगृहिणोनित्यंशंभोःप्रदक्षिणम्। तृणैःकाष्ठैस्तथापर्णैः पाषाणैर्वेष्टकादिभिः। अंतर्धानंपुरःकृत्वासोमसूत्रंतुलंघयेत्। तत्प्रमाणंतत्रैव— प्रासादविस्तारसमानसूत्रं सोमस्यसूत्रे दिशिसोमसूत्रम्। सूत्राद्बहिर्लघनतोनदोषः स्याद्दोषआभ्यंतरलंघनेन। शिल्पशास्त्रे— लिंगमस्तक मध्यात्तुसूत्रंस्यादाप्रणालकम्। लिंगप्रणालीपुष्टत्वंतावदेवप्रकीर्तितम्। विशेपांतरंतत्रैव— सोमसूत्रद्वयंय त्रयत्रवाविष्णुमंदिरम्। अपसव्यंनकुर्वीतकुर्वीतैवप्रदक्षिणम्। केदारखंडे—बृषभांतरितोभूत्वापीठ कांतरमेवच। प्रदक्षिणंनकुर्वीतकुर्वन्किल्विषमाप्नुयात्। कालिकापुराणे—स्पृष्ट्वारुद्रस्यनिर्माल्यंसवा साआलुतःशुचिः। इदमशुचिविषयम्। निर्माल्ययोहिमद्भक्त्याशिरसाधारयिष्यति। अशुचिर्भिन्नमर्यादोनरः पापसमन्वितः। नरकेपच्यतेघोरेतिर्यग्योनौ चसंभवेदितिस्कांदादितिश्रीदत्तःअपास्तएवायंदोषः स्कांदे—शिवनिर्माल्यभोक्तारःशिवनिर्माल्यलंघकाः। शिवनिर्माल्यदातारःस्पर्शस्तेपांहिपुण्यहृत्। शिवैकभक्ता नांननिषेधः। पादोदकंचनिर्माल्यंभक्तैर्धार्येविशेषतइत्यग्निपुराणात् निर्माल्यंधारयेद्भक्त्याशिरसापार्व तीपतेः। राजसूयस्ययज्ञस्यफलंप्राप्नोतिनिश्चितमित्यादित्यपुराणाच्च

लोभात्तुनधार्यम्। लोभान्नाधरयेच्छंभोर्निर्माल्यंनचभक्षयेत्। नस्पृशेदपिपादेनलंघयेन्नापिनारदेतिपाद्मात्अग्निपुराणे —बाणलिंगेचलेलौहेसिद्धलिंगेस्वयंभुवि। प्रतिमासुसर्वासुनदोषोमाल्यधारणे। शालग्राम संसर्गेतुनदोषः। अग्राह्यशिवनिर्माल्यंपत्रपुष्पंफलंजलम्। शालग्रामस्यसंसर्गात्मर्वंयातिपवित्र तामि तिस्कांदवाराहोक्तेःअस्यार्थः

पंचायतनपूजायांकांडानुसमयपदार्थानुसमयौविहायसहैवपंचानांपू जनेशालग्रामसंसर्गाच्छिवनैवेद्यंभक्ष्यम्। यदाशिवेनैवेद्यंपृथक्तदानभक्ष्यमिति॥

अत्रपुरुषार्थप्रवोधेचतुर्धाव्यवस्थोक्ता—

द्विजानांनिषेधोद्विजानांविधिरित्याद्या। वैदिकतांत्रिकविष येत्यन्या। दीक्षितादीक्षितवियेपतितृतीया। ततः सिद्धांतकृतः**—**

ज्योतिलिंगविना लिंगंयः पूजयतिमानवः। तस्यनैवेद्यनिर्माल्यभक्षणात्तप्तकृच्छ्रकम्। शालग्रामोद्भवेलिंगेबाणलिंगेस्वयभुवि। रसलिंगेतथार्षेचसुरसि द्वप्रतिष्ठिते। हृदयेचंद्रकांतेचस्वर्णरूप्यादिनिर्मिते। शिवदीक्षावताभक्तेनेदंभक्ष्यमितीर्यते। इतिभवि ष्योक्तेः। तथा**—**

बाणलिंगेस्वयंभूतेचंद्रकांतेहृदिस्थिते। चांद्रायणसमज्ञेयंशंभोर्नैवेद्यभक्षणम्। यत्रचंडाधि कारोस्तिनभोक्तव्यंचमानवैः। चंडाधिकारोनोयनभोक्तव्यंतत्रभक्तितइतितत्रैवोक्तेः।

निवेदितंयद्देवे शेतच्छेपंचात्मशुद्धये। श्रद्दधानोनलोभेनचंडाह्यनिवेदितमितिवायुपुराणाच्च

येवीरभद्रशपिताः शिव भक्तिपराङ्मुखाः। शंभोरन्यत्रदेवेषुयेभक्तायेनदीक्षिताः। तेषामनर्हमीशस्यतत्प्रसादचतुष्टयमिति शिवपुराणाच्चसामान्यविधिरेतत्परएव। एतैर्विशेषवाक्यैरुपसंहारात्, अन्यथानिषेधानांनिरवकाश त्वापत्तेः। यत्तुशिवनिर्माल्यस्पर्शेप्रायश्चित्तं तदेतदन्यपरम्। यत्तुशिवनैवेद्यभक्षणादेः काम्यत्वात्तत्सकल शिवस्वभक्षणादिनिषेधवाधकत्वमिति तत्रपूर्वोक्तव्यवस्थासंभवात् फलरहितविधिसद्भावाच्चेतिश्रीभट्ट नारायणचरणाःसिद्धांतशेखरे — धराहिरण्यगोरत्नताम्ररौप्यांशुकादिकान्। विहायशेषनिर्माल्यं चंडेशायनिवेदयेत्। अन्यदन्नादिपानीयंतांबूलंगंधपुष्पकम्। दद्याच्चडायनिर्माल्य शिवमुक्तं सर्वशः। आचार्यशिवचंडानामाज्ञाभगेतुलक्षकम्।

धनस्यभक्षणेतेषांपादोनंलक्षमीरितम्। निर्माल्येभक्षितेपादलक्षतः शुद्धिरीरिता। दानंचभक्षणसमंतदर्धतदु पेक्षणे। अकामाद्भक्षणेयद्वानिर्माल्यस्यजपेत्सुधीः। ब्रह्मपंचकसाहस्रमर्थेनसहितंततः। कामतोभक्षणे दीक्षाप्रायश्चित्तंनचान्यतः। निर्माल्यलंघनेघोरंप्रजपेदयुतं ततः। स्पर्शश्चविक्रयसमोविक्रयोभक्षणेनच। स्मृत्यर्थसारे—

शैक्सौरनिर्माल्यभक्षणेचांद्रम्।अभ्यासेद्विगुणम्। मत्याभ्यासेपतनम्। अन्यनिर्माल्येप्य नापद्येवमिति। अत्र**—**

ब्रह्महापिशुचिर्भूत्वानिर्माल्यंयस्तुधारयेत्। तस्यपापं महच्छीघ्रंनाशयिष्येमहाव्रते तिस्कांदादशुचिनानधार्यं किंतुस्नात्वेतिस्मार्ताः। अनुपनीतेननधार्यमितिश्रीदत्तः। शिवदीक्षाहीनैर्न धार्यमितिशैवाःमाघमाहात्म्येपाद्मे—

द्रव्यमन्नंफलंतोयं शिवस्वं न स्पृशेत्क्वचित्। निर्माल्यंलंघयेन्नैव कूपेसर्वंतुतत्क्षिपेत्। हरनाथीयेस्मृत्यर्थसारे—

ब्रह्मांगलग्नंविप्रेभ्योविष्णवेचप्रदीयते। रुद्रांगलग्नौचदहेत्सर्वं तुतत्क्षणात्। विप्रेभ्यस्त्वथतदेयंब्रह्मणेयन्निवेदितम्। वैष्णवंसात्वतेभ्यश्चभस्मांगेभ्यश्चशांभवम्। सौरमृगेभ्यः शाक्येभ्यस्तापिने81यन्निवेदितम्। वाडवेभ्यस्तु82तद्देयंगणेशायनिवेदितम्। भूतप्रेतपिशाचेभ्योयत्तद्दीनेषुनिक्षिपेत्। मृगः शाकद्वीपीयोब्राह्मणइतिपंचायतनसारःविष्णुः—

देव्यैनिवेदितंकुमार्यै। विष्णवेनिवेदितंसात्वताय ब्राह्मणायवेति। सात्वतोदेवलकः। पुराणे—

नैवेद्यप्रतिपत्त्यर्थंसात्वतश्चेन्नलभ्यते। ग्रासमात्रं समुद्धृत्यजलेग्नोवा क्षिपेदिति। यद्वासात्वतप्रतिपत्तिः साधारणप्रतिमादत्तपरा, सात्वतपूज्यदेवतादत्तपरावा। यद्योनिरत्तिनैवेद्यंदा तुश्चानवधानतः। दातातद्योनिमाप्नोतितस्माद्देयंतदुत्तमेइतिविष्णुरहस्योक्तेः उत्तमपदंहीनान्यपरम्। तेनोत्तमजातिनिवेदितंनीचजातिभ्यो नदद्यादित्यर्थइति पंचायतनसारः। वस्तुतस्तुसात्वतपदंभक्तपरम्। निवेदितंतद्भक्तायदद्याद्भुंजीतवास्वयमितिमहापुराणात्। सर्वमेतत्साधारणस्थावरप्रतिमादत्तपरं राग प्राप्तपरं वेति गोविंदराजः। अतएवजाबालोपनिषदि — रुद्रभुक्तंभुंजीयादित्युपक्रम्य तस्माद्ब्राह्मणाः

शिवनिर्माल्यंभक्षयंतीत्युक्तम्। अत्रब्राह्मण83ग्रहात्तदन्यस्यनिषेधः। अतएवपाद्मे—शिवस्यैवतुपूजापिभ- क्त्या धेयाद्विजातिभिः। विष्णुनैवेद्यभक्षणमुक्तं गारुडे— पादोदकपिबेन्नित्यंनैवेद्यभक्षयेद्धरेः। पाद्मे गौरींप्रतिशिवः**—** अग्निष्टोमसहस्रैश्चवाजपेयशतैरपि। तत्फलंलभतेदेवि विष्णोर्नैवेद्यमक्षणात्। कौर्मे**—**मध्याह्नेविधिवत्पूज्यः श्रीविष्णुर्वैष्णवोत्तमैः। नैवेद्यंशिरसानत्वाश्लोकमेतमुदीरयेत् \। यस्योच्छिष्टंहिवांच्छंति ग्रह्याद्याऋषयोऽमलाः। सिद्धाद्याश्चहरेस्तस्यवयमुच्छिष्टभोजिनः। इति।

अथविष्णुपूजा। तदाधारश्चनरसिंहे —— अप्स्वग्नौहृदयेसूर्येस्थंडिलेप्रतिमासुच। षट्स्वेतेहरेः सम्य क्पूजनंमुनिभिः स्मृतम्। सम्यगितिषण्णांप्राशस्त्यम्। एतच्चाधारपरिगणनं नारसिंहेवक्ष्यमाणपूजाद्वये अर्चनंबक्ष्यामीत्युपक्रम्य तयोरेवोक्तत्वात्। वाराहे— कुड्मेलेस्येचमेकश्चित्पटेकश्चित्तमानवः। पूजयेद्य दिवाचक्रेममतेर्जाौशमंभवम्। चक्रेशालग्रामशिलाचक्रे। तथा **—**पद्मसंपूजनंशस्तंशस्तंचैवतुस्थंडिले। सर्वत्रसंप्रतिष्ठामिपूजामग्नस्त्वहंततः। पाद्मे **—**कृत्वाताम्रमयेपात्रेयोर्चयेन्मधुसूदनम्। फलमाप्नोतिपूजायाः प्रत्यहंशतवार्षिकम्। आधारविशेषेविधिविशेषमाह— हविषाग्नौजलेपुष्पैर्मनसारविमंडले। ध्यानेन हृदयेबाह्यैर्गधाद्यैःस्थंडिलादिषु। **शौनकः—**उत्तमाहरिपूजाप्सुमध्यमाथंडिलेवौ। अधमाप्रतिमादौतुपूजा सात्रिविधामता। **भागवते—**सूर्योग्निब्राह्मणागावोवैष्णवःस्वमरुज्जलम्। भूरात्मासवैभूतानिभद्रपूजाप दानिमे। सूर्येतुविद्ययात्रय्याहविषाग्नौयजेतमाम्। आतिथ्येनचविप्राग्र्येगोष्वंगयवसादिना। वैष्णवेबंधुसत्कृ त्याहृदिस्वेध्याननिष्ठया। स्थंडिलेमत्रहृदयैर्भोगैरात्मानमात्मनि। क्षेत्रज्ञंसर्वभूतेषुसमत्वेनयजेतमाम्। **पाद्मे —**अग्निहोत्रंहुतंतेनदत्तापृथ्वीससागरा। येनार्चि तोहरिश्चक्रेशालग्रामसमुद्भवे। शालग्रामशिलारूपीयत्र तिष्ठतिकेशवः। तत्रदेवाःसुरायक्षाभुवनानिचतुर्दश। शालग्रामसमीपेतुकोशमात्रंसमं

ततः। कीटकोपिमृतोयातितद्विष्णोःपरमंपदम्। मनोधृतिर्धारणास्यात्समाधिर्ब्रह्मणिस्थितिः। अमूर्तीचेत्स्थि रानस्यात्ततोमूर्तिविचिंतयेत्। चतुर्विंशतिमूर्तिःसाच्छालिग्रामशिलास्थितः। द्वारकादिशिलासंस्थोध्येयः पूज्योथवाहरिः। तत्रैव— मौक्तिकंचप्रवालंचपद्माक्षंतुलसीमणीन्। जपपूजनवेलायांधारयेद्यःसवैदिकः।इति।

अथकेशवादिचतुर्विंशतिमूर्तयः। तत्र बोपदेवः—केविगोवादापुहृपेप्रजाच्युकुममात्रिना।वाधो नृहसानिश्रीपशाच्चगेविगचपे। अस्यार्थः— केशव विष्णुगोविंदवामनदामोदरपुरुषोत्तमहृषीकेशउपेंद्र प्रद्युम्नजनार्दनाच्युतकृष्णमधुसूदनमाधवत्रिविक्रमनारायणवासुदेवाधोक्षजनृसिंहहरिसंकर्षणानिरुद्धश्री- धरपद्मनाभानां क्रमेणमूर्तयोभिधीयते। तत्रकेशवे शात्शंखात् चगेचक्रगदेइत्यर्थः। शिष्टेभुजेपद्ममर्था त्सिद्धम्। इदंदक्षिणोर्ध्वकरप्रभृतिप्रादक्षिण्येनज्ञेयम्। दक्षिणोर्ध्वकरक्रमादितिहेमाद्रिवचनात्। तथा च दक्षिणोर्ध्वभुजेशंखः। वामोर्ध्वभुजेचक्रं वामाधोहस्तेगदा दक्षिणाधःपद्मम्। विष्णौवामोर्ध्वप्रभृतिशंखचक्र गदापद्मानि। गोविंदेवामाधः प्रभृतिशंखचक्रगदापद्मानि। वामनेदक्षिणाधः प्रभृतिशंखचक्रगदापद्मानि विपरीतंगचेइत्यर्थः। दामोदरेदक्षिणोर्ध्वप्रभृतिशंखगदाचक्रपद्मानि। दक्षिणोर्ध्वपांचजन्यमधस्तात्तुकुशे शयं। स व्योर्ध्वेकौमुदीदेवीहेतिराजमधःस्थितम्। अनिरुद्धस्य भेदोयंदामोदरइतिस्मृतइति हयशीर्ष पंचरात्रात्। पुरुषोत्तमेवामोर्ध्वप्रभृतितानि। हृषीकेशेवामापःप्रभृतितानि। उपेंद्रदक्षिणाधःप्रभृतितानि। शात्गपेगदापद्मइत्यर्थः। शिष्टेचक्रमर्थात्। प्रद्युम्नेदक्षिणोर्ध्वप्रभृतिशंखगदा चक्रपद्मानि। जनार्दनेवामो र्ध्वप्रभृतितानि।अच्युतेवामाधःप्रभृतितानि। कृष्णेदक्षिणाधःप्रभृतितानि। विपरीतंपगेइत्यर्थः। दक्षिणोपरिशंखंचचक्रंचाधःप्रदृश्यते। वामोर्ध्वेपंकजंयस्यगदाचाधोच्यवस्थिता। मधुसूदननामायंभेदः संकर्षणस्यचेतिहयशीर्षपंचरात्रात्। मधुसूदनेदक्षिणोर्ध्वप्रभृतिशंखपद्मगदाचक्राणि। माधवेवामोर्ध्व प्रभृतितानि। नारायणेदक्षिणाधः प्रभृतितानि। शात्चपे चक्रपइत्यर्थः शिष्टेगदा

ऽर्थात्। वासुदेवेदक्षिणोर्ध्वप्रभृतिशंखचक्रपद्मगदाः। अधोक्षजेवामोर्ध्वप्रभृतितानि। नृसिंहेवामाधःप्रभृति तानि। हरौदक्षिणाधःप्रभृतितानि। विपरीतंपचेइत्यर्थः। संकर्षणोगदाशंखपद्मचक्रधरःस्मृतः। एताश्चमूर्त योज्ञेयादक्षिणाधःकरक्रमादितिसिद्धार्थसंहितोक्तेः। संकर्षणेदक्षि णोर्ध्वप्रभृतिशंखपद्मचक्रगदाः। अनिरुद्धेवामोर्ध्वप्रभृतिताः। श्रीधरेवामाधःप्रभृतिताः। पद्मनाभेदक्षिणाधः प्रभृतिताः। अत्रमूलंहेमाद्रि काशीखंडशिवार्चनचंद्रिकादौज्ञेयम्। **वाराहे—**शक्तित्रयंमत्स्यकूर्मवराहदशकंनच। अर्च्यमितिपूर्वे णसंबंधः।

पंचायतनपूजासारेपाद्मे –स्वमंत्रेणबुधैःपूज्यःस्वकैर्ध्यानैःस्वमुद्रया। शालग्रामेनायंनियमइत्यु क्तंस्कांदे —पूज्यानिजनिजैरेवमंत्रैः स्वस्वष्टमूर्तयः। शालग्रामात्मकेरूपेनियमोनैवविद्यते। भारते– यामेवदेवतामिच्छेदाराधयितुमव्ययाम्। सर्वोपायैः प्रयत्नेनसंपूजयतुसद्विजान् लैंगे— शालग्रामशिलाग्रे तुयच्छ्राद्धंक्रियतेनृभिः। तस्यब्रह्मांतिकस्थानंतृप्ताश्चपितरोदिवि। पाद्मे— स्कंधेकृत्वातुयोध्वानंवहतेशिल नायकम्। तेनव्यूढंभवेत्सर्वंत्रैलोक्यंसचराचरम्। कृतार्चनाहरेर्येनपित्रर्थंमुनिसत्तम। गयायांपिडदानंतुकृतं तेनपदेपदे। यमुद्दिश्यहरेः पूजाक्रियतेमुनिसत्तम। उद्धृतोनरकाद्दुःखात्सयातिपरमंपदम्। पित्रर्थमपिक्रियमाणाविष्णुपूजासव्येनैव एकादशाहशय्यादिदानवत्। स्कांदे—शालग्रामनमस्कारः शाठ्येनापीहयैःकृतः। मद्भक्ताअपितेनैवमांनमस्यंतुमानवाः। हलायुधेपाद्मे—अपिपापसमाचाराः कर्मण्यनधिकारिणः। शालग्रामार्चकावैश्यनैवयांतियमालयम्। शालग्रामोद्भवंदृष्ट्वान्यस्तंहृदिजनाधिप। नैवेक्षितुंशक्नुवंतिसर्वेतेयमकिंकराः। हयग्रीवपंचरात्रे—चांडालमद्यपस्पर्शदूपितावह्निनाथवा। अपुण्य जनसंस्पृष्टाविप्रक्षतजदूपिता। पुनःसंस्कार्येतिशेषः। पुनःसंस्कारःशालग्रामस्यमहापूजेतिशिष्टाः। पदार्था दर्शब्राह्मे—खंडितेस्फुटितेदग्धेभ्रष्टेमानविवर्जिते। यागहीनेपशुस्पृष्ठेपतितेदुष्टभूमिषु। अन्यमंत्रर्चितेचैव पतितस्पर्शदूषिते। दशस्वतेषुनोच84कुः संनिधानंदिवौकसः। यागःपूजा। पशुर्गर्दभादिः। अर्चामंगादा वुपवासःकार्यः। नराज्ञोवैष्णवेश्नीयात्सुराचविप्लवेतथेतिवि

ष्णुधर्मोक्तेः। **सिद्धांतशेखरे—**चौरचांडालपतितोदक्यादेःस्पर्शनेसति। शवाद्युपहतेचैवप्रतिष्ठांपुनरा चरेत्। पंचरात्रे—अंगादंगादिसंघातेप्रतिष्ठांपुनराचरेत्। पूजाभावेविशेषमाहृबौधायनः— पूर्वप्रतिष्ठित स्याबुद्धिपूर्वकमेकरात्रंद्विरात्रमेकमासंवार्चनादिविच्छेदे शूद्ररजस्वलाद्युपस्पर्शेजलेऽधिवास्य श्रोभूतेद्वौ कलशावधिवास्यैकंपंचगव्येनपूरयेदपरंशुद्धोदकेनाथस्नपयेदष्टशतमष्टाविंशतिंवाकलशैः पुरुषसूक्ते न मूलमंत्रेणच ततःपुष्पाणिदत्वायथासंभवंसंपूज्यगुडौदनंनिवेदयेद्बुद्धिपूर्वमर्चनादिविच्छेदेप्येवमिति। शालग्रामस्थावरव्यावृत्त्यर्थंपूर्वप्रतिष्ठितस्येत्युक्तम्। बुद्धिपूर्वविच्छेदेपुनःप्रतिष्ठा— द्रव्यवत्कृतशौचानां देवतानांभूयःप्रतिष्ठापनेनशुद्धिरितिशुद्धिविवेकेविष्णूक्तेरितिकेचित्। तन्न। तत्रापिबौधायनोक्तविधि सत्वात्। विष्णूक्तिस्तुमद्यादिस्पर्शपरा मासद्वयाधिकविच्छेदपरावा। अर्चादिपदंलिंगस्याप्युपलक्षणम्॥ **चंद्रिकायांनारदः—**शृण्वंतुमुनयःसम्यक्पुरुषोत्तमपूजनम्। स्नात्वायथोक्तविधिनाप्राङ्मुखः शुद्धमानसः। स्वशाखोक्तक्रियांकृत्याहुत्वाचैवाग्निहोत्रकम्। कुर्यादाराधनंविष्णोर्देवदेवस्यचक्रिणः। बौधायनः **—**अथातोमहापुरुषस्यपरिचर्याविधिंव्याख्यास्यामः। स्नात्वाशुधिःशुचौदेशेगोमयेनोपलिप्य प्रतिकृतिंकृत्वा क्षतपुष्पैर्यथालाभमर्चयेत् सहपुण्योदकेनमहापुरुषमावाहयेदोंभूः पुरुषमावाहयामि। ॐ भुवः पुरुषमावाहयामि। ॐ स्वः पुरुषमावाहयामि। ॐ भूर्भुवः स्वः पुरुषमावाहयामीत्याबाह्या। आयातुभगवान्महापुरुषइत्यथस्वागतेनाभिनंदयति स्वागतमनुचागतं भगवतेमहापुरुषायैतदासन मुपक्लृप्तमत्रास्तांभगवान्महापुरुषइत्यत्र कूर्चंददातिभगवतेयं कूर्योदर्भमय स्त्रिवृद्धरितस्तं जुषस्वेत्यत्रस्थानासनानिकल्पयति अग्रतः शंखायकल्पयामि चक्रायदक्षिणतो गदायैक० वनमालायैक० पश्चिमतः श्रीवत्सायगरुत्मते। उत्तरतः श्रियैसरस्वत्यै पुष्ट्यैतुष्टयै। अथसावित्र्यापात्रमभिमंत्र्यप्रक्षाल्य त्रिरपःपवित्रमानीयसहपवित्रेणादित्यंदर्शयेदोमित्यादितस्तासांत्रीणिपदाविचक्रमेइतिपाद्यंप्रणवेनार्घ्यंमहाव्याहृतिभिर्निर्माल्यं व्यपोह्योत्तरतोविष्वक्सेनायनमइत्यथैनंस्नपयत्यापोहिष्ठे।

तितिसृभिर्ब्रह्मजज्ञानंवामदेव्यर्चायज्ञःपवित्रेणेत्येताभिःषङ्गिःस्नपयित्वाद्भिस्तर्पयति। केशवंतर्पयामि नारा- यणं माधवं गोविंदं विष्णुं मधुसूदनं त्रिविक्रमं वामनं श्रीधरं हृषीकेशं पद्मनाभं दामोदरं। इत्यथैतानिवस्त्रयज्ञोपवीताचमनीयान्युदकेनव्याहृतिभिर्दत्वाव्याहृतिभिःप्रदक्षिणमुदकंपरिषिच्येदंविष्णु- रितिगंधंतद्विष्णोरितिपुष्पंइरावतीत्यक्षताःसावित्र्याधूपमुद्दीप्यस्वेतिदीपंदेवस्यत्वाहस्ताभ्यांभगवते महा पु रुषायजुष्टंचरुंनिवेदयामीतिनैवेद्यं। अथकेशवादिद्वादशनामभिर्नमोन्तैःपुष्पाणिदत्वा शंखायनमश्चक्राय नमोवनमालायैनमःश्रीवत्मायनमोगरुत्मतेनमःश्रियैनमःसरस्वत्यैनमः पुष्ट्यैनमस्तुष्ट्यैनमोऽथशिष्टैर्गंध माल्यैर्ब्राह्मणान्स्वमात्मानंचालंकृत्यैनमृग्यजुःसामाथर्वभिःस्तु तिभिःस्तुवंति। ध्रुवसूक्तं पुरुषसूक्तंचान्यांश्च वैष्णवमंत्रानित्येके ॐ भूर्भुवः सुवर्महरोंभगवतेमहापुरुषायचरुमुद्वासयामीतिचरूद्वासनकाले ॐ भूः पुरुषमुद्वासयामि ॐ भुवःपुरुषमुद्वासयामि ॐ सुवःपुरुषमुद्वासयामि ॐ भूर्भुवःसुवः पुरुषमुद्वासयामीत्युद्वास्य। प्रयातुभगवान्महापुरुषोनेनहविपातृप्तोहरिः पुनरागमनायपुनःसंदर्शनाय चेतिप्रतिमास्थानेष्वग्नावावाहनविसर्जनेयाग्नावावाहनविसर्जनवर्जंसमानं महत्स्वस्त्यथानमित्याहभगवा न्बौधायनः। ध्यानमुक्तंचंद्रिकायांनारसिंहे—

ध्येयःसदासवितृमंडलमध्यवर्तीनारायणःसरसिजासन संनिविष्टः ।केयूरवान्मकरकुंडलवान्किरीटीहारीहिरण्मयवषुर्धृतशंखचक्रः। शिवार्चन चंद्रिकायाम् — ह्रीवेरचंदनंकुष्टमगरुंकुंकुमंसुरम्। सेव्यकंचजटामांसीवैष्णवं तदुदीरितम्। ह्रीवेरंवालकम्। मुरंमोरहरी तिप्रसिद्धम्। अथपुष्पाणि—

चंद्रिकामदनपारिजातयोर्नारसिंहे—

दशदत्वासुवर्णानियत्फलंलभ तेनरः। तत्फलंलभतेविष्णोर्द्रोणपुष्पप्रदानतः। द्रोणपुष्पसहस्रेभ्यःखादिरंपुष्पमुत्तमम्। खादिरात्पुष्पसाह स्राच्छमीपुष्पंविशिष्यते। शमीपुष्पसहस्राद्विबिल्वपत्रंविशिष्यते। बिल्वपत्रसहस्राद्भिवकुलंपुष्पमुत्तमम्। बकुलात्पुष्पसाहस्रान्नंद्यावर्तंविशिष्यते। नंद्यावर्तसहस्रेभ्यः करवीरविशिष्यते। करवीरसहस्रेभ्यः पालाशं पुष्पमुत्तमम्। पालाशपुष्पसाहस्रात्कुशपुष्पंविशिष्यते। कुशपुष्पसहस्राद्भिवनमाला

विशिष्यते। वनमालासहस्राद्धिचंपकापुष्पमुत्तमम्। चंपकापुष्पसाहस्रादशोकंपुष्पमुत्तमम्। अशोकपुष्प साहस्रात्सेवंतीपुष्पमुत्तमम्। सेवंतीपुणसाहसाद्गोजुकापुष्पमुत्तमम्। गोजुकापुष्पसाहस्रान्मालतीपुष्प मुत्तमम्। मालतीपुष्पसाहस्रात्संध्यारक्तंतुपुष्पकम्। संध्यारक्तसहस्राद्धिकुंदपुष्पंविशिष्यते। कुंदपुष्प सहस्राद्धिशतपत्रंविशिष्यते। शतपुष्पसहस्राद्धिमल्लिकापुष्पमुत्तमम्। मल्लिकापुष्पसाहस्राज्जातीपुष्पं विशिष्यते। जातीपुष्पसहस्रेणयोमालांसंप्रयच्छति। विष्णवेविधिवद्भक्त्यातस्यपुण्यफलंशृणु। कल्पकोटि सहस्राणि कल्प कोटिशतानिच। वसेद्विष्णुपुरे85श्रीमान्विष्णुतुल्यपराक्रमः। इति।

अधद्वात्रिंशदपराधाः। वाराहे— भुक्त्वातुपरकीयान्नंतत्परस्तन्निवर्तकः। प्रथमश्चापरा धोयंधर्मविघ्नायजायते १ अभुक्त्वादंतकाष्ठंच यस्तुमामुपसर्पति। अपराधोद्वितीयोयंधर्मविघ्नायजायते २ कृत्वामैथुनसंयोगंयस्तुमांस्पृशतेनरः। तृतीयमपरार्धतंकल्पयामिवसुंधरे ३ स्पृष्ट्वारजखलांनारीमस्ना त्वायःप्रपद्यते। चतुर्थमपराधतंकल्पयामिवसुंधरे ४ स्पृष्ट्वातुमृतकंचैवअसत्कारकृतंतुवै। पंचमंचापराधंतं नक्षमामिवसुंधरे ५ स्पृष्ट्वातुमृतकंयश्चनाचम्यस्पृशतेहिमाम्। षष्ठंतंचापराधंवैकल्पयामिवसुंधरे ६ ममा र्चनस्यकालेतुपुरीपंयस्यगच्छति। सप्तमंचापराधंतंकल्पयामिवसुंधरे ७ त्यक्त्वातुममशास्त्राणिवाक्य मन्यत्प्रभाषते। अष्टमंचापराधंवैकल्पयामिवसुंधरे ८ ममैवार्चनकालेतुयस्त्वसत्यंप्रभाषते। नवमंचापराधं तंकल्पयामिवसुंधरे ९ अविधानेनमांस्पृश्यमामेवप्रतिपद्यते। दशमश्चपराधोयंममचाप्रियकारकः १० सक्रोधोमेस्पृशेद्गात्रचित्तंकृत्वाचलाचलम्। एकादशंचापराधंनसहिष्येवसुंधरे ११ अकर्मण्यानिपुष्पाणियस्तु मामुपकल्पयेत्। द्वादशंचापराधतंकल्पयाभिवसुंधरे १२ यस्तुरक्तेनवस्त्रेणकौसुंभेनोपगच्छति। त्रयोदशचापराधंकल्पयामिवसुंधरे १३ अंधकारेतुमादेवियः स्पृशेतकदाचन। चतुर्दशं चापराधंकल्पयामि

वसुंधरे १४ यस्तुकृष्णेनवस्त्रेणममकर्माणिकारयेत्। पंचदशापरार्धतंकल्पयामिवसुंधरे १५ अधौतेनच वस्त्रेणयस्तुमामुपसर्पति। षोडशंखपराधं तंकल्पयामिवसुंधरे १६ स्वयमन्नंचयोदद्यादज्ञानायचमाधवि। सप्तदशापराधंतंकल्पयामिवसुंधरे १७ यस्तुमत्स्यांश्चमांसानिभक्षयित्वोपसर्पति। अष्टादशापराधंतंकल्प यामिवसुंधरे १८ जालपादभक्षयित्वायस्तुमांप्रतिपद्यते। ऊनविंशापराधंतंकल्पयामिवसुंधरे १९ दीपं स्पृष्ट्वातुयोदेविममकर्माणिकारयेत्। विंशकंचापराधंतंकल्पयामिवसुंधरे २० श्मशानंयस्तुवैगत्वामामे वप्रतिपद्यते। एकविंशापराधंतंकल्पयामिवसुंधरे २१ पिण्याकं भक्षयित्वातुयोमामेवाभिगच्छति। द्वाविंशंचापराधंतंकल्पयामिवसुधरे २२ यस्तुवाराहमांसानिभक्षयित्वोपसर्पति। अपराधं त्रयोविंशंकल्पया मिवसुंधरे २३ सुरांपीत्वातुयोमर्त्यः कदाचिदुपसर्पति। अपराधंचतुर्विंशंकल्पयामिवसुंधरे २४ भुक्त्वाकुसुंभशाकचयस्तुमामुपसर्पति। अपराधंपंचविंशंकल्पयामिवसुंधरे २५ परप्रावरणेनैवयस्तु मामुपसर्पति। षड्विंशमपराधंतंकल्पयामिवसुंधरे २६ नदेवान्नपितॄनिष्ट्वानवान्नंयस्तुभक्षयेत्। सप्तविंश चापराधंकल्पयामिवसुंधरे २७ उपानहौचप्रपदेतथार्चायांचगच्छति। अपराधमष्टाविंशंकल्पयामिवसुंधरे २८ शरीरंमंडयित्वातुयोमामाप्नोतिभाधवि। ऊनत्रिंशापराधंतंत्वंविजानीहिमेदिनि २९ अजीर्णेनसमा विष्टोयस्तुमामुपसर्पति। त्रिंशकंचापराधंतंकल्पयामिवसुंधरे ३० गंधपुष्पाण्यदत्वातुयस्तुधूपंप्रयच्छति। एकत्रिंशंचापराधंकल्पयामिवसुंधरे ३१ विनातूर्यादिशब्देनद्वारस्योद्घाटनंमम। महापराधंजानीयाद्द्वात्रिं शंतंममप्रिये ३२॥ **कृष्णभट्टीये प्रकारान्तरेणद्वात्रिंशदपराधाः—**तिर्यक्पुंड्रधरोभूत्वाह्यकृत्वा देवतार्चनम्। याचितैः पत्रपुष्पाद्यैर्यः करोतिममार्चनम्। अप्रक्षालितपादोयःप्रविशेन्मममदिरम्। ममदृष्टेरभिमुखंतांबूलंचर्वयेच्चयः। ममार्चामासुरेकालेयः करोतिविमूढधीः। अवैष्णवस्यपक्वान्नंयोमह्यं विनिवेदयेत्। अवैष्णवेषुपश्यत्सुममपूजांकरोतियः। दिनांतरितपक्वान्नंयन्मह्यं विनिवेदयेत्। अमौनी धर्मलिप्तांगोमत्पूजांविदधातियः। वातमूत्रनिरोधेनमत्पूजांविदधातियः। कृत्वावातमनाचम्यतथाप्रावृत्य कंबलम्। पीठासनोपविष्टः सन्पूजयेद्वानिरासनः।

मृन्मयेधूपदद्हनंदीपंयःकुरुतेर्चने। मत्पूजकोनकुरुतेतंतु पूजांचदामनीम्। मत्पूजकोशिवद्वेषी शिवभक्त श्चमद्विषेत्। भूताष्टम्योर्नकुरुतेनक्तंनहरिवासरम्। अपूजयित्वाविघ्नेशमसंभाव्यकपालिनम्। क्रुद्धोयत्कर्म कुरुतेत्रिकालार्चनविघ्नकृत्। वामहस्तेचमांकृत्वास्नापयेद्यदिमूढधीः। इति प्रकारांतरेणद्वात्रिंशदपरा धाउक्ताः। परवस्त्रं परपरीधानं। कुसुंभभुजिः कुरवकपुष्पभक्तिः। एषुप्रत्येकंप्रायश्चितंतत्रैव—संवत्सरस्यमध्येचतीर्थेसूकरकेमम। कृतोपवासःस्नानेनगंगायांशुद्धिमाप्नुयात्। मथुरायांतथाचैवसापराधः शुचिर्भवेत्। स्कांदेअवंतीखंडे—जागरेद्वादशीरात्रौपठेद्यस्तुलसीस्तवम्। द्वात्रिंशदपराधांश्चक्षमते तस्यकेशवः। तुलसीस्तवोव्रतरत्नेज्ञेयः।

** अथचिह्नविशेषेणशालग्राममूर्तयः। पाद्मे**—चक्राकारेणरेखासायत्ररेखामयीभवेत्। ससुदर्शनइत्येवं ख्यातः पूजाफलप्रदः। उपर्यधश्चचक्रेद्वेनातिदीर्घंमुखेबिलम्। मध्येचरेखालंबैकासचदामोदरःस्मृतः। यस्यदीर्घंमुखंपूर्वंकथितैर्लक्षणैर्युतम्। रेखाश्चकेशराकारानारसिंहोमतोहिसः। वाराहाकृतिराभुग्नश्चक्र रेखास्वलंकृतः। वाराहइतिसंप्रोक्तोवामनोबदरोपमः। गरुडःसतुविज्ञेयश्चतुश्चकैर्जनार्दनः। हयग्रीवोयथा द्वारारेखाढ्यायाशिलाभवेत्। तथासौम्याद्धयग्रीवःपूजितोज्ञानदोभवेत्। चतुश्चक्रःसूक्ष्मद्वारोवनमालां कितोदरः। लक्ष्मीनारायणःश्रीमान्भुक्तिमुक्तिफलप्रदः। कूर्माकाराचचक्रांकाशिलाकूर्मःप्रकीर्तितः। एवंमत्स्यादयोज्ञेयाःशालग्रामामनीषिभिः। अनंतचक्रैर्बहुभिश्चिह्नैरप्युपलक्षितः। अनंतःसतुविज्ञेयःसर्वपूजा फलप्रदः। चक्रंचकेवलंयत्रपद्येनसहसंयुतम्। केवलावनमालावाहरिर्लक्ष्म्यासहस्थितः। विदिक्षुदिक्षु सर्वासुयस्योर्ध्वंदृश्यतेमुखम्। पुरुषोत्तमःसविज्ञेयोभुक्तिमुक्तिफलप्रदः। दृश्यतेशिखरेलिंगंशालग्राम समुद्भवम्। सचयोगेश्वरोनामब्रह्महत्यांव्यपोहति। आरक्तंपद्मनाभाख्यंपद्मच्छत्रसमन्वितम्। तुलस्या पूजयेन्नित्यंदरिद्रस्त्वीश्वरोभवेत्। वामपार्श्वतथाचक्रेरेखाचैवतुदक्षिणे। दक्षिणावर्तचक्राचवनमाला विभूषिता। याशिलाकृष्णसंज्ञासाधनधान्यसुखप्रदा। नारदः— द्वारदेशेसमचक्रेदृश्येतैनांतरीयके। वासुदेवः सविज्ञेयः शुक्लाभश्चातिशोमनः। नानाव.

‘र्णोह्यनंतःस्यान्नागभोगेनचिह्नितः। अनेकमूर्तिसंयुक्तःसर्वकामफलप्रदः।प्रद्युम्नःसूक्ष्मचक्रस्तुपीतदीप्ति स्तथैवच। शिखरंछत्रबहुलंदीर्घाकारं, तुयद्भवेत्।’ अनिरुद्धस्तुनीलाभोवर्तुलश्चातिशोभनः। रेखात्रयं तुतद्द्वारेपृष्ठंपद्मेनलांछितम्।. शिवनाभिरितिख्यातंयत्रदेशेव्यवस्थितम्। तच्छेवविष्णुवत्तीर्थं शालग्राम समुद्भवम्। नाभौलिंगेनयुक्तावागर्तेनचतथापुनः। शिवनाभिरितिख्याताभुक्तिमुक्तिप्रदायिका। यवमा त्रंतुगर्तंस्याद्यवार्धंलिंगमुच्यते। वासुदेवमयंक्षेत्रंलिंगंशिवमयंशुभम्। तस्मात्तद्धारितेक्षेत्रेपूजयेच्छंकराच्यु तौ। पांचजन्यांकितायातुपद्मेनगदयायुता। तत्रश्रीःप्रत्यहंतिष्ठेत्सदासंपदमादिशेत्। शालग्राममयीमुद्रा संस्थितायत्रकुत्रचित्। वाराणस्यायवाधिक्यंसमंताद्योजनत्रयम्। एकमूर्तिर्नैवपूज्यागृहिणाबृद्धिमिच्छता। अनेकमूर्तिसंपन्नासर्वकामफलप्रदा। अन्येपिभेदाग्रंथगौरवान्नोक्ताः। गोविंदराजीयेस्कांदे— स्निग्धासिद्धिकरीमंत्रेकृष्णाकीर्तिददातिच \। पांडुरापापदहनीपीतापुत्रप्रदायिनी। नीलाचदिशतेलक्ष्मींर क्तारोगप्रदायिनी। रूक्षाचोद्वेगदानित्यंवक्रादारिद्र्यदायिका। दुःखदासातुविज्ञेयानारसिंहीतथैवच। बहुचक्रा मुखंविनाबहुचक्रा। अन्यथात्रिविक्रमानंतपूजाविरुध्येत। यथायथाशिलासूक्ष्मातथा तथामहत्फलम्। तथाचामलकीतुल्यासूक्ष्माचातीवयाभवेत्। तस्यामेवशिलायांतुश्रियासहवसेद्धरिः। कपिलोनारसिंहश्चपृथु चक्रःसुशोभनः। ब्रह्मचर्येणपूज्यस्तुअन्यथाविघ्नदोभवेत्। इदंसकामपरम्। निष्कामेनशालिग्राम शिठामात्रंपूज्यम्। येकेचिच्चैवपाषाणाविष्णुचक्रेणमुद्रिताः। तेपांस्पर्शनमात्रेणमुच्यतेसर्वकिल्बिषै रितिबाराहात्। खंडितंत्रुटितंभग्नंपार्श्वेभिन्नंसुभेदितम्। शालग्रामसमुद्भूतंशैलंदो पावहंनहीतिपाद्योक्तेः।शालग्रामशिलाभग्नापूजनीयासचक्रकेतिवाराहाच्च। यत्तुलग्नंभग्नंनपूजयेदितितत्र लग्नंलग्नचक्रम्।भग्नंभग्नचक्रम्। चक्रेतरप्रदेशभग्नस्यापिपूज्यत्वम्। शिलारूपीरमाप्रोक्ताचक्ररूपीजनार्दनइतिविष्णुपुराणे चक्ररूपेणहरिसान्निध्योक्तेः।

पूज्यशालग्रामसंख्योक्ता हेमाद्रौ। साकाम्येतिकश्चित्। ततः कामनाश्रवणात्। मानसोल्लासेपाद्मवाराहयोः— यः पुनः

पूजयेद्भक्त्याशालग्रामशिलाशतम्। उषित्वासहरेर्लोंकेचक्रवर्तीहजायते। शिलाद्वादशभोवैश्यशालग्राम समुद्भवाः। विधिवत्पूजितायेनतस्य पुण्यंदामिते। कोटिद्वादशलिंगेस्तुपूजितैः स्वर्णपंकजैः। यत्स्याद्वादशकल्पेषुदिनेनैकेनतद्भवेत्। **स्कांदे—प्रत्यहंद्वादशशिलाःशालग्रामस्ययोर्भयेत्। द्वारावत्याः शिलायुक्ताःसबैकुंठेमहीयते। लैंगे—**ततोयह्वीरर्चयतिशालग्रामशिलास्तुयः। नहिब्रह्मादयोदेवाः संख्यांजानंति तत्फले। **स्मृत्यंतरे—**शालग्रामाःसमाःपूज्याविषमानकदाचन। समेपुनद्वयंपूज्यं विषमेष्वेकएवहि। विषमेष्वेकएवेज्यः समेद्वेषट्विविर्जयेत्। प्रयोगपारिजातेस्कांदे— एवंलक्षणसंपन्ना मध्यमायाचिताधमा। उत्तमासातुविज्ञेयापारंपर्यक्रमागता। फलपुष्पैश्चतत्स्थानंशालग्रामोद्भवहरिम्। ऐहिकामुष्मिकार्थागममदेहिगुरूत्तम। इत्युक्त्वापादयोः पुष्पंदत्वाचप्रणिपत्यच। गुरुःपुष्पफलैः सार्धंगृहीत्वा पूजितंहरिम्। दत्वापुष्पांजलिंब्रुयाच्छांतिरस्तुशिवंलिति। **स्कांदे—**शालग्राम शिलायास्तुमूल्यंयः कुरुतेनरः। विक्रेताचानुमंताचयःपरीक्षानुमोदकः। सर्वेतेनरकंयांति यावदाभूतसंप्लवम्। त्याज्याः शिलाउक्तास्तत्रैव —तिर्यक्चक्रापरित्याज्याबद्धचक्रातथैवच। क्रूरापि संपरित्याज्यास्फोटारूक्षातथैवच। कुरूपानिपुरास्याच करालविकालिका। कपिलावेपमाना चवृत्तास्याकर्बुरातथा। आसनेचलनाभग्नामहास्थूल। विगर्हिता। आस नेगुष्टिरस्यास्तुचक्रेणैकेनसंयुता। दर्दुराबहुचक्राचलग्नचक्राप्यधोमुखी। छिद्रादग्धासुरक्ताचंबृहच्चक्रातिभीषणा। बहुरेखासमायुक्ता भग्नचक्रातथैवच।दीर्घचक्रापरित्याज्यापृष्ठचक्रा विशेषतः। मस्तकास्याह्य चक्राचवर्ज्याह्येताःसदाबुधैः। क्रूरदंष्ट्रासमायुक्तास्फोटाबुद्बुदसंयुता। अनिराच्छुष्कतांयातियस्यालिप्तंतुचंदनम्॥ इति॥

** अथद्वारवतीचक्रमहिमा।प्रह्लादसंहितायांहलायुधेच—** शालग्रामशिलायत्रयत्रद्वारवतीशिला। उभयोःसंगमोयत्रमुक्तिस्तत्रनसंशयः। गिलेतिविशेषोक्तेर्नास्थिचक्राणांपूज्यता। प्रयोगपारिजातेस्कांदे **—**संवत्सरंतुयः कुर्यात्पूजास्पर्शनदर्शने। विनासांख्येनयों

गेनमुच्यतेनात्रसंशयः। चक्रसंख्यायास्तन्नामानिप्रह्लादसंहितायाम्— एकःसुदर्शनोद्वाभ्यांलक्ष्मीनारा यणःपरः। त्रिभिस्त्रिविक्रमोनामचतुर्भिश्चजनार्दनः। पंचभिर्वासुदेवःस्यात्षड्भिःप्रद्युम्नउच्यते। सप्तभिर्बल देवश्चअष्टाभिःपुरुषोत्तमः। नवभिश्चनवव्यूहोदशभिर्दशमूर्तिकः। एकादशाऽनिरुद्धोवैद्वादश द्वादशात्मकः। अतऊर्ध्वंपरमात्मासुखंयच्छतिपूजितः। अग्निपुराणे—

चक्रैर्द्वादशभिर्युक्तोहृषीकेश उदाहृतः अतऊर्ध्वमनंतः स्यात्पूजितोनंतकामदः। श्वेताःस्त्रिग्धाःशिलाःपूज्याअच्छिद्राश्चसुसंयताः। सुखदाः समचक्राश्चविपमादुःखदाः स्मृताः। सुदर्शनाद्यास्तुशिलाःपूजिताःसर्वकामदाः। एकःएकचक्रः। गालवः—

वर्तुलाचतुरस्राचनराणांचसुखप्रदा। प्रह्लादसंहितायाम्—

कृष्णामृत्युप्रदानित्यंकपिलाच भयावहा। रोगातिंकर्बुरादद्यात्पीता वित्तविनाशिनी। धूम्राभावित्तनाशायभग्नाभार्याविनाशिका।सच्छिद्राचत्रिकोणाचतथाविषमचक्रिका।अर्धचंद्राकृतिर्यातुपूज्यास्तानभवंतिहि। एकचक्रविषयेविशेष उक्तस्तत्रैव—

एकचक्रेविशेषोस्तितंविशेषंतुवच्म्यहम्। शुक्लंनीलंतधारक्तंद्विवर्णंचत्रिवर्णकम्। यद्येक चक्रेस्युरेवंतेषांसंज्ञानिवोधमे। पुंडरीकःप्रलंबंघ्नोरामोवैकुंठएवच। विष्वक्सेनइतिब्रह्मन् तेषांपूजा फलंशृणु। मोक्षंमृत्युंविवादंचदारिद्र्यमक्षतंतथा। पाद्मवाराहयोः—

द्वेचक्रेद्वारकायास्तुनार्च्चंसूर्यद्वयंतथा। विष्णुधर्मे—

चक्रांकमिथुनंपूज्यंनैकंचक्रां कमर्चयेत्।इति।

** तज्जलादिमहिमास्कांदे—**

शालग्रामोद्भवोदेवोयत्रद्वारवतीभवः। उभयोः स्नानतोयेनब्रह्महत्यानिवर्तते। हेमाद्रौस्कांदे—

कुंकुमंचंदनंपत्रंनैवेद्यंचफलंजलम्। शालग्रामशिलालग्नंतीर्थकोटिशताधिकम्। पाद्मे – सस्नातः सर्वतीर्थेषुसर्वयज्ञेषुदीक्षितः। शालग्रामशिलातोयैर्योभिषेकंसमाचरेत्। गौतमांबरीपसंवादे — हरेःस्नानीयशेषंतुजलंयस्योदरेस्थितम्। अंबरीषप्रणम्योच्चैःपादपांसुप्रगृह्यताम्। जन्मप्रभृतिपापानां प्रायश्चित्तंयदीच्छसि। शालग्रामशिलावारिपापहारिनिषेव्यताम्। येतुद्वादश्यल्पत्वेतीर्थपानाम्नानाद्भो जनस्थानीयंतन्मत्वोपवासदिनेश्राद्धादे \।

श्चप्रोक्तन्नैच्छंतितभ्रांताः। तस्यशरीरशुद्ध्यर्थत्वात्। गारुडे—

जलनयेपांतुलसीविमिश्रपादोदकंचक्रशिला समुद्भवम्। नित्यंत्रिसंध्यंप्लवतेहगात्रंखगेंद्रतेधर्मबहिष्कृतानराः। आह्निकप्रदीपे—

सूतकेमृतकेवापि आशौचंनैवविद्यते। येषांपादोदकंमूर्ध्निप्राशनंयेचकुर्वते। अंतकालेषियसेहदीयतेपादयोर्जलम्। सोपित द्गतिमाप्नोतिसदाचारैर्बहिष्कृतः। वाराहेविष्णुपूजाप्रकरणे शूद्रंप्रकृत्य**—**

चरणामृतपानेनसर्वपापक्षयो भवेत्। अत्रकेचिच्छालग्रामोदकमेवग्राह्यंनचक्रांकोदकमित्याहुः। तन्न ।विष्णुपादोदकंयस्यमुखेशिर सिविग्रहे। इतिनृसिंहपुराणात्। शालग्रामशिलातोयमस्थिचक्रशिलाजलम्। मिश्रितंतत्पिबेद्यस्तुदेहे शिरसिधारयेत्। तस्यचक्रांकितोदेहोभवत्येवनसंशयः। तीर्थपानविधिर्गारुडे—

शालग्रामशिलातो यम पीत्वायस्तुमस्तके।प्रक्षेपणंप्रकुर्वतब्रह्महत्यासमंस्मृतम्। शालग्रामशिलातीर्थपिबेत्तोयंकरेणतु। अज्ञानार्दैदवंप्रोक्तंज्ञानादब्दंसमाचरेत्। विष्णोःपादोदकंपीत्वाकोटिजन्माघनाशनम्। तदेवाष्टगुणंपापं भूमौबिंदुनिपातनात्। भक्तिचंद्रोदये—

आयसेचतथाकांस्येकाष्ठेवालाबुकेतथा। उद्धृत्यपादसलिलं करेकृत्वामुखेक्षिपेत्। अदत्वातुपिबेत्तोयंरौरवेनरकेवसेत्। करेणतीर्थपानंतत्पानोत्तरंचजलपानंनकार्य मित्यर्थः। विप्रपादोदकग्रहणमुक्तं काशीखंडे— निःस्पृहाःसोमपायेवैविप्रपादोदपाश्चये। तएतेमत्प्रिया भक्तास्त्यक्ततीर्थप्रतिग्रहाः। श्रद्धाबीजोविप्रपादांबुसिक्तइति। तत्रपूर्वंविप्रपादोदकंग्राह्यं ततःशालग्रामशिलोदकमितिशिष्टाः। स्कांदे—कृत्वापादोदकंशंखेवैष्णवानांमहात्मनाम्। यद्ददातितिलै र्मिश्रंचांद्रायणफलंलभेत्। ग्रहणमंत्रोहलायुधे—

अकालमृत्युहरणंसर्वव्याधिविनाशनम्। विष्णोः पादोदकंपीत्वाशिरसाधारयाम्यहम्। इतिश्रीमन्नारायणभट्टात्मजरामकृष्णभट्टसुतलक्ष्मणभट्टकृताचार रत्नेपूजाविधिः।,

** अथवैश्वदेवः**। तत्राधिकारिणआह चंद्रिकायांसंवर्तः

ततः पंचमहायज्ञान्कुर्यादहरहर्द्विजः। ततोविवाहानंतरमितिमदनपारिजातःशंखः—

पंचयज्ञविधानंचगृहीयज्ञंनहापयेत्। शूद्रस्याप्यधिकार इत्युक्तंप्राक्। नास्तिस्त्रीणां पृथग्यज्ञइतियाज्ञबल्क्योंक्तेः,

नस्त्रीजुहुयान्नानुषेतइतिआपस्तंबोक्तेश्च स्त्रीणांनाधिकारः। यत्तुस्मृत्यर्थसारे—स्त्रीबालश्चकारयेदिति तद्विधवापरम्। यदपिस्मृतिसारे—

स्नातकोब्रह्मचारीपृथक्वैश्वदेवंकुर्यादिति। तन्नः। भैक्षेणवर्तयेन्नित्य मितिमनूक्तेर्ब्रह्मचारिणःपाकाभावात्’ पंचमहायज्ञाधिकारेगृहीति पदश्रवणाच्च नत्वेनमग्नि हवनबलि हरणयोर्नियुंज्यादिति। शौनकः—

स्नातकेनापितत्कार्यंपृथक्पाकोभवेद्यदि। वानप्रस्थस्याप्यधिकारः। अत्र वैश्वदेंवमकृत्वैवश्राद्धंकुर्यादनग्निकइतिविशिष्टोक्तेरनग्नेरप्यधिकारः। शौनकः—

पुत्रोभ्राताथवा पत्नीशिष्यो दासोबलिंहरेत्। मदनरत्नेऽत्रिः—

पुत्रोभ्राताथवाऋत्विक्शिष्यश्वशुरमातुलाः। पत्नीश्रोत्रिययाज्याश्चदृष्टा स्तेबलिकर्मणि। प्रतिनिधयइत्यर्थः। अतोबलावेवप्रतिनिधिरिति मदनरत्ने। बलिपदंवैश्वदेवोपलक्षणमिति पृथ्वीचंद्रः। अन्यैस्तुकारयेदेतानातुरोपिस्पृशद्विजः। सूतकाद्यैस्त्वशुद्धात्मानकुर्यान्नचकारयेदितिहोमो पीतिचंद्रिका। एतव्यवासादिपरमिति चंद्रिकामदनरत्नयोः। ऋत्विक्साहचर्यात्साग्निकपरमित्याचारा दर्शः। नस्त्रीजुहुयादित्यापस्तंबोक्तेः। पत्नीबलिंकुर्यान्नहोममितिपृथ्वीचंद्रः। सायंत्वन्नस्यसिद्धस्यपत्न्यमंत्रं बलिंहरेदितिमनुस्मृतेरुपलक्षणत्वात्पत्न्याअपिहोमइतिपृथ्वीचंद्रः। वस्तुतस्तु सदास्वयंकर्तृकत्वविकल्पः। स्वयंत्वेवैतान्याबद्गृहेवसन्बलिंहरेदपिवान्योब्राह्मणइति गोभिलोक्तेः। निरग्नेस्तुसदास्वकर्तृकत्वमे ववैश्वदेवइत्याचारादर्शःबौधायनः—

प्रवासंगच्छतोयस्यगृहकर्तानविद्यते। पंचानांमहतामेषांसयज्ञैः सहगच्छति।प्रवासेकुरुतेचैतद्यदन्नमुपपच्यते। नचेदुत्पद्यतेन्नंतुअद्भिरेतान्समापयेत्। मिताक्षरायां नारदः—

भातृृणामविभक्तानामेकोधर्मः प्रवर्तते। विभागेसतिधर्मोपिभवेत्तेषां पृथक्पृथक्। चंद्रोदयेमरीचिः—

बहवःस्युर्यदापुत्राःपितुरेकत्रवासिनः। सर्वेस्वानुमतंकृत्वाज्येष्ठेनै वतुयत्कृतम्। द्रव्येणचाविभक्तेनसर्वरेव कृतंभवेत्। एकपाकेनवसतांपितृदेवद्विजार्चनम्। एकं भवेद्विभक्तानांतदेवस्याद्गृहेगृहे। आश्वलायनः—

वसतामेकपाकेनविभक्तानामपिप्रभुः। एकस्तुचतुरोयज्ञा न्कर्याद्वाग्यज्ञपूर्वकान्। वाग्यज्ञपूर्वकानित्यतगुण संविज्ञानोबहुव्रीहिः।

अतएव चतुरइत्युक्तम्। एकपाकेनवसतामविभक्तानामितिकश्चित्। तत्र अस्यविभक्ता विभक्तस्य साधारणत्वात् विभक्तानामित्यस्यानुवादकत्वेनसं कोचकत्वायोगाच्च अविभक्तेषुसंसृष्टेष्वेकेना पिकृतंतुवेतिव्यासोक्तेश्च। अतःपाकैक्यएवाविभक्तानांयज्ञैक्यम्। नचैवंकदाचित्पाकभेदेभेदापत्तिः। वसतामित्यनेनबहुकालिकपाकैक्योक्तेः। यद्येकस्मिन्कुलेबहुधान्नंपच्येत गृहपतिमहानसादेवत द्बलितंत्रकुर्वीतेतिगोभिलोक्तेश्च। यत्त्वविभक्तस्यभ्रात्रधिकारेगोभिलः—यस्यत्वेपामग्रतोन्नंसिद्ध्येत्सति युक्तमग्नौ कृत्वाग्रंब्राह्मणायदत्वाभुंजीते तितत्कनिष्ठभ्रातुः कदाचित्पाकभेदे ज्ञेयमितिपृथ्वीचंद्रः। नियुक्तंभोज्यमन्नं। अग्नौकृत्वाहुत्वेत्यर्थः। इदमपिप्रथममन्नसिद्धौज्येष्ठेनकृतेवैश्वदेवे पश्चात्कनिष्ठस्य पाकभेदेतेनाहुत्वैवभोक्तव्यम्। अयंचान्नप्रक्षेपस्तूष्णीमित्युक्तं चंद्रोदये। देशांतरगमने पाकभेदेत्वेकपाकेनवासाभावात्पृथग्वैश्वदेवः। अविभक्ताविभक्तावा पृथक्पाकाद्विजातयः। कुर्युः पृथक्पृथग्यज्ञान्भोजनात्प्राग्दिनेदिने। इति प्रयोगपारिजातेआश्वलायनोक्तेः। भ्रातॄणामविभक्ता नांपृक्पाकोभवेद्यदि। वैश्वदेवादिकंश्राद्धंकुर्युस्तेवैपृथक्पृथगितिवाक्यमेतद्विषयकमेव। नचेदंनिर्मूलम्। अन्येतु— वैश्वदेवासंभवेतुकुक्कुटांड प्रमाणकम्। अन्नमग्नौसंप्रहृत्यकिल्बिषात्तुप्रमुच्यते इतिजीवत्पितृकनिर्णयेकुक्कुटांडप्रमाणान्नप्रक्षेपइत्याहुः। पाकासाध्येतुजपोपवासादाव विभक्तानां पृथगधिकारः। पृथगप्येकपाकानांब्रह्मयज्ञोद्विजन्मनां। अग्निहोत्रंसुरार्चाचसंध्यानित्यं पृथग्भवेदितिप्रयोगपारिजातेआश्वलायनोक्तेः। यत्तु**—**एकपाकेनवसतांपितृदेवद्विजार्चनमेकमिति तत्रदेवार्चनंवैश्वदेवइति पृथ्वीचंद्रः। भ्रातॄणामविभक्तानांपृथक्पाकोभवेद्यदि। वैश्वदेवादिकं श्राद्धंकुर्युस्तेवैपृथक्पृथक्। इतिवाक्यमेतद्विषयमेव। नचेदंनिर्मूलं। एकपाकेनवसता मित्यादिवाक्यनिचये नविभक्तानामपिपाकभेदेपंचयज्ञभेदानुक्तेरविभक्तानामपिपाकभेदेपंचयज्ञभेदोक्तेरन्वयव्यतिरेकाभ्यां-पाकभेदस्यैवपंचयज्ञाभेदानुष्ठानेप्रयोजकत्वात्पूर्वोक्तवचननिचयविरोधाभावाच्च। यत्त्वेकेनापीतितत्पाक भेदेइतिव्यंप्रतीमः। पूज्यदेवतामूर्तिभेदेइतिवयम्।

अथ वैश्वदेवकालः। तत्रनिरग्निनानित्यश्राद्धोत्तरंसकार्यः। दद्यादहरहःश्राद्धं ० इत्युक्त्वावैश्वदेवश्चगृह्येग्नौ विधिपूर्वकमितिमनूक्तेः। पितृभ्योथमनुष्येभ्योदद्यादहरहर्द्विजइतिकात्यायनेन श्राद्धोत्तरंमनुष्ययज्ञोक्ते र्वैश्वदेवोत्तरंनित्यश्राद्धमितिपक्षद्वयं चंद्रोदयेउक्तं। आहिताग्निनाश्राद्धात्प्राक्कार्यइत्युक्तं मदनरत्ने। श्राद्धांतरेतुवृद्धगौतमः–पितृश्राद्धमकृत्वातुवैश्वदेवंकरोतियः। आसुरंतद्भवेच्छ्राद्धंपितृृणांनोपतिष्ठते। एतदनग्निकपरम्। श्राद्धात्प्रागेवकुर्वीतवैश्वदेवंचसाग्निकः। एकादशाहिकंमुक्त्वातनद्येतद्विधीयतेइति। एकादशाहिकपदं प्रेतश्राद्धोपलक्षणमिति मदनरलेबह्बृचपरिशिष्टे। स्मार्ताग्निरनग्निश्चाग्नौकरणोत्तरं ब्राह्मणविसर्गोत्तरं वाकुर्यात्। आद्यउक्तोहेमाद्रौब्रह्मांडे—वैश्वदेवाहुतेरग्नावर्वाग्ब्राह्मणभोजनात्। जुहुया द्भूतयज्ञादिश्राद्धंकृत्वा तुतत्स्मृतम्। भूतयज्ञोबलिः। श्राद्धंप्रक्रम्यमनुः— ततोगृहबलिंकुर्यादितिधम व्यवस्थितः।बलिपदंवैश्वदेवोपलक्षणार्थमितितुकर्कः। काकादिबलिपरमितिदिवोदासः। विकिरमित्यन्ये। द्वितीयउक्तोहेमाद्रौभविष्ये—पितॄन्संतर्प्यविधिवद्बलिंदद्याद्विधानतः। वैश्वदेवंततः कुर्यात्पश्चाद्ब्राह्मण वाचनम्। बलियेअग्निदग्धाइतिदीयमानम्। तृतीयोप्युक्तस्तत्रैव—कृत्वाश्राद्धंमहाबाहोब्राह्मणांश्च विसृज्यच। वैश्वदेवादिकंकर्मततः कुर्यान्नराधिप। एतदनग्निपरम्। यदाश्रार्द्धपितुःकश्चित्कर्तु मिच्छत्यनग्निमान्। वैश्वदेवंतदाकुर्यान्निवृत्तेश्राद्धकर्मणि। वृद्धावादौक्षयेचान्तेमध्येजुह्वतिपार्वणे। एकोद्दिष्टेतथाचां तेवैश्वदेवोविधीयतइति हेमाद्रौस्मृतिसारात्मेधातिथिरप्येवंवृत्तिकृताविसर्जनांतं श्राद्धमुक्त्वा उच्छेषणंत्वितिमनुवाक्योदाहरणाद्बह्वृचानांश्राद्धांतेएववैश्वदेवः। मध्यपक्षस्तुयच्छाखा यामुक्तस्तच्छाखीयपरइतिबोपदेवःस्मृतिसारे–बलिकारादयोपिबहुस्मृ त्युक्तत्वात्सर्वेषांविसर्जनांतै वैश्वदेवइतिमेनिरे। साग्नितैत्तिरीयाणांतुसर्वत्रादौवैश्वदेवः। पंचयज्ञाश्चादावंतेचेति **सुदर्शनभाष्येदिवोदासी येस्मृतिः—**याजुषाः सामगाः पूर्वंमध्ये श्राद्धंतुबह्वृचाः। अथर्वापाकशेषेणवैश्वदेवेविधिःस्मृतः। याजुपसामगौसाग्नी। इतरौनिरग्नी। सर्वशाखि

नामनग्निकानामपिप्रागेवेतिदिवोदासः। तत्रपिंडदानात्पूर्वंवैश्वदेवपक्षेभिन्नः। पितृपाकात्समुद्धृत्यवैश्व देवंकरोतियः। आसुरंतद्भवेच्छ्राद्धंपितृपाकक्रियाणांनोपतिष्ठतइतिपैठीनसिस्मृतेः। पितृसंबंधश्चा पिंडदानात्। श्राद्धोत्तरंतु श्राद्धशेषेणपाकांतरेणच— श्राद्धंनिर्वर्त्यविधिवद्वैश्वदेवादिकंततः। कुर्याद्भि क्षांततोदद्याद्धंतकारादिकंतत इतिपैठीनसिस्मृतेः। द्वितीयस्ततःशब्दःश्राद्धशेषपरइति हेमाद्रिः। नित्यश्राद्धंतुश्राद्धशेषेणपाकांतरेणवा। ततोनित्यक्रियांकुर्याद्भोजयेच्चततोऽतिथीन्। पृथक्पाकेननैत्यक मितिहेमाद्रौमार्कंडेयपुराणात्। एकादशाहश्राद्धेतुपृथक्पाकेनैव। एकोद्दिष्टेतुशेषेणब्राह्मणेभ्यश्चउत्सृजे दितिदेवलोक्तेः। एकोद्दिष्टंमहैकोद्दिष्टमितिहेमाद्रिः। दार्शवैश्वदेवयोरेकःपाक इतिकर्कहरिहरौ। तन्न। पित्रर्थंनिर्वपेत्पाकंवैश्वदेवार्थमेवच। वैश्वदेवोनपित्रर्थंनदार्शंवैश्वदेविकम्। दार्शशब्देनतद्विकृतयो युगादिमन्वादयइति हेमाद्रिः॥॥

अथपाकः। सस्वयंपत्न्यावाकार्यः। आश्रमधर्मविरोधेनतंडुलान्वाप्रातः पत्न्यैदद्यात्खयंवाधिश्रयेदिति चंद्रिकायांशंखलिखितोक्तेःआपस्तंबः— आर्याप्रयतावैश्वदेवान्नकर्तारइतिछंदोगपरिशिष्टे। पत्नीभूतप्रवचनेयद्यसंनिहिताभवेत्। रजोरागादिनातत्रकथंकुर्वंतियाज्ञिकाः। महानसेनवाकुर्यात्सवर्णांतां प्रवाचयेत्। प्रणवाद्यपिवाकुर्यात्कात्यायनवचोयथा। शातातपः— नैवेद्यार्थीपृथग्भांडेस्नातापत्नीषचेत्तथा। वैश्वदेवार्थमन्यस्मिन्व्यंजनानिपृथक्पृथक्। एकस्मिन्वाप्यशक्तौचेत्पूर्वविष्णुनिवेदनम्। वैश्वदेवंततः शिष्टाद्व्यासस्यवचनंयथा। विष्णुपदंयजनीयोपलक्षणमितिपृथ्वीचंद्रःमाधवीयेपिनारसिंहकौर्मयोः—पौरुषेणचसूक्तेनततोविष्णुसमर्चयेत्। वैश्वदेवंततःकुर्याद्वलिकर्मतथैवच। चंद्रिकामाधव भागवतटीकासुचैवं। इदंबह्वृचभिन्नपरम्। तमेवंवैश्वदेवशेषेणकुर्यान्नास्यशेषेण वैश्वदेवंकुर्यादितिय बह्वृचपरिशिष्टात्। केचित्सर्वंतुपूर्ववदितिमार्कडेयपुराणात् देवयज्ञादीनामेकःपाकइतिहेमाद्रिः। मदनरत्नेतुसर्वेषांपृथक्पाकः। पितृयज्ञस्यवापृथक्पाक

इत्युक्तम्। **मनुः—**वैवाहिकेग्नौकुर्वीतगार्ह्यकर्मयथाविधि। पंचयज्ञविधानंचपक्तिंदैनंदिनीमपि। काशीखंडेप्येवम्। **मदनरत्ने परिशिष्टे—प्रवसेदाहिताग्निश्चेत्कदाचित्कालपर्ययात्। यस्मिन्नन्नौभवेत्पाकोवैश्वदेवस्तुतत्रचै। शातातपः—लौकिकेवैदिकेवापिहुतोत्सृष्टेजलेक्षितौ। वैश्वदेवस्तु कर्तव्यःपंचसूनापनुत्तये। वैदिकेस्मार्ते। अग्न्यसंभवेभूम्यादावितिवृद्धपराशरः। अभावादग्निहोत्रस्यतथा चावसथस्यच। यस्मिन्नग्नौपचेदन्नंतत्रहोमोविधीयते। सर्वाधानिपरमिदमितिचंद्रिका। आपस्तंबः— औपासनेपचनेवाषड्भिराद्यैः प्रतिमंत्रहस्तेनजुहुयादिति। पचन.सर्वाधानिपरइत्युक्तंतद्भाष्येअंगिराः—**शालाग्नौतुपचेदन्नंलौकिकेवापिनित्यशः। **माधवीयेदेवलः—**चांडालाग्नेरमेध्याग्नेःसूतिकाग्नेश्चकर्हिचित्। पतिताग्नेश्चिताग्नेश्चनशिष्टैर्ग्रहणंस्मृतम्। **अत्रायंनिष्कर्षः—**आपस्तंवस्यस्मार्तेलौकिकेवापिपा केस्मार्तएव होमस्तदभावेलौकिके। बह्वृचस्यतुपचनेलौकिकेवापाकः। स्मार्तेपचनेलौकिकेवाहोमइतिवृत्तिः। देशांतरस्थितौवाशाकलहोमः। छंदोगानामप्येवम्।

** स्मार्तेपाकपक्षेविशेषःकर्मप्रदीपे—प्रातर्होमंचनिर्वर्त्यसमुद्धृत्यहुताशनम्। शेषंमहानसे कृत्वातत्रपार्कसमाचारेत्। तमग्निंपुनराहृत्यशालाग्नावेवनिक्षिपेत्। ततोस्मिन्वैश्वदेवादिकर्मकुर्यादतंद्रितः। शूद्रेणवैश्वदेवोलौकिकेग्नौकार्यइत्यपरार्केमेधातिथिः—शूद्राचारशिरोमणीतु** त्रैवर्णिकानामग्न्यभावे जलादेरुक्तत्वाच्छूद्रस्यापिजलादावित्युक्तम्। एतत्सायंप्रातश्चकार्यम्। सायंप्रातर्वैश्वदेवः कर्तव्योबलि कर्मच। अनश्नतापिसततमन्यथाकिल्विषीभवेदिति चंद्रिकायांकात्यायनोक्तेः। प्रातः शब्दोमध्याह्नपरः। पूर्वाह्णो वैदेवानांमध्याह्नो मनुष्याणामि तिश्रुतेः। अनश्नतापीत्युक्तेरेकादश्यादावपिपक्वंचेदंकार्यमिति नारायणवृत्तिः। इदमपिबह्वृचपरम्। अन्येषांतुतंडुलादिनातदभावेजलेन। नचेदुत्पद्यतेन्नंतुअद्भिरे तान्समापयेदितिबोधायनोक्तेः। दधिघृतादितुबह्वृचान्यपरम्। पक्वाभावेप्रवासेचतंडुलानोषधींस्तथा। दद्याद्दधिघृतंवापिकंदमूलफलानिच। योजयेद्देवयज्ञादौजलेवापत्सुवाजलमिति चंद्रोदयेवचनात्। पक्वाभावइतिशुद्धोपवासपरमितिचंद्रोदयः

एतेनैकादश्यांवैश्वदेवोनकार्यइतिवदंतःपरास्ताः। अत्रकेचित्— स्नात्वागृहंसमागत्यवैश्वदेवंसमाचरेत्। प्रातरेवद्विरावृत्त्याकुर्याद्वासहतद्द्विजः। सायंवायदिभुंजीयात्तत्कृत्वाजात्वपिस्वयमितिप्रयोगपारिजाते आश्वलायनस्मृतेः। द्वितीयभोजनाभावेपिसायंकालिकवैश्वदेवस्यसायंवानुष्ठानंप्रातर्वेत्याहुः। पितृचरणा स्तुआश्वलायनवाक्येयदिभुंजीयादित्युक्तेः सायंवैश्वदेवोद्वितीय भोजने सत्येवप्रातर्द्विरावृत्तिस्तुप्रातः पाकेनैवसायंपुनर्भोजने। यदिभुंजीयादित्यस्यतत्रापिसंबंधात्। पुनः पाकमुपादायसायमप्यवनीपते। वैश्वदेवनिमित्तंवैप्त्न्यासार्धंबलिंहरेत्। तत्रापिश्वपचादिभ्यस्तथैवान्नापवर्जनमिति विष्णुपुराणाच्च। वैश्वदेवंतथारात्रौकुर्याद्बलिहृर्तितथा। महतः पंचयज्ञांस्तु दिवैवेत्याहधर्मविदितिमदन पारिजाते जमदग्निवाक्ये—तदासायंचप्रातश्चजुहोतीत्यादिवत्समुच्चयबोधकत्वशब्दाद्यभावाच्च सायंप्रातरिति तुकातीयपरमित्याहुः। वस्तुतस्तुनित्यवच्छ्रुतस्य सूत्रोक्तस्यसायंकालिकस्य कादाचित्कत्वेमानाभावात् वैश्वदेवद्वयाकरणेप्रायश्चित्तश्रवणातू दिवाचारिभ्यइति लिंगाच्च दिवास्यप्रारंभइतिवृत्तेश्च यथाकथंचित्सायंप्रातरनुष्ठानंयुक्तं। असतिबाधकेऽतिसंकोचस्यायुक्तत्वादितियुगपद्वैश्वदेव पक्षे सहपद श्रवणात्प्रातस्तनं संपूर्णं वैश्वदेवं कृत्वासायंकालिक वैश्वदेवकरणे सहपशूनालभत इतिवत्सहत्वबाधात् पूर्वंहोमौततोबलीततः पितृयज्ञाविति। आपस्तंबनांचैश्वदेवप्रथमारंभेविशेषउक्तोधर्मप्रश्नेवैश्वदेवं चतुर्दशमहोभवतीतिज्ञात्वांदपत्योर्द्वादशाहमधःशय्याब्रह्मचर्यं क्षारलवणवर्जनं त्रयोदशेहन्युपवासश्च तुर्दशेहनिंवैश्वदेवः स्थालीपाकंकृत्वा गृहपाकाद्वाहविष्यान्नमादायजुहुयादितिचंद्रोदयेवृहत्पराश- रेणान्नसंस्कारोक्तेः, अहरहःकुर्यादितिपुरुषार्थत्वावगतेश्च। अन्नस्यचात्मनश्चैव संस्कारार्थं तदिष्यतइति- मदनरत्नेशौनकोक्तेश्च। यत्तु चंद्रिकायांपरिशिष्टम्—प्रोषितोप्यात्मसंस्कारंकुर्यादेवाविचारयन्नि तितदुभयार्थत्वेप्यविरुद्धम्। आश्वलायनवृत्तौमदनरत्नेस्मृत्यर्थसारेचैवम् तत्रस्विष्टकृद्वत्प्रक्षेपां- शेऽन्नसंस्कारता। यत्त्वग्नौहूयतेनैवेत्युक्तेः त्यागांशैपुरुषार्थता। चंद्रिकामिताक्षरयोस्तुपुरुपार्थत्वमेवो

क्तंतद्वचनविरोधार्च्चित्यम्। व्यासः—वैश्वदेवंप्रकुर्वीतस्वशाखाविहितंततः। संस्कृतान्नैश्चविविधैर्हविष्यैर्व्य- जनान्वितैः। इदंबह्वृचान्यपरं। वर्जेयि त्वाविशेषान्नंशुद्धेनान्नेनकेवलमितिशौनकोक्तेः, हविष्याहवि- ष्यपाकेहविष्येणैव सिद्धस्यहविषस्य जुहुयादित्याश्वलायनोक्तेः। हविष्याणिटोडरानंदेस्मृतौ—हैमंतिकंसितास्विन्नंधान्यं मुद्गास्तिलायवाः। कलायकंगुनीवारावास्तुकंहिलमोचिका। षष्टिकाः कालशाकंचमूलकंकेमुकेतरत्। कंदःसैंधवसामुद्रेलवणेदधिसर्पिषी। पयोनुद्धृतसारंचपन- साग्रहरीतकी। पिप्पलीजीरकंचैवनागरंचैवर्तितिणी। कदलीलवलीधात्रीफलान्यगुडमैक्षवम्। अतैलपक्वंमुनयोहविष्याणिप्रचक्षते। सर्पिः पयश्चात्रगव्यम्। अतैलपक्वमित्युक्तानामेवविशेषणमिति- व्रतहेमाद्रिः। हैमंतिकमितिवार्षिकव्यावृत्तिः। सितमितिश्यामव्यावृत्तिः। अस्विन्नमितिस्विन्नव्यावृत्तिः। युगपत्क्रमेणवाहविष्यद्वयपाकेन्यतरेण। यद्येकस्मिन्काले व्रीहियवैः पच्येतान्यतरस्यहुत्वाहुतंमन्येत। यद्येकस्मिन्काले पुनः पुनरन्नंपच्येत सकृदेव बलिंकुर्वीतेतिगोभिलोक्तेः। अहविष्यान्नमात्र पाकेफलादि- नावैश्वदेवःकार्यः। अहविष्यंत्वसंस्कृतमेव भोज्यमिति केचित्। बोपणभट्टस्तु गृहमेधिनोयदशनीयं- तस्यहोमाबलयश्चस्वर्गपुष्टि संयुक्ताइत्यापस्तंबोक्तेरहविष्येणापिहोममाह। शृतफलाहारेतेनैव वैश्वदेवोनतंड्डलादिना। - अजानन्योद्विजोनित्यमहुत्वात्तिशृतं हविः। पितृदेवमनुष्याणामृणयुक्तः सयात्यधइति चंद्रोदयेवृद्ध पराशरोक्तेः, अशृतफलाहारेतेनैवपूर्वोक्तापस्तंबोक्तेः। शुष्कोपवासेतं- डुलादिना। -पक्वाभावेप्रवासेचतंडुलानौषधीस्तथा। दद्याद्दधिघृतंचापिकंदमूलफलानिवा। योजयेद्देवय- ज्ञादौजलेवापत्सुवाजलमितिचंद्रोदयेवचनात्। पक्वाभावइतिशुद्धोपवासपरम्। प्रवासेत्वनियमः। क्षारा- दिमिश्रहविष्य पाकेतुबोधायनः—अंगारान्भस्ममिश्रांस्तु निरुह्योत्तरतोत्रतु। जुहुयाद्वैश्वदेवार्थंयदिक्षा- रादिमिश्रितम्। वृद्धपराशरः—स्वगृह्योक्तविधानेनजुहुयाद्वैश्वदेविकम्। हविष्यस्यद्विजोऽभावेयथालाभं शृतं हविः। फलंवायदिवामूलंरसंवायदिवापयः। पक्वान्नप्रतिग्रहेपितेनैववैश्वदेवः। तस्यपाकाप्रयोजकत्वात् वृत्तिकृत्पाकप्रयोजकतामाह।

शूद्रलब्धेनवैश्वदेवादिनकार्यम्। आमंशुद्रस्ययत्किंचिच्छ्राद्धिकंप्रतिगृह्यते। तत्सर्वंभोजनायालंनित्येनैमित्ति केनचेति षट्त्रिंशन्मतात्वृद्धपराशरः

जुहुयात्सर्पिषाभ्यक्तंगव्येनपयसापिवा। क्रीतेनगोविकारेणति लतैलेनवापुनः। संप्रोक्ष्यपयसावापिनानक्तंजुहुयादपि। अस्नेहायवगोधूमशालयोहवनीयकाः। इति।

वैश्वदेवेनिषिद्धद्रव्यमुक्तं काशीखंडे

निष्पावान्कोद्रवान्माषान्कलायांश्चणकांस्त्यजेत्। तैलपक्वचपक्वान्नंसर्वलवणयुक्त्यजेत्। आढकींचमसूरांश्चवर्तुलान्बदरांस्तथा। भुक्तशेषंपर्युपितं वैश्वदेवेविवर्जयेत्। निष्पावा वल्लाः। आपस्तंबः—

नक्षारलवणहोमोविद्यतेतथापरान्नसंस्पृष्टस्येति। क्षारलवणमूपरलवणमितिकल्पतरुः। व्यासः

जुहुयात्सर्पिषाभ्यक्तंतैलक्षारविवर्जितम्। क्षाराश्चाग्नेये

तिलमुद्गादृतेशिंब्यंसस्येगोधूमकोद्रवौ। चीनकंदेवधान्यंचशमीधान्यंतथैक्षवम्। स्विन्नधान्यंतथार्षेयं मूलंक्षारगणःस्मृतः। जुहुयाद्व्यंजनक्षारवर्ज्य मन्नंडुताशने। व्यंजननिषेधोहविः परः केवलव्यंजनपरोवा। हविष्यव्यंजनान्वितैः पूर्वोक्तैः। चीनकं कलायः। चतुर्विंशतिमते

पयोदधिघृतैः कुर्याद्वैश्वदैवंस्रुवेणतु। हस्तेनान्नादिभिः कुर्यादद्भिरंजलिनाजले। अत्रभूसंस्कारादिनभवतीतिवृत्तिःकर्कश्च। मार्कडेये

संपूजयेत्ततोवर्ह्निदद्याच्चाहुतयःक्रमात्। हविःपरिमाणमुक्तंप्राक्। चंद्रोदयेस्मृतिः

उत्तानेनतुहस्तेनअंगुष्ठाग्रेणपीडितम्। संह तांगुलिपाणिस्तुवाग्यतोजुहुयाद्धविः। बह्चृपरिशिष्टे

नात्रपाकतंत्रं86सिद्धंहविष्यमधिश्रित्याद्भिः87प्रोक्ष्योदगुद्वास्याग्नेःप्रत्यग्रदर्भेपुनिधायस व्यपाणितलं हृदयेन्य स्यसकृदवदायजुहुयादंतेचपरिसमुह्यपर्युक्ष्यपर्यूहनोक्षणेअपिवानकुवैतीति। शौनकः—

त्रिधाविभज्य सिद्धान्नंत्रिः प्रो

क्ष्यपुरतःस्थितम्। काशीखंडे— पृष्टोदिवीतिमंत्रेणपर्युक्षणमथाचरेत्। एषोहिदेवमंत्रेण कुर्याद्वहिंचसंमुखम्88। तथादेवकृतस्याद्याजुहु याच्चपडाहुतीः। यमाय॒तूष्णीमे कांचतथा स्विष्टकृदाहुतिम्। अत्रिः—साग्निकः पितृयज्ञान्नाद्बलिकर्मसमाचरेत्। अनग्निर्हुतशेषेणबलिं काकबर्लिहरेत्। नरयज्ञादृतेनास्तिनिरग्नेस्तुमहामखः। हुत्वाकाकयलिरेव। वसिष्ठः—अनग्निकस्तुयोविप्रःसोऽन्नं व्याहृतिभिःस्वयम्। हुत्वाशाकलमं त्रैवशिष्टाद्भूतबलिंहरेत्। व्यासः—शाकलेनविधानेनजुहुया ल्लौकिकेऽनले। व्यस्ताभिश्चव्याहृतिभिः समस्ताभिस्ततः परम्। षड्भिर्देवकृतस्येतिमंत्रवद्भिर्यथाक्रमम्। अयंविधिःकातीयपरइति केचित्। निरग्नेरपितस्य सूत्रोक्तएवहोमः। जयंतकृष्णभट्टीययोस्तुव्या हृतिभिर्व्यस्त समस्ताभिर्जुहुयादित्युक्तम्। मनुः—वैश्वदेवस्य सिद्धस्य गृह्येग्नौविधिपूर्वकम्। आभ्यः कुर्याद्देवताभ्यो ब्राह्मणोहोममन्वहम्। अग्नेः सोमस्यचैवादौ तयोश्चैवसमस्तयोः88। विश्वेषांचैव देवानांधन्वंतरयएवच। कुह्वैचैवानुमत्यैचप्रजापतयएवच। सहद्यावापृथिव्योश्चतथा स्विष्टकृदाहुतिः89विष्णुपुराणे—अपूर्वमग्निहोत्रंचकुर्यात्प्राग्ब्रह्मणेततः। प्रजापति समुद्दिश्यदद्यादाहुतिमादरात्। गृह्येभ्यः कश्यपा याथततोनुमतयेक्रमात्। अयमेववैश्वदेवः शूद्रस्येतिशूद्राचारशिरोमणिःमनूक्तइति कौमुदीराघवानंदतीर्थीच। शूद्रस्यशाक लमंप्रोक्तदेवतानाम्नाहोमइतिगोविंदराजः। पाकयज्ञैः स्वयंयजेतेत्येकेइतिगौतमोक्तेः स्वयंकरणविकल्पः शूद्रस्येतिहरिहरः। पाकयज्ञाःप्रयोगपारिजाते हेमाद्रौच। आसुरेभ्यः प्रहीणेभ्यः शिशुग्योयच्चदीयते। वैश्वदेवनतत्कुर्याच्छ्राद्धार्थंयच्चपच्यते। इति।॥

**अथभूतपशः। मनुः—**एवंसम्यग्बहिर्हुत्वासर्वदिक्षुप्रदक्षिणम्। इंद्रांत काप्पतींदुभ्यः सानुगेभ्यो बलिंहरेत्। मरुद्भ्यइतितुद्वारिहरेदण्यपूगहलपिबनस्पतिभ्यइत्येवंमुसलोलूखलेहरेत्। उच्छीर्षकेश्रियै कुर्याद्भद्रकाल्यैतुपादतः। ब्रह्मवास्तोष्पतिभ्यांतुवास्तुमध्येबलिंहरेत्।

विश्वेभ्यश्चैवदेवेभ्योबलिमाकाशउत्क्षिपेत्। दिवाचारिभ्योनक्तंतुनक्तंचारिभ्यएवच। पृष्ठवास्तुनिकुर्वीतब लिंसर्वानुभूतये। पितृभ्योबलिशेषंतुसवैदक्षिणतोहरेत्। गुनांचपतितानांचश्वपचांपापरोगिणाम्। वायसानांकृमीणांचशनकैर्निक्षिपेद्भुवि।90 सायंत्वन्नस्य सिद्धस्यपत्यमंत्रबलिहरेत्। वैश्वदेवंहिनामैतत्सायं प्रातर्विधीयते। यजमानतत्पुत्रादीनामसन्निधौपत्नीबलिंहरेदिति कल्पतरुः। द्वंद्वंचमुसलोलूखलयोः। मुसलोलूखलेक्षिप्त्वातंत्रैकोयलिरितिसर्वज्ञनारायणः। युक्तंचैतदेवलाघवात्। मुसलोलूखलोद्देश्यत्वा त्प्रत्युद्देश्यंबलिक्षेपविधेर्वलिद्वयमिति मेधातिथिः। उलूखलइत्येकवचननिर्देशादितरेतरयोगः। द्वंद्वे द्विवचनापत्तेः समाहारद्वंद्वाश्रयणेनमुसलयुक्तमुलूखलमितिवा समासाश्रयणेनमुसलयुक्तमुलूख लमित्येकत्वम्। उच्छीर्षकं शय्या शिरः वास्तुशिरोवा। पादतः शय्यायावास्तोर्वा। पृष्ठवास्तूपरिगृहमिति मेधातिथिः। पश्चाद्गृहंकाशीखंडे। निर्णेजनोदकांतंतुपावन्यां ( ? ) यक्ष्मणेर्पयेत्। कात्यायनः— अमुष्यैनमइत्येवंबलिदानं विधीयते। स्वधाकारः पितॄणांचहंतकारोनृणांकृतः। नारायणवृत्तौतु बलिदानेस्वाहाकारउक्तः। नेत्याशार्कः। शूद्रस्यनमइत्येव। **आशार्के—**स्वधाकारेणनिनयेत्पित्र्यंव लिमतःसदा। तदप्येकेनमस्कारंकुर्वतेनेतिगौतमः। तत्रनेत्यर्थः। **मार्कंडेये—**स्वधानमइतिह्युक्त्वापितृभ्यश्चापिदक्षिणे। हुतावशेषमन्नंवै तोयंद्याद्यथाविधि। **विष्णुपुराणे—**तच्छेषंम णिकेपृथ्वीपर्जन्याद्भ्यःक्षिपेत्ततः। द्वारेधातुर्विधातुश्चमध्येचब्रह्मणः क्षिपेत्। गृहस्यपुरुषंचै यदिग्देवानांचमेशृणु। इंद्रायधर्मराजायवरुणायतर्थेदवे। प्राच्यादिषुबुधोदद्याद्भुतशेषात्मकंबलिम्। प्रागुत्तरेचदिग्भागेधन्वंतरिबलिंबुधः। वायव्यांवायवेदिक्षुसमस्तासुततोदिशम् ‘। ब्रह्मणेचांतरिक्षायवायवे चक्षिपेद्बलिम्। विश्वेदेवान्विश्वभूतांस्ततो विश्वपतीन्पितॄन्। यक्ष्माणंचसमुद्दिश्यबलिंदद्यान्नरेश्वर। ततोन्यदन्नमादाय भूमिभागेशुचौबुधः। दद्यादशेषभूतेभ्यः स्वेच्छयातत्समाहितः। देवामनुष्याः पशवोवयांसिसिद्धाश्चय क्षोरगदैत्यसंघाः। प्रेताःपिशाचास्तरवः समस्तायेचान्नमिच्छंतिमयाप्रदत्तम्। पिपीलिकाः कीटपतंगकाद्याबुभुक्षिताः कर्मनिबंधबद्धाः। प्रयांतु

तेतृष्ठिमिदंमयान्नंतेम्योविसृष्टसुखिनोभवंतु। येषांनमातानपितानबंधुर्नचान्नसिद्धिर्नतथान्यदस्ति। तस्मादहं भूतनिकायभूतमन्नंप्रयच्छामिभवायतेषाम्। चतुर्दशोभूतगणोपियस्तुतत्रस्थितायेखिलभूतसंघाः। तृप्त्यर्थ मन्नंहिमयाविसृष्टंतेषामिदंतेमुदिताभवंतु। इत्युच्चार्यनरोदद्यादन्नंश्रद्धासमन्वितः। भुविभूतोपकाराय गृहीसर्वाश्रयोयतः। श्वचांडालविहंगानांभुविदद्यात्ततोनरः। येचान्येपतिताः केचिदपुत्रा भुविमानवाः। इदमेवबलिदानंशूद्रस्येत्युक्तंशूद्राचारशिरोमणौस्मृतिकौमुद्यांच

बलिदेशसंस्कारः। आपस्तंबः—बलीनांदेशस्यसंस्कारोहस्तेनपरिमृज्यावोक्ष्यन्युप्यचेति। छंदोगपरिशिष्टे—नावरार्ध्याबलयोभवंतिमहामार्जारश्रवणप्रमाणात्। एकत्रचेदविकृष्टाभवंतिइतरेतरम संसक्ताश्चेदिति। नानास्थानेबलिदानासंभवे अविकृष्टाअव्यवहिताः। शौनकः— बदरीफलमात्रान्न मंगुल्यग्रैर्विनिक्षिपेत्। बलिहरणेविशेषोबह्वृचपरिशिष्टे–अथगृहबलिदेवतानां कीर्तयिष्यामोयत्र यत्रवसंतिताः। द्वारेपितामहंविद्यात्प्रक्रीलेतुउमापतिम्। आग्नेय्यामित्यग्रेदर्शनात् द्वारे प्राच्याम्। आग्नेय्यांबलभद्रंचयमंविष्णुंचदक्षिणे नैर्ऋत्यांस्कंदवरुणौसोमंसूर्यचपश्चिमे। वायव्यामश्विनौ। वसवःसौम्यां। रुद्रईशान्यां। नैर्ऋत्यांस्कंदं। वरुणसोमौपश्चिमे। सूर्योवायव्यामित्यर्थः। नक्षत्रेदुग्रहाः पूर्वी दिशमाश्रिताः। गृहमध्येब्रह्माणंप्रतिष्ठाप्यऋद्धिर्वृद्धिः श्रीः कीर्तिरिति प्रदक्षिणंब्रह्मणः प्रागादिदिश्वित्यर्थः। निष्क्रम्य गृहनिवेशनात्प्राङ्मुखःप्रोक्ष्यबलीन्निनयेत्। निवेशनंमुख्यगृहम्। ऐंद्रवारुणवायव्याया म्यावैनैर्ऋतास्तथा। ’ तेकाकाःप्रतिगृह्णंतुभूम्यांपिंडंमयार्पितम्। इतिकाकबलिः। द्वौश्वानौश्यामशबलौ वैवस्वतकुलोद्भवौ। ताभ्यांपिंडंप्रयच्छामिस्यातामेताबहिंसकावितिश्वबलिः। येभूताः प्रचरतिदिवान क्तंबलिमिच्छंतोविदुरस्यप्रेष्ठाः। तेभ्योबलिपुष्टिकामोददामिमयिपुष्टिंपुष्टिपतिर्ददात्वितिभूतबलिः। प्रक्षाल्यपाणिपादौ गृहंप्रविश्यजपेत् शांतापृथिवीशिवमंतरिक्षंद्यौर्नदेव्यभयंनोअस्तु। शिवादिशः प्रदिशउद्दिशोन आपोविद्युतः परिपांतुसर्वतः शांतिः ३ ॥

अत्रकेचित्बलिहरणेनत्यागोहरणमात्रोक्तेःयजतिजुहोतिचोदितत्वाभावाच्च। अन्यथातर्पणेपित्यागापत्तेरि त्याहुः। तन्न। सूक्तवाककरणत्वान्यथानुपपत्त्याहरतेर्यागकल्पवन्मन्वादिष्विंद्रादिषुचतुर्थीनिर्देशान्यथानुप पत्त्याअत्रापिहरतेर्यागार्थत्वौचित्यात्। इति॥

बलिहरणभेदानाह शौनकः—चक्राकारमथाष्टारंकुर्यादग्निसमीपतः। आयुःकामोदिवारात्रौ छत्राकारंबलिंहरेत्। आयुरारोग्यकामोबाध्वजाकारंबलिंहरेत्। मृत्युरोगविनाशार्थीनराकारंबलिंहरेत्। आयुरारोग्यसौभाग्यपुत्रविद्यापशूनपि। कामश्रीधर्ममोक्षार्थीचक्राकारंबलिंहरेत्। पंचस्वेतेषुविप्राणांमुख्या चक्राकृतिर्भवेत्। बह्वृचानांनराकारोमुख्यइतिकृष्णभट्टीयेजयंतवृत्तौनारायणवृत्तौच। यत्तु व्यज नाकारंबलिमापस्तंबाहरंतितत्रमूलंमृग्यम्। **पृथ्वीचंद्रोदये—अनुद्धृत्यबलीनश्नन्प्राणायामान्षडाचरेत्। स्वयमुद्धरणेचैवप्राजापत्यं समाचरेत्। बलिप्रतिपत्तिमाहकात्यायनः—**पिंडवच्चपश्चिमाप्रतिपत्तिरिति। यथापिंडप्रतिपत्तिर्गोजविप्राग्न्यंबुषुतथाश्चादिबलिभिन्नबलीनामित्यर्थः। **चंद्रिकायांकात्यायनः—**वैश्वदेवंच पित्र्यंचबलिमग्नौविनिक्षिपेत्। शेषंभूतवलेर्विप्रस्त्यक्त्वाकाकबलेःसमम्। अग्निस्मृतौ— वैश्वदेवबलेः शेषंनाश्नीयाद्ब्राह्मणोगृही। काकादिभ्यस्तुतद्देयंविप्रेभ्योवाविशेषतः। इति।

अधपितृयज्ञः। सद्वेधाबलिहरणरूपोनित्यश्राद्धरूपश्च। श्राद्धंवापितृयज्ञः स्यात्पित्र्यो बलिरथापिवेतिकात्यायनोक्तेः। द्विविधोपिबल्युत्तरंकाकबलेःपूर्वंकार्यः। भूतयज्ञस्त्वयंनित्यःसायंप्रात र्यथाविधि। एकंतुभोजयेद्विप्रंपितॄनुद्दिश्ययत्नतः। पूजयेदतिथिंनित्यंनमस्येदर्चयेत्तथेति कौर्मात्। भूत यज्ञस्तथाश्रार्द्धनित्यंत्वतिथितर्पणम्। क्रमेणानेन कर्तव्यंस्वाध्यायाध्ययनंतथेति शातातपोक्तेः। अदत्वावायसबलिंनित्यश्रार्द्धंसमाचरेदितिकाशीखंडाच्चवसिष्ठेनतु **मनुष्ययज्ञोत्तरं श्राद्धमुक्तं—**श्रोत्रियायाग्रंदत्वाब्रह्मचारिणेचानंतरं पितृभ्योदद्यादिति। एतद्वल्युत्तरंश्रोत्रियादेरुपस्थितावित्याचारादर्शः। मनुस्मृतौ वैश्वदेवात्पूर्वंनित्यश्राद्धमुक्तम्। श्रुतौतु देवयज्ञः पितृयज्ञोभूतयज्ञोमनु

ष्पयज्ञोब्रह्मयज्ञइतिक्रमउक्तः। अपवर्गेतुसर्वत्रनित्यमेवप्रकीर्तितमितिशातातपोक्तेः वैश्वदेवोत्तरंनित्य- श्राद्धमिति गोविंदराजः

अथनित्यश्राद्धम्। मनुः—दद्यादहरहःश्राद्धमन्नाद्येनोदकेन वा। पयोमूलफलैर्वापिपितृभ्यः प्रीतिमावहन्। कात्यायनेनतर्पणेना पिनित्यश्राद्धसिद्धिरुक्ता पितृयज्ञस्तुतर्पणमिति। बौधायनोपि अपिवाअपस्तत्पितृयज्ञइति। अत्रतुल्यवद्विकल्पइतिकर्कः। शक्ताशक्तवि पयत्वेनव्यवस्थेति पित्र्यवलिनित्यश्राद्धयोः समुच्चयः मनुमार्कंडेयपुराणादिषुभयोर्नित्यत्वावगतेरित्युक्तंमदनरत्ने। प्रयोगपारिजाते तुपित्र्यबलेर्देवपित्र्यर्थत्वान्नित्यश्राद्धस्यमनुष्य पित्र्यर्थत्वादुभयोः समुच्चयउक्तः। तन्न। देवताभेदेमानाभावात्। नारायणवृत्तिकृत्तुवबह्वृचा नांपित्र्यबलिनैव नित्यश्राद्धसिद्धिमाह। तदयमर्थः—

शक्तस्यनित्यश्राद्धंबलिश्च। श्राद्धाशक्तावुद्धृतान्नदानंबलिश्च। तदसंभवेबलिमात्रं। उद्धृतान्न प्रतिपत्तिश्चकौर्मे—

उद्धृत्यवायथाशक्तिकिंचिदन्नंस माहितः। वेदतत्वार्थविदुषेद्विजायैवोपपादयेत्। पित्र्यवलेर्नित्यश्राद्धत्वेतत्रगोत्राद्यु च्चारोपिभवति। येषांपित्र्यबलौस्वधापितृभ्यइतिमंत्राम्नानंतेषांन गोत्राद्युच्चारःमंत्रानर्थक्यापत्तेः। नित्यश्राद्धंचअमादौप्रसंगसिद्धेःपृथङ्नकार्यम्। नित्यश्राद्धंनकुर्वीत प्रसंगाद्यत्रसिध्यति। श्राद्धांतरेकृतेन्यत्रनित्यत्वात्तन्नहापयेदितिहेमाद्रौनागरखंडात्। यत्रद्रव्यकत्रैक्ये। अन्यत्रतदभावे। श्राद्धं कृत्वातुतस्यैवपुनःश्राद्धंनतद्दिने। नैमित्तिकंतुकर्तव्यं निमित्तानुक्रमोदय मितिजाबालिस्मृतेत्रिस्थलीसेतीतु

आमेनहेम्नावातीर्थश्राद्धेकृतेनित्यश्राद्धंपृथक्। तस्यपक्व द्रव्यकत्वनियमात्। यत्तुनांदीमुखतीर्थश्राद्धाभ्यांनित्यश्राद्धस्यसिद्धिरिति हेमाद्रिरूचेतत्तीर्थ श्राद्धस्यान्ने नकरणेज्ञेयमित्याहुर्भद्टपादाः। अस्यदिवाकरणेलोपःरात्रौश्राद्धंन कुर्वीतेतिवचनात्किंतुप्रायश्चित्त नमेवेत्युक्तंमदनरत्नेगोविंदाचेप्रयोग पारिजातेच। अत्रकेचित्—

नित्यश्राद्धं रात्रावपिकार्यम्। दिवोदि तानीत्यादिबृहन्नारदीयात्। रात्रप्रहरपर्यंतमित्यादिचंद्रोदये संग्रहाचच। नचैवंदार्शिकाद्य पिरात्रस्यादितिवाच्यम्। तिथिसंबंधित्वेनदिवासंबंधित्वादित्याहुः। प्रांचाअप्येवम्। तन्न।-संध्यारात्र्योर्नकर्त

अत्रकेचित्बलिहणेनत्यागोहरणमात्रोक्तेःयजतिजुहोतिचोदितत्वाभावाच्च। अन्यथातर्पणेपित्यागापत्तेरि त्याहुः। तन्न। सूक्तवाककरणत्वान्यथानुपपत्त्याहरतेर्यागकल्पवन्मन्वादिष्विविंद्रादिषुचतुर्थीनिर्देशान्यथा नुपपत्त्याअत्रापिहरतेर्यागार्थत्वौचित्यात्।इति॥ .

बलिहरणभेदानाह शौनकः—चक्राकारमथाष्टारंकुर्यादग्निसमीपतः। आयुःकामोदिवारात्रौ छत्राकारंबलिंहरेत्। आयुरारोग्यकामोवाध्वजाकारंबलिंहरेत्। मृत्युरोगविनाशार्थीनराकारंबलिंहरेत्। आयुरारोग्यसौभाग्यपुत्रविद्यापशूनपि। कामश्रीधर्ममोक्षार्थीचक्राकारं बलिंहरेत्। पंचस्वेतेषुविप्राणां मुख्याचक्राकृतिर्भवेत्। बह्वृचानांनराकारोमुख्यइतिकृष्णभट्टीयेजयंतवृत्तौनारायणवृत्तौच। यत्तु व्यज नाकारंबलिमापस्तंबाहरंतितत्रमूलंमृग्यम्। पृथ्वीचंद्रोदये—अनुद्धृत्यलीनश्नन्प्राणायामान्षडाचरेत्। स्वयमुद्धरणेचैवप्राजापत्यं समाचरेत्। बलिप्रतिपत्तिमाहकात्यायनः– पिंडवच्चपश्चिमाप्रतिपत्तिरिति। यथापिंडप्रतिपत्तिर्गोजविप्राग्न्युबुषुतथाश्वादिबलिभिन्नबलीनामित्यर्थः। **चंद्रिकायांकात्यायनः—**वैश्वदेवं च पित्र्यंचबलिमग्नौविनिक्षिपेत्। शेषंभूतबलेर्विप्रस्त्यक्त्वाकाकबलेःसमम्। अग्निस्मृतौवैश्वदेववलेः शेषं नाश्नीयाद्ब्राह्मणोगृही। काकादिभ्यस्तुतद्देयं विप्रेभ्योवा विशेषतः। इति।

अधपितृयज्ञः। सद्वेधाबलिहरणरूपोनित्यश्राद्धरूपश्च। श्राद्धंवापितृयज्ञःस्यात्पित्र्योबलिरथा पिवेतिकात्यायनोक्तेः। द्विविधोपिबल्युत्तरंकाकबलेःपूर्वंकार्यः। भूतयज्ञस्त्वयंनित्यः सायंप्रातर्यथाविधि। एकंतुभोजयेद्विप्रपितॄनुद्दिश्ययत्नतः। पूजयेदतिथिंनित्यंनमस्येदर्चयेत्तथेति कौर्मात्। भूतयज्ञस्तथा श्रार्द्धनित्यत्वतिथितर्पणम्। क्रमेणानेनकर्तव्यंस्वाध्यायाध्ययनंतथेति शातातपोक्तेः। अदत्वावायसबलिं नित्यश्राद्धंसमाचरेदितिकाशीखंडाच्च। वसिष्ठेनतु मनुष्ययज्ञोत्तरंश्राद्धमुक्तं**—** श्रोत्रियायाग्रंदत्वाब्रह्म चारिणेचानंतरं पितृभ्योदद्यादिति। एतह्बल्युत्तरंश्रोत्रियादेरुपस्थितावित्या चारादर्शः। मनुस्मृतौ वैश्वदेवात्पूर्वनित्यश्राद्धमुक्तम्। श्रुतौ देवयज्ञः पितृयज्ञोभूतयज्ञोमनु

ष्ययज्ञोब्रह्मयज्ञइतिक्रमउक्तः। अपवर्गेतुसर्वत्रनित्यमेवप्रकीर्तितमितिशातातपोक्तेः वैश्वदेवोत्तरंनित्य श्राद्धमितिगोविंदराजः

अथनित्यश्राद्धम्। मनुः—दद्यादहरहःश्राद्धमन्नाद्येनोदकेनवा। पयोमूलफलैर्वापिपितृभ्यः प्रीतिमावहन्। कात्यायनेनतर्पणेनापिनित्यश्राद्धसिद्धिरुक्ता पितृयज्ञस्तुतर्पणमिति। बौधायनोपि अपिवा अपस्तत्पितृयज्ञइति। अत्रतुल्यवद्विकल्पइतिकर्कः। शक्ताशक्तविषयत्वेनव्यवस्थेतिपित्र्य बलिनित्यश्राद्धयोःसमुच्चयःमनुमार्कडेयपुराणादिपूभयोर्नित्यत्वावगतेरित्युक्तंमदनरत्नेप्रयोग पारि जातेतुपित्र्यवलेर्दैवपित्र्यर्थत्वान्नित्यश्राद्धस्यमनुष्यपित्र्यर्थत्वादुभयोःसमुच्चयउक्तः। तन्न। देवताभेदेमाना भावात्। नारायणवृत्तिकृत्तुबह्वृचानांपित्र्यवलिनैवनित्यश्राद्धसिद्धिमाह। तदयमर्थः— शक्तस्यनित्य श्राद्धंबलिश्च। श्राद्धाशक्तावुद्धृतान्नदानंबलिश्च। तदसंभवेबलिमात्रं। उद्धृतान्नप्रतिपत्तिश्चकौर्मे— उद्धृत्यवायथाशक्तिकिंचिदन्नंसमाहितः। वेदतत्वार्थविदुषेद्विजायैवोपपादयेत्। पित्र्यबलेर्नित्यश्राद्ध त्वेतत्रगोत्राद्युच्चारोपिभवति। येषांतुपित्र्यबलौस्वधापितृभ्यइतिमंत्राग्नानंतेषांनगोत्राद्युच्चारःमंत्रानर्थ क्यापत्तेः। नित्यश्राद्धंचअमादौप्रसंगसिद्धेः पृथङ्नकार्यम्। नित्यश्राद्धंनकुर्वीतप्रसंगाद्यत्रसिध्यति। श्राद्धांतरेकृतेन्यत्रनित्यत्वात्तन्नहापयेदितिहेमाद्रौनागरखंडात्। यत्रद्रव्यकर्त्रैक्ये। अन्यत्रतदभावे। श्राद्धंकृत्वातुतस्यैवपुनःश्राद्धंनतद्दिने। नैमित्तिकंतुकर्तव्यंनिमित्तानुक्रमोदयमितिजाबालिस्मृतेश्च। त्रिस्थलीसेतौतु—आमेनहेम्नावातीर्थश्राद्धेकृतेनित्यश्राद्धंपृथक्। तस्यपक्वद्रव्यकत्वनियमात्। यत्तु नांदी मुखतीर्थश्राद्धाभ्यांनित्यश्राद्धस्यसिद्धिरितिहेमाद्रिरूचेतत्तीर्थश्राद्धस्यान्ने नकरणेज्ञेय मित्याहुर्भट्टपादाः। अस्यदिवाकरलोपः रात्रौ श्राद्धंनकुर्वीतेतिवचनात्किं तुप्रायश्चित्तमेवेत्युक्तंमदनरत्नेगोविंदार्णवेप्रयोग पारिजातेचअत्रकेचित्—नित्यश्राद्धंरात्रावपिकार्यम्। दिवोदितानीत्यादिबृहन्नारदीयात्। रात्रौप्रहर पर्यंतमित्यादिचंद्रोदयेसंग्रहाच्च। नचैवंदार्शिकाद्यपिरात्रौस्यादितिवाच्यम्। तिथिसंबंधित्वेनदिवासं बंधित्वादित्याहुः। प्रांचाअप्येवम्। तन्न।**—**संध्यारात्र्योर्नकर्त

व्यंश्राद्धंखलुविचक्षणैरितिविष्ण्वादिवचनैर्नित्यश्राद्धस्यापिरात्रौनिषेधात्। नचेदममावास्यादितिथिसंबंधि श्राद्धपरम्। संकोचेमानाभावात्। तस्याप्यपराह्णसंबंधित्वेनदिवासंबंधित्वाच्च। नचैवमल्पद्वादश्यामपर रात्रेनित्यश्राद्धंनस्यादितिवाच्यम्। इष्टापत्तेः अपकर्षविधेर्बलीयस्त्वाद्वातत्करणम्। यत्तुस्मृत्यर्थसारे — नित्यश्राद्धेन्नदेशकालनियमोनास्तीतितदप्यपराह्णनियमोनास्तीत्येतत्परंनतुरात्रिप्राप्तिपरम्। अतएवतीर्थ द्रव्योपपत्तौचनकालमवधारयेदितिदेवलोक्तावपराह्णनियमएवोक्तोनतुरात्रिग्रहणमपीत्युक्तम्। शूलपा णिनातीर्थश्राद्धे—

रात्रौवायदिवादिवेतिस्पष्टंरात्रिविधेराश्रावनुष्ठानंयुक्तम्। नत्वत्र**—**

श्राद्धंसायाह्न दत्तंहिरा क्षसैर्विप्रलुप्यते। ग्रहोपरागसंक्रांतितीर्थ श्राद्धादिकंचनेतिग्रहादि पर्युदासेनरात्रौश्राद्धनिषेधप्रतीतेश्च। अन्यथापरिगणनवैयर्थ्यापत्तेः। यत्तुत्रिमुहूर्तंतुसायाह्नस्तत्रश्राद्धंविवर्जयेदितितन्ननित्यश्राद्धपरम्। स्वकाला तिक्रमेकुर्याद्रात्रेःपूर्वतयाविधिरितिकालमाधवीयेव्यासोक्तेः। पित्र्यबलेर्नित्यश्राद्धेपिनरात्रौनिषेधः। प्रति निधौनिषेधाप्रवृत्तेः। समुच्चयपक्षेस्थानापत्त्यमावाच्च। नित्यश्राद्धंशक्तस्याप्यनग्न्यादेरामेन। अनग्निश्च प्रवासीचयस्यभार्यारजस्वला। आमश्राद्धंप्रकुर्वीतमाससंवत्सरा दृतइतिमरीच्युक्तेः। नचनित्यश्राद्धे वृद्धिश्राद्धेचभोजनमेवप्रधानमित्याशार्कोक्तेर्नामप्राप्तिरितिवाच्यम्। वृद्धिश्राद्धेपितदभावापत्तेरितिके चित्। हेमाद्रिस्त्वनग्न्यादेरपिपाकासंभवएवामेनेत्यूचे। युक्तंचैतत्। इंगुदैर्बदरैर्बिल्वैरामस्तर्पयतेपितॄन्। यदन्नःपुरुषोलोकेतदन्नास्तस्यदेवताइतिरामायणात्। नित्यश्राद्धेततोदद्याद्भुङ्क्तेयत्स्वयमेवही तिब्रह्मांडाच्च। नित्यश्राद्धस्यपक्वद्रव्यकत्वनियमादितिपितामहोक्तेश्च। अतः प्रवासादावपिपक्वेनैवेदम्। यतुस्मृत्यर्थसारे अन्ननियमोनास्तीतितदप्यन्य श्राद्धवद्धृतपक्वादिनियमोनास्तीत्येतत्परं नतुपक्वानियम परम्। अस्मादेववचनद्वयान्नित्यश्राद्धंनिषिद्धद्रव्येणापितैलादिनाकार्यमित्युक्तं हेमाद्रौचंद्रिकायांदिवोदा सीये च। श्राद्धहेमाद्रौयमः—

सपिंडीकरणेनित्येनाधिमासंविवर्जयेत्। निर्णयदीपेगार्ग्यः—

नांदीश्राद्धेकृतेपश्चद्यावन्मातृविसर्जनत्। दर्शश्राद्धंक्षयश्राद्धंस्नानं

शीतोदकेनच। अपसव्यंस्वधाकारंनित्यश्राद्धंतथैवच। ब्रह्मयज्ञंचाध्ययनंनदीसीमातिलंघनम्। उपवासव्रतं चैवश्राद्धभोजनमेवच। नैवकुर्युः सपिंडाश्चमंडपोद्वासनावधि। एतद्वर्षपर्यंतमावश्यकमूर्ध्वकृताकृतम्। नित्यश्राद्धंप्रक्रम्य**—**

एवंसंवत्सरमित्युक्त्वाकृताकृतमतऊर्ध्वमित्यापस्तंबोक्तेरितिशूद्राचारशिरोमणिः कल्पतरुश्च। तन्न। आपस्तंबोक्तनित्यश्राद्धस्येतिकर्तव्यताभेदेनस्मृत्युक्तनित्यश्राद्धभेदात्। नित्यक्रियां पितॄणांतुकेचिदिच्छंतिसत्तमाइतिमार्कंडेयपुराणान्नित्यश्राद्धेविकल्पः। सचषट्पुरुषश्राद्धोत्तरं नित्य श्राद्धंनकार्यं श्राद्धोत्तरंतुकर्तव्यमितिव्यवस्थितइतिपितृभक्तिःश्रीदत्तः। नित्यश्राद्धाकारणेनदोषः करणेतुमहाफलमितिकल्पतरुः। तन्न नित्यसंयोगविरोधात् फलाश्रवणाच्च अकरणेप्रायश्चित्तोक्तेः। हेमाद्रौदेवलः—

अनेनविधिनाश्राद्धंकुर्यात्संवत्सरंसकृत्। द्विश्चतुर्वायथाश्रार्द्धमासेमासेदिनेदिने। प्रत्य हमनुष्ठानाशक्तौमासेमासे तत्राप्यशक्तोवर्षमध्येद्विश्चतुर्वासकृद्वाकार्यमिति हेमाद्रिश्चंद्रिकाच। नेदंनित्य श्राद्धपरम्। अनेनविधिना श्राद्धंत्रिशुद्धस्येहनिर्वपेत्। हेमंतग्रीष्मवर्यासुपांच यज्ञियमन्वहमितिमनूक्तेः। मात्स्ये – पूर्वार्धंतदेव। कन्याकुंभबृषस्थेर्केकृष्णपक्षेषुसर्वदेति। सकृदितिकन्यास्थार्कपरम्। अतः सर्वामावास्याश्राद्धाराक्तौसर्वकृष्णपक्षेषुश्राद्धाशक्तौचेदमितिश्राद्धशूलपाणिः। युक्तंचैतदेव॥

अथविधिः। व्यासः—नित्यश्राद्धेथगंधाद्यैर्द्विजानभ्यर्च्यशक्तितः। सर्वान्पितृगणान्सम्यक्सहैवो द्दिश्यभोजयेत्। नावाहनंस्वधाकारंपिंडाग्नौकरणादिकम्। ब्रह्मचर्यादिनियमोविश्वेदेवास्तथैवच। नित्यश्राद्धेत्यजेदेतान्भोज्यमन्नंप्रकल्पयेत्। दद्यात्तुदक्षिणांशक्त्यानमस्कारैर्विसर्जयेत्। ब्रह्मचर्यभावेदातृ भोक्तोःभोक्तारंप्रतिदातारंव्रतंतत्रनविद्यतइतिदेवलोक्तेः मात्स्ये—

नित्यं तावत्प्रवक्ष्ये हमर्घवाहन वर्जितम्। अर्घ्यपात्रमेवनिषिद्धंनार्घ्यदानम्। नैत्यकेपितरएतद्वोर्घ्यमितिपाणिनैवार्घ्यं दद्यादितिगृह्यांत रादितिदिवोदासःप्रचेताः—

नामंत्रणंनहोमश्च नावाहनविसर्जने। नपिंडदानंनसुरान्नित्ये कुर्याद्द्विजो त्तमः। उपवेश्यासनंदत्वासंपूज्यकुसुमादिभिः। निर्दिश्य भोजयित्वा तु किंचिद्दत्वाविसर्ज ।

येत्। वाजेवाजेइतिमंत्रविशिष्टविसर्जननिषेधोनकेवलस्य नमस्कारैर्विसर्जयेदितिपूर्वमुक्तेरितिश्रा- द्धहेमाद्रिः। आसनादित्वोक्तेर्नपाद्यमिति स एव। किंचिद्दत्वेतिकाकिन्यादक्षिणामितिकल्पतरुः। यत्तु- दानहेमाद्रौ—

सुवर्णंरजतंताम्रतंदुलाधान्यमेवच। नित्यश्राद्धंदेवपूजासर्वमेतददक्षिणमिति। यदपिव्यासः—

तत्तुपाट्पुरुषंज्ञेयंदक्षिणापिंडवर्जितमिति। यदप्यपराकैप्रचेताः—

नावाहनाग्नौकरणेनपिंडानांविसर्जन म्। अनुव्रज्योदक्षिणाचत्रिभ्यश्चातिथिकल्पनमिति। तत्रदक्षिणाभावो द्विजानुपवेशनपक्षइति पृथ्वीचंद्रः। त्रिभ्योधिकस्यननित्यश्राद्धेभोजनं किंत्वतिथिकल्प्यमित्यर्थः। षण्मुख्याइतिदिवोदासः। दक्षिणा विकल्पइतिमदनरत्नेमात्स्ये—

यद्येकंभोजयेद्विप्रंत्रीनुद्दिश्यपितॄंस्तथा। छंदोगपरिशिष्टेच—

एकमप्याशये द्विप्रपित्रर्थंपांचयज्ञिके। शौनकः—

आर्चन्नत्रजपेन्मंत्रंदशवारंसदाबुधः। नित्यश्राद्धंयदान्यूनंकुरुते नात्र संशयः। नित्यश्राद्वाशक्तौमनुः—

भिक्षांवापुष्कलंवापिहंतकारमथापिवा। असंभवेसदादद्यादुदपात्रमपि द्विजे। इति।

** अथप्रयोगः**। आचम्यप्राणानायम्यापवित्रः पवित्रोवेतिपुंडरीकाक्षंस्मृत्वा गायत्रींपठित्वा प्राङ्मुखोदेश- कालौसंकीर्त्यदक्षिणामुखःप्राचीना वीती सव्यंजान्वाच्यास्मत्पितृपितामहप्रपितामहानाममुक शर्मणाम मुकगोत्राणां वसुरुद्रादित्यस्वरूपाणांसपत्नीकानांमातामहानांचैवंविधानांनित्य श्राद्धमहंकरिष्य इति संकल्प्य संकल्पोत्तरमपसव्यादीतिपृथ्वीचंद्रः। पित्रादीनांमातामहादीनांचेदमासनमितिद्विगुण भुग्नंकुशंवामतोदत्वागंधा दिदत्वामंडलेनिहितंभस्मादिनावेष्ट्यपरिविष्यगायत्र्याभ्युक्ष्यपात्रमालभ्यपृथिवी तइतिपठित्वेदंविष्णुरितिपंचभिर्द्विजांगुष्ठंहविषिनिवेश्यवामेनपाणिनापात्रमालभ्य नामगोत्रोच्चारणपूर्वं पित्रादिभ्यःसपत्नीकेभ्यइदमन्नंयथाशक्तिसोपस्करममृतरूपेणस्वधासंपद्यतांकव्यंनममेतित्यजेत्। एवं मातामहेभ्योपि। कल्पतरुरप्येवम्। त्रेधाविभज्यान्नंयुष्मभ्यंनमइतिविशेषमाह। इदमन्नंतुभ्यंस्वधेति प्रत्येकंषड्भ्योनमःपितृभ्यइतिषड्भ्यःसकृद्वात्यजेदितिश्रीदत्तः। गायत्रीमध्वितिजपित्वापोशनंदत्वागाय त्रींपठित्वाभोजनोत्तरंतृप्तान्पृष्ट्वोत्तराचमनंदत्वासुप्रोक्षितादिकृत्वादक्षिणांदत्वाअ

दत्वावाविसर्जयेत्। भोक्रभावेन्नंभिक्षवेगोभ्योवादद्यात् अग्नौजलेवाक्षिपेत्। दिवोदासीयेगृह्यांतरे—

सहचेदश्नीयात्पूर्वमेवस्वधाक्षय्यं स्वस्तीतिचेदित्युक्तेसहाशनंनमुख्यम् इतिनित्यश्राद्धम्।

अथमनुष्ययज्ञः। सचमनुष्यभोजनात्मकः। यन्मनुष्येभ्योददातीत्याश्वलायनसत्रात्। नियुज्यैकमनेकंवाश्रोत्रियंप्राङ्मुखंसदा। निवीतीतद्गतमनाऋषीन् ध्यायन्समाहितः इति चंद्रिकायां नारायणोक्तेः। ऋषीन् सनकादीन्मनुष्यान्। तत्राप्यतिथिभोजनं मुख्यम्। यत्तयाज्ञबल्क्यः– भोजये च्चागतान्कालेसखिसंबंधिबांधवानितितदतिथेर्भोजनोत्तरमपिपंत्तौसख्यादयोभोज्याइत्येतदर्थं। मनुष्यय- ज्ञार्थमथिर्तिभोजयेदित्यापस्तंबपरिशिष्टात्। पितृभ्योदद्यात्ततोतिथीन्भोजयेदिति वसिष्ठस्मृतेर्नित्यश्राद्धो त्तरंमनुष्ययज्ञइत्याचारादर्शः। कल्पतरौमदनरत्नेचैवम्। नित्यश्राद्धात्पूर्वेमनुष्ययज्ञइति दिवोदासः। अतिथ्यभावेन्येनापिब्राह्मणेनमनुष्ययज्ञसिद्धिः। अहरहर्ब्राह्मणेभ्योदद्यान्मूलफलशाकेभ्योऽप्येवं मनुष्य यज्ञमाप्नोतीतिबौधायनोक्तेः। तत्राशक्तौ चंद्रिकायांनारायणः—

अशक्तावन्नमुद्धृत्यहतेत्येवंप्रकल्पयेत् इति॥॥ यत्किंचिन्मनुष्यभोजनेनहंतकारादिनावाकृतेपिमनुष्ययज्ञेऽतिथिभोजनमावश्यकम्— अतिथि र्गृहमभ्येत्ययस्यप्रतिनिवर्तते। असत्कृतोनिराशश्चससद्योहंतितत्कुलमिति माधवी ये देवलोक्तः। विष्णुपुराणे—ततोगोदोहमात्रंवैकालंतिष्ठेद्गृहांगणे। अतिथिग्रहणार्थायतदूर्ध्ववायथेच्छया। अतिथिंतत्र संप्राप्तं पूजयेत्स्वागतादिना। अतिथिलक्षणं व्यासः—

मुहूर्तस्याष्टमंभागमुद्वीक्ष्योह्यतिथिर्भवेत्। दूराच्चोपगतंश्रांतवैश्वदेवउपस्थितम्। अतिथिंतंविजानीयान्नातिथिःपूर्वमागतः। मनुः—

एकरात्रंतु निवसन्नतिथिर्ब्राह्मणःस्मृतः। नैकग्नामीणमतिथिंविप्रंसांगतिकंतथा। उपस्थितं गृहे विद्याद्भार्यांय त्राग्नयोपिच। शातातपः—

अचिंतितमनाहूतदेशकालउपस्थितम्। अतिर्थितंविजानीयान्ना तिथिः पूर्वमागतः। यमः—

तिथिपर्वोत्सवाःसर्वेत्यक्तायेनमहात्मना। सोऽतिथिः सर्वभूतानांशेषानभ्यागतान्विदुः। व्रतीयतिर्वैकरात्रंनिवसन्नुच्यतेऽतिथिः। श्राद्धहमाद्रौशातातपः—

प्रियोवायदिवाद्वेष्योमूर्खः पंडितएववा। प्राप्तस्तुवैश्वदे

वांतेसोऽतिथिःस्वर्गसंक्रमः। चंद्रोदयेपाद्मे—

देशनामकुलंविद्यांपृष्ट्वायोऽन्नंप्रयच्छति। नसतत्फलमावा प्नोतिदत्वास्वर्गंनगच्छति। मनुः—

ब्राह्मणस्यनत्वतिथिर्गृहेराजन्यउच्यते। वैश्यःशूद्रःसखाचैवज्ञातयोगुरु रेवच। यदित्वतिथिधर्मेणक्षत्रियोगृहमाव्रजेत्। भुक्तवत्सुचविप्रेषुकामंतमपिभोजयेत्। वैश्यशूद्रावपि प्राप्तौकुटुंबेतिथिधर्मिणौ। काममिच्छया नत्ववश्यं। कुटुंबेतद्वदितिगृहे नप्रवासादौ। आपस्तंबः—

शूद्र मभ्यागतंकर्मणिनियुंज्यादथास्मैदद्याद्दासावा91राजकुलादाहृत्यातिथिवच्छूद्रपूजयेयुरिति। राजकुलंस्वस्व मिगृहम्। पूजामंत्रमाहपराशरः—

अतिथेऽमरदेहस्त्वमुत्तारार्थमिहागतः। संसारपंकमग्नंमामुद्धरस्वा- घनाशन। अतिथिबहुत्वेविशेषमाहतर्बोधायनशंखौ—

ब्राह्मणक्षत्रियविट्शूद्रानभ्यागतान्यथाशक्त्या पूजय द्यदिबहूनांनशक्नुयादेकस्मैगुणवतेदद्याद्योवाप्रथममागतः स्याच्छ्रोत्रियस्तस्माइति। आपस्तंबः—

अतिथिं निराकृत्योपोष्यश्वोभूतेयथामनसंतर्पयित्वासंसाधयेदिति। संसाधयेत्प्रेषयेत्। पराशरः—

यतिश्चमाचारी- चपक्वान्नस्वामिनावुभौतयोरन्नमदत्वातुभुक्त्वाचांद्रायणंचरेत्। दद्याच्चभिक्षात्रितयंपरिव्राट्ब्रह्मचारिणाम्। इ- च्छयावाततोदद्याद्विभवेसत्यवारितम्। कौर्मे— भिक्षांचभिक्षवेदद्याद्विधिवद्ब्रह्मचारिणे। भिक्षूनाहव्यासः—

ब्रह्मचारयतिश्चैवविद्यार्थीगुरुपोषकः। अध्वगः क्षीणवृत्तिश्चषडेतेभिक्षुकाः स्मृताः। वैश्वदेवात्पूर्वमप्येतेपूज्याः। अकृतेवैश्वदेवेतुभिक्षुकेगृहमागते। वैश्वदेवार्थमुद्धृत्यभिक्षांदत्वाविसर्जयेत्। वैश्वदेवकृतंदोषंशक्तो भिक्षुर्व्यपोहितुम्। नतुभिक्षुकृतंदोषंवैश्वदेवोव्यपोहतीतिव्यासोक्तेःचंद्रोदयेशातातपः—

ग्रासमात्रा भवेद्विक्षाचतुग्रीसंतुपुष्कलम्। पुष्कलानिचचत्वारिहंतकारःप्रकीर्तितः। मदनरत्नेप्रकारांतरम्—

ग्रासमात्राभवेद्भिक्षाअग्रग्रासचतुष्टयम्। अग्रंचतुर्गुणीकृत्यहंतकारोविधीयते। मयूरांडप्रमागोग्रास इतिमिताक्षरागौतमस्तु— ग्रासप्रमाणस्याविकारेणेति। कुक्कुटांडार्द्रामलकप्रमाणमप्युक्तंस्मृत्यंतरे। शातातपेनप्रकारांतरमु

क्तम्। यावन्मात्राशनोवास्याद्भुताशीस्नातकोद्विजः। तस्यान्नस्यचतुर्भागं92हंतकारंविदुर्बुधाः। हंतकारादि दानंमनुष्यभोजनेकृतेपिनित्यमितिकेचित्। मनुष्यभोजनाशक्तावित्यन्ये। ब्राह्मे—

यःपात्रपूरणीं भिक्षांयतिभ्यःसंप्रयच्छति। विमुक्तःसर्वपापेभ्योनासौदुर्गतिमाप्नुयात्। व्यासः—

यतिहस्तेजलंदद्याद्भै क्षंदद्यात्पुनर्जलम्। तद्भैक्षंमेरुणातुल्यंतञ्जलंसागरोपमम्। पाखंडेभ्योपिभिक्षांदद्यादित्युक्तं चंद्रोदयेब्राह्मे—

तेभ्योदेयं93गृहाद्वहिरिति। विष्णुः—

भिक्षुकामावेऽन्नंगोभ्योदद्यादग्नौवाक्षिपेदिति। प्रोषितभर्तृकायाः पराशरः – भार्याभोजनवेलायांभिक्षाः सप्ताथपंचवा। दत्वाशेषंसमश्नीयात्सायंसाभृत्यकैः सह॥

अथगोग्रासः। सचशिष्टाचारात्पंचयज्ञोत्तरमितिमदनरत्ने। प्रभासखंडे—

तृणान्नाद्यपरागावः कर्तव्याभक्तितोऽन्वहम्। अकृत्वास्वयमाहारंकुर्वन्प्राप्नोतिदुर्गतिम्। आत्माहारप्रमाणेनप्रत्यहंगोषुदीयते। आत्माहारप्रमाणान्नाशक्तौ चंद्रोदयेब्रह्मांडे

सौरभेय्यःसर्वहिताःपवित्राःपुण्यराशयः। प्रतिगृह्णतुमेग्रा संगावस्त्रैलोक्यमातरः। दद्यादनेनमंत्रेणगवांग्रासंसदैवहि। सदैवेत्युक्तेरकरणेप्रत्यवायश्नुतेश्चायंनित्य इत्याचारादर्शः। प्रभासखंडे मंत्रांतरमुक्तं**—**

सौरभेयीजगत्पूज्यादेवीविष्णुपदेस्थिता। सर्वदेवमयी ग्रासंमयादत्तंप्रतीक्षतु। अयंकाम्यश्च**—**

तृणोदकेनसंयुक्तंयःप्रदद्याद्गवाह्निकम्। कपिलाशतदानस्यफलं विद्यान्नसंशयइति चंद्रोदयेभविष्यात्। इतिश्रीमन्नारायणभट्टात्मजसूरिरामकृष्णभट्टसृनुदिनकरभट्टानुज लक्ष्मणभट्टकृतावाचाररत्नेपंचमहायज्ञप्रकरणम्॥

अथभोजनविधिः। वसिष्ठः—

वारुण्यांभोजनगृहंनैर्ऋत्यांसूतिकागृहम्। इति। याज्ञबल्क्यः—

बालः सुवासिनीवृद्धगर्भिण्यातुरकन्यकाः। संभोज्यातिथिभृत्यांचदंपत्योः शेषंभोजनम्94। कन्यानूढा। मनुविष्णू

सुवासिनींकुमारांश्चरोगिणोगर्भिणीस्तथा। अतिथिभ्योग्रएवै

तान्भोजयेदविचारयन्। अग्रेप्रथमम्। नात्रयथाश्रुतेतात्पर्यं किंत्येतेषुभुक्तवत्सुस्वयंभुंजीतेत्यत्रे तिकल्पतरुः। वयंत्वेवकारानुपपत्तेर्यथाश्रुते एवतात्पर्यं अतएवाविचारयन्नित्युक्तमितिब्रूमः। याज्ञबल्क्यः

बालः(स्व)सुवासिनीवृद्धगर्भिण्यातुरकन्यकाः। संभोज्यातिथिभृत्यां श्रदंपत्योःशेषभोजनम्। भोजयेच्चा गतान्कालेसखिसंबंधिबांधवान्। शक्ताविदम्। तथाचमार्कंडेये

कुटुंबिनोभोजनीयाः स्वसमंविभवेसति। आचारादर्शेनंदिपुराणे

यतेद्ब्राह्मणपूर्वंतुभोक्तमन्नंसदागृही। पराशरः

एकद्वित्रिचतुर्विप्रान्भोजये त्स्नातकान्द्विजः। शंखः

पंचाद्रभोजनंकुर्याद्भूमौपात्रंनिधायच। उपवासेनतत्तुल्यंमनुराहप्रजापतिः। उपलिप्तेशुचौदेशेपादौप्रक्षाल्यवैकरौ। आचम्यार्द्राननोह्येवंपंचार्द्रोभोजनंचरेत्। आचमनंच भोजन शालायाबहिःकार्यम्। यस्तुभोजनशालायांभोक्तुकामउपस्पृशेत्। आसनस्थोनचान्यत्रस विप्रःपंक्तिदूषक इतिचंद्रोदयेआपस्तंबोक्तेः। तस्माद्बहिरुपस्पृश्यआचांतःप्रविशेद्गृहमित्याचारादर्शब्राह्माच्चयमः

आर्द्रपादस्तु भुंजानः शतं वर्षाणिजीवति। इति॥

अथभोजनपात्राणि। चंद्रोदयेग्निपुराणे — भुंजीतपात्रेसौवर्णेपद्मिन्यादिदलादिके। माधीये मेधातिथिः

सौवर्णेराजतेताम्रे पद्मपत्रपलाशयोः। भुंजीतेतिशेषः। चंद्रोदयेत्रिः

पंचाशत्पलिकंकांस्यद्व्यधिकं भोजनायवै। गृहस्थैस्तुसदाकार्यमभावेहेमरौप्ययोः। तत्रैवप्रचेताः

पलाद्विंशतिकान्नार्वागतऊर्ध्वंयदृच्छया। चंद्रिकायांपैठीनसिः

एकएवतुयोभुङ्क्तेविमलेकांस्यभाजने। भाजनेभोजनेचैवत्रिरात्रंफलमश्नुते। चत्वारि तस्यवर्धंतेआयुः प्रज्ञायशोबलम्। भोजनंकांस्यपात्रेणयः करोतिसकृद्द्विजः। वर्धंतेतस्यचत्वारिआयुःकांति र्यशोवलम्। हेमाद्रौहारीतः

राजतपार्णताम्रकांस्यपात्राणिभोजनेइति। ताम्रविधिर्गृहस्थेतरपरः। ताम्रपात्रेन भुजीतभिन्नकांस्येमलाविले। पलाश95

पद्मपत्रेषुगृहीभुक्त्वैदवंचरेदितिपृथ्वीचंद्रः। ताम्रविधिःश्राद्धपरइत्यन्ये। यत्त्वपरार्के—सप्तम्यांनैवकुर्वीत ताम्रपात्रेचभोजनमिति तत्पूर्वीक्तनिषेधोपसंहारार्थंदोषाधिक्यार्थंवा। ताम्रवत्सैत्तलेपिनिर्णयः। यत्तुनाय सान्यपिकार्याणिपैत्तलानिनतुक्वचिदितिश्राद्धहेमाद्रौवाराहं तत्प्रकरणाच्छ्रूद्धपरं। भिन्नदोषोनकांस्येएवकिंतु तत्रदोषाधिक्यम्। नकार्ष्णायसे नमृत्पात्रे नभिन्नावकीर्णे इतिहारीतोक्तेः। शुद्रभाजनभिन्नभा जनेभुक्त्वोपवासोभिन्नकांस्येत्रिरात्रमितिस्मृत्यर्थसाराच्चभिन्नदोषस्ताम्राद्यन्यपरः। ताम्ररजतसुवर्ण शंख मुक्ताश्मस्फटिकानांभिन्नमभिन्नमिति**पैठीनसिस्मृतेः। स्कांदेकार्तिकमाहात्म्ये—पत्रभोजीभवेदूर्जे कांस्यत्याज्यंप्रयत्नतः। तथा—योव्रतीकांस्यभोजीस्यान्नसव्रतफलंलभेत्। ज्योतिर्निबंधे–भोज्यपात्रसुधा सिंधौघटयेद्वासमाहरेत्96। तत्रान्नप्राशनप्रोक्तेकाले भोजनमाचरेत्। सुधासिंधौ सोमे। स्मृतिरत्नावल्याम् – वल्लीपलाशपत्रेपुस्थलजेपुष्करेतथा। गृहस्थस्तुनचाश्नीयाद्भुक्त्वाचांद्रायणंचरेत्। करेकर्पटकेचैवआयसे ताम्रभाजने। वटार्काश्वत्थ पत्रेषुभुक्त्वाचांद्रायणंचरेत्। चंद्रिकायांपैठीनसिः – वटार्काश्वत्थपर्णेषुकुंभीतिं दुकजेषुच। श्रीकामोनैवभुंजीतकोविदारकरंजयोः। आग्नेये—वटार्काश्वत्थधवलसर्जभल्लातकीस्त्यजेत्। स्कांदेप्रभासखंडे शूद्रंप्रक्रम्य—**मध्यपत्रेनभुंजीतब्रह्मवृक्षस्यभामिनि। प्रचेताः—मृन्मयेपर्णपृष्ठेवाकार्पासे तांतवेतथा। नाश्नीयान्नपिबेच्चैवकरेणांजलिनापिच। यस्तुनकदलीपत्रमितिहेमाद्रौनिषेधःसश्राद्धपरः। **नृसिंहांबुधिमहोदधौगोविंदार्णवेच—**करंजपिप्पलवटप्लक्षकुंभ्यर्कतिंदुकाः। एषांपत्रेषुनाश्नीयात् कोविदा राम्रयोरपि। विपर्यस्तेषुपत्रेषुतिर्यक्पत्रेचदारुजे। अजपीब्रह्मपत्रेशूद्रस्यूतेतदाहृते। कंटकैःसीवितपत्रेतथा वेणुदलेन च। अत्रमूलंमृग्यम्। **चंद्रिकायां पुराणे—**पालाशेषुचपत्रेषुमध्यमेषुविशेषतः। यः करोत्यशनंतस्य प्राजापत्यंदिनेदिने। यदीच्छत्यूर्ध्वगामित्वंपरंस्थानंचशाश्वतम्। पत्रपर्णेषु97 भोक्तव्यंमासमेकंनिरंतरम्।इति॥

अथभोजनेदिगादिनियमाः। यमः–प्राङ्मुमुखोन्नानिभुंजीतसूर्याभिमुखएवच। ब्राह्मे— प्राङ्मुखो द ङ्मुखोवापिस्वावचांतोवाग्यतः शुचिः। भुंजीतान्नंचतच्चित्तोह्यंतर्जानुः सदानरः। यत्तुकौर्में—योभुंक्ते वेष्टितशिरायश्चभुङ्क्तेउदङ्मुखः। सोपानत्कश्चयोभुङ्क्तेसर्वंविद्यात्तदासुरमिति। तत्रविकल्पइति केचित्। भोजनेउदङ्मुखत्वादिनिषेधोनिष्कामपरइत्याचारादर्शः। पुत्रिपरतिवयम्। पुत्रवान्स्वगृहेनित्यं नाश्नी यादुत्तरामुखइतिस्मृतिमंजर्यांवचनात्। प्रयोगपारिजातेस्मृतिमंजर्याम्—पितरौजीववंतौ चेन्नाश्नीयादुत्तरामुखः। तयोस्तुजीववानेकस्तथैवनियमःस्मृतः। विष्णुपुराणे—विशुद्धवदनः प्रीतोभुंजीतन विदिङ्मुखः। मनुः—आयुष्यंप्राङ्मुखोभुङ्क्तेयशस्यंदक्षिणामुखः। श्रियंप्रत्यङ्मुखोभुङ्क्तेऋतंभु ङ्क्तेउदङ्मुखः। आयुषेहितमायुष्यं। श्रियंऋतंचेच्छन्नितिशेषः। सकृदनुष्ठानेनापिफलमितिकेचित्। यावज्जीवंनियमः। फलायविधीयतइत्यन्ये। कौर्मे—नांतरिक्षेनचाकाशेनचदेवालयादिषु। भुंजीतेतिशेषः। हारीतः—भूमावेवनिदध्यान्नोपरिपात्राणीति। वसिष्ठः—नोत्संगेनभुविनपाणौनाकाशइति। पात्राणिनिद्ध्या दितिशेषः। भुविकेवलायाम्। अतएवापस्तंबः—नवाविभुंजीतकृतभूमौतुभुजीतेति। कृतत्वंनावोमृत्प्रक्षेषे णेतिकल्पतरुः। कृतायां गोमयादिनासंस्कृतायामितिहरदत्तः

मंडलविचारः। मदनरत्नेब्राह्मे—अकृत्वामंडलंयेतुभुंजतेऽधमयोनयः। तेषांतुयक्षरक्षांसिहरंत्यन्न स्यतद्वलम्। तत्रैवशंखः—आदित्यावसवोरुद्राब्रह्माचैवपितामहः। मंडलान्युपजीवंतितस्मात्कुर्वति मंडल- म्। चतुष्कोणंद्विजाग्र्यस्यत्रिकोणंक्षत्रियस्यतु। मंडलाकृतिवैश्यस्यशूद्रस्याभ्युक्षणंस्मृतम्। मदनपारि जातेव्यासः –चतुरस्रंत्रिकोणंचवर्तुलंचार्धचंद्रकम्। कर्तव्यमानुपूर्व्येणब्राह्मणादिषुमंडलम्। तत्रैवब्राह्मे —मंडलंगोमयेनस्यादथवागौरमृत्स्नया। आचारादशैबौधायनः—भस्मनावारिणावापिकारयेन्मंडलंततः। अग्निस्मृतौ—नासंदीभोजने98शस्ताविप्राणांतुकदाचन। यत्तुस्मृत्यर्थसारे—प्राणाहुत्यूर्ध्वमुत्क्षिप्यपात्रंयंत्रे विनिक्षिपेदिति तत्क्षत्रियादिपरं श्लोकेविप्रग्रहणादि

तिकेचित्। पंचग्रासांस्तुभुक्त्वादौक्वचिद्वेश्मनिसंकटे। पात्रमुद्धृत्यशेषंतुभक्षयेत्सांकराद्भयादिति ब्राह्मो क्तेः।आसंदीआपत्परेतिमदनरत्ने। **श्राद्धेआसंदीनिषेधोहेमाद्रौब्राह्मे—**पित्र्येकर्मणिभुंजानोभूमेःपात्रंन चालयेत् ॥ **स्मृत्यर्थसारे—**नंयत्रिकायांयतिर्व्रह्मचारीविधवाभुंजीतेति।

भोजनकालविचारः। श्रुतौ—सायंप्रातराश्येवस्यादिति। गौतमः—सायंप्रातस्त्वन्नमभिपूजितम निंदन्भुंजीतेति। प्रातःशब्दःपंचमभागपरः। सायशब्दोघटिकाययोर्ध्वरात्रिपरः। चत्वार्येतानि कर्माणिसंध्यायां परिवर्जयेत्। आहारंमैथुनंनिद्रांस्वाध्यायंचचतुर्थकमितिशातातपोक्तेः। मुनिभिर्द्विरशनमुक्तंविप्राणांमर्त्य वासिनांनित्यम्। अहनिचतथातमस्विन्यांसार्धंप्रहरयामांतइतिछंदोगपरिशिष्टात्। अत्र सार्धप्रहरानुज्ञा आपद्विपया। निशायाःप्रथमेयामेजपयज्ञार्चनादिकम्। स्वाध्यायोभोजनंप्रोक्तंवर्जयित्वामहानिशामिति शौनकोक्तेः। महानिशाशब्देनयामद्वयमुच्यतइत्युक्तंप्राक्। दिवाचनभोजनद्वयम्। सायंप्रातर्द्विजाती नामशनंश्रुतिचोदितम्। नांतराभोजनंकुर्यादग्निहोत्रसमोविधिरितियमोक्तेः। द्विजग्रहणाच्छूद्रस्यनायंनियमः \। अंतरानिषेधादेवरात्रावपिभोजनद्वयंन। अतएवापस्तंबेनहरदत्तेनचद्विर्भोजनविधिः परिसंख्येत्युक्तं। परिसख्यात्वोक्तेरेतन्मतेद्वितीयभोजनंनावश्यकम्। विज्ञानेश्वरेणतुद्विर्भुजीयादेवेतिनियमविधित्वोक्तेः शक्तस्यद्विर्भोजनमावश्यकम्। चंद्रिकाप्येवम्। अशक्तौतुयत्किंचिदल्पंभक्ष्यम्। औपवस्तमेवका99 लांतरेभोजनमित्यापस्तंबोक्तेः। औपवस्तंउपवासस्तत्तुल्यमितिहरदत्तः। तदशक्तौअद्भिर्वासायमिति बौधायनोक्तंज्ञेयम्। नांतरेतिफलमूलान्यपरम्। दिवाचनांतराभुंजीतान्यत्रमूलफलेभ्यइत्यापस्तंबोक्तेः। आचारादर्शतुद्विरशननियमः प्राणामिहोत्रमात्रपरः अग्निहोत्रसाम्यादित्युक्तम्। साम्योक्तिरुपासनापरे तिवाचस्पत्ये। साग्निकब्रह्मचारिणोस्तुनद्विर्भोजननियमः। आहिताग्निरनड्वां

श्चब्रह्मचारीचतेत्रयः। अश्नंतएवसिध्यंतिनैषांसिद्धिरनश्नतामित्यपरार्केवसिष्ठस्मृतेः। ब्रह्मचारी उपकुर्वाण कोनैष्ठिकश्च। अनडुत्पदेनकालानियमउक्तइत्युज्ज्वला। यत्तु–ब्रह्मचारिणःसायंप्रातर्भिक्षेधाइतिनियमः सभिक्षायाएवनभोजनस्य100। गृहस्थोब्रहाचारीचयोनश्नंस्तुतपश्चरेत्। प्राणाग्निहोत्रलोपेनअवकीर्णभवेत्तुसइ त्यपरार्केबौधायनोक्तेरुपवासादिरनयोर्न। एकादश्यादेस्तुनित्यत्वात्तयोरु101पवासत्वाभावाच्चानुष्ठानम्। अत्रगृहस्थःसाग्निः। अनग्नयस्तुयेविप्रास्तेषांश्रेयोविधीयते। व्रतोपवासनियमैर्नानादानै स्तथा नृपति**मदनरत्नेभविष्योक्तेः। अपरार्केबौधायनः—**प्राणांग्निहो102त्रमंत्रांस्तुनिरुद्धेभोजनेजपेत्। त्रेताग्निहोत्र मंत्रांस्तुद्रव्यालाभेयथाजपेत्। **बृहस्पतिः—दिवानिद्रापरान्नंचपुनर्भोजनमैथुने। क्षौद्रंकांस्यामिषंतैलं द्वादश्यामष्टवर्जयेत्। पुनर्भोजनमध्वानंभारमायासमैथुने। श्राद्धकृच्छ्राद्धभुक्चैवसवैमेतद्विवर्जयेत्। हेमाद्रौव्यासः—आदित्येहनिसंक्रांतावसितैकादशीग्रहे103। व्यतीपातेकृतेश्राद्धेषुत्रीनोपवसेद्गृही। अपरार्के—अयनेरविसंक्रांतौरविवारेचपर्वसु। मृताहेजन्मदिवसैनकुर्याद्रात्रिभोजनम्। हेमाद्रौजातू कर्ण्यः—अहन्येवभोक्तव्यंकृतेश्राद्धेनराधिप। हेमाद्रौकौर्मे—शाकंमांसंमसूरांश्चपुनर्भोजनमैथुने। द्यूतमत्यंबुपानं चदशम्यांसप्तसंत्यजेत्। क्वचिद्व्रतपरमितिहेमाद्रिः। दशम्यांपुनर्भोजननिषेधः काम्यैकादशीव्रते। सायमाद्यंत104योरह्नोःसायंप्रातश्चमध्यमे105। उपवासफलंप्रेप्युरित्युक्तेरितिहेमाद्रिमाधवकालादर्शनिर्णयामृता दयः। चंद्रिकायांतुनित्येपिफलसत्वान्नित्यपरत्वमपीत्युक्तम्। इतिविज्ञायकुर्वी ता वश्यमेकादशीव्रतम्। विशेषनियमाशक्तोहोरात्रंभुजिवर्जितइतिमाधवीयेब्रह्मबैवर्तात्। भूताष्टम्योर्दिवाभुक्त्वारात्रौभुक्त्वाचपर्व सु। एकादश्यामहोरात्रंभुक्त्वाचांद्रायणंचरेत्। अत्र—**शुक्लाष्टमीकृष्णचतुर्दशी चदर्शोऽधराकारविसंक्रम श्चेतिग्रंथांतरेशुक्लाष्टमीकृष्णचतुर्दश्योः पर्वत्वात्कृष्णाष्टमीशुक्लचतुर्दशीपरं भूताष्टमीपदम्। तेनतयोरेवदिवा भोजनंनेत्युक्तं

निर्णयामृते। स्मृत्यर्थसारे—अष्टमीचतुर्दश्योर्नक्तंकार्यमेकभक्तंचेति। अत्रकेचिदुपवासात्पूर्वदिने दशम्यल्पत्वेदशमीमध्यएवभोजनंकार्यम्। एकादश्यांनभुंजीतेत्येकादश्यांभोजननिषेधात्। निषेधस्तु निवृत्त्यात्माकालमात्रमपेक्षतइतिन्यायाच्चेत्याहुः। तन्न। दशम्यामेकभक्तस्तुमांसमैथुनवर्जितइति चंद्रिका यांदेवलेनमध्याह्नकालिकैकभक्तव्रतविधानाद्विधिस्पष्टेचनिषेधानवकाशात् द्वादश्यादिवन्माध्याह्निकापक र्षकाभावाच्च। नचायंनव्रतविधिः किंतुपुनर्भोजननिषेधमात्रमितिवाच्यम्। निषेधकल्पनेमानाभावात्। हविष्याशनमध्याह्नाद्यप्राप्तिप्रसंगात्। सर्वत्रैकभक्तादौतथाप्रसंगाच्च। नचहविष्यादिकाम्यैकादशीव्रत मात्रांगं संकोचेमानाभावात्। प्रयोगपारिजातेदेवलः—श्राद्धंकृत्वातुयोमर्त्योनचभुङ्क्तेकदाचन। देवाहविर्नगृह्णतिकव्यानिपितरस्तथा। एकादश्यादौतुसएव—उपवासोयदानित्यःश्राद्धंनैमित्तिकंभवेत्। उपवासंतदाकुर्यादाप्रायपितृसेवितम्। प्रयोगपारिजातस्त्वेकादशीमात्रपरम्। मातापित्रोः क्षयेप्राप्तेभवे देकादशीयदा। संभाव्यपितृदेवांश्चआजिघ्रेत्पितृसेवितमितिकात्यायनोक्तेस्तेनशिवरात्र्यादौभोजनमेवे त्याह। पितृपदंजनकपरमिदं। तेनान्यश्राद्धेनावघ्राणम्। हेमाद्रिस्तु—चतुर्दश्यांयदाचैवश्राद्वंनैमित्तिकं तथा। उपवासंतदाकुर्यादाघ्रायपितृसेवितमितिप्रभासखंडाच्छिवरात्रावप्यवघ्राणम्। एवंचयस्मिन्नुपवासे कृतेपुण्यं त्यक्तेमहत्पापंतत्रावघ्राणम्। यत्रद्वयमप्यल्पंतत्रायाचितमेकभक्तंवाकार्यम्। उपवासदिनेश्राद्ध कथंचिद्यदिजायते। उपवासेश्वमेधाख्यराजसूयमयाचिते। वाजपेयलभेद्भोक्ताएकभक्तेऽग्निहोत्रजमि तिप्रभासखंडादित्याह॥

अथभक्ष्याभक्ष्यनिर्णयः। याज्ञबल्क्यः—अदत्तमग्निहीनस्यनान्नमद्यादनापदि। कदर्यबद्धचौराणां क्लीवरंगावतारिणाम्। वैणाभिशस्तवार्धुष्यगणिकागणदीक्षिणाम्। अग्निहीनःशूद्रः। शूद्रान्ननिषेधोऽसच्छू द्रपरः। गौर्भूमिरन्नंहोमार्थैसच्छूद्रस्यगृहेगृहेइतिब्राह्मादितिटोडरानंदः। तन्न। राजान्नंतेजआदत्तेशूद्रान्नं ब्रह्मवर्चसम्। आयुः सुवर्णकारान्नंयशश्चर्मावकर्तिनः। भुक्त्वायोन्यतमस्यान्नममत्याक्षपणंत्र्यहमिति

मनूक्तेः। आत्मानंधर्मकृत्यंचपुत्रान्दारांश्चपीडयेत्। लोभाद्यःपितरौभृत्यान्सकदर्यइतिस्मृतः। बद्धोवाचा निगडैश्च। गणोत्राविभक्तभिन्नानाम्। अन्ययातेपामपिस्वान्नाभक्षणापत्तेः। चिकित्सकातुरक्रुद्धपूंश्च लीमत्तविद्वियाम्। क्रूरोग्रपतितव्रात्यदांभिकोच्छिष्टभोजिनाम्। अवीरास्त्रीस्वर्णकारस्त्रीजितग्रामयाजि नाम्। शस्त्रविक्रयिकर्मारतंतुवायश्ववृत्तिनाम्। नृशंसराजरजककृतघ्नवधजीविनाम्। चैलधावसुराजीवि सहोपपतिवेश्मनाम्। पिशुनानृतिनोश्चैवतथाचाक्रिकर्वदिनाम्। एषामन्नंनभोक्तव्यं सोमविक्रयिणस्तथा। क्रूरोभयानकः। उग्रःक्रूरकर्मेतिमिताक्षरा। राजन्याच्छूद्रायामुत्पन्नइतिमदनरत्नेशंखः—भोजनवि. भीतावगीतरुदितर्ऋदितावघुष्टपरिभुक्तविस्मितोन्मत्तावधूतराजपुरोहितान्नानिवर्जयेदितिमदनरत्ने। **यमः—**स्वसुतान्नंतुयोभुङ्क्तेभुङ्क्तेपृथिवीमलम्। तत्रैव **विष्णुपुराणे—**विष्णुंजामातरंमत्वातस्यको पंनकारयेत्। अप्रजायांतुकन्यायांनाश्नीयात्तस्यवैगृहे। मनुः –उग्रान्नंसूतिकान्नंचपर्यायांतमनिर्दशम्। नाद्याच्छूद्रस्यपक्वान्नंविद्वानश्राद्धिकोद्विजः। आददीताममेवास्मादवृत्ताचेकरात्रिकम्। सूतिकान्नंसूतिका मुद्दिश्यपक्वं। पर्याचांतमुत्तराचमनोत्तरंपात्रस्थितम्। पार्श्वाचांतमितिपाठेपंक्तिस्थे उत्थिते स्वपात्रस्थ मपिनभक्ष्यम्॥

** निषिद्ध भोजनेप्रायश्चित्तम्। शौनकः—**अराइवे्जजपेन्मंत्रंदशवारंनसंशयः। सीमंतेचयदाभुंक्ते मुच्यतेकलुपात्तदा। उपासानक्ता सूक्तंतुजपेद्दशजलेपिवा। प्रमादाद्यस्ततोभुङ्क्तेसूतकान्नमकल्मषम्। प्रविष्टः प्रजपेन्मंत्रंशतवारंशिवालये। सूतकान्नंयदाभुङ्केतदापापात्प्रमुच्यते। पर्जन्यवातावर्गचशतवारं जपेज्जले। सूतकस्यगृहेभुङ्केतदापापात्प्रमुच्यते। इंद्रोअश्रायिमंत्रचअयुतंचेन्नकल्मपम्। ज्ञानतोज्ञानतः स्पृष्ट्वाभुक्तिकालेरजस्वलाम्। इदंनमोजपेन्मंत्रसहस्रंचेन्नदुष्कृतम्। ज्ञानतोज्ञानतोदृष्ट्वाभुक्तिकालेरज स्त्रियाः। अग्निंनमाजपेन्मंत्रदशकृत्वोविशेषतः। अंत्यजानांध्वनिंश्रुत्वापश्चाद्भुतेनकल्म।म्। अज्येष्ठासो जपेन्मंत्रदशवारंनकल्मषम्। श्वानादिदर्शनंकृत्वापश्चाद्भुङ्क्तेयदातदा। आयेतस्थुर्जपेन्मंत्रंदशवैविष्णु मंदिरे। हस्तदत्तंयदाभुक्तेदापापात्प्रमुच्यते। तेअज्येष्ठाजपेन्मंत्रंशतंविद्यालयेसदा। दिवाद्विर्भोजनं कृत्वातस्मान्मुच्येतकल्म-

पात्। इयोनप्रजपेन्मंत्रंशतवारंजलेतथा। रात्रौद्विर्भोजनंकृत्वाकल्मषाच्चप्रमुच्यते। त्यंसुमेषंजपेन्मंत्रंदश वारंशिवालये। अष्टम्यांवाचतुर्दश्यांदिवाभुङ्क्तेनकिल्विषम्। सहिद्वरोजपेन्मंत्रंशतंवैविष्णुमंदिरे। एकाद श्यामहोरात्रेभुङ्क्तेयदिचपातकम्। आपःपृणीतमंत्रंचशतवारंनकिल्विषम्। रात्रौभुक्त्वावत्सरेतुमन्वादि षुयुगादिषु। अश्वाइवजपेन्मंत्रंदशवारंजलेपिवा। नित्यश्राद्धेयदाभुंक्तेतदापापात्प्रमुच्यते। मयोभूश्चजपेत्सूक्तं बृषोत्सर्गेतुरौद्रकम्। भुक्त्वायदिविनश्येतविंशद्वारंजलेतदा। त्वेपंगणंजपेमंत्रदशवैविष्णुमंदिरे। व्यतीपाते यदाभुङ्क्तेतदादोषाद्विमुच्यते। आप्यायस्वजपेन्मंत्रंदशलक्षंशिवालये। सूर्यग्रहेयदाभुङ्क्तदापापात्प्रमुच्य ते। अराइवेज्जपेन्मंत्रदशवारंयदातदा। बहवश्चैकपात्रेषुभुंजतेतन्नकल्मषम्। अग्नेमरुद्भिर्मंत्रंचशतसंख्यंजपे द्यदि। भुंजतेसहपात्रेतुबहवोब्रह्मचारिणः। मानस्तोकेजपेत्मंत्रंशतवारंनकिल्बिषम्। प्रमादाज्ज्ञानतोभु ङ्क्तेगणान्नं तुयदातदा। यज्ञायज्ञाजपेत्सूक्तंएकरात्रंजलेपिवा। गणकान्नंयदाभुङ्क्तदापापात्प्रमुच्यते। अच्छानइंद्रसूक्तंतुएकवारंजलेजपेत्। विधुरान्नंयदाभुङ्केतदापापात्प्रमुच्यते। ईलेअग्निंजपेन्मंत्रंदशवारंयदा तदा। पंचयज्ञविहीनस्यगृहेभुङ्क्तेनपातकम्। किमंगत्वाजपेन्मंत्रमयुतंवैजलेसुधीः। ज्ञानतोपियदाभुङ्क्ते कुष्ठान्नंचेन्नपातकम्। सत्येनोत्तभितामंत्रंजपेद्विष्ण्वालयेयदा। उच्छिष्टेतुयदाभुक्तेदामुच्येतकिल्विषात् सहस्र वारंगायत्रींव्याहृतीभिःससंपुटाम्। किल्विषान्नंयदाभुङ्क्तेदोषोनास्तितदाजपेत्। इति।

शूद्रादेर्ग्राह्यवस्तूनि। अपरार्केसुमंतुः—

गोरसचंवसक्तूंश्चैतिलंपिण्याकमेवच। अपूपा106न्भक्षयेच्छ्रद्राद्यच्चा न्यत्पयसाकृतम्। तथा—कंदुपक्कं स्नेहपकंपायसंदधिसक्तवः। एतान्यशूद्रान्नभुजोभोज्यानिमनुरब्रवीत्। तत्रैव कौर्मे— कंदुपक्वानितैलेनपायसंदधिसक्तवः। द्विजैरेतानिभोज्यानिशूद्रैरेवकृतान्यपि। मदनरत्नें गिराः

मांसंदधिघृतंधान्यंक्षीरमाज्यमथौषधम्। गुडोरसस्तथोदश्विद्भोज्यान्येता

निनित्यशः। अमृतंचारनालंचकंदुकाःसक्तवस्तिलाः। सक्तुपदमनार्द्रपक्वस्योपलक्षणम्। प्रायश्चित्तशूल पाणावंगिराः—स्वपात्रेयत्तुविन्यस्तंदुग्धंयच्छतिनित्यशः। पात्रांतरेणतद्ग्राह्यंशूद्रात्स्वगृहमागतम्। शूद्र वेश्मनिविप्रेणक्षीरंवायदिवादधि। निवृत्तेननभोक्तव्यंशूद्रान्नंतदपिस्मृतम्। तच्चप्रोक्ष्यग्राह्यमितिशूलपाणिः

निषिद्धान्नादीनि। अपरार्केशातातपः—गोकारुकंदुशालायांतैलयंत्रेक्षुयंत्रयोः। अमीमांस्यानिशौचा निस्त्रीषुचानंतरेषुच। कंदुपक्वादिचकलौनिषिद्धम्। एतानिलोकगुप्त्यर्थैकलेरादौमहात्मभिः। निवर्तिता निकर्माणिव्यवस्थापूर्वकंबुधैरितितत्रैवशातातपोक्तेः। शंखः— नापणीयान्नमद्यादिति। **सएव—**अपूपाः सक्तवोधानास्तदधिघृतंमधु। एतत्पण्येषुभोक्तव्यंभांडलेपोनचेद्भवेत्। शूलपाणौशातातपः—घृतंतैलं पयःक्षीरंतथैवेक्षुरसोगुडः। शूद्रभांडस्थितंतक्रंतथामधुनदुष्यति। पयस्तुनवभांडस्थमेव। नवभांडेषुपानीयं शुद्रविट्क्षत्रजन्मनाम्। पेयंतदपिविप्राणांपयोदधितथैवचेतितत्रैवजाबालोक्तेःशंखः—घृतदधिपय स्तक्राणामाकरभांडस्थानामदोपइति। याज्ञबल्क्यः—अनर्चितंवृथामांसंकेशकीटसमन्वितम्। भुक्तं पर्युषितोच्छिष्टंश्वस्पृष्टंपतितेक्षितम्। उदक्यास्पृष्टसंघुष्टंपर्यायान्नंचवर्जयेत्। गोघ्रातंशकुनोच्छिष्टंपदास्पृष्टं चकामतः। अनंर्चितमवज्ञातम्। वृथामांसमात्मार्थमेवपक्वं। उपलक्षणमेतत्। नपचेदन्नमात्मान इत्यात्मार्थमन्नमात्रपाकस्यनिषेधात्। पित्राद्युच्छिष्टंभोज्यम्। मातापित्रोरथोच्छिष्टंकलौभुंजन्भवेत्सुखीति चंद्रिकायामादिपुराणात्। पितुर्ज्येष्ठस्यभ्रातुरित्यप्येके। इति आपस्तंबंस्मृतेश्चशुक्तंद्ध्यादिभिन्नम्। नपर्यायान्नमश्नीयान्नद्विःपक्वंनशुष्कंनपर्युषितमन्यत्ररागपाडवचुक्रदधिगुडगोधूमयवपिष्टविकारेभ्यइति शं- खोक्तेः। यस्यान्नस्येकैकैनपाकेननस्वरूपसिद्धिस्तद्दिःपक्वमपिभोज्यमितिमद्नरत्नेश्राद्धहेमाद्रौच। एतेन यच्छाकादिसंकारार्थंजीरकादिसंस्कारेणयत्पुनःपच्यतेतत्पुनःपक्वमितिमनरिजातोक्तिःपरास्ता। पाकादावेवसंस्कारेपुनर्नसंस्कारः। यस्तुव्यंजनादेराल्मविनिगमार्थंषु

नःसंस्कारःसवर्ज्यएवेतिमदनपारिजातः। अन्यदीयंस्वीय107त्वेनदत्तंपर्यायान्नम्। **शातातपः—**केशकीट शुनास्पृष्टंवायसोपहतंचयत्। क्लीवामिशस्तपतितैःसूतिकोदक्यनास्तिकैः। दृष्टचस्याद्यदन्नंतुतस्य निष्कृतिरुच्यते। अभ्युक्ष्यकिंचिदुद्धृत्यतद्भुंजीतविशेषतः। भस्मनावापिसंस्पृश्यसंस्पृशेदुल्मुकेनच। सुवर्णरजताभ्यांवाभोज्यंघ्रातमजेनवा। स्पृष्टमित्युक्तेःसहपाके108अभोज्यं। नित्यमभोज्यंकेशकीटावपन्नमिति गौतमोक्तेः। **हारीतः—**पिपीलिकादिभिरन्नाद्युपघातेकांचनभस्मरजतताम्रवज्रवैडूर्यगोवालाजिनदंतानाम न्यतमेनाद्भिःसंस्पृष्टमन्नंप्रोक्षणपर्यग्निकरणादित्यदर्शनाच्छुद्धमिति। **मनुः—**पक्षिजग्धंगवाघ्रातमवधूतमवक्षु तम्। दूषितंकेशकीटैश्चमृत्प्रक्षेपेणशुध्यतीति। **जमदग्निः—**शृतान्नंद्रोणमात्रंतुश्वकाकाद्युपघातितम्। ग्रास मुद्धृत्याग्नियोगात्प्रोक्षणंतत्रशोधनम्। माधवीयेसंवर्तः—विडालमूषिकोच्छिष्टेपंचगव्यंपियेद्द्विजः। तत्रैव उशनाः—ब्राह्मणोच्छिष्टेप्राणायामशतमितियाज्ञवल्क्यः। अन्नंपर्युषितंभोज्यंस्नेहाक्तंचिरसंस्थितम्। अस्नेहा अपिगोधूमयवगोरसविक्रियाः। चिरस्थितमविकृतंचेत्। पर्युषितःशाकोपिभोज्यइतिहरदत्तः। **कल्पतरौयमः—**अपूपाश्चकरंभश्चधानावटकसक्तवः। शाकंमांसमपूपंचसूपकृसरमेवच। यवागूंपायसंचैवयच्चान्यत्स्नेह संयुतम्। सर्वंपर्युषितंभोज्यंशुष्कं चेत्परिवर्जयेत्। मिताक्षरायांयावकमप्युक्तम्।

** पलांड्वादिनिषिद्धवर्गः।भविष्ये—लशुनगंजनंचैवपलांडुकवकानिच। वृंताकनालिकालाबुजानीयाज्जा तिदूषकम्। गुंजनंलशुनाकारकंद विशेषइतिमिताक्षरायाम्**। मदनरत्ने–यदीयंचूर्णंगायकाःकंठशुद्ध्यर्थं भक्षयंतितानिपत्राणि। मूलविशेषोगाजरापरपर्यायइति माघवोहेमाद्रिश्च। तन्न। हेमाद्रावेब्रद्मांडे— गूंजनंचुक्रिकांचैवगाजरंजीरकंतथेति। श्राद्धेगूंजनभिन्नगाजरनिषेधात्। गुंजनो

यवनेष्टाश्चपलांडोर्दशजातयइतिसुश्रुतोकेरपिनगाजरंगूंजनशब्दवाच्यम्। हेमाद्रावप्युत्तरत्रपलांडुविशेषएव गंजनमित्युक्तम्। वैजयंत्यामप्येवम्। **राजनिघंटौ—**रसोनोहिमहाकंदोगृंजनोदीर्घपत्रकः। पृथुपत्रःस्थूल कंदोयवनेष्टोविलोहितः। गुंजनस्यमधुरंकटुकंदनालमप्युपदिशंतिकपायम्। पत्रशश्चयमुशंतिचतिक्तंसूरयो लवणमस्थिवदंति। गाजरांपिंडमूलंचपीतकंदः सुमूलकम्। खादुमूलंसुपीतंचनागरंपीतमूलकम्। गाजरंमधुरंरुच्यंकिंचित्कटुकफापहम्। आध्मानकृमिशूलघ्नंदाहपित्ततृषापहम्। **यत्तुसारसंग्रहे—**गुंजनं पीतकंचान्यत्स्थौणेयंरक्तपित्तलम्। गुंजनंशीतलंग्राहिदाहमांद्यविपापहम्। तद्बीजंवीर्यदं श्रेष्ठमुष्णंगर्भ हरंपरमिति। तन्न। गाजरेगृंजनशब्दोलाक्षणिकः। **वैद्यके—**गृंजनंशिखिमूलंचयवनेष्टंचवर्तुलम्। ग्रंथि मूलंशिखाकंदंकंदंडिंडीरमोदकम्। गृंजनंकटुरुष्णंचकफवातरुजापहम्। रुच्यंचदीपनंहृद्यंदुर्गंधि गुल्मनाशनम्। **मदनविनोदेपि—**गृंजनः पित्तलोग्राहीतीक्ष्णोष्णोरोगनाशनः। गंधाकृतिरसैस्तुल्यः सूक्ष्मनालः पलांडुना। तथागृंजनो योमहाकंदोजर्जरीदीर्घपत्रकइतिलशुनभेदोप्युक्तः। तथा— कासमर्दः कर्कशःस्याद्गृंजनोगाजरस्तथा। गृंजनःकटुकस्तीक्ष्णस्तिक्तोष्णोदीपनोलघुः। संग्राहीरक्तपित्तार्शो ग्रहणीकफबातजित्। त्रिविधेपिगंजनेगार्जरंनांतर्भवति। गुणभेदात्। लवणयुतंदुग्धंदुग्धयुतंदधिचनभोज्यम्। विनायकशांतौबलिदानेब्राह्मणस्यसुरामांसस्थानेतादृशयोस्तयोरुक्तेः। **चतुवैिशतिमते—**मूलकंमातृमूलंच श्वेतरक्तौचसूरणौ। च त्वार्यभोज्यमूलानिपंचमीचार्द्रमूलिका। मातृमूलंमाइणीमूलमितिप्रसिद्धम्। **कल्पतरौब्राह्मे—**राजमाषाःस्थूलमुद्गास्तथाबृषकवासकौ। मसूराःतशपुष्पाश्चकुसूलक109निकेतनम्। सस्यान्ये तान्यभक्ष्याणिनचेदयानिकस्यचित्। **तत्रैवापस्तंबः—**कृष्णधान्यंचशूद्रान्नंयेचान्येनाश्यसंमिताः। वर्जयेदिति संबंधः। कृष्णधान्यंकलिंगकानि। **शूलपाणौदेवलः—**कुर्विदांश्वेतवृंताकंकूष्मांडंचनभक्षयेत्। कुविंदा

घोटकः। तत्रैव**हारीतः—**श्लेष्मातकप्राशनेसांतपनमिति। **अपरार्केहारीतः—**कुसुंभंश्वेतवृंताकंकुंभांडंच विवर्जयेत्। **हेमाद्रौ विष्णुः—**वर्जयेच्छ्वेतवृंताकमलाबुंवर्तुलंत्यजेत्। श्वेतोक्तेःकृष्णवृंताकस्यानिषेधइति कल्पतरौ मदनरत्नेमाघवीयेच। **स्मृत्यर्थसारेपि—**क्षुद्रश्वेत कटकिवृंताकानिवर्जयेदिति। तत्रैव– यतिव्रतिभ्यांसदालाबुशिग्रुवृंताकानिजातिमात्रेणवर्ज्यानीति। व्रतहेमाद्रावग्निपुराणे—व्रतंप्रक्रम्यकूष्मांडा लाबुवार्ताकपालंकीज्योत्स्निकास्त्यजेत्। मदनरत्नेपैठीनसिः—

नलिकायौतकुसुंभाश्मंतकाश्चेतिशाकानाम भोज्याइति। नलिकाकलंबिकेतिशूलपाणिः। तत्रैवकौर्मे—

गृंजनंकिंशुकंचैवकंडरंचतथैवच। उदुंबर मलाबुंचजग्ध्वापततिवैद्विजः। अलाबुर्वर्तुलः। पूर्वोक्तविष्णुस्मृतेःस्मृत्यर्थसारेप्येवम्हारीतः

नवटप्लक्षाश्वत्थदधित्थमातुलिंगानिभक्षयेदिति। दधित्थंकपित्थम्। माधवीयेबृहद्यमः—

नलिकानालिकेरीच श्लेष्मातकफलानिच। भूतृणंशिग्रुकंचैवखट्वां110कंकनकंतथा। वर्जयेदितिशेषः। तत्रैवचतु विंशतिमते—

तृणराजफलंवल्लींभुक्त्वाचांर्द्रचरेद्द्विजः। कंदमूलफलादीनिअज्ञात्वोपवसेत्तथा। याज्ञवल्क्यः–देवतार्थ हविःशिग्रुलोहिताव्रश्चनांस्तथा। लोहितपदमुभयत्रान्वितम्। तेनरक्तशिग्रुर्निषिद्धइतिमाधवःस्मृत्यर्थसारे प्येवम्। विट्जानितंदुलीयादीनिनिपिद्धानि। विट्जानांफलानिभक्ष्याणीत्याहबौधायनः—

अमेध्येषुचयेवृक्षा उप्ताःपुष्पफलोपगाः। तेषामपिनदुष्यंतिपुष्पाणिचफलानिच। तथाचोशनाः– नलिकाशणछत्रा ककुसुंभालाबुविद्भवान्। कुंभीककेबुवृंताककोविदारांश्चवर्जयेत्। तथाकालप्ररूढानिपुष्पाणिचफलानिच देवलः—

नबीजान्युपभुंजीतरोगापद्मृतेबुधः। बीजानिकूष्मांडस्येत्युक्तंकल्पतरौमदनरत्नेचवर्ज्यानु वृत्तौशंखः— कुनखीकुष्ठि सस्पृष्टमिति। कृष्णभट्टीयेस्कांदे— आज्यपात्रेस्थितंतक्रंमधुमिश्रंतुयद्धृतम्। ताम्रपात्रस्थितंक्षीरंत्रपुसर्पिः सुरासमम्। आर्द्रकंसगुडंमद्यंसै

क्षवंबदरंतथा। नारिकेलरसंकांस्येदध्नासंमिश्रितोगुडः। **वसिष्ठः—**अभोज्यंस्वोच्छिष्टोपहतंवसन केशकीटोपहतंचेति। स्वोच्छिष्टंस्वभुक्तशिष्टत्यक्तं। वसनंपरिहितमिति मदनरत्नेसुमंतुः

क्षुतवचोभिहतमदधिपर्युषितंश्वचांडालवीक्षितमन्नमभोज्यमन्यत्रहिरण्योदकैःस्पृष्टादिति। वचोभिहतंता त्कालिकमुखवातादिदुष्टं। दधिस्नेहलक्षकं स्नेहरहितंपर्युषितमित्यर्थः। स्पृष्टात्भावेक्तः। श्वचांडालदृष्टं भोज्यमन्नांतराभावइतिमदनरत्ने। वर्ज्यानुवृत्तौयमः–लशुनंगृंजनंचैव विलयः संमुखंतथा। विलयो घृतकिट्टम्। संमुखं घृतफेनस्तन्मंडथ। विष्णुपुराणे

भुंजीतोद्धृतसाराणिनकदाचिन्नरेश्वर। स्कांदे–वृंताकंबृहतीं चैवदग्धमन्नंमसूरिका। यस्योदरेप्रवर्तते तस्य दूरतरोहरिः। अलाबुंभक्षयेद्यस्तुदग्ध मन्नंकलंबिकाम्। सनिर्लज्जःकथंव्रूतेपूजयामिजनार्दनम्। स्कांदे

शिरःकपालमंत्राणिनखचर्मतिलानि च। एतानिक्रमशोनित्यमष्टम्यादिषुवर्जयेत्। चर्मपदेनमसूरिका उच्यंत इतिकालनिर्णयदीपिकाहरिभक्तिविलासेयामले–यत्रमद्यंतथामांसंतथावृंताकम्लकौ। निवेदयेन्नैवतत्रहरेरैकांतिकीरतिः। भारते

तिलान्भृष्टान्नचाश्नीयात्तथास्यायुर्नरिष्यति। गौतमः

उद्धृतस्नेहविलयनपिण्याकमथितप्रभृतीनिना श्नीयादिति। मथितंजलंविनालोडितंदधीतिमदनरत्ने। आमिपंपाद्मेकार्तिकमाहात्म्ये–प्राण्यंगमामि पंचूर्णेफलेजंबीरमामिषम्। धान्येमसूत्रिकाप्रोक्ताद्यन्नंपर्युषितंतथा। गोकांजिकंचमहिषीदुग्धादिच तथामिषम्। द्विजक्रीतारसाः सर्वेलवणंभूमिजंतथा। ताम्रपात्रस्थितंगयंव्यजलंपल्वलसंभवम्। आत्मार्थंपाचितंचान्नमामिपंतत्स्मृतंबुधैः। नचेदंप्रकरणात्कार्तिकमात्रपरम्। अन्यत्रापितद्ग्रहेबाधका भावात्। मदनरत्ने

घृतात्फेनंघृतान्मंडंपीयूषमथवार्द्रगोः। सगुडंमरिचाक्तंतुतथापर्युषितंदधि। दीर्णंतक्रमपेयंच नष्टस्वादुचफेनवत्। गुडमरीचयुक्तंपर्युषितंदधिचनभक्षयेत्। दीर्णंस्फुटितम्।हारीतः

नरजस्वलयादत्तंनक्रुद्धयानमलबद्वाससानापरयाद्वारापन्नमिति। याज्ञवल्क्यः– वृथाकृसरसंयावपायसापूप शष्कुलीः। अत्र नपचेदन्नमात्मनेइत्यनेन निषेधेसिद्धेपुनर्निषेधोदोषाधिक्यार्थ इतिमदनरत्ने।

मनुः—

अनिर्दशायागोःक्षीरमौष्ट्रमैकशफंतथा। आविकंसंधिनीक्षीरंविवत्सायाश्चगोःपयः। गोग्रहणमजा महिष्योरुपलक्षणम्। गोमहिष्यजानामनिर्दशानांपयोनपेयमितिवसिष्ठोक्तेरितिमदनरत्ने। वत्सग्रहणेन सवत्साधेनुरानीयतामितिवद्गोग्रहणेसिद्धेपुनर्गोग्रहणमजामहिष्योर्व्यपत्ययोःपयसोनिषेधार्थमितिमेधातिथि

** संस्कारादिभोजननिषेधः**—

मदनरत्नेंगिराः—

जन्मप्रभृतिसंस्कारेबालस्यान्नस्यभोजने। असपिंडैर्न भोक्तव्यंचूडायांचविशेषतः। नारीप्रथमगर्भेषुभुक्त्वाचांद्रायणंचरेत्पराशरमाधवीयेधौम्यः

ब्रह्मौदने- चसोमेचसीमंतोन्नयनेतथा। जातकर्मनवश्राद्धेभुक्त्वाचांद्रायणंचरेत्। तत्रैव—निवृत्तचूडहोमेतु प्राङ्नामक- रणात्तथा। चरेत्सांतपनंभुक्त्वाजातकर्मणिचैवहि। अतोन्येषुतुसंस्कारेषुपवासेनशुद्ध्यति। चंद्रिकायाम्

नवश्राद्धस्ययच्छिष्टंगृहेपर्युषितंचयत्। दंपत्योर्भुक्तशिष्टंचभुक्त्वाचांद्रायणंचरेत्। आचारदर्पणे

भानुवारेत- थारात्रावष्टम्यांचतथैवच। धात्रीफलंनरःखादन्नलक्ष्मीकोभवेत्सदा। सप्तम्यां रविवारेचदिवारात्रौतथैवचे- तिकृष्णभट्टीपूर्वार्धपाठः। अमावास्यापितृश्राद्धेसंक्रांतौपारणेतथा। परान्नंनैव भोक्तव्यंयस्यान्नंतस्यतत्फ- लम्। हेमाद्रौ

दिवादधित्थधानासुरात्रौचदधिषु। श्लेष्मातकेतथाऽ लक्ष्मीर्नित्यमेवकृतालया। काशीखंडे–नदिवोद्धृतसारंचभक्षयेद्दधिनोनिशि। स्कांदे

रात्रौदधिन भोक्तव्यंदिवाननवनीतकम्। यमः

नभिन्न- भांडेभुंजीतनरात्रौदधिसक्तुकान्। भारतेप्येवम्आचारादर्शे लघुहारीतः

पृथग्यानंपुनर्दानंमांसेन- पयसानिशि। दंतच्छेदनमुष्णंचसप्तसत्तुपुवर्जयेत्। सक्तनतुंदिनक्षय इतिभारतेशतपथाच्चसुमंतुः

कूष्मांडंबृहतींचैवतरुणीमूलकंतथा। श्रीफलंचकलिंगंचपात्रीं प्रतिपदादिषु। शिरःकपालमंत्राणिनख- चर्मकृतानिच। उदुंबरफलंचैवतिलानपितथैवच। यदीच्छेत्स्वर्ग गमनमष्टम्यादिषुवर्जयेत्। रत्नमालायाम्

कूष्मांडमातुलिंगंचपटोलंबृहतीफलम्। श्रीफलंपिचुमंदंच धात्रींपक्षादितस्त्वजेत्।

नालिकेरंशिरः प्रोक्तंकपालंतुंबकंस्मृतम्। अंत्राणिनलिकाशाकंनखानिग्रामर्शिविकाः। चर्माख्यंषोइका शाकंवृंताकंतिलमुच्यतइति। धर्मसारे

धात्रीफलंमानुवारेश्रीफलंशुक्रवासरे। शमीफलंमंदवारेश्रीकामः परिवर्जयेत्। गौडनिबंधे

रविवारेचसंक्रांतौषष्ठ्यावैसप्तमीतिथौ। आरोग्यकामस्तुनरोर्निबपत्रं नभक्षयेत्। भारतेदानधर्मे

आज्याहुतिंविनाचैवयत्किंचित्परिविष्यते। दुराचारैश्चयद्भुक्तंतं भागंरक्ष सांविदुः। इदंश्राद्धपरमितिकेचित्।

अथपरिवेषणम्। चंद्रोदयेंगिराः

नीलरक्तेनवस्त्रेणयः पाकः श्रपितोभवेत्। तेनभुक्तेन विप्राणांदिनमेकमभोजनम्। **वैद्यः—**भक्ष्यंचदक्षिणेपार्श्वेषेयंलेह्यंचवामतः। हस्तदत्तानिचान्नानिप्रत्यक्षं लवणंतथा। मृत्तिकाभक्षणंचैवगोमांसाशनवत्स्मृतम्। हेमाद्रौयमः

एकेनपाणिनादत्तंशूद्रादत्तंचयद्भवेत्। **पैठीनसिः—**लवणंव्यंजनं चैवघृततैलंतथैवच। लेह्यंपेयंचविविधहस्तदत्तंनभक्षयेत्। एतदपवादः **स्मृतिरत्नावल्याम्—**अपक्वंस्नेहपक्वंचहस्तेनैवप्रदापयेत्। यत्किंचिदितरद्भक्ष्यंदर्व्यादेयंतुयत्नतः। **कल्पतरौभविष्ये—**आयसेनतुपात्रेणयदन्नमुपनीयते। भोक्ता विष्ठासमंभुङ्क्तेदाताचनरकंब्रजेत्। मात्स्येपि — उभाभ्यामविहस्ताभ्यामाहृत्यपरिवेषयेत्। **मनुः—**दर्यादेयंशृतान्नंतुसमस्तव्यंजनानिच। उदकंयच्चपक्वान्नंयोदर्व्यादातुमिच्छति। सभ्रूणहासुरापश्चसस्तेनोगुरुतल्पगः। **काशीखंडे—**फाणितंगोरसंचैवलवणंमधुकानिच। हस्तेनब्राह्मणोदद्यात्कृच्छ्रंचांद्रायणंचरेत्। हेमाद्रौहारीतः—पङ्कौसहोत्थितानांतुभोजनादिसमंस्मृतम्। तत्रैववसिष्ठः – यद्येकपंक्तौविषमंददातिस्नेहाद्भयाद्वाय दिवापिहेतोः। वेदेषुदृष्टामृषिभिश्चगीतांतांब्रहा हत्यांमुनयोवदंति।

परिवेष्टुरुच्छिष्टस्पर्रोहारीतः— द्रव्यहस्तस्तुसंस्पृष्टउच्छिष्टंवाकदाचन। भूमौनिक्षिप्य तद्द्रव्यमपः स्पृष्ट्वाततःशुचिः। अद्भिरभ्युक्ष्य तद्द्रव्यंपुनरादायदापयेत्। यत्तुमनुः—उच्छिष्टेनतुसंस्पृष्टोद्रव्यहस्तः कथंचन। अनिधायैवतद्द्रव्यमाचांतः शुद्धिमाप्नुयादिति। आचार

चंद्रोदये—

अंगधारणयोग्यमंगेनिधायाचामेत् तदयोग्यंस्पृष्ट्वा। यद्वाभक्ष्येतरद्रव्यंभूमावनिधायाचम्यशुचि र्भवेत्। भक्ष्यंभूमानिधायाचामेत्। मार्कंडेयः—

पक्वान्नेनगृहीतेनमूत्रोच्चारंकरोतियः। अनिधायैवत द्द्रव्यमंगेकृत्वासमाश्रितम्। शौचंकृत्वायथान्यायमपःस्पृश्ययथाविधि। अन्नमभ्युक्षयेच्चैवउद्धृत्यार्कं प्रदर्शयेत्। त्यक्त्वाग्रासमथैतस्माच्छेषंशुद्धिमवाप्नुयात्। द्रव्यस्यैवसाक्षादुच्छिष्टस्पर्शेत्यागइतिचंद्रिकास्मृत्यर्थसारे—

परिवेषणंकुर्वन्मूत्रोच्छिष्टश्चेदन्नादिनिधायशौचाचमनेकृत्वान्नादिप्रोक्ष्याग्निमर्कंवासंस्पृश्यप रिविष्यादिति।

** आपोशनबलिप्राणाहुत्यादि। मार्कंडेयः—**

अन्नंष्ट्वाप्रणम्यादौप्रांजलिः कथयेत्ततः। अस्माकंनित्य मस्त्वेतदितिभक्त्याथवंदयेत् आपस्तंबः—

भाषांकासंक्षवथुमित्यभिमुखोन्नंवर्जयेदिति। भाषांशब्दोच्चार णम्। याज्ञवल्क्यः–अपोशानेनोपरिष्टादधस्तादश्नतातथा। अनग्नममृतंचैवकार्यमन्नंद्विजन्मना।अत्रयद्यपि

अद्यतेत्तिचभूतानितस्मादन्नंतदुच्यतइतिश्रुतौसर्वमविशेषेणान्नत्वेनप्रतीयते तथापिजलादावपितदापत्तेः। भिःसास्त्रीभक्तमंधोन्नमितिकोशादन्नमोदनः। अतएव**—**

अन्नाश्रितानिपापानीत्यत्राप्योदनवर्जनम्। तेनभक्ते एवापोशनंनान्यत्रेतिकेचित्। अन्येतु**—**

सस्संक्षेत्रगतंप्राहुःसतुषंधान्यमुच्यते। आमंवितुषमित्युक्तंस्विन्न मन्न111मुदाहृतमितितिथितत्वेवसिष्ठोक्तेःखिन्नमात्रेआपोशनम्। नचैवंगुडादावपितदापत्तिः। अन्नेन व्यंजनमित्यादिषुव्रीह्यादिविकारएवान्नपदप्रयोगात् गुडादेश्चसरसत्वात् अतोगुडादौनापोशनम्। मदन- रत्नेमाधवीये च कौर्मे—

महाव्याहृतिभिस्त्वन्नंपरिषिच्योदकेन। अमृतोपस्तरणमसीत्यपोशानकियां चरेत्। मदनपारिजातेतु—

व्याहृतिभिर्गायत्र्याचान्नमभिमंत्र्याभ्युक्ष्यपरिषिच्य धर्मराजादिबलीन्दद्यादिति। माधवीये–ऋतेनसायंसत्येनप्रातश्चपरिपिंचयेत्। भविष्ये—

भोजनात्किंचिदन्नाग्रंधर्मराजायवैबलिम्। चित्राय चित्रगुप्तायप्रेतेभ्यश्चेदमुद्धरेत्। यत्रक्वचनसं

स्थानांक्षुत्तृषोपहतात्मनाम्। प्रेतानांतृप्तयेक्षय्यमिदमस्तुयथासुखम्। स्कांदे—प्रदद्याद्भूतपतये भुवनपतयेतथा। भूतानांपतयेस्वाहेत्युक्त्वाभूमौबलित्रयम्। ब्राह्मे—ब्रह्मणेनमइत्येवं ब्रह्मादिभ्यो बलीन्दद्यादिति। स्मृत्यर्थसारे– यमायनमःचित्रगुप्तायनमः सर्वेभ्यो भूतेभ्यइतिव लीन्दद्यादिति। श्रौतवृत्तिः—यः कश्चनास्मिन्छास्त्रेदेवतोद्देशेनद्रव्यात्मकोव्यापारोयागोहोमोभ्यादानं बलिहरणादयो वामंत्रेणसाध्यंतत्रसर्वत्रस्वाहाकारः कर्तव्यइति। आश्वलायनानांस्वाहांतत्वमेववलिदाने। एतानिबलि दानादीनियथाशाखंव्यवस्थितानि। इदंचपरिषेचनोत्तरंकार्यमित्युक्तंमाधवीयेमदनरत्नेच। यत्तुस्मृत्य र्थसारे—वल्युत्तरंपरिषेचनमुक्तंतत्पदार्थगणनमात्रनतत्रक्रमेतात्पर्यम्। परिषचनोत्तरंपादक्षालनोक्तेः। अत्रब्रह्मरुद्र चंद्रार्कवसवोमंडलांतरात्। निवेदितंनरैरन्नंयस्माद्गृद्णंतिनान्यथेति ब्राह्मात् ब्रह्मादिभ्योभुजिकालेूबलिर्देयः। मंडलार्थवादोयमितिचेत् तस्यापि सालंवनत्वात्। अर्थाभावोपिस्तुतिरिति चेत्असंभवेह्येवंस्यात्। नचवाक्यभेदः। सूक्तवाकादौदृष्टलादित्याचारादर्शः। तन्न। तद्धितादीनामेव देवतात्वबोधकत्वात्। सूक्तवाकस्यकरणत्वेप्युक्तं हरतौदेवताकल्पकत्वम्। अर्थवदेवतुदेवताक- ल्पत्वमत्यंतासंभवीत्यलंमीमांसांगंधशून्यहृदयप्रलापेन। श्राद्धेबलिदानाभावमाह हेमाद्रावत्रिः— दत्तेवाप्यथवा दत्तेभूमौयोनिक्षिपेद्बलिम्। तदन्नंनिष्फलंयातिनिराशैः पितृभिर्गतैः। स्मृत्यर्थसारे—पायसेन तथाज्येनमाषान्नेनतथैवच। नकुर्याद्बलिदानंतुओदनेनप्रकल्पयेत्। कृष्णभट्टीये—भोजनादौ बलिंमुक्तंसमुद्धृत्यैवभोजयेत्। अनुद्धत्यतुयोभुङ्क्तेप्राणायामाष्टकंचरेत्। आखुमार्जारसंस्पर्शेषो- डशैवतथाचरेत्। तत्रैव— दत्वाचित्रगुप्तायहस्तंप्रक्षालयेत्ततः। अप्रक्षाल्यकरौभुंजन्रौरवेनरकेवसेत्।

** अपोशनविचारः**। ब्राह्मे—अपोशनंचगृह्णीयात्सर्वतीर्थमयंचतत्। हस्तेनलंघयेन्नान्नंसोदकेनकदाचन। आपोशनाकरणेदोषश्चितामणौ—अपोशानमकृत्वातुयोभुङ्क्तेऽनापदिद्विजः। भुंजानोयदिवाब्रूयाद्गाय त्र्यष्टशतंजपेत्। इदंचबलिंदत्वाहस्तंप्रक्षाल्य कार्यमि

त्युक्तमाधवीये—हस्तंप्रक्षालयेच्चैवपश्चात्प्रयतमानसः। धारयेत्सव्यहस्तेनपात्रंतद्वाग्यतोद्विजः। अपोशानं शूद्रेणनकार्यम्। द्विजश्रुतेः। नैवेद्यभक्षणमत्रमिथ्या। लोके—

उच्छिष्टभोजिनस्तस्यवयमक्लिष्टकारिणः। येनलीलावराहेणहिरण्याक्षोनिपातितः। स्मार्तोपीदंलिलेख। पात्रधारणेविशेषश्चिंतामणौ— अंगुष्ठस्तर्जनी चैवमध्यमाचतृतीयका। तिस्रोद्वेवांगुलीचैवप्रशस्ताःपात्रधारणे। वबृहन्नारदीये—यावद्द्विजोऽन्नम श्नीयात्पात्रनैव परित्यजेत्। आपस्तंबः—

नापजिहीतापजिहीतवेति। अपजिहीतत्यजेत्। अतःपात्रधारणे विकल्पः। सोपिप्राणाहुत्युत्तरमिति। मदनरत्ने

प्राणाहुत्युत्तरंपात्रंधृत्वानमुंचेद न्यथामुंचेदितिकल्पतरुः। यत्तुषट्त्रिंशन्मते—समुत्थितस्तुयोभुङ्क्तेमुक्तभाजने। एवंवैवस्वतःप्राहभुक्त्वासांतपनंचरेदितितद्भोजनो पक्रमेपात्रंधृत्वातन्मध्यत्यागे। स्मृतिभंजर्याम्— पात्रस्य धारणंमौनंत्यजेच्चभ्रातृमान्गृही।शातातपः— अग्रासनोपविष्टस्तुयोभुङ्क्तेप्रथमद्विजः। बहूनां भुंजतांसोतः पंक्त्याहरतिकिल्बिषम्। अत्रिः

मौनव्रतंमहाकाष्ठंहुंकारेणविनश्यति। एतत्पंचग्रासपरम्। पंचग्रासान्महामौनंप्राणाद्याप्यायनंचतदिति विष्णुपुराणादिति माधवः। महामौनंकाष्ठमौनम्। तथाचस्मृतिमंजर्याम्—काष्ठमौनेनभुंजीतप्राणादि ग्रासपंचकम्। प्राणाहुत्युत्तरंनमौननियमः। मौनीवाप्यथवामौनीप्रहृष्टःसंयतेंद्रियः। भुंजीतविधि वद्विप्रोनचोच्छिष्टानिदापयेदितिव्यासोक्तेरिति मदनरत्नेरत्नावल्याम्

यवीयान्सपिताय श्चभुक्त्वाश्राद्धा112दि भोजनम्। प्राणाग्निहोत्रादन्यनना सौमौनंसमाचरेत्। यवीयान्कनिष्ठः। अतोभ्रातृमतो मौननिषेधोजीव ज्ज्येष्ठभ्रातृकपरः। तत्रैव—

यदि भुंजीततूष्णीं तुसर्वत्रैवतुभोजने। सपापोभ्रातरहंतिसंततिंचाचिराद्ध्रुवम्। गोभिलः— अथातःप्राणाहुतिकल्पोव्याहृति भिर्गायत्र्यान्नमभिमंत्र्यऋतत्वासत्येनपरिषिंचामीतिसायं सत्यंत्वर्तेनपरिषंचामीतिप्रातरतश्चरतिभूतेषुगुहा यांविश्वतोमुखः113

त्वंयज्ञ114स्त्वंयषट्वारस्त्वंब्रह्मत्वंप्रजापतिस्त्वंतदापआपोज्योतीरसोमृतंब्रह्मभूर्भुवःसुवरोममृतोपस्तरणमसीत्य पःपीत्वा दशहोतारंमनसानुद्रुत्यात्वरन्पंचग्नासान्गृह्णीयात् प्राणायस्वाहापानायस्वाहाव्यानायस्वाहोदानाय स्वाहासमानायस्वाहेति। दशहोत्राश्चित्तिः स्रुगित्याद्याः। अमृतोपस्तरणम सिस्वाहेत्याचारादर्शः कृष्ण भट्टश्च। तन्न। स्वाहांतत्वमानाभावात्। गोभिलाद्यलिखनाच्च।

प्राणाहुतिविचारः। कौर्मे

स्वाहाप्रणवसंयुक्तांप्राणायान्नाहुतितः। शौनकः

तर्जनीमध्य मांगुष्ठलग्नाप्राणाहुतिर्भवेत्। मध्य मानामिकांगुष्ठैरपानेजुहुयाद्बुधः। कनिष्ठानामिकांगुष्ठैर्व्याने तुजुहुयाद्धविः। तर्जनींचबहिःकृत्वाउदानेजुहुयाद्बुधः। समानेसर्वहस्तेनसमुदायाहुतिर्भवेत्। एताश्चदंतैर्नच्छेद्याः। प्राणायस्वाहेतिसमस्तानिगिरतीत्याचारादर्शेहारीतोक्तेः। अंगुष्ठानामिकामात्रग्राह्या नान्येनताआहुतयइतिहारीतव्याख्यातारः। सर्वाभिरंगुलीभिरश्नीयादितिसामान्यविधेःपंचग्रास्यपितथैवे त्याचारादर्शः। उभयमप्ययुक्तम्। पूर्वोक्तशौ नकविरोधात्। भारते

यथारसंनजानातिजिह्वाप्राणाहु तौनृप। तथासमाहितंकुर्यात्प्राणाहुतिमतंद्रितः। अपरार्केबौधायनः

अथशालीनयायावरात्मयाजिनां प्राणाहुतिंव्याख्यास्यामः प्रक्षालितपाणिपादआचम्यशुचौदेशेप्राङ्मुखउपविश्यध्रुवाद्यौरितिपृथिवीमा वाहयेद्धृतवतीमितिभूमौपात्रंनिधायमूर्धानंदिवइत्युद्धृत्यतमाह्रियमाणं भूर्भुवःस्वरोमित्युपस्थायवाचं यच्छेत्प्राक्तुमहाव्याहृतिभिः प्रदक्षिणमन्नमुदकं परिषिच्यसव्येन पाणिना विमुंचन्नमृतोपस्तरणमसीत्यपः पीत्वा पंचान्नेन प्राणाहुतीर्जुहोति प्राणेनिविष्टोऽमृतंजुहोमि शिवोमाविशाप्रदाद्दायप्राणाय स्वाहा अपा नेनिविष्टोऽमृतंजुहोमिशिवोमा० व्यानेनिविष्टो ० उदाने ० इतिसमाने ० हुत्वातूष्णींभूयोव्रतयेत् प्रजापतिंमनसाध्यायन्नांतरावाचंविसृजेत् भूभुर्वःस्वरोमिति जपित्वा पुनर्भुजीत त्वक्केशनखकीटाखु पुरीपाणिदृष्ट्वातद्देशापिंडमुद्धृत्याभ्युक्ष्य भस्मावकीर्यपुनः प्रोक्ष्यवाचाशस्तं भुंजीत सर्वभक्ष्यापूपकंदम् लमांसानांदतैर्नाद्येन्नातिसुहितोमृतापिधानमसीत्युपरिष्टादपः पीत्वाचांतोहृदयमभिमृशतिप्राणानां ग्रंथिर सिरुद्रोमा विंशांत115कइत्यतस्तेनान्नेनाप्याय

स्वेतिपुनराचम्यदक्षिणपादांगुष्ठेपाणिस्रावयति। अंगुष्ठमात्रःपुरुषोाह्यंगुष्ठंचसमाश्रितः।ईशः सर्वस्य जगतः प्रभुःप्रीणातुविश्वभुगितिहुत्वानु मंत्रणमूर्ध्वहस्तःसमाचरेत्—श्रद्धायांप्राणेनिविश्यामृतंहुतं शिवोमा विशशिवमाविशप्राणमन्नेनाप्यायस्वेतिपंच ब्रह्मणिमआत्मामृतत्वायेत्यनेनचाक्षरेणात्मानंयोजयेदेवमेवा हरहःसायंप्रातर्जुहुयादद्भिर्वासायमिति।अत्रिः— अपोशानंवामभागेसुरापानसमंभवेत्। दक्षभागेतुयः कुर्यात्सोमपानसमंभवेत्। पुनरापूर्यापोशानंसुरापानसमंभवेत्। इदंश्राद्धपरमितिकेचित्। नित्यभोजने पीति कृष्णभट्टः

भोजनविचारः। प्राणाहुत्युत्तरमाहवसिष्ठः—सर्वाभिरंगुलीभिरश्नीयादिति बौधायनः। यावद्ग्रासं- सन्नयन्नस्कंदयन्कृत्स्नग्रासंग्रसीत। विष्णुपुराणे—अश्नीयात्तन्मनाभूत्वापूर्वंतुमधुरंरसम्। लवणाम्लौ तथामध्येकटुतिक्तादिकंततः। प्राक्द्रवंपुरुषोऽश्नीयान्मध्येतुकठिनंपुनः। अंतेपुनर्द्रवाशीतुबलारोग्ये नमुंचति। कौर्मे — ततोन्यदन्नमश्नीयात्पूरणायोदरस्यच। स्मृतिमंजर्याकाशीखंडे—दर्भपाणिस्तुयो भुङ्क्तेतस्यदोषोनविद्यते। केशकीटादिसंभूतस्तदश्नीयात्सदर्भकः। यत्त्वाश्वलायनः— ग्रंथीकृत पवित्रेणन भुंजीयान्नचाचमेदितितद्वर्तुलान्यपरम्। भोजनेवर्तुलइत्यत्रिस्मृतेःविष्णुः—नतृतीयमथाश्नी यान्नापश्यंश्चकदाचन। अपश्यन्नंधकारादौ। कौर्मे— नाश्नीयात्प्रेक्षमाणानामप्रदायै वदुर्मतिः। नायज्ञशिष्टमद्याद्वानक्रुद्धोनान्यमानसः। आत्मार्थंभोजनंयस्यरत्यर्थयस्यमैथुनम्। वृत्त्यर्थयस्वचाधीतं निष्फलंतस्यजीवितम्। नोच्छिष्टोघृतमादद्यान्नमूर्धानंस्पृशेदपि। नत्राकीर्तयन्वापिननिःशेपंनभार्यया। नैकवस्त्रस्तुर्भुजीतनवापिशयन स्थितः। नपादुकाधिष्ठितोवानहसन्विलपन्नपि। पराशरः— अदुष्टासंतता धारावांतोद्भूताश्चरेणवः। भोजनपात्रमुद्धृत्य जलादिनपेयमित्युक्तं माधवीयेवृहन्नारदीये—द्विजोनाभोज्यमश्नीयात्पार्थनैवपरित्यजेत्। संस्थाप्यह्यासनेपादौ वस्त्राधैपरिधायच। मुखेनधमितं भुक्त्वासु रापीत्युच्यतेबुधैः। खादितार्धैपुनः खादन्मोदकानिफलानिच। प्रत्यक्षंलवणंखादन्गोमांसाशीनिगद्यते। नृसिंहाब्धिमहोदधौ— सामुद्रं

सैंधर्वचैबलवणेपरमाद्भुते। प्रत्यक्षेअपितेग्राह्येनिषेधस्त्वन्यगोचरः।हेमाद्रौब्रह्मांडे—सैंधवलव णंयच्चतथामानससंभवम्। पवित्रेपरमेघेते प्रत्यक्षेअपिनित्यशः। देवलः—नभुंजीताघृतंनित्यंगृहस्थो भोजनंस्वयम्। पवित्रमयहृद्यंचसर्पिराहुरघापहम्। ब्राह्मे—यस्तुपाणि तलेभुङ्क्तेयश्चफूत्कारसंयुतम्। प्रसृतांगुलिभिर्यश्चतस्यगोमांसवच्चतत्। हस्त्यश्वरथयानोष्ट्रमास्थितोनैवभक्षयेत्। श्मशानाभ्यंतरस्थोवादे वालयगतोपिवा। शयनस्थोनभुंजीतनपाणिस्थंनचासने।**तत्रैव—**नार्द्रवासानार्द्रशिरानचा यज्ञोपवीतवान्। नंप्रसारितपादस्तुपादारोपि तपाणिमान्। नावसक्थिकसंस्थश्चनचपर्यंकिकास्थितः। नवेष्टितशिराश्चापिनो त्संगकृतभाजनः। नचर्मोपरिसंस्थश्च चर्मवेष्टितपार्श्ववान्। भारते— निषण्णश्चापिखादेतनतु गच्छन्कदाचन। क्षत्रियेविशेषस्तत्रैव— क्षत्रियः प्रावृतशिराभुंजीता सन्नशस्त्रभृदिति। अन्नसजन्मकालुष्यंदुष्पक्तिंचनकुत्सयेत्। ग्रासशेषंचनाश्नीयात्पीतशेषंपिबेन्नतु। शाकमूलफलेक्ष्वादि दंतच्छेदैर्नभक्षयेत्। संवपेन्नान्नमन्नेन विक्षिप्तपात्रसंस्थितम्। बहूनांभुंजतांमध्येनाश्नीयात्त्वरयान्वितः। वृथानविकिरेदन्नंनोच्छिष्टंतुघृतंत्यजेत्। तिलकल्कंजलंक्षीरंदधिक्षौद्रंघृतानिच। नत्यजेदर्धजग्धानि सक्तूंश्चाथकदाचन। संवपेद्राशीकुर्यात्। त्रिकांडमंडनः— शिरोवेष्ट्यतुयोभुङ्क्तेयो भुङ्क्ते दक्षिणामुखः। वामपादेकरं न्यस्यतद्वैरक्षांसिगच्छति।

भोजनकालेस्पर्शास्पर्शेशुद्धितत्वेवृद्धशातातपः— यदाभोजनकालेतुअशुचिर्भवतिद्विजः। भूमौनिक्षिप्यतंग्रासंस्रात्वाविप्रोविशुध्यति। भक्षयित्वातुतंग्रासमहोरात्रेणशुध्यति। अशित्वासर्वमेवान्नं त्रिरात्रेणविशुध्यति। अशुचिपदंनस्नानार्हमात्र- परंस्नानविधिवैयर्प्यापत्तेरित्युक्तम्। तत्रैवमार्कंडेये— अंगुलिंचोद्धरेद्यस्तुगोमांसाशनवत्स्मृतम्। अत्रिः—मुखेन चान्नमश्नातितुल्यं गोमांसभक्षणैः। मुखेनगवादिवत्। चंद्रिकायांवृद्धमनुः—नपिबेन्नचभुंजीतद्विजःसव्येनपाणिना। नैकहस्तेन चजलं शूद्रेणावर्जितंपिबेत्। पीत्वावशेषितं

कृत्वाब्राह्मणः पुनरापिबेत्। त्रिरात्रंतुव्रतंकुर्याद्वामहस्तेनवापुनः। इदंभोजनकालेएव। अन्यत्रास्य प्रायश्चित्तोक्तेः।कौर्में—नवाम हस्तेनोद्धृत्यपिबेद्वक्रेणवैजलम्। वामहस्तेनकेवलेनेत्यर्थः। एकहस्तेने- त्यस्य वामहस्तेनोपसंहारइतिकश्चित्। तन्न। पुनरेकहस्तनिषेधात्। अतः सव्येननपिबेत्। एकहस्तेना- सव्ये नापिनपिबेदित्यर्थः। ननुभोजनेपात्रधारणेसव्यहस्तस्यव्यापृतत्वाद्दक्षिणहस्तस्यचोच्छिष्टत्वात्कथंजल पानमितिचेत्—

दक्षिणेनपात्रंधृत्वावामेनद्रोणादौ जलंकृत्वावामेनपात्रंधृत्वा दक्षिणेनजलपानसंभवात्। एकहस्तनिषेधोभोजनभिन्नकालविषयः। नचैकहस्तनिषेधाद्धस्तद्वयप्राप्तौजलं पिबेन्नांजलिनेत्यादि वाक्यविरोधः। तस्यानुद्धृतजलपानपरत्वात्। एतस्यपात्रादिद्वाराजलपानपरत्वात् हस्त द्वयप्राप्ताव पिसव्येनान्वारंभणात् आचमनादौ तथैवदर्शनादितिचंद्रिका

भोजने ग्रासप्रमाणम्। अपरार्केवसिष्ठः

अष्टौ ग्रासामुनेभैक्षं षोडशारण्यवासिनः। द्वात्रिंशतं गृहस्थस्य अमितं ब्रह्मचारिणः। वक्रप्रमाणपिंडंचग्रसेदेकैकशःपुनः। वक्राधिकस्तुयः पिंडआत्मोच्छिष्टः सउच्यते। पिंडावशिष्टमन्नंचदंत निःसृतमेवच। अभोज्यंतद्विजानी याद्भुक्त्वाचांद्रायणंचरेत्। आदित्यपुराणे–नोच्छिष्टोग्राहयेदाज्यंजग्धशेषंनसंत्यजेत्। शूद्रभुक्तावशिष्टंतुनाद्याद्भांडस्थितंत्वपि। भारतेदानधर्मे

समानमेकपात्रेतुर्भुजेन्नान्नंकदाचन।

भार्ययासहभुक्तिनिषेधःमनुः–नाश्नीयाद्भार्ययासार्धंनैनामीक्षेतवाश्नतीम्। नभार्यादर्शनेऽश्नी यादिति। वसिष्ठः

भार्ययासहनाश्नीयादवीर्यवदपत्यंभवतीति। इदंचासवर्णाविषयम्। तथाचांगिराः

ब्राह्मण्यासहयोश्नीयादुच्छिष्टंवाकदाचन न तत्रदोषंमन्य॑तेसर्वएवमनीषिणः। उच्छिष्टमितरस्त्रीणांयोऽ श्नीयाद्ब्राह्मणः क्वचित्। प्रायश्चित्तीस विज्ञेयः संकीर्णो116 भूद चेतनः। ब्राह्मणीपदं भर्तृ सवर्णोपलक्षणम्। अतएवाग्रेब्राह्मणग्रहणम्। तेनक्षत्रियादिरप्यसवर्णयासहनाश्नीयादित्यर्थइति पृथ्वीचंद्रःब्राह्मेपि

ब्राह्मण्या

भार्ययासार्धंक्वचिद्भुंजीतचाध्वनि। असवर्णस्त्रियासार्धंभुक्त्वापततितत्क्षणात्। चंद्रिकायामादित्य पुराणेतु —अधोवर्णस्त्रियासार्धमिति तृतीयपादउक्तः। क्वचिदितिदेशकालाद्यसंभवविषयंविवाहविषयं वेतिविज्ञानेश्वरः। इदमपिदाक्षिणात्यभिन्नपरम्। पंचधाविप्रतिपत्तिर्दक्षिणातोनुपनीतेनभार्ययासहभो- जनमित्युक्त्वाइतरइतरस्मिन्दुष्यतिनेतरइतरस्मिन्दे117शप्रामाण्यादितिमाधवीयेबोधयनोक्तेःयत्तुमाध वीग्रेबृहद्यमः—माताचभगिनीवापिभार्याचान्याश्चयोषितः। नताभिः सहभोक्तव्यंभुक्त्वाचांद्रायणंचरेदि- तितदसवर्णापरम्। यदपिप्रायश्चित्तहेमाद्रौगालवः—एकयानसमारोहएकपात्रेचभोजनम्। विवाहेपथि यात्रायांकृत्वाविप्रोनदुष्यति। अन्यत्रदोषमाप्नोतिपश्चाच्चां द्रायणंचरेदितितदप्यसवर्णापरम्।

पंक्तिभेदावश्यकता। मदनरत्नेबृहस्पतिः—अप्येकपंक्त्यानाश्नीयात्संयुतःस्वजनैरपि। कोहिजानाति किंकस्सप्रच्छन्नंपातकंभवेत्। एकपक्युपविष्टानांदुष्कृतंयद्दुरात्मनाम्। सर्वेषांतत्समंतावद्यावत्पंक्तिर्न भिद्यते। बृहस्पतिः—अग्निनाभस्मनाचैव स्तंभेनसलि लेनवा। द्वारेणचैवमार्गेण- पंक्तिभेदोवुधैः स्मृतः। तृणेनापिपंक्तिभेदइतिमाधवीयेमदनरलेच। तथाचचंद्रिकायांहा रीतः—तृणेनांतरितंकृत्वापंक्ति दोषोन विद्यते। सएव—नस्पृशेद्वामहस्तेन भुंजानो हि कदाचन। नपादौनशिरोवस्तिनपदाभाजनंतथा। गोभिलः—एकपंक्त्युपविष्टानांविप्राणां सहभोजने। यद्येकोपित्यजेत्पात्रंनाश्नीयुरपरेप्यनु। मोहाद्भुक्तेतुय स्तत्रससांतपनमाचरेत्। सहएककाले।

उदक्यादिशब्दश्रवणनिषेधः।माधवीयेआश्वमेधिके—उदक्यामपिचांडालंश्वानंकुक्कुटमेववा। भुंजानोयदिपश्येतक

तदन्नंतुपरित्यजेत्। कात्यायनः—चांडालपतितोदक्यावाक्यंश्रुत्वाद्विजोत्तमः। भुंजीतग्रासमात्रंतु दिनमेकमभोजनम्। उत्तरार्धेयदीतिशेषः। बृहन्नारदीये—स्नानदानजपादीनांभोजनाध्वरयोस्तथा। मध्ये शृणोतियद्येषांशब्दंकुर्यात्कदाचन। उमेद्भुक्तमखिलंस्नात्वाचोपवसेत्तदा। द्वितीयेह्निघृतंप्राश्यशुद्धि- माप्नोतिमानवः। माधवीयेगौतमः—काहलभ्रमणंग्राव्णांचकस्योलूखलस्यच। एतेषांनिनदायावत्तावत्का- लमभोजनम्। कात्यायनः—नृणां भोजन कालेतुयदिदीपोविनश्यति। पाणिभ्यांपात्रमालभ्य भास्करंमनसास्मरेत्। पुनश्चदीपिकां कृत्वातच्छेषंभोजयेन्नरः। पुनरन्नंनभोक्तव्यं भुक्त्वापापैर्विलिप्यते। अन्नंगृहीत्वेत्यर्थः। स्मृत्यर्थसारे—अन्नभोजनकालेऽस्थनादूषिते स्त्रानंघृतप्राशनंच दंतपातेचैवमिति। विष्णुपुराणे—जठरंपूरयेदर्धमन्नैरर्धंजलेनच। वायोःसंचरणार्थीयचतुर्थमवशेषयेत्। पुलस्त्य—भोजनं तुननिःशेषंकुर्यात्प्राज्ञः कथंचन। अन्यत्रदधिसत्वाज्यपललक्षीरमध्वपः। चंद्रिकायांवृद्धमनुः—भार्याभर्तृकदासेभ्यउच्छिष्टंशेषयेत्ततः। भारते—पानीयंपायसंसक्तून्सर्पिर्मधुदधीन्यपि। निरस्यंशेष- मेतेषांनप्रदेयंतुकस्यचित्। टोडरानंदेविष्णुपुराणे— नाशेषंपुरुषोश्नीयादन्यत्रजगतीपतेः। ओदनोपि सशेषोभोज्यइतिटोडरानंदेमदनरत्नेब्राह्मे—कुर्यात्क्षीरांतमाहारंनदध्यंतंकदाचन। काशीखंडे—अनुपीयततः क्षीरंतक्रंपानीयमेवच। अमृतापिधानमसीत्येवंप्राश्योदकंसकृत्। पीतशेषंक्षिपेद्भू- मौतोयंमंत्रमिमं पठन्। अप्रक्षा लितहस्तस्यदक्षिणांगुष्ठमूलतः।—रौरवेपूयनिलयेपद्मार्बुदनिवासिनाम्। उच्छिष्टोदकमिच्छूनामक्षय्यमुपतिष्ठताम्। देबलः—भुक्तोच्छिष्टात्समादायसर्वस्मात्किंचिदाचमन्। उच्छिष्टभागधेयेभ्यः सोदकंनिर्वपेद्भुवि। उत्तराचमनंचाक्षालितहस्तेन कार्यम्। हस्तंप्रक्षाल्यगंडूषयः पिबे त्पापमोहितः। सदैवेचैवपित्र्येच आत्मानमवसादयेत्। अर्धंपीत्वातुगंडूषमर्धत्यक्त्वामहीतले। रसातलगतानागास्तेनप्रीणंतिनित्यशइतिव्यासोक्तेः। गंडूषममृतापिधानमसीतिजलपानम्। एतदकरणे प्रायश्चित्तमुक्तंभारते—यद्युत्तिष्ठत्यनाचांतोभुक्तवानासनात्ततः। सद्यः

सानंप्रकुर्वीतसोनयप्रयतेभवेत्। शातातपः—आचम्यपात्रमुत्सार्यकिंचिदार्द्रेणपाणिना। केचिदुत्तरापो- शनोत्तरंप्रथमंगंडूषः पश्चाद्धस्तप्रक्षालनमाहुः। तन्न। पूर्वोक्तग्रंथविरोधात्। देबलः— भोजनेदंत- लग्नानिनिर्हृत्याचमनंचरेत्। दंतलग्नमसंहार्यंज्ञेयंतदपिदंतवत्। नतत्रबहुशः कुर्याद्यत्नमुद्धरणंप्रति। मार्कंडेये—अनूत्तिष्ठन्नकुर्वीतभुक्त्वदंतविशोधनम्। दंतलग्नेकालांतरच्युतेबौधायनः—तत्त्यक्त्वैवं शुचिर्नपुनस्त्यागोत्तरमाचामेदिति। निगिरन्नेवतच्छुचिरितियाज्ञबल्क्यः। अतस्त्यागनि गिरणयोर्विकल्पः। मदनरत्नेगौतमः—गंडूषस्याथसमयेतर्जन्यावक्रर्षर्पणम्। यःकरोतिसमूढात्मारौरवेनरकेवसेत्। हस्तक्षालनोत्तरंहस्तादौ स्नेहशेष नदोषः। द्वावेवोष्ठौश्मश्रुकरौसस्नेहौभोजनादनु। अदुष्टान्शक्तिजः- प्राहबालवृद्ध स्त्रियोमुखमितिवृद्धपराशरोक्तेः। गंडूषप्रक्षेपश्चकांस्यपात्रेनकार्यः। तथाचांगिराः—गंडूषंपादशौचंचकृ त्वात्रैकांस्यभाजने। भूमौनिक्षिप्यपण्मासात्पुनराहारमादिशेत्। उत्तरार्धेकांस्यपा- त्रमितिशेषः। पुनराहारंतक्षणंपात्रांतरानयनंवा। माध वीयेव्यासः—तस्माद्देशान्मनागपसृत्य विधिवदा- चामेदिति। तदुत्तरंद्विराचामेदित्युक्तं। विष्णुपुराणे—अंतर्बलायमेभूमेरपामग्न्यनिलस्यच। भवत्वेत- त्परिणतंममास्त्वव्याहतंसुखम्। अगस्तिंकुंभकर्णंचशनिंचवडवानलम्। आहारपरिणामार्थसंस्मरा- मिवृकोदरम्। आतापिर्भक्षितोयेनवातापिश्चमहासुरः। समुद्रः शोषितोयेनसमेऽगस्त्यः प्रसीदतु। इत्युच्चार्यस्वहस्तेनपरिमृज्यात्तथोदरम्। अत्रिः—आचांतोप्य शुचिस्तावद्यावत्पात्रमनुद्धृतम्। उद्धृते- प्शुचिस्तावद्यावद्भूमिर्नलिप्यते। भूमावपिहिलिप्तायांतावत्स्यादशुचिः पुमान्। आसनादुत्थितस्तस्मा द्यावन्नस्पृशतेमहीम्। आपस्तंबः— यत्रभुज्यतेतत्समूह्यानिहृत्यावोक्ष्यतं देशंलेप्यलेपात्संसृत्याद्भिः- संश्रित्योत्तरतः शुचौ देशे रुद्रायनिनयेदेवंवा स्तुशिवंभवलिति। आश्वलायनः—ततः शतपद्ंगत्वावी- क्ष्यादित्यंशनैःशनैः। पाणिनोदकमालभ्यमंत्रमेनंसमुच्चरेत्। काशीखंडे—इत्यत्रपरिसंकल्प्यप्रक्षाल्य- चरणौकरौ। ततोन्नपरिणामार्थैमंत्रानेतानुदीरयेत्। अग्निराप्याययन्धातून्पार्थिवान्परिवारितः। दत्तावकाशोनभसो

जरयत्वस्तुमेसुखम्। प्राणापानसमानानामुदानव्यानयोस्तथा। अन्नंपुष्टिकरंचास्तुममाप्यव्याहतंसुखम्। समुद्रोवडवाग्निश्चब्रध्नोव्रध्नस्यनंदनः। मयाभ्यवहृतंयत्तदशेषंजरयं118त्वमी। विष्णुः—विष्णुःसमस्तेद्रियदेहदे दिप्रधानभूतोभगवान्यथैकः। सत्येनतेनान्नमशेषमेतदारोग्यदमेपरिणाममेतु। इत्युच्चार्यस्वहस्तेनपरिमृज्या त्तथोदरम्। ऋग्विधानेशन्नोभवेतिद्वाभ्यांतुभुक्त्वान्नंप्रयतःशुचिः। हृदयंपाणिनास्पृष्ट्वाज्योग्जीवेदगदःसुखी। हारीतः—पश्चात्तदन्नशेषंबलिंहरेदिति। एतच्चपाकशिष्टेनरौद्रबलिहरणमितिजयस्वामीधर्मप्रक्षेब्रह्मचारि प्रकरणे—भुक्त्वाखयममक्षालयीतेति। अमत्रंभोजनस्य। भिक्षापात्रस्यत्वन्येनक्षालनेनदोषइत्युज्ज्वला। उभयोरपिपात्रयोर्ग्रहणमित्यन्ये।स्नातकादीनामप्येतत्।

तांबूलभक्षणविचारः। विशेषानुपक्रमेण **मार्कंडेये—**भूयोप्याचम्यकुर्वीतततस्तांबुलभक्षणम्। माधचीयेवसिष्ठः —सुपूगं चसुपत्रंचसुचूर्णेनसमन्वितम्। अदत्वाद्विजदेवेभ्यस्तांबूलंवर्जयेद्द्विजः। एकपूगं सुखारोग्यं द्विपूगंनिः फलंभवेत्। अतिश्रेष्ठंत्रिपूगंच अधिकंनैवदुष्यति। मार्कंडेये—पर्णाग्रंपर्णपृष्ठंच चूर्णपर्णंद्विपर्णकम्। दंतधावनपर्णंचशक्रस्यापिश्रियंहरेत्। अकृत्वाचमुखेपर्णंपूगंखादतियोनरः। दशजन्म दरिद्रस्तुअंतेचनहरिस्मृतिः। नित्यंख्यादतितांबूलंवक्रभूषाकरंनरः। नमुच्यत्यच्युतस्येव तस्य मंदिरमिंदिरा। चूर्णपूगदलाधिक्येसाम्येचापिसतिक्रमात्। दुर्गंधारंगसौगंध्यबहुरंगान्विदुर्बुधाः। मदनरत्नेवसिष्ठः

पर्णमूले भवेद्व्याधिःपर्णाग्रेपापसंभवः। चूर्णपर्णेहरेदायुःशिराबुद्धिविनाशिनी। तस्मादग्रंचमूलंचशिराश्चैव विशेषतः। चूर्णपर्णवर्जयित्वातांबूलंभक्षयेद्बुधः। आश्वलायनः— यतेश्चविधवायाश्चदीक्षितस्यवटोरपि।

तांबूलभक्षणंवर्ज्यंमैथुनंचविशेषतः। विद्याकामोऽनिशंरात्रौतांबूलंतुनभक्षयेत्। कृष्णभट्टीये – मातापित्रोः क्षयश्राद्धेतथैवक्षयसूतके। तांबूलंचर्वयेद्यस्तुपितृहासनिगद्यते। हेमाद्रौजाबालः

दंतधावनतांबूलं तैलाभ्यंगमभोजनम्। रत्यौषधपरान्नंच श्राद्धकृत्सप्तवर्जयेत्। यत्तुकृष्णभट्टीये–नित्यश्राद्धेत्वमा श्राद्धेश्राद्धेचापरपक्षिके। तांबूलचर्वणेदोषेनेतिशातातपोऽब्रवीदिति तन्निर्मूलम्। उक्तविरोधात्। लघुनारदीये

दशम्यादिमहीपालत्रिदिनंपरिवर्जयेत्। गंधतांबूलपुष्पाणिस्त्रीसंभोगं महाशयः।

दिनशेषभागकृत्यम्। विष्णुरहस्ये

गात्राभ्यंगंशिरोभ्यंगतांबूलंचानुलेपनम्। व्रतस्थोवर्जये त्सर्वंयच्चान्यच्चनिराकृतम्। दक्षः

भुक्त्वातुसुखमास्थायतदत्रपरिणामयेत्। इतिहासपुराणाद्यैः षष्ठसप्तम कौनयेत्। अष्टमेलोकयात्रातुबहिःसंध्याततः पुनः। आयुर्वेदेः

भुक्त्वोपविशतस्तुदंबंलमुत्तानशायिनः। आरोग्यंवामकुक्षौतुमृत्युर्धावतिधावतः। इतिश्रीमन्नारायणभट्टात्मजश्रीमद्रामकृष्णभट्टसुतलक्ष्मणभट्टकृता वाचाररत्नेभोजनप्रकरणम्॥

** सायंसंध्याविचारः। व्यासः**—

सच्छास्त्रादिविनोदेनसन्मार्गस्याविरोधिना। दिनंनयेत्ततःसंध्या मुपतिष्ठेत्समाहितः। यमः

च त्वारिखलुकर्माणिसंध्याकालेषुवर्जयेत्। आहारंमैथुनंनिद्रांस्वाध्यायंच चतुर्थकम्। संवर्तः

सादित्यांपश्चिमांसंध्यामस्तमितभास्कराम्। अत्रसायंसंध्यायाःकालकर्तव्यतादिसंध्या प्रकरणेज्ञेयम्। विशेषमाहचंद्रिकायांब्यासः

प्रत्यङ्मुखोपविष्टस्तुगायत्रींतुजपेत्ततः119। बह्वृचसूत्रेपि —उत्तरापराभिमुखोन्वष्टमदेशंसावित्रींजपेदिति। श्राद्धेभुक्तवतःसंध्यानिषेधमाहश्राद्धचंद्रोदयेयमः

पुन र्भोजनमध्वानं

भारमायासमैथुने। संध्यांप्रतिग्रहं होमं श्राद्धभोक्ताष्टवर्जयेत्। अयंसंध्यानिषेधः प्रायश्चित्ताकरणे। तदाह —सायंसंध्यांप्रक्रम्य—दशकृत्वःपिबेदापोगायत्र्या श्राद्धभुद्विजः। ततः संध्यामुपासीतशुध्येच्च तदनंतरम्। अत्रदशकृत्वःपिबेदितिसंबंधः। इदंमनूक्तप्रायश्चित्तंश्राद्धीयविषयमितिमाधवः। संध्याधिकारार्थ मितिपृथ्वीचंद्रःगौडास्तु —सायंसंध्या परान्नंच छेदनंचवनस्पतेः। अमावास्यांनकुर्वीत रात्रिभोजनमेवच। द्यूतंचकलहंचैवसायसंध्यादिवाशयम्। श्राद्धकर्ताचभोक्ताचपुनर्भुक्तिं च वर्जयेदितिकामधेनौवाराहात् कर्तुरपिसायंसंध्यानिषेधमाहुस्तन्निर्मूलम्। यत्तु— द्वादश्यांपंचदश्यांच संक्रांतौश्राद्धवासरे। सायंसंध्यांनकुर्वीत कुर्वंश्चपितृहाभवेदितिकालकौमुद्यांवचनंतदपिनिर्मूलम्। युक्तंचैतत्। ततः संध्यामुपासीतेत्युक्तेः। तेनश्राद्ध भोजननिमित्तं अन्यत्प्रायश्चित्तम्। पार्वणश्राद्धेतु षट्प्राणायामाइतिविश्वादर्शः तदिदंनसंध्याधिकारार्थंकिंतुश्राद्ध भोजननिमित्तम्। यत्तु— प्राणायामत्रयं कृत्वाप्रणवेनाभिमंत्र्यषट्। ततः संध्यामुपासीतशुद्धिःस्याच्छ्राद्ध भोजिना मिति तन्नवश्राद्धपरम्। प्रायश्चित्तगौरवादितिप्रयोगपारिजातःयाज्ञबल्क्यः—उपास्यपश्चिमांसंध्यांहुत्वाग्नीन्समुपास्यच। भृत्यैःपरिवृतोभुक्त्वानातितृष्याथसंविशेत्। चकारोवैश्वदेवादेरपिग्रहणार्थम्। सायंवैश्वदेवःपाकांतरेण कार्योनपुनर्भुक्तशिष्टेन। नवश्राद्धस्ययच्छिष्टंगृहेपर्युषतंचयत्। दंपत्योर्भुक्तशिष्टंचभुक्त्वाचांद्रायणं चरेदितिचंद्रिकायांवचनात्। यदार्याणामभोज्यंस्यान्नतेनयजेतइत्यापस्तंबोक्तेश्च। विष्णुपुराणे– तत्रापिश्वपचादिभ्यस्तथैवान्नापवर्जनम्। तत्रैव – पुनःपाकमुपादायसायमप्यवनीपते। वैश्वदेव निमित्तवै पत्यासार्थैवर्लिहरेत्। सायंत्वन्नस्यसिद्धस्यपत्न्यमंत्रंबलिंहरेत्। दक्षः—प्रदोषपश्चिमौयामौवेदाभ्यास रतोनयेत्। यामद्वयंशयानस्तुब्रह्मभूयाय कल्पते। शौनकः — निशायाः प्रथमेयामेजपयज्ञार्चनादिकम्। स्वाध्यायो भोजनंप्रोक्तं वर्जयित्वामहानिशाम्। **व्यासः —**महानिशातुविज्ञेयामध्ययामद्वयंनिशि। शौनकः—पश्चात्तनेतथायामेजपयज्ञार्चनादिकम्। ब्रह्माभ्यासोपित त्रैववर्जयित्वातुभोजनम्। इति।

शयनविचारः। हारीतः —नसंधिवेलायांशयीतननग्नोनाशुचिर्नप्रगेनोच्चैर्निशायांमाषेतेति। प्रगेप्रातः। अतएवपृथ्वीचंद्रोदयेस्मृत्यंतरे—आसन॑शयन॑यानंजायापत्यंकमंडलुम्। शुचीन्यात्मनएतानिपरेषाम शुचीनितु। कौर्मे—अश्रद्धोऽशुचिः शयितःस्वाध्यायंस्नानभोजनम्। बहिर्निष्क्रमणंचैवनकुर्वीतकदाचन। नवीजयेच्चवस्त्रेणनदेवायतनेस्वपेत्। चंद्रिकायांगोभिलः- स्नातकः स्वापकालेवैणवंदंडमुपदधातीति। स्वप्यादित्यनुवृत्तौ शंखलिखितौ—नदीर्णायांखट्वायांनान्यसेवितायामनम्युक्ष्यन भूतग्रहायतनेनश्मशान वृक्षच्छायासुनपर्वणिरभसोत्सवेचेति। पर्वणिप्रतिपत्पंचदश्योः संधौ। रभसोत्सवेपुत्रजन्मादौ। हारीतः —न प्रत्यक्तिर्यगुदशिराःकोणशिराः पश्चिम शिराउत्तरशिराश्चेति। मार्कंडेये— प्राक्शिरःशयनेर्विद्या द्धनमायुश्चदक्षिणे। पश्चिमेप्रबलांचिंतांहानिमृत्यूतथोत्तरे। शून्यालयेश्मशानेचपथिवृक्षेचतुष्पथे। महादेवगृहेवापिमातृवेश्मनिनस्वपेत्। नयक्षनागायतनेस्कंदस्यायतनेतथा। कूलच्छायासुचतथाशर्करा लोष्ठपांसुषु। नखपेच्चतथादर्भेविनादीक्षांकथंचन। धान्यगोदेवविप्राणांगुरूणांचतथोपरि। नाकाशेसर्वतः शून्येन च चैत्यद्रुमेतथा। गार्ग्यः—स्वगृहेप्राक्शिराःशेतेश्वाशुर्येदक्षिणा शिराः। प्रत्यक्शिराःप्रवासेतुन कदाचिदुदक्शिराः। भारते —शय्यार्धंतस्यचाप्यत्रस्त्रीपूर्वमधितिष्ठति। तद्दक्षिणेशयीतेति। उशना —नतैलेनाभ्यक्तशिराः स्वपेदिति। पैठीनसिः - नादीक्षितः कृष्णचर्मणिसुप्यादिति। आपस्तंबः—सदानिशायांदारान्प्रत्यलंकुर्वीतेति। विष्णुपुराणे—शुचौदेशेविविक्तेतुगोमयेनोपलेपिते। प्रागुदक्प्रवणे चैवसंविशेत्तुसदाबुधः। मंगल्यंपूर्णकुंभंचशिरोदेशेनिधायतु। वैदिकैर्गारुडैमैत्रैरक्षां कृत्वास्वपेत्ततः। हारीतः—क्षालितचरणःसर्वतोरक्षांकृत्वोदकपूर्णघटादिमंगलोपेतआत्माभिरुचितामनुपहतांत्रामाणमितिपठन् शय्या मधिष्ठायरात्रिसूक्तंजप्त्वाविष्णुंनमस्कृत्य। सर्पापसर्पभर्द्रतेदूरंगच्छमहाविष। जनमेजयस्ययज्ञांतेआस्तीक वचनंस्मर। आस्तीकवचनंश्रुत्वायःसर्पोननिवर्तते। शतधाभिद्यतेर्मूर्ध्निर्शिशवृक्षफलंयथा। इत्येत च्छ्लोकद्वयंजप्त्वेष्टदेवतांस्मृत्वा

साधिमास्थायान्यांश्चवैदिकान्मंत्रान्जप्त्वामंगलश्रुतिशंखंचशृण्वन्दक्षिणशिराः स्वपेदिति। विष्णुपुराणे– रात्रिसूक्तंजपन् स्मृत्वादेवांश्चसुखशायिनः। तानाहगोभिलः —अगस्तिर्माधवश्चैवमुचुकुंदोमहामुनिः। कपिलोमुनिरास्तीकःपंचैतेसुखशायिनः। शयीतेत्यधिकृत्यहारीतः–नान्यपूर्वेनानुवंशास्तीर्णेनाश्मपीठो पधानेनचासनेइति। अन्यपूर्वेअन्योपभुक्ते। चंद्रोदयेस्मृतिः— आसनंशयनंयानंजायापत्यंकमंडलुम्। शुचीन्यात्मनएतानिपरेषामशुचीनितु। विष्णुः—नाकाशेनपालाशेनपंचदारुकृतेनगजभग्नकृतेनभिन्नेनाग्निघु ष्टेनघटसिक्तद्रुमजेनदेवायतनेनगणमध्येनहुताशोपरिनभस्मनिनाशुचौदेशेनपर्वतमस्तकेशयीतेति। पंचदारु जेपंचजातीयदारुकृतेइतिटोडरानंदः। तन्न ।वक्ष्यमाणविष्णुपुराणविरोधात्। शंखलिखितौ—नविशीर्ण खट्वायामनभ्युक्ष्यनभूतयक्षग्रहायतनेपुनश्मशानवृक्षच्छायासुशीतेति। चंद्रिकायांप्रचेताः— नविशीर्ण खट्वा यांनान्यवर्णोपशयितायांस्वपेदिति। विष्णुपुराणे—नैकांशालांनवांभग्नांनासमांमलिनांतथा। नचदंतमयीं शय्यामधितिष्ठेदनास्तृताम्। मृतदंतमयेविद्युद्दग्धेदर्भेपलाशजे। नशयीतनरोधान्येशयनेपंचदारुजे। पंचदा रूणिचोक्तानिचूतजंबूद्रुमास्तथा। अश्मपीठोत्थितांश्चैवघटसिक्ततरूंस्तथा। करिभग्नकृते चैव नशयीतक्वचिन्नरः।

संभोगेनिषिद्धदेशदिनादि माधव्यामादित्यपुराणे संभोगेनिषिद्धदेशाउक्ताः— चैत्यचत्वरसौधेपुनै वदेवचतुष्पथे। नैव श्मशानोपवनसलिलेपुमहीपते। काशीखंडे —एककाष्ठमयींशय्यांनातितृप्तो ऽथसंविशेत्। विष्णुः —नविद्युद्दग्धेनवाल्पधान्योपरिनसंध्यायांनार्द्रेति। कल्पतरौ कात्यायनः— पौर्ण मास्याममावास्यामधःशय्याविधीयते। अनाहिताग्नेरप्येपापश्चादग्नेर्विधीयते। टोडरानंदेतीर्थसौख्ये स्कांदे— वार्षिकांश्चतुरोमासान्प्रसुप्तेवैजनार्दने। पंचखट्वादिशयनंवर्जयेद्भक्तिमान्नरः। अनृतौवर्जयेद्भार्यां मांसंमधुपरौदनम्।

शयनविचारः। हारीतः —संधिवेलायांशयी तननग्नोनाशुचिर्नप्रगेनोच्चैर्निशायांभाषेतेति। प्रगेप्रातः। अतएवपृथ्वीचंद्रोदयेस्मृत्यंतरे—आसनंशयनंयानंजायापत्यंकमंडलुम्। शुचीन्यात्मनएतानिपरेषाम शुचीनितु। कौर्मे—अश्रद्धोऽशुचिःशयितःस्वाध्यायंत्रास्नानभोजनम्।बहिर्निष्क्रमणंचैवनकुर्वीतकदाचन। नवीजयेच्चवस्त्रेणनदेवायतनेस्वपेत्। चंद्रिकायांगोभिलः—स्नातकःस्वापकालेवैणवंदंडगुपनिद धातीति। स्वप्यादित्यनुवृत्तौशंखलिखितौ—नदीर्णायांखट्टायांनान्यसेवितायामनभ्युक्ष्यनभूतग्रहायतनेन श्मशानवृक्ष च्छायासुनपर्वणिरभसोत्सवेचेति। पर्वणिप्रतिपत्पंचदश्योःसंधौ। रभसोत्सवेपुत्रजन्मादौ। हारीतः—नप्रत्यक्तिर्यगुदक्शिराःकोणशिराःपश्चिम शिराउत्तरशिराश्चेति। मार्कंडेये—प्राक्शिरः शयनेविद्याद्धन मायुश्चदक्षिणे। पश्चिमेप्रबलांचिंतांहानिमृत्यूतथोत्तरे। शून्यालयेश्मशा नेचपथिवृक्षेचतुष्पथे। महादेवगृहेवा पिमातृवेश्मनिनस्वपेत्। नयक्षनागायतनेस्कंदस्यायतनेतथा। कूलच्छायासुचतथा शर्करालोष्ठपांसुषु। नखपेच्चतथादर्भेविनादीक्षांकथंचन। धान्यगोदेवविप्राणांगुरूणांचतथोपरि। नाकाशेसर्वतःशून्येनचचैत्य द्रुमेतथा। गार्ग्यः —स्वगृहेप्राक्शिराः शेतेश्वाशुर्येदक्षिणा शिराः। प्रत्यक्शिराः प्रवासेतुनकदाचिदुदक्शिराः। भारते —शय्यार्धतस्यचाप्यत्रस्त्रीपूर्वमधितिष्ठति। तदक्षिणेशयीतेति। उशना — नतैलेनाभ्यक्तशिराः स्वपेदिति। पैठीनसिः—नादीक्षितः कृष्णचर्मणिसुप्यादिति। आपस्तंबः—सदानिशायां दारान्प्रत्यलं कुर्वीतेति। विष्णुपुराणे—शुचौ देशेविविक्तेतुगोमयेनोपलेपिते। प्रागुदक्प्रवणेचैवसंविशेत्तुसदायुधः। मंग त्यंपूर्णकुंभंचशिरोदेशेनिधायतु। वैदिकैर्गारुडैमैत्रैरक्षांकृत्वास्वपेत्ततः। हारीतः—क्षालितचरणः सर्वतोरक्षांकृत्वोदकपूर्णघटादिमंगलोपेतआत्माभिरुचितामनुपहतांसुत्रामाणमितिपठनुशय्यामधिष्ठायरात्रि सूक्तंजप्त्वाविष्णुंनमस्कृत्य। सर्पापसर्पभर्द्रतेदूरंगच्छमहाविप। जनमेजयस्य यज्ञांतेआस्तीकवचनंस्मर। आस्तीकवचनंश्रुत्वायःसर्पोननिवर्तते। शतधाभिद्यतेर्मूर्ध्निर्शिशवृक्षफलंयथा। इत्येतच्छ्लोकद्वयंजध्वेष्टदेवतां स्मृत्वा

साधिमास्थायान्यांश्चवैदिकान्मंत्रन्जप्त्वामंगलश्रुतिशंखंचशृण्वन्दक्षिणशिराःस्वपेदिति। **विष्णुपुराणे—रात्रि सूक्तंजपन्स्मृत्वादेवांश्चसुखशायिनः। तानाहगोभिलः—अगस्तिर्माधवश्चैवमुचुकुंदोमहामुनिः। कपिलो मुनिरास्तीकःपंचैतेसुखशायिनः। शयीतेत्यधिकृत्यहारीतः—**नान्यपूर्वेनानुवंशास्तीर्णेनाश्म पीठोपधानेन चासनेइति। अन्यपूर्वेअन्योपभुक्ते। **चंद्रोदयेस्मृतिः—**आसनंशयनंयानंजायापत्यं कमंडलुम्। शुचीन्यात्मन एतानिपरेपामशुचीनितु। विष्णुः—नाकाशेनपालाशेनपंचदारुकृतेनगजभग्नकृतेनभिन्नेनाग्निघुष्टेनघटसिक्त द्रुमजेनदेवायतनेनगणमध्येनहुताशोपरिनभस्मनिनाशुचौदेशेनपर्वतमस्तकेशयीतेति। पंचदारुजेपंच जातीयदारुकृतेइतिटोडरानंदः। तन्न। वक्ष्यमाणविष्णुपुराणविरोधात्। **शंखलिखितौ—**नविशीर्ण खट्वायामनभ्युक्ष्यनभूतयक्षग्रहायतनेपुनश्मशानवृक्षच्छायासुशयीतेति चंद्रिकायांप्रचेताः—

नविशीर्णखट्वा यांनान्यवर्णोपशयितायांस्वपेदिति। विष्णुपुराणे—

नैकांशालांनवांभग्नांनासमांमलिनांतथा। नचदंतमय शय्यामधितिष्ठेदनास्तृताम्। मृतदंतमयेविद्युद्दग्धेदर्भेपलाशजे। नशयीतनरोधान्येशयनेपंचदारुजे। पंचदारूणिचोक्तानिचूतजंबूद्रुमास्तथा। अश्मपीठोत्थितांश्चैवघटसिक्ततरूंस्तथा। करिभग्नकृतेचैवन शयीतक्वचिन्नरः।

संभोगेनिषिद्धदेशदिनादि माधव्यामादित्यपुराणे संभोगेनिषिद्धदेशाउक्ताः —चैत्यचत्वरसौधेषुनै वदेवचतुष्पथे। नैवश्मशानोपवनसलिलेषुमहीपते। काशीखंडे

एककाष्ठमयींशय्यांनातितृप्तोऽथ संविशेत्। विष्णुः

नविद्युद्दग्धेनवाल्पधान्योपरिनसंध्यायांनार्द्रेति। कल्पतरौकात्यायनः

पौर्णमास्या ममावास्यामधःशय्याविधीयते। अनाहिताग्नेरप्येपापश्चादग्नेर्विधीयते। टोडरानंदे तीर्थसौख्येस्कांदे

वार्षिकांश्चतुरोमासान्प्रसुप्तेवैजनार्दने। पंचखट्वादिशयनंवर्जयेद्भक्तिमान्नरः। अनृतौवर्जयेद्भार्यां मांसंमधु परौदनम्।

तिथितत्वेस्कांदे —खंडनंनखकेशानांमैथुनाध्वगमेतथा। आमिषंकलहंहिंसांवर्षवृद्धौविवर्जयेत्। **पराशरः—**नर्मदायैनमःप्रात120र्नर्मदायैनमोनिशि। नमोस्तुनर्मदेतुभ्यंत्राहिमांविषसर्पतः। यमः—

भुंजीतह्या र्द्रपाणिस्तुनार्द्रपाणिःस्वपेन्निशि। विष्णुः—

निद्रासमयमासाद्यतांबूलंवदनात्त्यजेत्। पर्यंकात्प्रमदांभाला त्पुंड्रंपुष्पाणिमस्तकात्। बौधायनः—

नपर्वणिनश्राद्धेनव्रतीनदीक्षितश्चेति। दीक्षितोदीक्षाख्य संस्कारवान्। सोप्यवभृथेष्टिंयावत्। पर्वाणिविष्णुपुराणे—

चतुर्दश्यष्टमीचैवअमावास्याचपूर्णिमा। पर्वाण्येतानिराजेंद्र रविसंक्रांतिरेवच। तैलस्त्रीमांससंभोगीपर्वस्वेतेषुयःपुमान्। विण्मूत्रभोजनंनामनरकंप्रतिपद्यते। सामान्यत श्चतुर्दश्यष्टमीग्रहेपिकृष्णपक्षस्यतेग्राह्ये। कृष्णाष्टमीचतुर्दश्योःपूर्णिमादर्शसंक्रमइतिस्कांदादिति पृथ्वीचंद्रः। तन्न। षष्ठयष्टम्यावमावास्याउमेपक्षेचतुर्दशी। मैथुनंचनसेवेतद्वादशींचममप्रियामितिटोड रानंदेवाराहविरोधात्। संस्कारटोडरानंदेकौर्मे—

ब्रह्मचारीभवेन्नित्यंतद्वज्जन्मत्रयाहनि। कल्प तरौचंद्रिकायांवामने—

नाभ्यंगमर्केनचभूमिपुत्रेक्षौरंचशुक्रेथकुजेचमांसम्। बुधेचयोषित्परिवर्जनीयाशेषे षुसर्वाणिसदैवकुर्यात्। मूलेमृगेभाद्रपदासुमांसंयोपिन्मघाकृत्तिकयोत्तरासु121। वर्ज्येतिपूर्वार्धानुपंग। याज्ञवल्क्यः—

एवंगच्छन्स्त्रियंक्षामांमघांमूलंचवर्जयेत्। यत्तुरत्नमालायांमूलोत्तरयोरुक्तिःसैतद्विरोधा दनित्या। ऋतुः— ऋतुकालाभिगामीस्यात्स्वदार निरतःसदा। यःस्वदारानृतुस्नातान्स्वस्थः सन्नोपगच्छति। भ्रूणहत्यामवाप्नोतिनात्रकार्याविचारणेति देबलोक्तेः

ऋतुदिननियमः संभोगोत्तरंशौचंचऋतुमाहयाज्ञबल्क्यः – षोडशर्तुर्निशाःस्त्रीणांतस्मिन्युग्मासु संविशेत्। ब्रह्मचार्येवप

र्वण्याद्याश्चतस्रश्चवर्जयेत्। मनुः—तासामाद्याश्चतस्रस्तुनिंदितैकादशीच्या। चतुर्दशीचशेषाःस्युः प्रशस्ता दशरात्रयः। मैथुनप्रशस्तऋतुकालिकदशरात्रमध्येमैथुननिषिद्धतिथिनक्षत्रवारादीनांदशानांक्रमेणसंभव स्तत्रपर्वस्वपिमैथुनेदोषाभावः। ऋतावुपेयादित्यत्यंतायोगात्प्रयोगव्यवच्छेदस्यविध्यर्थत्वादितिशंकरो पाध्यायाः। तन्न। पर्वस्वपिनिषेधात्। अतोयत्रदृष्टार्थोनिषेधःस्मृत्यर्थशास्त्रयोर्विरोधोवातत्रार्थ शास्त्रबाधः। बौधायनः—एवमजरोव्रजेत्काम्यंयावत्सन्निपातंचसहाय्याततोनानोदकस्पर्शनमपिवालेपान्प्रक्षाल्याचम्य प्रोक्षणमंगानामिति। यावत्स्खलनंतावत्सहवाशय्याततोनानापृथक्शयीयातामित्यर्थः। उदकस्पर्शनंखान मितिहरदत्तः। एतदृतौ। अन्यत्रलेपान्प्रक्षाल्येत्यादि। ऋतौतुगर्भशंकित्वात्नानंमैथुनिनःस्मृतम्। अनृतौ तुयदागच्छेच्छौचंमूत्रपुरीषवदितिवृद्धशातातपात् मूत्रपुरीषवच्छौचद्वयंकार्यमित्यर्थइतिचंद्रिका। अनृतावपि**स्नानमुक्तंचंद्रिकायाम्—अष्टम्यांचचतुर्दश्यांदिवापर्वणिमैथुनम्। कृत्वासचैलंस्नात्वातुवा रुणीभिश्चमार्जयेत्। याज्ञबल्क्यः–नग्नःस्नात्वाच सुप्ताचगत्वाचैवदिवास्त्रियम्। यत्तु शंखः—दिवातुमैथुनंगत्वानग्नः स्नात्वातथांभसि। नग्नांपरस्त्रियंदृष्ट्वादिनमेकंव्रतीभवेदिति तदभ्यासपर मितिशूलपाणिः। अत्रमैथुनोत्तरंसहशय्यानिषेधात्तदभावेसहशय्या। सन्निहितभर्तृकायाःपृथक्शयनस्य दंडत्वात्। पृथक्शय्यातुनारीणामशस्त्रवधउच्यतइतिवचनात्—तस्मात्सर्वास्त्रियोवालेभत्रसहापिवापृथ क्। निशिनोशयनंकुर्युः कंचुकी कर्णभूषणैः। हारैश्चकंठसंसक्तैः सहचेद्विध वास्तुताः। भविष्यंतिनसंदेहः कुर्युःशय्यांपतिव्रताइति सह्याद्रिखंडाच्च हारादिभिः सहेत्यर्थः। स्नानंपुंसः नस्त्रियाः। तस्याः शुचित्वात्। तदाहयोगयाज्ञवल्क्यः—**उभावप्यशुचीस्यातांदंपतीशयनंगतौ। शयनादुत्थितानारीशुचिःस्यादशुचिः पुमान्। **वृद्धपराशरः—**चातुर्वर्ण्याशुचिर्नारीकृताभिगमनापिवा। विप्रेमैथुनिनिस्नानंराजकेपिशिरोविना। नाभियावद्विशस्तद्वल्लिंगशौचंचशुद्रके। स्त्रियाविशेषमा हस एव — न चकुर्वीतसास्नानंनाभेरधस्तु शोधयेत्। गौतमः–नमैथुनीभूयशौचंप्रतिविलंवेदिति। **मनुः—**अमावास्यामष्टमीं चपौर्णमासीं

चतुर्दशीम्। ब्रह्मचारीभवेन्नित्यमनृतौस्नातकोद्विजः। ऋतौनिरवकाशे श्राद्धादावपिगच्छेत्। यथाषोडशे हनिपरदेशादागतस्याग्रेऋत्वभा वादगमनेदोषोगमनेदातुर्भोक्तुश्चादोषः। तथाचविज्ञानेश्वरः— एवंगच्छनब्रह्मचार्येवभवतीति। यतुहेमाद्रौशिवरहस्ये–दिवाजन्मदिनेचैवनकुर्यान्मैथुनंव्रती। श्राद्धंदत्वा चभुक्त्वाचश्रेयोर्थीनचपर्वस्वितितदनृतुपरम्। ब्रह्मचार्येवभवतियत्रतत्राश्रमेवसन्नितिमनूक्तेःमाधचीयेतु— ऋतुकालंनियुक्तोवानैवगच्छेतस्त्रियंक्वचित्। तत्रगच्छन्समाप्नोतिह्या तिष्ठन्फलमेवत्वितिवृद्धमनूक्तेः। श्राद्धे ब्रह्मचर्यमावश्यकमित्युक्तम्। यत्तुधर्मप्रदीपे—आमेहैमेतथानित्येनांदीश्राद्धेतथैवच। व्यतीपातादिके श्राद्धेनियमान्परिवर्जयेदिति तन्निर्मूलम्। भारते- स्नातां चतुर्थे दिवसेरात्रौगच्छेद्विचक्षणः। यत्तुनारदः – रजो दर्शनतोऽस्पृश्यानार्योदिनचतुष्टयम्। ततः शुद्धक्रियाश्चैताः सर्ववर्णेष्वयं विधिरिति। तत्रास्पृश्य त्यंकर्मानधिकाररूपंज्ञेयम्। स्मृत्यंतरेचतुर्थनिषेधोऽपत्याल्यायुष्ट्वादिदोषार्थः। चतुर्थीप्रभृत्युत्तरोत्तराः प्रजानिःश्रेयसार्थ मित्यापस्तंबोक्तेः। रात्रौचतुर्थ्यांपुत्रःस्यादल्पायुर्धनवर्जितइतिव्यासोक्ते श्चेतिटोडरानंदः। अन्येतुस्नानंरजस्वलायास्तुचतुर्थेनिशस्यते। गम्यानिवृत्तेरजसिनानिवृत्तेकथंचनेत्यापस्तंयोक्तेः रजोनिवृत्त्यनि वृत्तिभ्यांव्यवस्थेत्याहुः। सर्वास्वयुग्मासुगमनं युग्मास्विति बहुवचनादितिविज्ञानेश्वरः। अनृतावपिगमनमाह्गौतमः—ऋतावुपेयात्सर्वत्रवाप्रतिषिद्धवर्जमिति। यत्तुभारते—अनृतौमैथुनं गच्छेद्वीजस्तैन्यंकरोम्यहमिति तत्स्त्र्यनिच्छापरम्। वाराहे— यस्तुपाणिगृहीतायांमासेकुर्वीतमैथुनम्। भवंतिपितरस्त स्वतंमासं रेतसोभुजः॥

अगम्याः स्त्रियः। आश्वलायनः –प्राग्रजोदर्शनात्पत्नीनेयाद्गत्वापतत्यधः। एतदपवादः व्यवहारचमत्कारे कश्यपसंहि तायाम्—वर्षाद्द्वादशकादूर्ध्वंयदिपुष्पंवहिर्नहि। अंतःपुष्पं भवत्येवपनसोदुंबरादिवत्। अतस्तत्रप्रकुर्वीततत्संगंबुद्धिमान्नरः। छंदोगपरि

शिष्टे

अजातव्यंजनालोम्नीनतयासंहसविशेत्। बौधायनः – स्वदारेषुनातीर्थ उपेयादिति। तीर्थंयोनिः। सएव —

नदिवासंध्ययोर्न मलिनांनवयोधिकांनाभ्यक्तोनरोगपरइति। वयोधिकागतरजस्का। आयुर्वेदे

ग्राम्यधर्मेत्यजेत्पत्नीमनुत्तानांरजस्वलाम्। अप्रियामप्रियाचारांदुष्टसंकीर्णमैथुनाम्। अतिस्थूलांकृशांमूतां गर्भिणीमन्ययोपितम्। वर्णिनीमन्ययोनिंचगुरुदेवनृपालये। चैत्यश्मशानायतन चत्वरांबुं चतुष्पथे। पर्वण्य नंगदिवसेशिरोहृदयताडिनिम्। अत्याशितोधृतःक्षुद्वान्दुःस्थितांगपिपासितः। बालवृद्धोन्यवेगार्तस्त्यजेद्रो गीचमैथुनम्। ग्राम्यधर्मोमैथुनम्। वेगोविण्मूत्रादिः। प्रव्यक्तगर्भापतिरब्धियानंमृतस्यवाहंक्षुरकर्मसंगम्। तस्यानुयत्नेनगयादितीर्थयागादिकंवास्तुविधिंनकुर्यात्। प्रव्यक्तगर्भावनिताभवेन्मासत्रयात्परम्। संगते त्यर्थः।सांबपुराणे

नदिवामैथुनंगच्छेद्वंधकीमविवक्षिताम्। प्रब्राजिनीनोत्कृष्टापिंगलांकुष्ठिनींयोगिनीं चित्रिणीस्वकुलजांसंबंधिनींहीनामपस्मारिणींचवर्जयेदिति। गारुडे

शुष्कमांसाःस्त्रियोवृद्धावालार्क स्तरुणंदधि। प्रभातेमैथुनं निद्रासद्य प्राणहराणिषट्इति।

सुखसंभोगयोगः। तथा—

शिरःसुधौतंचरणौसुमार्जितौवरांगनासेवनमल्पभोजनम्। अनग्नशायित्वम पर्वमैथुनंचिरप्रनष्टांश्रियमानयंति। तथा — साभार्यायागृहेदक्षासाभार्यायाप्रियंवदा। साभार्याया प्रियप्राणा साभार्यायापतिव्रता। नित्यस्नातासुगंधाचनित्यंचप्रियवादिनी। अल्पभुक्चाल्पवादाचसततंमंगलैर्युता। सततंधर्मबहुलासततंऋतुगामिनी। एवंयासत्क्रियायुक्तासर्वसौभाग्यवर्धिनी। यस्येदशीभवेद्भार्यासदेवे द्रोनमानुषः। कौर्में

इत्येतदखिलंप्रोक्तमहन्यहनियद्द्विजाः। ब्राह्मणानांकृत्यजातमपवर्गफलप्रदम्। नास्तिक्यादथवालस्याद्ब्राह्मणोनकरोतियः। सयातिनरकान्घोरान्काकयोनौचजायते।

अथदुःखप्नशांतिः। शौनकः

स्वप्नोत्पातेषुचैतेषुकालरात्र्यधिदेवता। पूजाविधानं पूर्वोक्तंकुर्यादत्रा पियत्नतः। पूर्वोक्तंरात्रिसूक्तक

ल्पबत्। होमंकुर्यात्प्रयत्नेनरात्रावेवद्विजोत्तमः। उक्तेनैवविधानेनसघृतंपायसंहुनेत्। प्रत्यृचंपाय संहुत्वारात्रीव्यख्यदितिक्रमात्। अष्टोत्तरशतंहुत्यासूक्तेनानेनवित्तथा। स्वप्नाधिपतिमंत्रेणहुनेदष्टोत्तरंशतम्। कालरात्रेर्नाममंत्रेणेत्यर्थः। गुरवेदक्षिणांदद्याद्वस्त्रंहेमपशूनपि। तयुक्तदक्षिणाभावेप्यशक्तोहोमकर्मणि। हिरण्यंदक्षिणांदद्यात्तदानीमेववाबुधः। वस्त्रकुंभादिसकलंतद्धोत्रेप्रतिपादयेत्। ब्राह्मणान्भोजयेच्छक्त्या सुशीलान्वेदपारगान्। भक्ष्यैश्चपायसाद्यैश्चरत्नानिसुवहूनिच। अनेनविधिनायस्तुशांतिं कुर्वीतसंयतः। तस्यवर्षशतायुष्यंभवत्येवन संशयः। इतिदुःखप्नशांतिः।

अथाशौचेकार्याकार्यनिर्णयः। तत्रप्रयोगपारिजातेजाबालिः

संध्यांपंचमहायज्ञान्नैत्यकंस्मृति कर्मच। तन्मध्येहापयेत्तेपां दयाहांतेपुनः क्रिया। नैत्यकंनित्यश्राद्धम्। पंचयज्ञसाहचर्यात्। स्मृतिकर्मस्मृत्यु क्तंदेवतार्चनादि। पुनस्त्वर्थे। यत्तुपुलस्त्यः

संध्यामिष्टिंचरुंहोमंयावज्जीवंसमाचरेत्। नत्यजेत्सूतके वापित्यजन्गच्छेदधोगतिमिति। यच्चयोगीश्वरः

संध्यास्नानंत्यजन्विप्रःसप्ताहाच्छूद्रतां व्रजेत्। तस्मात्संध्यां चस्त्रानंचसूतकेपिन संत्यजेदिति तन्मानससंध्यापरम्। निषेधस्तुमंत्रोच्चारणपरः। सूतकेमृतकेचैव संध्याकर्मसमाचरेत्। मनसोच्चारयेन्मन्त्रान्प्राणायाममृतेद्विजइति पुलस्त्योक्तेः

मनसे त्यर्घ्यदानान्यपरम्। सूतकेसावित्र्यांजलिप्रक्षिप्यप्रदक्षिणंकृत्वासूर्यंध्यायन्नमस्कुर्या दितिपैठीनसिस्मृतेः। अर्घ्यसावित्र्याःप्राप्ता वपिपुनर्वचनंमानसोच्चारनिवृत्त्यर्थम्। अत्रदशसंख्ययागायत्रीजप्या।आपन्नाश्चाशुचौकालेतिष्ठनपिज पेद्दशेत्याश्वलायनोक्तेरितिप्रयोगपारिजातः। अष्टाविंशतिकृत्वोत्रगायत्रींमनसाजपेदितिदेवजानीयेभर द्वाजः। सूतकेमृतकेकुर्यात्प्राणायामममंत्रकम्। तथामार्जनमंत्रांस्तुमनसोच्चार्य मार्जयेत्। गायत्रींसम्य गुच्चार्यसूर्यायार्घ्यांनिवेदयेत्। मार्जनंतुनवाकार्यमुपस्थानंनचैवहि। अमंत्रकमितिप्राणायामेमानसोच्चार स्यापिनिवृत्त्यर्थम्। मनसोच्चार्येतितुसर्वस्यमानसोच्चारेप्राप्तेपिस्मृत्यंतरत्वाद

दोषः। तेनार्घ्यंदानवर्जंसर्वेमनसाकार्यमुपस्थानंतुनेति माधवप्रयोगपारिजातस्मृतिरत्नावल्यादयः। संध्यायामर्घ्यदानस्यश्रौतत्वात्तदेवाशौचेनुष्ठेयमितिचंद्रिका।विज्ञानेश्वरस्तु— उक्तवचनेषुपदार्थगणनंत दन्यपरिसख्यार्थम्। अन्यथाविशेषगणनस्यवैयर्थ्यापत्तेः। तेनयावदुक्तमेवमनसाकार्यं उपस्थानंनेति विकल्पार्थमित्याह। दशगायत्रीजपस्तुचंडालादिस्पृष्टस्यस्त्रानाद्यसभवपरः। एकादशाहप्रातःसंध्याप्या शौचवदेव तत्कालस्यदशरात्रांतःपातात्। तदूर्ध्वंतुशुद्धिदशावत् अशुचित्वाभावात्। नचमुख्यकालवदेव गौणकालेपितत्करणमितियुक्तं उक्तहेतोरितिकेचित्। निष्कर्षस्तु सूर्योदयोत्तरदंडत्रयस्यमुख्यकाल त्वोक्तेः प्रधानविध्यनुग्रहाच्च सूर्योदयोत्तरंशुद्धकालइव सांगसंध्या वंदनमिति। अर्घ्यांतामान सीसंध्याप्राणायामविवर्जितेतिच्यवनोक्तोर्घ्यातासंध्येतितच्चचंद्रिकाद्यलिखनान्निर्मूलम्। एतेनाशौचेर्घ्यांता संध्येतिवदनु विधानपारिजातोप्यपास्तः। कात्यायनः—सूतकेमृतकेचैवरोगोत्पत्तौतथाध्वनि। मानसीं तुजपेत्संध्यांकुशवारिविवर्जिताम्। आशार्के— आशौचेकर्मणांत्यागःसंध्यादीनांविधीयते। होमः श्रौतेतु कर्तव्यः शुष्कान्नेनापिवाफलैः। होमः सायंप्रातर्नतुवैश्वदेवः। जन्महानौसगोत्रस्यकर्मत्यागोन विद्यते। शालाग्नौकेवले होमः कार्यएवान्यगोत्रजैरितिजाबालस्मृतेः। विप्रोदशाहमासीतवैश्वदेवविवर्जित इतिसंवर्तीक्तेश्च। पंचयज्ञविधानंतुनकुर्यान्मृत्युजन्मनोरिति संवर्तेन पंचयज्ञनिषेधाद्वैश्वदेवनिषेधेसिद्धे पुनःपृथनिपेधस्तैत्तिरीयाद्यर्थः। तेपपंचयज्ञभिन्नवैश्वदेवोक्तेः। हरदत्तस्तु—बह्वृचानांसूतकेपिवैश्वदेवो भवति—तानेतान्यज्ञानहरहःकुर्वीतॆतिसर्वेषांनित्यत्वोक्तावपि—तस्यद्वावनभ्यायौयदात्माशुचिर्यदेशइत्यनेनाशौचा दौमा यज्ञस्यैवविशेपतोनिपेधादित्याह। तन्न। द्वावेवेत्यन्वयेनानध्यायांतरस्यैवव्यावृत्तेः। अत एषश्रुतिः —व्रजन्नासीनः शयानोवेति। नतुतस्यैवेत्यनध्यायांतरव्यावृत्तिर्नस्यात्। वैश्वदेवादिनिपेधविरोधाच्च। अत्रवैश्वदेव निषेधेप्यसंस्कृतान्नभोजननिषेधादन्नसंस्कारोभवत्येव। तत्रापि— वैश्वदेवासंभवेतुकुक्कुटांडप्रमाणकमिति मृतपितृकस्यपाकांतरपक्षइवसूत किनोपिभवतीत्याहुः।

जातः—

अग्निहोत्रेस्वकर्तृकत्वान्यकर्तृकत्वविकल्पः। यच्चस्मृत्यंतरम्

वर्जयेत्सूतकेकर्मनित्यनैमित्तिका दिकम्। आहिताग्नेःसदाशुद्धिः सद्य एवविधीयतइतितत्रपूर्वार्धमाशौचेकर्तव्यत्वेनाभिहितनित्यनै मित्तिकपरम्। उत्तरार्धतुवैतानिकपरमिति। तन्न। श्रौतेऽन्यकर्तृकत्वविध्यभावात्। स्वकर्तृकत्व निषेधाभावाच। नचैवंश्रौतंकार्यमितिवचनवैयर्थ्यं श्रौतनिषेधाभावादितियुक्तम्। अशुचित्वेन भ्रमप्राप्तश्रौतनिवृत्तिनिरासार्थत्वात् वैतानोपासनाइति याज्ञबल्क्योक्तिर्नित्यकर्मपरा। दीक्षितानामित्या दितुप्रारब्धकर्मणियाजमानप्रात्यर्थमितिस्मृत्यर्थसारः। स्नानशौचाचमनभोजननियमास्पृश्यस्पर्शेस्नानं कुर्यादितिटोडरानंदेकालिकापुराणे

जानूर्ध्वंक्षतजेजातेनित्यकर्मनचाचरेत्। नैमित्तिकंचतदधः स्रवद्रक्तोनचाचरेत्।आर्त्विज्यंब्रह्मयज्ञंचश्राद्धंदेवयुतेचयत्। गुरुमाक्षिप्यविप्रंचप्रहृत्यैवचपाणिना। नकुर्यान्नित्यकर्माणिरेतःपातेचभैरव।

** अथभोजनोत्तरंकार्याकार्यविचारः**। स्नानंकार्यंसायंसंध्यादेःपूर्वतदधिकारार्थतदूर्ध्वंतु। प्रदोपपश्चिमे यामेदिनस्नानंसमाचरेदितिपराशरोक्तेः। एतच्चदिनासंभवेइतिहेमाद्रिश्चंद्रिकाच। अतः संकल्पः स्नानांगतर्पणाद्यपिभवति। नचानश्नदधिकारित्वाल्लोपः। स्नाना धिकारेतदशक्तौलोपप्रसंगात्। अतएवगौणस्रानाद्यंगीकारइतिचेत्। अत्रापिगौणकालांगीकारइतितुल्यम्। नास्यभोजनार्थत्वे किंचित्प्रमा णमस्ति। अतएवत्रानेजीवदधिकारित्वमित्याचारादर्शः। संध्यात्रयंचकार्यम्। संध्यात्रयंचकर्तव्यं द्विजेनात्मविदासदेतिमनूक्तेः। सर्वकालउपस्थानंसंध्ययोः पार्थिवेष्यते। अन्यत्रसूतकाशौच विभ्रमातुरभीतितइति विष्णुपुराणेसूतकादिमध्येपिकथितत्वाच्च। सायसंध्यावद्भो जनोत्तरत्वेप्य विरोधाच्च। नचैवंसर्वदातदापत्तिः कालनियमात्। ब्रह्मयज्ञस्तुन—

अनिवर्त्यमहायज्ञान्यो भुङ्क्तेप्रत्यहं गृही। अनातुरः सतिधने सकृच्छ्रार्धेनशुद्ध्यतीतिदक्षोक्तावभोजने एवाकरणे प्रत्यवायोक्तेः। अकृत्वा पंचयज्ञांस्तुभुक्त्वाचांद्रायणंचरेदितिच। अतएवोज्वलायांहरदत्तः

ब्रहायज्ञस्य नित्यत्वेपिप्रातराशेकृते प्रायश्चित्तमेवनब्रह्मयज्ञः।सर्वत्रानश्नदधिकारित्वनियमेपिब्रह्मयज्ञप्रकरणे आपस्तंबकृतावकृतप्रात आपस्तंबकृतावकृतप्रात ।

राशइतिविशेषोक्तिरिति। अंगत्वेतर्पणमपिन अंनगत्वेतुभवति। देवताश्चमुनीं श्चैवपितृृन्वैयोनतर्पयेत्। देवादीनामृणीभूत्वानरकंसव्रजयधइतिहेमाद्रौब्रह्मवैवर्तेअकरणेप्रत्यवायश्रुतेः। नचात्राभुंजानस्यप्रत्य वायउक्तः। प्रातर्होमस्तुद्वादशदिनोर्ध्वमपिकिमुत — भोजनोर्ध्वंदेवपूजामकृत्वा देवतार्चनम्। भुङ्क्ते सयातिनरकान्सूकरेष्विहजायतइत्यनर्चन्भोजनकरणेप्रत्यवायोक्तेरिति। तत्रएकरात्रपूजा विच्छे देबौधायनेनपुनःप्रतिष्ठोक्तेः। अतःपूजापिभवति। प्रातर्वैश्वदेवस्तुन अनश्नतेत्युक्तेरितिकेचित्। तन्न। पंचैतान्योमहायज्ञान्कुर्यादहरहर्द्विजइतिसंवर्ताक्तेः—आपद्यपिचकष्टायां पंचयज्ञान्नहापयेदितिव्यासो क्तेश्चावश्यकत्वावगतेर्भोजनोर्ध्वमपिभवति। अतोसंस्कृतान्नभोजननिमित्तमेवप्रायश्चित्तंनतुवैश्वदेवाकरण निमित्तमिति। अभुक्त्वाबलिकर्मचेतिभारताद्बलिदानंनेतिकेचित्॥ प्राच्यानुदीच्यानथदाक्षिणात्यान्ज्ञात्वा प्रतीच्यान्महतोनिबंधान्। आचाररत्नंसुधियाव्यधायिश्रीरामकृष्णात्मजलक्ष्मणेन॥ निगदितमिहसाध्व साधुवायद्धृतमतिनाप्रविचार्यलक्ष्मणेन। तदखिलमपहायदोषदुष्टंचिरमबलोक्यविलोकयंतुसंतः॥ इति श्रीमन्नारायणभट्टात्मजश्रीमद्रामकृष्ण भट्टसुतलक्ष्म भट्टकृतावाचाररत्ने सायंकर्तव्यप्रकरणम्॥ आचाररत्नग्रंथः संपूर्णः॥

इदमाचाररत्नम्—

गोमांतकांतर्गतपेडणेप्रामवास्तव्येन पणशीकरोपाह्वविद्वद्वरश्रीमल्लक्ष्मणशर्मतनुजनुपा वासुदेवशर्मणा संस्कृतं तच्च मुंबय्यां श्रेष्ठिवरैः

तुकाराम जावजीव्यभिख्यैः स्वीये निर्णय सागराख्यमुद्रणयंत्रे रामचंद्र येसु शेडगेद्वारांकयित्वाप्राकाश्यंनीतम्।

शाकः १८३७, सन १९१५

Published by Tukaram Javaji, and Printed by Ramchandra Yesu Shedge at the Nirnaya -sagar Press, 23, Kolbhat Lane, Bombay.

]


  1. " रोगिणामिति पाठः।" ↩︎

  2. " उत्तरीयार्थे।" ↩︎

  3. “जीवेत्युक्त सहेतिच इति पाठ” ↩︎

  4. “वैश्वानरो अजीजनदित्यक।” ↩︎

  5. “उदुंवरोत्रभाषाया उंबराद इति प्रसिद्धः।” ↩︎

  6. “ष्टीवं ष्टीवनंभूत्कृतं।” ↩︎

  7. “व्यपेयादितिपादः।” ↩︎

  8. " नाभिवादेदितिछंदोनुरोधात्। नाभिवादयेदित्यर्थं।" ↩︎

  9. “नोपरक्तंइतिपाठः।” ↩︎

  10. “नपश्येत्प्रसवंतींच।” ↩︎

  11. " भंजनाभमितिपादः। " ↩︎

  12. “सिंदूरपूर्णपरीतिपाठः ।” ↩︎

  13. “हारशोभाम्। दिव्यायुधैर्जितेतिपाठः! " ↩︎

  14. “मखिलार्थदात्रींइतिपाठः।” ↩︎

  15. “परांसमधिगम्येतिपाठः।” ↩︎

  16. “पठेन्नरः। " ↩︎

  17. “शनिराहुकेतव इतिपाठ।” ↩︎

  18. “ज्वलन सतेजा इतिपाठ।” ↩︎

  19. “सीतातारामदोदरीतथा। पचकनाम्मरेनित्यमहापातकनाशनमितिपाठ।” ↩︎

  20. “नांर्धनमंइतिपाठः। " ↩︎

  21. “तत्प्रायश्चित्तमाह- कर्कोटकस्यनागस्येति श्लोकं पठेदितिस्मार्त कुतूहले।” ↩︎

  22. “छंदोविरहितोनग्न इति वेद विरहितोब्राह्मणइत्यर्थइतितत्रैव।” ↩︎

  23. “गृहेशौचस्थलाभावे - मूत्रोच्चार विसर्गवागृहेकुर्याच्छुचिस्थलेइतिस्मरणात्। ज्योतिषग्रंथेपिगृहेमूत्रपुरीषस्थान नियमादितिशेषकृत आह्निके। " ↩︎

  24. “सत्वप्राणिप्रचुरम्।” ↩︎

  25. “स्नातकधर्मप्रकरणेआपस्तंब-नसोपानत्कोमूत्रपुरीषेकुर्यादिति। इदंचस्नातकधर्मप्रकरणात्स्नातकविषयम्। उपानहनिषेधस्तुस्नानदेवयात्राद्युपयुक्तोपानहपरोदृष्टार्थं। सोपानत्कप्रकुर्वीतमूत्रोच्चारविसर्जनमितिस्मृत्यतरात्।” ↩︎

  26. “दशविभागाःकरमध्येचतस्रः पृष्ठेषडिति। षट्पृष्ठषतइतिहारीतीयादितिमैथिलाः।” ↩︎

  27. “अर्धामलकमात्रास्तुइतिपाठः।” ↩︎

  28. " कायसयुत इतिपाठ।” ↩︎

  29. “चक्षुषीनासिकाभोचोष्ठौचेतिपाठः।” ↩︎

  30. “रजकश्चर्मकश्चैवेतिपाठ।” ↩︎

  31. “विसृज्येतिपाठः।” ↩︎

  32. “स्वाध्ययनारंभेइतिपाठः।” ↩︎

  33. “समारंभेषुसधि ष्वितिपाठ।” ↩︎

  34. “पीतात्परमितिपाठ।” ↩︎

  35. “मनुनातु— मेखलाम जिनदडमुपवीतकमडलुम्। अप्मुप्राम्यविनष्टानिगृह्णीतान्यानियत्रवत्। (मनु अ २ श्लो, ६४ ↩︎

  36. “ममस्वस्तिकरोभवइतिपाठ।” ↩︎

  37. “कुशाभावेइतिपाठ।” ↩︎

  38. “प्रदीपनेइतिपाठ।” ↩︎

  39. “एतद्द्विवाससाइतिपाठः।” ↩︎

  40. “स्थावरेषुतडागादिषु।” ↩︎

  41. " स्नानयुक्त स्मरेग्नित्यंतत्रतत्रवसेद्धिसाइतिपाठः।” ↩︎

  42. “आश्वलायनानासूत्रेस्यस्तुत्यभावादंजलिनैवदानं। सूत्रोक्तब्रह्मयज्ञागंस्वपितृतर्पणंतद्दक्षिणेनैवकार्य। सूत्रे अंजलि चोदनाभावात्। अनादेशेदक्षिणंप्रतीयादितिसूत्रकारोक्तेरितिकमलाकरीये।” ↩︎

  43. " मलै शारीरमं संभवैःइतिपाठः।” ↩︎

  44.  ↩︎
  45. “परिवर्जनंइतिपाठ।” ↩︎

  46. “स्त्रानंकृत्वाचार्द्रवस्त्रंत्यजेन्नद्यामधोद्विजः। गृहेस्नानमथोकृत्वाविसृजेच्चतदूर्ध्वत। सस्कार्यपरिधायार्द्रवस्त्रंनद्यादावध क्षिपेत्। गृहेतूर्ध्वमाकर्षेदिति कृष्णभट्टीयेक्मलाकरीयेच्च” ↩︎

  47. " उपवीतं वायुक्तमितिपाठः " ↩︎

  48. “वासस्यापि भवत्येवेतिपाठः।” ↩︎

  49. “विकच्छोविपरीतकच्छः।” ↩︎

  50. “तथापात्रेतिपाठः। " ↩︎

  51. “मतः परमितिपाठः” ↩︎

  52. “माधवीत्यादिनेतिपाठः।” ↩︎

  53. " तदंतोमुनिभिरिति पाठः।” ↩︎

  54. " रद्रवादिनीइतिपाठ।” ↩︎

  55. “विष्णुदेवाइतिपाठः ।” ↩︎

  56. “वनस्थस्ययतेस्तथाइतिपाठः।” ↩︎

  57. “ग्राह्यंनासायाइतिपाठः।” ↩︎

  58. “परिकीर्तिताः।” ↩︎

  59. “जानुनोश्चैवहृदये ।” ↩︎

  60. " मार्जनेचत्वारः पक्षाः— आदौप्रणवेन समस्तव्याहृतिभि गायत्र्यामार्जनं कृत्वासमस्ततृचेनैकंमार्जनं कुर्यादित्येकः। प्रणवोपेतैर्नवभिः पादैर्नवमार्जनानीति द्वितीयः’। ऋगंतेमार्जनमितितृतीयः। तृचातेमार्जनमितिचतुर्थइत्यप्यन्यत्र” ↩︎

  61. “सकृद्वाइतिपाठः।” ↩︎

  62. " पाप्मानमितिपाठः।" ↩︎

  63. “भाववृत्तिश्चेतिपाठः।” ↩︎

  64. “लक्ष्यसमीपेतिपाद " ↩︎

  65. “संवर्तः– गायत्रीत्र्यक्षरांबालांसाक्षसूत्रकमंडलुम्। रक्तवस्त्रां चतुर्वक्रांहंसवाहनसंस्थिताम्। ब्रह्माणींब्रह्मदैवत्यांब्रह्मलोकनिवासिनीम्। आवाश्याम्यहंदेवींगायत्रीं सूर्यमंडलात्। इति।” ↩︎

  66. “आवहेदावाहयेत्।” ↩︎

  67. “अत्र विश्वामित्रजमदग्निभरद्वाजगौतमात्रिवसिष्ठकश्यपाइतिक्रमोयुक्तइतिभाति।” ↩︎

  68. “शब्दश्रुतौ लगधज्योतिषे अग्निः प्रजापतिरियारभ्य अश्विनौयमएवचेतिक्रमेणांत्यमपभरणी।” ↩︎

  69. “देवंपूर्वंविच्छिद्यतेइतिपाठः।” ↩︎

  70. " शााठ्यांतरे इति पाठः।” ↩︎

  71. “परिकल्पित।” ↩︎

  72. “झल्लकं कास्यतालवाद्यम्।” ↩︎

  73. “मधूरीवेणुवाद्यम्।” ↩︎

  74. “कदसी तृणविशेष ।” ↩︎

  75. “दर्प जवादि।” ↩︎

  76. “हरिकारयेति पाठः।” ↩︎

  77. “त्वत्तोयेसर्वतीर्थानिपाचजन्यनमोस्तुते इति पाठ” ↩︎

  78. “वानप्रस्थश्चमुव्रत” ↩︎

  79. “न्यासमारभेत्।” ↩︎ ↩︎

  80. “कदकानि केतकानि।” ↩︎

  81. “तापिने युद्धाय।” ↩︎

  82. “वाडवेभ्यः अनुपनीतब्राह्मणेभ्यः” ↩︎

  83. “ग्रहणादुक्तप्रतिपत्तिस्तदन्यपरा। अतएवतन्नैवेद्यभक्षणमुपुराणेषुगारुडेपि इतिपाठ” ↩︎

  84. “तेपुनोचक्रः सनिधानंदिशेत्क्वचित् इतिपाठ।” ↩︎

  85. “विष्णुपदे इति पाठः” ↩︎

  86. “पाकतंत्रंइध्माबर्हिरित्यादि। " ↩︎

  87. “अधिश्रित्याग्नेरुपरिकृत्वा। " ↩︎

  88. “शेकृरतमितिपाठा” ↩︎ ↩︎

  89. “अग्नयेस्विष्टकृतेस्वहेति।” ↩︎

  90. “निक्षिपेद्बलिम्।” ↩︎

  91. “तस्यदासाः स्वस्वामिगृहादागत्य।” ↩︎

  92. “चतुर्थाशम्।” ↩︎

  93. “तेभ्योदद्याद्गृहात् " ↩︎

  94. “इदं भोजनंभृत्यादिवर्गेभुक्तेपश्चादेकातेविधेयं—दंपत्य शेषभोजनमिति याज्ञबल्क्योक्तेः। आहार निर्धारविहारयोगाःसदैवसद्भिर्विजनेविधेयाइतिवचनात्।” ↩︎

  95. “बल्लीपलाशपत्रेषुइतिपाठः।” ↩︎

  96. “घटयेद्ग्रसामाहरेत्।” ↩︎

  97. “पर्णपत्रेषु।” ↩︎

  98. “आसंदीलौह त्रिपदमुपवेशनदीपस्थापनादिसाधनम्।” ↩︎

  99. “एकस्मिन्काले।” ↩︎

  100. “भोजनंतुवारंवारम्।” ↩︎

  101. “तपोरूपत्वाभावादितिपाठः” ↩︎

  102. “प्राणायस्वाहेत्यादयः प्राणाग्निहोत्रमंत्राः।” ↩︎

  103. “एकादशीदिने।” ↩︎

  104. " दशमीद्वादश्योः” ↩︎

  105. “एकादश्यां।” ↩︎

  106. “घृतपक्वान्यपूदादीनि” ↩︎

  107. “शुद्रान्नंब्राह्मणेनमदीयमितिकृत्वादत्तम्।” ↩︎

  108. “कीटादिनासहपाकेजाते।” ↩︎

  109. “फुसूलाः फुलित्थाः।” ↩︎

  110. “खट्वांकछत्राकं। कनकंधत्तूरंबिल्वंवा।” ↩︎

  111. “पक्वमन्नमितिपाठः।” ↩︎

  112. “श्राद्धिकभोजनम्।” ↩︎

  113. “विश्वमूर्तिषु।” ↩︎

  114. “त्वेयज्ञस्वंविष्णुस्त्वंवषट्का्रः।” ↩︎

  115. “विशांतर्गतेनान्नेन।” ↩︎

  116. “मृदुचेतनः।” ↩︎

  117. “इतरेतिवाक्षिगात्यअनुपनीतेनभार्ययाचसहइतरस्मिन्नुत्तरदेशेनदुष्यतिऔदीच्योवाइतरस्मिन्दक्षिणेन दुष्यतीत्यर्थः।” ↩︎

  118. “यादृष्टि सर्वभूतानायाचदृष्टि स्वभावजा। तद्दृष्टीनाविनाशायनारदसस्मराम्यहम्। इतिसचिंत्यभुंजान दृष्टिदोषोनबाधते। अजनीगर्भ सभूतकुमारब्रह्मचारिणम्। दृष्टिदोषविनाशाय हनुमंतं स्मराम्यहम्।” ↩︎

  119. “वृद्धांसरखतींकृष्णांपीतवस्त्रां चतुर्भुजाम्। शंखचक्रगदापद्महस्तांगरुडवाहनाम्। वदर्याश्रमवासांतामायांतीसूर्यमंडलात्। वैष्णवींत्र्यक्षरांसाक्षाद्देवीमावाहयाम्यहम् ॥ इति। " ↩︎

  120. “विष्णुपुराणे—जरत्कारौर्जरत्कार्यासमुत्पन्नोमहायशाः। आस्तीकः सत्यसंधोमांपन्नगेभ्योमिरक्षतु। रात्रीव्यख्यदायतीइतिरात्रीसूक्तंजप्त्वा नमोनंदिकेश्वरायेतिनत्वाप्राच्यांदक्षिणतोयाशिरः कृलास्वपेदितिकमलाकारः।” ↩︎

  121. " वामनपुराणे—बुधेचयोपांनसमालभेत पूर्णामुयोषित्परिवर्जनीया।” ↩︎