अथ निर्णयः ।
तत्र व्यासः ।
६९६ प्रमाणैर् हेतुचरितैः शपथेन नृपाज्ञया ।
वादिसंप्रतिपत्त्या वा निर्णयो ऽष्टविधः स्मृतः ॥ [व्य् १।१]
६९७ लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्म्र्तम् ।
अनुमानं विदुर् हेतुं तर्कश् चेति मनीषिणः ॥ [व्य् १।२]
६९८ देशस्थितिः पूर्वकृता चरितं समुदाहृतम् ।
अर्थानुरूपाः शपथाः स्मृताः सत्यधटादयः ।
तेषाम् अभावे राजाज्ञानिर्णयं तु विदुर् बुधाः ॥ [व्य् १।३]
प्रमाणैर् इत्य् अनेन लिखितसाक्षिभुक्तीनां प्रत्येकं विवक्षा । तर्कानुमाने हेतुर् इत्य् एकैव विधा । सत्यधटादय इति दैवक्रियामात्रोपलक्षणम् अतो ऽष्टविधत्वम् इदम् । शपथपदं गौणं प्राचीनविभागानुरोधाद् इत्य् अवधेयम् ।
शपथेषु कोशे च निर्णयक्रमः
अत्र शपथेषु कोशे च निर्णयक्रमः ।
तत्र कात्यायनः ।
६९९ आ चतुर्दशकाद् अह्नो यस्य नो राजदैवकम् ।
व्यसनं जायते घोरं स ज्ञेयः शपथे शुचिः ॥ [क् ४६३]
व्यसनम् आपत् । घोरम् अतिपीडाकरम् ।
कोशाधिकारे विष्णुः ।
७०० यस्य पश्येद् द्विसप्ताहात् त्रिसप्ताहाद् अथापि वा ।
रोगो ऽग्निर् ज्ञातिमरणं राजातङ्कम् अथापि वा ॥ [वि १४।४]
७०१ तम् अशुद्धं विजानीयात् तथा शुद्धं विपर्यये ॥ [वि १४।५अब्]
पितामहः ।
७०२ त्रिरात्रात् सप्तरात्राद् वा द्विसप्ताहाद् अथापि वा ।
वैकृतं यस्य दृश्येत पापकृत् स तु मानवः ॥ [पि १६१]
७०३ तस्यैकस्य न सर्वस्य जनस्य यदि तद् भवेत् ।
रोगो ऽग्निर् ज्ञातिमरणं सैव तस्य विभावना ॥ [पि १६२]
कात्यायनः ।
७०४ अथ दैवविसंवादस् त्रिसप्ताहात् तु दापयेत् ।
अभियुक्तं प्रयत्नेन तदर्थं दण्डम् एव च ॥ [क् ४५६]
७०५ तस्यैकस्य न सर्वस्य जनस्य यदि तद् भवेत् ।
रोगो ऽग्निर् ज्ञातिमरणम् ऋणं दद्याद् दमं च सः ॥ [क् ४५७]
७०६ ज्वरातीसारविस्फोटगूढास्थिपरिपीडनम् ।
नेत्ररुग् गलरोगश् च तथोन्मादः प्रजायते ।
शिरोरुग् भुजभङ्गश् च दैविका व्याधयो नृणाम् ॥ [क् ४५८]
दैवविसंवादो रोगज्ञातिमरणादि । तस्यैकस्येति – न तु देशव्यापको मरकादिः किं तु शपथानन्तरजन्मा अभियुक्तस्यासाधारणो रोगादिर् भङ्गलिङ्गम् इत्य् अर्थः ।
शपथाधिकारे नारदः ।
७०७ ऊर्ध्वं यस्य द्विसप्ताहात् वैकृतं सुमहद् भवेत् ।
नाभियोज्यः स विदुषा कृतकालव्यतिक्रमात् ॥ [न् १।३३१]
अत्र त्रिरात्रादिव्यवस्था यथाक्रमं ब्राह्मणादिपरेति हलायुधः । यस्य देवस्य स्नपनोदकं पीतं तत्प्रचण्डतातारतम्येन त्रिरात्रादिव्यवस्थेति पारिजातः । देशकालप्राशस्त्योत्कर्षे विषयोद्भटत्वे च त्रिरात्रम् । यथा यथा तदपकर्षस् तथा तथा सप्तरात्रादिकल्प इति प्रदीपः ।
सर्वम् इदं सप्तत्रिरात्रादिवर्जं शपथसाधारणम् आकाङ्क्षातौल्यात् ।
अभियुक्तस्य तु जये ऽभियोक्तुर् एव दण्ड इत्य् आह कात्यायनः ।
७०८ अवष्टम्भाभियुक्तस्य विशुद्धस्य तु कोशतः ।
सदण्डम् अभियोगं तु दापयेद् अभियोजकम् ।
दिव्येन शुद्धं पुरुषं सत्कुर्याद् धार्मिको नृपः ॥ [क् ४५४]
अत्र कोशपदं दिव्यपदं चोपलक्षणम् – उत्तीर्णतामात्रे तात्पर्यं न्यायतौल्याद् इति ।
जयभङ्गिनोर् दण्डम् आह कात्यायनः ।
७०९ शतार्धं दापयेच् छुद्धम् अशुद्धो दण्डभाग् भवेत् ॥ [क् ४५९]
शतार्धं पणानाम् ।
भङ्गिदण्डं विवेचयति स एव ।
७१० विषे तोये हुताशे च तुलाकोशे च तण्डुले ।
तप्तमाषकदिव्ये च कमाद् दण्डं प्रकल्पयेत् ॥ [क् ४६०]
७११ सहस्रं षट्शतं चैव तथा पञ्चशतानि च ।
चतुस्त्रिद्व्येकम् एवं च हीनं हीने च कल्पयेत् ॥ [क् ४६१]
हीने भङ्गिनि । सहस्रादिकं पणानाम् ।
निर्णयबलाबलम्
अथ निर्णयबलाबलम् ।
तत्र नारदः ।
७१२ धर्मश् च व्यवहारश् च चरित्रं राजशासनम् ।
चतुष्पाद् व्यवहारो ऽयम् उत्तरः पूर्वबाधकः ॥ [न्मा १।१०]
उत्तरः पूर्वबाधक इति – धर्मव्यवहारचरित्रराजशासनेषु उत्तर उत्तरः पूर्वस्य् पूर्वस्य बाधक इत्य् अर्थः ।
बृहस्पतिः ।
७१३ सम्यग् विचार्य कार्यं च युक्त्या संपरिकल्पितम् ।
परीक्षितं च शपथैः ज्ञेयो धर्मविनिर्णयः ॥ [ब् ९।३]
७१४ प्रतिवादी प्रपद्येत यत्र धर्मः स निर्णयः ।
दिव्यैर् वा शोधितः सम्यक् द्वितीयः स उदाहृतः ॥ [ब् ९।४अब्द्, ५द्]
अयं द्विविधो धर्माख्यो निर्णयः ।
तथा –
७१५ शास्त्रं केवलम् आश्रित्य क्रियते यत्र निर्णयः ।
व्यवहारः स विज्ञेयो धर्मस् तेनावहीयते ॥ [ब् १।१९]
धर्मो धर्माख्यो निर्णयः तेन व्यवहाराख्येन निर्णयेनावहीयते बाध्यत इत्य् अर्थः ।
बाधविषयम् आह कात्यायनः ।
७१६ युक्तियुक्तं तु कार्यस्य दिव्यं यत्र तु वर्जितम् ।
धर्मस् तु व्यवहारेण बाध्यते तत्र नान्यथा ॥ [क् ३९]
अयोग्यदिव्याधीनो निर्णयो व्यवहारेण बाध्यत इत्य् अर्थः ॥
बृहस्पतिः ।
७१७ देशस्थित्यनुमानेन नैगमानुमतेन च ।
क्रियते निर्णयस् तत्र व्यवहारस् तु बाध्यते ॥ [ब् १।२०]
नैगमाः पौरवणिजः । नैगमानुमतेनानुमानेनेति संबन्धः । अनेन चरित्राख्येन निर्ञयेन सामान्यमुखशास्त्रानुसारी व्यवहाराख्यो निर्णयो बाध्यत इत्य् अर्थः ।
कात्यायनः ।
७१८ विरुद्धं न्यायतो यस् तु चरित्रं कल्प्यते नृपैः ।
एवं तत्र निरस्येत चरित्रं तु नृपाज्ञया ॥ [क् ४२]
७१९ अनेन विधिना प्रोक्तं बाधकं च यद् उत्तरम् ।
अन्यथाबाधनं यत्र तत्र धर्मो विहन्यते ॥ [क् ४३]
विरुद्धं न्यायत इति – न्यायतो विरुद्धं यच् चरित्रं तद् राजाज्ञया निरस्यम् इत्य् अर्थः । यद् वा न्यायत इति सार्वविभक्तिकस् तसिः । न्याययोः शास्त्रयोर् वा यत्र विरोधस् तत्रापि राजाज्ञया व्यवहार इत्य् अर्थः ।
निर्णीतकृत्यम्
अथ निर्णीतकृत्यम् ।
तत्र नारदः ।
७२० स्वयम् अभ्युपपन्नो ऽपि स्वचर्यावसितो ऽपि सन् ।
क्रियावसन्नो ऽप्य् अर्हेत परं सभ्यावधारणम् ॥ [न्मा २।४१]
७२१ स तैर् अवधृतः पश्चाद् राज्ञा शास्यः स शास्त्रतः ॥ [न्मा २।४३अब्]
स्वयम् अभ्युपपन्नः आत्मनैवाङ्गीकृतस्वपराजयः । स्वचर्यावसितः कम्पस्वेदवैवर्ण्यदिना भङ्गितयावधारितः । क्रियावसन्नः दिव्यादिना क्रियया प्राप्तावसादः प्राप्तपराजय इति यावत् परम् अनन्तरं सभ्यावधारणम् अर्हेत सभ्यानां मिलित्वा पराजितो ऽयम् इति कीर्तितम् अर्हेद् इत्य् अर्थः ।
याज्ञवल्क्यः ।
७२२ निह्नवे भावितो दद्यात् धनं राज्ञे च तत्समम् ।
मिथ्याभियोगी द्विगुणम् अभियोगाद् धनं हरेत् ॥ [य् २।११]
निह्नवे ऽपलापे । भावितः साक्ष्यादिभिर् अङ्गीकारितः ।
मनुः ।
७२३ अर्थे ऽपव्ययमानं तु कारणेन विभावितम् ।
दापयेद् धनिकस्यार्थं दण्डलेशं च शक्तितः ॥ [म् ८।५१]
७२४ यो यावन् निह्नवीतार्थं मिथ्या यावति वा वदेत् ।
तौ नृपेणाप्य् अधर्मज्ञो दण्ड्यो तद्द्विगुणं दमम् ॥ [म् ८।५९]
अपव्ययमानम् अपलपन्तम् । कारणेन साक्ष्यादिप्रमापणेन । यावद् इति – अधमर्णो यावन्तम् अर्थम् अपजानीते यावति धने मिथ्योत्तमर्णो ऽभियुञ्जीत ताव् उभाव् आशयदोषेण विवादप्रवृत्तौ विवादविषयधनद्विगुणं दण्डं दाप्याव् इत्य् अर्थः । आशयदोषव्यतिरेकेण विस्मरणादिनापह्नवे दण्डलेशं च शक्तित इत्य् अवगन्तव्यम् ।
अत्र च समद्विगुणदण्डलेशानाम् अपह्नोतुर् जातिवयोवित्तसमाचारादिना व्यवस्था कार्या । आशयदोषबलवदाशयदोषान् आदाय व्यवस्थेति केचित् । तद् आह याज्ञवल्क्यः ।
७२५ ज्ञात्वापराधं देशं च कालं बलम् अथापि वा ।
वयः कर्म च वित्तं च दण्डं दण्ड्येषु दापयेत् ॥ [य् १।३६८]
बृहस्पतिर् अपि ।
७२६ अपराधानुरूपश् च दण्डो ऽत्र परिकल्पितः । इति । [ब् ९।२च्द्]
संप्रतिपत्त्युत्तरदातुस् तदतिरिक्तापह्नोतृविषयदण्डार्थदण्ड इत्य् आह व्यासः ।
७२७ निह्नुते तु यदा वादी स्वयं तत् प्रतिपद्यते ।
ज्ञेया सा प्रतिपत्तिस् तु तस्यार्धं विनयः स्मृतः ॥ [व्य् १।११५]
द्विजातिषु मिथ्याभियोजकशूद्रदण्डम् आह नारदः ।
७२८ मिथ्याभियोगिनो ये स्युर् द्विजानां शूद्रयोजनः ।
तेषां जिह्वां समुत्कृत्य राजा शूले निवेशयेत् ॥ [न्मा २।३७]
७२९ निह्नुते लिखितानेकम् एकदेशविभावितः ।
दाप्यः सर्वान् नृपेणार्थान् न ग्राह्यस् त्व् अनिवेदितः ॥ [य् २।२०]
यदानेकं सुवर्णरजतताम्रादिकम् उत्तमर्णो लेखयेत् एतानि मे धारयसीत्य् उक्त्वाभियुक्तः सर्वं निह्नुते तदेकदेशे ऽपि सुवर्णे रजते वा साक्ष्यादिना विभाविते सर्वम् अभियोगविषयम् अर्थम् अभियोक्त्रे ऽभियोज्यो दाप्यः । एकदेशविभावनानन्तरं त्व् आक्षिप्तो ऽपि भाषाकाले ऽनुपन्यस्तो ऽर्थो नाभियुक्तपार्श्वे दाप्य इत्य् अस्यार्थ इति हलायुधः ।
नारदः ।
७३० अनेकार्थाभियोगे तु सर्वार्थव्यपलापिना ।
विभावितैकदेशेन देयं तद् अपि युज्यते ॥ [न्?]
इदं चोभयम् अपि येषाम् अर्थानां मिथो ऽविनाभावस् तत्परम्, न्यायमूलकत्वात् । यद् वा एकदेशप्रमापिते सर्वम् एव दास्यामीति सपणविवादविषयम् इदम् । तद् आह याज्ञवल्क्यः ।
७३१ सपणश् चेद् विवादः स्यात् तत्र हीनं प्रदापयेत् ।
दण्डं च स्वपणं चैव धनिने धनम् एव च ॥ [य् २।१८]
स्वपणं स्वयंकृतपणम् इत्य् अर्थः ।
जयिप्रतिपत्तिः
अथ जयिप्रतिपत्तिः ।
तत्र बृहस्पतिः ।
७३२ प्रतिज्ञाभावनाद् वादी प्राड्विवाकादिपूजनात् ।
जयपत्त्रस्य चादानाज् जयी लोके निगद्यते ॥ [ब् ९।२१]
कात्यायनः ।
७३३ सिद्धेनार्थेन संयोज्यो वादी सत्कारपूर्वकम् ।
लेख्यं तदर्थसंयुक्तं तस्मै दद्याच् च पार्थिवः ॥ [क् २६२]
तथा –
७३४ निरस्तं लिखितं यत् तु तच् च सभ्यो विनाशयेत् ।
पश्चात्कारक्रिया वापि निरस्येत न संशयः ॥ [क्?]
७३५ निरस्ता तु क्रिया यत्र प्रमाणेनैव वादिना ।
पश्चात्कारो भवेत् तत्र न सर्वासु विधीयते ॥ [क् २६४च्देफ़्]
७३६ दासस्त्रीभूगृहारामलेखकानां पराजये ।
एतेष्व् एव सदा देयः पश्चात्कारस् तु पार्थिवैः ॥ [क्?]
पश्चात्कारो निर्णयानन्तरक्रिया जयपत्त्रादिका । प्रमाणं साक्ष्यादि । एतेष्व् एवेत्य् उपलक्षणम्, अन्यत्रापि शिष्टैस् तद्दानात् ।
पुनर्न्यायः
अथ पुनर्न्यायः ।
मनुः ।
७३७ तीरितं चानुशिष्टं च यत्र क्वचन यद् भवेत् ।
कृतं तद् धर्मतो विद्यात् न तद् भूयो निवर्तयेत् ॥ [म् ९।२३३]
तीरितम् इति – तीर पार कर्मसमाप्ताव् इत्य् अस्य चुरादिकस्य निष्ठायां रूपम् । तेन निर्णीय समापितम् इत्य् अर्थः । अनुशिष्टं साक्षिभिर् उक्तम् । यत्र क्वचन ग्रामादिसभायाम् । अयं तु लक्ष्मीधरादिस्वरसः । ग्रन्थान्तरे तु – साक्ष्यादीनां दुष्टत्वे परं विचारितस्य तीरितत्वानुशिष्टत्वे न त्व् अन्यथेति । तद् आह कात्यायनः ।
७३८ असद् सद् इति यः पक्षः सभ्यैर् एवावधार्यते ।
तीरितः सो ऽनुशिष्टस् तु साक्षिदौष्ट्यात् प्रकीर्तितः ॥ [क् ४९५]
यत्र तु तीरितानुशिष्टयोर् अप्य् अधर्मकृतत्वं मत्वा पराजयी पुनः प्रत्यवतिष्ठते तत्र तस्य स्वीकारितविवादविषयद्विगुणदण्डस्य भूयो ऽपि न्यायदर्शनं कार्यम् एवेत्य् आह नारदः ।
७३९ तीरितं चानुशिष्टं च यो मन्येत विधर्मतः ।
द्विगुणं दण्डम् आस्थाय तत् कार्यं पुनर् उद्धरेत् ॥ [न्मा १।६५]
विधर्मकृतत्वं प्रकारकम् ।
स्वचेष्टावसिते पुनर्न्यायदर्शनाभावं चाह स एव ।
७४० साक्षिसभ्यावसन्नानां दूषणे दर्शनं पुनः । [न्मा २।४०]
स्वचर्यावसितानां च नास्ति पौनर्भवो विधिः ॥
साक्षिसभ्यावसन्नानां साक्षिनिगदेन सभ्यावधारणेन च प्राप्तावसादानां पुनर्दर्शनं न्यायप्रदर्शनम् इत्य् अर्थः । दूषणे साक्षिणां सभ्यानां च दूषणे सतीत्य् अर्थः । स्वचर्यावसितानां स्वव्यापारेण परस्परविरुद्धभाषणादिना स्वयम् एवाङ्गीकृतपराजयत्वेन प्राप्तावसादानाम् । नास्ति पौनर्भवो विधिर् इति – न पुनर्व्यवहारप्रवर्तनम् इत्य् अर्थः ।
तत्रैव बृहस्पतिः ।
७४१ पलायनानुत्तरत्वाद् अन्यपक्षाश्रयेण च ।
हीनस्य गृह्यते वादो न स्ववाक्यजितस्य तु ॥ [ब् ९।२२]
इदम् अत्राहृतम् – अदुष्टसाक्षिसभ्यादिभिः दर्मतो यद् विचारितं तद् वादीच्छामात्रेणान्यथाकृतं तत्र द्विगुणदण्डम् आस्थापापि न विचार्यम्, तीरितं चानुशिष्टं चेति मनुवाक्यविरोधाद् अनवस्थापत्तेः ।
यत् तु लोभप्रमादादिना दुष्टसाक्षिसभ्यैर् निर्णीतं तत्र दूषणे प्रमाणसिद्धे पुनर् विचारणीयम् एव । यद् आह याज्ञवल्क्यः ।
७४२ दुर्दृष्टांस् तु पुनर् दृष्ट्वा व्यवहारान् नृपेण तु ।
सभ्याः सजयिनो दण्ड्या विवादाद् द्विगुणं दमम् ॥ [य् २।३०५]
नारदो ऽपि ।
७४३ असाक्षिकं तु यद् दृष्टं विमार्गेण च तीरितम् ।
असंमतमतैर् दृष्टं पुनर् दर्शनम् अर्हति ॥ [न्क़् १।१४]
तथा –
७४४ निश्चित्य बहुभिः सार्धं बाह्मणैः शास्त्रपारगैः ।
दण्डयेज् जयिना साकं पूर्वसभ्यांस् तु दोषिणः ॥ [ब् ९।२४]
सभ्यान् इत्य् अनेन साक्षिणो ऽप्य् उपलक्ष्याः ।
याज्ञवल्क्यो ऽपि ।
७४५ बलोपधिविनिर्वृत्तान् व्यवहारान् निवर्तयेत् । इति । [य् २।३१अब्]
ततश् च यन् निर्णीतम् अपि साक्षिसभ्यादिदुर्लक्ष्यदूषणम् उद्भाव्य पराजितो वादी न स्वीकरोति किं तु पुनर्विचारम् अर्थयते तत्र द्विगुणदण्डम् आस्थाय दूषणम् एवापाततो विचारणीयम् । सिद्धे च दूषणे द्विगुणं दण्डं तिरस्कृत्य पुनस् तत्त्वतो विवादपदविचार एव प्रवर्तनीयः ।
७४६ दुर्दृष्टांस् तु पुनर् दृष्ट्वा व्यवहारान् नृपेण तु । [य् २।३०५अब्]
इति लिखितयाज्ञवल्क्यस्वरसाद् एव दूषणसिद्धिपाक्षे तु वादिनाङ्गीकृतं द्विगुणं दण्डं सभ्या दाप्याः । अतिप्रसक्तिवारणस्य राज्ञा अवश्यकर्तव्यत्वात् । यद् आह नारदः ।
७४७ दुर्दृष्टे व्यवहारे तु सभ्यास् तं दण्डम् आप्नुयुः ।
न हि जातु विना दण्डं कश्चिन् मार्गे ऽवतिष्ठते ॥ इति । [न्मा १।६६]
तेन तत् कार्यं पुनर् उद्धरेद् इत्य् अस्य पराजितसाक्षिसभ्यादिदूषणं तत्त्वतो विचार्य पुनर् व्यवहारं प्रवर्तयेद् इत्य् अर्थः । युक्तं चेदं तीरितानुशिष्टयोश् च सभ्यसाक्षिकर्तृकयोर् विधर्मकृतत्वं तयोर् एव दूषणपरं नान्यथा । अतस् तत्त्वनिरूपणम् एवोचितम् ।
याज्ञवल्क्यः ।
७४८ यो मन्येताजितो ऽस्मीति न्यायेनापि पराजितः ।
सभायां तु पुनर् जित्वा दापयेद् द्विगुणं दमम् ॥ [य् २।३०६]
तत्त्वतः पराजितो ऽपि तात्त्विकसाक्ष्यादिदोषम् आशङ्क्य विचारस्यासम्यक्त्वं मन्वानस् तद्दोषं निरूप्यासत्त्वेनावधार्य विवादपदाद् धनाद् द्विगुणं दण्डं दाप्य इत्य् अर्थः ।
अमात्यप्राड्विवाकयोस् तु दुष्टत्वे न द्विगुणो दण्डः । किं तर्हि सहस्रम् इत्य् आह मनुः ।
७४९ अमात्याः प्राड्विवाका वा ये कुर्युः कार्यम् अन्यथा ।
तत् स्वयं नृपतिः कुर्यात् तान् सहस्रं तु दापयेत् ॥ [म् ९।२३४]]
सहस्रं पणानाम् –
७५० पणानां द्विशतानि । [वि ४।१४अ]
इति विष्णुवचनात् ।
तद् अयं संक्षेपः – पूर्वविचारस्यासम्यक्त्वशङ्कायाम् एव पुनर्विचारः । तत्रापि पराजितस्यादौ द्विगुणदण्डस्वीकारः । ततो विचारप्रवृत्तौ स्वोक्तस्य साक्ष्यादिदूषणस्य तेन पूरणे साक्ष्यादिमात्रदण्डः विवादपदस्य पुनर्विचारणं च । अपूरणे तु पराजितस्यैव दण्डो न तु विचारान्तरम् अपीति ।
कृतनिवृत्तिः
अथ कृतनिवृत्तिः ।
तत्र मनुः ।
७५१ यस्मिन् यस्मिन् विवादे तु कौटसाक्ष्यं कृतं भवेत् ।
तत् तत् कार्यं निवर्तेत कृतम् अप्य् अकृतं भवेत् ॥ [म् ८।११७]
७५२ योगाधमनविक्रीतं योगदानप्रतिग्रहम् ।
यत्र वाप्य् उपधिं पश्येत् तत् कार्यं विनिवर्तयेत् ॥ [म् ८।१६५]
योगः धद्म । तेन यद् बन्धकार्पणादि कृतं तद् राजा निवर्तयेद् इत्य् अर्थः । उपधिं छलम् । अत्राधमनादिकम् उपलक्षणम् । ततो ऽन्यद् अपि निवर्त्यम् ।
योगो विश्रम्भाघाती तत् कृतं विक्रयादि निवर्तयेद् इत्य् अर्थ इति हलायुधः ।
तथा –
७५३ बलाद् दत्तं बलाद् भुक्तं बलाद् यच् चापि लेखितम् ।
सर्वान् बलकृतान् अर्थान् अकृतान् मनुर् अब्रवीत् ॥ [म् ८।१६८]
नारदः ।
७५४ स्त्रीषु रात्रौ बहिर् ग्रामाद् अन्तर्वेश्मन्य् अरातिषु ।
व्यवहारः कृतो ऽप्य् एषु पुनः कर्तव्यताम् इयात् ॥ [न्मा १।४३]
तथा –
७५५ सत्या न भाषा भवति यद्य् अपि स्यात् प्रतिष्ठिता ।
बहिश् चेत् भाषते धर्मान् नियताद् व्यवहारिकात् ॥ [न्मा २।१५]
या नियतव्यवहारिकधर्मबाह्यविषया भाषोच्यते सा प्रतिष्ठितापि लेख्यादिप्रमाणवत्य् अपि सत्या न भवति । तया यो ऽर्थः प्रतिपाद्यते असौ नानुष्ठेयो यथा पुत्रादिमन्तं कश्चिद् अभियुङ्क्ते अनेन सर्वस्वं मम दत्तम् इत्यादि ।
मनुः ।
७५६ मत्तोन्मत्ताध्यधीनैश् च बालेन स्थविरेण वा ।
असंबद्धकृतश् चैव व्यवहारो न सिध्यति ॥ [म् ८।१६३]
अध्यधीनो दासः । असम्बद्धो ऽनधिकारी ।
याज्ञवल्क्यः ।
७५७ बलोपधिविनिर्वृत्तान् व्यवहारान् निवर्तयेत् ।
स्त्रीनकमन्तरागारबहिःशत्रुकृतांस् तथा ॥ [२।३१]
बहिर् व्यवहारोचितप्रदेशात् ।
नारदः ।
७५८ यद् बालः कुरुते कार्यम् अस्वतन्त्रस् तथैव च ।
अकृतं तद् अपि प्राहुः शास्त्रे शास्त्रविदो जनाः ॥ [न् १।३९]
७५९ स्वतन्त्रो ऽपि हि यत् कार्यं कुर्याद् अप्रकृतिं गतः ।
तद् अप्य् अकृतम् एवाहुर् अस्वतन्त्रः स हेतुभिः ॥ [न् १।४०]
७६० कामक्रोधाभिभूतानां भयव्यसनपीडिताः ।
रागद्वेषपरीताश् च ज्ञेयास् त्व् अप्रकृतिं गताः ॥ [न् १।४१]
७६१ तथा दासकृतं कार्यम् अकृतं परिचक्षते ।
अन्यत्र स्वामिसंदेशात् न दासः प्रभुर् आत्मनः ॥ [न् १।२९]
७६२ पुत्रेण च कृतं कार्यं यस् स्याद् अच्छन्दतः पितुः ।
तद् अप्य् अकृतम् एवाहुर् दासः पुत्रश् च तौ समौ ॥ [न् १।३०]
अस्वतन्त्रग्रहणाल् लब्धे ऽपि बाले पुनर् बालग्रहणं पित्रोर् अभावे ऽपि बालस्यास्वातन्त्र्यप्रतिपादनार्थम् । एतच् च कुटुम्बभरणातिरिक्तपरम्, कुटुम्बार्थं ऽध्यधीनो ऽपीत्य् अग्रिमवाक्यात् ।
प्रकृतिः स्वभावः । अप्रकृतिं गतः अस्वभावस्थ इत्य् अर्थः ।
अच्छन्दत इति पितुश् छन्दं इच्छां विनेत्य् अर्थः ।
कात्यायनः ।
७६३ न क्षेत्र्गृहदासानां दानाधमनविक्रयाः ।
अस्वतन्त्रकृताः सिद्धिं प्राप्नुयुर् नानुवर्णिताः ॥ [क् ४६७]
नानुवर्णिता अननुमताः । स्वतन्त्रेणेति शेषः ।
नारदः ।
७६४ स्त्रीकृतान्य् अप्रमाणानि कार्याण्य् आहुर् अनापदि ।
विशेषतो गृहक्षेत्रदानाधमनविक्रयाः ॥ [न् १।२६]
७६५ एतान्य् एव प्रमाणानि भर्ता यद्य् अनुमन्यते ।
पुत्रः पत्युर् अभावे वा राजा वा पतिपुत्रयोः ॥ [न् १।२७]
७६६ कुले ज्येष्ठस् तथा श्रेष्ठः प्रकृतिस्थश् च यो भवेत् ।
तत्कृतं स्यात् कृतं कार्यं नास्वतन्त्रकृतं कृतम् ॥ [न् १।४२]
अनापदीत्य् अनेनापत्प्रतीकारार्थं स्त्रीकृतान्य् अपि प्रमाणान्य् एवेत्य् उक्तम् । पतिपुत्रयोर् अभाव इत्य् अत्र पुत्रपदेन सपत्नीपुत्रो ऽप्य् उपलक्ष्यते । तेन तेषाम् अभावे राजेति मन्तव्यम् ।
स्वतन्त्रास्वतन्त्रलक्षणम्
अथ स्वतन्त्रास्वतन्त्रलक्षणम् ।
तत्र नारदः ।
७६७ स्वातन्त्र्यं तु स्मृतं ज्येष्ठे ज्यैष्ठ्यं गुनवयःकृतम् ॥ [न् १।३१च्द्]
तथा –
७६८ अस्वतन्त्राः प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः।
अस्वतन्त्रः स्मृतः शिष्यः आचार्ये तु स्वतन्त्रता ॥ [न् १।३३]
७६९ अस्वतन्त्राः स्त्रियः सर्वाः पुत्रा दासाः परिग्रहः ।
स्वतन्त्रस् तत्र तु गृही यस्य तत् स्यात् क्रमागतम् ॥ [न् १।३४]
७७० गर्भस्थैः सदृशो ज्ञेय आष्टमाद् वत्सराच् छिशुः ।
बाल आ षोडशाद् वर्षात् पोगण्डश् चापि गद्यते ॥ [न् १।३५]
७७१ परतो व्यवहारज्ञः स्वतन्त्रः पितराव् ऋते ।
जीवतोर् न स्वतन्त्रः स्यात् जरयापि समन्वितः ॥ [न् १।३६]
७७२ तयोर् अपि पिता श्रेयान् बीजप्राधान्यदर्शनात् ।
अभावे बीजिनो माता तदभावे तु पूर्वजः ॥ [न् १।३७]
तयोः पित्रोः ।
एतच् च स्वातन्त्र्यास्वातन्त्र्यप्रतिपादनं स्वतन्त्रानुमतिं विना परतन्त्रेण कृतम् अपि राज्ञा निवर्तनीयम् इति प्रतिपादयितुं न त्व् अदृष्टार्थम्, कृतनिवृत्तिसंदंश एव नारदेन लिखनात् । एतद् एव स्पष्टयति स एव ।
७७३ स्वतन्त्राः सर्व एवैते परतन्त्रेषु नित्यशः ।
अनुशिष्टौ विसर्गे च विक्रये चेश्वरा मता ॥ इति । [न् १।३८]
एते राजादयः पूर्वोक्ताः ।
तदभावे च पूर्वज इति वचनात् पितराव् ऋते इत्य् अत्र पूर्वजादिकं विनापीति मन्तव्यम् ।
अभावे बीजिनो मातेत्य् अनेन मातुः स्वातन्त्र्यम् अस्वातन्त्र्यं च पुत्रस्येति प्रतिपादितं यद्य् अपि तथापि पुत्रः पत्युर् अभावेति नारदस्वरसाद् अस्वतन्त्रस्यापि पुत्रस्यानुमतिम् अन्तरेण स्वतन्त्रयापि मात्रा अनापत्काले यत् कृतं कार्यं तन् निवर्तनीयम् एव । न चैवं पुत्रानुमतिर् अदृष्टार्था स्याद् इति वाच्यम् । पितृपरोक्षे तद्धनस्य पुत्रगामित्वेन तदनुमतेर् दृष्टार्थत्वसंभवात् ।
शङ्खलिखितौ ।
७७४ अस्वतन्त्राः पितृमन्तः ॥ [श्ल्?]
पितामहे जीवति पितरि पुत्रवत् पारतन्त्र्यम् । ततश् च पितामहानुमत्या पितृकृतं कार्यं सिध्यति नान्यथा ।
कनिष्ठो ऽपि भ्रात अविभक्तधन एव ज्येष्ठापेक्षया परतन्त्रो न तु विभक्तधनो ऽपीत्य् आह कात्यायनः ।
७७५ पितास्वतन्त्रः पितृमान् भ्रात भ्रातृव्य एव वा ।
कनिष्ठो वाविभक्तस्वो दासः कर्मकरस् तथा ॥ [क् ४६६]
हारीतः ।
७७६ दानार्थे वा धनार्थे व धर्मार्थे वा विशेषतः ।
आदाने वा विसर्गे वा न स्त्री स्वातन्त्र्यम् अर्हति ॥ [ह् २।१५]
क्वचित् कार्ये अस्वतन्त्रा अपि ते प्रमाणम् इत्य् आह कात्यायनः ।
७७७ प्रमाणं सर्व एवैते पण्यानां क्रयविक्रये ।
यदि संव्यवहारं प्राक् कुर्वन्तो ह्य् अनुमोदिताः ॥ [क् ४६८]
७७८ क्षेत्रादीनां तथैव स्युर् भ्राता भ्रातृसुतः सुतः ।
निसृष्टाः कृत्यकारणे गुरुणा यदि गच्छता ॥ [क् ४६९]
७७९ निसृष्टार्थस् तु यो यस्मिन् तस्मिन्न् अर्थे प्रभुस् तु सः ।
तद्भर्ता तत्कृतं कार्यं नन्यथा कर्तुम् अर्हति ॥ क् ४७०]
निसृष्टार्थं विवृणोति बृहस्पतिः ।
७८० यः स्वामिना नियुक्तस् तु धनायव्ययपलने ।
कुसीदकृषिवाणिज्ये निसृष्टार्थस् तु स स्मृतः ॥ [ब् ९।२९]
७८१ प्रमाणं तत्कृतं सर्वं लाभालाभव्ययोदयम् ।
स्वदेशे वा विदेशे वा स्वामी तन् न विसंवदेत् ॥ [ब् ९।२८]
मनुः ।
७८२ कुटुम्बार्थे ऽधधीनो ऽपि व्यवहारं समाचरेत् ।
स्वदेशे वा विदेशे वा तं ज्यायान् न विचालयेत् ॥ [म् ८।१६७]
अध्यधीनः परतन्त्रः पुत्रदासादिः । समाचरेत् कुर्यात् । तदृशार्थे स्वाम्यनुमत्यपेक्षापि नेति भावः । ज्यायान् स्वतन्त्रः पित्रादिः ।
कात्यायनः ।
७८३ सुतस्य सुतदाराणां वशित्वम् अनुशासने ।
विक्रये चैव दाने च वशित्वं न सुते पितुः ॥ [क् ४७१]
एतेन –
७८४ अनुशिष्टौ विसर्गे च विक्रये चेश्वरा मता ।
इति नारदीयं दानविक्रययोः प्रभुत्वप्रतिपादनं पुत्रत्वेन दानविक्रयपरं अतो न विरोध इत्य् एके । पुत्रस्यानुमतौ पितुस् तद्दानादौ प्रभुत्वम् अननुमतौ त्व् अप्रभुत्वम् इति संप्रदानः ।
इति महाराजाधिजारश्रीदर्पनारायणात्मज-
महाराजाधिराजश्रीहृदयनारायणानुज-
महाराजाधिराजश्रीहरिनारायणविरचिते
व्यवहारचिन्तामणौ
निर्णयपादः ।
इति महामहोपाध्यायसन्मिश्रश्रीवाचस्पतिकृतौ
व्यवहारचिन्तामणिः सम्पूर्णः ।