अथ क्रियापादः ।
तत्रोत्तराभासे क्रियानपेक्ष एव भङ्गः । सदुत्तरे तु क्रिया देया । तत्र याज्ञवल्क्यः —
१६८ ततो ऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधमक् । [य् २।७च्द्]
तत्सिद्धौ सिद्धिम् आप्नोति विपरीतम् अतो ऽन्यथा ॥ [य् २।८अब्]
अर्थी वादी प्रतिवादीच । सद्य इति – तेन प्रमाणनिर्देशे प्रमाणप्रवर्तने च न कालातिपातः कार्य इत्य् अर्थः । तद् आह कात्यायनः —
१६९ न कालहरणं कार्यं राज्ञा साक्षिप्रभाषणे ।
महान् दोषो भवेत् कालाद् धर्मव्यावृत्तिलक्षणः ॥ [क्३३९]
साक्षिणाम् उपन्यासे निगादने च विलम्बो न कार्यो ऽन्यथा साक्षिकरणसाक्षिसंघानादिना धर्मलोपापत्तिर् इत्य् अर्थः ।
क्रिया च द्विविधा । तद् आह बृहस्पतिः —
१७० द्विप्रकारा क्रिया प्रोक्ता मानुषी दैविकी तथा ।
एकैकानेकधा भिन्ना ऋषिभिस् तत्त्ववादिभिः ॥ [ब् ४।६]
१७१ साक्षिलेखानुमानं च मानुषी त्रिविधा स्मृता । [ब् ४।८अब्]
धटाध्या धर्मजान्ता च दैविकी नवधा स्मृता ॥ [४।७च्द्]
लेखो भोगस्याप्य् उपलक्षणम् । धर्मजान्ताश् च नवाप्य् अनेनैव वक्ष्यन्ते ।
अत्र दैविकी द्वेधा, शपथदिव्यभेदात् । तद् आह बृहस्पतिः –
१७२ सत्यं वाहनशस्त्राणि गोबीजकाञ्चनानि च ।
देवब्राह्मणपादाश् च पुत्रदारशिरांसि च ॥ [८।३३]
१७३ एते तु शपथाः प्रोक्ताः स्वल्पे ऽर्थे सुकरास् तथा ।
साहसेष्व् अभिशापेषु द्वियान्य् आहुर् विशोधनम् ॥ [ब् ८।३४]
हलायुधेन तु दिव्यशपथयोर् अभेद एव व्यवस्थापितः ।
कात्यायनः –
१७४ यद्येको मानुषीं ब्रूयाद् अन्यो ब्रूयात् तु दैविकीं ।
मानुषीं तत्र गृह्णीयान् न तु दैवीं कदाचन ॥ [क् २१८]
१७५ यद्य् एकदेशव्याप्तापि क्रिया विद्येत मानुषी ।
स ग्राह्या न तु पूर्णापि दैविकी वदतां नृणाम् ॥ [क् २१९]
एकदेशव्याप्तापीति – स्तुतिर् वा अर्थान्तरव्याप्तैकदेशविषयकं वा एकदेशविभावने ऽपि सर्वं दद्याम् इति पणबन्धविषयकं वा ।
१७६ क्रिया न दैविकी प्रोक्ता विद्यमानेषु साक्षिषु ।
लेख्ये सति च वादेषु न स्याद् दिव्यं न साक्षिणः ॥ [क् २२३]
तथा –
१७७ अनेकार्थाभियोगे तु यावत् संसाधयेद् धनी ।
साक्षिभिस् तावद् एवासौ लभते साधितं धनम् ॥ [क् ४७३]
वस्तूनां यत्रान्योन्याविनाभावो नास्ति तद्विषयम् इदम् ।
व्यासः –
१७८ प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी साधयेत् क्रियाम् ।
मिथ्योत्तरे पूर्ववादी प्रतिपत्तौ न सा भवेत् ॥ [व्य् १।२९]
१७९ मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादिनः ।
प्राङ्न्यायविधिसिद्धौ च जयपत्त्रं विनिर्दिशेत् ॥ [व्य् ?]
मिथ्या मिथ्योत्तरे सति पूर्ववादिनः क्रिया सा च मानुषी ग्राह्या । न गृहीतं मयेत्य् अत्र हि प्रत्यर्थिनः सा न भवतीति न्यायो ऽत्र मूलम् । न चाभावो न बोध्य इत्य् अतो ऽत्रापि भावस्यैव बोध्यता, अभिशापे अभावस्यैव परीक्षणात् । एतेन सुकरत्वात् प्रथमोपस्थितत्वाच् च भावभोधनम् इत्य् अपास्तम् ।
न च क्रियापदं यावदर्थकं प्राङ्न्यायकारणयोर् अन्वीयते तावदर्थकम् एव मिथ्योत्तरे ऽप्य् अनुषज्यते । तेन मिथ्योत्तरे ऽर्थिन एवादृष्टम् अपीति वाच्यम् । श्रूयमाणशब्दे पुनर् अन्वयमात्रम् एव ह्य् अनुषङ्गो न त्व् अर्थावैषम्यसहितं गौरवात् ।
तदभावे तु दैवी । तद् आह याज्ञवल्क्यः –
१८० प्रमाणं लिखितं भुक्तिः साक्षिणश् चेति कीर्तितम् ।
एषाम् अन्यतमाभावे दिव्यान्यतमम् उच्यते ॥ [य् २।२२]
सा प्रतिवादिनः –
१८१ न कश्चिद् अभियोक्तारं पुनर् दिव्ये नियोजयेत् ।
अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ॥ इति [क् २४४ = ४११]
वाक्यस्य दिव्यप्राप्तौ पूर्वार्धेनाभियोक्तुस् तन्निषेधे ऽर्थतो ऽभियोज्यस्य तद्विधाव् उत्तरार्धेन तन्नियमनात् । सिद्धे सत्य् आरम्भस्य नियमार्थत्वात् । तस्य तु संदिहानत्वे * पापित्वे वा तच्छून्यस्यार्थिन एवानन्यगतिकत्वात् । शौचनिश्चययोस् तौल्ये स्वेच्छस्य रुच्या वान्यतरः कुर्याद् इति वचनात् । इच्छातौल्ये प्रत्यर्थिन एव, अभियुक्तायेत्यादिवचनाद् एवेति संक्षेपः ।
बलवत्कारणोत्तरे तु प्रतिवादिनः क्रियेत्य् आह कात्यायनः —
१८२ प्रपद्य कारणं पूर्वम् अन्यद् गुरुतरं यदि ।
प्रतिवाक्यगतं ब्रूयात् साध्यते तद् धि नेतरत् ॥ [क् १९१]
धार्यमाणत्वस्य कारणं ऋणग्रहणं भाषितम् अभ्युपगम्य तदाधर्यनिमित्तं उत्तरवाक्यगतं यदि गुरुतरं कारणं परिशोधनादिकं ब्रूयात् तदा प्रतिवादिना तत् साध्यते न त्व् इतरत् समबलम् अल्पबलं वेत्य् अर्थः ।
तथा –
१८३ अर्थिनाभिहितो यो ऽर्थः प्रत्यर्थी यदि तं तथा ।
प्रपद्य कारणं ब्रूयाद् आधर्यं भृगुर् अब्रवीत् ॥ [क् १७०]
कारणं भाषितस्य बाधकारणम् । आधर्यं पूर्वपक्षस्येति शेषः ।
नारदः —
१८४ आधर्यं पूर्वपक्षस्य यस्मिन्न् अर्थवशाद् भवेत् ।
विवादे साक्षिणस् तत्र प्रष्टव्याः प्रतिवादिनः ॥ [न् १।१६४]
साक्षिण इति दृष्टादृष्टक्रियोपलक्षणम् ।
समबलकारणाभिधाने तु पूर्ववादिन एव क्रियेत्य् आह नारदः —
१८५ द्वयोर् विवदतोर् अर्थं द्वयोः सत्सु च साक्षिषु ।
पूर्ववादो भवेद् यस्य भवेयुस् तस्य साक्षिणः ॥ [न् १।१६३]
याज्ञवल्क्यः —
१८६ साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः ।
पूर्वपक्षे ऽधरीभूते भवन्त्य् उत्तरवादिनः ॥ [य् २।१७]
इदं तूभयवादिसाक्षिणां सर्वथा साम्ये, अन्यथाज्ञापत्तेः ।
न च —
१८७ समत्वं साक्षिणां यत्र दिव्यैस् तत्र विशोधयेद् । [क् २३२अब्]
इति कात्यायनवचनेन सह विरोधः, तस्यान्यविषयत्वात् । तथा हि यत्रैकतरस्य वादिनः साक्षिणां परस्परविरुद्धं निगदतां निगदान् न संशयोच्छेदः तत्रादृष्टेन निर्णयः कार्य इति तदर्थत्वात् ।
वैषम्ये तु बृहस्पतिः —
१८८ साक्षिद्वैधे प्रभूतास् तु ग्राह्याः साम्ये गुणाधिकाः ।
गुणिद्विधे क्रियायुक्ताः तत्साम्ये शुचिमत्तराः ॥ [ब् ५।४६]
१८९ क्रिया न दैविकी प्रोक्ता विद्यमानेषु साक्षिषु ।
लेख्ये सति च वादेषु न स्याद् दिव्यं न साक्षिणः ॥ [ब् ४।१२]
स्वं प्राङ्न्याये ऽपि प्रतिवदिनः प्रमाणम् आह व्यासः —
१९० प्राङ्न्याये जयपत्त्रेण प्राड्विवाकादिभिस् तथा ।
सत्यवादि समाप्नोति यद् यत् तेन निवेदितम् ॥ [व्य् १।३०]
बृहस्पतिः —
१९१ प्रतिज्ञां भावयेद् वादी प्रत्यर्थी कारणं तथा ।
प्राग्वृत्तवादी विजयं जयपत्त्रेण भावयेत् ॥ [ब् ४।३]
प्रतिजाम् इति – प्रतिज्ञातहेतुं गृहीतत्वादिकं अपह्नुतम् अर्थी दृष्टेन साधयेद् इत्य् अर्थः । कारणं वलवत्कारणं प्रत्यर्थी दृष्टेनादृष्टेन वा भावयेत् ।
अथ प्रसङ्गाज् जयपत्त्रलक्षणम् ।
तत्र कात्यायनः ।
१९२ अर्थिप्रत्यर्थिवाक्यानि प्रतिज्ञा साक्षिवाक् तथा ।
निर्णयश् च तथा तस्य यथा वावधृतं स्वयम् ॥ [क् २५९]
१९३ एतद् यथाक्षरं लेख्यं यथापूर्वं निवेशयेत् ।
सभासदश् च ये तत्र धर्मशास्त्रविदस् तथा ॥ [क् २६०]
बृहस्पतिः —
१९४ यद्वृत्तं व्यवहारात् तु पूर्वपक्षोत्तरादिकम् ।
क्रियावधारणोपेतं जयपत्त्रे ऽखिलं लिखेत् ॥ [ब् ६।२७]
१९५ पूर्वोत्तरक्रियायुक्तं निर्णयान्तं तदा नृपः ।
प्रदद्याज् जयिने लेख्यं जयपत्त्रं तद् उच्यते ॥ [ब् ६।२६]
वसिष्ठः —
१९६ यथोपन्यस्तसाध्यार्थसंयुक्तं सोत्तरादिकम् ।
सावधारणकं चैव जयपत्त्रम् उच्यते ॥ [व ?]
१९७ प्राड्विवाकादिमुद्राङ्कं मुद्रितं राजमुद्रया ।
तथा —
१९८ निरस्ता तु क्रिया यत्र प्रमाणेनैव वादिना ।
पश्चात्कारो भवेत् तत्र न सर्वासु विधीयते ॥ [क् २६४च्देफ़्]
पश्चात् क्रियत इति पश्चात्कारो जयपत्त्रम् ।
यत्र वादिवाक्यतात्पर्यालोचनया जयावधारणं तत्रैव जयपत्त्रं न त्व् अन्यत्रेति केचित् । तन् न — पूर्वजयविभावनस्यान्यत्रापि कृत्यत्वेन सर्वत्रैव जयपत्त्रस्य न्यायतः प्राप्तेर् इति । भाषोत्तरे क्रिया च पत्त्रसाक्ष्यादिका निर्णयश् च जयपराजयावधारणं निर्णयकालावस्थिता मध्यस्थाश् चेत्यादिकं सर्वं लेखनीयं निरूपणस्य सम्यक्त्वप्रदर्शनार्थम् । भाषोत्तरलेखनं च हेत्वन्तरेण पुनर्न्याये प्रत्यवस्थाननिरासार्थम् । न हि न गृहीतं मयेति मिथ्योत्तरेण जितस्य पुनः परिशोधितं मयेति प्रत्यवस्थानं भवति । तद् आह कात्यायनः —
१९९ क्रियां बलवतीं त्यक्त्वा दुर्बलां यो ऽवलम्बते ।
स जये ऽवधृते सभ्यैः पुनस् तां नाप्नुयात् क्रियाम् ॥ [क् २२१]
२०० निर्णीते व्यवहारे तु प्रमाणम् अफलं भवेत् ।
लिखितं साक्षिणो वापि पूर्वम् आवेदितं न चेत् ॥ [क्? = न्मा १।६२]
२०१ यथा पक्वेषु धान्येषु निष्फलाः प्रावृषो गुणाः ।
निर्णीतव्यवहाराणां प्रमाणम् अफलं तथा ॥ [क्? = न्मा १।६३]
त्यक्वेति — बुद्धिपूर्वकत्यागावगतेः तत्र क्रियान्तरालाभः ।
ग्राह्यक्रियानिरूपणम्
अथ ग्राह्यक्रियानिरूपणम् ।
तत्र कात्यायनः —
२०२ अनुमानाद् गुरुः साक्षी साक्षिभ्यो लिखितं गुरु ।
अव्याहता त्रिपुरुषी भुक्तिर् एभ्यो गरीयसी ॥ [क् ३१५]
अनुमानं प्रत्याकलितम् । तद् आह मनुः —
२०३ बह्यैर् विभावयेत् लिङ्गैर् भावम् अन्तर्गतं नॄणाम् ।
स्वरवर्णेङ्गिताकारैश् चक्षुषा चेष्टितेन च ॥ [न् ८।२५]
स्वरो विकृतो गद्गदत्वादि । वर्णो ऽप्य् अस्वाभाविकः । इङ्गितं स्वेदवेपथुरोमाञ्चादि । आकारो विकृतः । चक्षुषा कातरेण । चेष्टितेन स्थानत्यागादिना । एषां चानन्यथासिद्धेर् अतिदुर्निरूप्यत्वात् एभ्यः साक्षी बल्वान् इत्य् अर्थः ।
तथा —
२०४ ब्रूहीत्य् उक्तश् च न ब्रूयाद् उक्तं च न विभावयेत् ।
न च पूर्वापरं विद्यात् तस्माद् अर्थात् स हीयते ॥ [म् ८।५६]
२०५ सन्ति जातार इत्य् उक्त्वा दिशेत्य् उक्तो दिशेन् न यः ।
धर्मस्थः कारणैर् एतैर् हीनं तम् अपि निर्दिशेत् ॥ [म् ८।५७]
२०६ अभियोक्ता न चेद् ब्रूयात् वध्यो दण्ड्यश् च धर्मतः ।
न चेत् त्रिपक्षाद् ब्रूयात् स धर्मं प्रति पराजितः ॥ [म् ८।५८]
धर्मस्थो विचारकः । हीनं संभावितहानिकम् । पराजित इति — भङ्गानन्यथासिद्धेर् अतिनिपुणेनावधारणे स पराजितो व्यवहार्य इत्य् अर्थः ।
२०७ न परेण समुद्दिष्टान् उपेयात् साक्षिणो रहः ।
भेदयेच् चैव नान्येन हीयेतैवं समाचरेत् ॥ [न् १।१६५]
२०८ पलायते ऽभियुक्तश् च मौनी साक्षिपराजितः ।
स्वयम् अभ्युपपन्नश् च अवसन्नश् चतुर्विधः ॥ [न्मा २।३२]
२०९ अन्यवादी क्रियाद्वेषी नोपस्थायी निरुत्तरः ।
आहूतः प्रपलायी च हीनः पञ्चविधः स्मृतः ॥ [न्म्श् २।३३]
उपेयाद् उपजापार्थम् इति शेषः । अन्येन दूतादिना । पलायत इति — अत्रावसन्नचतुष्टयमध्ये आद्यौ संभावितभङ्गौ अन्त्यो निर्णीतभङ्गौ ।
कात्यायनः —
२१० लेखयित्वा तु यो वाक्यं न्यूनम् अभ्यधिकं पुनः ।
वदेद् वादी स हीयेत नाभियोगं तु सो ऽर्हति ॥ [क् १९७]
एतच् च पूरणसमयातिक्रमे ज्ञेयम् ।
बृहस्पतिः —
२११ साक्षिणस् तु समुद्दिश्य यस् तु तान् न निगादयेत् ।
त्रिंशद्रात्रात् त्रिपक्षाद् वा हानिस् तस्योपजायते ॥ [ब् ३।३३]
अत्र कार्यगौरवलाघवाभ्यां समयविकल्पः ।
नारदः —
२१२ सर्वेष्व् अथ विवादेषु वाक्छले नावसीदति ।
पशुस्त्रीभूम्यृणादाने शास्यो ऽप्य् अर्थान् न हीयते ॥ [न्मा २।२५]
पश्वादिविवादेषु हानिहेतुभिः शास्यताम् आपन्नो ऽपि न हीयते न पराजित इत्य् अर्थः ।
बृहस्पतिः —
२१३ आचारकरणे दिव्ये कृत्वोपस्थाननिर्णयम् ।
नोपस्थितो भवेद् वादी छलं तत्र न कारयेत् ॥ [ब् ३।४०]
२१४ दैवराजकृतो दोषस् तस्मिन् काले यदा भवेत् ।
अवधित्यागमात्रेण न भवेत् स पराजितः ॥ [ब् ३।४१]
आचारो व्यवहारः । छलं पराजयम् ।
दैवेति — अनुपस्थाने भङ्गभङ्गीकृत्यापि दैवादेर् अनुपस्थितअस्यापि न भङ्ग इत्य् अर्थः ।
तथा —
२१५ पूर्वोत्तरे निविष्टे तु विचारे संप्रवर्तिते ।
प्रशमं ये मिथो यान्ति दाप्यास् ते द्विगुणं दमम् ॥ [ब् ३।४२]
ये वादिनो विचारम् आरुह्य परस्परं समाचरन्ति ते विवादपदाद् द्विगुणं दण्ड्याः ।
एतच् चानुमानम् अतिनिपुणस्थेयवेद्यतया न सकलाकलनीयम् अतो दुर्बलम् ।
अतो ऽपि दिव्यं दुर्बलम् । तद् आह कात्यायनः —
२१६ प्रमाणैर् हेतुना वापि दिव्येनैव तु निर्णयम् ।
सर्वेष्व् एव विवादेषु सदा कुर्यान् नराधिपः ॥ [क् २४१]
२१७ पूर्वाभावे तु यत्नेन नान्यथैव कदाचन ॥ [क् २४३अब्]
पर्माणैर् भुक्तिलिखितसाक्षिभिः । हेतुना अनुमानेन । एवं च भुक्तिलिखितसाक्ष्यनुमानद्वियानां पूर्वं पूर्वं बलवत् उत्तरोत्तरम् अबलम् इति पूर्वलाभे सति नोत्तरादर इत्य् अर्थः ।
कात्यायनः —
२१८ लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् ।
लेशोद्देशश् च युक्तिश् च दिव्यानीह विषादयः ॥ [क् २१४]
२१९ ऋणे लेख्यं साक्षिणो वा युक्तिलेशादयो ऽपि वा ।
दैविकी वा क्रिया प्रोक्ता प्रजानां हितकाम्यया ॥ [क् २३३]
लेशो ऽन्यथानुपपन्नो धर्मस् तस्योद्देशः परामर्षः । तेन परामृष्यमाणो ऽन्यथानुपपन्नो धर्म इत्य् अर्थः ।
पितामहः —
२२० स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत् ।
साक्षिभिर् लिखितेनाथ भुक्त्वा वा तान् प्रसाधयेत् ॥ [पि ३९]
इदं तु साक्ष्यादीनाम् अत्र प्रायिकतया तदादरणार्थम् । तदभावे तु दिव्यम् अपि कार्यम् अन्यथा संदेहतादवस्थ्यात् ।
कात्यायनः —
२२१ वाक्पारुष्ये च भूमौ च दिव्यं न परिकल्पयेत् ॥ [क् २३९]
२२२ दत्त्वादत्ते तथादत्ते स्वामिनां निर्णये सति ।
विक्रीयादानसंबन्धे क्रीत्वा धनम् अनिच्छति ॥ [क् २२७]
२२३ द्यूते समाह्वये चैव विवादे समुपस्थिते ।
साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम् ॥ [क् २२८]
२२४ पूगश्रेणीगणादीनां या स्थितिः परिकल्पिता ।
तस्यास् तु साधनं लेख्यं न दिव्यं न च साक्षिणः ॥ [क् २२५]
२२५ द्वारमार्गक्रियाभोगजलवाहादिके तथा ।
भुक्तिर् एव तु गुर्वी स्यात् न लेख्यं न च साक्षिणः ॥ [क् २२६]
२२६ प्रक्रान्ते साहसे वादे पारुष्ये दण्डवाचिके ।
बलोद्भूतेषु कार्येषु साक्षिणो दिव्यम् एव वा ॥ [क् २२९]
दत्त्वादत्त इति — दातुं प्रतिश्रुत्यानर्पिते । तथादत्ते दत्त्वा पुनर् आच्छिद्य गृहीते । स्वामिनां निर्णये सति एतत्स्वामिकम् एतद् इति निर्णये सति । दत्त्वादत्तादिविवादे साक्षिणः प्रमाणं न दिव्यं न च लेख्यम् इति संबन्धः । धनं मूल्यधनम् । अनिच्छति दातुम् इति शेषः । द्वारमार्गक्रिया द्वारेण जलनिःसरणादिक्रिया द्वारक्रिया मार्गेण गवादीनां निःसरणादिक्रिया मार्गक्रिया । भोगो भोग्यं छत्रादि । जलवाहो जलनिर्गममार्गः । आदिपदाद् उत्करादिसंग्रहः । एषु भुक्तिर् गुर्वी ।
पितामहः —
२२७ यस्मिन् यस्मिन् विवादे तु साक्षिणां नास्ति संभवः ।
साहसेषु च सर्वेषु तत्र दिव्यानि दापयेत् ॥ [पि २९]
साहसेषु प्राणान्तिकदण्डार्हेषु ।
तथा च कात्यायनः —
२२८ समत्वं साक्षिणां यत्र दिव्यैस् तत्र विशोधयेत् ।
प्राणान्तिकविवादे च विद्यमानेषु साक्षिषु ॥ [क् २३२अब्च्द्]
नारदः —
२२९ प्रमाणानि प्रमाणज्ञैः पालनीयानि यत्नतः ।
सीदन्ति हि प्रमाणानि पुरुषस्यापराधतः ॥ [न् १।६८]
अपराधः साक्ष्यादीनाम् अस्मरणादिः ।
व्यवहारसमाप्तेः
अथ प्रायशः साक्षिभिर् व्यवहारसमाप्तेस् ते निरूप्यन्ते ।
तत्र गौतमः —
२३० विप्रतिपत्तौ साक्षिनिमित्ता व्यवस्था । [ग् १३।१]
प्रायेणेति शेषः ।
मनुः —
२३१ समक्षदर्शनात् साक्षी श्रवनाच् चैव सिध्यति । [म् ८।७अब्]
समक्षेति प्रमितार्थः साक्षी भवतीत्य् अर्थः ।
बृहस्पतिः —
२३२ लिखितो लेखितो गूढः स्मारितः कुल्यदूतकौ
यादृच्छिकश् चोत्तरश् च कार्यमध्यगतस् तथा ॥ [ब् ५।४]
२३३ नृपो ऽध्यक्षस् तथा ग्रामः साक्षी द्वादशधा स्मृतः ।
प्रभेदम् एषां वक्ष्यामि यथावद् अनुपूर्वशः ॥ [ब् ५।५]
२३४ जातिनामाभिलिखितं येन स्वं पितृनाम च ।
निवासश् च स विज्ञेयः साक्षी लिखितसंज्ञकः ॥ [ब् ५।६]
२३५ अर्थिना च क्रियाभेदैस् तस्य कृत्वा ऋणादिकम् ।
प्रत्यक्षं लिख्यते यस् तु लेखितः स उदाहृतः ॥ [ब् ५।७]
२३६ कुड्यव्यवहितो यश् च श्राव्यते ऋणिभाषितम् ।
विनिह्नुते यथाभूतं गूढसाक्षी स कीर्तितः ॥ [ब् ५।८]
२३७ आहूय यः कृतः साक्षी ऋणन्यासक्रियादिके ।
स्मार्यते ऽथ मुहुर् यश् च स्मारितः सो ऽभिधीयते ॥ [ब् ५।९]
२३८ विभागदाने विपणे ज्ञातिर् यत्रोपदिश्यते ।
द्वयोः समानो धर्मज्ञः कुल्यः स परिकीर्तितः ॥ [ब् ५।१०]
२३९ अर्थिप्रत्यर्थिवचनं शृणुयात् प्रेषितस् तु यः ।
उभयोः संमतः साधुर् दूतकः स उदाहृतः ॥ [ब् ५।११]
२४० क्रियमाणे च कर्तव्ये यः कश्चित् स्वयम् आगतः ।
अत्र साक्षित्वम् अस्माकम् उक्तो यादृच्छिकस् तु सः ॥ [ब् ५१२]
२४१ यः साक्षी तु दिशं गच्छन् मुमुर्षुर् वा यथाश्रुतम् ।
अन्यं संश्रावयेत् तं तु विद्याद् उत्तरसाक्षिणम् ॥ [ब् ५।१३]
२४२ साक्षिणाम् अपि यः साक्ष्यम् उपर्य् उपरि भाषताम् ।
श्रवणात् श्रावणाद् वापि स साक्ष्य् उत्तरसंज्ञितः ॥ [ब् ५।१४]
२४३ उभाभ्यां यस्य विश्वस्तं कार्यं वा विनिवेदितम् ।
गूढचारी स विज्ञेयः कार्यमध्यगतस् तथा ॥ [ब् ५।१५]
२४४ अर्थिप्रत्यर्थिनोर् वाक्यं यच् छ्रुतं भूभृता स्वयम् ।
स एव तत्र साक्षी स्याद् विसंवादे द्वयोर् अपि ॥ [ब् ५।१६]
२४५ निर्णीते व्यवहारे तु पुनर् न्यायो यदा भवेत् ।
अध्यक्षः सभ्यसहितः साक्षी स्यात् तत्र नान्यथा ॥ [ब् ५।१७]
२४६ दूषितं घातितं यत् तु सीमायास् तु समन्ततः ।
अकृतो ऽपि भवेत् साक्षी ग्रामस् तत्र न संशयः ॥ [ब् ५।१८]
अत्र साक्षी द्विविधः — द्रष्टा श्रोता च । तत्र द्वाव् अपि षड्विधौ । तत्राद्यो लिखितलेखितस्मारितकुल्ययादृच्छिककार्यमध्यगतभेदात् षोढा । अन्त्यो ऽपि गूढदूतोत्तरसाक्षिग्रामाध्यक्षराजभेदात् षोढैव । तत्र प्रथमषट्के आद्यस्य लक्षणम् – जातीयादि । क्रियादर्शी स्वयं लिखितस्वसाक्ष्यो लिखितसाक्षीत्य् अर्थः । द्वितीयस्य तु – अर्थिनेत्यादि । क्रियादर्शी वणिगादिलिखितो लेखित इत्य् अर्थः । तृतीयस्य तु – आहूयेत्यादि । क्रियादर्शी तद्बोधितसंस्कारः। स्मारित इत्यर्थः । चतुर्थस्य् – विभागेत्यादि । क्रियादर्शी धनिकादिसनाभिः कुल्य इत्य् अर्थः । पञ्चमस्य तु – क्रियमाणेत्यादि । क्रियादर्शी अतिरस्कृतापुरस्कृतो यादृच्छिक इत्यर्थः । षष्ठस्य तु – उभाभ्याम् इत्यादि । तत्क्रियाव्यवहारान्तर्गतस् तत्क्रियादर्शि कार्यमध्यगत इत्यर्थः । अत्र विश्वस्तं विश्वासः कृतः । वाकारः समुच्चये । यद्य् अपि कार्यविनिवेदनात् श्रुतो साक्ष्य् असौ तथापि कार्यमध्यगतत्वं पुरस्कृत्य द्रष्टुर् वर्गे गणित इत्य् अवधेयम् । उत्तरषट्के तु प्रथमस्य लक्षणम् – कुड्येत्यादि । अभियुक्ताज्ञातः सन्न् अभियोक्त्रभिहिताभियुक्तवाक्यश्रावी गूढसाक्षीत्यर्थः । द्वितीयस्य तु – अर्थीत्यादि । प्रेषितो निर्णयक्षमवादिवाक्यश्रावि दूत इत्यर्थः । तृतीयस्य तु – य इत्यादिश्लोकद्वयम् । साक्षिवचनात् तदर्थनिश्चयवान् उत्तरसाक्षीत्य् अर्थः । चतुर्थस्य तु – अर्थीत्यादि । भाषोत्तरश्रावी अपरः साक्षीत्य् अर्थः । अस्य तु भाषाध्यपह्नवे सति पूर्वभाषाद्यभिज्ञतया निर्णायकत्वम् । पञ्चमस्य तु – निर्णीत इत्यादि । पूर्वजयज्ञः पञ्चमः साक्षीत्य् अर्थः । षष्ठस्य तु – दूषितं इत्यादि । अभियोगहेतुभूतोपघातद्रष्टा उफन्तव्यसीमासेत्वादिश्रोता ग्रामादिस्थाः षष्ठः साक्षीत्य् अर्थः ।
प्रजापतिः ।
२४७ साक्षी तु द्विविधो ज्ञेयः कृत एको ऽपरो ऽकृतः ।
लेख्यारूढः कृतो ज्ञेयो मुक्तको ऽकृत उच्यते ॥ इति । [प्र् ?]
नारदः ।
२४८ एकादशविधः साक्षी शास्त्रे दृष्टो मनीषिभिः ।
कृतः पञ्चविधस् तेषां षड्विधो ऽकृत उच्यते ॥ [न् १।१४९]
२४९ लिखितः स्मारितश् चैव यदृच्छाभिज्ञ एव च ।
गूढश् चोत्तरसाक्षी च साक्षी पञ्चविधः स्मृतः ॥ [न् १।१५०]
२५० अन्ये पुनर् अनिर्दिष्टाः साक्षिणः समुदाहृताः ।
ग्रामश् च प्राड्विवकश् च राजा च व्यवहारिणाम् ॥ [न् १।१५१]
२५१ कार्येष्व् अभ्यन्तरो यश् च अर्थिना प्रहितश् च यः ।
कुल्याः कुलविवादेषु भवेयुस् ते ऽपि साक्षिणः ॥ [न् १।१५२]
लिखितस्यैव स्वयं परेण लेखनात् बृहस्पतिना द्वादशसाक्षिण उक्ताः ।
यत् तु –
२५२ न कार्यो नृपतिः साक्षी न कारुर् न कुशीलवः । [म् ८।६५अब्]
इति मनुवचनं तद् राज्ञः साक्षित्वकरणनिषेधकं न तु साक्षित्वनिषेधकम् । अतो न विरोधः ।
नारदः ।
२५३ सुदीर्घेनापि कालेन लिखितः सिद्धिम् आप्नुयात् ।
संजानन्न् आत्मनो लेख्यम् अजानन्तं लेखयेत् ॥ [न् १।१६७]
सुदीर्घेनेति – संस्कारोद्बोधकलिखनसत्त्वाद् अयं चिरेणापि साक्ष्यं दातुं शक्नोतीत्य् अर्थः ।
संजानन्न् इति – लिपिपटुं शाक्षिणं तद्धस्तेनैव लेखयेत् । तद् अपटुं तु परहस्तेनेति विशेष इत्य् अर्थः ।
साक्ष्यार्हाः
अथ साक्ष्यार्हाः ।
तत्र मनुः ।
२५४ यादृशा अर्थिभिः कार्या व्यवहारेषु साक्षिणः ।
तादृशान् संप्रवक्ष्यामि यथा वाच्यम् ऋतं च तैः ॥ [न् ८।६१]
२५५ गृहिणः पुत्रिणो मौलाः क्षत्रवित्शूद्रयोनयः ।
अर्थ्युक्ताः साक्ष्यम् अर्हन्ति न य् एकेचिद् अनापै ॥ [म् ८।६२]
२५६ आप्ताः सर्वेषु वर्णेषु कर्याः कार्येषु साक्षिणः ।
सर्वधर्मविदो ऽलुब्धा विपरीतांस् तु वर्जयेत् ॥ [म् ८।६३]
ऋतं सत्यम् । मौलाः प्रसिद्धकुलोद्भवाः । न ये केचिद् इति – गुणवत्साक्ष्यभावे निर्दोषतामात्रेणापि साक्षिणो ग्राह्या इत्य् अर्थः ।
याज्ञवल्क्यः ।
२५७ तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः ।
धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः ॥ [य् २।६८]
२५८ त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्तक्रियान्विताः ।
यथाजाति यथावर्णं सर्वे सर्वेषु वा स्मृताः ॥ [य् २।६९]
यथाजातीत्य् संकीर्णजात्यभिप्रायम्, यथावर्णम् इति ब्राह्मणादिवर्णानाम् उपादानात् । यद् वा – यथाजातीति स्त्रीणां स्त्रिय इत्येवमादि । एवं च संख्यागुणादिसाम्ये ऽपि यस्य वादिनः सवर्णाः साक्षिणस् तस्यैव ग्राह्या इति भावः ।
मनुः ।
२५९ स्त्रीणां साक्ष्यं स्त्रियः कुर्युर् द्विजानां सदृशा द्विजाः ।
शूद्राह् सन्तश् च शूद्राणाम् अन्त्यानाम् अन्त्ययोनयः ॥ [म् ८।६८]
नारदः ।
२६० कुलीना ऋजवः शुद्धा जन्मतः कर्मतो ऽर्थतः ।
त्र्यवराः साक्षिणो ज्ञेयाः शुचयः शुद्धबुद्धयः ॥ [न् १।१५३]
२६१ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाप्य् अनिन्दिताः ।
प्रतिवर्णं भवेयुस् ते सर्वे सर्वेषु वा पुनः ॥ [म् १।१५४]
त्र्यवराः त्रयो ऽवरा येषां ते त्र्यवराः । तेन त्रिभ्य आरभ्य नवपर्यन्ताः साक्षिणः । यद् आह बृहस्पतिः ।
२६२ नव सप्त पञ्च वा स्युश् चत्वारस् त्रय एव वा ।
उभौ तु श्रोत्रियौ ग्राह्यौ नैकं पृच्छेत् कदाचन ॥ [ब् ५।१]
उभौ त्व् इति – पूर्वोक्तगुणेषु सत्स्व् एव श्रोत्रियौ चेत् तदोभाव् अपि ग्राह्यौ एकस् तु श्रोत्रियो ऽपि न ग्राह्य इत्य् अर्थः । श्रोत्रियाव् इति – त्र्यवरसाक्ष्यपेक्षयोत्कृष्टगुणाव् इत्य् अर्थः ।
शङ्खः ।
२६३ एकः साक्षी सर्वथा न ग्राह्यः । [श्ल् ?]
गुणवतो ऽप्य् अग्रहणम् इति सर्वथापद् अस्यार्थः ।
एतच् चोभयाननुमतविषयम् । उभयानुमतस् त्व् एको ऽपि निगाद्य एव । तद् आह याज्ञवल्क्यः ।
२६४ उभयानुमतः साक्षी भवेद् एको ऽपि धर्वित् । इति । [य् २।७२अब्]
धर्मविद् इति सकलसाक्षिगुणोपलक्षणम् ।
नारदः ।
२६५ उभयानुमतो यः स्यात् द्वयोर् विवदमानयोः ।
भवत्व् एको ऽपि साक्षित्वे प्रष्टव्यः स्यात् तु संसदि ॥ [न् १।१९२]
उभयानुमत इति – उभयानुमतिविषय इत्य् अर्थः । न तूभयानुमतियोग्यो, लक्षणापत्तेः । तपस्विन इत्यादिना च गुणवताम् एव त्र्यवरत्वविधानात् । योग्यतालक्षकत्वे चानुमतिपदम् अनर्थकम् एव स्यात्, धर्मवित्पदाद् एवानुमतियोग्यस्य प्राप्तत्वाद् इति । एतद् एव व्यक्तम् आह विष्णुः ।
२६६।२६७ अथ साक्षिणः । कुलवृत्तजातिसम्पन्ना यज्वानस् तपस्विनः पुत्रिणो धर्मज्ञा
२६८ अधीयानाः सत्यवन्तस् त्रैविद्यवृद्धा अभिमतगुणसम्पन्नस् तूभयानुमत्
एको ऽपि ॥ [वि ८।१, ८,९]
एकस्य साक्षित्वे अभिमतगुणसम्पत्त्य् उभयानुमती मिलिते तन्त्रम् । यत् तु – भिन्ने इमे तन्त्रम् । तेन निर्गुणस्यापि सदोषस्याप्य् उभ्ययानुमतस्यैकस्य साक्ष्यम् एवेति । तन् न – एवम् अर्थभेदाद् वाक्यभेदापत्तेर् इति ।
व्यासः ।
२६९ शुचिक्रियश् च धर्मज्ञः साक्षी यत्रानुभूतवाक् ।
प्रमाणम् एको ऽपि भवेत् साहसेषु विशेषतः ॥ [व्य् १।९०]
अनुभूता वाक् सत्यत्वेन यस स तथा ।
कात्यायनः ।
२७० अभ्यन्तरस् तु निक्षेपे साक्ष्यम् एको ऽपि वाच्यते ।
अर्थिना प्रहितः साक्षी भवेद् एको ऽपि याचिते ॥ [क् ३५३]
याचित इति निक्षेपविशेषणम् । न्यायतौल्याद् अन्यत्रापि ।
तथा ।
२७१ संस्कृतं येन यत् पण्यं तत् तेनैव विभावयेत् ।
एक एव प्रमाणं स विवादे परिकीर्तितः ॥ [क् ३५४]
संस्कृतं घटितम् । पण्यं कुण्डलादि । एतच् च तादृशस्यान्यस्याभावे तस्य च स्तेयत्वपक्षे द्रष्टव्यम् ।
मनुः ।
२७२ एको ऽप्य् अलुब्धः साक्षी स्यात् बह्व्यः शुच्यो ऽपि न स्त्रियः ।
स्त्रीबुद्धेर् अस्थिरत्वात् तु दोषैर् अन्यैश् च ये वृताः ॥ [म् ८।७७]
प्रमाणसिद्धे तु तुल्यत्वे उभयानुमतो ऽपि साक्षी न ग्राह्यः । लुब्धत्वं तु दोषमात्रोपलक्षणम् ।
अथ साक्ष्यानर्हाः ।
तत्र नारदः ।
२७३ असक्ष्य् अपि हि शास्त्रेषु दृष्टः पञ्चविधो बुधैः ।
वचनाद् दोषतो भेदात् स्वयमुक्तिर् मृतान्तरः ॥ [न् १।१५७]
२७४ श्रोत्रियाद्या वचनतः स्तेनाद्या दोषदर्शनात् ।
भेदाद् विप्रतिपत्तिः स्याद् विवादे यत्र साक्षिणाम् ॥ [न् १।१५७?]
२७५ राज्ञा परिगृहीतेषु साक्षिष्व् एकार्थनिर्णये ।
वचनं यत्र भिद्येत ते स्युर् भेदाद् असाक्षिणः ॥ [न् १।१६०]
अस्यार्थः – एकस्य भाषार्थस्य उत्तरार्थस्य वा निर्णयार्थं गृहीतानां साक्षिणां वचनभेदाद् असाक्षित्वम् इति । एतच् च साक्षिणां सर्वथातौल्यवचनभेदे बोद्धव्यम् । अन्यथा तु –
२७६ बहुत्वं परिगृह्णीयात् साक्षिद्वैधे नराधिपः ।
समेषु च गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान् ॥ [म् ८।७३]
इति मनुवचनाद् एव व्यवस्था । न चेदं साक्ष्युपादानमात्रपरम्, परिगृह्णीयाद् इति वचनात् । न तु तद्वचनप्रामाण्यपरम् इति वाच्यम्, परिग्रहानर्थक्यापत्तेः । नापि वादिनोर् एव साक्षिद्वैधे सतीदम्, एकस्यापि वादिनः साक्षिभेदे ऽस्य संकोचेन जागरुकत्वात् ।
याज्ञवल्क्यो ऽप्य् आह ।
२७७ द्वैधे बहूनां वचनं समेषु गुणिनां तथा ।
गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तराः ॥ [य् २।७८]
न चेदं वचनपदं मन्वनुरोधात् परिग्रहपरम्, निर्बीजलक्षणापत्तेः ।
अथ —
२७८ साक्षिणां लिखितानां च निर्दिष्टानां च वादिनाम् ।
तेषाम् एको ऽन्यथावादी भेदात् सर्वे ऽप्य् असाक्षिणः ॥ [क् ३५९]
इति कात्यायनवचनेन एकस्याप्य् अन्यथावादे सर्वेषाम् असक्षित्वम् उच्यत इति विरोध इति चेत् । न — त्रयाणां साक्षिणां मध्ये एकस्यान्यथावादे ऽपरस्य तत्तुल्यस्य सत्प्रतिपक्षिततया तृतीयस्य चैकतया तत्र साक्षितो न निर्णीयत इत्य् अत्र कात्यायनतात्पर्यात् । सत्प्रतिपक्षितावशिष्टानां त्व् अनेकत्वे तत एव निर्णय इत्य् अत्र याज्ञवल्क्यतात्पर्याद् इति कात्यायनवचनस्य चास्य स्वमूलभूतन्यायविरोधेनारभ्य संकोच्यत्वाद् इति ।
स्वयम् उक्तं व्याकरोति नारदः ।
२७९ स्वयमुक्तिर् अनिर्दिष्टः स्वयम् एवैत्य यो वदेत् । [न् १।१५७अब्]
कात्यायनो ऽपि ।
२८० यः साक्षी नैव निर्दिष्टो नाहूतो नैव देशितः ।
ब्रूयान् मिथ्येति तथ्यं वा दण्ड्यः सो ऽपि नराधमः ॥ [क् ४०४]
मृतान्तरं विविनक्ति नारदः ।
२८१ मृतान्तरो ऽर्थिनि प्रेते मुमूर्षुश्राविताद् ऋते ॥ [न् १।१५७च्द्]
अर्थी धनिकः । मुमूर्षुणा धनिकेन यः साक्षी स्वदायादेभ्यो ऽयम् इयद् धनं मह्यं धारयत्य् अयं तु जानातीति श्रावितः स मृतान्तरो ऽपि साक्षी भवत्य् एवेत्य् अर्थः ।
मृतान्तरस्य त्व् असाक्षित्वे हेतुम् आह स एव ।
२८२ यो ऽर्थः श्रावयितव्यः स्यात् तस्मिन्न् असति चार्थिनि ।
क्व तदुत्तरसाक्षित्वम् इत्य् असाक्षी मृतान्तरः ॥ [न् १।१६२]
अर्थिना साक्षिणि यो ऽर्थो विवादास्पदीभूतः श्रावयितव्यः त्वम् इमम् अर्थं जानीहीति तस्मिन् श्रावयितव्ये ऽर्थे श्रावयितरि अर्थिनि असति अश्रुतत्वाद् अर्थविशेषस्य क्वार्थे साक्षी साक्षित्वं वदत इति हेतोर् मृतान्तरो न साक्षीत्य् अर्थः ।
तेनैतद् उक्तं भवति – यस्मिन्न् अर्थे ऽर्थिनि प्रेते अर्थिपुत्रस्य न विशेषज्ञानं तत्र साक्षिणः तत्सत्त्वे ऽपि न साक्षित्वं सविशेषम् अनुपन्यासात् सामान्योपन्यस्तस्यापि तस्य साक्षिणो न संख्यादौ विशेषे साक्षित्वं स्वयमुक्तित्वापत्तेः । किं तूभयोर् अर्थिसाक्षिणोर् उपयुक्ताशेषज्ञतायाम् एव मृतान्तरः साक्षीति भावः ।
श्रोत्रियादीन् व्याकरोति स एव ।
२८३ श्रोत्रियास् तापसा वृद्धा ये च प्रव्रजिता नराः ।
असाक्षिणस् ते वचनात् नात्र हेतुर् उदाहृतः ॥ [न् १।१५८]
वचनाद् इति – तेषां साक्षित्वकारणनिषेधकवचनात् । तथा च ते पूज्यतमतया तपश्चर्याव्यासक्तत्वेन विवादपदविस्मरणशीलतया न साक्षिणः कार्याः । अकृतास् तु तत्त्वं जानन्तो भवन्त्य् एव साक्षिणः । तद् युक्तम् – उभौ तु श्रोत्रियौ ग्राह्याव् इति । नात्र हेतुर् इति – नार्तोक्तान्यहेतुर् इत्य् अर्थः ।
दोषाद् असाक्षिणो दर्शयति नारदः ।
२८४ स्तेनाः साहसिकाश् चण्डाः कितवो व्याधकास् तथा ।
असाक्षिणस् ते दुष्टत्वात् तेषु सत्यं न विद्यते ॥ [न् १।१५९]
मनुः ।
२८५ नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः ।
न दृष्टदोषाः कर्तव्या न व्याध्यार्था न दूषिताः ॥ [न् ८।६४]
अर्थसंबन्धी जयफलभागी । आप्तः सहायो रिपुश् च यो यस्य ।
नारदः ।
२८६ दासनैकृतिकाश्रद्धवृद्धस्त्रीबालचाक्रिकाः ।
मत्तोन्मत्तप्रमत्तार्तकितवा ग्रामयाजकाः ॥ [न् १।१७८]
२८७ महापथिकसामुद्रवणिक्प्रव्रजितातुराः ।
व्यङ्गैकश्रोत्रियाचारहीनक्लीबकुशीलवाः ॥ [न् १।१७९]
२८८ नास्तिकव्रात्यदाराग्नित्यागिनो ऽयाज्ययाजकाः ।
एकस्थालीसहायारिचरज्ञातिसनाभयः ॥ [१।१८०]
२८९ प्राग्दृष्टदोषशौलूषविषजीव्याहितुण्डिकाः ।
गरदाग्निदकीनाशशूद्रापुत्रोपपातिताः ॥ [न् १।१८१]
२९० क्लान्तसाहसिकाश्रान्तनिर्धूताग्न्यवसायिनः ।
भिन्नवृत्तासमावृत्तजलतैलकमूलिकाः ॥ [न् १।१८२]
२९१ भूताविष्टनृपद्विष्टवर्षनक्षत्रसूचकाः ।
अघशंस्यात्मविक्रेतृहीनाङ्गभगवृत्तयः ॥ [न् १।१८३]
२९२ कुनखिश्यावदच्छ्वित्रिमित्रध्रुक्शठशौण्डिकाः ।
ऐन्द्रजालिकलुब्धोग्रश्रेणीगणविरोधिनः ॥ [न् १।१८४]
२९३ वधकश् चित्रकृच् छङ्खः पतितः कूटकारकः ।
कुहकः प्रत्यवसितस् तस्करो राजपूरुषः ॥ [न् १।१८५]
२९४ मनुष्यपशुमांसास्थिमधुक्षीराम्बुसर्पिषाम् ।
विक्रता ब्राह्मणश् चैव द्विजो वार्द्धुषिकश् च यः ॥ [न् १।१८६]
२९५ च्युतः स्वधर्मात् कुलिकः सूचको हीनसेवकः ।
पित्रा विवदमानश् च भेदकश् चेत्य् असाक्षिणः ॥ [न् १।१८७]
२९६ श्रेण्यादिषु च वर्गेषु कश्चिच् चेद् द्वेष्यताम् इयात् ।
तस्य तेभ्यो न साक्ष्यं स्यात् द्वेष्टारः सर्व एव ते ॥ [न् १।१५६]
नैकृतिका वञ्चकाः । अश्रद्धः श्रद्धाहीनः । वृद्धो ग्लानेन्द्रियः । स्त्री पुंसां न साक्षिणी । बालो ऽजातविवेकः ।
महापथिको दीर्घाद्वगामी । आतुरो तिरोगपीडितः । एकः श्रोत्रियः द्वयोः श्रोत्रिययोर् विहितत्वात् सो ऽप्य् अननुमतः । क्लीबं नपुंसकम् । कुशीलवो रङ्गोपजीवी ।
एकस्थालीसहाय एकपाकभोजी । अरिचरो वादिशत्रुचारी । सनाभयस् तु –
२९७ मातृष्वसृसुतास् चैव सोदर्यसुतमातुलाः ।
एते सनाभयस् तूक्ताः साक्ष्यं तेषु न विद्यते । [क् ३६२]
इति कात्यायनोक्ताः ।
शैलूषो नटभिन्नरङ्गोपजीवी विवक्षितः । विषजीवी विषवैद्यः । आहितुण्डिकः सर्पक्रीडोपजीवी व्यालग्राही । गरदाग्निदौ परानिष्ठार्थं विषाग्निप्रयोक्तारौ । कीनाशो हालिकः । उपपातित उपपातकाद्रान्तः ।
क्लान्तो ऽतिखिन्नः । अत्रान्तो ऽयोग्यकारी । निर्धूतः ग्रामराजकुलश्रेण्यादिभिर् निःसारितः । लोकभयशून्य इति कश्चित् । अग्न्यवसायी क्रोधादिना संस्कृताग्निनिर्वापकः । भिन्नवृत्तः स्वकर्मत्यागी । असमावृत्तः अकृतसमावर्तनः । तैलिकः तिलविक्रयी । मूलिकः मूलं विप्रलम्भस् तत्कारी ।
अघशंसी पराभिशापशीलः । हीनाङ्गः प्रकृतपरिमाणन्यूनाङ्गः । शङ्खः वृषभनाटनेन भिक्षाटनशीलः । प्रत्यवसितस् त्यक्तप्रव्रज्यः । कुलिकः परिच्छेदकत्वेन नियुक्तः ।
सर्वे चैते मन्दाभिधायिनो लोभादिशङ्कनात् । तथा च मनुः ।
२९८ लोभान् मोहाद् भयान् मैत्रात् कामात् क्रोधात् तथैव च ।
अज्ञानाद् बालभावाच् च साक्ष्यं वितथम् उच्यते ॥ [म् ८।११८]
अत्र यद्य् अपि साक्षिणां विशेषविधिनैव शेषप्रतिषेध इति कण्ठतो निषेधो ऽनर्थकः तथापि विहितालाभ ऽप्य् अमीषाम् अनुपादानाय मौद्गश् चरुर् भवतीत्य् उक्ते ऽप्य् अयज्ञिया वै माषा इतिवत् । तथा च विहितालाभे अविहितानिषिद्धाः साक्षिणो ग्राह्याः कण्ठतो निषिद्धास् तु सर्वथा न ग्राह्या इत्य् आशयः ।
एतच् च साक्षिपरीक्षणम् ऋणादिषु न तु साहसादिषु । यद् आह कात्यायनः ।
२९९ ऋणादिषु परीक्षेत साक्षिणः स्थिरकर्मसु ।
साहसात्ययिके चापि न परीक्षा क्वचिन् मता ॥ [क् ३६५]
तथा ।
३०० व्याघाते च नृपाज्ञायां संग्रहे साहसेषु च ।
स्तेयपारुष्ययोश् चैव न परीक्षेत साक्षिणः ॥ [क् ३६६]
संग्रहः सम्य्ग्ग्रहणं परस्त्रियै कामुकतया ताम्बूलप्रेषणादि ।
३०१ अन्तर्वेश्मनि रात्रौ च बहिर्ग्रामाच् च यो भवेत् ।
एतेष्व् एवाभियोगेषु परीक्षा नात्र साक्षिणाम् ॥ [क् ३६७]
मनुः ।
३०२ साहसेषु च सर्वेषु स्तेयसंग्रहणेषु च ।
वाग्दण्डयोश् च पारुष्ये न परीक्षेत साक्षिणः ॥ [म् ८।७२]
उशनाः ।
३०३ दासो ऽन्धो बधिरः कुष्ठी स्त्रीबालस्थविरादयः ।
एते ऽप्य् अनभिसंबद्धाः साहसे साक्षिणो मताः ॥ [उ ?]
स्तेयसंग्रहणादिकार्याणां निह्नवेनैव क्रियमानत्वात् दैवगत्यैव परं साक्षिणां भवन्तीति मत्वा नैते परीक्षणीयाः । अनभिसंबद्धाः प्रकृतापराधजयाद्यसंबद्धाः ।
तत्रापि केचिद् वर्जनीया एव । यद् आह कात्यायनः ।
३०४ कार्यगौरवम् आसाद्य भवेयुस् ते ऽपि साक्षिणः ॥ [न् १।१८८च्द्]
३०५ तेषाम् अपि न बालः स्यात् नैको न स्त्री न कूटकृत् ।
न बान्धवो न चारातिर् ब्रूयुस् ते साक्ष्यम् अन्यथा ॥ [न् १।१९०]
३०६ बालो ऽज्ञानाद् असत्यात् स्त्री पापाभ्यासाच् च कूटकृत् ।
विब्रूयाद् बान्धवः स्नेहाद् वैरनिर्यातनाद् अरिः ॥ [न् १।१९१]
एको यथोक्तगुणहीन उबहानुमतः ।
न चात्र स्त्र्यादीनां विधेर् निषेधाच् च विरोधः, तद्विधेः साक्ष्यन्तराभावविषयत्वात् । तद् आह मनुः ।
३०७ स्त्रियाप्य् असंभवे कार्यं बालेन स्थविरेण वा ।
शिष्येण बन्धुना वाथ दासेन भृतकेन वा ॥ इति । [म् ८।७०]
साक्षिणः सत्स्व् एव दूषणेषु दूष्याह् । यद् आह बृहस्पतिः ।
३०८ साक्षिणो ऽर्थिसमुद्दिषान् सत्सु दोषेषु दूषयेत् ।
अदुष्टं दूषयन् वादी तत्समं दण्डम् अर्हति ॥ [ब् ५।२१]
तत्समं विवादविषयसमम् ।
साक्षिणां च दूषणं सभासदाम् अन्येषां च सर्वेषां विदितं ग्राह्यं न तु तद् अपि त्र्यवरादिसाक्षिभिः प्रतिषेधम् अनवस्थापातात् । यद् आह नारदः ।
३०९ सभासदां प्रसिद्धं यत् लोकसिद्धम् अथापि वा ।
साक्षिणां दूषणं ग्राह्यम् असाध्यं दोषवर्जनात् ॥ [न् ?]
३१० अन्यैश् च साक्षिभिः साध्ये दूषणे पूर्वसाक्षिणाम् ।
अनवस्था भवेद् दोषस् तेषाम् अप्य् अन्यसंभवात् ॥ [न् ?]
असाध्यं साधनानर्हं सिद्धत्वात् । दोषवर्जनात् अनवस्थाविरहात् ।
बृहस्पतिः ।
३११ लेख्यं वा साक्षिणो वापि विवादे यस्य दूषिताः ।
तस्य कार्यं न सिध्येत यावत् तन् न विशोधयेत् ॥ [ब् ५।२९]
तल्लेख्यं साक्षिणश् च प्रमाणम् इति यावत् ।
तथा ।
३१२ साक्षिभिर् गदिते साक्ष्ये प्रक्रान्ते कार्यनिर्णये ।
पुनर्विवादं कुरुते तस्य राजा विचारयेत् ॥ [ब् ५।३०]
अयं कूटसाक्षीत्य् अभिधाय यः पुनर् वादी वादं कुरुते तद् राजा विचारयेद् इत्य् अर्थः ।
कात्यायनः ।
३१३ नातथ्येन प्रमाणं तु दोषेणैव तु दूषयेत् ।
निथ्याभियोगे दण्ड्यः स्यात् साद्याद् अर्थाच् च हीयते ॥ [क् २७८ = ३८०]
३१४ प्रमाणस्य हि ये दोषा वक्तव्यास् ते ऽपि वादिना ।
गूढास् तु प्रकटाः सभ्यैः काले शास्त्रप्रदर्शनात् ॥ [क् २७५]
वादिना ज्ञानाभावाद् अनुद्भाविता दोषाः सभ्यैः शास्त्रप्रदर्शनेन प्रकटीकृत्य सर्वे वक्तव्या इत्य् अर्थः ।
अथ साक्षिणो यथा प्रष्टव्यास् तद् उच्यते ।
तत्र कात्यायनः ।
३१५ न कालहरणं कार्यं राज्ञा साक्षिप्रभाषणे ।
महान् दोषो भवेत् कालात् धर्मव्यावृत्तिलक्षणाः ॥ [क् ३३९]
नारदः ।
३१६ आहूय साक्षिणः पृच्छेन् नियम्य शपथैर् भृशम् ।
समस् तान् विदिताचारान् विज्ञातार्थान् पृथक् पृथक् ॥ [न् १।१९८]
ननु पृथक् पृथक् कथं प्रश्नः –
३१७ नासमवेताः प्रष्टव्याः प्रब्रूयुः । [ग् १३।६]
इति गौतमवचनात् । न – कात्यायनेन विरोधस्य परिहृतत्वात् । यद् आह –
३१८ समवेतैस् तु कृतं कार्यं तद् वक्तव्यं पृथक् पृथक् । [क् ३९४]
३१९ भिन्नकाले तु यत् कार्यं विज्ञातं तत्र साक्षिभिः ।
एकैकं वादयेत् तत्र भिन्नकाले तु तद् भृगुः ॥ [क् ३९५]
मिलितैर् एवागते कार्ये मिलिता एव प्रष्टव्याः । एकैकशस् तु तत्कार्यावगतौ पृथक् पृथग् इत्य् अविरोधः ।
कात्यायनः ।
३२० अर्थिप्रत्यर्थिसांनिध्ये साक्ष्यार्थस्य च संनिधौ ।
प्रत्यक्षं वादयेत् साक्ष्यं परोक्षं न कथंचन ॥ [क् ३८८]
३२१ अर्थस्योपरि वक्तव्यं तयोर् अपि विना क्वचित् ।
चतुष्पदेष्व् अयं धर्मो द्विपदस्थावरेष्व् अपि ॥ [क् ३८९]
३२२ तुल्यगणिममेयानाम् अभावे ऽपि हि वादयेत् ।
क्रियाकारेषु सर्वेषु साक्षित्वं न ततो ऽन्यथा ॥ [क् ३९०]
वादिप्रतिवादिवस्तूनां संनिधौ साक्षिवादनं कार्यम् इति मुख्यः कल्पः । वस्तुमात्रसंनिधौ वादिसंनिधापनाशक्यत्वे सति कार्यम् इत्य् अवरः कल्पः । अयं च नियमश् चतुष्पदादिष्व् एव । हिरण्यादिषु तु वस्त्वसंनिधाव् अपि साक्षिवादनम् ।
तत्र तुल्यं तुलापरिच्छेद्यं हिरण्यादि । गणिमं कपर्दकादि । मेयं मातव्यं धान्यादि । क्रियाकारो व्यवहारः । तेन सर्वेषु व्यवहारेषु एषैव रीतिर् इत्य् अर्थः ।
मनुः ।
३२३ देवब्राह्मणसाम्निध्ये साक्ष्यं पृच्छेद् ऋतं द्विजान् ।
प्राङ्मुखोदङ्मुखान् वापि पूर्वाह्णे तु शुचिः शुचीन् ॥ [म् ८।८७]
३२४ सबान्तः साक्षिणः सर्वान् अर्थिप्रत्यर्थिसंनिधौ ।
प्राड्विवाको ऽनुयुञ्जीयात् विधिनानेन शान्त्वयन् ॥ [ब् ८।७९]
३२५ यद् द्वयोर् अनयोर् वेत्थ कार्ये ऽस्मिंश् चेष्टितं मिथः ।
ब्रूत सर्वम् अशेषेण युष्माकं ह्य् अत्र साक्षिता ॥ [म् ८।८०]
३२६ सत्यं साक्षी ब्रुवन् साक्ष्ये लोकान् आप्नोति पुष्कलान् ।
इह चानुत्तमां कीर्तिं वाग् एषा ब्रह्मनिर्मिता ॥ [म् ८।८१]
३२७ साक्ष्ये ऽनृतं वदन् साक्षी पाशैर् बध्येत वारुणैः ।
विवशः शतमा जातीस् तस्मात् साक्षी वदेद् ऋतम् ॥ [म् ८।८२]
३२८ सत्येन पूयते साक्षी धर्मः सत्येन वर्धते ।
तस्मात् सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः ॥ [म् ८।८३]
३२९ आत्मैव ह्य् आत्मनः साक्षी गतिर् आत्मा तथात्मनः ।
मावमंस्थास् त्वम् आत्मानं नृणां साक्षित्वम् उत्तमम् ॥ [म् ८।८४]
३३० मन्यन्ते वै पापकृतो न कश्चित् पश्यतीह नः ।
तांस् तु देवाः प्रपश्यन्ति स्वश् चैवान्तरपूरुषः ॥ [म् ८।८५]
३३१ द्यौर् भूमिर् आपो हृदयं चन्द्रार्काग्नियमानिलाः ।
रात्रिः संध्ये च धर्मश् च वृत्तज्ञाः सर्वदेहिनां ॥ [म् ८।८६]
शतमा जातीः शतं जन्मनानि ।
याज्ञवल्क्यः ।
३३२ साक्षिणः श्रावयेद् वादिप्रतिवादिसमीपगान् ।
ये पातककृतां लोका उपपातकिनां तथा ॥ [य् २।७३]
३३३ अग्निदानां तु ये लोका ये च स्त्रीबालघातिनाम् ।
तान् सर्वान् समवाप्नोति यः साक्ष्यम् अनृतं वदेत् ॥ [य् २।७४]
बृहस्पतिः ।
३३४ सत्यप्रशंसावचनैर् अनृतस्यापवर्जनैः ।
सभ्यैः संबोधनीयाश् च धर्मशास्त्रप्रवेदिभिः ॥ [ब् ५।३२]
३३५ आ जन्मनश् चा मरणात् सुकृतं यद् उपार्जितम् ।
तत् सर्वं नाशम् आयाति अनृतस्याभिशंसनात् ॥ [ब् ५।३३]
३३६ कूटसभ्यः कूटसाक्षी ब्रह्महा च समाः स्मृताः ।
भ्रूणहा वृत्तहा तेषां नाधिकः समुदाहृतह् ॥ [ब् ५।३४]
३३७ एवं विदित्वा तत् साक्षी यथाभूतं वदेद् वचः ।
तेनेह कीर्तिम् आप्नोति परत्र च शुभां गतिम् ॥ [ब् ५।३५]
साक्षिश्रावणे विष्णु-नारदौ ।
३३८ अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद् धि सत्यम् एवातिरिच्यते ॥ [वि ८।३६ = न् १।२११]
नारदः ।
३३९ पौराणैर् धर्मवचनैः सत्यमाहात्म्यदर्शनैः ।
अनृतस्यापवादैश् च भृशम् उत्त्रासयेद् अपि ॥ [न् १।२००]
३४० नग्नस् तु प्रतिरुद्धः सन् बहिर् द्वारे बुभुक्षितः ।
अमित्रान् बहुशः पश्येद् यः साक्ष्यम् अनृतं वदेत् ॥ [न् १।२०१]
३४१ यां रात्रिम् अधिविन्ना स्त्री यां चैवाक्षपराजितः ।
यां च भाराभितप्ताङ्गो दुर्विवक्ता स तां वसेत् ॥ [न् १।२०३]
३४२ साक्षी साक्ष्यसौद्देशे गोकर्णशिथिलश् चरन् ।
सहस्रं वारुणान् पाशान् आत्मनि प्रतिमुञ्चति ॥ [न् १।२०४]
३४३ तस्य वर्षशते पूर्णे पाश एकः प्रमुच्यते
एवं स बन्धनात् तस्मात् मुच्यते नित्यं क्रमात् ॥ [न् १।२०५]
३४४ एकम् एवाद्वितीयं यत् प्राहुः पावनम् आत्मनः ।
सत्यं स्वर्गस्य सोपानं पारावारस्य नौर् इव ॥ [न् १।२१०]
३४५ वरं कूपशताद् वापी वरं वापीशताद् व्रतम् ।
वरं व्रतशताद् पुत्रः सत्यं पुत्रशताद् वरम् ॥ [न् १।२१२]
३४६ भूर् धारयति सत्येन सत्येनोदेति भास्करः ।
सत्येन वायुः पवते सत्येनापः स्रवन्ति च ॥ [न् १।२१३]
३४७ सत्यम् एव परं धाम सत्यम् एव परं तपः ।
सत्यम् एव परो धर्मो लोकानाम् इति निश्चितम् ॥ [न् १।२१४]
३४८ सत्यं देवाः समासेन मनुष्यास् त्व् अनृतं स्मृतम् ।
इहैव तस्य देवत्वं यस्य सत्ये स्थिता मतिः ॥ [न् १।२१५]
३४९ नास्ति सत्यात् परो धर्मो नानृतात् पातकं परम् ।
साक्षिधर्मे विशेषेण सत्यम् एव वदेत् ततः ॥ [न् १।२१६]
३५० पुराणानुमतौ चात्र द्वौ श्लोकौ समुदाहृतौ ।
यौ श्रुत्वा सत्यम् एवेह सदा वाच्यं नरैर् बुधैः ॥ [न् ?]
३५१ यः परार्थे ऽपहरते स्वां वाचं पुरुषाधमः ।
आत्मार्थे किं न कुर्यात् स पापं नरकनिर्भयः ॥ [न् १।२२७]
३५२ अर्था वै वाचि नियता वाङ्मूला वाग्विनिःसृताः ।
यस् तु तां स्तेनयेद् वाचं स सर्वस्तेयकृन् नरः ॥ [न् १।२२८]
अधिविन्ना प्रत्यग्रसपत्नीका । गोकर्णशिथिलश् चरन् व्यवहरन् दृढम् अब्रुवन्न् इत्य् अर्थः ।
बौधायनः ।
३५३ त्रीन् एव च पितॄन् हन्ति त्रीन् एव च पितामहान् । [बौ १।१९।१३]
३५४ सप्त जातान् अजातांश् च साक्षी साक्ष्यं मृषा वदन् ॥ [बौ १।१९।१४]
आत्मना सह जातानां सप्तत्वम् ।
३५५ पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।
शतम् अश्वानृते हन्ति सहस्रं पुरुषानृते ।
हन्ति जातान् अजातांश् च हिरण्यार्थे ऽनृतं वदन् ।
सर्वं बूम्यनृते हन्ति साक्ष्यं साक्षी मृषा वदन् ॥ [बौ १।१९।१५]
साक्षिशपथाः
अथ साक्षिशपथाः ।
शङ्खलिखितौ ।
३५६ साक्षिणः सुवर्णरजतगोधान्यसूर्याग्निगजस्कन्धाश्वपृष्ठरथोपस्थ-
३५७ शस्त्रादिभिः तथा पुत्रपौत्रैर् यथावर्णं परिग्रहविशेषः स्याद्
देवब्राह्मणस्वामिनाम् अग्रतः ॥ [श्ल् ?]
सुवर्णेति – सुवर्णादिस्पर्शनेन शापयेद् इत्य् अर्थः । तथा पुत्रपौत्रैर् इति – पुत्रपौत्रशिरःस्पर्शनेन स्वल्पे ऽर्थे शापयेद् इत्य् अर्थः । यथावर्णं यस वर्णस्य यद्द्रव्यस्पर्शनेन शपथ आम्नातः स्मृत्यन्तरे स तेनैव कारयितव्य इत्य् अर्थः ।
नारदः ।
३५८ सत्येन श्रावयेद् विप्रं क्षत्रियं वाहनायुधैः ।
गोबीजकाञ्चनैर् वैश्यं शूद्रं सर्पैस् तु पातकैः ॥ [न् १।१९९]
श्रावयेत् शापयेद् इत्य् अर्थः । विप्रम् इत्य् अपकृष्टब्राह्मणविषयम्, उत्कृष्टे गौतमेन शपथनिषेधात् । तद् आह गौतमः ।
३५९, ३६० शपथेनैकेन सत्यकर्म । तद् एव ब्राह्मणसंसदि स्याद् अब्राह्मणानां ॥
सत्यकर्म सत्यव्यवस्थानम् ।
एवं च ब्राह्मणव्यतिरिक्तानाम् अपि साक्षिणाम् एकशपथोक्तौ क्षत्रियं वाहनायुधैर् इत्यादिबहुशपथोक्त्वा विरोध इति न देश्यम्, गौतमवचनस्य गुणवत्साक्षिविषयतया पारिजाते संकोचनाद् इति ।
मनु-नारदौ ।
३६१ ब्रूहीति ब्राह्मणं पृच्छेत् सत्यं ब्रूहीति पार्थिवम् ।
गोबीजकाञ्चनैर् वैश्यं शूद्रं सर्वैस् तु पातकैः ॥ [म् ८।८८ = न्क़् ५।५]
३६२ ब्रह्मघ्नां ये स्मृता लोका ये च स्त्रीबालघातिनाम् ।
मित्रद्रुहः कृतघ्नस्य ते ते स्युर् वदतो मृषा ॥ [म् ८।८९ = न्क़् ५।६]
३६३ जन्मप्रभृति यत् किंचित् पुण्यं भद्र त्वया कृतम् ।
तत् सर्वं ते शुनो गच्छेद् यदि ब्रूयास् त्वम् अन्यथा ॥ [म् ८।९० = न्क़् ५।७]
३६४ एको ऽहम् अस्मीत्य् आत्मानं यद् त्वं कल्याण मन्यसे ।
नित्यं स्थितस् ते हृद्य् एष पुण्यपापेक्षिता मुनिः ॥ [म् ८।९१ = न्क़् ५।८]
३६५ यमो वैवस्वतो देवो यस् तवैष हृदि स्थितः ।
तेन चेद् अविवादस् ते मा गङ्गां मा कुरून् गमः ॥ म् ८।९२ = न्क़् ५।९]
यमः संयमनकर्ता । वैवस्वतो सूर्यपुत्रः । अविवादो ऽविसंवादः ।
तथा ।
३६६ नग्नो मुण्डः कपाली च भिक्षार्थि क्षुत्पिपासितः ।
अन्धः शत्रुकुलं गच्छेद् यः साक्ष्यम् अनृतं वदेत् ॥ [म् ८।९३ = न् १।२०१]
३६७ अवाक्शिरास् तमस्य् अन्धे किल्बिषी नरकं व्रजेत् ।
यः प्रश्नं वितथं ब्रूयात् पृष्टः सन् धर्मसंशये ॥ [म् ८।९४ = न् ?]
३६८ अन्धो मत्स्यान् इवाश्नाति निरपेक्षाः सकण्टकान् ।
यो भाषेतार्थवैकल्यम् अप्रत्यक्षं सभां गतः ॥ [म् ८।९५ = न्मा ३।१४]
३६९ यस्य विद्वान् हि वदतः क्षेत्रज्ञो नाभिशङ्कते ।
तस्मान् न देवाः श्रेयांसं लोके ऽन्यं पुरुषं विदुः ॥ [म् ८।९६ = न् ?]
नारदः ।
३७० यावतो बान्धवान् यस्मिन् हन्ति साक्ष्य् अनृतं वदन् ।
तावतः संख्यया तस्मिन् शृणु सौम्यानुपूर्वशः ॥ [न् १।२०७]
३७१ पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।
शतम् अश्वानृते हन्ति सहस्रं पुरुषानृते ॥ [न् १।२०८]
३७२ हन्ति जातान् अजातांश् च हिरण्यार्थे ऽनृतं वदन् ।
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः ॥ [न् १।२०९]
मनुः ।
३७३ अप्सु भूमिवद् इत्य् आहुः स्त्रीणां भोगे ऽथ मैथुने ।
अब्जेषु चैव रत्नेषु सर्वेष्व् अश्ममयेषु च ॥ [म् ८।१००]
३७४ पशुवत् क्षौद्रघृतयोर् यानेषु च तथाश्ववत् ।
गोवद् रजतवस्त्रेषु धान्ये ब्रह्मणि चैव हि ॥ [म् ८।१००*]
३७५ एतान् दोषान् अवेक्षस्व सर्वान् अनृतभाषणे ।
यथाश्रुतं यथादृष्टं सत्यम् एवाञ्जसा वद ॥ [म् ८।१०१]
अर्थवैकल्यम् अर्थान्यथात्वम् ।
पञ्च बान्धवान् माता पिता भार्या अपत्यम् आत्मा चेति पञ्चेति पारिजातः ।
अप्सु तडागादिषु । स्त्रीणां मैथुनरूपे भोगे । अब्जेषु रत्नेषु जलजेषु मुक्तादिषु । ब्रह्मणि वेदे । अन्यत्र तु विषये सामान्यश्रुतम् एवानिष्टम् अन्वीयते ।
नारदः ।
३७६ सत्यं ब्रूह्य् अनृतं त्यक्त्वा सत्येन स्वर्गम् एष्यसि ।
उक्त्वानृतं महाघोरं नरकं प्रतिपद्यसे ॥ [न् १।२१६]
३७७ नरकेषु च ते शश्वत् जिह्वाम् उत्कृत्य दारुणाः ।
असिभिर् घातयिष्यन्ति बलिनो यमकिंकराः ॥ [न् १।२१७]
३७८ शूलैर् भेत्स्यन्ति चाक्रम्य क्रोशन्तम् अपरायणम् ।
अवाक्शिरसम् उत्क्षिप्य क्षेप्स्यन्त्य् अग्नौ ह्रदेषु च ॥ [न् १।२१८]
३७९ अनुभूय सुदुःखास् ताश् चिरं नरकवेदनाः ।
इह यास्यस्य् अभव्यासु गृध्रकादियोनिषु ॥ [न् १।२१९]
३८० ज्ञात्वैतान् अनृते दोषान् तथा सत्येषु सद्गुणान् ।
सत्यं वदोद्धरात्मानं नात्मानं पातय स्वयम् ॥ [न् १।२२०]
३८१ न बान्धवा न सुहृदो न धनानि महान्त्य् अपि ।
अलं धारयितुं सर्वे तमस्य् अन्धे निमज्जतः ॥ [न् १।२२१]
३८२ पितरस् त्व् अवलम्बन्ते पुत्रे साक्षित्वम् आगते ।
तारयिष्यति किं त्व् अस्मान् किम् अघः पातयिष्यति ॥ [न् १।२२२]
३८३ सत्यम् आत्मा मनुष्यस्य सर्वं सत्ये प्रतिष्ठितम् ।
सर्वथैवात्मनात्मानं श्रेयस्य् एव नियोजय ॥ [न् १।२२३]
३८४ यां रात्रिम् अजनिष्ठास् त्वं यां च रात्रिं मरिष्यसि ।
वृथा तदन्तरं ते स्यात् साक्ष्यं चेद् अन्यथा वदेः ॥ [न् १।२२४]
याज्ञवल्क्यः ।
३८५ सुकृतं यत् त्वया किंचिज् जन्मान्तरशतैः कृतम् ।
तत् सर्वं तस्य जानीहि तं पराजयसे मृषा ॥ [य् २।७५]
मनुः ।
३८६ गोरक्षकान् वाणिजकान् तथा कारुकुशीलवान् ।
प्रेष्यान् वार्द्धुषिकांश् चैव विप्रान् शूद्रवद् आचरेत् ॥ [म् ८।१०२]
३८७ ये व्यपेताः स्वकर्मभ्यः परपिण्डोपजीविनः ।
द्विजत्वम् अभिकाङ्क्षन्ति तांश् च शूद्रवद् आचरेत् ॥ [म् ८।१०२*]
शूद्रवच् छपथं कारयेद् इत्य् अर्थः ।
साक्ष्युक्तिविधिः
अथ साक्ष्युक्तिविधिः ।
तत्र कात्यायनः ।
३८८ सभान्तस्थैस् तु वक्तव्यं वक्तव्यं साक्ष्यं नान्यत्र साक्षिभिः ।
सर्वसाक्ष्येष्व् अयं धर्मो ऽन्यत्र स्यात् स्थावरेषु च ॥ [क् ३८७]
३८९ वधे च प्राणिनां साक्ष्यं वादयेच् छवसंनिधौ ।
तदभावे तु चिह्नस्य नान्यथैव प्रवादयेत् ॥ [क् ३९१]
३९० अनुद्विग्नेन चित्तेन दृष्टं सम्यग् यदा तु यत् ।
प्रत्यक्षं तत् स्मृतं कार्यं साक्ष्यं साक्षी तु तद् वदेत् ॥ [क् ?]
चिह्नस्य श्वचिह्नस्यास्थिकेशादेः ।
अशक्यानयने तु साक्षिणि कात्यायनः ।
३९१ अशक्य आगमो यत्र विदेशप्रतिवादिनाम् ।
त्रैविद्यप्रहितं तत्र लेख्यं साक्ष्यं प्रदापयेत् ॥ [क् ३५२]
तत्र साक्षिनिगदश्राविधार्मिकलिखनादिना निर्णयः कार्य इत्य् अर्थः ।
बृहस्पतिः ।
३९२ विहायोपानदुष्णीषं दक्षिणं पाणिम् उद्धरेत् ।
हिरण्यगोशकृद्दर्भान् समादाय ऋतं वदेत् ॥ [ब् ५।४२]
अत्र दक्षिणपाण्युद्धारो ऽवधानार्थो ऽदृष्टार्थो वा ।
गौतमः ।
३९३ नासमवेताः पृष्टाः प्रब्रूयुः । [ग् १३।६]
असमवेता अमिलिताः ।
कात्यायनः ।
३९४ समवेतैस् तु यद् दृष्टं वक्तव्यं तत् तथैव हि ।
विभिन्ने नैककार्यं तद् वक्तव्यं पृथक् पृथक् ॥ [क् ३९४]
३९५ भिन्नकालेषु यत् कार्यं विज्ञातं तत्र साक्षिभिः ।
एकैकं वादयेत् तत्र भिन्नकाले तु तद् भृगुः ॥ [क् ३९५]
३९६ नापृष्टैर् अनियुक्तैर् वा समं सत्यं प्रयत्नतः ।
वक्तव्यं साक्षिभिः साक्ष्यं विवादस्थानम् आगतैः ॥ [क् ?]
नैककार्यम् अनेककार्यम् ।
तथा ।
३९७ स्वभावोक्तं वचस् तेषां ग्राह्यं यद् दोषवर्जितम् ।
उक्ते तु साक्षिणो राज्ञा न प्रष्टव्याः पुनः पुनः ॥ [क् ३९२]
साक्षिपरीक्षा
अथ साक्षिपरीक्षा ।
तत्र बृहस्पतिः ।
३९८ उपस्थिताः परीक्ष्याः स्युः स्वरवर्णेङ्गितादिभ्ः । [ब् ५४३अब्]
तत्र शाङ्खलिखितौ ।
३९९ तत्र मन्त्रिभिः शास्त्रसामर्थ्यात् दुष्टलक्षणं ग्राह्यम् । [श्ल् ?]
तद् आह ।
तिर्यक् प्रेक्षते समन्ताद् अवलोकते अकस्मान् मूत्रपुरीषं विसृजति देशाद् देशान्तरं गच्छति पाणिना पाणिं पीडयति नखं निकृन्तति मुखम् अस्य विवर्णताम् एति प्रस्विद्यति वास्य ललाटं न चक्षुर् न वाचं प्रतिपूजयति अकस्माद् गदति प्रशंसति पुनः पुनर् अन्यम् अपनुदति बहिर् निरीक्षते शस्त्रं परामृशति लोकम् उपवर्णयति भूमिं विलिखति शिरः कम्पयते ओष्ठौ निर्भजति सृक्कणी परिलेढि अविस्मितः कर्मसु महत्स्व् अपि भ्रुवौ संहरति हसति तूष्णीं ध्यायति पूर्वोत्तरविरुद्धं व्याहरति एवमादि दुष्टलक्षणं क्रुद्धस्य स्वामिनो ऽन्यत्र प्रकृतिशीलात् । [श्ल् ?]
विकृतस्वरादयः कूटत्वसंभावनायां हेतव इति भावः ।
कूटसाक्षिदण्डः
अथ कूटसाक्षिदण्डः ।
तत्र मनुः ।
४०१ लोभात् सहस्रं दण्डः स्यात् मोहात् पूर्वं तु साहसम् ।
भयाद् द्वौ मध्यमौ दण्डौ मैत्रात् पूर्वं चतुर्गुणम् ॥ [म् ८।१२०]
४०२ कामाद् दशगुणं पूर्वं क्रोधाच् च त्रिगुणं परम् ।
अज्ञानाद् द्वे शते पूर्णे बालिश्याच् छतम् एव च ॥ [म् ८।१२१]
४०३ एतान् आहुः कूटसाक्ष्ये प्रोक्तान् दण्डान् मनीषिभिः ।
धर्मस्याव्यभिचारार्थम् अधर्मनियमाय च ॥ [म् ८।१२२]
४०४ कूटसाक्ष्यं तु कुर्वाणांस् त्रीन् वर्णान् धार्मिको नृपः ।
प्रवासयेद् दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥ [म् ८।१२५]फ़्
सहस्रं पणानाम् इति शेषः । मोहात् प्रमादात् । पूर्वसाहसं सार्धपणशतद्वयम् । द्वौ मध्यमौ साहसाव् इत्य् अर्थः । तेन पणसहस्रं । पूर्वं चतुर्गुणम् । तेन पणसहस्रम् ।
कामात् स्वनिगादकरादिस् त्र्यनुरागादितः । दशगुणं पूर्वं तेन पञ्चविंशतिशती । त्रिगुणं परं पूर्वापेक्षया मध्यसाहसम् एव पञ्चशतपणरूपं तद् एव त्रिगुण्म् इह ग्राह्यं तेन सार्धसहस्रम् इत्य् अर्थः । अज्ञानात् तात्कालिकभ्रमात् ।
बालिश्यम् अत्र यौवनोन्मेषप्राप्तो मदः ।
ब्राह्मणं त्व् इति – तुशब्देन ब्राह्मणस्य दण्डो व्यवच्छिद्यते । तेन तस्य देशाद् बहिःकरणमात्रं दण्ड इत्य् अर्थः ।
याज्ञवल्क्यः ।
४०५ पृथक् पृथक् दण्डनीयाः कूटसाक्ष्य् अकृतस् तथा ।
विवादाद् द्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः ॥ [य् २।८१]
एतत् तु लोभादिबहुकारणानिश्चये ।
तथा ।
४०६ यः साक्ष्यं श्रावितो ऽन्येभ्यो निह्नुते तु तमोवृतः ।
स दाप्यो ऽष्टगुणं दण्डं ब्राह्मणं तु विवासयेत् ॥ [य् २।८२]
श्रावितः श्रावितवान् । निह्नुते निगदकाले ऽपलपति ।
विष्णुः ।
४०७ कूटसाक्षिणां सर्वस्वापहारः । [वि ५।१७९]
एतच् च तच्छीलविषयम् ।
नारदः ।
४०८ यस्य दृश्येत सप्ताहाद् उक्तसाक्ष्यस्य साक्षिणः ।
रोगो ऽग्निर् ज्ञातिमरणं ऋणं दाप्यो दमं च सः ॥ [न्क़् ५।११]
रोगास् तु –
४०९ ज्वरातीसारविस्फोटगूढास्थिपरिपीडनम् ।
नेत्ररुग् गलरोगश् च तथोन्मादः प्रजायते ॥
शिरोरुग् भुजबङ्गश् च दैविका व्याधयो नृणाम् ॥ [क् ४५८]
इत्य् एतेर् ग्राह्याः । अत्र रोगादिकं घोरं ग्राह्यम् । एत्च् च वक्ष्यते ।
बृहस्पतिः ।
४१० आहूतो यस् तु नागच्छेत् साक्षी रोगविवर्जितः ।
ऋणं दण्डं च दाप्यः स्यात् त्रिपक्षात् परतस् तु सः ॥ [ब् ५।४५]
४११ अपृष्टाः सत्यवचने पृष्टाश् चावचने तथा ।
साक्षिणः संनिरोद्धव्या गर्ह्या दण्ड्याश् च धर्मतः ॥ [ब् ५।४७]
रोगपदम् अलङ्घ्यप्रतिबन्धकपरम् । ऋणपदं विवादवस्तुमात्रपरम् ।
कात्यायनः ।
४१२ सम्यक्क्रियापरिज्ञाने देयः कालस् तु साक्षिणाम् ।
संदिग्धं यत्र साक्ष्यं स्यात् सद्यः स्पष्टं विवादयेत् ॥ [क् ३४१]
निगाद्याद्यास्मरणे तत्स्मरणार्थं कालो देयः । स्मरणे तु सद्य एव साक्षिणो निगाद्या इत्य् अर्थः ।
कात्यायनः ।
४१३ अवीचिनरके कल्पं वसेयुः कूटसाक्षिणः । [क्?]
गौतमः ।
४१४, ४१५ अवचने दोषिणः । स्वर्गिणः सत्यवचने विपरीते नारकाः । [ग् १३।७–८]
विपरीते अनृतवचने ।
सत्यापवादः
अथ सत्यापवादः ।
तत्र मनुः ।
४१६ शूद्रविट्क्षत्रविप्राणां यत्रर्तोक्तौ भवेद् वचः ।
तत्र वक्तव्यम् अनृतं तत् सत्याद् अतिरिच्यते ॥ [म् ८।१०४]
ऋतोक्तौ सत्याभिधाने ।
गौतमः ।
४१७, ४१८ नानृतवचने दोषो ऽस्ति जीवनं चेत् तदधीनम् । न तु पापीससो जीवनम् ।
[ग् १३।२४–२५]
पापीयसः चौरादेः ।
याज्ञवल्क्यः ।
४१९ वर्णिनां हि वधो यत्र तत्र साक्ष्यम् अनृतं वदेत् ।
तत्पावनाय निर्वाप्यश् चरुः सारस्वतो द्विजैः ॥ [य् २।८३]
मनुः ।
४२० वाग्दैवतैश् च चरुभिर् यजेरंस् ते सरस्वतीम् ।
अनृतस्यैनसस् तस्य कुर्वाणा निष्कृतिं पराम् ॥ [म् ८।१०५]
४२१ कूष्माण्डैर् वापि जुहुयाद् घृतम् अग्नौ यथाविधि ।
उद् इत्य् ऋचा च वारुण्या त्र्यृचेनाब्दैवतेन वा ॥ [म् ८।१०६]
चरुर् अनवस्रावितो ऽनतरूष्मपक्वतण्डुलः । अब्दैवतेन आपो हि ष्ठेत्यादिना ।
विष्णुः ।
४२२, ४२३ तत्पापशोधनाय कुष्माण्डीर् जुहुयात् । शूद्रस् त्व् एकाह्निकं गोदशकस्य ग्रासं
दद्यात् । [वि ८।१६–१७]
तत्पापं तादृगनृताभिधानजनितपापम् । जुहुयात् द्विजातिर् इति शेषः । आह्निकं दिवसाहाररूपम् ।
साक्षिनिगदः
अथ साक्षिनिगदः ।
तत्र व्यासः ।
४२४ कालाकृतिवयोद्रव्यदेशजातिप्रमाणतः ।
अन्यूनं चेन् निगादितं सिद्धं साध्यं विनिर्दिशेत् ॥ [व्य् १।१०९]
यावद् उपयुक्तं वादिनोक्तं तावत् तत्साक्षिणा निगदे वादिनो जय इत्य् अर्थः ।
बृहस्पतिः ।
४२५ यस्याशेषं प्रतिज्ञातं साक्षिभिः प्रतिपादितम् ।
स जयी स्याद् अन्यथा तु साध्यार्थं न समाप्नुयात् ॥ [ब् ५।४४]
अन्यथाशेषप्रतिज्ञातप्रतिपादनाभावे । अयं च द्वेधा संभवति – अनभिधाने अनपेक्षिताभिधाने वा । अन्त्यो ऽपि चतुर्धा – न्यूनाभिधाने अधिकाभिधाने अज्ञानाभिधाने विरुद्धपक्षाभिधाने च ।
अत्र सर्वत्र प्रकृतसाध्यासिद्धिः । किं तु प्रथमतुर्ययोः प्रमाणान्तरम् अनुसरणीयं न तु तावतैव तद्भङ्गनिर्णयः विचारारम्भकसंशयस्यानिवृत्तेः । न च न जानामीति निगदे पराजय एव वादिन इति प्रदीपलिखनविरोध इति वाच्यम् । प्रदीपकृता ह्य् अनिगदे संशयतादवस्थ्येन प्रमाणान्तरानुसरणम् ब्रुवता अज्ञानाभावनिगदे ऽपि तस्योक्तप्रायत्वात् । कथं तर्ह्य् अज्ञाननिगदे भङ्गलिखनं साक्षिज्ञानव्याप्तार्थविशेषाभिप्रायेणेति ।
द्वितीयतृतीययोस् तु मानान्तरानुसरणम् इत्य् अत्र न्यूनम् अभ्यधिकं वेत्यादिवचनम् एव दर्शयिष्यते ।
तस्मात् पञ्चमे परं भङ्गः । तत्रैव विष्णुः ।
४२६ यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् ।
अन्यथावादिनो यस्य ध्रुवस् तस्य पराजयः ॥ [वि ८।३८]
अन्यथावादिन इति – प्रतिज्ञातार्थस्यासत्यत्ववादिन इत्य् अर्थः । पूर्वार्धे प्रतिज्ञातार्थसत्यत्वस्यैवोपस्थिततया अन्यथापदेन तदसत्यत्वस्यैवाभिधानात् तथैव व्युत्पत्तेः । वादिन इत्य् अस्य विभागे अर्थपौनरुक्तत्वात् । अन्यथेति मात्रस्य साकाङ्क्षतया भवन्तीत्य् अध्याहारगौरवात् । अध्याहारलक्षणवाक्यभेदापत्तेश् चेति ।
अनिगदः
अथानिगदाः ।
तत्र नारदः ।
४२७ निर्दिष्टेष्व् अर्थजातेषु साक्षी चेत् साक्ष्यम् आगतः ।
न ब्रूयाद् अक्षरसमं न तन् निगदितं भवेत् ॥ [न् १।२३२]
त्वं मह्यं हेम्नां शतस्य धारय एष च तद् वेदेत्य् उद्दिष्टः साक्षी यत्र द्रव्यं निगदति संख्यायां तु मुह्यते तत्र द्रव्यांशं तन्निगदनिरस्तसंशयम् अपहायानिर्णीते संख्यांशे मानान्तरम् अनुसरणीयम् इत्य् एके । द्रव्यांशे ऽपि क्रियान्तरम् इति संप्रदायः ।
तथा ।
४२८ न्यूनम् अभ्यधिकं वाप् प्रब्रूयुर् यस्य साक्षिणः ।
तद् अप्य् अनुक्तं विज्ञेयम् एष साक्षिविधिः स्मृतः ॥ [न् १।२३४]
अयम् अर्थः – वादिना शतम् आक्षिप्ते न तावद् अधिकाभिधानं साक्षिणः प्रमाणावगतसार्धशतग्रहणमूलकम् इति वक्तुं शक्यते । आदराभ्यासातिशयो हि स्मृतिमूलसंस्काराधायकः स चार्थिन एव युज्यते न तु साक्षिणः । तेनार्थी न स्मरति साक्षी च स्मरत्य् अधिकम् इति नोपपन्नम् । नाप्य् अर्थिकृतप्रतिज्ञासत्यत्वप्रतिपादनार्थम्, अर्थिनाप्य् अधिकग्रहणस्याप्रतिज्ञातत्वात् । नापि विषयान्तरम्, देशकालादेः प्रतिज्ञानात् । तेनान्यथानुपपत्त्या तावद् अवगम्यते यद् अयं ग्रहणस्वरूपं जानात्य् एव द्रव्यसंख्यादौ भ्रान्त इति मूलभूतवादिवाक्यविरोधाद् अवसीयते । न च भ्रान्तिमूलम् अभिधानम् अन्यतरप्रतिज्ञासत्यत्वे प्रमाणम् ।
ननु भवत्व् एवम् अधिकाभिधाने न्यूनाभिधाने तु कथम्? उत्तरवाद्युक्तशताग्रहणस्य साक्ष्यभिहितपञ्चाशद्ग्रहणे ऽपि सत्यत्वात् कथं न तस्य विजयः?
उच्यते – नात्रोत्तरवादिनः शतसंख्यारूपे तात्पर्यम् । तथा सति विशेषनिषेधप्रतिज्ञायाः शेषाभ्यनुज्ञाफलकत्वाद् इति न्यायेनोनशतसंख्यावच्छिन्नग्रहणस्वीकारप्रसङ्गात् । किं तु शतं मया न गृहीतम् इत्य् अस्यायम् अर्थो यत् तस्मिन् देशादौ न मयास्य किम् अपि गृहीतम् इति । पञ्चाशद्ग्रहणाभिधाने ऽपि नान्यतरप्रतिज्ञासत्यत्वम् इति साधूक्तं तद् अप्य् अनुक्तम् इति । सर्वत्र चात्र संशयप्रशमनार्थं दिव्यादिना क्रियान्तरेण निर्णयः, उक्तस्यापि संदेहानपाकरेणेन फलतो ऽनुक्तत्वात् । अतो नैतावता जयपराजयावधारणं किं तु क्रियान्तरम् इति वाक्यार्थः । अतो नैतावता जयपराजयावधारणं किं तु क्रियान्तरम् इति वाक्यार्थः । तद् उक्तम् – न तन् निगदितं भवेद् इति भवदेवस्मृतिसारादयः ।
न्यायस् तु – इयांस् तु विशेषः – साक्षिणा सर्वथा संख्यानभिधाने अधिकाभिधाने च सकलप्रतिज्ञायाम् एव क्रियान्तरम्, संख्यायां भ्रान्तस्य तस्य द्रव्ये ऽपि भ्रमसंभवात् तन्निगदस्यैवानुपादानात् । न्यूनाभिधाने च पञ्चाशद्ग्रहणस्य भ्रान्त्यादिमूलत्वे शङ्काभीजाभावात् तदतिरिक्तानभिधाने तु प्रस्मरणस्यापि शङ्कितत्वात् । धर्मव्यवहारे छलादेर् निरसनीयत्वात् पञ्चाशद्ग्रहणानिगद आदीयते विरोधाद्यभावाद् इति संवादाय परीक्ष्यते । न चात्राप्य् अनुक्तत्वादिदेशान् मानान्तरानुसरणम् । परीक्षयावध्युत्तीर्णे ऽस्मिन् न मानान्तरं वैयर्थ्यात् साक्ष्यभिहितपञ्चाशत्पुराणातिरिक्ते निर्णयान्तरम् इति विवेचनीयम् ।
यत् तु नारदेनैकदेशविभावने ऽपि सर्वस्य विवादविषयस्य देयत्वम् उक्तं तद् यथा –
४२९ अनेकार्थाभियुक्तेन सर्वार्थस्यापलापिना ।
विभावितैकदेशेन देयं तद् अपि युज्यते ॥ इति । [न्?]
तद् अनेकवचनविरोधेन यत्रैकग्रहणम् अन्यग्रहणाव्यभिचारि तद्विषयं व्याख्येयम् । तद् यथा – सुवर्णाद्यनेकवस्तुसहितं पात्रं चौरेण गृहीतं तत्रैकदेशस्यापि सुवर्णाद्यन्यतमस्य विभावने सर्वम् एव देयम् । तथा च एकदेशपदं व्याप्यभूतैकदेशपरम्, एतद्वचनस्य न्यायमूलकत्वात् । राजदण्डविषयं वा । तद् उक्तं याज्ञवल्क्येन ।
४३० सपणश् चेद् विवादः स्यात् तत्र हीनं प्रदापयेत् ।
दण्डं च स्वपणं चैव धनिने धनम् एव च ॥ [य् २।१८]
एकदेशविभावनयापि मया सर्वं देयम् इत्यादिर् यत्र पण इत्य् अर्थः । अत्र स्वग्रहणात् परकृतः पणः परेण न देय इत्य् द्रष्टव्यम् ।
साक्षिणा न्यूनस्याधिकस्य वाभिधाने द्रव्ये ऽपि क्रियान्तरम् इति मिताक्षरा ।
साक्षी च यदा प्रतिज्ञातार्थं पृष्टस् तं न ब्रूते किं तु तद्व्याप्यं तत्रापि तन्निगदकस्य वादिनोर् जय एव, तदभिधानोपस्थापितानुमानेन वादिप्रतिज्ञातार्थस्य प्रमितत्वात् ।
न च साक्षिणा तदनभिधानात् न तथेति वाच्यम् ।
४३१ यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् । इति । [वि ८।३८अब्]
स्मृतेर् न्यायमूलकतया साक्षिपदस्योपलक्षणत्वे केनापि प्रमाणेन यत्प्रतिज्ञातो ऽर्थः प्रमितः स जयीत्य् एवंरूपत्वात् ।
४३२ साध्यार्थांशे ऽपि गदिते साक्षिभिः सकलं भवेत् ।
स्त्रीसङ्गे साहसे चौर्ये यत् साध्यं परिकीर्तितम् ॥ [क् ३९७]
इति कात्यायनवचनाद् एकदेशप्रमापणे सर्वदेयता चौर्यादाव् इति मिताक्षरा ।
श्रुतसाक्षी तु पृष्टो यत्राहम् इमम् अर्थम् अश्रौषम् इत्य् आह तत्र नार्थसिद्धिह्, शब्दार्थयोर् व्याप्त्यभावात् । किं तु प्रत्यक्षाद् इव शब्दाद् अप्य् अर्थं यत्रावधारयति तत्राप्रामाण्यशङ्काकलङ्कानालिङ्गितशब्देन प्रमितार्थो ऽरथम् एव यत्र निगदति तत्रैवार्थसिद्धिः । तत्कलङ्के तु न स साक्षी न वा तन्निगद आदेय इति ।
पृष्टानां तु साक्षिणां वचनद्वैधे मनुः ।
४३३ बहुत्वं परिगृह्णीयात् साक्षिद्वैधे नराधिपः ।
समेषु च गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान् ॥ [म् ८।७३]
द्वैधे साक्ष्यन्तरोक्तव्यतिरेकाभिधायित्वम् । एवं च न जानामीत्य् अभिधाने ऽपि न द्वैधम्, तस्य ज्ञानाभावपरत्वेन ज्ञेयाभावास्पर्शात् । समेष्व् इति – संख्यासाम्ये गुणाधिकाः तत्साम्ये जात्यधिका ग्राह्या इत्य् अर्थः । सर्वथासाम्ये तु मानान्तरानुसरणम् इति भावः ।
नारदः ।
४३४ साक्षिविप्रतिपत्तौ च प्रमाणं बहवो मताः ।
तत्साम्ये शुचयो ग्राह्यास् तत्साम्ये स्मृतिमत्तराः ॥ [न् १।२२९]
विप्रतिपत्तिः द्वयोः परस्परविरुद्धाभावाभावनिगदः ।
याज्ञवल्क्यः ।
४३५ उक्ते ऽपि साक्षिभिः साक्ष्ये यद्य् अन्ये गुणवत्तराः ।
द्विगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्वसाक्षिणः ॥ [य् २।८०]
कात्यायनो ऽपि ।
४३६ यदा वै भाषितं कार्यं साक्षिभिर् वादिनां भवेत् ।
प्रतिवादी यदा तत्र भवयेत् कार्यम् अन्यथा ।
बहुभिर् वा कुलीनैर् वा कूटाः स्युः पूर्वसाक्षिणः ॥ [क् ४०८]
कूटा अनादेयनिगदाः ।
ननु –
४३७ क्रियां बलवतीं त्यक्त्वा दुर्बलां यः समाश्रयेत् ।
स जये ऽवधृते सभ्यैः पुनस् तां नाप्नुयात् क्रियाम् ॥ [क् २२१]
इति कात्यायनविरोधात् कथं द्विगुणसाक्ष्यादिग्रहणं घटतेति चेत् । स जये ऽवधृत इति विशेषणाद् एतद्वाक्यस्य जयावधारणोत्तरविषयत्वात् । याज्ञवल्क्यादिवचनस्य च सामान्यमुखस्य जयानवधारणदशाविषयकत्वात् । त्यक्त्वेति अनुपन्यस्येत्य् अर्थः । तेनानुपन्यस्तम् अपि बलवत्प्रमाणं दुर्बलप्रमाणप्रवृत्त्युत्तरम् अप्य् उपन्यस्तं संशयदशायां व्यापार्यम् एव । अत एव सप्तदिनाभ्यन्तरे बलवत्प्रमाणान्तरस्य ग्रहणं तदुपरि च तद्ग्रहणम् इति रत्नाकरकृता सिद्धवल् लिखितम् ।
नारदः ।
४३८ निर्णिक्तव्यवहाराणां प्रमाणम् अफलं भवेत् ।
लिखितं साक्षिणो वापि पूर्वम् आवेदितं न चेत् ॥ [न्मा १।६२]
पूर्वम् इति – पूर्वम् उपन्यस्तं बलवत्प्रमाणं यत् साक्ष्यादिकं वादिना दूरत्वादिदोषात् व्यापारयितुम् अशकितं विचारकेणाशक्यत्वभ्रमेणापुरस्कृत्य यत्र दुर्बलं प्रमाणम् आदृतं तत्र सप्ताहोत्तरम् अपि बलवत्प्रमाणोपस्थितौ तत् पुनर् व्यापार्यम् इत्य् अर्थः । इदं च पुनर्दर्शनं विचारस्य शक्यव्यापारणे बलवति प्रमाणे अशक्यव्यापारणत्वभ्रमेण तद्दोषजम् । तद् उक्तम् –
४३९ साक्षिसभ्यावसन्नानां दूषणे दर्शणं पुनः । इति । [न्मा २।४०अब्]
प्रदीपादयो ऽप्य् एवम् एव ।
लिखितम्
अथ लिखितम् ।
तत्र बृहस्पतिः ।
४४० षाण्मासिके ऽपि समये भ्रान्तिः संजायते यतः ।
धात्राक्षराणि सृष्टानि पत्त्रारूढान्य् अतः पुरा ॥ [ब् ६।२]
नारदः ।
४४१ लेख्यं तु द्विविधं प्रोक्तं स्वहस्तान्याक्षरं तथा ।
असाक्षिकं साक्षिमच् च सिद्धिर् देशस्थितेस् तयोः ॥ [न् १।१३५]
स्वलिखितं साक्षिणम् अनपेक्ष्यैव प्रमाणम् अन्यलिखितं तु तम् अपेक्ष्येत्य् अर्थः ।
तच् च ऋणक्रयभागदानव्यवस्थाजयपत्त्रभेदात् षोढा । दानपत्त्रम् अपि द्वेधा अराजराजभेदात् । इदं च षड्विधम् अपि सदसद्भेदात् प्रत्येकं द्वेधा ।\
याज्ञवल्क्यः ।
४४२ विनापि साक्षिभिर् लेख्यं स्वहस्तलिखितं तु यत् ।
तत् प्रमाणं स्मृतं सर्वं बलोपाधिकृताद् ऋते ॥ [य् २।८९]
स्वहस्तेनेति – तल्लेख्यप्रामाण्येन यो ऽभियोज्यस् तल्लिखितम् इत्य् अर्थः । बलेत्य् अप्रामाण्यप्रयोजकार्तिरागद्वेषभयशैशवादिसर्वदोषोपलक्षणम् ।
द्वितीये नारदः ।
४४३ साक्षिणश् च स्वहस्तेन पितृनामादिपूर्वकम् ।
अत्राहम् अमुकः साक्षी लिखेयुर् इति ते समाः ॥ [य् २।८७]
शासने तु याज्ञवल्क्यः ।
४४४ दत्त्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत् ।
तत्र चागामिनृपतिपरिज्ञानाय पार्थिवः ॥ [य् १।३१८]
४४५ पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् ॥ [य् १।३१९अब्]
निबन्ध आकारादौ नियतग्राह्यम् ।
जयपत्रं तूक्तं प्राक् ।
लेख्यस्य चाप्रामाण्यशङ्कायां लेख्यग्रहीत्रा तन् निरसनीयम् । तत्पुत्रेण तु लेख्यादीनो भोग एवोपन्यस्यो न तु लेख्यम् उद्धरणीयम् । तद् आह कात्यायनः ।
४४६ आहर्ता भुक्तियुक्तो ऽपि लेख्यदोषान् विशोधयेत् ।
तत्सुतो भुक्तिदोषांस् तु लेख्यदोषांस् तु नाप्नुयात् ॥ [क् ३२३]
बृहस्पतिः ।
४४७ उद्धरेल् लेख्यम् आहर्ता तत्पुत्रो भुक्तिम् एव तु ।
अभियुक्तः प्रमीतश् चेत् तत्सुतो ऽपि तद् उद्धरेत् ॥ [ब् ६।३९]
अभियुक्त इति – लेख्यसाधुत्वज्ञानार्थम् अभियुक्ते लेख्यग्रहीतरि तद् अविज्ञाप्यैव प्रमीते तत्पुत्रेण तत्साधुत्वं साध्यम् इत्य् अर्थः ।
कात्यायनः ।
४४८ दृष्टे पत्त्रे स्फुटं दोषं नोक्तवान् ऋणिको यदि ।
ततो विंशतिवर्षाणि क्रान्तं पत्त्रं स्थिरं भवेत् ॥ [क् २९८]
४४९ शक्तस्य संनिधाव् अर्थो यस्य लेख्येन भुज्यते ।
वर्षाणि विंशतिं यावत् तत् पत्त्रं दोषवर्जितम् ॥ [क् २९९]
लेख्यदौर्बल्यम्
अथ लेख्यदौर्बल्यम् ।
तत्र व्यासः ।
४५० अदृष्टाश्रावितं लेख्यं प्रमीतधनिकर्णिकम् ।
अबन्धलग्नकं चैव बहुकालं न सिध्यति ॥ [व्य् १।६९]
अदर्शितत्वादिसप्तदोषाश्रये लेख्यं न प्रमाणम् इत्य् अर्थः ।
अस्यापवादम् आह बृहस्पतिः ।
४५१ उन्मत्तजडबालानां राजभीतप्रवासिनाम् ।
अप्रगल्भभयार्तानां न लेख्यं हानिम् आप्नुयात् ॥ [ब् ६।५२]
उन्मत्तादीनां लेख्यम् अदर्शितत्वादिना न हानिम् आप्नोतीत्य् अर्थः ।
भुक्तिः
अथ भुक्तिः ।
तत्र व्यासः ।
४५२ सागमो दीर्घकालश् च निश्छिद्रो ऽन्यरवोज्झितः ।
प्रत्यर्थिसंनिधानश् च पञ्चाङ्गो भोग इष्यते ॥ [व्य् १।८४]
प्रमाणम् इति शेषः । आगच्छति स्वीभवत्य् अनेनेत्य् आगमः क्रयादिः तद्वान् । दीर्घकालः स्मृत्युक्तकालान्यूनकालः । निश्छिद्रो निरन्तरः । अन्यरवोज्झितः परविप्रतिपत्तिप्रकाशशून्यः । प्रत्यर्थिनो वाद्यन्यतरस्य संनिधानं यत्र तादृशः ।
ननु सागमत्वं व्यर्थम्, तद्रहितभोगस्यापि प्रामाण्यात् । तद् आह नारदः ।
४५३ अन्यायेन तु यद् भुक्तं पित्रा पूर्वतरैस् त्रिभिः ।
न तच्छक्यम् अपाकर्तुं क्रमात् त्रिपुरुषागतम् ॥ [न् १।९१]
४५४ यद् विनाप्य् आगमं पूर्वं भुक्तं पूर्वैस् त्रिभिर् भवेत् ।
न तच् छक्यम् अपाकर्तुं क्रमात् त्रिपुरुषागतम् ॥ [न् १।९३]
व्यासः ।
४५५ यद् विनागमम् अत्यन्तं भुक्तं पूर्वतरैस् त्रिभिः ।
न तच् छक्यम् अपाकर्तुं क्रमात् त्रिपुरुषागतम् ॥ [व्य् १।८५]
त्रिपुरुषभोगम् आह व्यासः ।
४५६ प्र्पितामहेन यद् भुक्तं तत्पुत्रेण च तं विना ।
तौ विना यस्य पित्रा च तस्य भोगस् त्रिपूरुषः ॥ [व्य् १।८३]
पुरुषजीवनानियमात् पुरुषभोगं परिभाषते स एव ।
४५७ वर्षाणि विंशतिं भुक्त्वा स्वामिनाव्याहता सती ।
भुक्तिः सा पौरुषी भूमैर् द्विगुणा च द्विपुरुषी ।
त्रिपुरुषी च त्रिगुणा न तत्रापेक्ष्य आगमः ॥ [व्य् १।८१]
एवं च त्रिपुरुषभोग आगमनिरपेक्ष एव प्रमाणम् इति न, वचनान्तरविरोधात् । तद् आह विष्णुः ।
४५८ सागमेन तु भोगेन भुक्तं सम्यग् यदा भवेत् ।
आहर्ता लभते तत्र नापहार्यस् तु तत् क्वचित् ॥ [वि ५।१८५]
आहर्ता भोक्ता । अपहार्यस् तद्धनस्वामी ।
४५९ पित्रा भुक्तं तु यद् द्रव्यं भुक्त्वाचारेण धर्मतः ।
तस्मिन् प्रेते न वाच्यो ऽसौ भुक्त्वा प्राप्तं हि तस्य तत् ॥ [वि ५।१८६]
४६० त्रिभिर् एव तु या भुक्ता पुरुषैर् भूर् यथाविधि ।
लेख्याभावे ऽपि तां तत्र चतुर्थः समवाप्नुयात् ॥ [वि ५।१८७]
भुक्त्वाचारेण निश्छिद्रत्वादिना । यथाविधि शक्तस्य संनिहितस्य विरोधादिकं विनेत्य् अर्थः ।
याज्ञवल्क्यः ।
४६१ आगमेन विशुद्धेन भोगो याति प्रमाणताम् ।
अविशुद्धागमो भोगः प्रामाण्यं नैव गच्छति ॥ [य्?]
नारदो ऽपि ।
४६२ अनागमं तु यो भुङ्क्ते बहून्य् अब्दशतानि तु ।
चौरदण्डेन तं पापं दण्डयेद् अवनीपतिः ॥ [न् १।८७]
हन्तैवं विरोधात् संशय एवास्त्व् इति । न, विषयभेदात् । तथा हि पूर्वेषां वचनानाम् आगमसंदेहम् उत्तरेषां तु तद्भावनिश्चयम् आलम्ब्य प्रवृत्तेः । तथा च त्रिपुरुषभोगस्थले आगमसंशये ऽपि भोगः प्रमाणम् अन्यत्र त्व् आगमनिश्चयसहित एवेति सिद्धम् ।
याज्ञवल्क्यः ।
४६३ पश्यतो ऽब्रुवतो हानिर् भूमेर् विंशतिवार्षिकी ।
परेण भुज्यमानाया धनस्य दशवार्षिकी ॥ [य् २।२४]
धनस्य गवादेः ।
बृहस्पतिः ।
४६४ अध्यासनात् समारभ्य भुक्तिर् यस्याविघातिनी ।
त्रिंशद्वर्षाण्य् अवच्छिन्ना तस्य तां न विचालयेत् ॥ [ब् ७।२८]
अध्यासनं क्रयादिर् आगमः ।
नन्व् अनयोर् एव वचनयोः परस्परविरोधः त्रिंशद्वर्षभुक्तेः प्रामाण्योक्त्या विंशतिवर्षभुक्तेर् अर्थतः प्रामाण्यनिरासाद् इति ।
न, पश्यतो ऽब्रुवत इत्य् अभिधानाद् यत्र विरुद्धं वाङ्मात्रम् अपि नास्ति तत्र विंशतिवर्षभोग एव प्रमाणम्, त्रिंशद्वचने चाविघातिनीति श्रुतेर् विघातपदार्थस्य कलहताडनादेर् एव निषेधात् वाङ्मात्रविप्रतिपत्तौ सत्याम् अपि त्रिंशद्वर्षभोगो भूस्वत्वे प्रमाणम् इत्य् अविरोधात् । एवं चाभ्यां वचनाभ्यां गवादौ नीरवो दशवार्षिको भोगस् तथा भूमौ तादृश एव विंशतिवार्षिकस् तथा भूमाव् एव सरवो ऽपि कलहादिशून्यः त्रिंशद्वार्षिकभोगः प्रमाणम् ।
तत् कथं त्रिपुरुष एवासौ प्रमाणम् उच्यत इति तत्र रत्नाकरः – न ह्य् उक्तवचनं भोक्तुः स्वत्वे प्रमाणं किं त्व् अन्यत्र । तथा हि पश्यतो ऽब्रुवत इत्यादेस् तादृशस्य भोक्तुः पार्श्वे गोभूम्यादिस्वामिना तद्भोगसंबन्धेन धनं न लभ्यत इत्य् अर्थः ।
४६५ भुज्यमानान् परैर् अर्थान यस् तान् मोहाद् उपेक्षते ।
समक्षं पश्यतो ऽप्य् अस्य तान् भुक्तिः कुरुते वशः ॥ [न् १।७८]
इति नारदवचनस्याप्य् असाव् एवार्थः ।
प्रदीपस् तु – आधेर् अनुपभोगेन यत्रासिद्धिस् तद्विषयं पश्यतो ऽब्रुवत इत्यादिवचनम् । तेन यत्राधिग्रहीत्रा आधेयं भूम्यादि न भुज्यते किं त्व् आधिकर्त्रैव चिरं भुक्त्वा अन्यत्राधीयते तत्रोत्तरस्याधिग्रहीतुस् तत्र भूम्यादौ प्रभुत्वं न तु प्रथमस्य । तथा च यद्य् अपि
४६६ आधौ प्रतिग्रहे क्रीते पूर्वैव बलवत्तरे । [य् २।२३च्द्]
इत्यादिकम् अपि वचनम् अस्ति, तथापि तदपवादकं पश्यतो ऽब्रुवत इत्यादिवचनम् । तथा चापवादकबलात् द्वितीयस्यैवाधिः विध्यति । प्रपञ्चो ऽप्य् एवम् ।
यद् वा हानिपदम् एवम् उपेक्षितुः पक्षे विचारकस्य न्यूनकोटिकः संशयो भवतीत्य् एवंपरम् । न तु हानिर् भङ्ग एव । तथा सति दण्डम् अन्तरेण पुनर्दर्शनं हीनस्य गृह्यते वाद इत्यादिवचनसिद्धं न घटते । तस्मात् तादृशहानिम् अतो ऽप्य् अस्य पुनर्विचनरेणैव निर्णयः कार्यः । अत एव –
४६७ उपेक्षिता यथा धेनुर् विना पालेन नश्यति ।
पश्यतो ऽन्यैस् तथा भुक्ता भूमिः कालेन हीयते ॥ [व्य् १।७६]
४६८ वर्षाणि विंशतिं यस्य भूमिर् भुक्ता परैर् इह ।
सति राज्ञि समर्थस्य तस्य सेह न सिध्यति ॥ [व्य् १।७७]
इति व्यासवचनयोः पश्यन्तम् अनादृत्य या यस्य भूः परैर् भुज्यते सा तस्य हीयते तदीयत्वेन न निश्चीयत इति रत्नाकरे ऽपि व्याख्यातम् । किं च यदि विंशतिवारिषिकी भुक्तिः स्वत एव स्वत्वे प्रमाणं तदा तत एव साध्यसिद्धौ –
४६९ शक्तस्य संनिधाव् अर्थो यस्य लेख्येन भुज्यते ।
वर्षाणि विंशतिं यावत् तत्पत्त्रं दोषवर्जितम् ॥ [क् २९९]
इति कात्यायनवचनेन यद्भोगस्य लेख्यदोषनिराकरणार्थत्वम् उक्तं तद् व्याहन्येत ।
वस्तुतस् तु हानिबोधकस्मृतीनां प्रमाणपरिपालनकर्तव्यताविधिशेषत्वम् । तस्मात् स्वप्रमाणं सर्वथा परिपालनीयं न तु तत्रोदासितव्यम् इत्य् अत्र तात्पर्यम् । अत एव कल्पतरौ हानिवचनानि लिखित्वा प्रमाणपरिपालनम् उपसंहृतम् ।
याज्ञवल्क्यः ।
४७० आगमो ऽपि बलं नैव भुक्तिस्तोकापि यत्र नो ॥ [य् २।२७च्द्]
आगमे विद्यमाने ऽपि भोगविरहात् तावत् कालं स्वत्वानुवृत्तिधीर् न भवतीत्य् अर्थः । यत्र वादिनौ स्वस्वागमबलप्रवृत्तौ आगमयोश् च पूर्वापरभावो न निश्चीयते तत्र यस्य भुक्तिस् तस्यागमो बलीयान् न त्व् अन्यस्येत्य् अर्थ इति मिताक्षराकारः ।
नारदः ।
४७१ विद्यमाने ऽपि लिखिते जीवत्स्व् अपि हि साक्षिषु ।
विशेषतः स्थावराणां यन् न भुक्तं न तत् स्थिरम् ॥ [न् १।७७]
तथा ।
४७२ प्रत्यक्षपरिभोगात् तु स्वामिनो द्विदशाः समाः ।
आध्यादीन्य् अपि जीर्यन्ति स्त्रीनरेन्द्रधनाद् ऋते ॥ [न् १।८२]
द्विदशाः समाः विंशतिवर्षाणि । स्त्रीनरेन्द्रधनाद् ऋते स्त्रीधनराजधने विहाय ।
मनुः ।
४७३ यत् किंचिद् दशवर्षाणि संनिधौ प्रेक्षते धनी ।
भुज्यमानं परैस् तूष्णीं न स तल् लब्धुम् अर्हति ॥ [म् ८।१४७]
दशेति भूभिन्नधनपरम् ।
गौतमः ।
४७४ अजडापोगण्डधनं दशवर्षभुक्तं परैः संनिधौ भोक्तुः । [ग् १२।३४]
जडो मूर्खः । पोगण्डः षोडशवर्षाभ्यन्तरवयस्कः,
४७५ बाल आ षोदशाज् ज्ञेयः पोगण्डश् चेति कथ्यते । [न् १।३५च्द्]
इति वचनात् । एवं च प्रवीणस्य धनं संनिधाव् अन्येन भुक्तम् उत्सर्गतो भोक्तुर् इति ज्ञायत इति रत्नाकरादयः ।
मनुः ।
४७६ आधिश् चोपनिधिश् चोभौ न कालात्ययम् अर्हतः ।
अवहार्यौ भवेतां तौ दीर्घकालम् अवस्थितौ ॥ [म् ८।१४५]
आधिर् बन्धः । उपनिधिस् तु प्रीत्या भोगार्थं समर्पितं क्षेत्रादि न तु वासनस्थम् अनाख्यायेत्यादिस्मृतिलक्षितः, तस्य भोगानर्हत्वात् । न कालात्ययम् अर्हतः मोक्षणकाले आधात्रुपनिधातृभ्याम् अवश्यमोक्षणीयाव् इत्य् अर्थः । अत्र हेतुम् आह – अवहार्याव् इत्यादिना । तौ हि चिरकालावस्थितौ भोक्तुर् अवहार्यौ भवेतां भोक्ता च कदाचिद् अपहरेद् अपीत्य् अर्थः ।
बृहस्पतिः ।
४७७ ऋक्थिभिर् वा परैर् द्रव्यं समक्षं यस्य दीयते ।
अन्यस्य भुञ्जतः पश्चान् न स तल्लब्धुम् अर्हति ॥ [ब् ७।४०]
४७८ पश्यन्न् अन्यस्य ददतः क्षितिं यो न विचालयेत् ।
स्वामी सतापि लेख्येन पुनस् तां न समाप्नुयात् ॥ [ब् ७।४१]
तथा ।
४७९ भूमेर् अभुक्तिर् लेख्यस्य यथाकालम् अदर्शनम् ।
अस्मारणं साक्षिणां च स्वार्थहानिकराणि तु ॥ [ब् ७।६६]
४८० तस्माद् यत्नेन कर्तव्यं प्रमाणपरिपालनम् ।
तेन कार्याणि सिध्यन्ति स्थावराणि चराणि च ॥ [ब् ७।६७]
ऋक्थिभिर् इति – यस्य स्वामिनः समक्षम् एव ऋक्थिभिर् वा परैर् वा तदीयधनम् अन्यस्य कृते दीयते तस्मात् संप्रदानात् तच् च द्रव्यं भुञ्जानात् तद्द्रव्यस्वामी तद् द्रव्यं पुनर् नाप्नोति । तत्र स्वामिन उत्सर्गतः स्वत्वम् अपैतीत्य् अर्थः ।
कात्यायनः ।
४८१ भुक्तिर् बलवती शास्त्रे संतता या चिरन्तनी ।
विच्छिन्नापि हि सा ज्ञेया या तु पूर्वप्रसाधिता ॥ [क् ३२९]
४८२ आदानकालाद् आरभ्य भुक्तिर् या तु निरन्तरा ।
आदानं प्राप्य तस्यास् तु प्रायः साक्ष्यं प्रवर्तते ॥ [क्?]
४८३ स्मार्ते काले क्रिया भूमेः सागमा भुक्तिर् इष्यते ।
अस्मार्ते त्व् आगमाभावात् क्रमात् त्रिपुरुषागता ॥ [क् ३२१]
संतता अविच्छिन्ना । चिरन्तनी व्यासाद्युक्तकालव्यापिनी । विच्छिन्नापीति – या तु भुक्तिः पूर्वैः पितामहादिभिः कृता सा विच्छिन्नापि शेयेत्य् अर्थः ।
ज्ञेयं दर्शयति आदानेति – अस्याम् अल्पकालायाम् एव निरन्तरायां तथा पूर्वोक्तायां सान्तरायाम् उभयस्याम् अपि भुक्तौ स्वमूलभूत आगमे प्रत्याय्ये प्रायः साक्ष्यं प्रमाणत्वम् इत्य् अर्थः ।
स्मार्ते इति – स्मार्ते स्मरणयोग्ये । क्रिया प्रमाणम् । आगमः क्रयादिः । आगमाभावात् आगमप्रतिसंधानाभावात् । तेनायम् अर्थः – आगमस्मरणयोग्ये समये सागमा भुक्तिर् भूमौ प्रमाणम् इष्यते । आगमस्मरणायोग्ये तु अतिपातिनि समये आगमप्रतिसंधानविरहिता भुक्तिर् एव प्रमाणं न त्व् आगमाभावनिश्चये ऽपि, तत्र सर्वैः स्वत्वनिषेधाद् इति ।
अथ सागमभुक्तेः प्रमाणत्वे व्यर्थविशेषणता । न – इदम् इदानीं मम स्वम् इति हि तावत् साध्यम् । तत्र हि स्वत्वभागे आगमस्य तन्त्रता तस्य त्व् इदानीं पर्यन्तम् अनुवृत्तौ भोगस्येति विवेकः ।
याज्ञवल्क्यः ।
४८४ आगमस् तु कृतो येन सो ऽभियुक्तस् तम् उद्धरेत् ।
न तत्सुतस् तत्सुतो वा भिक्तिस् तत्र गरीयसी ॥ [य् २।२८]
आगमो धनोपार्जनोपायः क्रयादिः । तत्राभियुक्तस्तेयम् उद्धरेत् लिखितादिना प्रमापयेत् । तत्सुतस्य तु सागमा भुक्तिर् एव प्रमाणं न त्व् आगमपरिशोधनम् अपि तेन कर्तव्यम् इत्य् अर्थह् ।
बृहस्पतिः ।
४८५ आहर्ता शोधयेद् भुक्तिम् आगमं चापि संसदि ।
तत्सुतो भुक्तिम् एकैकां तत्पुत्रादिर् न किंचन ॥ [ब् ७।३९]
आहर्ता अर्जनकर्ता ।
कात्यायनः ।
४८६ येनोपात्तं हि यद् द्रव्यं सो ऽभियुक्तस् तद् उद्धरेत् ।
चिरकालोपभोगे ऽपि भुक्तिस् तस्यैव नेष्यते ॥ [क् ३२४]
अर्जकस्य चिरकालभुक्तिर् अपि स्वागमविभावनं विना न प्रमाणम् इष्यत इत्य् अर्थः ।
४८७ यद् आहर्ताभियुक्तः स्यात् लेख्यं साक्षी तदा गुरु ।
भोक्त्रभावे हि भुक्तिस् तु सुते ताभ्यां गरीयसी ॥ [क्?]
अर्जकः स्वार्जिते प्रमाणत्वेन लेख्यादिकं दर्शयेत् । अर्जकाभावे तत्सुतस्य लेख्यादितो भुक्तिर् एव प्रमाणम् इत्य् अर्थः ।
४८८ नोपभोगे बलं कार्यम् आहर्त्रा तत्सुतेन वा ।
पशुस्त्रीपुरुषादीनाम् इति धर्मो व्यवस्थितः ॥ [क् ३१६]
आदिपदं जङ्गमान्तरपरम् । अत्र चेयं व्यवस्था – यद् अर्जकस्यापि लेख्यसाक्षिविरहे पञ्चाङ्गो भोगः प्रमाणम् एव वाक्यानि तु प्रायिकपरतया बोद्धव्यानि एवं पश्वादिष्व् अपि केवलभोगप्रामाण्यनिषेधः प्रायिकपरतयैव नेयः ।
याज्ञवल्क्यः ।
४८९ यो ऽभियुक्तः परेतः स्यात् तस्य ऋक्थी तम् उद्धरेत् ।
न तत्र कारणं भुक्तिर् आगमेन विन कृता ॥ [य् २।२९]
यो भोगे क्रियमाणे एव परेणभियुक्तः कृतापरिच्छेदः सन् परेतः मृतः तस्य ऋक्थी पुत्रादिः तदर्थम् आगमेनोद्धरेत् साधयेत् । भुक्तिस् तत्र न प्रमाणं पूर्वाभियोगेन सत्प्रतिपक्षितत्वाद् इति अर्थः ।
आगमाभावनिश्चये ऽपि षष्ट्याब्दिको भोगः स्वत्वे प्रमाणम् । अन्यानेय्नापि यद् भुक्तं पित्रा पूर्वतरैस् त्रिभिर् इत्यादिस्वरसादि इति नव्याः । तन् न – अनागमं तु भुङ्क्त इत्य् अत्र सन्तानापेक्षयैकवचनम् इति व्याचक्षाणेन पारिजातकृता बह्वब्दशतम् अपि पितापुत्रक्रमेण संतानेन भुज्यमाने ऽपि वस्तुनि भोगात् स्वत्वम् अनङ्गीकुर्वतास्य सुदूरम् उत्सारितत्वाद् इति ।
अन्यभोगेन हान्यपवादः
अथान्यभोगेन हान्यपवादः ।
तत्र बृहस्पतिः ।
४९० भुक्तिस् त्रिपुरुषी सिध्येद् अपरेषां न संशयः ।
अनिवृत्ते सपिण्डत्वे सकुल्यानां न सिध्यति ॥ [ब् ७।४३]
४९१ अस्वामिना तु यद् भुक्तं गृहक्षेत्रापणादिकम् ।
सुहृद्बन्धुसकुल्यस्य न तद्भोगेन हीयते ॥ [ब् ७।४४]
४९२ विवाह्यश्रोत्रियैर् भुक्तं राज्ञामात्यैस् तथैव च ।
सुदीर्घेणापि कालेन तेषां सिध्यति तत् तु न ॥ [ब् ७।४६]
विवाह्यो जामाता ।
मनुः ।
४९३ आधिः सीमा बालधनं निक्षेपोपनिधिः स्त्रियः ।
राजस्वं श्रोत्रियस्वं च नोपभोगेन शाम्यति ॥ [म् ८।१४९]
बृहस्पतिः ।
४९४ असक्तालसरोगार्तबालभीतप्रवासिनाम् ।
शासनारूढम् अन्येन भुक्तं भुक्त्वा न हीयते ॥ [ब् ७।४७]
शासनारूढं ताम्रपट्टादिलिखितम् ।
कात्यायनः ।
४९५ न भोगं कल्पयेत् स्त्रीषु देवराजधनेषु च ।
बालश्रोत्रियवित्ते च प्राप्ते च पितृतः क्रमात् ॥ [क् ३३०]
४९६ न स्त्रीणाम् उपभोगः स्यात् विना लेख्यं कथंचन ।
सुरश्रोत्रियराज्ञां तु तथा बालधने मतः ॥ [ब् ७।२९]
मनुः ।
४९७ संप्रीत्या भुज्यमानानि न नश्यन्ति कदाचन ।
धेनुर् उष्ट्रो वहन्न् अश्वो यश् च दम्यः प्रयुज्यते ॥ [म् ८।१४६]
कात्यायनः ।
४९८ क्रयं शिल्पिषु निक्षिप्तं बन्धान्वाहितयाचितम् ॥
प्रसह्याभिहरन् मोहाद् धीनो दण्ड्यः स वै भवेत् ॥ [क्?]
क्रीयते ऽनेनेति क्रयो मूल्यम् ।
याज्ञवल्क्यः ।
४९९ आध्यादीनां विहर्तारं धनिनो दापयेद् धनम् ।
दण्डं च तत्समं राज्ञे शक्त्यपेक्ष्यम् अथापि वा ॥ [य् २।२६]
तत्समदण्डाक्षमं शक्त्यनुसारेण दण्डयेत् ।
एतेषां च भोगानाम् अप्रमाणतया उक्तानाम् अन्यथासिद्धो तात्पर्यम् ।
लिखितसाक्षिभुक्तीनां बलाबलम्
अथ लिखितसाक्षिभुक्तीनां बलाबलम् ।
तत्र नारदः ।
५०० लिखितं बलवन् नित्यं जीवन्तस् त्व् एव साक्षिणः ।
कालाभिहरणाद् भुक्तिर् इति शास्त्रेषु निर्णयः ॥ [न् १।७५]
५०१ त्रिविधस्यास्य दृष्टस्य प्रमाणस्य यथाक्रमम् ।
पूर्वं पूर्वं गुरु ज्ञेयं भुक्तिर् एभ्यो गरीयसी ॥ [न् १।७६]
पूर्वं पूर्वम् इति – भुक्तितः साक्षी ततो लिखितं गुर्व् इत्य् अर्थः । भुक्तिर् एभ्यो ऽल्पकालभुक्तिसाक्षिलेख्येभ्यः पञ्चाङ्गसम्पन्ना भुक्तिर् गरीयसीत्य् अर्थः । भुक्तिर् आभ्यां गरीयसीति भवदेवे पाठः । स तु सुगम एव ।
इदं त्व् इह चिन्त्यते यद् अयं शास्त्रीयो भोगो भोक्तुः स्वत्वजनको वा प्रमापको वा ।
तत्र भवेदः – न तावद् अयं जनकः, याजनादिवद् अस्य स्वत्वजनकत्वेनाश्रुतत्वात् । नापि प्रमापकः । तथा हि लिङ्गतया वा भोक्तुः स्वत्वम् असौ प्रमापयेद् अनुपपन्नतया वा । नाद्यः, ईदृशभोगेन सह स्वत्वव्याप्तेर् ग्राहकाभावात् । किं चानेन प्रचीनस्वत्वस्य सत एव प्रमापणे ऽन्यायेनापि यद् भुक्तम् इत्यादिकं विरुध्येत । न हि स्वम् अन्यायेन भुज्यत इति । अत एव च न द्वितीयो ऽपि । किं चेयम् अनुपपन्नता स्त्रीराजादिधनगोचरा नास्ति यतो न तत्र कदाचिद् अपि भोगः प्रमाणम् इति । तस्माद् एवं वाच्यं यद् अयं यथोक्तो भोगः पूर्वस्वामिनो भोक्त्रुद्देशेन त्यागात् स्वत्वध्वंसम् अर्थापयति । न हि संभवति – तन् न जहाति परिभोगं चेदृशं तस्मिन् वस्तुनि क्षमत इति । किं च यद् धि यदुद्देशेन त्यज्यते तत् तेन परिगृहीतं तस्य स्वीभवति । यथा सर्वभूतोद्देशेन त्यक्तं तोयादीति नियमाद् इदम् अपि तत एव भोक्तुः स्वीभवति । स्त्रीराजादिधने तु नैवम्, भार्यायाः स्वत्वाविषयतया राजधनस्य चातिविस्तरतया तत्र त्यागस्यैवासंभवात् ।
भूम्यादौ विंशतिवार्षिको गवादौ दशवार्षिको भोगः पूर्वस्वामिनः स्वत्वध्वंसे प्रमाणम् इति यत्कालवैषम्यं भूम्यादेर् महाफलत्वेनातिमहत्त्वास्पदत्वात् तत्र चिरकालेनैव स्वत्वहानिकल्पनात् । तथा द्रव्यान्तराणां चातथात्वाद् अल्पकालेनापि स्वत्वहानिकल्पनाद्युक्तम् । यच् च भूम्यादाव् एव कालवैषम्येन भोक्तुः स्वत्वजननं तद् अपि वचनबलाद् एव युक्तं यथा तद् एव हि जन्म पुत्रस्य पितृधने स्वत्वजनकं न तु पुत्र्या इति ।
अत्र प्रदीपकृतः – यत्र हि मत्कृत्येदानीं नात्र फलसंभावना तद् इदानीं तावत् पर एव भुङ्क्तां पश्चाद् एतत् सकाशात् सभोगां भुवं ग्रहीष्यामीत्य् अभिसंधाय भूस्वामी क्षमते तत्रास्ति विंशत्याब्दिको भोगो न तु स्वामिनस् तदुद्देशेन स्वभूत्याग इति व्यभिचारान् नायं भोगः पूर्वस्वामिनस् तु त्यागे प्रमाणम् ।
न चात्र पूर्वस्वामिना त्यागाभावप्रतिज्ञया दिव्यं कार्यं तथा च तद्भङ्गे त्यागनिर्णय इति वाच्यम् । तथापि पूर्वभोगसिद्धस्य पूर्वपरिग्रहस्य त्यागानवधारणकालीनत्वेन भोक्तुः स्वत्वाजनकतया तद्वैयर्थ्यात् । किं च भूस्वामी सचेताः किम् इति वृथैव संजह्यात् । नात्र दृष्टम् उद्देश्यं तदभावात् नाप्य् अदृष्टं दर्मशास्त्रेतिकर्तव्यताविरहात् । महेच्छत्वसुशीलत्वदयालुत्वादिनापि त्यागसंभवः । स त्यजन्न् अपि तैर् एव क्षमत इत्य् अस्यापि संभवात् । नापि यदुद्देशेण यत् त्यज्यते तत् तस्य स्वम् इति नियमः, उद्देश्येनापरिगृहीते व्यभिचारात् ।
अपि च त्यागात् भोक्तुः स्वत्वं स्वरूपम् अतो ज्ञानाद् वा । नाद्यः अदृष्टचरत्वात् । द्वितीये च ज्ञानं भोक्तुः स्वामिवचनादिना स्यात् । तथा च तदुद्देशेन मयेदं त्यक्तम् इति तत्स्वामिनस् तदभिसंधिपूर्वकाद् वचनात् तत् स्यात् इदं च दानम् एवेति कृतम् उपेक्षानुसरणेन ।
न च यथोक्तक्षमयैव त्यागानुमानम्, अत्यक्ते ऽपि सौशील्यादिना क्षमासंभवात् । न चैवं यथोक्तक्षमया भोक्तृस्वत्वानुमानम् अपि न स्यात्, पूर्वस्वामिनस् तत्र स्वत्वे ऽपि सौशील्यादिना तस्यान्यथासिद्धिर् इति वाच्यम् । षष्ट्यब्दान् यावत् सौशील्यादिना क्षमासंभवे हि तादृशभोगस्य भोक्तृस्वत्वप्रमापकत्वं स्मृत्युक्तं भज्यते । तस्मात् तादृशो भोगो भोक्तुः स्वत्वे प्रमाणम् । तच् च पूर्वागमाद् वोत्पद्यतां स्वामिनो भोक्त्रुद्देशेन तद्वस्तुत्यागाद् वेत्य् अत्र न नोग्रह इति ।
याज्ञवल्क्यः ।
५०२ आगमस् तु कृतो येन सो ऽभियुक्तस् तम् उद्धरेत् ।
न तत्सुतस् तत्सुतो वा भुक्तिस् तत्र गरीयसी ॥ [य् २।२८]
यदागमे संशयो भवति तदार्जक एवागमं प्रमापयेत् । तत्सुतस्य तु सागमा भुक्तिर् एव प्रमाणम् इत्य् अर्थः ।
यदि तु पूर्वम् अभियुक्तेनापि पित्रागमशुद्धिर् न कृता तदा पुत्रेणागमशुद्धिः कर्तव्येव । तद् आह नारदः ।
५०३ तथारूढविवादस्य प्रेतस्य व्यवहारिणः ।
पुत्रेण सो ऽर्थः संशोध्यो न तं भोगो निवर्तयेत् ॥ [न् १।९३]
तं विवादं भोगो भोगमात्रम् आगमं विना कृतं न निवर्तयेद् इत्य् अर्थः ।
अनुपभोगेनासिद्धिः
अथानुपभोगेनासिद्धिः ।
तत्र याज्ञवल्क्यः ।
५०४ आगमो ऽपि बलं नैव भुक्तिस्तोकापि यत्र नो । [य् २।२७च्द्]
आगमे विद्यमाने ऽपि भुक्तिविरहात् तावत्कालं स्वत्वं न सिध्यतीत्य् अर्थः । अत्र यत्रान्यम् उद्दिश्य केनचित् किंचिद् दत्तं तत्रोद्देश्यस्य स्वीकारव्यञ्जकभोगाभावात् स्वत्वं न निश्चीयत इति न्याय एव मूलम् ।
केचित् त्व् एवं व्याचक्षते – यत्र वादिप्रतिवादिनौ स्वस्वागमबलप्रवृत्तौ आगमयोश् च पूर्वापरभावो न निश्चीयते तत्र यस्य भुक्तिस् तस्यागमो बलीयान् न त्व् अन्यस्येत्य् अर्थः ।
नारदः ।
५०५ विद्यमाने ऽपि लिखिते जीवत्स्व् अपि च साक्षिषु ।
विशेषतः स्थावरादि यन् न भुक्तं न तत् स्थिरम् ॥ [न् १।७७]
५०६ भुज्यमानान् परैर् अर्थान् यस् तान् मोहाद् उपेक्षते ।
समक्षं जीवतो ऽप्य् अस्य तान् भुक्तिः कुरुते वशे ॥ [न् १।७८]
न तत् स्थिरं चिरकालवर्तिस्वत्वव्यवस्थापकप्रमाणवन् न भवतीति यावत् । यः परेण भुज्यमानान् अर्थान् मोहाद् उपेक्षते तस्य भोक्तुः पार्श्वे भोगसंबन्धेन धनान्तरं न लभ्यं भवति स्वयम् एवोपेक्षणाद् इत्य् अर्थः ।
अत्रैव याज्ञवल्क्यः ।
५०७ पश्यतो ऽब्रुवतो भूमेर् हानिर् विंशतिवार्षिकी ।
परेण भुज्यमानाया धनस्य दशवार्षिकी ॥ [य् २।२४]
व्यासः ।
५०८ उपेक्षिता यथा धेनुर् विना पालेन नश्यति ।
पश्यतो ऽन्यैस् तथा भुक्ता भूमिः कालेन हीयते ॥ [व्य् १।७६]
५०९ वर्षाणि विंशतिं यस्य भूमिर् भुक्ता परैर् इह ।
सति राज्ञि समर्थस्य तस्य सेह न सिध्यति ॥ [व्य् १।७७]
नारदः ।
५१० प्रत्यक्षपरिभोगात् तु स्वामिनो द्विदशाः समाः ।
आध्यादीन्य् अपि जीर्यन्ति स्त्रीनरेन्द्रधनाद् ऋते ॥ [न् १।८२]
द्विदशाः समाः विंशतिवर्षाणि । आध्यादीन्य् अपीति वरं विषं भुङ्क्ष्वेतिवन् नेयम् –
५११ आधिः सीमा बालधनं निक्षेपोपनिधिः स्त्रियः ।
राजस्वं श्रोत्रियस्वं च नोपभोगेन शम्यति ॥ [न् १।८१]
इत्यादिना नारदवचनेनाधेर् भोगजीर्णतानिषेधात् ।
मनुः ।
५१२ आधिश् चोपनिधिश् चोभौ न कालात्ययम् अर्हतः ।
अवहार्यौ भवेतां तौ दीर्घकालम् अवस्थितौ ॥ [म् ८।१४५]
आधिर् बन्धः । उपनिधिः प्रीत्या भोगार्थं समर्पितक्षेत्रादि । न कालात्ययम् अर्हतः मोक्षणकाले अवश्यं मोक्षणीयाव् इत्य् अर्थः । अत्र हेतुः – अवहार्याव् इत्यादि । तौ हि चिरकालावस्थितौ भोक्तुर् एवावहार्यौ भवेतां भोक्ता कदाचिद् अपहरेद् इत्य् अर्थः ।
बृहस्पतिः ।
५१३ ऋक्थिभिश् चापरैर् द्रव्यं समक्षं यस्य दीयते ।
अन्यस्य भुञ्जतः पश्चान् न स तल् लब्धुम् अर्हति ॥ [ब् ७।४०]
५१४ पश्यन्न् अन्यस्य ददतः क्षितिं यो न निवारयेत् ।
स्वामी सतापि लेख्येन पुनस् तां न समाप्नुयात् ॥ [ब् ७।४१]
तथा ।
५१५ भूमेर् अभुक्तिर् लेख्यस्य यथाकालम् अदर्शनम् ।
अस्मारणं साक्षिणां च स्वार्थहानिकराणि च ॥ [ब् ७।६६]
५१६ तस्माद् यत्नेन कर्तव्यं प्रमाणपरिपालनम् ।
तेन कार्याणि सिध्यन्ति स्थावराणि चराणि च ॥ [ब् ७।६७]
तथा च हानिवचनानि प्रमाणपरिपालनपराणीति सारम् ।
विच्छिन्नबोगनिर्णयः
अथ विच्छिन्नबोगनिर्णयः ।
तत्र बृहस्पतिः ।
५१७ छिन्नबोगे गृहक्षेत्रे संदिग्धे यत्र जायते ।
लेख्येन भोगविद्भिर् वा साक्षिभिस् तद् विभावयेत् ॥ [ब् ७।४८]
५१८ नामाघाटागमं संख्यां दिग्भागं कालम् एव च ।
भोगच्छेदनिमित्तं च ये विदुस् ते ऽत्र साक्षिणः ॥ [ब् ७।४९]
५१९ तदुत्पन्नाश् च सामन्ता ये स्युर् देशान्तरस्थिताः ।
मौलास् तु ते समुद्दिष्टाः प्रष्टव्याः कार्यनिर्णये ॥ [ब् ७।५०]
५२० स्थावरेष्व् एतद् आख्यातं लाभभोगप्रसाधकम् ।
प्रमाणहीनवादे तु निर्देश्या दैविकी क्रिया ॥ [ब् ७।५१]
संदिग्धं संदेहः । नाम क्षेत्रादेः । आघाटः सीमा । आगमः स्वत्वहेतुः । संख्या भूमेर् एव । दिग्भागो ऽपि तस्या एव । काल आगमकालः । प्रमाणहीनवादे दृष्टप्रमाणहीनवादे ।
इति भुक्तिः ।
युक्तिः
अथ युक्तिः ।
तत्र बृहस्पतिः ।
५२२ असाक्षिके विरकृते पृच्छेद् उत्तरसाक्षिणः ।
शपथान् वा प्रयुञ्जीत उपधां वा प्रयोजयेत् ॥ [ब् ७।६८]
उपधा युक्तिः ।
नारदः ।
५२३ प्रमादाद् धनिनो यत्र न स्याल् लेख्यं न साक्षिणः ।
अर्थाम् चापह्नुते वादी तत्रोक्तस् त्रिविधो विधिः ॥ [न् १।२३५]
५२४ चोदना प्रतिकालं च युक्तिलेशस् तथैव च ।
तृतीयः शपथः प्रोक्तस् तैर् एवं साधयेत् क्रमात् ॥ [न् १।२३६]
५२५ अभीक्ष्णं चोद्यमानो ऽपि प्रतिहन्यान् न तद्वचः ।
त्रिचतुःपञ्चकृत्वो वा परतो ऽर्थं स दापयेत् ॥ [न् १।२३७]
चोदना प्रतिकालम् अस्वकं मे धनं देहीति वारंवारं प्रेरणा ।
कात्यायनः ।
५२६ श्राव्यमाणो ऽर्थिना यत्र यो ह्य् अर्थो न विघातितः ।
दानकाले ऽथ वा तूष्णीं स्थितः सो ऽर्थो ऽनुमोदितः ॥ [क् १४४]
५२७ अर्थिनैवान्वितो यत्र विघातं न प्रयोजयेत् ।
त्रिचतुःपञ्चकृत्वो वा परतस् तद् ऋणी भवेत् ॥ [क् ३३६]
५२८ स्वामिना नृपतिर् विप्रं कर्मेनाओक्तं प्रदापयेत् \
ततो ऽन्यं दापयेत् पूर्वं सकृदुक्ताविघातिनम् ॥ [क्?]
स्वामिना उत्तमर्णेन उक्तं धनं मे देहीति याचितं विप्रम् अविघातिनं क्रमेण दापयेत् । विप्रान्यं तु तादृशक्रमेणापीत्य् अर्थः । असकृत्प्रार्थितम् अविहतं धनं विप्रो दाप्यः सकृत्प्रार्थितम् अप्य् अविहतम् अविप्रो दाप्य इत्य् अर्थ इत्य् अन्ये ।
नारदः ।
५२९ चोदनाप्रतिघाते तु युक्तिलेशैस् तम् अन्वियात् ।
देशकालार्थसंबन्धपरिमाणक्रियादिभिः ॥ [न् १।२३८]
अस्यार्थः – यदाधर्मर्णश् चोदनाप्रतिघातं करोति नाहं धारयामीति तदानुमानापरव्यपदेशाभिर् युक्तिभिर् निर्णयः कर्यस् तद् यथा – यस्मिन् देशे यस्मिन् काले येन अर्थेन प्रयोजनेन उत्तमर्णेनर्णिकस्य ऋणग्रहणाभियोगः कृतः तत्र देशादौ तेन प्रयोजनेन तस्य ऋणग्रहणम् असंभावितं चेत् तदा युक्त्या निर्णयो भवति । एवं यस्य शतसंभावनापि नाश्ति स यद्य् एवम् आह ममानेन सहस्रं गृहीतं तत्रापि परिमाणयुक्त्या भवति निर्णयः । एवम् अधमर्णक्रियादयो ऽपि यत्र प्रतिमासं कलादानरूपाः प्रतीयन्ते तत्रापि युक्त्या निर्णीयते ।
शपथस् त्व् अतो वक्ष्यते ।
एवं नारदेन एकदेशविभावनेन सर्वस्यैव विवादविषयस्य यद्देयत्वम् उक्तम् –
५३० अनेकार्थाभियुक्तेन सर्वार्थव्यपलापिना ।
विभावितैकदेशेन देयं तद् अपि युज्यते ॥ इति । [न्?]
तस्य यत्रैकभाजनस्थम् अनेकं सुवर्णरजतादिकं गृहीतं तत्रैकद्रव्यग्रहणविभावनया सकलम् एव द्रव्यं देयं भवतीति न विषयः, तत्राविभावितद्रव्यसत्त्वे प्रमाणाभावात् । न ह्य् अभियोक्तृवचनमात्रात् तत्सिद्धिः, मिथ्यात्वस्यापि संभवात् । न च क्रियान्तरेण साक्ष्यादिनाभियोक्त्रा तदा तत्र तदवस्थानं ज्ञाप्यम्, तथा सति क्रियान्तरेणैव तन्निर्णयाद्युक्तेर् अप्रयोजकत्वापत्तेः । किं तु यतैकग्रहणं तदितरग्रहणव्याप्यं भवति तद्विषयः । यद् वा यथाक्षिप्तानां मध्ये एकम् अपि विभवयसि तदा सकलम् एव मया दातव्यम् इति यत्र वादिनो ऽभ्युपगमः स तस्य विषयः ।
नारदः ।
५३१ असाक्षिप्रत्ययास् त्व् अन्ये षड्विवादाः प्रकीर्तिताः ।
लक्षणान्य् एव साक्षित्वे तेषाम् आहुर् मनीषिणः ॥ [न् १।१७२]
५३२ उल्काहस्तो ऽग्निदो ज्ञेयः शस्त्रपाणिश् च घातकः ।
केशाकेशिगृहीतश् च युगपत् पारदारिकः ॥ [न् १।१७३]
५३३ कुद्दालपाणिर् विज्ञेयः सेतुभेत्ता समीपगः ।
तथा कुठारहस्तश् च वनच्छेत्ता प्रकीर्तितः ॥ [न् १।१७४]
५३४ प्रत्यक्षचिह्नैर् विज्ञेयो दण्डपारुष्यकृन् नरः ।
असाक्षिप्रत्यया ह्य् एते पारुष्ये तु परीक्षणम् ॥ [न् १।१७५]
साक्षित्वे साक्षिस्थाने । साक्षिस्थानत्वम् एतेषाम् अविनाभावेन । प्रत्यक्षचिह्नैः रुधिराकतखड्गादिभिः । पारुष्ये वाक्पारुष्ये ।
कात्यायनः ।
५३५ दानं प्रज्ञापनाभेदः संप्रयोगक्रिया च या ।
वित्तापनयनं चैव हेतवो हि विभावकाः ॥ [क् ३३७]
दानम् उत्कोचदानम् । प्रज्ञापनाभेदः येन चिह्नेन ज्ञयते तदन्यथाकरणम् । संप्रयोगक्रिया विषयान्तरे तदधिकलोभोत्पादनम् ।
शङ्खः ।
५३६, ५३७ केशाकेशिग्रहणात् पारदारिकः उल्काहस्तो ऽग्निदः शस्त्रपाणिर् घातको लोप्त्रहस्तश्
चौरः । क्षेपे ऽष्टशतं यथास्वरूपं वा रुधिरस्रावे प्रहारे चाभिव्यक्ते न साक्षिणः प्रत्यक्षचिह्नाभिव्यक्ते चाष्टशतम् ॥ [श्ल् ३२८ + ?]
क्षेपे पूर्वोक्तलिङ्गनिश्चितप्रहारापह्नवे । अष्टशतं पणानां दण्ड इति शेषः ।
एताश् च युक्तयो दुरवधारणानन्यथासिद्धिमूलकानुमानरूपतया न सर्वसाधारण्यः किं त्व् अतिनिपुणस्थेयमात्रविश्रान्ता । अयम् एव च प्रत्यक्षनिर्णयो ऽप्य् उच्यत इति ।
अथ दिव्यानि ।
तत्र नारदः ।
५३८ युक्तिष्व् अप्य् असमर्थासु शपथैर् एनम् अर्दयेत् ।
अर्थकालबलापेक्षम् अग्न्यम्बुसुकृतादिभिः ॥ [न् १।२३९]
५३९ धटो ऽग्निर् उदकं चैव विषं कोशश् च पञ्चमः ।
उक्तान्य् एतानि दिव्यानि विशुद्ध्यर्थं महात्मभिः ॥ [न् १।२५२]
५४० संदिग्धेष्व् अभियुक्तानां परीक्षार्थं महात्मनाम् ।
प्रोक्तानि नारदेनेह सत्यानृतविशुद्धये ॥ [न् १।२५३]
अर्दयेत् पीडयेत् । अग्नीति अग्निर् मे नोपस्थास्यति जलं माम् अपकर्षयिष्यति इत्य् अग्निजलयोर् हस्तप्रक्षेपः । सुकृतं मे नङ्क्ष्यतीत्यादिः शपथः ।
नन्व् अगन्यादिकम् इह दिव्यं ग्राह्यं तस्य शपथान्यत्वाद् इति वक्ष्यते ।
नन्व् अन्यान्य् अपि दिव्यानि बृहस्पतिनोक्तानि । यद् आह ।
५४१ धटो ऽग्निर् उदकं चैव विषं कोशश् च पञ्चमः ।
षष्ठं च तण्डुलाः प्रोक्तं सप्तमं तप्तमाषकम् ॥ [ब् ८।३]
५४२ अष्टमं फालम् इत्य् उक्तं धर्मजं नवमं भवेत् ।
दिव्यान्य् एतानि सर्वाणि निर्दिष्टानि स्वयम्भुवा ॥ [ब् ८।४]
तथा ।
५४३ अहम् उद्देशतो वच्मि संदिग्धार्थविशुद्धये ।
देशकालार्थसंख्याभिः संयुक्तान्य् अनुपूर्वशः ॥ [ब् ८।५च्देफ़्]
५४४ अपराधानुरूपेण साध्वसाधुविवक्षया ।
शास्त्रोक्तेनैव विधिना प्रदातव्यानि नान्यथा ॥ [ब् ८।६]
कोशपानं स्वप्रसृतित्रयमितत्रिशूलादिस्नपपानं सत्यं किं तु याज्ञवल्क्येन प्रतिविहितम् । यद् आह ।
५४५ तुलाग्न्यापो विषं चैव दिव्यानीह विशुद्धये ।
महाभियोगेष्व् एतानि शीर्षकस्थे ऽभियोक्तरि ॥ [य् २।९५]
तथा च एतानि महाभियोगेष्व् एव नान्यत्रेति नियम्यते । न पुनर् इमान्य् एव दिव्यानीति । महाभियोगे ऽपि न सर्वत्र किं तु शीर्षकस्थे ऽभियोक्तरि । शीर्षं शिरः तच् च दिव्यकर्तुर् जयपक्षो स्वदण्डस्वीकारः ।
५४६ तुलाधारणविद्वद्भिर् अभियुक्तस् तुलास्थितः ।
प्रतिमानसमीभूतो लेख्यं कृत्वावधारितः ॥ [य् २।१००]
५४७ त्वं तुले सत्यधामासि पुरा देवैर् विनिर्मिता ।
तत् सत्यं वद कल्याणि संशयान् मां विमोचय ॥ [य् २।१०१]
५४८ यद्य् अस्मिन् पापकृन् मातस् ततो मां त्वम् अधो नय ।
शुद्धश् चेत् गमयोर्ध्वं मां तुलाम् इत्य् अभिमन्त्रयेत् ॥ [य् २।१०२]
५४९ तुलितो यदि वर्धेत विशुद्धः स्यान् न संशयः ।
समो वा हीयमानो वा न विशुद्धो भवेन् नरः ॥ [न् १।२८३]
पितामहः ।
५५० चतुर्हस्ता तुला कार्या पादौ कार्यौ तथाविधौ ।
अन्तरं तु तयोर् हस्तौ भवेद् अध्यर्थम् एव वा ॥ [पि ८७]
स्मृतिसमुच्चये तु ।
५५१ त्वम् एव धट जानीषे न विदुर् यानि मानवाः । [वि १।१०च्द् = पि १०२ अब्]
व्यवहाराभिशस्तो ऽयं मानुषस् तोल्यते त्वयि ॥ [वि १०।११अब् = पि १०२ च्द्]
५५२ तद् एनं संशयाद् अस्माद् धर्मस् त्रातुम् अर्हसि ॥ [वि १०।११च्द् = पि १०३]
५५३ ब्रह्मघ्नो ये स्मृता लोका ये लोकाः कूटसाक्षिणः ।
तुलाधारस्य ये लोकास् तुलां धारयतो मृषा ॥ [वि १०।९]
व्यासः ।
अधोगतिर् न विशुद्धः शुद्ध ऊर्ध्वगतिः सदा ।
समो ऽपि न विशुद्धः स्यात् एषा शुद्धिर् उदाहृता ॥ [व्य् २।१७]
५५५ कक्षाच्छेदे तुलाभङ्गे धटकर्कटयोस् तथा ।
रज्जुच्छेदे ऽक्षभङ्गे च दद्याच् छिद्धिं पुनः पुनः ॥ [व्य् २।१९]
तुलेति – अधिवासनदिने तुलितो ऽभिशस्तः कृतोपवासादिर् उत्तरदिने प्रातर् अभिमन्त्र्य तुलनीयो यद्य् ऊर्ध्वगः तदा जयी नो चेद् भङ्गीति वरुलार्थः ।
५५६ करौ विमृदितव्रीही लक्षयित्वा ततो न्यसेत् ।
सप्ताश्वत्थस्य पत्त्राणि तावत् सूत्रेण वेष्टयेत् ॥ [य् २।१०३]
५५७ शम्यक्षतं तथा दूर्वां दत्त्वा पत्त्रेषु विन्यसेत् ॥ [य्?}
५५८ त्वम् अग्ने सर्वभूतानाम् अन्तश् चरसि पावक ।
साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यं करे मम ॥ [य् २।१०४]
५५९ तस्येत्य् उक्तवतो लौहं पञ्चाशत्पलिकं समम् ।
अग्निवर्णं न्यसेत् पिण्डं हस्तयोर् उभयोर् अपि ॥ [य् २।१०५]
५६० स तम् आदाय सप्तैव मण्डलानि शनैर् व्रजेत् ।
षोडशाङ्गुलकं ज्ञेयं मण्डलं तावद् अन्तरम् ॥ [य् २।१०६]
५६१ मुक्ताग्निर् मृदितव्रीहिर् अदग्धः शुद्धिम् आप्नुयात् ।
अन्तरा पतिते पिण्डे संदेहे वा पुनर् हरेत् ॥ [य् २।१०७]
५६२ अग्निवर्णमयं पिण्डं सस्फुलिङ्गं सुरक्षितम् ।
पञ्चाशत्पलिकं भूयः कारयित्वा शुचिर् द्विजः ॥ [न् १।२८९]
५६३ तृतीयतापे तप्यन्तं ब्रूयात् सत्यपुरस्कृतः ।
शृण्व् इमं मानवं धर्मं लोकपालैर् अधिष्ठितम् ॥ [न् १।२९०]
५६४ त्वम् अग्ने सर्वभूतानाम् अन्तश् चरति साक्षिवत् ।
त्वम् एवाग्ने विजानीषे न विदुर् यानि मानवाः ॥ [वि ११।११ = पि १२६]
५६५ व्यवहाराभिशस्तो ऽयं मानवः शुद्धिम् इच्छति ।
तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हति ॥ [वि ११।१२ = पि १२७]
पितामहः ।
५६६ त्वरमाणो न गच्छेत् तु स्वस्थो गच्छेच् छनैः शनैः ।
न मण्डलम् अतिक्रामेन् नान्तरा स्थापयेत् पदम् ॥ [पि १२९]
५६७ अष्टमं मण्डलं गत्वा नवमे निक्षिपेद् बुधः ॥ [पि १३०अब्]
याज्ञवल्क्यः ।
५६८ प्रस्खलत्य् अभियुक्तश् चेत् स्थानाद् अन्यद् ददाह चेत् ।
न तं दग्धं विदुर् देवास् तस्य भूयो ऽपि दापयेत् ॥ [क् ४४१]
५६९ ततः शुद्धस् तयोः प्रास्येद् व्रीहीन् अथ यवान् अपि । [पि १३०च्द्]
५७० निर्विशेषेण चैषां तु हस्ताभ्यां मर्दने कृते ।
निर्विकारे दिनस्यान्ते शुद्धिं तस्य विनिर्दिशेत् ॥ [पि १३१]
विष्णुः ।
५७१ यो हस्तयोः क्वचिद् दग्धस् तम् अशुद्धं विनिर्दिशेत् ।
न दग्धः सर्वथा यस् तु स विशुद्धो भवेन् नरः ॥ [वि ११।८]
पूर्वदिने कृतोपवासाधिवासनादिर् अभिशस्य उत्तरदिने प्रथममण्डले स्थितो हस्तौ परीक्ष्य तयोर् न्यस्ताश्वत्थसप्तपत्त्रयोस् तावत्सूत्रवेष्टितयोर् यवदूर्वाशमीजुषोर् न्यस्तलोहयोर् आद्यमण्डले ततः क्रमेण मण्डलेषु षट्सु पादौ दत्त्वा अष्टमे स्थितो नवमे लौहं क्षिपेत् । मण्डलातिक्रमादिसंशये पुनर् आहरेद् इति समुदायार्थः ।
५७२ सत्येन माभिरक्ष त्वं वरुणेत्य् अभिगाय कम् ।
नाभिदध्नोदकस्थस्य गृहीत्वोरुं जलं विशेत् ॥ [य् २।१०८]
५७३ समकालम् इषुं मुक्तम् आनीयान्यो जवी नरः ।
गते तस्मिन् निमग्नाङ्गं पश्येच् छेच् छिद्धिम् आप्नुयात् ॥ [य् २।१०९]
५७४ अन्यथा न विशुद्धः स्याद् एकाङ्गस्यापि दर्शनात् ।
स्थानाद् वान्यत्र गमनाद् यस्मिन् पूर्वं निवेशयेत् ॥ [न् १।३१२ = पि १४५]
सत्येनेति –
५७५ त्वम् अम्भः सर्वभूतानाम् अन्तश् चरसि साक्षिवत् ।
त्वम् एवाम्भो विजानीषे न विदुर् यानि मानवाः । [वि १२।७]
५७६ व्यवहाराभिशस्तो ऽयं मानुषस् त्वयि मज्जति ।
तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हति ॥ [वि १२।८]
तथा ।
५७७ मध्यमं शरम् आदाय पुरुषो ऽन्यस् तथाविधः ।
प्रत्यागच्छेत् तु वेगेन यतः स पुरुषो घृतः ॥ [न् १।३१०]
५७८ आगतस् तु शरग्राही न पश्यति यदा जले ।
अन्तर्जलगतं सम्यक् तदा शुद्धिं विनिर्दिशेत् ॥ [न् १।३११ = पि १४४]
५७९ आनीते मधमे बाणे मग्नाङ्गः शुचिताम् इयात् ॥ [ब् ८।६१अब्]
कात्यायनः ।
५८० शिरोमात्रं तु दृश्येत न कर्णौ नापि नासिका ।
अप्सु प्रवेशने यस्य शुद्धं तम् अपि निर्दिशेत् ॥ [क् ४४४]
५८१ निमज्योत्प्लवते यस् तु दृष्टश् चेत् प्राणिना नरः ।
पुनस् तत्र निमज्यो ऽसाव् अङ्गचिह्नविभावितः ॥ [क् ४४५]
नाभिमात्रस्थिरजलस्थस्य ऊरू घृत्वाभिशस्तो मज्जयेत् । तदैव बलवान् इषुं क्षिपेत् तं च बलवान् अन्य आनयेत् । तदभ्यन्तर एव यदि मग्नः सकल एकाङ्गेनापि वा उन्मज्जयेत् पूर्वस्थानं वा त्यजेत् तदा भङ्गी नो चेन् नेत्य् अर्थः ।
५८२ त्वं विष ब्रह्मणः पुत्रः सत्यधर्मव्यवस्थितः ।
त्रायस्वास्मान् अभिशापात् सत्येन भव मे ऽमृतम् ॥ [य् २।११०]
५८३ एवम् उक्त्वा विषं शार्ङ्गं भक्षयेद् धिमशैलजम् ।
यस्य रोगैर् विना जीर्णं शुद्धिं तस्य विनिर्दिशेत् ॥ [य् २।१११]
त्वम् इति – शार्ङ्गनामकं विषं यथाविधिखादितम् अविकारि चेत् तदाभिशस्तो जयतीत्य् अर्थः ।
कोशपानम् आह देवान् इत्यादिसुगमम् –
५८४ देवान् उग्रान् समभ्यर्च्य तत्स्नानोदकम् आहरेत् ।
संश्राव्य पाययेत् तस्माज् जलात् तु प्रसृतित्रयम् ॥ [य् २।११२]
५८५ आ चतुर्दशकाद् अह्नो यस्य नो राजदैवकम् ।
व्यसनं जायते घोरं स शुद्धः स्यान् न संशयः ॥ [य् २।११३]
पितामहः ।
५८६ शिरोवादिविहीनानि दिव्यानि परिवर्जयेत् ।
चत्वारि तु धटादीनि कोशश् चैवाशिराः स्मृतः ॥ [पि ३८]
तथा –
५८७ न कश्चिद् अभियोक्तारं दिव्येन विनियोजयेत् ।
अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ॥ [क् २४४ = ४११]
नृपाज्ञायाम् अत्रापि न शिरोऽपेक्षा इत्य् आह नारदः ।
५८८ शिरोऽवस्थायिनि नरे अभियोक्तर्य् उपस्थिते ।
दिव्यप्रदानम् उदितम् अन्यत्र नृपशासनम् ॥ [न् १।२६९]
याज्ञवल्क्यः ।
५८९ रुच्या वान्यतरः कुर्याद् इतरो वर्तयेच् छिरः ।
विनापि शीर्षकं कुर्यात् नृपद्रोहे च पातके ॥ [य् २।९६]
अभियोक्त्रभियुक्तयोर् मिथः संप्रतिपत्त्याभियोक्तैव वा कुर्यात्, दिव्यरूपप्रमाणस्य भावाभावाविशेषगोचरत्वात् ।
कालिकापुराणे ।
५९० परदाराभिशापे च चौर्याग्म्यागमेषु च ।
महापातकशस्तेषु स्याद् दिव्यं नृपशासने ॥
५९१ विप्रतिपत्तौ विवादे पणस्य स्थापने कृते ।
तत्रैव स्थापयेद् दिव्यं शिरःपूर्व्ं महीपतिः ॥
५९२ परदाराभिगमने बहवो यत्र वादिनः ।
शिरोहीनं भवेद् दिव्यं आत्मसंशुद्धिकारणात् ॥
विप्रतिपत्तौ परदाराभिशापविषयायाम् । विवादे ऋणादौ । परदाराभिगमन इति चौर्यादीनाम् अप्य् उपलक्षणम् ।
विष्णुः ।
५९३ राजद्रोहसाहसे च विना शीर्षप्रवर्तनात् ॥ [वि ९।२२]
पितामहः ।
५९४ राजभिः शङ्कितानां च निर्दिष्टानां च दस्युभिः ।
आत्मशुद्धिपराणां च दिव्यं देयं शिरो विना ॥ [पि?]
नारदः ।
५९५ अशिरांसि च दिव्यानि राजभृत्येषु दापयेत् ॥ [न् १।२७०अब्]
बृहस्पतिः ।
५९६ स्नेहात् क्रोधात् लोभतो वा भेदम् आयान्ति साक्षिणः ।
विधिदृष्टस्य दिव्यस्य न भेदो जायते क्वचित् ॥ [ब् ८।१४]
पितामहः ।
५९७ प्रत्यक्षं दापयेद् दिव्यं राजा वाधिकृतो ऽपि वा ।
ब्राह्मणानां श्रुतवतां प्रकृतीनां तथैव च ॥ [पि ५१]
विष्णु-कात्यायनौ ।
५९८ सचेलस्नातम् आहूय सूर्योदय उपोषितम् ।
कारयेत् सर्वदिव्यानि नृपब्राह्मणसंनिधौ ॥ [वि ९।३३ = क्?]
पूर्वेद्युर् उपोषितं सचलस्नातं दिव्यकारिणम् उदिते सूर्ये नृपस्य सभ्यानां च ब्राह्मणानां संनिधौ सर्वाणि दिव्यानि कारयेत् प्राड्विवाकः ।
पितामहः ।
५९९ त्रिरात्रोपोषिताय वैकरात्रोपोषिताय वा ।
नित्यं दिव्यानि देयानि शुचये चार्द्रवाससे ॥ [पि ५३]
अयं चोपवासस्य त्रिरातैकरात्रिविकल्पः शक्त्यपेक्षया महाभियोगाल्पाभियोगापेक्षया व्यवस्थितः ।
तथा ।
६०० दिव्येषु सर्वकार्याणि प्राड्विवाकः समाचरेत् ।
अध्वरेषु यथाध्वर्युः सोपवासो नृपाज्ञया॥ [पि ५४]
अयं च प्राड्विवाकस्योपवासो दिव्याङ्गदेवपूजाधिकारित्वपक्षे ।
अत्र यद्य् अपि सूर्योदय इत्य् अविशेषेणोक्तं तथापि शिष्टाचाराद् रविवारादरः ।
तथा ।
६०१ पूर्वाह्णे ऽग्निपरीक्षा स्यात् पूर्वाह्णे तु धटो भवेत् ।
मध्याह्णे तु जलं देयं धर्मतत्त्वम् अभीप्सिता ॥ [पि ४५]
६०२ दिवसस्य तु पूर्वाह्णे कोशशुद्धिर् विधीयते ।
रात्रौ तु पश्चिमे यामे विषं देयं सुशीतले ॥ [पि ४६]
अनुक्तवेलाविशेषाणां तु तण्डुलादीनां पूर्वाह्ण एव दानम् –
६०३ पूर्वाह्णे सर्वदिव्यानां प्रदानं परिकीर्तितम् । [न् १।२६८च्द्]
इति नारदस्मृतेः ।
दिव्यानां देशम् आह कात्यायनः ।
६०४ इन्द्रस्थाने ऽभिशस्तानां महापातकिनां नृणाम् ।
नृपद्रोहप्रवृत्तानां राजद्वारे प्रयोजयेत् ॥ [क् ४३४]
६०५ प्रतिलोमप्रसूतानां दिव्यं देयं चतुष्पथे ।
अतो ऽन्येषु च कार्येषु सभास्थाने विदुर् बुधाः ॥ [क् ४३५]
इन्द्रस्थानम् इन्द्रध्वजस्थानम् ।
बृहस्पतिः ।
६०६ यथोक्तविधिना देयं दिव्यं दिव्यविशारदैः ।
अयथोक्तप्रदत्तं तु न शक्तं साध्यसाधने ॥ [ब् ८।१५]
६०७ अदेशकालदत्तानि बहिर्वादिकृतानि च ।
व्यभिचारं सदा त्व् एवं कुर्वन्तीह न संशयः ॥ [ब् ८।१६]
बहिर्वादिकृतम् अभियोक्तारं विना कृतम् । एतच् च प्रायिकम्, आत्मशुद्धिपराणाम् अभियोक्तारं विनापि दिव्यविधानात् ।
कत्यायनः ।
६०८ साधयेत् तु पुनः साध्यं व्याघाते साधन्स्य हि ।
दत्तान्य् अपि यथोक्तानि राजा दिव्यानि वर्जयेत् ।
मूर्खैर् लुब्दहैश् च दुष्टैश् च पुनर् देयानि तानि वै ॥ [क् ४३८]
कथम् अपि पूर्वदिव्याप्रामाण्यशङ्कायां पुनर् दिव्यं देयम् इत्य् अर्थः ।
अथ दिव्यविशेषे कालविशेषम् आह पितामहः ।
६०९ यो यस्य विहितः कालो विधिर् यस्य च यो यथा ।
तं प्रवक्ष्यामि तत्त्वेन वादिनश् च बलाबलम् ॥ [पि ३२]
६१० चैत्रो मार्गशिराश् चैव वैशाखश् च तथैव् हि ।
एते साधारणा मासा दिव्यानाम् अविरोधिनः ॥ [पि ३३]
६११ घटः सर्वर्तुकः प्रोक्तो वाते वाति विवर्जयेत् । [पि ३४]
६१२ अग्निः शिशिरहेमन्तवर्षासु परिकीर्तितः ।
शरद्ग्रीष्मे तु सलिलं हेमन्ते शिशिरे विषम् ॥ [पि ३५]
नारदः ।
६१३ न शीते तोयशुद्धिः स्यान् नोष्णकाले ऽग्निशोधनम् ।
न प्रावृषि विषं दद्यात् प्रवाते न तुलां नृपः ॥ [न् १।२५९]
अत्र शीतशब्देन हेमन्तशिशिरवर्षाणां ग्रहणम् । उष्णशब्देन शरद्ग्रीष्मयोर् ग्रहणम् ।
ज्योतिषे ।
६१४ सिंहस्थे मकरस्थे च जीवे चास्तमिते भृगौ ।
मलमासे न कर्तव्या परीक्षा जयकाङ्क्षिणाम् ॥
६१५ रविशुद्धौ गुरोश् चैव शुक्रे ऽस्तंगते पुनः ।
संहस्थे च रवौ नैव परीक्षा शस्यते बुधैः ॥
६१६ नाष्टम्यां न चतुर्दश्यां प्रायश्चित्तं परीक्षणम् ।
न परीक्षाधिवासश् च शनिभौमदिने भवेत् ॥
अथ वर्णविसेषे दिव्यविशेषम् आह नारदः ।
६१७ ब्राह्मणस्य धटो देयः क्षत्रियस्य हुताशनः । [न् १।३३४च्द्]
६१८ वैश्यस्य सलिलं देयं शूद्रस्य विषम् एव च ॥ [न् १।३३५अब्]
६१९ साधारणः समस्तानां कोशः प्रोक्तो मनीषिभिः ।
विषवर्जं ब्राह्मणस्य सर्वेषां वा तुला स्मृता ॥ [न्क़् ६।६]
कात्यायनः ।
६२० राजन्ये ऽग्निं धटं विप्रे वैश्ये तोयं नियोजयेत् ।
सर्वेषु सर्वदिव्यं वा विषवर्जं द्विजोत्तमे ॥ [क् ४२२]
याज्ञवल्क्यः ।
६२१ तुला स्त्रीबालवृद्धार्तपङ्गुब्राह्मणरोगिणाम् ।
अग्निर् जलं वा शूद्रस्य यवाः सप्त विषस्य वा ॥ [य् २।९८]
कात्यायनः ।
६२२ गोरक्षकान् वाणिजकान् तथा कारुकुशीलवान् ।
प्रैष्यान् वार्द्धुषिकांश् चैव ग्राहयेच् छूद्रवत् द्विजान् ॥ [क् ४२३]
नारदः ।
६२३ क्लीबातुरान् सत्त्वहीनान् परितापार्दितान् नरान् ।
बालवृद्धातुरादींश् च परीक्षेत धटे सदा ॥ [न्क़् ६।८]
६२४ नार्तानां तोयशुद्धिः स्यान् न विषं पित्तरोगिणाम् ।
श्वित्र्यन्धकुनखादीनां नाग्निकार्यं विधीयते ॥ [न् १।२५५]
६२५ न मज्जनीयं स्त्रीबालं धर्मशास्त्रविशारदैः ।
रोगिणो ये च वृद्धाः स्युः पुमांसो ये च दुर्बलाः ॥ [न् १।३१३]
६२६ निरुत्साहान् व्याधिजुष्टान् नार्तांस् तोये निमज्जयेत् ।
सद्यो म्रियन्ते मज्जन्तः स्वल्पप्राणा हि ते स्मृताः ॥ [न् १।३१४]
६२७ साहसे ऽप्य् आगतान् एतान् नैव तोये निमज्जयेत् ।
न वापि हारयेद् अग्निं न निषेण विशोधयेत् ॥ [न् १।३१५]
कात्यायनः ।
६२८ न लोहशिल्पिनाम् अग्निं सलिलं नाम्बुसेविनाम् ।
मन्त्रयोगविदां चैव विषं दद्यात् तु न क्वचित् ॥ [क् ४२४अब्च्द्]
६२९ दिव्यं तु वर्जयेन् नित्यम् आर्तानां तु गदैर् नृणाम् । [क्?]
६३० तण्डुले न नियुञ्जीत व्रतिनं मुखरोगिणाम् ॥ [क् ४२४एफ़्]
व्रतिनं तण्डुलाभक्षणव्रतवन्तम् ।
विष्णुः ।
६३१–६३३ न कुष्ठ्यसमर्थलोहकराणाम् अग्निर् देयः । शरद्ग्रीष्मयोः ।
६३४, ६३५ न कुष्ठिपैत्तिकब्राह्मणानां विषं देयम् । प्रावृषि च ।
६३६ न श्लेष्मव्याध्यर्दितानां भीरूणां श्वासकासिनाम् अम्बुजीविनाम् उदकम् ।
६३७, ६३८ हेमन्तशिशिरयोश् च । न नास्तिकेभ्यः कोशो न देशे व्याधिमरकोपसृष्टे च ॥
[वि ९।२५–३२]
पितामहः ।
६३९ मद्यपस्त्रीव्यसनिनां कितवानां तथैव च ।
कोशः प्राज्ञैर् न दातव्यो ये च नास्तिकवृत्तयः ॥ [पि ४३]
कात्यायनः ।
६४० देशकालाविरोधे तु यथायुक्तं प्रकल्पयेत् ।
अन्येन हारयेद् दिव्यं विधिर् एष विपर्यये ॥ [क् ४३६]
अन्येन प्रतिनिधिना । हारयेत् कारयेत् । विपर्यये अभियुक्तस्यासामर्थ्ये ।
नारदः ।
६४१ सव्रतानां कृशार्तानां व्याधितानां तपस्विनाम् ।
स्त्रीणां च न भवेद् दिव्यं यदि धर्मस् त्व् अवेक्ष्यते ॥ [न् १।२५६]
कात्यायनः ।
६४२ मातापितृद्विजगुरुबालस्त्रीराजघातिनां ।
महापातकयुक्तानां नास्तिकानां विशेषतः ॥ [क् ४२७]
६४३ लिङ्गिनां प्रमदानां च मन्त्रयोगक्रियाविदाम् ।
वर्णसंकरजातानां पापाभ्यासप्रवर्तिनाम् ॥ [क् ४२८]
६४४ एतेष्व् एवाभियोगेषु निन्द्येष्व् एव प्रयत्नतः ।
दिव्यं प्रकल्पयेन् नैव राजा धर्मपरायणः ॥ [क् ४२९]
६४५ एतैर् एवाभियुक्तानां साधूनां दिव्यम् अर्हति ।
नेच्छन्ति साधवो यत्र तत्र साध्यं स्वकैर् नरैः ॥ [क् ४३०]
६४६ महापातकयुक्तेषु नास्तिकेषु विशेषतः ।
न देयं तेषु दिव्यं तु पापाभ्यासरते भृगुः ॥ [क् ४३१]
६४७ येषु पापेषु दिव्यानि प्रतिषिद्धानि यत्नतः ।
भावयेत् सज्जनैस् तानि नाभिशस्तं त्यजेन् नृपः ॥ [क् ४३२]
अवष्टम्भे विशेषम् आह पितामहः ।
६४८ अवष्टम्भाभियुक्तानां धटादीनि तु दापयेत् ।
तण्डुलाश् चैव कोशैश् च शङ्कास्व् एतौ नियोजयेत् ॥ [पि ३६]
अवष्टम्भो ऽत्र निश्चयः ।
तथा ।
६४९ चौर्यशङ्काभियुक्तानां तप्तमाषो विधीयते । [पि १६९च्द्]
कात्यायनः ।
६५० शङ्काविश्वाससंधाने विवादे ऋक्थिनां सदा ।
क्रियासमूहकर्तृत्वे कोशम् एव प्रदापयेत् ॥ [क् ४१५]
क्रियासमूहकर्तृत्वे संभूयैकक्रियाकरणे ।
पितामहः ।
६५१ विश्रम्भे सर्वशङ्कासु संधिकार्ये तथैव च ।
एषु कोशः प्रदातव्यो नित्यं चित्तविशुद्धये ॥ [पि ३७]
अत्र द्रव्यसंख्यातो दिव्यविशेषः ।
तत्र विष्णुः ।
६५२–६५४ अथ समयक्रिया । राजद्रोहसाहसेषु यथाकामम् ।
निक्षेपर्णस्तेयेष्व् अर्थप्रमाण्त् । [वि ९।१–३]
समयो दिव्यम् । राजद्रोहादिषु यथाकामं राजेच्छानुसारेण दिव्यम् इत्य् आर्थः ।
दैवी क्रियेत्य् अनुवृत्तौ बृहस्पतिः ।
६५५ ऋणादिषु च कार्येषु विसंवादे परस्परम् ।
द्रव्यसंख्यान्विता देया पुरुषापेक्षया तथा ॥ [ब् ८।७]
कात्यायनः ।
६५६ दत्तस्यापह्नवो यत्र प्रमाणं तत्र कल्पयेत् ।
स्तेयसाहसयोर् दिव्यं स्वल्पे ऽप्य् अर्थे प्रदापयेत् ॥ [क् ४१६]
कल्पयेत् अपह्नुतद्रव्यसंख्यां जानीयात् । स्वल्पे ऽपीति – यादृशि स्वल्पे ऋणादौ दिव्याभावः स्तेयसाहसयोस् तादृश्य् अपि धने दिव्यम् इत्य् अर्थः ।
बृहस्पतिः ।
६५७ संख्या रश्मिरजोमूला मनुना समुदाहृता ।
कार्षापणान्ता सा दिव्ये नियोज्या विनये तथा ॥ [ब् ८।२८]
६५८ विषं सहस्रे ऽपहृते पादोने च हुताशनः ।
त्रिभागोने च सलिलम् अर्धे देयो धटः सदा ॥ [ब् ८।२९]
६५९ चतुःशताभियोगे तु दातव्यस् तप्तमाषकः ।
त्रिशते तण्डुला देयाः कोशश् चैव तदर्धके ॥ [ब् ८।३०]
६६० शते हृते ऽपह्नुते च दातव्यं धर्मशोधनम् ।
गोचौरस्य प्रदातव्यं सभ्यैः फालावलेहनम् ॥ [ब् ८।३१]
६६१ एषा संख्या निकृष्टानां मध्यानां द्विगुणा स्मृता ।
चतुर्गुणोत्तमानां च कल्पनीया परीक्षकैः ॥ [ब् ८।४८]
रश्मिरजोमूला –
६६२ जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः ।
प्रथमं तत् प्रमाणानां त्रसरेणुं प्रचक्षते ॥ [म् ८।१३२]
इत्यादिका । अग्रिमसंख्याप्य् एतदनुसारेण । विनये दण्डे । निकृष्टानां जातिगुणकर्मभिः । एवं मध्यमानाम् उत्तमानां च ।
याज्ञवल्क्यः ।
६६३ ना सहस्रात् हरेत् फालं न विषं न तुलां तथा ।
नृपार्थेष्व् अभिशापे च वहेयुः शुचयः सदा ॥ [य् २।९९]
ना सहस्रात् पणसहस्राद् अर्वाग् इत्य् अर्थः । नृपार्थेषु नृपद्रोहेषु नृपद्रव्येषु वा । अभिशापे पातकाभियोगे । सदा पूर्वोक्तसंख्यां विनापीत्य् अर्थः । शुचयः स्नानादिना ।
एतानि तु सहस्रादिवचनानि स्तेयसाहसविषयाणीत्य् आहुः ।
विष्णुः ।
६६४, ६६५ सर्वेष्व् एवार्थजातेषु मूल्यं कनकं प्रकल्पयेत् । तत्र कृष्णलोने शूद्रं
६६६, ६६७ दूर्वाकरं शापयेत् । द्विकृष्णलोने तिलकरम् । त्रिकृष्णलोने रजतकरम् ।
६६८-६७० चतुःकृष्णलोने कनककरम् । पञ्चकृष्णलोने सीतोद्धृतमहीकरम् । सुवर्णार्धे
६७१ कोशः देयः शूद्रस्य । ततः परं यथार्हं धटाग्न्युदकविषाणाम्
६७२, ६७३ अन्यतमम् । द्विगुणार्थे यथाविहिता समयक्रिया वैश्यस्य । त्रिगुणार्थे
६७४, ६७५ राजन्यस्य । चतुर्गुणार्थे ब्राह्मणस्य । न ब्राह्मणस्य कोशं दद्यात् ।
६७६, ६७७ अन्यत्रागामिकालसमयनिबन्धनक्रियातः । कोशस्थाने च ब्राह्मणं
६७८ सीतोद्धृतमहीकरम् एव शापयेत् । प्राग्दृष्टदोषं स्वल्पे ऽप्य् अर्थे
६७९ दिव्यानाम् अन्यतमम् एव कारयेत् । सत्सु विदितं तच् चरित्रं न
महत्य् अर्थे ॥ [वि ९।४–१९]
अत्र कनकपदं परिमाणरूपसुवर्णपरम् । तत्र सुवर्णे । दूर्वादि यथाक्रमं करे निधाय शपथाः शूद्रेण कर्तव्याः । सुवर्णार्धो ऽर्धः कनक इत्य् अर्थः । अरधसुवर्णमूल्यके धने शूद्रेण कोशपानं कर्तव्यम् । एतद्द्विगुणे वैश्येन । एतत्त्रिगुणे क्षत्रियेण । एतच्चतुर्गुणे ब्राह्मणेन त एव शपथाः कार्याः । शूद्रकोशार्हधनाद् द्विगुणत्रिगुणयोर् वैश्यक्षत्रियाभ्यां कोश एव कार्यो ब्राह्मणस्य तु कोशो न देयः । अन्यत्रागामीति अस्माभिर् मिलित्वा एवं कर्तव्यम् इति यत्र समयः कृतः तस्माद् अन्यत्र । तत्र तु ब्राह्मणस्यापि कोशो देयः । सीता हलपद्धतिः । यथार्हम् इति स्तेयसाहसयोः स्वल्पे ऽप्य् अर्थे ऋणादौ तु शतसुवर्णाद्यभियोगे ।
कात्यायनः ।
६८० सर्वद्रव्यप्रमाणं तु ज्ञात्वा हेम प्रकल्पयेत् ।
हेमप्रमाणयुक्तं तु तदा दिव्यं प्रयोजयेत् ॥ [क् ४१७]
६८१ शते विषं तु पादोने हुतभुक् तत्र दृश्यते ।
आपस् त्रिभागहीने तु शतार्धे तु तुला स्मृता ॥ [क् अप्प् ४२]
६८२ कोशपानं तदर्धे वा दशपञ्चकसप्तसु । [क्?]
६८३ तदर्धे तण्डुला देयास् तदर्धे तप्तमाषकः ॥ [क् अप्प् ४२*]
शते सुवर्णस्येत्य् अर्थः । पादोने पञ्चसप्ततिसुवर्णमिते धने । त्रिभागहीने तृतीयभागहीने सुवर्णशते । तदर्धे शतार्धार्धे । दशपञ्चकसप्तस्व् इति – शतस्य दशमांशे पञ्चमांशे सप्तमांशे वा कोशपानं प्रदातव्यम् इत्य् अर्थः ।
अत्र चाल्पपरिमाणम् अपकृष्टविषयम् ।
वृद्धमनुः ।
६८४ ज्ञात्वा संख्याम् सुवर्णस्य शतनाशे विषं स्मृतम् ।
अशीतेस् तु विनाशे तु दद्याच् चैव हुताशनम् ॥ [क् ४१८]
६८५ षष्ट्या नाशे जलं ज्ञेयं स्याच् चत्वारिंशतो धटः ।
त्रिंशद्दशविनाशे वा कोशपाने बृहस्पतिः ॥ [क् ४१९]
६८६ पञ्चार्धकस्य नाशे वा तदर्धस्य च तण्डुलाः । [क् ४२०अब्]
त्रिंशद्दशविनाशे वेति – त्रिंशद्विनाशे दशविनाशे वेत्य् अर्थः । पञ्चार्धकस्य वेति – पञ्चार्धस्य वा तदर्धस्य वा नाशे कोशपानम् इत्य् अर्थः ।
इमानि तु वचनानि ऋणादिविषयाण्य् उत्कृष्टविषयाणि चेत्य् अतो न याज्ञवल्क्यादिविरोध इति ।
दिव्यविषयस् तु ग्रन्थगौरवभयान् नेह तन्यन्ते ।
शपथाः
अथ शपथाः ।
तत्र मनुः ।
६८७ सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः ।
गोबीजकाञ्चनैर् वैश्यं शूद्रं सर्वैस् तु पातकैः ॥ [म् ८।११३]
६८८ पुत्रदारस्य चाप्य् एनं शिरांसि स्पर्शयेत् पृथक् ॥ [म् ८।११४च्द्]
सत्येन शापयेत् यदि एतन् मया कृतं तदा सत्यातिक्रमजन्यपापभाग् अहं स्याम् इति वादयेत् । वाहनायुधैर् इत्य् अत्रापि यद्य् एतन् मया कृतं तदैतानि वाहनान्य् आयुधानि वा मम निष्फलानि भवन्त्व् इति वादयेद् इत्य् अर्थः । एवम् अन्यत्रापि । हलायुधस् तु – ब्राह्मणेन तु सत्यम् इति वक्तव्यं क्षत्रियेण तु वाहनम् आयुधं वा स्प्रष्टव्यं वैश्येन तु गोबीजकाञ्चनानाम् अन्यतमं स्प्रष्टव्यं शूद्रेण तु सर्वम् एतत् कर्तव्यम् । पातकशब्दश् चात्र पूर्वोक्तशपथानाम् एव विशेषणम्, तेषां वृथा कृतानां पातकहेतुत्वाद् इति व्याख्यातवान् ।
बृहस्पतिः ।
६८९ सत्यं वाहनम् अस्त्रं च गोबीजकांचनानि च
देवब्राह्मणपादाश् च पुत्रदारशिरांसि च ॥ [ब् ८।३३]
६९० एते च शपथाः प्रोक्ता मनुना स्वल्पकारणे ।
साहसे ऽप्य् अभिशापे च दिव्यानि तु विशोधनम् ॥ [ब् ८।३४]
अत्र शपथानां दिव्यभिन्नतयोपन्यासाद् धटादिषु चापरिगणनान् न दिव्यत्वम् अतो न दिव्यधर्माणाम् उपवासार्द्रवासस्त्वादीनाम् अन्वयः किं तु शौचार्थं स्नानाचमनादिमात्रस्येति द्रष्टव्यम् ।
शक्खः ।
६९१ इष्टापूर्तप्रदानम् अन्यांश् च शपथान् कारयेत् । [श्ल् २६५]
मनुः ।
६९२ न वृथा शपथं कुर्यात् स्वल्पे ऽप्य् अर्थे नरो बुधः ।
वृथा हि शपथान् कुर्वन् प्रेत्य चेह च नश्यति ॥ [म् ८।१११]
६९३ कामिनीषु विवाहेषु गवां भुक्ते तथेन्धने ।
ब्राह्मणाभ्युपपत्तौ च शपथैर् नास्ति पातकम् ॥ [म् ८।११२]
कामिनीष्व् इत्य् – रहसि कामिनीसंतोषार्थं वृथाशपथैर् एवं विवाहसुद्ध्यर्थं वृथाशपथैर् एवं गोघासार्थं वृथाशपथैर् एवम् आवश्यकाहुतिहेत्विन्धनार्थं वृथाशपथैर् एवं ब्राह्मणादिरक्षार्थं वृथाशपथैर् न दोष इत्य् अर्थः ।
यमः ।
६९४ मृषा कृत्वा तु शपथं कीटस्य वधसंयुतम् ।
अनृतेन च युज्यते वधेन च तथा नरः ॥ [य?]
६९५ तस्मान् न मिथ्या शपथं नरः कुर्याद् यथेप्सितम् ॥ [य?]
कीटपदं प्राणिमात्रोपलक्षणम् । तेन यथेतन् मया कृतं तदा मम ब्राह्मणवध इत्यादौ शपथे मृषा कृते कर्तुर् ब्रह्मवधभागिता भवतीत्य् अर्थः ॥
इति महाराजाधिजारश्रीदर्पनारायणात्मज-
महाराजाधिराजश्रीहृदयनारायणानुज-
महाराजाधिराजश्रीहरिनारायणविरचिते
व्यवहारचिन्तामणौ
क्रियापादः ।