अथोत्तरपादः ।
तत्र निर्दोषायां भाषायां सत्यां ज्ञाततदर्थेन उत्तरं देयम् । तद् आह बृहस्पतिः ।
११६ विनिश्चिते पूर्वपक्षे ग्राह्याग्राह्यविशोधिते ।
प्रतिज्ञार्थे स्थिरीभूते लेखयेद् उत्तरं ततः ॥ [ब् ३।२]
विनिश्चिते स्वरूपतो ऽवधारिते । याज्ञवल्क्यः ।
११७ श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसंनिधौ ।
ततो ऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधकम् ॥ [य् २।७]
११८ तत्सिद्धौ सिद्धिम् आप्नोति विपरीतम् अतो ऽन्यथा । [य् २।८अब्]
यो ऽर्थः परिशोधितत्वादिः तस्य साधनं साक्ष्यादि । तस्य सिद्धौ उपन्यस्तस्य प्रमाणस्य सिद्धो निर्वाहणे । सिद्धिं विजयम् । अन्यथा ऽनिर्वाहणे । विपरीतं अविजयम् । भङ्गम् इति तु मिताक्षरा । श्रुतार्थस्य भाषावचनस्य । पूर्वावेदको भाषिता । अर्थी प्रतिवादी । प्रतिज्ञातः प्रत्यर्थिप्रतिज्ञातः । सद्यः उत्तरलिखनानन्तरम् । कात्यायनः ।
११९ श्रुत्वा लेखयतो ह्य् अर्थं प्रत्यर्थी कारणाद् यदि ।
कालं विवादे याचेत तस्य देयो न संशयः ॥ [क् १४५]
१२० सद्यो वैकाहपञ्चाहौ त्र्यहं वा गुरुलाघवात् ।
लभेतासौ त्रिपक्षं वा सप्ताहं वा ऋणादिषु ॥ [क् १४६]
अत्र व्यवस्थाम् आह स एव ।
१२१ सद्यः कृते सद्यो वादः समातीते दिनं क्षिपेत् ।
षडाब्दिके त्रिरात्रं तु सप्ताहं द्वादशाब्दिके ॥ [क् १५४]
१२२ विंशत्यब्दे दशाहं तु समार्थं वा लभेत सः ।
मासं त्रिंशत्समातीते त्रिपक्षं परतो लभेत् ॥ [क् १५५]
१२३ कालं शक्तिं विदित्वा तु कार्याणां च बलाबलम् ।
अल्पं वा बहुकालं वा दद्यात् प्रत्यर्थिने प्रभुः ॥ [क् १४७]
प्रभुर् इह विचारकः । बृहस्पतिः ।
१२४ एकाहत्र्यहपञ्चाहसप्ताहं पक्षम् एव वा ।
मासम् ऋतुत्रयं वापि लभते शक्त्यपेक्षया ॥ [ब् ३।४]
सद्योविषयं कियन्तम् अप्य् आह याज्ञवल्क्यः ।
१२५ साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियाम् ।
विवादयेत् सद्य एव कालो ऽन्यत्रेच्छया स्मृतः ॥ [य् २।१२]
गौर् अत्र दोग्ध्री । गोत्वम् उपलक्षणम् – यत्र कालात्ययेन भोगादिक्षतिस् तत्परम् । अत्यये मरणे संभाव्यमाने । स्त्रियां कुलस्त्रियां चारित्र्यविवादे दास्यां वा स्वत्वविवादे । इदं च सप्तग्रहणम् उपलक्षणम् – यत्र कालातिपाते प्रतिकूलं तत्परम् । तद् आह कात्याय्नः ।
१२६ व्यपेति गौरवं यत्र विनाशस् त्याग एव वा ।
कालं तत्र न कुर्यात् तु कार्यम् आत्ययिकं हि तत् ॥ [क् १४९]
अन्यत्र ऋणादौ । तद् आह नारदः ।
१२७ गहनत्वाद् विवादानाम् असामर्थ्यात् स्मृतेर् अपि ।
ऋणादिषु हरेत् कालं कामं तत्त्वबुभुत्सया ॥ [न्मा १।४४]
याज्ञवल्कीयम् अपीच्छापदं तत्त्वबुभुत्सापरम् एव । हरेत् हारयेत् । विचारक इति शेषः । व्यासः ।
१२८ राजदैवकृतो दोषस् तस्मिन् काले यदा भवेत् ।
अवधित्यागमात्रेण न भवेत् स पराजितः ॥ [व्य् ?]
१२९ राजदैवकृतं दोषं साक्षिभिः प्रतिपादयेत् ।
जैह्म्येन वर्तमानस् तु दण्ड्यो दाप्यश् च तद् धनम् ॥ [व्य् ?]
अवध्यतिक्रमेतो राजदेवकस्य प्रमितौ न तदतिक्रामको ऽपराध्यति । जैह्म्यात् तु तदतिक्रमन् दण्ड्यश् च भङ्गी च भवतीत्य् अर्थः । कात्यायनः ।
१३० अभियुक्तो ऽभोयोक्तारं नाभियुञ्जीत कर्हिचित् ।
अन्यत्र दण्डपारुष्यस्तेयसंग्रहणात्ययात् ॥ [क् १६३]
दण्डादिषु पञ्चस्व् अपि ममाप्य् अनेन दण्डपारुष्यादिकं कृतम् इत्य् अभियोगो दातव्य एव, तथैवाभियोगनिस्तारात् । याज्ञवल्क्यः ।
१३१ अभियोगम् अनिस्तीर्य नैनं प्रत्यभियोजयेत् ।
अभियुक्तं न चान्येन नोक्तं विप्रकृतिं नयेत् ॥ [य् २।९]
१३२ कुर्यात् प्रत्यभियोगं च कलहे साहसेषु च । [य् २।१०अब्]
अन्येनाभियुक्तं नाभियुञ्जीत । विप्रकृतिम् इति आवेदनकाले ऽन्यथा लेखयित्वा भाषाकाले नान्यथा लेखयेद् इत्य् अर्थिद्षूपदेशद्वयम् । नारदः ।
१३३ पक्षस्य व्यापकं सारम् असंदिग्धम् अनाकुलम् ।
अव्याख्यागम्यम् इत्य् एतद् उत्तरं तद्विदो विदुः ॥ [न्क़् ३।२]
पक्षस्य भाषितहेतोर् व्यापकम् आच्छादकम् । तद् उक्तम् –
१३४ पूर्वपक्षार्थसंबन्धं प्रतिपक्षं निवेशयेत् ॥ इति । [न्मा २।२च्द् = क् १५९च्द्]
सारं प्रकृताभियोगि । असंदिग्धम् उच्यमानं सत् निश्चीयमानम् । अनाकुलं पूर्वापरविरोधरहितम् । अव्याख्यागम्यम् अध्याहारादिकं विनैव प्रतीतम् । यद्य् अपि संप्रतिपत्तिर् अज्ञानादिकं च उत्तरं न भाषितहेत्वाच्छादकं तथापि तदभिसंधिना प्रयुक्तम् एवेति द्रष्टव्यम् । अत एव उत्तिर्यते निस्तीर्यते प्रकृताभियोगो ऽनेनेत्य् उत्तरम् इति प्राञ्चः । न्यायस् तु – पक्षस्य स्वप्रतिज्ञातस्याधार्यमाणत्वादेर् व्यापकं साधकम् इत्य् आहुः । पक्षस्य धार्यमाणत्वे साध्ये पक्षीकृतस्य शतस्य व्यापकम् अभिव्यापकम् । तथा चार्धम् अत्रागृहीतम् अर्धं च परिशोधितम् इत्य् अपि मिथ्याकारणघटितम् उत्तरं पक्षाभिव्यापकत्वात् संगृह्यत एवेत्य् अन्ये । अत्र चैतादृशार्थक्ं वचनम् उत्तरम् ।
तद् एवार्थचातुर्विध्येन विभजते कात्यायनः ।
१३५ सत्यं मिथ्योत्तरं चैव प्रतियवस्कन्दनं तथा ।
पूर्वन्यायविधिश् चैव उत्तरं स्याच् चतुर्विधम् ॥ [क् १६५]
व्यासः ।
१३६ साध्यस्य सत्यवचनं प्रतिपत्तिर् उदाहृता ।
कारणं स्याद् अवस्कन्दो मिथ्या स्यात् साध्यनिह्नुतिः ॥ [व्य् १।२४]
साद्यस्य भाषितस्य सहेतुसाध्यस्य् कण्ठतो ऽर्थतो वा निह्नवो मिथोत्तरम् । केवलसाध्यनिह्नवस् तु संपतिपत्तिभिन्नेषु त्रिष्व् अप्य् उत्तरेषु समान इति द्रष्टव्यम् । बृहस्पतिः ।
१३७ मिथ्यायां च चतुष्पादः प्रत्यवस्कन्दने तथा ।
प्राङ्न्याये च स विज्ञेयो द्विपात् संपतिपत्तिषु ॥ [ब् २।३]
संप्रतिपत्तिः
अथ संप्रतिपत्तिः ।
१३८ अनुक्त्वा कारणं यत्र पक्षं वादी प्रपद्यते ।
प्रतिपत्तिस् तु सा ज्ञेया कारणे दूषणं पृथक् ॥ [ब् ३।१४]
कारणं परहेतुदूषणकारणम् । वादी प्रत्यर्थी । कारणे कारणोत्तरे पृथक् दूषणं भवेद् इत्य् अर्थः । संप्रतिपत्तिश् च सिद्धसाधनम् आपादयन्ती सदुत्तरम् । न चैवं भाषितुर् निग्रहः, विचारस्यास्य तत्त्वनिर्णयार्थकत्वात् । तत्र च सिद्धसाधनस्यादोषत्वाद् इति । अत्र च न क्रियापादो नापि जयपराजयावधारणलक्षणप्रत्याकलितपाद इति द्विपाद् एव व्यवहारस् तत् सूक्तम् – द्विपात् संप्रतिपत्तिष्व् इति ।
मिथ्योत्तरम्
अथ मिथ्योत्तरम् ।
तत्र कात्यायनः ।
१३९ अभियुक्तो ऽभियोगस्य यदि कुर्याद् अपह्नवम् ।
मिथ्या तत् तु विजानीयाद् उत्तरं व्यवहारतः ॥ [क् १६७]
अभियोगो हेतुर् गृहीतत्वादिः । तेन हेत्वपलाप एव मिथ्योत्तरम् इति सारम् । व्यासः ।
१४० मिथ्यैतन् नाभिजानामि मम तत्र न संनिधिः ।
अजातश् चास्मि तत्काल इति मिथ्या चतुर्विधा ॥ [व्य् १।२८]
अत्र मिथ्यैतद् इति कण्ठतो, न जानामीत्यादिकं त्रिकम् अर्थतो ऽपह्नवः । तद् आह कात्यायनो ऽपि ।
१४१ श्रुत्वा भाषार्थम् अन्यस् तु यदि तं प्रतिषेधति ।
अर्थतः शब्दतो वापि मिथ्या तज् ज्ञेयम् उत्तरम् ॥ [क् १६६]
भाषार्थं सहेतुसाध्यम् । अत्र साध्यापह्नवोक्तिर् उत्तरान्तर्व्यवच्छेदद्वारा मिथ्योत्तरलक्षणोपयुक्ता । हेत्वपह्नव एव तु स्वरूपाद्धिर् नाम स्थापनादोष इति विवेक्तव्यम् ।
तत्र गृहीतत्वात् त्वं धारयसीति भाषायां मया न गृहीतम् इति शब्दतः । कालविशेषगर्भायां तस्यां तदा नाहं जात इत्य् अर्थतः । देशकालविशेषगर्भायां तस्यां तदा तत्र नाहम् आसम् इत्य् अर्थतः । देशादिमत्यां तच्छून्यायां वा तस्यां न जानामीत्य् अर्थत एव, योग्यास्मरणेनार्थतस् तद्ग्रहणप्रतिपादनात् । अत्र च चरमत्रयं ग्रहणास्कन्दमुखेन ग्रहणाभावप्रतिपादकं सापदेशमिथ्योत्तरम् इत्य् उच्यते । आद्यं मिथ्योत्तरमात्रम् । न जानामीति तु सापदेशमिथ्योत्तरम् अभिमामात्रात् । शेषं तु द्वयं व्याप्ततया सम्यक् ।
न चैवं समीचोर् ग्रहणास्कन्दयोर् असंनिधानाजन्मनोर् एव प्रतिपाद्यता स्याद् इति वाच्यम् । तस्याभावरूपतया ग्रहणापेक्षया प्रतिपादनगौरवात् । ताभ्यां चाग्रणस्य व्यापकानुपलब्ध्या प्रत्यायने ऽपि गौरवात् । तत्प्रत्यायनाशक्ताव् अपि संशयतादवस्थयाच् च । न हि तदा जातस् तत्र सन् गृह्णात्य् एवेति नियमः । धर्मव्यवहारे च च्छलम् अवश्यनिरस्यम् । तस्माच् चतुर्ष्व् अपि मिथ्योत्तरेषु स्थापकेनैव दृष्टन ग्रहणं (?) प्रमापणीयम् इति ।
यत् तु पित्रादिगृहीतत्वभाषायां तद्ग्रहाधिकरणत्वेनाभिमतकालापेक्षया चरमजातस्य तत्पुत्रस्य न जानामीत्यादिकम् उत्तरं तदुत्तरप्रतिरूपकम्, अर्थतो ऽपि स्थापितहेत्वपह्नवासम्भवात् ।
न चैवम् उत्तराभावाद् एव तत्र स्थापकस्य् जय इति वाच्यम् । धर्मव्यवहारे च्छलस्यावश्यनिरस्यत्वेन तत्र स्थापकेन ग्रहणस्यावश्यप्रमापणियत्वात् । अत एव प्रकाशक्रये नाष्टिकेनादत्तत्वादिकम् अपि प्रमापणीयम् इति स्मरन्ति । अन्यथा दत्तत्वादेर् दूषकेनानुक्तत्वाद् अदत्तत्वादिप्रतिपादनं तत्राधिकं स्यात् । तेन च दत्तत्वाद्यभिधाने तेनैव च तत्प्रतिपाद्यम् इत्य् अपि स्यात् नाष्टिकोक्ततत्स्वत्वाद्यास्कन्दकत्वाद् दत्तत्वादेर् इति ।
कारणोत्तरं चापरम् ।
कारणं स्थापकसाध्यस्य धार्यमाणत्वस्य ध्वंसकारणं निर्यातनादि तद्रूपम् । अत एव मिथ्योत्तराद् अस्य भेदः । तद् धि धर्यमाणत्वस्याभावप्रयोजकम् अग्रहणं न तु ध्वंसकं कदाप्य् अधारितत्वात् । अत एव प्राङ्न्यायाद् अस्य भेदः । प्राङ्न्यायो हि धार्यमाणत्वसामान्याभावज्ञापक इति ।
एतच् च त्रिविधम् – पूर्वाद्युक्तहेत्वपेक्षयाधिकबलं समबलं दुर्बलं च ।
तत्राद्यं प्रत्यवस्कन्दनम् । तद् आह बृहस्पतिः ।
१४२ अर्थिनाभिहितो यो ऽर्थः प्रत्यर्थी यदि तं तथा ।
प्रपद्य कारणं ब्रूयात् प्रत्यवस्कन्दनं हि तत् ॥ [ब् ३।१९]
अर्थिनोक्तं गृहीतत्वहेतुं सत्यम् इत्य् अभ्युपगम्य यदीदानीम् अधार्यमाणत्वे परिशोधितत्वादिकं कारणं ब्रूयात् तद् उत्तरं प्रत्यवस्कन्दनं भवतीत्य् अर्थः । यथा मया त्वत्तः शतं गृहीतम् इति सत्यं किं तु परिशोदिथम् इति । इदं च – त्वं मह्यम् इदानीं शतस्य धारयः मत्तः प्रतिदेयतया गृहीततावद्धनत्वाद् इति भाषायां निर्यातनस्थले व्यभिचारवारणायापरिशोधितत्वे सतीति हेतौ विशेषणं स्थापकस्य हृदिस्थं तस्य चासिद्धिर् उत्तरवाक्यार्थः । तथा च हेतुविशेषणासिद्धिपरम् इदं कारणोत्तरम् । कात्यायनो ऽपि ।
१४३ अर्थिनाभिहितो यो ऽर्थः प्रतिअर्थी यदि तं तथा ।
प्रपद्य कारणं ब्रूयाद् आधर्यं भृगुर् अब्रवीत् ॥ [क् १७०]
आधर्यं दुर्बलत्वम् । पूर्वपक्षस्येति शेषः । नारदः ।
१४४ आधर्यं पूर्वपक्षस्य यस्मिन्न् अर्थवशाद् भवेत् ।
विवादे साक्षिणस् तत्र प्रष्टव्याः प्रतिवादिनः ॥ [न् १।१६४]
प्रदीपकृतस् तु – कारणं धार्यमाणत्वे कारणं गृहीतत्वं तत् प्रपद्याभ्युपेत्य ब्रूयात् परिशोधनादिकम् इति शेषः इत्य् एवं क्रमेण योजनाम् अर्थाद् आहुः । परिशोधितत्वं च स्थापनाहेतुविशेषणं कष्ठरवेणोक्तम् इति चाहुः ।
केचित् तु – प्रपद्य स्थापनाहेतुं प्रतीत्य य्द् विपरीतवचनं तत् कारणोत्तरम् इति त्रितयपरम् एवेदं वाक्यम् इत्य् आहुः । तन् न – समहीनबलकारणोत्तरयोः स्थापनाया आधर्यसम्भवे न एतद् वाक्यस्य तदुभयविष्यकत्वाद् इति । वस्तुतस् तु – तद् धनं मत्साधारणं मदविभक्तत्वदर्जितत्वाद् इत्य् अत्र नैतद् एवं त्वद्विभक्तमदर्जितत्वाद् इत्य् अत्र बलवत्कारणोत्तरे कण्ठोक्तस्याविभक्तत्वस्य खण्डनात् अभियोगध्वंसस्य चाजननान् न प्राचीना व्याख्या किं तु प्रपद्याभ्युपेत्य भाषितहेतुं विशेष्यभागमात्रं कारणम् अनभियोज्यताप्रयोजकरूपं विभक्तत्वनिर्यातितत्वादि यद् ब्रूते तद् बलवत्कारणोत्तरम् इति व्याख्या ज्यायसीति ।
समबलं तु – मदीयेयं भूः क्रमागतत्वाद् इति भाषायाम् इदम् एवोत्तरम् । इदं च सत्प्रतिपक्षत्वपरम् ।
दुर्बलोत्तरं तु – विंशतिवर्षाद् आरभ्य ममेयम् आधिविषया भूः तावत्समयाद् आरभ्य स्वामिना मय्य् आहितत्वाद् इति । इदम् अपि सत्प्रतिपक्षत्वपरम् ।
१४५ आधौ प्रतिग्रहे क्रीते पूर्वैव बलवत्तरेति । [य्२।२३च्द्]
अत्र च बलवति प्रतिवादिनः अन्त्ययोस् तु स्थापकस्य प्रमाणम् अनुसंधेयम् ।
तद् अयुक्तम्,
१४६ गुराव् अभिहिते हेतौ प्रतिवादिक्रिया भवेत् ।
दुर्बले वादिनः प्रोक्ता तुल्ये पूर्वक्र्यैव् चेति ॥ [?]
कात्यायनः ।
१४७ कारणात् पूर्वपक्षो ऽपि उत्तरत्वं प्रपद्यते ।
अतः क्रिया सदा प्रोक्ता पूर्वपक्षप्रसाधिनी ॥ [क् २११]
कारणात् बलवत्त्वात् । उत्तरत्वं उत्तमत्वम् ।
प्राङ्न्यायोत्तरं तु – अस्मिन्न् अर्थे मयायं पूर्वं जित इति रूपम् । यद् आह बृहस्पतिः ।
आचारेणावसन्नो ऽपि पुनर् लेकयते यदि ।
सो ऽभिधेयो जितः पूर्वं प्राङ्न्यायस् तु स उच्यते ॥ [ब् ३।२१]
आचारेण व्यवहारेण । अवसन्नो भङ्गी । लेखयते भाषाम् ।
अत्र चोत्तरवादिन एव क्रिया तेनैव पूर्वजयस्य विभावनीयत्वात् । तथा च हारीतः
प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत् क्रियाम् ।
मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत् ॥ [ब् १।२९]
कारनोक्तौ बलवत्कारणोक्तौ । अत्र च प्राङ्न्याये बलवत्पूर्वप्रमाणबाधः स्थापनाहेतुदोषः । निर्णीतत्वेन संशयाभावाद् असिद्धिर् इत्य् अन्ये ।
उत्तराभासः
अथोत्तराभासाः ।
तत्र कात्यायनः ।
१५० पक्षैकदेशे यत् सत्यम् एकदेशे च कारणम् ।
मिथ्या चैवैकदेशे स्यात् संकरात् तद् अनुत्तरम् ॥ [क् १८९]
अत्र केचित् – यथा शतग्रहणे भाषिते पञ्चाशतं धारयाम्य् एव पञ्चविंशतिः परिशोधिताः पञ्चविंशतिर् न गृहीता इत्याद्य् उदाहरणम् । अत्र च कात्यायनवचनं बीजं । तथा हि –
१५१ न चैकस्मिन् विवादे तु क्रिया स्याद् वदिनोर् द्वयोः ।
न चार्थसिद्धिर् उभयोर् न चैकस्मिन् क्रियाद्वयम् ॥ इति [क् १९०]
एकत्र द्वयोर् वादिनोर् न क्रिया द्वयी च न क्रिया द्वयोश् च न जय इति वाक्यार्थः । यथोक्तसंकीर्णोत्तरस्य च ग्राह्यत्वे तत् सर्वं प्रसज्येतेत्य् आहुः । तन् मन्दम् – न हीदृशो विषय एव न संभवति बहुशो दर्शनात् । न चेदृशम् उत्तरं न देयं यथावस्थितार्थोत्तरदानस्य निषेद्धुम् अशक्यत्वात् । न च सकल एवाक्षेपे मिथ्योत्तरम् एव कार्यं शतस्यागृहीतत्वाद् इति वाच्यम् । न हि विज्ञा एव विवदन्ते किंत्व् आज्ञा अपि । न च त इत एव पर्यनुयोज्याः किं तु तत्त्वतो निरूप्याः –
१५२ छलं निरस्य भूतेन व्यवहारान् नयेन् नृपः [य् २।१अब्]
इत्यादिवचनात् ।
किं च – न सदुत्तरान्तरम् अत्र संभवतीत्य् अत एवास्य हेयता । उपायस्योपायान्तरादूषकत्वात् । न च वचनाद् एवास्य हेयता, एतद् वचनस्यादृष्टर्थतापत्तेः ।
अपि च – शतं न गृहीतम् इत्य् अस्य नाग्रहणमात्रम् अर्थः शतपदानर्थक्यापत्तेः । नापि शताग्रहणं विशेषनिषेधे शेषाभ्यनुज्ञापत्तेः । नापि शतपदं पक्षप्राप्तानुवाद एवम् एकदेशस्य गृहीतस्य गृहीतत्वविभावनाद् एव स्थापको निरपवादम् एव तावद् धनं लभेतेत्य् अनिष्टफलकम् उत्तरं स्यात् । तस्माद् एकदेशे एकस्मिन्न् एव देशे यद् उत्तरं संकीर्थते तद् अनुत्तरं शेषं एकदेशपदद्वयं चानुवादः । तथा हि मया शतं न गृहीतं गृहीतं वा परिशोधितं धारयाम्य् एवेत्यादि ।
यत् तु भिन्नभिन्नावच्छेदेन कारणादिस्पर्शि तत् सदुत्तरम् एव अवच्छेदभेदेन साङ्कर्यस्यैवाभावात् । अत्रैव हारीतेनापि मीमांसितम् –
१५३ मिथ्योत्तरं कारणं च स्याताम् एकत्र चेद् उभे ।
सत्यं चापि सहानेन तत्र ग्राह्यं किम् उत्तरम् ॥ [ह् १।२३]
१५४ यत् प्रभूतार्थविषयं यत्र वा स्यात् क्रियाफलम् ।
उत्तरं तत् तु विज्ञेयम् असंकीर्णम् अतो ऽन्यथा ॥ [ह् १।२४अब्च्द्]
यद् इति – प्रचुरार्थविषयकम् उत्तरांशम् आदाय विचार उपक्रमणीयः । तुल्यार्थविषयत्वे तु यत्र क्रियाया भुक्त्यादेः फलं निर्णयः शीघ्रं भवति तदंशस्यैव प्रमाणं ग्राह्यम् । तद् उक्तम् – यत्र वा स्यात् क्रियाफलम् इति । इदं चोत्तरम् असंकीर्णम् इव । यत् त्व् अतो ऽन्यथा तत् संकीर्णं हेयम् इति । तद् अयं वर्तुलार्थः – शताभियोगे पञ्चाशत् परिशोधिताः पञ्चविंअतिर् धार्यन्ते पञ्चविंशतिस् तु नैव गृहीता इत्य् उत्तरे कारणभाग आदौ विचार्यः । पश्चात् तु अपह्नुताः पञ्चविंशतिर् अपि अर्थिप्रमाणेन वा साध्याः प्रत्यर्थिप्रमाणेन वा बध्याः ।
न चैवं सत्य् एतद्वचनविरोध एव । न्यायवचनानाम् उत्सर्गतो न्यायमूलकत्वेनैव तद्वचनस्यापि लघ्वर्थप्रमाणपरिग्रहाभाधकत्वात् । सति निर्णयप्रमाणे च तदंशे ऽपि प्रकरणारम्भकसंशयस्यावश्यनिरस्यत्वात् । न च यत् प्रभूतार्थविषयम् इत्यादिवचनवशाद् एव लघ्वर्थप्रमाणाग्राह्यता, तथा सत्य् एतत् स्मृतीनां श्रुतिमूलतापत्तेः । न चैतद् इष्टम् एव, असंभवन्मूलान्तरत्वस्य तत्रोपाधित्वात् । यूपहस्त्यादिस्मृतौ तथा सिद्धान्तत्वात् । आसां च न्यायमूलकत्वस्यैव संभवात् ।
१५५ मिथ्याकारणसंभेदे ग्राह्यं कारणम् उत्तरम् । [ह् १।२४एफ़्]
इत्यादिकम् अपि वचनम् एवम् एव नेयम् ।
तस्मात् तावत् प्रकरणारम्भकसंशयो ऽनुवर्तते निर्णायकं च प्रमाणं लभ्यते तावद् विचारणीयम् इति परमार्थः ।
भवदेवप्रदीपादयो ऽप्य् एवम् ।
कात्यायनः ।
१५६ प्रकृतेन त्व् असंबद्धम् अत्यल्पम् अतिभूरि च ।
पक्षैकदेशव्याप्य् एव तत् तुनैवोत्तरं भवेत् ॥ [क् १८८]]
१५७ असंबद्धपदव्यापि निगूढार्थं तथाकुलम् ।
व्याख्यागम्यम् असारं च नोत्तरं शस्यते बुधैः ॥ [क् १७४]
प्रकृतेन प्रकृतभाषया । अत्यल्पं प्रतिज्ञामात्रं न धारयामीत्यादि । अतिभूरि बहुहेतुकम् । पक्षैकदेशव्यापि भाषैकदेशाच्छादकम् । असंबद्धपदव्यापि अनन्वितार्थकपदव्याप्तम् । निगूढार्थम् अप्रसिद्धार्थम् । आकुलं परस्परविरुद्धार्थकम् । व्याख्यागम्यं लक्षणादिना विवक्षितार्थबोधकम् । असारं जात्युत्तरम् ।
तथा —
१५८ प्रपद्य कारणं पूर्वम् अन्यद् गुरुतरं यदि ।
प्रैवाक्यगतं ब्रूयात् साध्यते तद् धि नेतरत् ॥ [क् १९१]
आदौ लघुकारणम् अभिधाय पश्चाद् बलवत्तदभिदधतस् तावद् वलवद् एव ग्राह्यं तत्त्वनिर्णयार्थम् इत्य् अर्थः ।
बृहस्पतिः —
१५९ पूर्वपक्षे यथार्थं तु न दद्याद् उत्तरं तु यः ।
प्रत्यर्थी दापनीयः स्यात् सामादिभिर् उपक्रमैः ॥ [ब् ३।७]
१६० प्रियपूर्वं वचः साम भेदस् तु भदर्शनम् ।
अर्थापकर्षणं दण्डस् ताडनं बन्धनं तथा ॥ [ब् ३।८]
१६१ उपायैर् देश्यमानस् तु न दद्याद् उत्तरं तु यः ।
अतिक्रान्ते सप्तरात्रे जितो ऽसौ दण्डम् अर्हति ॥ [ब् २।४]
१६२ उन्मत्तमत्तनिर्धूता महापातकदूषिताः ।
जडातिक्रुद्धबालाश् च विज्ञेयास् ते निरुत्तराः ॥ [ब् १।१७३]
पूर्वपक्ष इति – उत्तरदानशक्तः सन् सामादिनापि पृष्टो यः सप्तरात्रपर्यन्तेनापि नोत्तरं ददाति स भङ्गी व्यवहर्तव्यः । उन्मत्तादयस् तु स्वज्ञपरद्वारेणोत्तरं दापयितव्या इत्य् अर्थः ।
तथा —
१६३ उभयोर् लिखिते कार्ये प्रारब्धे तत्त्वनिर्णये ।
अयुक्तं तत्र यो ब्रूयात् स तदर्थात् तु हीयते ॥ [ब्? = क् २०६च्देफ़्]
१६४ पूर्वोत्तरे निविष्टे तु विचारे संप्रवेशिते । [ब् ३।४२अब्]
निर्णिक्तं तु तयोर् तत्र वचनं वादिनोर् भृगुः ॥ [ब्?]
१६५ मोहाद् वा यदि वा शाठ्यात् यन् नोक्तं पूर्ववादिना ।
उत्तरान्तर्गतं वापि तद् ग्राह्यम् उभयोर् अपि ॥ [ब् २।१७ = क् १९३]
१६६ श्रुतं च लिखितं चैव चिन्तितं तु विशोधितम् । [ब् २।२९च्द्]
प्रथमे ऽहनि तस्यैव विवादविधिर् उच्यते ॥ [ब्?]
पूर्वोत्तरे भाषायाम् उत्तरे च संवृत्ते विचारे प्रारब्धे वादिनोर् वचनं निर्णिक्तं शाधितं ग्राह्यम् । तद् एव प्रपञ्चयति – मोहाद् इत्यादि । शाठ्यं तात्कारिकवाक्स्तम्भादि । एवं च विचारप्रवृत्तिपर्यन्तं भाषोत्तरयोः शोधने सिद्धे
१६७ प्रतिज्ञां पूरयेद् वादी यावन् नोत्तरदर्शनम् [न्क़् २।२२अब्]
इत्य् अत्राप्य् उत्तरपदं विचारारम्भपरम् इति द्रष्टव्यम् ।
इति व्यवहारचिन्तामणौ
उत्तरपादः ।