०१ भाषापादः

अथ भाषापादः।

तत्र बृहस्पतिः ।

८८ प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् ।
निश्चितं लोकसिद्धं च पक्षं पक्षविदो विदुः ॥ [ब् २।१४]
८९ अल्पाक्षरः प्रभूतार्थो निःसंदिग्धो निराकुलः ।
विरोधकारणैर् मुक्तो विरोधिप्रतिषेधकः ॥ [ब् २।१५]
९० यदा त्व् एवंविधः पक्षः कल्पितः पूर्ववादिना ।
दद्यात् तत्पक्षसंबन्धं प्रतिवादी तदोत्तरम् ॥ [ब् ३।१]

साध्यं साध्यस्य सिद्ध्यर्हस्य प्रत्याय्यधर्मविशिष्टस्य धर्मिणो वचनं पक्षं विदुः । तेन स्वमतस्य वचनं पक्षं विदुर् इत्य् अर्थः । प्रतिज्ञादोषौः प्रतिज्ञाविरोधादिभिर् उज्झितम् । सत्कारणान्वितम् अस्फुरद्दोषलिङ्गसम्पन्नम् । एवं च त्वं मह्यं शतस्य धारयः मत्त ऋणत्वेन गृहीततावद्धनकत्वाद् इति भाषाशरीरम् उक्तं भवति । अत्र च देहीत्य् अर्थिताव्यञ्जकमात्रं न तु भाषान्तर्ततम् इत्य् अवधेयम् । निश्चितं अप्रचलार्थकम् । तेन धारयति न वेत्यादिकम् अपास्तम् । लोकसिद्धं लोकव्यवहाराविरुद्धार्थकम् । एवं च –

९१ तृणकाष्ठेष्टकाकिण्वसूत्रचर्मास्थिवर्मणाम् ।
हेतिपुष्पफलानां च वृद्धिस् तु न निवर्तते ॥ [ब् १०।२३]

इति बृहस्पतिवचनम् आलम्ब्य् लोकविरुद्धानन्तवृद्धिप्रार्थनम् अपि भाषेत्य् अपास्तम् । अत एव बृहस्पतिः ।

९२ केवलं शास्त्रम् आश्रित्य न कर्तव्यो विनिर्णयः ।
युक्तिहीनविचारे तु धर्महानिः प्रजायते ॥ [ब् १।११४]

युक्तिर् व्यवहारः । भवदेवस् तु – यत्र श्रुतमात्र एव लोकानां सम्प्रत्ययस् तल् लोकसिद्धम् । तेन निर्धनकृतो लक्षसंख्यस्वधनप्रयोगाक्षेपो बाधित इत्य् आह । अल्पाक्षरः यावद्भिर् अक्षरैर् विना विशिष्टहेतुप्रयुक्तसाध्योपहितपक्षप्रतिपादनं न भवति तावन्मात्राक्षरकः । प्रभूतार्थः निरुक्तार्थक एव । निराकुलः पौर्वापर्यविपर्यासादिशून्यस् तेन सुबोधो भवति । विरोधिकारणैः स्वसाध्यविपरीतव्याप्तैर् हेतुभिः शून्यः । यथा मद्विभक्तो ऽप्य् अयम् अर्जकत्वाद् इदानीम् अर्जितं मयि ददात्व् इत्यादिकं तद्व्यतिरिक्तः सत्पक्षः । अत्र मद्विभक्तत्वस्य पक्षविशेषणत्वे प्रतिज्ञाविरोधसम्भवे प्रतिज्ञादोषनिर्मुक्तम् इत्य् अत्र एवैतल्लाभे इदं प्रपञ्चनमात्रम् इति द्रष्टव्यम् । विरोधिप्रतिषेधक इति – यावत्प्रकारम् उत्तरं सम्भाव्यं तावत्प्रतिषेधको यथा भवति तथा पक्षनिर्देशः कार्य इत्य् अर्थः \

नारदः ।

९३ सारस् तु व्यवहाराणां प्रतिज्ञा समुदाहृता ।
तद् धानौ हीयते वादी तरंस् ताम् उत्तरो भवेत् ॥

प्रतिज्ञा तावत् त्वं मह्यं शतस्य धारय इत्य् एवंरूपा । तस्या हानौ अपरिपूरणे हीयते भज्यते तां तरन् परिपूरयन् उत्तरः श्रेष्ठो भवतीत्य् अर्थः । बृहस्पतिः ।

९४ यं चार्थम् अभियुञ्जीत न तं विप्रकृतिं नयेत् ।
न च पक्षान्तरं गच्छेत् गच्छन् पूर्वात् स हीयते ॥ [ब् २।७]

विप्रकृतिं न्यूनताम् अधिकतां वा । यथा शतं धारयसीति भाषित्वा पश्चात् पञ्चाशतम् एव वा सार्धशतमेव वेति पुनर् भाषणम् । पक्षान्तरम् इति – शतं सुवर्णान् धारयसीति आदौ भाषित्वा विरम्य पश्चात् गाश् च धारयसीति पक्षान्तरम् इत्य् अर्थः । इदं चोत्तरावरोधात् पूर्वम् अविरुद्धम् एव तदन्तरं तु विरुद्धम्,

९५ उत्तरेणावरुद्धस्य निवृत्तं लेखनं भवेत् । [न्क़् २।२२च्द्]

इत्यादिवचनात् । तथा –

९६ उपस्थिते ततस् तस्मिन् वादी पक्षं प्रकल्पयेत् ।
निरवद्यं सत्प्रतिज्ञं प्रमाणागमसंयुतम् ॥ [ब् २।५]
९७ देशं कालं समां मासं पक्षाहोजातिनाम च ।
द्रव्यसंख्योदयं पीडां क्षमालिङ्गं च लेखयेत् ॥ [ब् २।६]

आगमः ऋणादिप्रमाणं साक्षिपत्रादिकम् । यद्य् अपि तृतीयपादे पत्त्रादिकीर्तनं तथापि पक्षस्य संभावनार्थम् इदानीम् अपि तत्सामान्याकारेण निर्देश्यम् । उदयो वृद्धिः । पीडां यद्य् अहम् ऋणिकस् तदा प्रत्यासत्तां कुतो न माम् अयम् अपीडयद् इति तदर्थं पीडितो ऽयं मयेति वाच्यम् । अपीडने वा क्षमाहेतुर् वाच्यः । कात्यायनः ।

९८ निवेश्य कालं वर्षं च मासं पक्षं तिथिं तथा ।
वेलां प्रदेशं विषयं स्थानं जात्याकृती वयः ॥ क् १२४]
९९ साध्यं प्रमाणं द्रव्यं च संख्यां नाम तथात्मनः ।
राज्ञां च क्रमशो नाम् निवासं साध्यनाम च ॥ क् १२५]
१०० क्रमात् पितॄणां नामानि पीडाम् आहर्तृदापकौ ।
क्षमालिङ्गानि चान्यानि पक्षं संकीर्त्य कल्पयेत् ॥ [क् १२६]

एतच् च सर्वं विरोध्यन्तरनिराकरणाय वाच्यम् । अन्यथा तु प्रतिज्ञाहेतू एव वाच्यौ ।

नारदः ।

१०१ भाषायाम् उत्तरं यावत् प्रत्यर्थी नाभिलेखयेत् ।
अर्थी तु लेखयेत् तावद् यावन् नोत्तरदर्शनम् । [न्मा २।७]
१०२ अवष्टब्धस्योत्तरेण निवृत्तं लेखनं भवेत् ॥ [न्मा २।२२च्द्]

बृहस्पतिः ।

१०३ ऊनाधिकं पूर्वपक्षं तावद् वादी विशोधयेत् ।
न दद्याद् उत्तरं यावत् प्रत्यर्थी सभ्यसंनिधौ ॥ [ब् २।२२]

पक्षाभासाः

अथ पक्षाभासाः ।

तान् आह बृहस्पतिः ।

१०४ अप्रसिद्धं सदोषं च निरर्थं निःप्रयोजनम् ।
असाध्यं वा विरुद्धं वा राजा पक्षं विवर्जयेत् ॥ [ब् २।८]
१०५ न केनचित् कृतो यस् तु सो ऽप्रसिद्ध उदाहृतः ।
अन्यार्थः स्वार्थहीनश् च सदोषः परिकीर्तितः ॥ [ब् २।९]
१०६ अल्पापराधश् चाल्पार्थो निरर्थक् इति स्मृतः ।
कार्यबाधाविहीनश् च विज्ञेयो निःप्रयोजनः ॥ [ब् २।१०]
१०७ कुसीदाद्यैः परैर् हीनो व्यवहारो निरर्थकः ।
वाक्पारुष्यादिभिश् चैव विज्ञेयो निःप्रयोजनः ॥ [ब् २।११]
१०८ ममानेन प्रदातव्यं शशशृङ्गमयं धनुः ।
असंभाव्यम् असाध्यं तु पक्षम् आहुर् मनीषिणः ॥ [ब् २।१२]
१०९ यस्मिन् नावेदिते पक्षे प्राड्विवाके ऽथ राजनि ।
पुरे राष्ट्रे विरोधः स्याद् विरुद्धः सो ऽभिधीयते ॥ [ब् २।१३]

कुसीदाद्यैश् चतुर्दशभिः । वाक्पारुष्यादिभिर् इत्य् अत्र हीन इत्य् अनुषज्यते । तथा –

११० पुरराष्ट्रविरुद्धश् च यश् च राजविवर्जितः ।
अनेकपदसंकीर्णः पूर्वपक्षो न सिध्यति ॥ [क् १३६]
१११ बहुप्रतिज्ञं यत् कार्यं व्यवहारेषु निश्चितम् ।
कामं तद् अपि गृह्णीयाद् राजा तत्त्वबुभुत्सया ॥ [क् १३७]

अनेकपदेति – अनेकक्रियाकव्यवहारविषयम् एतत् । तद् आह कात्यायनः ।

११२ न चैकस्मिन् विवादे तु क्रिया स्याद् वादिनोर् द्वयोः।
न चार्थसिद्धिर् उभयोर् न चैकत्र क्रियाद्वयम् ॥ [क् १९०]

इदम् अपि न हेयं हिं तु राज्ञा लेख्यम् एव निरूपणम् अस्य क्रमशः । यत्र तु एकहेतुकैव नानासाध्यसिद्धिस् तत्र क्रमो ऽपि न । कात्यायनः ।

११३ देशकालविहीनश् च द्रव्यसंख्याविवर्जितः ।
साध्यप्रमाणहीनश् च पक्षो ऽनादेय इष्यते ॥ [क् १३८]

देशेति – यत्र देशादिभिर् एव निर्णयस् तत्रैव तदुपयोगो न तु सर्वत्र । अन्यथा अदृष्टार्थतापत्तेर् इति द्रष्टव्यम् । व्यासः ।

११४ पाण्डुलेखेन फलके भूमौ वा प्रथमं लिखेत् ।
न्यूनाधिकं च संशोध्य पश्चात् पत्त्रे निवेशेयेत् ॥ [व्य् १।२३]

फलकं काष्ठादिपट्टं । तथा च आदौ भाषां भूमौ निवेश्य न्यूनाधिकं संशोध्य पत्त्रे लिखेत् । कात्यायनः ।

११५ अन्यद् उक्तं लिखेद् अन्ह्यद् यो ऽर्थिप्रथ्यर्थिनां वचः ।
चौरवच् छासयेत् तं तु धार्मिकः पृथिवीपतिः ॥ [क्१३२]

अन्यद् इत् – अन्यथोक्तं अन्यथा कृत्वा लिखति चौरवद् दण्ड इत्य् अर्थः \

इति व्यवहारचिन्तामणौ

*भाषापादः *