English
Searchable Electronic Edition of the_ Vyavahāracintāmaṇi_, edited by Ludo Rocher, transcribed by Patrick Olivelle, is licensed under a Creative Commons Attribution 4.0 International License.
Patrick Olivelle
University of Texas at Austin
Vācaspati Miśra
Vyavahāracintāmaṇi
Vyavahāracintāmaṇi by Vācaspati Miśra. A Digest on Hindu Legal Procedure. crit. ed. and trans. Ludo Rocher. Gentse Orientalistische Bijdragen 1. Gent, 1956.
Transcribed by Patrick Olivelle, October 2021.
English
Abbreviations
Āp Āpastamba-dharmasūtra. ed. G. Bühler. BSS 44, 50, 1932.
B Bṛhaspatismṛti. ed. K.V. Rangaswami Aiyangar. GOS 85, 1941. Tr. Jolly, SBE 33, 1889.
Bau Baudhāyana-dharmasūtra. ed. A Chinnasvāmi Śāstri. KSS 104, 1934.
G Gautama-dharmasūtra. w/Haradatta comm. ed. G.Ś. Gokhale. ĀnSS 61, 1931.
H Hārīta-dharmaśāstra. ed. and tr. J. Jolly. Abhandlungen dey bayerischen Akademie 18.2 (1888-89), 505-24.
K Kātyāyanasmṛti. ed. tr. P.V. Kane. Bombay-Poona, 1933.
K App Kātyāyana Appendix. ed. K.V. Rangaswami Aiyangar. Festschrift Kane. Poona 1941, 7-17.
M Manusmṛti. tr. G. Būhler. SBE 25, 1886. ed. V.N. Mandlik. Bombay 1886.
Mā Mātṛkā (introductory chapters of N)
N Nāradasmṛti. tr. J. Jolly. SBE 33, 1889. ed. J. Jolly. Bibliotheca Indica 102, 1885.
Pi Pitāmahasmṛti. ed. tr. K. Scriba. Leipzig, 1902.
Pr Prajāpatismṛti
ŚL Śaṅkhalikhita-dharmasūtra. ed. P.V. Kane. ABORI 7, 1926-27, 101-128; 8 1927-28, 93-132.
U Uśanaḥsmṛti
Va Vasiṣṭha-dharmasūtra. ed. A.A. Führer. BSS 23, 1930.
Vi Viṣṇusmṛti w/Nandapaṇḍita. ed. J. Jolly. Biblo. Indica 91, 1881.
Vy Vyāsasmṛti. ed. B.K. Ghosh. pt. 1, Festschrift W. Geiger. Leipzig, 1931, 108-21; pt. 2, ZII 9 (1933-34), 78-92.
Y Yājñavalkyasmṛti. w/Aparārka. ed. T. Gaṇapati Śāstri. TSS 74, 81, 1922-24; w/Vijñāneśvara. ed. P. Jāvājī. Bombay, 1936.
ॐ
नमो गणेशाय
१ आराध्य नन्दनन्दनम् अनुसंधाय प्रयत्नतो ग्रन्थान् ।
श्रीवाचस्पतिविबुधो व्यवहृतिचिन्तामणिं तनुते ॥
२ माषोत्तरक्रियापादा निर्णयः सोपदेशकः ।
चतुष्पात् तत्त्वविषयो व्यवहारो निरूप्यते ॥
तत्रादाव् उपदेशे वर्णनीये तन्मूलव्यवहारसमयम् आह नारदः ।
३ धर्मैकतानाः पुरुषा यदासन् सत्यवादिनः ।
तदा न व्यवहारो ऽभून् न द्वेषो न च मत्सरः ॥ [न्मा १।१]
४ नष्टे धर्मे मनुष्याणां व्यवहारः प्रकीर्तितः ।
द्रष्टा च व्यवहाराणां राजा दण्डधरः स्वयम् ॥ [न्मा १।२]
व्यवहारो विवादः । नष्टे धर्मे कलियुगे । दण्डधर इत्य् अनेनोद्धतशासकत्वम् उक्तम् ।
याज्ञवल्क्यः ।
५ यो दण्ड्यान् दण्डयेद् राजा सम्यग् वध्यांश् च घातयेत् ।
इष्टं स्यात् क्रतुभिस् तेन सहस्रशतदक्षिणैः ॥ [य् १।३५९]
सम्यक् यथाशस्त्रम् ।
६ इति संचिन्त्य नृपतिः क्रतुतुल्यफलं पृथक् ।
व्यवहारान् स्वयं पश्येत् सभ्यैः परिवृतो ऽन्वहम् ॥ [य् १।३६०]
कात्यायनः ।
७ विनीतवेशो नृपतिः सभां गत्वा समाहितः ।
आसीनः प्राङ्मुखो भूत्वा पश्येत् कार्याणि कार्यिणाम् ॥ [क् ५५]
८ स तु सभ्यैः स्थिरैर् युक्तः प्रज्ञामूलैर् द्विजोत्तमैः ।
धर्मशास्त्रार्थकुशलैर् अर्थशास्त्रविशारदैः ।
९ सप्राड्विवाकः सामात्यः सब्राःमणपुरोहितः ।
ससभ्यः प्रक्षको राजा स्वर्गे तिष्ठति धर्मतः ॥ [क् ५६]
विनीतेति – तथा चानुद्धतवेगस्य राज्ञो दर्शने वादिनो न क्षुभ्यन्तीत्य् अतः सम्यग्भाषादिसिद्धौ तत्त्वनिरूपणं सुकरं भवतीति भावः । आसीनत्वप्राङ्मुकत्वे ऽदृष्टार्थे । स्थिरैर् धर्मविनिश्चलचित्तैः । धर्मशास्त्रेति – तथा च धर्मशास्त्रार्थशास्त्रयोर् अविरोधम् आश्रित्य विचारणीयम् । विरोधे तु धर्मशास्त्रोक्तम् एव ग्राह्यम् । तद् उक्तं भविष्यपुराणे ।
१० स्मृत्यर्थयोर् विरोधे तु अर्थशास्त्रस्य बाधनम् ।
परस्परविरोधे तु न्याययुक्तं प्रमाणवत् ॥
स्मृतिर् धर्मशास्त्रं मन्वादिसंहिता । अर्थो ऽर्थशास्त्रं दण्डनीत्यादि । धर्मशास्त्रयोर् एव तु परस्परविरोधे विषयभेदादिनाप्य् असमाधेये निर्युक्तिकं बाध्यत इत्य् अर्थः । नारदो ऽप्य् आह ।
११ धर्मशास्त्रविरोधे तु युक्तियुक्तो विधिः स्मृतः ।
व्यवहारो हि बलवान् धर्मस् तेनावहीयते ॥ [न् मा १।४०]
व्यवहारो युक्तिः । प्राड्विवाको वक्ष्यते । प्रेक्षकः सम्यग्विचारको राजा विचारजनितात् पुण्यात् तैर् विचारसहायैः सह स्वर्गे तिष्ठतीत्य् अर्थः ।
नारदः ।
१२ राजा धर्मसहायस् तु द्वयोर् विवदमानयोः ।
सम्यक् कार्याण्य् अवेक्षेत रागद्वेषविवर्जितः ॥ [न्क़् १।४]
१३ धर्मेण्ōद्धरतो राज्ञो व्यवहारान् कृतात्मनः ।
सम्भवन्ति गुणाः सप्त सप्त वह्नेर् इवार्चिषः ॥ [न्मा १।३२]
१४ धर्मश् चार्थश् च् कीर्तिश् च लोकपक्तिर् उपग्रहः ।
प्रजाभ्यो बहुमानश् च स्वर्गे स्थानं च शाश्वतम् ॥ [न्मा १।३३]
१५ तस्माद् धर्मासनं प्राप्य राजा विगतमत्सरः ।
समः स्यात् सर्वभूतेषु बिभ्रद् वैवस्वतं व्रतम् ॥ [न्मा १।३४]
उद्धरतः सम्यङ् निर्णयतः । लोकपक्तिः लोकैः स्तोतव्यता । उपग्रहो ऽनुवर्तनीयत्वम् । वैवस्वतं व्रतं सर्वभूतसमत्वम् । यमः ।
१६ श्रुतिस्मृतिविरुद्धं च भूतानाम् अहितं च यत् ।
न तत् प्रवर्तयेद् राजा प्रवृत्तं च निवर्तयेत् ॥
१७ न्यायापेतं यद् अन्येन राज्ञाज्ञानकृतं भवेत् ।
तद् अप्य् आम्नायविहिते पुनर् न्याये निवेशयेत् ॥
आम्नायो वेदः ।
स्वयं च व्यवहारदर्शनाशक्तौ तत्क्षमो धार्मिको ब्राह्मणो नियोज्यः । तद् आह कात्यायनः ।
१८ यदा कार्यवशाद् राजा न पश्येत् कार्यनिर्णयम् ।
तदा नियुञ्ज्याद् विद्वांसं ब्राह्मणं वेदपारगम् ॥ [क् ६३]
१९ दान्तं कुलीनं मध्यस्थम् अनुद्वेगकरं स्थिरम् ।
परत्र भीरुं धर्मिष्ठम् उद्युक्तं क्रोधवर्जितम् ॥ [क् ६४]
कार्यवशाद् राजकार्यान्तरवशात् । कार्यनिर्णयं भाषोत्तरादिकम् । विद्वांसं वेदाविरुद्धतर्कक्षुण्णमतिम् । वेदपारगं परिशीलितधर्मशास्त्रम् । दान्तं तपःक्लेशसहम् । कुलीनं संकरादिदोषशून्यं मातापितृपम्पराकम् । मध्यस्थं सर्वत्र समदृष्टिम् । अनुद्वेगकरं मत्सरपारुष्याद्यकर्तारम् । स्थिरं लोभाद्यनाकृष्टम् । परत्र भीरुं सदा परलोकसशंकम् । धर्मिष्ठं स्ववर्णाश्रमविहितक्रियानिष्ठम् । उद्युक्तं निरलसम् । क्रोधवर्जितं तत्त्वविचारविरुद्धक्रोधहीनम् ।
क्षमब्राह्मणाभावे क्षत्रियः तदभावे वैश्यो नियोज्यः । तद् आह स एव ।
२० यदि विप्रो न विद्वान् स्यात् क्षत्रियं तत्र योजयेत् ।
वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ॥ [क् ६७]
मनुः ।
२१ यस्य राज्ञ स्तु कुरुते शूद्रो धर्मविवेचनम् ।
तस्य सीदति तद्राष्ट्रं पङ्के गौर् इव पश्यतः ॥ [म् ८।२१]
व्यासः ।
२२ द्विजान् विहाय यः पश्येत् कार्याणि वृषलैः सह ।
तस्य प्रक्षुभ्यते राष्ट्रं बलं कोषश् च नश्यति ॥ [व्य् १।५]
एतेन विचारणे वृषलसहायता निरस्ता ।
बृहस्पतिः ।
२३ राजा कार्याणि पश्येत प्राड्विवाको ऽथ वा द्विजः ।
न्यायाङ्गान्य् अग्रतः कृत्वा सभ्यशास्त्रमते स्थितः ॥ [ब् १।६५]
२४ विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च ।
प्रियपूर्वं प्राग् वदति प्राड्विवाकस् ततः स्मृतः ॥ [ब् १।६९]
व्यासः ।
२५ विचारानुगतं पृष्ट्वा ससभ्यस् तु प्रयत्नतः ।
विचारयति येनासौ प्राड्विवाकस् ततः स्मृतः॥ [व्य् १।७]
इदं त्व् अस्य निरुक्तमात्रम् । प्राड्विवाकत्वं तु व्यवहारक्षमतैव ।
बृहस्पतिः ।
२६ शब्दाभिधानतत्त्वजौ गणनाकुशलौ शुची ।
नानालिपिज्ञौ कर्तव्यौ राज्ञा गणकलेखकौ ॥ [ब् १।८१]
२७ आकारणे रक्षणे च साक्ष्यर्थप्रतिवादिना ।
सभ्याधीनः सत्यवादी कर्तव्यः शुद्धपूरुषः ॥ ब् १।८२]
शब्दो व्याकरणम् । अभिधानं कोषः । सभ्याधीनः विचारकाधीनः । पुरुष प्रैष्यकः ।
कात्यायनः ।
२८ कुलशीलवयोवृत्तवित्तवद्भिर् अमत्सरैः ।
वणिग्भिः स्यात् कतिपयैः कुलभूतैर् अधिष्ठितम् ॥ [क् ५८]
करण्म् इत्य् अन्वयः ।
२९ ये त्व् अरण्यचरास् तेषाम् अरण्ये करणं भवेत् ।
सेनायां सैनिकानां च सार्थेषु वणिजां तथा ॥ [ब् १।७३]
करणं सभा ।
३० कुलादिभ्यो ऽधिकाः सभ्यास् तेभ्यो ऽध्यक्षः स्मृतो ऽधिकः ।
३१ सर्वेषाम् अधिको राजा धर्म्यं यत्नेन निश्चितम् ।
उत्तमाधममध्यानां विवादानां विचारणात् ॥ [ब् १।९५]
३२ उपर्य् उपरि बुद्धीनां चरन्तीश्वरबुद्धयः ॥ [ब् १।९६अब्]
कुलं वादिनोर् वंश्याः । आदिपदात् श्रेणिः गणश् च । तत्र श्रेणिर् वणिगादिसमूहः गणो विप्रसमूहः । सभ्यः नियुक्तः साधुः । अध्यक्षः प्राड्विवाकः । एतेषां राजान्तानां निर्ण्यकरणे उत्तरोत्तरस्य बलवत्त्वं ज्ञानोत्कर्षाद् इत्य् अर्थः ।
अभियुक्तवचनं तु सर्वथादरणीयम् । तद् आह नारदः ।
३३ वणिक्शिल्पिप्रयोगेषु कृषिरङ्गोपजीविषु ।
अशक्यो निर्णयो ह्य् अत्र तत्त्वज्ञैर् एव कारयत् ॥ [न्क़् १।५]
उपलक्षणं चैतत् — यो यत्र विज्ञस् तत्साहित्येन तन्निर्णीतव्यम् इत्य् अर्थः । तथा ।
३४ तपस्विनां तु कार्याणि त्रैविद्यैर् एव कारयेत् ।
मायायोगविदां चैव न स्वयं कोपकारणात् ॥ [ब् १।७६]
येषां कोपाद् भयं भवति तेषां विचारस् तज्जातीयद्वारैव कारयितव्यः ।
मनुः ।
३५ आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः ।
न विभ्रूयान् नृपो धर्मं चिकीर्षन् हितम् आत्मनः ॥ [म् ८।३९०]
आश्रमेषु ब्रह्मचर्यादिषु किं विहितं किम् अविहितम् इति विमतौ भङ्गिप्रकोपभीत्या विचारप्रवृत्तो ऽपि राजा न विशिष्य धर्मं कथयेद् इत्य् अर्थः ।
३६ यथार्हम् एतान् अभ्यर्च्य ब्राह्मणैः सह पार्थिवः ।
शान्त्वेन प्रशमय्यादौ स्वधर्मं प्रतिपादयेत् ॥ [म् ८।३९१]
शान्त्वेन प्रियवचनेन आदौ तेषां कोपं शमयित्वा ब्राह्मणद्वारैव तद्धर्मं तेषु प्रतिपादयेद् इत्य् अर्थः ।
सभ्योपदेशः
अथ सभ्योपदेशः ।
तत्र बृहस्पतिः ।
३७ अज्ञानतिमिरोपेतान् संदेहपटलान्वितान् । [ब् १।९६च्द्]
३८ निरामयान् यः कुरुते शास्त्राञ्जनशलाकया ।
इह कीर्तिं राजपूजां लभते स्वर्गतिं च सः ।
तस्मात् संशयमूढानां प्रकर्तव्यश् च निर्णयः ॥ [ब् १।९७]
अत्र नारदः ।
३९ नानियुक्तेन वक्तव्यं व्यवहारे कथंचन ।
नियुक्तेन तु वक्तव्यम् अपक्षपतितं वचः ॥ [न्मा ३।१]
शास्त्रज्ञेन त्व् अनियुक्तेनापि वक्तव्यम् । तद् आह स एव ।
४० अनियुक्तो नियुक्तो वा शास्त्रज्ञो वक्तुम् अर्हति ।
दैवीं वाचं स वदति यः शास्त्रम् उपजीवति ॥ [न्मा ३।२]
दैवीं शास्त्रीयाम् । बृहस्पतिः ।
४१ लोभद्वेषादिकं त्यक्त्वा यः कुर्यात् कार्यनिर्णयम् ।
शास्त्रोदितेन विधिना तस्य यज्ञफलं भवेत् ॥ [ब् १।९८]
अधर्मप्रवृत्तौ राज्ञि सभ्यकृत्यम् आह कात्यायनः ।
४२ अधर्माज्ञां यदा राजा नियुञ्जीत विवादिनाम् ।
विज्ञाप्य नृपतिं सभ्यस् तदा सम्यङ् निवर्तयेत् ॥ [क् ७८]
४३ सभ्येनावश्यवक्तव्यं धर्मार्थसहितं वचः ।
शृणोति यदि नो राजा स्यात् तु सभ्यस् तदानृणः ॥ [क् ७७]
४४ न्यायमार्गाद् अपेतं तु ज्ञात्वा चित्तं महीपतेः ।
वक्तव्यं तत्प्रियं नात्र स सभ्यः किल्बिषी भवेत् ॥ [क् ७६]
४५ अधर्मतः प्रवृत्तं हि नोपेक्षेरन् सभासदः ।
उपेक्षमाणाः सनृपा नरकं यान्त्य् अधोमुखाः ॥ [क् ७४]
४६ अन्यायतो यियासन्तं ये ऽनुयान्ति सभासदः ।
ते ऽपि तद्भागिनस् तस्माद् बोधनीयः स तैर् नृपः ॥ [क् ७५]
अधर्माज्ञा अधर्मानुबन्धिनी आज्ञा । स सभ्य इति – यो राज्ञोक्तम् अधर्मम् अनुमोदतीत्य् अर्थः । अधर्मत इति – तथा चोत्पथगामिनो राज्ञ उपेक्षणे सभ्यस्यापि दोष इत्य् अर्थः । अन्यायत इत् – तथा चोत्पथगामिनो राज्ञो ऽनुसरणे सभ्यस्यापि दोष इत्य् अर्थः ।
मनुः ।
४७ पादो ऽधर्मस्य कर्तारं पादः साक्षिणम् ऋच्छति ।
पादः सभासदः सर्वान् पादो राजानम् ऋच्छति ॥ [म् ८।१८]
अधर्मस्य कर्तारं वादिनम् । राजपदम् इह विचारकपरम् ।
कात्यायनः ।
४८ कार्यस्य निर्णयं सम्यक् ज्ञात्वा सभ्यस् तथा वदेत् ।
अन्यथा नैव वक्तव्यं वक्ता द्विगुणदण्डभाक् ॥ [क् ८०]
सभ्यदोषात् तु यन् नष्टं देयं सभ्येन तत् तथा ।
कार्यं तु कार्यिणाम् एवं निश्चितं तु विचारयेत् ॥ [क् ८१]
एवं निश्चितम् असम्यग्विचारिअं पुनर् विचारयेद् इत्य् अर्थः ।
बृहस्पति ।
५० अन्यायवादिनः सभ्यास् तथैवोत्कोचजीविनः ।
विश्वस्तवञ्चकाश् चैव निर्वास्याः सर्व एव ते ॥ [ब् १।१०७]
विष्णुः ।
५१, ५२ कूटसाक्षिणां सर्वस्वापहारः कार्यः ।
उत्कोचजीविनां सभ्यानां च । [वि ५।१७९–१८०]
बृहस्पतिः ।
५३ कूटसभ्यः कूटसाक्षी ब्रह्महा च समाः स्मृताः । [ब् ५।३४अब्]
अनिर्णीते तु यद्य् अर्थे सम्भाषते रहो ऽर्थिना ॥ [ब् १।१०२अब्]
अथ व्यवहारं विविनक्ति कात्यायनः ।
५४ वि नानार्थे ऽव संदेहे हरणं हार उच्यते ।
नानासंदेहहरणाद् व्यवहार इति स्मृतः ॥ [क् २६]
स च द्विविधः । यद् आह नारदः:
५५ सोत्तरो ऽनुत्तरश् चैव स विज्ञेयो द्विलक्षणः ।
सोत्तरो ऽभ्यधिको यत्र विलेखात् पूर्वकः पणः ॥ [न्मा १।४]
यत्र माषालिखनात् पूर्वं यो ऽत्र जीयते स इत्यन्तं दण्डं जेत्रे ददातीत्य् एवंरूपः पणो वृत्तः स सोत्तरो व्यवहारः । तत्र सोत्तरपणे विवादे पराजितः पणं च दण्डं च दाप्य इत्य् आह स एव:
५६ विवादे सोत्तरपणे द्वयोर् यस् तत्र हीयते ।
स पणं स्वकृतं दाप्यो विनेयश् च पराजये ॥ [न्मा १।५]
स चायं व्यवहारो यत्र यदा द्रष्टव्यस् तद् आह कात्यायनः ।
५७ समास्थाने तु पूर्वाह्णे कार्याणां निर्णयं नृपः ।
कुर्याच् छास्त्रप्रणीतेन मार्गेणामित्रकर्षणः ॥ [क् ६०]
स चायं व्यवहारश् चतुष्पाद् इत्य् आह बृहस्पतिः ।
५८ पूर्वपक्ष आद्यपादो द्वितीयश् चोत्तरो मतः ।
क्रियापादस् तथा चान्यश् चतुर्थो निर्णयः स्मृतः ॥ [ब् १।१७]
तथा –
५९ मिथ्योक्तौ स चतुष्पादः प्रत्यवस्कन्दने तथा ।
प्राङ्न्याये च स विज्ञेयो द्विपात् संप्रतिपत्तिषु ॥ [ब् २।३]
सम्यग् माषोत्तरे सतीति विशेषणीयम् । अत एव यत्र माषोत्तरानर्हा तत्रार्थिवादो निर्णयश् चेति पादद्वयम् एव । यत्र चोत्तरम् आभासरूपं तत्र भाषाप्रत्यर्थिवचननिर्णया इति पादत्रयम् एव । न च – संप्रतिपत्ताव् अपि भाषोत्तरनिर्णया इति पादत्रयम् इति वाच्यम् । उत्तरवादिनैव भाषार्थस्याङ्गीकृतत्वेन निर्णेतव्याभावात् । स्वोक्त्यैव तस्य पराजितत्वात् । अत्र निर्णयकरणरूपायास् तृतीयप्रवृत्तेर् अभावात् ।
नारदः ।
६० गुरुशिष्यौ पितापुत्रौ सम्पती स्वामिभृत्यकौ ।
एतेषां समवेतानां व्यवहारो न सिध्यति ॥ [न्क़् १।६]
६१ एकस्य बहुभिः सार्थं (-धं?) स्त्रीभिः प्रेष्यकरैस् तथा ।
अनादेयो भवेद् वादो विद्वद्भिः परिकीर्तितः ॥ [न्क़् १।७]
६२ राज्ञा विवर्जितो यस् तु यस् तु पौरविरोधकृत् ।
राष्ट्रस्य वा समस्तस्य प्रकृतीनां तथैव च ॥ [ब् २।४३ = ह् १।३८]
६३ अन्ये ऽपि ये पुरग्राममहाजनविरोधिनः ।
अनादेयास् तु ते सर्वे व्यवहाराः प्रकीर्तिताः ॥
याज्ञवल्क्यः ।
६४ स्मृत्याचारव्यपेतेन मार्गेण धर्षितः परैः ।
आवेदयति यद् राज्ञे व्यवहारपदं हि तत् ॥ [य् २।५]
तत्र पूर्वपक्षो भाषापादः । स चार्थिवाच्यः । अर्थित्वं चाधिकपीडावशात् । सा च द्रव्यापचाराद् वा प्रारिप्सितकार्यभङ्गप्रसङ्गाद् वा न तु प्रथमनिवेदनमात्रेण । तद् आह व्यासः ।
६५ यस्य चाभ्यधिका पीडा कर्यं वाप्य् अधिकं भवेत् ।
तस्यार्थिभावो दातव्यो न यः पूर्वं निवेदयेत् ॥ [व्य् ?]
नारदः ।
६६ वक्तव्ये ऽर्थे न दिष्ठन्तम् उत्क्रामन्तं च तद्वचः ।
आसेधयेद् विवादार्थं यावद् आह्वानदर्शनम् ॥ [न्मा १।४७]
६७ आसेधकाल आसिद्ध आसेधं यो ऽतिवर्तते ।
स विनेयो ऽन्यथा कुर्वन् नासेद्धा दण्डम् अर्हति ॥ न्मा १।५१]
आसेद्धा विवादविमुखप्रत्यर्थिधर्ता अर्थी । तथा ।
६८ नदीसंतारकान्तारदुर्देशोपप्लवादिषु ।
आसिद्धः परम् आसेधम् उत्क्रामन् नापराध्नुयात् ॥ [न्मा १।४९]
प्रत्यर्थिनां राजनेतव्यत्वे ऽपि कांश्चित् प्रतिबन्धककार्यप्राप्तिपर्यन्तं नानेतव्यान् आह स एव ।
६९ निर्वेष्टुकामो रोगार्तो यिजक्षुर् व्यसने स्थितः ।
अभियुक्तस् तथान्येन राजकार्योद्यतस् तथा ॥ [न्मा १।५२]
७० गवां प्रचारे गोपालाः सस्यबन्धे कृषीवलाः ।
शिल्पिनश् चापि तत्काले आयुधीयाश् च विग्रहे ॥ [न्मा १।५३]
७१ अप्राप्तव्यवहाराश् च दूतो दानोन्मुखो व्रती ।
विषमस्थाश् च नासेध्या न चैतान् आह्वयेन् नृपः ॥ [न्मा १।५४]
निर्वेष्टुकामो विवाहप्रवृत्तः । आयुधीयाः शस्त्रोपजीविनः । अप्राप्तव्यवहारः षोडशवर्षावयस्कः । एते उत्तमर्णादिना नासेध्या न विधारणीयाः निवेदिते ऽपि वादिना नाह्वातव्याः, तत्कार्यसमाप्तिपर्यन्तं तत्कार्यविरोधात् ।
कात्यायनः ।
७२ गृहीतग्रहणो न्यायो न प्रवर्त्यो महीभुजा ।
तस्य वा तत् समर्प्यं स्यात् स्थापयेद् वा परस्य तत् ॥ [क् १२०]
गृह्यत इति ग्रहणं विवादपदं वस्तु । तच् च प्रतीतिपक्षो प्रत्यर्थिनि अन्यथा मध्यस्थे यावद् विचारं धार्यम् ।
स्वयं विवादाशक्तौ प्रतिनिधिम् आह नारदः ।
७३ अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितो ऽपि वा ।
यो यस्यार्थे विवदते तयोर् जयपराजयौ ॥ [न्मा २।२२]
तयोर् इति वादिनोः । तेन नियुक्तस्यैव जयपराजयौ नियोक्तुर् व्यवहार्याव् इत्य् अर्थः ।
बृहस्पतिः ।
७४ अप्रगल्भजड्ōन्मत्तवृद्धबालरोगिणां ।
पूर्वोत्तरं वदेत् तद्वद् अनियुक्तो ऽथ वा नरः ॥ [ब् १।१४२]
एतेषां भाषाम् उत्तरं च अनियुक्तो नियुक्तो वा हितो ब्रूयाद् इत्य् अर्थः । क्वचित् प्रतिनिध्यभावम् आह कात्यायनः ।
७५ ब्रह्महत्यासुरापाने स्तेये गुर्वङ्गनागमे ।
अन्येष्व् अप्य् अभिशापेषु प्रतिवादी न दीयते ॥ [क् ९३]
७६ मनुष्यमारणे स्तेये परदाराभिमर्षणे ।
अभक्ष्यभक्षणे चैव कन्याहरणदूषणे ॥ [क् ९४]
७७ पारुष्ये कूटहरणे नृपद्रोहे तथैव च ।
प्रतिवादी न दातव्यः कर्ता तु विवदेत् स्वयम् ॥ [क् ९५]
नारदः ।
७८ यो न भ्राता न च पिता न पुत्रो न नियोगकृत् ।
परार्थवादी दण्ड्यः स्याद् व्यवहारेषु विब्रुवन् ॥ [न्मा २।२३]
न्यायार्थम् उपस्थितयोश् च करणप्रवेशे प्रतिभूर् ग्राह्यः । अर्थिनो ऽपि मन्दपक्षस्य दण्डभिया पलायनसंभवात् । तद् आह याज्ञवल्क्यः ।
७९ उभयोः प्रतिभूर् ग्राह्यः समर्थः कार्यनिर्णये । [य् २।१०च्द्]
प्रतिभुवस् त्व् अभावे द्वौ रक्षणीयौ । तद् आह कात्यायनः ।
८० अथ चेत् प्रतिभूर् नास्ति वादयोग्यस्य वादिनः ।
स रक्षितो दिनस्यान्ते दद्याद् दूताय वेतनम् ॥ [क् ११७]
दूतो राजप्रेष्यस् तद्धर्ता ।
तत्त्वतः पराजितो ऽपि विचारदोषशङ्कया पुनर्विचारं याचमानः विवादपदाद् द्विगुणं दण्डम् अङ्गीकार्य विवादः कार्यः । तद् आह नारदः ।
८१ तीरितं चानुशिष्टं च यो मन्येत विधर्मतः ।
द्विगुणं दण्डम् आस्थाय तत् कार्यं पुनर् उद्धरेत् ॥ [न्मा १।६५]
तीरितं निर्णीय समापितम् । अनुशिष्टं परेषु तथा प्रतिपादितम् ।
असद्विचारे विचारान्तरम् अर्हत्य् एवेत्य् आह स एव ।
८२ असाक्षिकं तु यद् दृष्टं विमार्गेण च तीरितम् ।
असम्मतमतैर् दृष्टं पुनर् दर्शनम् अर्हति ॥ [न्क़् १।१४]
असाक्षिकम् अप्रामाणकम् ।
कात्यायनः ।
८३ तत्राभियुक्ता प्रब्रूयाद् अभियुक्तस् त्व् अनन्तरम् ।
तयोर् उक्ते सदस्यस् तु प्राड्विवाकस् ततः परम् ॥ [क् १२१]
आक्षेप्ता तु न कालं लभते किं त्व् आक्षिप्त एव । तद् आह कात्यायनः ।
८४ यस्मात् कार्यसमारम्भाच् (?) चिरात् तेन विनिश्चितः ।
तस्मान् न लभते कालम् अभियुक्तस् तु कालभाक् ॥ [क् १३४]
नारदः ।
८५ प्रत्यर्थी लभते कालं त्र्यहं पञ्चाहम् एव वा । [न्क़् ३।१२]
अस्यापवादम् आह बृहस्पतिः ।
८६ अभियोक्ताप्रगल्भत्वाद् वक्तुं नोत्सहते यदि ।
तदा कालः प्रदातव्यः कार्यशक्त्यनुरूपतः ॥ [ब् २।३४]
इति व्यवहारमुखम् ।
स च व्यवहारश् चतुष्पात् । तद् आह बृहस्पतिः ।
८७ भाषापादोत्तरपादौ क्रियापादस् तथैव च ।
प्रत्याकलितपादश् च व्यवहारश् चतुष्पादः ॥ [ब् २।१]