Source: TW
विस्तारः (द्रष्टुं नोद्यम्)
History - by our suggestion, smt shylaja corrected an initial version at ambuda. Further correction and alignment was done by smt sarayu here.
विश्वास-प्रस्तुतिः
श्रीः ॥
त्र्य्-अम्बक-राय-मखि-निबद्धा स्त्रीणामावश्यिका धर्मपद्धतिः ॥
मुख्यो धर्मः स्मृतिषु विहितो भर्तृशुश्रूषणं हि
स्त्रीणामेतत्पितुरनुमतं कार्यमित्याकलय्य ।
तत्कुर्वाणाऽभजत वपुषो भर्तुरर्धं हिमाद्रेः
कन्या सा मे दिशतु सततं धर्ममार्गप्रवृत्तिम् ॥ १ ॥लोकस्यानुजिघृक्षया स्मृतिपुराणोक्त्या पितुश्चाज्ञया
शुश्रूषां परमां विधाय सुचिरं भर्तुः प्रसादार्थिनी ।
देहाद्वैतमवाप या भगवतश्चन्द्रार्धचूडामणेः
दद्यादद्य सती सतीजनमणिः सा धर्मपद्यामतिम् ॥ २ ॥
मूलम्

द्राविडम्
श्री:
श्री त्र्यम्बगरायमगि अवर्गळाल् तॊगुक्कप्पट्ट स्त्रीगळुक्कुरिय धर्मङ्गळिन् पत्तदि
स्मृतिगळिल् स्त्रीगळुक्कु प्रधानमाग विधिक्कप्पट्ट धर्मम् भर्त्तावुक्कुप् पणिविडै सॆय्वदे. यारैप् भर्त्तावाग वरित्तु शुश्रूषै सॆय्यवेण्डुम् ऎन्नुम् विषयमुम् तगप्पन् अनुमतियिन्बेरिल् सॆय्यवेण्डुमॆण्ड्रु करुदि, अदैये सॆय्दु, भर्त्ताविन् शरीरत्तिन् पादियै अडैन्द अन्द हिमालयत्तिन् कन्यै ऎनक्कु ऎप्पोदुम् धर्म मार्गत्तिल् उत्साहत्तैक् कॊडुक्कट्टुम्. (i)
लोकानुग्रहम् सॆय्यवेण्डुमॆण्ड्र आवलालुम्, स्मृति पुराणङ्गळिल् विधिक्कप्पट्टमैयालुम्, पिदाविन् आज्ञैयालुम् वॆगुगालम् अनुग्रहत्तैये अपेक्षित्तुक् कॊण्डु भर्त्तावुक्कु विशेषमान पणिविडैसॆय्दु अर्त्त चन्द्रनै मुडियिल्गॊण्ड पगवानुडैय तेहत्तुडन् अबेदत्तै अडैन्द पदिव्रदाजनङ्गळिल् उत्तमियान अन्द सदिदेवि धर्म मार्गत्तिल् पुत्तियैक् कॊडुक्कट्टुम्. (ii)
विश्वास-प्रस्तुतिः
येषामाचरणेन कीर्तिरतुला भूयस्सुखं चैहिकं
नारीणां गतिरुत्तमा च भवति ज्ञातुं पुनः कृत्स्नशः ।
वर्ण्यन्ते जननीनिदेशवचसा सङ्गृह्य ते योषितां
धर्मास्त्र्यम्बकयज्वना स्मृतिपुराणादौ पृथक्कीर्तिताः ॥ ३ ॥स्त्रीणां धर्माः कतिचन मया प्रायशस्सारभूताः
सङ्गृह्यन्ते स्मृतिषु बहुशस्तत्र तत्र प्रसिद्धाः ।
कीर्तिः पुण्या सुकृतमतुलं सौख्यमप्यैहिकं द्राक्
प्रेत्य स्वर्गो भवति यदनुष्ठानभाजां सतीनाम् ॥ ४ ॥

ऎन्दत् धर्मङ्गळै आसरिप्पदाल् ऒप्पिल्लाद कीर्त्तियुम् इहलोकत्तिय विशेष सुगमुम्, उत्तममान परलोक कदियुम् स्त्रीगळुक्कु एऱ्पडुगिण्ड्रनवो, स्मृति पुराणम् मुदलियवैगळिल् तनित्तनियागच् चॊल्लप्पट्टिरुक्किण्ड्र अन्द स्त्रीधर्मङ्गळ् सेर्न्दु ओरिडत्तिलऱियुमाऱु त्र्यम्बग रायमगियागिऱ ऎन्नाल् इव्विडम् निरूबिक्कप्पडुगिण्ड्रन. इदु ऎन् तायिन् आज्ञै. (iii)
स्मृतिगळिल् आङ्गाङ्गु प्रसिद्धङ्गळायुम् सारमायुमुळ्ळ सिल स्त्रि धर्मङ्गळ् इव्विडम्. तॊगुक्कप्पडुगिण्ड्रन. इवैगळैयनुष्टिक्कुम् सात्विगळुक्कु सत्कीर्त्तियुम् उवमैयट्र पुण्यमुम् इहलोक सौक्यमुम् (परलोकम्) सॆण्ड्रबिन् स्वर्क्कमुम् किडैक्किण्ड्रन. (iv)