विश्वास-प्रस्तुतिः
अथ विधवाधर्मः
पारिजाते आश्वलायनः -
अनुयाति न भर्तारं दैवयोगात् कथञ्चन ।
तथाऽपि शीलं संरक्ष्यं शीलभङ्गात् पतत्यधः ॥
तद्वैगुण्यादपि स्वर्गात् पतिः पतति नान्यथा ।
तस्याः पिता च माता च भ्रातृवर्गस्तथैव च ॥
इति ॥
तस्याश्चर्यामाह मनुः -
आसीतामरणात्तान्ता नियता ब्रह्मचारिणी ।
यो धर्म एकपत्नीनां काङ्क्षन्ती तमनुत्तमम् ॥
इति ॥
मूलम्

द्राविडम्
इनि विदवा धर्मङ्गळ्
पारिजादत्तिल् आच्वलायनर्:-
ऎव्विदत्तालुम् तैवगदियाल् भर्त्तावुडन् अनुमरणम्
सॆय्यमुडियाविडिल्,
विदवै तन् सीलत्तैक् काक्क वेण्डुम्. सीलत्तैक् कॆडुत्ताल् पादित्यत्तै यडैवाळ्.
अवळ् कॆडुवदाल् अवळिन् पदियुम् स्वर्क्कत्तिनिण्ड्रुम् विऴुवान्.सम्सयमिल्लै.
अवळिन् पिदा, माद, प्रादाक्कळ् ऎल्लोरुम् स्वर्क्कत्तिलिरुन्दु नऴुवुवार्गळ्.
अवळिन् धर्मत्तैच् चॊल्लुगिऱार् मनु:-
विदवै तन् मरणम् वरैयिल् वरैयिल् नियममुडैयवळाय्, प्रम्हसर्यमुडैयवळाय्, पदिव्रदैगळिन् सिऱन्द धर्ममॆदुवो अदै विरुम्बियवळाय् इरुक्क वेण्डुम्.
इनि विदवा धर्मङ्गळ्
पारिजादत्तिल् आच्वलायनर्:-
ऎव्विदत्तालुम् तैवगदियाल् भर्त्तावुडन् अनुमरणम् सॆय्यमुडियाविडिल्,
विदवै तन् सीलत्तैक् काक्क वेण्डुम्. सीलत्तैक् कॆडुत्ताल् पादित्यत्तै यडैवाळ्.
अवळ् कॆडुवदाल् अवळिन् पदियुम् स्वर्क्कत्तिनिण्ड्रुम् विऴुवान्.सम्सयमिल्लै.
अवळिन् पिदा, माद, प्रादाक्कळ् ऎल्लोरुम् स्वर्क्कत्तिलिरुन्दु नऴुवुवार्गळ्.
अवळिन् धर्मत्तैच् चॊल्लुगिऱार् मनु:-
विदवै तन् मरणम् वरैयिल् वरैयिल् नियममुडैयवळाय्, प्रम्हसर्यमुडैयवळाय्, पदिव्रदैगळिन् सिऱन्द धर्ममॆदुवो अदै विरुम्बियवळाय् इरुक्क वेण्डुम्.
विश्वास-प्रस्तुतिः
आश्वलायनः -
एकाहारस्सदा कार्यो न द्वितीयः कदाचन ।
त्रिरात्रं पञ्चरात्रं वा पक्षव्रतमथापि वा ।
कृच्छ्रं पराकं वा कुर्यात्तप्तकृच्छ्रमथापि वा ।
मासोपवासं वा कुर्याच्चान्द्रायणमथापि वा ॥
यवान्नैर्वा फलाहारैः शाकाहारैः पयोवतैः ।
प्राणयात्रां प्रकुर्वीत यावत्प्राणः स्वयं व्रजेत् ॥
पर्यङ्कशायिनी नारी विधवा पातयेत् पतिम् ।
तस्माद्भूशयनं कार्यं पतिसौख्यसमीहया ॥
तर्पणं प्रत्यहं कार्यं भर्तुः कुशतिलोदकैः ।
तत्पितुस्तत्पितुश्चापि नामगोत्रादिपूर्वकम् ॥

आच्वलायनर्:-
ऎप्पॊऴुदुम् ऒरु वेळै पुजिक्कवुम्. इरण्डावदु वेळै पुजिक्कलागादु.
मूण्ड्रु नाळ् व्रदम्, ऐन्दु नाळ् व्रदम्, अल्लदु पक्ष वरदम्,
क्रुच्रम्, परागक्रुच्रम्, प्त क्रुच्रम्, मासोबवासम्, सान्द्रायणम् ऎदैयावदु अनुष्टिक्कवुम्.
यवान्नम्, पऴङ्गळ्, सागङ्गळ्, पाल् इवैगळैच् चाप्पिट्टु,
प्राणन् तानागप् पोगुम् वरैयिल् तेहत्तैत् तरिक्कवुम्.
विदवै कट्टिलिल् पडुत्ताल्, तन् पदियै नल्ल उलगत्तिनिण्ड्रुम् तळ्ळिविडुवाळ्.
आगैयाल् पदिक्कुप् परलोक सौक्यत्तै विरुम्बिप् पूमियिलेये पडुक्क वेण्डुम्.
प्रदि तिनमुम् कुसम्, तिलोदग मिवैगळाल्, पात्तावुक्कुम्, अवन् पिदावुक्कुम्, अवनिन् पिदावुक्कुम् नाम कोत्रम् मुदलियदै उच्चरित्तुत् तर्प्पणम् सॆय्यवुम्.
विश्वास-प्रस्तुतिः
इदं पुत्राभावे ॥
यद्यदिष्टतमं लोके यच्च पत्युस्समीहितम् ।
तत्तद्गुणवते देयं पतिप्रीणनकाम्यया ॥
विष्णोस्तु पूजनं कार्यं पतिबुद्ध्या न चान्यथा ।
पतिमेव सदा ध्यायेद्विष्णुरूपधरं शिवम् ॥
हरिवंशे विधवाधर्मान् प्रकृत्य -
पतिं सङ्कल्पयित्वा तु चित्रस्थं वाऽपि मृन्मयम् ।
तस्य पूजां सदा कुर्यात् सतीधर्ममुपाश्रिता ॥
इति ॥
मनुरपि –
कामं तु क्षपयेद्देहं पुप्पमूलफलैश्शुभैः ।
न च नामापि गृह्णीयात् पत्यौ प्रेते परस्य तु ॥
अत्र नामापि न गृह्णीयादित्युक्त्या स्त्रीणां परपुरुषस्पर्शादिकमपि वर्जनीयम् ॥

इदु पुत्रनिल्लाविडिल्.
भर्त्तावुक्कु इव्वुलगिल् ऎदॆदु इष्टमागियदो, ऎदु विरुम्बप् पट्टदो अददै, कुणमुळ्ळ प्राम्हणनैक् कुऱित्तुक् कॊडुक्कवुम्.
पदियॆण्ड्र पावनैयुडन् विष्णुवुक्कुप् पूजै सॆय्यवुम्. वेऱु पावनैयुडन् कूडादु. विष्णु रूबम् तरित्तिरुप्पवरुम्, सिवनुम् पदियॆण्ड्रे ऎप्पॊऴुदुम् त्यानिक्क वेण्डुम्.
हरिवम्सत्तिल् विदवाधर्मङ्गळैच् चॊल्ल आरम्बित्तु,
धर्मत्तै आच्रयित्त सात्वियान विदवै, सित्रत्तिलावदु मण् पिम्बत्तिलावदु तनदु पदियै त्यानित्तु, अवनुक्कु ऎप्पॊऴुदुम् पूजै सॆय्य वेण्डुम्.
मनुवुम्:-
पुरुषन् इऱन्द पिऱगु, सुबमान पुष्पम्, मूलम्, पऴम् इवैगळाल् तेहत्तै ऒडुक्क वेण्डुम्. अन्य पुरुषनिन् पॆयरैक्कूड उच्चरिक्कक् कूडादु.
इङ्गु नामदेयत्तैयुम् क्रहिक्कक् कूडादॆण्ड्रदाल्, स्त्रीगळुक्कुप् परबुरुषस्पर्सम् मुदलियदुम् वर्जिक्कत् तगुन्ददु.
विश्वास-प्रस्तुतिः
समुद्रे भर्तृपुत्रादिरहितया स्त्रिया स्नानं न कर्तव्यम् । अपि तु भर्त्रादीनामन्यतमेन सहैव स्नातव्यमित्युक्तम् ॥
स्कान्दे -
वितन्तुरसहाया नो सागरे स्नातुमर्हति ।
सहात्मजेन भर्त्रा वा स्नातुमर्हति नान्यथा ॥
सर्वाभावे तु गोवत्सं स्नायादादाय सागरे ॥

भर्त्ता पुत्रन् मुदलियवरिल्लामल्, स्त्री समुत्रत्तिल् स्नानम् सॆय्यक् कूडादु. भर्त्ता मुदलियवरुळ् यारावदॊरुवरुडन् स्नानम् सॆय्य वेण्डुमॆण्ड्रु सॊल्लप्पट्टुळ्ळदु.
स्कान्दत्तिल्:-
विदवै, सहायनिल्लामल् समुत्रत्तिल् स्नानम् सॆय्यक् कूडादु. पुत्रन् पदि इवरुळ् ऒरुवरुडन् सेर्न्दु स्नानम् सॆय्यलाम्. वेऱु प्रगारमागक् कूडादु. ऒरुवरुमिल्लाविडिल्, पसुविन् कण्ड्रैयावदु कूड वैत्तुक् कॊण्डु समुत्रत्तिल् स्नानम् सॆय्यवुम्.
विश्वास-प्रस्तुतिः
वर्ज्यान्याहापस्तम्बः -
प्रेतपत्नी ब्रह्मचर्यं क्षारलवणवर्जनं चेति ॥
आश्वलायनः -
विधवाकबरीबन्धो भर्तृबन्धाय जायते ।
शिरसो वपनं तस्मात् कार्यं विधवया सदा ॥
नैवाङ्गोद्वर्तनं कार्यं स्त्रिया विधवया क्वचित् ।
गन्धद्रव्यस्य संयोगो नैव कार्यस्तया पुनः ॥
तथा -
नाधिरोहेदनड्वाहं प्राणैः कण्ठगतैरपि ।
कञ्चुकं न परिदद्ध्याद्वासो न विकृतं वसेत् ॥
अपृष्ट्वा तु सुतान् किञ्चिन्न कुर्याद्भर्तृतत्परा ॥
विकृतं = मञ्जिष्ठादिरञ्जितम् ॥

वर्जिक्क वेण्डियवैगळैच् चॊल्लुगिऱार् आबस्तम्बर्:विदवै, सागुम् वरैयिल्, प्रम्हसर्यत्तै अनुष्टिक्कवुम्. उप्पु, उऱैप्पु इवैगळैयुम् वर्जिक्कवुम्.
आच्वलायनर्:-
विदवैयिन् मयिर् मुडिच्चु भर्त्ताविन् पन्दत्तिऱ्कागिण्ड्रदु. आगैयाल् विदवै ऎप्पॊऴुदुम् वबनम् सॆय्दु कॊळ्ळवेण्डुम्.
विदवै ऒरुगालुम् तेहत्तैत् तेय्त्तुक्कॊळ्ळक्कूडादु. वासनै त्रव्यङ्गळैच् चेर्त्तुक् कॊळ्ळक्कूडादु.
अव्विदमे,
प्राणन्गळ् पोगुम् समयत्तिलुम्, ऎरुदिन् मेल् एऱक्कूडादु.
रविक्कैयै अणियक्कूडादु. सायमिट्ट वस्त्रत्तै उडुक्कक्कूडादु.
पिळ्ळैगळैक् केट्काबल् ऒरु कार्यत्तैयुम् सॆय्यक्कूडादु.
विश्वास-प्रस्तुतिः
भर्त्रनन्तरं पुत्रभ्रात्रादीन् परित्यज्य स्वातन्त्र्येणावस्थाने निन्दाऽपि ॥
तथा च याज्ञवल्क्यः -
पितृमातृसुतभ्रातृश्वश्रूश्वशुरमातुलैः ।
हीना न स्याद्विना भर्त्रा गर्हणीयाऽन्यथा भवेदिति ॥
संवर्तः -
ताम्बूलाभ्यञ्जनं चैव कांस्यपात्रे च भोजनम् ।
यतिश्च ब्रह्मचारी च विधवा च विवर्जयेदिति ॥
व्यभिचारात्तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् ।
सृगालयोनिं चाप्नोति पापरोगैश्च पीड्यते ॥

भर्त्तावुक्कुप् पिऱगु, पुत्रन्, प्रादा मुदलियवरैविट्टु, स्वदन्द्रैयाय् इरुन्दाल् निन्दैयुमुण्डु.
अव्विदमे याज्ञ्यवल्क्यर्:-
भर्त्ता इल्लादवळ् पिदा, मादा, पिळ्ळै, प्रादा, मामियार्, मामनार्, अम्मान् इवर्गळुळ् यारावदु ऒरुवरुडन् इल्लामलिरुक्कक्कूडादु. इरुन्दाल्, पऴिक्कक्कूडियवळावाळ्.
सम्वर्त्तर्:-
ताम्बूलम्, अप्यञ्जनम्, वॆण्गलप् पात्रत्तिल् पुजिप्पदु इवैगळै, सन्यासी, प्रम्हसारी, विदवै इवर्गळ् वर्जिक्कवेण्डुम्.
स्त्रीयानवळ्, भर्त्तावैत् तविर वेऱु पुरुषनोडु सम्सर्क्कम् सॆय्दाल्, उलगत्तिल् निन्दैयै अडैवाळ्.
नरियाय्प् पिऱप्पाळ्. पाब रोगङ्गळालुम् पीडिक्कप्पडुवाळ्.
विश्वास-प्रस्तुतिः
अत्र परपुरुषसङ्गः पापाधायकत्वात् न कर्तव्य इत्युक्तम् । तदनुपपन्नम् । भोगार्थं परपुरुषसङ्गस्य निन्दितत्वेऽपि पुत्रार्थं तस्य आवश्यकत्वात् । ‘नापुत्रस्य हि लोकोऽस्ती’ति श्रुत्या,
अस्ति नस्तात तपसः फलं प्रवदतां वर ।
सन्तानप्रक्षयात् ब्रह्मन् पतामो निरयेऽशुचौ ॥
इति भारते जरत्कारुं प्रति पितॄणां वचनेन च अपुत्रताया निषेधात्, औरसाभावे क्षेत्रजस्य अवश्यं सम्पादनीयत्वात् ॥

इङ्गु, परबुरुष सङ्गम् पाबत्तैक् कॊडुप्पदागैयाल् सॆय्यत्तगाददु ऎण्ड्रु सॊल्लप् पट्टदु. अदु पॊरुन्दादु. एनॆनिल् पोगत्तिऱ्कागच् चॆय्यप्पडुम् परबुरुष सङ्गम् निन्दिदमानालुम्, पुक्रनुक्कागप् परबुरुष सङ्गम् आवच्यगमावदाल्, ‘पुत्रनिल्ला तवनुक्कुप् पुण्यलोकमिल्लै’ ऎण्ड्रु श्रुति इरुप्पदालुम्, पारदत्तिल्, जरत्कारुवै नोक्कि अवन् पित्रुक्कळ् “अप्पा!’ ऎङ्गळुक्कुत् तबस्सिन् पलमिरुक्किण्ड्रदु. आयिनुम् ओ वित्वानान प्राम्हणने! ऎङ्गळ् वम्सम् क्षयत्तै अडैवदाल्, असुत्तमान नरगत्तिल् विऴुगिण्ड्रोम्.” ऎण्ड्रु सॊल्लिय वसनत्तालुम्, पुत्रनिल्लात् तन्मै निषेदिक्कप्पट्टिरुप्पदाल्, औरसनिल्लाविडिल्, क्षेत्रजबुत्रनै अवच्यम् सम्बादिक्क वेण्डुमागैयाल्,
विश्वास-प्रस्तुतिः
औरसानन्तरं क्षेत्रजस्य पिण्डदाने अंशग्रहणे चाधिकारं वदन् तस्य प्राबल्यमाह याज्ञवल्क्यः -
औरसो धर्मपत्नीजः तत्समः पुत्रिकासुतः ।
क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा ॥
गृहे प्रच्छन्न उत्पन्नः गूढजस्तु सुतः स्मृतः ।
कानीनः कन्यकाजातः मातामहसुतो मतः ॥
अक्षतायां क्षतायां वा जातः पौनर्भवस्सुतः ।
दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत् ॥
क्रीतस्तु ताभ्यां विक्रीतः कृत्रिमः स्यात् स्वयं कृतः ।
दत्तात्मा तु स्वयं दत्तः गर्भे विन्नः सहोढजः ॥
उत्सृष्टो गृह्यते यस्तु सोऽपविद्धो भवेत् सुतः ।
पिण्डदोंशहरश्चैषां पूर्वाभावे परः परः ॥

ऒळरसनुक्कु अडुत्तबडि क्षेत्रजनुक्कु, पिण्डदानत्तिलुम्, पागत्तिलुम् अदिगारत्तैच् चॊल्लुम् याज्ञ्यवल्क्यर् अवनुक्कुप् पलत्तैच् चॊल्लुगिऱार् :-
धर्मबत्नियिडम् पिऱन्दवन् औरसनॆनप्पडुवान्. पुत्रिगाबुत्रनुम् अवनुक्कुच् चममानवन्. तन् पत्नियिनिडम्, सगोदरनालो, अन्य सगोदरनालो उण्डानवन् क्षेत्रजादन् ऎनप्पडुवान्. वीट्टिल् मऱैवाय् उण्डानवन् कूडजन् ऎनप्पडुवान्. विवाहमागादवळिडम् पिऱन्दवन् कानीनन् ऎनप्पडुवान्. इवन् मादामहनिन् पिळ्ळै आवान्, अक्षदैयागवो, क्षदैयागवो उळ्ळ, पुनर्प्पूविनिडत्तिल् (इरु मुऱै विवाहम् सॆय्यप्पट्टवळ्) पिऱन्दवन् पौनर्प्पवन्. ताय्, अल्लदु पिदाविनाल् ऎन्दप् पुत्रन् कॊडुक्कप्पट्टानो अवन् तत्तन् ऎनप्पडुवान्. ताय्, अल्लदु पिदाविनाल् विऱ्कप्पट्टवन् क्रीदन् ऎनप्पडुवान्. तानागवे ऒरुवनैप् पुत्रनाय्च् चॆय्दुगॊण्डाल् अवन् क्रुत्रिमन् ऎनप्पडुवान्. तानागवे तन्नैक् कॊडुत्तवन् तत्तात्मा ऎनप्पडुवान्. कर्प्पिणियायिरुप्पवळै मणन्दु, पिऱगु अवळिडम् पिऱन्दवन् सहोडजन्. मादा पिदाक्कळाल् तळ्ळप्पट्टु ऎवन् क्रहिक्कप्पडुगिऱानो अवन् अबवित्तन् ऎनप्पडुवान्. इन्दप् पिळ्ळैगळुळ्, मुन्दियवन् इल्लाविडिल् पिन्दियवन्, पिण्डदानत्तिलुम्, तनत्तै अडैवदिलुम् अदिगारियागिऱान्" ऎण्ड्रु.
विश्वास-प्रस्तुतिः
अत एव स्त्रीभिः क्षेत्रजाः पुत्राः सम्पादिता इति प्रतिपादितम्, आदिपर्वणि -
त्रिस्सप्तकृत्वः पृथिवी कृत्स्ना निःक्षत्रिया कृता ।
ततस्सम्भूय सर्वाभिः क्षत्रियाभिस्समन्ततः ॥
उत्पादितान्यपत्यानि ब्राह्मणैर्वेदपारगैः ।
पाणिग्राहस्य तनयः इति वेदेषु निश्चितम् ॥
धर्मं मनसि संस्थाप्य ब्राह्मणांस्तास्समभ्ययुः ।
ततः पुनस्समुदितं क्षत्रं समभवत्तदा ॥
इत्येवं मदयन्तीशारदण्डायन्यम्बाम्बालिकाकुन्तीनामाचारोऽपि भारतादिषु प्रसिद्ध इति चेन्न । क्षेत्रजादिनां ‘दत्तौरसेतरेषां च पुत्रत्वेन परिग्रहः’ इति वचनेन कलौ निन्दितानां युगान्तरविषयत्वात्, दत्तपुत्रेणापि पुत्रवत्वसम्भवात् । न च, न स्त्री पुत्रं दद्यात् प्रतिगृह्णीयाद्वा इति निषेधः । निषेधस्य मरणकाले पत्यभ्यनुज्ञाभावविषयत्वात् ॥

आगैयाल्दान् स्त्रीगळाल्, क्षेत्रजरान पुत्रर्गळ् सम्बादिक्कप् पट्टार्गळ् ऎण्ड्रु सॊल्लप् पट्टुळ्ळदु. आदि पर्वत्तिल्:-
इप्पूमि मुऴुवदुम्, इरुबत्तॊरु तडवै क्षत्रियर्गळिल्लाददाय्च् चॆय्यप्पट्टदु.
पिऱगु पलविडङ्गळिलु मुळ्ळ क्षत्रिय स्त्रीगळ् ऎल्लोरुम् ऒण्ड्रु कूडि आलोसित्तु,
वेदम् मुऴुवदुम् कट्रऱिन्द प्राम्हणर्गळाल् तङ्गळिडम् कुऴन्दैगळै उत्पत्ति सॆय्दु कॊण्डनर्.
विवाहमान स्त्रीयिनिडम् अन्यनाल् पिऱन्द पिळ्ळै, स्त्रीयिन् पदियैच् चेर्न्दवने, ऎण्ड्रु वेदङ्गळिल् निश्सिदमान
धर्मत्तै मनदिल् नण्ड्राय् वैत्तुक् कॊण्डु अन्द क्षत्रिय स्त्रीगळ्, प्राम्हणर्गळै अडैन्दनर्.
पिऱगु, अप्पॊऴुदु क्षत्रिय जादि मऱुबडियुम् वरुत्तियडैन्ददु.
इम्मादिरि मदयन्दी, सारदण्डायनी, अम्बा, अम्बालिगा, कुन्दी इवर्गळिन् आचारमुम् पारदम् मुदलियवैगळिल् प्रसिद्ध मायुळ्ळदे ऎनिल्, अदु इल्लै. क्षेत्रजन् मुदलियवरै तत्तन्, ऒळरसन् तविर मट्रप् पुत्रर्गळैप् परिक्रहिक्कक् कूडादु" ऎण्ड्रु निषेदित्तिरुप्पदाल्, मट्रप् पुत्रर्गळैप् परिक्रहिप्पदु युगान्दर विषयमावदाल्, तत्तबुत्रनालुम् पुत्रवत्व मेऱ्पडुमागैयाल्. “स्त्री पुत्रनैक् कॊडुक्कक् कूडादु, वाङ्गवुम् कूडादु” ऎण्ड्र निषेदमुमिल्लै. अन्द निषेदम् मरण कालत्तिल् भर्त्ता अनुक्ञै कॊडुक्काविडिल् ऎण्ड्र विषयत्तैप् पट्रियदाल्.
विश्वास-प्रस्तुतिः
तथा च तच्छेषे बोधायनः -
न तु स्त्री पुत्रं दद्यात् प्रतिगृह्णीयाद्वाऽन्यत्राभ्यनुज्ञानात् भर्तुः
इति ॥
ननु पत्यनुज्ञाभावे पुत्राभावात् कथमुत्तमलोकप्राप्तिरिति चेन्न । यावज्जीवं ब्रह्मचर्यावस्थानेनापि उत्तमलोकप्राप्तिसम्भवात् ॥
तथा च मनुः -
आसीतामरणात्क्षान्ता नियता ब्रह्मचारिणी ।
यो धर्म एकपत्नीनां काङ्क्षन्ती तमनुत्तमम् ॥
अनेकानि सहस्राणि कौमारब्रह्मचारिणाम् ।
दिवं यातान्यपुत्राणामकृत्वा कुलसन्ततिम् ॥
मृते भर्तरि साध्वी स्त्री ब्रह्मचर्यव्रते स्थिता ।
स्वर्गं गच्छत्यपुत्राऽपि यथा ते ब्रह्मचारिणः ॥
अपत्यलोभाद्या तु स्त्री भर्तारमतिवर्तते ।
सेह निन्दामवाप्नोति परलोकाच्च हीयते ॥

अव्विदमे तच्चेषप्रगरणत्तिल् पोदायनर्:-
स्त्री, भर्त्ताविन् अनुक्ञैयिल्लामल्, पुत्रनैक् कॊडुक्कक्कूडादु, वाङ्गवुम् कूडादु, ऎण्ड्रार्.
ऒय्! पदियिन् अनुक्ञै यिल्लाविडिल् पुत्रने सम्बविक्काददाल्, ऎव्विदम् उत्तम लोकत्तै अडैवदु ऎनिल्, अदिल्लै. जीवनुळ्ळ वरैयिल् प्रम्हसर्यत्तुडनिरुप्पदालुम् उत्तम लोक प्राप्ति उण्डागुमागैयाल्.
अव्विदमे मनु:
विदवैयानवळ्, मरणम् वरैयिल्, पॊऱुमैयुळ्ळवळाय्, नियममुडैयवळाय् प्रम्हसर्यमुडैयवळाय्, पदिव्रदैगळिन् उयर्न्द धर्ममॆदुवो अदै वेण्डियवळाय् इरुक्क वेण्डुम्.
पाल्यम् मुदल् प्रम्हसारिगळायिरुन्द अनेगमायिरम् मुनिगळ् अबुत्रराय् इरुन्दु, कुलत्तै वरुत्ति सॆय्यामले स्वर्क्कत्तै अडैन्दनर्.
भर्त्ता इऱन्द पिऱगु, पदिव्रदैयान स्त्री, प्रम्हसर्य व्रदत्तिलिरुन्दाल्, अवळ् पुत्रनिल्लादवळायिनुम्, अन्द प्रम्हसारिगळ् पोल् स्वर्क्कत्तै अडैवाळ्.
ऎवळ्, पुत्रनिन् आसैयाल् भर्त्तावै अदिक्रमिक्किण्ड्राळो अवळ् इव्वुलगिल् पऴिप्पै अडैवाळ्, परलोकत्तिनिण्ड्रुम् नऴुवुवाळ्.
विश्वास-प्रस्तुतिः
व्यासः -
जीवहीनो यथा देहः क्षणादशुचितां व्रजेत् ।
भर्तृहीना तथा योषित्सुस्नाताऽप्यनुशुचिस्सदा ॥
अमङ्गळेभ्यस्सर्वेभ्यो विधवा ह्यत्यमङ्गळम् ।
विधवादर्शनात् सिद्धिः काऽपि जातु न जायते ॥
विहाय मातरं चैकां सर्वमङ्गळवर्जिताम् ।
तदाशिषमपि प्राज्ञस्त्यजेदाशीविषोपमाम् ॥
इति ॥
एवंविधायाः अमङ्गळ्यवचनं यथोक्ताचारहीनाविषयम् । शीलवत्यास्तु नायं दोषः ॥

व्यासर्:-
जीवन् नीङ्गिय उडल् ऎप्पडि उडने असुत्तियै अडैगिऱदो, अव्विदम्, भर्त्ता इल्लाद स्त्री नण्ड्राप् स्नानम् सॆय्दवळायिनुम्, ऎप्पॊऴुदुम् असुत्तैये.
अमङ्गळमान वस्तुक्कळ् ऎल्लावट्रैयुम् विड, विदवै मिग अमङ्गळमागियवळ्.
विदवैयैप् पार्त्ताल्, वन्दक् कार्यमुम् ऒरुगालुम् सित्तिप्पदिल्लै.
पुत्तियुळ्ळवन्, मङ्गळङ्गळट्रवळैत् तन् तायानालुम् विट्टु, अवळ् आसिर्वसनत्तैयुम् पाम्बैप्पोल् परिहरिक्कवेण्डुम्.
इव्ळिदम् विदवैयै अमङ्गळै ऎण्ड्रु सॊल्लियदु मुन् सॊल्लिय आचारङ्गळट्रवळैप्पट्रियदु. नल्लॊऴुक्कमुळ्ळवळुक्कु इन्दत् तोषमिल्लै.
विश्वास-प्रस्तुतिः
तथा च व्यासः -
एवं चर्यापरा नित्यं विधवाऽपि शुभा मता ।
एवं धर्मसमायुक्ता विधवाऽपि पतिव्रता ॥
पतिलोकमवाप्नोति न भवेत् क्वापि दुःखिता ।
पत्यौ मृते च या योषिद्वैधव्यं पालयेत् क्वचित् ॥
सा पुनः प्राप्य भर्तारं स्वर्गभोगान् समश्नुते ॥
इति ॥
शिरसो वपनं ब्राह्मणीविषयम् । इतरजातीयस्त्रीणां केशधारणमेव । तथा च महाभारते आश्रमवासपर्वणि ऋषीन् प्रति सञ्जय-वचनम् -
एतास्त्वसीमन्तशिरोरुहा याः शुक्लोत्तरीया नरराजकन्याः ।
राज्ञोऽस्य वृद्धस्य परं शताख्याः स्नुषा नृवीराहतपुत्रनाथाः ॥
इति ॥
एवम् उभयथाऽपि इदानीमपि आचारश्चरति ॥

अव्विदमे व्यासर्:-
इव्विदम् ऎप्पॊऴुदुम् आचारत्तुडनि रुक्कुम् विदवैयुम् सुबै ऎनप्पडुगिऱाळ्.
इव्विदम् धर्मत्तुडन् कूडिय पदिव्रदैयान विदवैयुम् पदियिन् लोकत्तै अडैवाळ्. ऒरुगालुम् तुक्क मुडैयवळाय् आवदिल्लै. ऎन्द स्त्री, पदि इऱन्द पिऱगु वैदव्यत्तैक् काक्किऱाळो, अवळ् मऱुबडि भर्त्तावै अडैन्दु स्वर्क्कबोगङ्गळै अनुबविप्पाळ्.
विदवै तलैयिल् वबनम् सॆय्दु कॊळ्ळ वेण्डुमॆन्बदु प्राम्हण जादि स्त्रीयैक्कुऱित्तदु. मट्र जादि स्त्रीगळुक्कु इल्लै. अवर्गळुक्कुक् केसदारणमे. अव्विदमे महाबारदत्तिल्, आच्रमवास पर्वत्तिल्, रुषिगळै नोक्कि सञ्जयरिन् वाक्यम् -
इदो इङ्गुळ्ळवरुम्, वगुडु इल्लाद मयिरुडैयवरुम्, वॆण्णिऱमान उत्तरीयमुडैयवरुम् आगिय राज पुत्रिगळ्, इन्द व्रुत्तरान त्रुदराष्ट्र महाराजनिन् नूऱु नाट्टुप् पॆण्गळ्, युत्तत्तिल् अरसर्गळाल् कॊल्लप्पट्ट पुत्रर्गळैयुम्, भर्त्ताक्कळैयुमुडैयवर्’, ऎण्ड्रु.
इव्विदम् इरण्डुविदमान आचारम् इप्पॊऴुदुम् नडैबॆऱुगिऱदु.
विश्वास-प्रस्तुतिः
स्त्रीणां प्रायश्चित्ते कर्मणि वपनप्रसक्तौ विशेषमाह -
सर्वान् केशान् समुद्धृत्य छेदयेदङ्गुळिद्वयम् ।
एवं नारीकुमाराणां शिरसो मुण्डनं स्मृतम् ॥
इति ॥
नारीग्रहणेनैव कुमारीग्रहणे सिद्धे पृथगुपादानं विधवायाः कृत्स्नवपनाङ्गीकारद्योतनार्थम् । नात्र नारीशब्दः स्त्रीमात्रवाची । किन्तु सभर्तृकावाची । कुमार्यस्तु विवाहरहिताः । तथा च सभर्तृकाणां विवाहरहितानां चैतदुक्तं भवेत् । ततो विधवानां सर्वात्मना मौण्ड्यमङ्गीकृतं भवति ॥

स्त्रीगळुक्कु विहिदमान प्रायच्चित्तत्तिल् वबनम् प्रसक्तमानाल् विशेषत्तैच् चॊल्लुगिऱार्:-
केसङ्गळॆल्ला वट्रैयुम् सेर्त्तुप् पिडित्तु नुनियिल् इरण्डु अङ्गुलमळवुक्कुक् कत्तिरिक्कवुम्. इव्विदम् सॆय्वदेस्त्रीगळुक्कुम् कुमारिगळुक्कुम् सिरोवबनमॆनप् पडुगिऱदु, ऎण्ड्रु.
नारी ऎण्ड्र पदत्तालेये कुमारिक्कुम् क्रहणम् सित्तमायिरुक्क, कुमारी ऎण्ड्रु तनियाय्च् चॊल्लियदु, विदवैक्कुक् केसम् मुऴुवदैयुम् वबनम् सॆय्य वेण्डु मॆन्बदैत् तॆरिविप्पदऱ्काग. इङ्गु नारी ऎण्ड्र पदम् स्त्रीगळ् ऎल्लोरैयुम् सॊल्लुवदल्ल. आनाल् भर्त्तावुडन् कूडिय स्त्रीगळैच् चॊल्लुवदागुम्. कुमारिगळ् ऎन्बवर्गळ् विवाहमागादवर्गळ्. अप्पडियावदाल्, भर्त्तावैयुडैयवर्क्कुम्, विवाहमागाद वर्क्कुम् इन्द विधि ऎण्ड्रु सॊल्लियदाय् आगुम्. आगैयाल् विदवैगळुक्कु ऎव्विदत्तालुम् मुण्डनमे अङ्गीगरिक्कप् पट्टदागिऱदु.
विश्वास-प्रस्तुतिः
पूर्वोक्तेषु व्रताङ्गेषु कानिचिदङ्गानि स्त्रीणामपवदति -
न स्त्रियाः केशवपनं न दूरे शयनासनम् ।
न च गोष्ठे वसेद्रात्रौ न दिवा गा अनुव्रजेन् ॥
नदीषु सङ्गमे चैव अरण्येषु विशेषतः ।
न स्त्रीणामजिनं वासो व्रतमेव समाचरेत् ॥
इति ॥
न स्त्रियाः केशवपनं, शिरसो मुण्डनं इत्यनयोरन्योन्यविरोधः न शङ्कनीयः । निषेधस्य कृत्स्नमौण्ड्यविषयत्वात् । केशाग्रकर्तनमेव मुण्डनं पूर्वत्र विहितम् । अतो न विरोधः । संविशन्तीषु संवेशनमित्यनेन गृहमद्ध्ये ग्रामाद्बहिर्दूरे वा यत्र गावस्तत्र शयनं प्राप्तम् । तन्निवारणाय न दूरे शयनमित्युक्तम् । रात्रौ गोष्ठे स्थानं, दिवा गवामनुव्रजनं च पुंसामेव न स्त्रियाः । नदीसङ्गमे वा अरण्येषु वा वासो यद्यपि साक्षात् पूर्वमुक्तः, गोऽनुगामीति शास्त्रतः प्रसक्तमनुगमनम्, अतस्तदुभयं निवार्यते । चर्मणाऽऽर्द्रेण संवृत इत्यादिना शास्त्रतः प्रसक्तमजिनवासस्त्वं निषिद्ध्यते । व्रतमेवेत्येवकारेण यथोक्ताङ्गानुवृत्तिरेवानूद्यते ॥

मुन् सॊल्लिय व्रदाङ्गङ्गळिल् सिलवट्रै मऱुक्किऱार्:-
स्त्रीक्कु, केसवबनम्, तूरत्तिल् पडुप्पदु, उट्कारुवदु, रात्रियिल् कॊट्टिलिल् पडुप्पदु, पगलिल् माडुगळैत् तॊडर्न्दु सॆल्वदु इवै वेण्डियदिल्लै.
नदिगळिलुम्, नदिगळ् कूडुमिडङ्गळिलुम्, काडुगळिलुम् अवर्गळ् इरुक्कवेण्डियदिल्लै. अवर्गळुक्कुत् तोल् उडुप्पदॆन्बदुम् वेण्डियदिल्लै. मट्र नियमत्तुडन् व्रदत्तै अनुष्टिक्क वेण्डुम्.
मुन् सॊल्लिय ‘स्त्रीक्कुक् केसवबनम् इल्लै’ ऎण्ड्रुम्, सिरो मुण्डनम् सॆय्यवेण्डुम्’ ऎण्ड्रुमुळ्ळ इरण्डु वसनङ्गळुक्कुम् परस्परम् विरोदमुळ्ळदु ऎण्ड्रु सङ्गै वेण्डाम्. निषेदवसनत्तिऱ्कु, मुऴुवदैयुम् मुण्डनम् सॆय्वदिल् तात्पर्यमानदाल्. केसङ्गळिन् नुनियैक् कत्तरिप्पदु ऎन्बदे मुण्डनमॆण्ड्रु मुन् विधिक्कप्पट्टदु. आगैयाल् विरोदमिल्लै. ‘पडुक्कुमिडत्तिल् पडुक्कवेण्डुम्’ ऎण्ड्र वसनत्ताल्, क्रुहत्तिन् नडुविलो, क्रामत्तिऱ्कु वॆळियिल् तूरप्रदेसत्तिलो, ऎङ्गे पसुक्कळ् इरुक्किण्ड्रनवो अङ्गे सयनम् प्राप्तमायिट्रु. अदै विलक्कुवदऱ्काग, ‘तूर स्तलत्तिल् सयनम् वेण्डियदिल्लै’ ऎण्ड्रु सॊल्लप्पट्टदु. इरविल् कॊट्टिलिलिरुप्पदुम्, पगलिल् पसुक्कळैत् तॊडर्न्दु सॆल्वदुम्, परुषर्गळुक्के, स्त्रीगळुक्किल्लै. नदीसङ्गमत्तिलो, अरण्यङ्गळिलो वासम् साक्षात्ताग मुन्बु सॊल्लप्पट्टुळ्ळदुदान्. कोक्कळै अनुसरिक्क वेण्डु मॆन्बदुम् विधिक्कप्पट्टदुदान्. अगैयाल् अव्विरण्डुम् निषेदिक्कप्पडुगिऱदु. ईरमुळ्ळ तोलैप् पोट्रिक् कॊळ्ळवुम्, ऎन्बदाल् विहिदमान तोलै उडुप्पदॆन्बदुम् विलक्कप्पडुगिऱदु. ‘व्रदत्तैये अनुष्टिक्कवुम्’ ऎण्ड्र एवगारत्ताल्, सॊल्लप्पट्ट अङ्गङ्गळिन् अनुव्रुत्तिये अनुमतिक्कप् पडुगिऱदु.
विश्वास-प्रस्तुतिः
वपनादिवत् त्रिसन्ध्यस्नानादीनामपि निवृत्तिप्रसङ्ग आह —
त्रिसन्ध्यं स्नानमित्युक्तं सुराणामर्चनं तथा ।
बन्धुमद्ध्ये व्रतं तासां कृच्छ्रं चान्द्रायणादिकम् ॥
इति ।
त्रिसिन्ध्यमवगाहनमिति यत् पूर्वोक्तं तत् स्त्रीणामपि समानं सुरार्चननमस्कारादि । कृच्छ्रचान्द्रायणादिकं यद्व्रतं तत् बन्धुमद्ध्ये अनुष्ठेयम् । न तु पुरुषवद्विजने देशे ॥
अत्र भर्तुः पूर्वं मृता, भर्त्रा सहानुगता, भर्त्रनन्तरं यावज्जीवं ब्रह्मचर्यादिना युक्ता या तासां तिसृणां पतिव्रतानां भर्तृसालोक्यमेव फलम् । तथा च भारते शकुन्तळोपाख्याने -
भार्यैवान्वेति भर्तारं सततं या पतिव्रता ।
प्रथमं संस्थिता भार्या पतिं प्रेतं प्रतीक्षते ॥
पूर्वं मृतं च भर्तारं पश्चात् साद्ध्व्यनुगच्छति ।
एतस्मात् कारणाद्राजन् पाणिग्रहणमिष्यते ॥
यदाप्नोति पतिर्भार्यामिह लोके परत्र च ॥
इति ॥
अत एव ब्रह्मचर्येणावस्थितायाः, कुन्त्याः अनुगमनं कृतवत्या माद्र्याश्च पतिसालोक्यं प्रतिपादितं स्वर्गारोहणिके -
पत्नीभ्यां सहितः पाण्डुर्महेन्द्रसदनं ययौ ॥
इति ॥
एवं निरूपिताः साधारणधर्माः ॥

वबनम् मुदलियदऱ्कुप् पोल्, स्नानम् मुदलियदऱ्कुम् निव्रुत्ति प्रसक्तमावदाल्, सॊल्लुगिऱार्:-
मूण्ड्रु सन्द्यैगळिलुम् स्नानम् सॊल्लप्पट्टुळ्ळदु. तेवदाबूजैयुमप्पडिये.
अवर्गळुक्कुच् चान्द्रायणम् मुदलिय व्रदम् पन्दुक्कळिन् नडुविलेये अनुष्टिक्कत्तक्कदु.
मूण्ड्रु कालङ्गळिलुम् स्नानम् सॆय्यवेण्डुमॆण्ड्रु मुन् सॊल्लियदु स्त्रीगळुक्कुम् समानम्. तेवबूजा नमस्कारम् मुदलियदुमप्पडिये. क्रुच्र सान्द्रायणम् मुदलिय व्रदमॆदुवो अदु पन्दुक्कळिन् मत्यत्तिल् अनुष्टिक्कत् तगुन्ददु. पुरुषर्गळ् पोल् जनमिल्लाद इडत्तिलनुष्टिक्कक्कूडादु.
इङ्गु, भर्त्तावुक्कु मुन् इऱन्दवळ्, भर्त्तावुडन् सेर्न्दु मरित्तवळ्, भर्त्ताविऱ्कुप् पिऱगु जीवनुळ्ळवरैयिल् प्रम्हसर्यम् मुदलियदुडन् इरुन्दवळ् ऎण्ड्र मूण्ड्रु पदिव्रदैगळुक्कुम् पदियिन् लोकत्तै अडैवदे पलम्. अव्विदमे पारदत्तिल् सगुन्दलोबाक्यानत्तिल् :-
ऎवळ् ऎप्पॊऴुदुम् पदिव्रदैयायुळ्ळवळो अवळ् भर्त्तावै अडैगिऱाळ्. भर्त्तावुक्कु मुन् इऱन्दवळ् परलोकत्तिल् भर्त्तावै प्रदीक्षिक्किण्ड्राळ्.
मुन् इऱन्द भर्त्तावै पदिव्कदैयायुळ्ळवळ् पिऱगु अडैगिऱाळ्. ओ! अरसने इक्कारणत्तिनाल्दान् पाणिक्रहणम् विधिक्कप् पडुगिऱदु.
ऎक्कारणत्ताल् पदियानवन् पार्यैयै इव्वुलगत्तिलुम् परलोकत्तिलुमडैगिण्ड्रानो,
आगैयाल्दान् प्रम्हसर्यत्तुडनिरुन्द कुन्दिक्कुम्, अनुगमनम् सॆय्द मात्रिक्कुम् पदिलोक प्राप्ति सॊल्लप्पट्टुळ्ळदु स्वर्गारोहणिगत्तिल् :-
पाण्डुमहाराजन् पत्निगळुडन् सेर्न्दु इन्द्रलोकत्तै अडैन्दान् ऎण्ड्रु.
इव्विदम् सा तारण धर्मङ्गळ् सॊल्लप्पट्टन.
विश्वास-प्रस्तुतिः
पतिशुश्रूषणन्तु प्राणानामविगणनया कर्तव्यत्वात्, भर्तृकृतात्मविक्रयस्य अङ्गीकर्तव्यत्वात्, इतरधर्मोपमर्देन च कर्तव्यत्वात् मुख्यो धर्मः ॥
प्राणानामविगणनया कर्तव्यमित्येतच्च अस्मदीयरामायणधर्माकूते - सीता क्रूरकर्मणा बलिना रक्षसा नीयमानौ रामलक्ष्मणावभिवीक्ष्य ‘मां हरोत्सृज्य काकुत्स्थौ नमस्ते राक्षसोत्तम’ इति प्रार्थयामास ॥
अनेन स्त्रिया स्वप्राणव्ययेनापि स्वभर्तृहितं कर्तव्यमिति सूचितम् ॥
तथा च आदिपर्वणि बकवधे ब्राह्मणीवाक्यम् -
एतद्धि परमं नार्याः कार्यं लोके सनातनम् ।
प्राणानपि परित्यज्य यद्भर्तृहितमाचरेत् ॥
इति ॥
आपद्धर्मे लुब्धकपोतीयेऽपि -
तत्र हि शाकुनिकपञ्जर निरुद्धा कपोती, स्वप्राणेषु नैराश्यावस्थायामपि भर्तुर्यद्धितं तदेवोपदिष्टवतीत्युक्तम् ।

पदि शुश्रूषैयोवॆनिल् प्राणन्गळैयुम् पॊरुट्पडुत्तामल् सॆय्यवेण्डियिरुप्पदालुम्, भर्त्ताविनाल् सॆय्यप्पडुम् तनदु विऱ्पनैयैयुम् ऒप्पुक्कॊळ्ळवेण्डियदालुम्, मट्रत् धर्मङ्गळै विट्टावदु सॆय्यवेण्डियिरुप्पदालुम् मुक्य धर्ममागिण्ड्रदु.
प्राणन्गळैयुम् पॊरुट्पडुत्तामल् सॆय्यवेण्डुम् ऎन्बदु, नमदु रामायण धर्मागूदत्तिल्:-
सीदै क्रूर कार्यनान, पलिष्टनान राक्षसनाल् तूक्किच् चॆल्लप्पट्ट राम लक्ष्मणर्गळैप् पार्त्तु, ‘ओ राक्षसोत्तम! रामलक्ष्मणर्गळै विट्टु विट्टु ऎन्नै ऎडुत्तुच् चॆल्, उनक्कु नमस्कारम्’ ऎण्ड्रु विरादनै प्रार्त्तित्ताळ्.
इदनाल्, स्त्रीयाल् तन् उयिरै इऴन्दावदु तन् भर्त्तावुक्कु हिदम् सॆय्यत्तगुन्ददु ऎन्बदु सुसिक्कप्पट्टदु.
अव्विदमे आदिबर्वत्तिल् पगवदत्तिल् प्राम्हणियिन् वाक्यम्:-
तन् प्राणन्गळै विट्टावदु, तन् भर्त्तावुक्कु हिदत्तैच् चॆय्वदॆण्ड्र इदुवे स्त्रीक्कुच् चिऱन्द पुरादनमान कार्यमागुम्, ऎण्ड्रु.
आबत्धर्मत्तिल् लुप्तगबोदीयत्तिलुम्:-
अव्विडत्तिल् वेडनिन् कूट्टिल् अडैक्कप्पट्ट पॆण् पुऱा, तन् प्राणन्गळिल् आसैयिऴन्द तऱुवायिलुम्, भर्त्तावुक्कु हिदमॆदुवो अदैये उबदेसित्तदु ऎण्ड्रु सॊल्लप्पट्टुळ्ळदु.
विश्वास-प्रस्तुतिः
तथाहि युधिष्ठिरः -
पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।
शरणागतं पालयतो यो धर्मस्तं ब्रवीहि मे ॥
भीष्मः –
महान् धर्मो महाराज शरणागतपालने ।
अर्हः प्रष्टुं भवांश्चैनं प्रश्नं भरतसत्तम ।
नृगप्रभृतयो राजन् राजानः शरणागतान् ।
परिपाल्य महात्मानः संसिद्धिं परमां गताः ॥
श्रूयते हि कपोतेन शत्रुश्शरणमागतः ।
पूजितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः ॥
युधिष्ठिरः-
कथं कपोतेन पुरा शत्रुः शरणमागतः ।
स्वमांसैर्भोजितः कां च गतिं लेभे स भारत ॥
भीष्मः-
शृणु राजन् कथामेनां सर्वपापप्रमोचनीम् ।
नृपतेर्मुचुकुन्दस्य कथितां भार्गवेण हि ॥
इममर्थं पुरा पार्थ मुचुकुन्दो धराधिपः ।
भार्गवं परिपप्रच्छ प्रणतः पुरुषर्षभ ॥
तस्मै शुश्रूषमाणाय भार्गवोऽकथयत् कथाम् ।
इमां यथा कपोतेन सिद्धिः प्राप्ता जनाधिप ॥

अदु इव्विदम्. युदिष्टिरर्:-
ओ पिदामहरे! महाप्राज्ञरे! सर्व सास्त्रङ्गळिलुम् वल्लवरे! सरणडैन्दवनैप् परिबालिप्पदिल् ऎन्दत् धर्ममो अदै ऎनक्कु उरैक्कवेण्डुम्.
पीष्मर्:-
ऒ महाराज! सरणागदनैप् परिबालिप्पदिल् धर्मम् पॆरियदे .नीदान् इन्दत् धर्मत्तैक् केट्क अर्हनागिऱाय्. ओ अरसे! न्रुगन् मुदलिय अरसर्गळ्, सरणागदर्गळैप् परिबालित्तु, सिऱन्द सित्तियै अडैन्दनर्. इव्विदम् केट्कप्पडुगिऱदल्लवो मुऱ्कालत्तिल्, पुऱाविनाल्, तन् वीट्टै अडैन्द सत्रुमुऱैप्पडि पूजिक्कप्पट्टु, तनदु माम्सङ्गळालुम् पुजिप्पिक्कप्पट्टानॆण्ड्रु.
युदिष्टिरर्:-
ओ पारद! मुऱ्कालत्तिल् पुऱाविनाल्, सरणागदनान सत्रु ऎव्विदम् तन् माम्सङ्गळाल् पुजिप्पिक्कप्पट्टान्? अन्दप् पुऱा ऎन्दक् कदियै अडैन्ददु?
पीष्मर्:-
अरसने! सगल पाबङ्गळैयुमगट्रुवदुम्, मुसुगुन्द अरसनुक्कुच् चुक्रासार्यराल् सॊल्लप्पट्टदुमान इक् कदैयैक् केट्पायाग. पार्त्त! मुऱ्कालत्तिल् मुसुगुन्दनॆनुम् अरसन्, पार्क्कवरै (सुत्रासार्यरै) नमस्करित्तुक् केट्टान्. केट्क विरुप्पमुट्र अवनुक्कु, सुक्रासार्यन् कबोदम् सित्तिबॆट्र इक्कदैयै उरैत्तार्.
विश्वास-प्रस्तुतिः
उशना -
धर्मनिश्चयसंयुक्तां कामार्थसहितां कथाम् ।
शृणुष्वावहितो राजन् गदतो मे महाभुज ॥
कश्चित् क्षुद्रसमाचारः पृथिव्यां कालसन्निभः ।
चचार पृथिवीपाल घोरः शकुनिलुब्धकः ॥
काकोल इव कृष्णाङ्गः रूक्षः पापसमीहितः ।
यवमद्ध्यः कृशग्रीवो ह्रस्वपादो महाहनुः ॥
नैव तस्य सुहृत्कश्चिन्न सम्बन्धी न बान्धवः ।
बान्धवैः स परित्यक्तः तेन रौद्रेण कर्मणा ॥
स वै क्षारकमादाय वने हत्वा च पक्षिणः ।
चकार विक्रयं तेषां पतङ्गानां नराधिप ॥
एवं तु वर्तमानस्य तस्य वृत्तिं दुरात्मनः ।
अगमत् सुमहान् कालो नैष धर्ममबुद्ध्यत ॥
तस्य भार्यासहायस्य रममाणस्य शाश्वतम् ।
दैवयोगविमूढस्य नान्या वृत्तिररोचत ॥
ततः कदाचित्तस्याथ वनस्थस्य समुद्गतः ।
पातयन्निव वृक्षांस्तान् सुमहान् वातसम्भ्रमः ॥
मेघसङ्कुलमाकाशं विद्युन्मण्डलमण्डितम् ।
सञ्छन्नं तु मुहूर्तेन नौसार्धेनेव सागरः ॥
वारिधारासहस्रैश्च सम्प्रवृष्टश्शतक्रतुः ।
क्षणेन पूरयामास सलिलेन वसुन्धराम् ॥
ततो धाराकुले लोके सोऽभवन्नष्टचेतनः ।
शीतार्तं तद्वनं सर्वमाकुलेनान्तरात्मना ॥
नैव निम्नं स्थलं वाऽपि सोऽविन्दत विहङ्गहा ।
पूरिते च जलौघेन मार्गे तस्य वनस्य वै ॥
पक्षिणो वर्षवेगेन न शाखा नापि पादपान् ।
मृगास्सिंहा वराहाश्च ये चान्ये तत्र वर्तिनः ॥
महता वातवर्षेण त्रासितास्ते वनौकसः ॥
भयार्तश्च क्षुधार्तश्च बभ्राम स हि तद्वने ।
स तु शीतहतैर्गात्रैः जगामैव न तस्थिवान् ॥
सोऽपश्यद्वनषण्डेऽस्मिन् मेघनीलं वनस्पतिम् ।
कुसुमाकारताराढ्यमाकाशं निर्मलं च ह ॥
मेघैर्मुक्तं नभो दृष्ट्वा लुब्धकः शीतविह्वलः ।
दिशो विलोकयामास वेलां च सुदुरात्मवान् ॥
दूरे ग्रामनिवासश्च तस्मात् स्थानादिति प्रभो ।
कृतबुद्धिर्वने तस्मिन् वस्तुं तां रजनीं तदा ॥
सोऽञ्जलिं प्रणतः कृत्वा वाक्यमाह वनस्पतिम् ।
शरणं यामि यान्यस्मिन् दैवतानीति भारत ॥
स शिलायां शिरः कृत्वा पर्णान्यास्तीर्य भूतले ।
दुःखेन महताऽऽविष्टः ततस्सुष्वाप पक्षिहा ॥
इत्यापद्धर्मे… … अध्यायः ॥

उसनस्:-
ओ अरसने! धर्मनिच्चयत्तुडन् कूडियदुम्, धर्मार्त्तङ्गळुडन् कूडियदुमान कदैयैच् चॊल्लुगिऱेन्, कवनमुडैयवनाय्क् केट्कवुम्.
इऴिवान नडत्तैयुडैयवनुम्, पूमियिल् यमनुक्कुच् चमनुम्, पयङ्गरनुमान ऒरु (पक्षि) वेडन् सञ्जरित्तान्.
विषम्बोल् कऱुत्त शरीरमुडैयवन्, कडिनन्, पाबमान ऎण्णमुडैयवन्, सिऱिय इडैयुडैयवन्, इळैत्त कऴुत्तुडैयवन्, पॆरिय ताडैयुडैयवन्.
अवनुक्कु ऒरु मित्रनावदु, सेर्न्दवनावदु, पन्दुवावदु इल्लै. अवनदु कॊडिय कार्यत्ताल्, अवन् पन्दुक्कळाल् विडप्पट्टान्.
अवन्, वलैयै क्रहित्तु, वनत्तिलुळ्ळ पक्षिगळैक् कॊण्ड्रु अवैगळै विट्रुवन्दान्.
इव्विदम् वरुत्तियुडनिरुक्कुम् अन्दत् तुर्प्पुत्तिक्कु वॆगु कालम् सॆण्ड्रदु. इवन् धर्मत्तै अऱियविल्लै.
पार्यैयुडन् कूडिक्कळिप्पवनुम्, कर्मवसत्ताल् मूडनुमान अवनुक्कु वेऱ पिऴैप्पु रुसिक्कविल्लै. पिऱगु ऒरु कालत्तिल् अवन् वनत्तिलिरुक्कुम्बॊऴुदु, वनत्तिलुळ्ळ व्रुक्षङ्गळैत् तळ्ळुवदु पोण्ड्र मिगप् पॆरिय काट्रिन् वीच्चु उण्डागिट्रु.
क्षणत्तिऱ्कुळ् मिन्नल्गळुडन् कूडियदुम्, मेगङ्गळाल् निऱैन्ददुमान आगासम्, ओडङ्गळाल् निऱैन्द कडल् पोल् आयिट्रु.
मऴैत् तारैगळैप् पॊऴियुम् मेगम्, नॊडिप् पॊऴुदिल् पूमियै मूलत्ताल् निरप्पियदु.
पिऱगु मऴैत् तारैयाल् निऱैन्द उलगिल् अवन् मदिमयङ्गियवनानान्. अक्काडु मुऴुवदुम् कवलैयुट्र मनदुडन् कुळिराल् पीडिक्कप्पट्टदु.
जलप्रवाहत्ताल् निऱैन्द अन्द वनत्तिन् वऴियिल् अन्द वेडन् पळ्ळम्, मेडु ऒण्ड्रैयुम् अऱियविल्लै. मऴैयिन् वेगत्ताल् पक्षिगळ् किळैगळिलो, मरङ्गळिलो इरुक्क मुडियविल्लै. मान्गळ्, सिङ्गङ्गळ्, पण्ड्रिगळ्, अक्काट्टिलुळ्ळ मट्र म्रुगङ्गळ् ऎल्लाम् पॆरिय काट्रु मऴैयाल् पयमुऱुत्तप्पट्टन.
अवन् पयत्तालुम्, पसियालुम् वरुन्दियवनाय् अक्काट्टिल् सुट्रिनान्. कुळिराल् वरुन्दिय अङ्गङ्गळुडन् पोय्क्कॊण्डे इरुन्दान्, निऱ्कविल्लै.
अवन् अन्द मरक् कूट्टत्तिन् नडुविल् मेगम् पोल् कऱुत्त मरत्तैक् कण्डान्.
पुष्पम् पोण्ड्र नक्षत्रङ्गळाल् निऱैन्दु निर्मलमान आगासत्तैयुम् कण्डान्.
कुळिराल् वरुन्दिय वेडन् मेगङ्गळाल् विडुबट्ट आगासत्तैप् पार्त्तु, तिक्कुगळै अऱिन्दान्, पॊऴुदैयुम् अऱिन्दान्.
अव्विडत्तिलिरुन्दु तूरत्तिलिरुक्किऱदु क्राम मॆण्ड्रुम् अऱिन्दान्.
अप्पॊऴुदु अन्द इरवु मुऴुवदुम् अक्काट्टिलेये वसिप्पदॆण्ड्रु ऎण्णिनान्.
अवन् अन्द मरत्तै नमस्करित्तु, अञ्जलि सॆय्दवनाय्,इन्द व्रुक्षत्तिल् ऎन्दत् तेवदैगळ् वसिक्किण्ड्रनवो अवैगळैच् सरणडैगिऱेन् ऎण्ड्रु वाक्यत्तैच् चॊन्नान्.
पिऱगु इलैगळैप् पूमियिल् परप्पि, कल्लिल् तलैयै वैत्तु, मिक्क तुक्कत्तुडन् कूडियवनाय् नित्रै सॆय्दान्.
आबत् धर्मत्तिल्……अत्यायम् मुट्रुम्.
विश्वास-प्रस्तुतिः
भीष्मः -
अथ वृक्षस्य शाखायां विहगस्ससुहृज्जनः ।
दीर्घकालोषितो राजन् तत्र चित्रतनूरुहः ॥
तस्य काल्यं गता भार्या चरितुं नाभ्यवर्तत ।
प्राप्तां च रजनीं दृष्ट्वा स पक्षी पर्यतप्यत ॥
वातवर्षं महच्चासीत् न चागच्छति मे प्रिया ।
किं नु तत्कारणं येन साऽद्यापि न निवर्तते ॥
अपि स्वस्ति भवेत्तस्याः प्रियाया मम कानने ।
तया विरहितं हीदं शून्यमद्य गृहं मम ॥
यदि सा रक्तनेत्रान्ता चित्राङ्गी मधुरस्वरा ।
अद्य नाभ्येति मे कान्ता न कार्यं जीवितेन मे ॥
पतिधर्मपरा साध्वी प्राणेभ्योऽपि गरीयसी ।
सा हि श्रान्तं क्षुधाऽऽर्तं च जानीते मां तपस्विनी ॥
अनुरक्ता हिता चैव स्निग्धा चैव पतिव्रता ।
यस्य वै तादृशी भार्या धन्यस्स मनुजो भुवि ॥
भार्या हि परमो धर्मः पुरुषस्येह कथ्यते ।
असहायस्य लोकेऽस्मिन् लोकयात्रासहायिनी ॥
अथ मोहाभिभूतस्य नित्यं कृच्छ्रगतस्य च ।
नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम् ॥
नास्ति भार्यासमो बन्धुः नास्ति भार्यासमा गतिः ।
नास्ति भार्यासमो लोके सहायो धर्मसाधने ॥
एवं विलपतस्तस्य द्विजस्यार्तस्य वै तदा ।
गृहीता शकुनिघ्नेन भार्या शुश्राव भारतीम् ॥
सा हि स्त्रीत्यवगन्तव्या यस्यां भर्ता तु तुष्यति ।
अग्निसाक्षिकमित्येवं भर्ता हि शरणं परम् ॥
इति सञ्चिन्त्य दुःखार्ता भर्तारं दुःखितं तदा ।
कपोती लुब्धकेनाथ हृता वचनमब्रवीत् ॥

ओ अरसने! अन्द मरत्तिन् किळैयिल् पल वर्णङ्गळुळ्ळ सिऱगुगळुडन् कूडिय पुऱा ऒण्ड्रु तन् इनत्तारुडन् सेर्न्ददाय्, वॆगु कालमाय् वसित्तु वन्ददु.
अदन् पार्वैयागिय पॆण् पुऱा,कालैयिल् वॆळियिल् तिरियच् चॆण्ड्रदु वरविल्लै. इरवु वन्ददैयऱिन्दु आण् पुऱा परिदबित्तदु.
काट्रु मऴै मिगप् पॆरियदाय् उण्डायिट्रु ऎन् प्रियै वरविल्लैये.
इप्पॊऴुदुम् अवळ् तिरुम्बि वराददऱ्कुक् कारणम् ऎदुवायिरुक्कलाम्.
अन्द ऎन् प्रियैक्कुक् काट्टिल् क्षेममुण्डागुमा?
अवळिल्लाद ऎन् इन्द क्रुहम् पाऴा यिरुक्किण्ड्रदे.
सिवन्द कण् मुडिवैयुडैयवळुम्, पलनिऱमुळ्ळ अङ्गङ्गळुडैयवळुम्,
मदुरमान कुरलुळ्ळवळुमान ऎन् मनैवि इप्पॊऴुदु वराविडिल्,
नान् पिऴैत्तिरुप्पदिल् ऎन्न पयन्.
पदिव्रदैयान पत्नी प्राणन्गळै विडच् चिऱन्दवळ्.
एऴैयान अवळ् कळैप्पुट्रवनुम्, पसियाल् वरुन्दियवनुमान ऎन्नै निनैत्तिरुप्पाळ्.
अवळ् ऎन्निडम् रागमुडैयवळ्, हिदम् सॆय्बवळ्, स्नेहमुडैयवळ्, पदिव्रदैयानवळ्. ऎवनुक्कु अव्विदमान पार्यैयो अवने पुवियिल् तन्यनावान्. इव्वुलगिल् क्रुहस्तनुक्कुप् पार्यैये सिऱन्द धर्ममॆण्ड्रु सॊल्लप्पडुगिऱाळ्.
इव्वुलगिल् सहायमट्रवनुक्कुप् पिऴैप्पुक्कु उदवियायुळ्ळवळ्.
मट्रुम् मोहमडैन्दुम्, कष्टमडैन्दु मुळ्ळवनुक्कु, पार्यैक्कुच् चममान मित्रनिल्लै.
व्यादियुट्रवनुक्कु अवळ् पोण्ड्र मरुन्दुमिल्लै. पार्यैक्कुच् चममान पन्दु इल्लै. कदियुमिल्लै. धर्मत्तैच् चादिप्पदिल् अवळुक्कुच् चममान सहायनुमिल्लै.
इव्विदम् अऴुगिण्ड्र पुऱाविन् वार्त्तैयै अन्द वेडनाल् पिडिक्कप्पट्टुक् कूण्डिलडैक्कप्पट्टु मरत्तिनडियिलुळ्ळ पॆण् पुऱा सॆवियुट्रदु.
ऎवळ् विषयत्तिल् कणवन् सन्दोषिक्किण्ड्रानो अवळल्लवो पॆण् ऎण्ड्रु अऱियत्तक्कवळ्. अक्निसाक्षिगमाय्
अडैन्द भर्त्तावल्लवो सिऱन्द सरणमागिण्ड्रान्, ऎण्ड्रु आलोसित्तु,तुक्कमडैन्ददाय्, वेडनाल् पिडिक्कप्पट्टुळ्ळ पॆण् पुऱा तुक्कमडैन्दुळ्ळ कणवनै नोक्किच् चॊल्लिट्रु.
विश्वास-प्रस्तुतिः
कपोत्युवाच –
हन्त वक्ष्यामि ते श्रेयः श्रुत्वा तु कुरु तत्तथा ।
शरणागतसन्त्राता भव कान्त विशेषतः ॥
एष शाकुनिकः शेते तव वासं समाश्रितः ।
शीतार्तश्च क्षुधार्तश्च पूजामस्मै प्रयोजय ॥
यो हि कश्चित् द्विजं हन्यात् गां वा लोकस्य मातरम् ।
शरणागतं च यो हन्यात् तुल्यं तेषां हि पातकम् ॥
याऽस्माकं विहिता वृत्तिः कापोती धर्मतः पुरा ।
सा न्याय्याऽऽत्मगता नित्यं त्वद्विधेनानुवर्तितुम् ॥
यस्तु धर्मं यथाशक्ति गृहस्थो ह्यनुवर्तते ।
स प्रेत्य लभते लोकानक्षयानिति शुश्रुम ॥
स त्वं सन्तानवानद्य पुत्रवानपि च द्विज ।
त्वं स्वदेहे दयां त्यक्त्वा धर्मार्थौ परिगृह्य वै ॥
पूजामस्मै प्रयुङ्क्ष्व त्वं प्रीयेतास्य मनो यथा ॥
इति सा शकुनी वाक्यमारक्षस्था तपस्विनी ।
अतिदुःखान्विता प्रोक्त्वा भर्तारं समुदैक्षत ॥
इति … …अध्यायः ॥

ओ कान्दरे! उमक्कु नन्मैयैच् चॊल्लुगिऱेन्. अदैक् केट्टु अदै अव्विदमे सॆय्युम्.
ओ कान्द! सरणमडैन्दवनैक् काप्पवराग नीर् अवच्यम् आगवेण्डुम्.
इन्द वेडन् उम् वीट्टैयडैन्दवनाय्, कुळिरालुम्, पसियालुम् वरुन्दियवनाय्प् पडुत्तिरुक्किऱान्. इवनुक्कुप् पूजैयैच् चॆय्युम्.
ऎवन्, प्राम्हणनै वदैक्किण्ड्रानो, ऎवन्, उलगत्तिऱ्कुत् तायागिय पसुवै वदैक्किण्ड्रानो,
ऎवन् सरणडैन्दवनै वदैक्किण्ड्रानो अम्मूवरुक्कुम् पाबम् सममागुम्.
नमक्कु ऎन्दक् कबोद व्रुत्ति धर्ममाय् विधिक्कप्पट्टुळ्ळदो
अन्द व्रुत्तियै उम्मैप् पोलुळ्ळवर् काक्कवेण्डुम्.
ऎन्द क्रुहस्तन् तन् धर्मत्तै यदासक्ति अनुष्टिक्किण्ड्रानो,
अवन् इऱन्द पिऱगु अऴिवट्र पुण्य लोकङ्गळै अडैगिण्ड्रान् ऎण्ड्रु केट्टुळ्ळोम्.
अव्विदमागिय नीर् पॆण्बिळ्ळैगळै उडैयवरा यिरुक्किण्ड्रीर्.
आगैयाल् तन् तेहत्तिल् तयैयै विट्टु, धर्मार्त्तङ्गळै मदित्तु,
इवनदु मनम् ऎव्विदम् सन्दोषिक्कुमो अव्विदमाय् पूजैयैच् चॆय्यवेण्डुम्.
इव्विदम्, वेडन् कूट्टिऱ्कुळ् इरुक्कुम् तुक्कमुडैय अप्पॆण् पुऱा सॊल्लिविट्टु,
वॆगु तुक्कमुडैयदाय्त् तन् कणवनै नोक्कियदु.
अत्यायम् मुट्रिट्रु.
विश्वास-प्रस्तुतिः
भीष्म उवाच -
स पत्न्या वचनं श्रुत्वा धर्मयुक्तिसमन्वितम् ।
हर्षेण महता युक्तो बाष्पव्याकुललोचनः ॥
शीतबाधासमाविष्टं विधिदृष्टेन कर्मणा ।
पूजयामास युक्तेन स पक्षी पक्षिजीवनम् ॥
उवाच स्वागतं तेऽस्तु ब्रूहि किं करवाणि ते ।
सन्तापश्च न गन्तव्यः स्वगृहे वर्तते भवान् ॥
ब्रवीतु च भवान् क्षिप्रं किं करोमि किमिच्छसि ।
प्रणयेन ब्रवीमि त्वां त्वं हि नः शरणं गतः ॥
शरणागतस्य कर्तव्यमातिथ्यमिह यत्नतः ।
पञ्चयज्ञप्रवृत्तेन गृहस्थेन विशेषतः ॥
पञ्चयज्ञांस्तु यो मोहान्न करोति गृहाश्रमी ।
तस्य नायं न च परो लोको भवति धर्मतः ॥
तत् ब्रूहि त्वं सुविस्रब्धो यं त्वं वाचा वदिष्यसि ।
तं करिष्याम्यहं सर्वं मा त्वं शोके मनः कृथाः ॥
तस्य तद्वचनं श्रुत्वा शकुनेर्लुब्धकोऽब्रवीत् ।
बाधते खलु मां शीतं हिमत्राणं विधीयताम् ॥
एवमुक्तस्ततः पक्षी पर्णान्याहृत्य भूतले ।
यथा शुष्काणि यत्नेन ज्वलनार्थं द्रुतं ययौ ॥
स गत्वाऽऽङ्गारिकस्थानं गृहीत्वाऽग्निमथागमत् ।
ततः शुष्केषु पर्णेषु पावकं स ह्यदीपयत् ॥
स दीप्तं सुमहत् कृत्वा तमाह शरणागतम् ।
प्रतापय सुविस्रब्धं स्वगात्राण्यकुतोभयः ॥
स तथोक्तस्तथेत्युक्त्वा लुब्धो गात्राण्यतापयत् ।
सोऽग्नेः प्रत्यागतप्राणः ततः प्राह विहङ्गमम् ॥
दत्तमाहारमिच्छामि त्वया क्षुद्बाधते हि माम् ॥
स तद्वचः परिश्रुत्य वाक्यमाह विहङ्गमः ॥
न मेऽस्ति विभवो येन नाशयेयं तव क्षुधम् ।
उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः ॥
सञ्चयो नास्ति चास्माकं मुनीनामिव कानने ।
इत्युक्त्वा स तदा तत्र विवर्णवदनोऽभवत् ॥
कथं नु कर्तव्यमिति चिन्तापरस्तदा ।
बभूव भरतश्रेष्ठ गर्हयन् वृत्तिमात्मनः ॥
मुहूर्ताल्लब्धसञ्ज्ञस्तु स पक्षी द्विजघातिनम् ।
उवाच तर्पयिष्यामि मुहूर्तं प्रतिपालय ॥
इत्युक्त्वा शुष्कपर्णैस्तं सम्प्रज्वाल्य हुताशनम् ।
हर्षेण महता युक्तः कपोतः पुनरब्रवीत् ॥
देवतानां पितॄणां च ऋषीणां च महात्मनाम् ।
श्रुतः पूर्वं मया धर्मो महानतिथिपूजने ॥
कुरुष्वानुग्रहं मन्ये सत्यमेतत् ब्रवीमि ते ।
निश्चिता खलु मे बुद्धिरतिथिप्रतिपूजने ॥
ततस्सत्यप्रतिज्ञोऽसौ स पक्षी प्रहसन्निव ।
तमग्निं त्रिः परिक्रम्य प्रविवेश महामतिः ॥
अग्निमध्यं प्रविष्टं तं लुब्धो दृष्ट्वाऽथ पत्त्रिणम् ।
चिन्तयामास मनसा किमिदं नु कृतं मया ॥
अहो मम नृशंसस्य गर्हितस्य स्वकर्मणा ।
अधर्मस्सुमहान् घोरो भविष्यति न संशयः ॥
एवं बहुविधं भूरि विललाप स लुब्धकः ।
गर्हयन् स्वानि कर्माणि द्विजं दृष्ट्वा तथागतम् ॥

पीष्मर् सॊल्लुगिऱार्:-
अन्द आण् पुऱा, धर्मत्तुडनुम्, युक्तियुडनुम् पॊरुन्दियुळ्ळ तन् पत्नियिन् वार्त्तैयैक् केट्टु नीर् निऱैन्दुळ्ळ कण्गळुडैयदाय्, मिगच् चन्दोष मुडैयदाय्,
कुळिराल् वरुन्दुम् वेडनै विधिप्पडि पूजित्तदु. इव्विदम् सॊल्लिट्रु. उमक्कु नल्वरवु उण्डागवुम्. उमक्कु नान् ऎन्न सॆय्यवेण्डुम्. अदैच् चॊल्लवुम्. मनवरुत्तम् वेण्डाम्. नीर् उमदु वीट्टिलिरुक्किण्ड्रीर्.
नान् ऎन्न सॆय्यवेण्डुम्. ऎदै विरुम्बुगिऱीर्. अदै उडने सॊल्लुम्. नान् स्नेहत्तुडन् सॊल्लुगिऱेन्. नीर् ऎङ्गळ् वीट्टै अडैन्दिरुक्किऱीर्. पञ्ज यज्ञङ्गळ् सॆय्युम् क्रुहस्तन्, तन् वीट्टिऱ्कु वन्दवनुक्कु अदिदिबूजैयै अवच्यम् सॆय्यवेण्डुम्.
ऎन्द क्रुहस्तन्, अऱियामैयाल् पञ्जमहायक्ञङ्गळैच् चॆय्वदिल्लैयो, अवनुक्कु इव्वुलगुमिल्लै, धर्मत्ताल् किडैक्कवेण्डिय परलोकमुमिल्लै.
आगैयाल् नीर् कबडमट्रुच् चॊल्लुम्. नीर् सॊल्लुवदै ऎल्लाम् सॆय्गिऱेन्. वरुत्तप्पडवेण्डाम्. इव्विदम् सॊल्लिय पक्षियिन् वार्त्तैयैक् केट्टु, वेडन् सॊल्ललुट्रान्.
ऎन्नैक् कुळिर् वरुत्तुगिण्ड्रदे. इदिलिरुन्दु ऎन्नैक् कात्तल् सॆय्वाय् ऎण्ड्रान्. इव्विदम् सॊल्लप्पट्ट पऱवै अङ्गुमिङ्गुम् सॆण्ड्रु काय्न्द इलैगळैप् पॊऱुक्किक्कॊण्डु वन्दु, पिऱगु नॆरुप्पुक्काग वेगमाय्च् चॆण्ड्रदु.
अदु करिगळाल् वेलै सॆय्युमिडम् सॆण्ड्रु, नॆरुप्पै ऎडुत्तुवन्ददु. पिऱगु, काय्न्द सरगुगळिल् नॆरुप्पै मूट्टियदु. मिगप् पॆरियदाय् ज्वलिक्कच् चॆय्दु, अव् वेडनै नोक्कि, ‘पयमिल्लामल् इष्टप्पडि अङ्गङ्गळैक् काय्च्चिक्कॊळ्ळुङ्गळ्’ ऎण्ड्रदु.
अप्पडियेसॆय्गिऱेन् ऎण्ड्रु सॊल्लि वेडन् तन् अङ्गङ्गळैक् काय्च्चिनान्. नॆरुप्पिनाल् प्राणनैत् तिरुम्बप् पॆट्र अव्वेडन्,
ऎन्नैप् पसि मिगवुम् वरुत्तुगिण्ड्रदु, उन्नाल् कॊडुक्कप्पडुम् आहारत्तै विरुम्बुगिण्ड्रेन्’ ऎण्ड्रान्.
अन्द वेडनिन् वार्त्तैयैक् केट्टु अप् पक्षियानदु सॊल्लियदु. उम् पसियैप् पोक्कुवदऱ्कान विबवम् ऎनक्किल्लैये.
अण्ड्रु तोऱुम् सम्बादित्त पॊरुळालल्लवो काट्टिल् वाऴुम् नाङ्गळ् जीविक्किण्ड्रोम्. काट्टिल् वसिक्कुम् मुनिगळुक्कुप् पोल् ऎङ्गळुक्कुप् पण्डङ्गळैच् चेर्त्तु वैप्पदॆन्बदु इल्लैये’
ऎण्ड्रु सॊल्लि अप्पुऱा मुगम् वॆळुत्तु इरुन्ददु. ऎव्विदम् सॆय्यवेण्डुम् ऎण्ड्रु तन् पिऴैप्पै निन्दित्तुक्कॊण्डु कवलैयुट्रदायिरुन्ददु.
मुहुर्त्त कालत्तिऱ्कुप् पिऱगु निनैवैयडैन्दु वेडनै नोक्कि उम्मै त्रुप्तराक्कुगिऱेन्. मुहुर्त्तगालम् पॊऱुत्तिरुम्’ ऎण्ड्रदु.
इव्विदम् सॊल्लि, उलर्न्द इलैगळाल् अन्द नॆरुप्पै नण्ड्राय् ज्वलिक्कच् चॆय्दु, मिगच् चन्दोषमुडैयदाय् अप्पुऱा मऱुबडि सॊल्लिट्रु.
तेवर्गळ्, पित्रुक्कळ्, रुषिगळ् इवरिडमिरुन्दु मुन् नान् केट्टुळ्ळेन्, ‘अदिदियैप् पूजिप्पदिल् पॆरिय पुण्यम् उण्डागिण्ड्रदु’ ऎण्ड्रु.
आगैयाल् ऎनक्कु नीर् अनुग्रहम् सॆय्यवेण्डुम्. उमक्कु सत्यमाय्च् चॊल्लुगिऱेन्. अदिदि पूजैयिल् ऎन् पुत्ति त्रुडमायुळ्ळदु,
ऎण्ड्रु सॊल्लि अन्दप् पक्षी सन्दोषत्तुडनेये अन्द अक्नियै मूण्ड्रु मुऱै वलमाय्च् चुट्रि अदिल् नुऴैन्दुविट्टदु. अक्नियिन् नडुविल् नुऴैन्द पक्षियै नोक्कि वेडन्, इदॆन्न कार्यत्तैच् चॆय्देन्.
ऐयो! कादुगनायुम्, कार्यङ्गळाल् इऴिवानवनुमागिय ऎनक्कुप् पॆरिय पाबम् उण्डागप्पोगिऱदु, सन्देहमिल्लै, ऎण्ड्रु मनदाल् सिन्दित्तु, पलविदमाय् मिगवुम् पुलम्बिनान्. अव्विदमागिय पक्षियैप् पार्त्तुत् तन् कॊडुम् सॆयल्गळै वॆऱुत्तान्.
विश्वास-प्रस्तुतिः
श्रीभीष्मः -
ततस्तु लुब्धकः पश्यन् कृपयाऽभिपरिप्लुतः ।
कपोतमग्नौ पतितं वाक्यं पुनरुवाच ह ॥
धिङ्मामस्तु सुदुर्बुद्धिं सदा निकृतिनिश्चयम् ।
शुभं कर्म परित्यज्य योऽहं शकुनिलुब्धकः ॥
नृशंसस्य ममाद्यायं प्रत्यादेशो न संशयः ।
व्यक्तं स्वमांसं ददता कपोतेन महात्मना ॥
उपदिष्टो हि मे धर्मः कपोतेनातिधर्मिणा ।
सोऽहं त्यक्ष्ये प्रियान् प्राणान् पुत्रान् दारान् विसृज्य च ॥
अद्यप्रभृति मे देहं सर्वभोगैर्विवर्जितम् ।
यथा स्वल्पजलं ग्रीष्मः शोषयिष्याम्यहं सदा ॥
क्षुत्पिपासातपसहः कृशो धमनिमन्ततः ।
उपवासैर्बहुविधैः करिष्ये पारलौकिकम् ॥
अहो देहप्रधानेन दर्शिताऽतिथिपूजना ।
तस्माद्धर्मं चरिष्यामि धर्मो हि परमा गतिः ॥
दृष्टो हि धर्मो धर्मिष्ठो यादृशोऽसौ विहङ्गमः ॥
एवमुक्त्वा विनिश्चित्य रौद्रकर्मा स लुब्धकः ।
महाप्रस्थानमाश्रित्य प्रययौ संशितव्रतः ॥
ततो यष्टिं शलाकां च क्षारकं त्यज्य तत्र हि ।
तां च बद्धां कपोतीं च स प्रमुच्योत्ससर्जह ॥
इति … अध्यायः ॥

पिष्मर्:-
इव्विदम् नॆरुप्पिल् पुऱावैप् पार्त्त वेडन् तयैयाल् ननैन्दु मऱुबडि सॊल्लुगिऱान् तुर्प्पुत्तियायुम्, वञ्जगनायुमुळ्ळ ऎन्नैच् चुडवेण्डुम्.
नऱ् कार्यत्तै विट्टुप् पक्षिगळैक् कॊल्लुम् वेडनागिनेने, कादुगनागिय ऎनक्कु इदु ऒरु उबदेसमायिट्रु. सम्सयमिल्लै.
तन् माम्सत्तैक् कॊडुत्त महा धर्मिष्टनान महात्मावान पक्षियाल् ऎनक्कु उबदेसम् सॆय्यप्पट्टदु. इदु निच्चयम्.
अव्विदमागिय नान्, पिळ्ळैगळैयुम्, पॆण्जादियैयुम् विट्टु,उयिरैयुम् विडप्पोगिऱेन्. इण्ड्रु मुदल् ऎन् तेहत्तै सगल पोगङ्गळुमट्रदाक्कि, सिऱिय जलत्तैक् कोडैक्कालम् वट्रच् चॆय्वदुबोल् वट्रच्चॆय्गिऱेन्.
पसि, ताहम्, वॆयिल् इवैगळैप् पॊऱुप्पवनायुम्, इळैत्तवनायुम्, नरम्बुगळ् निऱैन्दवनायुम्, पलविद पट्टिनिगळाल् परलोकत्तिऱ्कु हिदमान कार्यत्तैच् चॆय्यप्पोगिऱेन्.
आच्चर्यम्! तन् तेहत्तैक् कॊडुप्पदाल् अदिदिबूजै ऎनक्कुक् काण्बिविक्कप्पट्टदे. आगैयाल् धर्मत्तैये सॆय्यप्पोगिऱेन्. धर्मम् सिऱन्द वऴियल्लवा.
धर्मिष्टनान इन्दप् पक्षियिनिडत्तिल् ऎन्दत् धर्मत्तैक् कण्डेनो.
इव्विदम् सॊल्लि निच्चयित्तु, कॊडिय कर्ममुडैय अन्द वेडन्, तीव्रमान नियममुडैयवनाय्, महाप्रस्तानत्तै एट्रु, (वडक्कु मुगमाय्) सॆण्ड्रान्.
अदऱ्कु मुन्बे, तनदु कऴि, सलागै, वलै इवैगळै अव्विडत्तिल् ऎऱिन्दुविट्टु, कूट्टिल् अडैक्कप्पट्ट पॆण् पुऱावैयुम् वॆळियिल् विट्टुविट्टान्.
अत्यायम्…… मुट्रुम्.
विश्वास-प्रस्तुतिः
भीष्मः –
ततो गते शाकुनिके कपोती प्राह दुःखिता ।
संस्मृत्य भर्तारमथो रुदन्ती शोककर्शिता ॥
नाहं ते विप्रितं कान्त कदाचिदपि संस्मरे ।
सर्वाऽपि दुःखिता नारी बहुपुत्राऽबलैव सा ॥
शोच्या भवति बन्धूनां पतिहीना तपस्विनी ॥
लालिताऽहं त्वया नित्यं बहुमानाच्च सान्त्विता ।
वचनैर्मधुरैः स्निग्धै रसकृत् सुमनोहरैः ॥
अन्तरेषु च शैलानां नदीनां निर्झरेषु च ।
द्रुमाग्रेषु च रम्येषु रमिताऽहं त्वया प्रिय ॥
आकाशगमने चैव सहिताऽहं त्वया गता ।
रमिताऽस्मि पुरा कान्त वने नास्त्यद्य मे प्रियः ॥
मितं ददाति हि पिता मितं भ्राता मितं सुतः ।
अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥
नास्ति भर्तृसमो नाथो नास्ति भर्तृसमं सुखम् ।
विसृज्य धनसर्वस्वं भर्ता हि शरणं स्त्रियाः ॥
न सा स्त्रीत्यभिमन्तव्या यस्यां भर्ता न तुष्यति ।
तुष्टे भर्तरि नारीणां तुष्टाः स्युस्सर्वदेवताः ॥
अग्निसाक्षिकमित्येव भर्ता वै दैवतं परम् ।
दावाग्निनेव निर्दग्धा सपुष्पस्तबका लता ॥
भस्मीभवतु सा नारी यस्यां भर्ता न तुष्यति ।
किं कार्यमिह मे नाथ जीवितेन त्वया विना ॥
पतिहीना तु या नारी न सा जीवितुमुत्सहेत् ॥
एवं विलप्य बहुधा करुणं सा सुदुःखिता ।
पतिव्रता सम्प्रदीप्तं प्रविवेश हुताशनम् ॥
ततश्चित्राङ्गदधरं भर्तारं साऽन्वपद्यत ।
विमानस्थं सुकृतिभिः पूज्यमानं महात्मभिः ॥
चित्रमाल्याम्बरधरं सर्वाभरणभूषितम् ।
विमानशतकोटीभिरावृतं पुण्यकीर्तिभिः ।
ततः स्वर्गगतः पक्षी भार्यया सह सङ्गतः ।
कर्मणा पूजितस्तेन स रेमे सह भार्यया ॥
इति …….अध्यायः ॥

वेडन् सॆण्ड्र पिऱगु, तुक्कमुट्र पॆण् पुऱा भर्त्तावै निनैत्तु अऴत्तॊडङ्गियदु. ओ कान्द! नान् उमक्कु ऒरुगालुम् अप्रियम् सॆय्ददाय् निनैक्कविल्लै. ऎवळायिनुम् पदियिल्लादवळायिन् अवळ् पलमट्रवळ्. पॆण् पिळ्ळैगळनेगरिरुन्दालुम् पन्दुक्कळुक्कुत् तुक्कमळिप्पवळावाळ्. उम्माल् नान् ऎप्पॊऴुदुम् सीराट्टप्पट्टेन्. पहुमानत्तुडन् समादानप्पडुत्तप्पट्टेन्.
इनियदुम् मनोहरमुमान वाक्यङ्गळाल् अडिक्कडि समादानप्पडुत्तप् पट्टेन्.
ऒ प्रियरे! मलैगळिन् कुगैगळिलुम् नदिगळिन् अरुविगळिलुम्, अऴगिय मरङ्गळिन् नुनिगळिलुम् उम्माल् नान् रमिक्कच् चॆय्यप्पट्टेन्.
आगासत्तिल् सॆल्लुम् पोदुम् उम्मुडन् सेर्न्दु नान् सॆण्ड्रिरुक्किऱेन्. वनत्तिल् ऎन्नै रमिक्कच् चॆय्दीर्.
इप्पॊऴुदु ऎनक्कु प्रियनिल्लैये पिदा, प्रादा, पुत्रन् इवर्गळ् अल्बमान सुगत्तैये कॊडुक्किण्ड्रनर्. अळवट्र सुगत्तै अळिक्कुम् भर्त्तावै ऎन्दप् पॆण् पूजिक्कमाट्टाळ्.
भर्त्तावुक्कुच् चमनान नादन् वेऱु इल्लै. भर्त्तावुक्कुच् चममान सुगम् वेऱिल्लै.
पणम् मुदलिय सगल स्वत्तैयुम् विट्टुप् भर्त्तावैये सरणमडैयवेण्डुम् पॆण्. ऎवळिडम् भर्त्ता सन्दोषिप्पदिल्लैयो अवळैप् पॆण् ऎण्ड्रु ऎण्णक्कूडादु.
पॆण्गळुक्कुप् भर्त्ता सन्दोषित्ताल् सगल तेवर्गळुम् सन्दोषिक्किण्ड्रनर्.
अक्निसाक्षियाय् क्रहित्त भर्त्तावे सिऱन्द तेवदैयागिऱान्. ऎवळिडम् भर्त्ता सन्दोषिप्पदिल्लैयो अवळ्, पूङ्गॊत्तुडन् कूडिय कॊडि काट्टुत् तीयिनाल् अऴिवदु पोल् साम्बलावळ्.
ओनाद! नीर् इल्लाद पॊऴुदु इनि ऎनक्कु उयिराल् ऎन्न पयनिरुक्किऱदु. पदियट्रवळॆवळो अवळ् पिऴैत्तिरुक्क विरुम्बलागादु.
इव्विदम् वॆगु प्रगारमाय्, तुक्कमुट्र पदिव्रदैयान पॆण् पुऱा एक्कमुडन् अऴुदु ज्वलिक्कुमन्द अक्नियिल् नुऴैन्ददु.
पिऱगु, सित्रमान तोळ्वळैयणिन्दवनुम्, विमानत्तिलिरुप्पवनुम्, पुण्यर्गळान महात्माक्कळिनाल् पूजिक्कप्पडुगिण्ड्रवनुम्, विसित्रमान मालै, वस्त्रमिवैगळैत् तरित्तवनुम्, सगल आबरणङ्गळालुमलङ्गरिक्कप्पट्टवनुम्, नूऱुगोडि विमानङ्गळाल् सूऴप्पॆट्रवनुमान तन् भर्त्तावै अप् पॆण् पक्षि अडैन्ददु.
स्वर्क्कमडैन्द अन्दप् पुऱावुम् पार्यैयुडन् सेर्न्ददाय्, अक्कार्यत्ताल् पुगऴप्पट्टु. पार्यैयुडन् सुगमुट्रिरुन्ददु.
अत्यायम्…… मुट्रुम्.
विश्वास-प्रस्तुतिः
भीष्मः-
विमानस्थौ तु तौ राजन् लुब्धको वै ददर्श ह ।
दृष्ट्वा स दम्पती दुःखादचिन्तयत सङ्गतौ ॥
कीदृशेनेह तपसा गच्छेयं परमां गतिम् ।
इति बुद्ध्या विनिश्चित्य गमनायोपचक्रमे ॥
महाप्रस्थानमाश्रित्य उत्तमं पक्षिजीवनः ।
स निश्चेष्टो निराहारो निर्ममः स्वर्गकाङ्क्षया ॥
ततः पश्यति विस्तीर्णं हृद्यं पद्मविभूषितम् ।
नानाद्विजगणाकीर्णं सरश्शीतजलं शुभम् ॥
पिपासार्तोऽपि तद्दृष्ट्वा तृप्तस्स्यान्नात्र संशयः ।
उपवासकृशोऽत्यर्थं स तु पार्थिव लुब्धकः ॥
उपसर्प्य तु तद्दृष्टं श्वापदाद्ध्युषितं वनम् ।
महान्तं निश्चयं कृत्वा लुब्धकः प्रविवेश ह ॥
प्रविशन्नेव च वनं निगृहीतस्सकण्टकैः ।
स कण्टकविभिन्नाङ्गो लोहितार्द्रीकृतच्छविः ॥
बभ्राम तस्मिन् विजने नानाद्रुमलताकुले ।
ततो द्रुमाणां पततां पवनेन वने तदा ॥
उदतिष्ठत सङ्घर्षात् सुमहान् हव्यवाहनः ।
तद्वनं वृक्षसङ्कीर्णं लताविटपसङ्कुलम् ॥
ददाह पावकः क्रुद्धो युगान्ताग्निसमप्रभः ॥
सज्वालैः पवनोद्धूतैः विस्फुलिङ्गैस्समन्ततः ।
ददाह तद्वनं घोरं मृगपक्षिसमाकुलम् ॥
ततः स्वदेहमोक्षार्थं सम्प्रहृष्टेन चेतसा ।
अभ्यधावत वृद्धं तं पावकं लुब्धकस्तदा ॥
ततस्तेनाग्निना दग्धो लुब्धको दग्धकिल्बिषः ।
आससाद परां सिद्धिं तदा भरतसत्तम ॥
ततः स्वर्गस्थमात्मानमपश्यद्विगतज्वरः ।
यक्षगन्धर्वसिद्धानां मद्ध्ये भ्राजन्तमिन्द्रवत् ॥
एवं खलु कपोतश्च कपोती च पतिव्रता ।
लुब्धकश्च सह स्वर्गं गताः पुण्येन कर्मणा ॥
याऽन्या चैवंविधा नारी भर्तारमनुवर्तते ।
विराजते च सा क्षिप्रं कपोतीव दिवि स्थिता ॥
एवमेतत् पुरावृत्तं लुब्धकस्य महात्मनः ।
कपोतस्य च धर्मिष्ठ गतिः पुण्येन कर्मणा ॥
य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् ।
नाशुभं विद्यते तस्य मानवस्य न संशयः ॥
उक्तश्चैव महानेष धर्मो धर्मभृतां वर ।
गोघ्नेष्वपि भवेन्नित्यं निष्कृतिः पापकर्मणः ।
निष्कृतिर्न भवेत्तस्य यो हन्याच्छरणागतम् ॥
इति ॥
इति …… अध्यायः ॥

विमानत्तिलिरुक्कुम् अन्दत् तम्बदिगळै वेडन् कण्डान्. पिऱगु तुक्कत्तुडन् सिन्दिक्कलानान्.
ऎव्विदमान तबस्सिनाल् नान् सिऱन्द उलगत्तैयडैवेन् ऎण्ड्रु. पिऱगु तन् पुत्तियाल् निच्चयित्तु, सिऱन्द महाप्रस्तानत्तिऱ्काग नडक्कत् तॊडङ्गिनान्.
अवन् वेऱु सेष्टैयिल्लामल् आहारमिण्ड्रि ममगारमट्रु स्वर्क्कत्तिनासैयाल् नडन्दान्.
पिऱगु विस्तारमुळ्ळदुम्, अऴगियदुम्, तामरैयाललङ्गरिक्कप् पट्टदुम्, पलविद पक्षिगळाल् निऱैन्ददुम्, कुळिर्न्द जलमुळ्ळदुमान कुळत्तैक् कण्डान्.
मिग ताहमुडैयवनुङ् गूड अक् कुळत्तैप् पार्प्पदालेये त्रुप्तियैयडैवान्.
उबवासत्ताल् मिगवुम् मॆलिन्द अन्द वेडन् अक्कुळत्तैप् पार्त्तु, पिऱगु त्रुड निच्चयमुळ्ळवनाय्, तुष्ट म्रुगङ्गळ् वसिक्कुम् काट्टिनुळ् पुगुन्दान्.
नुऴैयुम्बोदे मुट्कळाल् कीऱप्पट्टु, रक्कत्ताल् सिवन्द निऱमुडैयवनाय् मरङ्गळुम्, कॊडिगळुम् निऱैन्द अक् काट्टिल् सुट्रिनान्.
पिऱगु पॆरुङ् गाट्रिनाल् तळ्ळप्पट्ट मरङ्गळिन् उरैदलाल् पॆरुम् ती उण्डायिट्रु. अदु प्रळयगालाक्निबोल् वळर्न्दु, मरम्, सॆडि, कॊडिगळडर्न्द अक्काट्टै ऎरित्तदु.
ज्वालैयुडन् कूडिय पॊऱिगळ् काट्रिनाल् नान्गु पुऱमुम् वीसप्पड म्रुग, पक्षिगळुडन्गूडिय अक्काट्टै ऎरित्तदु.
अन्द वेडन् अन्दत् तीयैप् पार्त्तु कळिक्कुम् मनदुडन्, तन् तेहत्तै विडुवदऱ्कु अदनिडम् सॆण्ड्रान्.
पिऱगु अन्द वेडन् अक्नियाल् तहिक्कप्पट्टु, पाबङ्गळट्रु, सिऱन्द कदियै अडैन्दान्.
अवन्, तन्नै स्वर्क्कत्तिलिरुप्पवनायुम्, यक्ष कन्दर्व सित्तर्गळिन् नडुविल् इन्द्रन् पोल् प्रकाशमु.
टैयवनायुम्, पार्त्तुत् ताबन् दणिन्दवनायिनान्. इव्विदम् पुऱावुम्, पदिव्रदैयान पॆण् पुऱावुम्, वेडनुम् पुण्य कर्मत्ताल् स्वर्क्कत्तैयडैन्दनर्.
मट्र ऎन्द स्त्रीयावदु इव्विदम् भर्त्तावै अनुसरिप्पाळागिल्, अवळ् पॆण् पुऱावैप्पोल् स्वर्क्कत्तिलिरुन्दु प्रकाशिप्पाळ्. सन्देहमिल्लै.
ओ धर्मिष्टने! इन्दप् पॆरुम् धर्मत्तै उनक्कुच् चॊन्नेन्. पसुवदम् सॆय्बवनुक्कुम् पाबत्तिऱ्कु प्रायच्चित्तमुण्डु. सरणडैन्दवनै हिम्सिप्पवनुक्कु प्रायच्चित्तमे इल्लै.
अत्यायम् …मुट्रुम्.
विश्वास-प्रस्तुतिः
भर्तृकृतात्मविक्रयाङ्गीकारो मार्कण्डेयपुराणे हरिश्चन्द्रोपाख्याने ।
हरिश्चन्द्रः -
विक्रेतुं दयितां प्राप्तो यो न प्राणांस्त्यजाम्यहम् ।
यदि वः कस्यचित् कार्यं दास्या प्राणेष्टया मम ॥
स ब्रवीतु त्वरायुक्तो यावत् सन्धारयाम्यसून् ।
अथ वृद्धो द्विजः कश्चिदागत्याह नराधिपम् ॥
समर्पयस्व मे दासीमहं क्रेता धनप्रदः ।
अनुरूपमिदं वित्तं गृहाणार्पय मेऽबलाम् ॥
ततस्स विप्रो नृपतेर्वल्कलान्ते दृढं धनम् ।
बद्ध्वा केशेष्वथादाय नृपपत्नीमकर्षत ॥

भर्त्ता सॆय्द तनदु विऱ्पनैयै ऒप्पुक्कॊळ्ळुदल्, मार्गण्डेय पुराणत्तिल्, हरिच्चन्द्रोबाक्यानत्तिल् सॊल्लप्पट्टुळ्ळदु. हरिच्चन्द्रन्-
प्राणन्गळै इऴक्कामलुळ्ळ नान् मनैवियै विऱ्क वन्दुळ्ळेन्. उङ्गळुळ् ऎवनुक्कावदु ऎन् मनैवि वेलैक्कारियाय् वेण्डुमानाल् अवन् उडने सॊल्लवेण्डुम्, ऎन् प्राणनिरुप्पदऱ्कुळ्, ऎण्ड्रान्. पिऱगु किऴवनान ओर् वेदियनङ्गुवन्दु, अरसनै नोक्कि ऎनक्कु वेलैक्कारियैक् कॊडु, नान् पणत्तैक् कॊडुत्तु वाङ्गुगिण्ड्रवनागिऱेन्.
सरियान इन्दप् पणत्तैप् पॆट्रुक्कॊळ्. पॆण्णै ऎनक्कुक् कॊडु’ ऎण्ड्रान्.
अरसन् सम्मदिक्क अन्द अन्दणन् अरसनिन् मरयुरियिन् तलैप्पिल् पणत्तै इऱुगक् कट्टिविट्टु, अरसनिन् मनैवियै मयिरिल् पिडित्तु इऴुत्तान्.
विश्वास-प्रस्तुतिः
राजभार्योवाच -
मुञ्च मुञ्चार्य मां तावत् यावत् पश्याम्यहं शिशुम् ।
दुर्लभं दर्शनं तात पुनरस्य भविष्यति ॥
पश्यैहि वत्स मामेवं मातरं दास्यमागताम् ।
मा मास्प्राक्षी राजपुत्र अस्पृश्याऽहं तवाधुना ॥
प्रसादं कुरु मे नाथ क्रीणीष्वेमं च बालकम् ।
क्रीताऽपि नाहं भवतो विनैतं कार्यसाधिका ॥
इत्थं ममाल्पभाग्यायाः प्रसादसुमुखो भव ।
मां संयोजय बालेन वत्सेनेव पयस्विनीम् ॥

अरसनिन् मनैवि सॊल्वदावदु:-
अय्या! ऎन्नै विडुम्, विडुम्, ऎन् कुऴन्दैयैप् पार्त्तुवरुम् वरैयिल्. इनि इक् कुऴन्दैयैप् पार्प्पदु ऎनक्कु अरिदागप् पोय् विडुम्.
ओ कुऴन्दाय्! इङ्गुवा. तास्यबावत्तै अडैन्दुळ्ळ उन् तायागिय ऎन्नैप् पार्. राजगुमारा! ऎन्नैत् तॊड वेण्डाम्. इप्पॊऴुदु उनक्कुत्तॊडत्तगादवळागिनेन्.
ओ प्राम्हण! ऎनक्कु अरुळ् पुरिवायाग. इक् कुऴन्दैयैयुम् विलैक्कु वाङ्गिक्कॊळ्ळुम्. इक् कुऴन्दै यिल्लाविडिल् नान् उमक्कु ऒरु कार्यमुम् सॆय्यत् तगुदियुळ्ळवळागमाट्टेन्. पाक्यम् कुऱैन्द ऎनक्कु अरुळ् पुरिवीराग. कण्ड्रुडन् पसुवैप्च् चेर्प्पदु पोल्, ऎन्नुडन् कुऴन्दैयैच् चेर्त्तरुळुम्.
विश्वास-प्रस्तुतिः
ब्राह्मण उवाच -
गृह्यतां वित्तमेतद्धि दीयतां मम बालकः ।
स्त्रीषु सद्धर्मशास्त्रज्ञैः कृतमेव हि वेतनम् ॥
शतं सहस्रं लक्षं च कोटिमूल्यमथापरैः ॥
पक्षिण ऊचुः -
तथैव तस्य तद्वित्तं बद्ध्वोत्तरपटे ततः ।
प्रगृह्य बालकं मात्रा सहैकस्थमबन्धयत् ॥
इति ॥
इतरधर्मोपमर्देनापि कर्तव्यमित्ययमर्थः स्कान्दे -
नास्ति स्त्रीणां पृथग्धर्मो न व्रतं नाप्युपोषणम् ।
भर्तृशुश्रूषयैवैता लोकानिष्टान् जयन्ति हि ॥
भर्ता देवो गुरुर्भर्ता धर्मतीर्थव्रतानि च ।
तस्मात् सर्वं परित्यज्य पतिमेकं समर्चयेत् ॥

प्राम्हणन् सॊल्लुगिऱान्:-
अरसने! इदो पणत्तैप् पॆट्रुक्कॊळ्ळुम्. कुऴन्दैयै ऎनक्कुक् कॊडुम्. नल्ल धर्मसास्त्रमऱिन्दवर्गळ् स्त्रीगळुक्कु विलै नूऱु, आयिरम्, लक्षम्, कोडि ऎण्ड्रु विधित्तुळ्ळनर्.
पक्षिगळ् सॊल्लुगिण्ड्रन:-
अव्विदमे अन्दप् पणत्तैयुम् अरसनिन् मेल् वस्त्रत्तिल् मुडित्तुविट्टु, अक् कुऴन्दैयैप् पिडित्तुत् तायुडन् सेर्त्तुक् कट्टिनान्, ऎण्ड्रु.
मट्रत् धर्मङ्गळै विट्टावदु पदि शुश्रूषणम् सॆय्यप् पडवेण्डुमॆण्ड्र विषयम्, स्कान्दत्तिल्:
स्त्रीगळुक्कुत् तनियाय्त् धर्ममिल्लै. व्रदमिल्लै. उबवासमिल्लै. इवर्गळ् भर्तृ शुश्रूषैयालेये विरुम्बिय उलगङ्गळैयडैगिण्ड्रनर्.
भर्त्तावे तेवन्, अवने कुरु, अवने धर्मम्, तीर्त्तम्, व्रदङ्गळुमवने. आगैयाल् मट्रदैयॆलाम् विट्टुप् पदियॊरुवनैये पूजिक्कवेण्डुम्.
विश्वास-प्रस्तुतिः
मार्कण्डेयः -
कश्चित् द्विजातिप्रवरो वेदाद्ध्यायी तपोधनः ।
तपस्वी कर्मशीलश्च कौशिको नाम भारत ॥
साङ्गोपनिषदो वेदानधीते द्विजसत्तमः ।
स वृक्षमूले कस्मिंश्चिद्वेदानुच्चारयन् स्थितः ॥
उपरिष्टाच्च वृक्षस्य बलाका सन्न्यलीयत ।
तया पुरीषमुत्सृष्टं ब्राह्मणस्य तदोपरि ॥
तामवेक्ष्य ततः क्रुद्धस्समपद्ध्यायत द्विजः ।
भृशं क्रोधाभिभूतेन बलाका सा निरीक्षिता ॥
अपद्ध्याता च विप्रेण न्यपतद्धरणीतले ।
बलाकां पतितां दृष्ट्वा गतसत्वामचेतनाम् ॥
कारुण्यादभिसन्तप्तः पर्यशोचत तां द्विजः ।
अकार्यं कृतवानस्मि दोषो रागबलात् कृतः ॥
इत्युक्त्वा बहुशो विद्वान् ग्रामं भैक्षाय संश्रितः ॥
ग्रामे शुचीनि प्रवरः कुलानि भरतर्षभ ।
प्रविष्टस्तत् कुलं यत्र पूर्वं चरितवांस्तु सः ॥
देहीति याचमानोऽसौ तिष्ठेत्युक्तः स्त्रिया ततः ।
शौचं तु यावत् कुरुते भाजनस्य कुटुम्बिनी ॥
एतस्मिन्नन्तरे राजन् क्षुधा सम्पीडितो भृशम् ।
भर्ता प्रविष्टस्सहसा तस्या भरतसत्तम ॥
सा तु दृष्ट्वा पतिं साद्ध्वी ब्राह्मणं व्यपहाय तम् ।
पाद्यमाचमनीयं वै ददौ भर्तुस्तदाऽऽसनम् ॥
प्रज्ञा पर्यचरच्चापि भर्तारमसितेक्षणा ।
आहारेणाथ भक्ष्यैश्च भोज्यैस्सुमधुरैस्तथा ॥
उच्छिष्टं भाविता भर्तुः भुङ्क्ते नित्यं युधिष्ठिर ।
दैवतं च पतिं मेने भर्तुश्चित्तानुसारिणी ॥
कर्मणा मनसा वाचा नान्यचित्ताऽत्यगात् पतिम् ।
तं सर्वभावोपगता पतिशुश्रूषणे रता ॥
साध्वाचारा शुचिर्दक्षा कुटुम्बस्य हितैषिणी ।
भर्तुश्चापि हितं यत्तत् सततं साऽनुवर्तते ॥
देवतातिथिभृत्यानां श्वश्रूश्वशुरयोस्तथा ।
शुश्रूषणपरा नित्यं सततं संयतेन्द्रिया ॥
सा ब्राह्मणं तदा दृष्ट्वा संस्थितं भैक्षकाङ्क्षिणम् ।
कुर्वती पतिशुश्रूषां सस्माराथ शुभेक्षणा ॥
व्रीडिता साऽभवत् साध्वी तदा भरतसत्तम ।
भिक्षामादाय विप्राय निर्जगाम यशस्विनी ॥

इन्द विषयम् वनबर्वत्तिल् पदिव्रदोबाक्यानत्तिल् उळ्ळदु. मार्गण्डेयर्:-
वेदङ्गळैक् कट्रवनुम्, तबस्सैये तनमायुडैयवनुम्, कर्मडनुमान कौसिगनॆण्ड्र ऒरु प्राम्हण च्रेष्टनिरुन्दान्.
अवन् अङ्गङ्गळुडनुम्, उबनिषत्तुक्कळुडनुम् कूडिय वेदङ्गळैप् पडित्तुक् कॊण्डिरुन्दान्.
ऒरु नाळ् अवन् ऒरु मरत्तिनडियिल् वेदङ्गळैप् पडित्तुक्कॊण्डु उट्कार्न्दिरुन्दान्. अन्द मसत्तिन् मेल् ऒरु नारै (पक्षि) उट्कार्न्दिरुन्ददु.
अप्पॊऴुदु अन्दप् पक्षि प्राम्हणन् मेल् मलत्तै विसर्जनम् सॆय्ददु. प्राम्हणन् अदैप् पार्त्तु मिक्क कोबमडैन्दान्.
अवन् अन्दप् पक्षियैप् पार्त्तान्. कोबत्तुडन् तिट्टप्पट्ट अप् पक्षि पूमियिल् विऴुन्ददु. पूमियिल् विऴुन्दु प्रक्ञैयट्रु उयिरिऴन्द पक्षियैप् पार्त्तु प्राम्हणन् करुणैयाल् परिदबित्तु अदैप् पट्रि वरुन्दिनान्.
अगार्यत्तैच् चॆय्दवनागिनेन्, शरीरत्तिल् रागत्ताल् पाबत्तैच् चॆय्देन्, ऎण्ड्रु पल तडवै सॊल्लिप् पिऱगु पिक्षैक्काग क्रामत्तै अडैन्दान्.
क्रामत्तिल् सुत्तमान क्रुहङ्गळिल् नुऴैन्दु, पिऱगु मुन् ऎव्विडत्तिल् पिक्षै वाङ्गिनानो अन्द क्रुहत्तिल् नुऴैन्दु तेहि (पिक्षै कॊडु) ऎण्ड्रान्.
अवनै अङ्गिरुन्द स्त्री ‘इरुम्’ ऎण्ड्राळ्. अवळ् पिक्षै पोडुवदऱ्कागप् पात्रत्तैच् चुत्ति सॆय्दाळ्. अदऱ्कुळ् अवळ् भर्त्ता पसियाल् मिगवुम् वरुन्दियवनाय् वीट्टिल् नुऴैन्दान्.
अन्दप् पदिव्रदै भर्त्तावैप् पार्त्तु, प्राम्हणनै विट्टुविट्टुप् भर्त्तावुक्कुप् पात्यम्, आसमनीयम्, आसनम् इवैगळैक् कॊडुत्तु उबसरित्तु, आहारम्, पक्ष्यम् ,मदुरमान पोज्यम् इवैगळाल् उबसरित्ताळ्.
अवळ् ऎप्पॊऴुदुम् भर्त्ताविन् उच्चिष्टत्तैये पुजिप्पाळ्. पदियैये तॆय्वमॆण्ड्रु निनैत्तवळ्. भर्त्ताविन् सित्तत्तैये अनुसरित्तु नडप्पाळ्.
अवळ् कायम्, मनम्, वाक्कु इवैगळाल् पदियै अदिक्रमित्तवळल्ल. सर्वबावत्तालुम् पदियैयडैन्दु अवनुक्कुच् चुच्रूषै सॆय्वाळ्. नल्ल आचारमुडैयवळ्, सुत्तै, समर्त्तै, कुटुम्बत्तिऱ्कु नन्मैयैक् कोरुगिण्ड्रवळ्, भर्त्तावुक्कु हिदमायुळ्ळबडि अनुवर्त्तित् तिरुप्पाळ्.
तेवर्गळ्. अदिदिगळ्, वेलैक्कारर्गळ् ऎल्लोरुक्कुम् अनुगूलमागियवळ्, मामनार् मामियार् इवर्गळुक्कुप् पणिविडै सॆय्बवळ्, ऎप्पॊऴुदुम् इन्द्रियङ्गळै अडक्कियवळ्, अवळ् पदिशुश्रूषै सॆय्युम्बोदु प्राम्हणनैप् पार्त्ताळ्. पिक्षैक्कागक् कात्तिरुप्पदाय्प् पिऱगु निनैत्ताळ्. अप्पदिव्रदै वॆट्कमडैन्दाळ्. उडने पिक्षैयै ऎडुत्तुक् कॊण्डु वॆळियिल् वन्दाळ्.
विश्वास-प्रस्तुतिः
ब्राह्मण उवाच –
किमिदं भवति त्वं मां तिष्ठेत्युक्त्वा वराङ्गने ।
उपरोधं कृतवती न विसर्जितवत्यसि ॥
मार्कण्डेय उवाच -
ब्राह्मणं क्रोधसन्तप्तं ज्वलन्तमिव तेजसा ।
दृष्ट्वा सा स्त्री मनुष्येन्द्र सान्त्वपूर्वं वचोऽब्रवीत् ॥
स्त्री उवाच -
क्षन्तुमर्हसि मे विद्वन् भर्ता मे दैवतं महत् ।
स चापि क्षुधितः श्रान्तः प्राप्तश्शुश्रूषितो मया ॥

प्राम्हणन् सॊल्वदावदु.–
ताये! पॆण्मणिये! इदु वॆन्न? नी ऎन्नै इरु ऎण्ड्रु सॊल्लिविट्टुत् तडङ्गल् सॆय्दाय्. ऎन्नै अनुप्पामलिरुक्किऱाय्.
मार्गण्डेयर् सॊल्लुगिऱार्:-
ओ अरसने! कोबत्ताल् तेजस्साल् ऎरिगिण्ड्रवन् पोण्ड्र प्राम्हणनैप् पार्त्तु अन्द स्त्री समादानबूर्वमाय्च् चॊल्ललुट्राळ्.
स्त्री सॊल्वदावदु:-
ऒ वित्वाने! पॊऱुक्कवेण्डुम्. ऎनक्कुप् भर्त्ता पॆरिय तैवदम्. अवर् पसियुडैयवराय्क् कळैत्तवराय् वन्दार्. अवरुक्कुप् पणिविडै सॆय्देन्.
विश्वास-प्रस्तुतिः
ब्राह्मण उवाच -
ब्राह्मणा न गरीयांसो गरीयांस्ते पतिः कृतः ।
गृहस्थधर्मे वर्तन्ती ब्राह्मणानवमन्यसे ॥
इन्द्रोऽप्येषां प्रणमते किं पुनर्मानवा भुवि ।
अवलिप्ते न जानीषे वृद्धानां न श्रुतं त्वया ।
ब्राह्मणा ह्यग्निसदृशा दहेयुः पृथिवीमपि ॥
मूलम्
ब्राह्मण उवाच -
ब्राह्मणा न गरीयांसो गरीयांस्ते पतिः कृतः ।
गृहस्थधर्मे वर्तन्ती ब्राह्मणानवमन्यसे ॥
इन्द्रोऽप्येषां प्रणमते किं पुनर्मानवा भुवि ।
अवलिप्ते न जानीषे वृद्धानां न श्रुतं त्वया ।
ब्राह्मणा ह्यग्निसदृशा दहेयुः पृथिवीमपि ॥
द्राविडम्
प्राम्हणन् सॊल्लुगिऱान्:-
प्राम्हणर्गळ् पॆरियवर्गळल्ल. नी उनदु पदियैप् पॆरियवनाय्च् चॆय्दाय्. क्रुहस्त धर्मत्तिलिरुक्कुम् नी प्राप्हणर्गळै अवमदिक्किण्ड्राय्.
इन्द्रन् कूड इवर्गळै वणङ्गुगिऱाळ्. पूमियिलुळ्ळ मनिदर्गळैप् पट्रिच् चॊल्वदेन्. कर्वमुडैयवळे!
नी अऱियविल्लै. पॆरियोरिडमिरुन्दु केट्कवुमिल्लै. अक्निक् कॊप्पागिय प्राम्हणर्गळ् पूमियैयुम् तहिप्पार्गळ्.
विश्वास-प्रस्तुतिः
स्त्री उवाच -
नाहं बलाका विप्रेन्द्र त्यज क्रोधं तपोधन ।
अनया क्रुद्धया दृष्ट्या क्रुद्धः किं मां करिष्यसि ॥
नावजानाम्यहं विप्रान् देवैस्तुल्यान् मनस्विनः ।
अपराधमिमं विप्र क्षन्तुमर्हसि मेऽनघ ॥
जानामि तेजो विप्राणां महाभाग्यं च धीमताम् ।
अपेयस्सागरः क्रोधात् कृतो हि लवणाधिकः ॥
तथैव दीप्ततपसां मुनीनां भावितात्मनाम् ।
येषां क्रोधाग्निरद्यापि दण्डके नोपशाम्यति ॥
ब्राह्मणानां परिभवाद्वातापिः सुदुरात्मवान् ।
अगस्त्यमृषिमासाद्य जीर्णः क्रूरो महासुरः ॥
बहुप्रभावाः श्रूयन्ते ब्राह्मणानां महात्मनाम् ।
क्रोधस्सुविपुलो ब्रह्मन् प्रसादश्च महात्मनाम् ॥
अस्मिंस्त्वतिक्रमे ब्रह्मन् क्षन्तुमर्हसि मेऽनघ ।
पतिशुश्रूषया धर्मो यस्स मे रोचते द्विज ॥
दैवतेष्वपि सर्वेषु भर्ता मे दैवतं परम् ।
अविशेषेण तस्याहं कुर्यां धर्मं द्विजोत्तम ॥
शुश्रूषायाः फलं पश्य पत्युर्ब्राह्मण यादृशम् ।
बलाका हि त्वया दग्धा रोषात्तद्विदितं मया ॥
क्रोधश्शत्रुश्शरीरस्थः मनुष्याणां द्विजोत्तम ।
यः क्रोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः ॥
यो वदेदिह सत्यानि गुरुं सन्तोषयेत च ।
हिंसितश्च न हिंसेत तं देवा ब्राह्मणं विदुः ॥
जितक्रोधो धर्मपरः स्वाद्ध्यायनिरतश्शुचिः ।
कामक्रोधौ वशे यस्य तं देवा ब्राह्मणं विदुः ॥
यस्य चात्मसमो लोको धर्मज्ञस्य मनस्विनः ।
सर्वधर्मेषु चरतः तं देवा ब्राह्मणं विदुः ॥
योऽद्ध्यापयेदधीयीत यजेद्वा याजयेत वा ।
दद्याद्वाऽपि यथाशक्ति तं देवा ब्राह्मणं विदुः ॥
ब्रह्मचारी च वेदान् यो ह्यधीयात् द्विजपुङ्गव ।
स्वाद्ध्यायवानमत्तो वै तं देवा ब्राह्मणं विदुः ॥
यद्ब्राह्मणानां कुशलं तदेषां परिकीर्तयेत् ।
सत्यं तथा व्याहरतां नानृते रमते मनः ॥
धर्मं तु ब्राह्मणस्याहुः स्वाद्ध्यायं दममार्जवम् ।
इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम ॥
सत्यार्जवे धर्ममाहुः परं धर्मविदो जनाः ।
दुर्ज्ञेयः शाश्वतो धर्मः सत्यं सत्ये प्रतिष्ठितः ॥
श्रुतिप्रमाणो धर्मः स्यादिति वृद्धानुशासनम् ।
बहुधा दृश्यते धर्मः सूक्ष्म एव द्विजोत्तम ॥
भवानपि च धर्मज्ञः स्वाद्ध्यायनिरतश्शुचिः ।
न तु तत्वेन भगवन् धर्मं वेत्सीति मे मतिः ॥
यदि विप्र न जानीषे धर्मं परमकं द्विज ।
धर्मव्याधं ततः पृच्छ गत्वा तु मिथिलां पुरीम् ॥
मातापितृभ्यां शुश्रूषुः सत्यवादी जितेन्द्रियः ।
मिथिलायां वसेद्व्याधः स ते धर्मान् प्रवक्ष्यति ॥
तत्र गच्छ च भद्रं ते यथाकामं द्विजोत्तम ।
अत्युक्तमपि मे सर्वं क्षन्तुमर्हस्यनिन्दित ॥
स्त्रियो ह्यवद्ध्यास्सर्वेषां ये धर्ममभिजानते ॥

स्त्री सॊल्लुगिऱाळ् :-
ओ प्राम्हणोत्तम! नान् नारैप्पक्षियल्ल. कोबत्तै विडुम्. नीर् कोबमडैन्दु, कोबमुळ्ळ इप्पार्वैयाल् ऎन्नै ऎन्न सॆय्वीर्?
तेवर्गळ् पोण्ड्रवरुम्, नल्ल मनमुडैयवरुमान विप्रर्गळै नान् अवमदिप्पदिल्लै. पाबमट्र प्राम्हण! ऎनदु इन्दक् कुट्रत्तैप् पॊऱुक्क वेण्डुम्.
नऱ्पुत्तियुळ्ळ विप्रर्गळिन् तेजस्सैयुम्, माहात्म्यत्तैयुम् अऱिन्दिरुक्किऱेन्.
अवर्गळिन् कोबत्ताल् समुत्रम् उप्पदिगमागियदाय्, कुडिप्पदऱ्कु अनर्हमाय्च् चॆय्यप् पट्टदल्लवा?
महादबस्विगळुम्, ज्ञानिगळुमान ऎवर्गळिन् कोबाक्नि इप्पॊऴुदुम् तण्डगत्तिल् अणैयविल्लैयो, तुष्टनान वादाबि ऎन्बवन् प्रार्हणर्गळै अवमदित्तुप् पिऱगु अगस्त्य मुनियैयडैन्दु अवराल् जीर्णमाक्कप्पट्टान्.
महात्माक्कळान प्राम्हणर्गळिन् प्रबावङ्गळ् वॆगुवाय्क् केट्कप्पडुगिण्ड्रन. अवर्गळिन् क्रोदम् मिगप् पॆरिदु. अनुग्रहमुम् मिगप्पॆरियदु.
इन्दप् पिऴैयिल् पॊऱुत्तुक् कॊळ्ळ वेण्डुम्. पदिसुच्ञषैयाल् उण्डागुम् धर्ममे ऎनक्कु प्रियमायिरुक्किण्ड्रदु.
ऎल्लात् तैवदङ्गळिलुम् पदिये ऎनक्कुप् परमदैवदम्. ऒ प्राम्हणोत्तम! पदि शुश्रूषैयालेये नान् धर्मत्तैच् चॆय्वेन्. पदि शुश्रूषैयिन् पलम् ऎव्विद मॆन्बदै निनैत्तुप् पारुम्. एगान्द स्तलत्तिल् नारैप् पक्षियैक् कोबत्ताल् नीर् ऎरित्तीर्. अदै नान् इङ्गिरुन्दे अऱिन्दु कॊण्डेन्. मनिदर्गळुक्कुक् कोबम् शरीरत्तिलुळ्ळ सत्रुवाम्. ऎवन् कोब मोहङ्गळै विडुगिण्ड्रानो अवनैये तेवर्गळ् प्राम्हणनॆन्गिऱार्गळ्.
ऎवन् उण्मैयैप् पेसुबवनो, कुरुवै सन्दोषिक्कच् चॆय्बवनो, पिऱराल् हिम्सिक्कप्पट्टालुम् पिऱनै हिम्सिक् कादवनो अवनैये तेवर्गळ् प्राम्हणनॆन्गिऱार्गळ्.
कोबत्तै जयित्तवनुम्, धर्मबरनुम्, वेदात्ययनबरनुम्, सुत्तनुम्, कामक्रोदङ्गळै वसमाक्कियवनुमागियवनै प्राम्हणनॆन्गिण्ड्रनर्.
ऎवनुक्कु उलगम् तनक्कुच् चममायुळ्ळदो, धर्ममऱिन्दवनुम्, नल्ल मनमुडैयवनुम्, सगल धर्मङ्गळैयुमनुष्टिप्पवनुमान अवनै प्राम्हणन् ऎन्गिण्ड्रनर्.
ऎवन्, अत्याबनम्, अत्ययनम्, यजनम्, याजनम्, यदा सक्तिदानम् इवैगळै अनुष्टिक्किण्ड्रानो अवनै प्राम्हणनॆन्गिऱार्गळ्.
ऎन्द प्रम्हसारी वेदङ्गळै अत्ययनम् सॆय्गिण्ड्रानो अवनै प्राम्हणनॆन्गिण्ड्रनर्.
प्राम्हणर्गळुक्कु ऎदु मङ्गळगरमो अदैच् चॊल्ल वेण्डुम्. सत्यमाय्प् पेस वेण्डुम्. पॊय्यिल् मनम् नाडक्कूडादु.
अत्ययनम्, मनदिन् निक्रहम्, कबडमिन्मै, इन्द्रियङ्गळै अडक्कुदल् इवैगळ् साच्वद धर्ममॆन्गिऱार्गळ्.
धर्ममऱिन्दवर्गळ् सत्यम्, कबडमिन्मै इवैगळे सिऱन्द धर्ममॆन्गिण्ड्रनर्. अऱिय मुडियाद साच्वद धर्मम् सत्यत्तिल् निलैत्तिरुक्किऱदु. इदु उण्मै.
धर्ममॆन्बदु वेदप्रमाणगमॆण्ड्रु पॆरियोर्गळिन् कट्टळै. सूक्ष्ममागिय धर्मम् पलविदमाय्क् काणप् पडुगिऱदु.
नीरुम् धर्ममऱिन्दवर्, अत्ययनत्तिल् पट्रुळ्ळवर्, सुत्तरायुमागिण्ड्रीर्. आनालुम् उण्मैयाय्, तर्बत्तै अऱियविल्लैयॆन्बदु ऎन् अबिप्रायम्.
सिऱन्द धर्मत्तै नीर् अऱियाविडिल् धर्मव्यादनैक् केट्कवुम्, मिदिला पट्टणम् सॆण्ड्रु.
मिदिलाबट्टणत्तिल्, मादा पित्रु शुश्रूषै सॆय्बवनुम्, सत्यवादियुम्, जिदेन्द्रियनुमागिय व्यादन् (वेडन्) वसिक्किण्ड्रान्.
अवन् उमक्कुत् धर्मङ्गळैप् पोदिप्पान्. प्राम्हण! इष्टमानाल् अङ्गे सॆल्लुम्. उमक्कु मङ्गळमुण्डाग वेण्डुम्.
पऴिप्पट्रवरे! नान् अदिगमाय्प् पेसियदु ऎल्लावट्रैयुम् पॊऱुक्क वेण्डुम्. धर्ममऱिन्द ऎल्लोरुक्कुम्, स्त्रीगळ् हिम्सिक्कत् तगादवर्गळल्लवो.
विश्वास-प्रस्तुतिः
ब्राह्मण उवाच -
प्रीतोऽस्मि तव भद्रं ते गतक्रोधश्च शोभने ।
उपालम्भस्त्वया युक्तो मम निश्श्रेयसं परम् ॥
स्वस्ति तेऽस्तु गमिष्यामि साधयिष्यामि शोभने ॥
मार्कण्डेय उवाच -
तया विसृष्टो निर्गम्य स्वमेव भवनं ययौ ।
विनिन्दयन् स्वमात्मानं कौशिको द्विजसत्तमः ।
इति आरण्यपर्वणि पतिव्रतोपाख्याने ॥
तथा पारिजाते । आश्वलायनोऽपि -
शूद्राणां द्विजशुश्रूषा विहिता ब्रह्मणा यथा ।
स्त्रीणां स्वभर्तृशुश्रूषा तथैव विहिता सदा ॥
न स्याज्जपस्तपो होमो दानव्रतमखादिकम् ।
स्त्रीणां पतिपराणां तु पत्यौ जीवति किञ्चन ।
श्वश्रूश्वशुरयोश्चैतत् कार्यं भर्तृवदादरात् ॥
जडं वा बधिरं पङ्गुं काणमन्धं कुणिं तथा ।
कुष्ठिनं च कृशं वाऽन्यं प्रियं वाऽप्रियमेव वा ॥
सुरूपं वा विरूपं वा युवानं वृद्धमेव वा ।
प्रत्यक्षदेववत् साद्ध्वी भर्तारं पूजयेत् सदा ॥
कुणिः = हस्तरहितः ॥

प्राम्हणन् सॊल्लुगिऱार्:-
ओ मङ्गळे! उन् विषयत्तिल् सन्दोषित्तेन्. उनक्कु मङ्गळम् उण्डाग वेण्डुम्. कोबम् नीङ्गियदु. नी ऎन्नैप् पऴित्तदुम् ऎनक्कु मिग क्षेमगरमे. पोय् वरुगिऱेन्, उनक्कु मङ्गळमुण्डाग वेण्डुम्.
मार्गण्डेयर्:-
अन्द पदिव्रदैयाल् विडप्पट्ट कौसिगनॆनुम् प्राम्हणोत्तमन् वॆळियिल् वन्दु तन्नै निन्दित्तुक्कॊण्डु तन् वीट्टै अडैन्दान्.
इव्विदम् आरण्य पर्वत्तिल् पदिव्रदोबाक्यानत्तिल् उळ्ळदु.
अव्विदमे पारिजादत्तिल्. आच्वलायनरुम् :-
सूत्रर्गळुक्कु प्राम्हणशुश्रूषै धर्ममॆन प्रम्हाविनाल् विधिक्कप् पट्टिरुप्पदु पोल्, स्त्रीगळुक्कुप् भर्तृशुश्रूषै धर्ममॆन विधिक्कप् पट्टुळ्ळदु.
पदिव्रदा स्त्रीगळुक्कु, पदि जीवित्तिरुक्कुम् पॊऴुदु, जबम्, तबम्, होमम्, तानम्, व्रदम्, यागम् मुदलियदॊण्ड्रुम् वेण्डियदिल्लै.
मामनार् मामियार्गळुक्कुम् शुश्रूषैयैप् भर्त्तावुक्कुप्पोल् सॆय्य वेण्डुम्.
पदिवरदा स्त्री, तन् भर्त्ता जडन्, सॆविडु, नॊण्डि, ऒट्रैक् कण्णन्, पॊट्टै, कैयिल्लादवन्, कुष्टरोगि, इळैत्तवन्, परुत्तवन्, प्रियन्, अप्रियन्, अऴगियवन्, अऴगिल्लादवन्, युवा, व्रुत्तन् ऎवनानालुम् अवनै प्रत्यक्षमान तेवनैप् पोल् ऎप्पॊऴुदुम् पूजिक्कवेण्डुम्.
विश्वास-प्रस्तुतिः
व्यासः -
कुरूपो वा कुवृत्तो वा दुःखभावोऽपि वा पतिः ।
रोगान्वितः पिशाचो वा मद्यपः क्रोधनोऽपि वा ॥
वृद्धो वाऽथ विदग्धो वा मूको वा बधिरोऽपि वा ।
आढ्यो वाऽथ दरिद्रो वा कदर्यः कुत्सितोऽपि वा ॥
कातरः कितवो वाऽपि ललनालम्पटोऽपि वा ।
सततं देववत् पूज्यो मनोवाक्कायकर्मभिः ॥

तन् भर्त्ता रूबबट्रवन्, कॆट्ट नडत्तैयुळ्ळवन्, मनवरुत्तमुडैयवन्, पिणियाळन्, पिसासन्, मत्यबायि, कोबमुडैयवन्, किऴवन्, वित्वान्, ऊमै, सॆविडु, पणक्कारन्, तरित्रन्, क्रुबणन्, कुत्सिदन् ऎवनायिरुप्पिनुम, पयमुळ्ळवन्, सूदाडि, स्त्रीलोलन् ऎवनायिरुन्दालुम्, अवनैत् तेवनैप्पोल् मनम्, वाक्कु, कायम् इवैगळाल् उबसरिक्क वेण्डुम्.
विश्वास-प्रस्तुतिः
रामायणे अयोद्ध्याकाण्डे -
शुश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता ।
एष धर्मः पुरा दृष्टो लोके वेदे श्रुतः स्मृतः ॥
मनुः -
नास्ति स्त्रीणां पृथग्धर्मो न व्रतं नाप्युपोषणम् ।
पतिं शुश्रूषते या तु तेन स्वर्गे महीयते ॥
शङ्खलिखितौ -
न व्रतोपवासनियमेज्यादानं दमो वाऽनुग्रहकरः स्त्रीणामन्यत्र पतिशुश्रुषायाः इति ॥
आग्नेयपुराणे -
न च वैदिकसंस्कारो नानुष्ठानं न दैवतम् ।
न चासां तु हरौ भक्तिर्योषितां किमु विद्यते ॥
स्कान्दे-
नास्ति स्त्रीणां पृथग्धर्मो न व्रतं नाप्युपोषणम् ।
भर्तुशुश्रूषयैवैता इष्टान् लोकान् जयन्ति हि ॥

रामायणत्तिल्, अयोत्यागाण्डत्तिल्:-
भर्त्तावुक्कु प्रियमावुम् हिदमायुमुळ्ळदिल् आसक्तियुळ्ळवळाय्, शुश्रूषैयैये सॆय्य वेण्डुम्.
इन्दत् धर्मम् मुऱ्कालत्तिल् उलगत्तिल् काणप्पट्टदु. वेदत्तिलुम् विधिक्कप्पट्टदु. स्मृतिगळिलुम् सॊल्लप्पट्टदु.
मनु:-
स्त्रीगळुक्कुत् तनियाय् धर्मम्, व्रदम्, उबवासम् ऒण्ड्रुमिल्लै. पदि शुश्रूषैयिनालेये स्वर्क्कलोकत्तिल् सिऱप्पऱुगिऱाळ्.
सङ्ग लिगिदर्गळ्.-
स्त्रीगळुक्कु, व्रदम्, उबवासम्, नियमम्, यागम्, तानम्, तमम् इवैगळुळ् ऒण्ड्रुम् नन्मैयैच् चॆय्यक् कूडियदल्ल, पदिशुश्रूषैयैत् तविर्त्तु. अदु तान् नन्मैयैच् चॆय्यक् कूडियदॆन्बदाम्.
आक्नेयबुराणत्तिल्:-
स्त्रीगळुक्कु वैदिगमान सम्स्कारमिल्लै. अनुष्टानमिल्लै. तेवदारादनमिल्लै. हरिबक्तियुमिल्लै. इवर्गळुक्कु ऎदुदानिरुक्किऱदु.
स्कान्दत्तिल्:-
स्त्रीगळुक्कुत् तनियाय्त् धर्ममिल्लै, व्रदमिल्लै, उबवासमिल्लै. इवर्गळ् भर्तृशुश्रूषैयिनालेये विरुम्बिय उलगङ्गळै अडैगिण्ड्रनर्.
विश्वास-प्रस्तुतिः
अत्रिः -
न व्रतेनोपवासेन धर्मेण विविधेन च ।
नारी स्वर्गमवाप्नोति प्राप्नोति पतिपूजनात् ॥
अयमर्थः कालिदासेनाप्युक्तः -
शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने
भर्तुर्विप्रकृताऽपि रोषणतया मास्म प्रतीपं गमः ।
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥
इति ॥
रामायणे -
व्रतोपवासनिरता या नारी परमोत्तमा ।
भर्तारं नानुवर्तेत तस्याः पापगतिर्भवेत् ॥
पराशरोऽपि-
पत्यौ जीवति या नारी उपोष्य व्रतमाचरेत् ।
आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत् ॥

अदरि:-
स्त्री, व्रदत्तालुम्, उबवासत्तालुम्, पलविद धर्मत्तालुम् स्वर्क्कत्तै अडैवदिल्लै. पदियिन् शुश्रूषैयाल् तान् अडैवाळ्.
इन्द विषयम् काळिदासनालुम् सॊल्लप् पट्टुळ्ळदु:
ओ सगुन्दले! कुरुक्कळुक्कुच् चुच्रूषै सॆय्. सक्कळत्तिगळिडम् तोऴिगळिडम् पोलिरु. कुट्रमिरुन्दालुम्, कोबत्ताल् भर्त्तावुक्कु प्रदिगूलमायिरादे. परिजनङ्गळिडम् सरळमायिरु. पाक्यङ्गळिरुप्पदाल् कर्वमडैयादे. इव्विदमिरुक्कुम् पॆण्गळ् तान् क्रुहिणी (वीट्टुक्कुडैयवळ्) ऎन्नुम् पदत्तैप् पॆऱुगिऱार्गळ्. विबरीदैगळायिरुप्पवर्गळ् कुलत्तिऱ्कु सन्दाबगारिणिगळाय् आगिऱार्गळ्.
रामायणत्तिल्:-
व्रदम् उबवासम् इवैगळिल् ईडुबट्टवळाय् मिगच्चिऱन्दवळायिनुम् ऎन्द स्त्री भर्त्तावै अनुसरिक्कविल्लैयो अवळुक्कु नरगम् नेरिडुम्.
परासररुम्:-
भर्त्ता उयिरुडनिरुक्कुम्बोदु, ऎन्द स्त्री उबवासमिरुन्दु व्रदमनुष्टिक्किण्ड्राळो, अवळ् भर्त्ताविन् आयुस्सै अबहरिक्किण्ड्राळ्. नरगत्तैयुमडैवाळ्.
विश्वास-प्रस्तुतिः
मनुः -
जपस्तपस्तीर्थयात्रा प्रव्रज्या मन्त्रसाधनम् ।
देवताराधनं चैत्र स्त्रीशूद्रपतनानि षट् ॥
इति ॥
नास्ति भर्तृसमो नाथो नास्ति भर्तृसमं सुखम् ।
विसृज्य धनसर्वस्वं भर्ता वै शरणं स्त्रियाः ॥
सा भवेद्धर्मपरमा सा भवेद्धर्मभागिनी ।
देववत् सततं साद्ध्वी भर्तारं या प्रपश्यति ॥
शुश्रूषां परिचारं च देववद्या करोति च ।
नान्यभावा ह्यविमनाः सुव्रता सुखदर्शना ॥
निर्मलाऽलङ्कृता चैव शुश्रूषेत् पतिमीश्वरम् ।
भर्तृशुश्रूषया नारी लभते स्वर्गमुत्तमम् ॥
अपि या निर्नमस्करा निवृत्ता देवपूजनात् ॥

जबम्, तबस्, तीर्त्तयात्रै, सन्यासम्, मन्द्र सादनम्, तेवदारादनम् ऎण्ड्र इव्वाऱुम् स्त्रीगळुक्कुम् सूत्रर्गळुक्कुम् पादित्यत्तैक् कॊडुक्कुम्.
भर्त्तावुक्कुच् चमनान नादन् वेऱिल्लै, वेऱु सुगमुमिल्लै. पणम् पण्डम् ऎल्लावट्रैयुम् विट्टावदु भर्त्तावैये सरणमडैय वेण्डुम्.
ऎवळ् ऎप्पॊऴुदुम् भर्त्तावै तेवनैप्पोल् निनैक्किण्ड्राळो अवळे सिऱन्द धर्ममुडैयवळ्. ऎवळ् भर्त्तावुक्कुत् तेवनुक्कुप्पोल् शुश्रूषै, परिसरणम् इवैगळैच् चॆय्गिऱाळो, मट्र ऎण्णमिल्लादवळुम्, नल्ल मनमुडैयवळुम्, नल्ल नियममुडैयवळुम्, नल्ल पार्वैयुडैयवळुम्, निर्मलैयुम्, अलङ्गारमुडैयवळुमाय्, पदिक्कुच् चुच्रूषणम् सॆय्वाळो अवळ् सिऱन्द स्वर्क्कत्तै अडैवाळ्, अवळ् तेवर्गळै नमस्करिक्कामलुम्, पूजिक्कामलुमिरुन्दालुम्.
विश्वास-प्रस्तुतिः
पतिशुश्रूषणपराया भार्याया उत्तमगतिमुक्त्वा तत् परित्यज्य व्रतादिपरायाः स्त्रियाः तदभावं ज्ञापयितुं इदमुदाहृतं महाभारते -
तां यमो लोकपालस्तु बभाषे पुष्कलं वचः ।
मा शुचस्त्वं निवर्तस्व न लोकास्सन्ति तेऽनघे ॥
स्वधर्मविमुखा नित्यं कथं लोकान् गमिष्यसि ।
दैवतं हि पतिर्नार्याः स्थापितस्सर्वदैवतैः ॥
मोहेन तं वरारोहे न जानीषे स्वदैवतम् ।
पतिवत्न्याः स्त्रिया लोके धर्मः पतिरिति स्थितिः ॥
एवं स्त्रीणां शुश्रूषणमेव मुख्यो धर्मः । तेनैव भर्तृकृतसर्वधर्मफलावाप्तिः । स्कान्दे -
यद्देवेभ्यो यच्च पित्रादिकेभ्यः कुर्याद्भर्ताऽभ्यर्चनं सत्क्रियां च ।
तस्य ह्यर्धं सा फलं नान्यचित्ता नारी भुङ्क्ते भर्तृशुश्रूषयैव ॥
एवं धर्मफलावाप्तिर्भवत्येव । तथापि धर्मान्तरचिकीर्षायां भर्त्रनुज्ञया धर्मान्तरमपि कर्तुं शक्यम् । तथा च शङ्खलिखितौ -
कामं तु भर्त्रनुज्ञया व्रतोपवासनियमादीनामभ्यासः स्त्रीधर्मः ॥
कात्यायनोऽपि-
भार्या भर्तृमतेनैव व्रतादीनाचरेत् सदा ॥

पदिशुश्रूषैयिल् निरदैयायुळ्ळ मनैविक्कु उत्तम लोकप्राप्तियैच् चॊल्लि, पदि शुश्रूषैयै विट्टु व्रदम् मुदलियदै अनुष्टिक्कुम् स्त्रीक्कु उत्तम कदि इल्लै ऎन्बदैत् तॆरिविक्क, इव्विदम् कूऱप्पट्टुळ्ळदु, महाबार तत्तिल्:-
लोकबालनान यमन् अवळैप् पार्त्तु, अर्त्तम् निऱैन्दुळ्ळ इन्द वसनत्तैच् चॊन्नान्. नी वरुन्दादे. तिरुम्बिच् चॆल्. पाबमट्रवळे! उनक्कुप्पुण्यलोकङ्गळिल्लै.
नित्यमुम् स्वधर्मत्तैप् पुऱक्कणित्त नी ऎप्पडि नल्ल उलगङ्ळै अडैवाय्? स्त्रीक्कुत् तेवदै पदिये ऎण्ड्रु सगल तेवर्गळुम् स्ताबित्तिरुक्किण्ड्रनर्.
ओ पॆण्णे! मोहत्ताल् उन् पदियैत् तन् तैवदमॆण्ड्रु अऱियविल्लै. पदियुळ्ळ स्त्रीक्कुप् पदिये धर्ममॆन्बदु सट्टमाम्.
स्कान्दत्तिल्:-
पुरुषन्, तेवर्गळुक्को, पित्रुक्कळ् मुदलियवर्गळुक्को सत्कारत्तैयो सॆय्गिण्ड्रानो अवैगळिन् पादि पलत्तै, पदिव्रदैयान स्त्री प्र्त्रु शुश्रूषैयालेये अडैगिऱाळ्.
इव्विदम्, पदि शुश्रूषैयालेये धर्म प्राप्ति उण्डागिण्ड्रदुदान्, आनालुम्, वेऱु धर्मङ्गळैच् चॆय्य विरुप्पमिरुप्पिन्, भर्त्ताविन् अनुक्ञैयाल् मट्रत् धर्मत्तैयुम् सॆय्यलाम्.
अव्विदमे सङ्ग लिगिदर्गळ्:-
भर्त्ताविन् अनुक्ञैयाल् व्रदम्, उबवासम्, नियमम् मुदलियदै इष्टप्पडि सॆय्वदुम् स्त्रीधर्ममागुम्.
कात्यायनरुम्:-
पार्यै ऎप्पॊऴुदुम् भर्त्ताविन् अनुक्ञैयिनालेये व्रदम् मुदलियवैगळैच् चॆय्य वेण्डुम्.
विश्वास-प्रस्तुतिः
आदित्यपुराणे -
नारी खल्वननुज्ञाता भर्त्रा वाऽथ सुतेन वा ।
विफलं तद्भवेत्तस्या यत् करोत्यौर्ध्वदैहिकम् ॥
इति ॥
और्द्ध्वदैहिकं = पारलौकिकम् ॥
भर्तृवाक्यपरिपालनमपि मुख्यो धर्मः ।
स्कान्दे -
इदमेव व्रतं स्त्रीणामयमेव वृषः परः ।
इयमेका देवपूजा भर्तृवाक्यं न लङ्घयेत् ॥

आगित्यबुराणत्तिल्:-
ऎन्द स्त्री, भर्त्ताविनुडैय, अल्लदु पुत्रनुडैय अनुक्ञैयिण्ड्रि ऎन्दप् परलोकार्त्तमान धर्म कार्यत्तैच् चॆय्गिण्ड्राळो अवळिन् अक्कार्यम् पलनट्रदायागिण्ड्रदु.
भर्त्ताविन् वाक्यत्तैप् परिबालिप्पदुम् मुक्यधर्मम्. स्कान्दत्तिल्:-
भर्त्ताविन् वार्त्तैयैत् ताण्डामलिरुप्पदॆन्बदे स्त्रीगळुक्कु व्रदम्, इदुवे सिऱन्द धर्मम्, इदुवे मुक्यमान तेवबूजैयुमागुम्.
विश्वास-प्रस्तुतिः
मनुः-
भर्तुरप्यवलिप्तस्य कार्याकार्यमजानतः ।
पत्न्याऽथ कार्या तस्याज्ञा पतितस्यापि सर्वदा ॥
इति ॥
विज्ञानेश्वरोऽपि -
स्त्रीभिर्भर्तृवचः कार्यमेष धर्मस्सनातनः ।
तदाज्ञया तु कर्तव्यमकार्यमपि नेच्छया ।
यद्यकार्यमधर्मं वा यदि वा प्राणनाशनम् ।
पतिर्ब्रूयाद्दरिद्रो वा व्याधितो वा कथञ्चन ॥
आपन्नो रिपुसंस्थो वा ब्रह्मशापार्दितोऽपि वा ।
आपद्धर्माननुप्रेक्ष्य तत्कार्यमविशङ्कया ॥
इति ॥
एवं तदाज्ञया अकार्यमपि कर्तव्यम् ।

भर्त्ता कर्वमडैन्दवनागिनुम्, कार्यागार्यमऱि यादवनायिनुम् पदिदनायिनुम्, अवन् आज्ञैयैप् पत्नी सॆय्य वेण्डुम्.
विक्ञानेच्वररुम्:-
स्त्रीगळ् भर्त्ताविन् वार्त्तैयैच् चॆय्य वेण्डुम्. इदु सनादन धर्मम्. अवनाक्ञैयिनाल् अगार्यत्तैयुम् सॆय्यलाम्. तन्निच्चैयाल् सॆय्यक्कूडादु. अवन् ऎव्विदनानालुम्, सॊल्लुम् कार्यम् ऎव्विदमानालुम्, आबत्धर्मत्तै आलोसित्तु, सङ्गैयिल्लामल् सॆय्यवेण्डुम्.
इव्विदम्, भर्त्ताविन् आज्ञैयाल् अगार्यत्तैयुम् सॆय्यलाम्.
विश्वास-प्रस्तुतिः
तथा च आदिपर्वणि कुन्तीं प्रति पाण्डुः -
भर्ता भार्यां राजपुत्रि धर्म्यं वाऽधर्म्यमेव वा ।
यद्ब्रूयात् तत्तथा कार्यमिति धर्मविदो विदुः ॥
उत्तमादवरा पुंसः काङ्क्षते पुत्रमापदि ।
अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति मानवाः ॥
अन्यशुक्रादपि पृथे मनुः स्वायम्भुवोऽब्रवीत् ॥
तस्मात् प्रहेष्याम्यद्य त्वां हीनः प्रजननात् स्वयम् ।
सदृशात् श्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि ॥
शृणु कुन्ति कथामेतां शारदण्डायनीं प्रति ।
सा वीरपत्नी गुरुणा नियुक्ता पुत्रजन्मनि ॥
पुण्येन प्रयता स्नाता निशि कुन्ति चतुष्पथे ।
वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम् ॥
कर्मण्यवसिते तस्मिन् सा तेनैव सहावसत् ।
तत्र त्रीन् जनयामास दुर्जयादीन् महाशयान् ॥
तथा त्वमपि कल्याणि ब्राह्मणात्तपसाऽधिकात् ।
मन्नियोगाद्यतः क्षिप्रमपत्योत्पादनं प्रति ॥
अथ त्विदं प्रवक्ष्यामि धर्मतत्त्वं निबोध मे ।
पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः ॥
अनावृताः खलु पुरा स्त्रिय आसन् वरानने ।
कामचारविहारिण्यः स्वतन्त्राश्चारुलोचने ॥
तासां व्युच्चरमाणानां कौमारान् सुभगे पतीन् ।
नाधर्मोऽभूद्वरारोहे स हि धर्मस्सनातनः ॥
अद्याप्यनुविधीयन्ते कामद्वेषविवर्जिताः ।
प्रमाणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः ॥
श्वेतकेतोः किल पुरा समक्षं मातरं पितुः ।
जग्राह ब्राह्मणः पाणौ गच्छाव इति चाब्रवीत् ॥
ऋषिपुत्रस्ततः कोपं चकारामर्षचोदितः ।
क्रुद्धं तु तं पिता दृष्ट्वा वेपमानमुवाच ह ॥
मा तात कोपं कार्षीस्त्वं एष धर्मस्सनातनः ।
अनावृता हि सर्वेषां वर्णानामङ्गना भुवि ॥
यथा गावः स्थितास्तात स्वे स्वे वर्णे तथा प्रजाः ॥
ऋषिपुत्रस्तु तं धर्मं श्वेतकेतुर्न चक्षमे ।
चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि ॥
मानुषेषु महाभागे नत्वेवान्येषु जन्तुषु ।
तदाप्रभृति मर्यादा स्थितेयमिति नः श्रुतम् ॥
भ्रूणहत्याकृतं पापं भविष्यत्यसुखावहम् ।
व्युच्चरन्त्याः पतिं नार्या अद्यप्रभृति पातकम् ॥
भार्यां तथा व्युच्चरतः कौमारब्रह्मचारिणीम् ।
पतिव्रतामेतदेव भविता पातकं भुवि ॥
पत्या नियुक्ता या चैव पत्न्यपत्यार्थमेव च ।
न करोति वचस्तस्य भविष्यत्येतदेव हि ॥
इति तेन पुरा भीरु मर्यादा स्थापिता बलात् ।
उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना ॥
सौदासेन च रम्भोरु नियुक्ताऽपत्यजन्मनि ।
मदयन्ती जगामर्षिं वसिष्ठमिति नः श्रुतम् ॥
तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी ।
एवं कृतवती सा तु भर्तुः प्रियचिकीर्षया ॥
अस्माकमपि ते जन्म विदितं कमलेक्षणे ।
कृष्णद्वैपायनाद्भीरु कुरुवंशविवृद्धये ॥
अत एतानि सर्वाणि कारणानि समीक्ष्य वै ।
ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते ॥
ऋतावृतौ राजपुत्रि स्त्रिया भर्ता पतिव्रते ।
नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः ॥
शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति ।
धर्ममेतं जनास्सन्तः पुराणं परिचक्षते ॥
भर्ता भार्यां राजपुत्रि धर्म्यं वाऽधर्म्यमेव वा ।
यद्ब्रूयात् तत्तथा कार्यमिति धर्मविदो विदुः ॥
मन्नियोगात् सुकेशान्ते द्विजातेस्तपसाऽधिकात् ।
पुत्रान् गुणसमायुक्तानुत्पादयितुमर्हसि ॥
तत्कृतेऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम् ।
गुरुतल्पं हि गुर्वर्थे न दूषयति मानवम् ॥
उद्दालकः श्वेतकेतुं जनयामास शिष्यतः ॥
एवमुक्ता ततः कुन्ती पाण्डुं परपुरञ्जयम् ।
प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता ॥
त्वयाऽहमभ्यनुज्ञाता विद्ध्यस्मिन् कर्मणि स्थिताम् ॥

अव्विदमे आदिबर्वत्तिल् कुन्दियै नोक्किप् पाण्डु सॊल्लुवदु:-
ओ राजबुत्री! भर्त्ता पार्यैयै, धर्ममो अधर्ममो ऎदैच् चॆय्यच् चॊल्लुगिण्ड्रानो अदैच् चॆय्य वेण्डुमॆनत् धर्ममऱिन्दवर् सॊल्लुगिण्ड्रनर्.
कीऴ् वर्णत्तु स्त्री आबत्कालत्तिल् मेल् वर्णत्तानिडमिरुन्दु पुत्रनैक् कोर वेण्डुम्. मनिदर्गळ् धर्म पलत्तैयळिक्कुम् पुत्रनैप् पिऱनिन् पीजत्तिनिण्ड्रुम्गूड अडैगिण्ड्रनर् ऎण्ड्रु मनु सॊन्नार्.
आगैयाल् इप्पॊऴुदु, पुत्रोत्पादन सक्तियट्र नान् उन्नै नियोजिक्किऱेन्. समनानवनिड मिरुन्दो, सिऱन्दवनिडमिरुन्दो नी पुत्रनैप् पॆऱुवायाग.
ऒ कुन्दी! सारदण्डायनी ऎन्बवळैप् पट्रिय इन्दक् कदैयैक् केट्पायाग. वीरनुक्कु मनैवियान अवळ् पुत्रणैप् पॆऱुव तऱ्कागक् कुरुविनाल् नियोजिक्कप् पट्टाळ्.
अवळ् स्नानम् सॆय्दु सुत्तैयाय् इरविल् नाऱ्चन्दियिल् ऒरु सित्त प्राम्हणनै वरित्तु, अक्नियिल् होमम् सॆय्वित्तु, अदु मुडिन्द पिऱगु, अवनुडन् कूड वसित्ताळ्. अप्पॊऴुदु तुर्जयन् मुदलान मूण्ड्रु पुत्सर्गळैप् पॆट्राळ्.
ओ कल्याणि! अव्विदम् नीयुम् तबस्साल् सिऱन्द प्राम्हणनिडमिरुन्दु पुत्रोत्पादनत्तैप् पट्रि ऎन्नुडैय नियोगत्ताल् मुयल वेण्डुम्.
तविर, ऒरुधर्मत्तिन् उण्मैयैच् चॊल्लुगिऱेन्, अऱिन्दुगॊळ्. इदु सनानमुम्, धर्मक्ञर्गळुम्,महात्माक्कळुमान मुनिगळाल् काणप्पट्टदुमागुम्.
हे सुमुगी! मुऱ्कालत्तिल् स्त्रीगळॆल्लोरुम् कट्टुप् पाडिल्लामलिरुन्दनर्. अवर्गळ् इष्टम्बोल् क्रीडिप्पवरुम् स्वदन्द्रैगळायुमायिरुन्दनर्. अवर्गळ् युवाक्कळान पुरुषर्गळै इष्टप्पडि अडैन्दनर्.
आनालुम् अवर्गळुक्कुप् पाबमेऱ्पडविल्लै. अदु सनादन धर्ममायिरुन्ददु.
काम त्वेषङ्गळट्रवर् इप्पॊऴुदुम् ऒप्पुगिण्ड्रनर्. प्रमाणङ्गळिल् काणप्पट्टदे. महर्षिगळालुम् पुगऴप्पडुगिऱदु.
इदु इव्विदम् नडन्दु वरुङ् गालत्तिल्, च्वेदगेदु ऎन्नुम् रुषियिन् मुन्निलैयिल्, अवरिन् मादावै अवर् पिदाविन् ऎदिरिलेये ऒरु प्राम्हणन् कैयिल् पिडित्तान्. नामिरुवरुम् सॆल्वोम् ऎण्ड्रुम् सॊन्नान्.
रुषिगुमारन् च्वेदगेदु, पॊऱामैयाल् कोबम् कॊण्डार्. कोबत्ताल् उडल् नडुङ्गुम् पुत्रनैप् पार्त्तुप् पिदा इव्विदम् सॊन्नार्.
अप्पा! नी कोबङ् गॊळ्ळादे. इदु प्रासीन धर्ममायुळ्ळदु. पूमियिल् ऎल्ला वर्ण स्त्रीगळुम् नियममिल्लादवर्गळे.
पसुक्कळ् इरुप्पदुबोल् ऎल्ला वर्ण स्त्रीगळुम् नियममिण्ड्रि इरुप्पवर्गळ्" ऎण्ड्रु. रुषिबुत्रनान वेदगेदुवोवॆनिल् अन्दत् धर्मत्तैप् पॊऱुक्कविल्लै. उलगिल् स्त्रीबुरुषर्गळुक्कु वरुमाऱु सट्टत्तैच् चॆय्दार्.
मनिदर्गळुक्कु मट्टिल्, मट्र जन्दुक्कळुक्कल्ल. अदु मुदल् इन्दच् चट्टम् इरुक्किऱदु ऎण्ड्रु नमक्कुक् केळ्वि.
इण्ड्रु मुदल्, भर्त्तावै अदिक्रमिक्कुम् स्त्रीक्कु, कर्प्पहत्यैयालुण्डागुम् पाबमुण्डागुम्. युवदियायुम् पदिव्रदैयायुमान पार्यैयै अदिक्रमिक्कुम् भर्त्तावुक्कुम् इदे पादगमुण्डागुम्.
पदियिनाल् पुत्रविषयमाय् नियोगम् सॆय्यप्पट्ट ऎन्द स्त्री अवन् वार्त्तैयै अनुष्टिक्कविल्लैयो अवळुक्कुम् इदे पादगमुण्डागुम्, ऎण्ड्रु उत्तालग पुत्ररान सवेदगेदुविनाल् धर्म्यमान सट्टम् स्ताबिक्कप् पट्टदु.
सौदासनॆन्नुम् अरसनाल् पुत्रार्त्तमाय् नियोगम् पॆट्र मदयन्दी ऎन्बवळ् वसिष्ठरैच् चेर्न्दाळ् ऎण्ड्रुम् नमक्कुक् केळ्वि.
अवळ् वसिष्ठरिडमिरुन्दु अच्मगन् ऎण्ड्र पुत्रनै अडैन्दाळ्. अवळ् भर्त्ताविन् प्रीदिक्काग इव्विदम् सॆय्दाळ्.
कुन्दी! कुरुवम्सम् वळर्वदऱ्काग व्यासरिडमिरुन्दु नाम् पिऱन्दोम् ऎन्बदुम् उनक्कुत् तॆरिन्ददुदान्. आगैयाल् इन्दक् कारणङ्गळै नन्गु आलोसित्तु, धर्म्यमान ऎन् वाक्यत्तै नी सॆय्य वेण्डुम्.
पऴिप्पट्रवळे! राजबुत्री! ऒव्वॊरु रुदुगालत्तिलुम् भर्त्तावै स्त्री अदिक्रमिक्कक्कूडादु, ऎण्ड्र धर्मत्तैत् धर्ममऱिन्दवर्गळ् सॊल्लुगिण्ड्रनर्.
रुदुगालमल्लाद कालङ्गळिल् स्त्रीक्कु स्वादन्द्रियमुण्डु. इदु सनादन धर्मम् ऎनच् चॊल्लुगिऱार्गळ्.
भर्त्ता पार्यैयै ऎक्कार्यत्तिल् एवुवानो अदु धर्ममो अधर्ममो ऎप्पडियानालुम् पार्यै सॆय्यवेण्डुमॆनत् धर्मक्ञर्गळ् सॊल्लुगिण्ड्रनर्. ओ कुन्दि! ऎनदु नियोगत्तिनाल् तबस् मिगुन्द प्राम्हण निडमिरुन्दु, कुणङ्गळ् पॊरुन्दिय पुत्रर्गळै उण्डु पण्णक् कडवाय्.
अव्विदम् सॆय्यप् पट्टाल् नान् पुत्रनुडैयवर् अडैयुम् पुण्यलोकत्तै अडैवेन्. कुरुविऱ्काग, अवर् नियोगत्ताल् कुरुबत्नियिनिडम् सेर्वदुम् तुष्टमावदिल्लै.
उत्तालग महर्षि, तम् सिष्यनाल् च्वेदगेदु ऎनुम् पुत्रनै उण्डाक्किनार्. इव्विदम् सॊल्लप्पट्ट कुन्दी, पाण्डु महाराजनै नोक्कि, उम्माल् नियोजिक्कप्पट्ट नान् अप्पडिये सॆय्गिऱेन् ऎण्ड्रु उत्तरम् सॊन्नाळ्.
विश्वास-प्रस्तुतिः
तथा च भर्त्रनुज्ञया अकार्यकरणेऽपि न दोषः । किमुत, तासां व्रतादिधर्मान्तराचरणे । पत्यनुज्ञया अकार्यकरणे न केवलं दोषाभावः, किं तु उत्तमलोकप्राप्तिश्च ॥
तथा च सुदर्शनोपाख्याने -
पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।
श्रुतं मे महदाख्यानमिदं मतिमतां वर ॥
भूयस्तु श्रोतुमिच्छामि धर्मार्थसहितं नृप ।
कथ्यमानं त्वया किञ्चित् तन्मे व्याख्यातुमर्हसि ॥
केन मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः ।
इत्येतत् सर्वमाचक्ष्व तत्त्वेनापि च पार्थिव ॥

आगैयाल्,भर्त्ताविन् अनुक्ञैबाल् अगार्यत्तैच् चॆय्वदिलुम् तोषमिल्लै. अवर्गळ् व्रदादिगळैच् चॆय्वदैप्पट्रिच् चॊल्वदेन्? पदियिन् अनुक्ञैबाल् अगार्यत्तैच् चॆय्वदिल् तोषमिल्लैयॆन्बदु मट्टिलल्ल, आनाल् सिऱन्द उलग प्राप्तियुमुण्डु. अव्विदमे सुदर्सनोबाक्यानत्तिल्.
ऒ पिदामह! सर्वसास्त्रङ्गळैयुमऱिन्दवने! मगाबण्डिदने! उम्मिडमिरुन्दु इन्दप् पॆरिय सरित्रत्तैक् केट्टेन्. धर्मार्त्तङ्गळडङ्गिय वेऱॊरु कदैयै मऱुबडि केट्क विरुम्बुगिऱेन्.
अदै ऎनक्कुच् चॊल्लक् कडवीर्. ऎन्द क्रुहस्तन् धर्मत्तै आच्रयित्तु म्रुत्युवै जयित्तान्. इदु मुऴुवदैयुम् उण्मैयाय्च् चॊल्ल वेण्डुम्.
विश्वास-प्रस्तुतिः
भीष्म उवाच -
अत्राप्युदाहरन्तीमितिहासं पुरातनम् ।
यथा मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः ॥
मनोः प्रजापते राजन्निक्ष्वाकुरभवत् सुतः ।
तस्य पुत्रशतं जज्ञे नृपतेस्सूर्यवर्चसः ॥
दशमस्तस्य पुत्रस्तु दशाश्वो नाम भारत ।
माहिष्मत्यामभूद्राजा धर्मात्मा सत्यविग्रहः ॥
दशाश्वस्य सुतस्त्वासीद्राजा परमधार्मिकः ।
सत्ये तपसि दाने च यस्य नित्यं रतं मनः ॥
मदिराश्व इति ख्यातः पृथिव्यां पृथिवीपतिः ।
धनुर्वेदे च वेदे च निरतो योऽभवत् सदा ॥
मदिराश्वस्य पुत्रस्तु द्युतिमान्नाम पार्थिवः ।
महाभागो महातेजा महासत्वो महाबलः ॥
पुत्रो द्युतिमतस्त्वासीद्राजा परमधार्मिकः ।
सर्वलोकेषु विख्यातः सुवीरो नाम नामतः ॥
धर्मात्मा कोशवांश्चापि देवराज इवापरः ।
सुवीरस्य तु पुत्रोऽभूत् सर्वसङ्ग्रामदुर्जयः ॥
सुदुर्जय इति ख्यातः सर्वशस्रभृतां वरः ।
दुर्जयस्येन्द्रवपुषः पुत्रोऽश्विसदृशद्युतिः ॥
दुर्योधनो नाम महान् राजा राजर्षिसत्तमः ।
तस्येन्द्रसमवीर्यस्य सङ्ग्रामेष्वनिवर्तिनः ॥
विषये वासवस्तस्य सम्यगेव प्रवर्षति ।
रत्नैर्धनैश्च पशुभिः सस्यैश्चापि पृथग्विधैः ॥
नगरं विषयश्चास्य प्रतिपूर्णस्तदाऽभवत् ।
न तस्य विषये चाभूत् कृपणो नापि दुर्गतः ॥
व्याधितो वा कृशो वाऽपि तस्मिन्नाभून्नरः क्वचित् ।
सुदक्षिणो मधुरवागनसूयुर्जितेन्द्रियः ॥
धर्मात्मा चानृशंसश्च विक्रान्तोऽथाविकत्थनः ।
यज्वा च दान्तो मेधावी ब्रह्मण्यस्सत्यसङ्गरः ॥
न चावमन्ता दाता च वेदवेदान्तपारगः ॥
तं नर्मदा देवनदी पुण्या शीतजला शिवा ।
चकमे पुरुषव्याघ्रं स्वेन भावेन भारत ॥
तस्यां जज्ञे तदा नद्यां कन्या राजीवलोचना ।
नाम्ना सुदर्शना राजन् रूपेण च सुदर्शना ॥
तादृग्रूपा न नारीषु भूतपूर्वा युधिष्ठिर ।
दुर्योधनसुता यादृगभवद्वरवर्णिनी ॥
तामग्निश्चकमे साक्षाद्राजकन्यां सुदर्शनाम् ।
भूत्वा च ब्राह्मणो राजन् वरयामास तं नृपम् ॥
दरिद्रश्चासवर्णश्च ममायमिति पार्थिवः ।
नादित्सत सुतां तस्मै तां विप्राय सुदर्शनाम् ॥
ततोऽस्य वितते यज्ञे नष्टोऽभूद्धव्यवाहनः ।
ततस्सुदुःखितो राजा वाक्यमाह द्विजांस्तदा ॥
दुष्कृतं मम किं नु स्याद्भवतां वा द्विजर्षभाः ।
येन नाशं जगामाग्निः कृतं कुपुरुषेष्विव ॥
न ह्यल्पं दुष्कृतं चास्ति येनाग्निर्नाशमागतः ।
भवतां वाऽथवा मह्यं तत्वेनैतद्विमृश्यताम् ॥
तत्र राज्ञो वचः श्रुत्वा विप्रास्ते भरतर्षभ ।
नियता वाग्यताश्चैव पावकं शरणं ययुः ॥
तान् दर्शयामास तदा भगवान् हव्यवाहनः ।
स्वरूपं दीप्तिमत्कृत्वा शरदर्कसमद्युतिः ॥
ततो महात्मा तानाह दहनो ब्राह्मणर्षभान् ।
वरयाम्यात्मनोऽर्थाय दुर्योधनसुतामिति ॥
ततस्ते कल्यमुत्थाय तस्मै राज्ञे न्यवेदयन् ।
ब्राह्मणा विस्मितास्सर्वे यदुक्तं चित्रभानुना ॥
ततस्स राजा तच्छ्रुत्वा वचनं ब्रह्मवादिनाम् ।
अवाप्य परमं हर्षं तथेति प्राह बुद्धिमान् ॥
प्रायाचत च तं शुल्कं भगवन्तं विभावसुम् ।
नित्यं सान्निध्यमिह ते चित्रभानो भवेदिति ॥
तमाह भगवानग्निरेवमस्त्विति पार्थिव ।
ततस्सान्निध्यमद्यापि माहिष्मत्यां विभावसोः ॥
दृष्टं हि सह देवेन दिशं विजयता तदा ॥
ततस्तां समलङ्कृत्य कन्यामहतवाससम् ।
ददौ दुर्योधनो राजा पावकाय महात्मने ।
प्रतिजग्राह चाग्निस्तु राजकन्यां सुदर्शनाम् ।
विधिना वेददृष्टेन वसोर्द्धारामिवाद्ध्वरे ॥
तस्या रूपेण शीलेन कुलेन वपुषा श्रिया ।
अभवत् प्रीतिमानग्निर्गर्भे चास्या मनो दधे ॥
तस्यां समभवत् पुत्रो नाम्नाऽऽग्नेयस्सुदर्शनः ।
सुदर्शनस्तु रूपेण पूर्णेन्दुसदृशोपमः ॥
शिशुरेवाद्ध्यगात् सर्वं परं ब्रह्म सनातनम् ।
अथौघवान्नाम नृपः नृगस्यासीत् पितामहः ॥
तस्याप्योघवती कन्या पुत्रश्रौघरथोऽभवत् ।
तामोघवान् ददौ तस्मै स्वयमोघवतीं सुताम् ॥
सुदर्शनाय विदुषे भार्यार्थे देवरूपिणीम् ॥
स गृहस्थाश्रमरतस्तया सह सुदर्शनः ।
कुरुक्षेत्रेऽवसद्राजन् ओघवत्या समन्वितः ॥
गृहस्थश्चावजेष्यामि मृत्युमित्येव स प्रभो ।
प्रतिज्ञामकरोद्धीमान् दीप्ततेजा विशाम्पते ॥
तामथौघवतीं राजन् स पावकसुतोऽब्रवीत् ।
अतिथेः प्रतिकूलं ते न कर्तव्यं कथञ्चन ॥
येन येन च तुष्येत नित्यमेव त्वयाऽतिथिः ।
अप्यात्मनः प्रधानेन न ते कार्या विचारणा ॥
एतद्व्रतं मम सदा हृदि सम्परिवर्तते ।
गृहस्थानां च सुश्रोणि नातिथेर्विद्यते परम् ॥
प्रमाणं यदि वामोरु वचस्ते मम शोभने ।
इदं वचनमव्यग्रं हृदि त्वं धारयेस्सदा ॥
निष्क्रान्ते मयि कल्याणि तथा सन्निहितेऽनघे ।
नातिथिस्तेऽवमन्तव्यः प्रमाणं यद्यहं तव ॥
तमब्रवीदोघवती तदा मूर्ध्नि कृताञ्जलिः ।
न मे त्वद्वचनात् किञ्चिन्न कर्तव्यं कथञ्चन ॥
जिगीषमाणं तु गृहे तदा मृत्युस्सुदर्शनम् ।
पृष्ठतोऽन्वगमद्राजन् रन्ध्रान्वेषी तदा तदा ॥
इध्मार्थं तु गते तस्मिन्नग्निपुत्रे सुदर्शने ।
अतिथिर्ब्राह्मणः श्रीमान् तामाहौघवतीं तदा ॥
आतिथ्यं कृतमिच्छामि त्वयाऽद्य वरवर्णिनि ।
प्रमाणं यदि धर्मस्ते गृहस्थाश्रमसम्मतः ॥
इत्युक्ता तेन विप्रेण राजपुत्री यशस्विनी ।
विधिना प्रतिजग्राह वेदोक्तेन विशाम्पते ॥
आसनं चैव पाद्यं च तस्मै दत्वा द्विजातये ।
प्रोवाचौघवती विप्रं केनार्थः किं ददामि ते ॥
तामब्रवीत्ततो विप्रो राजपुत्रीं सुदर्शनम् ।
त्वया ममार्थः कल्याणि निर्विशङ्कैतदाचर[[??]] ॥
यदि प्रमाणं धर्मस्ते गृहस्थाश्रमसम्मतः ।
प्रधानेनात्मनो राज्ञि कर्तुमर्हसि मे प्रियम् ॥
स तया छन्द्यमानोऽन्यैरीप्सितैर्नृपकन्यया ।
नान्यमाह प्रदानात् स तस्या वव्रे वरं द्विजः ॥
सा तु राजसुता स्मृत्वा भर्तुर्वचनमादितः ।
तथेति लज्जमाना सा तमुवाच द्विजर्षभम् ॥
ततो विहस्य विप्रर्षिः सा चैवाथ विवेश ह ।
संस्मृत्य भर्तुर्वचनं गृहस्थाश्रमकाङ्क्षिणः ॥
अथेध्मं समुपादाय स पावकिरुपागमत् ।
तस्मै प्रतिवचस्सा तु भर्त्रे न प्रददौ तदा ॥
कराभ्यां तेन विप्रेण स्पृष्टा भर्तृव्रता सती ।
उच्छिष्टाऽस्मीति मन्वाना लज्जिता भर्तुरेव च ॥
तूष्णीम्भूताऽभवत् साध्वी न चोवाचाथ किञ्चन ॥
अथ तां पुनरेवेदं प्रोवाच स सुदर्शनः ।
क्व सा साध्वी क्व सा याता गरीयः किमतो मम ॥
पतिव्रता सत्यशीला नित्यं चैवार्जवे रता ।
कथं न प्रत्युदेत्यद्य स्मयमाना यथा पुरा ॥
उटजस्थस्तु तं विप्रः प्रत्युवाच सुदर्शनम् ।
अतिथिं विद्धि सम्प्राप्तं ब्राह्मणं पावके च माम् ॥
अनया छन्द्यमानोऽहं भार्यया तव सत्तम ।
तैस्तैरतिथिसत्कारैर्ब्रह्मन्नेषा वृता मया ॥
अनेन विधिना सेयं मामृच्छति शुभानना ।
अनुरूपं यदत्रान्यत्तद्भवान् कर्तुमर्हति ॥
कूटमुद्गरहस्तस्तु मृत्युस्तं वै समन्वगात् ।
हीनप्रतिज्ञमत्रैनं वधिष्यामीति चिन्तयन् ॥
सुदर्शनस्तु मनसा कर्मणा चक्षुषा गिरा ।
त्यक्तेर्ष्यस्त्यक्तमन्युश्च स्मयमानोऽब्रवीदिति ॥
सुरतान्तोऽस्तु विप्राग्र्य प्रीतिर्हि परमा मम ।
गृहस्थस्य तु धर्मोऽग्र्यः सम्प्राप्तातिथिपूजनम् ॥
अतिथिः पूजितो यस्य गृहस्थस्य तु गच्छति ।
नान्यस्तस्मात् परो धर्म इति प्राहुर्मनीषिणः ॥
प्राणा हि मम दाराश्च यच्चान्यद्विद्यते वसु ।
अतिथिभ्यो मया देयमिति मे व्रतमाहितम् ॥
निस्सन्दिग्धं यथा वाक्यमेतन्मे समुदाहृतम् ।
तेनाहं विप्र सत्येन स्वयमात्मानमालभे ॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
बुद्धिरात्मा मनः कालो दिशश्चैव गुणा दश ॥
नित्यमेव हि पश्यन्ति देहिनां देहसंश्रिताः ।
सुकृतं दुष्कृतं चापि कर्म धर्मभृतां वर ॥
यथैषा नानृता वाणी मयाऽद्य समुदीरिता ।
तेन सत्येन मां देवाः पालयन्तु दहन्तु वा ॥
ततो नादस्समभवद्दिक्षु सर्वासु भारत ।
असकृत् सत्यमित्येवं नैतन्मिथ्येति सर्वतः ॥
उटजात्तु ततस्तसान्निश्चक्राम स वै द्विजः ।
वपुषा द्यां च भूमिं च व्याप्य वायुरिवोद्यतः ॥
स्वरेण विप्रस्सौक्ष्म्येण त्रीन् लोकाननुनादयन् ।
उवाच चैनं धर्मज्ञं पूर्वमामन्त्र्य नामतः ॥
धर्मोऽहमस्मि भद्रं ते जिज्ञासार्थं तवानघ ।
प्राप्तस्सत्यं च ते ज्ञात्वा प्रीतिर्मे परमा त्वयि ॥
विजितश्च त्वया मृत्युर्योऽयं त्वामनुगच्छति ।
रन्ध्रान्वेषी तव सदा त्वया धृत्या वशीकृतः ॥
न चास्ति शक्तिस्त्रैलोक्ये कस्यचित् पुरुषोत्तम ।
पतिव्रतामिमां साध्वीं तवोदीक्षितुमप्युत ॥
रक्षिता त्वद्गुणैरेषा पतिव्रतगुणैस्तथा ।
अधृष्या यदियं ब्रूयात्तथा तन्नान्यथा भवेत् ॥ एषा हि तपसा स्वेन संयुक्ता ब्रह्मवादिनी ।
पावनार्थे च लोकस्य सरिच्छ्रेष्ठा भविष्यति ॥
अर्धेनौघवती नाम त्वामर्धेनानुयास्यति ।
शरीरेण महाभाग योगो ह्यस्या वशे स्थितः ॥
अनया सह लोकांश्च गन्तासि तपसाऽऽर्जितान् ।
यत्र नावृत्तिमभ्येति शाश्वतांस्तान् सनातनान् ॥
अनेनैव च देहेन लोकांस्त्वमभिपत्स्यसे ।
निर्जितश्च त्वया मृत्युरैश्वर्यं च तवोत्तमम् ॥
पञ्च भूतान्यतिक्रान्तः स्ववीर्याच्च मनोजवः ।
गृहस्थधर्मेणानेन कामक्रोधौ च ते जितौ ॥
स्नेहो रागश्च तन्द्री च मोहो द्रोहश्च केवलः ।
तव शुश्रूषया राजन् राजपुत्र्या विनिर्जिताः ॥

इदु विषयत्तिल् इन्दक् कदैयै मुन्नोर्गळ् सॊल्लुगिण्ड्रनर्. क्रुहस्तन् ऎप्पडित् धर्मत्तै अण्डि मरुत्युवै जयित्तानो.
ओ अरसने! मुऱ्कालत्तिल् मनुप्रजाबदिक्कु इक्ष्वागु ऎनुम् पुत्रनुण्डानान्. अवरुक्कु नूऱु पुत्रर्गळ् पिऱन्दनर्. अवर्गळिल् पत्तावदु पुत्रन् तसाच्वनॆन्बवन्.
अवन् माहिष्मदी ऎन्नुम् पट्टणत्तिल् वसित्तान्. अवनुक्कुप् परम धर्मिष्टनान मदिराच्वनॆनुम् पुत्रन् पिऱन्दान्.
मदिराच्वनिन् पुत्रन् त्युदिमान् ऎन्बवन् उण्डानान्. त्युदिमानिन् पुत्रन् सुवीरन् ऎन्बवन्. सुवीरनिन् पुत्रन् सुदुर्जयन् ऎन्बवन्. तुर्जयनिन् पुत्रन् तुर्योदनन् ऎन्बवन्.
इन्द्रन् पोण्ड्र अवन् तेसत्तिल् नल्ल मऴै पॊऴिन्दु वन्ददु. रत्नङ्गळालुम्, तनङ्गळालुम् अवन् तेसम् निऱैन्दिरुन्ददु. अवनुडैय तेसत्तिल् क्रुबणन्, तरित्रन्, पिणियाळन्, इळैत्तवन् ऒरुवनुमिल्लै. अव्वरसन् कॊडुप्पवन्, इनिय वाक्कुडैयवन्, असूयैयट्रवन्, पुलन्गळैयडक्कियवन्, धर्मात्मा, सादु, वीर्यवान्, तऱ्पुगऴ्च्चि सॆय्यादवन्, यागसीलन्, पुलन्गळैयडक्कियवन्, पुत्तिमान्, प्राह्मण पक्तियुडैयवन्, सत्यप्रदिक्ञन्, अवमदिक्कादवन्, तानसीलन्, वेद वेदाङ्ग पारगन् इव्विदमिरुन्दान्. इव्विदमुळ्ळ अन्द अरसनै नर्मदा ऎन्नुम् नदियानवळ् इच्चित्ताळ्. अवळै अवन् परिक्रहित्तान्.
अवळिडम् सुदर्सना ऎन्नुम् ऒरु अऴगिय पॆण् पिऱन्दाळ्. अवळैप् पोण्ड्र पॆण् पॆण्गळुळ् इरुन्ददिल्लै. अन्द राज अक्नि पगवान् अडैय विरुम्बिनार्.
अवर् प्राम्हण वेषम् पूण्डु अरनिडम् सॆण्ड्रु पॆण्णै वरित्तार्. ‘इवन् तरित्रन्, वेऱु वर्णत्तानुम्’ ऎण्ड्रु पॆण्णैक् कॊडुक्कविल्लै.
पिऱगु अरसन् ऒरु यागम् सॆय्दान्. विस्तारमुळ्ळ अन्द यागत्तिल् तिडीरॆण्ड्रु अक्नि अणैन्दु विट्टदु. पिऱगु मिक्क तुक्कमुडैय अरसन् प्राम्हणर्गळै नोक्कि इव्विदम् सॊन्नान्.
ओ प्राम्हणोत्तमर्गळे! नण्ड्रियऱियादवरिडम् सॆय्द उबगारम् पोल् तिडीरॆण्ड्रु ऎन् अक्नि अऴिन्दुविट्टदे, इदु ऎन् कुट्रमा, उङ्गळुडैय कुट्रमा?
ऎदनाल् अक्नि नासमडैन्ददो अक्कारणम् अक्कुट्रम् सिऱियदायिल्लै. अदु उङ्गळुडैयदा, उण्मैयाय् इदैत् तीर आलोसित्तुप् पारुङ्गळ्, ऎण्ड्रान्.
अरसनिन् वार्त्तैयैक्केट्टु, अन्द प्राम्हणर्गळ्, नियममुळ्ळवरुम्, मौनमुडैयवरुमाय्, अक्नि पगवानैच् चरणडैन्दनर्.
अप्पॊऴुदु अक्निबगवान्, सरत्काल सूर्यन् पोल् प्रकाशमुळ्ळवनाय् अन्द प्राम् हणर्गळुक्कुत् तर्सनमळित्तु, अवर्गळै नोक्कि, ‘ऎनक्काग तुर्योदन राजनिन् पॆण्णै विरुम्बुगिऱेन्’ ऎण्ड्रार्.
अन्द प्राम्हणर्गळ् आच्चर्यमडैन्दु, कालैयिलॆऴुन्दु अरसनिडम् सॆण्ड्रु, इरविल् कण्ड विषयत्तैत् तॆरिवित्तनर्. अव् वार्त्तैयैक् केट्टु अरसन् मिगच् चन्दोषमडैन्दु अव्विदमे कॊडुक्किऱेन् ऎण्ड्रान्.
अक्निबगवानै ऒरु सुल्क्कमुम् वेण्डिनान्. ऎप्पॊऴुदुम् ऎनदु नगरत्तिल् उम्मुडैय सान्नित्यमिरुक्कवेण्डुमॆण्ड्रु. अक्निबगवानुम् ‘अव्विदमे आगट्टुम्’ ऎण्ड्रार्.
आगैयाल्दान् इप्पॊऴुदुम् माहिष्मदी नगरिल् अक्नियिन् सान्नित्यम् काणप्पडुगिऱदु. अन्द अरसन् अक्नियुडन् सेर्न्दे तिक्विजयम् सॆय्वान्.
पिऱगु अरसन्, पॆण्णैप् पुदु वस्त्रमाबरणमिवैगळाल् अलङ्गरित्तु, अक्निबगवानुक्कुक् कॊडुत्तान्. अऴगिय अरसन् कुमारियै अक्निबगवान् यागत्तिल् वसोर् तारैयैप्पोल् वेद विधियाल् पॆट्रुक्कॊण्डार्.
अवळिन् रूबम्, सीलम्, कुलम्, तेहम्, ऒळि इवैगळाल् अक्नि मिक्कप्रीदियैयडैन्दार्. अवळुक्कुक् कर्प्पत्तैयळिक्कवुम् मनङ्गॊण्डार्.
अवरुक्कु अवळिडत्तिल् सुदर्सनन् ऎनुम् पुत्रन् पिऱन्दान्. सुदर्सनन् रूबत्ताल् पूर्ण चन्द्रनुक्कॊप्पानवनायिरुन्दान्.
अवन् सिऱु वयदिलेये वेदम् मुऴुवदैयुम् कट्रऱिन्दान्. अक्कालत्तिल्, न्रुगन् ऎण्ड्र अरसनिन् पिदामहनान ऒगवानॆनुम् अरसनिरुन्दान्.
अवनुक्कु ‘ओगवदी’ ऎन्नुम् पॆण्णुम्, ‘ओगरदन्’ ऎन्नुम् पुत्रनुमिरुन्दार्गळ्. अन्द ओगवान् ऎनुमरसन् ओगवदी ऎन्नुम् तन् पॆण्णै, अक्निबुत्रनान सुदर्सननुक्कु विवाहम् सॆय्दुगॊडुत्तान्.
अन्द सुदर्सनन्, ओगवदी ऎन्नुम् पार्यैयुडन् कुरु क्षेत्रत्तिलिरुन्दु क्रुहस्ताच्रमत्तै नडत्तिवन्दान्.
ओ अरसने! अवन्, ‘क्रुहस्तनायिरुन्दे नान् म्रुत्युवै जयिक्किण्ड्रेन्’ ऎण्ड्रु प्रदिक्ञै सॆय्दान्. पिऱगु, अन्द सुदर्सनन् अन्द ओगवदियैप् पार्त्तु वरुमाऱु सॊन्नान्.
ऒरुगालुम् अदिदिक्कु प्रदिगूलत्तैच् चॆय्यादे. अदिदि ऎदनाल् सन्दोषप्पडुवानो अदैच् चॆय्. उन् तेहत्तैक् कॊडुप्पदानालुम् अदैच् चॆय्.
सन्देहप्पडवेण्डाम्. इन्द व्रदम् ऎप्पॊऴुदुम् ऎन् मनदिल् सुट्रिक्कॊण्डिरुक्किऱदु. क्रुहस्तर्गळुक्कु अदिदियैविडच् चिऱन्ददॊण्ड्रुमिल्लै.
ऒ सोबने! उनक्कु ऎन् वार्त्तै प्रमाणमागिल्, ऎन् वार्त्तैयैक् कवनमाय् मनदिल् ऎप्पॊऴुदुम् तरित्तिरु.नान् वॆळियिऱ् चॆण्ड्रिरुन्द पोदुम्, वीट्टिलिरुक्कुम् पोदुम् अदिदियै अवमदिक्कादे, नान् प्रमाणमागिल्’ ऎण्ड्रान्.
अप्पॊऴुदु ओगवदी तलैयिल् अञ्जलि पन्दत्तैच् चॆय्दु, ‘उम्मुडैय वार्त्तैयिनाल् सॆय्यक्कूडाददु ऒण्ड्रुमे ऎनक्किल्लै’ ऎण्ड्राळ्.
क्रुहस्ताच्रमत्तिलिरुन्दु म्रुत्युवै जयिक्क विरुम्बिय अन्द सुदर्सननै वदैक्क समयत्तै प्रदीक्षित्तवनाय् म्रुत्युदेवन् ऒव्वॊरु वेळैयिलुम् पिन् तॊडर्न्दु सॆण्ड्रु कॊण्डिरुन्दान्.
ऒरु नाळिल्, अक्निबुत्रनान अन्द सुदर्सनन् वॆळियिऱ् चॆण्ड्रिरुन्दबोदु, अदिदियान ऒरु प्राम्हणन्, अन्द ओगवदियिडम् वन्दु, ‘पॆण्णे! उन्नाल् सॆय्यप्पडुम् अदिदि पूजैयै विरुम्बुगिऱेन्.
क्रुहस्ताच्रमत्तिऱ्कु सम्मदमान धर्मम् उनक्कु प्रमाणमानाल्’ ऎण्ड्रार्. इव्विदम् सॊल्लप्पट्ट ओगवदियुम्, वेदत्तिल् सॊल्लिय विधिप्पडि, प्राम्हणनै उबसरित्ताळ्.
आसनम्, पात्यम् इवैगळैक् कॊडुत्तु ‘ऒ प्राम्हण! उमक्कु ऎन्नवेण्डुम्, ऎदै नान् कॊडुक्कवेण्डुम्’ ऎण्ड्राळ्.
पिऱगु प्राम्हणन्, ‘ओ कल्याणि! उन्नाल्दान् ऎनक्कु कार्यम्. सङ्गैयिल्लामल् इदैच् चॆय्, क्रुहस्ताच्रमत्तिऱ्कु मुक्यमान धर्मत्तिल् उनक्कु नम्बिक्कै इरुक्कुमागिल् उन् तेहत्तैक् कॊडुत्तु ऎनक्कु प्रीदियैच् चॆय्यक् कडवाय्’ ऎण्ड्रार्.
अन्द राजगुमारी, ‘वेऱु ऎव्विद इष्टङ्गळैक् केट्टालुम् तरुगिऱेन् इदैत् तविर’ ऎण्ड्रु ऎव्वळवु तूरम् सॊल्लियुम्, तान् सॊल्लियदैत् तविर मट्रॊण्ड्रैयुम् अवर् विरुम्ब विल्लै.
अन्द कुमारी मुन् तन् भर्त्ता सॊल्लिय वार्त्तैयै निनैत्तु, अप्पडिये आगट्टुम् ऎण्ड्रु लज्तैयुडन् अन्द प्राम्हणनै नोक्किच् चॊन्नाळ्. अन्द प्राम्हणन् सिरित्तु उट्कार्न्दान्.
अवळुमुट्कार्न्दाळ्. क्रुहस्ताच्रमधर्मत्तैच् चॆय्य आसैयुट्र भर्त्ताविन् वसनत्तै निनैत्तुक् कॊण्डु. उडने समित्तुक्कळै ऎडुत्तुक्कॊण्डु, अन्द सु तर्सननुम् आच्रमत्तिऱ्कु वन्दान्.
अवळोवॆनिल् मुन्बोल् भर्त्तावुक्कुप् पदिलुरैक्कविल्लै. अन्द प्राम्हणनिन् कैगळाल् तॊडप्पट्टवळादलाल्, असुत्तैयायिरुक्किऱेनॆण्ड्रु ऎण्णियवळाय् मौनमायिरुन्दाळ्. ऒण्ड्रुम् पेसविल्लै.
पिऱगु अवळैक् कुऱित्तु सुदर्सनन् सॊल्लुवदावदु:-
अन्दप् पदिव्रदै ऎङ्गे? अवळ् ऎङ्गे सॆण्ड्राळ्? अवळै विड ऎनक्कुप् पॆरियदॆन्न उळ्ळदु? पदिव्रदैयुम्, उण्मैये उरैप्पवळुम्, कबडमट्रवळुमान अवळ्, पुन् सिरिप्पुडैयवळाय् मुन्बोल् ऎन्नै एन् ऎदिर्त्तुवरविल्लै?
अप्पॊऴुदु, पर्णसालैक्कुळ्ळिरुन्द प्राम्हणन्, सुदर्सननै नोक्किच् चॊन्नान्, ‘ऒ सु तर्सन! नान् प्राम्हणन्, अदिदियाय् वन्देन्.
उमदु पार्यैयागिय इवन् अदिदि सत्कारम् सॆय्दाळ्, अप्पॊऴुदु इवळै नान् वरित्तेन्. अवळ् ऒप्पिनाळ्. इन्द प्रगारत्ताल् इवळ् ऎन्नै अडैन्दुळ्ळाळ्.
इव्विषयत्तिल् इनि युक्तमाय्च् चॆय्यवेण्डियदु ऎदुवो अदै नीर् सॆय्यक्कडवीर्’ ऎण्ड्रु. अक्कालत्तिल्, मरुदयुदेवनुम्, कूडम् मुत्करमॆनुम् आयुदङ्गळैक् कैयिलेन्दि, प्रदिक्ञैयैत् तवऱिय इवनैक् कॊल्वेन् ऎण्ड्रु सिन्दित्तुक्कॊण्डु सुदर्सननैप् पिन्दॊडर्न्दान्.
सुदर्सननोवॆनिल्, मनदालुम्, कायत्तालुम्, कण्णालुम्, वाक्कालुम्, पॊऱामैयैयुम्, कोबत्तैयुम् अडैयामल्, सिरित्तुक्कॊण्डु सॊल्लुगिऱान्. ऒ प्राम्हण! इष्टप्पडि इरुम्. ऎनक्कु मिगच् चन्दोषम्.
क्रुहस्तनुक्कु धर्मम्, वन्द अदिदिगळैप् पूजिप्पदेयाम्. ऎवनाल् अदिदि पूजिक्कप्पट्टुच् चॆल्लुगिऱानो, अवनुक्कु, अदैविडच् चिऱन्द धर्मम् वेऱु ऒण्ड्रिल्लैयॆनप् पॆरियोर्गळ् सॊल्लु किण्ड्रनर्.
ऎनदु प्राणन्गळ्, पार्यै, पणम् इवैयॆलाम् अदिदिगळुक्कुक् कॊडुक्कत्तगुन्ददॆन्बदु ऎन् व्रदमागुम्. इव्विदम् सॊल्लिय इन्द वाक्यम् सन्देहमिण्ड्रिच् चॊल्लप् पट्टदु.
अन्द सत्यत्ताल् तानागवे ऎन्नैत् तॊट्टुक् कॊळ्ळुगिऱेन्. पूमि, वायु, आगायम्, जलम्, अक्नि, पुत्ति, आत्मा, मनदु, कालम्, तिक्कुगळ्, पत्तु इन्द्रियङ्गळ् इवैगळ् ऎप्पॊऴुदुम् प्राणिगळिन् तेहङ्गळिलिरुन्दु पुण्य पाबङ्गळैप् पार्त्तुक्कॊण्डिरुक्किण्ड्रन. इप्पॊऴुदु नान् सॊल्लिय वार्त्तै पॊय्यल्ल, सत्यमागियदे. अन्द सत्यत्ताल् तेवर्गळ् ऎन्नैक् काक्कवेण्डुम्, अल्लदु तहित्तालुम् तहिक्कलाम्.
इव्विदम् सॊल्लियवुडन् ऎल्लात् तिक्कुगळिलुम् ‘इदु सत्यम्, इदु पॊय्यल्ल’ ऎण्ड्रु अडिक्कडि सप्तम् उण्डायिट्रु.
पिऱगु अन्दप् पर्णसालैयिनिण्ड्रुम् अन्द प्राम्हणन् वॆळियिल् वन्दान्. तन् शरीरत्ताल् आगासत्तैयुम् पूमियैयुम् व्याबित्तु, काट्रुप्पोल् मूण्ड्रु उलगङ्गळैयुम् ऒलिक्कच्चॆय्युम् स्वरत्ताल्, प्राम्हणनैप् पॆयराल् अऴैत्तुच् चॊल्लुवदावदु.
ओ सुदर्सना! नान् धर्मदेवन्. उनक्कु नन्मै उण्डागुम्. पाबमट्रवने! उन्नैप् परीक्षिक्क वन्देन्. उन् सत्यत्तै अऱिन्दु, उन्निडम् ऎनक्कु मिक्क सन्दोष मुण्डागियदु.
ऎन्द मरुत्युदेवन् उन्नैत् तॊडर्न्दु वरुगिण्ड्रानो अवनै नी जयित्तुविट्टाय्. ऎप्पॊऴुदुम् उनदु पिसगैत् तेडिक्कॊण्डिरुक्कुम् म्रुत्युदेवन् उनदु तैर्यत्ताल् जयिक्कप्पट्टान्.
ऒ पुरुषोत्तम! मूण्ड्रुलगङ्गळिलुम् महाबदिव्रदैयान इवळैप् पार्प्पदऱ्कुक्कूड ऒरुवनुक्कुम् सक्तियिल्लै. इवळ् उनदु कुणङ्गळालुम्, तनदु पादिव्रत्य कुणङ्गळालुम् रक्षिक्कप्पट्टिरुक्किऱाळ्.
ऒरुवरालुम् अवमदिक्कप्पडाद इवळ् ऎदैच् चॊल्वाळो अदु अप्पडिये आगुम्, वेऱुविदमागादु. तनदु
विश्वास-प्रस्तुतिः
भीष्म उवाच -
शुक्लानां तु सहस्राणां वाजिनां रथमुत्तमम् ।
युक्तं प्रगृह्य भगवान् वासवोऽप्याजगाम तम् ॥
मृत्युरात्मा च लोकाश्च जिता भूतानि पञ्च च ।
बुद्धिः कालो मनो व्योम कामक्रोधौ तथैव च ॥
तस्माद्गृहाश्रमस्थस्य नान्यद्दैवतमस्ति वै ।
ऋतेऽतिथिं नरव्याघ्र मनसैतद्विचारय ॥
अतिथिः पूजितो यद्धि द्ध्यायते मनसा शुभम् ।
न तत् क्रतुशतेनापि तुल्यमाहुर्मनीषिणः ॥
पात्रं त्वतिथिमासाद्य शीलाढ्यं यो न पूजयेत् ।
स दत्वा दुष्कृतं तस्य पुण्यमादाय गच्छति ।
एतत्ते कथितं पुत्र मयाऽऽख्यानमनुत्तमम् ।
यथा हि विजितो मृत्युर्गृहस्थेन पुराऽभवत् ॥
धन्यं यशस्यमायुष्यमिदमाख्यानमुत्तमम् ।
बुभूषताऽभिमन्तव्यं सर्वदुश्चरितापहम् ॥
इदं च कथयेद्विद्वानहन्यहनि भारत ।
सुदर्शनस्य चरितं पुण्यान् लोकानवाप्नुयात् ॥
इति दानधर्मेषु सुदर्शनोपाख्यानम् ॥

पीष्मर् सॊल्लुगिऱार् : -
ओ युदिष्टिर! अप्पॊऴुदु तेवेन्द्रनुम्, आयिरम् वॆळ्ळैक् कुदिरैगळ् पूट्टिय सिऱन्द रदत्तै ऎडुत्तुक्कॊण्डु सुदर्सननिडम् वन्दान्.
इव्विदम् सुदर्सननाल् म्रुत्यु, आत्मा (तनदु तेहम्), पुण्य लोकङ्गळ्, पञ्जमहाबूदङ्गळ्, पुत्ति, कालम्, मनदु, आगासम्, कामम्, क्रोदम् इवैगळुम् जयिक्कप्पट्टन.
आगैयाल् क्रुहस्ताच्रमत्तिलिरुप्पवनुक्कु अदिदियैत् तविर्त्तु वेऱु तैवमिल्लै. इदै मनदाल् आलोसित्तुप्पार्.
अदिदि पूजिक्कप्पट्टवनाय् मनदाल् ऎन्द नन्मैयैक् कोरुगिऱानो अदु पल यागङ्गळालुण्डागुम् नन्मैयोडु कूडच् चममागा तॆन्गिण्ड्रनर् अऱिन्दवर्गळ्.
योक्यनुम्, सीलमुळ्ळवनुमान अदिदियै अडैन्दुम् ऎन्द क्रुहस्तन् अवनैप् पूजिक्कविल्लैयो अवनुक्कु, अदिदि तनदु पाबत्तैक् कॊडुत्तु, क्रुहस्तनिन् पुण्यत्तै क्रहित्तुच् चॆल्लुगिऱान्.
युदिष्टिर! ऎव्विदम् क्रुहस्तन् म्रुत्युवै जयित्तानो अव्विदमुळ्ळ सिऱन्द इन्दक् कदैयै उनक्कु नान् उरैत्तेन्.
इदु तनम्, यसस्, आयुस्, इवैगळैक् कॊडुप्पदुम्, सगल पाबङ्गळैयुमगट्रुवदुमागुम्. इच् चिऱन्द सरित्रत्तै इव्विदम् तान धर्मङ्गळिल् सुदर्सनोबाक्यानम् मुट्रिट्रु.
‘पदियिन् आज्ञैयिनाल् अगार्यत्तैयुम् सॆय्यवेण्डुम्.
विश्वास-प्रस्तुतिः
‘तदाज्ञया तु कर्तव्यमकार्यमपि नेच्छया’ इत्येवमादिषु वचनेषु आज्ञाप्राधान्यस्यावगमात् कार्यमकार्यं वा तदाज्ञयैव कर्तव्यमित्येव तात्पर्यम् ॥
ननु पूर्वं सर्वधर्मापेक्षया पतिशुश्रूषणस्य प्राधान्यमुक्तम् । सुदर्शनोपाख्याने तु आज्ञाकरणस्य प्राबल्यं प्रतिपाद्यते । तथा च पूर्वोत्तरविरोध इति चेदुच्यते ॥
पत्युरप्रीतिसम्पादनमधर्मः । तदुक्तं भारते लुब्धकपोतीये -
दावाग्निनेव निर्दग्धा सुपुष्पस्तबका लता ।
भस्मीभवतु सा नारी यस्यां भर्ता न तुष्यति ॥

तन्निच्चैयाल् सॆय्यक्कूडादु’ ऎन्बदु मुदलिय वसनङ्गळिल् पदियिन् आज्ञैक्कु प्रादान्यम् तोण्ड्रुवदाल्, कार्यमानालुम्, अगार्यमानालुम् पदियिन् आज्ञैयालेये सॆय्यप्पडवेण्डुम्, ऎन्बदे तात्पर्यम्.
ऒय्! मुन् सगल धर्मङ्गळैयुम् अपेक्षित्तुप् पदिशुश्रूषैक्कु प्रादान्यम् सॊल्लप्पट्टदु. सुदर्सनोबाक्यानत्तिनालो आक्ञागरणत्तिऱ्कु प्राबल्यम् सॊल्लप्पडुगिऱदु. अव्विदमिरुप्पदाल् मुन्बिन् विरोदम् इरुक्किऱदु, ऎनिल् सॊल्लुगिऱोम्.
पदिक्कु अप्रीदियैच् चॆय्वदु अधर्मम्. अदु सॊल्लप्पट्टुळ्ळदु पारदत्तिल्, लुप्तगबोदीयत्तिल् -
‘ऎवळिडत्तिल् भर्त्ता सन्दोषिक्कविल्लैयो अवळ्, पूङ्गॊत्तुगळुडैय कॊडि काट्टुत्तीयाल् पॊसुक्कप्पडुवदुबोल् पॊसुङ्गिच् चाम्बलागवेण्डुम्’ ऎण्ड्रु.
विश्वास-प्रस्तुतिः
तत्प्रीतिसम्पादनं मुख्यो धर्मः । तदपि तत्रैव -
तुष्टे भर्तरि नारीणां तुष्टास्स्युः सर्वदेवताः ।
पतिप्रसादः स्वर्गो वा तुल्यो नार्या न वा भवेत् ॥
या प्रियं प्रीणयेत् प्रीत्या त्रिलोकी प्रीणिता तया ॥
इति ॥
तत्प्रीत्युत्पादनव्यापारः सर्वोऽपि शुश्रूषैव । एवं च आज्ञाकरणमपि प्रीत्युत्पादनत्वात् शुश्रूषान्तर्गतमेव । अत एव च सर्वमपि गुरुजनप्रीतिकरं कर्म शास्त्रकारैः शुश्रूषात्वेन व्यवह्रियते । यथा - ‘माता पुत्रत्वस्य’ इत्यापस्तम्बधर्मव्याख्यानावसरे हरदत्तेन मातुः सुब्रह्मण्याह्वाने करम्भपात्रादौ च अन्वयः प्रीतिकरत्वात् शुश्रूषात्वेन व्यवहृतः । किम्पुनरेवमादिषु मातुरन्वयः शुश्रूषा? ओमित्याह । अन्विता हि सा सम्मता मन्यते । निरस्ता तु विमतेति । एवं च आज्ञाकरणस्यापि प्रीत्युत्पादकत्वात् शुश्रूषारूपत्वं सिद्धम् ॥

पदियिन् प्रीदियैच् चम्बादिप्पदु मुक्य धर्मम्. अदुवुम् सॊल्लप्पट्टुळ्ळदु अव्विडत्तिलेये.
स्त्रीगळुक्कुप् भर्त्ता सन्दुष्टनानाल् सगल तेवर्गळुम् सन्दुष्टरागिण्ड्रनर्. स्त्रीक्कुप् पदियिन् प्रसादमुम्, स्वर्क्कमुम् सममागुमो आगादो. ऎवळ् प्रीदियुडन् पदियैच् चन्दोषिक्कच् चॆय्गिऱाळो, अवळ् मूण्ड्रु उलगङ्गळैयुम् सन्दोषिक्कच् चॆय्गिण्ड्राळ्, ऎण्ड्रु.
पदिक्कु प्रीदियैच् चॆय्युम् व्याबारमॆलाम् शुश्रूषैयेयाम्. इव्विदमिरुप्पदाल्, आज्ञैयैच् चॆय्वदुम्, प्रीदियैच् चॆय्वदाल् शुश्रूषैयिलुट्पट्टदे. आगैयाल्दान् कुरु जनत्तिऱ्कु प्रीदियैच् चॆय्युम् कार्यमॆल्लावट्रैयुम् शुश्रूषैयॆण्ड्रु सास्त्रगारर्गळ् व्यवहरिक्किण्ड्रनर्. इदऱ्कु उदाहरणम् - ‘मादाबुत्रत्वस्य’ ऎण्ड्र आबस्तम्ब धर्म सूत्र व्याक्यानत्तिल्, हरदत्तराल् -
मादावुक्कु सुप्रम्हण्याह्वानत्तिलुम्, करम्बबात्रादिगळिलुम् सेर्क्कै शुश्रूषै, ऎण्ड्रु सॊल्लप्पट्टुळ्ळदु. ‘इम्मादिरियान कार्यङ्गळिल् सेर्प्पदु मात्रु शुश्रूषैयागुमा? आम् आगुम्.इव्विद कार्यङ्गळिल् सेर्क्कप्पट्टाल्दान् अवळ् पूजिक्कप् पट्टवळाग निनैक्किण्ड्राळ्. सेर्क्कप्पडाविडिल् अवमदिक्कप् पट्टवळाग निनैक्किण्ड्राळ्’’ ऎण्ड्रु.
इव्विदमिरुप्पदाल् आज्ञैबैच् चॆय्वदुम् प्रीदियैच् चॆय्वदाल् शुश्रूषारूबमॆण्ड्रु सित्तित्तदु.
विश्वास-प्रस्तुतिः
अत एव सुदर्शनोपाख्याने पत्युराज्ञाकरणमुपक्रम्य तदेव ‘तव शुश्रूषया राजन् राजपुत्र्या विनिर्जितः’ इत्यादिना शुश्रूषात्वेन व्यवहृतमिति । अत एव च शिष्याणामाचार्याज्ञाकरणं तच्छरीरशुश्रूषणम् उभयमपि शुश्रूषैवेति कृत्वा आचार्यशुश्रूषाभिक्षाचरणमग्नीन्धनमिति त्रयाणामेव पृथग्ग्रहणं कृतम् । न त्वाज्ञायाः ।
ननु एवम् आज्ञाकरणस्यापि शुश्रूषान्तर्भावे तस्य पृथग्ग्रहणं किमर्थमिति चेदुच्यते ॥
शुश्रूषा हि बहुव्यापाररूपत्वात् सामान्यरूपा । अज्ञाकरणं तु तत्तत्काले पदार्थविशेषावलम्बनेन प्रवर्तमानं भर्तुरतिशयितादरविषयत्वेन विशेषरूपम् । अतः गोबलीवर्दन्यायेन पृथग्ग्रहणमुपपन्नम् ॥

आगैयाल्दान् सुदर्सनोबाक्यानत्तिल्, पदियिन् आज्ञैयैच् चॆय्वदैप्पट्रि आरम्बित्तु, अदुवे ‘तव शुश्रूषया’ ऎण्ड्रु शुश्रूषैत् तन्मैयाल् व्यव हरिक्कप्पट्टदु. आगैयालेये सिष्यर्गळुक्कु आचार्यनिन् आज्ञैयैच् चॆय्वदु, अवन् शरीर शुश्रूषै इरण्डुम् शुश्रूषैये ऎण्ड्रु निनैत्तु, आचार्य शुश्रूषै, पिक्षासरणम्, समिदादानम् ऎण्ड्र मूण्ड्रैयुमे तनियाय् क्रहिक्कप् पट्टुळ्ळदु. आज्ञैयैत् तनियाय् क्रहिक्कविल्लै. ओय्! इव्विदम् आक्ञागरणमुम् शुश्रूषैयिल् अन्दर्प्पूदमॆण्ड्राल्, अदैत् तनियाय् क्रहित्तदु ऎदऱ्कु ऎनिल्, सॊल्लप्पडुगिऱदु.
शुश्रूषै ऎन्बदु वॆगु व्याबार रूबमानदाल् सामान्य रूबमागियदु. आक्ञागरणमो अन्दन्दक् कालत्तिल् पदार्त्त विशेषत्तिन् अवलम्बनत्तिनाल् प्व्रुत्तिप्पदाल् भर्त्तावुक्कु अदिग आदरवुक्कु विषयमावदाल् विशेष रूब मागियदु. आगैयाल् कोबळीवर् तन्यायत्ताल्, तनियाय्च् चॊल्लियदु उबबन्नमागिऱदु.
विश्वास-प्रस्तुतिः
इमं धर्मपथं या हि पालयत्यखिलं सदा ।
अरुन्धतीव नारीणां स्वर्गलोके महीयते ॥
अत्र पतिशुश्रूषणातिशयेन अरुन्धत्याः दृष्टान्तत्वेन ग्रहणं कृतम् । तस्याः पतिशुश्रूषणातिशयश्च वनपर्वणि कुमारोत्पत्तौ अवगम्यते ॥
समाहूतो हुतवहः सोद्भुतस्सूर्यमण्डलात् ।
विनिस्सृत्याययौ वह्निर्वाग्यतो विधिवत् प्रभुः ॥
आगम्याहवनीयं वै तैर्द्विजैर्मन्त्रतो हुतम् ।
स तत्र विविधं हव्यं प्रतिगृह्य हुताशनः ॥
ऋषिभ्यो भरतश्रेष्ठ प्रायच्छत दिवौकसाम् ।
निष्कामंश्चाप्यपश्यत् स पत्नीस्तेषां महात्मनाम् ॥
स्वेष्चासनेषूपविष्टाः स्वपतींश्च तथा सुखम् ।
रुक्मवेदिनिभास्तास्तु चन्द्रलेखा इवामलाः ॥
हुताशनार्चिःप्रतिमाः सर्वास्तारा इवाद्भुताः ।
स तद्गतेन मनसा बभूव क्षुभितेन्द्रियः ॥
पत्नीर्दृष्ट्वा द्विजेन्द्राणां वह्निः कामवशं ययौ ।
भूयस्स चिन्तयामास न न्याय्यं क्षुभितो ह्यहम् ॥
साध्व्यः पत्न्यो द्विजेन्द्राणामकाम्याः कामयाम्यहम् ॥
नैताश्शक्या मया स्प्रष्टुं द्रष्टुं वाऽप्यथवाऽन्ततः ।
गार्हपत्यं समाविश्य तस्मात् स्पृश्याम्यभीक्ष्णशः ॥

इन्दत् धर्ममार्गम् मुऴुवदैयुम् ऎप्पॊऴुदुम् ऎवळ् काक्किऱाळो अवळ् पॆण्गळुळ् अरुन्ददिबोल् स्वर्क्कलोकत्तिल् सिऱप्पडैगिऱाळ्.
इङ्गे पदिशुश्रूषादिक्यत्ताल् अरुन्ददियै त्रुष्टान्दमाय् क्रहिक्कप्पट्टिरुक्किऱदु. अवळिन् पदिशुश्रूषादिक्यमुम् वनबर्वत्तिल् सुप्रम्हण्योत्पत्तियिल् अऱियप्पडुगिऱदु.
अऴैक्कप्पट्ट अक्निबगवान् आच्चर्यगर रूबमुडैयवनाय् सूर्यमण्डलत्तिनिण्ड्रुम् वॆळियेऱि मौनमाय् अङ्गु वन्दुसेर्न्दान्.
रुषिगळाल् कॊडुक्कप्पट्ट पलविद हविस्सुगळै क्रहित्तु अवैगळैत् तेवर्गळुक्कळित्तान्.
अवन् वॆळियिऱ् चॆल्लुम्बोदु अन्द महात्माक्कळान रुषिगळिन् पत्निगळैक् कण्डान्.
अवर्गळ् तङ्गळ् आसनङ्गळिल् पदिगळिडम् उट्कार्न्दिरुन्दनर्. अवर्गळ् स्वर्णवेदि पोलुम्, कळङ्गमट्र चन्द्रलेगैगळ् पोलवुम्, अक्नि ज्वालैगळ् पोलवुम्, नक्षत्रङ्गळ् पोलवुम् आच्चर्यमान रूबमुडनिरुन्दनर्.
अवर्गळैप् पार्त्त अक्नि अवर्गळै नाडिय मनदुडन् इन्द्रियङ्गळिल् कलक्कमुट्रान्. कामत्तिऱ्कुम् वसमानान्.
मऱुबडि तनक्कुळ् सिन्दिक्कलानान्. इदु नियायमल्ल. नान् कलक्कमडैन्देनल्लवा. इन्द प्राम्हण च्रेष्टर्गळिन् पत्निगळ् पदिव्रदैगळ्. आसिक्कत्तगादवर्गळ्. इवर्गळै नान् आसिक्किण्ड्रेन्. इवर्गळै नान् तॊडवुम् मुडियादु.
अल्लदु मुडिविल् पार्क्कवुम् मुडियादु. आगैयाल् कार्हबत्याक्नियिल् पुगुन्दु अडिक्कडि इवर्गळैत् तॊडुगिऱेन्.
विश्वास-प्रस्तुतिः
मार्कण्डेयः -
संस्पृशन्निव सर्वास्ताः शिखाभिः काञ्चनप्रभाः ।
पश्यमानश्च मुमुदे गार्हपत्यं समाश्रितः ॥
निरूप्य तत्र सुचिरमेवं वह्निर्वशं गतः ।
मनस्तासु विनिक्षिप्य कामयानो वराङ्गनाः ॥
कामसन्तप्तहृदयो देहत्यागे विनिश्चितः ।
अलाभे ब्राह्मणस्त्रीणामग्निर्वनमुपागमत् ॥
स्वाहा तं दक्षदुहिता प्रथमं कामयत्तदा ।
सा तस्य छिद्रमन्वैच्छत् चिरात्प्रभृति भामिनी ॥
अप्रमत्तस्य देवस्य न च पश्यत्यनिन्दिता ।
सा तं ज्ञात्वा यथावत्तु वह्निं वनमुपागतम् ॥
तत्त्वतः कामसन्तप्तं चिन्तयामास भामिनी ।
अप्रमत्तस्य देवस्य न च पश्यत्यनिन्दिता ॥
अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम् ।
कामयिष्यामि कामार्ता तासां रूपेण मोहितम् ॥
एवं कृते प्रीतिरस्य कामावाप्तिश्च मे भवेत् ॥

इव्विदम् निच्चयित्तु कार्हबत्याक्नियै अडैन्दु तन् ज्वालैगळाल् अवर्गळैत् तॊडुगिऱवन् पोल् स्पर्सित्तु अवर्गळैप् पार्त्तु मगिऴ्न्दान्.
अक्नि वॆगुगालम् इव्विदम् पार्त्तु मनदै अवर्गळिडम् सॆलुत्ति अवर्गळै विरुम्बियवनाय्, कामत्ताल् तबित्त मनमुडैयवनाय्, शरीरत्तै विट्टुविड निच्चयित्तुक् काट्टिऱ्कुच् चॆण्ड्रान्.
इदऱ्कु मुन्बे, तक्षप्रजाबदियिन् कुमारियागिय स्वाहा ऎन्बवळ् अन्द अक्नियै आसित्ताळ्. अवळुक्कु अवगासम् किडैक्कविल्लै. अवळ् अवनै सप्तरुषिगळिन् पत्निगळिन् रूबत्ताल् मोहित्तवनाग अऱिन्दु, इवनै, सप्तरुषि पत्निगळिन् रूबत्तै तान् क्रहित्तु मोहिक्कच् चॆय्दु ऎन्नुडन् इरुक्कुम्बडि सॆय्गिऱेन्.
इदनाल् अक्निक्कुम् प्रीदियुण्डागिऱदु. ऎनक्कुम् कामबूर्त्तियागिऱदु ऎण्ड्रु निनैत्ताळ्.
विश्वास-प्रस्तुतिः
मार्कण्डेयः -
शिवा भार्यात्वङ्गिरसः शीलरूपगुणान्विता ।
तस्याः सा प्रथमं रूपं कृत्वा देवी जनाधिप ॥
जगाम पावकाभ्याशं तं चोवाच वराङ्गना ।
मामग्ने कामसन्तप्तां त्वं कामयितुमर्हसि ॥
करिष्यसि न चेदेवं मृतां मामुपधारय ।
अहमङ्गिरसो भार्या शिवा नाम हुताशन ॥
शिष्टाभिः प्रहिता प्राप्ता मन्त्रयित्वा विनिश्रयम् ॥

सप्तरुषिगळुळ् ऒरुवरान अङ्गिरस्सिन् पार्यै सिवै ऎन्बवळ्. नल्लॊऴुक्कम्, रूबम्, कुणङ्गळ् इवैगळुडन् कूडियवळ्.
अरसने! अन्द स्वाहा ऎन्बवळ् सिवैयिन् रूबत्तै क्रहित्तु अक्नियिडम् सॆण्ड्रु अवनै नोक्किच् चॊन्नाळ्.
“ओ अक्ने! नान् उम्मै आसित्तुळ्ळेन्. नीर् ऎन्नैक् करुदवेण्डुम्. इल्लाविडिल् नान् इऱन्दुविडुवेन् ऎण्ड्रु अऱियुम्.
नान् अङ्गिरस्सिन् पार्यैयान ‘सिवा’ ऎन्बवळ्. मट्रवर्गळुम् सेर्न्दु आलोसित्तु निर्णयम् सॆय्दु ऎन्नै अनुप्पिनार्गळ्” ऎण्ड्रु.
विश्वास-प्रस्तुतिः
अग्निरुवाच -
कथं मां त्वं विजानीषे कामार्तमितराः कथम् ॥
शिवोवाच -
अस्माकं त्वं प्रियो नित्यं बिभीमस्तु वयं तव ।
त्वच्चित्तमिङ्गितैर्ज्ञात्वा प्रेषिताऽस्मि तवान्तिके ॥
मैथुनायेह सम्प्राप्ता कामं प्राप्तुं हितं चर ।
यातरो मां प्रतीक्षन्ते गमिष्यामि हुताशन ॥

अक्नि सॊल्वदावदु:-
नान् कामत्ताल् वरुन्दियुळ्ळेन् ऎण्ड्रु नी ऎव्विदमऱिन्दाय्? मट्रवरुम् ऎव्विदमऱिन्दनर्?
सिवै सॊल्लुगिऱाळ्:-
सप्तरुषिगळिन् पत्निगळॆण्ड्रु ऎवर्गळैच् चॊन्नीरो अवर्गळ् ऎल्लोरुम् उम्मिडम् प्रीदियुडनिरुक्किण्ड्रोम्. आनालुम् उम्मिडम् तॆरिविक्कप् पयन्दिरुन्दोम्. इप्पॊऴुदु इङ्गिदङ्गळाल् उम्मुडैय सित्तत्तै अऱिन्दु अवर्गळाल् उम्मिडम् नान् अनुप्पप्पट्टेन्. उम्मिडम् सेरुवदऱ्काग वन्देन्. ऎनक्कु हिदत्तैच् चॆय्युम्. मट्रवर्गळ् ऎन् वरवै ऎदिर्बार्त्तिरुक्किण्ड्रनर्. नान् सॆल्गिऱेन्.
विश्वास-प्रस्तुतिः
मार्कण्डेयः -
ततोऽग्निरुपयेमे तां शिवां प्रीतां मुदा युतः ।
प्रीत्या देवी समायुक्ता शुक्रं जग्राह पाणिना ॥
अर्पितं यन्ममेदं ये रूपं द्रक्ष्यन्ति कानने ।
ते ब्राह्मणीनामनृतं दोषं वक्ष्यन्ति पावक ॥
तस्मादेतद्रक्षमाणा गरुडी सम्भवाम्यहम् ।
वनान्निर्गमनं चैव सुखं मम भविष्यति ॥
सुपर्णी सा तदा भूत्वा निर्जगाम महावनात् ॥
अपश्यत् पर्वतं श्वेतं शरस्तम्बैस्सुसंवृतम् ।
दृष्टिविषैस्सप्तशीर्षैर्गुप्तं भोगिभिरद्भुतैः ॥
रक्षोभिश्च पिशाचैश्च रौद्रैर्भूतगणैस्तथा ।
राक्षसीभिश्च सम्पूर्णमनेकैश्च मृगद्विजैः ॥
सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम् ।
प्राक्षिपत् काञ्चने कुण्डे शुक्रं सा त्वरिता शुभा ॥
सप्तानामपि सा देवी सप्तर्षीणां महात्मनाम् ।
पत्नीसरूपतां कृत्वा कामयामास पावकम् ॥
दिव्यं रूपमरुन्धत्याः कर्तुं न शकितं तया ।
तस्यास्तपः प्रभावेण भर्तृशुश्रूषणेन च ॥

इव्विदम् सिवैयिन् वार्त्तैयैक् केट्टुच् चन्दोषमुट्र अक्नि, सन्दुष्टैयान अवळैप् परिक्रहित्तान्.
अवळ् सन्दोषत्तुडन् अक्नियिन् सुक्रत्तैक् कैयाल् क्रहित्ताळ्. ओ अक्ने! उमक्कु अळिक्कप्पट्ट ऎन् रूबत्तैक् काट्टिल् काण्बवर्गळ् प्राम्हणिगळुक्कुप् पॊय्यान तोषत्तैच् चॊल्वार्गळ्.
आगैयाल् इदैक् काक्क नान् पॆण् करुडबक्षियाय् उरुवमडैगिऱेन्. इक्काट्टिलिरुन्दु वॆळियेऱुवदुम् ऎनक्कु सुगमाय् आगुम्.
ऎण्ड्रु सॊल्लि अवळ् पॆण् करुडबक्षियाय् उरुवमडैन्दु अक्काट्टिनिण्ड्रु वॆळियेऱिनाळ्.
अवळ्, अङ्गु, नाणल् कॊत्तुक्कळाल् सूऴप्पट्टदुम्, कण्णिल् विषमुळ्ळदुम्, एऴु तलैगळुळ्ळदुमान अत्पुद सर्प्पर्गळाल् काक्कप्पट्टदुम्, राक्षसर्, पिसासर् पूदगणङ्गळ्, राक्षसिगळ्, पल मरुगङ्गळ्, पक्षिगळ् इवैगळाल् निऱैन्ददुमान ‘च्वेदम्’ ऎनुम् पॆयरुळ्ळ मलैयैक् कण्डाळ्.
अवळ् विरैवाय् ऒरुवरुम् सॆल्लक्कूडाद अन्दप्रदेसत्तिल् स्वर्णमयमान ऒरु कुण्डत्तिल् कैयिलुळ्ळ सुक्रत्तै विट्टाळ्.
इव्विदमे अन्द स्वाहादेवी, मट्र सप्तरुषिगळिन् पत्निगळुक्कु समानमान रूबत्तै क्रहित्तु, अक्नियै आसित्तु रमिक्कच्चॆय्दाळ्.
आनाल्, अरुन्ददियिन् अऴगिय उरुवत्तै मट्टिल् क्रहिप्पदऱ्कु अवळाल् मुडियविल्लै. अरुन्ददि तबस्सिन् प्रबावत्तालुम्, भर्तृ शुश्रूषा पलत्तालुम्.
विश्वास-प्रस्तुतिः
अत्र स्वपतिप्रीणनाय इतरर्षिपत्नीवेषं गृहीतवती अग्निपत्नी स्वाहादेवी अरुन्धत्याः पातिव्रत्यतेजोविशेषेण तद्रूपग्रहणे समर्था नासीदिति प्रतिपादनेन सर्वपतिव्रताभ्यः अरुन्धती श्रेष्ठेति प्रतिपादितम् ॥
पतिशुश्रूषणान्नार्याः तपो नान्यद्विधीयते ।
सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते ॥

इङ्गु, तन् पदियैच् चन्दोषिक्कच् चॆय्वदऱ्काग मट्र रुषि पत्निगळिन् वेषत्तै क्रहित्त अक्निबत्नियान स्वाहा तेवियानवळ्, अरुन्ददियिन् पादिव्रत्य तेजो विशेषत्ताल्, अरुन्ददियिन् रूबत्तै क्रहिप्पदऱ्कु सक्तियुळ्ळवळागविल्लै, ऎण्ड्रु सॊल्लियदाल्, ऎल्लाप् पदिव्रदैगळैक् काट्टिलुम् अरुन्ददी सिऱन्दवळ्, ऎन्बदु प्रदिबादिक्कप्पट्टदु.
पदिशुश्रूषैयैविड वेऱु तबस्सु स्त्रीक्कु विधिक्कप्पडविल्लै. सावित्री ऎन्बवळ् पदिशुश्रूषै सॆय्ददाल् स्वर्क्कत्तिल् सिऱप्पुऱुगिऱाळ्, ऎण्ड्रुळ्ळदु.
विश्वास-प्रस्तुतिः
तथा च सावित्र्युपाख्यानम् ।
युधिष्ठिर उवाच -
नात्मानमनुशोचामि नेमान् भ्रातॄन् महामुने ।
हरणं चापि राज्यस्य यथेमां द्रुपदात्मजाम् ॥
द्यूते दुरात्मभिः क्लिष्टाः कृष्णया तारिता वयम् ।
जयद्रथेन च पुनः वनाच्चापि हृता बलात् ॥
अस्ति सीमन्तिनी काचित् दृष्टपूर्वाऽथवा श्रुता ।
पतिव्रता महाभागा यथेयं द्रुपदात्मजा ॥

अव्विदमे सावित्रियिन् सरित्रम्. पुदिष्टिरर् सॊल्लुगिऱार्:ओ महामुने ! नान् ऎन्नैप्पट्रियो, इन्द प्रादाक्कळैप् पट्रियो, राज्यत्तै इऴन्ददैप्पट्रियो अव्वळवु वरुन्दविल्लै. इन्द त्रौबदियैप् पट्रि ऎव्विदम् वरुन्दुगिऱेनो सूदाट्टत्तिल् तुष्टर्गळाल् वरुत्तप्पट्ट नाङ्गळ् त्रौबदियाल् मीट्कप्पट्टोम्. मऱुबडि इवळ् जयत्रदनाल् वनत्तिनिण्ड्रुम् अबहरिक्कप्पट्टाळ्. पदिव्रदैयुम्, महाबाक्यसालियुमान इन्द त्रौबदिबोल् वेऱु स्त्री इरुक्किण्ड्राळा? मुन् पार्क्कप्पट्टाळा? केट्कप्पट्टाळा?.
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच -
शृणु राजन् कुलस्त्रीणां महाभाग्यं युधिष्ठिर ।
सर्वमेतद्यथा प्राप्तं सावित्र्या राजकन्यया ॥
आसीन्मद्रेषु धर्मात्मा राजा परमधार्मिकः ।
ब्रह्मण्यश्च महात्मा च सत्यसन्धो जितेन्द्रियः ॥
यज्वा दानपतिर्दक्षः पौरजानपदप्रियः ।
पार्थिवोऽश्वपतिर्नाम सर्वभूतहिते रतः ॥
क्षमावाननपत्यश्च सत्यवाग्विजितेन्द्रियः ।
अतिक्रान्तेन वयसा सन्तापमुपजग्मिवान् ॥
अपत्योत्पादनार्थं च तीव्रं नियममास्थितः ।
काले परिमिताहारो ब्रह्मचारी जितेन्द्रियः ॥
हुत्वा शतसहस्रं सः सावित्र्या राजसत्तमः ।
पष्ठे षष्ठे तदा काले बभूव मितभोजनः ॥
एतेन नियमेनासन् वर्षाण्यष्टादशैव तु ।
पूर्णे ह्यष्टादशे वर्षे सावित्री तुष्टिमभ्यगात् ॥
रूपिणी तु तदा राजन् दर्शयामास तं नृपम् ।
अग्निहोत्रात् समुत्थाय हर्षेण महताऽन्विता ॥
उवाच चैनं वरदा वचनं पार्थिवं तदा ॥

अरसने! युदिष्टिर! केट्कवेण्डुम्. कुलस्त्रीगळिन् माहा त्म्यत्तैच् चॊल्लप् पोगिऱेन्. राजगुमारियान सावित्री ऎन्बवळ् ऎव्विदमाय् माहात्म्यत्तै अडैन्दाळो अदैच् चॊल्लुगिऱेन्.
मत्रदेसत्तिल् परमधर्मिष्टनुम्, प्राम्हण पक्तनुम्, महात्मावुम्, सत्यवादियुम्, जिदेन्द्रियनुम्, विधिप्पडि यागम् सॆय्दवनुम्, तानसीलनुम्, समर्त्तनुम्, जनङ्गळॆल् लोरुक्कुम् प्रियनुम् आगिय ‘अच्वबदि’ ऎण्ड्रु पॆयरुळ्ळ अरसनिरुन्दान्.
अवन् पॊऱुमैयुळ्ळवन्, पुत्रनिल्लादवन्, उण्मै पेसुबवन्, पुलन्गळै जयित्तवन्.
वयदु सॆण्ड्रदाल् वरुत्तमडैन्दान्. पुत्रनैप् पॆऱुवदऱ्कागक् कडुमैयान नियमत्तै एट्रान्. कालत्तिल् अल्बमान आहारत्तैप् पुजित्तु, प्रम्हसारियाय्, जिदेन्द्रियनायिरुन्दु, सावित्री मन्द्रत्ताल् पदिनायिरम्मुऱै होमम् सॆय्दु, आऱुगालत्तिऱ्कॊरुमुऱै स्वल्बमाय् पुजित्तुवन्दान्.
इव्विदम् नियमत्तुडन् पदिनॆट्टु वर्षङ्गळ् सॆण्ड्रन.पदिनॆट्टावदु वर्षम् मुडिन्दवुडन् सावित्री तेवदै सन्दोषमडैन्दवळाय् अन्द अरसनुक्कुत् तर्सनमळित्ताळ्.
अक्निहोत्राक्नियिलिरुन्दुमॆऴुन्दु, मिगच् चन्दोषमुट्रवळाय् अरसनै नोक्किच् चॊन्नाळ्.
विश्वास-प्रस्तुतिः
सावित्र्युवाच -
ब्रह्मचर्येण शुद्धेन दमेन नियमेन च ।
सा हैमं रथमास्थाय स्थविरैस्सचिवैर्वृता ।
तपोवनानि रम्याणि राजर्षीणां जगाम ह ॥
वन्यानां तत्र वृद्धनां कृत्वा पादाभिवादनम् ।
वनानि क्रमशस्तात सर्वाण्येवाभ्यगच्छत ॥
एवं तीर्थेषु सर्वेषु धनोत्सर्गं नृपात्मजा ।
कुर्वती द्विजमुख्यानां तं तं देशं जगाम ह ॥
इत्यारण्यके पर्वणि सावित्र्युपाख्याने ………. अध्यायः ॥

सावित्री सॊल्लुगिऱाळ्:-
अरसने! उनदु सुत्तमान प्रम्हसर्यत्तालुम्, इन्द्रिय निक्रहत्तालुम्, नियमत्तालुम्,अवळ् स्वर्णमयमान रदत्तिलेऱि, व्रुत्तर्गळान मन्द्रिगळाल् सूऴप्पट्टवळाय्, राज रुषिगळिन् अऴगान तबो वनङ्गळुक्कुच् चॆण्ड्राळ् अङ्गु काट्टिलुळ्ळ पॆरियोर्गळुक्कु नमस्कारम् सॆय्दु, क्रममाय् ऎल्ला वनङ्गळुक्कुम सॆण्ड्राळ्.
इव्विदम् ऎल्लात् तीर्त्तङ्गळिलुम् तनत्तैत् तानम् सॆय्दुगॊण्डु, अन्दन्दत् तेसत्तिऱ्कु क्रममाय्च् चॆण्ड्राळ्.
आरण्यबर्वत्तिल् सावित्रियिन् सरिदत्तिल्…… अत्यायम्.
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच -
अथ मद्राधिपो राजा नारदेन समागतः ।
उपविष्टस्सभामद्ध्ये कथायोगेन भारत ॥
ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमांस्तथा ।
आजगाम पितुर्वेश्म सावित्री सह मन्त्रिभिः ॥
नारदेन समासीनं सा दृष्ट्वा पितरं शुभा ।
उभयोरेव शिरसा चक्रे पादाभिवादनम् ॥
मूलम्
मार्कण्डेय उवाच -
अथ मद्राधिपो राजा नारदेन समागतः ।
उपविष्टस्सभामद्ध्ये कथायोगेन भारत ॥
ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमांस्तथा ।
आजगाम पितुर्वेश्म सावित्री सह मन्त्रिभिः ॥
नारदेन समासीनं सा दृष्ट्वा पितरं शुभा ।
उभयोरेव शिरसा चक्रे पादाभिवादनम् ॥
द्राविडम्
मार्गण्डेयर्:-
पिऱगु, मत्रदेसत्तरसनान अच्वबदिराजन्, ऒरुनाळिल् नारदरुडन् सन्दित्तान्. अवरुडन् कदैगळ् पेसिक्कॊण्डु सबैयिन् नडुविल् उट्कार्न्दिरुन्दान्.
अच्चमयत्तिल् सगल तीर्त्तङ्गळैयुम्, आसरमङ्गळैयुम् सुट्रिप्पार्त्तु, मन्द्रिगळुडन् कूड सावित्रियुम् पिदाविन् क्रुहत्तिऱ्कु वन्दु सेर्न्दाळ्.
नारदरुडन् सबैयिलिरुक्कुम् पिदावैप् पार्त्तु, इरुवरुक्कुम् तलैवणङ्गि नमस्कारम् सॆय्दाळ्.
विश्वास-प्रस्तुतिः
नारद उवाच-
क्व गताऽभूत् सुतेयं ते कुतश्चैवागता नृप ।
किमर्थं युवतीं भर्त्रे न चैनां सम्प्रयच्छसि ॥
अश्वपतिरुवाच -
कार्येण खल्वनेनैव प्रेषिताऽद्यैव चागता ।
एतस्याः शृणु देवर्षे भर्तारं योऽनया वृतः ॥
मार्कण्डेय उवाच -
सा ब्रूहि विस्तरेणेति पित्रा सञ्चोदिता शुभा ।
दैवतस्येव वचनं प्रतिगृह्येदमब्रवीत् ॥

नारदर् : -
अरसने! उनदु इन्दप्पॆण् ऎङ्गे सॆण्ड्रिरुन्दाळ्? ऎङ्गिरुन्दु वन्दाळ्? युवदियान इवळै एन् भर्त्तावुक्कुक् कॊडामलिरुक्किऱाय्?.
अच्वबदि:-
ओ तेव रुषे! इक्कार्य निमित्तमागवे इवळै अनुप्पिनेन्. इण्ड्रुदान् इङ्गु वन्दाळ्. इवळ् ऎवनैप् भर्त्तावाग वरित्तिरुक्किण्ड्राळो अवनै इवळ् मुगमाय्क् केट्कक्कडवीर्.
मार्गण्डेयर्:-
विस्तारमाय् नी पोय् वन्द विषयत्तैच् चॊल्, ऎण्ड्रु पिदाविनाल् सॊल्लप्पट्ट सावित्री पिदाविन् वाक्यत्तैत् तेवदैयिन् वाक्यत्तैप्पोल् मदित्तुप् पॆट्रुच् चॊल्लुगिऱाळ्.
विश्वास-प्रस्तुतिः
सावित्र्युवाच -
आसीत् साल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः ।
द्युमत्सेन इति ख्यातः पश्चाच्चान्धो बभूव ह ॥
विनष्टचक्षुषस्तस्य बालपुत्रस्य धीमतः ।
सामीप्येन हृतं राज्यं छिद्रेऽस्मिन् पूर्ववैरिणा ॥
तां सुमध्यां पृथुश्रोणीं प्रतिमां काञ्चनीमिव ।
प्राप्तेयं देवकन्येति दृष्ट्वा सम्मेनिरे प्रजाः ॥
तां तु पद्मपलाशाक्षीं ज्वलन्तीमिव तेजसा ।
न कश्चिद्वरयामास तेजसा प्रतिबोधितः ॥
अथोपोष्य शिरस्त्राता देवतामभिगम्य सा ।
हुत्वाऽग्निं विधिवद्विप्रान् वाचयामास पर्वणि ॥
ततस्सुमनसश्शेषाः प्रतिगृह्य महात्मनः ।
पितुस्समीपमगमद्देवी श्रीरिव रूपिणी ॥
साऽभिवाद्य पितुः पादौ शेषाः पूर्वं नियम्य च ।
कृताञ्जलिर्वरारोहा नृपतेः पार्श्वमास्थिता ॥
यौवनस्थां तु तां दृष्ट्वा स्वां सुतां देवरूपिणीम् ।
अयाच्यमानां च वरैः नृपतिर्दुःखितोऽभवत् ॥

सावित्री:-
साल्वदेसत्तिल् धर्मात्मावुम्, क्षत्रियनुम्, त्युमत्सेनन् ऎण्ड्रु प्रसिद्धनुमान अरसनिरुन्दान्.
अवन् पिऱगु कुरुडनाय् आनान्. सिऱुवयदान पिळ्ळैयुडन् कूडिय अवनदु राज्यत्तै, इडैवॆळियै ऎदिर्बार्त्तिरुन्द पक्कत्तिलुळ्ळ सत्रु अरसन् अबहरित्तुक्कॊण्डान्. मिगवुम् अऴगुट्रु स्वर्ण प्रदिमैबोण्ड्र अवळै नोक्किय जनङ्गळ् तेवप्पॆण् वन्दुळ्ळाळ् ऎण्ड्रु ऎण्णिनर्.
अदिग तेजस्सुडैय अवळै ऒरु राजगुमारनुम् वेण्डि वरिक्कविल्लै.
ऒरुनाळिल्, अक्कन्निगै उबवासमिरुन्दु स्नानम् सॆय्दु, तेवदैयैप् पूजित्तु, होमम् सॆय्वित्तु, पर्वदिनत्तिल् प्राम्हणर्गळाल् वेदबारायणम् मुदलियदैच् चॆय्वित्तु, निर्माल्य प्रसादमान पुष्पङ्गळैप् पॆट्रु, उरुवमुडन् वन्द लक्ष्मी तेविबोल् महात्मावान तन् पिदाविन् समीबम् सॆण्ड्राळ्.
अवळ् पिदाविन् पादङ्गळिल् वणङ्गि, पुष्पङ्गळै मुन्बे तलैयिल् तरित्तु, अञ्जलियुडन् अरसनिन् अण्डैयिल् निण्ड्राळ्.
अरसन्, तेवप्पॆण् पोण्ड्रवळुम्, यौवनमडैन्दवळुमान तन् पॆण्णैप् पार्त्तु, इवळै ऒरुवरुम् वरिक्कविल्लैयेयॆण्ड्रु वरुत्तमुट्रान्. अवळैप् पार्त्तु वरुमाऱु सॊल्लुगिऱान्.
विश्वास-प्रस्तुतिः
राजोवाच -
पुत्रि प्रदानकालस्ते न च कश्चित् वृणोति माम् ।
स्वयमन्विच्छ भर्तारं गुणैस्सदृशमात्मनः ॥
प्रार्थितः पुरुषो यश्च स निवेद्यस्त्वया मम ।
विमृश्याहं प्रदास्यामि वरयेस्त्वं यथेप्सितम् ॥
श्रुतं हि धर्मशास्त्रेषु पठ्यमानं द्विजातिभिः ।
तथा त्वमपि कल्याणि गदतो मे वचः शृणु ॥
अप्रदाता पिता वाच्यो वाच्यश्चानुपयन् पतिः ।
मृते भर्तरि पुत्रश्च वाच्यो मातुररक्षिता ॥
इदं मे वचनं श्रुत्वा भर्तुरन्वेषणे त्वर ।
देवतानां यथा वाच्यो न भवेयं तथा कुरु ॥

अरसन्:-
पॆण्णे! उळ्नैत् तानम् सॆय्वदऱ्कुक् कालम् इदु. आनाल् ऒरुवनुम् ऎन्नैक् केट्कविल्लै. नीये उनक्कुच् चरियान भर्त्तावैत् तेडिक्कॊळ्. उन् मनदिऱ्कु रुसित्तवन् ऎवनो अवनै ऎनक्कुच् चॊल्. नान् आलोत्तुक् कॊडुक्किऱेन्. इष्टप्पडि नीये वरित्तुक्कॊळ्. इव्विदम् सॆय्यलामॆण्ड्रु धर्मसास्त्रङ्गळिल् प्राम्हणर्गळाल् पडिक्कप्पट्टदैक् केट्टिरुक्किऱेन्. ओ कल्याणी! नीयुम् ऎन् वार्त्तैयैक् केळ्. कन्यैयैक् कालत्तिल् कॊडुक्काद पिदा निन्द्यन्. कालत्तिल् पार्यैयैच् चेराद पदियुम् निन्द्यन्. पिदा इऱन्द पिऱगु मादावै रक्षिक्काद पुत्रनुम् निन्द्यन्. ऎन् वार्त्तैयैक् केट्टु, भर्त्तावैच् चीक्किरमाय्त् तेडु. तेवदैगळुक्कु निन्द्यनाग नान् आगादबडि नी सॆय्यवेण्डुम्.
विश्वास-प्रस्तुतिः
मार्कण्डेय उपाच -
एवमुक्त्वा दुहितरं तथा वृद्धांश्च मन्त्रिणः ।
व्यादिदेशानुयात्रं च गम्यतां चेत्यचोदयत् ॥
साऽभिवाद्य पितुः पादौ व्रीडितेव तपस्विनी ।
पितुर्वचनमाज्ञाय निर्जगामाविचारितम् ॥
सर्वात्मना च भक्त्या च तुष्टाऽस्मि तव पार्थिव ॥
वरं वृणीष्वाश्वपते मद्रराज यदीप्सितम् ।
न प्रमादश्च धर्मेषु कर्तव्यस्ते कथञ्चन ॥
अश्वपतिरुवाच -
अपत्यार्थः समारम्भः कृतो धर्मेप्सया मया ।
पुत्रा मे बहवो देवि भवेयुः कुलभावनाः ॥
तुष्टाऽसि यदि मे देवि वरमेनं वृणोम्यहम् ।
सन्तानं परमो धर्म इत्याहुर्मा द्विजातयः ॥
सावित्र्युवाच -
पूर्वमेव मया राजन् अभिप्रायमिमं तव ।
ज्ञात्वा पुत्रार्थमुक्तो वै भगवांस्ते पितामहः ॥
प्रसादाच्चैव तस्मात्ते स्वयम्भूविहिताद्भुवि ।
कन्या तेजस्विनी सौम्य क्षिप्रमेव भविष्यति ॥
उत्तरं च न ते किञ्चिद्व्याहर्तव्यं कथञ्चन ।
पितामहनिसर्गेण तुष्टा ह्येतत् ब्रवीमि ते ॥

अरसन् इव्विदम् सॊल्लि, पॆरियोर्गळान मन्द्रिगळैयुम् तुणैक्कागक् कूड अनुप्पिप् पोय्वा ऎण्ड्रनुप्पिनान्.
अवळ् पिदाविन् पादङ्गळैप् पणिन्दु वॆट्कत्तुडन् पिदाविन् आज्ञैयिनाल् वॆळियेऱिनाळ्.
एगान्द पक्तियिनालुम् सन्दोषमुट्रेन्. ओ मत्रराज अच्वबदे! इष्टमान वरनै वेण्डिक्कॊळ्. धर्मङ्गळिल् कवनत्तुडनिरुक्कवुम्.
अच्वबदि:-
ओ तेवी! नान् धर्मत्तै अडैय विरुम्बि, पुत्रर्गळुक्काग इक्कार्यत्तैच् चॆय्देन्.
नी ऎनक्कु सन्दुष्टैयायिरुन्दाल्, ऎन् कुलत्तै व्रुत्तिसॆय्युम् पल पुत्रर्गळ् ऎनक्कु उण्डागवेण्डुम्.
नान् इन्द वरनै वेण्डुगिऱेन्. वम्स व्रुत्तिये सिऱन्द धर्ममॆण्ड्रु ऎन्निडम् प्राम्हणर्गळ् सॊल्लियुळ्ळनर्.
सावित्री:-
अरसने! उन् अबिप्रायत्तै मुन्बे नान् अऱिन्दु प्रम्हदेवरिडम् तॆरिवित्तेन्. अवरुडैय अरुळिनाल् उनक्कु अऴगिय पॆण् सिक्किरमाय् उण्डावाळ्.
इदऱ्कु मेल् नी ऒण्ड्रुम् पदिल् सॊल्लक्कूडादु. प्रम्हाविन् उत्तिरविनाल् सन्दोषमडैन्दु नान् इदैच् चॊल्लुगिऱेन्.
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच -
स तथेति प्रतिज्ञाय सावित्र्या वचनं नृपः ।
प्रसादयामास पुनः क्षिप्रमेतद्भविष्यति ॥
अन्तर्हितायां सावित्र्यां जगाम स्वपुरं नृपः ।
स राज्ये चावसद्धीरः प्रजा धर्मेण पालयन् ॥
कस्मिंश्चित्तु गते काले स राजा नियतव्रतः ।
ज्येष्ठायां धर्मचारिण्यां महिष्यां गर्भमादधे ॥
राजपुत्र्यास्तु गर्भस्समालम्ब्य भरतर्षभ ।
व्यवर्धत तदा शुक्ले तारापतिरिवाम्बरे ॥
प्राप्ते काले तु सुषुवे कन्यां राजीवलोचनाम् ।
क्रियाश्च तस्या मुदितः चक्रे स नृपसत्तमः ॥
सावित्र्या प्रीतया दत्ता सावित्र्या हुतया ह्यपि ।
सावित्रीत्येव नामास्याश्चक्रुर्विप्रास्तथा पिता ॥
सा विग्रहवतीव श्रीः व्यवर्धत नृपात्मजा ।
कालेन चापि सा कन्या यौवनस्था बभूव ह ॥
स बालवत्सया सार्धं भार्यया प्रस्थितो वनम् ।
महारण्यगतश्चापि तपस्तेपे महाव्रतः ॥
तस्य पुत्रः पुरे जातः संवृद्धश्च तपोवने ।
सत्यवाननुरूपो मे भर्तेति मनसा वृतः ॥

अरसन् अव्विदमे ऎण्ड्रु ऒप्पि, इदु सीक्किरम् निऱैवेऱवेण्डुम् ऎण्ड्रु वेण्डिनान्. सावित्री तेवियुम् मऱैन्दाळ्. पिऱगु अरसन् तनदु नगरम् सॆण्ड्रान्.
तन् राज्यत्तिल् प्रजैगळैत् धर्मत्तुडन् परिबालित्तु वसित्तिरुन्दान्.
सिलगालम् सॆण्ड्रबिन्, अन्द अरसन् धर्मिष्टैयान ज्येष्ट महिषियिनिडत्तिल् कर्प्पत्तैप् पॆट्रान्.
अन्दक् कर्प्पम् सुक्लबक्षत्तिल् चन्द्रन् आगासत्तिल्बोल् व्रुत्ति अडैन्ददु.
प्रसवगालम् प्राप्तमानदुम् तामरैक्कण्णियान पॆण्णैप् पॆट्राळ् राजबत्नी.
अन्द अरसन् अवळुक्कुच् चॆय्यवेण्डिय जादगर्मादिगळैच् चॆय्दान्.
प्रसन्नैयान सावित्रियाल् कॊडुक्कप्पट्टदालुम्, सावित्री होमत्तालुण्डागियदालुम्, अवळुक्कु प्राम्हणर्गळुम्, पिदावुम् ‘सावित्री’ ऎण्ड्रु पॆयरै अळित्तार्गळ्.
अन्द राजगन्यै शरीरत्तुडन् वन्द लक्ष्मीबोल् ऒव्वॊरु नाळिलुम् वळर्न्दु वन्दाळ्.
सिल कालत्तिऱ्कुप् पिऱगु यौवनप् परुवत्तैयुमडैन्दाळ्. त्युमत्सेनन् पालबुत्रनैयुडैय पार्यैयुडन् अरण्यत्तै अडैन्दान्.
अङ्गु सिऱन्द नियमङ्गळुडैयवनाय्त् तवम् पुरिन्दान्. अवनुक्कुप् पट्टणत्तिलिरुक्कुम्बोदु पिऱन्द पुत्रन् इप्पॊऴुदु तबोवनत्तिल् पिदावुडन् सेर्न्दु वसिक्किण्ड्रान्. अवन् सत्यवान् ऎन्बवन्.
अवन् ऎनक्कुच् चरियान भर्त्तावॆण्ड्रु अलनै मनदाल् वरित्तिरुक्किऱेन्.
विश्वास-प्रस्तुतिः
नारद उवाच -
अहो बत महत् पापं सावित्र्या नृपते कृतम् ।
अजानन्त्या यदनया गुणवान् सत्यवान् वृतः ॥
सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते ।
तथा च ब्राह्मणाश्चक्रुर्नामैतत् सत्यवानिति ॥
बालस्याश्वाः प्रियाश्चास्य करोत्यश्वांश्च मृन्मयान् ॥
चित्रेऽपि विलिखत्यश्वान् चित्राश्व इति चोच्यते ।

नारदर्:-
अहो! अरसने! सावित्री महा पाबत्तैच् चॆय्दुविट्टाळ्. अऱियामलिवळ् कुणमुळ्ळवनान सत्यवानै वरित्ताळ्.
इवन् सत्यम् पेसुवान्. मादावुम् अप्पडिये. आगैयाल् इवनुक्कु प्राम्हणर्गळ् सत्यवानॆण्ड्रु पॆयरिट्टनर्.
इवन् सिऱुवनायिरुन्दबॊऴुदु कुदिरैगळिडम् प्रियमुळ्ळवनायिरुन्दान्.
मण्णिनाल् कुदिरैगळैच् चॆय्वान्. सित्तिरत्तिल् कुदिरैगळै ऎऴुदुवान्. आगैयाल् सित्राच्वन् ऎण्ड्रुम् सॊल्लप्पडुगिऱान्.
विश्वास-प्रस्तुतिः
राजोवाच -
अपीदानीं स तेजस्वी बुद्धिमान् वा नृपात्मजः ।
क्षमावानपि वा शूरः सत्यवान् पितृवत्सलः ॥
नारद उवाच -
विवस्वानिव तेजस्वी बृहस्पतिसमो मतौ ।
महेन्द्र इव वीरश्च वसुधेव क्षमान्वितः ॥
अश्वपतिरुवाच -
अपि राजात्मजो दाता ब्रह्मण्यश्चापि सत्यवान् ।
रूपवानप्युदारो वाऽप्यथवा प्रियदर्शनः ॥
नारद उवाच -
साङ्कृते रन्तिदेवस्य स्वशक्त्या दानतस्समः ।
ब्रह्मण्यस्सत्यवादी च शिबिरौशीनरो यथा ॥
ययातिरिव चोदारः सोमवत् प्रियदर्शनः ।
रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो बली ॥
स दान्तः स मृदुश्शूरः स सत्यस्संयतेन्द्रियः ।
स मैत्रः सोऽनसूयश्च स ह्रीमान् धृतिमांश्च सः ॥
नित्यशश्चार्जवं तस्मिन् स्थितिस्तस्यैव च ध्रुवा ।
सङ्क्षेपतस्तपोवृद्धैः शीलवृद्धैश्च कथ्यते ॥

अन्द सत्यवान् तेजस्सुडैयवना? पुत्तिमाना? पॊऱुमैयुडैयवना? सूरना? मादाबिदाक्कळिडम् पक्तना? ऎव्विदमिरुक्किऱान्?.
नारदर्-
अवन् सूर्यन्बोल् तेजस्सुडैयवन्, पुत्तियिल् प्रुहस्पदिक्कुच् चमन्, इन्द्रन्बोल् वीरन्, पूमिबोल् पॊऱुमैयुडैयवन्.
अच्वबदि:-
अन्द राजगुमारन् तानसीलना? प्राम्हण पक्तियुळ्ळवना? सत्यवादिया? नल्ल रूबमुडैयवना? उदारना? अऴगुडैयवना?.
नारदर्:-
अवन् तन् सक्तिक्कुत् तक्कबडि तानम् सॆय्वदिल् रन्दिदेवनुक्कुच् चमन्. प्राम्हण पक्तन्, सत्यवादि, सिबिमहाराजन् पोण्ड्रवन्, ययादिबोल् तादा, चन्द्रन्बोल् अऴगियवन्, रूबत्तिल् अच्विनी तेवदैगळुळ् ऒरुवन्, अवन् पलिष्टन्, कान्दन्, अवन् म्रुदु, अवन् सूरन्, सत्यवादी, पुलन्गळै अडक्कियवन्, अवन् ऎल्लोरुक्कुम् मित्रन्, असूयैयट्रवन्, लज्जैयुडैयवन्, तीरन्, रुजुत्तन्मै ऎप्पॊऴुदुमवनिडमुळ्ळदु, अवन् मर्यादै स्तिरमायुळ्ळदु. सुरुक्कमाय्च् चॊल्लुगिऱेन्.
तबळ्सिनाल् सिऱन्दवरालुम्, सीलत्ताल् सिऱन्दवरालुम् अवन् पुगऴप्पडुगिऱान्.
विश्वास-प्रस्तुतिः
अश्वपतिरुवाच -
गुणैरुपेतं सर्वैस्तं भगवांस्त्वं ब्रवीषि मे ।
दोषानप्यस्य मे ब्रूहि यदि सन्तीह केचन ॥
नारद उवाच -
एक एवास्य दोषो हि गुणानाक्रम्य तिष्ठति ।
स च दोषः प्रयत्नेन न शक्यमतिवर्तितुम् ॥
एको दोषोऽस्ति नान्योऽऽस्य सोद्यऽप्रभृति सत्यवान् ।
संवत्सरेण क्षीणायुर्देहन्यासं करिष्यति ॥
राजोवाच -
एहि सावित्रि गच्छस्व अन्यं वरय शोभने ।
तस्य दोषो महानेको गुणानाक्रम्य च स्थितः ॥
यथा मे भगवानाह नारदो देवसत्कृतः ।
संवत्सरेण सोऽल्पायुर्देहन्यासं करिष्यति ॥

अच्वबदि सॊल्लुगिऱार्:-
ओ पगवन्! सत्यवानै सगल कुणङ्गळुडन् कूडियवनाय् नीर् सॊल्लुगिऱीर्. इवनिडम् सिल तोषङ्गळिरुक्कुमागिल् अवैगळैयुम् ऎनक्कुच् चॊल्लक् कडवीर्.
नारदर्:-
इवनुडैय ऒरे तोषम् पल कुणङ्गळैयुम् आक्रमित्तिरुक्किऱदु. अन्दत् तोषम प्रयत्नत्ताल् ताण्ड मुडियाददु. इवनुक्कु ऒरु तोषन्दानुळ्ळदु. मट्रदिल्लै. अन्द सत्यवान्, इण्ड्रु मुदल् ऒरु वर्षत्तिल् आयुळ् कुऱैन्दु तेहत्तै इऴक्कप्पोगिऱान्.
अरसन् सॊल्लुगिऱान्:-
सावित्री! इङ्गु वा. मुन्बोल् वॆळियिल् सॆण्ड्रु वेऱॊरुवनै वरिक्कक्कडवाय्. सत्यवा नुक्कुप् पॆरिय ऒरु तोषम् अवन् कुणङ्गळै आक्कमित्तु निऱ्किऱदाम्. तेवर्गळाल् पूजिक्कप्पट्ट पगवान् नारदर् ऎनक्कु इव्विदम् सॊन्नार्.
अन्द सत्यवान्, ऒरु आण्डिल् आयुळ् कुऱैन्दु तेहत्तै इऴक्कप्पोगिऱान् ऎण्ड्रु.
विश्वास-प्रस्तुतिः
सावित्र्युवाच -
सकृदंशो निपतति सकृत् कन्या प्रदीयते ।
सदाह ददानीति त्रीण्येतानि सकृत् सकृत् ॥
दीर्घायुरथवाऽल्पायुः सगुणो निर्गुणोऽपि वा ।
सकृद्वृतो मया भर्ता न द्वितीयं वृणोम्यहम् ॥
मनसा निश्चयं कृत्वा ततो वाचाऽभिधीयते ।
क्रियते कर्मणा पश्चात् प्रमाणं मे मनस्ततः ॥
नारद उवाच -
स्थिरा बुद्धिर्नरश्रेष्ठ सावित्र्या दुहितुस्तव ।
नैषा वारयितुं शक्या धर्मादस्मात् कथञ्चन ॥
नान्यस्मिन् पुरुषे सन्ति ये सत्यवति वै गुणाः ।
प्रधानमेव तस्मान्मे रोचते दुहितुस्तव ॥

सावित्री सॊल्वदु:-
कुटुम्ब तनत्तैप् पिरिप्पदु ऒरु तडवैदान्. पॆण्णैत् तानम् सॆय्वदु ऒरु तडवैदान्. तानम् कॊडुप्पदुम् ऒरु तडवैदान्.
इम् मूण्ड्रुम् ऒव्वॊरु तडवैदान् सॆय्यप्पडलाम्. इरण्डावदु तडवै कूडादु.
तीर्क्कायुस्सागवो, अल्प्पायुस्सागवो, सगुणनागवो, निर्क्कुणनागवो इरुक्कलाम्.
नान् ऎवनै ऒरुमुऱै वरित्तेनो अवने ऎनक्कुप् भर्त्तावाग आगिऱान्.
नान् इनि इरण्डामवनै वरिक्कमाट्टेन्. मनदाल् निच्चयम् सॆय्दु, पिऱगु वाक्काल् सॊल्लप्पडुगिऱदु.
पिऱगु कार्यत्ताल् सॆय्यप्पडुगिऱदु. आगैयाल् ऎनक्कु ऎन् मनदे प्रमाणम्. अदऱ्कु माऱुदलिल्लै.
नारदर् सॊल्वदु:-
अरसने! उन् पॆण् सावित्रियिन् पुत्ति त्रुडमायिरुक्किण्ड्रदु. इन्दत् धर्मत्तिलिरुन्दु तडुप्पदऱ्कु ऎव्विदत्तालुम् मुडियादु.
सत्यवानिडत्तिलुळ्ळ कुणङ्गळ् मट्रॊरु पुरुषनिडत्तिल्लै. आगैयाल् उन् पॆण्णै अवनुक्कुक् कॊडुप्पदे ऎनक्कु रुसिक्किण्ड्रदु.
विश्वास-प्रस्तुतिः
राजोवाच -
अविचाल्यमेतदुक्तं तथ्यं च भवता वचः ।
करिष्याम्येतदेवं च गुरुर्हि भगवान् मम ॥
नारद उवाच -
अविघ्नमस्तु सावित्र्याः प्रधाने दुहितुस्तव ।
साधयिष्यामहे तावत् सर्वेषां भद्रमस्तु वः ॥
मार्कण्डेय उवाच -
एवमुक्त्वा समुत्पत्य नारदस्त्रिदिवं गतः ।
राजाऽपि दुहितुस्सज्जं वैवाहिकमकारयत् ॥
इत्यारण्यपर्वणि सावित्र्युपाख्याने……… अध्यायः ॥

अरसन् सॊल्वदु:-
इदु असैक्कमुडियाददॆण्ड्रु ताङ्गळ् सॊल्लियदु सत्यमे. ताङ्गळ् सॊल्लियबडिये सॆय्गिऱेन्. ताङ्गळ् ऎनक्कुक् कुरुवल्लवा.
नारदर् सॊल्वदु:-
उन् पॆण् सावित्रियै, तानम् सॆय्वदिल् विक्नमिल्लामलिरुक्कवेण्डुम्. नान् पोगिऱेन्; उङ्गळॆल्लोरुक्कुम् मङ्गळमुण्डागवेण्डुम्.
मार्गण्डेयर्:-
इव्विदम् सॊल्लिविट्टुक् किळम्बि नारदर् स्वर्क्कलोकम् सॆण्ड्रार्. अरसनुम् पॆण्णिन् विवाहत्तिऱ्कु वेण्डियवैगळै सज्जमाक्किनान्.
आरण्यबर्वत्तिल् सावित्रियिन् उबाक्यानत्तिल् …..अत्यायम् मुट्रुम्.
विश्वास-प्रस्तुतिः
मार्कण्डेयः -
अथ कन्याप्रधाने स तमेवार्थं विचिन्तयन् ।
समानिन्ये च तत् सर्वं भाण्डं वैवाहिकं नृपः ॥
ततो वृद्धान् द्विजान् सर्वान् ऋत्विजस्सपुरोहितान् ।
समाहूय दिने पुण्ये प्रययौ सह कन्यया ॥
मेद्ध्यारण्ये स गत्वा च द्युमत्सेनाश्रमं नृपः ।
पद्भ्यामेव द्विजैस्सार्धं राजर्षिं तमुपागमत् ॥
तत्रापश्यन्महाभागं सालवृक्षमुपाश्रितम् ।
कौश्यां बृस्यां समासीनं चक्षुर्हीनं नृपं तदा ॥
स राजा तस्य राजर्षेः कृत्वा पूजां यथार्हतः ।
वाचा सुनियतो भूत्वा चकारात्मनिवेदनम् ॥
तस्यार्घ्यमासनं चैव गां चावेद्य स धर्मवित् ।
किमागमनमित्येवं राजा राजानमब्रवीत् ॥
तस्य सर्वमभिप्रायमितिकर्तव्यतां च ताम् ।
सत्यवन्तं समुद्दिश्य सर्वमेव न्यवेदयत् ॥
सावित्री नाम राजर्षे कन्येयं मम शोभना ।
तां स्वधर्मेण धर्मज्ञ स्नुषार्थे त्वं गृहाण मे ॥

मार्गण्डेयर् : -
पिऱगु अन्द अरसन् कन्यैयैत् तानम् सॆय्वदिल् अदे प्रगारत्तै आलोसिप्पवनाय् विवाहत्तिऱ्कु वेण्डिय वस्तुक्कळैत् तयार् सॆय्दान्.
पिऱगु पॆरियोर्गळान प्रामहणर्गळैयुम्, रुत्विक्कुगळ्, पुरोहिदर् इवर्गळैयुम् अऴैत्तुक्कॊण्डु, सुबमान नाळिल् पॆण्णुडन् पुऱप्पट्टुच् चॆण्ड्रान्.
सुत्तमान अरण्यत्तिल् त्युमत्सेननिन् आच्रमत्तैयडैन्दु, काल्गळालेये नडन्दु, प्राम्हणर्गळुडन् राज रुषियान त्युमत्सेननै अडैन्दान्.
अव्विडत्तिल् सालव्रुक्षत्तिनडियिल् कुसासनत्तिलुट्कार्न्दुळ्ळ कण्णिल्लाद महात्मावान अव्वरसनैक् कण्डान्.
अन्द त्युमत्सेनन्, असवबदिक्कु उसिदप्पडि पूजै सॆय्दु, वाक्किनाल् तन्नैयुम् ऒप्पुवित्तान्.
धर्ममऱिन्द अन्द त्युमत्सेनन् आसनम्, अर्क्यम्, पसु इवैगळैक् कॊडुत्तुप् पिऱगु, वन्द कारणम् ऎन्नवॆण्ड्रु केट्टान्. अच्वबदियुम् तनदु अबिप्रायत्तैत् तॆरिवित्तान्.
राज रुषिये! इन्द अऴगिय पॆण् ऎन्नुडैय पुत्री. अवनैत् धर्मप्पडि उम् नाट्टुप्पॆण्णाग क्रहित्तुक् कॊळ्ळवेण्डुम्.
विश्वास-प्रस्तुतिः
द्युमत्सेन उवाच -
च्युताः स्म राज्याद्वनवासमाश्रिताः चराम धर्मं नियतास्तपस्विनः ।
कथं सुखार्हा वनवासमाश्रमे निवत्स्यते क्लेशमिमं सुता तव ॥
अश्वपतिरुवाच -
सुखं च दुःखं च भवाभवात्मकं यदा विजानाति सुताऽहमेव च ।
न मद्विधे युज्यति वाक्यमीदृशं विनिश्चयेनाभिगतोऽस्मि ते नृप ॥
आशां नार्हसि मे हन्तुं सौहृदात् प्रणतस्य च ।
अभितश्चागतं प्रेम्णा प्रत्याख्यातुं न माऽर्हसि ॥
अनुरूपो हि युक्तश्च त्वं ममाहं तवापि च ।
स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतस्ततः ॥

त्युमत्सेनन् सॊल्वदु:-
नाङ्गळ् राज्यत्तै इऴन्दु, वनवासमडैन्दु ताबसर्गळाय्त् धर्मम् सॆय्गिण्ड्रोम्.
सुगत्तिऱ्कु उसिदैयान उम् पॆण् वनत्तिल् आच्रमत्तिल् वासम् सॆय्दु इक्कष्टत्तै ऎप्पडिप् पॊऱुप्पाळ्?
अच्वबदि सॊल्वदु:-
सुगमुम् तुक्कमुम् उण्डागुम्, नसिक्कुम्, स्तिरमल्ल. ऎन् पॆण्णुम् नानुम् इदैत् तॆरिन्दिरुक्किऱोम्.
ऎन्नैप् पोण्ड्रवनिडत्तिल् इव्विदमान वार्त्तैयैच् चॊल्वदु युक्तमल्ल.
त्रुडमान निच्चयत्तुडन् उामिडम् वन्दुळ्ळेन्. स्नेहत्तै अवलम्बित्तु ऎन् आसैयैक् कॆडुक्कवेण्डाम्. नमस्करिक्किण्ड्रेन्. आवलुडन् उमदु अण्डैयिल् वन्दुळ्ळ ऎन्नै नीर् मऱुदलिक्कक् कूडादु, ऎनक्कु सम्बन्दत्तिऱ्कु नीर् सरियानवरे.
उमक्कुम् नान् सरियानवन्. आगैयाल् सत्यवानुक्कुप् पार्यैयाक्कि ऎन् पॆण्णैत् तङ्गळुक्कु नाट्टुप्पॆण्णाय् एऱ्कवेण्डुम्.
विश्वास-प्रस्तुतिः
द्युमत्सेन उवाच-
पूर्वमेवाभिलषितः सम्बन्धो मे त्वया सह ।
भ्रष्टराज्यस्त्वहमिति तत एतद्विचारितम् ॥
अभिप्रायस्त्वयं यो मे पूर्वमेवाभिकाङ्क्षितः ।
तं निर्वर्तय मेऽद्यैव काङ्क्षितो ह्यसि मेऽतिथिः ॥

त्युमत्सेनन्:-
उम्मुडन् सम्बन्दम् सॆय्वदऱ्कु, मुऱ्कालत्तिलेये आसैयुट्रिरुन्देन्. इप्पॊऴुदु नान् राज्यमिऴन्दवनायिरुप्पदु पट्रित्तान् आलोसित्तेन्. मुन्बे आसित्त ऎन् अबिप्रायत्तै निऱैवेट्रुवीराग. ऎनक्कु प्रियमान अदिदियागिण्ड्रीर्.
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच -
ततस्सर्वान् समानाय्य द्विजानाश्रमवासिनः ।
यथाविधि समुद्वाहं कारयामासतुर्नृपौ ।
दत्वा सोऽश्वपतिः कन्यां यथार्हं सपरिच्छदम् ।
ययौ स्वमेव भवनं युक्तः परमया मुदा ॥
सत्यवानपि तां भार्यां लब्ध्वा सर्वगुणान्विताम् ।
मुमुदे सा च तं लब्ध्वा भर्तारं मनसेप्सितम् ॥
गते पितरि सर्वाणि सन्न्यस्याभरणानि सा ।
जगृहे वल्कलान्येव वस्त्रं काषायमेव च ॥
परिचारैर्गुणैश्चैव प्रश्रयेण दमेन च ।
सर्वकामक्रियाभिश्च सर्वेषां तुष्टिमादधे ॥
श्वश्रूं शरीरसत्कारैः सर्वैराच्छादनादिभिः ।
श्वशुरं देवसत्कारैः वाचस्संयमनेन च ॥
तथैव प्रियवादेन नैपुण्येन शमेन च ।
रहश्चैवोपचारेण भर्तारं पर्यतोषयत् ॥
एवं तत्राश्रमे तेषां तदा निवसतां सताम् ।
कालस्तपस्यतां कश्चिदपाक्रामत भारत ॥
सावित्र्या ग्लायमानायास्तिष्ठन्त्यास्तु दिवानिशम् ।
नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते ॥
इत्यारण्यके पर्वणि सावित्र्युपाख्याने ……… अध्यायः ॥

पिऱगु अव्विरु असॆर्गळुम् आच्रमङ्गळिलुळ्ळ प्राम्हणर्गळै अऴैप्पित्तु विधिप्पडि विवाहत्तैच् चॆय्वित्तनर्.
अवबदिराजन् पॆण्णैयुम् उसिदप्पडि पण्डङ्गळैयुम् कॊडुत्तुविट्टु, मिक्क सन्दोषमुट्रवनाय्, तन् वीट्टै अडैन्दान्.
सत्यवानुम् सगल कुणङ्गळुम् पॊरुन्दिय सावित्रियै मनैवियाग अडैन्दु कळित्तान्. अवळुम् मनदिनाल् वेण्डिय भर्त्तावै अडैन्दु कळित्ताळ्. सावित्री तन् पिदा सॆण्ड्रबिऱगु तनदु आबरणङ्गळैक् कऴट्रिविट्टु मर उरिगळैयुम् काषाय वस्त्रत्तैयुम् क्रहित्तुक्कॊण्डाळ्.
पणिविडैगळालुम्, कुणङ्गळालुम्, वणक्कत्तालुम्, इन्दिरिय निक्रहत्तालुम् इष्टप्पडि ऎक्कार्यङ्गळैयुम् सॆय्वदालुम् ऎल्लोरुक्कुम् सन्दोषत्तैयळित्ताळ्.
मामियारुक्कुच् चरीर शुश्रूषैगळालुम्, आडैयळिप्पदु मुदलियवैगळालुम्, मामनारुक्कुत् तेवर्गळुक्कुप्पोल् उबसारङ्गळालुम्, सामर्त्यत्तालुम्, समत्तालुम् सन्दोषमळित्ताळ्.
एगान्दत्तिल् सॆय्यक्कूडिय उबसारत्ताल् भर्त्तावैयुम् सन्दोषिप्पित्ताळ्.
इव्विदम् अवर्गळ् अन्द आच्रमत्तिल् वसित्तुत् तबस् सॆय्युम् पॊऴुदु सिलगालम् सॆण्ड्रदु.
इरवुम् पगलुम् वाडुगिण्ड्र सावित्रिक्कु मट्टिल् नारदर् मुन् सॊल्लिय अन्द वार्त्तै मट्टिल् मनदिल् कुडिगॊण्डिरुक्किण्ड्रदु.
आरण्यबर्वत्तिल् सावित्रियिन् उबाक्यानत्तिल् ……अत्यायम् मुट्रुम्.
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच -
ततः काले बहुतिथे व्यतिक्रान्ते कदाचन ।
प्राप्तस्स कालो मर्तव्यं यत्र सस्यवता नृप ॥
गणयन्त्याश्च सावित्र्या दिवसे दिवसे गते ।
यद्वाक्यं नारदेनोक्तं वर्तते हृदि नित्यशः ॥
चतुर्थेऽहनि मर्तव्यमिति सञ्चित्य भामिनी ।
व्रतं त्रिरात्रमुद्दिश्य दिवारात्रं स्थिताऽभवत् ॥
तं श्रुत्वा नियमं तस्याः भृशं दुःखान्वितो नृपः ।
उत्थाय वाक्यं सावित्रीमब्रवीत् परिसान्त्वयन् ॥
द्युमत्सेन उवाच -
अतितीव्रोऽयमारम्भस्त्वयाऽऽरब्धो नृपात्मजे ।
तिसृणां वसतीनां हि स्थानं परमदुश्चरम् ॥
सावित्र्युवाच -
नकार्यस्तात सन्तापः पारयिष्याम्यहं व्रतम् ।
व्यवसायकृतं हीदं व्यवसायश्च कारणम् ॥

पिऱगु सिलगालम् सॆण्ड्रबिन्, ऒरु समयत्तिल्, ऎप्पॊऴुदु सत्यवान् मरिक्कवेण्डुमो, अक्कालम् समीबित्तदु.
ऒव्वॊरु नाळ् सॆण्ड्रदुम् इव्वळवु पाक्कि नाट्कळ् ऎण्ड्रु सावित्री ऎण्णिक्कॊण्डेयिरुन्दाळ्. नारदरिन् वाक्यमुम् मनदिलिरुन्दुगॊण्डे इरुन्ददु.
इण्ड्रिरुन्दु नान्गावदु नाळिल् सत्यवानिन् मरणगालमॆण्ड्रु ऎण्णिय सावित्री, अण्ड्रु मुदल् मूण्ड्रुनाळ् अनुष्टिक्कक्कूडिय व्रदत्तै आरम्बित्ताळ्. पगल् इरवु इरण्डु कालङ्गळिलुम् निण्ड्रुगॊण्डे नियमत्तुडनिरुन्दाळ्.
इवळुडैय नियमत्तैक् केट्टु, त्युमत्सेनन् मिगत्तुयरम् कॊण्डवनाय् ऎऴुन्दु सावित्रियै समादानप्पडुत्तिच् चॊल्लुगिऱान्.
त्युमत्सेरुन्:-
ओ राजगुमारी! मिगवुम् कॊडियदान इक्कार्यत्तै आरम्बित्तु विट्टाय्.
मूण्ड्रु नाळ् मुऴुवदुम् निऱ्पदॆन्बदु मिक्क कष्टत्ताल् अनुष्टिक्कक्कूडियदे.
सावित्री:-
पिदावे! सन्दाबत्तै यडैयवेण्डाम्. नान् इन्द व्रदत्तैच् चॆय्दुमुडिप्पेन्.
त्रुडनिच्चयत्ताल् इदु आरम्बिक्कप्पट्टदु. अन्द निच्चयमे मुडिप्पदऱ्कुम् कारणम्.
विश्वास-प्रस्तुतिः
द्युमत्सेन उवाच -
व्रतं भिन्धीति वक्तुं त्वां नास्मि शक्तः कथञ्चन ।
पारयस्वेति वचनं युक्तमस्मद्विधो वदेत् ॥
मार्कण्डेय उवाच -
एवमुक्त्वा द्युमत्सेनो विरराम महामनाः ।
तिष्ठन्ती चैव सावित्री काष्ठभूतेव लक्ष्यते ॥
श्वोभूते भर्तृमरणे सावित्र्या भरतर्षभ ।
दुःखान्वितायास्तिष्ठन्त्याः सा रात्रिर्व्यत्यवर्तत ॥
अद्य तद्दिवसं चेति हुत्वा दीप्तं हुताशनम् ।
युगमात्रोदिते सूर्ये कृत्वा पौर्वाह्णिकीः क्रियाः ॥
ततस्सर्वान् द्विजान् वृद्धान् श्वश्रूं श्वशुरमेव च ।
अभिवाद्यानुपूर्व्येण प्राञ्जलिर्नियता स्थिता ॥
अवैधव्याशिषस्ते तु सावित्र्यर्थं हिताः शुभाः ।
ऊचुस्तपस्विनस्सर्वे तपोवननिवासिनः ॥
एवमस्त्विति सावित्री द्ध्यानयोगपरायणा ।
मनसा ता गिरस्सर्वाः प्रत्यगृह्णात्तपस्विनाम् ॥
तं कालं तं मुहूर्तं च प्रतीक्षन्ती नृपात्मजा ।
यथोक्तं नारदवचः चिन्तयन्ती सुदुःखिता ॥
ततस्तु श्वश्रूश्वशुरावूचतुस्तां नृपात्मजाम् । एकान्तमास्थितां वाक्यं प्रीत्या भरतसत्तम ।

व्रदत्तै विट्टु विडु ऎण्ड्रु उन्नैच् चॊल्वदऱ्कु ऎव्विदत्तालुम् नान् सक्तनल्ल. ‘ऎप्पडियावदु वरदत्तै मुडिप्पायाग’ ऎण्ड्रुदान् ऎन्नैप् पोण्ड्रवन् सॊल्वान्.
मार्गण्डेयर्:-
विसालमनमुडैय त्युमत्सेनन् इव्विदम् सॊल्लि निऱुत्तिनान्. सावित्री निण्ड्रुगॊण्डे कट्टैबोल् निच्चलमाय्क् काणप्पट्टाळ्.
नाळैयदिनम् अन्दत् तिनम् ऎण्ड्रिरुक्क वॆगु तुक्कत्तुडन् सावित्रिक्कु अन्द इरवु सॆण्ड्रदु.
इण्ड्रु अन्दत् तिनम् ऎण्ड्रवुडन् कालैयिल् सावित्री होमम् सॆय्दु, सूर्यन् नुगत्तडि उयरम् सॆण्ड्रिरुक्कुम् पॊऴुदे कालैयिल् सॆय्यवेण्डिय नियमङ्गळै मुडित्तु, पॆरियोरान प्राम्हणर्गळैयुम्, मामियारैयुम्, मामनारैयुम्, क्रममाय् नमस्करित्तु, अञ्जलियुडन्, नियदैयाय् निण्ड्राळ्.
अन्दत्तबोवन वासिगळान ताबसर्गळ् ऎल्लोरुम्, सौमङ्गल्यगरङ्गळायुम्, हिदङ्गळायुम्, सुबङ्गळायुमुळ्ळ आसिर्वादङ्गळैच् चॆय्दार्गळ्.
त्यानत्तिलिरुन्द सावित्री, रुषिगळिन् आसिर्वादङ्गळै, इव्विदमे आगवेण्डु मॆण्ड्रु मनदाल् एट्रुक्कॊण्डाळ्.
अन्दक् कालत्तैयुम्, अन्द मुगूर्त्तत्तैयुम् प्रदीक्षित्त राजगुमारी नारदरिन् वाक्यत्तै निनैत्तु तुक्कत्तुडनिरुन्दाळ्.
एगान्दत्तिल् उट्कार्न्दुळ्ळ अवळै नोक्कि मामियार् मामनार् इरुवरुम् प्रीदियुडन् वरुमाऱु सॊन्नार्गळ्.
विश्वास-प्रस्तुतिः
श्वश्रूश्वशुरावूचतुः -
व्रतं यथोपदिष्टं यत्तथा तत्पारितं त्वया ।
आहारकालस्सम्प्राप्तः क्रियतां तदनन्तरम् ॥
सावित्र्युवाच -
अस्तङ्गते मयाऽऽदित्ये भोक्तव्यं कृतकाम्यया ।
एष मे हृदि सङ्कल्पः समयश्च कृतो मया ॥
मार्कण्डेय उवाच -
एवं सम्भाषमाणायाः सावित्र्या भोजनं प्रति ।
स्कन्धे परशुमाधाय सत्यवान् प्रस्थितो वनम् ॥
सावित्री प्राह भर्तारं नैकस्त्वं गन्तुमर्हसि ।
सह त्वयाऽऽगमिष्यामि न हि त्वां हातुमुत्सहे ॥

मामियार् मामनार्गळ् सॊल्वदु:-
नी सॊल्लियबडि व्रदत्तै मुडित्तु विट्टाय्. पोजन कालम् वन्दु विट्टदु. आगैयाल् इनि सॆय्यवेण्डियदैच् चॆय्यक्कडवाय्.
सावित्री:-
सूर्यन् अस्तमित्त पिऱगुदान् पुजिक्क वेण्डुम्. सिल कार्यम् सॆय्यवेण्डुम्.
इव्विदम् ऎन् मनदिल् सङ्गल्बम्. अव्विदमे सित्तान्दम् सॆय्दिरुक्किऱेन्.
मार्गण्डेयर्:-
पोजनत्तैप्पट्रि इव्विदम् सावित्री पेसिक्कॊण्डिरुक्कुम् पॊऴुदु, सत्यवान् कोडरियैत् तोळिल् वैत्तुक्कॊण्डु काट्टिऱ्कुप् पुऱप्पट्टान्.
सावित्री तन् भर्त्तावैप् पार्त्तु ‘नीर् तनियाय्प् पोगक् कूडादु; उम्मुडन् नानुम् वरुगिऱेन्. उम्मैत् तनियाय् विडुवदऱ्कु मनमिल्लै’ ऎण्ड्राळ्.
विश्वास-प्रस्तुतिः
सत्यवानुवाच -
वनं न गतपूर्वं ते दुःखः पन्थाश्च भामिनि ।
व्रतोपवासक्षामा च कथं पद्भ्यां गमिष्यसि ॥
सावित्र्युवाच -
उपवासान्न मे ग्लानिर्नास्ति चापि परिश्रमः ।
गमने च कृतोत्साहां प्रतिषेद्धुं न माऽर्हसि ॥
सत्यवानुवाच -
यदि ते गमनोत्साहः करिष्यामि तव प्रियम् ।
मम त्वामन्त्रय गुरून्न मां दोषः स्पृशेदयम् ॥

सत्यवान्:-
पॆण्णे! नी इदऱ्कुमुन् इन्दक् काट्टिऱ्कुच् चॆण्ड्रदिल्लै. वऴियुम् मिगक् कष्टमायुळ्ळदु.
नीयुम् उबवासत्ताल् मॆलिन्दिरुक्किऱाय्, ऎप्पडिक् काल्गळाल् सॆल्वाय्.
सावित्री:-
उबवासत्ताल् ऎनक्कुत् तळर्च्चियावदु, च्रममावदु इल्लै. काट्टिऱ्कुच् चॆल्वदिल् उत्साहमुळ्ळ ऎन्नै, ताङ्गळ् तडुक्कक् कूडादु.
सत्यवान्:-
उनक्कु उत्साहमिरुन्दाल् उन्निष्टप्पडि सॆय्गिऱेन्. ऎनदु मादा पिदाक्कळैक् केट्टुक्कॊळ्. इन्दत्तोषम् ऎन्नै अणुगादु.
विश्वास-प्रस्तुतिः
मार्कण्डेयः -
साऽभिवाद्याब्रवीत् श्वश्रूं श्वशुरं च महाव्रता ।
अयं गच्छति मे भर्ता फलाहारो महावनम् ॥
इच्छेयमभ्यनुज्ञाता आर्यया श्वशुरेण ह ।
अनेन सह निर्गन्तुं न मेऽद्य विरहः क्षमः ॥
गुर्वग्निहोत्रार्थकृते प्रस्थितश्च सुतस्तव ।
न निवार्यो निवार्यस्स्यादन्यथा प्रस्थितो वनम् ॥
संवत्सरः किञ्चिदूनो न निष्क्रान्ताऽहमाश्रमात् ।
वनं कुसुमितं द्रष्टुं परं कौतूहलं हि मे ॥
द्युमत्सेन उवाच -
यतःप्रभृति सावित्री पित्रा दत्ता स्नुषा मम ।
नानयाऽभ्यर्थनायुक्तमुक्तपूर्वं स्मराम्यहम् ॥
तदेषा लभतां कामं यथाभिलषितं वधूः ।
अप्रमादश्च कर्तव्यः पुत्रि सत्यवतः पथि ॥

अवळ् मामियार् मामनार्गळै नमस्करित्तु,‘इदो ऎन् भर्त्ता पऴङ्गळ् कॊण्डु वरुवदऱ्कु अरण्यम् सॆल्लुगिऱार्.
उङ्गळिरुवरिन् उत्तरवैप् पॆट्रु, इवरुडन् कूडच्चॆल्ल विरुम्बुगिऱेन्. इवरैप् पिरिन्दिरुप्पदु इप्पॊऴुदु ऎनक्कु उसिदमल्ल.
उम्मुडैय पुत्रन् पिदाविन् अक्निहोत्रत्तिऱ्कागप् पुऱप्पट्टिरुप्पदाल् अवरैत् तडुक्कक्कूडादु. वेऱु कार्यत्तिऱ्कानाल् तडुक्कलाम्.
नान् इन्द आच्रमत्तिऱ्कु वन्दबिऱगु, कॊञ्जम् कुऱैन्द ऒरु वर्षगालमागिऱदु.
नान् इन्द आच्रमत्तैविट्टु वॆळियिऱ् चॆण्ड्रदिल्लै. पुष्पित्तुळ्ळ इन्द अरण्यत्तैक्काण ऎनक्कु मिग आसै इरुक्किऱदु’ ऎण्ड्राळ्.
त्युमत्सेनन्:-
सावित्री ऎप्पॊऴुदु अवळ् पिदाविनाल् ऎनक्कु नाट्टुप्पॆण्णाय्क् कॊडुक्कप्पट्टाळो, अदु मुदल् इदु वरैयिल् इवळ् ऒण्ड्रैयुम् वेण्डिक्केट्टुक् कॊण्डदाय्त् तॆरियविल्लै. आगैयाल् इवळ् इष्टप्पडि आसैयै यडैयलाम्. ऒ पॆण्णे! सत्यवानिन् वऴियिल् कवनत्तुडनिरुक्क वेण्डुम्.
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच -
उभाभ्यामभ्यनुज्ञाता सा जगाम यशस्विनी ।
सह भर्त्रा हसन्तीव हृदयेन विदूयता ॥
सा वनानि विचित्राणि रमणीयानि सर्वशः ।
मयूरगणजुष्टानि ददर्श विपुलेक्षणा ॥
नदीः पुण्यावहाश्चैव पुष्पितांश्च नगोत्तमान् ।
सत्यवानाह पश्येति सावित्रीं मधुरं वचः ॥
निरीक्षमाणा भर्तारं सर्वावस्थमनिन्दिता ।
मृतमेव हि भर्तारं काले मुनिवचोऽस्मरत् ॥
अनुव्रजन्ती भर्तारं जगाम मृदु कामिनी ।
द्विधेव हृदयं कृत्वा तं च कालमवेक्षती ।
इति ……… अध्यायः ॥

अव्विरुवर्गळालुम् उत्तरवळिक्कप्पट्ट अन्द सावित्री, सिरित्तवळ्बोल्, परिदबित्त मनदुडन् कणवनुडन् सॆण्ड्राळ्.
अवळ् विसित्रङ्गळुम्, रमणीयङ्गळुम्, मयिल्गूट्टङ्गळाल् सेविक्कप्पट्टवैगळुमान अरण्यङ्गळै मलर्न्द कण्गळाल् कण्डाळ्.
पुण्यप्रवाहङ्गळुळ्ळ नदिगळैयुम्, पुष्पङ्गळुळ्ळ सिऱन्द व्रुक्षङ्गळैयुम् पारॆण्ड्रु सत्यवान् सावित्रियै नोक्कि मदुरमाय् वार्त्तैयैच् चॊन्नान्.
पऴिप्पट्र सावित्री, भर्त्तावैप् पार्त्तुक्कॊण्डु सॆण्ड्राळ्. नारदरिन् वाक्यत्तैये अडिक्कडि स्मरित्ताळ्.
भर्त्तावै इऱन्दवनागवे निनैत्ताळ्. मॆदुवाय् नडन्दु भर्त्तावै अनुसरित्तुच् चॆण्ड्राळ्.
अन्दक् कालत्तै ऎदिर्बार्त्तवळाय् इरण्डुविदमाय् मनदैत् तरित्ताळ.
आरण्यबर्वत्तिल् सावित्रियिनुबाक्यानत्तिल्….. अत्यायम् मुट्रुम्.
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच -
अथ भार्यासहायस्तु फलान्यादाय वीर्यवान् ।
कठिनं पूरयामास ततः काष्ठान्यपाटयत् ॥
तस्य पाटयतः काष्ठं स्वेदो वै समजायत ।
व्यायामेन च तेनास्य जज्ञे शिरसि वेदना ॥
सोऽभिगम्य प्रियां भार्यामुवाच श्रमपीडितः ॥
सत्यवानुवाच -
व्यायामेन ममानेन जाता शिरसि वेदना ।
अङ्गानि चैव सावित्रि हृदयं दूयतीव मे ॥
अस्वस्थमिव चात्मानं लक्षये मितभाषिणि ।
शूलैरिव शिरोविद्धमिदं संलक्षयाम्यहम् ॥
तत् स्वप्तुमिच्छे कल्याणि न स्थातुं शक्तिरस्ति मे ॥
सा समासाद्य सावित्री भर्तारमुपगम्य च ।
उत्सङ्गेऽस्य शिरः कृत्वा निषसाद महीतले ॥
ततस्सा नारदवचो विमृशन्ती तपस्विनी ।
तं मुहूर्तं क्षणं वेलां दिवसं च युयोज ह ॥
मुहूर्तादेव चापश्यत् पुरुषं रक्तवाससम् ।
बद्धमौलिं वपुष्मन्तमादित्यसमतेजसम् ॥
श्यामावदातं रक्ताक्षं पाशहस्तं भयावहम् ।
स्थितं सत्यवतः पार्श्वे निरीक्षन्तं तमेव च ॥
तं दृष्ट्वा सहसोत्थाय भर्तुर्न्यस्य शनैश्शिरः ।
कृताञ्जलिरुवाचार्ता हृदयेन प्रवेपती ॥

पिऱगु, पार्यैयुडन् कूडिय सत्यवान् पऴङ्गळै क्रहित्तुक्कूडैयै निरप्पिनान्.
पिऱगु विऱगुगळै ऒडित्तान्. विऱगै ऒडिक्कुमवनुक्कु वेर्वै उण्डायिट्रु.
अन्द च्रमत्ताल् तलैयिलुम् वेदनै उण्डायिट्रु. अवन् च्रमत्ताल् वरुन्दियवनाय्प् पार्यैयिनिडम् वन्दु इव्विदम् सॊन्नान्.
सत्यवान्:-
इन्द वेलैयिनाल् ऎनक्कुत् तलैयिल् वलि उण्डागियिरुक्किण्ड्रदु. ऎन् अङ्गङ्गळ् तळर्गिण्ड्रन.
ह्रुदयमुम् परिदबिक्किण्ड्रदु. मिदमाय्प् पेसुबवळे! ऎन्नै अस्वस्तनाय् निनैक्किण्ड्रेन्.
पल सूलायुदङ्गळाल् अडिक्कप् पट्टदु पोल् ऎन् सिरस्सै निनैक्किण्ड्रेन्.
आगैयाल् तूङ्गुवदऱ्कु निनैक्किण्ड्रेन्. निऱ्पदऱ्कु ऎनक्कुच् चक्तियिल्लै
ऎण्ड्रान्.
अन्द सावित्री भर्त्ताविन् अरुगिल् वन्दु, उट्कार्न्दु अवन् तलैयै तन् मडियिल् वैत्तुक्कॊण्डु, पूमियिल् उट्कार्न्दाळ्.
नारदर् सॊल्लिय कालत्तै निनैत्तुक् कणक्किट्टाळ्. अन्द नाळ्, अन्द मुहुर्त्तम्, अन्द क्षणमुम् इदुदानॆण्ड्रु अऱिन्दाळ्.
मुहुर्त्त कालत्तिऱ्कुळ्ळागवे, सिवन्द वस्त्रमुडैयवनुम्, किरीडमुळ्ळवनुम्, पॆरिय शरीरमुडैयवनुम्, सूर्यन् पोल् तेजस्सुडैयवनुम्, कऱुप्पु वर्णमुळ्ळवनुम्, सिवन्द कण्गळुडैयवनुम् पासम् तरित्तवनुम्, पयङ्गरनुम्, सत्यवानिन् पक्कत्तिल् निऱ्पवनुम्, अवनैये पार्प्पवनुमान ऒरु पुरुषनैक् कण्डाळ्.
अवनैक् कण्डु उडने ऎऴुन्दिरुन्दु भर्त्ताविन् सिरस्सै मॆदुवाय्प् पूमियिल् वैत्तुविट्टु, अञ्जलि सॆय्दवळाय्, तुडित्त मार्बुडैयवळाय् सॊल्लुगिऱाळ्.
विश्वास-प्रस्तुतिः
सावित्र्युवाच -
दैवतं त्वाऽभिजानामि वपुरेतद्ध्यमानुषम् ।
कामया ब्रूहि देवेश कस्त्वं किञ्च चिकीर्षसि ॥
यम उवाच -
पतिव्रताऽसि सावित्रि तथैव च तपोन्विता ।
अतस्त्वामभिभाषामि विद्धि मां त्वं शुभे यमम् ॥
अयं ते सत्यवान् भर्ता क्षीणायुः पार्थिवात्मजः ।
नेष्यामि तमहं बद्ध्वा विद्ध्येतन्मे चिकीर्षितम् ॥

ऒ तेवेस! उम्मैत् तेवनॆण्ड्रु निनैक्किऱेन्. उमदु तेहम् मनिदरुडैयदल्लाददायिरुक्किऱदु. नीर् यार्? ऎन्न ऎण्णत्ताल् वन्दीर्? ऎन्न सॆय्य विरुम्बुगिऱीर्?
यमन् सॊल्लुगिऱान्:-
सावित्री ! नी पदिव्रदैयायुम्, तबस्सुडन् कूडियवळायुमिरुक्किण्ड्राय्.
सुबे! आगैयाल् ऎन्नै यमन् ऎण्ड्रु अऱिवायाग. राजगुमारनुम्, उन् भर्त्तावुमागिय इन्द सत्यवान् आयुळ् कुऱैन्दवनायिनान्.
नान् अवनैक् कट्टिक् कॊण्डुबोगप्पोगिऱेन्. इदुदान् नान् सॆय्य विरुम्बियदॆण्ड्रु अऱिवाय्.
विश्वास-प्रस्तुतिः
सावित्र्युवाच -
श्रूयते भगवन् दूतास्तवागच्छन्ति मानुषात् ।
नेतुं किन्तु भवान् कस्मादागतोऽस्ति स्वयं प्रभो ॥
मार्कण्डेय उवाच -
इत्युक्तः पितृराजस्तां भगवान् स्वं चिकीर्षितम् ।
यथावत् सर्वमाख्यातुं तत्प्रियार्थं प्रचक्रमे ॥
यम उवाच -
अयं च धर्मसंयुक्तो रूपवान् गुणसागरः ।
नार्हो मत्पुरुषैर्नेतुमतोऽस्मि स्वयमागतः ॥

ऒ पगवन्! प्रबुवे! मनिदर्गळैक् कॊण्डु पोवदऱ्कु उम्मुडैय तूदर्गळ् वरुगिऱार्गळ् ऎण्ड्रु केट्कप् पडुगिऱदे. आनाल्, नीर् तामागवे इङ्गु वन्ददेन्?
मार्गण्डेयर्:-
इव्विदम् सावित्रियाल् सॊल्लप्पट्ट धर्मराजन् अवळिन् प्रीदिक्कागत् ताम् सॆय्य विरुम्बियदु मुऴुवदैयुम् सॊल्लवारम्बित्तार्.
यमन्:-
इन्द सत्यवान् धर्मिष्टन्, रूबमुडैयवन्, नऱ्कुणङ्गळुक्कुक् कडल्बोण्ड्रवन्, आगैयाल् इवनैक् कॊण्डुबोवदऱ्कु ऎनदु तूदर्गळ् अर्हरल्लर्. आगैयाल् नान् तानाग वन्देन्.
विश्वास-प्रस्तुतिः
मार्कण्डेयः -
ततस्सत्यवतः कायात् पाशबद्धं च सङ्गतम् ।
अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् ॥
ततस्समुद्धृतप्राणं गतश्वासं हतप्रभम् ।
निर्विचेष्टं शरीरं तत् बभूवाप्रियदर्शनम् ॥
यमस्तु तं ततो बद्ध्वा प्रयातो दक्षिणामुखः ।
सावित्री चैव दुःखार्ता यममेवान्वगच्छत ॥
नियमव्रतसंसिद्धा महाभागा यतव्रता ॥

ऎण्ड्रु सॊल्लिविट्टु, सत्यवानिन् उडलिनिण्ड्रुम्, पासत्ताल् कट्टुप्पट्टुच् चेर्न्दुळ्ळ, कट्टै विरल् प्रमाणमुळ्ळ पुरुषनै यमन् इऴुत्तान्.
पिऱगु प्राणनट्रदुम्, च्वासमट्रदुम्, कान्दि कुऱैन्ददुम्, असैवट्रदुमान अन्दच् चरीरम् पार्प्पदऱ्कु अप्रियमाय् आगियदु.
यमनो, अवनैक् कट्टि ऎडुत्तुक्कॊण्डु, तॆऱ्कु मुगमाय्प् पुऱप्पट्टान्.
नियमङ्गळुडन् व्रदमनुष्टित्तु, सित्ति पॆट्र महा माहात्म्यमुळ्ळ सावित्रियुम् तुक्कत्ताल् वरुन्दियवळाय् यमनैये तॊडर्न्दु सॆण्ड्राळ्.
विश्वास-प्रस्तुतिः
यम उवाच -
निवर्त गच्छ सावित्रि कुरुष्वास्यौर्ध्वदैहिकम् ।
कृतं भर्तुस्त्वयाऽऽनृण्यं यावद्गम्यं गतं त्वया ॥
सावित्र्युवाच -
यत्र मे नीयते भर्ता स्वयं वा यत्र गच्छति ।
मया च तत्र गन्तव्यमेष धर्मस्सनातनः ॥
तपसा गुरुभक्त्या च भर्तुः स्नेहाद्व्रतेन च ।
तव चैव प्रसादेन न मे प्रतिहता गतिः ॥
प्राहुस्साप्तपदं मैत्रं बुधास्तत्वार्थदर्शिनः ।
मित्रतां च पुरस्कृत्य किञ्चिद्वक्ष्यामि तच्छृणु ॥
नानात्मवन्तस्तु वने चरन्ति धर्मं च वासं च परिश्रमं च ।
विज्ञानतो धर्ममुदाहरन्ति तस्मात्सन्तो धर्ममाहुः प्रधानम् ॥
एकस्य धर्मेण सतां मतेन सर्वे स्म तं मार्गमनुप्रपन्नाः ।
मा वै द्वितीयं मा तृतीयं च वाञ्छेत्
तस्मात् सन्तो धर्ममाहुः प्रधानम् ॥
यम उवाच -
निवर्त तुष्टोऽस्मि तवानया गिरा स्वराक्षरव्यञ्जनहेतुयुक्तया ।
वरं वृणीष्वेह विनाऽस्य जीवितं ददामि ते सर्वमनिन्दिते वरम् ॥
सावित्र्युवाच –
च्युतः स्वरराष्ट्राद्वनवासमाश्रितो विनष्टचक्षुः श्वशुरो ममाश्रमे ।
स लब्धचक्षुर्बलवान् भवेन्नृपस्तव प्रसादात् ज्वलनार्कसन्निभः ॥

सावित्री! तिरुम्बिच्चॆल्. इवनुक्कु प्रेद क्रियैयैच् चॆय्. भर्त्तावुक्कुक् कडनट्रवळागिनाय्, नी सॆल्लक्कूडियवरैयिल् तॊडर्न्दु सॆण्ड्रुविट्टाय्.
सावित्री:-
ऎनदु भर्त्ता उम्माल् ऎव्विडत्तिऱ्कुक् कॊण्डुबोगप्पडुगिण्ड्रारो, अल्लदु तामाग ऎव्विडम् सॆल्गिण्ड्रारो, अङ्गु नानुम् सॆल्लवेण्डुम्.
इदु सनादन धर्मम्. ऎनदु तबस्सालुम्, कुरुबक्तियालुम्, भर्तृ पक्तियालुम्, नियमत्तालुम्, ऎनदु नडै तडैयडैयविल्लै.
उण्मैयऱिन्दुळ्ळ वित्वान्गळ् सक्यत्तै ‘साप्तबदम्’ ऎन्गिण्ड्रनर् (एऴु पदङ्गळ् पेसियवनुम् मित्रनाम्.)
आगैयाल् उम्मिडम् मित्रबावत्तै मुन्निट्टुक् कॊञ्जम् सॊल्लुगिऱेन्. अदैक् केट्कवेण्डुम्. इन्द्रियङ्गळै जयिक्कादवर्गळ् वनत्तिल् यक्ञादि रूबमान धर्मत्तै अनुष्टिप्पदिल्लै.
जिदेन्द्रियर्गळे वनत्तिलावदु, क्रामत्तिलावदु यक्ञादि धर्मङ्गळै अनुष्टिक्किण्ड्रनर्. (क्रुहस्तरुम्, वानप्रस्तरुम्) कुरुगुल वासत्तैयुम्, परिच्रमत्तैयुम् (सन्यासत्तैयुम्) आत्मविक्ञानत्तिऱ्कागवॆण्ड्रु सादुक्कळ् सॊल्लुगिण्ड्रनर्.
आगैयाल् धर्मत्तैये प्रधान मॆन्गिण्ड्रनर्.
इन्द मूण्ड्रु (प्रम्हसर्यम्, कार्हस्त्यम्, वानप्रस्त्यम्) आच्रमङ्गळुळ्, ओर् आच्रमत्तिन् धर्मत्तै सादुक्कळ् मदिक्कुम्बडि अनुष्टिप्पदाल्, ऎल्ला आच्रमिगळुम् अन्द क्ञानमार्गत्तै अडैन्दवरागिण्ड्रोम्.
आगैयाल् ऎन्नैप् पोण्ड्रवळ् (अक्निसात्यमान कर्मङ्गळैच् चॆय्बवळ्, इरण्डावदान नैष्टिग धर्मत्तैयो, मूण्ड्रावदागिय सन्यासत्तैयो विरुम्बमाट्टाळ्.
आगैयाल् सादुक्कळ् क्रुहस्त धर्मत्तैये प्रधानमॆन्गिण्ड्रनर्.
यमन्:-
सावित्री! तिरुम्बिच्चॆल्. स्वरम्, अक्षरम्, व्यञ्जनम् इवैगळुडन् कूडिय उनदु इन्द वाक्यत्ताल् सन्दुष्टनागिनेन्. सत्यवानिन् उयिरैत् तविर वेऱु वरनैक् केट्टुक्कॊळ्. ऎदुवायिनुम् तरुगिऱेन्.
सावित्री:-
तम् राज्यत्तै इऴन्दु वनवासत्तैयेट्रु, कण्णिऴन्द ऎन् मामनार् आच्रमत्तिलिरुक्किऱार्, अवर् कण्गळै यडैन्दवरुम्, पलमुळ्ळवरुम्, अक्निक्कुम् सूर्यनुक्कुम् समनागियवरुमाय् उमदु अनुग्रहत्ताल् आगवेण्डुम्.
विश्वास-प्रस्तुतिः
यम उवाच -
ददामि तेऽहं तमनिन्दिते वरं यथा त्वयोक्तं भविता च तत्तथा ।
तवाध्वना ग्लानिमिवोपलक्षये निवर्त गच्छस्व न ते श्रमो भवेत् ॥
सावित्र्युवाच -
श्रमः कुतो भर्तृसमीपतो हि मे यतो हि भर्ता मम सा गतिर्ध्रुवा ।
यतः पतिं नेष्यसि तत्र मे गतिः सुरेश भूयश्च वचो निबोध मे ॥
सतां सकृत् सङ्गतमीप्सितं परं ततः परं मित्रमिति प्रचक्षते ।
न चापलं सत्पुरुषेण सङ्गतं ततस्सतां सन्निवसेत् समागमे ॥

पमन्:-
पऴिप्पट्रवळे! अन्द वरनै उनक्कुक्कॊडुत्तेन्. ऎव्विदम् नी सॊन्नायो अदु अप्पडिये आगुम्.
वऴि नडन्ददाल् उनक्कु वाट्टमिरुप्पदाय् ऊहिक्किऱेन्. तिरुम्बिच्चॆल्. उनक्कु च्रमम् उण्डाग वेण्डाम्.
सावित्री:-
भर्त्ताविन् समीबत्तिलुळ्ळ ऎनक्कु च्रमम् एदु? भर्त्ता ऎङ्गिरुक्किऱारो अङ्गुच् चॆल्वदे निच्चिदमानदु.
ऎन् पदियै ऎव्विडत्तिऱ्कुक् कॊण्डुसॆल्लुगिऱीरो अङ्गेदान् नान् सॆल्वेन्.
ऒ तेवेस! मऱुबडि नान् सॊल्वदैक् कवनिक्कवेण्डुम्. सादुक्कळुडन् ऒरु मुऱै सेर्वदुम् सिऱन्ददॆन वेण्डप्पट्टुळ्ळदु.
ऒरु मुऱै पऴगियवनैयुम् अवर्गळ् मित्रनॆन्गिण्ड्रनर्. सादुक्कळिन् समागमम् ऒरु नाळुम् अगलुवदिल्लै.
आगैयाल् सादुक्कळिन् समीबत्तिल् वसिक्कवेण्डुम्. (उमदु मैत्री वीणागादॆण्ड्रबडि.)
विश्वास-प्रस्तुतिः
यम उवाच -
मनोनुकूलं बुधबुद्धिवर्द्धनं त्वया यदुक्तं वचनं हिताश्रयम् ।
विना पुनस्सत्यवतोऽस्य जीवितं वरं द्वितीयं वरयस्व भामिनि ॥
सावित्र्युवाच -
हृतं पुरा मे श्वशुरस्य धीमतः स्वमेव राज्यं लभतां स पार्थिवः ।
जह्यात् स्वधर्मान्न च मे गुरुर्यथा द्वितीयमेतं वरयामि ते वरम् ॥
यम उवाच -
स्वमेव राज्यं प्रतिपत्स्यतेऽचिरात् न च स्वधर्मात् परिहास्यते नृपः ।
कृतेन कामेन मया नृपात्मजे निवर्त गच्छस्व न ते श्रमो भवेत् ॥
सावित्र्युवाच -
प्रजास्त्वयैता नियमेन संयता नियम्य चैता नियमेन काम्यया । ततो यमत्वं तव देव विश्रुतं निबोध चेमां गिरमीरितां मया ॥
अद्रोहस्सर्वभूतेषु कर्मणा मनसा गिरा ।
अनुग्रहश्च दानं च सतां धर्मस्सनातनः ॥
एवम्प्रायश्च लोकोऽयं मनुष्या शक्तिकौशलाः ।
सन्तस्त्वेवाप्यमित्रेषु दयां प्राप्तेषु कुर्वते ॥

पॆण्णे ! नी पेसिय वार्त्तै मनदिऱ्कु अनुगूलमायुम् वित्वानुक्कुम् नऱ्पुत्तियै व्रुत्ति सॆय्वदायुम्, हिदम् सॆय्वदायुमुळ्ळदु. आगैयाल् सत्यवानिन् उयिरैत् तविर वेऱु वरनै मऱुबडि वरिप्पायाग.
सावित्री:-
पुत्तिमानागिय ऎनदु मामनारिन् राज्यम् मुन्बु सत्रुवाल् अबहरिक्कप्पट्टदु. अव्वरसर् तमदु राज्यत्तै अडैयवेण्डुम्. अवर् तमदु धर्मङ्गळै विडामलिरुक्कवेण्डुम्. इदै इरण्डावदु वरनाग उम्मिडमिरुन्दु वरिक्किण्ड्रेन्.
यमन्:-
ऒ राजबुत्री! अरसन् सीक्रत्तिल् तनदु राज्यत्तै अडैयप्पोगिऱान्. तनदु धर्मत्तिनिण्ड्रुम् नऴुवमाट्टान्. उन् आसैयैप् पूर्त्ति सॆय्देन्. इत्तुडन् नी तिरुम्बिच्चॆल्. उनक्कु च्रमम् उण्डागवेण्डाम्.
सावित्री:-
उलगत्तिल् काणप्पडुम् आत्मक्ञानमट्र इन्द प्रजैगळै ऎल्लाम् तण्डनैयाल् कट्टुप्पडुत्तुगिण्ड्रीर्.
पिऱगु अवर्गळुक्कुक् कर्मबलत्तैयुमळिक्किण्ड्रीर्. आगैयाल् उमक्कु यमन् ऎण्ड्र सप्तम् पिरसित्तमायुळ्ळदु.
हे तेव! नान् सॊल्लप्पोगुम् इन्द वार्त्तैयैक् कवनिक्क वेण्डुम्. सगल प्राणिगळिडमुम् मनम्, वाक्कु, कायम् इवैगळाल् तीङ्गु सॆय्यादिरुत्तल्, अनुग्रहम्, (तयै) तानम् इवैगळ् सादुक्कळिन् सनादनमान धर्ममागुम्.
आगैयाल् नीर् ऎन्निडम् तयै सॆय्युम्. इव्वुलगमुम् पॆरुम्बान्मैयिल् इव्विदमागवे इरुक्किऱदु.
मनिदर्गळ् सक्ति, कौसलमिवै यट्रवर्गळ्. सादुक्कळो, तम्मिडम् वन्दवर्गळ् (सरणागदर्गळ्) सत्रुक्कळायिनुम् अवरिडम् करुणैयैच् चॆय्गिण्ड्रनर्.
विश्वास-प्रस्तुतिः
यम उवाच -
पिपासितस्येव भवेद्यथा पयः तथा त्वया वाक्यमिदं समीरितम् ।
विना पुनस्सत्यवतोऽस्य जीवितं वरं वृणीष्वेह शुभे यदिच्छसि ॥
सावित्र्युवाच -
ममानपत्यः पृथिवीपतिः पिता भवेत् पितुः पुत्रशतं तथौरसम् ।
कुलस्य सन्तानकरं च यद्भवेत् तृतीयमेतद्वरयामि ते वरम् ॥
यम उवाच -
कुलस्य सन्तानकरं सुवर्चसं शतं सुतानां पितुरस्तु ते शुभे । कृतेन कामेन नराधिपात्मजे निवर्त दूरं हि पथस्त्वमागता ॥
सावित्र्युवाच -
न दूरमेतन्मम भर्तृसन्निधौ मनो हि मे दूरतरं प्रधावति ।
अथ व्रजन्नेव गिरं समुद्यतां मयोच्यमानां शृणु भूय एव च ॥
विवस्वतस्त्वं तनयः प्रतापवान् ततो हि वैवस्वत उच्यसे बुधैः ।
समेन धर्मेण च रञ्जिताः प्रजाः ततस्तवेहेश्वर धर्मराजता ॥
आत्मन्यपि न विश्वासस्तथा भवति सत्सु यः ॥
तस्मात् सत्सु विशेषेण सर्वः प्रणयमिच्छति ।
सौहृदात् सर्वभूतानां विश्वासो नाम जायते ।
तस्मात् सत्सु विशेषेण विश्वासं कुरुते जनः ॥

मङ्गळे! नी सॊल्लिय इन्द वार्त्तै तागमुळ्ळवनुक्कु जलम् पोल् उळ्ळदु. इन्द सत्यवानिन् उयिरैत् तविर इष्टमान वरनैक् केट्टुक्कॊळ्.
सावित्री:-
ऎनदु पिदावुक्कुप् पुत्रनिल्लै. अवरुक्कु नूऱु पुत्रर्गळ् ऒळरसर्गळाग उण्डागवेण्डुम्.
अवर्गळ् कुलत्तै व्रुत्ति सॆय्गिण्ड्रवर्गळा यिरुक्कवेण्डुम्. इदै मूण्ड्रावदु वरनाय् उम्मिडमिरुन्दु वरिक्किऱेन्.
यमन्:-
ओ राजबुत्री! कुलत्तै व्रुत्ति सॆय्बवरुम्, तेजस्सुडैयवरुमान नूऱु पिळ्ळैगळ् उन् पिदावुक्कु उण्डावार्गळ्. पूर्णमान कामत्तुडन् नी तिरुम्बिच्चॆल्. वऴियिलिरुन्दु वॆगुदूरम् वन्दुविट्टाय्.
सावित्री:
ऎनदु भर्त्ताविन् सन्निदियिल् इदु तूरमल्ल. ऎनदु मनम् वॆगु तूरम् ओडुगिऱदु.
नीर् सॆण्ड्रु कॊण्डे नान् मऱुबडि सॊल्लुम् वार्त्तैयैक् केट्क वेण्डुम्.
नीर् विवस्वानॆनुम् सूर्यनिन्, वीरनान पुत्रन्. आगैयाल् अऱिन्दवर्गळ् उम्मै वैवस्वदन् ऎन्गिऱार्गळ्.
सममान धर्मत्तिनाल् (आळ्गैयिनाल्) नीर् प्रजैगळै सन्दोषिक्कच् चॆय्गिऱीर्.
आगैयाल् उमक्कुत् धर्मराजन् ऎन्नुम् नामदेयमुळदु. सादुक्कळिडत्तिल् ऎव्वळवु नम्बिक्कैयो अव्वळवु नम्बिक्कै तन्निडत्तिलुम् उण्डावदिल्लै.
आगैयाल्दान् ऎवनुम् सादुक्कळिडम् स्नेहत्तै विरुम्बुगिऱान्. ऎल्ला प्राणिगळिडमुम् स्नेहमिरुप्पदाल् नम्बिक्कै उण्डागिऱदु. आगैयाल् जनङ्गळ् सादुक्कळिडम् अदिगमाय् नम्बिक्कैयैच् चॆय्गिऱार्गळ्.
विश्वास-प्रस्तुतिः
यम उवाच -
उदाहृतं ते वचनं यदङ्गने शुभे न तादृक् त्वदृते श्रुतं मया ।
अनेन तुष्टोऽस्मि विनाऽस्य जीवितं वरं चतुर्थं वरयस्व गच्छ च ॥
सावित्र्युवाच -
ममात्मजं सत्यवतस्तथौरसं भवेदुभाभ्यामिह यत्कुलोद्वहम् ।
शतं सुतानां बलवीर्यशालिनामिमं चतुर्थं वरयामि ते वरम् ॥
यम उवाच -
शतं सुतानां बलवीर्यशालिनां भविष्यति प्रीतिकरं तवाबले ।
परिश्रमस्ते न भवेन्नृपात्मजे निवर्त दूरं हि पथस्त्वमागता ॥
सावित्र्युवाच -
सतां सदा शाश्वतधर्मवृत्तिः सन्तो न सीदन्ति न च व्यथन्ति ।
सतां सद्भिर्नाफलस्सङ्गमोऽस्ति सद्भ्यो भयं नानुवर्तन्ति सन्तः ॥
सन्तो हि सत्येन नयन्ति सूर्यं सन्तो हि भूमिं तपसा धारयन्ति ।
सन्तो गतिर्भूतभव्यस्य राजन् सतां मद्ध्ये नावसीदन्ति सन्तः ॥
आर्यजुष्टमिदं वृत्तमिति विज्ञाय शाश्वतम् ।
सन्तः परार्थं कुर्वाणा नावेक्षन्ति परस्परम् ॥
न च प्रसादस्सत्पुरुषेषु मोघो न चाप्यर्थो नश्यति नापि मानः ।
यस्मादेतन्नियतं सत्सु नित्यं तस्मात् सन्तो रक्षितारो भवन्ति ॥

पॆण्णे! नी ऎव्विदमान वार्त्तैयैच् चॊन्नायो अव्विद वार्त्तैयै, उन्नैत्तविर्त्तु मट्रवरिडमिरुन्दु केट्कविल्लै.
इदनाल् सन्दुष्टनागिऱेन्. सत्यवानिन् उयिरैत् तविर मट्रदै नान्गावदु वरनाय् वरित्तुक्कॊळ्. तिरुम्बिच्चॆल्.
सावित्री-
ऎन् वयिट्रिल् पिऱन्दवर्गळुम्, सत्यवानुक्कु औरसर्गळुम्, ऎङ्गळ् कुलत्तै व्रुत्ति सॆय्बवर्गळुम्, पल वीर्यङ्गळ् मिगुन्दवर्गळुमान नूऱु पुत्रर्गळ् उण्डाग वेण्डुम्. इदै नान्गावदु वानाय् उम्मिडमिरुन्दु वेण्डुगिऱेन्.
यमन्:-
ओ पॆण्णे! पल वीर्यसालिगळायुम् उनक्कु सन्दोषगरर्गळुमान नूऱु पुत्रर्गळ् उण्डावार्गळ्.
राजगुमारी! उनक्कु च्रमम् वेण्डाम्. तिरुम्बिच्चॆल्. वऴियिल् वॆगुदूरम् नी वन्दुविट्टाय्.
सावित्री:-
सादुक्कळुक्कु ऎप्पॊऴुदुम् सनादन धर्मत्तिलेये निलैयुळ्ळदु. (पदियिनिडमिरुन्दे नान् पुत्रर्गळैप् पॆऱवेण्डुम्.) सादुक्कळ् वरनैक् कॊडुत्त पिऱगु वरुन्दमाट्टार्गळ्.
सळैक्कवुम् माट्टार्गळ्. (नीर् वरुन्दामल् वरनै निऱैवेट्र वेण्डुम्.) सादुक्कळुक्कु सादुक्कळुडन् सेर्क्कै वीणागादु.
सादुक्कळ् सादुक्कळिडमिरुन्दु पयत्तै अडैय माट्टार्गळ्. सादुक्कळ् सत्यत्ताल् सूर्यनै नडत्तुगिण्ड्रनर्.
सादुक्कळ् तबस्सिनाल् पूमियैत् तरिक्किण्ड्रनर्. इरुप्पदुम् उण्डागप् पोवदुमानवैक्कुम् सादुक्कळे कदियागिण्ड्रनर्.
सादुक्कळ् सादुक्कळिन् नडुविल् वरुन्दुवदिल्लै. इन्दच् चाच्वदमान
विश्वास-प्रस्तुतिः
यम उवाच -
यथा यथा भाषसि धर्मसंहितं मनोनुकूलं सुपदं महार्थवत् ।
तथा तथा मे त्वयि भक्तिरुत्तमा वरं वृणीष्वाप्रतिमं पतिव्रते ॥
सावित्र्युवाच -
न तेऽपवर्गस्सुकृताद्विना कृतः तथा यथाऽन्येषु वरेषु मानद । वरं वृणे जीवतु सत्यवानयं यथा मृता ह्येवमहं पतिं विना ॥
न कामये भर्तृविनाकृता सुखं न कामये भर्तृविनाकृता दिवम् ।
न कामये भर्तृविनाकृता श्रियं न भर्तृहीना व्यवसामि जीवितुम् ॥
वरातिसर्गश्शतपुत्रता मम त्वयैव दत्तो ह्रियते च मे पतिः ।
वरं वृणे जीवतु सत्यवानयं तथैव सत्यं वचनं भविष्यति ॥

ओ पदिव्रदे! नी धर्मत्तुडन् कूडियदुम्, मनदिऱ्कु अनुगूलमागियदुम्, नल्ल पदङ्गळुडैयदुम्, सिऱन्द अर्त्तमुडैयदुमाय् ऎव्विदमॆव्विदम् पेसुगिण्ड्रायो अव्विदमव्विदम् ऎनक्कु उन्निडम् वात्सल्यम् अदिगमाय् उण्डागिण्ड्रदु. आगैयाल् निगरट्र मट्रॊरु वरनै वरिप्पायाग.
सावित्री:-
ऒ तेव! मट्र वरन्गळ् पोलल्ल, इन्द वरन् सुक्रुदमिल्लामल् (सादुवान ताम्बत्ययोगमिल्लामल्) सादुवागादु.
आगैयाल् इन्द सत्यवान् पिऴैक्क वेण्डुम्. इदैये वरनागक् कोरुगिऱेन्. पदियिल्लाविडिल् नान् इऱन्दवळे. भर्त्तावै विट्टुत् तनित्तुळ्ळ नान् सुगत्तै विरुम्बेन्. स्वर्क्कत्तैयुम् विरुम्बेन्.
सम्बत्तैयुम् विरुमबेन्. भर्त्तावैयिऴन्द नान् पिऴैत्तिरुक्कवुम् सक्तैयागेन्.
ऎनक्कु नूऱु पिळ्ळैगळ् उण्डाग वरनै नीर् अळित्तीर्. नीरे ऎन् पदियै अबहरित्तुप् पोगिऱीर्.
इन्द सत्यवान् पिऴैक्कवेण्डुम्. अव्विदमानाल् तान् उमदु वाक्यम् सत्यमाय् आगुम्.
विश्वास-प्रस्तुतिः
मार्कण्डेयः -
तथेत्युक्त्वा तु तं पाशं मुक्त्वा वैवस्वतो यमः ।
धर्मराजः प्रहृष्टात्मा सावित्रीमिदमब्रवीत् ॥
यम उवाच -
एष भद्रे मया मुक्तो भर्ता ते कुलनन्दिनि ।
अरोगस्तव नेयश्च सिद्धार्थस्सम्भविष्यति ॥
चतुर्वर्षशतायुश्च त्वया सार्द्धमवाप्स्यति ।
इष्ट्वा यज्ञैश्च धर्मेण ख्यातिं लोके गमिष्यति ॥
त्वयि पुत्रशतं चैव सत्यवान् जनयिष्यति ।
ते चापि सर्वे राजानः क्षत्रियाः पुत्रपौत्रिणः ॥
ख्यातास्त्वन्नामधेयाश्च भविष्यन्तीह शाश्वताः ।
पितुश्च ते पुत्रशतं भविता तव मातरि ॥
मालव्यां मालवा नाम शाश्वताः पुत्रपौत्रिणः ।
भ्रातरस्ते भविष्यन्ति क्षत्रियास्त्रिदशोपमाः ॥

अव्विदमे सॆय्गिऱेनॆण्ड्रु सॊल्लि, धर्मराजन् अन्दप् पासत्तै अविऴ्त्तुविट्टु, सन्दुष्टनाय् सावित्रियै नोक्किच् चॊन्नान्.
यमन्:-
ओ मङ्गळे! हे कुलनन्दिनि! इदो उन् भर्त्तावै विट्टुविट्टेन्. इवन् रोगमट्रवनुम् उनक्कु वच्यनुम्, क्रुदार्त्तनुमाय्विडुवान्.
उन्नुडन् कूड नानूऱु वर्षम् आयुळै अडैवान्. धर्मप्पडि यागङ्गळैच् चॆय्दु, उलगिल् पुगऴै अडैवान्.
उन्निडत्तिल् नूऱु पिळ्ळैगळैयुम् अडैयप्पोगिऱान्. अन्दप् पिळ्ळैगळ् ऎल्लोरुम् अरसर्गळाय्, क्षत्रियर्गळाय्, पुत्रबौत्तर् कळुडैयवर्गळाय्, उन्नुडैय पॆयराल् प्रसिद्धर्गळाय् (सावित्रर्गळ् ऎन्बवर्गळाय्) साच्वदर्गळाय् इरुप्पार्गळ्.
उन् पिदावुक्कुम्, उन् मादावान माळवियिनिडत्तिल् नूऱु पुत्रर्गळ् उण्डावार्गळ्. अवर्गळ् माळवर्गळ् ऎण्ड्रु प्रसिद्धर्गळाय्, तेवर्गळुक्कुच् चमानर्गळाय्, पुत्रबौत्रर् कळैयुडैयवर्गळाय्, साच्वदर्गळायिरुप्पार्गळ्.
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच -
एवं तस्यै वरं दत्वा धर्मराजः प्रतापवान् ।
निवर्तयित्वा सावित्रीं स्वमेम भवनं ययौ ॥
सावित्र्यपि यमे याते भर्तारं प्रतिलभ्य च ।
जगाम तत्र यत्रास्य भर्तुः श्यावं कळेवरम् ॥
सा भूमौ प्रेक्ष्य भर्तारमुपसृत्य प्रगृह्य च ।
उत्सङ्गे शिर आरोप्य भूमानुपविवेश ह ॥
सञ्ज्ञां च स पुनर्लब्ध्वा सावित्रीमभ्यभाषत ।
प्रोष्यागत इव प्रेम्णा पुनःपुनरुदीक्ष्य वै ॥

इव्विदम् धर्मराजन् सावित्रिक्कु वरनैक् कॊडुत्तु अवळैत् तिरुम्बच् चॆय्दु तनदु इरुप्पिडत्तै अडैन्दान्.
यमन् सॆण्ड्र पिऱगु, सावित्री तनदु भर्त्तावै अडैन्दु, ऎन्द इडत्तिल् तनदु भर्त्ताविन् ऒळियट्र शरीरमिरुक्किण्ड्रदो अन्द इडम् सॆण्ड्राळ्.
अवळ् पूमियिल् किडक्कुम् भर्त्तावै अणुगि, कैगळाल् ऎडुत्तु, तन् मडियिल् अवन् तलैयै वैत्तुक्कॊण्डु पूमियिलुट्कार्न्दाळ्.
सत्यवानुम् निनैवै अडैन्दु, वॆळियूर् सॆण्ड्रु वन्दवन् पोल् अन्बुडन् अडिक्कडि सावित्रियैप् पार्त्तुच् चॊल्लुगिऱान्.
विश्वास-प्रस्तुतिः
सत्यवानुवाच -
सुचिरं बत सुप्तोऽस्मि किमर्थं नावबोधितः ।
क्व चासौ पुरुषः श्यामो योऽसौ मां सञ्चकर्ष ह ॥
सावित्र्युवाच -
सुचिरं त्वं प्रसुप्तोऽसि ममाङ्के पुरुषर्षभ ।
गतस्स भगवान् देवः प्रजासंयमनो यमः ॥
विश्रान्तोऽसि महाभाग विनिद्रश्च नृपात्मज ।
यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम् ॥
मार्कण्डेय उवाच -
उपलभ्य ततस्सञ्ज्ञां सुखसुप्त इवोत्थितः ।
दिशस्सर्वा वनान्तांश्च निरीक्ष्योवाच सत्यवान् ॥

आ! वॆगुनेरम् तूङ्गिविट्टेन्. एन् ऎन्नै ऎऴुप्पविल्लै? ऎन्नै ऎवन् इऴुत्तानो, अन्दक् कऱुप्पान पुरुषन् ऎङ्गे?
सावित्री:-
ऒ पुरुषोत्तम! नीर् ऎन् मडियिल् वॆगु कालम् तूङ्गिविट्टीर्. प्रजैगळै अडक्कुगिण्ड्रवरान अन्द यम पगवान् सॆण्ड्रुविट्टार्.
नीर् तूक्कमिल्लामलुम् च्रममिल्लामलुमिरुन्दाल् मुडियुमानाल् ऎऴुन्दिरुम्. पारुम्, इरवु वन्दुविट्टदु.
मार्गण्डेयर्:-
पिऱगु प्रक्ञैयै अडैन्दु सुगमाय्त् तूङ्गियवन् पोल् ऎऴुन्द सत्यवान् ऎल्लात् तिक्कुगळैयुम्, वनप्रदेसङ्गळैयुम् पार्त्तुविट्टुच् चॊल्लुगिऱान्.
विश्वास-प्रस्तुतिः
सत्यवानुवाच -
फलाहारोऽस्मि निष्क्रान्तः त्वया सह सुमद्ध्यमे ।
ततः पाटयतः काष्ठं शिरसो मे रुजाऽभवत् ॥
शिरोभि[[??]]तापसन्तप्तः स्थातुं चिरमशक्नुवन् ।
तवोत्सङ्गे प्रसुप्तोऽस्मि इति सर्वं स्मरे शुभे ॥
त्वयोपगूढस्य च मे निद्रयाऽपहृतं मनः ।
ततोऽपश्यं तमोघोरं पुरुषं च महौजसम् ॥
तद्यदि त्वं विजानासि किं तत् ब्रूहि सुमद्ध्यमे ।
स्वप्नेन यदि वा दृष्टो मयि वा सत्यमेव तत् ॥
तमुवाचाथ सावित्री रजनी व्यवगाहते ।
श्वस्ते सर्वं यथावृत्तमाख्यास्यामि नृपात्मज ॥
उत्तिष्ठोत्तिष्ठ भद्रं ते पितरौ पश्य सुव्रत ।
विगाढा रजनी चेयं निवृत्तश्च दिवाकरः ॥
नक्तञ्चराश्चरन्त्येते हृष्टाः क्रूराभिभाषिणः ।
श्रूयन्ते पर्णशब्दाश्च मृगाणां चरतां वने ॥
एता घोरान् शिवा नादान् दिशं दक्षिणपश्चिमाम् ।
आस्थाय विरुवन्त्युग्राः कम्पयन्त्यो मनो मम ॥

सत्यवान् :-
अऴगिय इडैयाळे! पऴङ्गळैक् कॊण्डु वरुवदऱ्काग उन्नुडन् आच्चमत्तिलिरुन्दु वॆळियिल् वन्देन्.
पिऱगु विऱगु ऒडित्तेन्. ऎनक्कुत् तलैवलियुण्डायिट्रु.
अदनाल् वरुन्दियवनाय् निऱ्कमुडियामल्, उन् मडियिल् पडुत्तुत् तूङ्गिनेन्, ऎण्ड्रवरै मुऴुवदैयुम् निनैक्किण्ड्रेन्.
उन्नाल् अणैक्कप्पट्ट ऎनदु मनम् नित्रैयाल् अबहरिक्कप्पट्टदु. पिऱगु इरुळ्बोल् पयङ्गरनान पॆरिय ऒरु पुरुषनैक् कण्डेन्.
अदु विषयत्तै नी अऱिवायागिल् सॊल्लु. नान् स्वप्नत्तिल् कण्डेना, अल्लदु यदार्त्तमागवे नडन्ददा?
अवनै नोक्किच् चॊल्लुगिऱाळ् सावित्री:-
ओ राजबुत्र! इरवु परवुगिऱदु. ऎल्लावट्रैयुम् नडन्दबडि नाळैय तिनत्तिल् सॊल्लुगिऱेन्.
ऎऴुन्दिरुमॆऴुन्दिरुम् उमक्कु मङ्गळम्. मादाबिदाक्कळैप् पार्क्कक्कडवीर्.
सूर्यन् मऱैन्दुविट्टान्. इदो इरवुम् परविविट्टदु. इदो इरविल् सञ्जरिक्कुम् प्राणिगळ् पयङ्गरङ्गळाय्, पयङ्गर सप्तङ्गळुडन् सञ्जरिक्किण्ड्रन.
काट्टिल् सञ्जरिक्कुम् मरुगङ्गळिन् कालिल् पडुम् इलैगळिन् सप्तङ्गळ् केट्कप्पडुगिण्ड्रन.
इदो इन्द नरिगळ्, तॆन्मेऱ्कुत् तिक्किलिरुन्दु ऎन् मनदै असैक्किण्ड्रवैगळाय्, पयङ्गरमाय्च् चप्तिक्किण्ड्रन.
विश्वास-प्रस्तुतिः
सत्यवानुवाच -
वनं प्रतिभयाकारं घनेन तमसाऽऽवृतम् ।
न विज्ञास्यसि पन्थानं गन्तुं चैव न शक्ष्यसि ॥
सावित्र्युवाच -
अस्मिन्नद्य वने दग्धे शुष्कवृक्षस्थितो ज्वलन् ।
वायुना धम्यमानोत्र दृश्यतेऽग्निः क्वचित् क्वचित् ॥
ततोऽग्निमानयित्वेह ज्वालयिष्यामि सर्वतः ।
काष्ठानीमानि सन्तीह जहि सन्तापमात्मनः ॥
यदि नोत्सहसे गन्तुं सरुजं त्वां हि लक्षये ।
न च ज्ञास्यसि पन्थानं तमसा संवृते वने ॥
श्वः प्रभाते वने दृश्ये यास्यावोऽनुमते तव ।
वसावेह क्षपामेकां रुचितं यदि तेऽनघ ॥

अरण्यम् पयङ्गरमायुळ्ळदु. कनमान इरुळालुम् सूऴप्पट्टुळ्ळदु. आगैयाल् वऴियै नी अऱिय मुडियादु. सॆल्वदऱ्कुम् मुडियादु.
सावित्री:-
इप्पॊऴुदु, काट्टुत्तीयाल् तहिक्कप्पट्ट इक्काट्टिल्, सिऱ्चिल इडङ्गळिल् काय्न्द मरङ्गळिल् तङ्गिय नॆरुप्पु, काट्रिनाल् वीसप्पट्टु ज्वलिप्पदाय् काणप्पडुगिऱदु.
अदिलिरुन्दु नॆरुप्पैक् कॊण्डुवन्दु इङ्गु ज्वलिक्कच्चॆय्गिऱेन्.
ऎल्ला इडङ्गळिलुम् कट्टैगळ् इरुक्किण्ड्रन. सन्दाबत्तै विडुम्. उम्मै व्यादियुळ्ळवरागक् काण्गिऱेन्.
इप्पॊऴुदु सॆल्वदऱ्कु उत्साहमिल्लाविडिनुम्, इरुळडर्न्द काट्टिल् वऴि तॆरियाविडिनुम्, नाळैय तिनम् कालैयिल् प्रकाशत्ताल् पुलप्पडुम् वनत्तिल्, उम्मुडैय अनुमतियिन् पेरिल् सॆल्वोम्.
ऒरु इरवु मुऴुवदुम् इव्विडत्तिलेये वसिप्पोम्, उम्मुडैय अनुमतियिन् पेरिल्.
विश्वास-प्रस्तुतिः
सत्यवानुवाच -
शिरोरुजा निवृत्ता मे स्वस्थान्यङ्गानि लक्षये ।
मातापितृभ्यामिच्छामि सङ्गमं त्वत्प्रसादजम् ॥
न कदाचिद्विकालं हि गतपूर्वो यथाऽऽश्रमः ।
अनागतायां सन्ध्यायां माता मे प्ररुणद्धि माम् ॥
दिवाऽपि मयि निष्क्रान्ते सन्तप्येते गुरू मम ।
विचिनोति हि मां तातः सहैवाश्रमवासिभिः ॥
मातापितृभ्यां सुभृशं दुःखिताभ्यामहं पुरा ।
उपालब्धश्च बहुशः चिरेणागच्छसीति हि ॥
कान्ववस्था तयोरद्य मदर्थमिति चिन्तये ।
तयोरदृश्ये मयि च महद्दुःखं भविष्यति ॥
पुरा मामूचतुश्चैव रात्रावस्रायमाणकौ ।
भृशं सुदुःखितौ वृद्धौ बहुशः प्रीतिसंयुतौ ॥
त्वया हीनौ न जीवाव मुहूर्तमपि पुत्रक ।
यावद्धरिष्यसे पुत्र तावन्नौ जीवितं ध्रुवम् ॥
वृद्धयोरन्धयोर्यष्टिस्त्वयि वंशः प्रतिष्ठितः ।
त्वयि पिण्डश्च कीर्तिश्च सन्तानं चावयोरिति ॥
माता वृद्धा पिता वृद्धस्तयोर्यष्टिरहं किल ।
तौ रात्रौ मामपश्यन्तौ कामवस्थां गमिष्यतः ॥
निद्रायाश्चाभ्यसूयामि यस्या हेतोः पिता मम ।
माता च संशयं प्राप मत्कृते नोपकारिणी ॥
अहं च संशयं प्राप्तः कृच्छ्रामापदमास्थितः ।
मातापितृभ्यां हि विना नाहं जीवितुमुत्सहे ॥
व्यक्तमाकुलया बुद्ध्या प्रज्ञाचक्षुः पिता मम ।
एकैकमस्यां वेळायां पृच्छत्याश्रमवासिनम् ॥
नात्मानमनुशोचामि यथाऽहं पितरं शुभे ।
भर्तारं चाप्यनुगतां मातरं परिदुर्बलाम् ॥
मत्कृतेन हि तावद्य सन्तापं परमेष्यतः ।
जीवन्तावनुजीवामि भर्तव्यौ तौ मयेति ह ॥
तयोः प्रियं मे कर्तव्यमिति जानामि चाप्यहम् ॥

ऎनदु तलैवलि निण्ड्रुविट्टदु. अवयवङ्गळ् तन् निलैयिलिरुप्पदागक् काण्गिऱेन्.
उनदुप्रसादत्ता लुण्डागुम्, ऎन् मादा पित्रुक्कळिन् सेर्क्कैयै विरुम्बुगिऱेन्. नान् ऒरुगालुम् कालम् तवऱि आच्रमत्तिऱ्कुच् चॆण्ड्रदिल्लै.
सन्द्यागालम् वरुवदऱ्कु मुन्बे वॆळियिऱ् चॆल्लक्कूडादॆण्ड्रु ऎन्नैत् ताय् तडुप्पाळ्.
नान् पगलिल् वॆळियिल् सॆण्ड्रिरुक्कुम्बोदुम् ऎनदु मादा पिदाक्कळ् परिदबिप्पार्गळ्. आच्रमवासिगळुडन् कूडि ऎन् पिदा ऎन्नैत् तेडित्तिरिवार्.
मुन्नॊरुगालत्तिल् ऎन्नैक्काणामल् तुक्कित्तिरुन्द मादाबिदाक्कळाल् ‘वॆळियिल् सॆण्ड्राल् तामदित्तु वरुगिऱाय् ऎण्ड्रु अदिगमाय् वॆऱुक्कप्पट्टेन्.
इप्पॊऴुदु अवर्गळुक्कु ऎन् विषयमाय् ऎन्न अवस्तै एऱ्पट्टुळ्ळदो ऎण्ड्रु सिन्दिक्किऱेन्. नान् काणप्पडादिरुत्तलाल् अदिग तुक्कम् एऱ्पडक्कूडुम्.
मुन्नॊरु रात्रियिल् व्रुत्तरुम्, तुक्कित्तवरुम्, कण्णीर् पॆरुक्कियवरुमान ऎनदु मादा पिदाक्कळ् प्रीदियुडैयवर्गळाय्, “कुऴन्दाय्! नी इल्लाविडिल् ऒरु मुहुर्त्तम्गूड नाङ्गळ् पिऴैत्तिरोम्.
पुत्र! नी इरुक्कुम् वरैयिल्दान् ऎङ्गळुक्कुम् उयिर् निच्चयम्. व्रुत्तरुम्,कण्णिल्लादवरुमान ऎङ्गळुक्कु नीये पिडिगोल्.
ऎङ्गळ् वम्सम् उन्निडम् निलैत्तुळ्ळदु. ऎङ्गळदु पिण्डमुम् कीर्त्तियुम्, सन्दानमुम् उन्निडमे निलैबॆट्रुळ्ळन” ऎण्ड्रु पलवाऱागच् चॊन्नार्गळ्.
ताय् किऴवि, पिदावुम् किऴवर्, अवर्गळुक्कु ऊण्ड्रुम् कऴि नानल्लवो.
अवर्गळ् इरविल् ऎन्नैप् पारादवर्गळाय् ऎन्न अवस्तैयै अडैयप् पोगिण्ड्रनरो?
ऎनदु तूक्कत्तैयुम् वॆऱुक्किण्ड्रेन्, ऎदनाल् ऎन् पिदावुम् मादावुम् सम्सयत्तै अडैन्दुळ्ळनरो?
अन्द नित्रै ऎनक्कुम् उबगारम् सॆय्ददल्ल. नानुम् सम्सयत्तै अडैन्देन्, कष्टमान आबत्तैयडैन्देन्.
मादाबिदाक्कळैप् पिरिन्दु नान् पिऴैत्तिरुक्क विरुम्बविल्लै.
कण्णिल्लाद ऎनदु पिदा इप्पॊऴुदु कवलैयुट्र पुत्तियुडन् आच्रमङ्गळिलुळ्ळ ऒव्वॊरुवनैयुम् ऎन्नैप् पट्रिक् केट्टुक्कॊण्डिरुप्पार्.
ओ मङ्गळे! नान् ऎनदु पिदावैयुम्, तुर्प्पलैयायिनुम् भर्त्तावै अनुसरित्तुळ्ळ मादावैयुम्बट्रि ऎप्पडि वरुन्दुगिण्ड्रेनो अप्पडि ऎन्नैप् पट्रिक्कूड वरुन्दविल्लै.
नान् सॆय्द कार्यत्ताल् अव्विरुवरुम् इप्पॊऴुदु मिगुन्द परिदाबत्तै अडैयप्पोगिण्ड्रनर्.
पिऴैत्तिरुक्कुम् वरैयिल् अवर्गळैप् पोषिक्क वेण्डुम् ऎन्बदऱ्काग नान् पिऴैत्तिरुक्किऱेन्.
अवर्गळुक्कु प्रियत्तैच् चॆय्यवेण्डुमॆन्बदै नान् अऱिन्दुळ्ळेन्.
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच -
एवमुक्त्वा स धर्मात्मा गुरुभक्तो गुरुप्रियः ।
उच्छ्रित्य बाहू दुःखार्तः सस्वरं प्ररुरोद ह ॥
ततोऽब्रवीत्तथा दृष्ट्वा भर्तारं शोककर्शितम् ।
प्रमृज्याश्रूणि नेत्राभ्यां सावित्री धर्मचारिणी ॥
सावित्र्युवाच -
यदि मेऽस्ति तपस्तप्तं यदि दत्तं हुतं यदि ।
श्वश्रूश्वशुरभर्तॄणां मम पुण्याऽस्तु शर्वरी ॥
न स्मराम्युक्तपूर्वां वै स्वैरेष्वप्यनृतां गिरम् ।
तेन सत्येन तावद्य ध्रियेतां श्वशुरौ मम ॥

धर्मात्मावायुम्, कुरुबक्तनायुम्, कुरुप्रियनायुमुळ्ळ सत्यवान् इव्विदम् सॊल्लिविट्टु कैगळैत् तूक्कि, तुक्कमुट्रवनाय् उरक्क अऴुदान्.
सोगत्ताल् वरुन्दुम् भर्त्तावैप् पार्त्तु धर्मसारिणियान सावित्री, अवन् कण्गळिनिण्ड्रुम् नीरैत् तुडैत्तु इव्विदम् सॊन्नाळ्.
सावित्री:-
नान् सॆय्द तवमुम्, तानमुम्, होममुम् अऴियामलिरुन्दाल् ऎनदु मामियार्, मामनार्, भर्त्ता इवर्गळुक्कु इन्द इरवु नल्लदाय् इरुक्कवेण्डुम्.
वेडिक्कैयान पेच्चुक्कळिलुम् नान् पॊय् पेसियदै निनैक्कविल्लै. अन्द सत्यत्ताल् ऎनदु मामियार् मामनार्गळ् पिऴैत्तिरुक्क वेण्डुम्.
विश्वास-प्रस्तुतिः
सत्यवानुवाच -
कामये दर्शनं पित्रोः याहि सावित्रि माचिरम् ।
पुरा मातुः पितुर्वाऽपि यदि पश्यामि विप्रियम् ॥
न जीविष्ये वरारोहे सत्येनात्मानमालभे ।
यदि धर्मे च ते बुद्धिर्मां चेज्जीवन्तमिच्छसि ॥
मम प्रियं च कर्तव्यं गच्छावाश्रममन्तिकात् ॥
मार्कण्डेय उवाच -
सावित्री तत उत्थाय केशान् संयम्य भामिनी ।
पतिमुत्थापयामास बाहुभ्यां परिगृह्य वै ॥
उत्थाय सत्यवांश्चापि प्रमृज्याङ्गानि पाणिना ।
सर्वा दिशस्समालोक्य कठिने दृष्टिमादधे ॥
तमुवाचाथ सावित्री श्वः फलानि हरिष्यसि ।
योगक्षेमार्थमेतत्ते नेष्यामि परशुं त्वहम् ॥
कृत्वा कठिनभारं सा वृक्षशाखावलम्बिनम् ।
गृहीत्वा परशुं भर्तुः सकाशे पुनरागमत् ॥
वामस्कन्धे तु वामोरूः भर्तुर्बाहुं निवेश्य च ।
दक्षिणेन परिष्वज्य जगाम गजगामिनी ॥

सावित्री! मादाबिदाक्कळिन् तर्सनत्तै विरुम्बुगिऱेन्. सीक्किरम् सॆल्.
मादावुक्कावदु पिदावुक्कावदु अनिष्टत्तैप् पार्क्कप्पोगिऱेनागिल् नान् पिऴैत्तिरुक्क माट्टेन्.
इदु सत्यमॆण्ड्रु ऎन्नैत् तॊडुगिऱेन्. उनक्कुत् धर्मत्तिल् पुत्तियिरुक्कुमागिल्, नान् पिऴैत्तिरुक्क विरुम्बुवायागिल्, ऎनक्कु प्रियत्तैच् चॆय्य विरुम्बुवायागिल् सीक्रमाय् आच्रमत्तिऱ्कुच् चॆल्वोम्.
मार्गण्डेयर्:-
पिऱगु, सावित्री ऎऴुन्दु मयिर्गळैक् कट्टि, कैगळाल् पिडित्तुप् पदियै ऎऴुप्पिनाळ्. सत्यवानुम् ऎऴुन्दु, कैयाल् अङ्गङ्गळैत् तुडैत्तुक्कॊण्डु, नान्गु पुऱमुम् पार्त्तुक् कूडैयिल् कण्णैच् चॆलुत्तिनान्.
अवनै नोक्कि सावित्री ‘नाळैय तिनत्तिल् पऴङ्गळैक् कॊण्डु पोगलाम्.
इदु उमदु योगक्षेमत्तिऱ्कल्लवा. कोडरियै नान् कॊण्डुवरुगिऱेन्’ ऎण्ड्रु सॊल्लि, कूडैयै मरत्तिन् किळैयिल् तॊङ्गियदाय्च् चॆय्दु, कोडरियै ऎडुत्तुक् कॊण्डु भर्त्ताविनरुगिल् मऱुबडि वन्दाळ्.
अव्वऴगिय तुडैयाळ्, तनदु इडदु तोळिल् भर्त्ताविन् (इडदु) कैयै वैत्तुक्कॊण्डु, तनदु वलदु कैयाल् भर्त्तावै अणैत्तुप् पिडित्तुक्कॊण्डु, कजम्बोल् नडक्कुमवळ् नडन्दु सॆण्ड्राळ्.
विश्वास-प्रस्तुतिः
सत्यवानुवाच -
अभ्यासगमनाद्भीरु पन्थानो विदिता मम ।
वृक्षान्तरालोकितया ज्योत्स्नया चापि लक्षये ॥
आगतौ स्वः पथा येन फलान्यवचितानि च ।
यथागतं शुभे गच्छ पन्थानं मा विचारय ॥
पलाशषण्डे चैतस्मिन् पन्था व्यावर्तते द्विधा ।
तस्योत्तरेण यः पन्थास्तेन गच्छ त्वरस्व च ॥
स्वस्थोऽस्मि बलवानस्मि दिक्षुः पितरावुभौ ।
ब्रुवन्नेवं त्वरायुक्तः स प्रायादाश्रमं प्रति ॥
इति …….. अध्यायः ॥

पयन्दवळे! अडिक्कडि पोवदाल् वऴिगळ् ऎनक्कुत् तॆरिन्दवैगळे. मरङ्गळिन् इडैवॆळियिल् काणप्पडुम् निलविनालुम् अऱिगिऱेन्.
ऎन्द वऴियाय् नाम् वन्दोमो, पऴङ्गळैयुम् पऱित्तोमो अन्द वऴिक्कु वन्दुविट्टोम्. वन्द वऴियुडनेये सॆल्. सन्देहप्पडवेण्डाम्.
इन्दप् पुरसमरत् तोप्पिल् वऴि इरण्डु विदमाय्प् पिरिगिऱदु. अदिल् वडक्कुप् पुऱत्तु वऴियाल् सॆल्.सीक्किरमाय्च् चॆल्. नान् स्वस्तनायुळ्ळेन्.
पलमुळ्ळवनायुमुळ्ळेन्. मादाबिदाक् कळैक् काण विरुप्पमुळ्ळवनायिरुक्किण्ड्रेन्. ऎण्ड्रिव्विदम् सॊल्लिक्कॊण्डे अन्द सत्यवान् आच्रमत्तै नोक्किच् चॆण्ड्रान्
. …….. अत्यायम् मुट्रुम्.
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच -
एतस्मिन्नेव काले तु द्युमत्सेनो महाबलः ।
लब्धचक्षुः प्रसन्नायां दृष्ट्यां सर्वं ददर्श ह ॥
स सर्वानाश्रमान् गत्वा शैब्यया सह भार्यया ।
पुत्रहेतोः परामार्तिं जगाम भरतर्षभ ॥
तावाश्रमान्नदीश्चैव वनानि च सरांसि च ।
तस्यां निशि विचिन्वन्तौ दम्पती परिजग्मतुः ॥
श्रुत्वा शब्दं तु यं कञ्चिदुन्मुखः सुतशङ्कया ।
सावित्रीसहितोऽभ्येति सत्यवानित्यभाषत ॥
भिन्नैश्च परुषैः पादैः सव्रणैः शोणितोक्षितैः ।
कुशकण्टकविद्धाङ्गावुन्मत्ताविव धावतः ॥
ततोऽभिसृत्य तैर्विप्रैः सर्वैराश्रमवासिभिः ।
परिवार्य समाश्वास्य तावानीतौ स्वमाश्रमम् ॥
तत्र भार्यासहायस्स वृतो वृद्धैस्तपोधनैः ।
आश्वासितो विचित्रार्थैः पूर्वराज्ञां कथाश्रयैः ॥
ततस्तौ पुनराश्वस्तौ वृद्धौ पुत्रदिदृक्षया ।
बाल्ये पुत्रस्य वृत्तानि स्मरन्तौ भृशदुःखितौ ॥
पुनरुक्त्वा च करुणां वाचं तौ शोककर्शितौ ।
हा पुत्र हा साध्वि वधु क्वासि क्वासीत्यरोदताम् ॥
ब्राह्मणस्सत्यवाक्तेषामुवाचेदं तयोर्वचः ॥

इन्द समयत्तिल् आच्रमत्तिलिरुक्कुम् त्युमत्सेगन् कण्गळै अडैन्दान्.
पार्वै तॆळिवायागियवुडन् ऎल्लावट्रैयुम् पार्त्तान्. अवन् पार्यैयान सैप्यैयुडन् ऎल्ला आच्रमङ्गळुक्कुम् सॆण्ड्रु पार्त्तुप् पुत्रन् विषयमाय् मिगुन्द वरुत्तत्तै अडैन्दान्.
अन्दत् तम्बदिगळ् अन्द इरविल्, आच्रमङ्गळ्, नदिगळ्, काडुगळ्, कुळङ्गळ् ऎल्लावट्रैयुम् सुट्रि अलैन्दनर्.
एदावदु सप्तत्तैक् केट्टालुम्, सावित्रियुडन् सत्यवान् वरुगिऱानॆन्बान् अरसन्.
पिळक्कप्पट्टदुम्, कडिनमागियदुम्, कायमुळ्ळदुम्, रत्तत्ताल् ननैन्ददुमान पादङ्गळुडन्, नाणल्गळालुम् मुट्कळालुम् किऴिक्कप्पट्ट अङ्गङ्गळुडैयवर्गळाय् पैत्यक्कारर्गळ् पोल् ओडियलैन्दनर्.
पिऱगु अङ्गुळ्ळ आच्रमङ्गळिल् वसिक्कुम् प्रामहणर्गळ् ऎल्लोरुम् अवर्गळिडम् वन्दु अवर्गळै समाधानम् सॆय्दु आच्रमत्तिऱ्कु अऴैत्तुच् चॆण्ड्रनर्.
अव्विडत्तिल् वरुत्तर्गळान तबस्विगळाल् सूऴप्पट्टवनाय्, पार्यैयुडनुळ्ळ अरसन् मुन्नोर्गळान अरसर्गळिन् कदैयैच् चेर्न्दुळ्ळ आच्चर्य विषयङ्गळाल् समादानप्पडुत्तप्पट्टान्.
अव्विदमायिनुम् अन्दत् तम्बदिगळ् पुत्रनैक् काण आवलुडन्, पुत्रनिन् इळमैयिल् नडन्द व्रुत्तङ्गळै निनैत्तु वरुत्तमुट्रवर्गळाय्, तीनमान वार्त्तैयै मऱुबडि सॊल्लिक्कॊण्डु, हा पुत्र! हा सात्वियान नाट्टुप्पॆण्णे! ऎङ्गिरुक्किऱाय्? ऎङ्गिरुक्किऱाय्? ऎण्ड्रु कण्णीर्विट्टु अऴुदनर्.
अप्पॊऴुदु अङ्गुळ्ळ प्राम्हणर्गळुळ् सत्यवाक्कान प्राम्हणन् ऒरुवन् अवर्गळुक्कु समादान वार्त्तैयैच् चॊन्नान्.
विश्वास-प्रस्तुतिः
सुवर्चा उवाच -
यथाऽस्य भार्या सावित्री तपसा च दमेन च ।
आचारेण च संयुक्ता तथा जीवति सत्यवान् ॥
गौतम उवाच -
वेदास्साङ्गा मयाऽधीताः तपो मे सञ्चितं महत् ।
कौमारं ब्रह्मचर्यं च गुरवोऽग्निश्च तोषिताः ॥
समाहितेन चीर्णानि सर्वाण्येव व्रतानि मे ।
वायुभक्षोपवासश्च कृतो मे विधिवत्सदा ॥
अनेन तपसा वेद्मि सर्वं परचिकीर्षितम् ।
सत्यमेतन्निबोधध्वं ध्रियते सत्यवानिति ॥

सुवर्च्चस् ऎन्बवर्:-
इन्द सत्यवानुडैय पार्यैयान सावित्री, ऎव्विदमान तबस्सुडनुम्, इन्द्रिय निक्रहत्तुडनुम्, आचारत्तुडनुम् कूडियिरुक्किऱाळो अवैगळाल् सत्यवान् पिऴैत्तिरुक्किऱान्.
कौदमर्:-
अङ्गङ्गळुडन् कूडिय वेदङ्गळैक् कट्रिरुक्किऱेन्. मिगुन्द तबस्सैच् चेर्त्तिरुक्किऱेन्.
प्रम्हसर्य मनुष्टित्तेन्. कुरुक्कळैयुम् अक्नियैयुम् त्रुप्तिसॆय्वित्तेन्.
कवनमुडैयवनाय् सगल व्रदङ्गळैयुमनुष्टित्तेन्. वायुवै मट्टिल् पक्षित्तु उबवासमनुष्टित्तेन्.
इन्दत् तबो महिमैयिनाल् पिऱर् सॆय्यविरुम्बिय ऎल्लावट्रैयुम् अऱिवेन्.
सत्यमिदु ऎण्ड्रु अऱियुङ्गळ्, सत्यवान् पिऴैत्तिरुक्किऱानॆण्ड्रु.
विश्वास-प्रस्तुतिः
शिष्य उवाच -
उपाद्ध्यायस्य मे वक्त्राद्यथा वाक्यं विनिस्सृतम् ।
नैव जातु भवेन्मिथ्या तथा जीवति सत्यवान् ॥
ऋषय ऊचुः -
यथाऽस्य भार्या सावित्री सर्वैरेव सुलक्षणैः ।
अवैधव्यकरैर्युक्ता तथा जीवति सत्यवान् ॥
भरद्वाज उवाच -
यथाऽस्य भार्या सावित्री तपसा च दमेन च ।
आचारेण च संयुक्ता तथा जीवति सत्यवान् ॥
मूलम्
शिष्य उवाच -
उपाद्ध्यायस्य मे वक्त्राद्यथा वाक्यं विनिस्सृतम् ।
नैव जातु भवेन्मिथ्या तथा जीवति सत्यवान् ॥
ऋषय ऊचुः -
यथाऽस्य भार्या सावित्री सर्वैरेव सुलक्षणैः ।
अवैधव्यकरैर्युक्ता तथा जीवति सत्यवान् ॥
भरद्वाज उवाच -
यथाऽस्य भार्या सावित्री तपसा च दमेन च ।
आचारेण च संयुक्ता तथा जीवति सत्यवान् ॥
द्राविडम्
सिष्यन्:-
ऎनदु उबात्यायरिन् वायिनिण्ड्रुम् ऎव्विदमान वार्त्तै वन्ददो अदु ऒरुगालुम् पॊय्यावदिल्लै. आगैयाल् सत्यवान् पिऴैत्तिरुक्किऱान्.
रुषिगळ् सॊल्वदु:-
सत्यवानिन् पार्यैयान सावित्री, ऎव्विदम् सौमङ्गल्यगरङ्गळान सगल सुबलक्षणङ्गळुडनुम् कूडियिरुक्किण्ड्राळो अव्विदमे सत्यवान् पिऴैत्तिरुक्किऱान्.
परत्वाजर्:-
सत्यवानिन् पार्यैयान सावित्री ऎव्विदम् तबस्, इन्द्रिय जयम्, आचारम् इवैगळुडन् कूडियिरुक्किण्ड्राळो अव्विदम् सत्यवान् पिऴैत्तिरुक्किऱान्.
विश्वास-प्रस्तुतिः
दाल्भ्य उवाच -
यथा दृष्टिः प्रवृत्ता ते सावित्र्याश्च यथा व्रतम् ।
गताऽऽहारमकृत्वैव तथा जीवति सत्यवान् ॥
आपस्तम्ब उवाच -
यथा वदन्ति शान्तायां दिशि वै मृगपक्षिणः ।
पार्थिवी च प्रवृत्तिस्ते तथा जीवति सत्यवान् ॥
धौम्य उवाच -
सर्वैर्गुणैरुपेतस्तु यथा पुत्रो जनप्रियः ।
दीर्घायुर्लक्षणोपेतः तथा जीवति सत्यवान् ॥
मार्कण्डेय उवाच -
एवमाश्वासितस्तैस्तु सत्यवाग्भिस्तपस्विभिः ।
तांस्तान् विगणयन् सर्वान् ततः स्थिर इवाभवत् ॥
ततो मुहूर्तात् सावित्री भर्त्रा सत्यवता सह ।
आजगामाश्रमं रात्रौ प्रहृष्टा प्रविवेश ह ॥

ताल्प्यर्:-
अरसने! उनक्कुक् कण् ऎप्पडि उण्डायिट्रो, सावित्री व्रदम् ऎव्विदमो, अवळ् पोजनम् सॆय्यामल् ऎव्विदम् पोयिरुक्किण्ड्राळो, अव्विदमाय् सत्यवान् जीवित्तिरुक्किऱान्.
आबस्तम्बर्:-
इदो सान्दमान तिक्किल् म्रुगङ्गळुम्, पक्षिगळुम् ऎव्विदम् सॊल्लुगिण्ड्रनवो, उनदु धर्ममुम् अरसनुक्कुरियदायुळ्ळदो अव्विदम् सत्यवान् पिऴैत्तिरुक्किऱान्.
तौम्यर्:-
उनदु पुत्रन् ऎव्विदम् ऎल्लाक्कुणङ्गळुडनुम् कूडियवनुम्, जनङ्गळिडम् प्रियमुळ्ळवनुम्, तीर्क्कायुस्सैक् कॊडुक्कुम् लक्षणङ्गळुडन् कूडियवनुमायिरुक्किण्ड्रानो अव्विदम् सत्यवान् पिऴैत्तिरुक्किण्ड्रान्.
मार्गण्डेयर्:-
इव्विदम् सत्यवाक्कुगळान रुषिगळाल् आच्वासनम् सॆय्यप्पट्ट अरसन् अन्द ऎल्लोरैयुम् मदित्तुक्कॊण्डु स्तिरसित्तनायिरुन्दान्.
पिऱगु इरण्डु नाऴिगैक्कुळ् सत्यवानुडन् सावित्री इरविल् आच्रमत्तिऱ्कु वन्दाळ्, सन्दुष्टैयाय् उळ्ळे नुऴैन्दाळ्.
विश्वास-प्रस्तुतिः
ब्राह्मणा ऊचुः -
पुत्रेण सङ्गतं त्वां तु चक्षुष्मन्तं निरीक्ष्य च ।
सर्वे वयं वै पृच्छामो वृद्धिं वै पृथिवीपते ॥
समागमेन पुत्रस्य सावित्र्या दर्शनेन च ।
चक्षुषश्चात्मनो लाभात् त्रिभिर्दिष्ट्या विवर्द्धसे ॥
सर्वैरस्माभिरुक्तं यत् तथा तन्नात्र संशयः ।
भूयो भूयस्समृद्धिस्ते क्षिप्रमेव भविष्यति ॥
मार्कण्डेय उवाच -
ततोऽग्निं तत्र सञ्ज्वाल्य द्विजास्ते सर्व एव हि ।
उपासाञ्चक्रिरे पार्थ द्युमत्सेनं महीपतिम् ॥
शैब्या च सत्यवांश्चैव सावित्री चैकतः स्थिताः ।
सर्वैस्तैरभ्यनुज्ञाता विशोकास्समुपाविशन् ॥
ततो राज्ञा सहासीनाः सर्वे ते वनचारिणः ।
जातकौतूहलाः पार्थ पप्रच्छुर्नृपतेस्सुतम् ॥

प्राम्हणर्गळ्:-
अरसरे! उम्मैक् कण्णुडैयवरायुम्, पुत्रनुडन् सेर्न्दवरायुम् पार्त्तु नाङ्गळ् ऎल्लोरुम् उमदु व्रुत्तियैक् केट्किऱोम्.
पुत्रनुडन् सेर्क्कै, सावित्रियिन् तर्सनम्, कण्णिन् लाबम् ऎण्ड्र मूण्ड्रिनालुम् नीर् वरुत्तियै अडैन्दिरुक्किऱीर्.
नाङ्गळ् ऎल्लोरुम् ऎदै उरैत्तोमो अदु अप्पडिये आगुम्. इदिल् सम्सयमिल्लै. इनियुम् अडिक्कडि उमक्कु नन्मै उण्डागप्पोगिऱदु ऎण्ड्रनर्.
मार्गण्डेयर्:-
ओ युदिष्टिर! पिऱगु अक्नियै ज्वलिक्कच् चॆय्दु प्रामहणर्गळॆल्लोरुम् अरसनै उबासित्तनर्.
सैप्यैयुम्, सत्यवानुम्, सावित्रियुम् ऒरु पुऱत्तिलिरुन्दनर्. प्राम्हणर्गळाल् अनुक्ञादर्गळाय्, तुक्कमट्रवराय् उट्कार्न्दनर्.
पिऱगु अरसनुडन् उट्कार्न्द वनवासिगळ् ऎल्लोरुम् आवलुडैयवराय् राजगुमारनै नोक्किक्केट्टनर्.
विश्वास-प्रस्तुतिः
ऋषय ऊचुः -
प्रागेव नागतं कस्मात् सभार्येण त्वया विभो ।
विरात्रे वाऽऽगतं कस्मात् कोऽनुबन्धस्तवाभवत् ॥
सन्तापितः पिता माता वयं चैव नृपात्मज ।
कस्मादिति न जानीमस्तत् सर्वं वक्तुमर्हसि ॥
सत्यवानुवाच -
पित्राऽहमभ्यनुज्ञातः सावित्रीसहितो गतः ।
अथ मेऽभृच्छिरोदुःखं वने काष्ठानि भिन्दतः ॥
सुप्तश्चाहं वेदनया चिरमित्युपलक्षये ।
तावत्कालं न च मया सुप्तपूर्वं कदाचन ॥
सर्वेषामेव भवतां सन्तापो मा भवेदिति ।
अतो विरात्रागमनं नान्यदस्तीह कारणम् ॥

रुषिगळ्:-
राजगुमार! नी पार्यैयुडन् मुन्नमे एन् वरविल्लै? एन् अबररात्रियिल् वन्दाय्? उनक्कु ऎव्विदमान इडैयूऱु एऱ्पट्टदु?
राजबुत्र! उनदु पिदा, मादा, नाङ्गळ् ऎल्लोरुम् ताबत्तिऱ्कु आळाक्कप्पट्टोम्. ऎक्कारणत्ताल् ऎण्ड्रु अऱियोम्. अदु मुऴुवदैयुम् सॊल्लक्कडवाय्.
सत्यवान्:-
नान् पिदाविनिडमुत्तरवु पॆट्रु सावित्रियुडन् सेर्न्दु सॆण्ड्रेन्.
पिऱगु काट्टिल् विऱगुगळै ऒडिक्कुम्बोदु ऎनक्कुत् तलैवलि उण्डायिट्रु.
अन्द वेदनैयाल् नान् वॆगु नेरम् तूङ्गिनेनॆण्ड्रु निनैक्किऱेन्.
आनाल् इदऱ्कु मुन् अव्वळवुगालम् नान् तूङ्गियदेयिल्लै. उङ्गळॆल् लोरुक्कुम् सन्दाबम् उण्डागवेण्डामॆन्बदऱ्काग रात्रियिल् अववेळैयिल् वन्देन्. इदुवे वेऱॊण्ड्रुमिल्लै.
विश्वास-प्रस्तुतिः
गौतम उवाच -
अकस्माच्चक्षुषः प्राप्तिः द्युमत्सेनस्य ते पितुः ।
नास्य त्वं कारणं वेत्सि सावित्री वक्तुमर्हति ॥
श्रोतुमिच्छामि सावित्रि त्वं हि वेत्थ परावरम् ।
त्वां हि जानामि सावित्रि सावित्रीमिव तेजसा ॥
त्वमत्र हेतुं जानीषे तस्मात् सत्यं निरुच्यताम् ।
रहस्यं यदि ते नास्ति किञ्चिदत्र वदस्व नः ॥

राजगुमार! उनदु पिदावान त्युमत्सेननुक्कुत् तिडीरॆनक् कण् किडैत्तुळ्ळदु.
इदऱ्कुक् कारणत्तै नी अऱियविल्लै. सावित्रीदान् सॊल्लवेण्डुम्.
सावित्री! केट्क विरुम्बुगिऱेन्. मुन्बिन् उळ्ळदै नीदान्अ अऱिवाय्.
ऒ सावित्री! तेजस्साल् उन्नै सावित्री तेवदैयैप् पोल् अऱिगिऱेन्.
इदु विषयत्तिल् कारणत्तै नीदान् अऱिन्दिरुक्किऱाय्. आगैयाल् उण्मैयैच् चॊल्वायाग. इदिल् रहस्यमॊण्ड्रुमिल्लाविडिल् ऎङ्गळुक्कुच् चॊल्वायाग.
विश्वास-प्रस्तुतिः
सावित्र्युवाच –
एवमेतद्यथा वेत्थ सङ्कल्पो नान्यथा हि वः ।
न हि किञ्चिद्रहस्यं मे श्रूयतां तथ्यमेव यत् ॥
मृत्युर्मे पत्युराख्यातो नारदेन महात्मना ।
स चाद्य दिवसः प्राप्तः ततो नैनं जहाम्यहम् ॥
सुप्तं चैनं यमस्साक्षादुपागच्छत् सकिङ्करः ।
स एनमनयद्बद्ध्वा दिशं पितृनिषेविताम् ॥
अस्तौषं तमहं देवं सत्येन वचसा विभुम् ।
पञ्चैव तेन मे दत्ता वराः शृणुत तान् मम ॥
चक्षुषी च स्वराज्यं च द्वौ वरौ श्वशुरस्य मे ।
लब्धं पितुः पुत्रशतं पुत्राणां चात्मनश्शतम् ॥
चतुर्वर्षशतायुर्मे भर्ता लब्धश्च सत्यवान् ।
भर्तुर्हि जीवितार्थं तु मया चीर्णमिदं व्रतम् ॥
एतत् सर्वं मयाऽऽख्यातं कारणं विस्तरेण वः ।
यथावृत्तं सुखोदर्कमिदं दुःखं महन्मम ॥

नीङ्गळ् सॊल्लियदु पोलवेयिदु, उङ्गळ् सङ्गल्बम् माऱादल्लवो? ऎनक्कु रहस्यमॊण्ड्रुमिल्लै.
उण्मैयैये सॊल्लुगिऱेन्, केळुङ्गळ्. महात्मावान नारदराल् ऎनदु पदिक्कु मरणम् सॊल्लप्पट्टदु.
अन्द नाळ् इण्ड्रु वन्दुविट्टदु. आगैयाल् ऎन् पदियै विडामलिरुन्देन्.
ऎन् पदि तूङ्गुम्बॊऴुदु, किङ्गरर्गळुडन् यमन् ताने इवरिडम् वन्दार्.
अवर् ऎन् पदियैक् कट्टि ऎडुत्तुत् तॆऱ्कुत् तिक्किल् कॊण्डुसॆण्ड्रार्.
अन्दत् धर्मराज प्रबुवै नान् उण्मैयान वाक्यङ्गळाल् स्तुदित्तेन्. अवराल् ऎनक्कु ऐन्दु वरन्गळ् अळिक्कप्पट्टन. अवैगळैक् केळुम्. कण्गळिन् प्राप्तियुम्, राज्य प्राप्तियुम् ऎण्ड्र इरण्डु वरन्गळ् ऎनदु मामनारुक्काग.
ऎनदु पिदावुक्काग नूऱु पुत्रर्गळ् अडैयप्पट्टनर्. ऎनक्कुम् नूऱु पुत्रर्गळ् वेण्डप्पट्टनर्. ऎनदु भर्त्तावान सत्यवानुक्कु नानूऱु वर्षम् आयुस् वरनाग अडैयप्पट्टदु. इव्विदम् ऐन्दु वरन्गळ्.
भर्त्ता जीवित्तिरुप्पदऱ्कागवे इन्द व्रदत्तै अनुष्टित्तेन्.
इन्दक् कारणम् मुऴुवदुम् उङ्गळुक्कु विरिवाय् उरैत्तेन्.
सुगत्तै मेऱ्कॊण्डदाय् ऎनदु महादुक्कम् ऎव्विदम् आनदो अव्विदम् उरैत्तेन्.
विश्वास-प्रस्तुतिः
ऋषय ऊचुः -
निमज्जमानं व्यसनैरमिद्रुतं कुलं नरेन्द्रस्य तमोमये हृदे ।
त्वया सुशीलव्रतपुण्यया कुलं समुद्धृतं साद्ध्वि पुनः कुलीनया ॥
मार्कण्डेय उवाच -
तथा प्रशस्य ह्यभिपूज्य चैव वरस्त्रियं तामृषयस्समागताः ।
नरेन्द्रमामन्त्र्य सपुत्रमञ्जसा शिवेन जग्मुर्मुदिताः स्वमालयम् ॥
इति ……… अध्यायः ॥
मूलम्
ऋषय ऊचुः -
निमज्जमानं व्यसनैरमिद्रुतं कुलं नरेन्द्रस्य तमोमये हृदे ।
त्वया सुशीलव्रतपुण्यया कुलं समुद्धृतं साद्ध्वि पुनः कुलीनया ॥
मार्कण्डेय उवाच -
तथा प्रशस्य ह्यभिपूज्य चैव वरस्त्रियं तामृषयस्समागताः ।
नरेन्द्रमामन्त्र्य सपुत्रमञ्जसा शिवेन जग्मुर्मुदिताः स्वमालयम् ॥
इति ……… अध्यायः ॥
द्राविडम्
रुषिगळ्:-
अरसनान त्युमत्सेननिन् कुलम् व्यसनङ्गळाल् तुरत्तप्पट्टु, तुक्कमयमान मडुविल् मुऴुगियदु.
ऒ पदिव्रदे! नल्ल ऒऴुक्कम्, व्रदम्,पुण्यम् इवैगळैयुडैयवळुम्, नऱ्कुलत्तिऱ् पिऱन्दवळुमान उन्नाल् अक्कुलम् मऱुबडि वॆळियेट्रप्पट्टदु.
मार्गण्डेयर्:-
अङ्गु वन्दुळ्ळ रुषिगळ् अव्विदम् अन्द उत्तम स्त्रीयै च्लागित्तु, पूजित्तु, पुत्रनुडन् कूडिय अरसनिडम् विडैबॆट्रु, सन्दुष्टराय्, तङ्गळ् इरुप्पिडत्तै उडने अडैन्दनर्.
…….अत्यायम् मुट्रुम्.
विश्वास-प्रस्तुतिः
मार्कण्डेयः -
तस्यां रात्र्यां व्यतीतायां मुदिते सूर्यमण्डले ।
कृतपौर्वाह्णिकास्सर्वे समेयुस्ते तपोधनाः ॥
तदेव सर्वं सावित्र्या महाभाग्यं महर्षयः ।
द्युमत्सेनाय नातृप्यन् कथयन्तः पुनः पुनः ॥
ततः प्रकृतयस्सर्वाः साल्वेभ्योऽभ्यागता नृप ।
आचख्युर्निहतं चैव स्वेनामात्येन तद्विषम् ॥
मन्त्रिणा निहतं ह्युक्त्वा ससहायं सबान्धवम् ।
न्यवेदयन् यथावृत्तं विद्रुतं च द्विषद्बलम् ॥
ऐकमत्यं च सर्वस्य जनस्याथ नृपं प्रति ।
सचक्षुर्वाऽप्यचक्षुर्वा स नो राजा भवत्विति ॥
अनेन निश्चयेनेह वयं प्रस्थापिता नृप ।
प्राप्तानीमानि यानानि चतुरङ्गं च ते बलम् ॥
प्रयाहि राजन् भद्रं ते घुष्टस्ते नगरे जयः ।
अद्ध्यास्व चिररात्राय पितृपैतामहं पदम् ॥
चक्षुष्मन्तं च तं दृष्ट्वा राजानं वपुषाऽन्वितम् ।
मूर्द्ध्ना निपतितास्सर्वे विस्मयोत्फुल्ललोचनाः ॥
ततोऽभिवाद्य तान् वृद्धान् द्विजानाश्रमवासिनः ।
तैश्चाभिपूजितस्सर्वैः प्रययौ नगरं प्रति ॥
शैब्या च सह सावित्र्या स्वास्तीर्णेन सुवर्चसा ।
नरयुक्तेन यानेन प्रययौ सेनया वृता ॥
ततोऽभिषिषिचुः प्रीत्या द्यु॒मत्सेनं पुरोहिताः ।
पुत्रं चास्य महात्मानं यौवराज्येऽभ्यषेचयन् ॥
ततः कालेन महता सावित्र्याः कीर्तिवर्द्धनम् ।
तद्वै पुत्रशतं जज्ञे शूराणामनिवर्तिनाम् ॥
भ्रातॄणां सोदराणां च तथैवास्याऽभवच्छतम् ।
मद्राधिपस्याश्वपतेर्माळव्यां सुमहाबलम् ॥
एवमात्मा पिता माता श्वश्रूः श्वशुर एव च ।
भर्तुः कुलं च सावित्र्या सर्वं कृच्छ्रात् समुद्धृतम् ॥
तथैवैषाऽपि कल्याणी द्रौपदी शीलसम्मता ।
तारयिष्यति वस्सर्वान् सावित्रीव कुलाङ्गना ॥

अन्द रात्रि सॆण्ड्रबिऱगु, सूर्य मण्डलमुमुदित्तबिऱगु, कालैक् कडन्गळै अनुष्टित्त महर्षिगळॆल्लोरुम् अङ्गु वन्दु कूडिनार्गळ्.
अम्महर्षिगळ्, सावित्रियिन् अन्द महाबाक्यत्तै त्युमत्सेननुक्कु अडिक्कडि सॊल्लि त्रुप्तियडैन्दनरिल्लै.
अरसने! पिऱगु साल्वदेसत्तिनिण्ड्रुम्, वन्द पट्टणत्तु जनङ्गळ्, त्युमत् सेननिन् सत्रु तनदु मन्द्रियिनालेये कॊल्लप्पट्टानॆण्ड्रु तॆरिवित्तनर्.
मन्द्रियिनाल् अरसन् कॊल्लप्पट्ट पिऱगे, अरसनिन् सैन्यमुम् नगरत्तै विट्टु ओडिविट्टदॆनवुम् तॆरिवित्तनर्.
पिऱगु जनङ्गळ् ऒण्ड्रुगूडि ऐगमत्यत्तुडन् ‘कण्णुळ्ळवनायिनुम्, कण्णिल्लादवनायिनुम् त्युमत्सेनने नमक्कु इनि अरसन् आगवेण्डुम्’ ऎण्ड्रु निच्चयित्तार्गळ्.
अवर्गळाल् नाङ्गळ् अनुप्पप्पट्टोम्. उम्मै अऴैत्तुच् चॆल्वदऱ्कु वाहनङ्गळुम्, नालङ्गङ्गळुडैय सेनैयुम् इदो वन्दुळ्ळन.
अरसने! उनक्कु मङ्गळमुण्डागुम्. पुऱप्पडक्कडवीर्. उमदु पट्टणत्तिल् उमदु जयम् कोषिक्कप्पट्टुळ्ळदु.
उमदु पिदा, पिदामहर् इवर्गळाल् आळप्पट्ट पदत्तिल् पल्लाण्डु नीर् इरुक्कक् कडवीर् ऎण्ड्रु तॆरिवित्तु, तमदु अरसन् कण्गळुडन् इरुप्पदैयुम्, नल्ल शरीरत्तुडनिरुप्पदैयुम् कण्डु आच्चर्यत्ताल् मलर्न्द कण्गळुडैयवर्गळाय्त् तलैवणङ्गिनर् ऎल्लोरुम्.
पिऱगु, आच्रमत्तिल् वसिक्कुम् पॆरियोर्गळान अन्द प्राम् हणर्गळै नमस्करित्तु, अवर्गळॆल्लोरालुम् आसीर्वदिक्कप् पट्टु अरसन् तनदु नगरत्तै नोक्किप् पुऱप्पट्टान्.
सैप्यैयुडनुम्, सावित्रियुडनुम्, कूडियवनाय्, सेनैयाल् सूऴप्पट्टु, नल्ल विरिप्पुडन् कूडियदुम्, नल्ल कान्दियुळ्ळदुमान पल्लक्किनाल् पुऱप्पट्टुच् चॆण्ड्रान्.
पिऱगु, त्युमत्सेननै पुरोहिदर्गळ् कळिप्पुडन् राज्यत्तिल् अबिषेगम् सॆय्दनर्.
इवनदु पुत्रनान सत्यवानै इळवरसनाग अबिषेगम् सॆय्दनर्.
पिऱगु सिलगालम् सॆण्ड्रदुम्, सावित्रीक्कु, युत्तत्तिल् तिरुम्बादवर्गळुम्, सूरर्गळुम्, कीर्त्तियै व्रुत्ति सॆय्बवर्गळुमान नूऱु पुत्रर्गळ् पिऱन्दनर्.
मत्रदेसादिबदियान अच्वबदियॆन्नुम् सावित्रियिन् पिदावुक्कुम् माळवियिनिडम् नूऱु पुत्रर्गळ् पलिष्टर्गळाय्प् पिऱन्दनर्. इव्विदम् सावित्री ऎन्बवळ्, तन्नैयुम्, तन् पिदा, मादा, मामनार्, मामियार् इवर्गळैयुम्, भर्त्ताविन् कुलत्तैयुम् कष्टत्तिनिण्ड्रुम् वॆळियेट्रिनाळ्.
अदुबोल्, कल्याणियुम्, सीलमुडैयवळुमान इन्द त्रौबदी. उङ्गळॆल्लोरैयुम् करैयेट्रप्पोगिऱाळ्, पदिव्रदैयान सावित्रीबोल्.
विश्वास-प्रस्तुतिः
वैशम्पायन उवाच -
एवं स पाण्डवस्तेन अनुनीतो महात्मना ।
विशोको विज्वरो राजन् काम्यके न्यवसत्तदा ॥
यश्चेदं शृणुयाद्भक्त्या सावित्र्याख्यानमुत्तमम् ।
स सुखी सर्वसिद्धार्थः न दुःखं प्राप्नुयान्नरः ॥
इत्यारण्यके पर्वणि सावित्र्युपाख्यानं समाप्तम् ॥

वैसम्बायनर्:-
अरसने! इव्विदम् महात्मावान मार्गण्डेयराल् तेट्रप्पट्ट युदिष्टिरर् सोगमुम्, ज्वरमुमट्रु काम्यगवनत्तिल् वसित्तार्. ऎवन् सिऱन्द सावित्री सरिदत्तैप् पक्तियुडन् केट्पानो, अवन् सर्व कामङ्गळिन् सित्तियैप् पॆट्रवनाय् सुगमाय् वाऴ्वान्. तुक्कमडैयमाट्टान्.
इव्विदमारण्यगबर्वत्तिल् सावित्रियिन् सरिदम् मुट्रुम्.
विश्वास-प्रस्तुतिः
एवं शौचाचारैरग्निशुश्रूषया अतिथिपूजनेन गृहकृत्यविचारणेन आयव्ययकुटुम्बसंरक्षणविचारेण भर्तुः शरीरशुश्रूषया भर्तुराश्रितादीनां च अन्नदानेन स्वयं तत्प्रसादग्रहणेन रात्रौ रत्यादिना स्वनिषिद्धानां भर्तुरप्रियस्य च वर्जनेन विहितानां भर्तुः यत् प्रियं तस्य चानुष्ठानेन प्रतिकर्मणा भर्तुः श्रमापनोदनेन तत्तत्काले प्राप्तानां शरीरधर्माणां यथाविद्ध्यनुष्ठानेन भर्त्रनुगमनेन भर्तुरनन्तरं यावज्जीवब्रह्मचर्यादिनियमपरिपालनेन पतिशुश्रूषया तद्वचनकरणेन च पतिः सन्तोषणीयः । एवं सन्तोषणमेव पतिशुश्रूषणमित्युच्यते ॥
अनेन नारी वृत्तेन मनोवाग्देहसंयता ।
इहाग्र्यां कीर्तिमाप्नोति पतिलोकं परत्र च ॥
पतिं या नातिचरति मनोवाग्देहसंयता ।
सा भर्तृलोकानाप्नोति सद्भिस्साध्वीति चोच्यते ॥
एवं भर्तृशुश्रूणपराणां सतीनां माहात्म्यम् उत्तमलोकप्राप्तिश्च,
रामायणे -
पतिप्रियहिते युक्ता स्वाचारा विजितेन्द्रिया ।
सेह कीर्तिमवाप्नोति प्रेत्य चानुत्तमां गतिम् ॥
नगरस्थो वनस्थो वा पापो वा यदि वा शुभः ।
यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥
एवंविधाश्च प्रवराः स्त्रियो भर्तृदृढव्रताः ।
देवलोके महीयन्ते पुण्येन स्वेन कर्मणा ॥

इव्विदम् सौसासारङ्गळालुम्, अक्निशुश्रूषैयालुम्, अदिदि पूजैयालुम्, क्रुहगार्य विसारणत्तालुम्, वरवु सॆलवु कुटुम्बरक्षणमिवैगळै विसारिप्पदालुम्, भर्त्ताविन् शरीरत्तिऱ्कुप् पणिविडैयालुम्,भर्त्तावुक्कुम् अण्डियवर् कळुक्कुम् अन्नम् अळिप्पदालुम्, भर्त्ताविन् प्रसादत्तै क्रहिप्पदालुम्, इरविल् भर्त्तावैच् चन्दोषिप्पदालुम्, तनक्कु निषित्तङ्गळैयुम्, भर्त्तावुक्कु प्रियमिल्लाददैयुम्, वर्जिप्पदालुम्, विहिदङ्गळैयुम्, भर्त्तावुक्कु प्रियमॆदुवो अदै अनुष्टिप्पदालुम्, अलङ्गारत्तालुम्, भर्त्ताविन् च्रमत्तैयगट्रुवदालुम्, अन्दन्दक् कालङ्गळिल् वरुम् शरीर धर्मङ्गळै विधिप्पडियनुष्टिप्पदालुम्, भर्त्तावै अनुगमनम् सॆय्वदालुम्, भर्त्तावुक्कुप् पिऱगु उयिरुळ्ळवरैयिल् प्रमहसर्यम् मुदलिय नियमङ्गळैप् परिबालिप्पदालुम्, पदि शुश्रूषैयालुम्, अवन् वाक्यप्पडि नडप्पदालुम् पदियैच् चन्दोषिप्पिक्कवेण्डुम्. इव्विदम् सन्दोषप्पडुत्तुवदे पदिशुश्रूषणमॆनप्पडुगिऱदु.
इव्विदमान नडत्तैयुडनिरुक्कुम् स्त्री, मनम्, वाक्कु, तेहम् इवैगळिल् अडक्कमुडनिरुन्दाल्, इव्वुलगिल् सिऱन्द पुगऴैप् पॆऱुवाळ्.
परलोकत्तिलुम् पदियिन् लोकत्तै अडैवाळ्. ऎवळ् मनोवाक्कायङ्गळै अडक्कियवळाय् भर्त्तावै अदिक्रमिक्कामलिरुक्किण्ड्राळो अवळ् भर्तृ लोकत्तैयडैवाळ्.
सादुक्कळ् अवळैप् पदिव्रदै ऎण्ड्रु सॊल्लुगिऱार्गळ्.
इव्विदम् भर्तृ शुश्रूषैयिल् आसक्तियुळ्ळ पदिव्रदैगळिन् माहात्म्यमुम्, उत्तम लोकप्पाप्तियुम् रामायणत्तिल् सॊल्लप्पडुगिऱदु.
पदियिन् परियत्तिलुम्, हिदत्तिलुम् कवनमुळ्ळवळुम्, नल्ल आचारमुळ्ळवळुम्, पुलन्गळै जयित्तवळुमान स्त्री इव्वुलगिल् पुगऴैयुम्, इऱन्द पिऱगु सिऱन्द
विश्वास-प्रस्तुतिः
आग्नेयपुराणे -
अपापाः पुण्यसङ्कल्पाः शुश्रूषन्त्यः पतीन् गुरून् ।
भूषयन्त्यः कुलं वृत्त्या पुत्रवत्योऽश्नुते दिवम् ॥
तत्रैव सुशीलायाः भर्तृशुश्रूषयैव ब्रह्मलोकावाप्तिराम्नाता ।
शुश्रूषन्ती स्वभर्तारं सुशीला शुद्धमानसा ॥
साद्ध्वी सा भर्तुशुश्रूषासोपाना स्वर्गतिं गता ॥
विमानस्था स्तुता देवैः ब्रह्मलोकं जगाम ह ॥

उलगत्तैयुम् अडैगिऱाळ्. ऎन्द स्त्रीगळुक्कु, भर्त्ता नगरत्तिलिरुप्पवनायिनुम्, अरण्यत्तिलिरुप्पवनायिनुम्, पाबियायिनुम्, पुण्यनायिनुम्, प्रियमायिरुक्किण्ड्रानो, अवर्गळुक्कुच् चिऱन्द उलगङ्गळ् उण्डु.
इव्विदमुळ्ळवर्गळुम्, भर्त्तालैये त्रुडमान व्रदमायुडैयवर्गळुमान सिऱन्द स्त्रीगळ् तमदु पुण्य कर्मत्तिनाल् तेवलोकत्तिल् सिऱप्पै अडैगिण्ड्रनर्, ऎण्ड्रु.
आक्नेयबुराणत्तिल्:-
पाबम् सॆय्या तवर्गळुम्, पुण्यमान सङ्गल्बमुडैयवर्गळुम्, पदिक्कुम्, कुरुक्कळुक्कुम् शुश्रूषै सॆय्बवर्गळुमान स्त्रीगळ् तन् कुलत्तै आचारत्ताल् अलङ्गरिप्पवगळायुम् पुत्ररैयुडैयवर्गळायुम् इरुन्दु, पिऱगु स्वर्क्कत्तैयु मडैगिण्ड्रनर्.
आक्नेय पुराणत्तिलेये सुसीलै यॆन्बवळुक्कुप् भर्तृ शुश्रूषैयालेये प्रम्हलोक प्राप्ति सॊल्लप् पट्टुळ्ळदु:-
‘तनदु भर्त्तावै शुश्रूषिप्पवळुम्, सुत्त मनमुडैयवळुम्, पदिव्रदैयुमान अन्द सुसीलै पर्त्कु शुश्रूषैयॆनुम् पडियाल् स्वर्क्कलोकत्तै अडैन्दाळ्.
विमानत्तिलुळ्ळवळाय्त् तेवर्गळाल् पुगऴप्पट्टु प्रम्ह लोकत्तैयडैन्दाळ्’ ऎण्ड्रु.
विश्वास-प्रस्तुतिः
स्कान्दे –
पतिव्रतायाश्चरणो यत्र यत्र स्पृशेद्भुवम् ।
तत्रेति भूमिर्मन्येत नात्र भारोऽस्ति पावनी ॥
बिभ्यत्पतिव्रतास्पर्शं कुरुते भानुमानपि ।
सोमो गन्धवहश्चापि स्वपावित्र्याय नान्यथा ॥
आपः पतिव्रतास्पर्शमभिलष्यन्ति सर्वदा ।
यथा गङ्गावगाहेन शरीरं पावनं भवेत् ॥
तथा पतिव्रतादृष्ट्या शुभया पावनं भवेत् ।
न गङ्गया तथा भेदो या नारी पतिदेवता ।
उमाशिवसमा साक्षात्तस्मात्तां पूजयेद्बुधः ।
पितृवंश्या मातृवंश्याः पतिवंश्यास्त्रयस्त्रयः ॥
पतिव्रतायाः पुण्येन स्वर्गसौख्यानि भुञ्जते ॥

पदिव्रदैयिन् काल् ऎन्दॆन्द इडत्तिल् पूमियैत् तॊडुगिऱदो अन्दन्द इडत्तिल्, पूमिदेवि ‘इङ्गुप् पारमेयिल्लै, इवळ् परिसुत्तै’ ऎण्ड्रु निनैक्किऱाळ्.
सूर्यन् पयन्दे तन् किरणङ्गळाल् पदिव्रदैयै स्पर्सिक्किण्ड्रान्.
चन्द्रनुम्, वायुवुम् तमदु सुत्तिक्कागवे पदिव्रदैयै स्पर्सिक्किण्ड्रनर्. सन्देहमिल्लै.
जलङ्गळुम् पदिव्रदैयिन् स्पर्सत्तै ऎप्पॊऴुदुम् आसिक्किण्ड्रन.
कङ्गास्नानत्ताल् ऎव्विदम् शरीरम् सुत्तमागिऱदो अव्विदम् पदिव्रदैयिन् पार्वैयिनाल् सुत्तमागिण्ड्रदु.
पदिव्रदैयान स्त्रीक्कुम् कङ्गैक्कुम् पेदमिल्लै. अवळ्, पार्वदिक्कुम् परमेसनुक्कुम् सममावाळ्.
आगैयाल् अवळैप् पूजिक्कवेण्डुम्. पदिव्रदैयिन् पुण्यत्ताल्, अवळिन् पित्रुवम्सम्, मात्रु वम्सम्, पदि वम्सम्, इम्मूण्ड्रु वम्सङ्गळिलुम् मुम्मूण्ड्रु तलैमुऱैयिलुमुळ्ळवर्गळ् स्वर्क्क सौक्यङ्गळै यडैगिण्ड्रनर्.
विश्वास-प्रस्तुतिः
इत्थं त्रयम्बक-यज्वना स्मृति-पुराणोक्तीर् विलोड्याखिलाः
धर्माः स्त्री-विषयाः पुनः कतिपये तत्-तद्-व्यवस्थान्विताः ।
सङ्गृह्यात्र कृतौ क्रमेण कथिता मात्र्-आज्ञया धीमता
तान् आकर्ण्य सदा स्त्रियश् च सकला धर्मे मतिं तन्वताम् ॥
धर्माः स्त्रीविषयाः श्रुति-स्मृति-पुराणेषु श्रुता ये पृथक्
तान् सङ्गृह्य ततस् ततो मृग-दृशां सौकर्य-हेतोः कृता ।
सेयं मत्-कृतिर् उज्ज्वलैर् मणि-गणैर् विष्वक्-परीक्ष्याहृतैः
मालेव ग्रथिता तनोतु जगतां मातुः प्रमोदं परम् ॥
गुरु-यज्ञेश-कृपया श्री-मत्-त्र्यम्बकयज्वना ।
प्रीतये श्रीनृसिंहस्य कृता स्त्रीधर्मपद्धतिः ॥
स्त्रीधर्मपद्धतिः समाप्ता ॥
मूलम्
इत्थं त्रयम्बकयज्वना स्मृतिपुराणोक्तीर्विलोड्याखिलाः
धर्माः स्त्रीविषयाः पुनः कतिपये तत्तद्व्यवस्थान्विताः ।
सङ्गृह्यात्र कृतौ क्रमेण कथिता मात्राज्ञया धीमता
तानाकर्ण्य सदा स्त्रियश्च सकला धर्मे मतिं तन्वताम् ॥
धर्माः स्त्रीविषयाः श्रुतिस्मृतिपुराणेषु श्रुता ये पृथक्
तान् सङ्गृह्य ततस्ततो मृगदृशां सौकर्यहेतोः कृता ।
सेयं मत्कृतिरुज्वलैर्मणिगणैर्विष्वक्परीक्ष्याहृतैः
मालेव ग्रथिता तनोतु जगतां मातुः प्रमोदं परम् ॥
गुरुयज्ञेशकृपया श्रीमत्त्र्यम्बकयज्वना ।
प्रीतये श्रीनृसिंहस्य कृता स्त्रीधर्मपद्धतिः ॥
स्त्रीधर्मपद्धतिः समाप्ता ॥
द्राविडम्
इव्विदम् पुत्तिमानागिय त्रयम्बग तीक्षिदराल् मादाविन् आज्ञैयाल् सगल सम्रूदि पुराण वसनङ्गळैयुम् आराय्न्दु, स्त्रीगळैप् पट्रिय सिल धर्मङ्गळ् अन्दन्द व्यवस्तैगळुडन् कूडियवैगळाय्, सुरुक्कमाय्, क्रममाय् इन्द क्रन्दत्तिल् सॊल्लप्पट्टुळ्ळन.
अवैगळैक् केट्टु ऎल्ला स्त्रीगळुम्, ऎप्पॊऴुदुम् धर्मत्तिल् पुत्तियैच् चॆय्यवेण्डुम्.
श्रुतिगळिलुम् पुराणङ्गळिलुम्, तनिये स्त्रीगळैप् पट्रिय ऎन्दॆन्दत् धर्मङ्गळ् केट्कप्पडुगिण्ड्रनवो अवैगळै आङ्गाङ्गिरुन्दु सेर्त्तॆडुत्तु, मान्विऴियार्गळिन् सौकर्यत्तिऱ्काग इयट्रप्पट्ट इन्द ऎनदु क्रुदि (क्रन्दम्) पलविडङ्गळिलिरुन्दु परीक्षित्तुक्कॊण्डुवरप्पट्ट प्रकाशमुळ्ळ रत्नक्कूट्टङ्गळाल् इसैक्कप्पट्ट मालैबोल् जगन्मादावुक्कुच् चिऱन्द सन्दोषत्तैच् चॆय्यवेण्डुम्.
श्रीयक्ञेसरॆनुम् कुरुविन् क्रुबैयाल्, श्रीमानान त्र्यम्बग तीक्षिदराल्, श्रीन्रुसिम्हनिन् प्रीदिक्काग स्त्री धर्मबत्तदि ऎनुम् क्रन्दम् इयट्रप्पट्टदु.
स्त्री धर्मबत्तदि मुट्रिट्रु.