०३ सह-गमन-विधिः

विश्वास-प्रस्तुतिः

अथ सहगमनविधिः ॥

कन्याविवाहसमये वाचयेयुरिति द्विजाः ।
भर्तुस्सहचरी भूयाः जीवतोऽजीवतोऽपि वा ॥

इति ॥

शङ्खोऽपि –

मृते भर्तरि या नारी समारोहेद्धुताशनम् ।
साऽरुन्धतीसमाचारा स्वर्गलोके महीयते ॥

मूलम्

अथ सहगमनविधिः ॥

कन्याविवाहसमये वाचयेयुरिति द्विजाः ।
भर्तुस्सहचरी भूयाः जीवतोऽजीवतोऽपि वा ॥

इति ॥

शङ्खोऽपि –

मृते भर्तरि या नारी समारोहेद्धुताशनम् ।
साऽरुन्धतीसमाचारा स्वर्गलोके महीयते ॥

द्राविडम्

सहगमन विधि

पॆण्णिन् विवाह समयत्तिल्, प्पाम्हणर्गळ् इव्विदम् सॊल्लवेण्डुम्. पॆण्णे? भर्त्ता जीवित्तिरुक्कुम् पॊऴुदुम्, पिऱगुम् अवनुक्कुक्कूड इरुप्पवळाय् आगक्कडवाय् ऎण्ड्रु.

सङ्गरुम्:–

भर्त्ता इऱन्दवुडन् ऎन्द स्त्री अक्नि प्रवेसम् सॆय्गिण्ड्राळो, अवळ् अरुन्ददिक्कुच् चममानवळ्, स्वर्क्कलोकदिल् सिऱप्पैयडैगिऱाळ्.

विश्वास-प्रस्तुतिः

ननु अत्र स्त्रीणां भर्त्रा सहगमनं धर्म्यमित्युक्तमसङ्गतम् आत्महत्यारूपत्वेन निषिद्धत्वात् ॥

तथा हि श्रुतिः - ‘तस्मादुह न पुराऽयुषः प्रेया’दिति ॥

ईशावास्येऽपि -

असुर्या[[??]] नाम ते लोका अन्धेन तमसा वृताः ।
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥

इति ॥

इति चेन्न, आत्महत्यानिषेधपरायाः श्रुतेः, विहितानुमरणव्यतिरिक्तात्महत्याविषयत्वात् । अन्यथा ‘सितासिते सरितौ यत्र सङ्गते’ इत्यादिश्रुतिविहिततनुत्यागोऽपि न स्यात् । तथा ‘ये युद्ध्यन्ते प्रधनेषु शूरासो ये तनुत्यज’ इति युद्धे शूरस्य श्रुतिविहितशरीरपरित्यागोऽपि न स्यात् । तथा च - यथा ‘न हिंस्यात् सर्वभूता’नीति सामान्यवचनस्य ‘अग्नीषोमीयं पशुमालभेते’ति विशेषश्रुत्या बाधः, एवं सहगमनवचनैः सामान्यात्महत्या निषेधवचनस्य बाधः ॥

ओय्! इङ्गु स्त्रीगळुक्कु, भर्त्तावोडु मरिप्पदु धर्म्यमॆण्ड्रु सॊल्लियदु पॊरुन्दाददु. आत्महत्यारूबमानदाल्, निषेदिक्कप्पट्टिरुप्पदाल्.

अव्विदम् श्रुति उळ्ळदु :- ‘आगैयाल् आयुळुक्कु मुन् तानागच् चागक्कूडादु’ ऎण्ड्रु.

ईसावास्यत्तिलुम् :

कॊडिय इरुळाल् सूऴप्पट्ट असुर्यङ्गळॆण्ड्रु प्रसिद्धङ्गळान उलगङ्गळ् उळ्ळन.
ऎन्द जनङ्गळ् तन्नैक्कॊण्ड्रु कॊण्डवर्गळो, अवर्गळ् इऱन्द पिऱगु, अन्द उलगङ्गळै अडैगिण्ड्रनर् ऎण्ड्रु इरुप्पदाल्, ऎनिल्, अदु इल्लै.
आत्महत्यैयै निषेदिक्कुम् श्रुति, सास्त्र विहिदमान अनुमरणत्तैत् तविर्त्त आत्महत्यम् विषयमानदाल्. इव्विदमिल्लाविडिल्, ‘सिदासिदे’ ऎन्बदु मुदलिय श्रुतिगळाल् विधिक्कप्पट्ट शरीरत्यागमुम् सित्तिक्कादु. अव्विदमे, ’येयुत्यन्दे ’ ऎण्ड्रु युत्तत्तिल् सूरनुक्कु वेदविहिदमान शरीर परित्यागमुम् सित्तिक्कादु. अव्विदमानदाल्, ऎव्विदम् ‘ऎन्द प्राणियैयुम् हिम्सिक्कक् कूडादु’ ऎण्ड्र सामान्य वसनत्तिऱ्‌कु, ‘अक्नीषोमीयमान पसुवै आलबनम् सॆय्यवेण्डुम्’ ऎण्ड्र विशेषश्रुतियाल् पादमो, इव्विदम्, अनुमाणवसनङ्गळाल्, सामान्यमान आत्महत्यानिषेदवसनत्तिऱ्‌कुप् पादम्.

विश्वास-प्रस्तुतिः

महाफलत्वादपि भर्त्रनुमरणं स्त्रीणां श्लाघ्यम् । तथा च व्यासः, स्त्रीणामनुगमनविषये

भर्ता सहानुयातव्यो देहवच्छायया सदा ।
चन्द्रमा ज्योत्स्नया यद्वद्विद्युत्वान् विद्युता यथा ॥
अनुव्रजन्ती भर्तारं गृहात् पितृवनं मुदा ।
पदेपदेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम् ॥
व्याळग्राही यथा व्याळं बलादुद्धरते बिलात् ।
एवमुत्कृष्य दैत्येभ्यः पतिं स्वर्गं नयेत् सती ॥
यमदूताः पलायन्ते सतीमालोक्य दूरतः ।
अपि दुष्कृतकर्माणं समुत्सृज्य च तत्पतिम् ॥
न तथा बिभिमो वह्नेः न तथा विद्युतो यथा ।
आपतन्तीं समालोक्य वयं दूताः पतिव्रताम् ॥
तपनस्तपतेऽत्यन्तं दहनोऽपि च दह्यते ।
कम्पन्तेऽपि च तेजांसि दृष्ट्वा पातिव्रतं महः ॥
यावत् स्वलोमसङ्ख्याऽस्ति तावत् कोट्ययुतानि च ।
भर्त्रा स्वर्गसुखं भुङ्क्ते रममाणा पतिव्रता ॥

महाबलप्रदमानदालुम् भर्त्तावुडन् अनुमरणम् सॆय्दल् स्त्रीगळुक्कु च्लाक्यमागुम्. अव्विदमे व्यासर्, स्त्रीगळिन् अनुगमनविषयत्तिल्

निऴल्देहत्तुडन् सॆल्वदुबोलुम्, निलवु चन्द्रनुडन् पोलुम्, मिन्नल् मेगत्तुडन् पोलुम् भर्त्तावै विडादु कूडवे सॆल्लवेण्डुम्.
भर्त्तावै अनुगमनम् सॆय्वदऱ्‌काग वीट्टिनिण्ड्रुम् च्मसानत्तिऱ्‌कु नडन्दु सॆल्लुम् पदिव्रदै, ऒव्वॊरु अडियिलुम् अच्वमेदत्तिन् पलत्तै अडैगिण्ड्राळ्. सम्सयमिल्लै.
पाम्बैप् पिडिप्पवन्, पॊन्दिनिण्ड्रुम् ऎप्पडिप् पलात्कारमाय्प् पाम्बै इऴुक्किण्ड्रानो, अव्विदम्, परिव्रदैयागियवळ् तन् भर्त्तावै यमदूदर्गळिडमिरुन्दु इऴुत्तु, स्वर्क्कलोकत्तै अडैविक्किण्ड्राळ्.
यमदूदर्गळ् पदिव्रदैयैक् कण्डवुडन्, पाबियानालुम् अवळिन् पदियै विट्टुविट्टुत् तूरत्तिल् ओडुगिऱार्गळ्.
यमदूदर्गळागिय नाङ्गळ्, अक्नियिनिण्ड्रुम् अव्विदम् पयमडैयोम्, मिन्नलिनिण्ड्रुम् अव्विदम् पयमडैयोम्. वरुगिण्ड्र पदिव्रदैयैक्कण्डु ऎव्विदम् पयमडैवोमो.
पदिव्रदैयिनुडैय तेजस्सैक्कण्डाल्, सूर्यनुम् ताबत्तैयडैगिऱान्. अक्नियुम् ताहत्तैयडैगिऱान्. मट्रत् तेजस्सुगळुम् नडुङ्गुगिण्ड्रन.
अनुगमनम् सॆय्द पदिव्रदै, तन् तेहत्तिल् ऎव्वळवु रोमङ्गळुळ्ळनवो अव्वळवु कोडिप्पदिनायिरम् वरुषगालम्वरैयिल्, स्वर्क्कलोकत्तिल् भर्त्तावुडन् क्रीडिप्पवळाय् सुगत्तै अनुबविप्पाळ्.

विश्वास-प्रस्तुतिः

पराशरोऽपि -

तिस्रः कोट्योऽर्धकोटी च यानि रोमाणि मानुषे ।
तावत्कालं वसेत् स्वर्गे भर्तारं याऽनुगच्छति ॥

व्यासोऽपि -

या भर्तृपरमा नित्यं स्तूयमानाऽप्सरोगणैः ।
तिष्ठते पतिना सार्धं यावदिन्द्राश्चतुर्दश ॥

व्यासः -

यदि प्रविष्टो नरकं बद्धः पाशैस्सुदारुणैः ।
सम्प्राप्तो यातनास्थानं गृहीतो यमकिङ्करैः ॥
तिष्ठते विवशो दीनो वेपमानः स्वकर्मभिः ।
ब्रह्मघ्नो वा कृतघ्नो वा मित्रघ्नो वा भवेत् पतिः ॥
पुनात्यविधवा नारी तमादाय मृता तु या ॥

परासररुम्-

ऎवळ् भर्त्तावै अनुसरित्तु मरिक्किण्ड्राळो अवळ्, पुरुषनिडम् उळ्ळ 3½ कोडि सोमङ्गळ् कणक्कुळ्ळ कालम्वरैयिल् स्वर्क्कत्तिल् वसिप्पाळ्.

व्यासरुम्:-

ऎवळ् भर्त्तावै अनुगमनम् सॆय्दवळो अवळ् अप्रस्सुगळाल् तुदिक्कप्पट्टवळाय्, 14-इन्द्रर्गळिन् कालम्वरैयिल् पदियुडन् स्वर्क्कलोकत्तिल् वसिप्पाळ्.

व्यासर्:-

नरगत्तै अडैन्दवनायिनुम्, पयङ्गर पासङ्गळाल् कट्टप्पट्टवनायिनुम्, यमदूदर्गळाल् पिडिक्कप्पट्टवनायिनुम्, तीव्रनरगत्तैयडैन्दवनायिनुम्, परवसनाय्त् नयत् तन् विनैगळाल् नडुङ्गियवनाय् इरुप्पिनुम्, प्रबहक्ननायिनुम्, क्रुदक्ननायिनुम्, मित्रक्ननायिनुम्, पदियै अनुमरणम्सॆय्द पदिव्रदै, पाबियान तन् पदियैच् चुत्तनाक्कुगिण्ड्राळ्.

विश्वास-प्रस्तुतिः

इदं चानुमरणं पतिव्रतया अनुष्ठितं सदुक्तरीत्या उभयोः श्रेयोहेतुः, पापीयस्या अनुष्ठितं चेत् पापक्षयहेतुः । तथा च सङ्ग्रहे ॥

भारते -

अवमत्य च याः पूर्वं पतिं दुष्टेन चेतसा ।
वर्तन्ते याश्च सततं भर्तॄणां प्रतिकूलगाः ॥
भर्त्राऽनुमरणं काले याः कुर्वन्ति तथाविधाः ।
कामात् क्रोधाद्भयाद्वाऽपि सर्वाः पूता भवन्त्युत ॥

इति ॥

अनेन जीवनदशायां भर्तृविप्रियं पापं कृतवत्याः सहगमनं प्रायश्चित्तत्वेनोक्तम् । इदं च प्रायश्चित्तं इतरयुगेषु निषेधाभावात् कर्तुं शक्यम् ॥

इन्द अनुमरणम् पदिव्रदैयाल् अनुष्टिक्कप्पट्टाल् सॊल्लियबडि इरुवरुक्कुम् नन्मैक्कुक् कारणमागिण्ड्रदु. पाबमुडैयवळाल् अनुष्टिक्कप्पट्टाल् पाब क्षयत्तिऱ्‌कुक् कारणमागिण्ड्रदु. अव्विदमे सङ्ग्रहत्तिल्. पारदत्तिल्:-

ऎवर्गळ् तुष्टमान मनदिनाल् पदियै अवमदित्तुळ्ळवरो, ऎवर्गळ् ऎप्पॊऴुदुम् भर्त्ताक्कळुक्कु प्रदिगूलमागवे नडक्किण्ड्रनर्गळो अन्द स्त्रीगळुम् कामत्तालो, क्रोदत्तालो, पयत्तालो, भर्त्तावोडु अनुमरणम् सॆय्दाल् ऎल्लोरुम् सुत्तैगळागिण्ड्रनर्.

इदनाल् जीवदसैयिल् भर्त्तावुक्कुम् विप्रियम् सॆय्दवळुक्कु अनुमरणम् प्रायच्चित्तमॆण्ड्रु सॊल्लप्पट्टदु. इन्द प्रायच्चित्तम्, मट्र युगङ्गळिल् निषेदमिल्लाददाल् सॆय्यत्तगुन्ददागुम्.

विश्वास-प्रस्तुतिः

कलियुगे तु –

कलौ युगे त्विमान् धर्मान् वर्ज्यानाहुर्मनीषिणः ।
प्रायश्चित्तविधानं च विप्राणां मरणान्तिकम् ॥

इति मरणान्तिकप्रायश्चित्तस्य निषिद्धत्वात्, कर्तव्यं न कर्तव्यमिति महद्भिर्विवेचनीयम् ॥

एवं च प्रतिकूलाचरणप्रायश्चित्तत्वेनावगतस्य सहगमनस्य मरणान्तिकप्रायश्चित्तरूपत्वेन कलियुगे विचार्यत्वात्, वाचा क्रियया वा प्रतिकूलाचरणस्य प्रायश्चित्तं नास्तीत्यभिप्रेत्य कौसल्यया दशरथं प्रति शोकवशात् परुषोक्त्यनन्तरं,

सम्भ्रमादब्रवीत्त्रस्ता त्वरमाणाक्षरं वचः ।
प्रसीद शिरसा याचे भूमौ निपतिताऽस्मि ते ॥
तथा प्रसादितो वाक्यैः देव्या कौसल्यया नृपः ॥

इति तत्प्रसादनस्यैव कृतत्वात् ॥

कलियुगत्तिलो,

कलियुगत्तिलो इन्दत् धर्मङ्गळै वर्ज्यङ्गळागप् पुत्तिमान्गळ् सॊल्लुगिण्ड्रनर्, मरणान्दिगप्रायच्चित्तमुम् कूडादु ऎण्ड्रु, मरणान्दिगप्रायच्चित्तम् निषित्तमायिरुप्पदाल्, इदु सॆय्यत् तगुन्ददा, तगाददा, ऎण्ड्रु महान्गळाल् विसारिक्कत् तगुन्ददु.

इव्विदमिरुप्पदाल्, प्रदिगूलासरणत्तिऱ्‌कु प्रायच्चित्त मॆण्ड्रऱियप्पट्ट सहगमनम् मरणान्दिग प्रायच्चित्त रूबमागियदाल् विसार्यमागियदाल्, वाक्किनालो, क्रियैयिनालो सॆय्द प्रदिगूलासरणत्तिऱ्‌कु प्रायच्चित्तम् इल्लै ऎण्ड्रु अबिप्रायत्तैयडैन्दु, कौसल्बैयाल्, तसरदरै नोक्कि, सोगवसत्ताल् कडुञ्जॊऱ्‌कळ् सॊल्लिय पिऱगु,

पयन्दवळाय्, परबरप्पुडन् वेगमुळ्ळ वर्णङ्गळुडैब वार्त्तैयैच् चॊन्नाळ्. अनुग्रहिक्क वेण्डुम्, तलैयाल् वेण्डुगिऱेन्. पूमियिल् विऴुन्दुळ्ळेन्. अव्विदम् कौसल्यैयाल् अरसन् वेण्डिक् कॊळ्ळप्पट्टान्

ऎण्ड्रु उळ्ळ क्रन्दत्ताल् अवनै प्रसादनम् सॆय्ददागवे तॆरिगिण्ड्रदु.

विश्वास-प्रस्तुतिः

एवं भगवता रामेणापि कैकेय्याः प्रतिकूलाचरणस्य प्रायश्चित्तं नास्तीत्यभिप्रेत्यैव,

कुरु प्रसादं धर्मज्ञ कैकेय्या भरतस्य च ।
स तथेति महाराजो राममुक्त्वा कृताञ्जलिः ॥

इति दशरथप्रसादनस्यैव कृतत्वात् ॥

एवं प्रायश्चित्ताभावमभिप्रेत्य, आग्नेयपुराणे भगवता श्रीकृष्णेन सुभद्रां प्रति धर्मबोधनवेलायाम् -

गुरुनिन्दापरः शिष्यः पितृनिन्दापरस्सुतः ।
पतिनिन्दापरा नारी विण्मूत्रे नरके पतेत् ॥
तस्मात् सर्वात्मना भद्रे मा कृथा भर्तुविप्रियम् ।
भूषयन्ती कुलं पित्रोः श्रेयः परमवाप्स्यसि ॥

इति ।

इव्विदम्, पगवानागिय रामनुम्, कैगेयी तसरदरुक्कुच् चॆय्द प्रदिगूलासरणत्तिऱ्‌कु प्रायच्चित्तमिल्लै ऎण्ड्रु अबिप्रायप् पट्टे, “धर्मऱिन्दवरे! कैगेयिक्कुम् परदनुक्कुम् अनुग्रहम् सॆय्वीराग” ऎण्ड्रार्. अन्द महाराजनुम् अव्विदमे सॆय्गिऱेन् ऎण्ड्रार्, ऎण्ड्रबडि, तसादनै प्रसादनम् सॆय्दार् ऎण्ड्रुळ्ळदु.

इव्विदम् परायच्चित्तमिल्लै ऎन्बदै मनदिऱ्‌ कॊण्डे, आक्नेयबुराणत्तिल् क्रुष्णबगवानाल्, सुबत्रैक्कुत् धर्मोबदेसम् सॆय्युम्बोदु, ‘कुरुनिन्दै सॆय्युम् सिष्यनुम्, पिदावै निन्दिक्कुम् पिळ्ळैयुम्, पदियै निन्दिक्कुम् स्त्रीयुम् विण्मूत्र मॆन्नुम् नागत्तिल् विऴुवार्गळ्. आगैयाल् ऎव्विदत्तालुम् भर्त्तावुक्कु अप्रियत्तैच् चॆय्यादे. ओ सुबत्रे! इव्विदमिरुन्दाल्, मागाबिदाक्कळिन् कुलङ्गळै अलङ्गरिप्पवळाय् मिगवुम् नन्मैयै अडैवाय् ऎनप्पट्टदु.

विश्वास-प्रस्तुतिः

एवं केकयराजेन स्वस्त्रियं प्रति -

करोति विप्रियं भर्तुः या नारी सकृदेव हि ।
सा तप्ततैलनरकं भुक्त्वाऽथ विधवा भवेत् ॥
भर्तुः शुश्रूषणं भक्त्या नारीणां तप उच्यते ।
मयि जीवति ते पुण्यं घटते स्वर्गसाधनम् ॥
पातिव्रत्येन पुण्येन नारी वैकुण्ठमश्नुते ।
अन्यथा सर्वतीर्थेषु स्नाताऽपि नरकं व्रजेत् ॥

इति । स्थलान्तरेऽपि –

स्वर्गेच्छूनां तु नारीणां पतिर्हि परमेश्वरः ।
शुनी स्यादन्यधर्मिष्ठा या नारी पतिनिन्दिनी ॥

इति ॥

अन्यत्रापि -

पतिद्रोहेण पापेन व्याधिग्रन्थिप्रपीडिता ।
सकृमिग्रन्थिरभवत् कर्णनासाङ्गुळीष्वपि ॥
आक्रोशन्ती दिवारात्रं हा हेति रुदती सदा ।
दह्यमाना च तापेन बाधिता कृमिकोटिभिः ॥

इव्विदमे केगयराजनाल् तन् मनैवियैप् पट्रि,

ऎन्द स्त्री भर्त्तावुक्कु ऒरु मुऱैयावदु अनिष्टत्तैच् चॆय्गिऱाळो अवळ् तप्तदैलमॆनुम् नरगत्तै अनुबवित्तुप् पिऱगु पिऱवियिल् विदवैयाग आवाळ्.
पक्तियुडन् भर्त्तावुक्कुप् पणिविडै सॆय्वदे स्त्रीगळुक्कुत् तवमॆनप् पडुगिऱदु. नान् जीवित्तिरुन्दाल्, उनक्कु स्वर्क्कसादनमान पुण्यम् किडैक्कुम्.
स्त्री, पादिव्रत्य पुण्यत्ताल् वैगुण्डत्तै अडैवाळ्. पादिव्रत्य मिल्लादवळ् सगल तीर्त्तङ्गळिलुम् स्नानम् सॆय्दवळायिनुम् नरगत्तैयडैवाळ् ऎण्ड्रार्.

मट्रॊरु स्तलत्तिलुम् -

स्वर्क्कत्तै विरुम्बुम् स्त्रीगळुक्कुप् पदिये परमेच्वरन्. ऎन्द स्त्री पदिबै निन्दिप्पवळाय् मट्रत् कर्मङ्गळै अनुष्टिक्किण्ड्राळो अवळ् मऱु पिऱप्पिल् नायाय् आवाळ्.

मट्रोरिडत्तिलुम् :-

पदित्रोहमॆनुम् पाबत्ताल् अवळ्, व्यादिक्रन्दियिनाल् पीडिक्कप्पट्टु, पिऱगु कादु, मूक्कु, विरल्गळ् इवैगळिलुम् क्रिमि क्रन्दियुडैयवळाय् आनाळ्.
पगलिलुमिरविलुम् कूवुगिण्ड्रवळाय्, ऎप्पॊऴुदुम् अऴुबवळाय्, ताबत्ताल् तहिक्कप्पट्टवळाय्, कोडिक्कणक्कान पुऴुक्कळाल् पादिक्कप्पट्टवळाय् आनाळ्.

विश्वास-प्रस्तुतिः

भारतेऽपि-

कामात् द्वेषान्मत्सराद्वा भर्तारं याऽवमन्यते ।
सा सप्तजन्मकं यावन्नारकी स्यान्न संशयः ॥
जीवितेनापि वित्तेन भर्तारं वञ्चयेत्तथा ।
कृमियोनिशतं गत्वा पुल्कसी जायते ततः ॥
दरिद्रं व्याधितं मूर्खं भर्तारं याऽवमन्यते ।
सा मृता जायते स्त्री तु सूकरी तु पुनः पुनः ॥

भर्तृविप्रकरणे तत्पापानुभवस्यैवोक्तत्वेन प्रायश्चित्तान्तराभावाच्च सर्वथा पत्युः प्रतिकूलाचरणं न कर्तव्यम् । अत एव मनुरपि प्रतिकूलाचरणं निषेधति, तथा हि

पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा ।
पतिलोकमभीप्सन्ती नाचरेत् किञ्चिदप्रियम् ॥

पारदत्तिलुम्:-

ऎवळ्, कामत्तालो, त्वेषत्तालो, मत्सरत्तालो भर्त्तावै अवमदिक्किण्ड्राळो अवळ् एऴु जन्मङ्गळ् वरैयिल् नरगत्तैयडैवाळ्, सम्सयमिल्लै ऎवळ्, उयिरालो, पणत्तालो भर्त्तावै वञ्जिप्पाळो अवळ् नूऱु पिऱविगळिल् पुऴुवाय्प् पिऱन्दु पिऱगु सण्डाळियाय्प् पिऱप्पाळ्. ऎवळ् तरित्रन्, अल्लदु व्यादियुळ्ळवन्, अल्लदु मूर्क्कनान पदियै अवमदिक्किण्ड्राळो अवळ् इऱन्द पिऱगु पॆण् पण्ड्रियाय्प् पल मुऱै पिऱप्पाळ्.

भर्त्तावुक्कु अप्रियम् सॆय्युम् विषयत्तिल् अन्दप् पाबत्तिऱ्‌कु अनुबवत्तैये सॊल्लियिरुप्पदालुम्, वेऱु प्रायच्चित्तमिल्लाददालुम्, ऎव्विदत्तालुम् पदिक्कु प्रदिगूल करणम् कूडादु. आगैयाट्रान् मनुवुम् प्रदिगूलम् सॆय्वदै निषेदिक्किण्ड्रार्:-

‘पदिव्रदैयान स्त्री, पुरुषन् पिऴैत्तिरुक्कुम्बोदुम्, इऱन्द पिऱगुम्, पदिलोकत्तै विरुम्बियवळाय्, कॊञ्जमुम् अप्रियम् सॆय्यक्कूडादु’ ऎण्ड्रु.

विश्वास-प्रस्तुतिः

ननु ! इदमनुगमनं क्षत्रियाण्यादीनां भवतु । ब्राह्मण्यास्तु निषिद्धम् । तथा च पैठीनसिः -

मृतानुगमनं नास्ति ब्राह्मण्या ब्रह्मशासनात् ।
इतरेषां तु वर्णानां धर्मोऽयं परमः स्मृतः ॥
उपकारं यथा भर्तुः जीवन्ती न तथा मृता ।
करोति ब्राह्मणी श्रेयो भर्तुः शोकवती चिरात् ॥
अनुवर्तेत जीवन्तं नानुयायान्मृतं पतिम् ।
जीवन्ती हि हितं कुर्यान्मरणादात्मघातिनी ॥

ओय्! इन्द अनुगमनमॆन्बदु क्षत्रिय स्त्री मुदलियवर् कळुक्कॆण्ड्रागलाम्. प्राम्हण स्त्रीक्को निषित्तम्. अव्विदमे पैडीनसि:-

प्राम्हण स्त्रीक्कु इऱन्द पदियोडु अनुगमनम् कूडादु, प्रप्हाविन् आज्ञैयाल्. मट्र वर्णत्तारुक्कु इदु सिऱन्द धर्ममॆनच् चॊल्लप्पट्टुळ्ळदु.
प्राम्हणी, इऱन्द भर्त्तावुडन् इऱक्कामल् जीवित्तिरुन्दाल् ऎव्वळवु उबगारम् सॆय्वाळो, अव्वळवु उबगारत्तै मरित्तदाल् सॆय्वदिल्लै. जीवित्तिरुक्कुम् भर्त्तावै अनुसरित्तु वाऴवेण्डुम्.
इऱन्दाल् अवनुडन् अनुमरणम् सॆय्यक्कूडादु. जीवित्तिरुन्दाल् भर्त्तावुक्कुप् परलोक हिदमान कार्यत्तैच् चॆय्यलामल्लवा. मरित्ताल् आत्म हत्यैयैच् चॆय्दवळावाळ्.

विश्वास-प्रस्तुतिः

अङ्गिराः -

या स्त्री ब्राह्मणजातीया मृतं पतिमनुव्रजेत् ।
सा स्वर्गमात्मघातेन नात्मानं न पतिं नयेत् ॥

व्याघ्रपादः -

न म्रियेत समं भर्त्रा ब्राह्मणी शोकमोहिता ।
प्रव्रज्यागतिमाप्नोति मरणादात्मघातिनी ॥

प्रव्रज्या = ब्रह्मचर्यम् ॥ इति चेत् एतेषामनुगमननिषेधवचनानां ब्राह्मण्याः पृथक्चित्यारोहणपरत्वात् ॥

अङ्गिरस् -

प्राम्हणियान ऎन्द स्त्री इऱन्द पदियै अनुसरित्तु मरिक्किण्ड्राळो अवळ् आक्महत्या पाबत्ताल् तानुम् स्वर्क्कत्तै अडैवदिल्लै, पदियैयुम् अडैय वैप्पदिल्लै.

व्याक्रबादर्:-

प्राम्हणी सोगत्ताल् मदिमयङ्गियवळाय्, भर्त्तावुडन् इऱक्कक्कूडादु. जीवित्तिरुन्दाल् सन्यास पलनैयडैवाळ्. मरित्ताल् आत्महत्यैयैच् चॆय्दवळ् आवाळ्.

इङ्गु प्रव्रज्यै ऎन्बदु प्रम्हसर्यमॆन्बदाम्. ऎण्ड्रुळ्ळदे यॆनिल्, अन्द अनुगमन निषेद वसनङ्गळ् प्राम्हणिक्कुत् तनिच् चिदैयिल् एऱि मरिप्पदु विषय मागियदाल्.

विश्वास-प्रस्तुतिः

तथा च उशना -

पृथक्चितिं समारुह्य न विप्रा गन्तुमर्हति ।
अन्यासां चैव नारीणां स्त्रीधर्मोऽयं सनातनः ॥

इति ॥

यावत्स्वलोमसङ्ख्यानि तावत्कोट्ययुतानि च ।
भर्त्रा स्वर्गसुखं भुङ्क्ते रममाणा पतिव्रता ॥

इति ॥

एवमनुगमनधर्मः स्त्रीणां प्रशस्तः ॥

अव्विदमे उसनस्:-

प्राम्हणी तनिच् चिदैयिल् एऱि अनुगमनम् सॆय्यक्कूडादु.
मट्र वर्ण स्त्रीगळुक्कु इन्दत् धर्मम् सनादनमायुळ्ळदु.
तनदु तेहत्तिल् ऎव्वळवु रोमङ्गळुळ्ळनवो अव्वळवु कोडिप् पदिनायिरम् वर्षङ्गळ् वरैयिल् भर्त्तावोडु क्रीडिप्पवळाय् स्वर्क्क सुगैत्तै अनुबविक्किण्ड्राळ्, अनुगमनम् सॆय्द पदिव्रदै.

इव्विदमिरुप्पदाल् अनुगमनधर्मम् स्त्रीगळुक्कुच् चिऱन्ददे.