विश्वास-प्रस्तुतिः
अथ गर्भिणीधर्माः -
पाद्मे –
नावस्करेषूपविशेन्मुसलोलूखलादिषु ।
जलं च नावगाहेत शून्यागारं च वर्जयेत् ॥
वल्मीकं नाधितिष्ठेत न चोद्विग्नमना भवेत् ।
विलिखेन्न नखैर्भूमिं नाङ्गारेण न भस्मना ॥
न शयालुः सदा तिष्ठेद्व्यायामं च विवर्जयेत् ।
न तुषाङ्गारभस्मास्थिकपालेषु समाविशेत् ॥
वर्जयेत् कलहं गेहे गात्रभङ्गं तथैव च ।
न मुक्तकेशी तिष्ठेत नाशुचिस्स्यात् कदाचन ॥
न शयीतोत्तरशिराः न चैवाधश्शिराः क्वचित् ।
न वस्त्रहीना नोद्विग्ना न चार्द्रचरणा तथा ।
नामङ्गळ्यं वदेद्वाक्यं न च हास्याधिका भवेत् । कुर्याच्छ्वशुरयोर्नित्यं पूजां मङ्गळतत्परा ॥
तिष्ठेत् प्रसन्नवदना भर्तुः प्रियहिते रता ॥
इति ॥
मूलम्

द्राविडम्
कर्प्पिणी धर्मङ्गळ्
पात्मत्तिल्:-
उरल्, उलक्कै मुदलियवैगळिल् उट्कारलागादु.
जलत्तिल् अमिऴ्न्दु स्नानम् कूडादु. सून्य क्रुहत्तिल् वसिक्कलागादु.
पुट्रिल् निऱ्पदु, मनदिल् नडुक्कम् इवै कूडादु. पूमियै नगत्ताल् कीऱुवदु, करियाल्, साम्बलाल् कीऱुवदुगूडादु.
ऎप्पोदुम् पडुत्तिरुप्पदुम्, शरीर च्रममुम् विलक्कु. उमि, करि, साम्बल्, ऎलुम्बु, सट्टि ऒडु इवैगळिल् निऱ्कलागादु.
वीट्टिल् कलगम् कूडादु. तेहत्तिऱ्कुप् पङ्गम् कूडादु. अविऴ्त्तुक्कॊण्डुम्, असुत्तियायुम् ऒरु पोदुम् इरुक्कक्कूडादु.
वडक्किल् तलैयै वैत्तुत् तूङ्गुवदु, कीऴे तलैयै वैत्तु उऱङ्गुवदु, वस्त्रमिल्लामलिरुप्पदु, पयम्, ननैन्द कालुडनिरुप्पदु इवैगळ् कूडादु.
अमङ्गळप् पेच्चु, अदिगच् चिरिप्पु इवैगळैयुम् वर्जिक्क वेण्डुम्. मामियार्, मामनार् इवर्गळुक्कु ऎप्पोदुम् पूजै सॆय्यवेण्डुम्.
प्रसन्न मुगत्तुडन् भर्त्ताविन् प्रिय हिदत्तैक् कोरुबवळायुमिरुक्कवेण्डुम्.
विश्वास-प्रस्तुतिः
स्थलान्तरे तत्रैव -
सन्ध्यायां नैव भोक्तव्यं गर्भिण्या तु प्रयत्नतः ।
न स्थातव्यं न गन्तव्यं वृक्षमूले च सर्वदा ॥
सर्वोषधीभिः कोष्णेन वारिणा स्नानमाचरेत् ।
न शयालुस्सदा तिष्ठेत् वटच्छायां विवर्जयेत् ॥
कृतरक्षा सुभूषा च वास्तुपूजनतत्परा ।
दानशीला तृतीयायां पार्वत्या नक्तमाचरेत् ॥
गर्भिणी कुञ्जराश्वादिशैलहर्म्यादिरोहणम् ।
व्यायामं शीघ्रगमनं शकटारोहणं त्यजेत् ॥
शोकं रक्तविमोक्षं च साध्वसं कुक्कुटासनम् ।
व्यवसायं दिवास्वापं रात्रौ जागरणं त्यजेत् ॥
अतिक्षारं तु नाश्नीयादत्यम्लमतिभोजनम् ।
अत्युष्णमतिशीतं च गुर्वाहारं परित्यजेत् ॥
इतिवृत्ता भवेन्नारी विशेषेण तु गर्भिणी ।
यश्च तस्यां भवेत् पुत्रः स्थिरायुर्वृद्धिसंयुतः ॥
अन्यथा गर्भपतनमवाप्नोति न संशयः ॥

अदिलेये वेऱु इडत्तिल्:-
कर्प्पिणी, ऒरु पोदुम् सन्द्या कालत्तिल् साप्पिडक्कूडादु. व्रुक्ष मूलत्तिऱ्कुप् पोवदुम्, अव्विडमिरुप्पदुम् कूडादु.
ओषदिगळैप्पोट्टु, कॊञ्जम् सुडवैत्त जलत्तिल् स्नानम् सॆय्यवेण्डियदु. सोम्बेऱियाग इरुक्कलागादु.
आलमर निऴलैप् परिहरिक्क वेण्डुम्. रक्षै सॆय्दुगॊण्डु, अलङ्गारम् पूण्डु, वीट्टैप् पूजित्तुक्कॊण्डु इरुक्क वेण्डुम्.
त्रुदीयैयिल् तानम् सॆय्दु, रात्रियिल् पार्वदियैप् पूजिक्कवेण्डुम्.
यानै, कुदिरै, पर्वदम्, माळिगै इवैगळिल् एऱुवदु, शरीर च्रमम्, सीक्रमाय्प् पोवदु, वण्डि एऱुवदु इवैगळैक् कर्प्पिणि तळ्ळवेण्डुम्.
सोगम्, रक्तम् सिन्दुवदु, पयम्, कुक्कुडासनम् ,व्यवसायम्, पगलिल् तूक्कम्, रात्रियिल् विऴित्तिरुप्पदु इवैगळै विडवुम्.
अदिग उप्पु, अदिगप् पुळि, अदिगच् चाप्पाडु, अदिग उष्णम्, अदिग सीदम्, वलुत्त आहारम्. इवैगळै विलक्कवेण्डुम्.
इम्मादिरि स्त्रीगळ् इरुक्कवेण्डुम्. विशेषमाय् कर्प्पिणिगळ् इरुक्क वेण्डुम्. अवळिडम्, पिऱक्कुम् पुत्रन् स्तिरमान आयुर्व्रुत्तियुडन् इरुप्पान्. इल्लाविडिल् कर्प्पम् विऴुन्दुविडुम्.
विश्वास-प्रस्तुतिः
निर्णयसिन्धौ वराहः -
सामिषमशनं यत्नात् प्रमदा परिवर्जयेत् ॥
गृह्यकारिकायाम् -
अङ्गारभस्मास्थिकपालचुल्लीशूर्पादिकेषूपविशेन्न नारी ।
नोलूखलाद्ये दृषदादिके वा यन्त्रे तुषाद्ये न तथोपविष्टा ॥
नो मार्जनीगोमयपीठकादौ कुर्यान्न वारिण्यवगाहनं च ।
अङ्गारभूत्या न नखैर्लिखेत् क्ष्मां कलिं वपुर्भङ्गमथो न कुर्यात् ॥
नो मुक्तकेशी वितथाशया स्यात् भुङ्क्ते न सन्ध्यावसरे न शेते ।
नामङ्गलं वाक्यमुदीरयेत शून्याऽऽलयं वृक्षतलं न यायात् ॥
विष्णुधर्मोत्तरेऽपि -
कटुतिक्तकषायाणि अत्युष्णलवणानि च ।
आयासं च व्यवायं च गर्भिणी वर्जयेत् सदा ॥

निर्णय सिन्दुविल् वराहर् -
माम्सम् साप्पिडुवदै स्त्रि अवच्यम् वर्जिक्कवेण्डुम्.
क्रुह्य कारिगैयिल्:-
साम्बल्, ऎलुम्बु, सट्टि ऒडु, अडुप्पु, मुऱम् मुदलियवैयिन् मीदु स्त्री उट्कारक्कूडादु. अप्पडिये, उरल् मुदलियवै, अम्मि, एन्दिरम्, उमि, तुडैप्पम्,(साय्न्द) साणम्, इवैगळ् मेलुम् उट्कारक्कूडादु. जलत्तिल् मुऴुगुवदुम् करियालुम्, नगत्तालुम् पूमियिल् ऎऴुदुवदागादु. सण्डै पोडुवदुम्, तेहच्रममुम् कूडादु. तलै विरित्तिरुप्पदु, वीणासै, सन्द्यागालत्तिल् साप्पिडुवदु, उऱङ्गुवदु, कॆट्टवार्त्तै पेसुवदु, सून्यक्रुहम्, मरत्तडि इवैगळुक्कुप् पोवदुम् कूडादु.
विष्णु धर्मोत्तरत्तिल्:
उऱैप्पु, कसप्पु, तुवर्प्पु, अत्युष्णम्, अदिलवणम्, आयासम्, पुरुष सम्सर्क्कम् इवैगळैक् कर्प्पिणी विलक्कवेण्डुम्.
विश्वास-प्रस्तुतिः
गर्भभरालसायाः स्वभावतः इतराभरणपरित्यागेऽपि इमान्याभरणान्यपरित्याज्यान्याह मदनरत्ने स्कान्दे –
हरिद्रां कज्जलं चैव सिन्दूरं कुङ्कुमं तथा ।
कूर्पासकं च ताम्बूलं मङ्गल्याभरणं शुभम् ॥
केशसंस्कारकबरीकरकर्णविभूषणम् ।
भर्तुरायुष्यमिच्छन्ती दूरयेद्गर्भिणी न हि ॥
इति ॥
काश्यपः –
गर्भधारणमारभ्य व्यायामव्यसनानि च ।
तक्षणं च दिवास्वापं रात्रौ जागरणं तथा ॥
गजाश्वारोहणं शोकवेगधारणमेव च ।
विरेचनं नैव कुर्यात् क्षाराद्यन्नं च वर्जयेत् ॥

मदनरत्नत्तिल्, स्कान्दबुराणम्:-
कर्प्पबारत्ताल् च्रम मिरुक्कुम्बोदु इदर आबरणङ्गळै विलक्किनालुम्,(1) मञ्जळ्, (2) मै, (3) सिन्दूरम् (4) कुङ्गुमम्, (5) रविक्कै, (6)ताम्बूलम्, (7) माङ्गल्यम् (8) केससम्स्कारम्, (9) तलै मुडिच्चु, (10) कैप्पूषणम्,(11) कादुबूषणम्, इवैगळैप् भर्त्तावुक्कु आयुळै अपेक्षिप्पवळ् विडक्कूडादु.
काच्यबर्:-
कर्प्पदारणम् मुदल् अदिगवेलै, सूदाट्टम् मुदलिय व्यसनङ्गळ्, सॆदुक्कुवदु, पगलिल् तूक्कम्, इरविल् विऴिप्पु, यानै कुदिरै इवैगळिल् एऱुवदु, सोगवेगत्तै अडक्कुवदु, विरेसनम्, पुळित्त अन्नत्तैप् पुजिप्पदु इवैगळै वर्जिक्कवुम्.
विश्वास-प्रस्तुतिः
दोहदप्रधानं याज्ञवल्क्ये -
दोहदस्याप्रदानेन गर्भो दोषमवाप्नुयात् ।
वैरूप्यं मरणं वाऽपि तस्मात् कार्यं प्रियं स्त्रियाः ॥
सङ्ग्रहेऽपि –
गर्भिणीवाञ्छितद्रव्यं तस्यै दद्याद्यथोचितम् ।
सूते चिरायुषं पुत्रमन्यथा दोषमर्हति ॥
बाहटेऽपि -
मातृजं ह्यस्य हृदयं मातुश्च हृदयेन तत् ।
सम्बद्धं तेन गर्भिण्या नेष्टं श्रद्धाविमाननम् ॥
देयमप्यहितं तस्यै हितोपहितमल्पकम् ।
श्रद्धाविघाताद्गर्भस्य विकृतिश्च्युतिरेव वा ॥

कर्प्पत्तिऱ्कुत् तोहदम्, अदावदु आनुगूल्यम् सॆय्वदैप्पट्रि, याज्ञ्यवल्क्यर्:-
कर्प्पत्तिऱ्कु अनुगूलम् सॆय्यादिरुन्दाल्, तोषम्, विरूबम्, मरणम्. इवैगळ् सम्बविक्कलाम्. आगैयाल् स्त्रीगळुक्कु प्रियत्तैच् चॆय्यवेण्डुम्.
सङ्ग्रहत्तिल्:-
कर्प्पिणिक्कु इष्टमान वस्तुवैक् कॊडुक्कवुम्. अवळ् तीर्क्कायुस् उळ्ळ पुत्रनैप् पॆऱुवाळ्. इल्लैयेल् तोषमुण्डु.
पाहडत्तिल्:-
सिसुविन् ह्रुदयम् तायिडमिरुन्दु उण्डायिट्रु. तायिन् ह्रुदयत्तै ऒट्टियदु. आगैयाल् अवळुडैय आसैयैप् पङ्गप्पडुत्तक्कूडादु. अहिदत्तैयुम् कूड हिदत्तुडन् सेर्त्तुक् कॊञ्जमाय्क् कॊडुक्कवुम्. आसैयिन् पङ्गत्ताल् कर्प्पत्तिऱ्कु विगारम् अल्लदु पदनम् एऱ्पडुम्.
विश्वास-प्रस्तुतिः
गर्गः –
अथातस्सम्प्रवक्ष्यामि सूतिकागारवेशनम् ।
मासे तु नवमे प्राप्ते पूर्वे पक्षे शुभे दिने ॥
प्रसूतिसम्भवे काले सद्यो वाऽपि प्रकाशयेत् ॥
इति ॥
नक्षत्राण्याह गर्गः -
रोहिण्यैन्दवपौष्णेषु स्वातीवारुणयोरपि ।
पुनर्वसुपुष्यहस्तधनिष्ठात्र्युत्तरासु च ॥
मैत्रे त्वाष्ट्रे तथाऽऽश्विन्यां सूतिकागृहवेशनम् ।
ग्रहानुकूले राशौ तु रिःफषष्ठाष्टवर्जिते ॥
सर्वे चाये शुभाः केन्द्रे पापाश्च त्रिषडायगाः ।
शुभांशे शुभदृष्टौ तु सूतिकावेशनं शुभम् ॥
इति । बाहटः -
प्राक्चैव नवमान्मासात् सूतिकागृहमाश्रयेत् ।
देशे प्रशस्ते सम्भारैः सम्भृतं साधकेऽहनि ॥
इति ॥
अथोपस्थितगर्भां तां कृतकौतुकमङ्गळाम् ।
हस्तस्थपुन्नामफलां स्वक्तामुष्णाम्बुसेविताम् ॥
पाययेत् सघृतां पेयामिति ॥

कर्क्कर्:-
इनि, सूदिगाक्रुहप्रवेसत्तैच् चॊल्लुगिऱेन्. ऒन्बदावदु मादत्तिल्, सुक्लबक्षत्तिल्, सुबदिनत्तिल्, अल्लदु प्रसव कालत्तिल् सूदिगाक्रुहप्रवेसम् सॆय्विक्कवुम्.
नक्षत्रङ्गळैच् चॊल्लुगिऱार् कर्क्कर्:-
रोहिणी, म्रुग सीर्षम्, रेवदी, स्वादी, सदयम्, पुनर्वसु, पुष्यम्, हस्तम्, अविट्टम्, उत्तिरम्, उत्तिराडम्, उत्तिरट्टादि, अनुषम्, सित्तिरै, अच्विनी इवैगळिल् सदिगाक्रुह प्रवेसम् सॆय्यप्पडलाम्. क्रहङ्गळिन् अनुगूल्यमुळ्ळ रासियिल्, 12, 6, 8, अल्लाद रासियिल् प्रवेसम् सॆय्यप्पडलाम्. सुबक्रहङ्गळॆल्लाम् 11-लुम्, केन्द्रङ्गळिलुमिरुप्पदु सुबम्. क्रहङ्गळ् 3, 6, 11-आवदु स्तानङ्गळिलिरुप्पदु सुबम्. सुबक्रहत्तिन् अम्सत्तिलुम्, सुबक्रहत्तिन् पार्वैयिलुम् सूदिगाक्रुह प्रवेसम् सुबमाम्.
पाहडत्तिल्:-
‘ऒन्बदावदु मादत्तिऱ्कु मुन्बे सूदिगाक्रुहत्तिल् प्रवेसिक्कवेण्डुम्. सिऱन्द इडत्तिल् उबगरणङ्गळुडन् कूडिय क्रुहत्तिल् अनुगूलमान तिनत्तिल् प्रवेसिक्क वेण्डुम्’ ऎण्ड्रु. पिऱगु प्रसव समीबत्तिलुळ्ळवळुम्, मङ्गळ कार्यङ्गळ् सॆय्विक्कप्पट्टवळुम्, कैयिल् पऴम् तरित्तवळुम्, आप्यञ्जनम् सॆय्दु उष्णोदगत्ताल् स्नानम् सॆय्विक्कप्पट्टवळुमान अवळै, नॆय्युडन् कूडिय पानत्तैप् परुगच् चॆय्यवेण्डुम्.