विश्वास-प्रस्तुतिः
अथ रजस्वलाधर्मः ॥
तत्र वसिष्ठः -
त्रिरात्रं रजस्वला अशुचिर्भवति । सा नाञ्ज्यान्नाभ्यञ्जयान्नाप्सु सुस्नायादधः शयीत न दिवा स्वप्यान्नाग्निं स्पृशेन्न रज्जुं सृजेन्न दन्तान् धावयेत्, न मांसमश्नीयान्न गृहान्निरीक्षेन्नाश्लीलं किञ्चिदाचरेत्, नखर्वेण वा पिबेदञ्जलिना वा पिबेल्लोहेनायसेन वा विज्ञायत इति ॥
आपस्तम्बोऽपि -
यदा मलवद्वासाः स्यात्, अथैनां ब्राह्मणप्रतिषिद्धानि कर्माणि संशास्ति, यां मलवद्वाससमित्येतानि इति ॥
मूलम्

द्राविडम्
रजस्वला धर्मम्
वसिष्ठर्:-
रजस्वलै मूण्ड्रु नाळ् असुत्तियुळ्ळवळ्. मै, अप्यङ्गम्, जलस्नानम् इवैगळै विलक्कवेण्डुम्. कीऴे पडुक्कवेण्डुम्. पगल् तूक्कम्, अक्नियैत् तॊडुदल्, कयिऱु मुऱुक्कुदल्, पल् तुलक्कुदल्, माम्सम् पुजित्तल्, वीडुगळैप् पार्त्तल्, कॆट्ट वार्त्तै पेसुदल्, सिऱिय पात्रत्तिल् नीर् अरुन्दुदल् इवैगळै विलक्कवेण्डुम्. अञ्जलियाल्, अल्लदु इरुम्बुप् पात्रत्ताल् नीर् कुडिक्कवुम्.
आबस्तम्बर्:-
रजस्वलैयागुम्बोदु, अवळुक्कु वेद प्राम्हणत्तिल् तडुक्कप्पट्ट कार्यङ्गळैप् पोदिक्कवुम्.
विश्वास-प्रस्तुतिः
ब्राह्मणं च -
यां मलवद्वाससं सम्भवन्ति यस्ततो जायते सोऽभिशस्तः यामरण्ये तस्यै स्तेनो यां पराचीं तस्यै ह्रीतमुख्यप[[??]]गल्भो या स्नाति तस्या अप्सु मारुको याऽभ्यङ्क्ते तस्यै दुश्चर्मा या प्रलिखते तस्यै खलतिरपमारी याङ्क्ते तस्यै काणो यादतो धावते तस्यै श्यावदन् या नखानि निकृन्तते तस्यै कुनखी या कृणत्ति तस्यै क्लीबो या रज्जुं सृजति तस्या उद्बन्धुको या पर्णेन पिबति तस्या उन्मादुको या खर्वेण पिबति तस्यै खर्वस्तिस्रो रात्रीर्व्रतं चरेदञ्जलिना वा पिबेदखर्वेण वा पात्रेण प्रजायै गोपीथायेति ॥

प्राम्हणम् :-
रजस्वलैयिडम् सॆल्बवनुक्कुप् पिऱप्पवन् पदिदन्. अरण्यत्तिल् अवळिडम् सॆल्बवनुक्कुप् पिऱप्पवन् तिरुडन्.
पराङ्मुगमाग इरुक्कुम् अवळिडम् सॆल्बवनुक्कुप् पिऱप्पवन् लज्जा मुगन् (तैर्यमट्रवन्). स्नानम् (अगालत्तिल्) सॆय्बवळुक्कुप्पिऱप्पवन् जलत्तिल् मरिप्पवन्.
ऎण्णॆय् तेय्त्तुक्कॊळ्बवळुक्कु, कॆट्ट सर्ममुळ्ळवन्. पूमियिल् कोडु किऴिप्पवळुक्कु, मयिरिल्लादवनुम्, अबम्रुत्यु उळ्ळवनुम्. मै तीट्टिक्कॊळ्बवळुक्कु ऒरु कण्णिल्लादवन्.
पल् तुलक्कुबवळुक्कु, कऱुप्पुप्पल्लन्. नगत्तै ऎडुप्पवळुक्कु, कॆट्ट नगमुडैयवन्. वॆट्टुबवळुक्कु, नबुम्सगन्.
कयिऱु तिरिप्पवळुक्कु, कऴुत्तिल् सुरुक्कुप् पोट्टुक्कॊळ्बवन्. इलैयाल् कुडिप्पवळुक्कु, पैत्यक्कारन्.
कुऱुगिय पात्रत्तिल् कुडिप्पवळुक्कु, कुळ्ळन् पिऱप्पान्. आगैयाल् मूण्ड्रु तिनङ्गळ् मुऴुवदुम् व्रदमिरुक्कवेण्डुम्. अञ्जलियालो अगण्ड पात्रत्तालो नीर् अरुन्दवेण्डुम्. प्रजैयिन् रक्षणत्तिऱ्काग", ऎन्बदु पॊरुळ्.
विश्वास-प्रस्तुतिः
स्मृतिमञ्जर्याम् -
रजस्वला पतिं गच्छेच्चण्डालो जायते ततः ।
आर्तवाभिप्लुता, स्नानाज्जातस्तु स मरिष्यति ॥
तैलेनाभ्यञ्जनं कुर्यात् कुष्ठी रोगी प्रजायते ।
आर्तवेन खनेत् भूमिम् अल्पायुर्जायते खलः ॥
नेत्रयोरञ्जनं कुर्यात् काणो वाऽन्धश्च जायते ।
पुष्पिणी दन्तधावी स्याज्जायते श्यावदन्तकः ॥
नखानां कृन्तनं कुर्यात् कुनखी जायते सुतः ।
ऋतौ रज्वादिकच्छेदं कुर्यात् क्लीबः प्रजायते ॥
तन्तुना सृजते रज्जुमुद्बन्धनमृतो भवेत् ।
पतिपात्रेऽन्नमश्नीयादुन्मादी जायते सुतः ॥
खर्वे शरावे भुञ्जीत वामनोऽसौ प्रजायते ॥
इति ॥

स्मृतिमञ्जरियिल्:-
इदैये 5½ च्लोकङ्गळाल् सॊल्लियिरुक्किऱार्. (अर्त्तम् वेऱिल्लाददाल् अवैगळै मॊऴि पॆयर्क्कविल्लै.)
विश्वास-प्रस्तुतिः
भावप्रकाशे -
आर्तवस्रावदिवसात्त्र्यहं सा ब्रह्मचारिणी ।
शयीत दर्भशय्यायां पश्येदपि पतिं न च ॥
करे शरावे पर्णे वा हविष्यं त्र्यहमाचरेत् ।
अश्रुपातं नखच्छेदमभ्यङ्गमनुलेपनम् ॥
नेत्रयोरञ्जनं स्नानं दिवास्वापं प्रधावनम् ।
अत्युच्चशब्दश्रवणं हसनं बहुभाषणम् ॥
आयासं भूमिखननं प्रवातं च विवर्जयेत् ।
अज्ञानाद्वा प्रमादाद्वा लौल्याद्वा दैवतोऽपि वा ॥
सा चेत् कुर्यान्निषिद्धानि गर्भो दोषांस्तदाऽऽप्नुयात् ।
एतस्या रोदनाद्गर्भो भवेद्विकृतलोचनः ॥
नखच्छेदेन कुनखी कुष्ठी त्वभ्यङ्गतो भवेत् ।
अनुलेपात्तथा स्नानाद्दुःखशीलोञ्जनाददृक् ॥
स्वापशीलो दिवास्वापाच्चञ्चलस्स्यात् प्रधावनात् ।
अत्युच्चशब्दश्रवणाद्बधिरः खलु जायते ॥
तालुदन्तोष्ठजिह्वासु श्यावो हसनतो भवेत् ।
प्रलापी भूरिकथनादुन्मत्तस्तु परिभ्रमात् ॥
खलतिर्भूमिखनना दुन्मत्तो वातसेवनात् ॥

पावप्रकाशत्तिल्:-
रजस् आरम्बित्त मूण्ड्रु नाळ् प्रम्ह सर्यत्तुडन् तर्प्पत्तिल् पडुक्कवुम्. पदियैप् पार्क्कलागादु. कैयिलो, पाण्डत्तिलो, इलैयिलो, मूण्ड्रु नाळ् हविस्सै उण्णवुम्. कण्णीर् विडुदल्, नगमॆडुत्तल्, अप्यङ्गम्, पूच्चु, मै, स्नानम्, पगल् तूक्कम्, ओडुदल्, उरत्त सप्तत्तैक् केट्पदु, सिरिप्पदु, अदिगप्पेच्चु, आयासम्, पूमियै वॆट्टुदल्, अदिगक्काट्रु इवैगळै विलक्कवेण्डुम्. अक्ञानत्ताल्, अल्लदु तवऱुदलाल्, आसैयाल्, तैविगमाय् विलक्कुगळैच् सॆय्दाल्, कर्प्पत्तिऱ्कुत्तोषमेऱ्पडुम्.
अऴुगैयाल् सिसुविन् कण्णुक्कु विगारम् एऱ्पडुम्. नगमॆडुप्पदाल् कुनगी, अप्यङ्गत्ताल् कुष्टी, स्नानम् वासनैप्पूच्चु इवैगळाल् तुक्कि, मैयाल् पॊट्टै, पगल् तूक्कत्ताल् तूङ्गुमूञ्जि, ओडुवदाल् सञ्जलन्, उरत्त सप्तम् केट्पदाल् सॆविडु, सिरिप्पदाल् कऱुप्पु उदडु ताळ् नाक्कुडैयवन्, अदिगप्पेच्चाल् प्रलाबि, तिरिदलाल् पैत्यक्कारन्, पूमियै वॆट्टुवदाल् मॊट्टै, काट्रुच् चेवैयाल् पैत्यक्कारन् पिऱप्पान्.
रजस्वलै स्नानम् सॆय्यादिरुन्दालुम् नैमित्तिग स्नानत्तै वेऱु विदमाय्च्चॆय्यलाम्.
विश्वास-प्रस्तुतिः
रजस्वलास्नानमात्रनिषेधेऽपि नैमित्तिकं स्नानं प्रकारान्तरेणैव कर्तव्यम् ॥
तथा च वसिष्ठः -
स्नाने नैमित्तिके प्राप्ते यदि नारी रजस्वला ।
पात्रान्तरिततोयेन स्नानं कृत्वा व्रतं चरेत् ॥
सिक्तगात्रा भवेदद्भिः साङ्गोपाङ्गा कथञ्चन ।
न वस्त्रपीडनं कुर्यान्नान्यद्वासश्च धारयेत् ॥
इति ॥
आतुरायास्तु सङ्ग्रहे -
आतुरा चेदृतुमती तस्याः स्नानं कथं भवेत् ।
स्पृष्ट्वा तां तु परा स्नायाद्दशकृत्वस्त्वनातुरा ॥
वासोभिर्दशभिश्चैव परिधाप्य यथाक्रमम् ।
ब्राह्मणान् भोजयित्वाऽथ पुण्याहेन विशुद्ध्यति ॥
आतुराणां तु सर्वेषामेवं शुद्धिर्विधीयते ॥
इति ॥
अत्र कश्चिद्विशेष उच्यते । तत्र रात्रौ रजसि जननादौ च रात्रिं त्रिभागं कृत्वा आद्यभागद्वये चेत् पूर्वदिनं ग्राह्यं, परतस्तूत्तरमिति ॥

नैमित्तिगस्नानम् वरुम्बोदु स्त्री रजस्वलैयायिरुन्दाल्, वेऱु पात्रत्तिन् वऴियाय् वन्द जलत्ताल् स्नानम् सॆय्दु व्रदत्तै अनुष्टिक्कवेण्डियदु. कष्टप्पट्टावदु तेहम् मुऴुवदैयुम् ननैत्तुक्कॊण्डु वस्त्रत्तैप् पिऴियामलुम्, वेऱु वस्त्रम् तरिक्कामलुम् अप्पडिये इरुक्कवेण्डियदु.
व्यादियायिरुन्दाल्, सङ्ग्रहत्तिल्:-
रजस्वलै व्यादि युळ्ळवळायिन्, अवळुक्कु स्नानम् ऎप्पडि ऎनिल्, व्यादि यिल्लाद ऒरुत्ति अवळैत् तॊट्टुप् पत्तुत् तडवै स्नानम् सॆय्यवुम्.
ऒव्वॊरु तडवैयिलुम्, अन्द रजस्वलैक्कु वॆव्वेऱु वस्त्रत्तैक् कॊडुक्कवेण्डुम्. पुण्याहम् सॆय्दु, प्रामहणर्गळुक्कुप् पोजनम् सॆय्वित्ताल् सुत्तैयावाळ्. व्यादिस्तर् अनैवरुक्कुम् इदुदान् क्रमम्.
इङ्गु ऒरु विशेषम्इ - इरविल् रजस्, पिऱप्पु मुदलियवै नेर्न्दाल् इरवै मूण्ड्रागप् पिरित्तु, मुदल् इरण्डु पागत्तिल् नेर्न्दाल् मुदल् नाळ् मुदल् कणक्कु, कडैसिप् पागत्तिल् नेर्न्दाल् परदिनम् मुदल् कणक्कु ऎन्बदाम्.
विश्वास-प्रस्तुतिः
मिताक्षरायां तु -
प्रागर्धरात्रात् प्राग्वा सूर्योदयात् पूर्वदिनमित्युक्तम् इति ॥
रोगजन्यरजोऽनुवृत्तौ तु नास्त्यशुद्धिः ॥
यदाहाङ्गिराः -
रजश्चतुर्विधं ज्ञेयं रोगजं रागजं तथा ।
धातुजं कालजं चेति योषितां तु बुधोत्तमैः ॥
एकादशात् द्वादशाद्वा वर्षादूर्ध्वं भवेद्रजः ।
पञ्चाशद्वत्सरादूर्ध्वं स्त्रीणां तत्तु निवर्तते ॥
रागेण यद्रजः स्त्रीणामत्यर्थं तत् प्रवर्तते ।
अशुद्धा नैव तास्तेन यस्माद्वैकारिकं हि तत् ॥
एवमकाले रोगादिजनितरजोदर्शनेऽपि द्रष्टव्यम् ॥
तथा चन्द्रिकायाम् -
अकाले यद्भवेत् स्त्रीणां रक्तमाहुर्मनीषिणः ।
काले तु यद्रजः प्रोक्तं तस्मात्तत्रैव साऽशुचिः ॥
आद्वादशाहानारीणां मूत्रवच्छौचमिष्यते ।
आष्टादशाहात् स्नानं स्यात् त्रिरात्रं परतोऽशुचिः ॥

मिदाक्षरैयिलो:-
अर्त्तरात्रिक्को, सुर्योदयत्तिऱ्को मुन्बानाल् मुदल् नाळ् मुदल् कणक्कु ऎण्ड्रु सॊल्लियिरुक्किऱदु.
व्यादियाल् रजस् तॊडर्न्दाल् असुत्तियिल्लै. इदै,
अङ्गिरस्:-
रजस् नान्गुविदम्. रोगत्ताल्, आसैयाल्, तादुवाल्, कालत्ताल् एऱ्पट्टदु ऎण्ड्रु पिरिवु. रजस् 1112-वयदुक्कु मेल् एऱ्पडुम्. 50-वरुषत्तिऱ्कु मेल् निण्ड्रु विडुम्.
रागत्ताल् अदिगमान रजस् एऱ्पट्टाल्, अदनाल् अवर्गळुक्कु असुत्तियिल्लै. अगालत्तिल् व्यादियाल् एऱ्पट्ट रजस्सिलु मप्पडिये.
चन्द्रिगैयिलुम्, अप्पडिये:-
अगालत्तिल् वरुम् रजस् रक्तमॆनप्पडुम्. कालत्तिल् वरुवदऱ्के रजस् ऎण्ड्रु पॆयर्. अप्पॊऴुदे अवळुक्कु असुत्ति. 12-नाळ् वरैयिल् मूत्रत्तिऱ्कुप्पोल् सौसम् सॆय्यवेण्डुम्. 18-नाळ् वरैयिल् स्नानम्. अदऱ्कुमेल् मूण्ड्रु नाळ् असुत्ति.
विश्वास-प्रस्तुतिः
विज्ञानेश्वरः -
या रजोदर्शनादारभ्य पुनरुद्भवति सप्तदशदिनाभ्यन्तरे तदा अशुचिर्नास्त्येव । अष्टादशे एकाहाच्छुद्धिः, एकोनविंशे द्व्यहात्, तत उत्तरे त्र्यहाच्छुद्धिः ॥
स्मृत्यर्थसारे -
रजस्वला चतुर्थेऽह्नि षष्टिमृत्तिकाभिः शौचं कृत्वा, विधवा चेत् द्विगुणं शौचं कृत्वा दन्तधावनपूर्वकं सङ्गवे सचेलं स्नायात् ॥
सङ्ग्रहे-
प्रथमेऽहनि चण्डाली द्वितीये ब्रह्मघातकी ।
तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुद्ध्यय[[??]]ति ॥
सङ्गवान्ते चतुर्थेऽह्नि स्नानाच्छुद्धिमवाप्नुयात् ।
स्नानान्ते भास्करं दृष्ट्वा पुत्रं प्रार्थ्य सुमङ्गली ॥
त्रिवारं प्राशयेदन्नं न चेद्दोषवती भवेत् ॥

विज्ञानेस्वरर्:-
रजस् कण्ड तिनत्तिलिरुन्दु 17-नाळुक्कुळ् मऱुबडियुम् कण्डाल् असुत्तियिल्लै. 18-आवदु नाळिल् कण्डाल् ऒरु नाळ् असुत्ति. 19-आवदु तिनत्तिल् कण्डाल् इरण्डु तिनम् असुत्ति. अदऱ्कु मेल् 3-नाळ् असुत्ति.
स्म्रुत्यर्त्तसारत्तिल्:-
रजस्वलै 4-आवदु नाळिल् 60-मण्णाल् सौसम् सॆय्दु,विदवैयानाल् इरण्डु मडङ्गु सौसम् सॆय्दु, तन्ददावनम् सॆय्दु, सङ्गव कालत्तिल् स्नानम् सॆय्यवेण्डुम्.
सङ्ग्रहत्तिल्:-
मुदल् नाळिल् सण्डाळी (अवळुक्कुच् चमम्.) इरण्डावदु नाळिल् प्रम्हगादिनी. मूण्ड्रावदु नाळिल् वण्णार स्त्री, नान्गावदु नाळिल्, स्नानम् सॆय्दु सुत्तैयागिऱाळ्.
स्नानम् सॆय्द सुमङ्गली, सूर्यनैप् पार्त्तु पुत्रनैप् प्रार्त्तित्तुक्कॊण्डु, तोषमिल्लाविडिल् 3 तडवै अन्नत्तैच् चाप्पिडवेण्डियदु.
विश्वास-प्रस्तुतिः
अङ्गिराः –
शुद्धा भर्तुश्चतुर्थेऽह्नि स्नाता नारी रजस्वला ।
दैवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुद्ध्यति ॥
एतद्रजोनिवृत्तिकालोपलक्षणार्थं, यतः स एवाह -
साध्वाचारा न तावत्सा स्नाताऽपि स्त्री रजस्वला ।
यावत् प्रवर्तमानं हि रजोSस्या न निवर्तते ॥
साध्वाचारा दैवादिकर्मयोग्येत्यर्थः । स्पर्शयोग्या तु स्नानानन्तरं भवत्येव ॥
स्नाता रजस्वला या तु चतुर्थेऽहनि शुद्ध्यति ।
कुर्याद्रजोनिवृत्तौ तु दैवं पित्र्यादि कर्म च ॥
इति पराशरस्मरणात् ॥
अङ्गिराः -
स्नानं रजस्वलास्तु चतुर्थेऽहनि निर्दिशेत् ॥
पद्धतौ -
चतुर्थे सङ्गवे स्नात्वा स्त्रीधर्मं तु समाचरेत् ॥
सङ्ग्रहे-
मृतके सूतके चान्ते सङ्गवे स्नानमाचरेत् ॥
सङ्गवात् परतः स्नानमार्तवे तु विशिष्यते ॥

रजस्वलै, नान्गावदु नाळिल् स्नानम् सॆय्दु सुत्तैयागिऱाळ्. ऐन्दावदु नाळिल्, तेव पित्रु कर्मङ्गळिल् सुत्तैयागिऱाळ्.
इदुवुम्, रजस् निव्रुत्तियागुम् कालत्तैक् कुऱिक्कुम्. एनॆनिल्, “स्नानम् सॆय्दालुम् रजस् निव्रुत्तियागुम् वरैयिल्, रजस्वलै सुत्तैयागिऱदिल्लै.
अदावदु, तेव पित्रु कार्यङ्गळुक्कु योक्यैयल्ल. आनाल् तॊड योक्यदैयुण्डु” ऎण्ड्रु अवरे सॊल्लियिरुक्किऱार्.
परासररुम्:-
स्नानम् सॆय्द रजस्वलै, नान्गावदु नाळिल् सुत्तैयागिऱाळ्. रजस् निण्ड्र पिऱगु तेव पित्रु कार्यङ्गळैच् चॆय्यवेण्डियदु ऎण्ड्रार्.
अङ्गिरस्:-
रजस्वलैक्कु स्नानम् आवदु तिनत्तिल् विधिक्कप्पट्टिरुक्किऱदु.
पत्तदियिल्:-
आवदु तिनत्तिल् सङ्गवत्तिल् स्नानम् सॆय्दु, स्वधर्मत्तैच् चॆय्ग.
सङ्ग्रहत्तिल्:-
जननासौसत्तिलुम्, मरणासौसत्तिलुम् सङ्गवत्तिल् स्नानम् सॆय्यवेण्डुम्. रजस्सिल् सङ्गवत्तिऱ्कुप् पिऱगु स्नानम् च्लाक्यमानदु.
विश्वास-प्रस्तुतिः
बोधायनः -
रजस्वला तु संस्पृष्टा चण्डालान्त्यजवायसैः ।
तावत्तिष्ठेन्निराहारा यावत्कालेन शुद्ध्यति ॥
भोजनकालस्पर्शे स एवाह -
रजस्वला तु भुञ्जाना साऽन्त्यजातिं स्पृशेद्यदि ।
गोमूत्रयावकाहारा षड्रात्रेण विशुद्ध्यति ॥
अशक्तौ काञ्चनं दद्याद्विप्रेभ्यो वाऽपि भोजनम् ॥
बृहस्पतिः –
पतितान्त्यश्वपाकैश्च संस्पृष्टा चेद्रजस्वला ।
तान्यहानि व्यतिक्रम्य प्रायश्चित्तं समाचरेत् ॥
प्रथमेऽह्नि त्रिरात्रं स्यात् द्वितीये द्व्यहमेव च ।
अहोरात्रं तृतीयेऽह्नि चतुर्थे नक्तमाचरेत् ॥

पोदायनर्:-
सण्डाळन्, अन्द्यजन्, कागम् इवैगळाल् तॊडप्पट्टाल्, रजस्वलै निराहारमायिरुन्दु, कालत्तिल् (4-आवदु नाळिल्) सुत्तैयागिऱाळ्.
पोजन कालत्तिल् तॊट्टाल्,
अवरे सॊल्लुगिऱार्: पोजन कालत्तिल्
सण्डाळन् तॊट्टाल्, कोमूत्रम् कञ्जि आहारत्तुडनिरुन्दु. नाळिल् सुत्तैयागिऱाळ्. सक्तियिल्लाविडिल्, प्राम्हणर्गळुक्कु स्वर्णत्तैयावदु पोजनत्तैयावदु कॊडुक्कवेण्डुम्.
प्रुहस्पदि:-
पदिदन्, सण्डाळन्, नाय्माम्सम् साप्पिडुबवन् इवर्गळाल् तॊडप्पट्टाल् अन्दत् तिनङ्गळुक्कुप् पिन् प्रायच्चित्तम् सॆय्यवुम्.
मुदल् नाळिल् तॊडप्पट्टाल् 3-नाळुम्, इरण्डावदु तिनत्तिल् तॊडप्पट्टाल् 2-नाळुम्, 3-आवदु तिनत्तिल् तॊडप्पट्टाल् ऒरु तिनम् मुऴुवदुम्, 4-आवदु तिनत्तिलानाल् ऒरु रात्रियुम् व्रदमिरुक्कवेण्डुम्.
विश्वास-प्रस्तुतिः
अत्र स्नानप्रकारमाह -
मृतसूतकमध्ये तु रजो दृष्ट्वा कथं भवेत् ।
ब्राह्मणानां करैर्मुक्तं तोयं शिरसि धारयेत् ॥
सर्वतीर्थजलाच्छ्रेष्ठं तोयं विप्रकरच्युतम् ।
दद्याच्छक्त्या ततो दानं पुण्याहेन विशुद्ध्यति ॥
रजस्वलयोरन्योन्यसंस्पर्शे शुद्धिमाह पराशरः -
स्पृष्टा रजस्वलाऽन्योन्यं ब्राह्मणी ब्राह्मणीं तथा ।
तावत्तिष्ठेन्निराहारा त्रिरात्रेणैव शुद्ध्यति ॥
स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी शूद्रजां तथा ।
कृच्छ्रेण शुध्यते पूर्वा शूद्रा दानेन शुद्ध्यति ॥
ब्राह्मण्योः स्पर्शे तत आरभ्य स्नानपर्यन्तमुभयोराहारत्यागः । त्रिरात्रं कृच्छ्रं च । एतच्च सहशयनादिचिरस्पर्शविषयम् । सकृत् स्पर्शे तु एकरात्रोपवासेन पञ्चगव्येन च शुद्धिः, स्नानपर्यन्तमाहारत्यागश्च ॥
आर्तवाभिप्लुतां नारीमार्तवाभिप्लुता स्पृशेत् ।
स्नात्वोपवासं कुर्यातां पञ्चगव्येन शुद्ध्यतः ॥
आस्नानकालान्नाश्नीतो भुक्त्वा चान्द्रायणं चरेत् ॥
इति स्मरणात् ॥

इन्द विषयत्तिल् स्नानम् सॆय्युम् विदम्:-
सावु तीट्टिन् मत्तियिल् रजस्वलैयानाल् प्राम्हणर् कैयाल् विडप्पट्ट जलत्ताल् सुत्ति. एनॆनिल्, सर्वदीर्त्त जलत्तैक् काट्टिलुम्, प्राम्हणर् कैजलम् च्रेष्टमानदु. पिऱगु सक्त्यनुसारमाय्, तानम् सॆय्दु पुण्याहवासनत्ताल् सुत्तैयागिऱाळ्.
रजस्वलैगळ् ऒरुवर्क्कॊरुवर् तॊट्टाल् सुत्ति: परासरर्:-
रजस्वलैयान प्राम्हणी, प्राम्हणियैत् तॊट्टाल् स्नान तिनम् वरै निराहारमायिरुक्कवुम्. मूण्ड्रु नाळिल् सुत्ति. प्राम्हणी सूत्रियै (रजस्वलैयै) तॊट्टाल्, प्राम्हणी क्रुच्र व्रदम् सॆय्यवुम्. सूत्री तानम् सॆय्यवुम्, सुत्तैबागिऱार्गळ्.
प्राम्हणिगळ् परस्परम् तॊट्टुक्कॊण्डाल् अदु मुदल् स्नानम् वरैयिल् आहारत्तै विलक्कवुम्. 3-नाळ् क्रुच्रव्रदमुम्. इदु कूडप्पडुत्तुक्कॊळ्वदु मुदलिय विषयत्तिल्. ऒरु तडवै तॊट्टाल्, ऒरु रात्रि उबवासमुम् पञ्जगव्य प्रासनमुम्. स्नानबर्यन्दम् आहारत्यागमुम्.
रजस्वलैयै रजस्वलै तॊट्टाल्, स्नानम् सॆय्दु उबवासमिरुक्कवेण्डियदु. स्नानबर्यन्दम् उबवासम्. साप्पिट्टाल् सान्द्रायण व्रदमिरुक्कवेण्डुम् ऎण्ड्रु स्मृति.
विश्वास-प्रस्तुतिः
स्मृत्यन्तरे –
कृच्छ्रं तस्या यया स्पृष्टमन्यस्यास्तु तदर्धकम् ।
दण्डाद्यन्तर्हितं नोचेदन्यस्या अपि कृच्छ्रकम् ॥
कृच्छ्रमत्र त्रिरात्रादि ॥
तत्रैव -
स्पृष्टे रजस्वलेऽन्योन्यं सगोत्रे चैकभर्तृके ।
कामतोऽकामतो वाऽपि त्रिरात्रेणैव शुद्ध्यतः ॥
त्रिरात्रेण = त्रिरात्रोपवासेन ।
शुना पुष्पवती स्पृष्टा पुष्पवत्याऽन्यया तथा ।
शेषान्यह्नान्युपवसेत् स्नात्वा शुद्ध्येद्धुताशनात् ॥
इति संवर्तवचनमकामतः स्पर्शविषयम् ॥

वेऱुस्मृति:-
तॊट्टवळुक्कु क्रुच्रम्, मट्रवळुक्कु अदिल् पादि. कम्बु मुदलानवैयाल् तॊट्टवळुक्कु इव्विदम्. नेराग इरुन्दाल् अवळुक्कुम् क्रुच्रमे. क्रुच्रम् = मूण्ड्रु नाळ्.
अव्विडमे:-
सगोत्रैगळायुम्, ऒरे पदियुडैयवर् कळायुमिरुप्पवर् इष्टप्पट्टो, इष्टमिल्लामलो, रज: कालत्तिल् परस्परम् तॊट्टुक्कॊण्डाल् 3-नाळिल् सुत्ति, अदावदु, मूण्ड्रु नाळ् उबवासत्ताल् सुत्ति.
नायालो, वेऱु रजस्वलैयालो तॊडप्पट्ट रजस्वलै, मीदि नाळ् उबवासमिरुन्दु, स्नानम् सॆय्दु, नॆरुप्पैत् तॊट्टुच् चुत्तैयावाळ्’ ऎण्ड्र सम्वर्त्त वाक्यम् इष्टमिल्लामल् तॊट्ट विषयम्.
विश्वास-प्रस्तुतिः
अत्रिः -
आर्तवे यदि चाण्डालमुच्छिष्टा सम्प्रपश्यति ।
आस्नानकालान्नाश्नीयादासीना वाग्यता बहिः ॥
पादकृच्छ्रं ततः कुर्याद्ब्रह्मकूर्चं पिबेत् पुनः ।
ब्राह्मणान् भोजयेत् पश्चाद्विप्राणामनुशासनात् ॥
स्त्रीधर्मिणी त्रिरात्रं तु स्वमुखं नैव दर्शयेत् ।
स्ववाक्यं श्चा[[श्रा??]]वयेन्नापि यावत् स्नाता न शुद्ध्यति ॥
सुस्नाता भर्तृवदनमीक्षतेऽन्यस्य न क्वचित् ।
अथवा मनसा ध्यात्वा पतिं भानुं विलोकयेत् ॥
आग्नेयपुराणेऽपि -
निर्वृत्यैवं त्रिदिवसं स्नात्वा स्नानदिने शुचिः । हरिद्राकुङ्कुमालेपलेपिता शुभ्रवस्त्रका ॥
स्मरन्ती पतिपादाब्जं स्वपादाङ्गुष्ठवीक्षणा ।
इतरांस्तु न पश्यन्ती स्मरन्ती पतिमेव सा ॥
भर्तारं भर्गमेवेति ध्यायन्ती सततं शुचिः ।
सुमनाः शयनं गच्छेत् भूषिता गन्धचर्चिता ॥

अत्रि:-
रजस्वलै ऎच्चिलायिरुक्कुम्बोदु, सण्डाळनैप् पार्त्ताल्, स्नान कालम् वरैयिल् साप्पिडक्कूडादु. पिऱगु वॆळियिल् मौनमाय् उट्कार्न्दुगॊण्डु, पादक्रुच्रम् अनुष्टित्तु, प्रम्ह कूर्च्चम् साप्पिडवेण्डुम्. पिऱगु प्राम्हणर्गळ् आज्ञैयाल् प्राहण पोजनम् सॆय्विक्कवुम्. स्नानम् सॆय्युम्वरैयिल् 3 नाळ् वॆळियिल् मुगत्तैक् काट्टक्कूडादु. तन् वार्त्तै वॆळियिल् केट्कक्कूडादु. स्नानम् सॆय्दबिन् भर्त्ताविन् मुगत्तैये पार्क्कवेण्डुम्. वेऱु मुगत्तैप् पार्क्कक्कूडादु. अल्लदु मनदाल् पदियै त्यानम् सॆय्दु, सूर्यनैप्पार्क्कवेण्डुम्.
आक्नेय पुराणत्तिल् :-
इव्विदम् मूण्ड्रु तिनम् व्रदम् सॆय्दु, स्नानदिनत्तिल् सुत्तैयागिऱाळ्. मञ्जळ्, कुङ्गुमम्, मुदलियदैप् पूसिक्कॊण्डु, सुत्तमनदाल् पदिबादत्तै स्मरित्तुक्कॊण्डु, तन् पादक् कट्टैविरलैप् पार्त्तुक् कॊण्डु इदरर्गळैप्पारामल्, पदियैच् चिवनाग त्यानम् सॆय्दुगॊण्डु, नल्ल मनदुडन्, कन्द पुष्पालङ्ग्रुदैयाय् सयनम् सॆय्यवुम्.
विश्वास-प्रस्तुतिः
ऋतुकालातिक्रमे उभयोरपि प्रायश्चित्तमाहापस्तम्बः -
दारव्यतिक्रमी खराजिनं बहिर्लोम परिधाय दारव्यतिक्रमिणे भिक्षामिति सप्तागाराणि चरेत् । सा वृत्तिः षण्मासान् । स्त्रियास्तु भर्तृव्यतिक्रमे कृच्छ्रद्वादशरात्राभ्यासः तावन्तं कालमिति ॥
भारतेऽपि -
व्युच्चरन्त्याः पतिं नार्याः अद्यप्रभृति पातकम् ।
भार्यां तथा व्युच्चरतः कौमारब्रह्मचारिणीम् ॥
पतिव्रतामेतदेव भविता पातकं परम् ॥
इति ॥
मनुः –
भर्तारं लङ्घयेद्या तु जातु स्त्री गुणदर्पिता ।
तां श्वभिः खादयेद्राजा संस्थाने बहुसंस्थिते ॥
ब्रह्माण्डपुराणे व्यासः -
सर्वलक्षणयुक्ताऽपि यातु भर्तृव्यतिक्रमम् ।
करोति सा परित्याज्या एष धर्मस्सनातनः ॥

रुदुगालत्तै अदिक्रमित्ताल् इरुवरुक्कुम् तोषत्तै, आबस्तम्बर्:-
पार्यैयै अदिक्रमित्तवन्, कऴुदैत्तोलै वॆळिमयिराय् उडुत्तिक्कॊण्डु, एऴु वीडुगळिल् पिक्षै वाङ्ग वेण्डुम्. इव्विदम् 6-मादम् सॆय्यवेण्डियदु. भर्त्तावै अदिक्रमित्तस्त्री, 12-नाळ् क्रुच्चत्तैच् चॆय्यवेण्डियदु.
पारदत्तिलुम् :-
पदियै अदिक्रमिक्कुम् स्त्रीक्कु अदिग अदुबोल् पार्यैयै अदिक्रमिक्कुम् पदिक्कुम्
मनु -
कुणत्तिल् अहङ्गारमडैन्द स्त्री भर्त्तावै अदिक्रमित्ताल्. अरसन् वॆगु जनङ्गळडङ्गिय इडत्तिल्, अवळै नाय्गळाल् कडिक्कच् चॆय्यवेण्डुम्.
प्रम्हाण्ड पुराणत्तिल्, व्यासर्:
सर्व लक्षणङ्गळुम् पॊरुन्दियवळायिनुम्, भर्त्तावै अदिक्रमित्ताल् अवळैत् तळ्ळवेण्डियदु.
विश्वास-प्रस्तुतिः
ऋतुकाले भर्तुः प्रत्याख्याने स्त्रियाः दोषः ॥
तथा च बोधायनः -
भर्तुः प्रतिनिवेशेन या भार्या स्कन्दयेदृतुम् ।
तां ग्राममध्ये निर्वास्य भ्रूणघ्नीं निर्धमेद्गृहात् ॥
प्रतिनिवेशः = प्रातिकूल्यम् । गृहान्निर्धमेत् = पितृगृहे वासयेत् ।
अत्र पितृगृहे वासनस्य शिक्षात्वेनोक्तत्वात् विवाहप्रभृति स्त्रीणां पतिगृहे वास एव धर्म्यः । पितृगृहे वासस्तु निन्दितः इत्यवगम्यते ॥
तथा च ऋग्वेदमन्त्रवर्णः -
प्रेतो मुञ्चामि नामुतस्सुबद्धाममुतस्करम् ॥
इति ॥
अस्यार्थो माधवीये -
वरः प्रार्थयते इमां कन्यामितः पितृगृहात् प्रमुञ्चामि नामुतः अमुतः पतिगृहान्न मुञ्चामि । इमां सुबद्धाम् अमुतस्करं अमुतः पतिकुले करं करोमि ॥

रुदुगालत्तिल् भर्त्तावै निरागरिक्कुम् स्त्रीयैप्पट्रि, पोदायनर्:-
ऎवळ् भर्त्तावै निरागरिक्किण्ड्राळो, अवळै वीट्टैविट्टु विलक्कि, पिदाविन् वीट्टिल् इरुक्कच् चॆय्यवेण्डियदु. इव्विडम् पिदाविन् वीट्टिल् इरुप्पदैच् चिक्षैयागच् चॊल्लियिरुप्पदाल्, विवाहम् मुदल् स्त्रीगळुक्कुप् पदियिन् वीट्टिलिरुप्पदे धर्मम्, पिदाविन् वीट्टिलिरुप्पदु निन्दिक्कत्तगुन्ददु ऎण्ड्रु तॆरिगिऱदु.
अप्पडिये, रुक्वेद मन्द्रम्:-
‘इवळैप् पिदाविन् वीट्टिलिरुन्दु अऴैत्तुप्पोगिऱेन्. पदिक्रुहत्तिलिरुन्दु विडमाट्टेन्.’
विश्वास-प्रस्तुतिः
यजुर्वेदेऽपि -
प्रेतो मुञ्चाति नामुतस्सुबद्धाममुतस्करदिति ॥
अस्यार्थः हरदत्तभाष्ये –
प्रेतः ॥ इन्द्रः प्रार्थ्यते इन्द्रमीढ्व इत्यामन्त्रितयोगात् । पुरुषव्यत्ययः । हे इन्द्र! मीढ्वः वर्षेण सेक्तः इमां वधूम् इतः पितृकुलात् प्रमुञ्चाति प्रमुञ्च । किञ्च सुबद्धाममुतस्करत् । पतिकुले सुष्ठु बद्धां कुरु । यथा बद्धा सती सुपुत्रा सुमना च सति स्यात् ॥
अस्मिन्नर्थे ब्राह्मणं च -
यां कामयेत दुहितरं प्रिया स्यादिति तान्निष्ट्यायां दद्यात् । प्रियेव भवति नेवतु पुनरागच्छतीति । यामित्यादि । प्रिया पत्युः स्यादिति । तां स्वात्यां दद्यात् । प्रिया भवत्येव । निष्ट्याया हृदयत्वात् । अतो निष्ट्यादानस्य न पुनरियं पितृगृहमागच्छति ॥

यजुर्वेदत्तिलुम् इदे मन्द्रमिरुक्किऱदु. अव्विडम् हरदत्तबाष्यत्तिल्-
हे इन्द्रने इन्द वदूवै पित्रुक्रुहत्तिलिरुन्दु विडुविप्पायाग. पदियिन् वीट्टिल् नण्ड्रागक् कट्टुप्पट्टवळागच् चॆय्. अप्पडियिरुन्दु अवळ् सुबुत्रैयागवुम् सौबाक्यवदियागवुम् इरुक्कट्टुम्.
इन्द अर्त्तत्तिल् प्राम्हणम्:-
तन् कुमारि, पदिक्कु, प्रियैयाय् इरुक्कवेण्डुमॆण्ड्रु इच्चैप्पट्टाल्, अवळै स्वादि नक्षत्रत्तिल् विवाहम् सॆय्दु कॊडुक्कवेण्डियदु. अवळ् भर्त्तावुक्कुप्रियैयागवे इरुप्पाळ्. मऱुबडियुम् पित्रुक्रुहत्तिऱ्कु वरमाट्टाळ्.
विश्वास-प्रस्तुतिः
साकमेधेषु द्राह्यायणसूत्रे -
जामी कुमारी वा या स्यात् पतिकामा सा परीयात् ।
त्र्यम्बकं यजामहे सुगन्धिं पतिवेदनम् ।
उर्वारुकमिव बन्धनादितो मुक्षीयेति ज्ञातीनभिसमकल्पयेत मामुत इतीष्टमभिनिर्दिशेदमुष्य गृहादिति ॥
अत्र च धन्विभाष्यम् -
सा कुमारी त्र्यम्बकमिति मन्त्रं ब्रुवाणा मृत्योर्मुक्षीयेत्यस्य स्थाने इतो मुक्षीयेत्युक्त्वा इत इत्यनेन पदेन ज्ञातीनभिसन्दध्यादितः पितृकुलादित्यर्थः । मामुत इतीष्टमभिनिर्दिशेदमुष्य गृहादिति । मा मृतादित्यस्य स्थाने मामुत इतीष्टं पतिगृहं निर्दिशेत् । यथा इतो मुक्षीय मा पत्युर्नारायणस्य गृहादिति ॥
अयमर्थः भगवता कृष्णेन सुभद्रां प्रत्युपदिष्टः आग्नेयपुराणे -
मातरं पितरं वाऽपि माऽस्मान् स्मर कदाचन ॥
इति ॥
भारते आदिपर्वणि शकुन्तलोपाख्यानेऽपि -
नारीणां चिरवासो हि बान्धवेषु न रोचते ।
कीर्तिचारित्रधर्मघ्नस्तस्मान्नयतमाचिरम् ॥

सागमेदत्तिल्, त्राह्यायण सूत्रत्तिलुम्, अदन् पाष्यत्तिलुम्:-
पदियै इष्टप्पडुम् कुमारि, ‘त्र्यम्बगम्, ऎण्ड्रु सॊल्लिक्कॊण्डु, अदिल् ‘म्रुत्यो:’ ऎन्नुमिडत्तिल् ‘इद:’ (इन्दप् पिदाविन् वीट्टिलिरुन्दु) किळम्बुवेन्, ऎण्ड्रु सॊल्लिक्कॊण्डु, पिदाविन् वीट्टिलिरुन्दु किळम्बवेण्डियदु. ‘माम्रुदात्’ ऎन्नुमिडत्तिल्, ‘मामुद:’ (इन्दप् पदि वीट्टिलिरुन्दु किळम्बमाट्टेन्) ऎण्ड्रु सॊल्लिक्कॊण्डु, पदियिन् वीट्टैक् काट्टवेण्डियदु. श्रीमन्नारायण स्वरूबियान पदियिन् वीट्टिलिरुन्दु किळम्बमाट्टेन् ऎण्ड्रु पॊरुळ्.
इन्द विषयम्, श्रीक्रुष्णनाल्, सुबत्रैयैक् कुऱित्तुच् चॊल्लप्पट्टिरुक्किऱदु. आक्नेयबुराणत्तिल्-
मादा पिदाक्कळैयो, ऎङ्गळैयो ऒरुबोदुम् निनैक्कादे.
पारदत्तिल्, आदिबर्वत्तिल्, सगुन्दळोबाक्यानत्तिल्:
स्त्रीगळुक्कु, ञादिगळिल् अदिगगालवासम् रुसिक्काददु. अदु कीर्त्ति, सरित्रम्, धर्मम् ऎल्लावट्रैयुम् कॆडुक्कुम् आगैयाल् सीक्रम् इन्द सगुन्दलैयै, पदिवीट्टुक्कु अऴैत्तुच् चॆल्लुङ्गळ्.
विश्वास-प्रस्तुतिः
अयमर्थः काळिदासेनाभ्युक्तः -
तात ! कदा पुनस्तपोवनं पश्यामीति शकुन्तलया पृष्टस्य कण्वस्य वचनम् ।
भूत्वा चिराय चतुरन्तमहीसपत्नी दौष्यन्तिमप्रतिरथं तनयं निवेश्य । भर्त्रा तदर्पितकुटुम्बभरेण सार्धं शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन्
इति ॥
अत्र शकुन्तलया पुनः कदा आगमिष्यामीति पृष्टः कण्वः, गार्हस्थ्ये त्रिवर्गफलं सम्पाद्य वानप्रस्थाश्रमार्थं भर्त्रा सह पुनरागमिष्यसीत्युक्तवान् । इदं तूत्तरं, शकुन्तलाभिप्रायानुगुणतया स्पष्टं न दृश्यते, तस्मादेतस्याभिप्रायः एवं प्रतिभाति । यासां समन्त्रकब्राह्मादिविवाहस्ताभिर्मन्त्रार्थो ज्ञात इति पितृगृहागमनं न प्रार्थ्यत एव । अस्यास्तु गान्धर्व एव विवाहः । स चामन्त्रकः, अतः तदर्थानभिज्ञानादेवं पृष्टवती, एतस्य च पुनरागमनं शास्त्रीयं न भवतीति निषेधपूर्वकमुक्तं चेत्तस्या मनसि क्लेशो भविष्यति । भर्तृगृहं प्रति प्रेषणसमये सन्तुष्टा प्रेषणीया । असत्यवचनमपि ऋषीणामनुचितम् । अतो व्यङ्ग्यमर्यादया पुनरागमननिषेधमेव वक्तुं वाचनिकवृत्त्या वानप्रस्थाश्रमार्थं पुनरत्रागमिष्यसीत्युक्तवान् ॥

इन्द अर्त्तम् काळिदासनालुम् सॊल्लप्पट्टिरुक्किऱदु.
अप्पा! मऱुबडियुम् ऎप्पॊऴुदु तबोवनत्तैप् पार्प्पेन्’ ऎण्ड्रु सगुन्दळै विनव, कण्वर्,
नी पूमियुडन् सक्कळत्तियाग, अदावदु पूबदियिन् पत्नियाग इरुन्दु, तुष्यन्द पुत्रनै सिम्हासनत्तिल् एट्रि अवनिडम् कुटुम्ब पारङ्गळै ऒप्पुवित्त भर्त्तावुडन्, सान्दमान इन्द आच्रमत्तिल् मऱुबडियुम् अडि वैप्पायाग
ऎण्ड्रार्. इव्विडम्,सगुन्दळै ‘ऎप्पॊऴुदु वरुवेन्’ ऎण्ड्रु केट्क, कण्वर्, ‘क्रुहाच्रमत्तिल् मूण्ड्रु पुरुषार्त्तङ्गळैयुम् सम्बादित्तु वानप्रस्तत्तिऱ्कुप् भर्त्तावुडन् वरुवाय्’ ऎण्ड्रुरैत्तार्. इन्दप् पदिल् सगुन्दलैयिन् अबिप्रायत्तिऱ्कु अनुसरित्तदाय्त्तॆरियविल्लै. आगैयाल् पिन्वरुमाऱु अबिप्रायम् तोण्ड्रुगिऱदु.“ऎवर्गळुक्कु मन्द्रत्तुडन् प्राम्हम् मुदलिय विवाहङ्गळो, अवर्ळुक्कु मन्द्रार्त्तम् तॆरिन्दिरुक्किऱबडियाल्, पिदाविन् वीट्टिऱ्कु वरुवदु प्रार्त्तिक्कप्पडुगिऱदिल्लै. इवळुक्को कान्दर्व विवाहम्. अदिल् मन्द्रमिल्लै. आगैयाल् मन्द्रार्त्तम् तॆरियामल् इप्पडिक् केट्टाळ्. इवळ् तिरुप्पि वरुवदु सास्त्सानुसारियायिल्लै. कूडादॆण्ड्रु सॊन्नाल् मनदिऱ्कुत् तुक्कमुण्डागुम्. भर्त्ताविन् वीट्टिऱ्कुच् चन्दोषत्तुडन् अनुप्पवेण्डुम्. रुषिगळ् पॊय् सॊल्लुवदुम् पिसगु. आगैयाल् मऱुबडि वरुवदैत् तडुप्पदऱ्कागवे वसनत्ताल् वानप्रस्ताच्रमत्तिऱ्कु वरुवाय् ऎण्ड्रु सॊन्नार्.
विश्वास-प्रस्तुतिः
व्यङ्ग्यप्रधानं च उत्तमं काव्यमिति । अतो व्यङ्ग्यमर्यादया मन्त्रप्रतिपादितपुनरागमननिषेध एव तात्पर्यमिति ॥
अमुमेवार्थं श्लोकद्वयेन द्रढयति स एव -
अथ यथा वदति क्षितिपस्तथा त्वमसि किं पितुरुत्कुलया त्वया ।
अथ च वेत्सि शुचित्रतमात्मनः पतिगृहे तव दास्यमपि क्षमम् ॥
सतीमपि ज्ञातिकुलैकसंश्रयां जनोऽन्यथा भर्तृमतीं विशङ्कते ।
अतः समीपे परिणेतुरिष्यते तदप्रियाऽपि प्रमदा स्वबन्धुभिः ॥
अत एव इतिहासपुराणकाव्यादिपु सीताद्रौपदीप्रभृतीनां पतिव्रतानां पतिगृहात् पितृगृहानागमनरूप आचारोऽपि दृश्यत इति ॥

इदे अर्त्तत्तै मट्रुम् 2 - च्लोकङ्गळाल् स्तिरप्पडुत्तुगिऱार्:
(1) अरसन् सॊल्वदुबोल् नी इरुन्दाल् कुलम्गॆट्ट उन्नाल् पिदावुक्कु ऎन्न उबयोगम्. तन् वरदम् सुत्तमॆण्ड्रु नी निनैत्ताल् पदि वीट्टिल् सेवै सॆय्वदुगूड उनक्कु योक्यम्दान्.
(2) सात्तियायिनुम्, ञादि कुलत्तिलेये इरुप्पवळै जनम् वेऱु विदमाय्, पदियुळ्ळवळाय् निनैक्किण्ड्रदु. आगैयाल् पन्दुक्कळ्, अप्रियमायिरुन्दालुम् विवाहम् सॆय्दु कॊण्डवन् समीबत्तिल् पॆण् इरुक्कवेण्डुमॆण्ड्रु निनैक्किण्ड्रनर्.
इदनालेये, इदिहास पुराण काव्यादिगळिल् सीदा त्रौबदि मुदलिय पदिव्रदैगळ् पदिवीट्टिलिरुन्दु पिदा वीट्टिऱ्कुप्पोगाद आचारमुम् काणप्पडुगिऱदु.
विश्वास-प्रस्तुतिः
ऋतुस्नाता तु या नारी पतिं नैवोपसर्पति ।
शुनी वृकी सृगाली स्यात् सूकरी च पुनः पुनः ॥
आदिपर्वणि कुन्तीं प्रति पाण्डुः -
ऋतावृतौ राजपुत्रि स्त्रिया भर्ता पतिव्रते ।
नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः ॥

रुदुस्नानम् सॆय्द स्त्री तन् पदियै अणुगाविडिल्, नाय्, नरि, पण्ड्रि जन्मङ्गळै अडैगिऱाळ्.
आदिबर्वत्तिल्, कुन्दियिडम् पाण्डु:-
ऒव्वॊरु रुदुविलुम् स्त्री तन् भर्त्तावै अदिक्रमिक्कलागादॆण्ड्रु धर्ममऱिन्दवर् सॊल्लुगिण्ड्रनर्.