०४ वर्जनीयाः

सङ्कीर्णम्

विश्वास-प्रस्तुतिः

अथ वर्जनीयाः ॥

पानं दुर्जन-संसर्गः
पत्या च विरहोऽटनम् ।
स्वप्नोऽन्यगेह-वासश् च
नारीणां दूषणानि षट् ॥

पत्या विरहः = पति-गृहात् गृहान्तर-शयनम्,
स्वप्नः = दिवा-स्वापः ॥

मूलम्

अथ वर्जनीयाः ॥

पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम् ।
स्वप्नोऽन्यगेहवासश्च नारीणां दूषणानि षट् ॥

पत्या विरहः = पतिगृहात् गृहान्तरशयनम्, स्वप्नः = दिवास्वापः ॥

द्राविडम्

इनि विलक्कत्तक्कवैगळ्

सुराबानम्, तुर्जनङ्गळुडन् सेर्क्कै, पदियैप् पिरिन्दिरुत्तल्, अलैच्चल्, तूक्कम्, वेऱु वीट्टिल् तङ्गुवदु इन्द आऱुम् स्त्रीगळुक्कु तूषणङ्गळ्.

पदियैप् पिरिन्दिरुत्तल् = वेऱु वीट्टिल् सयनम्. तूक्कम् = पगलिल् तूङ्गुदल्.

विश्वास-प्रस्तुतिः

जपस् तपस् तीर्थ-यात्रा
प्रव्रज्या मन्त्र-साधनम् ।
देवताराधनं चेति
स्त्री-शूद्र-पतनानि षट्

नेक्षेत दुष्ट-चित्तानां
दुस्-स्त्रीणां पाप-चेतसाम् ।
उच्चासनं न सेवेत
न व्रजेत् पर-वेश्मनि ॥

त्रपा-कर-वाक्यानि
वक्तव्यानि कदाचन ।
अपवादो न कर्तव्यः
कलहं दूरतस् त्यजेत्
गुरूणां सन्निधौ क्वापि
नोच्चैर् ब्रूयान् न वा हसेत्

बालया वा युवत्या वा
वृद्धया वाऽपि योषिता ॥
स्वातन्त्र्येण कर्तव्यं
कार्यं किञ्चिद् गृहेष्व् अपि ।

न निर्हारं +++(साधारणाद् वित्तात्)+++ स्त्रियः कुर्युः
कुटुम्बाद् बहु-मध्य-गात् ॥
+++(पति-सहित-)+++स्व-काद् अपि च वित्ताद्धि
स्वस्य भर्तुर् अनाज्ञया ॥

इति ॥

मूलम्

जपस्तपस्तीर्थयात्रा प्रव्रज्या मन्त्रसाधनम् ।
देवताराधनं चेति स्त्रीशूद्रपतनानि षट् ॥
नेक्षेत दुष्टचित्तानां दुस्स्त्रीणां पापचेतसाम् ।
उच्चासनं न सेवेत न व्रजेत्परवेश्मनि ॥
न त्रपाकरवाक्यानि वक्तव्यानि कदाचन ।
अपवादो न कर्तव्यः कलहं दूरतस्त्यजेत् ॥
गुरूणां सन्निधौ क्वापि नोच्चैर्ब्रूयान्न वा हसेत् ।
बालया वा युवत्या वा वृद्धया वाऽपि योषिता ॥
न स्वातन्त्र्येण कर्तव्यं कार्यं किञ्चिद्गृहेष्वपि ।
न निर्हारं स्त्रियः कुर्युः कुटुम्बाद्बहुमध्यगात् ॥
स्वकादपि च वित्ताद्धि स्वस्य भर्तुरनाज्ञया ॥

इति ॥

द्राविडम्

जबम्, तबम्, तीर्त्तयात्रै, सन्यासम्, मन्द्रबुरच्चरणम्, तेवदारादनम् इवै स्त्रीगळुक्कुम्, सूत्रर्गळुक्कुम् पदनीय कर्मङ्गळ्.
पाब पुत्तियुळ्ळ तुष्ट स्त्रीगळैप् पार्क्कलागादु. उयर्न्द आसनत्तिल् उट्कारलागादु. पिऱर् वीट्टिल् वसिक्कलागादु. लज्जैयैक् कॊडुक्कुम् पेच्चैप् पेसलागादु.
पिऱरैत् तूषिक्कलागादु. कलहत्तैत् तूरत्तिल् ऒऴिक्कवेण्डुम्. पॆरियोर् समीबत्तिल् इरैन्दु पेसलागादु. सिरिक्कलागादु.

बालैयो, युवदियो, किऴवियो
वीट्टिलुम् इष्टम्बोल् ऎदैयुम् सॆय्यलागादु.
पलरुक्कुच् समानम् आन कुटुम्बत्तिल्
तनियाग स्त्रीगळ् पणम् सेर्त्तु वैक्कलागादु.
भर्त्ताविन् उत्तरव् इण्ड्रि
तन् कुटुम्बत्तिलिरुन्दुम् तनियागच् सेर्क्कल् आगादु.

धन-व्ययाधिकारः

विश्वास-प्रस्तुतिः

ननु,

भार्या पुत्रश् च दासश् च
त्रय एते ऽधनाः स्मृताः ।
यत् ते समधिगच्छन्ति
यस्यैते तस्य तद्-धनम् ॥

इति स्मृतेः,

तस्मात् स्त्रियो निरिन्द्रिया अदायादीर्

इति श्रुतेश् च
स्त्रियाः धन-स्वामित्वं
तस्य धनस्य स्वातन्त्र्येण विनियोजकत्वं च नास्तीति चेन् न ॥

मूलम्

ननु,

भार्या पुत्रश् च दासश् च
त्रय एते ऽधनाः स्मृताः ।
यत् ते समधिगच्छन्ति
यस्यैते तस्य तद्-धनम् ॥

इति स्मृतेः,

तस्मात् स्त्रियो निरिन्द्रिया अदायादीर्

इति श्रुतेश् च
स्त्रियाः धन-स्वामित्वं
तस्य धनस्य स्वातन्त्र्येण विनियोजकत्वं च नास्तीति चेन् न ॥

द्राविडम्

केळ्वि:-

पार्यै, पुत्रन्, वेलैयाळ् इवर्गळ् पणमट्रवर्गळ्. अवर्गळुक्कुक् किडैक्कुम् तनम् स्वामियैच् चेर्न्ददु'

ऎण्ड्र स्मृतियाल् स्त्रीक्कु तनत्तिल् आदिबत्यमुम् इष्टप्पडि सॆलवऴिप्पदुम् किडैयादे, इदु ऎप्पडि ऎनिल्,

विश्वास-प्रस्तुतिः

अस्ति तासाम् अपि न्यायतो धनागमः ।
तत्र स्वातन्त्र्येण व्ययः,
तत्र स्वामित्वं च ॥

तद् आह मनुः -

अध्य्-अग्न्य्-अध्य्-आवहनिकं
दत्तं च प्रीतिकर्मणि ।
मातृभ्रातृपितृप्राप्तं
षड्-विधं स्त्रीधनं स्मृतम् ॥

इति ॥

कात्यायनोऽपि –

विवाहकाले यत् स्त्रीभ्यो
दीयते ह्यग्निसन्निधौ ।
तद् अध्यग्नि स्मृतं सद्भिः
स्त्रीधनं परिकीर्तितम् ॥
यत् पुनर् लभते नारी
नीयमाना हि पैतृकात् ।
अध्यावहनिकं नाम
स्त्रीधनं परिकीर्तितम् ॥

इति ॥

एवं न्याय-प्राप्तं स्त्रीधनं
भर्त्रा न ग्राह्यम् ॥+++(5)+++

मूलम्

अस्ति तासामपि न्यायतो धनागमः । तत्र स्वातन्त्र्येण व्ययः, तत्र स्वामित्वं च ॥

तदाह मनुः -

अध्यग्न्यध्यावहनिकं दत्तं च प्रीतिकर्मणि ।
मातृभ्रातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥

इति ॥

कात्यायनोऽपि –

विवाहकाले यत् स्त्रीभ्यो दीयते ह्यग्निसन्निधौ ।
तदध्यग्निस्मृतं सद्भिः स्त्रीधनं परिकीर्तितम् ॥
यत्पुनर्लभते नारी नीयमाना हि पैतृकात् ।
अध्यावहनिकं नाम स्त्रीधनं परिकीर्तितम् ॥

इति ॥

एवं न्यायप्राप्तं स्त्रीधनं भर्त्रा न ग्राह्यम् ॥

द्राविडम्

समाधानम्:-

अवर्गळुक्कुम् न्याय मार्गत्तिल् पणमिरुक्किऱदु. इष्टप्पडि सॆलवऴिप्पदुमिरुक्किऱदु.

अप्पडिये मनु:-

अक्निक्कु ऎदिरिलुम्, कणवन् वीट्टिऱ्‌कुक् कॊण्डुबोगिऱ कालत्तिलुम्, प्रीदि कार्यत्तिलुम्, सहोदरन्, ताय्, तगप्पनिडमिरुन्दुम् किडैत्त आऱु विदमान पणङ्गळुम् स्त्री तनम्.

कात्यायनरुम्:-

विवाह कालत्तिल्, अक्नि सन्निदियिल्, स्त्रीगळुक्कुक् कॊडुक्कप्पडुम् तनम् अत्यक्नि ऎनप्पडुम्. पिदाविन् वीट्टिलिरुन्दु, भर्त्ताविन् वीट्टिऱ्‌कुच् चॆल्लुम्बोदु किडैत्त तनम् अत्यावहनिगम् ऎनप्पडुम्.

इन्द मादिरि न्यायमाग स्त्रीगळाल् अडैयप्पडुम् तनम् स्त्री तनम्. इदैप् भर्त्ता वाङ्गिक्कॊळ्ळलागादु.

विश्वास-प्रस्तुतिः

तस्य विनियोगम् आह मनुः -

अन्वाधेयं च यद् वित्तं
पत्या प्रीतेन वा पुनः ।
पत्यौ जीवति वृत्तायाः
प्रजायास् तद्-धनं भवेत् ॥

इति ॥

अस्यार्थम् आह कात्यायनः -

विवाहात् परतो यत्तु
लब्धं भर्तृ-कुले स्त्रिया ।
अन्वाधेयं तद् उक्तं तु
सर्वं बन्धुकुले तथा ॥

इति ॥

ब्राह्म-दैवार्ष-गान्धर्व-
प्राजापत्येषु यद् धनम् ।
अप्रजायाम् अतीतायां
भर्तुर् एव तद् इष्यते ॥

यत् तस्याः स्याद् धनं दत्तं
विवाहेष्व् आसुरादिषु ।
अप्रजायाम् अतीतायां
माता-पित्रोस् तद् इष्यते ॥

स्त्रियाश्च यद् भवेद् वित्तं
पित्रा दत्तं कथञ्चन ।
ब्राह्मणी तद् +हरेत् कन्या
तद्-अपत्यस्य वा भवेत् ॥

इति ॥

मूलम्

तस्य विनियोगमाह मनुः -

अन्वाधेयं च यद्वित्तं पत्या प्रीतेन वा पुनः ।
पत्यौ जीवति वृत्तायाः प्रजायास्तद्धनं भवेत् ॥

इति ॥

अस्यार्थमाह कात्यायनः -

विवाहात्परतो यत्तु लब्धं भर्तृकुले स्त्रिया ।
अन्वाधेयं तदुक्तं तु सर्वं बन्धुकुले तथा ॥

इति ॥

ब्राह्मदैवार्षगान्धर्वप्राजापत्येषु यद्धनम् ।
अप्रजायामतीतायां भर्तुरेव तदिष्यते ॥
यत्तस्याः स्याद्धनं दत्तं विवाहेष्वासुरादिषु ।
अप्रजायामतीतायां मातापित्रोस्तदिष्यते ॥
स्त्रियाश्च यद्भवेद्वित्तं पित्रा दत्तं कथञ्चन ।
ब्राह्मणी तद्धरेत् कन्या तदपत्यस्य वा भवेत् ॥

इति ॥

द्राविडम्

अदन् विनियोगत्तैच् चॊल्लुगिऱार्, मनु:-

भर्त्ताविन् वीट्टिल् किडैत्तदु अन्वादेयमॆनप्पडुम्.
अव्विधम् आन धनम् पति जीवित्त् इरुक्कुम् बोदु मरित्ताल्
कुऴन्दैगळैच् चेरुम्.

इदन् अर्त्तत्तैच् चॊल्लुगिऱार् कात्यायनर्

विवाहत्तिऱ्‌कुप् पिऱगु, भर्त्ताविन् क्रुहत्तिल् अडैन्द तनमुम्, पन्दुक्कळिडमिरुन्दु अडैन्द तनमुम् अन्वादेयम् ऎनप्पडुम्.
प्राम्हम्, तैवम्, आर्षम्, कान्दर्वम्, प्राजाबत्यम् ऎन्नुम् विवाहङ्गळिल् किडैत्त तनम् कुऴन्दैयिल्लाविडिल् पदियैच् चेरुम्.
आसुरादि विवाहङ्गळिल् किडैत्त पणम् मादा पिदाक्कळैच् चेरुम्. पिदावाल् कॊडुक्कप्पट्ट तनम् अवळुडैय पॆण्णैच् चेरुम्. अल्लदु अवळुक्कुप् पिऱन्द पेरनैच् चेरुम्.

विश्वास-प्रस्तुतिः

स्त्रिया धन-स्वत्वाभाव-वचनं तु
भर्तृकुले साधारण-द्रव्य-परं, भर्तृ-द्रव्य-परं च ।
तथा स एवाह -

न निर्हारं स्त्रियः कुर्युः
कुटुम्बाद् बहु-मध्य-गात् ।
स्वकाद् अपि च वित्ताद्धि
स्वस्य भर्तुर् अनाज्ञया ॥

अत्र निर्हार आदानम् ।
कुटुम्बाद् बहुमद्ध्यगाद् इति देवरादि-साधारण-द्रव्यात् ।
स्व-कादपि च वित्तादिति = भर्तुः स्वस्य च साधरणाद् अर्थात् इत्यर्थः॥

आपस्तम्बोऽपि -

न हि भर्तृ-विप्रवासे
नैमित्तिके दाने स्तेयम् उपदिशन्तीति ॥

अस्यार्थः - भर्तुर् अनाज्ञया नित्य-दाने दोष-प्रसक्तिर् एव नास्ति ।
यद् अकारणाद् अग्नि-विच्छित्तिः कुटुम्बोपाधिः अतिथि-पूजन-निवृत्तिस्
तेषु नैमित्तिकेषु भर्तुर् आज्ञाभावेऽपि न दोषः,
कर्मानुपयुक्त-यथेच्छ-प्रधाने स्तेय-दोषो ऽस्त्येव ।+++(4)+++
एतच् च भर्तृ-साधारण-द्रव्य-विषये ।

यत्तु अध्य्-अग्न्य् अध्यावहनिकम् इति षड्-विधं धनं
तत्र स्वातन्त्र्यात् तद्-दाने अधिकारः अस्त्य् एव ॥

मूलम्

स्त्रिया धनस्वत्वाभाववचनं तु भर्तृकुले साधारणद्रव्यपरं, भर्तृद्रव्यपरं च । तथा स एवाह -

न निर्हारं स्त्रियः कुर्युः कुटुम्बाद्बहुमद्ध्यगात् ।
स्वकादपि च वित्ताद्धि स्वस्य भर्तुरनाज्ञया ॥

अत्र निर्हार आदानम् । कुटुम्बाद्बहुमद्ध्यगादितिदेवरादिसाधारणद्रव्यात् । स्वकादपि च वित्तादिति = भर्तुः स्वस्य च साधरणादर्थात् इत्यर्थः॥

आपस्तम्बोऽपि -

न हि भर्तृविप्रवासे नैमित्तिके दाने स्तेयमुपदिशन्तीति ॥

अस्यार्थः - भर्तुरनाज्ञया नित्यदाने दोषप्रसक्तिरेव नास्ति । यदकारणादग्निविच्छित्तिः कुटुम्बोपाधिः अतिथिपूजननिवृत्तिस्तेषु नैमित्तिकेषु भर्तुराज्ञाभावेऽपि न दोषः, कर्मानुपयुक्तयथेच्छप्रधाने स्तेयदोषोऽस्त्येव । एतच्च भर्तृसाधारणद्रव्यविषये । यत्तु अध्यग्न्यध्यावहनिकमिति षड्विधं धनं तत्र स्वातन्त्र्यात् तद्दाने अधिकारः अस्त्येव ॥

द्राविडम्

स्त्रीगळुक्कु तनमिल्लै ऎन्बदु, भर्त्ताविन् वीट्टिल् पॊदुवान तनत्तिल् उरिमै इल्लै, भर्त्ताविन् तनत्तिलुम् इल्लै ऎन्बदागुम्.

अदै अवरे सॊल्लुगिऱार्:-

मैत्तुनन् मुदलान पलरुक्कु इडैयिलिरुक्कुम् तनत्तिलिरुन्दु स्त्रीगळ् सेर्त्तु वैक्कक्कूडादु.
भर्त्ताविन् अनुमतियिण्ड्रि, तन् तनत्तिलिरुन्दुम् सेर्क्कक्कूडादु.

आबस्तम्बरुम्:-

भर्त्ता वॆळित्तेसम् पोयिरुन्दाल् नैमित्तिगदानत्तिल् तिरुट्टुत्तोषमिल्लै.

अदावदु, भर्त्ताविन् अनुमतियाल् नित्यदानत्तिल् तोषमिल्लै. ऎदैच् चॆय्याविडिल्, अक्नि पोय्विडुमो, कुटुम्बत्तिल् केडु विळैयुमो, अदिदिबूजै इल्लामल् पोय्विडुमो अन्द नैमित्तिग तानङ्गळिल् भर्त्ताविन् अनुमति इल्लाविडिल् तोषमिल्लै. कर्मङ्गळुक्कु उबयोगमिण्ड्रि इष्टप्पडि तानम् सॆय्दाल् तोषमुण्डु. इदुवुम्, भर्त्तावुक्कुम् तनक्कुम् पॊदुवान तन विषयम्. तन्नुडैय मुन् सॊन्न स्त्री तनत्तैक् कॊडुक्क अदिगारम् इरुक्कवे इरुक्किऱदु.

विश्वास-प्रस्तुतिः

अत एव रामाभिषेक-प्रियाख्यातृभ्यः
स्वयं हिरण्यादि कौसल्या दत्तवतीति प्रतिपादितम् अयोध्याकाण्डे ॥

सा हिरण्यं च गाश्चैव
रत्नानि विविधानि च ।
व्यादिदेश प्रियाख्येभ्यः
कौसल्या प्रमदोत्तमा ॥

इति,

वस्तुतस् तु धनदानादिविनियोगे
स्त्रीणां स्वातन्त्र्याभावस्य भर्तुर् आज्ञाभावे निषेधस्य चावगमात्,
षड्-विध-धनेऽपि भर्तुर् आज्ञयैव यथेष्ट-विनियोगो युक्तः ॥+++(4)+++

तत्र स्वातन्त्र्याभावे हारीतः -

दाने बाधमते वाऽपि
धर्मार्थे वा विशेषतः ।
आदाने वा विसर्गे वा
न स्त्री स्वातन्त्र्यम् अर्हति ॥

इति ॥

मूलम्

अत एव रामाभिषेकप्रियाख्यातृभ्यः स्वयं हिरण्यादि कौसल्या दत्तवतीति प्रतिपादितमयोध्याकाण्डे ॥

सा हिरण्यं च गाश्चैव रत्नानि विविधानि च ।
व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा ॥

इति ॥

वस्तुतस्तु धनदानादिविनियोगे स्त्रीणां स्वातन्त्र्याभावस्य भर्तुराज्ञाभावे निषेधस्य चावगमात्, षड्विधधनेऽपि भर्तुराज्ञयैव यथेष्टविनियोगो युक्तः ॥

तत्र स्वातन्त्र्याभावे हारीतः -

दाने बाधमते वाऽपि धर्मार्थे वा विशेषतः ।
आदाने वा विसर्गे वा न स्त्री स्वातन्त्र्यमर्हति ॥

इति ॥

द्राविडम्

इदै अनुसरित्ते रामबट्टाबिषेगम् ऎन्नुम् प्रिय वार्त्तैयैच् चॊन्नवर्गळुक्कुक् कौसल्यै ताने कॊडुत्तदाग अयोत्या काण्डत्तिल् सॊल्लप्पट्टिरुक्किऱदु. अन्द उत्तम स्त्री कौसल्यै,

स्वर्णम्, माडुगळ्, नानाविदमान रत्नङ्गळ् ऎल्लावट्रैयुम् प्रिय वसनम् कॊण्डुवन्दर्गळुक्कुक् कॊडुत्ताळ्.

आराय्न्दु पार्त्ताल्, तनङ्गळै उबयोगिप्पदिल् स्त्रीगळुक्कु स्वादन्द्रियमिल्लै ऎण्ड्रुम्, भर्त्ताविन् अनुमतियिल्लामल् कूडादॆण्ड्रुम् तॆन्बडुवदाल्, आऱुविदमान तनत्तिलुम् भर्त्ताविन् अनुमतियिन् पेरिल् तान् अदिगारम् ऎण्ड्रऱिग.

स्वातन्द्रियमिल्लैयॆन्बदिल् हारीदर्:-

कॊडुप्पदिलुम्, धर्मत्तिल् सॆलवु सॆय्वदिलुम्, वाङ्गुवदिलुम्, विडुवदिलुम् स्त्रीगळुक्कु स्वादन्द्रियमिल्लै.

विश्वास-प्रस्तुतिः

आज्ञाभावे याज्ञवल्क्यः -

न निर्हारं स्त्रियः कुर्युः
कुटुम्बाद्बहुमद्ध्यगात् ।
स्वकादपि च वित्ताद्धि
स्वस्य भर्तुरनाज्ञया ॥

इति ॥

स्वकाद् अपि च वित्ताद् इत्य्-अस्य
भर्तुः स्वस्य च साधारणाद् इत्य्-अर्थ-करणे
स्वीय-धने आज्ञां विनैव विनियोग-प्रसक्तौ
“त्रय एवाधना राजन्” इत्य्-आदि-वचन-विरोधः स्यात् ॥

अध्यग्न्यध्यावहनिकं
दत्तं च प्रीतिकर्मणि ।
मातृभ्रातृपितृप्राप्तं
षड्विधं स्त्रीधनं स्मृतम् ॥

इति वचनेन षड्विधधने स्त्रीणां स्वामित्वावगमात् ।

भार्या दासश्च पुत्रश्च
त्रय एवाधनाः स्मृताः ।
यत्ते समधिगच्छन्ति
यस्यैते तस्य तद्धनम् ॥

इति ॥

इदं च वचनं व्याख्यातं राघवानन्दीये +++(मनु-भाष्य-विशेषे)+++ ।
दासप्रसङ्गेन अन्ययोर् अपि धनास्वामित्वम् आह भार्येति ।
एते त्रयो यत् समधिगच्छन्त्य् आर्जयन्ति,
यस्य सम्बन्धिनस् ते
तस्यैव तेषां धनं,
तेन तस्मिन् जीवति तदनुज्ञां विना धनव्यये नाधिकारः -
अनीशास् ते हि जीवतोर् इत्युक्तेः ।

पुत्रं प्रति स्वत्वं च

पितुर् ऊर्ध्वं हरेद् धनम्

इत्युक्तेः ॥

मूलम्

आज्ञाभावे याज्ञवल्क्यः -

न निर्हारं स्त्रियः कुर्युः कुटुम्बाद्बहुमद्ध्यगात् ।
स्वकादपि च वित्ताद्धि स्वस्य भर्तुरनाज्ञया ॥

इति ॥

स्वकादपि च वित्तादित्यस्य भर्तुः स्वस्य च साधारणादित्यर्थकरणे स्वीयधने आज्ञां विनैव विनियोगप्रसक्तौ “त्रय एवाधना राजन्” इत्यादिवचनविरोधः स्यात् ॥

अध्यग्न्यध्यावहनिकं दत्तं च प्रीतिकर्मणि ।
मातृभ्रातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥

इति वचनेन षड्विधधने स्त्रीणां स्वामित्वावगमात् ।

भार्या दासश्च पुत्रश्च त्रय एवाधनाः स्मृताः ।
यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् ॥

इति ॥

इदं च वचनं व्याख्यातं राघवानन्दीये । दासप्रसङ्गेन अन्ययोरपि धनास्वामित्वमाह भार्येति । एते त्रयो यत्समधिगच्छन्त्यार्जयन्ति, यस्य सम्बन्धिनस्ते तस्यैव तेषां धनं, तेन तस्मिन् जीवति तदनुज्ञां विना धनव्यये नाधिकारः । अनीशास्ते हि जीवतोरित्युक्तेः । पुत्रं प्रति स्वत्वं च पितुरूर्ध्वं हरेद्धनमित्युक्तेः ॥

द्राविडम्

आज्ञै इल्लाविडिल् ऎन्बदिल् याज्ञ्यवल्क्यर्:

कुटुम्बत्तिन् पॊदुत् तनत्तिलिरुन्दुम्, तन् तनत्तिलिरुन्दुम् भर्त्ताविन् अनुमतियिण्ड्रिच् चेर्क्कक्कूडादॆन्बदु.

तन् तनत्तिलिरुन्दु ऎण्ड्राल्, तनक्कुम् भर्त्तावुक्कुम् पॊदुवान ऎन्बदु पॊरुळ् ऎण्ड्रु कूऱिनाल् तन् सॊत्तै आज्ञैयिण्ड्रिच् चॆलवु सॆय्यलामॆण्ड्रु पॊरुळ्बडुम्. अदु, पार्यै पुत्रन् तासन् मूवरुम् तनमिल्लादवर् ऎण्ड्र वसनत्तिऱ्‌कु विरोदमागुम्.

मुन् सॊल्लिय प्रगारम् आऱुविदम् स्त्री तनम्, मूवरुम् तनमट्रवर्गळ् ऎण्ड्र वसनङ्गळिन् तात्पर्यम् रागवानन्दीयत्तिल् - इम् मूवगुम् सम्बादिक्कुम् तनम् अवर्गळ् यजमाननैच् चेर्न्ददु ऎण्ड्राल् अवन् अनुमतियिण्ड्रि, सॆलवु सॆय्यक्कूडादॆन्बदु पॊरुळ्. जीवित्तिरुक्कुम्बोदु अवर्गळ् सामर्त्यमट्रवर्गळ् ऎण्ड्रु सॊल्लप्पट्टिरुक्किऱदु. पुत्रनुक्कुम्, पिदावुक्कुप् पिन् तान् सॊत्तु.

विश्वास-प्रस्तुतिः

स्त्रियं प्रति स्वत्वम् अध्यग्न्य्-अध्यावहनिकम्-इत्यादि षट्प्रकारजं स्त्रीपुंसयोर्मध्यगं धनमिवेति सिद्धम् । न स्त्री स्वातन्त्र्यमर्हतीत्यनधिकारात् दासस्यापि जीवेत्कारुककर्मभिरित्यादि वक्ष्यमाणस्वत्वहेतुः ‘न कार्यो धनसङ्ग्रह’ इत्यादिनिषेधबलाच्च त्रयाणां स्वातन्त्र्यमस्वातन्त्र्यमिति । अनेन स्मृतिवचनेन भार्याधने भर्तुरपि स्वामित्वावगमात् । अत एवादिपर्वणि ययातिं राजानम्प्रति शर्मिष्ठावचनम् ॥

त्रय एवाधना राजन् भार्या दासस्तथा सुतः ।
यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् ॥
देवयान्या भुजिष्याऽस्मि वश्या तव च भार्गवी ।
सा चाहं च त्वया राजन् भजनीये भजस्व माम् ॥

इति ॥

मूलम्

स्त्रियं प्रति स्वत्वम् अध्यग्न्यध्यावहनिकमित्यादि षट्प्रकारजं स्त्रीपुंसयोर्मध्यगं धनमिवेति सिद्धम् । न स्त्री स्वातन्त्र्यमर्हतीत्यनधिकारात् दासस्यापि जीवेत्कारुककर्मभिरित्यादि वक्ष्यमाणस्वत्वहेतुः ‘न कार्यो धनसङ्ग्रह’ इत्यादिनिषेधबलाच्च त्रयाणां स्वातन्त्र्यमस्वातन्त्र्यमिति । अनेन स्मृतिवचनेन भार्याधने भर्तुरपि स्वामित्वावगमात् । अत एवादिपर्वणि ययातिं राजानम्प्रति शर्मिष्ठावचनम् ॥

त्रय एवाधना राजन् भार्या दासस्तथा सुतः ।
यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् ॥
देवयान्या भुजिष्याऽस्मि वश्या तव च भार्गवी ।
सा चाहं च त्वया राजन् भजनीये भजस्व माम् ॥

इति ॥

द्राविडम्

स्त्रीक्कु आऱु विदमान तनत्तिल् स्वादन्द्र्यम्, इरुवरुक्कुम् पॊदुवान तनत्तिल् पोलॆण्ड्रु सित्तमागियदु. वसनङ्गळिल् पलत्ताल्, मूवरुक्कुम् स्वा तन्द्र्यम्, अस्वा तन्दर्यम् इरण्डुमॆण्ड्रागिऱदु, स्मृति वसनत्ताल् पार्या तनत्तिल् भर्त्तावुक्कुम् स्वामित्वमिरुप्पदाय्त् तॆरिवदाल्. आगैयाट्रान्, आदिबर्वत्तिल् ययादि ऎनुम् राजावै नोक्कि सर्मिष्टैयिन् वसनम्:-

अरसने! पार्यै, तासन्, पुत्रन् इम् मूवरुम् तनमट्रवर्गळ्. अवर्गळ् सम्बादिक्कुम् तनम् स्वामियैच् चेर्न्ददु. नान् तेवयानिक्कुप् परिसारिगैया यिरुक्किऱेन्. अवळो उनक्कु वसमानवळ्. अवळुम्, नानुम् उन्नुडैयवर्गळे. आगैयाल् ऎन्नै नी अनुबविक्क वेण्डुम्, ऎण्ड्रु.

विश्वास-प्रस्तुतिः

ननु षड्विधधने स्वातन्त्र्येण स्त्रीणां व्यवहारयोग्यत्वाभावे भर्तृसाधारणद्रव्यापेक्षया वैलक्षण्यं न स्यात् । भर्तुराज्ञया दानस्य उभयत्राविशेषादिति चेन्न । आज्ञाग्रहणस्य तुल्यत्वेऽपि भर्तृसाधारणं द्रव्यं स्वामित्वाविशेषेऽपि भार्यानुमतिं विना भर्त्रा विनियोक्तव्यं, भार्यया तु भर्तुराज्ञयैव विनियोक्तव्यम्, षड्विधधनं तु स्वामित्वाविशेषेऽपि भर्त्रनुमत्या स्त्रियैव विनियोक्तव्यं न भर्त्रेति प्रकारान्तरेण वैलक्षण्यसम्भवात् । स्त्रीधनं तस्यां जीववत्यां भर्त्रा न ग्राह्यं, बलात् ग्रहणे राज्ञा दण्ड्य इत्याह माधवः ॥

न भर्ता नैव च सुतो न पिता भ्रातरो न च ।
आदाने वा विसर्गे वा स्त्रीधने प्रभविष्णवः ॥
यदि त्वेकतरोऽप्येषां स्त्रीधनं भक्षयेद्बलात् ।
सवृद्धिकं प्रदाप्यः स्याद्दण्डं चैव समाप्नुयात् ॥

इति ॥

अनन्तरमपि तत्प्रजया तदभावे यथाधिकारं ग्राह्यं, अयमर्थः पूर्वमेव प्रतिपादितः ॥

मूलम्

ननु षड्विधधने स्वातन्त्र्येण स्त्रीणां व्यवहारयोग्यत्वाभावे भर्तृसाधारणद्रव्यापेक्षया वैलक्षण्यं न स्यात् । भर्तुराज्ञया दानस्य उभयत्राविशेषादिति चेन्न । आज्ञाग्रहणस्य तुल्यत्वेऽपि भर्तृसाधारणं द्रव्यं स्वामित्वाविशेषेऽपि भार्यानुमतिं विना भर्त्रा विनियोक्तव्यं, भार्यया तु भर्तुराज्ञयैव विनियोक्तव्यम्, षड्विधधनं तु स्वामित्वाविशेषेऽपि भर्त्रनुमत्या स्त्रियैव विनियोक्तव्यं न भर्त्रेति प्रकारान्तरेण वैलक्षण्यसम्भवात् । स्त्रीधनं तस्यां जीववत्यां भर्त्रा न ग्राह्यं, बलात् ग्रहणे राज्ञा दण्ड्य इत्याह माधवः ॥

न भर्ता नैव च सुतो न पिता भ्रातरो न च ।
आदाने वा विसर्गे वा स्त्रीधने प्रभविष्णवः ॥
यदि त्वेकतरोऽप्येषां स्त्रीधनं भक्षयेद्बलात् ।
सवृद्धिकं प्रदाप्यः स्याद्दण्डं चैव समाप्नुयात् ॥

इति ॥

अनन्तरमपि तत्प्रजया तदभावे यथाधिकारं ग्राह्यं, अयमर्थः पूर्वमेव प्रतिपादितः ॥

द्राविडम्

केळ्वि आऱुविद तनत्तिलुम्, स्त्रीगळुक्कु स्वादन्द्रियमिल्लाविडिल्, भर्त्तावुक्कुप् पॊदुवान तनत्तैक् काट्टिलुम् विशेषम् यादु?. भर्त्ताविन् अनुमतियाल् कॊडुप्पदु ऎल्लात् तनत्तिऱ्‌कुम् पॊदुवानदल्लवा? पदिल्:- पॊदुत् तनम् इरुवरुक्कुम् पॊदुवायिनुम्. पार्यैयिन् अनुमतियिण्ड्रि भर्त्ता सॆलविडलाम्. पार्यैयो भर्त्ताविन् आज्ञैयिण्ड्रि सॆलविडक्कूडादु. आऱुविद तनमोवॆनिल्, स्वामि ऎन्बदु समानमायिनुम्, भर्त्ताविन् अनुमतियाल् स्त्रीये सॆलविडवेण्डुम्. भर्त्ता सॆलविडक्कूडादु, ऎण्ड्र व्यत्यासमिरुक्किऱदु. स्त्रीदनत्तै, अवळ् जीवित्तिरुक्कुम्बोदु, भर्त्ता ऎडुक्कक्कूडादु. पलात्कारमाग ऎडुत्तालरसन् तण्डिक्कलाम्, ऎण्ड्रार् मादवर्.

भर्त्ता, पुत्रन्, सहोदरन् इवर्गळ् स्त्रीदनत्तै वाङ्गवो, सॆलविडवो अदिगारिगळल्लर्. यारावदु ऒरुवर् ऎडुत्तुक्कॊण्डाल्, वट्टियुडन् कॊडुक्कवेण्डुम्. अबरादमुम् सॆलुत्त वेण्डुम्.

अवळुक्कुप् पिऱगु, पुत्रन् मुदलानवर् अदिगारप्पडि अडैयवुम्. इव्विषयम् मुन्नमे उरैक्कप्पट्टिरुक्किऱदु.

विश्वास-प्रस्तुतिः

यत्तु कौसल्यया पारितोषिकदानं कृतम् तदपि,

सततं प्रियकामा मे प्रियपुत्रा प्रियंवदा ।
न मया सत्कृता देवी सत्कारार्हा कृते तव ॥
यदा यदा हि कौसल्या दासीवच्च सखीव च ।
भार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति ॥

इत्यादिना सत्कारार्हा कौसल्या त्वत्कृते मया सत्काराकरणेन अवमानिताऽपि दासीवत् सखीवत् भार्यावद्भगिनीवच्च मां पतिमुपतिष्ठति इति दशरथेन परोक्षे गुणकथनात्, “प्रसादये त्वां शिरसा भूमौ निपतिताऽस्मि ते” इति दशरथं प्रति कौसल्यावचनेन कौसल्यायाः पतिव्रताधर्मानुष्ठानावगमात्, वनगमनावसरे -

साध्वीनां हि स्थितानां तु सत्ये शीले श्रुते दमे ।
स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते ॥

इत्यादिना कौसल्यया पतिव्रताधर्मोपदेशात्, पारितोषिकदानावसरे प्रमदोत्तमेति विशेषणस्वारस्याच्च पतिव्रतानामग्रगण्यत्वावगमेन भर्तुरराज्ञयैव कृतमित्यवगम्यते ॥

मूलम्

यत्तु कौसल्यया पारितोषिकदानं कृतम् तदपि,

सततं प्रियकामा मे प्रियपुत्रा प्रियंवदा ।
न मया सत्कृता देवी सत्कारार्हा कृते तव ॥
यदा यदा हि कौसल्या दासीवच्च सखीव च ।
भार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति ॥

इत्यादिना सत्कारार्हा कौसल्या त्वत्कृते मया सत्काराकरणेन अवमानिताऽपि दासीवत् सखीवत् भार्यावद्भगिनीवच्च मां पतिमुपतिष्ठति इति दशरथेन परोक्षे गुणकथनात्, “प्रसादये त्वां शिरसा भूमौ निपतिताऽस्मि ते” इति दशरथं प्रति कौसल्यावचनेन कौसल्यायाः पतिव्रताधर्मानुष्ठानावगमात्, वनगमनावसरे -

साध्वीनां हि स्थितानां तु सत्ये शीले श्रुते दमे ।
स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते ॥

इत्यादिना कौसल्यया पतिव्रताधर्मोपदेशात्, पारितोषिकदानावसरे प्रमदोत्तमेति विशेषणस्वारस्याच्च पतिव्रतानामग्रगण्यत्वावगमेन भर्तुरराज्ञयैव कृतमित्यवगम्यते ॥

द्राविडम्

कौसल्यै वॆगुमानम् सॆय्दाळ् ऎन्बदुम्,

ऎनक्कु ऎप्पोदुम् प्रियमुण्डावदिल् इच्चैयुडैयवळ्, पुत्र प्रियै, प्रियम् पेसुबवळ्, इवळ् कौरवत्तिऱ्‌कु उरियवळायिरुप्पिनुम् उनक्कागक् कौरविक्कप्पडविल्लै. ऎप्पोदुम्, कौसल्यै तासी पोलवुम्, सगी पोलवुम्, पार्यै पोलवुम्, सहोदरी पोलवुम्, ताय्बोलवुम् ऎन्नै प्रीदि सॆय्गिऱाळ्,

ऎण्ड्रबडि कौरवत्तिऱ्‌कु उडैयवळायिनुम् कौरविक्कप्पडविल्लै. अवमदिक्कप्पडुगिऱाळ्. अप्पडियिरुप्पिनुम् ऎन्नै प्रीदि सॆय्गिऱाळ्’ ऎण्ड्रु तसरदर् मऱैविल् अवळुडैय कुणङ्गळै स्तुदिप्पदालुम्,

(2) नान् पूमियिल् उमक्कु ऎदिरिल् विऴुन्दु नमस्करित्तु, वेण्डिक्कॊळ्ळुगिऱेन्, ऎण्ड्रु तसरदरैक्कुऱित्तु कौसल्यै उरैत्तिरुप्पदाल् अवळ् पदिव्रदा धर्मत्तै मेऱ्‌कॊण्डिरुप्पदालुम्, काट्टुक्कुप्पोगुम् समयत्तिल्

‘सत्यम्’, सीलम्, पडिप्पु, सान्दि इवैगळिल् निलैबॆट्र सात्विगळुक्कु मिगवुम् पवित्रमानवन् पदिये, ऎण्ड्रबडि कौसल्यै पदिव्रदा धर्मत्तै उबदेसिप्पदालुम्, वॆगुमानम् सॆय्युम् समयत्तिल् प्रमदोत्तमा ऎण्ड्रु ऒरु कुणत्तैच् चॊल्लियिरुप्पदालुम्,

कौसल्यै पदिव्रदाच्रेष्टै ऎण्ड्रु विळङ्गुवदाल्,वॆगुमानत्तैप् पदियिन् आज्ञैप्पडिये अवळ् सॆय्दाळ्, ऎण्ड्रु निच्चयिक्किऱोम्.

विश्वास-प्रस्तुतिः

कौसल्या बिभृयादार्या सहस्रमपि मद्विधान् ।
यस्यास्सहस्रं ग्रामाणां सम्प्राप्तमुपजीवनम् ॥

इति लक्ष्मणवचनपर्यालोचनया सहस्रग्रामावगमेन तन्मूलकसहस्रभरणावगमेन च तस्याः व्ययार्थं ग्रामसहस्रदानवेलायामेव आज्ञाया अपि सम्भवाच्च ॥

तस्मात्,

स्थावरं जङ्गमं चैव यदपि स्वयमार्जितम् ।
असम्भूय सुतान् सर्वान् न दानं न च विक्रयः ॥

इति याज्ञवल्क्यवचनपर्यालोचनया पित्रार्जितधने पुत्रस्य स्वामित्वाविशेषेऽपि पित्राऽन्यस्मै दीयमाने पुत्रानुमतेरावश्यकत्ववत् स्त्रीभिः स्वीयद्रव्यस्य दानभोगादिषु स्वातन्त्र्येऽपि भर्त्रनुमत्या दानं कर्तव्यम्, भर्त्राऽप्यनुमतिः कर्तव्या ॥

मूलम्

कौसल्या बिभृयादार्या सहस्रमपि मद्विधान् ।
यस्यास्सहस्रं ग्रामाणां सम्प्राप्तमुपजीवनम् ॥

इति लक्ष्मणवचनपर्यालोचनया सहस्रग्रामावगमेन तन्मूलकसहस्रभरणावगमेन च तस्याः व्ययार्थं ग्रामसहस्रदानवेलायामेव आज्ञाया अपि सम्भवाच्च ॥

तस्मात्,

स्थावरं जङ्गमं चैव यदपि स्वयमार्जितम् ।
असम्भूय सुतान् सर्वान् न दानं न च विक्रयः ॥

इति याज्ञवल्क्यवचनपर्यालोचनया पित्रार्जितधने पुत्रस्य स्वामित्वाविशेषेऽपि पित्राऽन्यस्मै दीयमाने पुत्रानुमतेरावश्यकत्ववत् स्त्रीभिः स्वीयद्रव्यस्य दानभोगादिषु स्वातन्त्र्येऽपि भर्त्रनुमत्या दानं कर्तव्यम्, भर्त्राऽप्यनुमतिः कर्तव्या ॥

द्राविडम्

कौसल्यै ऎन्बोल् आयिरम् पेर्गळुक्कु उणवळिप्पाळ्, अवळुक्कु आयिरम् क्रामङ्गळ् किडैत्तिरुक्किण्ड्रन

ऎण्ड्र लक्ष्मण वसनत्तै आराय्न्दु पार्त्ताल्, आयिरम् क्रामम्, अदैक्कॊण्डु आयिरम् पेर्गळै रक्षिप्पदु ऎन्बदाल्, आयिरम्

क्रामत्तैक् कॊडुक्कुम् समयत्तिलेये, सॊन्दच् चॆलवु सॆय्य उत्तरवुम् कॊडुक्कप्पट्टिरुक्किऱदॆण्ड्रुम् तॆळिवागिऱदु.
उदाहरणमाग, पुत्रर्गळ् अनुमतियिण्ड्रि तानमो, विऱ्‌पदो किडैयादॆण्ड्र

याज्ञ्यवल्क्य वसनत्तै आलोसित्ताल्, पिदा पुत्रन् इरुवरुक्कुम्, स्वत्तिल् पात्यमिरुप्पिनुम्, पिदा तानम् सॆय्युम्बोदु पुत्रनुडैय अनुमतियैक् कोरवेण्डुमॆण्ड्रु एऱ्‌पडुवदु पोल्, स्त्रीगळुम् तन् तनत्तैत् तानम्, पोगमिवैगळिल् सॆलविडुवदिल् सर्वादि कारमिरुप्पिनुम्, भर्त्ताविन् अनुमतियुडन्दान् तानम् सॆय्यवेण्डुम्. भर्त्तावुम् अनुमति कॊडुक्कवेण्डुम्.

विश्वास-प्रस्तुतिः

तथा च युद्धकाण्डे –

अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी ।
अवैक्षत हरीन् सर्वान् भर्तारं च मुहुर्मुहुः ॥
तामिङ्गितज्ञः सम्प्रेक्ष्य बभाषे जनकात्मजाम् ।
प्रदेहि सुभगे हारं यस्य तुष्टाऽसि भामिनि ॥
ददौ सा वायुपुत्रय तं हारमसितेक्षणा ॥

इति ॥

अयोध्याकाण्डेऽपि -

सुयज्ञं स तदोवाच रामस्सीताप्रचोदितः ।
हारं च हेमसूत्रं च भार्यायै सौम्य हारय ॥
रशनां चाधुना सीता दातुमिच्छति ते सखे ।
अङ्गदानि विचित्राणि केयूराणि शुभानि च ॥
प्रयच्छतु सखे तुभ्यं भार्यायै गच्छती वनम् ।
पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम् ॥
तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि ॥

इति ॥

सीता स्वकीयमपि धनं भर्त्राज्ञयैव दत्तवती, रामेणाप्यनुज्ञा दत्तेति प्रतिपादितम् ॥

तथाऽपि भर्तुराज्ञया दानं युक्तम् ॥

मूलम्

तथा च युद्धकाण्डे –

अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी ।
अवैक्षत हरीन् सर्वान् भर्तारं च मुहुर्मुहुः ॥
तामिङ्गितज्ञः सम्प्रेक्ष्य बभाषे जनकात्मजाम् ।
प्रदेहि सुभगे हारं यस्य तुष्टाऽसि भामिनि ॥
ददौ सा वायुपुत्रय तं हारमसितेक्षणा ॥

इति ॥

अयोध्याकाण्डेऽपि -

सुयज्ञं स तदोवाच रामस्सीताप्रचोदितः ।
हारं च हेमसूत्रं च भार्यायै सौम्य हारय ॥
रशनां चाधुना सीता दातुमिच्छति ते सखे ।
अङ्गदानि विचित्राणि केयूराणि शुभानि च ॥
प्रयच्छतु सखे तुभ्यं भार्यायै गच्छती वनम् ।
पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम् ॥
तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि ॥

इति ॥

सीता स्वकीयमपि धनं भर्त्राज्ञयैव दत्तवती, रामेणाप्यनुज्ञा दत्तेति प्रतिपादितम् ॥

तथाऽपि भर्तुराज्ञया दानं युक्तम् ॥

द्राविडम्

अप्पडिये युत्त काण्डत्तिल्:

तन् कऴुत्तिलिरुन्दु हारत्तैक् कऴट्रि, कुरङ्गुगळनैत्तैयुम् पार्त्ताळ्. भर्त्तावैयुमडिक्कडि पार्त्ताळ्. इङ्गिदमऱिन्द रामन् सीदैयैप् पार्त्तु, ‘उनक्कु ऎवनिडम् सन्दोषमिरुक्किऱदो अवनुक्कुक् कॊडु’ ऎण्ड्रार्. अवळुम् वायुबुत्रनुक्कु अदैक् कॊडुत्ताळ्, ऎण्ड्रु सॊल्लप्पट्टिरुक्किऱदु.

अयोत्या काण्डत्तिलुम्:-

सीदैयाल् तूण्डप्पट्टु रामन्, सुयक्ञनैप् पार्त्तुच् चॊन्नार्. हारम्, स्वर्ण सुत्रम्, ऒट्याणम्, विसित्रमान तोळ्वळैगळ् इवैगळै उन् पार्यैक्कुक् कॊडुक्क आसैप्पडुगिऱाळ् सीदै.
अवैगळै, काट्टुक्कुप् पुऱप्पडुम् तऱुवायिल् उन् पार्यैक्कुक् कॊडुक्कट्टुम्. कट्टिल्, रत्नङ्गळाल् इऴैत्त उयर्न्द विरिप्पु इवैगळैयुम् उन्निडम् कॊडुक्क इच्चिक्किऱाळ्,

ऎण्ड्रबडि तन् तनत्तैयुम्, भर्त्ताविन् आज्ञैयै मुन्निट्टुक् कॊण्डे कॊडुत्ताळ्, श्रीरामनुम् अदै अनुमोदित्तार्, ऎण्ड्रु विळङ्गुगिऱदु.

इव्विदमिरुप्पिनुम्, भर्त्ताविन् आज्ञैयाल् कॊडुक्क वेण्डुमॆण्ड्रु कॊळ्वदे मेल्.

विश्वास-प्रस्तुतिः

तथा च रामायणे युद्धकाण्डे -

अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी ।
अवैक्षत हरीन् सर्वान् भर्तारं च मुहुर्मुहुः ॥
तामिङ्गितज्ञस्सम्प्रेक्ष्य बभाषे जनकात्मजाम् ।
प्रदेहि सुभगे हारं यस्य तुष्टाऽसि भामिनि ॥
ददौ सा वायुपुत्राय तं हारमसितेक्षणा ॥

इति ॥

स्वकीयमपि हारं सीता भर्त्राज्ञयैव दत्तवतीत्युक्तम् । ‘भर्तुराज्ञां विना नैव स्वबन्धुभ्यो दिशेद्धन’मिति सामान्यतो दानार्थमप्यनुज्ञातं द्रव्यं स्वबन्धुभ्यो दानप्रसक्तौ तद्विषये आज्ञान्तरं गृहीत्वैव दातव्यम् ॥

मूलम्

तथा च रामायणे युद्धकाण्डे -

अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी ।
अवैक्षत हरीन् सर्वान् भर्तारं च मुहुर्मुहुः ॥
तामिङ्गितज्ञस्सम्प्रेक्ष्य बभाषे जनकात्मजाम् ।
प्रदेहि सुभगे हारं यस्य तुष्टाऽसि भामिनि ॥
ददौ सा वायुपुत्राय तं हारमसितेक्षणा ॥

इति ॥

स्वकीयमपि हारं सीता भर्त्राज्ञयैव दत्तवतीत्युक्तम् । ‘भर्तुराज्ञां विना नैव स्वबन्धुभ्यो दिशेद्धन’मिति सामान्यतो दानार्थमप्यनुज्ञातं द्रव्यं स्वबन्धुभ्यो दानप्रसक्तौ तद्विषये आज्ञान्तरं गृहीत्वैव दातव्यम् ॥

द्राविडम्

अप्पडिये रामायण युत्तगाण्डत्तिल् :-

इङ्गिदमऱिन्दु रामन् सीदैयैप्पार्त्तु, ‘उनक्कु ऎवनिडम् सन्दोष मिरुक्किऱदो अवनुक्कुक् कॊडु’ ऎण्ड्रार्. अवळुम् तन्नुडैयदायिरुन्दालुम् हारत्तैप् भर्त्ताविन् आज्ञैयैक् कॊण्डे कॊडुत्ताळ्’ ऎनक् कूऱप्पट्टिरुक्किऱदु.

भर्त्ताविन् आज्ञैयिण्ड्रि तन् पन्दुक्कळुक्कुत् तनत्तैक् कॊडुक्कक्कूडादु, ऎण्ड्रु सॊल्लियिरुप्पदाल्, पॊदुवागत् तानत्तिऱ्‌काग अनुमतिक्कप्पट्ट तनत्तैप् पन्दुक्कळुक्कुक् कॊडुक्क वेण्डिय समयत्तिल्, मट्रॊरु आज्ञै अडैन्दे कॊडुक्कवेण्डुम्.

विश्वास-प्रस्तुतिः

तथा च स्मृत्यन्तरम् -

दानार्थमपि यद्द्रव्यं लोभात् किञ्चिच्च साधयेत् ।
सर्वलक्षणयुक्ताऽपि यातु भर्तृव्यतिक्रमम् ।
करोति सा परित्याज्या एष धर्मस्सनातनः ॥
भर्तारं लङ्घयेद्या तु जातु स्त्री गुणदर्पिता ।
तां श्वभिः खादयेद्राजा संस्थाने बहुसंस्थिते ॥
उक्ता प्रत्युत्तरं दद्याद्या नारी क्रोधमूर्च्छिता ।
जायते सूकरी ग्रामे सृगाली निर्जने वने ॥
या भर्तारं परित्यज्य रहश्चरति दुर्मतिः ।
उलूकी जायते क्रूरा वृक्षकोटरवासिनी ॥
ताडिता ताडितुं चेच्छेत् सा नारी वृषदंशिका ।
कटाक्षयति यान्यं वै केकराक्षी तु सा भवेत् ॥
या भर्तारं परित्यज्य मृष्टमश्नाति केवलम् ।
ग्रामे सा सूकरी भूयात् वल्गुनी वा स्वविट्भुजा ॥
या हुङ्कृत्य प्रियं ब्रूते सा मूका जायते खलु ।
या सपत्नीं सदेर्ष्येच्च दुर्भगा सा पुनःपुनः ॥
दृष्टिं विलुप्य भर्तुर्या कञ्चिदन्यं निरीक्षते ।
काणाऽपि विमुखी चापि कुरूपा चापि जायते ॥
परसक्ताः स्त्रियो याश्च वञ्चयित्वा स्वकं पतिम् ।
निन्द्याः स्युः सर्वलोकैस्ताः निरये च मृताश्चिरम् ॥
शीलभङ्गेन दुर्वृत्ताः पातयन्ति कुलत्रयम् ।
पितुर्मातुस्तथा पत्युः इहामुत्र च दुःखदाः ॥

मूलम्

तथा च स्मृत्यन्तरम् -

दानार्थमपि यद्द्रव्यं लोभात् किञ्चिच्च साधयेत् ।
सर्वलक्षणयुक्ताऽपि यातु भर्तृव्यतिक्रमम् ।
करोति सा परित्याज्या एष धर्मस्सनातनः ॥
भर्तारं लङ्घयेद्या तु जातु स्त्री गुणदर्पिता ।
तां श्वभिः खादयेद्राजा संस्थाने बहुसंस्थिते ॥
उक्ता प्रत्युत्तरं दद्याद्या नारी क्रोधमूर्च्छिता ।
जायते सूकरी ग्रामे सृगाली निर्जने वने ॥
या भर्तारं परित्यज्य रहश्चरति दुर्मतिः ।
उलूकी जायते क्रूरा वृक्षकोटरवासिनी ॥
ताडिता ताडितुं चेच्छेत् सा नारी वृषदंशिका ।
कटाक्षयति यान्यं वै केकराक्षी तु सा भवेत् ॥
या भर्तारं परित्यज्य मृष्टमश्नाति केवलम् ।
ग्रामे सा सूकरी भूयात् वल्गुनी वा स्वविट्भुजा ॥
या हुङ्कृत्य प्रियं ब्रूते सा मूका जायते खलु ।
या सपत्नीं सदेर्ष्येच्च दुर्भगा सा पुनःपुनः ॥
दृष्टिं विलुप्य भर्तुर्या कञ्चिदन्यं निरीक्षते ।
काणाऽपि विमुखी चापि कुरूपा चापि जायते ॥
परसक्ताः स्त्रियो याश्च वञ्चयित्वा स्वकं पतिम् ।
निन्द्याः स्युः सर्वलोकैस्ताः निरये च मृताश्चिरम् ॥
शीलभङ्गेन दुर्वृत्ताः पातयन्ति कुलत्रयम् ।
पितुर्मातुस्तथा पत्युः इहामुत्र च दुःखदाः ॥

द्राविडम्

अप्पडिये वेऱु स्मृतियिलुम्:

तानत्तिऱ्‌काग एऱ्‌पट्ट तनत्तिलुम् लोबत्ताल् ऎदैयावदु सॆय्दालुम्, सर्व लक्षणङ्गळुम् पॊरुन्दियवळायिनुम् ऎवळ् भर्त्तावै मीऱुगिऱाळो, अवळैत् तळ्ळवेण्डुम्. इदु सनादन धर्मम्.
कुण कर्वत्ताल् ऎवळ् भर्त्तावै मीऱुगिऱाळो अवळै अरसन् नाय्गळाल् कडिक्कच् चॆय्ग. ऎवळ् भर्त्ता सॊल्वदऱ्‌कुप् पदिल् कोबत्तुडन् उरैक्किण्ड्राळो, अवळ् क्रामत्तिल् पण्ड्रियागवुम्, वनत्तिल् नरियागवुम् पिऱक्किऱाळ्.ऎवळ् भर्त्तावै विट्टु रहस्यमाय् सञ्जरिक्किण्ड्राळो, अवळ् मरप्पॊन्दिल् वसिक्कुम् कऴुगागिऱाळ्. (भर्त्ता) अडित्ताल् तिरुप्पियडिक्कुम् आसैयुळ्ळवळ् पूनैयागप् पिऱक्किऱाळ्. मट्रॊरुवनुक्कुक् कण्जाडै काट्टुबवळ् साय्न्द कण्णुळ्ळवळाय् आगिऱाळ्. ऎवळ् भर्त्तावै विट्टु, ऒरुत्तियाय् विरुन्दुण्णुगिऱाळो अवळ् क्रामत्तिल् पण्ड्रियागवो, तन् विष्टैयैप् पुजिक्कुम् प्राणियागवो पिऱक्किऱाळ्. ऎवळ् हुङ्गारम् सॆय्दु भर्त्तावैप् पेसुगिऱाळो, अवळ् ऊमैयागप् पिऱक्किऱाळ्. ऎवळ् सक्कळत्तियुडन् ऎप्पॊऴुदुम् असुयैप्पडुगिऱाळो अवळ् अडिक्कडि तुर्प्पाक्यमुडैयव ळागिऱाळ्. भर्त्ताविन् कण्णै एमाट्रि ऎवळ् मट्रॊरुवनैप् पार्क्किऱाळो, अवळ् पॊट्टैयायुम्, तुर्मुगियायुम्, अवलक्षणैयायुम् पिऱक्किऱाळ्. ऎवर्गळ् भर्त्तावै एमाट्रिप् पिऱरिडम् आसैयुळ्ळवर्गळो, अवर्गळ् ऎल्लोरालुम् निन्दिक्कप्पट्टु, परलोकत्तिल् नरगत्तिल् वॆगुगालम् वसिक्किऱार्गळ्. तुर्व्याबारमुडैयवर्गळ् तन् कॆट्ट नडत्तैयाल्, पिदा, मादा, पदि इम्मूवर् कुलत्तैयुम् नरगत्तिल् वीऴ्त्तुगिऱार्गळ्.

सङ्कीर्णम्

विश्वास-प्रस्तुतिः

आग्नेयपुराणे स्त्रियः प्रति यमदूतवचनम् –

नार्यश्च पति-द्वेषिण्यः
स्वतन्त्राः पाप-मानसाः ।
कृष्यमाणा अयस्-सूत्रैस्
तप्तैर् धूर्ता भगेषु च ॥
वाग्-दूषिण्यश् च जिह्वासु
श्वश्रूश् च श्वशुरान् गुरून् ।
पापकर्मरता नित्यं सदाचारविवर्जिताः ॥
निर्दयाश्च शठा नार्यः
पुंश्चल्यः पतिनिन्दकाः ।
तस्माद् भजन्तु पापस्य
फलं किमिह रोदिथ ॥

पत्य्-अप्रिया हता नारी
अभिक्षाशी व्रती हतः ।
अब्रह्मण्यो हतो राजा
हतो विप्रो निरग्निकः ॥

इति ॥

तस्माद् एवम्-आदीन् दोषान् परित्यज्य
पूर्वोक्त-धर्म-परा भवेत् ॥

मूलम्

आग्नेयपुराणे स्त्रियः प्रति यमदूतवचनम् –

नार्यश्च पतिद्वेषिण्यः स्वतन्त्राः पापमानसाः ।
कृष्यमाणा अयस्सूत्रैस्तप्तैर्धूर्ता भगेषु च ॥
वाग्दूषिण्यश्च जिह्वासु श्वश्रूश्च श्वशुरान् गुरून् ।
पापकर्मरता नित्यं सदाचारविवर्जिताः ॥
निर्दयाश्च शठा नार्यः पुंश्चल्यः पतिनिन्दकाः ।
तस्माद्भजन्तु पापस्य फलं किमिह रोदिथ ॥
पत्यप्रिया हता नारी अभिक्षाशी व्रती हतः ।
अब्रह्मण्यो हतो राजा हतो विप्रो निरग्निकः ॥

इति ॥

तस्मादेवमादीन् दोषान् परित्यज्य पूर्वोक्तधर्मपरा भवेत् ॥

द्राविडम्

आक्नेय पुराणत्तिल् स्त्रीगळैक् कुऱित्तु यमदूदनिन् वसनम् :-

पदियैत् तूषिप्पवर्गळुम्, स्वदन्द्रैगळुम्, पाब पुत्तियुडैयवर्गळुम्, पऴुत्त इरुम्बुक् कम्बिगळाल् इऴुक्कप् पडुगिऱार्गळ्. मामियार्, मामनार्, पॆरियोर्गळ् इवर्गळैक् कडुमैयाय्प् पेसुबवर्गळ्, पाब कर्मत्तिल् आसक्तियुडैयवर्गळ्, सदासारमट्रवर्गळ्, पिडिवादमुडैयवर्गळ्, व्यबिसारिणिगळ्, पदियै निन्दिप्पवर्गळ् इवर्गळनैवरुम् पाबत्तिन् पलनैप् पुसियुङ्गळ् ऎण्ड्रु. पदियिनिडम् प्रियमट्र स्त्री कॆट्टाळ्. पिक्षै वाङ्गाद सन्यासि कॆट्टान्. प्राम्हणनुक्कु हिदम् सॆय्याद अरसन् कॆट्टान्. अक्नियिल्लाद विप्रन् कॆट्टान्.

आगैयाल् मुऱ्‌कूऱिय तोषङ्गळै नीक्कि, मुन् सॊल्लिय धर्मङ्गळै आसरिक्क वेण्डुम्.

विश्वास-प्रस्तुतिः

अयम् अर्थो वन-पर्वणि द्रौपदी-सत्यभामा-संवादे ॥

वैशम्पायनः -

उपासीनेषु विप्रेषु
पाण्डवेषु महात्मसु ।
द्रौपदी सत्यभामा च
विविशाते तदाश्रमम् ॥
जाहस्यमाने सुप्रीते
सुखं तत्र निषेदतुः
चिरस्य दृष्ट्वा राजेन्द्र
तेऽन्योन्यस्य प्रियंवदे ॥
कथयाम् आसतुश् चित्रां
कथां कुरु-यदूत्थिताम् ।
अथाब्रवीत् सत्यभामा
कृष्णस्य महिषी प्रिया ॥
सात्राजिती याज्ञसेनींं
रहसीदं सुमध्यमा ।

केन द्रौपदि वृत्तेन
पाण्डवान् अधितिष्ठसि
लोक-पालोपमान् वीरान्
पुनः परम-संहतान् ।
कथं च वशगास् तुभ्यं
न कुप्यन्ति च ते शुभे ॥
तव वश्या हि सततं
पाण्डवाः प्रियदर्शने ।
मुखप्रेक्षाश् च ते सर्वे
तत्त्वम् एतद् ब्रवीहि मे ॥
व्रतचर्या तपो वाऽपि
स्नानमन्त्रौषधानि वा ।
विद्या-वीर्यं मूल-वीर्यं
जप-होमागमास् तथा ॥
ममाद्याचक्ष्व पाञ्चालि
यशस्यं भग-दैवतम् ।
येन कृष्णे भवेन् नित्यं
मम कृष्णो वशानुगः
एवम् उक्त्वा सत्यभामा
विरराम यशस्विनी ।

पतिव्रता महाभागा
द्रौपदी प्रत्युवाच ताम् ॥
अ-सत्-स्त्रीणां समाचारं
सत्ये माम् अनुपृच्छसि
अ-सद्-आचरिते मार्गे
कथं स्याद् अनुकीर्तनम्
अनुप्रश्नस् संशयो वा
नैतत् त्वय्य् उपपद्यते

यथा ह्य् उपेता बुद्ध्या त्वं
कृष्णस्य महिषी प्रिया ॥
यदैव भर्ता जानीयान्
मन्त्र-मूल-परां स्त्रियम् ।
उद्विजेत तदैवास्याः
सर्पाद् वेश्म-गताद् इव ॥
उद्विग्नस्य कुतश् शान्तिर्
अशान्तस्य कुतस् सुखम् ।
जातु वशगो भर्ता
स्त्रियास् स्यान् मन्त्र-कर्मणि ॥

अमित्र-प्रहितांश् चापि
गदान् परम-दारुणान् ।
मूल-प्रवालैर् हि विषं
प्रयच्छन्ति जिघांसवः ॥
जिह्वया यानि पुरुषस्
त्वचा वाऽप्य् उपसेवते
तत्र चूर्णानि दत्तानि
हन्युः क्षिप्रमसंशयम् ॥

जलोदर-समायुक्ताः
श्वित्रिणः पलितास्तथा ।
अपुमांसः कृताः स्त्रीभिर्
जडान्ध-बधिरास् तथा ॥
पापानुगास् तु पापास् ताः
पतीन् उपसृजन्त्य् उत ।
जातु विप्रियं भर्तुः
स्त्रिया कार्यं कथञ्चन ॥

वर्ताम्य् अहन्तु यां वृत्तिं
पाण्डवेषु महात्मसु ।
तां सर्वां शृणु मे सत्यां
सस्यभामे यशस्विनि ॥

अहङ्कारं विहायाहं
कामक्रोधौ च सर्वदा ।
सादरा पाण्डवान् नित्यं
प्रयतोपचराम्य् अहम् ॥
प्रणयं प्रतिसंहृत्य
निधायात्मानम् आत्मनि ।
शुश्रूषुर् निरभीमाना
पतीनां चित्तरक्षिणी ॥

दुर्व्याहृताच् छङ्कमाना
दुस्-स्थिताद् दुर्-अवेक्षितात् ।
दुरासिताद् दुर्व्रजिताद्
इङ्गिताध्यासिताद् अपि ॥
सूर्यवैश्वानर-समान्
सोमकल्यान् महारथान् ।
सेवे चक्षुर्-हणः पार्थान्
उग्र-वीर्य-प्रतापिनः ॥

देवो मनुष्यो गन्धर्वो
युवा चापि स्वलङ्कृतः ।
द्रव्यवान् अभिरूपो वा
मेऽन्यः पुरुषो मतः

नाभुक्तवति नास्नाते
नासंविष्टे च भर्तरि ।
न संविशामि नाश्नामि
सदा कर्मकरेष्व् अपि ।

क्षेत्राद् वनाद् वा ग्रामाद् वा
भर्तारं गृहम् आगतम् ।
अभ्युत्थायाभिनन्दामि
आसनेनोदकेन च ॥
प्रमृष्ट-भाण्डा मिष्टान्ना
काले भोजन-दायिनी
संयता गुप्त-धान्या च
सुसम्मृष्ट-निवेशना ॥
अतिरस्कृत-सम्भाषा
दुःस्त्रियो नानुसेवती
अनुकूलवती नित्यं
भ्रमाम्य् अनलसा सदा ॥

अनर्म चापि हसितं
द्वारि स्थानम् अभीक्ष्णशः ।
अवस्करे चिरं स्थानं
निष्कुटेषु च वर्जये

अतिहासातिरोषौ च
क्रोध-स्थानं च वर्जये
निरता ऽहं सदा सत्ये
भर्तॄणाम् उपसेवने
सर्वथा भर्तृर् अहितं
न ममेष्टं कथञ्चन ।

यदा प्रवसते भर्ता
कुटुम्बार्थेन केनचित् ॥
सुमनो-वर्णकापेता
भवामि व्रत-चारिणी

यच्च भर्ता न पिबति
यच्च भर्ता न खादति ॥
यच्च नाश्नाति मे भर्ता
सर्वं तद् वर्जयाम्य् अहम् ।

यथोपदेशं नियता
वर्तमाना वराङ्गने ॥
स्वलङ्कृता सुप्रयता
भर्तुः प्रियहिते रता

ये च धर्माः कुटुम्बेषु
श्वश्र्वा मे कथिताः पुरा ॥
भिक्षा बलिः श्राद्धमिति
स्थालीपाकाश्च पर्वसु ।
मान्यानां मान-सत्कारा
ये चान्ये विदिता मम ॥
तान् सर्वान् अनुवर्तामि
दिवारात्रम् अतन्द्रिता ।
विनयान् नियमांश् चैव
सदा सर्वात्मना श्रिता ॥

मृदून् सतः सत्यशीला
सत्यधर्मानुपालिनः ।
आशीविषान् इव क्रुद्धान्
पतीन् परिचराम्य् अहम् ॥+++(5)+++
पत्या श्रेयो हि मे धर्मो
मतः स्त्रीणां सनातनः ।
स देवस् सा गतिर् नान्या
तस्य का विप्रियं चरेत् ॥

अहं पतीन् नातिशये
नात्यश्ने नातिभूषये
नापि परिवदे श्वश्रूं
सर्वदा परियन्त्रिता ॥

अवधानेन सुभगे
नित्योत्थिततयैव च ।
भर्तारो वश-गा मह्यं
गुरु-शुश्रूषयैव च ॥+++(4)+++
नित्यम् आर्याम् अहं कुन्तीं
वीरसूं सत्यवादिनीम् ।
स्वयं परिचराम्य् एनां
पानाच्छादन-भोजनैः ॥
नैताम् अतिशये जातु
वस्त्रभोजनभाजनैः ।
नाहं परिवदे वादं
तां पृथां पृथिवी-समाम् ॥

अष्टाव् अग्रे ब्राह्मणानां
सहस्राणि स्म नित्यदा ।
भुञ्जते रुक्म-पात्रीषु
युधिष्ठिर-निवेशने ॥
अष्टाशीतिसहस्राणि
स्नातका गृहमेधिनः ।
त्रिंशद्-दासीक एकैको
यान् बिभर्ति युधिष्ठिरः ॥
दशान्यानि सहस्राणि
येषामन्नं सुसंस्कृतम् ।
क्रियते रुक्मपात्रीभिर्
यतीनाम् ऊर्ध्वरेतसाम् ॥
तान् सर्वान् अग्रहारेण
ब्राह्मणान् वेदवादिनः ।
यथार्हं पूजयामि स्म
पानाच्छादनभोजनैः ॥

शतं दासीसहस्राणि
कौन्तेयस्य महात्मनः ।
कम्बु-केयूर-धारिण्यो
निष्क-कण्ठ्यः स्वलङ्कृताः ॥
महार्ह-माल्याभरणाः
सुवर्णाश् चन्दनोक्षिताः ।
मणीन् हेम च बिभ्रत्यः
नृत्य-गीत-विशारदाः ॥
तासां नाम च रूपञ् च
भोजनाच्छादनानि च ।
सर्वासाम् एव वेदाहं
कर्म चैव कृताकृतम् ॥
शतं दासीसहस्राणि
कुन्तीपुत्रस्य धीमतः ।
पात्रीहस्ता दिवा-रात्रम्
अतिथीन् भोजयन्त्य् उत ॥

शतम् अश्वसहस्राणि
दश नागायुतानि च ।
युधिष्ठिरस्यानुयात्रम्
इन्द्रप्रस्थनिवासिनः ॥
एतद् आसीत् तदा राज्ञो
यन् महीं पर्यपालयत्
एषां सङ्ख्याविधिं चैव
प्रदिशामि शृणोमि च ॥

अन्तःपुराणां सर्वेषां
भृत्यानां चैव सर्वशः ।
आगोपालाविपालेभ्यः
सर्वं वेद कृताकृतम् ॥
सर्वं राज्ञस् समुदयम्
आयं च व्ययमेव च ।
एकाऽहं वेद्मि कल्याणि
पाण्डवानां यशस्विनि ॥
मयि सर्वं समासज्य
कुटुम्बं भरतर्षभाः ।
उपासन-रतास् सर्वे
घटन्ति स्म वरानने ॥

तम् अहं भारम् आसक्तम्
अनाधृष्यं दुरात्मभिः ।
सुखं सर्वं परित्यज्य
रात्र्यहानि घटामि वै ॥
अधृष्यं वरुणस्येव
निधिपूर्णम् इवोदधिम् ।
एकाऽहं वेद्मि कोशं वै
पतीनां धर्मचारिणाम् ॥

अनिशायां निशायां च
सहाया क्षुत्-पिपासयोः ।
आराधयन्त्याः कौरव्यांस्
तुल्या रात्रिरहश्च मे ॥

प्रथमं प्रतिबुद्ध्यामि
चरमं संविशामि च ।
नित्यकालम् अहं सत्ये!
एतत् संवननं मम ॥+++(4)+++
एतज् जानाम्य् अहं कर्तुं
भर्तृसंवननं महत् ।
असत्स्त्रीणां समाचारं
नाहं कुर्यां न कामये

मूलम्

अयमर्थो वनपर्वणि द्रौपदीसत्यभामासंवादे ॥

वैशम्पायनः -

उपासीनेषु विप्रेषु पाण्डवेषु महात्मसु ।
द्रौपदी सत्यभामा च विविशाते तदाश्रमम् ॥
जाहस्यमाने सुप्रीते सुखं तत्र निषेदतुः ।
चिरस्य दृष्ट्वा राजेन्द्र तेऽन्योन्यस्य प्रियंवदे ॥
कथयामासतुश्चित्रां कथां कुरुयदूत्थिताम् ।
अथाब्रवीत् सत्यभामा कृष्णस्य महिषी प्रिया ॥
सात्राजिती याज्ञसेनींं रहसीदं सुमध्यमा ।
केन द्रौपदि वृत्तेन पाण्डवानधितिष्ठसि ॥
लोकपालोपमान् वीरान् पुनः परमसंहतान् ।
कथं च वशगास्तुभ्यं न कुप्यन्ति च ते शुभे ॥
तव वश्या हि सततं पाण्डवाः प्रियदर्शने ।
मुखप्रेक्षाश्च ते सर्वे तत्वमेतद्ब्रवीहि मे ॥
व्रतचर्या तपो वाऽपि स्नानमन्त्रौषधानि वा ।
विद्यावीर्यं मूलवीर्यं जपहोमागमास्तथा ॥
ममाद्याचक्ष्व पाञ्चालि यशस्यं भगदैवतम् ।
येन कृष्णे भवेन्नित्यं मम कृष्णो वशानुगः ॥
एवमुक्त्वा सत्यभामा विरराम यशस्विनी ।
पतिव्रता महाभागा द्रौपदी प्रत्युवाच ताम् ॥
असत्स्त्रीणां समाचारं सत्ये मामनुपृच्छसि ।
असदाचरिते मार्गे कथं स्यादनुकीर्तनम् ॥
अनुप्रश्नस्संशयो वा नैतत्त्वय्युपपद्यते ।
यथा ह्युपेता बुद्ध्या त्वं कृष्णस्य महिषी प्रिया ॥
यदैव भर्ता जानीयान्मन्त्रमूलपरां स्त्रियम् ।
उद्विजेत तदैवास्याः सर्पाद्वेश्मगतादिव ॥
उद्विग्नस्य कुतश्शान्तिरशान्तस्य कुतस्सुखम् ।
न जातु वशगो भर्ता स्त्रियास्स्यान्मन्त्रकर्मणि ॥
अमित्रप्रहितांश्चापि गदान् परमदारुणान् ।
मूलप्रवालैर्हि विषं प्रयच्छन्ति जिघांसवः ॥
जिह्वया यानि पुरुषस्त्वचा वाऽप्युपसेवते ।
तत्र चूर्णानि दत्तानि हन्युः क्षिप्रमसंशयम् ॥
जलोदरसमायुक्ताः श्वित्रिणः पलितास्तथा ।
अपुमांसः कृताः स्त्रीभिर्जडान्धबधिरास्तथा ॥
पापानुगास्तु पापास्ताः पतीनुपसृजन्त्युत ।
न जातु विप्रियं भर्तुः स्त्रिया कार्यं कथञ्चन ॥
वर्ताम्यहन्तु यां वृत्तिं पाण्डवेषु महात्मसु ।
तां सर्वां शृणु मे सत्यां सस्यभामे यशस्विनि ॥
अहङ्कारं विहायाहं कामक्रोधौ च सर्वदा ।
सादरा पाण्डवान्नित्यं प्रयतोपचराम्यहम् ॥
प्रणयं प्रतिसंहृत्य निधायात्मानमात्मनि ।
शुश्रूषुर्निरभीमाना पतीनां चित्तरक्षिणी ॥
दुर्व्याहृताच्छङ्कमाना दुस्थिताद्दुरवेक्षितात् ।
दुरासिताद्दुर्व्रजितादिङ्गिताध्यासितादपि ॥
सूर्यवैश्वानरसमान् सोमकल्यान् महारथान् ।
सेवे चक्षुर्हणः पार्थानुग्रवीर्यप्रतापिनः ॥
देवो मनुष्यो गन्धर्वो युवा चापि स्वलङ्कृतः ।
द्रव्यवानभिरूपो वा न मेऽन्यः पुरुषो मतः ॥
नाभुक्तवति नास्नाते नासंविष्टे च भर्तरि ।
न संविशामि नाश्नामि सदा कर्मकरेष्वपि ।
क्षेत्राद्वनाद्वा ग्रामाद्वा भर्तारं गृहमागतम् । अभ्युत्थायाभिनन्दामि आसनेनोदकेन च ॥
प्रमृष्टभाण्डा मिष्टान्ना काले भोजनदायिनी ।
संयता गुप्तधान्या च सुसम्मृष्टनिवेशना ॥
अतिरस्कृतसम्भाषा दुःस्त्रियो नानुसेवती ।
अनुकूलवती नित्यं भ्रमाम्यनलसा सदा ॥
अनर्म चापि हसितं द्वारि स्थानमभीक्ष्णशः ।
अवस्करे चिरं स्थानं निष्कुटेषु च वर्जये ॥
अतिहासातिरोषौ च क्रोधस्थानं च वर्जये ।
निरताऽहं सदा सत्ये भर्तॄणामुपसेवने ॥
सर्वथा भर्तृरहितं न ममेष्टं कथञ्चन । यदा प्रवसते भर्ता कुटुम्बार्थेन केनचित् ॥
सुमनोवर्णकापेता भवामि व्रतचारिणी ।
यच्च भर्ता न पिबति यच्च भर्ता न खादति ॥
यच्च नाश्नाति मे भर्ता सर्वं तद्वर्जयाम्यहम् ।
यथोपदेशं नियता वर्तमाना वराङ्गने ॥
स्वलङ्कृता सुप्रयता भर्तुः प्रियहिते रता ।
ये च धर्माः कुटुम्बेषु श्वश्र्वा मे कथिताः पुरा ॥
भिक्षा बलिः श्राद्धमिति स्थालीपाकाश्च पर्वसु ।
मान्यानां मानसत्कारा ये चान्ये विदिता मम ॥
तान् सर्वाननुवर्तामि दिवारात्रमतन्द्रिता ।
विनयान्नियमांश्चैव सदा सर्वात्मना श्रिता ॥
मृदून् सतः सत्यशीला सत्यधर्मानुपालिनः ।
आशीविषानिव क्रुद्धान् पतीन् परिचराम्यहम् ॥
पत्या श्रेयो हि मे धर्मो मतः स्त्रीणां सनातनः ।
स देवस्सा गतिर्नान्या तस्य का विप्रियं चरेत् ॥
अहं पतीन्नातिशये नात्यश्ने नातिभूषये ।
नापि परिवदे श्वश्रूं सर्वदा परियन्त्रिता ॥
अवधानेन सुभगे नित्योत्थिततयैव च ।
भर्तारो वशगा मह्यं गुरुशुश्रूषयैव च ॥
नित्यमार्यामहं कुन्तीं वीरसूं सत्यवादिनीम् ।
स्वयं परिचराम्येनां पानाच्छादनभोजनैः ॥
नैतामतिशये जातु वस्त्रभोजनभाजनैः ।
नाहं परिवदे वादं तां पृथां पृथिवीसमाम् ॥
अष्टावग्रे ब्राह्मणानां सहस्राणि स्म नित्यदा ।
भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने ॥
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः ।
त्रिंशद्दासीक एकैको यान् बिभर्ति युधिष्ठिरः ॥
दशान्यानि सहस्राणि येषामन्नं सुसंस्कृतम् ।
क्रियते रुक्मपात्रीभिर्यतीनामूर्ध्वरेतसाम् ॥
तान् सर्वानग्रहारेण ब्राह्मणान् वेदवादिनः ।
यथार्हं पूजयामि स्म पानाच्छादनभोजनैः ॥
शतं दासीसहस्राणि कौन्तेयस्य महात्मनः ।
कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलङ्कृताः ॥
महार्हमाल्याभरणाः सुवर्णाश्चन्दनोक्षिताः ।
मणीन् हेम च बिभ्रत्यः नृत्यगीतविशारदाः ॥
तासां नाम च रूपञ्च भोजनाच्छादनानि च ।
सर्वासामेव वेदाहं कर्म चैव कृताकृतम् ॥
शतं दासीसहस्राणि कुन्तीपुत्रस्य धीमतः ।
पात्रीहस्ता दिवारात्रमतिथीन् भोजयन्त्युत ॥
शतमश्वसहस्राणि दश नागायुतानि च ।
युधिष्ठिरस्यानुयात्रम् इन्द्रप्रस्थनिवासिनः ॥
एतदासीत्तदा राज्ञो यन्महीं पर्यपालयत् ।
एषां सङ्ख्याविधिं चैव प्रदिशामि शृणोमि च ॥
अन्तःपुराणां सर्वेषां भृत्यानां चैव सर्वशः ।
आगोपालाविपालेभ्यः सर्वं वेद कृताकृतम् ॥
सर्वं राज्ञस्समुदयमायं च व्ययमेव च ।
एकाऽहं वेद्मि कल्याणि पाण्डवानां यशस्विनि ॥
मयि सर्वं समासज्य कुटुम्बं भरतर्षभाः ।
उपासनरतास्सर्वे घटन्ति स्म वरानने ॥
तमहं भारमासक्तमनाधृष्यं दुरात्मभिः ।
सुखं सर्वं परित्यज्य रात्र्यहानि घटामि वै ॥
अधृष्यं वरुणस्येव निधिपूर्णमिवोदधिम् ।
एकाऽहं वेद्मि कोशं वै पतीनां धर्मचारिणाम् ॥
अनिशायां निशायां च सहाया क्षुत्पिपासयोः ।
आराधयन्त्याः कौरव्यांस्तुल्या रात्रिरहश्च मे ॥
प्रथमं प्रतिबुद्ध्यामि चरमं संविशामि च ।
नित्यकालमहं सत्ये एतत् संवननं मम ॥
एतज्जानाम्यहं कर्तुं भर्तृसंवननं महत् ।
असत्स्त्रीणां समाचारं नाहं कुर्यां न कामये ॥

द्राविडम्

इन्द विषयम् वनबर्वत्तिल्, रुक्मिणी सत्यबामा सम्वादत्तिल् सॊल्लप्पट्टिरुक्किऱदु.

वैसम्बायनर्:-

पाण्डवर्गळ् प्राम्हणोत्तमर्गळुडन् उट्कार्न्दिरुक्कुम्बोदु, त्रॆळबदियुम्, सत्यबामैयुम् अन्द आच्चमत्तिल् पुगुन्दनर्. अव्विडत्तिल् सिरित्तुक्कॊण्डु सुगमाग उट्कार्न्दनर्. वॆगुगालम् विट्टुप्पिरिन्दु मऱुबडियुम् पार्त्तमैयाल् कुरु यदु कुलङ्गळिलुळ्ळ कदैगळैप् पेसिक्कॊण्डार्गळ्. पिऱगु श्री क्रुष्णडैय प्रिय महिषियान सत्यबामै, रहस्यमाय्क् केट्टाळ्. हे त्रौबदि! ऎन्द नडत्तैयाल् लोकबाल समानर्गळान ऐक्यमडैन्द पाण्डव वीरर्गळै अडक्कि वैत्तुक्कॊण्डिरुक्किऱाय्? उन्निडम् वसप्पट्टु ऎप्पडि कोबम् कॊळ्ळामलिरुक्किऱार्गळ्? ऎप्पोदुम् उनक्कु वसप्पट्टु उन् मुगत्तैये पार्क्किऱार्गळे, अदु ऎप्पडि? व्रदानुष्टानम्, तबस्, स्नानम्, मन्द्रम्, मरुन्दु, वित्यैयिन् पलम्, वेर्गळिन् पलम्, जबम्, होमम्, आगमदन्द्रम् इवैगळिल् ऎदु उनक्कुप् पदियै वसप्पडुत्तुम् उबायम्? अदै ऎनक्कुच् चॊल्. नानुम् अदै उबयोगित्तु, क्रुष्णनै ऎन् वसप्पडुत्तिक्कॊळ्वेन्, ऎण्ड्रु सॊल्लि सत्यबामै मुडित्तदुम् पदिव्रदैयान त्रौबदि सॊल्लुगिऱाळ्. सत्ये! नी केट्पदु असात्वीगळिन् नडत्तै. अदैक् केट्किऱाय्. असात्वीगळिन् मार्गत्तै ऎप्पडिक् केट्कलाम्. अदिल् सन्देहमुम् उन्निडम् उसिदमागादु. नी ऎप्पडि मनदाल् क्रुष्णनै अडैन्दु अवनुक्कु प्रिय पार्यैयो अप्पडिये. ऎप्पॊऴुदु स्त्री मन्द्रम्, ओषदिगळै उबयोगिक्किऱाळ् ऎण्ड्रु पदि अऱिगिऱानो अप्पॊऴुदे वीट्टिलिरुक्कुम् सर्प्पत्तिनिडम्बोल् अवळिडम् पयप्पडुवान्. पयन्दवनुक्कुच् चान्दि एदु? असान्दनुक्कु सुगम् एदु? ऒरु पोदुम् मन्द्रत्तिल् स्त्रीक्कुप् पुरुषन् वसमागान्. सत्रुक्कळाल् कॊडुक्कप्पट्ट पयङ्गरमान ओषदिगळैयुम्, वेर्, तळिर्गळैक् कलन्द विषङ्गळैयुम् कॊडुत्तु, पदियैक् कॊल्ल यत्तनिक्किऱार्गळ्. पुरुषन् नाक्किनालो, तोलालो ऎदै सेविक्किऱानो अवैगळिल् सूर्णङ्गळैच् चेर्त्तु सीक्किरम् कॊण्ड्रुविडुवार्गळ्. पल पुरुषर्गळ् स्त्रीगळाल् मरुन्दु मूलमाग पुरुषत्वमट्रवर्गळायुम्, जलोदरम्, कुष्टम् इवैगळुळ्ळवर्गळायुम्, जीर्णर्गळायुम्, जडर्, कुरुडर्, सॆविडर्गळायुम् सॆय्यप्पडुगिऱार्गळ्. पाबिगळै अनुसरित्त पाब स्त्रीगळ् पदिगळै उबत्रविक्किऱार्गळ्. ऒरुबोदुम् स्त्री पदिक्कु अप्रियत्तैच् चॆय्यलागादु. हे सत्यबामे! नान् पाण्डवर्गळिडम् ऎप्पडि नडन्दुगॊळ्ळुगिऱेन्, ऎन्गिऱ उण्मैयैक् केळ्. ऎप्पोदुम् अहङ्गारम्, कामम्, कोबम् इवैगळै ऒऴित्तु, आदरवुडन् परिसुत्तैयाग अवर्गळै उबसरिक्किऱेन्. स्नेगत्तै विट्टु, उण्मैयै उणर्न्दु, अहङ्गारमिण्ड्रि पदिगळिन् मनदै पक्षित्तु शुश्रूषिक्किऱेन्. कॆट्ट पेच्चु, कॆट्टमादिरियिल् निऱ्‌पदु, पार्प्पदु, उट्कारुवदु, सॆल्वदु, इङ्गिदम्, उयर्न्द प्रदेसङ्गळिल् उट्कारुवदु इवैगळिल् सन्देहत्तुडन् सूर्य चन्द्र अक्निगळुक्कुच् चमानर्गळायुम्, कण्णालेये कॊल्लुम् सामर्त्यमुळ्ळवर्गळुम्, उक्र वीर्यत्ताल् तबिक्कच्चॆय्बवर्गळुमान पाण्डवर्गळै सेविक्किऱेन्. तेवनो, मनिदनो, नण्ड्राय् अलङ्गारम् सॆय्दुगॊण्ड युवनो, पणक्कारनो, रूबवानो यारायिनुम्, परबुरुषन् ऎनक्कु सम्मदनल्ल. वेलैक्कारर् इरुन्दबोदिलुम्, भर्त्ता साप्पिडाविडिल् साप्पिडमाट्टेन्. स्नानम् सॆय्याविडिल् स्नानम् सॆय्येन्. तूङ्गाविडिल् तूङ्गमाट्टेन्. वयलिलिरुन्दो,काट्टिलिरुन्दो, क्रामत्ति लिरुन्दो वीट्टुक्कु वन्द भर्त्तावै, ऎऴुन्दिरुन्दु आसनम्, तीर्त्तम् इवैगळैक् कॊडुत्तु, उबसरिप्पेन्. कालत्तिल् पात्रङ्गळैक् कऴुवि, कालत्तिल् रुसियुळ्ळ अन्नत्तै इडुवेन्. नियमत्तैयुडैयवळायुम्, तान्यङ्गळै रक्षिप्पवळायुम्, वीट्टैप् परिसुत्तमाय् वैत्तुक्कॊळ्बवळायुम्, अवर्गळ् सम्बाषणत्तैत् तिरस्कारम् सॆय्यादवळायुम्, कॆट्ट स्त्रीगळैप् पिन् तॊडरादवळायुम्, ऎप्पोदुम् अनुगूलैयायुम्, सोम्बलट्रवळायुम् इरुप्पेन्. विळैयाट्टिल्लामल् सिरिप्पदुम्, वायिऱ्‌पडि मुदलियवैगळिल् अडिक्कडि निऱ्‌पदुम्, असुत्त इडङ्गळिलुम्, तोट्टङ्गळिलुम् निऱ्‌पदुम् इल्लै. अदिगमाय्च् चिरिप्पदुम्, अदिगमाय्क् कोबित्तुक् कॊळ्वदुमिल्लै. कोबत्तिऱ्‌कु इडम् कॊडुप्पदुमिल्लै. ऎप्पोदुम् सत्यत्तिलुम्, भर्त्ताक्कळै सेविप्पदिलुम् आसैप्पडुवेन्. भर्त्ता इल्लाद इडम् ऎनक्कु इष्टमिल्लै. कुटुम्बार्त्तमागप् भर्त्ता वॆळियूरुक्कुप् पोयिरुक्कुम्बोदु, पुष्पम्, पूच्चु इवैगळिल्लामल् व्रदत्तैयनुष्टिक्किऱेन्. भर्त्ता ऎदैक् कुडिप्पदिल्लैयो, ऎदैत् तिन्बदिल्लैयो, ऎदैच् चाप्पिडुवदिल्लैयो अदैयॆल्लाम् तळ्ळिविडुगिऱेन्. उबदेसप्पडि नियदैयायुम्, अलङ्गरित्तुक्कॊण्डुम्, परिसुत्तमागवुम्, भर्त्तावुक्कु प्रियत्तिलुम्, हिदत्तिलुम् आसैयुडैयवळायुमिरुप्पेन्. पूर्वम् ऎन् मामियाराल् कुटुम्बत्तिल् ऎन्दत् धर्मङ्गळ् सॊल्लप्पट्टनवो अदावदु, पिक्षै, पलि, च्रात्तम्, स्तालीबागम्, पूज्यर्गळैप् पूजिप्पदु, इन्नुम् ऎनक्कुत् तॆरिन्दवैगळ् अवैगळै अल्लुम् पगलुम्, सोम्बलिण्ड्रि अनुष्टिप्पेन्. विनयत्तैयुम्, नियमङ्गळैयुम् ऎप्पोदुम् अनुसरिप्पेन्. म्रुदुवावानवरुम्, सत्यधर्मत्तैप् परिबालिप्पवरुमानवर्गळै सत्यत्तुडन् अनुसरिप्पेन्. सर्प्पम् पोल् कोबम् कॊळ्बवर्गळैयुम् परिसरणम् सॆय्वेन्. स्त्रीगळुक्कुप् पदियिनालेये च्रेयस्. पदिये तेवन्. अवने कदि. अवनुक्कु ऎवळ् कॆडुदि सॆय्वाळ्. नान् पदिगळुक्कु अदिगमाय्त् तूङ्गुवदिल्लै, साप्पिडुवदिल्लै.अलङ्गरिप्पदिल्लै. मामियारैत् तूषिप्पदिल्लै. ऎप्पोदुम् अडङ्गि इरुप्पेन्. मनदै ऒरे निलैयिल् वैत्तिरुप्पदालुम्, प्रदिदिनम् ऎऴुन्दिरुप्पदालुम्, कुरु शुश्रूषैयालुम्, भर्त्ताक्कळ् ऎनक्कु वसमानार्गळ्. पूज्यैयायुम्, सत्यवादिनियायुमुळ्ळ कुन्दियै नान् प्रदिदिनम् वस्त्रान्नबानादिगळाल् स्वयमागप् परिसरणम् सॆय्गिऱेन्. वस्त्रम्, पोजनम्, पात्रम् इवैगळिल् अवळै नान् अदिक्रमिप्पदिल्लै. पूमिक्कुच् चममान अवळ् पेच्चै मीऱिप् पेसुगिऱदिल्लै. प्रदिदिनम् युदिष्टिररुडैय वीट्टिल्, मुदलिल् 8000-प्राम्हणर्गळ् तङ्गप् पात्रङ्गळिल् पुजिक्किऱार्गळ्. युदिष्टिरर् वीट्टिल् 88000-स्नादगर्गळान क्रुहस्तर्गळ् इरुक्किण्ड्रनर्. ऒव्वॊरुवरुक्कुम् 30-तासिगळ्. इवर्गळै युदिष्टिरर् पोषिक्किऱार्. तविर, ऊर्त्वरेदस्सुगळान 10000- यदिगळुक्कु स्वर्ण पात्रत्तिल् अन्नम् तयारित्तु, पानम्, वस्त्रम् इवैगळुडन् इडुगिऱेन्. ऒरु लक्षम् अऴगान तासिगळ्, सर्वाबरण पूषिदैगळायुम्, उयर्न्द मालैयणिन्दवर्गळायुम्, सन्दनम् पूसियवर्गळायुम्, स्वर्णरत्नमुळ्ळवर्गळायुम्, नाट्टियम्, कानम् अऱिन्दवर्गळायुम् युदिष्टिररुक्कु इरुक्किऱार्गळ्. अवरनैवर्गळिन् पॆयर्, उरुवम्, पोजनम्, वस्त्रम् इवैगळै नानऱिवेन्. अवर्गळ् वेलै सॆय्ददु, सॆय्याददु इदैयुमऱिवेन्. युदिष्टिररुडैय पदिनायिरम् तासिगळ् इरवुम्, पगलुम् अदिदिगळुक्कु अन्नमिडुगिऱार्गन्. लक्षम् अच्वङ्गळ्, लक्षम् यानैगळ्, इन्द्रप्रस्तत्तिलिरुक्कुम्बोदु युदिष्टिररैप् पिन्दॊडरुम्. इवैगळिन् ऎण्णिक्कै प्रगारत्तैच् चॊल्वेन्. अन्दप्पुरत्तिलिरुप्पवर्गळ्, वेलैक्कारर्गळ्, आडु, माडु मेय्प्पवर्गळ् वरैयिल् वेलै सॆय्ददु, सॆय्याददै नान् अऱिवेन्. अरसनुडैय सगल वरुम्बडिगळैयुम्, सॆलवुगळैयुम् नान् ऒरुत्तिये अऱिवेन्. पाण्डवर्गळ् ऎल्लावट्रैयुम् ऎन्निडम् वैत्तुविट्टु, पक्तियिल् ईडुबट्टिरुक्किऱार्गळ्. तुरात्माक्कळाल् वहिक्क मुडियाद अन्दप् पारत्तै, सुगत्तै विट्टुविट्टु, इरवुम्, पगलुम् वहिक्किऱेन्. वरुणनुडैयदुबोल् आक्रमिक्कमुडियाददुम्, निदि पूर्णमान समुत्रत्तै ऒत्तदुमान पॊक्किषत्तै नान् ऒरुत्तियाय्, धर्मिष्टर्गळान पदिगळिन् कोसत्तै अऱिगिऱेन्. पसि, ताहत्तै सहित्तुक्कॊण्डु पाण्डवर्गळै इरवुम्, पगलुम् आरादिक्कुम् ऎनक्कु इरवुम्, पगलुम् ऒण्ड्रे. प्रदिदिनम् मुन्नालेये ऎऴुन्दिरुप्पेन्. पिऱ्‌पाडे तूङ्गुवेन्. इदे ऎन् पदिगळै वसीगरिक्कुमुबायम्. कॆट्ट स्त्रीगळिन् आसरणत्तै नान् सॆय्यवुम् माट्टेन्, इष्टप्पडवुमाट्टेन्.

विश्वास-प्रस्तुतिः

वैशम्पायन उवाच

तच्छ्रुत्वा धर्मसहितं
व्याहृतं कृष्णया तदा ।
उवाच सत्या सत्कृत्य
पाञ्चालीं धर्मचारिणीम् ॥
अभिपन्नाऽस्मि पाञ्चालि
याज्ञसेनि क्षमस्व मे ।
कामकारस् सखीनां हि
सोपहासं प्रभाषितम् ॥

इत्यारण्यके द्रौपदीसत्यभामासंवादे अध्यायः ॥

मूलम्

वैशम्पायन उवाच

तच्छ्रुत्वा धर्मसहितं व्याहृतं कृष्णया तदा ।
उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीम् ॥
अभिपन्नाऽस्मि पाञ्चालि याज्ञसेनि क्षमस्व मे ।
कामकारस्सखीनां हि सोपहासं प्रभाषितम् ॥

इत्यारण्यके द्रौपदीसत्यभामासंवादे अध्यायः ॥

द्राविडम्

वैसम्बायनर् कूऱुगिऱार्:–

धर्मयुक्तमान अवळ् वार्त्तैयैक् केट्टु, सत्यबामै पाञ्जालियै उबसरित्तु, याक्ञसेनि! नान् पिसगु सॆय्दुविट्टेन्, पॊऱुत्तुक्कॊळ्. सगिगळ् इष्टम्बोलिरुक्कलामल्लवा. विळैयाट्टागप् पेसिनेन् ऎण्ड्राळ्.

इव्विदम् वनबर्वत्तिल् सम्वादम्.

विश्वास-प्रस्तुतिः

द्रौपद्युवाच -

इमं तु ते मार्गम् अपेत-मोहं
वक्ष्यामि चित्त-ग्रहणाय भर्तुः ।
अस्मिन् यथावत् सखि वर्तमाना
भर्तारम् आच्छेत्स्यसि कामिनीभ्यः ॥
नैतादृशं दैवतम् अस्ति सत्ये
सर्वेषु लोकेषु सदैवकेषु ।
यथा पतिस् तुष्यति, सर्वकामा
लभ्याः प्रसादात्, कुपितश्च हन्यात्
तस्माद् अपत्यं विविधाश् च भोगाः
शय्यासनान्य् उत्तम-दर्शनानि ।
वस्त्राणि माल्यानि तथैव गन्धाः
स्वर्गश्च लोको विपुला च कीर्तिः ॥
सुखं सुखेनेह न जातु लभ्यं
दुःखेन साध्वी लभते सुखानि ।+++(4)+++

सा कृष्णम् आराधय सौहृदेन
प्रेम्णा च नित्यं प्रतिकर्मणा च ॥
तथाऽऽसनैश् चारुभिर् उग्रमाल्यैर्
दाक्षिण्य-योगैर् विविधैश् च गन्धैः ।
अस्याः प्रियोऽस्मीति यथा विदित्वा
त्वाम् एव संश्लिष्यति तद् विधत्स्व

श्रुत्वा स्वरं द्वारगतस्य भर्तुः
प्रत्युत्थिता तिष्ठ गृहस्य मध्ये ।
दृष्ट्वा प्रविष्टं त्वरिताऽऽसनेन
पाद्येन चैनं प्रतिपूजयस्व
सम्प्रेषितायाम् अथ चैव दास्याम्
उत्थाय सर्वं स्वयमेव कार्यम्
जानातु कृष्णस् तव भावम् एतं
सर्वात्मना मां भजतीति सत्ये ॥
त्वत्-सन्निधौ यत् कथयेत् पतिस् ते
यद्य् अप्य् अगुह्यं परिरक्षितव्यम्

काचित् सपत्नी तव वासुदेवं
प्रत्यादिशेत् तेन भवेद् विरागः ॥

प्रियांश्च रक्तांश्च हितांश्च भर्तुस्
तान् भोजयेथा विविधैर् उपायैः ।
द्वेष्यैर् अपेक्षा-रहितैश् च तस्य
भिद्यस्व नित्यं कुहकोद्यतैश् च ॥

मदं प्रमादं पुरुषेषु हित्वा
संयच्छ भावं प्रतिगृह्य मौनम् ।
प्रद्युम्न-साम्बाव् अपि ते कुमारौ
नोपासितव्यौ रहिते कदाचित् ॥

महाकुलीनाभिर् अपापिकाभिः
स्त्रीभिस् सतीभिस् तव सख्यम् अस्तु
चण्डाश्च शौण्डाश्च महाशनाश्च
चौराश्च दुष्टाश् चपलाश्च वर्ज्याः ॥+++(5)+++

एतद् यशस्यं भगदैवतं मतं
स्वर्ग्यं तथा शत्रुनिबर्हणं च ।
महार्हमाल्याभरणाङ्गरागा
भर्तारम् आराधय पुण्यगन्धा ॥

इत्य्-आरण्यके पर्वणि द्रौपदी-सत्यभामा-संवादे अध्यायः ॥

मूलम्

द्रौपद्युवाच -

इमं तु ते मार्गमपेतमोहं वक्ष्यामि चित्तग्रहणाय भर्तुः ।
अस्मिन् यथावत् सखि वर्तमाना भर्तारमाच्छेत्स्यसि कामिनीभ्यः ॥
नैतादृशं दैवतमस्ति सत्ये सर्वेषु लोकेषु सदैवकेषु ।
यथा पतिस्तुष्यति सर्वकामा लभ्याः प्रसादात् कुपितश्च हन्यात् ॥
तस्मादपत्यं विविधाश्च भोगाः शय्यासनान्युत्तमदर्शनानि ।
वस्त्राणि माल्यानि तथैव गन्धाः स्वर्गश्च लोको विपुला च कीर्तिः ॥
सुखं सुखेनेह न जातु लभ्यं दुःखेन साध्वी लभते सुखानि ।
सा कृष्णमाराधय सौहृदेन प्रेम्णा च नित्यं प्रतिकर्मणा च ॥
तथाऽऽसनैश्चारुभिरुग्रमाल्यैर्दाक्षिण्ययोगैर्विविधैश्च गन्धैः ।
अस्याः प्रियोऽस्मीति यथा विदित्वा त्वामेव संश्लिष्यति तद्विधत्स्व ॥
श्रुत्वा स्वरं द्वारगतस्य भर्तुः प्रत्युत्थिता तिष्ठ गृहस्य मध्ये ।
दृष्ट्वा प्रविष्टं त्वरिताऽऽसनेन पाद्येन चैनं प्रतिपूजयस्व ॥
सम्प्रेषितायामथ चैव दास्यामुत्थाय सर्वं स्वयमेव कार्यम् ।
जानातु कृष्णस्तव भावमेतं सर्वात्मना मां भजतीति सत्ये ॥
त्वत्सन्निधौ यत् कथयेत्पतिस्ते यद्यप्यगुह्यं परिरक्षितव्यम् ।
काचित् सपत्नी तव वासुदेवं प्रत्यादिशेत्तेन भवेद्विरागः ॥
प्रियांश्च रक्तांश्च हितांश्च भर्तुस्तान् भोजयेथा विविधैरुपायैः ।
द्वेष्यैरपेक्षारहितैश्च तस्य भिद्यस्व नित्यं कुहकोद्यतैश्च ॥
मदं प्रमादं पुरुषेषु हित्वा संयच्छ भावं प्रतिगृह्य मौनम् ।
प्रद्युम्नसाम्बावपि ते कुमारौ नोपासितव्यौ रहिते कदाचित् ॥
महाकुलीनाभिरपापिकाभिः स्त्रीभिस्सतीभिस्तव सख्यमस्तु । चण्डाश्च शौण्डाश्च महाशनाश्च चौराश्च दुष्टाश्चपलाश्च वर्ज्याः ॥
एतद्यशस्यं भगदैवतं मतं स्वर्ग्यं तथा शत्रुनिबर्हणं च । महार्हमाल्याभरणाङ्गरागा भर्तारमाराधय पुण्यगन्धा ॥

इत्यारण्यके पर्वणि द्रौपदीसत्यभामासंवादे अध्यायः ॥

द्राविडम्

त्रौबदि:-

भर्त्ताविन् मनदै वसप्पडुत्त नान् सॊल्लुम् मोहमिल्लाद मार्गत्तैक् केळ्. इदिल् सरियाग नडन्दु वन्दाल्, भर्त्तावै कामुग स्त्रीगळिडमिरुन्दु तिरुप्पि विडलाम्. तेवर्गळुळ्बड सर्वलोकत्तिलुम्, इवनैप्पोल् तेवदै इल्लै. पदि सन्दोषित्ताल् सर्वबलन्गळुम् किडैक्कुम्. अवन् कोबित्ताल् नम्मै नासम् सॆय्वान्. अवनिडमिरुन्दु, प्रजैगळ्, नानाविद पोगङ्गळ्, सयनम्, आसनम्, उत्तम क्ञानङ्गळ्, वस्त्रम्, मालै, वासनै, स्वर्क्कम्, विस्तारमान कीर्त्ति इवैगळ् किडैक्किण्ड्रन. सुगम् सुगत्ताल् किडैक्कादु. तुक्कत्तालेये सुगम् किडैक्कुम्. आगैयाल्, नी स्नेहत्तालुम्, अबिमानत्तालुम्, अलङ्गारत्तालुम्, श्रीक्रुष्णनै उबसरिक्कवुम्. अप्पडिये, आसनम्, मालै, ताक्षिण्यम्, पलविद वासनैगळ् इवैगळालुम् उबसरिप्पायाग. इवळुक्कु प्रियनायिरुक्किऱेन् ऎण्ड्रु उणर्न्दु, उन्नैये आलिङ्गनम् सॆय्वान्. वायिलिल् वरुम् भर्त्ताविन् कुरलैक्केट्टु, ऎऴुन्दु, वीट्टिन् मत्तियिल् निण्ड्रु कॊळ्. वीट्टिल् नुऴैन्ददुम् आसनम् पात्यजलम् इवैयुडन् उबसरिप्पायाग. तासी वॆळियिल् सॆण्ड्रिरुन्दाल् ताने सॆय्वायाग. नी सर्व पावत्तालुम् तन्नैप् पजिक्किऱाय् ऎण्ड्रु श्रीक्रुष्णन् अऱियवेण्डुम्. उन् समीबत्तिल् पदि सॊल्वदु रहस्यमिल्लाविडिनुम्, अदै वॆळियिडक्कूडादु. ऒरु सक्कळत्ति श्रीक्रुष्णनै निरागरिप्पाळ्. अदनाल् अवळिडम् वॆऱुप्पु एऱ्‌पडुम्. भर्त्तावुक्कु प्रियर्गळायुम् हिदर्गळायुमुळ्ळवर्गळै नानाविद उबायङ्गळाल् साप्पाडु सॆय्विप्पायाग. अवनुक्कु त्वेषिगळुम् अहिदर्गळुम् वञ्जगर्गळुमानवरैप् पिरिन्दुविडु. पुरुषर्गळिडम् मदम्, तवऱुदल्इ इवैगळै विट्टु, तन् अबिप्रायत्तैत् तॆरिन्दु मौनमायिरु. उन् कुमारर्गळान प्रत्युम्नन्, साम्बन् इवर्गळैयुम् एगान्दत्तिल् उबसरिक्कादे. महागुलत्तिल् पिऱन्द पाबमट्र स्त्रीगळिडम् उनक्कु स्नेहम् इरुक्कट्टुम्. कोबमुळ्ळवरुम्, इदररै अवमदिप्पवर्गळुम्, अदिगम् पुजिप्पवरुम्, तिरुडरुम् विलक्कत्तक्कवर्गळ्. इदु कीर्त्तिगरम्, पाक्यगरम्, स्वर्क्कगरम्, सत्रु नासनम्. उयर्न्द मालै, आबरणम्, पूच्चुगळ्, तिव्यगन्दङ्गळ् इवैगळुडन् भर्त्तावै उबसरिक्कवुम्.

विश्वास-प्रस्तुतिः

आग्नेयपुराणे सुभद्रां प्रति भगवद्वाक्यम् -

सुभद्रां भगिनीं प्राह
भगवान् भूतभावनः ।

कल्याण्य् अवरजे वत्से
मद्-वाक्यं शृणु सिद्धये ॥

पितृ-मातृ-कुल-व्याधिर्
भर्तुश् चेत् प्रतिकूलिका ।
भूषणं पितृवंशस्य
यदि साध्वी पतिव्रता ॥+++(5)+++

अनुकूला सदा भर्तुर्
भव भव्यप्रदा सती ।
प्रत्युत्तरं तु न ब्रूयाः
पत्यौ क्रुद्धे कदाचन ॥

मा कुरुष्व सपत्नीत्वं
कृष्णायां चर सौहृदम् ।

मातरं पितरं वाऽपि
माऽस्मान् स्मर कदाचन ॥
पतिर् एव स्त्रियो बन्धुः
पतिर् एव स्त्रियो धनम् ।
पतिर् एव स्त्रियो धर्मः
पतिरेव महत् तपः ॥

इति ॥

मूलम्

आग्नेयपुराणे सुभद्रां प्रति भगवद्वाक्यम् -

सुभद्रां भगिनीं प्राह भगवान् भूतभावनः ।
कल्याण्यवरजे वत्से मद्वाक्यं शृणु सिद्धये ॥
पितृमातृकुलव्याधिर्भर्तुश्चेत् प्रतिकूलिका ।
भूषणं पितृवंशस्य यदि साध्वी पतिव्रता ॥
अनुकूला सदा भर्तुर्भव भव्यप्रदा सती ।
प्रत्युत्तरं तु न ब्रूयाः पत्यौ क्रुद्धे कदाचन ॥
मा कुरुष्व सपत्नीत्वं कृष्णायां चर सौहृदम् ।
मातरं पितरं वाऽपि माऽस्मान् स्मर कदाचन ॥
पतिरेव स्त्रियो बन्धुः पतिरेव स्त्रियो धनम् ।
पतिरेव स्त्रियो धर्मः पतिरेव महत्तपः ॥

इति ॥

द्राविडम्

आक्नेय पुराणत्तिल् :-

सुबत्रैयैक् कुऱित्तु, पगवान् सॊल्लियदु. प्राणिगळै रक्षिक्कुम् पगवान् तङ्गैयान सुबत्रैयै नोक्किच्चॊल्लुगिऱार् हे कल्याणि! पगिनि! नान् सॊल्वदैक् केळ्. भर्त्तावुक्कु विबरीदमायिरुप्पिन्, मादाबित्रु कुलङ्गळुक्कु व्यादिबोलावाय्.
सात्वियायुम्, पदिव्रदैयायुमिरुप्पिन्, मादाबित्रुवम्स पूषणमावाय्. ऎप्पॊऴुदुम् पदिक्कु क्षेमत्तैक्कॊडु. पदिव्रदैयाय् इरु.
अवन् कोबित्ताल् पदिल् सॊल्लादे. त्रौबदियिडम् सक्कळत्तीबावत्तिलिरुक्कादे. स्नेहमाय् इरु. ताय् तन्दै ऎङ्गळै ऎल्लाम् निनैक्कादे. स्त्रीक्कुप् पदिदान् पन्दु. अवने तनम्, अवने धर्मम्, अवने तवम्.

विश्वास-प्रस्तुतिः

तथा चानुशासनिके उमामहेश्वरसंवादे -

स्त्रीधर्मः पूर्वम् एवायं
विवाहे बन्धुभिः कृतः ।
सह-धर्म-चरी भर्तुः
भवत्य् अग्नि-समीपतः ॥

सुख-भावा सुवचना
सुवृत्ता सुखदर्शना ।
अनन्य-चित्ता सुमुखी
सा भवेद् धर्म-भागिनी ॥

देववत् सततं साध्वी
भर्तारं प्रतिपश्यति
शुश्रूषां परिचारं च
विधिवद् या करोति च ॥
नान्यभावा ह्यविमनाः
सुव्रता सुखदर्शना ।
सा साध्वी नियताहारा
सा भवेद् धर्मचारिणी ॥

परुषाण्य् अपि चोक्ता या
दृष्टा दुष्टेन चक्षुषा ।
सुप्रसन्न-मुखी भर्तुः
या नारी सा पतिव्रता ॥

चन्द्रसूर्यौ न नरं
पुन्नाम्ना या निरीक्षते
भर्तृवर्जं वरारोहा
सा भवेद्धर्मभागिनी ॥
दरिद्रं व्याधितं दीनम् अध्वना परिकर्शितम् ।
पतिं पुत्रम् इवोपास्ते
सा नारी धर्मभागिनी ॥

न कामेषु न भोगेषु
नैश्वर्ये सुखे तथा ।
स्पृहा यस्या यथा पत्यौ
सा नारी धर्मभागिनी ॥

या नारी प्रयता दक्षा
या नारी पुत्रिणी भवेत् ।
पतिप्रिया पतिप्राणा
सा नारी धर्मभागिनी ॥

अग्निकार्यपरा नित्यं
सदा पुष्पबलि-प्रदा
देवतातिथिभृत्यानां
निर्वाप्य पतिना सह ॥
शेषान्नम् उपभुञ्जाना
यथान्यायं यथाविधि ।
तुष्टिपुष्टियुता नित्यं
नारी धर्मेण युज्यते

श्वश्रूश्वशुरयोः पादौ
तोषयन्ती गुणान्विता ।
मातापितृपरा नित्यं
या नारी सा तपोधना ॥

ब्राह्मणान् दुर्बलानाथान्
दीनान्धकृपणांस्तथा ।
बिभर्त्य् अन्नेन या नारी
सा पतिव्रतभागिनी ॥

व्रतं चरति या नित्यं
दुश्चरं लघु-सत्त्वया ।
पतिचित्ता पतिहिता
सा पतिव्रतभागिनी ॥

पुण्यमेतत्तपश्चैव
स्वर्गश्चैव सनातनः ।
यन्नारी भर्तृपरमा
भवेद् भर्तृ-व्रता सती ॥
पतिर्हि देवो नारीणां
पतिर् बन्धुः पतिर्गतिः ।
पत्या समा गतिर् नास्ति
दैवतं वा यथा पतिः ॥
पतिप्रसादः स्वर्गो वा
तुल्यो नार्या वा भवेत्

यद्य् अकार्यम् अधर्मं वा
यदि वा प्राण-नाशनम् ॥
पतिर् ब्रूयाद् दरिद्रो वा
व्याधितो वा कथञ्चन ।
आपन्नो रिपुसंस्थो वा
ब्रह्म-शापार्दितोऽपि वा ॥
आपद्धर्मान् अनुप्रेक्ष्य
तत्कार्यम् अविशङ्कया ।+++(5)+++

एष देवि मया प्रोक्तः
स्त्रीधर्मो वचनात्तव ॥
या त्वेवम्-भाविनी नारी
सा पतिव्रतभागिनी ॥

इति ॥

मूलम्

तथा चानुशासनिके उमामहेश्वरसंवादे -

स्त्रीधर्मः पूर्वमेवायं विवाहे बन्धुभिः कृतः ।
सहधर्मचरी भर्तुः भवत्यग्निसमीपतः ॥
सुखभावा सुवचना सुवृत्ता सुखदर्शना ।
अनन्यचित्ता सुमुखी सा भवेद्धर्मभागिनी ॥
देववत्सततं साध्वी भर्तारं प्रतिपश्यति ।
शुश्रूषां परिचारं च विधिवद्या करोति च ॥
नान्यभावा ह्यविमनाः सुव्रता सुखदर्शना ।
सा साध्वी नियताहारा सा भवेद्धर्मचारिणी ॥
परुषाण्यपि चोक्ता या दृष्टा दुष्टेन चक्षुषा ।
सुप्रसन्नमुखी भर्तुः या नारी सा पतिव्रता ॥
न चन्द्रसूर्यौ न नरं पुन्नाम्ना या निरीक्षते ।
भर्तृवर्जं वरारोहा सा भवेद्धर्मभागिनी ॥
दरिद्रं व्याधितं दीनम् अध्वना परिकर्शितम् ।
पतिं पुत्रमिवोपास्ते सा नारी धर्मभागिनी ॥
न कामेषु न भोगेषु नैश्वर्ये न सुखे तथा ।
स्पृहा यस्या यथा पत्यौ सा नारी धर्मभागिनी ॥
या नारी प्रयता दक्षा या नारी पुत्रिणी भवेत् ।
पतिप्रिया पतिप्राणा सा नारी धर्मभागिनी ॥
अग्निकार्यपरा नित्यं सदा पुष्पबलिप्रदा ।
देवतातिथिभृत्यानां निर्वाप्य पतिना सह ॥
शेषान्नमुपभुञ्जाना यथान्यायं यथाविधि ।
तुष्टिपुष्टियुता नित्यं नारी धर्मेण युज्यते ॥
श्वश्रूश्वशुरयोः पादौ तोषयन्ती गुणान्विता ।
मातापितृपरा नित्यं या नारी सा तपोधना ॥
ब्राह्मणान् दुर्बलानाथान् दीनान्धकृपणांस्तथा ।
बिभर्त्यन्नेन या नारी सा पतिव्रतभागिनी ॥
व्रतं चरति या नित्यं दुश्चरं लघुसत्वया ।
पतिचित्ता पतिहिता सा पतिव्रतभागिनी ॥
पुण्यमेतत्तपश्चैव स्वर्गश्चैव सनातनः ।
यन्नारी भर्तृपरमा भवेद्भर्तृव्रता सती ॥
पतिर्हि देवो नारीणां पतिर्बन्धुः पतिर्गतिः ।
पत्या समा गतिर्नास्ति दैवतं वा यथा पतिः ॥
पतिप्रसादः स्वर्गो वा तुल्यो नार्या न वा भवेत् ।
यद्यकार्यमधर्मं वा यदि वा प्राणनाशनम् ॥
पतिर्ब्रूयाद्दरिद्रो वा व्याधितो वा कथञ्चन ।
आपन्नो रिपुसंस्थो वा ब्रह्मशापार्दितोऽपि वा ॥
आपद्धर्माननुप्रेक्ष्य तत्कार्यमविशङ्कया ।
एष देवि मया प्रोक्तः स्त्रीधर्मो वचनात्तव ॥
या त्वेवम्भाविनी नारी सा पतिव्रतभागिनी ॥

इति ॥

द्राविडम्

आनुसासनिगबर्वत्तिल् उमामहेच्वर सम्वादम् :

मुदलिलेये विवाहत्तिल् पन्दुक्कळाल् सॆय्विक्कप्पट्ट मुदल् धर्मम् इवन्दान् (पदिदान्). अक्नि समीबत्तिल् भर्त्तावुक्कु सहधर्मसारिणियाय् आगिऱाळ्.
पदियिडम् नल्ल पावम्, नल्वार्त्तै, नल्ल नडत्तै, नल्ल पार्वै, वेऱिडम् मनमिल्लामै, नल्लमुगम् इवैगळुडन् इरुप्पवळ् धर्मसारिणी. अवळ् धर्मत्तैयुडैयवळ्.
ऎवळ् भर्त्तावैत् तेवनैप्पोल् पार्क्किऱाळो, सुच्रूक्षै, परिसाणम् इवैगळै विधिप्रगारम् ऎवळ् सॆय्गिऱाळो, वेऱिडम् मनमिल्लामल्, तुर्मनमिल्लामल् नल्ल व्रदत्तुडन् ऎवळ् इरुक्किऱाळो अवळ् पदिव्रदै. अवळ् आहारनियमत्ताल् धर्मत्तै अनुष्टिप्पाळ्. कडुमैयागप्पेसप्पट्टुम्, कॆट्टबार्वैयाल् पार्क्कप्पट्टुम् प्रसन्नमायिरुप्पवळे पदिव्रदै. भर्त्तावैत्तविर चन्द्र सुबिर्यर्गळैयुम् ऎवळ् पार्प्पदिल्लैयो अवळे पदिव्रदै.
तरित्रनुम्, रोगियुम्, तीननुम्,वऴि नडैयाल् च्रमप्पट्टवनुमानवनै ऎवळ् पुत्रनैप्पोल् पोषिक्किऱाळो अवळे धर्मत्तै अडैवाळ्. कामत्तिल्, पोगत्तिल्, ऐच्वर्यत्तिल् सूगत्तिल् ऎवळुक्कुप् पदियिनिडम्बोल् सूगमुण्डावदिल्लैयो अवळे धर्मत्तै अडैवाळ्.
सुत्तैयुम्, समर्त्तैयुम्, पुत्रवदियुम्, पदिप्रियैयुम्, पदिये प्राणनायुम् उडैयवळ् धर्मत्तै अडैवाळ्.
प्रदिदिनमुम् अक्निगार्यनिरदैयुम्, पुष्प नैवेत्यङ्गळै अळिप्पवळुम्, तेवरुक्कुम्, अदिदिगळुक्कुम् वेलैक्कारर्गळुक्कुम् अळित्तुप् पिऱगु मीदियै उण्बवळुम् तुष्टि पुष्टियुडन् वसिप्पाळ्. धर्मत्तैयडैवाळ्.
मामियार् मामनार् सरणङ्गळै उबसरिप्पवळुम्, कुणवदियुम्, ऎप्पॊऴुदुम् ताय् तन्दैगळिडम् पक्तियुळ्ळवळुम् आनवळ् तबोदनै आवाळ्.
प्राम्हणर्, तुर्प्पलर्, अनादर्, तीनर्, कुरुडु, क्रुबणर् इवर्गळैप् पोषिप्पवळ् पदिव्रदैयावाळ्. ऎवळ् पदियिडम् मनदै वैत्तु अवनुक्कु हिदमान व्रदत्तै अनुष्टिक्किऱाळो अवळे पदिव्रदै.
पदिव्रदाधर्ममे पुण्यम्, तवम्, स्वर्क्कम्, ऎल्लाम्. स्त्रीगळुक्कुप् पदिये तेवन्, अवने पन्दु, अवने कदि. अवनैप्पोल् कदियुमिल्लै, तेवदैयुमिल्लै.
पदियिन् प्रसादमुम् स्वर्क्कमुम् स्त्रीक्कु सममागुमो आगादो. पदि तरित्रनो, व्यादि पीडिदनो, आबत्तिलिरुप्पवनो, सत्रुमत्यत्तिलिरुप्पवनो, प्राम्हण साबत्ताल् पीडिक्कप्पट्टवनो, अवन् धर्ममो अधर्ममो, प्राण नासमो, ऎदैच् चॊल्लुगिऱानो अदै आबत्तैयऱिन्दु सॆय्यवेण्डुम् .हे तेवि! उन् वसनत्ताल् इव्विदम् स्त्री धर्मत्तै उरैत्तेन्. इप्पडियिरुप्पवळ् पदिव्रदै.

विश्वास-प्रस्तुतिः

आनुशासनिकेऽपि -

सत्स्त्रीणां समुदाचारं
सर्वं धर्मविदां वर ।
श्रोतुम् इच्छाम्य् अहं
त्वत्तस्तन्मे ब्रूहि पितामह ॥

श्रीभीष्मः -

सर्वज्ञा सर्वतत्वज्ञा
देवलोके मनस्विनी ।
कैकेयी सुमना नाम
शाण्डिलीं पर्यपृच्छत
केन वृत्तेन कल्याणि
समाचारेण केन वा ।
इमं लोकम् अनुप्राप्ता
त्वं हि तत्वं वदस्व मे ॥

इति पृष्टा सुमनया
मधुरं चारुहासिनी ।

शाण्डिली निभृतं वाक्यं
सुमनाम् इदम् अब्रवीत्

नाहं काषायवसना
नास्मि वल्कलधारिणी ।
न च मुण्डा न जटिला
भूत्वा देवत्वमागता ॥

अहितानि च वाक्यानि
सर्वाणि परुषाणि च ।
अप्रमत्ता च भर्तारं
कदाचिन्नाहम् अब्रवम्

देवतानां पितॄणां च
ब्राह्मणानां च पूजने ।
अप्रमत्ता सदा युक्ता
श्रश्रूश्वशुरवर्तिनी ॥

पैशुन्ये न प्रवर्तामि
न ममैतन् मनोगतम् ।

पुनर्द्वारि न तिष्ठामि
चिरं न कथयामि च ॥
असद्वा हसितं किञ्चिद्
अहितं वाऽपि कर्मणा ।
रहस्यम् अरहस्यं वा
न प्रवर्तामि सर्वथा ॥
कार्यार्थे निर्गतं चापि
भर्तारं गृहम् आगतम्
आसनेनोपसंयोज्य
पूजयामि समाहिता ॥
यदन्नं नाभिजानाति
यद्भोज्यं नाभिनन्दति ।
भक्ष्यं वा यदि वा लेह्यं
तत् सर्वं वर्जयाम्य् अहम् ॥

कुटुम्बार्थे समानीतं
यत् किञ्चित् कार्यम् एव तु ।
प्रातर् उत्थाय तत्सर्वं
कारयामि करोमि च ॥
नोत्थापयामि भर्तारं
सुखसुप्तम् अहं सदा ।
आन्तरेष्वपि कार्येषु
तेन तुष्यति मे मनः ॥
नायासयामि भर्तारं
कुटुम्बार्थेऽपि सर्वदा ।
गुप्त-गुह्या सदा चास्मि
सुसम्मृष्ट-निवेशना ॥

इमं धर्म-पथं या हि
पालयत्य् अखिलं सदा ।
अरुन्धतीव नारीणां
स्वर्गलोके महीयते

एतदाख्याय सा देवी
सुमनायै तपस्विनी ।
पतिधर्मं महाभागा
जगाम् आदर्शनं तदा ॥

इत्थं सकलदोषान् परित्यज्य धर्मपरैव भवेत् ॥

मूलम्

आनुशासनिकेऽपि -

सत्स्त्रीणां समुदाचारं सर्वं धर्मविदां वर ।
श्रोतुमिच्छाम्यहं त्वत्तस्तन्मे ब्रूहि पितामह ॥

श्रीभीष्मः -

सर्वज्ञा सर्वतत्वज्ञा देवलोके मनस्विनी ।
कैकेयी सुमना नाम शाण्डिलीं पर्यपृच्छत ॥
केन वृत्तेन कल्याणि समाचारेण केन वा ।
इमं लोकमनुप्राप्ता त्वं हि तत्वं वदस्व मे ॥
इति पृष्टा सुमनया मधुरं चारुहासिनी ।
शाण्डिली निभृतं वाक्यं सुमनामिदमब्रवीत् ॥
नाहं काषायवसना नास्मि वल्कलधारिणी ।
न च मुण्डा न जटिला भूत्वा देवत्वमागता ॥
अहितानि च वाक्यानि सर्वाणि परुषाणि च ।
अप्रमत्ता च भर्तारं कदाचिन्नाहमब्रवम् ॥
देवतानां पितॄणां च ब्राह्मणानां च पूजने ।
अप्रमत्ता सदा युक्ता श्रश्रूश्वशुरवर्तिनी ॥
पैशुन्ये न प्रवर्तामि न ममैतन्मनोगतम् ।
पुनर्द्वारि न तिष्ठामि चिरं न कथयामि च ॥
असद्वा हसितं किञ्चिदहितं वाऽपि कर्मणा ।
रहस्यमरहस्यं वा न प्रवर्तामि सर्वथा ॥
कार्यार्थे निर्गतं चापि भर्तारं गृहमागतम् ।
आसनेनोपसंयोज्य पूजयामि समाहिता ॥
यदन्नं नाभिजानाति यद्भोज्यं नाभिनन्दति ।
भक्ष्यं वा यदि वा लेह्यं तत् सर्वं वर्जयाम्यहम् ॥
कुटुम्बार्थे समानीतं यत् किञ्चित् कार्यमेव तु ।
प्रातरुत्थाय तत्सर्वं कारयामि करोमि च ॥
नोत्थापयामि भर्तारं सुखसुप्तमहं सदा ।
आन्तरेष्वपि कार्येषु तेन तुष्यति मे मनः ॥
नायासयामि भर्तारं कुटुम्बार्थेऽपि सर्वदा ।
गुप्तगुह्या सदा चास्मि सुसम्मृष्टनिवेशना ॥
इमं धर्मपथं या हि पालयत्यखिलं सदा ।
अरुन्धतीव नारीणां स्वर्गलोके महीयते ॥
एतदाख्याय सा देवी सुमनायै तपस्विनी ।
पतिधर्मं महाभागा जगामादर्शनं तदा ॥

इत्थं सकलदोषान् परित्यज्य धर्मपरैव भवेत् ॥

द्राविडम्

आनुसासनिगत्तिलुम् :

सदियान स्त्रीगळिन् सगल आचारङ्गळैयुम् उम्मिडमिरुन्दु केट्क विरुम्बुगिऱेन्. पिदामहरे! अदैच्चॊल्लुम्, ऎण्ड्रु युदिष्टिरर् केट्क

पिष्मर् कूऱुगिऱार्:-

ऎल्ला वस्तुक्कळैयुम्, अवैगळिन् तत्वत्तैयुमऱिन्दवळान कैगेयी, तेवलोकत्तिल्, साण्डिलि ऎन्बवळैक् केट्किऱाळ्.
ऎन्द आसरणत्तालुम् नडत्तैयालुम् नी तेवलोकत्तिऱ्‌कु वन्दाय्? तत्वत्तै उरै, ऎण्ड्रु केट्क, साण्डिलि सॊल्लुगिऱाळ् - नान् काषायम् मरवुरि मुदलियदैत् तरिक्कविल्लै, मुण्डनम् सॆय्दो, जडै.
तरित्तो स्वर्क्कम् वरविल्लै. नान् भर्त्तावुक्कु ऒरुबॊऴुदुम् अहिदमायुम्, कडुमैयायुमुळ्ळ वार्त्तैगळैच् चॊल्ल माट्टेन्.
तेवर्गळ्, पित्रुक्कळ्, प्राम्हणर्गळ् इवर्गळै ऎप्पोदुम् तवऱामल् पूजिप्पेन्. मामनार् मामियारुक्कु अडङ्गियिरुप्पेन्.
ऒरुबोदुम् ऒरुवर् मीदुम् कोळ् सॊल्ल माट्टेन्. वायिऱ्‌पडियिल् वॆगु नेरम् निऱ्‌कमाट्टेन्. हिदमो, अहिदमो,रहस्यमो, प्रकाशमो ऎन्द विषयत्तिलुम्, भर्त्ताविन् अनुमतियिण्ड्रि प्रवेसिक्क माट्टेन्. कार्यत्तिन्बेरिल् वॆळिये पोय्, तिरुम्बिवन्द भर्त्तावुक्कु आसनादिगळ् कॊडुत्तुप् पूजिक्किऱेन्.
ऎन्दप् पदार्त्तम् अवरुक्कुत् तॆरियादो, अवर् सन्दोषिक्किऱदिल्लैयो, अन्दप् पक्ष्य पोज्य लेह्यङ्गळै नान् तळ्ळिविडुवेन्. कुटुम्बत्तिऱ्‌कागक् कॊण्डुवरप्पट्ट कार्यङ्गळै, कालैयि लिरुन्दु सॆय्वेन्. सुगमागत् तूङ्गुम् भर्त्तावै ऎऴुप्प माट्टेन्.
अदनाल् ऎन् मनम् सन्दोषिक्कुम्. कुटुम्बत् तिऱ्‌कागवुम् भर्त्तावै आयासप्पडुत्तमाट्टेन्. रहस्यङ्गळै रक्षित्तु वीट्टैप् परिसुत्तमाय् वैत्तिरुप्पेन्.
इन्दत् धर्म मार्गम् मुऴुवदैयुम् ऎवळ् परिबालिक्किऱाळो, अवळ्अ अरुन्ददिबोल् स्वर्क्कत्तिल् प्रकाशिप्पाळ्.
इदैच् चॊल्लिविट्टु अन्द सुमनै मऱैन्दाळ्. इव्विदम् सगल तोषङ्गळैयुम् विलक्कि, धर्मप्रधानैयाय् स्त्री इरुक्कक्कडवळ्.