सङ्कीर्ण-नियमाः
विश्वास-प्रस्तुतिः
अथ स्त्रीणां साधारणधर्माः ॥
शङ्खः –
नानुक्त्वा गृहान् निर्गच्छेन्, नानुत्तरीया, न त्वरितं व्रजेत्,
न परपुरुषम् अभिभाषेतान्यत्र वणिक्-प्रव्रजित-वैद्य-वृद्धेभ्यो
न नाभिं दर्शयेद् आगुल्फाद् वासः परिदध्यान्
न स्तनौ विवृतौ कुर्यान्
न हसेद् अपावृतं
भर्तारं तद्-बन्धून् वा न द्विष्यान्
न गणिका-धूर्ताभिसारिणी-प्रव्रजिता-प्रेक्षणिका–
मायाकुहक-कारिका-दुःशीलाभिस् सहैकत्र वसेत्
संसर्गेण चारित्रं दुष्यतीति ॥
मूलम्
अथ स्त्रीणां साधारणधर्माः ॥
शङ्खः –
नानुक्त्वा गृहान् निर्गच्छेन्, नानुत्तरीया, न त्वरितं व्रजेत्,
न परपुरुषम् अभिभाषेतान्यत्र वणिक्-प्रव्रजित-वैद्य-वृद्धेभ्यो
न नाभिं दर्शयेद् आगुल्फाद् वासः परिदध्यान्
न स्तनौ विवृतौ कुर्यान्
न हसेद् अपावृतं भर्तारं तद्-बन्धून् वा
न द्विष्यान्
न गणिका-धूर्ताभिसारिणी-प्रव्रजिता-प्रेक्षणिका–
मायाकुहक-कारिका-दुःशीलाभिस् सहैकत्र वसेत्
संसर्गेण चारित्रं दुष्यतीति ॥
द्राविडम्
सादारण धर्मङ्गळ्
इप्पॊऴुदु स्त्रीगळिन् सादारण धर्मङ्गळ् निरूप्पिक्कप्पडुगिण्ड्रन.
सङ्गर्:-
वीट्टिल् सॊल्लामलुम्, उत्तरीयमिल्लामलुम्, वेगमायुम् वॆळियिल् सॆल्लक्कूडादु. व्याबारि, सन्यासी, वैत्यन्, किऴवन् इवर्गळैत् तविर इदरर्गळिडम् पेसक् कूडादु, नाबि वॆळियिल् तॆरियक्कूडादु. काल् मणिक्कट्टु वरैयिल् वस्त्र तारणम्. स्तनङ्गळ् वॆळियिल् तॆरियलागादु. प्रकाशमागच् चिरिक्कक्कूडादु. भर्त्तावैयुम्, अवन् पन्दुक्कळैयुम् तवेषिक्कलागादु. व्यबिसारिणी, वेसि, कॆट्टवळ्, सन्यासिनी, कुऱि सॊल्बवळ्, मायै वञ्जनै सॆय्बवळ्, कॆट्ट स्वबावमुळ्ळवळ् इवर्गळुडन् ओरिडत्तिल् वसिक्कलागादु. सहवासत्ताल् नडत्तै कॆट्टुविडुम्.
विश्वास-प्रस्तुतिः
आश्वालायनः-
भक्तिं श्वशुरयोः कुर्यात्
पत्युश् चापि विशेषतः ।
धर्म-कार्ये ऽनुकूलत्वम्
अर्थकार्येऽपि संयमम् ॥
प्रागल्भ्यं काम-कार्येषु
शुचित्वं निज-विग्रहे ।
मङ्गलं सततं पत्युः
सततं प्रिय-भाषणम् ॥
हरिद्रा-कज्जलं चैव
सिन्दूरं कुङ्कुमं तथा ।
कूर्पासकञ् च ताम्बूलं
मङ्गल्याभरणं शुभम् ॥
केश-संस्कार-कबरी-
कर-कर्ण-विभूषणम् ।
भर्तुर् आयुष्यम् इच्छन्ती
दूषयेन् न पतिव्रता ॥
इति ॥
मूलम्
आश्वालायनः-
भक्तिं श्वशुरयोः कुर्यात्
पत्युश्चापि विशेषतः ।
धर्मकार्येऽनुकूलत्वम्
अर्थकार्येऽपि संयमम्॥
प्रागल्भ्यं कामकार्येषु
शुचित्वं निजविग्रहे ।
मङ्गलं सततं पत्युः
सततं प्रियभाषणम्॥
हरिद्राकज्जलं चैव
सिन्दूरं कुङ्कुमं तथा ।
कूर्पासकञ्च ताम्बूलं
मङ्गल्याभरणं शुभम्॥
केशसंस्कारकबरीकरकर्णविभूषणम् ।
भर्तुरायुष्यमिच्छन्ती दूषयेन्न पतिव्रता ॥
इति ॥
द्राविडम्
आश्वलायनर्:-
भर्त्ताविनिडमुम्, मामनार् मामियारिडमुम्, पक्ति सॆय्ग. धर्म कार्यत्तिल् अनुगूलमायिरुक्क. तन विषयत्तिल् अडक्कमायिरुक्क.
काम कार्यत्तिल् सामर्त्यम्, तन् शरीरत्तिल् सुत्ति, पदिक्कु ऎप्पोदुम् मङ्गळत्तैच् चॆय्वदु, ऎप्पोदुम् प्रियमागप् पेसुवदु, मञ्जळ्, मै,
कुङ्गुमम्, रविक्कै, ताम्बूलम्, मङ्गळाबरणम्, तलै वारिक्कॊळ्वदु, तलै मुडिवदु, कै कादुगळुक्कु अलङ्गारम् इवैगळैप् भर्त्ताविन् आयुळैक् कोरुगिऱ पदिव्रदै निन्दिक्कक्कूडादु. अनुष्टिक्कवेण्डुम्.
विश्वास-प्रस्तुतिः
मार्कण्डेयः –
मार्जनीं चुल्लिकां काष्ठं
दृषद्-अश्मोपलांस् तथा ।
नाक्रमेदङ्घ्रिणा जातु
पुत्र-दार-धन-क्षयात् ॥
उलूखलं च मुसलं
तथा चैव घरट्टकम् ।
पादेनाक्रमणात् पापात्
नाप्नुयाद् उत्तमां गतिम् ॥दक्षिणाभिमुखी या तु
या विदिक्-सम्मुखाऽपि वा ।
केशान् संस्कुरुते नारी
धननाशं सुविन्दतीति ॥+++(5)+++
मूलम्
मार्कण्डेयः –
मार्जनीं चुल्लिकां काष्ठं दृषदश्मोपलांस्तथा ।
नाक्रमेदङ्घ्रिणा जातु पुत्रदारधनक्षयात् ॥
उलूखलं च मुसलं तथा चैव घरट्टकम् ।
पादेनाक्रमणात्पापात् नाप्नुयादुत्तमां गतिम् ॥
दक्षिणाभिमुखी या तु या विदिक्सम्मुखाऽपि वा ।
केशान् संस्कुरुते नारी धननाशं सुविन्दतीति ॥
द्राविडम्
मार्गण्डेयर्:-
तुडैप्पम्, अडुप्पु, विऱगु, अम्मि, कुऴवि इवैगळैक् कालाल् मिदिक्कक्कूडादु. मिदित्ताल् पुत्रन्, पत्नी, तनम् इवै नासमागिविडुम्. उरल्, उलक्कै, एन्दिरम् इवैगळैक् कालाल् मिदित्ताल् पाबर्. मिदिप्पवळुक्कु उत्तम कदि किडैक्कादु. ऎवळ् तॆऱ्कु मुगमागवो, ईसानादि मूलैगळुक्कु ऎदिरागवो तलैयै वारिक् कॊळ्गिऱाळो अवळुक्कुत् तनम् नासमागिविडुम्.
विश्वास-प्रस्तुतिः
स्कान्दे लोपामुद्राप्रशंसाव्याजेन बृहस्पतिः -
पतिव्रतेयं कल्याणी
लोपामुद्रा सधर्मिणी ।
तवाङ्गच्छायया तुल्या
यत्-कथा पुण्यकारिणी ॥
पतिव्रतास्व् अरुन्धत्या
सावित्र्याऽप्य् अनसूयया ।
शाण्डिल्यया च सत्या च
लक्ष्म्या च शतरूपया ॥
मेनया च सुनीत्या च
सञ्ज्ञया स्वाहया तथा ।
यथैषा वर्ण्यते श्रेष्ठा
न तथाऽन्येति निश्चितम् ॥अनलङ्कृतम् आत्मानं
तव नो दर्शयेत् क्वचित् ।
कार्यार्थं प्रोषिते क्वापि
सर्वमण्डनवर्जिता ॥न च ते नाम गृह्णाति
तवायुष्याभिवृद्धये ।
पुरुषान्तर-नामापि
न गृह्णाति कदाचन ॥आक्रुष्टाऽपि न चाक्रोशेत्
ताडिताऽपि प्रसीदति ।
“इदं कुरु”, “कृतं स्वामिन्
मन्यताम्” इति वक्ति च ॥
आहूता गृहकार्याणि
त्यक्त्वा ऽऽगच्छति सादरा ।
“किम्-अर्थम् आहृता नाथ
सुप्रसादो विधीयताम् ॥”न चिरं तिष्ठति द्वारि
न द्वारम् उपसेवते ।
अ-दापितं त्वया किञ्चित्
कस्मैचिन् न ददात्य् अपि ॥पूजोपकरणं सर्वम्
अनुक्तं साधयेत् स्वयम् ।
नियमोदक-बर्हींषि
पत्र-पुष्पाक्षतादिभिः ॥
प्रतीक्षमाणा ऽवसरं
यथाकालोचितं हि यत् ।
तद् उपस्थापयेत् सर्वम्
अनुद्विग्ना ऽतिहृष्टवत् ॥सेवेत भर्तुर् उच्छिष्टम्
अन्न-पान-फलादिकम् ।
महान् प्रसाद इत्य् उक्त्वा
पति-दत्तं प्रतीच्छति ॥अविभज्य च नाश्नीयात्
देव-पित्र्-अतिथिष्व् अपि ।
परिचारक-वर्गेषु
गोषु भिक्षु-कुलेषु च ॥
संयतोपस्करा दक्षाहृष्टा व्यय-पराङ्-मुखी ॥
दूरतो वर्जयेद् एषा
समाजोत्सव-दर्शनम् ।
न गच्छेत् तीर्थ-यात्रादि-
विवाह-प्रेक्षणादिषु ॥सुख-सुप्तं सुखासीनं
रममाणं यथेच्छया ।
आन्तरेष्व् अपि कार्येषु
पतिं नोत्थापयेत् क्वचित् ॥स्त्री-धर्मिणी त्रि-रात्रं तु
स्व-मुखं नैव दर्शयेत् ।
स्व-वाक्यं श्रावयेन् नापि
यावत्स्नाता न शुद्ध्यति ॥सुस्नाता भर्तृ-वदनम्
ईक्षते ऽन्यस्य न क्वचित् ।
अथवा मनसा ध्यात्वा
पतिं भानुं विलोकयेत् ॥न रजक्या न हैतुक्या
तथा श्रमणया न च ।
न च दुर्भ-गया क्वापि
सखित्वं कुरुते सती ॥
भर्तृ-विद्वेषिणीं नारीं
नैषा सम्भाषते क्वचित् ।नैकाकिनी क्वचित् भूयान्
न नग्ना स्नाति वै क्वचित् ॥
नोलूखले न मुसलेन वर्धन्यां दृषद्य् अपि ।
न यन्त्रके न देहल्यां
सती चोपविशेत् क्वचित् ॥विना व्यवाय+++(=सम्भोग)+++-समयं
प्रागल्भ्यं किञ्चिद् +++(न)+++ आचरेत् ।यत्र यत्र रुचिर् भर्तुस्
तत्र प्रेमवती सदा ॥सर्पिर्-लवण-तैलादि-
भक्ष्येऽपि च पतिव्रता ।
पतिं नास्तीति नो ब्रूयाद्
आयासेषु न योजयेत् ॥
तीर्थ-स्नानार्थिनी नारी
पति-पादोदकं पिबेत् ।शङ्कराद् अपि विष्णोर् वा
पतिरेकोऽधिकः स्त्रियाः ॥
इति ॥
मूलम्
स्कान्दे लोपामुद्राप्रशंसाव्याजेन बृहस्पतिः -
पतिव्रतेयं कल्याणी लोपामुद्रा सधर्मिणी ।
तवाङ्गच्छायया तुल्या यत्कथा पुण्यकारिणी ॥
पतिव्रतास्वरुन्धत्या सावित्र्याऽप्यनसूयया ।
शाण्डिल्यया च सत्या च लक्ष्म्या च शतरूपया ॥
मेनया च सुनीत्या च सञ्ज्ञया स्वाहया तथा ।
यथैषा वर्ण्यते श्रेष्ठा न तथाऽन्येति निश्चितम् ॥
अनलङ्कृतमात्मानं तव नो दर्शयेत् क्वचित् ।
कार्यार्थं प्रोषिते क्वापि सर्वमण्डनवर्जिता ॥
न च ते नाम गृह्णाति तवायुष्याभिवृद्धये ।
पुरुषान्तरनामापि न गृह्णाति कदाचन ॥
आक्रुष्टाऽपि न चाक्रोशेत्ताडिताऽपि प्रसीदति ।
इदं कुरु कृतं स्वामिन्मन्यतामिति वक्ति च ॥
आहूता गृहकार्याणि त्यक्त्वाऽऽगच्छति सादरा ।
किमर्थमाहृता नाथ सुप्रसादो विधीयताम् ॥
न चिरं तिष्ठति द्वारि न द्वारमुपसेवते ।
अदापितं त्वया किञ्चित् कस्मैचिन्न ददात्यपि ॥
पूजोपकरणं सर्वमनुक्तं साधयेत्स्वयम् ।
नियमोदकबर्हींषि पत्रपुष्पाक्षतादिभिः ॥
प्रतीक्षमाणाऽवसरं यथाकालोचितं हि यत् ।
तदुपस्थापयेत्सर्वमनुद्विग्नाऽतिहृष्टवत् ॥
सेवेत भर्तुरुच्छिष्टमन्नपानफलादिकम् ।
महान् प्रसाद इत्युक्त्वा पतिदत्तं प्रतीच्छति ॥
अविभज्य च नाश्नीयात् देवपित्रतिथिष्वपि ।
परिचारकवर्गेषु गोषु भिक्षुकुलेषु च ॥
संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी ॥
दूरतो वर्जयेदेषा समाजोत्सवदर्शनम् ।
न गच्छेत्तीर्थयात्रादिविवाहप्रेक्षणादिषु ॥
सुखसुप्तं सुखासीनं रममाणं यथेच्छया ।
आन्तरेष्वपि कार्येषु पतिं नोत्थापयेत् क्वचित् ॥
स्त्रीधर्मिणी त्रिरात्रं तु स्वमुखं नैव दर्शयेत् ।
स्ववाक्यं श्रावयेन्नापि यावत्स्नाता न शुद्ध्यति ॥
सुस्नाता भर्तृवदनमीक्षतेऽन्यस्य न क्वचित् ।
अथवा मनसा द्ध्यात्वा पतिं भानुं विलोकयेत् ॥
न रजक्या न हैतुक्या तथा श्रमणया न च ।
न च दुर्भगया क्वापि सखित्वं कुरुते सती ॥
भर्तृविद्वेषिणीं नारीं नैषा सम्भाषते क्वचित् ।
नैकाकिनी क्वचित् भूयान्न नग्ना स्नाति वै क्वचित् ॥
नोलूखले न मुसले न वर्धन्यां दृषद्यपि ।
न यन्त्रके न देहल्यां सती चोपविशेत्क्वचित् ॥
विना व्यवायसमयं प्रागल्भ्यं किञ्चिदाचरेत् ।
यत्र यत्र रुचिर्भर्तुस्तत्र प्रेमवती सदा ॥
सर्पिर्लवणतैलादिभक्ष्येऽपि च पतिव्रता ।
पतिं नास्तीति नो ब्रूयादायासेषु न योजयेत् ॥
तीर्थस्नानार्थिनी नारी पतिपादोदकं पिबेत् ।
शङ्करादपि विष्णोर्वा पतिरेकोऽधिकः स्त्रियाः ॥
इति ॥
द्राविडम्
स्कान्दत्तिल् लोबामुत्रैयै स्तुदि सॆय्युमिडत्तिल्, प्रुहस्पदि :-
इन्द लोबामुत्रै पदिव्रदै. सधर्मिणी. उन् तेहच्चायै पोण्ड्रवळ्. अवळ् कदैये पुण्यमानदु.
पदिव्रदैगळिल्, अरुन्ददिक्कुम्, सावित्रीक्कुम्, अनसूयैक्कुम्, साण्डिल्यैक्कुम्, सदीदेविक्कुम्, लक्ष्मीक्कुम्, सदरूबैक्कुम्,
मेनैक्कुम् (हिमवान् पत्नी), सुनीदिक्कुम्, सम्ञावुक्कुम् (सूर्य पत्नी), स्वाहावुक्कुम् (अक्नि पत्नी) इवळ् च्रेष्टैयानवळ्. वेऱु ऒरुवरुमिल्लै ऎन्बदु निच्चयम्.
अलङ्गरित्तुक्कॊळ्ळामल् उन् कण्णिल् पडमाट्टाळ्. कार्य वसत्ताल् नी तेसान्दरम् पोयिरुन्दाल् आबरणङ्गळ् पोट्टुक्कॊळ्ळमाट्टाळ्.
उन् आयुळ् व्रुत्तिक्काग उन् पॆयरैच् चॊल्लाळ्. पर पुरुषनिन् पॆयरैच् चॊल्लमाट्टाळ्. तिट्टिनाल् तिट्टमाट्टाळ्.
अडित्तालुम् प्रसन्नमायिरुप्पाळ्. इदैच् चॆय्युङ्गळ्, इदु सॆय्यप् पट्टदु, स्वामिन्! ऎन्बाळ्.
कूप्पिट्टाल् वीट्टुक् कार्यङ्गळै विट्टु आदरवुडन् वरुवाळ्. नाद! ऎदऱ्कुक् कूप्पिट्टीर्गळ्, प्रसादम् सॆय्युङ्गळ्, ऎन्बाळ्.
वायिऱ्पडियिल् वॆगुगालम् निऱ्कमाट्टाळ्. वायिलै सेविक्कमाट्टाळ्. नी सॊल्लामल् ऒण्ड्रैयुम् कॊडुक्कमाट्टाळ्.
पूजात्रव्यङ्गळैच् चॊल्लामले सेगरिप्पाळ्. ताम्बूलम्,अक्षदङ्गळुडन् नियम जलम्, तर्प्पम् इवैगळै अवसरमऱिन्दु उसिद कालत्तिल् वॆऱुप्पिल्लामल् सन्दोषमाय्क् कॊण्डुवरुवाळ्.
भर्त्ताविन् उच्चिष्टमान अन्नम्, पानम्, पऴम् मुदलियवैगळै प्रसादमॆण्ड्रु पदि कॊडुप्पदै वाङ्गिक्कॊळ्वाळ्.
तेवर्गळ्, पित्रुक्कळ्, अदिदिगळ्, परिसारगर्, पसुक्कळ्, पिक्षुक्कळ् इवर्गळुक्कुक् कॊडामल् साप्पिडाळ्.
वीट्टुच् चामान्गळिल् अडक्कमुळ्ळवळायुम्, सॆलविल् पिन्वाङ्गुबवळायुम् इरुप्पाळ्. कूट्टम्, उत्सव तर्सनम् इवैगळैत् तूरत्तिल् विलक्कुवाळ्. तीर्त्तयात्रै, विवाहम् पार्प्पदु इवैगळैत् तूरत्तिल् विडुवाळ्. सङ्गमाय्त् तूङ्गुम्बोदुम्, उट्कार्न्दिरुक्कुम्बोदुम्, कार्यमत्यत्तिलुम्, पदियै ऎऴुप्पमाट्टाळ्.
मूण्ड्रु तिनम् वॆळियिलिरुक्कुम्बोदु तन् मुगत्तैयुम् काट्टमाट्टाळ्. कादिल् विऴुम्बडि पेसवुम् माट्टाळ्.
स्नानम्सॆय्दु भर्त्ताविन् मुगत्तैत् तर्सिप्पाळ्. इल्लाविडिल् भर्त्तावै मनदाल् त्यानित्तु सूर्यनैप् पार्प्पाळ्.
वण्णात्तियुडनुम्, युक्तिवादिनी, सन्यासिनी, तुर्प्पाक्यवदी इवरुडनुम् स्नेहम् वैक्कमाट्टाळ्.
ऒरुवळायिरुक्कमाट्टाळ्. वस्त्रमिल्लामल् स्नानम् सॆय्याळ्. उरल्, उलक्कै, अरिवाळ्मणै, अम्मि, एन्दिरम्, वायिऱ्पडि इवैगळिल् उट्कारमाट्टाळ्.
रहस्य कालम् तविर वेऱु कालङ्गळिल् तैर्यमायिरुक्कमाट्टाळ्. भर्त्तावुक्कु प्रियमान विषयङ्गळिल् प्रेमै कॊळ्वाळ्.
नॆय्, उप्पु, तैलम् इवै कुऱैन्दालुम् इल्लै ऎण्ड्रु सॊल्लमाट्टाळ्. आयासगर कार्यङ्गळिल् एवमाट्टाळ्.
तीर्त्त स्नानत्तै अपेक्षिक्किऱवळ् पदियिन् पाद जलत्तै अरुन्दवेण्डुम्. सिवन्, विष्णु इवर्गळैक् काट्टिलुम्, स्त्रीक्कुप् पदिये अदिगनावान्.
पर-पुम्भिः
विश्वास-प्रस्तुतिः
व्यासः –
लोभिता ऽपि परेणार्थैः
सा सती लोक-भूषणा ।
दैन्येन प्रार्थिता वाऽपि
बलेन विधृता ऽपि वा ॥
वस्त्राद्यैर् वासिता वाऽपि
नैवान्यं भजते सती ।
वीक्षिता वीक्षते नान्यं
हसिता न हसत्य् अपि ॥
भाषिता भाषते नान्यं
सा साध्वी साधुलक्षणा ॥
मूलम्
व्यासः –
लोभिताऽपि परेणार्थैः सा सती लोकभूषणा ।
दैन्येन प्रार्थिता वाऽपि बलेन विधृताऽपि वा ॥
वस्त्राद्यैर्वासिता वाऽपि नैवान्यं भजते सती ।
वीक्षिता वीक्षते नान्यं हसिता न हसत्यपि ॥
भाषिता भाषते नान्यं सा साध्वी साधुलक्षणा ॥
द्राविडम्
व्यासर्:-
पिऱनाल्, पणत्तिनाल् आसै काट्टप्पट्टालुम्, तणिवाय् प्रार्त्तिक्कप्पट्टालुम्, पलत्ताल् पिडिक्कप् पट्टालुम्,
वस्त्रादिगळाल् पोट्रप्पट्टालुम् मट्रवनै अडैयमाट्टाळ्. परबुरुषन् पार्त्ताल् पार्क्कमाट्टाळ्. सिरित्ताल् सिरिक्कमाट्टाळ्.
पेसिनाल् पेसमाट्टाळ्. इवळ् तान् पदिव्रदै.
स्पर्शः
विश्वास-प्रस्तुतिः
स्त्रीणां पर-पुरुष-भाषण-वीक्षण-प्रतिषेधात्
स्पर्शोऽपि +अर्थात् प्रतिषिद्ध्यते ॥
अत एव रामायणे हनुमन्तं प्रति सीता-वचनम् -
भर्तुर् भक्तिं पुरस्-कृत्य
रामाद् अन्यस्य वानर ।
नाहं स्प्रष्टुं तथा गात्रम्
इच्छेयं वानरोत्तम ॥यद् अहं गात्र-संस्पर्शं
रावणस्य गता बलात् ।
अनीशा किं करिष्यामि
ह्यनाथा विवशा सती ॥
इति ॥
भर्तृ-व्यतिरिक्तानाम् अन्येषाम् अपि केषाञ्चित् स्पर्शने अदोषः ।
अथैतां पत्नीम् अन्तरेण वेद्य्-उत्करौ प्रपाद्य
योक्त्रेण सन्नह्यति
+इति बोधायन-सूत्र-व्याख्यानावसरे
दुहितृवद् गुरुत्वात् संस्पर्शो न दुष्यतीति ॥+++(4)+++
तथोक्तं
को नु खल्व् ऋत्विक्षु धर्म इति
य आचार्य
इति भव-स्वामि-भाष्यम् ॥
मूलम्
स्त्रीणां परपुरुषभाषणवीक्षणप्रतिषेधात् स्पर्शोऽपि अर्थात् प्रतिषिद्ध्यते ॥
अत एव रामायणे हनुमन्तं प्रति सीतावचनम् -
भर्तुर्भक्तिं पुरस्कृत्य रामादन्यस्य वानर ।
नाहं स्प्रष्टुं तथा गात्रमिच्छेयं वानरोत्तम ॥
यदहं गात्रसंस्पर्शं रावणस्य गता बलात् ।
अनीशा किं करिष्यामि ह्यनाथा विवशा सती ॥
इति ॥
भर्तृव्यतिरिक्तानामन्येषामपि केषाञ्चित् स्पर्शने अदोषः । अथैतां पत्नीमन्तरेण वेद्युत्करौ प्रपाद्य योक्त्रेण सन्नह्यतीति बोधायनसूत्रव्याख्यानावसरे दुहितृवद्गुरुत्वात् संस्पर्शो न दुष्यतीति ॥ तथोक्तं कोनु खल्वृत्विक्षु धर्म इति य आचार्य इति भवस्वामिभाष्यम् ॥
द्राविडम्
परबुरुषनुडन् पेसुवदुम्, पार्प्पदुम् कूडादॆण्ड्रबडियाल्, तॊडुवदुम् कूडादॆण्ड्रु एऱ्पडुम्.
अप्पडिये रामायणत्तिल्, हनुमानैक् कुऱित्तु सीदैयिन् वाक्यम्:-
भर्त्ताविनिडम् पक्तियाल्, रामनैत् तविर्त्तु वेऱु पुरुषनुडैय शरीरत्तैत् तॊड इष्टप्पडमाट्टेन्.
रावणनुडैय तेहम् पट्टदऱ्कुक् कारणम्, नान् अनादैयायुम्, परादीनैयायुमिरुन्ददुदान्.
भर्त्तावैक् काट्टिलुम् वेऱु सिलर् तॊट्टालुम् तोषमिल्लै. “इवळै वेदिक्कुम् उत्करत्तिऱ्कुम् नडुविल् वैत्तुक् कयिट्राल् कट्टवेण्डुम्” ऎण्ड्र पोदायन सूत् रत्तिन् व्याक्यान समयत्तिल्, कुरुवानदाल् मगळ् पोल् तोषमिल्लै. अप्पडिये सॊल्लुगिऱार्गळ्. ‘रुत्विक्कुगळिल् ऎदु धर्मम्? ऎदु आचार्यनिडत्तिलो अदु’ ऎण्ड्रु पवस्वामि पाष्यम्.
विश्वास-प्रस्तुतिः
पर-पुरुषस्य हनूमतः स्पर्शनं निन्दितवत्या सीतया
अग्नि-स्पर्शनं गुरुत्वाद् अङ्गीकृतम् ।
तथा च रामायणे -
अङ्केनादाय वैदेहीम्
उत्पपात विभावसुर्
इति ।
अग्नेः सीता-पितृत्वं च
अग्नि-भार्यायाः पृथिव्यास् सकाशाद् उत्पन्नत्वात् ॥
अग्नि-भार्यात्वं च पृथिव्यास् तैत्तिरीय-श्रुतौ -
“यमस्य स्वम् ओषधि-द्रव्यं
वेदि-स्तरणार्थं यम-पत्नी-सकाशाद् गृहीतं,
तच् च न प्रत्यर्पितं
तद् वेद्यु-पोषणेन प्रत्यर्पयामि”
इति
“यत् कुसीदम् अप्रतीत्तम्”
इति मन्त्र-तात्पर्यार्थं प्रदर्शयता ब्राह्मणेनोक्तम् -
अग्निर् वाव यम
इयं पृथिवी यमस्य स्त्री
इति,
अग्निर्मूर्धा दिवः ककुत्पतिः पृथीव्या अयम्
इति मन्त्रान्तरं चेति ॥
मूलम्
परपुरुषस्य हनूमतः स्पर्शनं निन्दितवत्या सीतया अग्निस्पर्शनं गुरुत्वादङ्गीकृतम् ।
तथा च रामायणे -
अङ्केनादाय वैदेहीमुत्पपात विभावसुरिति । अग्नेः सीता पितृत्वं च अग्निभार्यायाः पृथिव्यास्सकाशादुत्पन्नत्वात् ॥
अग्निभार्यात्वं च पृथिव्यास्तैत्तिरीयश्रुतौ -
यमस्य स्वमोषधिद्रव्यं वेदिस्तरणार्थं यमपत्नीसकाशाद्गृहीतं तच्च न प्रत्यर्पितं तद्वेद्युपोषणेन प्रत्यर्पयामीति यत्कुसीदमप्रतीत्त[[??]]मिति मन्त्रतात्पर्यार्थं प्रदर्शयता ब्राह्मणेनोक्तम् । अग्निर्वाव[??] यम इयं पृथिवी यमस्य स्त्रीति । अग्निर्मूर्धा दिवः ककुत्पतिः पृथीव्या[[??]] अयमिति मन्त्रान्तरं चेति ॥
द्राविडम्
परबुरुषनान हनुमान् तॊडक्कूडादॆण्ड्र सीदै अक्नि तॊडुवदै सम्मदित्ताळ्, कुरुवागियदाल्.
अप्पडिये रामायणत्तिल्:-
सीदैयै मडियिल् ऎडुत्तुक् कॊण्डु अक्निबगवान् ऎऴुन्दार्, ऎण्ड्रु. अक्नि सीदैयिन् पिदा ऎन्बदुम्, अक्निक्कुप् पार्यैयान पूमियिल् उण्डान पडियाल्.
पूमि अक्नियिन् पार्यै ऎन्बदु तैत्तिरीय श्रुतियिल् :
यमनुडैयदु ओषदि. अदु यमबत्नियिडम् वेदियिल् परप्पुवदऱ्काग वाङ्गिक्कॊळ्ळप्पट्टदु. तिरुप्पिक् कॊडुक्कप्पडविल्लै. अदु वेदियिन् उबोषणत्ताल् तिरुप्पिक्कॊडुक्किऱेन् ऎण्ड्रु ‘यत्कुसीदम्’ ऎन्नुम् मन्द्रत्तै विवरिक्कुम् प्राम्हणत्ताल् एऱ्पडुगिऱदु. अक्निदान् यमन्, पूमिदान् यमबत्नी. ‘अक्निर्मूर्दा’ ऎण्ड्र मट्रॊरु मन्द्रत्तिलुम् इदु वॆळियागिऱदु.
विश्वास-प्रस्तुतिः
पुत्रादीनाम् अपि स्पर्शनं वन-पर्वणि प्रतिपादितम् ॥
धर्मज्ञो बलवान् शूरः
शक्तो राक्षस-पुङ्गवः ॥
(भक्तोऽस्मानौरसः पुत्रो
भीम गृह्णातु मातरम् ॥)
मूलम्
पुत्रादीनामपि स्पर्शनं वनपर्वणि प्रतिपादितम् ॥
धर्मज्ञो बलवान् शूरः शक्तो राक्षसपुङ्गवः ॥
रूपयौवनयुक्ताऽपि गीतनृत्येऽपि कोविदा ।
द्राविडम्
पुत्रादिगळुम् तॊडलामॆण्ड्रु वनबर्वत्तिल्:-
धर्मक्ञनुम्, पलवानुम्, सूरनुमान राक्षसन् (कडोत्कसन्) नम्मैत् तूक्किक्कॊळ्ळट्टुम्. पीमन् तायारैत् तूक्किक्कॊळ्ळट्टुम्.
विश्वास-प्रस्तुतिः
रूप-यौवन-युक्ताऽपि
गीत-नृत्येऽपि कोविदा ।
स्वानुरूपं पतिं दृष्ट्वा
न याति विकृतिं सती ॥
सुरूपं तरुणं रम्यं
कामिनीनां च वल्लभम् ॥
या नेच्छेति परं कामं
सा विज्ञेया महासती ॥
मूलम्
रूपयौवनयुक्ताऽपि
गीतनृत्येऽपि कोविदा ।
स्वानुरूपं पतिं दृष्ट्वा
न याति विकृतिं सती ॥
सुरूपं तरुणं रम्यं
कामिनीनां च वल्लभम्॥
या नेच्छेति परं कामं
सा विज्ञेया महासती ॥
द्राविडम्
रूबम्, यौवनम् पॊरुन्दियवळुम्, कीदम्, नर्त्तनम् इवैगळिल् तेर्न्दवळुम् आयिनुम्, तनक्कु अनुरूबनान पदियैप् पार्त्तु ऎवळ् विगारत्तै अडैय विल्लैयो, सुरूबनायुम्, युवावायुम्, कामिनीगळुक्कु प्रियनायुमुळ्ळवनै ऎवळ् इच्चिक्कविल्लैयो अवळ्दान् नल्ल सात्वी.
पतिः पूज्यतमः
विश्वास-प्रस्तुतिः
अयोध्याकाण्डे सीतां प्रत्य् अनसूयावाक्यम् -
त्यक्त्वा ज्ञातिजनं सीते
मानम् ऋद्धिं च भामिनि ।अवरुद्धं वने रामं
दिष्ट्या त्वम् अनुगच्छसि ॥
दुश्शीलः कामवृत्तो वा
धनैर्वा परिवर्जितः ।
स्त्रीणाम् आर्य-स्व-भावानां
परमं दैवतं पतिः ॥नातो विशिष्टं पश्यामि
बान्धवं विमृशन्त्य् अहम् ।
सर्वत्र योग्यं वैदेहि
तपः कृतम् इवाव्ययम् ॥न त्व् एवम् अवगच्छन्ति
गुण-दोषम् असत्-स्त्रियः ।
काम-वक्तव्य-हृदया
भर्तृ-नाथाश्+++(←तत्पुरुषः)+++ चरन्ति याः ॥
प्राप्नुवन्त्य् अ-यशश् चैव
धर्म-भ्रंशं च मैथिलि ।
अ-कार्य-वशम् आपन्नाः
स्त्रियो याः खलु तद्-विधाः ॥विदितं तु ममाप्य् एतत्
यथा नार्याः पतिर् गुरुः ।
यद्य् अप्य् एष भवेद् भर्ता
ममार्ये वृत्त-वर्जितः ॥
अ-द्वैधम् उपचर्तव्यस्
तथाऽप्य् एष मया भवेत् ।
किं पुनर् यो गुण-श्लाघ्यः
सानुक्रोशो जितेन्द्रियः ॥+++(5)+++
इति ॥
मूलम्
अयोध्याकाण्डे सीतां प्रत्यनसूयावाक्यम् -
त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च भामिनि ।
अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि ॥
दुश्शीलः कामवृत्तो वा धनैर्वा परिवर्जितः ।
स्त्रीणामार्यस्वभावानां परमं दैवतं पतिः ॥
नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् ।
सर्वत्र योग्यं वैदेहि तपः कृतमिवाव्ययम् ॥
नत्वेवमवगच्छन्ति गुणदोषमसत्स्त्रियः ।
कामवक्तव्यहृदया भर्तृनाथाश्चरन्ति याः ॥
प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि ।
अकार्यवशमापन्नाः स्त्रियो याः खलु तद्विधाः ॥
विदितं तु ममाप्येतत् यथा नार्याः पतिर्गुरुः ।
यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितः ॥
अद्वैधमुपचर्तव्यस्तथाऽप्येष मया भवेत् ।
किं पुनर्यो गुणश्लाघ्यः सानुक्रोशो जितेन्द्रियः ॥
इति ॥
द्राविडम्
अयोत्यागाण्डत्तिल् सीदैयैक् कुऱित्तु अनसूयै:-
ज्ञादिगळैयुम्, मानत्तैयुम्, ऐच्वर्यत्तैयुम् विट्टुक् काट्टिलिरुक्कुम् रामनै अनुसरिक्किण्ड्राय्. सन्दोषम्. तुरासारन्, इष्टप्पडि नडप्पवन्, पणमिल्लादवन्, इप्पडि इरुन्दालुम्, सत्स्वबावमुळ्ळ स्त्रीगळुक्कु, भर्त्तावे पॆरिय तेवदै. आलोसित्तालुम् इवनैक् काट्टिलुम् उयर्न्दवन् ऎनक्कुत् तॆन्बडविल्लै. ऎल्लावट्रिऱ्कुम् योक्यन्, तबस्साल् सम्बादिक्कप्पट्टवन्, नासमिल्लादवन्. इदैक् कॆट्ट स्त्रीगळ् अऱिवदिल्लै.
कामत्तिऱ्कु अनुरूबमागच् चॆय्बवर्गळायुम्, भर्त्तावुक्कु नादैगळायुम् तिरिगिऱार्गळ्. अवर्गळ् अगीर्त्तियैयुम्, धर्म नासत्तैयुमडैगिऱार्गळ्. अप्पडिप्पट्टवर्गळ् अगार्यत्तिल् ईडुबडुगिऱार्गळ्.
इदु ऎनक्कुम् तॆरियुम्. स्त्रीक्कु भर्त्तावे कुरु. ऎन् भर्त्ता सीलमट्रवनायिनुम्, सन्देह मिल्लामल् ऎन्नाल् उबसरिक्कत् तगुन्दवनावान्.
आनाल्, च्लाक्य कुणमुडैयवनायुम्, तयावानायुम्, जिदेन्द्रियनायुम् उळ्ळवनैप् पट्रिच् चॊल्लवुम् वेण्डुमा?
विश्वास-प्रस्तुतिः
सङ्ग्रहे –
बाह्याद् आयान्तम् आलोक्य
त्वरिता च जलाशनैः ।
ताम्बूल-व्यजनैश् चैव
पादसंवाहनादिभिः ॥
तथैव चाटु-वचनैः
खेद-सन्नोदनैः परैः ।
या प्रियं प्रीणयेत् प्रीत्या
त्रिलोकी प्रीणिता तया ॥
मितं ददाति हि पिता
मितं भ्राता मितं सुतः ।
अमितस्य हि दातारं
भर्तारं का न पूजयेत् ॥
इति ॥
मूलम्
सङ्ग्रहे –
बाह्यादायान्तमालोक्य त्वरिता च जलाशनैः ।
ताम्बूलव्यजनैश्चैव पादसंवाहनादिभिः ॥
तथैव चाटुवचनैः खेदसन्नोदनैः परैः ।
या प्रियं प्रीणयेत्प्रीत्या त्रिलोकी प्रीणिता तया ॥
मितं ददाति हि पिता मितं भ्राता मितं सुतः ।
अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥
इति ॥
द्राविडम्
सङ्ग्रहत्तिल् :-
वॆळियिलिरुन्दु वरुबवनैप् पार्त्तु वेगमाय् जलम्, साप्पाडु, ताम्बूलम्, विसिऱि, काल् पिडिप्पदु, तुक्कत्तैप् पोक्कुम् साडु वार्त्तैगळ् इवैगळाल् भर्त्तावै प्रीदि सॆय्बवळाल् मूण्ड्रु उलगमुम् प्रीदि सॆय्यप्पट्टदागुम्.
पिदा, सहोदरन्, पिळ्ळै इवर्गळ् कॊञ्जमागक् कॊडुप्पार्गळ्. अबरिमिदमागक् कॊडुक्कुम् भर्त्तावै ऎवळ् पूजिक्कमाट्टाळ्?.