०२ धर्मे प्रवृत्तिः

विश्वास-प्रस्तुतिः

एवं दोष-बाहुल्य-श्रवणात्
कथं धर्मे प्रवृत्तिर् इति चेद् उच्यते -

सोमः शौचं ददौ तासां
गन्धर्वस् तु शुभां गिरम् ।
पावकस् सर्व-मेध्यत्वं
मेध्या वै योषितो ह्य् अतः ॥
स्त्रियः पवित्रम् अतुलं
नैता दुष्यन्ति कर्हिचित् ।
मासि-मासि रजो ह्य् आसां
दुरितान्य् अपकर्षति

इत्यादि मन्वादि वचनैस्
तासां स्वाभाविक-शुचित्वादि-गुणानाम् अवगमात् ॥

निमग्नश् च समुत्थाय
पुनः प्राह महामुनिः ।
योषितस् साधु, धन्यास् तास्
ताभ्यो धन्यतरोऽस्ति कः ॥

इति व्यास-वचनं श्रुत्वा
“कोऽस्यार्थ” इति पृष्टवतो मुनीन् प्रति व्यासः -

या स्त्री शुश्रूषणाद् भर्तुः
कर्मणा मनसा गिरा ।
तद्-धिता समवाप्नोति
तत्-सालोक्यं यतो द्विजाः ॥

नाति-क्लेशेन महता
तान् एव पुरुषो यथा ।
तृतीयं व्याहृतं तेन
मया साध्व् इति योषिताम् ॥

तथा स्त्रीभिर् अनायासात्
पति-शुश्रूषयैव हि ।
ततस् तृतीयम् अप्य् एतन्
मम धन्यतरं मतम् ॥

इति विष्णु-पुराण-वचनेन
स्त्रीणां स्व-भावतो धन्यत्वावगमाद् अपि ॥

निरूपित-दोषाणां तु
“आचारो हन्त्य् अलक्षणम्” इति वचनात्,
धर्माणां श्रवणे, तद्-आचरणे च प्रवृत्तिर् युक्तैव ।+++(5)+++
सदाचारेण निवृत्तिः सम्भवतीति ॥

मूलम्

एवं दोषबाहुल्यश्रवणात् कथं धर्मे प्रवृत्तिरीति चेदुच्यते -

सोमः शौचं ददौ तासां गन्धर्वस्तु शुभां गिरम् ।
पावकस्सर्वमेध्यत्वं मेध्या वै योषितो ह्यतः ॥
स्त्रियः पवित्रमतुलं नैता दुष्यन्ति कर्हिचित् ।
मासिमासि रजो ह्यासां दुरितान्यपकर्षति ॥

इत्यादि मन्वादि वचनैस्तासां स्वाभाविकशुचित्वादि गुणानामवगमात् ॥

निमग्नश्च समुत्थाय पुनः प्राह महामुनिः ।
योषितस्साधु धन्यास्तास्ताभ्यो धन्यतरोऽस्ति कः ॥

इति व्यासवचनं श्रुत्वा कोऽस्यार्थ इति पृष्टवतो मुनीन् प्रति व्यासः -

या स्त्री शुश्रूषणाद्भर्तुः कर्मणा मनसा गिरा ।
तद्धिता समवाप्नोति तत्सालोक्यं यतो द्विजाः ॥
नातिक्लेशेन महता तानेव पुरुषो यथा ।
तृतीयं व्याहृतं तेन मया साध्विति योषिताम् ॥
तथा स्त्रीभिरनायासात्पतिशुश्रूषयैव हि ।
ततस्तृतीयमप्येतन्मम धन्यतरं मतम् ॥

इति विष्णुपुराणवचनेन स्त्रीणां स्वभावतो धन्यत्वावगमादपि ॥

निरूपितदोषाणां तु आचारो हन्त्यलक्षणमिति वचनात्, धर्माणां श्रवणे तदाचरणे च प्रवृत्तिर्युक्तैव । सदाचारेण निवृत्तिः सम्भवतीति ॥

द्राविडम्

इव्विदम् पल तोषमिरुप्पदाल्, अवर्गळुक्कु धर्मत्तिल् प्रव्रुत्ति ऎप्पडि? इदऱ्‌कु समाधानम्:

अवर्गळुक्कु सोमन् सुत्तियैयुम्, कन्दर्वन् नल्ल वार्त्तैयैयुम्, अक्नि सर्व सुत्तियैयुम् कॊडुत्तनर्. आगैयाल् स्त्रीगळ् सुत्तैगळ्. स्त्रीगळ् उवमैयट्र सुत्तैगळ्. ऒरुबोदुम् अवर्गळुक्कु असुत्तियिल्लै. प्रदिमादम् रदस्साल् अवर्गळ् पाबम् पोगिऱदु.

इम्मुदलान मन्वादि वसनङ्गळाल् अवर्गळुक्कु स्वबावमान सुत्ति उण्डॆण्ड्रु पुलप्पडुगिऱदु.

मुऴुगि मऱुबडियुम् ऎऴुन्दिरुन्दु मुनि सॊल्लुगिऱार्
स्त्रीगळ् महा पाक्यसालिगळ्. अवरैविड अदिग पाक्यम् पडैत्तवर् यार्?

ऎण्ड्र व्यास वसनत्तैक् केट्टु, इदऱ्‌कु अर्त्तमॆन्न ऎण्ड्रु केट्कुम् मुनिगळैक् कुऱित्तु व्यासर्:

ऎन्द स्त्री कर्मत्तालुम्, वाक्कालुम्, मनदालुम् भर्त्तावुक्कुच् चुच्रूषैयिनाल् अवनुक्कु हिदम् सॆय्गिऱाळो अवळ् अवनुडैय सालोक्यत्तै अडैगिऱाळ्. स्त्रीगळुक्कु मूण्ड्रावदु तडवै सादु ऎण्ड्रु सॊन्नेन्. आगैयाल् स्त्रीगळ् आयासमिण्ड्रि पदि शुश्रूषैयालेये सालोक्यत्तै यडैयलाम्.

इन्द विष्णुबुराण वसनत्ताल् स्वबावमाग तन्यर्गळ् ऎण्ड्रु पुलप्पडुगिऱबडियालुम् अप्पडिये.

मुन् सॊन्न तोषङ्गळोवॆनिल्, आचारम् तोषत्तैप् पोक्कुगिण्ड्रदु ऎण्ड्र वसनत्ताल् सदासरणत्ताल् निव्रुत्ति एऱ्‌पडुगिण्ड्रमैयाल् अवर्गळुक्कु धर्मङ्गळैक् केट्पदिलुम् आसरिप्पदिलुम् प्रव्रुत्ति वरुवदु न्यायमे.