०१ स्व-भाव-दुष्टता

विश्वास-प्रस्तुतिः

ननु स्व-भावतो दुष्टानां स्त्रीणां
निरूपित-धर्म-श्रवणे च कथं प्रवृत्तिः?
स्त्रीणां स्वाभाविका दोषाश् च बहुलम् अवगम्यन्ते ॥

तथा चानुशासनिके -

चल-स्वभावा दुस्-सेव्या
दुर्-ग्राह्या भावतस् तथा ।
प्राज्ञस्य पुरुषस्येह
यथा वाचस् तथा स्त्रियः ॥
शम्बरस्य च या माया
या माया नमुचेर् अपि ।
बलेः कुम्भीनसेश् चैव
सर्वास् ता योषितो विदुः

यतश्च भूतानि महान्ति पञ्च
यतश्च लोका विहिता विधात्रा ।
यतः पुमांसः प्रमदाश् च निर्मितास्
तदैव दोषाः प्रमदासु नारद ॥

इति ॥

मनुः –

पौंश्चल्याच् चल-चित्ताश् च
निस्स्नेहाश् च स्व-भावतः ।
रक्षिता यत्नतो ऽपीह
भर्तृष्व् एता विकुर्वते
शय्यासन-मलङ्-कारं
कामं क्रोधम् अनार्जवम् ।
द्रोह-भावं कुचर्यां च
स्त्रीभ्यो मनुर् अकल्पयत्

मूलम्

ननु स्वभावतो दुष्टानां स्त्रीणां निरूपितधर्मश्रवणे च कथं प्रवृत्तिः? स्त्रीणां स्वाभाविका दोषाश्च बहुलमवगम्यन्ते ॥

तथा चानुशासनिके -

चलस्वभावा दुस्सेव्या दुर्ग्राह्या भावतस्तथा ।
प्राज्ञस्य पुरुषस्येह यथा वाचस्तथा स्त्रियः ॥
शम्बरस्य च या माया या माया नमुचेरपि ।
बलेः कुम्भीनसेश्चैव सर्वास्ता योषितो विदुः ॥

यतश्च भूतानि महान्ति पञ्च यतश्च लोका विहिता विधात्रा ।
यतः पुमांसः प्रमदाश्च निर्मितास्तदैव दोषाः प्रमदासु नारद ॥

इति ॥

मनुः –

पौंश्चल्याच्चलचित्ताश्च निस्नेहाश्च स्वभावतः ।
रक्षिता यत्नतोऽपीह भर्तृष्वेता विकुर्वते ॥
शय्यासनमलङ्कारं कामं क्रोधमनार्जवम् ।
द्रोहभावं कुचर्यां च स्त्रीभ्यो मनुरकल्पयत् ॥

द्राविडम्

केळ्वि:-

स्वबावमागत् तुष्टैगळान स्त्रीगळुक्कु निर् निरूबित्त धर्मच्रवणत्तिल् ऎप्पडि च्रत्तै एऱ्‌पडुम्? स्त्रीगळुक्कु स्वाबाविगमान पल तोषङ्गळ् पल इडङ्गळिलुम् तॆन्बडुगिण्ड्रन.

अनुसासनिगबर्वत्तिल्:-

स्त्रीगळ् सञ्जल स्वबावमुळ्ळवर्गळ्. अवर्गळै अनुसरिप्पदु इयलादु. अवरबिप्रायत्तै अऱियमुडियादु. पुत्तिमान्गळिन् वार्त्तैगळ् पोल् स्त्रिगळ्. सम्बरन्, नमुसि, पलि, कुम्बीनसि इवर्गळुडैय ऎल्ला मायैगळुम् स्त्रीगळुक्कु उण्डु. ऎन्दक् कालत्तिल् पञ्ज पूदङ्गळुम्, सगल लोकङ्गळुम् निर्माणम् सॆय्यप्पट्टनवो, ऎप्पॊऴुदु पुरुषर्गळुम्, स्त्रीगळुम् स्रुष्टिक्कप्पट्टनरो अदुमुदल् स्त्रीगळिल् तोषमुण्डु.

मनु:-

स्त्रीगळ् स्वबावमागप् पुरुषर्गळिल् सञ्जलमानदालुम्, स्नेगमिल्लामैयालुम्, यत्नत्ताल् रक्षिक्कप्पट्टबोदिलुम्, भर्त्ताविनिडम् प्रदिगूलैगळागिऱार्गळ्. सयनम्, आसनम्, अलङ्गारम्, कामम्, कोबम्, नेर्मैयिल्लामै, त्रोहम्, कॆट्ट आसरणम् इवैगळै मनु स्त्रीगळुक्कु स्रुष्टित्तार्.

विश्वास-प्रस्तुतिः

रामायणेऽपि -

न कुलं न कृतं विद्यां
न दत्तं नापि सङ्ग्रहम् ।
स्त्रीणां गृह्णाति हृदयम्
अनित्य-हृदया हि ताः ॥
एषा हि प्रकृतिः स्त्रीणाम्
आसृष्टे रघुनन्दन ।
सम-स्थम् अनुरज्यन्ति
विषम-स्थं त्यजन्ति च ॥
शत-ह्रदानां लोलत्वं
शस्त्राणां तीक्ष्णतां तथा ।
गरुडानिलयोश् शैघ्र्यम्
अनुगच्छन्ति योषितः ॥
क्षुर-धारा विषं सर्पो
वह्निर् अत्येकतः स्त्रियः ॥

अयोध्या-काण्डे सीतां प्रत्य् अनसूया -

न त्व् एवम् अवगच्छन्ति
गुण-दोषम् अ-सत्-स्त्रियः ।
काम-वक्तव्य-हृदया
भर्तृ-नाथाश्+++(←तत्पुरुषः)+++ याः ॥
प्राप्नुवन्त्य् अ-यशश् चैव
धर्म-भ्रंशं च मैथिलि ।
शील-भङ्गेन दुर्वृत्ताः
पातयन्ति कुल-त्रयम् ॥
पितुर् मातुस् तथा पत्युर्
इहामुत्र च दुःख-दाः ॥+++(4)+++

इति ॥

विस्तरस् तु रामायण-धर्माकूते द्रष्टव्यः ॥

मूलम्

रामायणेऽपि -

न कुलं न कृतं विद्यां न दत्तं नापि सङ्ग्रहम् ।
स्त्रीणां गृह्णाति हृदयमनित्यहृदया हि ताः ॥
एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन ।
समस्थमनुरज्यन्ति विषमस्थं त्यजन्ति च ॥
शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा ।
गरुडानिलयोश्शैघ्र्यमनुगच्छन्ति योषितः ॥
क्षुरधारा विषं सर्पो वह्निरत्येकतः स्त्रियः ॥

अयोध्याकाण्डे सीतां प्रत्यनसूया -

न त्वेवमवगच्छन्ति गुणदोषमसत्स्त्रियः ।
कामवक्तव्यहृदया भर्तनाथाश्चरन्ति याः ॥
प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि ।
शीलभङ्गेन दुर्वृत्ताः पातयन्ति कुलत्रयम् ॥
पितुर्मातुस्तथा पत्युरिहामुत्र च दुःखदाः ॥

इति ॥

विस्तरस्तु रामायणधर्माकूते द्रष्टव्यः ॥

द्राविडम्

रामायणत्तिलुम्:-

कुलम्, सॆय्गै, वित्यै, तानम्, सेर्क्कै, इवै ऒण्ड्रुम् स्त्री मनदै वसप्पडुत्तादु. अवर्गळ् मनम् अनित्यम् (सञ्जलम्.) ओ! रगुनन्दन ! स्रुष्टियिलिरुन्दु स्त्रीगळुक्कु स्वबावमॆन्नवॆण्ड्राल्, नल्ल स्तिदियिलिरुप्पवनिडम् स्नेहम्, तुक्कत्तिलिरुप्पवनै विट्टुविडुवदु ऎन्बदु. मिन्नल्गळिन् साञ्जल्बम्, पाणङ्गळिन् कूर्मै, करुडन्,वायु इवर्गळिन् सीक्रगदि इवैगळै स्त्रीगळ् अनुसरिक्किऱार्गळ्. कत्तिमुनै, विषम्, सर्प्पम्, अक्नि इवर्गळिन् कूट्टत्तैच् चेर्न्दवर्गळ् स्त्रीगळ्.

अयोत्यागाण्डत्तिल् सीदैयैक् कुऱित्तु अनसुयै:-

असत्स्त्रीगळ् इव्विदमागिऱदिल्लै. कामत्तिऱ्‌कुप् परादीन ह्रुदयमुळ्ळवर्गळायुम्, भर्त्तावुक्कु नादैगळायुम् सञ्जरिक्किण्ड्रनर्. अवर्गळ् अगीर्त्तियैयुम्, धर्म नासत्तैयुमडैगिऱार्गळ्. सीलत्तिन् नासत्ताल् पिदा, मादा, भर्त्ता इवर् मूवरुडैय कुलङ्गळैयुम् नासम् सॆय्गिऱार्गळ्. इदन् विस्तरत्तै रामायण धर्मागूदत्तिल् अऱिग.