परिवेषणम्
विश्वास-प्रस्तुतिः
परिवेषणम् अपि स्त्रीधर्मः॥
अत एवादिपर्वणि उत्तङ्कोपाध्यायिन्याः परिवेषणमुक्तम् । सैवमुक्ता उपाध्यायिनी उत्तङ्कमुवाच, गच्छ, पौष्यं भिक्षस्व, तस्य क्षत्रियया ये पिनद्धे कुण्डले स्तः । ते आनयस्वेति । इतश्चतुर्थेऽहनि पुण्यकं भविता । ताभ्याम् आबद्धाभ्यां ब्राह्मणान् परिवेष्टुमिच्छामि । शोभयमानां मां यथा ताभ्यां कुण्डलाभ्यां तस्मिन्नहनि सम्पादयामि । श्रेयो हि ते स्याद्भिक्षणं कुर्वत इति ॥
मूलम्
परिवेषणमपि स्त्रीधर्मः

द्राविडम्
परिमाऱुवदु स्त्रीयिन् धर्मम्
अदनाल्दान् आदिबर्वत्तिल्, उत्तङ्गरिन् कुरुबत्नी परिवेषणम् सॆय्ददागच् चॊल्लप्पडुगिऱदु. उबात्यायबत्नी उत्तङ्गरैप् पार्त्तुच् चॊल्लुगिऱाळ्. नी पोय् पौष्यनैक् केट्टु, अवन् पत्नी पूण्डिरुक्कुम् कुण्डलङ्गळै यासित्तु इङ्गु कॊण्डुवा. इण्ड्रुमुदल् नान्गावदु तिनत्तिल् उत्सवम् वरुगिऱदु. अप्पॊऴुदु अवैगळैप् पूण्डु, परिमाऱ इच्चिक्किऱेन्. अन्दक् कुण्डलङ्गळाल् अण्ड्रु ऎन्नै अलङ्गरित्तुक्कॊळ्ळवेण्डुम्. ऎनक्काग नी यासित्ताल् उनक्कु नन्मै एऱ्पडुम.
विश्वास-प्रस्तुतिः
वनपर्वणि द्रौपद्याः परीवेषणमुक्तं -
पतींस्तु द्रौपदी सर्वान् द्विजांश्चैव यशस्विनी ।
मातेव भोजयित्वाऽग्रे शिष्टमाहारयत्तदा ॥
इति ॥
आग्नेयपुराणेऽपि -
यदिष्टं भोजने भर्तुस्तत्सम्पाद्याहरेत् स्वयमिति ॥
व्यासोऽपि -
स्वयं प्रक्षाळ्य पात्राणि दत्तमन्नं तु भार्यया ।
भोक्तव्यं सघृतं सोष्णं हितं पथ्यं मितं सदेति ॥
भर्तुर्भोजनसमये पत्न्या समीपे न स्थेयम् ।
तथा च याज्ञवल्क्यः -
न भार्यादर्शनेऽश्नीयान्नैकवासा न संस्थितः ॥
पत्न्याः सन्निधाने दोषमाह श्रुतिः -
जायाया अन्ते नाश्नीयादवीर्यवदपत्यं भवतीति ॥

वनबर्वत्तिल् त्रौबदी परिमाऱुदल् उरैक्कप्पट्टिरुक्किऱदु.
त्रौबदी तन् भर्त्ताक्कळैयुम्, प्राम्हणर्गळैयुम् ताय्बोल् मुदलिल् पोजनम् सॆय्वित्तु मीदियैयरुन्दिनाळ्.
आक्नेय पुराणत्तिलुम्:-
पोजनत्तिल् भर्त्तावुक्कु इष्टत्तै सम्बादित्तुत् ताने परिमाऱवेण्डुम्.
व्यासरुम्:-
इलैगळैत् तानागवे अलम्बिक्कॊण्डु पार्यैयाल् कॊडुक्कप्पट्ट उष्णमान अन्नत्तै नॆय्युडन् पुजिक्क.
भर्त्ता साप्पिडुम्बोदु पत्नी समीबत्तिलिरुक्कलागादु. याज्ञ्यवल्क्यर्:-
पार्यै पार्क्कुम्बोदुम्, ऒरु वस्त्रत्तुडनुम्, निण्ड्रुगॊण्डुम् पुजिक्कादे.
पत्नी समीबत्तिलिरुन्दाल् तोषत्तै वेदम् कूऱुगिऱदु.
पार्यैयिन् समीबत्तिल् पुजिक्कलागादु. वीर्यमट्र सन्ददि उण्डागुम्.
विश्वास-प्रस्तुतिः
परिवेषणसमये अन्नादिकं हस्तेन न परिवेषणीयम् ॥
तथा च शातातपः -
हस्तदत्तानि चान्नानि प्रत्यक्षलवणं तथा ।
मृत्तिकाभक्षणं चैव गोमांसाभ्यशनं स्मृतम् ॥
लवणं व्यञ्जनं चैव घृतं तैलं तथैव च ।
लेह्यं पेयं च विविधं हस्तदत्तं न भक्षयेत् ॥
यमः -
हस्तदत्ता तु या भिक्षा लवणव्यञ्जनानि च ।
भोक्ता ह्यशुचितां याति दाता स्वर्गं न गच्छति ॥
हस्तदत्तास्तु ये स्नेहा लवणव्यञ्जनानि च ।
दातारं नोपतिष्ठन्ते भोक्ता भुञ्जीत किल्बिषम् ॥
अत्रिः -
घृतं वा यदि वा तैलं ब्राह्मण्या नखनिस्सृतम् ।
अभोज्यं तद्विजानीयात् भुक्त्वा चान्द्रायणं चरेत् ॥
आपस्तम्बः -
घृतं तैलं च लवणं पानीयं पायसं तथा ।
भिक्षा च हस्तदत्ता तु न ग्राह्या यत्र कुत्रचित् ॥
तस्मादन्तर्हितं चानं पर्णेन च तृणेन वा ॥
प्रदद्यान्न तु हस्तेनेति ॥

परिमाऱुम्बोदु कैयाल् परिमाऱलागादु.
अप्पडिये सादादबर्:-
कैयाल् कॊडुक्कप्पट्ट अन्नम्, प्रत्यक्षलवणम्, मण् तिन्बदु इवै कोमाम्सम् पुजिप्पदुक्कु समम्. कैयाल् इडप्पट्ट उप्पु, कऱिगाय्, नॆय्, ऎण्णॆय्, लेह्यम्, कुडिक्कुम् रसम् मुदलियदैप् पुजिक्कादे.
यमन्:-
कैयालिडप्पट्ट पिक्षै, लवणम्, काय्गऱि इवैगळैच् चाप्पिडुबवन् असुत्तनागिऱान्. कॊडुप्पवनुक्कु स्वर्क्कमिल्लै. कैयालिडप्पट्ट नॆय् मुदलिय स्नेहङ्गळ्, उप्पु, काय्गऱिगळ् कॊडुप्पवनुक्कुप् पोवदिल्लै. साप्पिडुबवन् पाबत्तैच् चाप्पिडुगिऱान्.
अत्रिः -
नॆय्, तैलम् प्राम्हणियिन् नगत्तिलिरुन्दु विऴुन्ददु पुजिक्कत्तक्कदल्ल. पुजित्ताल् सान्द्रायणम् सॆय्ग.
आबस्तम्बर्:-
कैयालिडप्पट्ट नॆय्, ऎण्णॆय्, उप्पु, पानङ्गळ्, पिक्षै इवैगळै स्वीगरिक्कादे. आगैयाल् इलैयाल्, अल्लदु तुरुम्बाल् मूडप्पट्ट अन्नत्तैप् परिमाऱवेण्डुम्. कैयालल्ल.
विश्वास-प्रस्तुतिः
तच्च परिवेषणं दर्व्यादिना कर्तव्यम् ।
तथा चापस्तम्बः -
दर्व्या देयं कृतान्नं च समस्तव्यञ्जनानि चेति ॥
उदकादेः अदर्व्या परिवेषणे दोषमाह स एव -
उदकं यच्च पक्वान्नं योऽदर्व्या दातुमिच्छति ।
स भ्रूणहा सुरापश्च स स्तेनो गुरुतल्पगः ॥
तैलपक्वमपक्वं च न तु दर्व्या कदाचन ॥
इति ॥
आयसेन पात्रेण परिवेषणे दोषमाह पराशरः -
आयसेन तु पात्रेण यदन्नमुपदीयते ।
शुनोच्छिष्टमसौ भुङ्क्ते दाता तु नरकं व्रजेत् ॥
अयःपात्रमयोग्यं स्यात् स्नानाचमनकर्मसु ॥

अदैयुम् करण्डियाल् सॆय्यवुम्.
अप्पडिये आबस्तम्बर्:-
पक्वान्नमुम्, सर्व व्यञ्जनङ्गळुम् करण्डियालिडवुम्.
जलम् मुदलियवैगळैक् कैयाल् परिमाऱिनाल् तोषम्.
आबस्तम्बरे:-
जलम्, पक्वान्नम् इवैगळै ऎवन् कैया लिडुगिऱानो. अवन् पञ्जमहाबादगी. तैलबक्वम्,अबक्वम् इवैगळैक् काण्डियाल् इडक्कूडादु.
इरुम्बुप् पात्तिरत्ताल् परिमाऱिनाल् तोषम्.
परासरर् :-
इरुम्बुप् पात्रत्ताल् परिमाऱिय अन्नम्, नाय् तिण्ड्र मीदिक्कुच् चमम्. कॊडुप्पवन् नरगम् पोगिऱान्. स्नान आसमनादिगळिल् इरुम्बुप्पात्रम् योक्यमल्ल.
विश्वास-प्रस्तुतिः
परिवेषणसमये एकपङ्क्त्युपविष्टानां स्नेहादिना विषमपरिवेषणं न कर्तव्यम् । तथा च वसिष्ठः -
यद्येकपङ्क्तौ विषमं ददाति स्नेहाद्भयाद्वा यदि वाऽर्थहेतोः ।
वेदैश्च दृष्टामृषिभिश्च गीतां तां ब्रह्महत्यां मुनयो वदन्ति ॥
इति ॥
भर्तुः पादवन्दनं कृत्वा भोक्तव्यम् । तथा च स्कान्दे -
स्त्रीणां हि परमश्चैको नियमस्समुदाहृतः ।
अभ्यर्च्य चरणौ भर्तुः भोक्तव्यमिति निश्चयः ॥
इति ॥
भर्तुर्भुक्तोच्छिष्टं पत्न्या भोक्तव्यम् । तथा च मनुः -
पीत्वाऽऽपोशनमश्नीयात् पात्रदत्तमगर्हितम् ।
भार्याभृतकदासेभ्यः उच्छिष्टं शेषयेत् ततः ॥
व्यासः –
सेवेत भर्तुरुच्छिष्टमन्नपानफलादिकम् ।
महान् प्रसाद इत्युक्त्वा पतिदत्तं प्रतीच्छती ॥

परिमाऱुम्बोदु, ऒरु पन्दियिलिरुप्पवरुक्कु स्नेहत्ताल् सममिल्लामल् परिमाऱक्कूडादु. अदैये वसिष्ठर्:
ऒरु पन्दियिलिरुप्पवनुक्कु, स्नेहत्ताल्, अल्लदु पयत्ताल्, अल्लदु पणत्तिऱ्काग विषममाग इडुबवन्, वेदत्तालुम्, रुषिगळालुम् सॊल्लप्पट्ट प्रम्हत्यैयै अडैवान्.
भर्त्तावुक्कुप् पाद नमस्कारम् सॆय्दु साप्पिडवेण्डुम्. अप्पडिये स्कान्दत्तिल्:
स्त्रीगळुक्कु ऒरु पॆरिय नियमम्. अदावदु, भर्त्ताविन् पादङ्गळैप् पूजित्तुच् चाप्पिडवेण्डुम् ऎन्बदु.
भर्त्ता साप्पिट्ट मीदियैप् पत्नि साप्पिडवेण्डुम्. अप्पडिये मनु:
आबोसनमरुन्दि, इलैयिल् पोट्ट अन्नत्तै निन्दिक्कामल् साप्पिट्टु, पार्यै, वेलैक्कारर्गळुक्कु मीदि वैक्कवुम्.
व्यासर्:-
अन्नम्, पानम्, पऴम् मुदलियदैप् भर्त्ताविन् तिण्ड्र मीदियै सेविक्कवुम्. महाप्रसादम् ऎण्ड्रु सॊल्लि, पदि कॊडुत्तदै वाङ्गिक्कॊळ्ग.
भोजन-क्रमः
विश्वास-प्रस्तुतिः
भर्तुर्भोजनानन्तरमेव स्त्रिया भोजनमाह व्यासः
देवतातिथिभृत्यानां निर्वाप्य पतिना सह ।
शेषान्नमुपभुञ्जाना यथान्यायं यथाविधि ॥
तुष्टपुष्टजना नित्यं नारी धर्मेण युज्यते ॥
इति ॥
स्वभोजनसमये स्त्रीभिर्ज्येष्ठादेव्यै बलिदानं कर्तव्यम् । तथा च मनुः
न ददाति च या नारी ज्येष्ठायै प्रत्यहं बलिम् ।
भोज्यादन्नाद्यथाशक्ति सा प्रेत्य नरकं व्रजेत् ॥
अवश्यमेव नारीभीर्ज्येष्ठायै बलिकर्मणा ।
प्रीणनं प्रत्यहं कार्यं पुत्रपौत्रधनेप्सुभिः ॥
इति ॥
भर्त्रभुङ्क्तमन्नपानादि पत्न्या वर्जनीयम् । तथा च व्यासः -
यच्च भर्ता न पिबति यच्च भर्ता न खादति ।
यच्च भर्ता न चाश्नाति तत् सर्वं वर्जयेत् सती ॥

भर्त्ता साप्पिट्ट पिऱगे पार्यै साप्पिडुग. व्यासर् :-
तेवर्, अदिदि, वेलैयाट्कळुक्कुप् पदियुडन् कॊडुत्तुविट्टु मीदियै विधि नियायप्पडि साप्पिडुबवळागवुम्, तुष्टि. पुष्टियुळ्ळ परिजनमुडैयवळायुमुळ्ळ स्त्री धर्मत्तैयडैवाळ्.
तान् साप्पिडुम्बोदु स्त्रीगळ् मूत्त तेविक्कुप् पलि कॊडुक्कवेण्डुम्. अदै मनु:
ऎन्द स्त्री प्रदिदिनमुम्, मूदेविक्कु सक्त्यनुसारम् पलि कॊडुक्कविल्लैयो अवळ् नरगत्तैयडैवाळ्. अवच्यमाग, पुत्रबौत्र तनङ्गळै अपेक्षिक्किऱवळ् तिनन्दोऱुम् मूदेविक्कुप् पलि कॊडुक्कवुम्.
भर्त्ता साप्पिडाद अन्न पानङ्गळै पत्नी तळ्ळ वेण्डुम्. अदै व्यासर्:
ऎदैप् भर्त्ता कुडिक्कविल्लैयो, साप्पिडविल्लैयो, तिन्नविल्लैयो अवैगळै सदी विलक्कवेण्डुम्.
भर्त्तावै विट्टु स्त्री विरुन्दु साप्पिडक्कूडादु. अदै स्कान्दत्तिल्:-
विश्वास-प्रस्तुतिः
स्त्रिया भर्तारं विहाय मृष्टमन्नं न भोक्तव्यम् । तथा च स्कान्दे
या भर्तारं परित्यज्य मृष्टमश्नाति केवलम् ।
ग्रामे सा सूकरी भूयाद्वल्गुली वा स्वविट्भुजा ॥
पश्यति प्रिये पत्न्या न भोक्तव्यम् । तथा च व्यासः -
भोजनं वमनं निद्रां परिधानं च वाससाम् ।
प्रारम्भं मण्डनानां च न कुर्यात् पश्यति प्रिये ॥
इति ॥
भोजनानन्तरकृत्यमाह शाण्डिल्यः -
माषादिचूर्णैर्मृद्भिर्वा प्रक्षाल्य करयोर्द्वयम् ।
प्रक्षाल्य जानुपादौ च काष्ठैर्दन्तान् विशोधयेत् ॥
स्मृत्यर्थसारेऽपि ततो हस्तौ सम्मृज्य परिस्राव्याङ्गुष्ठाभ्यां चक्षुषो निषिच्य चक्षुषी स्पृष्ट्वा अप उपस्पृश्येष्टदेवतां स्मरेदिति ॥

ऎवळ् पदियै विट्टु विरुन्दुण्गिऱाळो अवळ् क्रामप् पण्ड्रियागवो, तन् विष्टयैप् पुसिक्कुम् वल्गुळीयागवो पिऱप्पाळ्.
पदि पार्क्कुम् पोदु स्त्री साप्पिडक्कूडादु. व्यासर्:
पोजनम्, वान्दि, तूक्कम्, आडैयणिदल्, पूषणमणिदल् इवैगळैप् पदि पार्क्कुम्बोदु सॆय्यक्कूडादु.
पोजनत्तिऱ्कुप् पिऱगु सॆय्यवेण्डियदैक् कूऱुगिऱार् साण्डिल्यर्:
उळुन्दु मुदलियदिन् मावाल्, अल्लदु मण्णाल् इरण्डु कैगळैयुम् अलम्बि, पादम् मुऴङ्गाल्गळैयुम् अलम्बि, कुच्चियाल् पल्लै विळक्कवुम्.
स्म्रुत्यर्त्त सारत्तिलुम्:–
पिऱगु कैगळैत् तुडैत्तु जलत्तुडन् कूडिय कट्टै विरल्गळाल् कण्गळै अलम्बि, कण्गळैत्तॊट्टु, आसमनम् सॆय्दु, इष्ट तेवदैयै स्मरिक्कवुम्.
शोधनम्
विश्वास-प्रस्तुतिः
तदनन्तरकृत्यमाहापस्तम्बः -
यत्र भुज्यते तत् समूह्य निर्हत्यावोक्ष्य तं देशममत्रेभ्यो लेपान् सङ्कृष्याद्भिस्संसृज्योत्तरतः शुचौ देशे रुद्राय निनयेदेवं वास्तु शुभं भवति ॥
अत्रोज्वला –
यत्र स्थाने भुज्यते तत् समूह्य समूहन्या[[??]] तत्रत्यमुच्छिष्टादिकं समूह्य समुही[[ही??]]कृत्य निर्हरेदन्यत्र, निर्हृत्य तं देशमवोक्षेत् । अवोक्ष्य ततोऽमत्रेभ्यः येषु काले पाकः कृतः तान्यमत्राणि ।
तथा चामरः -सर्वमावपनं भाण्डं पात्रामत्रे च भाजनमिति ।
तेभ्यो लेपान् व्यञ्जनान्नलेपान् सङ्कृष्याद्भिः संसृज्य गृहस्योत्तरतः शुचौ देशे रुद्रायेदमस्त्विति निनयेत् । रुद्राय नमोऽस्त्विति कोशान्तरम् । एवं वास्तु शिवं भवति समृद्धं भवतीत्यर्थः ।
इति ॥
भुक्त्वा तु सुखमासीनः ताम्बूलेनास्यशोधनम् । शुण्ठ्यामलकधातूनामेकेनाथ विशोधनम् ॥
सुपूगञ्च सुपत्रञ्च चूर्णेन च समन्वितम् ।
प्रदद्यात् द्विजदेवेभ्यस्ताम्बूलं चर्वयेत् ततः ॥

अदन् पिऱगु सॆय्यवेण्डियदैप्पट्रि आबस्तम्बर्:-
साप्पिडुमिडत्तैप् पॆरुक्कि, कुप्पैयैयळ्ळि, प्रोक्षित्तु, पात्रङ्गळैच् चुत्ति सॆय्दु, जलत्ताल् अलम्बि, वडक्कुप् पागत्तिल् सुत्त इडत्तिल् रुत्रनुक्कु अलम्बिय जलत्तै विडुग. इप्पडि वीडु सुबमागुम्.
इव्विडम् उज्वलै:-
पात्रङ्गळिल् ऒट्टिक्कॊण्डिरुक्कुम् मीदिगळै अलम्बि, वडबागत्तिल्, इदु रुत्रनुक्कु इरुक्कट्टुमॆण्ड्रु रुत्रायेदमस्तु, अल्लदु रुत्राय नमोस्तु ऎण्ड्रु विडवुम्. साप्पिट्ट पिऱगु सुगमाय् उट्कार्न्दु ताम्बूलत्ताल् वायैच् चुत्ति सॆय्दुगॊळ्ग. सुक्कु, नॆल्लि मुदलियवैगळिल् ऒण्ड्राल् सुत्ति सॆय्दुगॊळ्ग.
पाक्कु, वॆट्रिलै, सुण्णाम्बुगळै प्राम्हणरुक्कुम्, तेवदैगळुक्कुम् कॊडुक्कवेण्डुम्. पिऱगु ताम्बूलम् तरिक्कवुम्.
विश्वास-प्रस्तुतिः
रात्रौ कर्तव्य-वैश्वदेवातिथि-पूजनाद्य्-उपयोगितया गृहसम्मार्जनभाण्डप्रक्षाळनसामग्रीसम्पादनादिकं सन्ध्याकालात् पूर्वमेव कर्तव्यम् । व्रीह्यवहननं तु सन्ध्याकाले न कर्तव्यम् ॥
तथा च मार्कण्डेयपुराणे -
सन्ध्याकाले तु सम्प्राप्ते धान्यसंस्करणादिकम् ।
कुरुते या तु मोहेन वन्ध्या जन्मनि जन्मनि ॥
सायङ्काले गृहसम्मार्जनाकरणे दोष उक्तो मार्कण्डेयपुराणे -
सन्ध्याकाले तु सम्प्राप्ते मार्जनं न करोति या ।
भर्तृहीना भवेत् सा तु निस्वा जन्मनि जन्मनि ॥
इति ॥
सायमग्निहोत्रसमये पत्नीसन्निधानस्यावश्यकतामाह बोधायनः -
सायम्प्रातरेवैषा पत्न्यन्वास्ते सायंसायमित्येक इति । अत एव प्रातरनियम इति ॥
मूलम्
रात्रौ कर्तव्यवैश्वदेवातिथिपूजनाद्युपयोगितया गृहसम्मार्जनभाण्डप्रक्षाळनसामग्रीसम्पादनादिकं सन्ध्याकालात् पूर्वमेव कर्तव्यम् । व्रीह्यवहननं तु सन्ध्याकाले न कर्तव्यम् ॥
तथा च मार्कण्डेयपुराणे -
सन्ध्याकाले तु सम्प्राप्ते धान्यसंस्करणादिकम् ।
कुरुते या तु मोहेन वन्ध्या जन्मनि जन्मनि ॥
सायङ्काले गृहसम्मार्जनाकरणे दोष उक्तो मार्कण्डेयपुराणे -
सन्ध्याकाले तु सम्प्राप्ते मार्जनं न करोति या ।
भर्तृहीना भवेत् सा तु निस्वा जन्मनि जन्मनि ॥
इति ॥
सायमग्निहोत्रसमये पत्नीसन्निधानस्यावश्यकतामाह बोधायनः -
सायम्प्रातरेवैषा पत्न्यन्वास्ते सायंसायमित्येक इति । अत एव प्रातरनियम इति ॥
द्राविडम्
उबयोगमाग वीडु पॆरुक्कि, पात्रम् अलम्बि, सामान्गळैच् चेर्प्पदै सन्द्या कालत्तिऱ्कु मुन्बे सॆय्यवुम्. सन्द्या कालत्तिल् नॆल्लैक् कुट्रुदल् कूडादु.
अप्पडिये मार्गण्डेय पुराणम्:-
सन्द्या कालत्तिऱ्कुप् पिन्, ऎवळ् पुडैप्पदु मुदलियदैच् चॆय्गिऱाळो अवळ् प्रदि जन्ममुम् मलडियागप् पिऱप्पाळ्.
सन्द्या कालत्तिल् वीडु पॆरुक्काविडिल् तोषम्, मार्गण्डेय पुराणत्तिल्:-
ऎवळ् सन्दियिल् वीडु पॆरुक्कविल्लैयो, अवळ् ऒव्वॊरु जन्मत्तिलुम् पदियिल्लादवळुम्, तरित्रैयायुमिरुप्पाळ्.
सायम् अक्निहोत्रत्तिल् पत्नी समीबत्तिलिरुक्क वेण्डुमॆन्गिऱार् पोदायनर्:-
कालैयिलुम्, मालैयिलुम् पत्नी कूड इरुक्कवुम्. मालैयिल् मात्तिरम् ऎण्ड्रु सिलर्. आगैयाल् कालैयिल् नियममिल्लै.
विश्वास-प्रस्तुतिः
ततो गुरुनमस्कारातिथ्यादिकं दिवावत्कर्तव्यमित्युक्तं स्मृतिरत्ने –
हुताग्निर्वन्दितगुरुः कृतातिथ्यश्च शक्तितः ।
वैश्वदेवबलिं चापि कृत्वाऽश्नीयाद्यथा दिवा ॥
इति ॥
सायं वैश्वदेवार्थं पाकमाह विष्णुः -
पुनः पाकमुपादाय सायमप्यवनीपते ।
वैश्वदेवनिमित्तं वै पत्न्या सार्धं बलिं हरेदिति ॥
रात्रौ वैश्वदेवचलिदानं पत्यसन्निधाने पत्न्याऽपि अमन्त्रं कर्तव्यम् । तत्र मनुः -
सायं सिद्धस्य चान्नस्य पत्न्यमन्त्रं बलिं हरेदिति ॥
तदानीमतिथिपूजोक्ता विष्णुपुराणे
अतिथिं चागतं तत्र स्वशक्त्या पूजयेद्बुधः ।
पादशौचासनग्रह्व स्वागतोक्त्या च पूजयेत् ॥
ततश्चान्नप्रधानेन शयनेन च पार्थिव ॥
दिवातिथौ च विमुखे गते यत् पातकं नृप ।
तदेवाष्टगुणं पुंसां सूर्योढे विमुखे गते ॥

पिऱगु कुरु नमस्कारम्, आदित्यम् मुदलियदैप् पगलिल् पोल् सॆय्यवेण्डुमॆण्ड्रु स्मृतिरत्नत्तिल्:
अक्निहोत्रम् सॆय्दु, कुरु नमस्कारम् सॆय्दु, यदा सक्ति अदिदिबूजै सॆय्दु, वैच्वदेव पलियैयुम् सॆय्दु पगलिल्बोल् पुजिक्कवुम्.
सायम् वैच्वदेवत्तिऱ्कु मऱुबडियुम् समैयल् सॆय्ग ऎण्ड्रु विष्णु:-
अरसने! मऱुबडियुम्, वैच्वदेवत्तिऱ्कागच् चमैत्तुप् पत्नियुडन् पलि पोडवुम्.
रात्रि वैच्वदेवबलियै, पदि तूरदेसम् पोयिनुम्, मन्द्रमिल्लामल् पत्नी सॆय्यवुम्.
अप्पडिये मनु:-
सायङ्गालत्तिल् समैयल् सॆय्द अन्नत्ताल्, पत्नी मन्द्रमिण्ड्रि पलि पोडवुम्.
अप्पॊऴुदु अदिदिबोजनत्तैप् पट्रि विष्णु पुराणम्:-
अदिदि, वन्दवन् इवर्गळैत् तन् सक्तियाल् पूजिक्कवुम्. पात्यम्, आसनम्, वणक्कम्, नल्वरवु पेसुदल् इवैगळाल् पूजिक्कवुम्. पिऱगु अन्नमळित्तु, पडुक्कै कॊडुत्तु उबसरिक्कवुम्. पगलिल् अदिदि तिरस्करिक्कप्पट्टाल् ऎव्वळवु पाबमो, अदु रात्रियिल् ऎट्टु मडङ्गु अदिगमॆण्ड्रु अऱिग.
भोजनम्
विश्वास-प्रस्तुतिः
ततो भोजनमाह शाण्डिल्यः -
नक्तं कुटुम्बकोऽश्नीयाद्धितं पथ्यं सुतृप्तिमदिति ॥
स्मृत्यर्थसारे -
होमं वैश्वदेवमातिथ्यं च कृत्वा भृत्यैः परिवृतो लघु भुक्त्वा स्त्रिया सह सुगन्धानुलेपनमाल्यताम्बूलादि सेवमानः स्वपेदिति ॥
भर्तुः पादौ नमस्कृत्यैव शयनं कर्तव्यम् । तथा च व्यासः —
पादौ भर्तुः नमस्कृत्य पश्चाच्छय्यां समाविशेत् ।
प्रियमाह्लादिसंयुक्तं कृत्वा संयोगमाचरेदिति ॥
शयनं च नग्नया न कर्तव्यं । तथा च मनुः –
अमुक्तवसना योषिद्विमुक्तवसनः पुमान् ।
संविशेतामुभौ मुक्तवसनौ कलिराविशेदिति ॥
बोधायनः –
अथ श्रीमन्तमगारं सम्मृष्टोपलिप्तं गन्धवन्तं पुष्पवन्तं धूपवन्तं दीपवन्तं तल्पवन्तं समाधिवासं दिक्षु सर्पिःसूत्रेन्धनप्रद्योतितं उदकुम्भादर्शोच्छिरसं प्रपाद्य तस्मिन्नेनां संवेशयेदिति ॥

पिऱगु साप्पाडुबट्रि, साण्डिल्यर्:
कुटुम्बि, रात्रियिल् हिदम् पत्यम् तिरुप्तिगरम् इवैगळैच् चाप्पिडुग.
स्म्रुध्यर्ध्धसारध्धिल् :-
होमम्, वैच्वदेवम्, आदित् लगुवागप् पुसित्तु, स्त्री ताम्बूलादिगळै सेवित्तुत् तूङ्गवुम्. पादङ्गळै नमस्करित्तु अदन् पिऱगे तूङ्ग
धर्मम् मुडिय मॊऴि पॆयर्क्कप्
विश्वास-प्रस्तुतिः
बोधायनपरिभाषायाम् –
अथास्तमित आदित्ये अन्योन्यमलङ्कृत्योपरिशय्यायां शयाते । अथैनां सर्वसुरभिगन्धमालया युनक्ति इति ॥
तच्छेषे बोधायनः —
तस्याः सह पत्या पूर्वरात्रावुपसंवेशनम् । अर्धरात्रादधश्शयनमाब्राह्ममुहूर्तादिति ॥
आर्द्रपादया भर्तृसङ्गो न कर्तव्यः । तथा च व्यासः -
आर्द्रपादा च या नारी भर्तुसङ्गं समाचरेत् ।
आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत् ॥
कञ्चुकेन समं नारी भर्तृसङ्गं समाचरेत् ।
त्रिभिर्वर्षैश्च मध्ये वा विधवा भवति ध्रुवम् ॥
तालपत्रगलत्कर्णा दयिता मैथुनं व्रजेत् ।
पञ्चमे सप्तमे वर्षे वैधव्यमिह जायते ॥
पादलग्नतनुश्चैव ह्युच्छिष्टं ताडनं तथा ।
कोपः क्रोधश्च निर्भर्त्सा संयोगेषु न दोषकृत् ॥
कुङ्कुमं चाञ्जनञ्चैव तथा हारिद्रचन्दने ।
धौतवस्त्रं च ताम्बूलं संयोगेषु शुभावहमिति ॥
उपभोगसमये नीलवस्त्रधारणं न दोषाधायकम् ॥
तथा चापस्तम्बः -
नीलीरक्तं यदा वस्त्रं ब्राह्मणोऽङ्गेषु धारयेत् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥
स्त्रीणां क्रीडार्थसम्भोगे शयनीये न दुष्यतीति ॥
इति आह्निकधर्माः ॥

आह्निगधर्मम् मुट्रिट्रु.