विश्वास-प्रस्तुतिः
वैश्वदेवान्ते समागतोऽतिथिः पूज्यः ॥
तथा चापस्तम्बः
काले स्वामिनौ अन्नार्थिनं न प्रत्याचक्षीयाताम् । अभावे भूमिरुदकं तृणानि कल्याणी वागित्येतानि वै सतोऽगारे न क्षीयन्ते कदाचनेत्येवंवृत्तावनन्तलोकौ भवत इति ॥
मूलम्

अदिदि पूजै
लैच्वदेव मुडिविल् वन्द अदिदियैप् पूजिक्कवुम्. अप्पडिये आबस्तम्बर्-
तम्बदिगळ् कालत्तिल् वन्द अदिदियै निरागरिक्कलागादु. अन्नमिल्लाविडिल्, इडम्, तीर्त्तम्, पाय्, नल्ल वार्त्तै इवैगळ् नल्लवर्गळ् वीट्टिल् ऒरु पोदुम् कुऱैयादवै. इप्पडि आचारमुळ्ळवर् अनन्दमान लोकत्तै अडैवार्गळ्.

अतिथिपूजनस्य आवश्यकत्वं कठवल्यामपि-
नचिकेताः स्वपितरमारब्धयज्ञदक्षिणात्वेन पीतोदकजग्धतृणदुग्धदोहनिरिन्द्रियगोप्रदाने क्रतोर्दक्षिणादानवैगुण्यात् पितुरनन्तलोकगमनं न भविष्यतीति विचिन्त्य तत्परिहाराय कस्मै ऋत्विग्विशेषाय मां दास्यसीति पुनःपुनः पप्रच्छ । तं पिता क्रोधेन मृत्यवे दास्यामि इत्युवाच । स च पितृवचनपालनमेव गरीयान् धर्म इति तद्वचनगौरवेण यमभवनं गत्वा प्रोषिते यमे तिस्रो रात्रीरपूजित एव उवास । ततः प्रोष्यागतं यमममात्या ऊचुः ॥
वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् ।
तस्यैतां शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥
आशाप्रतीक्षे सङ्गतं सूनृतां चेष्टापूर्ते पुत्रपशूंश्च सर्वान् ।
एतद्भुङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन् वसति ब्राह्मणोगृह इति ॥

द्राविडम्
अदिदिबूजै आवच्यगमॆन्बदु कडउबनिषत्तिलुम् :-
नसिगेदन् ऎन्बवन्, तन् तगप्पन् आरम्बित्त यक्ञ तक्षिणैयाग, जलम्,पुल् तिन्न सामर्त्यमट्रदुम्, कऱवैयिल्लाददुम्, मऱुबडि कण्ड्रुबोडच् चक्तियट्रदुमान माडुगळैक् कॊडुप्पदैप् पार्त्तु, इदनाल् तन् तन्दैक्कु आनन्दमट्र उलगमे किडैक्कुमॆण्ड्रॆण्णि, ऎन्नै ऎन्द रुत्विक्कुक्कुक् कॊडुक्कप्पोगिऱायॆण्ड्रु अडिक्कडि. विनव, तगप्पन् कोबित्तु ‘उन्नै यमनुक्कुक् कॊडुक्किऱेन्" ऎण्ड्रार्. मगनुम् पिदाविन् वसनप्पडि नडप्पदे मेलॆण्ड्रु निनैत्तु यमलोकम् सॆण्ड्रु, यमन् यात्रैसॆय्दिरुन्द समयत्तिल् मूण्ड्रुनाळ् पूजिक्कप्पडामले मूण्ड्रु तिनम् यमन् वीट्टिल् तङ्गिनान्. पिऱगु तिरुम्बिवन्द यमनै नोक्कि, मन्द्रिगळ् कूऱिनर्:–
अदिदिप्राम्हणन् अक्निबोल् वीट्टिल् प्रवेसिक्किऱान्. अवनैत् तणिप्पदु पोल् जलत्तैक् कॊडुक्कवुम्.
अल्ब पुत्तियुळ्ळ ऎवन् वीट्टिल्, पट्टिनियाल् प्राम्हणन् वसिक्किऱानो, अवनुडैय मनोरदङ्गळ्, वर वेण्डियवैगळ्, सत्सङ्गम्, नल्लवार्त्तै, इष्टम्, पूर्त्तम्, पुत्रर्गळ्, पसुक्कळ् इवैगळ् नसिक्किण्ड्रन.
विश्वास-प्रस्तुतिः
ततो मृत्युः -
तिस्रो रात्रिर्यदवात्सीर्गृहे मेऽनश्नन् ब्रह्मन्नतिथिर्नमस्यः ।
नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तु तस्मात् प्रति त्रीन् वरान् वृणीष्व ॥
इत्येवं प्रसाद्य दिनत्रयं अनशनेन स्वगृहनिवासदोषपरिहाराय वरत्रयं प्रादादिति ॥
पारक्षुद्रशाखायामपि -
यो मा ददाति स इदेवमावाः । अहमन्नमन्नमदन्तमद्मि । पूर्वमग्नेरपिदहत्यन्नम् इति ॥
बोधायनोऽपि -
यो मामदत्वा पितृदेवताभ्यो भृत्यातिथीनां च सुहृज्जनस्य ।
सम्पन्नमश्नन् विषमत्ति मोहात्तमद्म्यहं तस्य च मृत्युरस्मि ॥
हुताग्निहोत्रः कृतवैश्वदेवः पूज्यातिथीन् भृत्यजनावशिष्टम् ।
तुष्टश्शुचिः श्रद्दधदत्ति यो मां तस्यामृतं स्यां स च मां भुनक्ति ॥
इति ॥

पिऱगु यमन् अदिदियै,
पूज्यरान नीर् साप्पिडामल् ऎन् वीट्टिल् वसित्तमैयाल् उमक्कु नमस्कारम्. ऎनक्कु क्षेममागट्टुम्. आगैयाल् ऒव्वॊरु तिनत्तिऱ्कुम् ऒरु वरम् केळुम्
ऎण्ड्र नल्वार्त्तै सॊल्लि मूण्ड्रु तिनम् साप्पिडामैक्काग मूण्ड्रु वरन् कॊडुत्तार्.
तैत्तिरीयसागैयिलुम्:-
ऎवन् ऎन्नैक् कॊडुक्किऱानो अवन् ऎन्नैक् काप्पाट्रुगिऱान्. अन्नत्तैप् पिऱरुक्कुक् कॊडामल् साप्पिडुगिऱवनै नान् साप्पिडुगिऱेन्. अक्निक्कु मुन्बु अन्नम् तहिक्किऱदु.
पोदायनरुम् -
पित्रु तेवदैगळुक्कु ऎन्नैक्कॊडामल्, वेलैक्कारन्, अदिदि, सिनेगिदरुक्कुम् कॊडामल् ऎवन् म्रुष्टान्नत्तैप् पुजिक्किऱानो अवन् मोहत्ताल् विषत्तैप् पुजिक्किण्ड्रान्. अवनै नान् पुजिक्किऱेन्. अवनुक्कु नाने मरुत्यु.
अक्निहोत्रम् सॆय्दु, वैच्वदेवम् सॆय्दु, वेलैयाट्कळुक्कु इट्टु, मीदियैच् चुत्तनाग च्रत्तैयुडन् पुजिप्पवनुक्कु नान् अम्रुदमावेन्. अवन् ऎन्नैप् पुजिप्पान्.
विश्वास-प्रस्तुतिः
आपस्तम्बोदाहृतब्राह्मणमपि -
स एष प्राजापत्यः कुटुम्बिनो यज्ञो नित्यप्रततः, योऽतिथीनामग्निः स आहवनीयो यः कुटुम्बे स गार्हपत्यो यस्मिन् पच्यते सोऽन्वाहार्यपचनः । ऊर्जं पुष्टिं प्रजां पशुनिष्टापूर्तमिति गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति, पयउपसेचनमन्नमग्निष्टोमसम्मितं, सर्पिषोक्थ्यसम्मितं, मधुनाऽतिरात्रसम्मितं, मांसेन द्वादशाहसमितम् उदकेन प्रजावृद्धिरायुषश्च । प्रिया अप्रियाश्चातिथयः स्वर्गं लोकं गमयन्तीति विज्ञायते । स यत्प्रातर्मध्यन्दिने सायमिति ददाति सवनान्येव तानि भवन्ति । यदनुतिष्ठत्युदवस्यत्येव तत् । यत्सान्त्वयति सा दक्षिणा प्रशंसा यत्संसाधयति ते विष्णुक्रमाः यदुपावर्तते सोऽवभृथ इति हि ब्राह्मणमिति ।

आबस्तम्बर् उदाहरित्त प्राम्हणमुम्:-
इदु प्रजाबदिक्कागक् कुटुम्बी प्रदिदिनमुम् अनुष्टिक्कत्तगुन्द यक्ञम्. अदिदिगळुक्कान अक्नि आहवनीयम्. कुटुम्बत्तुक्काग उळ्ळदु कार्हबत्यम्. समयल् सॆय्यु मक्नि अन्वाहार्य पसनम्. ऎवन् अदिदिगळुक्कु मुन् साप्पिडुगिऱानो अवनुडैय इष्टम्, पूर्त्तम्, प्रजै, पुष्टि ऎल्लावट्रैयुम् अदिदि साप्पिट्टुविडुगिऱान्. उबसेसनङ्गळुळ् पालुडन् कलन्द अन्नम् अक्निष्टोमत्तुक्कु सममानदु. नॆय्युडन् उक्त्य समानम्. तेनाल् पोजनम् सॆय्वित्ताल् अदिरात्र समम्. माम्सत्ताल् त्वादसाहत्तुक्कु समम्. तीर्त्तत्ताल् प्रजै कळुक्कुम् आयुळुक्कुम् व्रुत्ति. प्रियर्गळो, अप्रियर्गळो अदिदिगळ् स्वर्क्कलोकत्तै अडैविक्किण्ड्रनर्. अवन् प्राद:कालत्तिलुम्, मत्यन्दिनत्तिलुम्, सायङ्गालत्तिलुम् कॊडुप्पदु सवनङ्गळावन. अवन् अनुष्टिप्पदु उदवसानम्.
विश्वास-प्रस्तुतिः
मनुरपि
कृत्वैतत् बलिकर्मैवमतिथिं पूर्वमाशयेत् ।
सम्प्राप्ताय त्वतिथये प्रदद्यादासनोदके ॥
अन्नं चैव यथाशक्ति सत्कृत्य विधिपूर्वकम् ॥
अग्नौ हुत्वा विधानेन यत्पुण्यफलमश्नुते ।
तेन तुल्यं विशिष्टं वा ब्राह्मणे तर्पिते फलम् ॥
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
स दत्वा दुष्कृतं तस्य पुण्यमादाय गच्छति ॥
शिलेनाप्युञ्छतो नित्यं पञ्चाग्नीनपि जुह्वतः ।
सर्वं सुकृतमादत्ते ब्राह्मणोऽनर्चितो वसन्

मनुवुम् :
पलिगर्मत्तैच् चॆय्दु मुन्बु अदिदिक्कुप् पोडवेण्डुम्. वन्द अदिदिक्कु आसनमुम्, जलमुम् कॊडुक्कवुम्. पिऱगु सक्तिक्कुत् तक्कवाऱु पूजित्तु अन्नमिडवुम्. प्राम्हणनै त्रुप्ति सॆय्वित्ताल्, विधिवत्ताग अक्नियिल् होमम् सॆय्द पलन्, अदिगमायुम् पलनुण्डु. ऎवनुडैय वीट्टिलिरुन्दु आसै पङ्गमागि अदिदि तिरुम्बुगिऱानो, अव क्कु अन्द अदिदि तन् पाबत्तैक् कॊडुत्तुविट्टु अवन् पुण्यत्तुडन् पोगिऱान्. उञ्जव्रुत्ति सॆय्दालुम्, ऐन्दु अक्निगळिलुम् होमम् सॆय्दालुम्, अवनुडैय पुण्यत्तै साप्पिडामल् वसिक्कुम् प्राम्हणन् अडैगिऱान्.
विश्वास-प्रस्तुतिः
आश्वमेधिकेऽपि —
साङ्गोपाङ्गांस्तथा वेदान् पठतीह दिने दिने ।
न चातिथिं पूजयति वृथा से पठति द्विजः ॥
पाकयज्ञैर्महायज्ञैस्सोमसंस्थाभिरेव च ।
ये यजन्ति न चार्चन्ति गृहेष्वतिथिमागतम् ॥
तेषां यशोर्थकामानां दत्तमिष्टं च यद्भवेत् ।
वृथा भवति तत्सर्वं आशया हतया हतम् ॥
वैश्वदेवान्तिके प्राप्तमतिथिं यो न पूजयेत् ।
स चाण्डालत्वमाप्नोति सद्य एव न संशयः ॥
नैव स्वयं तदश्नीयादतिथिं यन्न भोजयेत् ।
धन्यं यशस्यमायुष्यं स्वर्ग्यं चातिथिपूजनमिति ॥
शातातपोऽपि –
स्वाध्यायेनाग्निहोत्रेण यज्ञेन तपसा तथा ।
नावाप्नोति गृही लोकान् यथात्वतिथिपूजनादिति ॥
आनुशासनिकेऽपि -
अतिथिः पूजितो यद्धि ध्यायते मनसा शुभम् ।
न तन्क्रतुशतेनापि तुल्यमाहुर्मनीषिणः ॥

अच्वमेदगत्तिल्:-
प्रदिदिनम् अङ्गोबाङ्गङ्गळुडन् अदिदियैप् पूजिक्काविडिल् अवन् पडिप्पु वीण्. पाग यक्ञङ्गळालुम्, महायक्ञङ्गळालुम्, सोम यागङ्गळालुम् अनुष्टानम् सॆय्दुम्, वीट्टिऱ्कु वन्द अदिदियैप् पूजिक्काविडिल्, अवर्गळिन् यसस्, तनम्, कामम्, तत्तम्, इष्टम् इवैगळ् वीणागिण्ड्रन.
आसैप् पङ्गत्ताल् पङ्गमागिण्ड्रन. वैसवदेवमुडिविल् वन्द अदिदियैप् पूजियादवन् उडने सण्डाळनागिऱान्. ऎदै अदिदिक्कुप् पोडविल्लैयो अदैत् तानुम् साप्पिडलागादु. अदिदि पूजनम्, तनम्, कीर्त्ति, आयुस्, स्वर्क्कम् इवैगळैक् कॊडुक्कुम्.
सादा तबरुम्:-
अदिदिबूजैयाल् अडैगिऱदुबोल्, परलोकङ्गळै अत्ययनत्तालुम्, अक्निहोत्रत्तालुम्, यक्ञत्तालुम्, तबस्सालुम् अडैय मुडियादु.
आनुसासनिगत्तिलुम्:-
पूजिक्कप्पट्ट अदिदि, मनदाल् ऎन्दच् चुबत्तै त्यानिक्किण्ड्रानो अदु नूऱु यक्ञत्तिऱ्कुम् सममागादु ऎण्ड्रु वित्वान्गळ् कूऱुवर्.
विश्वास-प्रस्तुतिः
आरण्यके पर्वणि तार्क्ष्यसरस्वतीसंवादे -
यो दत्वाऽतिथिपूज्येभ्यः पितृभ्यश्च द्विजोत्तमः ।
शिष्टान्यन्नानि यो भुङ्क्ते किं वै सुखतरं ततः ॥
अतो मृष्टतरं नान्यत् लोके किञ्चिच्छतक्रतो ।
दत्वा यस्त्वतिथिभ्योऽन्नं भुङ्क्ते तेनैव नित्यशः ॥
यावतो ह्यन्धसः पिण्डान् अश्नाति सततं द्विजः ।
तावतां गोसहस्राणां फलमाप्नोति दायकः ॥
कपिलायां तु दत्तायां यत्फलं ज्येष्ठपुष्करे ।
तत्फलं भरतश्रेष्ठ विप्राणां पादधावने ।
द्विजपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी ।
तावत्पुष्करपर्णेन पिबन्ति पितरो जलम् ॥
स्वागतेनाग्नयस्तृप्ताः आसनेन शतक्रतुः ।
पितरः पादशौचेन अन्नाद्येन प्रजापतिः ॥
इति ॥
पत्युर्विप्रवासे पत्न्याऽपि समागतोऽतिथिः पूजनीयः ॥
“उपस्थितं गृहे विद्याद्भार्या यत्नाग्नयोऽपि वा” इति मनुवचनेन अतिथिभोजनस्य गृहे भार्यासत्वे नियतत्वप्रतिपादनादिति ॥
अत एव रामायणे सीतया द्विजातिवेषेण समागतस्य रावणस्य रामासन्निधानेऽपि पूजा कृतेत्युक्तम् ॥
द्विजातिवेषेण हि तं दृष्ट्वा रावणमागतम् ।
सर्वैरतिथिसत्कारैः पूजयामास मैथिली ॥
उपानीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च ।
अब्रवीत्सिद्धमित्येव तदा तं सौम्यदर्शना ॥द्विजातिवेषेण समीक्ष्य मैथिली समागतं पात्रकुसुम्भधारिणम् ।
अशक्यमुद्वेष्टुमुपायदर्शनं न्यमन्त्रयद्ब्राह्मणवत्तदाऽङ्गना ॥
इयं बृसी ब्राह्मण काममास्यतामिदं च पाद्यं प्रतिगृह्यतामिति ।
इदं च सिद्धं वनजातमुत्तमं त्वदर्थमव्यग्रमिहोपभुज्यतामिति ॥

आरण्यबर्वत्तिल्, करुडनुक्कुम्, सरस्वदीक्कुम् सम् वादत्तिल्:-
ऎवन् अदिदिगळुक्कुम्, पूज्यर्गळुक्कुम्, पित्रुक् कळुक्कुम् अळित्तुप् पिऱगु पुजिक्किण्ड्रानो अदैविड ऎन्न सुगमिरुक्किऱदु. वन् अदिदिगळुक्कु अन्नमळित्तु अदनालेये तिनमुम् साप्पिडुगिऱानो अदैविड नेर्त्तियान अन्नम् ऎदुवुमिल्लै. अव्विदमान अन्नत्तिल् ऎव्वळवु कबळङ्गळैयदिदि साप्पिडुगिऱानो अव्वळवु आयिरम् पसुक्कळैत् तानम् सॆय्द पलनैयडैगिऱान्. कबिलै कोवैत् तानम् सॆय्द पलनुण्डु, प्राम्हणर्गळिन् पादत्तै अलम्बिनाल्. प्राम्हण पाद जलत्तिल् ननैन्दु ऎव्वळवु नेरम् पूमि इरुक्किऱदो अव्वळवु नेरम् पित्रुक्कळ् तामरै इलैयाल् जलमरुन्दुगिऱार्गळ्. अवर्गळुक्कु नल् वरवु उरैप्पदाल् अक्निगळुक्कु त्रुप्ति. आसनत्ताल् इन्द्रनुक्कु त्रुप्ति. पित्रुक्कळुक्कुप् पाद जलत्ताल् त्रुप्ति. अन्नम् मुदलियवैगळाल् प्रप्हावुक्कु तिरुप्तियागिऱदु.
भर्त्ता वॆळियिल् पोयिरुन्दाल् वन्द अदिदियैप् पत्नी पूजिक्कवेण्डुम्.
ऎन्दविडत्तिल् पार्यैयावदु अक्नियावदु इरुक्किऱदो अन्द वीट्टिल् वन्दवन् अदे क्रामत्तानायिनुम् परिहास कदै पेसुबवनायिनुम् अवन् अदिदियल्ल, (3-103-मनु) ऎण्ड्र मनु वसनत्ताल्, पार्यै वीट्टिलिरुन्दाल् अदिदि पोजनम् अवच्यम् ऎण्ड्रु सॊल्लियिरुप्पदु इदऱ्कु मूलम्.
अव्विदमे रामायणत्तिल्, रामनिल्लादिरुक्कुम्बोदु, प्राम्हण वेषत्तुडन् वन्द रावणन् सीदैयाल् पूजिक्कप् पट्टदागच् चॊल्लियिरुक्किऱदु.
प्राम्हण वेषत्तुडन् वन्द रावणनै सगल अदिदि पूजैयुडन् सीदै पूजित्ताळ्. मुदलिल् आसनम् कॊडुत्तुप् पादजलम् कॊडुत्तु, सौमय मुगत्तुडन् कूडि अवनैप् पूजित्तुप् पिक्षै सित्तमा यिरुक्किऱदॆण्ड्राळ्.
प्राम्हण वेषत्तुडन् वन्दवनुम्, कमण्डलुदारियुम्, पयमुऱुत्त मुडियादवनुम्, सीदाहरणत्तिल् उबायदर्सियुमान रावणनै प्राम्हणन् पोल् उबसरित्ताळ्.
हे! प्राम्हण ! इदु तर्प्पासनम्, इष्टम् पोल् उट्कारलाम्. इदु पात्यम्, पॆट्रुक्कॊळ्ळुङ्गळ्. इवै वनत्तिलुण्डान (पऴङ्गळ्) उमक्काग वैक्कप्पट्टिरुक्किऱदु. अवसरमिल्लामल् अरुन्दुङ्गळ्.
विश्वास-प्रस्तुतिः
वनपर्वणि जयद्रथं प्रति द्रौपद्यपि -
पाद्यं प्रतिगृहाणेदमासनं च नृपात्मज ।
मृगान् पञ्चाशतं चैव प्रातराशं ददानि ते ॥
प्रेषितान् पृषतान् रङ्कून् हरिणान् शरभान् शशान् ।
ऋक्षान् रुरून् शम्बरांश्च गवयांश्च मृगान् बहून् ॥
वराहान् महिषांश्चैव याश्चान्या मृगजातयः ।
प्रदास्यति स्वयं तुभ्यं कुन्तीपुत्रो युधिष्ठिरः ॥
इति ॥
स्त्रीभिर्भिक्षार्थमागतेभ्यो ब्रह्मचारिभ्यो भिक्षा देया । अदाने दोषश्रवणात् । तथा चापस्तम्बः -
स्त्रीणां प्रत्याचक्षाणानां समाहितो ब्रह्मचारी इष्टं दत्तं प्रजां पशून् ब्रह्मवर्चसमन्नाद्यं वृङ्क्ते तस्मादुह वै ब्रह्मचारिसङ्घं चरन्तं न प्रत्याचक्षीतेति ॥

वनबर्वत्तिल् जयत्रदनैक् कुऱित्तु त्रौबदी:-
ओ अरस पुत्रने! इन्दप् पात्यम् आसनम् इवैगळैप् पॆट्रुक् कॊळ्ळुङ्गळ्. उम् कालै पोजनत्तिऱ्कु 50-मान्गळ् कॊडुक्किण्ड्रेन्. कुन्दिबुत्रन् युदिष्टिरर् पलविदमान मान्गळै उमक्कुक् कॊडुप्पार्.
पिक्षैक्कु वन्द प्रम्हसारिगळुक्कु स्त्रीगळ् पिक्षै पोडवेण्डुम्. कॊडुक्काविडिल् तोषम् उरैक्कप्पट्टिरुक्किऱदु.
आबस्तम्बर्:-
निरागरिक्किऱ स्त्रीगळिन् याग तान होम पलन्गळैयुम्, प्रजै, पसुक्कळ्, प्रम्हवर्च्चसम्, अन्नादिगळैयुम् उत्तम प्रम्हसारि नासम् सॆय्वान्. आगैयाल् पिक्षैक्कु वन्द प्रम्हसारियै निरागरिक्कादे.
विश्वास-प्रस्तुतिः
वैश्वदेवानन्तरम् अतिथिवत् अभ्यागतादीनाम् अन्नदानादिना पूजा कर्तव्या ॥
तथा च व्यासः-
गुरूणां पुत्रमित्राणां बन्धूनां कर्मकारिणाम् ।
आहूतानां च भृत्यानां दासीदासजनस्य च ॥
अतिथ्यभ्यागतानां च भिक्षुकाणां च लिङ्गिनाम् ।
आसने भोजने दाने सम्माने प्रियभाषणे ॥
तत्तद्गुणानुसारेण प्राप्ते काले यथोचितम् ।
दक्षया सर्वदा भाव्यं भार्यया गृहमुख्यया ॥
इति ॥
अतिथीनामग्रभोजनमाहापस्तम्बः -
अतिथीनेवाग्रे भोजयेद्बालान् वृद्धान् रोगसम्बन्धान् स्त्रीश्चान्तर्वत्नीः । काले स्वामिनावन्नार्थिनं न प्रत्याचक्षीयाताम् ॥
अत्रोज्वला -
अतिथीन् वक्ष्यति । तानेवाग्रे भोजयेन्न स्वयं सह भुञ्जीत पूर्वं वा । ये च गृहे वर्तमाना बालादयस्तानप्यग्रे भोजयेत् । अन्तर्वत्नीरित्येव सिद्धे स्त्रीग्रहणं स्वस्रादीनामपि ग्रहणार्थम् अन्तवर्त्नीग्रहणं सर्वपूर्वार्थम् । काले वैश्वदेवकाले तदन्ते अन्नार्थिनमुपस्थितं स्वामिनौ गृहपती न प्रत्याचक्षीयाताम् । अवश्यं तस्मै किञ्चिद्देयमिति । काले भोजनदायिनीति भारतवचनात् । बालवृद्धातुरादीनां सर्वेषां यस्मिन्काले यस्यापेक्षितं तदा तस्मै देयमिति ॥
ब्राह्मणान् दुर्बलानाथान् दीनान्धकृपणांस्तथा ।
बिभर्त्यन्नेन या नारी सा पतिव्रतभागिनी ॥

वैच्वदेवत्तिऱ्कुप् पिऱगु अदिदिबोल् अप्यागदर्गळ्, अदावदु वन्दवर्गळैयुम् अन्नम् कॊडुत्तु उबसरिक्क वेण्डुम्.
अप्पडिये व्यासर्:-
आसिरियर्, पुत्रर्, स्नेगिदर्, पन्दुक्कळ्, वेलै सॆय्बवर्, च्रमप्पट्टवर्गळ्, वेलैक्कारर्गळ्, तासीदासर्, अदिदि, वन्दवन्, सन्यासी इवर्गळुक्कु आसनम्, पोजनम्, तानम् इवैगळैक् कालत्तिल् उसिदप्पडि अवरवर् कुणत्तै अनुसरित्तुच् चॆय्यवुम्. प्रियमाय्प् पेसुवदु मात्रम् समानम्. वीट्टिल् मुक्यमान पार्यै ऎप्पोदुम् सामर्त्यमुडैयवळायिरुक्कवेण्डुम्.
अदिदिगळुक्कु मुदलिल् पोजनत्तै आबस्तम्बर् कूऱुगिऱार्:
अदिदिगळै मुदलिल् उण्बिक्कवुम्. अप्पडिये कुऴन्दै, किऴवन्,रोगि, कर्प्पिणी इवर्गळैयुम् कालत्तिल् साप्पाट्टै वेण्डि वन्दवरैयुम् निरागरिक्कलागादु.
इव्विडम् उज्वला व्याक्यानम्:-
अदिदिगळैप् पट्रिच् चॊल्लप्पोगिऱार्. अवर्गळुक्कु मात्तिरम् अन्नमिडवुम्. तानुम् सेर्न्दु साप्पिडादे. मुन्नुम् साप्पिडादे. वीट्टिलिरुक्कुम् कुऴन्दैगळैयुम् मुदलिल् उण्बिक्कवुम्. कर्प्पिणि ऎण्ड्राल् पोदुम्. स्त्री ऎन्बदाल् सहोदरिगळैयुम् सेर्त्तुक्कॊळ्ळवेण्डुम्. कर्प्पिणी ऎण्ड्रदु मुन् पूजिप्पदऱ्कु. कालम् ऎण्ड्राल् वैर्वदेवगालम्. अप्पॊऴुदु वन्दवनैत् तम्बदिगळ् निरागरिक्कलागादु. अवच्यम् अवनुक्कुक् कॊञ्जम् कॊडु. कालत्तिल् पोजनम् कॊडुप्पवळ् ऎण्ड्रु पारदम्. पालर्, किऴवर्, रोगि इवर्गळुक्कु ऎप्पॊऴुदु ऎदु वेण्डुमो अप्पॊऴुदु अदैक् कॊडुक्कवुम्.
तुर्प्पलर्, अनादर्, तीनर्, पॊट्टै, क्रुबणन् इन्द प्राम्हणर्गळैप् पोषिक्कुम् स्त्री पदिव्रदैयावाळ्.