०७ भर्तृ-शुश्रूषा

विश्वास-प्रस्तुतिः

सत्स्वपि परी[[रि??]]चारकान्तरेषु श्वश्रूश्वशुरयोर्भर्तुश्च शुश्रूषणं स्वयमेव कुर्यात् ॥

तथा च वनपर्वणि सत्यभामां प्रति द्रौपदीवचनम् -

नित्यमार्यामहं कुन्तीं वीरसूं सत्यवादिनीम् ।
स्वयं परिचराम्येनां पानाच्छादनभोजनैः ॥

सम्प्रेषितायामथ चैव दास्यामुत्थाय सर्वं स्वयमेव कार्यम् ।
जानातु कृष्णस्तव भावमेतं सर्वात्मना मां भजतीति सत्ये ॥

विराटपर्वणि भीमसेनं प्रति द्रौपदीवचनम् -

या न जातु स्वयं पिष्ये गात्रोद्वर्तनमात्मनः ।
अन्यत्र कुन्त्या भद्रं ते सा पिनष्म्यद्य चन्दनम् ॥

इति ।

आनुशासनिकेऽपि -

स्नानं प्रसाधनं भर्तुर्दन्तधावनमञ्जनम् ।
हव्यं कव्यं च यच्चान्यद्धर्मयुक्तं गृहे भवेत् ॥
न तस्यां जातु तिष्ठन्त्याम् अन्या तत्कर्तुमर्हति ॥

इति ।

मूलम्

द्राविडम्

भर्तृ शुश्रूषै

परिसारगर्गळ् इरुन्दबोदिलुम्, मामियार्, मामनार्गळुक्कुम्, भर्त्तावुक्कुम् ताने शुश्रूषै सॆय्यवेण्डुम्.

अप्पडिये वनबर्वत्तिल् सत्यबामैयिनिडम् त्रौबदी वाक्यम् -

पूज्यैयायुम्, वीर मादावायुम्, सत्यबाषिणियुमान कुन्दीयै प्रदिदिनमुम् असनम्, पानम्, उडुप्पुगळाल् नाने परिसरणम् सॆय्गिऱेन्.

तासियै अनुप्पिनालुम्, नाने ऎऴुन्दिरुन्दु ऎल्लावट्रैयुम् सॆय्वेन्.
इन्दप् पावत्तै सर्वप्रगारमायुम् तन्नैये पजिक्किऱाळ् ऎन्बदै श्रीक्रुष्णन् उन्निडमिरुन्दु अऱियट्टुम्.

विराडबर्वत्तिल् पीमसेननैक् कुऱित्तु त्रौबदी ऎन्द -

नान् तन् तेहत्तिऱ्‌कु वासनै त्रव्यङ्गळैयुम् अरैप्पदिल्लैयो. कुन्दिक्कुत् तविर, अन्द नान् इण्ड्रु सन्दनम् अरैक्किऱेन्.

आनुसासनिगत्तिल्-

भर्त्ताविन् स्नानम्, अलङ्गरणम्, तन्ददावनम्, मै इट्टुक्कॊळ्वदु, तेव पित्रुक्कळुक्कु नैवेत्यम्, मट्रत् धर्मगार्यङ्गळ् इवैगळै अवळ् (पार्यै) इरुक्कुम्बोदु, वेऱु ऒरुवरुम् सॆय्यलागादु.

विश्वास-प्रस्तुतिः

कलिव्यतिरिक्तयुगादौ वर्णान्तरविवाहे सत्यपि ब्राह्मणस्य ब्राह्मण्यैव कर्तव्यम् । तदपि तत्रैव -

तिस्रः कृत्वा पुरो भार्याः पश्चाद्विन्देत ब्राह्मणीम् ।
सा ज्येष्ठा सा च पूज्या स्यात् सा च भार्या गरीयसी ॥
ब्राह्मणीत्वेव कुर्याद्वै ब्राह्मणस्य युधिष्ठिर ।
अन्नं पानं च माल्यं च वस्त्राण्याभरणानि च ॥
ब्राह्मण्यैतानि देयानि भर्तुः सा हि गरीयसी ।
अथ चेदन्यथा कुर्याद्यदि कामाद्युधिष्ठिर ॥
यथा ब्राह्मणचण्डालः पूर्वं दृष्टस्तथैव सः ॥

स्थलान्तरे -

श्वश्रूश्वशुरयोश्चैतत् कार्यं भर्तृवदादरात् ।
श्वश्रूश्वशुरयोः पादौ तोषयन्ती गुणान्विता ॥
मातापितृपरा नित्यं या नारी सा तपोधना ॥

इति ॥

ततो गृहकृत्यं विचारयेत् । तथा च व्यासः -

भाव्यं मङ्गळकारिण्या कृतमङ्गळशीलया ।
गृहोपकारसंस्काररतया प्रतिवासरम् ॥

कलिक्कु इदरमान युगङ्गळिल् वेऱु जादीयरिन् विवाह मिरुन्दबोदिलुम्, प्राम्हणनुक्कु प्राम्हणिये सॆय्य वेण्डुम्. अदुवुम् अव्विडमे -

मुन्नाल् मूण्ड्रु पार्यैगळै मणन्दु पिन्बु प्राम्हणियै अडैन्दबोदिलुम् अवळ् तान् मूत्ताळ्.अवळ् पूज्यै. उयर्न्द पार्यै.
प्राम्हणिये प्राम्हणनुक्कुच् चॆय्यवेण्डुम्. ऒ युदिष्टिरने!
अन्नम्,पानम्, मालै, आडै, आबरणङ्गळ् इवैगळैप् भर्त्तावुक्कु प्राम्हणिये कॊडुक्कवेण्डुम्.
कामत्ताल् वेऱुविदम् सॆय्दाल् अवन्, मुन्नोर् कूऱियबडिप्राम्हण सण्डाळन्.

वेऱु इडत्तिल् -

मामनार्, मामियार्गळुक्कुम् आदारवुडन् भर्त्तावक्कुप्पोल् सॆय्यवुम्.
कुणम् निरम्बियिरुन्दु अवर्गळिन् पाद शुश्रूषै सॆय्ग.

अप्पडिये व्यासर्-

मङ्गळगार्यम् सॆय्बवळायुम्, मादा पित्रुक्कळिडम् अबिमानमुळ्ळवळायुमिरुप्पवळ् तबोदनैयावाळ्.

पिऱगु वीट्टु वेलैगळैच् चिन्दिक्कवेण्डुम्.

अप्पडिये व्यासर् -

मङ्गळगार्यम् सॆय्बवळायुम्, अडिक्कडि मङ्गळगार्यम् सॆय्दु पऴक्कमुळ्ळवळायुम्, प्रदिदिनमुम् वीट्टिन् सामान्गळैच् चुत्तमाय् वैत्तुक्कॊळ्बवळायुमिरुक्कवेण्डुम्.

विश्वास-प्रस्तुतिः

भर्तृविनियुक्तया अर्थसङ्ग्रहणादिकं कर्तव्यम् ।

तथा च मनुः -

अर्थस्य सङ्ग्रहे चैनां व्यये चैव नियोजयेत् ।
शौचे धर्मेऽन्नपक्त्यां च पारिणाह्यस्य चेक्षणे ॥

अस्यार्थः -

अर्थस्य सङ्ग्रहणे रक्षणे व्यये शास्त्राविरुद्धे शौचे द्रव्यशरीरादेः । धर्मे आतिथ्यादिके अन्नपक्त्यां तत्पाके पारीणाह्यस्य गृहोपकरणस्य शय्यासनकुण्डकटाहादेः ईक्षणे तां स्त्रियं नियोजयेदिति ॥

ननु स्त्रियाः गृहकृत्यविचारणं परपुरुषभाषणेन विना न सम्भवति । तच्च न युक्तम् । ‘न परपुरुषमभिभाषेते’ति निषिद्धत्वादिति चेन्न । ‘न परपुरुषमभिभाषेतान्यत्र वणिक्प्रव्रजितवैद्यवृद्धेभ्य’ इति शङ्खस्मृतौ व्यवहारोपयुक्तैः पुरुषैः सम्भाषणस्यानुमतत्वात् । आपदि परपुरुषेणान्यः कोऽपि वक्ता न चेत्तेन सह भाषणं तृणमन्तरतः कृत्वा साक्षाद्वा न दोषाय ॥

भर्त्ताविन् आज्ञैयिन् पेरिल् तनङ्गळैच् चेगरिक्क वेण्डुम्.

इवळैप् (पार्यैबै) पणम् सेर्प्पदिलुम्, सॆलवु सॆय्वदिलुम् एवुग. सुत्तियिलुम्, धर्मत्तिलुम्, समैयल् सॆय्वदिलुम्, सामक्रीगळैप् पार्त्तुक्कॊळ्वदिलुम् एवुग. इव्विडम् तनत्तै रक्षिप्पदिलुम्, सास्त्रत्तिऱ्‌कु विरोदमट्र सॆलविलुम्, पदार्त्तङ्गळ्, शरीरम् इवैगळिन् सूत्तियिलुम्, आदित्यम् मुदलान धर्मत्तिलुम् सयनम्, आसनम्, सॊम्बु, सरुवम् मुदलिय पात्रङ्गळैप् पार्त्तुक्कॊळ्वदिलुम् स्त्रीयै उबयोगिक्क ऎण्ड्रु पॊरुळ्.

केळ्वि:-

स्त्री, क्रुह कार्यङ्गळै विसारिप्पदॆण्ड्राल् परबुरुषनुडन् पेसामल् मुडियादु. अदुवो परबुरुषनुक्कु ऎदिरिल् पेसादे ऎण्ड्रु तडुक्कप्पट्टबडियाल् सरियल्ल.

पदिल्-

व्याबारि, सन्यासी, वैत्यन्, किऴवर्गळ् पोण्ड्र व्यवहार उबयोगमान इवर्गळैत् तविर, इदर पुरुषर्गळुडन् पेसुवदुदान् सङ्ग स्मृतियिल् तडुक्कप्पट् टिरुक्किऱदु. आबत्तिल् परबुरुषनुडन् पेसुम् ऒरुवनल्लाविडिल्, अवनुडन् तुरुम्बै नडुविल् पोट्टो पोडालो पेसलाम्. तोषमिल्लै.

विश्वास-प्रस्तुतिः

तथा च रामायणे -

सा तथोक्ता तु वैदेही निर्भया शोककर्शिता ।
तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत ॥

इति ।

वनपर्वणि द्रौपदीप्रमाथे -

अथाब्रवीद्द्रौपदी राजपुत्री पृष्टा शिबीनां प्रवरेण तेन ।
अवेक्ष्य मन्दं प्रविमुच्य शाखां सङ्गृह्णती कौशिकमुत्तरीयम् ॥
बुध्याऽभिजानामि नरेन्द्रपुत्र न मादृशी त्वामभिभाष्टुमर्हा ।
न त्वेव वक्ताऽस्ति तवेह वाक्यं अन्यो नरो वाप्यथवाऽपि नारी ॥
एका ह्यहं सम्प्रति तेन वाच्यं ददानि वै भद्रं निबोध चेदम् ।
अहं ह्यरण्ये कथमेकमेका त्वामालपेयं नियता स्वधर्मे ॥
जानामि च त्वां सुरथस्य पुत्रं यं कोटिकास्येति विदुर्मनुष्याः ।
तस्मादहं शैब्य तथैव तुभ्यं आख्यामि बन्धून् प्रथितं कुलं च ॥
युधिष्ठिरो भीमसेनार्जुनौ च माद्र्याश्च पुत्रौ पुरुषप्रवीरौ ।
ते मां निवेश्येह दिशश्चतस्रो विभज्य पार्थाः मृगयां प्रयाताः ॥
मन्ये तु तेषां रथसत्तमानां कालोऽमितः प्राप्तुमिहोपयातुम् ।
सम्मानिता यास्यथ तैर्यथेष्टं विमुच्य वाहानवरोहयध्वम् ॥
प्रियातिथिर्धर्मसुतो महात्मा प्रीतो भविष्यत्यभिवीक्ष्य युष्मान् ।
एतावदुक्त्वा द्रुपदात्मजा सा शैब्यात्मजं चन्द्रमुखी प्रतीता ॥
विवेश तां पर्णशालां प्रशस्तां सञ्चिन्त्य तेषामतिथित्वधर्मम् ॥

स्त्रीणां परपुरुषभाषणे अयं प्रकारः ॥ स्वीयैस्सह सम्भाषणे तु न दोष इति ॥

अप्पडिये रामायणत्तिल्:-

अव्विदम् सॊल्लप्पट्ट सीदै पयमिण्ड्रि सोगत्तुडन् रावणनुक्कुप् पदिलुरैत्ताळ्.

वनबर्वत्तिल्:-

त्रौबदीगलक्कत्तिल् “पिऱगु सिबिवास च्रेष्टनान अवनाल् केट्कप्पट्टु त्रौबदि किळैयैक् कीऴे पोट्टुत् तन् पट्टु उत्तरीयत्तैप् पिडित्तुक्कॊण्डु, मॆल्ल उरैत्ताळ्. ऒ राजबुत्र ! पुत्तियाल् अऱिगिऱेन्. ऎन्बोण्ड्रवर् पेसमाट्टार्गळ्. मट्रप् पुरुषनो स्त्रीयो उनक्कुच् चॊल्ल ऒरुवरुमिल्लै. नान् ऒरुत्तियानबडियाल् पदिल् सॊल्लुगिऱेन्, केळ्. अरण्यत्तिल् ऒरुत्तियाग इरुक्कुम् नान् एगागियान उन्नुडन् ऎप्पडिप् पेसुवेन् ? नी सुरदनुडैय पुत्रन् कोडिगास्यन् ऎन्बदै अऱिवेन् आगैयाल् ऎन्नुडैय प्रसिद्धमान कुलत्तैयुम्, पन्दुक्कळैयुम् उरैक्किऱेन्.
युदिष्टरन्, पीमन्, अर्जुनन्, नगुल सहदेवर्गळ् ऎन्नै इव्विडम् वैत्तुत् तिक्कुगळैप् पिरित्तुक्कॊण्डु वेट्टैक्कुच् चॆण्ड्रिरुक्किऱार्गळ्.
अन्द महान्गळ् इव्विडम् वरुम् कालम् समीबत्तिलिरुक्किऱदॆण्ड्रु निनैक्किऱेन्. अवर्गळाल् कौ रविक्कप्पट्टु इष्टप्पडि पोगलाम्. कुदिरैगळै अविऴ्त्तुविट्टु इऱङ्गुङ्गळ्.
धर्मबुत्रन् महात्मा, अत्तिप्रियर्, उङ्गळैप् पार्त्तु प्रीदियडैवर्. इव्विदम् सैप्यबुत्रनैप् पार्त्तुच् चॊल्लि, अदिदिधर्मत्तैच् चिन्दित्तुक्कॊण्डु पर्णसालैयिल् पुगुन्दाळ्.

स्त्रीगळ् परबुरुषनुडन् पेसुम् प्रगारम् इदु. तन्नैच् चेर्न्दवर्गळुडन् पेसुवदिल् तोषमिल्लै.

विश्वास-प्रस्तुतिः

गृहकृत्यार्थं दत्तेन द्रव्येण पत्नी यथा कथञ्चिद्गृहकृत्यं निर्वर्त्य किञ्चिदवशेषयेत् । धर्मार्थं दत्तं तु द्रव्यं लोभेन नावशेषयेत् ॥

तथा च मनुः -

गृहव्ययाय यद्द्रव्यं दिशेत्पत्न्याः करे पतिः ।
निर्वर्त्य गृहकार्यं सा किञ्चिद्बुद्ध्याऽवशेषयेत् ॥
दानार्थमर्पिते द्रव्ये लोभात्किञ्चिन्न धारयेत् ॥

वीट्टुच् चॆलवुक्कुक् कॊडुक्कप्पट्ट पणत्तिल् कष्टप्पट्टुक् कुडुप्पवाऴ्क्कैयै नडत्तिक् कॊञ्जम् मीदि वैक्क वेण्डुम्. धर्मत्तिऱ्‌कागक् कॊडुत्त पणत्तिल् लोबत्ताल् मीदि वैक्कक्कूडादु.

अप्पडिये मनु:-

वीट्टुच् चॆलवुक्कागप् भर्त्ता कॊडुत्त पणत्तिल् वीट्टुक् कार्यत्तै नडत्तिक् कॊञ्जम् मीदि वैक्क वेण्डुम्. तानत्तिऱ्‌कागक् कॊडुत्त पणत्तिल् लोबत्ताल् कॊञ्जमुम् मीदि वैक्कक्कूडादु.

विश्वास-प्रस्तुतिः

भर्त्रा क्रियमाणदेवपूजायां तदुपयुक्तमुपकरणादिकं अनुक्त्या [[क्त्वा??]] स्वम[[य??]]मेव सर्वं साधनीयम् ॥

तथा च व्यासः -

पूजोपकरणं सर्वमनुक्तं साधयेत्स्वयम् ।
नियमोदकबर्हींषि पत्रपुष्पाक्षतादिकम् ॥
प्रतीक्षमाणाऽवसरं यथाकालोचितं हि यत् ।
तदुपस्थापयेत्सर्वमनुद्विग्नाऽतिहृष्टवत् ॥

इति ॥

ततः अतिथिवैश्वदेवाद्यर्थं पाकः कर्तव्यः ।
तथा च विष्णुपुराणे ऋभुनिदाघसंवादे निदाघः -

हे हे शालिनि मद्गेहे यत्किञ्चिदतिशोभनम् ।
भक्ष्योपसाधनं सर्वं तेनास्यान्नं प्रसाधय ॥
इत्युक्ता तेन सा पत्नी मृष्टमन्नं द्विजस्य यत् ।
प्रसाधितवती तद्वै भर्तुर्वचनगौरवात् ॥

इति ॥

व्यासोऽपि -

नैवेद्यार्थं पृथग्भाण्डे पत्नी स्नात्वा पचेद्गृहे ।
वैश्वदेवार्थमन्यस्मिन् व्यञ्जनानि पृथक् पृथक् ॥

भर्त्ता सॆय्युम् तेवबूजैयिल् अदिल् उबयोगमान सामक्रीगळैप् पदि सॊल्लामल् तानागवे तयारिक्क वेण्डुम्.

अप्पडिये व्यासर्:-

पूजासामक्रीगळ्, नियमत्तिऱ्‌कान तीर्त्तम्, तर्प्पङ्गळ्, इलै, पुष्पम्, अक्षदै मुदलियवैगळैच् चॊल्लामलेये समयम् पार्त्तु उसिदगालत्तिल् पयमिल्लामल् मिगुन्द सन्दोषत्तुडन् भर्त्ताविन् समीबत्तिल् सेर्क्कवुम्.

पिऱगु, अदिदिगळुक्कुम्, वैच्वदेवम् मुदलियवैक्कुम् समैयल् सॆय्यवुम्.

अप्पडिये विष्णुबुराणत्तिल् - रुबुनिदागसम्वादत्तिल् निदागर् -

अरे! ऎन् वीट्टिल् ऎन्दप् पक्ष्यम् मुदलियदु उत्तममायिरुक्किऱदो, अदनाल् इवरुक्कु अन्नम् परिमाऱु. इव्विदम् सॊल्लप्पट्ट पत्नी, भर्त्ताविन् वार्त्तैयिल् कौरवत्ताल् वन्द प्राम्हणनुक्कु उयर्न्द पक्ष्यङ्गळुडन् अन्नमिट्टाळ्.

व्यासरुम् :

नैवेत्यत्तिऱ्‌काग वेऱु पाण्डत्तिल्, पत्नी स्नानम् सॆय्दु समैयल् सॆय्ग. वैच्वदेवत्तिऱ्‌काग वेऱु पात्रत्तिल् समैयलुम् तनित्तनियागक् काय्गऱिगळुम् समैयल् सॆय्ग.

विश्वास-प्रस्तुतिः

वैश्वदेवसमये पत्न्याऽपि सन्निहितया भवितव्यम् ॥

तथा च नारायणः -

सभार्यस्तु शुचिस्नातो विधिनाऽऽचम्य वाग्यतः ।
उपविश्य समिद्धेऽग्नौ वैश्वदेवं समाचरेदिति ॥

वैश्वदेवसमये पत्नी बल्यायतनानि गन्धादिभिरलङ्कुर्यात् ॥

तथा च बोधायनः –

तूष्णीं सर्वाण्यायतनानि गन्धपुष्पधूपदीपैः पत्न्यलङ्करोतीति ॥

वैच्वदेव समयत्तिल् पत्नियुम् समीबत्तिलिरुक्क.

अप्पडिये नारायणर्:-

पार्यैयुडन् स्नानम् सॆय्दु, सुत्तनाय् विधिप्रगारम् आसमनम् सॆय्दु, मॆळनत्तुडन् उट्कार्न्दु, ज्वलिक्कुमक्नियिल् वैच्वदेवम् सॆय्दु मुडिक्क.
लैच्वदेवसमयत्तिल् पलिबोडुमिडङ्गळैप् पत्नी सन्दन कुङ्गुमाक्षदैगळाल् अलङ्गरिक्क.

अप्पडिये पोदायनर्:-

मॆळनमाग ऎल्लाविडङ्गळैयुम् कन्दम्, पुष्पम्, तूबम्, तीबम्, इवैगळाल् पत्नी अलङ्गारम् सॆय्यवुम्.