विश्वास-प्रस्तुतिः
अग्निशुश्रुषार्थमग्निहोत्रगृहे दक्षिणया द्वारा पत्न्या प्रवेष्टव्यम् ।
तथा च कात्यायनः -
दक्षिणपूर्वद्वारे पूर्वेण पतिः प्रविशति दक्षिणेन पत्नीति । अग्निहोत्रगृहे तीर्थेनैव सञ्चारः कर्तव्यः ॥
तथा च बोधाम[[य??]]नः —
अन्तरेण चात्वालोत्करौ यज्ञस्य तीर्थम् आचात्वाल आहवनीयोत्करौ । ततः कर्तारो यजमानः पत्नी प्रपद्येरन् विसंस्थिते । संस्थिते च सञ्चरोनूत्करदेशमिति । विसंस्थिते असमाप्ते कर्मणि, सञ्चरः प्रवेशो निर्गमश्च, संस्थिते समाप्ते कर्मणि पश्चादित्यर्थः ॥
होमसमये पत्न्या अग्नेरलङ्कारादिशुश्रूषा कर्तव्या ।
तथा च मनुः -
अग्निहोत्रस्य शुश्रूषा सन्ध्योपासनमेव च ।
कार्यं पत्न्या प्रतिदिनं बलिकर्म च नैत्यकम् ॥ ७९ ॥
इति ।
अग्निशुश्रूषणं बहुभार्यस्य ज्येष्ठयैव कर्तव्यम् ।
मूलम्

द्राविडम्
अक्निहोत्रम्
अक्किहोत्र अऱैयिल् अक्नि शुश्रूषै सॆय्यप् पत्नि तॆन्वासलाल् वरवेण्डुम्.
अप्पडिये कात्यायनर्:-
तॆऱ्कु किऴक्कुगळिल् वासलुळ्ळ विडत्तिल् किऴक्काल् पदियुम्, तॆऱ्काल् पत्नियुम्,अक्निहोत्र सालैयिल् तीर्त्तत्तिन् वऴियागवे सञ्जारम् सॆय्यवेण्डुम्.
अप्पडिये पोदायनर् :-
सात्वालत्तुक्कुम् उत्करत्तुक्कुम् मत्तियिल् यक्ञ तीर्त्तम्. सात्वालत्तिलिरुन्दु आहवनीयम् उत्करम् वरैयिल् रित्विक्कुगळ्, यजमानन्, पत्नी इवर्गळ् यक्ञम् मुडियुमुन् इन्द वऴियाग प्रवेसिक्कवुम्. यक्ञम् मुडिन्दबिन् उत्कर तेसत्तिन् वऴियाग प्रवेसिक्कवुम्.
होम समयत्तिल् पत्नी अक्निक्कु अलङ्गारादि शुश्रूषै सॆय्य वेण्डुम्.
अदै मनु:-
अक्निहोत्र शुश्रूषै, सन्द्या उबासनम्, नित्यम्, पलि पोडुवदु इवैगळैप् पत्नी सॆय्यवेण्डुम्. (79)
अनेग पार्यैयुळ्ळवनुक्कु अक्कि शुश्रूषै मूत्तवळे सॆय्यवेण्डुम्.
विश्वास-प्रस्तुतिः
तथा च याज्ञवल्क्यः -
सत्यामन्यां सवर्णायां धर्मकार्यं न कारयेत् ।
सवर्णासु विधौ धर्म्ये ज्येष्ठया न विनेतराः ॥ ८० ॥
ज्येष्ठा गर्हिता चेत् कनिष्ठयैव कर्तव्यम् ।
तदाह कात्यायनः -
अग्निहोत्रादिशुश्रूषां बहुभार्यः सवर्णया ।
कारयेत् तद्बहुत्वे च ज्येष्ठया गर्हिता न चेत् इति ॥
कनिष्ठास्वपि वीरसुवैव कर्तव्यम् । वीरसुवोऽपि बह्व्यश्चेत् तासां मध्ये आज्ञासम्पादिनी गुणवती दक्षा च या तयैव कर्तव्यम् ॥
तथा च कात्यायनः -
तथा वीरसुवामासामाज्ञासम्पादनी च या ।
दक्षा प्रियंवदा शुद्धा तामत्र विनियोजयेत् ॥

अप्पडिये याज्ञ्यवल्क्यर् :-
सवर्ण पार्यै इरुक्कुम् पोदु धर्म कार्यत्तै इन्नॊरुत्ति सॆय्यलागादु. सवर्ण पार्यैगळ् अनेगर् इरुन्दाल् मूत्तवळे सॆय्य वेण्डुम्. (80)
मूत्तवळ् कॆट्टवळायिरुन्दाल् इळैयवळे सॆय्य वेण्डुम्.
अदैक् कात्यायनर् -
अक्निहोत्रादि शुश्रूषैगळै अनेग पार्यैयुडैयवन् सवर्ण स्त्रीयालुम्, अवर्गळ् अनेगरानाल् कॆट्टवळायिल्लाविडिल् मूत्तवळालुम् सॆय्विक्क वेण्डुम्. (81)
इळैयवर्गळिल् पुत्रनुडैयवळाल्, अवर्गळुमनेगरायिन्, आज्ञैयैच् चॆय्बवळुम्, कुणमुळ्ळवळुम्, सामर्त्ति यमुडैयवळुम् यारो अवळाल् सॆय्विक्कवेण्डुम्. (81)
अप्पडिये कात्यायनर्:-
पुत्र सम्बत्तियुडैयवर्गळान इवर्गळिल् आज्ञैयैक् केट्पवळ्, सामर्त्तियमुडैयवळ्, प्रियम् पेसुबवळ्, सुत्तै यारो अवळै प्रोणै सॆय्यवुम्.
विश्वास-प्रस्तुतिः
प्रतिदिनमेका शुश्रूषादि कर्तुमशक्ता चेत् तदा दिनक्रमेण यथाज्यैष्ठ्यं शुश्रूषां कुर्यात् । एकस्मिन् दिने यद्येका कृत्स्नं कर्तुमशक्ता तदा सर्वास्तत् कर्म यथाज्ञानं विभज्य कुर्युः ।
तथा च कात्यायनः -
दिनक्रमे यथाकर्म यथाज्यैष्ठ्यमशक्तितः ।
विभज्य सहसा कुर्युर्यथाज्ञानमशक्तितः ॥
इति ॥ ८२ ॥
अग्न्यलङ्करणं च परिसमूहनाद्यनन्तरं कर्तव्यम् ।
तथा च बोधायनः -
सर्वत्र परिसमूहनपर्युक्षणपरिस्तरणपरिषेचनोपसमाधानालङ्करणमित्याचार्या इति ॥
दोहनानन्तरं स्वायतने पत्न्युपवेशनमाहापस्तम्बः -
पत्नीवदस्याग्निहोत्रिं भवति स्वायतने पत्न्युपविशतीति ॥

प्रदिदिनमुम् ऒरुत्तियाल् सॆय्यमुडियाविडिल् तिन क्रममाग मूत्त क्रममाग शुश्रूषै सॆय्ग. ऒरे तिनत्तिल् ऒरुत्तियाल् मुऴुदुम् सॆय्य मुडियाविडिल् ऎल्लोरुम् पङ्गु पोट्टुक्कॊण्डुत् तॆरिन्ददैच् चॆय्यवेण्डुम्.
अप्पडिये कात्यायनर्:-
असक्ति पक्षत्तिल् तिनक्रममागवुम्, ज्येष्टा क्रममागवुम् सॆय्यवुम्. अदुवुम् मुडियाविडिल् तॆरिन्द विषयत्तैप् पिरित्तुच् चीक्किरम् सॆय्ग. (82)
पूमियैप् पॆरुक्किन पिऱगु अक्निक्कु अलङ्गारम् सॆय्य वेण्डुम्. अदै, पोदायनर्: -
ऎल्ला इडङ्गळिलुम् पॆरुक्कुदल्, प्रोक्षित्तल्, तर्प्पत्तै विरित्तल्, परिषेसनम्, अक्नियै समीबत्तिल् कॊण्डु वैत्तुक्कॊळ्ळुदल्, अलङ्गारम् सॆय्दल्,
ऎण्ड्रु आचार्याळ्.
पाल् कऱन्दबिन् तन् इडत्तिल् पत्नी उट्कारवेण्डुम्, ऎन्बदै आबस्तम्बर् सॊल्लुगिऱार्:-
इवनुडैय अक्कि होत्रम् पत्नियुडन् कूडियदाय् इरुक्कवेण्डुम्. तन् इडत्तिल् पत्नी उट्कारुग", ऎन्बदाग.
विश्वास-प्रस्तुतिः
बोधायनस्तु उद्धरणानन्तरमेवोपवेशनमाह –
सायम्प्रातरेवैषा पत्न्यन्वास्ते इति ॥
होमे तूभयोः सन्निधानं मुख्यम् । यजमानासन्निधाने पत्न्या अवश्यं सन्निहितया भवितव्यम् । तथा च कात्यायनः -
असमक्षं तु दम्पत्योर्होतव्यं नर्त्विगादिना ।
द्वयोरप्यसमक्षं तु भवेद्घुतमनर्थकम् ॥
निक्षिप्याग्निं स्वदारेषु परिकल्प्यर्त्विजं तथा ।
प्रवसेत् कार्यवान्विप्रो न वृथैव चिरं वसेत् ॥ ८३ ॥
अयं च प्रवासविधिः अर्थार्थतया पुरुषस्यैवानुमतः । पत्न्यास्तु अर्थार्जनाभावात् न प्रवासः ॥
पुरुषस्यापि -
धनान्यार्जयितुं युक्तः प्रवासो ह्यग्निहोत्रिणः ।
धनैर्हि सम्भवेदिज्या तीर्थाद्यर्थं तु न व्रजेत् ॥
यस्येष्टिधर्मेष्वधिकारिताऽस्ति वरं गृहं गृहधर्माश्च सर्वे ।
एवं गृहस्थाश्रमसंस्थितस्य तिर्थे[[तीर्थे??]] गतिः पूर्वतरैर्निषिद्धा ॥ ८४ ॥
इति वचनेन तीर्थार्थं प्रवासः प्रतिषिद्ध्यते ॥

पोदायनरानाल् अक्कियै ऎडुत्त पिन्नरे उट्कार वेण्डुमॆण्ड्रार्. “मालै कालैयिले पत्नी कूडविरुप्पाळ्”, ऎण्ड्रु,
होमत्तिल् मुक्यमाग इरुवरुम् समीबत्तिलिरुक्क वेण्डुम्. यजमानन् समीबत्तिल् इल्लाविडिल् पत्नी अवच्यम् समीबत्तिल् इरुक्कवेण्डुम्.
अप्पडिये कात्यायनर्:-
तम्बदिगळिन् सन्निदियिल्लामल् रुत्विक् मुदलानवर् होमम् सॆय्यक्कूडादु.
इरुवरुम् मिल्लाद पक्षत्तिल् होमम् व्यर्त्तमागुम्.
तन् पत्नियिड मक्नियै वैत्तु रुत्विक्कै एऱ्पाडु सॆय्दु कार्यमिरुन्दाल् वॆळित्तेसम् सॆल्लवेण्डुम्.
प्रयोजनमिल्लामल् वॆगु कालम् वसिक्कक्कूडादु. (83)
इन्द प्रवास विधियुम् तन सम्बादनत्तुक्कागप् पुरुषनुक्कु मात्तिरमनुमतिक्कप्पट्टिरुक्किऱदु. पत्निक्कुत् तन सम्बादनमिल्लादबडियाल् तेसान्दरम् पोग इडमिल्लै.
पुरुषनुम्
अक्नीहोत्री तनसम्बादनत्तिऱ्काग, तनत्ताल् यागम् सॆय्यवेण्डियबडियाल् तेसान्दरम् पोगलाम्, तीर्त्ताडनमागप् पोगक्कूडादु.
ऎवनुक्कु इष्टि कर्मङ्गळिल् अदिगारमिरुक्किऱदो अवनुक्कु वीडुम्, वीट्टुत् धर्मङ्गळुम् च्रेष्टमानवै.
इव्विदम् क्रुहस्ताच्रमत्तिलिरुप् पवनुक्कुक् तीर्त्ताडनम् पूर्विगर्गळाल् तडुक्कप्पट्टिरुक्किऱदु
ऎण्ड्र वसनत्ताल् तीर्त्तङ्गळुक्काग प्रवासम् तडुक्कप्पट् टिरुक्किऱदु.
विश्वास-प्रस्तुतिः
पत्न्यास्तु -
‘पत्नीवदस्याग्निहोत्रं भवती’त्यापस्तम्बाचार्यैः अग्निहोत्रे पत्नीसम्बन्धनियमनात् अग्निहोत्रं विहाय कुत्रापि न स्थेयम् । अग्निहोत्र एव सर्वतीर्थफलावगमाच्च ॥
तथा च त्रिकाण्डमण्डनः -
ब्रह्मा विष्णुः शिवः सूर्यो गोविप्राः पितृदेवताः ।
अग्निहोत्रगृहे सन्ति व्रततीर्थतपांसि च ॥ ८५ ॥सर्वाणि तीर्थान्यपि चाग्निहोतृतुल्यानि नैवेति वयं वदामः ।
यज्ञाधिकारेऽप्यथवा निवृत्ते विप्रस्तु तीर्थानि परिभ्रमेत् तु ॥
तीर्थे फलं यज्ञफलं हि यस्मात् प्रोक्तं मुनीन्द्रैरमलस्वभावैः इति ॥
अयं च पत्नीसम्बन्धनियमः औपासनेऽपि तुल्यः ॥
‘द्वयोरप्यसमक्षं तु भवेद्धुतमनर्थक’मिति पूर्वोक्तकात्यायनवचनस्य साधारणत्वात् ॥
अग्निहोत्रहोमे ‘तस्मादग्निहोत्रस्य यज्ञक्रतोरेक ऋत्विक्’, ‘स्वयं पर्वणि जुहुयात् ऋत्विजामेक इतरं काल’मिति श्रुतिसूत्राभ्याम् ऋत्विग्यजमानयोरेव नियमनात् पत्न्याः कर्तृत्वप्रसक्तिरेव नास्ति । औपासनहोमेऽपि ‘स्त्रियाऽनुपेतेन क्षारलवणावरान्नसंसृष्टस्य च होमं परिचक्षते’ इत्यापस्तम्बाचार्यैः कर्तृत्वं प्रतिषिद्धम् । अन्यैस्तु पत्न्याः कर्तृत्वमङ्गीकृतम् ॥

पत्निक्कोवॆनिल् आबस्तम्बराल् “इवन् अक्निहोत्रम् पत्नी उळ्ळदायिरुक्कवुम्” ऎण्ड्रु अक्किहोत्रत्तिल् पत्नी सम्बन्दत्तै नियदमागच् चॊल्लप्पट्टबडियाल्, अक्नि होत्रत्तै विट्टु ऎङ्गुमिरुक्कक्कूडादु. अक्निहोत्रत् तिलेये सर्वदीर्त्त पलङ्गळुम् किडैक्किण्ड्रनवॆण्ड्रु तॆरिगिऱबडियालुम्.
अप्पडिये अदे त्रिगाण्ड मण्डनर्:-
प्रम्हा, विष्णु, सिवन्, सूर्यन्, को, प्राम्हणर्, पित्रुक्कळ्, तेवर्गळ्, अनैवरुम् व्रदम्, तीर्त्तङ्गळ्, तबस्सुगळुम् अक्किहोत्र वीट्टिलिरुक्किण्ड्रनर्. (85)
सर्व तीर्त्तङ्गळुम् अक्निहोत्रत्तुक्कु सममानवैयल्ल ऎण्ड्रु याम् कूऱुवोम्.
यक्ञत्तिल् अदिगारम् पोनबिन् विप्रन् तीर्त्तङ्गळुक्कु सञ्जारम् सॆय्यवुम्.
तीर्त्ताडनत्तिय पलन् यक्ञ पलने, ऎण्ड्रु निर्मल स्वबावमुडैय मुनिच्रेष्टर्गळाल् उरैक्कप्पट्टिरुक्किऱदु.
इन्दप् पत्नीसम्बन्दत्तिन् नियमम् ऒळबासनत्तिऱ्कुम् समानम्. एन्? इरुवरुक्कुम् ऎदिरिलिल्लामल् सॆय्दहोमम् पलनट्रदॆण्ड्र कात्यायनवसनम् इरण्डिऱ्कुम् पॊदुवानदाल्. (86)
अक्निहोत्र होमत्तिल् “आगैयाल् अक्निहोत्र मॆन्गिऱ यक्ञक्रदुवुक्कु ऒरे रुत्विक्”, पर्वगालत्तिल् तामे “होमम् सॆय्यवुम्, पाक्कि कालत्तिल् रुत्विक्कुगळिल् ऒरुवर्” ऎण्ड्र श्रुति स्मृतिगळाल् रुत्विक्यजमानर्गळै नियमित्तिरुप्पदाल् पत्नी कर्त्ता ऎन्बदऱ्कु प्रसक्ति इल्लै. ऒळबासनत्तिलुम्, “स्त्रीयालुम्, उबनयनमागादव नालुम्, पुळि,उप्पु, कीऴ्त्तरमान अन्नम् इवैगळ् कलन्द त्रव्यत्तालुम् होमम् सॆय्यक्कूडादु” ऎण्ड्रु आबस्तम्बा सार्यराल् स्त्री होमम् सॆय्वदु तडुक्कप्पट्टुळ्ळदु. इदरर्गळालो स्त्रीयुम् कर्त्ता ऎण्ड्रु अङ्गीगरिक्कप्पट् टिरुक्किऱदु.
विश्वास-प्रस्तुतिः
तथा चाश्वलायनः -
पाणिग्रहणादि गृह्यं परिचरेत् स्वयं पत्न्यपि वा पुत्रः कुमार्यन्तेवासी वा
इति ॥
व्यासोऽपि -
ऋत्विक्पुत्रस्तथा पत्नी शिष्यो वाऽपि सहोदरः ।
प्राप्यानुज्ञां विशेषेण जुहुयाद्वा यथाविधि इति ॥
गोभिलोऽपि -
गृह्याग्नौ जुहुयात्पत्नी सायं प्रातश्च होमयोरिति ॥
भारद्वाजोऽपि -
अपि वा स्त्री जुहुयान्मन्त्रवर्जितमिति ॥
गौतमः -
पत्नी जुहुयादित्येक इति ।
स्मृत्यर्थसारे तु विशेषः -
होमे मुख्यो यजमानः पत्नी पुत्रश्च कन्यका ।
ऋत्विक् शिष्यो गुरुर्भ्राता भागिनेयः सुतापतिः ॥
एतैरेव हुतं यत्तु तद्धुतं स्वयमेव तु ।
पर्युक्षणं विना पत्नी जुहुयात्कन्यकाऽपिचेति ॥
होमानन्तरं स्त्रिया सूर्याय अर्घ्यदानं कर्तव्यम् ॥

अव्विदमे आच्वलायनर्.
पाणिक्रहणम् मुदऱ्कॊण्डु, ताने क्रुह्याक्कियैच् चुच्रूषै सॆय्ग. पत्नियावदु, पुत्रनावदु, कुमारियावदु, सिष्यनावदु ऎण्ड्रार्.
व्यासरुम् -
रुत्विक्, पुत्रन्,पत्नी,सिष्यन्, अल्लदु सहोदरन्, कर्त्तायिनुडैय आज्ञैयाल् विधिप्रगारम् होमम् सॆय्ग ऎण्ड्रार्.
कोबिलरुम्:-
सायम् प्राद: कालङ्गळिल् पत्नी क्रुह्याक्नियिल् होमम् सॆय्ग ऎण्ड्रार्
परत्वाजरुम् -
अल्लदु मन्द्रमिल्लामल् स्त्रीये होमम् सॆय्ग.
कौदमर् -
पत्नी होमम् सॆय्ग ऎण्ड्रु सिलर्.
स्म्रुत्यर्त्तसारत्तिल् विशेषम् -
होमत्तिल् मुक्यन् यजमानन्. पत्नी,पुत्रन्, कुमारी, रुत्विक्, सिष्यन्, कुरु, सहोदरन्, मरुमान्, माप्पिळ्ळै इवर्गळाल् होमम् सॆय्यप्पट्टाल्, ताने होमम् सॆय्ददागुम्. पत्नियुम्, कुमारियुम् परिषेसनमिण्ड्रि होमम् सॆय्ग" ऎण्ड्रुळ्ळदु.
होमत्तिऱ्कुप् पिऱगु, स्त्री सूर्यनुक्कु अर्क्यम् कॊडुक्कवेण्डुम्.
विश्वास-प्रस्तुतिः
तथा च व्यासः -
प्रातःकाले तु या नारी दद्यादर्घ्यं विवस्वते ।
सप्तजन्मसु वैधव्यं सा नारी नैव पश्यति ॥
तत्प्रकारमाह - स एव ॥
कृत्वा मण्डलकं बाह्ये तूष्णीमेवाक्षतादिभिः ।
पूजयेत्सततं या तु तस्यास्तुष्यन्ति देवताः ॥
तत्र मन्त्रो माधवीये -
नमो विवस्वते ब्रह्मन् भास्वते विष्णुतेजसे ।
जगत्सवित्रे शुचये सवित्रे कर्मदायिने इति ॥
आग्नेयपुराणेऽपि -
प्रणमेद्भास्करं पत्युरायुरारोग्यसिद्धये ।
सौमङ्गल्यं प्रार्थयन्ती नमस्कुर्यात् द्विजान् सतीति ॥
तदनन्तरं व्यवहारोपयुक्तनाम्ना गुरूणाम् अभिवादनं कर्तव्यम् ।

अप्पडिये व्यासर् -
ऎन्द स्त्री कालैयिल् सूर्यनुक्कु अर्क्यम् कॊडुक्किऱाळो, अवळ् एऴु जन्मङ्गळिल् वैदव्यत्तैप् पार्क्कमाट्टाळ्.
अर्क्यत्तिन् प्रगारत्तै अवरे सॊल्लुगिऱार्-
वॆळियिल् मण्डलम् सॆय्दु अक्षदै मुदलानवैगळाल् तेवदैगळ् सन्दोषिक्कुम् वरैयिल् पूजिक्कवेण्डुम्.
अदऱ्कु मन्द्रम् मादवीयत्तिल्.
(मन्द्रत्तिन् अर्त्तम्)प्रम्हनायुम्, सूर्यनायुम्, जगत्तुक्कुप् पालगनायुम्, कर्मङ्गळिन् पलनैक् कॊडुप्पवनायुमुळ्ळ उनक्कु नमस्कारम्.
आक्नेयबुराणत्तिलुम्-
पदियिन् आयुळ्, आरोक्यम् इवै सित्तिक्कुम् पॊरुट्टु, सूर्यनमस्कारम् सॆय्दु, सुमङ्गलियागत् तानिरुक्कुम्बडि प्रार्त्तित्तुक्कॊण्डु सात्वियानवळ् प्राम्हणर्गळै नमस्करिक्कवेण्डुम्.
अदऱ्कुप् पिऱगु, वऴक्कत्तिलिरुक्किऱ तन् पॆयराल् कुरुक्कळुक्कु अबिवादनम् सॆय्यवेण्डुम्.
विश्वास-प्रस्तुतिः
तथा च विज्ञानेश्वरः -
कुर्याच्छ्वशुरयोः पादवन्दनं भर्तृतत्परा ॥
इति ॥
भर्तृनमस्कारे विशेष उक्तो गौतमेन -
स्त्रीपुंयोगेऽभिवदतोऽनियममेके इति ।
अस्यार्थः -
अभिवादने क्रियमाणे अभिवादनीयनाम्ना अभिवादनं कर्तव्यम् इति नियमो नास्ति, किन्तु तत्कालोपस्थितव्यवहारोपयुक्तयत्किञ्चिन्नाम्ना अभिवादनं कर्तव्यमिति ॥

अप्पडिये विक्ञानेच्वार् -
भर्त्ताविनिडम् पक्तियुडैयवळ् मामियार्, मामनार् इवर्गळुक्कुप् पादवन्दनम् सॆय्यवेण्डुम्.
भर्त्तावै नमस्कारम् सॆय्वदिल् विशेषत्तैक् कौदमर् सॊल्लुगिऱार् -
(अर्त्तम्) भर्त्तावै अबिवादनम् सॆय्युम् पोदु पॆरियोर् वैत्त पॆयराल् नमस्करिक्कवेण्डिय नियममिल्लै.
आनाल् वऴक्कत्तिलुळ्ळ एदावदु ऒरु पॆयराल् नमस्करिक्कलाम्.