विश्वास-प्रस्तुतिः
ततो वस्त्रधारणम्
तत्र मत्स्यपुराणे -
एवं स्नात्वा ततः कुर्याद्
आचम्य च विधानतः ।
उत्थाय वाससी शुक्ले
शुद्धे तु परिधाय च ॥ ७० ॥
इति ।
उशना -
स्नात्वाऽनुपहतं वस्त्रं
परिदध्याद् यथाविधि ॥ ७१ ॥
वस्त्रधारणे विशेषमाह – शङ्खः ।
न नाभिं दर्शयेदागुल्फाद्वासः परिदध्यान्न स्तनौ विवृतौ कुर्यादिति ॥ ॥ ७२ ॥
वस्त्रधारणादिकं पश्यति पत्यौ न कर्तव्यम् ।
तथा च व्यासः -
तैलाभ्यङ्गं तथा स्नानं
शरीरोद्वर्तनक्रियाम् ।
मार्जनं चैव दन्तानाम्
अलकानां प्रसाधनम् ॥भोजनं वमनं निद्रां
परिधानं च वाससाम् ।
प्रारम्भं मण्डनानां च
न कुर्यात्पश्यति प्रिये ॥ ७३ ॥
इति ।
मूलम्
ततो वस्त्रधारणम्
तत्र मत्स्यपुराणे -
एवं स्नात्वा ततः कुर्यादाचम्य च विधानतः ।
उत्थाय वाससी शुक्ले शुद्धे तु परिधाय च ॥ ७० ॥
इति ।
उशना -
स्नात्वाऽनुपहतं वस्त्रं परिदध्याद्यथाविधि ॥ ७१ ॥
वस्त्रधारणे विशेषमाह – शङ्खः ।
न नाभिं दर्शयेदागुल्फाद्वासः परिदध्यान्न स्तनौ विवृतौ कुर्यादिति ॥ ॥ ७२ ॥
वस्त्रधारणादिकं पश्यति पत्यौ न कर्तव्यम् ।
तथा च व्यासः -
तैलाभ्यङ्गं तथा स्नानं शरीरोद्वर्तनक्रियाम् ।
मार्जनं चैव दन्तानामलकानां प्रसाधनम् ॥भोजनं वमनं निद्रां परिधानं च वाससाम् ।
प्रारम्भं मण्डनानां च न कुर्यात्पश्यति प्रिये ॥ ७३ ॥
इति ।
द्राविडम्
वस्त्रदारणम्
पिऱगु वस्त्रदारणम्.
मत्स्य पुराणत्तिल्:-
इव्विदम् स्नानम् सॆय्दु, विधिप्रगारम् आसमनम् सॆय्दु ऎऴुन्दु, सुत्तमान इरण्डु वॆळुप्पु वस्त्रङ्गळैत् तरित्तु, पिऱगु (कर्माक्कळै) सॆय्य वेण्डुम्. (70)
उसनस्:-
स्नानम् सॆय्दु, विधिप्रगारम् तोषप्पडाद वस्त्रत्तैत् तरिक्कवेण्डुम्. (71)
वस्त्रदारणत्तिल् सङ्गर् विशेषम् सॊल्लुगिऱार्.
नाबियैक् काट्टक्कूडादु. काल् मणिक्कट्टु वरैयिल् वस्त्रम् तरिक्कवेण्डुम्. स्तनङ्गळै प्रकाशप्पडुत्तक्कूडादु. (72)
वस्त्रदारणम् मुदलियवैगळैप् भर्त्ता पार्क्कुम्बोदु सॆय्यलागादु. अदै व्यासर्:-
तैलाप्यञ्जनम्,स्नानम्, शरीरत्तुक्कु वासनै पूसिक्कॊळ्वदु, पल्देय्प्पदु, तलै वारिक्कॊळ्वदु, पोजनम्, वान्दि, तूक्कम्, वस्त्रदारणम्, अलङ्गारम् इवैगळैप् पदि पार्क्कुम्बोदु सॆय्दुगॊळ्ळलागादु. (73)
विश्वास-प्रस्तुतिः
तासां तिलक-धारणमाह - मार्कण्डेयः -
हरिद्रां कज्जलं चैव
सिन्दूरं कुङ्कुमं तथा ।
कूर्पासकं च ताम्बूलं
मङ्गल्याभरणं शुभम् ॥
केश-संस्कार-कबरी-
कर-कर्ण-विभूषणम् ।
भर्तुर् आयुष्यम् इच्छन्ती
दूषयेन् न पति-व्रता ॥
इति ॥ ७४ ॥
अत एवास्मत्-कृत-रामायण-धर्माकूते -
सेवमाने दृढं सूर्ये
दिशम् अन्तकसेविताम् ।
विहीन-तिलकेव स्त्री
नोत्तरा दिक् प्रकाशते ॥ ७५ ॥
अत्र दिङ्-नायकस्य दिन-मणेर् अन्तक-देश-गमन-प्रयुक्ततया
उत्तर-दिग्-रूपाया नायिकाया विहीन-तिलकत्व-प्रतिपादनेन
तिलकाद्य्-अभावो विधवाया लक्षणम् ।
तिलकादिमत्त्वं सुवासिनीनां लक्षणम् इति सूचितम् ।
विश्वास-टिप्पनी
अत्र सिन्दुर-शब्देन सीमन्त-गत-लेप उच्यते।
तच् चापस्तम्बादीनां सीमन्तोन्नयनसंस्कारात् परम् एव भवितुम् अर्हतीति न्याय्यम्।
मूलम्
तासां तिलकधारणमाह - मार्कण्डेयः -
हरिद्रां कज्जलं चैव सिन्दूरं कुङ्कुमं तथा ।
कूर्पासकं च ताम्बूलं मङ्गल्याभरणं शुभम् ॥
केशसंस्कारकबरीकरकर्णविभूषणम् ।
भर्तुरायुष्यमिच्छन्ती दूषयेन्न पतिव्रता ॥
इति ॥ ७४ ॥
अत एवास्मत्कृतरामायणधर्माकूते -
सेवमाने दृढं सूर्ये दिशमन्तकसेविताम् ।
विहीनतिलकेव स्त्री नोत्तरा दिक् प्रकाशते ॥ ७५ ॥
अत्र दिङ्नायकस्य दिनमणेरन्तकदेशगमनप्रयुक्ततया उत्तरदिग्रूपाया नायिकाया विहीनतिलकत्वप्रतिपादनेन तिलकाद्यभावो विधवाया लक्षणम् । तिलकादिमत्त्वं सुवासिनीनां लक्षणमिति सूचितम् ।
द्राविडम्
अवर्गळुक्कुत् तिलगम् नॆट्रियिल् वैत्तुक्कॊळ्वदै मार्गण्डेयर् सॊल्लुगिऱार्:
मञ्जळ्, मै, सिन्दूरम्, कुङ्गुमम्, रविक्कै, ताम्बूलम्, मङ्गळाबरणम्, तलै वारिक्कॊळ्वदु, तलैमुडि, कै कादुगळुक्कु अलङ्गारम् इवैगळैप् पदिव्रदै पदियिन् आयुस्सैक् कोरिक्कॊण्डु विडक्कूडादु. (74)
अप्पडिये नामियट्रिय रामायण धर्मागूदत्तिल् :
सूर्यन् तॆऱ्कुत् तिक्कै नण्ड्राय्प् पिरगासप्पडुत्तिक् कॊण्डिरुक्कुम्बोदु वडक्कुत् तिक्कु तिलगमट्र स्त्रीबोल् पिरगासिक्कविल्लै. (75)
इव्विडत्तिल् तिक्कु नायगना सूर्यन् तॆऱ्के पोयिरुप्पदाल् उत्तर तिक्कान नायगि तिलगमट्रवळायिरुक् किऱाळ् ऎण्ड्रु सॊन्नदाल्, तिलगमिल्लामै विदवैयिन् लक्षणम् ऎण्ड्रुम्, तिलगम् मुदलियवै सुवासिनिगळिन् लक्षणम् ऎण्ड्रुम् एऱ्पट्टदु.
विश्वास-प्रस्तुतिः
तथा च वसिष्ठसंहितायाम् -
कञ्चुकं कण्ठ-सूत्रञ् च
कर्णपत्रे तथाऽञ्जनम् ।
काचकाभरणं चैव
हरिद्रा-स्नान-पुण्ड्रकम् ॥
केश-प्रसाधनं चैव
पाद-नासा-विभूषणम् ।
ताम्बूलादीनि लक्ष्माणि
प्रोच्यन्ते पुण्ययोषिताम् ॥ ७६ ॥मणिबन्धे च कण्ठे च काचकाभरणैर्युता ।
सा नारी पुण्यचरिता तस्याः पाकः शुचिः स्मृतः ॥
करमूले कण्ठमूले काचाभरणवर्जिता ।
सा नारी विधवा ज्ञेया जन्मजन्मान्तरेष्वपि ॥ ॥ ७७ ॥
इति ॥
विश्वास-टिप्पनी
मङ्गलसूत्रधरणम् अर्वाचीनम् एवेति प्रामाणिकम् - सूत्रेषु तद्-बन्धनाभावतः।
एवं कञ्चुक-धरणम्, नासाभरणम् अपि।
दक्षिण-भारते त्व् अद्यापि शिष्टस्त्रियः संस्कारप्रभृतिषु स्यूत-वस्त्राणि वारयन्ति।
उत्तरभारते ऽवघुण्टनम्,
शिरोवेष्टनं चाधिकं दृश्यते - तत्-प्रसिद्धिर् अप्य् अर्वाचीनम् एव।
मङ्गलसूत्रधरणं दक्षिणभारत-शिष्टेषु प्रसिद्धम्।
Some 50 years ago, TN women would wear the thiru-mangalyam/thALi (gold pendant) on a turmeric dyed cotton string. Today about 10-25% of them continue to wear it on a cotton string while the rest wear it on a gold chain. - vijay
मूलम्
तथा च वसिष्ठसंहितायाम् -
कञ्चुकं कण्ठसूत्रञ्च कर्णपत्रे तथाऽञ्जनम् ।
काचकाभरणं चैव हरिद्रास्नानपुण्ड्रकम् ॥
केशप्रसाधनं चैव पादनासाविभूषणम् ।
ताम्बूलादीनि लक्ष्माणि प्रोच्यन्ते पुण्ययोषिताम् ॥ ७६ ॥मणिबन्धे च कण्ठे च काचकाभरणैर्युता ।
सा नारी पुण्यचरिता तस्याः पाकः शुचिः स्मृतः ॥
करमूले कण्ठमूले काचाभरणवर्जिता ।
सा नारी विधवा ज्ञेया जन्मजन्मान्तरेष्वपि ॥ ॥ ७७ ॥
इति ॥
द्राविडम्
अप्पडिये वसिष्ठ संहितैयिल्:-
रविक्कै, कऴुत्तिल् नूल्, कादु ऒलै, मै, कण्णाडि आबरणम्, मञ्जळ् कुळिप्पदु, नॆट्रियिल् तिलगम्, तलैवारिक्कॊळ्वदु, पादत्तिऱ्कु उरुट्टु, मूक्कुक्कु मूक्कुत्ति, ताम्बूलम् मुदलिय सिन्नङ्गळ् पुण्य स्त्रीयिन् लक्षणम्. (76)
मणिक्कट्टिलुम् कऴुत्तिलुम् कण्णाडि आबरणत्तैयुडैय स्त्री पुण्य सरिदमुडैयवळ्. अवळ् सॆय्युम् समैयल् सुत्तमानदु. मणिक्कट्टिलुम् कऴुत्तिलुम् कण्णाडियाबरण मट्रवळ् जन्मजन्मान्दरङ्गळिलुम् विदवै ऎण्ड्रु अऱिग. (77)