०४ स्नानम्

विश्वास-प्रस्तुतिः

अथ स्नानम् – तत्र विष्णुः ॥

ब्रह्मक्षत्रविशां चैव मन्त्रवत् स्नानमिष्यते ।
तूष्णीमेव हि शूद्रस्य स्त्रीणां च कुरुनन्दनेति ॥ ६४ ॥

बोधायनोऽपि -

अपोवगाहनं स्नानं विहितं सार्वकामिकम् ।
मन्त्रवत्प्रोक्षणं चापि द्विजातीनां विशिष्यते इति ॥ ६५ ॥

नग्नायाः स्नानं निषिद्धम् । तथा च व्यासः ॥

नैकाकिनी क्वचिद्भूयान्न नग्ना स्नाति वै क्वचिदिति ॥६६॥

स्मृत्यर्थसारे विशेष उक्तः ॥

यत्र पुंसः सचेलं स्यात् स्नानं तत्र सुवासिनी ।
कुर्वीतैवाशिरःस्त्रानं शिरोरोगी जटी तथा ॥ ॥ ६७ ॥

एतच्च स्त्रानं नद्यादिषु कर्तव्यम् । तथा च हरिवंशे अरुन्धतीं प्रत्युमा -

नदीजलं प्रस्रवणं प्रशस्तं सोमनन्दिनि ।
शुभे तटाके वाप्यादौ विस्तीर्णे जलजायुते ।
गत्वा स्नानं प्रशस्तं तु दिवैव खलु सर्वदा ॥ ॥ ६८ ॥

अलाभे त्ववरुद्धा स्त्री घटस्नानं समाचरेत् ।
नवैश्च कुम्भैः स्नातव्यं विधिरेष सनातनः इति ॥ ६९ ॥

मूलम्

द्राविडम्

स्नानम्

अङ्गे विष्णु:-

प्राम्हण क्षत्रिय वैच्यरुक्कु मन्द्रङ्गळुडन् स्नानम्. स्त्री सूत्रर्गळुक्कु मट्टिल् मन्द्रमिल्लामल् स्नानम् विधिक्कप्पट्टिरुक्किऱदु. (64)

पोदायनरुम्:-

जलत्तिल् आऴ्न्दु स्नानम् सॆय्वदु सर्वाबीष्टङ्गळैयुम् कॊडुक्कुम्. मन्द्रत्तुडन् प्रोक्षणम् त्विजर्गळुक्कु मात्तिरम् विशेषम्. (65)

वस्त्रमिल्लामल् स्नानम् कूडादु. अदै व्यासर्:

ऒरुत्तियाय् ओरिडमुम् इरुक्कक्कूडादु. वस्त्रमिल्लामलुम् ओरिडमुम् स्नानम् सॆय्यक्कूडादु. (66)

स्म्रुत्यर्त्तसारत्तिल् विशेषम्:-

ऎव्विडम् पुरुषनुक्कु वस्त्रत्तुडन् स्नानम् सॊल्लप्पट्टदो अव्विडम् सुवासिनीगळ् तलैयैत् तविरत्तान् स्नानम् सॆय्य वेण्डुम्. तलैरोगमुळ्ळवनुम् जडादारियुमप्पडिये. (67)

स्नानम् नदी मुदलियवैगळिल् सॆय्यवेण्डुम्. अप्पडिये हरिवम्सत्तिल् अरुन्ददियैक् कुऱित्तु उमादेवी

सोमबुत्रिये! नदीजलम्, मलैयरुवि विशेषमानवै. नल्ल कुळम्, विस्तारमान तामरैयुळ्ळ कुट्टै मुदलियवैगळिल् सॆण्ड्रु पगलिलेये स्नानम् सॆय्वदु विशेषम्. (68)

किडैक्काविडिल् वीट्टिल् इरुप्पवळ् कुडत्तिन् जलत्ताल् स्नानम् सॆय्यवेण्डुम्. पुदिय कुडमायिरुक्क वेण्डुम्. इदु सनादन धर्मविधि. (69)