०३ गो-सेवनम्

विश्वास-प्रस्तुतिः

अथ गोसेवनम्

भारते -

सायं प्रातर्नमस्येच्च गास्ततः पुष्टिमाप्नुयात् ।
गाश्च सङ्कीर्तयेन्नित्यं नावमन्येत तास्तथा ॥ ४८ ॥

द्रुह्येन्न मनसा वाऽपि गोषु नित्यं सुखप्रदः ।
अर्चयेत सदा चैव नमस्कारैश्च पूजयेत् ॥ ४९ ॥

मातरः सर्वभूतानां गावः सर्वसुखप्रदाः ।
वृद्धिमाकाङ्क्षता नित्यं गावः कार्याः प्रदक्षिणाः ॥ ५० ॥

सन्ताड्या न तु पादेन गवां मध्ये न च व्रजेत् ।
मङ्गळायतनं देव्यस्तस्मात् पूज्याः सदैव हि ॥ ५१ ॥

उष्णे वर्षति शीते वा मारुते वाति वा भृशम् ।
न कुर्वीतात्मनस्त्राणं गोरकृत्वा स्वशक्तितः ॥ ५२ ॥

आत्मनो यदि वाऽन्येषां गृहे क्षेत्रे खलेऽथवा ।
भक्षयन्तीं न कथयेत् पिबन्तं नैव वत्सकम् ॥ ५३ ॥

पतितां पङ्कलग्नां वा सर्वप्राणैः समुद्धरेत् ।
गवां संरक्षणार्थाय न दुष्येद्रोधबन्धयोः ॥ ५४ ॥

तद्वधं तु न तं विद्यात् कामाकामकृतं तथा ।
काशैः कुशैश्च बध्नीयात् गोपशुं दक्षिणामुखम् ॥ ५५ ॥

प्रेरयन् कूपवापीषु वृक्षभेदेषु पातयन् ।
गवाशनेषु विक्रीणन् ततः प्राप्नोति गोवधम् ॥ ५६ ॥

कूपखाते तटाबन्धे नदीबन्धप्रपासु च ।
पानीयेषु विपन्नानां प्रायश्चित्तं न विद्यत इति ॥ ५७ ॥

अन्यत्रापि ॥

गवां मध्ये शुचिर्भूत्वा गोमतीं मनसा जपेत् ।
गा वै पश्याम्यहं नित्यं गावः पश्यन्तु मां सदा ॥ ५८ ॥

गावोऽस्माकं वयं तासां यतो गावस्ततो वयम् ।
यया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम् ।
तां धेनुं शिरसा वन्दे भूतभव्यस्य मातरम् ॥ ४९ ॥

नाकीर्तयित्वा गास्स्वप्यान्नासंस्मृत्यैव चोत्पतेत् ।
सायं प्रातर्नमस्येच्च गास्ततः पुष्टिमाप्नुयात् ॥ ६० ॥

एवं रात्रौ दिवा चापि समेषु विषमेषु च ।
महाभयेषु च नरः कीर्तयन्मुच्यते भयात् ॥ ॥ ६१ ॥

पुत्रकामश्च लभते पुत्रं धनमथापि वा ।
प्रीतिकामा च भर्तारं सर्वकामांश्च मानवः ॥ ॥ ६२ ॥

गोषु भक्तिञ्च लभते यद्यदिच्छति मानवः ।
स्त्रियोऽपि भक्त्या या गोषु ताश्च काममवाप्नुयुः ।
न किञ्चिद् दुर्लभं चैव गवां भक्तस्य भारत इति ॥ ६३ ॥

मूलम्

द्राविडम्

को सेवनम्

को सेवनत्तैप्पट्रिप् पारदत्तिल्:-

कालैयिलुम्, मालैयिलुम् कोक्कळै नमस्करिक्क वेण्डुम्. अदनाल् पुष्टियै अडैवान्. कोक्कळै ऎप्पॊऴुदुम् तुदिक्क वेण्डुम्. ऒरु पॊऴुदुम् निन्दिक्कक्कूडादु. (48)

मनदालुम् अवैगळुक्कु त्रोहम् सॆय्यक्कूडादु. अवैगळुक्कु सुगत्तैक् कॊडुक्कवेण्डुम्. ऎप्पोदुम् अवैगळैप् पूजिक्कवुम् नमस्करिक्कवुम् वेण्डुम्. (49)

समस्त प्राणिगळुक्कुम् कोक्कळे ताय्गळ्. ऎल्लोरुक्कुम् सुगत्तैक् कॊडुप्पवैगळ्. अबिव्रुत्तिक्कु वर विरुप्पमुळ्ळवन् कोक्कळै प्रदक्षिणम् सॆय्यवेण्डुम्. पादत्ताल् उदैक्कक्कूडादु.
कोक्कळुक्कु मत्तियिल् सॆल्लक्कूडादु. मङ्गळत्तुक्कु इरुप्पिडम् कोक्कळ्. आगैयाल् ऎप्पॊऴुदुम् अवैगळ् पूजिक्कत्तगुन्दवै. (51)

उष्णत्तिलो, मऴैयिलो, सीदत्तिलो, काट्रु अदिगमाग वीसुम्बोदो तन् सक्तिक्कुत् तक्कवाऱु कोवुक्कु रक्षणम् सॆय्यामल् तनक्कुच् चॆय्दुगॊळ्ळक्कूडादु. (52)

तन्नुडैय, अल्लदु पिऱरुडैय, वयलिल्, अल्लदु वीट्टिल्, अल्लदु कळत्तिल्, तिन्नुम् कोवैयुम् पाल् कुडिक्कुम् कण्ड्रैयुम् पिऱरुक्कुच् चॊल्लक्कूडादु. (53)

विऴुन्द, अल्लदु सेट्रिल् आऴ्न्दिय, पसुवैत् तन् मुऴु पलत्ताल् ऎडुत्तुविडवेण्डुम्. को रक्षणत्तिल् काराक्रुहमो पन्दमो एऱ्‌पट्टालुम् तोषमिल्लै. (54)

कोवैत् तॆन्मुगमाग नाणलालुम् तर्प्पत्तालुम् कट्टवेण्डुम्. इदु इष्टप्पट्टो अल्लामलो एऱ्‌पट्ट वदमल्ल. (55)

किणऱु वाबीगळिल् माट्टैत् तूण्डिनालुम्,व्रुक्षङ्गळ् विऴुम्बोदु अदै अन्द इडङ्गळिल् वीऴ्त्तिनालुम्, माडु तिन्बवरिडम् विट्रालुम् कोवदत्तैच् चॆय्दवनावान्. (56)

किणऱु वॆट्टुमिडत्तुम्, कुळङ्गळिन् अणैगळिलुम्, नदिगळिन् अणैगळिलुम्, जलङ्गुडिक्कुमिडत्तुम् माडु मरित्तुप्पोनाल् तोषमिल्लै. (57)

वेऱु इडत्तिलुम्:-

कोमत्तियिल् सुत्तनायिरुन्दु कोमदी ऎन्नुम् मन्द्रत्तै मनदाल् जबिक्कवेण्डुम्. नान् तिनमुम् कोक्कळैप् पार्क्किऱेन्.
अवैगळुम् ऎन्नैप् पार्क्कट्टुम्. अवैगळ् नम्मैच् चेर्न्दवै. नाम् अवैगळैच् चेर्न्दवर्. ऎङ्गु को इरुक्किऱदो अव्विडमे नाम्. (58)

ऎवळाल् स्तावरम् जङ्गमम् ऎन्नुम् प्रबञ्जम् व्याबिक्कप्पट्टिरुक्किऱदो, इरुक्किऱदुम् वरप्पोवदुमान प्रबञ्जत्तिन् तायान अन्दत् तेनुवैत् तलैयाल् वणङ्गुगिऱेन्. (59)

पसुक्कळै वाऴ्त्तामल् तूङ्गादे. अवैगळै निनैयामल् ऎऴुन्दिरुक्कादे.
अवैगळैक् कालै मालैगळिल् नमस्करि. पुष्टियुण्डागुम्. (60)

इव्विदम् रात्रियिलुम्, पगलिलुम्, नल्ल कालङ्गळिलुम्, कष्टगालङ्गळिलुम्, महा पयङ्गळिलुम्, कोक्कळै सङ्गीर्त्तनम् सॆय्दाल् पयत्तिलिरुन्दु विडुबडुवान्. (61)

पुत्रन् वेण्डियवन् पुत्रनैयुम् तनत्तैयुमडैगिऱान्. प्रीदियै इष्टप्पडुबवळ् भर्त्तावैयुम्, मनिदन् सर्वाबिष्टङ्गळैयुम् अडैवार्गळ्. (62)

कोविनिडत्तिल् पक्तियुडैय मानवन् अबीष्टङ्गळै यॆल्लामडैवान्. पक्तर्गळान स्त्रीगळुम् अबीष्टत्तै यडैवार्गळ्. को पक्तनुक्कु ऒण्ड्रुम् अगप्पडाददिल्लै. (63)