विश्वास-प्रस्तुतिः
अथ दन्तधावनम्
तत्रात्रिः -
मुखे पर्युषिते नित्यं भवन्त्यप्रयता नराः ।
तदार्द्रकाष्ठं शुष्कं वा भक्षयेद् दन्तधावनम् ॥ ४३ ॥
स्मृत्यर्थसारे -
अङ्गुल्या धावयेद्दन्तान् वर्जयेत्तु प्रदेशिनीम् ।
मध्यमानामिकाङ्गुष्ठैर्दन्तदार्ढ्यं भवत्यपि ॥ ४४ ॥
वर्ज्यदिवसानाह – विष्णुः ॥
श्राद्धे जन्मदिने चैव विवाहेऽजीर्णदोषतः ।
व्रते चैवोपवासे च वर्जयेद्दन्तधावनमिति ॥ ४५ ॥
मूलम्

द्राविडम्
भल् धेय्भ्भधु.
इन्ध विषयमाघ अध्रि:-
वाय् भழमैभ् भढ्ढाल् मனिधर् अझुध्धर्घळाघिऱार्घळ्. आघैयाल् भल् धुवघ्घध्धघ्घ ईरमाன अल्लधु घाय्न्ध घुझ्झियै मॆल्ल वेण्ढुम्.(43)
स्म्रुध्यर्ध्धसारध्धिल् :-
विरलाल् भऱ्घळै विळघ्घ वेण्ढुम्. आனाल् आळ्घाढ्ढि विरलाल् घूढाधु. नढु विरल्, मोधिरविरल्, घढ्ढै विरल्घळाल् धुलघ्घिனाल् भऱ्घळुघ्घुघ् घॆढ्ढियुम् एऱ्भढुम्. (44)
विलघ्घध्धघ्घ धिனङ्घळै विष्णु झॊल्लुघिऱार्:-
झ्राध्ध धिனध्धिलुम्, जன्मधिனध्धिलुम्, अजीर्णध्धिलुम्, विवाह धिனध्धिलुम्, व्रधम् उभवासम् इवैघळिलुम् धन्ध धावன ध्धै विढवेण्ढुम्. (45)
विश्वास-प्रस्तुतिः
अनेन वचनेन उपवासे पुरुषाणामिव दन्तधावननिषेधे प्राप्ते स्त्रीणां विशेषमाह – मनुः ॥
पुष्पालङ्कारवस्त्राणि तथा धूपानुलेपनम् ।
उपवासे न दुष्यन्ति दन्तधावनमञ्जनम् ॥
इति ॥ ४६ ॥
प्रोषितभर्तृकाणां विशेषमाह - विष्णुः ॥
श्राद्धे यज्ञे च नियमे नाद्यात् प्रोषितभर्तृका ॥ ४७ ॥
नाद्यात् दन्तधावनं न कुर्यादित्यर्थः ॥
इति ॥

इन्द वसनत्ताल् उबवासत्तिल् पुरुषर्गळ् पोल् स्त्री कळुक्कुम् तन्द तावनम् कूडादॆण्ड्रु एऱ्पड, स्त्रीगळुक्कु विशेषम् सॊल्लुगिऱार् मनु.
पुष्प अलङ्गारम्, वस्त्रङ्गळ्, तूबम्, सन्दनप् पूच्चुगळ् तन्द तावनम्, मै, इवैगळ् उबवासत्तिलुम् तोषमाग माट्टा. (46)
भर्त्ता वॆळित्तेसत्तुक्कुप्पोनवर्गळुक्कु विशेषम् सॊल्लुगिऱार् - विष्णु :-
च्रात्तत्तिलुम्,यक्ञत्तिलुम्, नियम कालत्तिलुम् वॆळित्तेसत्तिऱ्कुच् चॆण्ड्र भर्त्तावैयुडैयवळ् तिन्नक्कूडादु, अदावदु पल् तेय्क्कक्कूडादु. (47)