०१ जागरणादि

विश्वास-प्रस्तुतिः

तत्र स्त्रीणामाह्निकं निरूप्यते ॥

स्त्रिया भर्तृप्रबोधात्पूर्वमेव प्रबोद्धव्यम् ॥ तथा च याज्ञवल्क्यः -

सुप्ते पश्चाच्च या शेते पूर्वमेव प्रबुध्यते ।
नान्यं कामयते चित्ते सा विज्ञेया पतिव्रता ॥

इति ॥

प्रबुद्ध्य च देवताध्यानं कर्तव्यम् । तथा च स्मृत्यन्तरे -

षोढा विभज्य रजनीं चरमांशे प्रबोधितः ।
पत्न्या सह हरिं ध्यात्वा धर्ममर्थं च चिन्तयेदिति ॥ ७ ॥

ब्राह्मे मुहूर्ते निद्राकरणे दोष उक्तः स्मृतिरत्नावल्याम्

ब्राह्मे मुहूर्ते सेवेतां शयनं यत्र दम्पती ।
श्मशानतुल्यं तद्वेश्म पितृभिः परिवर्जितम् ॥ इति ॥ ८ ॥

मूलम्

द्राविडम्

तिनन्दोऱुम् सॆय्यवेण्डिय कडमैगळ् स्त्रीगळुक्कु तिनन्दोऱुम् सॆय्यवेण्डिय कडमैगळ् निरूबिक्कप्पडुगिण्ड्रन

स्त्री भर्त्तावुक्कु मुन् विऴित्तुक्कॊळ्ळवेण्डुम्. इदैये याज्ञ्यवल्क्यर् -

ऎवळ् भर्त्ता तूङ्गियबिन् तूङ्गुगिऱाळो, मुन्बे विऴित्तुक्कॊळ्ळुगिऱाळो, मनदिल् मट्रॊरुवनै इष्टप्पडविल्लैयो, अवळे पदिव्रदै ऎण्ड्रऱिग." (6)

विऴित्तुक्कॊण्डदुम् तेवदैयै त्यानिक्कवेण्डुम्. अप्पडिये वेऱु स्मरुदियिल्:-

इरवै आऱु पागमागप् पगुत्तु कडैसि पागत्तिल् पत्नियाल् ऎऴुप्पप्पट्टु, अवळुडन् हरियै त्यानित्तु, धर्मत्तैयुम् अर्त्तत्तैयुम् सिन्दिक्कवेण्डुम्. (7)

प्राह्म मुहूर्त्तत्तिल् नित्तिरै सॆय्दाल् तोषम् स्मृतिरत्नावळियिल् सॊल्लप्पडुगिऱदु :-

ऎव्विडत्तिल् प्राह्म मुहुर्त्तत्तिल् तम्बदिगळ् सयनत्तै सेविक्किऱार्गळो अन्द वीडु च्मसान समम्. पित्रुक्कळाल् विलक्कप्पट्टदु. (8)

विश्वास-प्रस्तुतिः

प्रबोधानन्तरं दर्शनीयान्यदर्शनीयानि च दर्शयति कात्यायनः ॥

श्रोत्रियं सुभगं गां च अग्निमग्निचितं तथा ।
प्रातरुत्थाय यः पश्येदापद्भ्यः स प्रमुच्यते ॥ ९ ॥

पापिष्ठं दुर्भगं मर्त्यं नग्नमुत्कृत्तनासिकम् ।
प्रातरुत्थाय यः पश्येत् तत्कलेरुपलक्षणम् ॥ इति ॥ १० ॥

विऴित्तबिन् पार्क्कत्तक्कवै तगादवैगळैच् चॊल्लु किऱार् कात्यायनर्:-

च्रोत्रियन्, सौबाक्यमुडैयवन्, को, अक्नि, अक्निसयनम् सॆय्दवन् इवर्गळै कालैयिल् विऴित्तबिन् पार्क्किऱवन् आबत्तुगळिलिरुन्दु विडुबडुगिऱान्.

पाबिष्टन्, तुर्बाक्यन्, वस्त्रमिल्लादवन्, मूक्करैयन् इवर्गळै कालैयिल् ऎऴुन्दु पार्प्पदु कलियिन् सुसगम्. (10)

विश्वास-प्रस्तुतिः

अपररात्रे धान्यसंस्कारादि कर्तव्यम् । तथा च मार्कण्डेयपुराणे -

निशायाः पश्चिमे यामे धान्यसंस्करणादिकम् ।
क्रियमाणं हि नारीणां सर्वश्रेयोधनावहम् ॥ इति ॥ ११ ॥

प्रातःकाले गृहसम्मार्जनादिकं कर्तव्यम् । तदपि तत्रैव –

स्पृशन्ति रश्मयो यस्य गृहं सम्मार्जनादृते ।
भवन्ति विमुखास्तस्य पितरो देवमातरः ॥ १२ ॥

प्रातःकाले स्त्रिया कार्यं गोमयेनानुलेपनम् ।
प्रत्यहं सदने तस्मान्नैव दुःखानि पश्यति ॥ १३ ॥

रात्रियिन् पिन्बागत्तिल् तान्य सम्स्कारङ्गळ् सॆय्य वेण्डुम्.अप्पडिये मार्गण्डेय पुराणत्तिल्,

रात्रियिन् कडैसि यामत्तिल् सॆय्यप्पडुम् तान्य सम्स्कारम्
स्त्री कळुक्कु सगल च्रेयस्कळैयुम् तनत्तैयुम् कॊडुक्कुम्. (11)

कालैयिल् वीट्टैप् पॆरुक्कुवदु मुदलानदैच् चॆय्य वेण्डुम्. अदुवुम् अव्विडमे (मार्गण्डेय पुराणत्तिल्)

ऎवनुडैय वीट्टिल् पॆरुक्कामल् सूर्यरच्मिगळ् विऴुगिण्ड्रनवो अवनिडम् पित्रुक्कळुम् तेवर्गळिन् ताय्गळुम् पराङ्मुगमागिऱार्गळ्. (12)

स्त्रीगळ् तिनन्दोऱुम् कालैयिल् कोमयत्ताल् वीट्टै मॆऴुगवेण्डुम्.
आदलाल् तुक्कङ्गळैप् पार्क्कमाट्टाळ्. (13)

विश्वास-प्रस्तुतिः

गोमयस्य प्राशस्त्यमानुशासनिके -

श्रीः कृत्वेह वपुः कान्तं गोमध्येषु विवेश ह ।
अप्येकाङ्गेष्वथो वस्तुमिच्छामि च सुकुत्सिते ॥ १४ ॥

न वोऽस्ति कुत्सितं किञ्चिदङ्गेष्वालक्ष्यते मया ॥ पुण्याः पवित्राः सुभगा मम वासं प्रयच्छत ।
वसेयं यत्र वो देहे तन्मे वक्तुमिहार्हथ ॥ १५ ॥

गाव ऊचुः -

अवश्यं मानना कार्या तवास्माभिर्यशस्विनि ।
शकृन्मूत्रे वस त्वं हि पुण्यमेतद्धि नः शुभे ॥ १६ ॥

श्रीरुवाच -

दिष्ट्या प्रसादो युष्याभिः कृतो मेऽनुग्रहात्मकः ।
एवं भवतु भद्रं वः पूजिताऽस्मि सुखप्रदाः ॥ १७ ॥

एवं गोशकृतः पुत्र माहत्म्यं तेऽनुवर्णितम् ।
गवां मूत्रपुरीषस्य नोद्विजेत कथञ्चनेति ॥ १८ ॥

अत एव गोमयेनानुलिप्तो देशः शुचिः लक्ष्म्याः आयतनमिति सर्वजनानुभवसिद्धम् ॥

अशून्या देहली कार्या प्रातःकाले विशेषतः ।
यस्याः शून्या भवेत्सा तु शून्यं तस्याः कुलं भवेत् ॥ १९ ॥

उदुम्बरे वसेन्नित्यं भवानी सर्वदेवता ।
ततस्सा प्रत्यहं पूज्या गन्धपुष्पाक्षतादिभिः ॥ २० ॥

पादस्य स्पर्शनं तत्र असम्पूज्य च लङ्घनम् ।
कुर्वन्न सुखमाप्नोति तस्मात्तत्परिवर्जयेत् ॥ २१ ॥

अकृतस्वस्तिकां या तु क्रमेल्लिप्तां च मेदिनीम् ।
तस्यास्त्रीणि विनश्यन्ति वित्तमायुर्यशस्तथा ॥ २२ ॥

यद्गृहं राजते नित्यं रङ्गवल्ल्यानुलेपनैः ।
तद्गृहे वसते लक्ष्मीः नित्यं पूर्णकलान्वितेति ॥ २३ ॥

इदं च धान्यावहननोपलेपनसम्मार्जनादिकं यथाशक्ति स्वयं कुर्यात्कारयेद्वा ॥

कोमयत्तिन् पॆरुमै आनुसासनिगबर्वत्तिल् (पारदम्):-

लक्ष्मिदेवि अऴगान उरुवत्तुडन् को मत्तियिल् प्रवेसित्तुच् चॊन्नाळ्.
उङ्गळुडैय एदावदॊरु निन्दियमान अङ्गत्तिल् वसिक्क इच्चिक्किऱेन्. (14)

उङ्गळ् अङ्गङ्गळिल् कॊञ्जमुम् कॆट्टबागम् तॆन्बडविल्लै.
नीङ्गळ् पुण्यमानवर्गळ्. परिसुत्तर्गळ्. सौबाक्यमुळ्ळवर्गळ्.
ऎनक्कु इडम् कॊडुङ्गळ्. नान् वसिक्कत्तक्क इडत्तैक् कूऱुङ्गळ्." (15)

कोक्कळ् सॊन्नदावदु

कीर्त्ति पॊरुन्दियवळे, उनक्कु अवच्यम् नाङ्गळ् कौरवम् कॊडुक्क वेण्डुम्.
ऎङ्गळ् मूत्रत्तिलुम् साणियिलुम् वसि. अदु ऎङ्गळुक्कुप् पुण्यमानदु. (16)

लक्ष्मि कूऱियदु :-

पाक्यत्ताल् नीङ्गळ् ऎनक्कु अनुग्रहम् सॆय्दीर्गळ्.अप्पडिये आगट्टुम्.
उङ्गळुक्कु क्षेममागट्टुम्. नान् पूजिक्कप्पट्टेन्. (17)

मगने, इव्विदम् सोमयत्तिन् माहात्म्यम् उनक्कु उरैक्कप्पट्टदु.
कोमूत्र कोमयङ्गळिल् ऒरु विदमागवुम् अरुवॆऱुप्पु कूडादु. (18)

आदलाल्दान् कोमयत्ताल् मॆऴुगिय प्रदेसम् सुत्तम्. लक्ष्मियिन् इरुप्पिडमॆण्ड्रु सर्व जनङ्गळिन् अनुबव सित्तमानदु.

वासऱ्‌पडि विशेषमाग कालैयिल् सून्यमिल्लामल् सॆय्यप्पडवेण्डुम्.
ऎवळुडैय वीट्टु वासऱ्‌पडि सून्यमो अवळ् कुलम् सून्यमागुम्. (19)

वासऱ्‌पडियिल् सर्वजन तेवदैयागिय पवानी वसिक्किऱाळ्.
आगैयाल् कन्दम्, पुष्पम् मुदलियवैगळाल् अवळै तिनमुम् पूजिक्कवेण्डुम्. (20)

अदै कालाल् तॊडुवदु, पूजिक्कामल् ताण्डुवदु इवैगळैच् चॆय्बवन् सुगत्तैयडैवदिल्लै. आगैयाल् अदै विलक्कवेण्डुम्. (21)

ऎवळ् मॆऴुगियबिन् कोलम् पोडाद पूमियिल् नडक्किऱाळो अवळुडैय तनम्, आयुस्, यसस् इवैगळ् नसिक्किण्ड्रन.

ऎन्द वीडु मॆऴुगि कोलमिडप्पट्टिरुक्किऱदो अन्द वीट्टिल् नित्यमाग पूर्णगलैयुडन् लक्ष्मी वसिक्किऱाळ्. (23)

तान्यङ्गळैक् कुत्तल्, वीडुमॆऴुगुदल्, पॆरुक्कुदल् मुदलिय इवैगळै तन् सक्तिक्कनुसारमाग ताने सॆय्यवेण्डुम्. अल्लदु वेलैक्कारर्गळाल् सॆय्विक्कवेण्डुम्.

विश्वास-प्रस्तुतिः

तथा चानुशासनिके शाण्डिलिं प्रति सुमनाः -

कुटुम्बार्थे समानीतं यत्किञ्चित्कार्यमेव तु ।
प्रातरुत्थाय तत्सर्वं कारयामि करोमि च ॥ इति ॥ २४ ॥

अग्निपरिचर्यां देवपूजोपकरणसाधनादीनि तु स्वयं कुर्यात् ।

नियमोदकबर्हींषि पत्रपुष्पाक्षतादिकम् ।
पूजोपकरणं सर्वमनुक्तं साधयेत्स्वयम् ॥

इति स्कान्दवचनात् ॥ ॥ २५ ॥

‘नोपरुद्धः क्रियां चरे’दिति वचनेन मूत्राद्युपरुद्धस्य क्रियानधिकारदर्शनात्तदुत्सर्गः कर्तव्यः ॥

तत्र देशविशेषमाह - आपस्तम्बः ॥

दूरादावसथान्मूत्रपुरीषे कुर्याद्दक्षिणां दिशं दक्षिणापरां वेति ॥ एतच्च दिवाविषयम् ॥ ॥ २६ ॥

अप्पडिये आनुसासनिगत्तिल् साण्डिलियैक् कुऱित्तु सुमनस् ऎन्बवळ् सॊल्लुगिऱाळ्:

कुटुम्बत्तिऱ्‌कागक् कॊण्डुवन्ददैयुम् सॆय्यवेण्डियदैयुम् कालैयिल् ऎऴुन्दु (वेलैयाट्कळाल्) सॆय्विक्किऱेन्, अल्लदु सॆय्गिऱेन्. (24)

अक्कि परिसरणत्तैयुम्, तेवबूजै सॆय्वदऱ्‌कु वेण्डिय शुश्रूषैगळैयुम्, स्त्रीगळ् तामे सॆय्यवेण्डुम्.

नियममागक् कॊण्डु वरवेण्डिय जलम्, तर्प्पम्, पत्रम्, पुष्पम्, अक्षदैगळ्, मुदलिय पूजा सामक्रिगळैच् चॊल्लामल् ताने तयारिक्कवेण्डुम्,

ऎण्ड्रु स्कान्द वसनम्. (25)

“तडैसॆय्यप्पट्टु क्रियैगळैच् चॆय्यक्कूडादु”, ऎण्ड्र वसनत्ताल्,मूत्रादिगळैत् तडैसॆय्दवनुक्कुक् कर्मङ्गळिल् अदिगारमिल्लै. आदलाल् अवैगळैप् परिहरिक्कवेण्डुम्. अदिल् प्रदेस विशेषङ्गळै आबस्तम्बर् सॊल्लुगिऱार्.

वीट्टिऱ्‌कुत् तूरत्तिल् तॆऱ्‌किलो, तॆन्मेऱ्‌किलो जल मलङ्गळैप् परिहरिक्कवेण्डुम्.

इदु पगल् विषयम्. (26)

विश्वास-प्रस्तुतिः

‘रात्रौ मूत्रपुरीषे तु गृहाभ्याशे समाचरे’दिति स्मरणात् ॥

तत्र प्रकारमाहाङ्गिराः -

उत्थाय पश्चिमे रात्रौ तत आचम्य चोदकम् ।
अन्तर्धाय तृणैर्भूमिं शिरः प्रावृत्य वाससा ॥

वाचं नियम्य यत्नेन ष्ठीवनोच्छ्वासवर्जितः ।
कुर्यान्मूत्रपुरीषे तु शुचौ देशे समाहितः ॥ इति ॥ २८ ॥

कालभेदेन दिङ्नियममाह गौतमः -

मूत्रपुरीषे दिवा कुर्यादुदङ्मुखः सन्ध्ययोश्च ।
रात्रौ तु दक्षिणामुख इति ॥ २९ ॥

वर्ज्यानाह स एव

न भस्मकरीषकृष्टच्छायापथिकाम्येष्विति ॥ न वाय्वग्निविप्रादित्यापो देवता गाश्च प्रतिपश्यन् वा मूत्रपुरीषामेध्यान्व्युदस्येदिति च ॥ ३० ॥

अनन्तरं गन्धलेपक्षयकरं शौचं कुर्यात् ॥

“रात्रियिल् वीट्टुक्करुगिल् जल मलङ्गळै विसर्जिक्क”,ऎण्ड्र वसनमिरुक्किऱदु. (27)

अदिल् प्रगारत्तै अङ्गिरस् सॊल्लुगिऱार्:-

रात्रियिन् कडैसि पागत्तिल् ऎऴुन्दु, आसमनम् सॆय्दु, पूमिमेल् पुल्गळैप् परप्पि, तुणियाल् तलैयै मूडिक्कॊण्डु,

यत्न पूर्वमाग वाय्प् पेच्चै निऱुत्तिक्कॊण्डु, तुप्पल्, मूच्चु इल्लामल्, सुत्त तेसत्तिल् जलमलङ्गळै विसर्जिक्कक् कडवन्. (28)

काल विशेषङ्गळिल् तिक्कुगळ् वेऱु ऎन्गिऱार् कौदमर् :

पगलिलुम् सन्द्यागालङ्गळिलुम् वडक्कु मुगमायुम्, रात्रियिल् तॆऱ्‌कु मुगमायुम् जल मलङ्गळै विडवेण्डुम्. (29)

तळ्ळ वेण्डियवैगळै अवरे सॊल्लुगिऱार्:-

साम्बल्, साणिमुट्टान्, उऴुदबूमि, निऴल्, वऴि, इष्टप्पट्ट इडम् इवैगळिल् कूडादु. काट्रु, अक्नि,प्राम्हणन्,सूर्यन्, जलम्, तेवदै, को इवैगळैप् पार्त्तुक्कॊण्डुम् जल मलङ्गळैयुम् असुत्तङ्गळैयुम् विसर्जनम् सॆय्यक्कूडादु. (30)

पिऱगु वासनै पोगुम्बडियाग अलम्बिक्कॊळ्ळ वेण्डुम्.

विश्वास-प्रस्तुतिः

तथाच गौतमः -

लेपगन्धापकर्षणे शौचममेध्यस्य तदद्भिः पूर्वं मृदा चेति ॥

स्त्रीणां मृदमाह - मरीचिः ॥

‘कृष्णा स्त्रीशूद्रयोस्तथे’ति ॥

उक्तमृत्तिकाऽलाभे या काचन ग्राह्या ॥

तथा च मनुः -

यस्मिन् देशे च यत्तोयं या च यत्रैव मृत्तिका ।
सैव तत्र प्रशस्ता स्यात् तया शौचं विधीयते ॥ ३२ ॥

हस्तनियममाह देवलः :-

धर्मविद् दक्षिणं हस्तमधः शौचे न योजयेत् ।
तथा च वामहस्तेन नाभेरूर्ध्वं न शोधयेत् ॥ ३३ ॥

मृत्परिमाणमाह शातातपः -

आर्द्रामलकमात्रास्तु ग्रासा इन्दुव्रते स्थिताः ।
तथैवाहुतयस्सर्वाश्शौचार्थे याश्च मृत्तिकाः इति ॥ ३४ ॥

इदैक् कॆळदमर्:-

असुत्तत्तिऱ्‌कु वासनै पोगुमाऱु सुत्ति सॆय्दु कॊळ्ळवुम्. अदुवुम् मुन्नाल् जलत्तालुम् मण्णालुम्. (31)

स्त्रीगळुक्कु मण्णैच्चॊल्लुगिऱार् मरीसि:-

स्त्रीगळुक्कुक् कऱुप्पुमण् सॊल्लप्पट्ट मण्; किडैक्काविडिल् एदावदु ऒरु मण्णै ऎडुत्तुक्कॊळ्ळलाम्. इदै मनु:-

ऎन्दत् तेसत्तिल् ऎन्द मण्, ऎन्द जलम् किडैक्किऱदो अदुवे अव्विडम् विशेषमानदु. अदनाल् सौसम् सॆय्दुगॊळ्ळ वेण्डुम्. (32)

कैगळिल् नियमम् सॊल्लुगिऱार् तेवलर् :-

धर्मत्तैयऱिन्दवन् वलदु कैयैक् कीऴ्प्पागत्तिन् सौसत्तिल् उबयोगिक्कलागादु. (33)

आगैयाल् इडदु कैयाल् नाबिक्कुमेल् सुत्ति सॆय्दु कॊळ्ळक्कूडादु. मण्णिन् परिमाणत्तैच् चादादबर् सॊल्लुगिऱार्. सान्द्रायण व्रदत्तिल् पच्चै नॆल्लिक् कायिन् अळवु कबळङ्गळ् विधिक्कप्पट्टन. अव्विदमे सगल आहुदिगळुम् सौसत्तिऱ्‌कु एऱ्‌पट्ट मण्गळुम् अऱियत् तक्कन. (34)

विश्वास-प्रस्तुतिः

मृत्सङ्ख्यामाह - शातातपः -

एका लिङ्गे करे सव्ये तिस्रो द्वे हस्तयोर्द्वयोः ।
मूत्रशौचं समाख्यातं शकृति द्विगुणं भवेत् ॥ ॥ ३५ ॥
स्त्रीशूद्रयोरर्धमानं शौचं प्रोक्तं मनीषिभिः

इति ॥

तत्र क्रममाह – व्यासः ॥

विटूच्छौचं प्रथमं कुर्यान्मूत्रशौचमतः परम् ।
पादशौचं ततः कुर्यात्करशौचमतः परम् इति ॥ ३६ ॥

उक्तशौचाकरणे प्रत्यवायमाह - बोधायनः ॥

शौचे यत्नः सदा कार्यः शौचमूलो यतो द्विजः ।
शौचाचारविहीनस्य समस्ता निष्फलाः क्रियाः ॥

मण्णिन् ऎण्णिक्कैयै सादादबर् सॊल्लुगिऱार्:

कुऱियिल् ऒण्ड्रु, इडदुगैयिल् मूण्ड्रु, इरण्डु कैगळिलुम् इरण्डु-इदु मूत्रत्तुक्कुच् चौसम्. मलत्तुक्कु इरण्डु मडङ्गु वेण्डुम्. (35)

स्त्री सूत्रर्गळुक्कुप् पादि अळवु सौसम्, ऎण्ड्रु अऱिञर्गळाल् कूऱप्पट्टिरुक्किऱदु,

अदिल् क्रमत्तै व्यासर् सॊल्लुगिऱार् :-

मुदलिल् मल सौसम् सॆय्दु, पिन् मूत्रत्तुक्कुच् चौसम् सॆय्दु कॊळ्ळवेण्डुम्. पिऱगु पादङ्गळुक्कुच् चौसम्, अदऱ्‌कुप् पिऱगु कैगळुक्कुच् चौसम्. (36)

सॊल्लप्पट्ट सौसम् सॆय्दु कॊळ्ळाविडिल् तोषम् सॊल्लुगिऱार् पोदायनर्:-

ऎप्पॊऴुदुम् सौसत्तिल् प्रयत्नम् ऎडुत्तुक्कॊळ्. एनॆनिल् पिराम्हणनुक्कु सौसमे मूलम्. सौसम् आचारम् इल्लादवनुक्कु समस्त क्रियैगळुम् निष्पलम्. (37)

विश्वास-प्रस्तुतिः

शौचानन्तरमाचमनमाह - देवलः ॥

इत्येवमद्भिराजानु प्रक्षाल्य चरणौ पृथक् ।
हस्तौ चामणिबन्धाभ्यां कुर्यादाचमनं ततः ॥

इति ॥ ३८ ॥

आचमनप्रकारमाह – याज्ञवल्क्यः ॥

अन्तर्जानु शुचौ देशे उपविष्ट उदङ्मुखः ।
प्राग्वा ब्राह्मेण तीर्थेन द्विजो नित्यमुपस्पृशेदिति ॥ ३९ ॥

आचमनार्थमुदकं विशिनष्टि - पराशरः ॥

अद्भिः समुद्धृताभिस्तु हीनाभिः फेनबुद्बुदैः ।
वह्निना च न तप्ताभिरक्षाराभिरुपस्पृशेदिति ॥ ४० ॥

विशेषमाह – प्रचेताः ॥

रात्राववीक्षितेनापि शुद्धिरुक्ता मनीषिणा ।
उदकेनातुराणां च तथोष्णेनोष्णपायिनामिति ॥ ४१ ॥

याज्ञवल्क्यः -

हृत्कण्ठतालुगाभिश्च यथासङ्ख्यं द्विजातयः ।
शुद्ध्येरंस्त्री च शूद्रश्च सकृत्स्पृष्ट्वाऽद्भिरन्ततः ॥

इति ॥ ४२

सौसत्तुक्कुप् पिऱगु आसमनत्तैच् चॊल्लुगिऱार् तेवलर् -

इम्मादिरि जलत्ताल् मुऴङ्गाल् वरैयिल् पादङ्गळैत् तनियाग अलम्बि,
मणिक्कट्टु वरैयिल् कैगळैयुमलम्बि, पिऱगु आसमनम् सॆय्यवेण्डियदु. (38)

आसमनत्तिन् प्रगारत्तैच् चॊल्लुगिऱार् याज्ञ्यवल्क्यर्:

सुत्तमान तेसत्तिल् वडक्कु मुगमाय्, अल्लदु किऴक्कु मुगमाय्, मुऴङ्गाल्गळुक्कु उट्पुऱम् प्राम्हदीर्त्तत्तिनाल् (अदावदु उळ्ळङ्गैयिन् अडिप्पागम्) पिराम्हणन् आसमनम् सॆय्ग. (39)

आसमन जलत्तै विशेषित्तुच्चॊल्लुगिऱार् परासरर्:

(तडागादिगळिलिरुन्दु) ऎडुक्कप्पट्टदुम्, नुरै कॊप्पुळमट्रदागवुम्, अक्नियाल् सुडप्पडामलुम्, उप्पिल्लाददुमान जलत्ताल् आसमनम् सॆय्ग. (40)

प्रसेदस् विशेषम् सॊल्लुगिऱार्:-

रात्रियिल् पार्क्कप् पडाद जलत्तालुम् सुत्ति सॊल्लप्पट्टिरुक्किऱदु.
उष्ण पानम् सॆय्युम् व्यादिक्कारर्गळ् उष्ण जलत्तालुम् आसमनम् सॆय्यलाम्. (41)

याज्ञ्यवल्क्पर्:-

त्विजर्गळ् ह्रुदयम्, तॊण्डै,ताळ् इन्द प्रदेसङ्गळै अडैयुम् जलत्ताल् सुत्तियडैवार्गळ्.
स्त्री सूत्रर्गळ् जलत्तै ऒरु तडवै तॊडुदलाल् सुत्ति यडैवार्गळ्. (42)