आह्निककौस्तुभः

[[आह्निककौस्तुभः Source: EB]]

[

.

[TABLE]

॥ श्रीः ॥

आह्निककौस्तुभः ।

श्रीमदानन्दतीर्थभगवत्पादकृतसदाचारस्मृतिव्याख्यानरूपः ।

<MISSING_FIG href="../books_images/U-IMG-1697553230Screenshot2023-10-17191737.png"/>

श्रीसत्यध्यानविद्यापीठेन
पण्डितमण्डलोद्वारा संशोध्य प्रकाशितः ।

<MISSING_FIG href="../books_images/U-IMG-1697553230Screenshot2023-10-17191737.png"/>

संशोदकपण्डितमण्डली :—

पण्डितशिरोमणिश्रोवरखेडनरसिंहाचार्या :

पं. श्रीगलगलीरामाचार्याः

पं. श्रीमहाव्याघ्रगोपालाचार्याःएम्. ए.

प्रकाशकः

श्रीगलगलीरामाचार्य

:

१८२ गांधीनगर

बेलगांव.

द्वितीयावृत्तिः

मुद्रकः

एम्. सी. कुलकर्णी

विजयालक्ष्मी आर्ट पिंटर्स

शेरीगल्ली–बेलगांव.

पुस्तकप्राप्तिस्थानम्

श्री. पं. गोपालाचार्यमाहुली, एम्. ए.

वाणीविहारविद्यालय,

भीमाणीस्ट्रीट, माटुंगा, मुंबई १९.

॥ श्रीशश्शरणम् ॥

॥ किञ्चित्प्रास्ताविकम् ॥

<MISSING_FIG href="../books_images/U-IMG-1697557909Screenshot2023-10-17212136.png"/>

‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः इति भगवती उपनिषद्देवी स्पष्टं समादिशति ‘जीवितुमिच्छता पुरुषेण कर्माण्यवश्यं कार्याणि’ इति । भगवानपि वासुदेवः साग्रहमाज्ञापयति ‘कुरु कर्मैवतस्मात्त्वम्’ इति । निर्दिशति निदर्शनं फलं च कर्मानुष्ठानस्य ‘कर्मणैव हि संसिद्धिमास्थिता जनक्रादयः’ इति । सन्ति सहस्रशः कर्मविधानपराणि मोक्षादिफलबोधकानि वाक्यानि । अपवर्गं स्वर्गादिसाधकंतु कर्म न लौकिकमिति कथनमनावश्यकम् । वैदिकानि कर्माणि कानि, तानि कथं वा अनुष्ठेयानि ’ कथं वा फलादानिं इनि सहजं जिज्ञासा जायते भानुकानां चेतसि । तेषां मुमुक्षूणां कर्मपथप्रदर्शनायैव ‘सदाचारस्मृति’ नामकं संक्षेपतः कर्मबोधकं ग्रन्थं निबवन्धुः सज्जनबन्धवो गन्धवहावताराः आनन्दकशास्त्रनिर्मातृतया श्रीमदानन्दतीर्थेतिवेदपुराणादिप्रमाणप्रथिताः श्रीमदाचार्याः । ग्रन्थोऽयं बव्हर्थः सामान्यजनैःनित्यावश्यक सकलकर्मबोधकतया न प्रतीयते सपरिश्रमं परिर्शव्यमानोऽपि । अतो बहुभिः प्राचीनैर्विद्वद्वरैःव्याख्यातोऽयं ग्रन्थः । तेषु सर्वव्याख्यानेषु प्रधानं सांप्रतं महनीयमहसां स्तवनीयतपसां संततं सच्छान्न्र्यवचनसुकृतमयीक्रियमाणवयसां ज्ञानपिपासूनां पायतसुज्ञानकामधेनुपयसांदुर्मतोपलभेदनायसां श्रीमदुत्तरादिमठाधीशानां श्रीश्रीसत्यप्रमोदतीर्थश्रीचरणानां कृपारूपस्थिरपीठाधिष्ठानेन सत्यध्यानविद्यापीठेन प्रकाशितोऽयम् आन्हिककौस्तुभो नाम निजनामान्वर्थयति सत्यमेवेति परिशीलनचतुरा जानीयुरेव निश्शङ्कम् ।

ग्रन्थेऽस्मिन् व्याख्यानप्रणेतृभिः श्रीश्रीनिवासतीर्थमहानुभावैः श्रीमदाचार्याणां मूलसंक्षिप्नुवाक्येषु संद्दब्धाः विपुलाशया साधु विशदतया समाविष्कृताः इक्षुदण्डादित्र मधुरो रसः । यान्समास्वाद्य तत्क्षणममन्दानन्दभरपरवशतया नूनमान्दोलितशिरसो भवेयुरेव सर्वे विपश्चित इत्यत्र नास्ति नः विशयलेशोऽपि । प्रातरारभ्यासायमनुष्ठेयानि सर्वाणि कर्माण्यपि

श्रीमदाचार्यवचनैरेव प्रतिपादितानीति सम्यगेव समर्थयन्ति तेषांवाक्यान्युदाहृत्य तदर्थं कौशल्येन सुगमतया सप्रमाणं व्याख्यातारो विस्मापयन्तो विदुषः । प्रमाणानुसारिण्यामस्यां टिप्पण्यामपूर्वाः केचनविषया उपलभ्यन्ते अवश्यं विचारणीयाः । एकादशीतिथौ भगवते श्रीहरये फल-मूलादिकं जलमपि न निवेदनीयमिति सप्रमाणमुपत्यस्तमस्मिन् । परं केषुचन मठेषु एकादश्यामन्नं समर्प्यते भगवते । अन्येषु बहुषु नारिकेल–खर्जूरकदल्यादिफलगुडादीनि निवेद्यन्ते संप्रदायपरम्परया ।

पितृभ्यः प्रदत्तं श्राद्धान्नंकर्मानुसारं भिन्नभिन्नस्थलेषु भिन्न-भिन्नयोनिगतैः पितृभिः कथं प्राप्यते इत्येष विषयो हृदयङ्गमतयानिरूपितः पुराणवचनोदाहरणेन ।साधनद्वादशीपारणाविषयः प्रसंगात् स्त्रीधर्माः इत्याद्यनेके अवश्यं वेद्या विषया विशदतया समुपन्यस्ता अत्र प्रमाणपुरस्सरम् । अतोऽतिशेते टिप्पणीरन्या व्याख्यानमिदम् ।ईदृशस्यांपूर्वविपयोपबृंहितस्य ग्रन्थस्य प्रणेतॄणां महानुभावानां पावनचरितमंशतो समुपजिहीर्षामःसमुत्सुकेभ्यः सहृदयेभ्यः ।

अस्ति कर्णाटके मणिपुरं नाम नगरं विद्वन्मणिभूषिततया यथार्थाभिधम् । तत्रावसत् कृष्णनायक इति सुवर्णादिवाणिज्यव्यवहारी हरिभक्तिपरायणः सार्थवाहः ।तस्य तिरुमलाम्बा नाम साध्वी सहधर्मचारिणी । स च संततिसुखवञ्चिततया प्रपञ्चनिस्सारताखिन्नः आपन्नजनशरणं पन्नगाचलशरणं कृतसकलभक्ताभिलषितपूरणं भगवन्तं श्रीनिवासं महीयांसमनेहसंसिषेवे भक्तिभरेणसमं समानशीलया मानिन्या । निर्मलान्तःकरणसेवाप्रसन्नस्य भक्तवत्सलस्य भगवतः प्रसादेन दम्पत्योः सुखसंपत्तये सप्तजनि तेजस्वि लावण्यपूर्णं पुत्ररत्नम् ।यस्यानुग्रहेण सदंपत्यलाभस्समासीत्, तस्य श्रीनिवासस्य नाम्नैव सुतमलञ्चक्रतुः पितरावितरासाधारणवर्चश्शालिनम् । पितृभ्यां समये विध्यनुसारमुपनीतोऽयं विनीतो बालकः स्वपितृृव्याणांविद्वत्सात्कृतसर्वसंपदां विरक्तशिखामणीनां विद्वच्छेखशणां सदा सदाचारसंपन्नानेकान्तेवासिभ्यः सच्छास्त्रप्रवचनैकनियुक्तसकजयुषां भक्तिप्रकर्षेणतमासादितश्रीवादरायणभगवत्करावलम्वानां

प्रत्यक्षीकृतविम्बमूर्तीनां महामुनीश्वरश्रीवेदेश तीर्थप्रतिविम्बायमानानां तपस्सामर्थ्येन मृष्टान्नीकृतमृत्पिण्डानां पुण्यचरितानां ‘मलपहा’ इति प्रथितयथार्थाभिधनदीतरङ्गपावनयज्ञकुण्डक्षेत्रनिवासिनां श्रीयादवार्यमहानुभावानां सन्निधाने सकलविद्यावैशारद्यमासाद्य व्यद्योतनताऽनवद्यगुणःश्रीनिवासः । तदनु यौवनेगुणसंपन्नांसत्कुलजननमापन्नांरमणीं धरणीसुरकुमारीं परिणीय नवयौवनसुलभविषयोपभोगलालसावशीकृतचेताः श्रीनिवासः कतिपयकालकलामात्रस्वर्गीयमाणे श्रीनच्छवशुरमन्दिर एव निवसन् विषयसुखसागरे निमग्नः समुपेक्षताधीतविद्याम् । तदनु समनुग्रहार्थमभ्यागतगुरुवरयादवार्याणां सदुपदेशेन लब्धविवेकोदयः सद्य एव विरतिमुपेत्य श्वशुरगृहमोहमपहायसहधर्मिणीसहचरःप्रतिवत्सरं कर्कसंक्रमणे भगवत्याभागीरथ्याः समागमभाग्यभाजनीभूतायाभक्तजनेभ्यः शमलविलयमभिलपसि चेत् मां पश्य’ इति कल्लोलकलकलव्याजेन महाराष्ट्रभाषया कथयन्त्या इव विमलसलिलायाः श्रीमलापहास्त्रो तस्विन्या रोधसि वंशपल्ली (विदरहल्ली ) नामकग्रामे शिष्यान् श्रीसमीर समयमध्यापयन् श्रीटीकाग्रन्थानां सरलाः सकलमूलाशयविशदीकरणचणा मन्दामन्दप्रज्ञजनोपकारिणीःटिप्पणीश्चकुर्वन् गमयामास सर्वं सार्थकं समयम् । अतोषयन्मूलादिसर्वगुरून् । उदधीरन्निजकुलम् ।कृतार्थीचकारात्मानम् । धवलीचकार यशोमहसादिशां मुखानि ।अविन्दच्च श्रीगोविन्दसंदर्शिनां कामितपूरणे वृन्दारकपादपायमानानां व्यानकौशलपरिशीलनजनितापारपरितोषपरवशीकृतचेतसांश्रीराघवेन्द्रतीर्थमहानुभावानां सकाशात् यतिवरेतरालभ्यं तीर्थपदं पारितोषिकायमाणन् । श्रीमदानन्दतीर्थशास्त्रविशदाशयविवरणेन मन्दानमन्दानन्दमुन्दिलानकार्षीन्निन्दालवास्पृष्टचरितः ।

एकदा श्रीयादचार्यमंहाभागेषु क्षीणायुषमासन्नावसानां त्रिचतुरवर्षीयां स्त्रीयां कन्यां क्षणिकस्नेहपरवशतया निजोत्सङ्गेसमारोप्य समुपविष्टेषु पुत्रिकाप्राणहरणाय समागतात् तपोभापुरयादवार्यस्पर्शाक्षमान् भयेन किङ्कर्तव्यतामूढानवेक्ष्य भगवत्संकलविदः श्रीश्रीनिवासतीर्थाः सहसा श्रीपादवार्याङ्कात्ममाकृत्यतां कुमारी निचिक्षिषुःक्षमातले ।

कृतकार्येषु कृतान्तसेवकेषु यातेषु विगतमोहा यादवार्या भगवद्ध्यानेन अवापुर्मनस्स्वास्थ्यम् । आशीर्भिरभ्यनन्दन्सुकृतराशीन् ईशसंकल्पानुसारिकृतीन् कृतिवर्यान् श्रीनिवासतीर्थान् ।

अन्यदा संचारक्रमेण शिष्यपरिवारपरिवृताः श्रीयादवार्याः गजगव्हरनाम्नीं राजधानीमुपेत्य अमात्यगृहे कतिचन दिनानि न्यवसन् सादरं सर्वैः सत्क्रियमाणाः भ्रातृव्यश्रीनिवासतीर्थैस्समम् । सत्स्वप्यनेकेषु च्छात्रेषु सेवासमुत्सकेषु श्रीनिवासतीर्थाः स्वयमेव भक्तिभावेन देवपूजासाधनसामग्रीसंपादनसेवां कुर्वन्तिस्म गुरूणाम् ।

एकस्मिन् दिने श्रीश्रीनिवासतीर्थानां ललितलावण्यमुग्धा कुसुमशरविशिखानलदग्धान्तरा रमणी तरुणी ‘सचिवतनया श्रीयादवार्योपस्यदेवपूजार्थं चन्दनपेषणपराणां आत्मनि सद्गुणपोषणरतानां मत्तेन्द्रियरिपुवलशोषणदक्षाणां श्रीनिवासतीर्थानां सकाशमुपेत्य निजकामनापूर्तये प्रार्थयामास निरपत्रपम् । वशिनां वर्येषु वशिष्ठसदृशेषु श्रीनिवासतीर्थेषु सदुपदेशेन तस्या दुरभिलाषं निराकुर्वत्सु स्वमनोरथभङ्गक्षुब्धा सामन्त्रितनुजा प्रतीकारबुद्ध्यातच्चन्दनरसं स्वहस्ताभ्यामुपगृह्य पयोधरकञ्चुके विन्यस्य स्वपितृसमीपमुपेत्यश्रीनिवासेनानेनाहं बलात्कारेण कदर्थीकृतेति वृथाऽऽरोपेण दूषयामासदोषाकरमुखी ।तदात्व एव कोपेन दष्टस्फुरदोष्ठ लोहितलोचनः सचिवः श्रीयादवार्यसन्निधिमागत्य श्रीनिवासतीर्थान् दण्डयितुमाचकाकाङ्क्ष संक्षिप्तविवेकवुद्धि। विदितभ्रातृव्यनिर्मलचरितेषु श्रीयादवार्येषु श्रीनिवासतीर्थानांनिर्दोषतां कञ्चुकविन्यस्तसचन्दनहस्तलक्ष्मवैपरीत्यादियुक्तिभिः समर्थयत्स्वपि विवेकभ्रष्ट्रतया दण्डनोद्युक्तः सचिवः तत्क्षणं ज्वलनज्वालामालावलीढकोमलावयवां वालामात्मजां, प्रज्वलितानलकरालकीलकवलीक्रियमाणं प्रासादं, दन्दह्यमानं स्वीयं च देहं निरीक्ष्य संभ्रान्तमनाः पश्चात्तापतप्तान्तरङ्गः सर्वसंरक्षणाय श्रीयादवार्यान् श्रीनिवासतीर्थांश्च करुणाकरान् शरणमुपेत्य क्षमां संप्रार्थ्य तत्कृपेक्षणेन क्षणादेवक्षीणसमस्तोपतापः शान्तिमपेतः सभक्तिप्रसरमर्चयामास वर्चस्विनस्तान् ।

तदेतादृशापूर्वानेक्रप्राक्तनग्रन्थरत्नप्रकाशनपुण्यकर्मणा बहूपक्रियते सत्यध्यानविद्यापीठेतनवनवज्ञानमधुपिपासुर्विद्वज्जनः । बहुधनव्ययसाध्ये ग्रन्थप्रकाशनमहाकर्मणि सर्वैःसुकृतकाङ्क्षिभिः श्रीलैः स्वीयधनसद्विनियोगश्रेयसे सहकारो विधेयः । येन अभ्युदयनिश्श्रेयससाधनीभूता भगवत्प्रीतिः विपुला विमला कीर्तिश्च लभ्येताम् । जन्म च सार्थकं स्यात् । ग्रन्थेऽस्मिन्नतवधानेनअज्ञानेन वा संजाताअशुद्ध्यादयो दोषानिवेदनीयाः अन्तव्याश्व ।शुद्धिपत्रमप्यन्तेनिवेशितमवलोकनीयं पाठकैरिति । निवेदयिता विद्वद्वशंत्रदः ।

गलगलीरामाचार्यः

<MISSING_FIG href="../books_images/U-IMG-1697630441Screenshot2023-10-18173028.png"/>

विषयानुक्रमणिका

<MISSING_FIG href="../books_images/U-IMG-1697631028Screenshot2023-10-18174014.png"/>

विषयाः
कर्मावश्यकत्वम्
पञ्चकालविचारः
ब्राह्ममुहूर्तकार्यम्
शौचविधिः
दन्तधावन-आचमन- स्नानादि
ऊर्ध्वपुण्ड्रविधिः
मुद्राधारणम्
संध्याकर्म
देवादितर्पणम्
गायत्र्यादिमन्त्रजपः
देवपूजा विधानं
वैश्वदेवः
बलिहरणम्
गोप्रानविधिः
तीर्थप्राशनादि
एकादशी श्राद्धनिर्णयः
भोजनविधिः
मनत्र स्वापविधिः
स्त्रीधर्माः
श्रीहरिसर्वोत्तमत्वम्

श्रीभगवान्बादरायणश्शरणम् ।

आह्निककौस्तुभः

श्रीमदानन्दतीर्थभगवत्पादप्रणीतसदाचारस्मृतिव्याख्यारुपः

श्रीवंशपल्लीश्रीनिवासतीर्थविरचितः

व्यासं मारमणं नत्वा गुरूंश्चोच्चगुरुनपि ।

व्याख्यां करिष्ये प्रमितांसदाचारस्मृतेरहम् ॥१ ॥

सदाचारस्मृतिव्याख्यारूपेणान्हिककौस्तुभः।

विरच्यते स्वधीशुद्धयै श्रीनिवासाख्यसूरिणा ॥ २ ॥

अथ कलियुगावतीर्णदानवप्रसज्जितदुर्मतध्वान्तनिरासायातिविशदज्ञानालोकप्रवर्तनाय च साक्षान्मुख्यवायूरेव भुवि गृहीतमनुष्यविग्रहः श्रीमदानन्दतीर्थाचार्यसूर्यः सर्वकर्मसु भगवदर्पणसहकृतताविधये सदाचारस्मृत्याख्यग्रन्थं चकार ।

ननु तर्हि’प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्’ इति न्यायेन कर्माण्येव मा कुर्युः । दूरे भगवदर्पणमिति चेत ‘कुर्वन्नेवेह कर्माणि जिजीविपेन्छतं स॒माः’ । ‘संध्योपास्त्यादिकर्माणि वेदतन्त्रोदितानि मे । पुतान्तेः कल्पयेत्सम्यक्संकल्पः कर्मपावनः । इति श्रुति-स्मृतिभ्यां कर्मविधानात्तदनुष्ठानमावश्यकम् । अनुष्ठानं च तत्स्वरूपावगतिं विना न संभवतीति तदर्थं संक्षेपेण कर्माणि निरूपयितुं स्वयं निष्प्रत्यूहोऽपि स्वभावादेव कृतं निरन्तरायपरिसमाप्त्याद्यर्थं करणीयं मङ्गलं शिष्यान् ग्राहयितुं विषयादिचतुष्टयं ग्रन्थादौ निबध्नाति—

॥ १ ॥ कर्मावश्यकत्वम् ॥

यस्मिन्सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा ।

निराशीर्निर्ममो याति परं जयति सोऽच्युतः ॥ १ ॥ इति ॥

आत्मा-जीवः तमधिकृत्य नियामकतया वर्तमानो हरिः अध्यात्मम्। तस्मिन् चेतः-ज्ञानम् । ‘चिती सज्ञाने’ इति धातोः । तेन अध्यात्म-

चेतसा। सर्वाधिके परमात्मनि चेतसामनसेति वा । यस्मिन्-दिष्णौसर्वाणिनित्य–नैमित्तिकानि च कर्माणि निष्कामतया अनुष्ठितानि सन्न्यस्य गवातेव करोतीतिसमर्प्य निराशीः त्वत्त्कफलेच्छुः निर्ममः ममत्वापरपयोयेण अहङ्करोमीतिमनोदोषेण विधुरः परं– स्वयोग्यं पूर्णज्ञानं परमात्मानं न याति । सः अच्युतः देश-काल-गुणैः च्युतिरहितः हरिः जयति उत्कृष्टो वर्तते । अभिभवति शत्रूनिति शेषो वा ।

॥ २ ॥ पञ्चकालविचारः ॥

ननु वा इष्टा, अधिकृता, विशिष्टा सैवनम्या । इत्यतः ‘इष्टो नो रमापतिः । ’ एकान्तानां न कस्यचित् । अर्थे नारायणो देवः’ इत्यादिभिरिष्टत्वं सिद्धवत्कृत्य अधिकृतत्व-विशिष्टत्वे उपपादयितुं ’ यस्मिन्सन्न्यस्य परम् ’ इति चोक्तम् । अत्र भगवत्संवन्धिनां कर्मणां फलान्वयित्वोक्त्या यत्संबन्धेन कर्माणामधिकृतत्वं तस्यैव मुख्यतः अधिकृतत्वमुक्तं भवति । परमिति सर्वोत्तमत्वाख्यं विशिष्टत्वं च । तथा च प्रारिप्सितग्रन्थे विष्णवर्पणयुतकर्माणि विषयः । पूर्णज्ञानमवान्तरफलं, मोक्षः परमप्रयोजनं, निर्ममः अधिकारी इति ज्ञेयम् । तथा हि श्रुतिः कर्मणां कर्तव्यतामाह–**‘सोममिन्मा सुन्वन्तो याचतावसु ‘**इति । अस्यार्थः–वैकुण्ठस्थहरेर्वाक्यमेतत् । हे लोकाः मामुद्दिश्य सोमं सुन्वन्तं एव सोमोपलक्षितानि यागादीनि कर्माणि कुर्वन्त एव मां वसु याचत ’ । इति । अत्र कर्मणि कृते सति भगवान् फलं ददातीति गम्यते ।मोक्षधर्मे च-‘तैरिष्टः पच्चकालज्ञैर्हरिरेकान्तिभिर्नरैः ।भक्त्या परमया युक्तैर्मनो–वाक्कर्मभिस्सदा ’ । इति । पञ्चकालास्तूक्तः पञ्चरात्रागमेरामाभिगमनं पूर्वमुपादानमतः परम् इज्यास्वाध्यायकालौ च योगकालस्तथैव च । इति । हे रामेति संबोधनम् । पञ्चकालास्त्वित्थम्-अहो रात्रिश्च समाने । सार्धसप्तवटिकोत्मकरात्रिचतुर्थभागस्य मध्ये पूर्वाः सार्धचतस्रोघटिकाः योगकालः । रात्रिशेषस्य अरुणोदयाख्याःतिस्रोघटिकाः, अन्हः आद्यप्रहरश्चअभिगमनकालः । तत्र शौचादिदेवपूजान्तं कर्म कार्यम् । शिष्टप्रहराः त्रयः उपादानेज्यास्वाध्यायानां कालः । तेषु मध्यान्हसन्ध्यान्तं कृतिः, गोग्रास-भोजनानि, इतिहासप्रभृतिभिः वेदार्थावधारणम्, सायंसंध्यान्तमित्येतानि क्रमात्कार्याणि ॥१ ॥

ननु येषु भगवदर्पणमितिकर्तव्यतारूपं, कानि तानि कर्माणीन्याकाङ्क्षायां तानि दर्शयितुं ब्राह्ममुहूर्तकार्यकर्म तावदाह–

॥ ३ ॥ब्राह्ममुहूर्तकार्यम् ॥

स्मृत्वा विष्णुं समुत्थायकृतशौचो यथाविधि ॥

समुत्थाय विष्णुं स्मृत्वेत्यन्वयः । स्मृत्वेत्यनुवादबलात् विधिः कल्प्यते । समुत्थाय-निद्रातः सम्यक ववृध्य विष्णुं स्वदेहे जाग्रदादिदातृतया विश्वादिरूपेण प्रविष्टं हरिं स्मरेदिति । ‘मुखं व्यादाय स्वपती’ त्यत्र सुप्त्वा मुख व्यादत्तइतिवत् । यद्वा समुत्थानात्पूर्वमल्पबोधकाले परवशोऽपि वारं वारं स्मृत्वा ततः शयनादुत्थाय गेहान्तर्वर्तीतरपदार्थज्ञानं यथा स्यात्तथा उत्थाय पुनःगजेन्द्रमोक्षणपाठादिस्तोत्ररुपेण विष्णुं स्मृत्वा ततो यथाविधि तत्परिवारत्वेन रमा–विरिञ्चादीन् स्वोत्तमान्गुरूंश्चस्मृत्वा तत श्रोत्रियादीनवलोक्य, यथाविधि-विधिमनतिक्रम्य कृतशौच इत्यर्थः । ‘रजनीप्रान्तयासार्धब्राह्मसमयउच्यते’ इति स्कान्दवचनात् रजन्या अन्तयामस्यार्धो भागः ब्राह्मसमयः । ब्राह्ममुहूर्त इत्युषःकालस्य प्रसिद्धेश्चेति छान्दोग्यभाष्यातउषःकालस्यैव ब्राह्ममूहुर्तसंज्ञा ज्ञेया ।तथा चोक्तं वाराहे तृतीयाध्याये-‘उषःकाले समुत्तिष्ठेत्सर्वदा वैष्णवो नरः । प्रक्षाल्य पाणी पादौ च तत आचम्य भक्तितः। सुखासीवस्मरेन्नित्यं मदीयामिष्टदेवताम्" ॥इति । तत्र मन्त्रमाह व्यासः- ‘प्रातर्भजामि भवभीतिमहार्तिशान्त्यै नारायणं गरुडवाहनमब्जनाभम् । ग्राहाभिभूतवरवारणमुवित्हेतुं चक्रायुधं तरुणवारिजपवनेत्रम् ॥१ ॥ततः ‘वन्दे विष्णुं नमामी’त्यादिगुरु नमनं कुर्यात् । ततो धर्मादिकं चिन्तयेत् । ‘ब्राह्मे मुहूर्ते चोत्थाय धर्ममर्थं चचिन्तयेत्’ । इति कूर्मपुराणोक्तेः । त्रैलोक्यचैतन्यभवादिदेव श्रीनाथ विष्णो भवदाज्ञयैव ॥प्रातस्समुत्थाय तव प्रियार्थं संसारयात्रामनुवर्तयिष्ये ॥स्वामी त्वं नृहरे तवानुचरणाः प्राणाश्शरीरं गृहं पूजा ते विषयोपभोगरतनं निद्रा समाधिस्थितः॥ संचारः पदयोः प्रदक्षिणविधिस्स्तोत्राणि सर्वा गिरो यद्यत्कर्म करोमि तत्तदखिलं विष्णो तवाराधनम्’ ॥ संसारयात्रा मनुवर्तमानस्त्वदाज्ञया श्रीनृहरेऽन्तरात्मन् ॥ जानामि धर्मंन च मे पतिर्जानाम्यवधर्मं न चमे निवृत्तिः ॥ कृष्णेन देवेन हृदि स्थितेन यथा विभक्तोस्मि तथा करोमि (बहामि) ॥ इति स्मृत्वा ततः श्रोत्रियादिकमव-

लोवयेन्नतु पापिनम्। तदाह कात्यायनः– ‘श्रोत्रियं सुभगां गां च गुरुमग्निचित तथा ॥प्रातरुत्थाय यः पश्येत्सअपद्भ्यः प्रमुच्यते ॥ पापिष्ठं दुर्भगं मत्त मग्नमुत्वृनोसिकम् ॥प्रातरुत्थाय यः पश्येतत्कलेम्पलक्षणम्’ इति । नदीं वृषं धार्मिकं च मृदङ्गं दर्पणं मणिम् ॥गुरुमग्र्यं रवि पश्वन्न नश्येत्प्रातरेव हि’ ॥ इति ।

इति ब्राह्ममुहूर्त कार्यविधि ।

<MISSING_FIG href="../books_images/U-IMG-1697632296Screenshot2023-10-18180124.png"/>

॥ ४ ॥ अथ शौचविधिः ॥

शौचद्वेविध्यं तूत्त्कं स्मृतो–‘शौचयत्नं सदा कुर्याच्छौचमूलो यतो द्विजः । शौचाचारविहीनस्य समस्ता निष्फलाः क्रियाः ॥शौचं तु द्विविधं प्रोक्तं वाह्यमान्तरमेव च । मृज्जलाभ्यां कृतं बाह्यं भावशुद्धिस्त्वथाऽऽन्तरम् ॥ इति । शौचप्रकारमाह मनुर्वशिष्ठश्च– ‘ततः प्रातस्समुत्थायकुर्याद्विण्मूत्रमेव च । ग्रामात्पदशतं गच्छेन्नगराच्च चतुर्गुणम् ॥दिवा संध्यासुकर्णस्थब्रह्मसूत्र उदङ्मुखः । कुर्यान्मूत्र-पुरीषेतु रात्रौ चेद्दक्षिणा मुखः ॥ विदारयेत्तथा तत्तु कृम्यनुत्पत्तिहेतवे । गच्छेद्ग्रामाद्बहिः पश्चाद्वाग्यतो नियतेन्द्रियः ॥नैर्ऋृत्यां पश्चिमेऽथो वा शुचिर्देशविवर्जिते । कृत्वा यज्ञोपवीतं तु पृष्टतःकर्णलम्बितम् ॥अन्तर्धाय तृणैभूमिं शिरः प्रादृत्य वासना । कुर्यान्मूत्र-परीषे च रात्रौ चेद्दक्षिणामुखः’ ॥ इति ॥अत्र दक्षिणकर्णस्य यज्ञोपवीतम् एकवस्त्रविषयम् । कण्ठलम्बितत्वंद्विवस्त्रविषयमिति स्मार्ताः ॥‘उत्सर्गे वै पुरीषस्य मूत्रस्य च विसर्जने । तिष्ठेन्नातचिरं तत्र न च किञ्चिदुदीरयेत्’॥ इति विष्णुपुराणे मृत्तिकाशौचविषये शानातपः–‘शुचिदेशात्तु संग्राह्याश्शर्कराश्मादिवार्जिताः । विप्रे गौरा मृदः प्रोक्ताः क्षत्रे रत्कास्तथोदिताः ॥वैश्यस्य हरितः प्रोक्ताः कृष्णास्त्रो–शूद्रयोरपि । यस्मिन्देशे तु यत्तोयं या च यत्रैव मृत्तिका ॥ सैव तत्र प्रशस्ता स्यात्तथा शौचं विधीयते ।गृहीतशिश्नश्चोत्थाय मृदिरभ्युध्द्दतैर्जलैः॥ गन्धलेपक्षयकरं कुर्याच्छौचमतन्द्रितः। लिङ्गशौचं पुरा कार्यं गुदशौचमतः परम् ॥आर्द्रामलकमात्रा हि मूत्रशौचे तु मृत्तिका । मूत्रातु द्विगुणं शुक्रे मैथुने त्रिगुणं

स्मृतम् ॥ सेहने सत्तिकाः सप्त लिङ्गे द्वे परिकीर्तिते । एकस्मिन्विंशतिर्हस्तेद्वयोर्देयात्चतुर्दशा ॥तिस्रस्य मत्तिका देया कर्तुर्वै नत्वशोधनम्। तिलस्तु पाद योदेशश्शैचकामस्यसर्वदा ॥ शैक्यातदगृहस्यानांद्विगुणंब्रह्मचारिणाम् । त्रिगुणस्याद्ग्रतस्यानां यर्तनांच चतुर्गुणम् । यद्दिया विहिनं शौचं तदर्धं निशि कीर्तनम् । तदर्धमारे प्रोक्तमातुरस्यर्धपध्वनि ॥ स्त्रीशूद्राणामश्क्तानांवालानांनोपनीतिनाम् । गन्धलेपक्षबकर शौचं कुर्यान्न संख्यया ॥ ॥ षड्दारं कुरुते मूत्रं त्रिदारं च पुरीषकम् । एतच्छौचनिधिः पूर्वमत ऊर्ध्वं न दोषभाक् । आपदि शौचमाह वृद्धपराशरः–‘अरण्ये निर्जले रात्रौ चोरव्यालाकुले पथि । कृत्वा मूत्र-पुरीपे च द्रव्यहस्तो न दुष्यति’ ॥ इति । मृदादिकं हस्ते धारयित्वा न दुप्यतीत्यर्थः ॥

इति शौचविधिः ।

॥ ५ ॥ दन्तधावन–आचमन–स्नानादि ॥

अथाऽऽचमन-दत्तधावन-स्नानादीनि विधत्ते।

धौतदन्तस्तमाचम्य स्नानं कुर्याद्विधानतः ॥ २ ॥

इति । विहितकाष्ठादिना निर्मलीकृतदन्तः स्वविध्यनुसारात् आचम्य आचमनं कृत्वा विधानतः ल्यव्लेपनिमित्तात् शब्दात्तसिल । विधानमनुनृत्य स्नानं प्रवाहाद्यभिमुखः सन् गङ्गादिषु कुर्यात् इत्यन्वयः । दन्तधाव्नविधिरुक्त आपस्तम्बेन-‘पुरोदयाद्रवेरद्यान्नोदिनेऽस्तमिते रवौ ॥ दीक्षितो ब्रह्मचारी च यतिश्च विधवाङ्गना । नित्यमद्याद्दन्तकाष्ठंत्रिजन्मस्तु न वर्जयेत् । त्रिजन्मसु जन्म जन्मनु तदद्युःदन्तानां शोधनं कार्य काष्ठैरूक्तैर्यथाविधि । कार्पासी तुवरी वेणुंतिन्त्रिणीं च विवर्जयेत् । प्रतिपद्दशं-षष्ठीषु चतुर्दश्यप्टमीषुच । पूर्णिमायांसंक्रमे च श्राद्धजन्मदिने तथा नवम्यां भानुवारे च दन्तकाष्ठं विवर्जयेत् । निषिद्धदिवसे कुर्याद्गपाद्वा दशैव्तु। तृण-पर्णैस्सदा कुर्यादमामेकादशीं विना । तयोरपि च कर्तव्यं जन्य-ल्पक्ष-रसालकैः । निषेधो दन्काप्टस्य भोजनान्तेऽखलस्य च । पत्रैर्वाद्वादर्दन्तान्गण्डूषैश्शौधवेदपि’ इति । ‘द्वादशाङ्गुलिकं विप्रे काष्ठमाहुम्

नीषिणः । क्षत्र–विट्शूद्रजातीनांनव–षट्चतुरङ्गुलमानं तु नारीणामिति निश्चयात’ ।इति । ‘प्रक्षाल्य पादौ हस्तौ च मुखं चक्षुस्समाहितः । दक्षिणं बाहुमुध्दृत्य कृत्वा जान्वन्तरा ततः’ । इति व्यासः । स्थूलकाष्ठंदन्तधावने शस्तम् । मध्याङ्गुलिसमं स्थूलं द्वादशाङ्गुलिसम्मितम् । सरलदन्तकाष्ठं स्यात्तदग्रेण तु धावयेत् । सुसूक्ष्मं हीनदन्तस्य समदन्तस्य मध्यमम् । स्थूलं विषमदन्तस्य त्रिविधं दन्तधावनम् । प्रतीत्रीं दक्षिणाशां च वर्जयेद्दन्तधावने । अङ्गार- वालुका-पर्ण-तृणवस्त्र-नखादिभिः । न कुर्याद्दन्तकाष्ठंचश्रीकामो दूषिते दिने ॥न कुर्याद्दन्तकाष्ठं च तैले शिरसि च स्थिते । प्राङ्मुखस्य धृतिस्सौत्यंशरीरारोग्यमेव च । दक्षिणेन तथा कष्टं परिचमेन पराजयः ॥उत्तरेणगवां नाशस्स्त्रीणां परिजनस्य च । पूर्वोत्तरे तु दिग्भागे सर्वान्कामानवाप्नुयात् इति च स्मृतिः । लक्ष्मीसंहितायां च–‘पतितान्त्यजपाषण्डिशुनकांश्च रजस्वंलाम् ।भिषक्पातकिचण्डालान्न प्रेक्षेद्दन्तधावने । आयुर्वलं यशोवर्चः प्रजापशुवसूनि च । ब्रह्मप्रज्ञां च मेधां च त्वं नो धेहि वनस्पते । दन्तधावनमङ्गुल्या प्रत्यक्षं लवणेन च । भृत्तिकाभक्षणे चैव तुल्यं गोमांसभक्षणमिति’ । ‘पश्चाद्द्वादशगण्डूषैर्विदध्याद्दन्तधावनम् । स्मृत्वोक्ङारं च गायत्रीं निबध्नीयाच्छिरवां तत’ इति शौनकः । दन्तधावनोचितं कालमाह । दन्तधावने उदयकाले या निषिद्धा तिथिः सा वर्ज्या । तथा च स्कान्दे–‘अभ्यङ्गे चोदधिस्ताने दन्तधावनमैथुने ।जाते च मरणे चैव तत्कालव्यापिनी तिथिरिति ।

इति दन्तधावनविधिः ।

<MISSING_FIG href="../books_images/U-IMG-1697636325Screenshot2023-10-18190830.png"/>

अथ गण्डूषविधिः ।

कुर्याद्द्वादशगण्डूषान्पुरीषोत्सर्जने बुधः । मूत्रे चत्वारि गण्डुषान् भोजनान्ते तु षोडश ।भक्ष्यभोज्यावसाने तु गण्डूषोऽष्टौविधीयते । पुरतो देवता तिष्ठेद्दक्षिणे पितृदेवता ।गण्डूषक्षेपणं तस्माद्वामभागे विधीयते ॥

अथाचसनविधिः ॥

आचमने निमित्तपुरस्कारेणाह भरद्वाजः । चण्डालम्लेच्छसंभाषेस्त्रीशूद्रोच्छिष्टभाषणे । उच्छिष्टं पुरुषं स्पृष्ट्वा दन्तोच्छिष्टे तथाऽनृते ।आचमेदश्रुपाते वा लोहितस्य तथैव च स्रीणामप्यात्मनस्स्पर्शे नीवीं वा परिधाय च । आयतं सर्वतः कृत्वा गोकर्णाकृतिवत्करम् । संहृताङ्गुलिना तोपं गृहीत्वा पाणिना द्विजः । मुक्ताङ्गुष्ठकनिष्ठेन शेषेणाचननं पिबेत् । माषसज्जनमात्रास्तु संगृह्य त्रिरपः पिबेत् । अपवित्रकरः कश्चित् ब्राह्मणोऽप उपसृशेत् अकृतं तस्य तत्सर्वं रुधिरेणाचमन्ति ते । अन्तर्जानु शुचौदेशे उपविष्टउदङ्मुखः । ब्राह्मेणविप्रस्तीर्थेत द्विजोनित्यमुपस्पृशेत्याम्यप्रत्यङ्मुखत्वेन कृतमाचनं यदि । प्रायश्चित्तं तदा कुर्यात्स्तानमाचमन क्रमात् । ब्राह्मेण विप्रस्तीर्थेननित्यमाचमनं चरेत् । काय–त्रैदशिकाभ्यां वा न पित्र्येण कदाचने’ति । ब्राह्मादितीर्थानां लक्षणं तर्पणप्रकरणे वक्ष्यामः अङ्गुल्यग्रे देवतीर्थं स्वल्पाङ्गुल्याःमूलेकायंतीर्थमार्षम् ।मध्येऽङ्गुष्ठाङगुल्योःपित्र्यम ।मूलेऽङगुष्ठेब्राह्मं, तेन तीर्थं पिवदिति । त्रैदशिकं-दैवम् । अत्र नित्यपदात्सर्वदा ब्राह्मेणैव ।तस्य भागम्य व्रणाद्युघाते त्वितराभ्यामिति व्यवस्थितो विकल्पः ।आचमननिषेधमनाह बौधायनः ।

‘न वर्षधारास्वाचामेतथा च प्रदरोदके । आपो जग्ध्वौषधं पीत्वा कृत्वा ताम्बूलचवेणम् । पादक्षालनशेपाच्चनाचामेद्वारिणा द्विजः ।शूद्राहृतैस्तु नाचामेदेकपाण्याहृतैस्तथा । न चैवाव्रतहस्तेन नापरित्यज्य हस्ततः । आपः करनखस्पृष्टास्समाचमति यो द्विजः । सुरां पिबति स व्यक्तां यमस्य वचनं तथा । सोपानक्तो जलस्थो वा मुक्तकेशोऽथ वा पुनः । उष्णीषोवापिनाचामेद्वस्त्रेणावेष्ट्यवा शिर’ इति । क्षुतेनिष्ठीवतेसुप्ते परिधानेऽश्रुपातने । सत्यमाचमना शक्तौ अभावे सलिलस्यच । पूर्वोक्तेषु निमित्तेषु दक्षिणं श्रवणं स्पृशेत् । प्रभासादीनि तीर्थानि गङ्गाद्यस्सरितस्तथाः । आदित्या वसवो रुद्रा वायुरग्निश्च धर्मराट् । विप्रस्य दक्षिणे कर्णे निवसन्ति हि देवता इति सांख्ययनवचनं तु जलाभावे सन्ध्यायाः स्मरणवत् । कौरवयुद्धे द्रोणादीनां रजसा-

तध्यंदानमिवउदकाभावेनाचमनाऽमनुकूलवाणं कर्णंस्पृशेदिति शैचविधि इति ज्ञेयम् ।

अथ द्विराचमननिमित्तमाह ॥ व्यासः ॥

‘दानेभोजनकाले च संध्ययोरुभयोरपि । आचानतःपुनराचामेज्जपहो॒माव॑नेष्वपी’ति। आचमनं त्रिविधम् । श्रौतं, मान्त्रं ’ त्रिराचमेन् द्वि परिमृज्येति श्रुत्युक्तम् मान्त्रम् ऋग्वेदाय नम इत्याकारं मन्त्राचमनम् वैरणवं चेति ।

श्रीताचमनलक्षणमाह-भारद्वाजः । देव्याःपादैस्त्रिभिः पीत्वा अब्लिङ्गैर्नबधा स्पृशेत् । पुनर्व्याहृनिगायत्र्या शिरोमन्त्राँस्त्रिधा स्पृशेत् । एवं यः कुरुते विप्रो महापापैः प्रमुच्यते इति । तत्प्रयोगस्तु । ‘तत्सवितुर्वरेण्य भर्गो देवस्य धीमहि ।धियो यो नः प्रचोदयात्’। इति त्रिराचम्य । ‘आपी हिष्ठामयोभुव’ इति वामहस्तप्रक्षालनम् । ‘स्तान ऊर्जे दधातने ‘त्यन्यकर-प्रक्षालनम् । ‘महेरणाय चक्षसे यो वश्शिवतमो रस’ इत्याभ्यां कपोलो । ‘तस्य भाजयते ह नः । ‘उशतीरिव मातर’ इत्योष्ठी । तस्मा अरङ्गमामव इत्यञ्जलिम् । ‘यस्यक्षयाय जिन्वथे’ ति पादौ । आपो जनरथा च न इति शिरः । ॐ भूः इति नानिकाग्रे । ॐ भुवः ॐ स्वः इति नासिकादक्षिण वामभागयोः । ॐ महः ॐ जनः इति नेत्रयोः । ॐ तपः ॐ सत्यमिति कर्णयोः । ॐ तत्सवितुर्वरेण्यमिति नाभौ । ॐ भर्गो देवस्य धीमहीत्ति हृदये । धियो यो नः प्रचोदयादिति शिरसि । ॐ आपो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्स्वरोमित्याभ्यां भुजयोः । मध्ये मध्ये क्षालयेदिति चतुर्विंश-तिस्थानेषुन्यस्याचमनं श्रौतम् ।

** अथ मन्त्राचमनं तूक्तम्**– सिन्धुद्वीपे्। ‘त्रिश्चतुर्वारमाचामेद्वेदान् ध्यायन्ननुक्रमात् । प्रमृजेद्द्विरथर्वेण पुराणैश्चेतिहासकैः । मुखमङ्गुष्ठमूले च पृथक्चाप उपस्पृशेत् ।पाणिनाऽथोऽग्निमन्त्रेण अवसृज्याथ संस्पृशेत । विप्रस्तु नेतराणां तु तन्मुखालम्बनं स्मृतम् । सूर्याय दक्षिणं नेत्रे वामे सोमाय वै स्पृशेत् । नमो दिग्भ्यश्श्रवणयोर्बाव्होरिन्द्राय संस्पृशेत् । पृथिव्यै पादयोर्जान्वो

रन्तरिक्षाय गुह्यके । दिनेनाभ्यां गुह्यके च विष्णवे हृदयेतथा । शिवायेति शिरस्यन्ते हस्तंप्रक्षालयेत्ततः । अङ्गुष्ठ–तर्जन्यमान्यां नेत्रयोरुभयोस्स्पृशेत् । अङ्गुष्ठमव्यमाभ्यां च नासा-श्रवणयोस्ततः । अङ्गुष्ठानामिकाभ्यां चं कनिष्ठाभ्यां च बाहुके । साङ्गुष्ठैरखिलैरेभिस्थानेष्वन्येषु संस्पृषेत् । इदं मान्त्राचमनं नाम सर्वार्थस्य प्रसाधकमि’ति । अत्र यथासंभवं योज्यम्। प्रयोगस्तु ऋग्वेदाय नमः यजुर्वेदाय नमः सामवेदय नमः इति पीत्वा, अथर्वणवेदाय नमः अग्नये नम इति मुखं द्विरुन्मार्ज्थ, विष्णवे नमः सरस्वत्यै नमः इत्योष्ठौसंकुच्य, ज्येष्ठाङ्गुलिमूलेन द्विः संमृज्य, प्राणाय नमः वायवे नम इति नासिके, चन्द्राय नमः भास्कराय नमः इति चक्षुषी । दिग्देवताभ्यो यमादिभ्यो नम इति प्रसृज्य ।ब्रह्मणे नमः विष्णवे नम इतिं हस्ततलेन हृदयम् इन्द्रायेति बाहू प्रोक्षयेत् । पृथिव्यै नम इति पादयोः, अन्तरिक्षाय नम इति जान्वोः, दिनेशाभ्यां नम इति गुह्यके, शिवाय नम इति शिरः सम्मार्जयेत् । मध्ये हस्तौप्रक्षालयेदिति ।केशवाद्याचमनं वैष्णवाचमनम् त्रिंराचमेत् । द्विः परिसृज्येति श्रुत्युक्तंम्, श्रौताचामनं ऋग्वेदाय नम इत्याकारकं मन्त्राचमनं च । अत्राशेषपशिष्टपरिगृहीतत्वाद्वैष्णवाचमनस्यैवेतराभ्यां विशिष्टत्वं कूपोदकस्नानतो भागीरथीस्नानस्येव ।ततः सर्वकर्मसु प्रेक्षावभ्दिर्वैष्णवाचमनमेवानुष्ठेयम् । नन्वनेकऋषिविदिताचमनकर्मण एकत्वाद्वैष्णवाचमनस्यैवज्यायस्त्वंकथमिति चेत् उच्यते । विष्णुनामत्वादधिकफलत्वेन विशिष्टत्वमिति । तथापि कथमधिकफलत्वम् । ऋग्वेदाय नम इत्यादेरपि विष्णुनामत्वादिति चेत् मैवम् । अन्यत्रापि प्रसिद्धनामभ्यः तत्रैव प्रसिद्धानां विशिष्टत्वादिति ध्येयम् । ननु स्मार्तादिसंज्ञा किन्निबन्धनेति चेत् वदामः ।शिष्टैः। स्मार्तादितया व्यवप्हियमाणत्वरूपाखण्डोपाधेरेव स्मार्तवचनम् । एवमन्यदपि । ननु स्मृतिविहितम्स्मार्तं श्रुतिविहितं श्रौतमिति किन्ने स्यादिति चेन्ने । परस्परातिव्याप्तेः। सर्वस्यापि श्रुतिस्मृतिविहितत्वात् । आचाराच्च । ‘स्मृतिं ज्ञात्व’स्मृतेश्च श्रुतिकल्पनमि’ति पूर्वमीमांसावार्तिकोक्तेः। मन्वादयोऽपि श्रुत्यर्थं स्मृत्वा स्मृतिं रचयन्तीति प्रसिद्धम्। केशवादिवैष्णवाचमनस्यापि वैय्यात्रपा दस्मृतिनिरूपितत्वेन स्वार्तत्वादिति ।वैष्णवाचमनमाह वैय्याघ्रपादः ‘केशवादिविभिः पीत्वा द्वाभ्यांप्रक्षा-

लयेत्करौ । द्वाभ्यासोष्ठौ च संसृज्य द्वाम्यां संमार्जयेत्करम् । एकेन वामं संप्रोक्ष्य पादावपि तथैकतः । संप्रोक्ष्यैकेन मूर्धानं मुखं संकर्षणादिभिः । नासिके च तथा नेत्रे श्रोत्रे नाभिं तथा हृदि । शिरो वाहू च क्रमशः स्पृशेद्वादशनामभिः । श्रीपूर्वकं च नामादौ नमोऽन्तश्चततः क्रमात् । वैणवाचमनं ह्येतत्स्वयं नारायणो भवेदिति । अत्र वैष्णवाचमने केशवादिकृष्णान्तानि चतुर्विंशतिनामानि चतुर्थ्यन्तानि नमोन्तानि चोच्चार्याणीति स्मार्ताः । इदमाचमनं सर्वकर्माङ्गम् ।यथाऽऽह पुराणसारे ‘याः क्रियाः कुरुते मोहादनाचम्यैव नास्तिकः । भवन्ति हि यतस्तस्य वृथा सर्वा न संशय’ इति ।

इत्याचमनविधिः ।

॥ अथस्नानम् ॥

तच्च बहुविधमुक्तं वाराहे । ‘मन्त्रस्नानं मलस्नानं ध्यानस्नानं च वारुणम्। पञ्चमं च जलस्नानमिति पञ्चविधं स्मृतम् । नवद्वारमिदं देहं स्रवत्यह- रहर्मलम् । तच्छुद्ध्यर्थं प्रकर्तव्यं मलस्नानं दिने दिने । प्रथमं त्रिर्निमज्याप्सु कराभ्यां शोधयेन्नरः । सर्वाङ्गाणि च त्रिः पश्चान्निमज्याचम्य भक्तितः । मलस्नानमिदं प्रोक्तमावश्यकमिदं नृणाम् । अथ शीतजलाशक्तौकुर्यादेवोष्ण वारिणा ।शीतास्वप्सु निषिच्योण्णंवारि पश्चाच्च शीतलम् । तुलसी मृत्तिकायुक्तं गायात्र्या ह्यभिमन्त्रितम् । जलं विधाय कुर्वीत यो ह्यशक्तो भवेद्द्विजः । नात्स्युध्दृतजलस्नाने देवर्षिपितृतर्पणम्। अस्याप्यशक्तौकर्तव्यं मन्त्रस्नानं दिने दिने । संध्योपासनकर्मादावधिकारस्य सिद्धये। आर्द्रवस्त्रेणसम्मार्ज्यसर्वगात्रभवं मलम् । पूर्ववस्त्रं परित्यज्य धौतमन्यद्विधारयेत् । आचम्य जलमादाय पत्रे वामकरेऽथवा ।गायत्र्या वाऽथमूलेन त्रिवारमभिमन्त्रयेत्। तज्जलं प्रोक्षयेद्गात्रे दर्भैर्वा तुलसीदलैः ।तर्जनी-मध्यमाभ्यां वा त्र्यूचेनाव्दैवतेन वै । भूमौ शिरसि चाकाशे आकाशो भूवि मस्तके ।मस्तके च तथाऽऽकाशे भूमौ च नवधा क्षिपेत् अव्दैवतस्स्मृतो मन्त्र आपोहिष्ठेति वैत्र्यृचः। त्रिरावृत्य क्षिपेत्तोयं प्रत्यृचं नवधा द्विजः। आकाशं हृदयं प्रोक्तं भूमिः पादाविति स्मृतम् । तत आचम्य विधिवत्कुर्यात्संध्यादिकर्म च । यदाप्येतन्न

शक्नोति वृद्धोऽवाप्ययवाऽऽनुरः। शयानोऽपि प्रकुर्वीत ध्यानस्नानमतन्द्रितः । सर्वलक्षणसंयुक्तां मन्मूर्ति स्वेष्टदेवताम् । मस्तकोपरि तां ध्यायेतत्पादाभ्यां विनिस्मृताम् ।ब्रह्मणा क्षाल्यमानाभ्यां गङ्गां त्रिपथगामिनीम् । धृतांशिवेन शिरसा ततोऽपि निस्सृतां वहिः । निपतन्तीं स्वके मूर्ध्निप्लावयन्तीं मुहुर्मुहुः । सर्वाङ्गानि ततस्यम्यगाचम्य शुचितां व्रजेत् । स्नातोऽपि विधिवच्छक्तोवारुणेन जलेन वा मन्त्रस्नानं तथा ध्यानस्नानं कुर्याच्च नित्यदा ।जलस्नानमथोवक्ष्ये सिद्ध्यर्थं सर्वकर्मणामि’ति । ‘भूमिस्थमुद्धृतात्पुण्यं ततः प्रस्रवणोदकम् । ततोऽपि सारसं पुण्यं तस्मान्नादेयमुच्यते । तीर्यतोयं ततः पुण्यं ततो गाङ्गं तु सर्वतः’ । इति मार्काण्डेयोक्ते तारतम्ये स्थितेऽपि यत्र यदस्ति तत्र तदेवोत्तममुदकमिति ज्ञेयम् । ‘प्रवाहाभिमुखो मज्जेद्यत्रापः प्रवहन्ति वै । स्थावरेषु च सर्वेषु आदित्याभिमुखस्तथेति’ जावालिः ।

** नैमित्तिकस्नानमाह मनुः** । दिवाकीर्त्यमुदतक्यांच पतितं सूतिकां तथा शवंतत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुद्ध्यतीति । दिवाकीर्त्यः चण्डालः उदक्या रजस्वला । वर्षाकाले विदितं सरोवरादिस्नाननिषेधमाह-‘नभो- ‘नभस्वतोर्मध्ये सर्वा नद्यो रजस्वलाः । तासु स्नानं न कुर्वीत वर्जयित्वा समुद्रगाः ।वर्षाकालभवं वारि प्रत्यग्रमशुचि त्र्यहमिति ।महानदीं विहायाऽन्यामु नदीषु न स्नायात् । तत्रापि विदितंपरित्यज्य स्नायादित्यर्थः । स्नाने विशेषमाह शातातपः- ‘नादशाकेन वस्त्रेण स्नायात्कौपीनकादृते । कौपीनं निर्दशाकमपिग्राह्यमित्यर्थः । न पारक्येन नाद्रेणन सूच्या ग्रथिते न च । रात्रौ स्नानं न कुर्वित होमदानं च रात्रिषु । नैमित्तिकं तु कुर्वीत स्नानं होमंच रात्रिषु । पुत्रजन्मति यत्स्नानं यज्ञे संक्रमणे रवेः । राहोश्च दर्शने स्नानं प्रशस्तं नान्यथा निशि’ इति ।

॥ जलस्नानप्रकारमाह ॥

उध्दृतेति मृदोऽऽलिप्य द्विषडष्टषडक्षरैः ।

त्रिर्निमज्जाप्यसूक्तेन प्रोक्षयित्वा पुनस्तथा ॥ ३ ॥

मृदाऽऽलिप्यनिमज्य त्रिस्त्रिर्जवेदवमर्षणम् ।

शुचिदेशादानीतां मृदं नदीप्रान्ते स्थाप्य नद्यादावाप्लुत्य तां मृदं त्रेधा कृत्वा उद्धृताऽसिवराहेणेति त्र्युचेन द्विभागमृत्तिकया शरीरं ललाटप्रभुतिषु लेपयित्वात्रिवारं स्नात्वा तृतीयभागंहस्तेन गृहीत्वा द्विवार षट् अष्ट वा षड्वा अक्षराणि येषां ते द्विषडष्ट षडक्षराः, तैः, वासुदेवद्वादशाक्षरमन्त्रेणनारायणाष्टाक्षरमन्त्रेण विष्णुषडक्षरमन्त्रेण प्रत्येकं त्रिवारं स्नात्वा आचम्यापोहिष्ठेत्यद्वैवतेन त्र्युचेन कलेवरं प्रोक्षयित्वा पुनस्तथा अवशिष्टया मृदा उध्दृतेति त्र्युचेन शरीरमालिप्य पुनरपि त्रिवारं स्नात्वा अप्पुआविष्कृतपृष्ठः सन् निमज्यैव ऋतं च सत्यं चेति त्र्यृचमघमर्षणसूक्तं त्रिवारं जपेदिति योजना ।अघमर्षणसूक्तजपकाले ध्येयरूपमाह।

स्रष्टारं सर्वलोकानां स्मृत्वा नारायणं परम् ॥ ४ ॥

यतश्वासो निमज्याप्सु प्रणावेनोत्यिस्ततः ।

सिञ्चेत्पुरुषसूत्केन स्वदेहस्थं हरि स्मरन् ॥ ५ ॥

यावच्छ्वासनिरोधं यतश्वासः अप्सु निमज्य अघमर्षणं कृत्वा ऋतं च सत्यं चेत्यादि ऋगर्थभूतं सर्वलोकानां सप्नलोक–समुद्राहोरात्र्यादिकालसूर्यचन्द्रादीनां सृष्टिहेतुं-परं सर्वोत्तमं नारायणं स्मृत्वा ततः जलात्प्रणवेनोत्थितः ॐ वारार्थस्मरणंपूर्वकमुत्थितः सन् स्वदेहस्थं स्वदेहगतान्नमयनाम कमनिरुद्धं स्मरन् । ‘द्वादशान्ते व्यवस्थित’ इत्युपनिषदुक्तं तुर्यं हरिं स्मरन् पुरुषसूक्तेन स्वशाखास्थेन प्रोक्षयेदित्यन्वयार्थः ।

तुर्यं हरिं वा स्मरन् । अत्र जलान्तः पितृस्नानं गुरूस्नानम् अघमर्षणात्पूर्वं कृत्वा तीर्थस्नानं जलतर्पणं च कृत्वा यावद्विन्दुपातं शिखोदकं दत्वा शुष्कवस्त्रेण सप्तवाताहतार्द्रवस्त्रेण देहं मार्जयेत् । नार्द्रेणेत्यादिकं द्रष्टव्यम् । आरम्भे ‘यथाविधी’ त्युक्तत्वात् अन्ते ‘कृता संक्षेपतरश्शुभेति वक्ष्यमाणत्वात् तत्तच्छाखाविहितानि सुलभानि अविरुद्धानि तदन्यशाखिभिरप्यवश्यं कार्याणीत्यनुजानाति यस्मिन् सर्वाणि कर्माणीत्युपक्रमे सदाचारस्य विषय इत्युपसंहारे वदन् भाष्यकारः ।

॥ जलतर्पणादिकमुक्तम् ॥

तत्पादसलिलं मूर्न्धिधृत्वा तीर्थं ततो बुधः ।त्रिः पिबेत्तीर्थमाहात्म्य-

मन्त्रान्वैसमुदीरयन् ।ततआचम्य कुर्वीत तर्पणं जलसंस्थितः । ब्रह्मादिदेवान्। भूर्देवान् भुवस्स्वर्भूर्भुवस्थितान् \। ऋषीन् द्वैपायनादीश्च भूर्भुवस्स्वस्थितांस्तथा तर्पयेच्चाग्निकव्यवाहादींश्च पितृस्थंता । ये के चास्मत्कुले जाताअपुत्रा गोत्रिणो मृताः । ते गृण्हन्तु मया दत्रं वस्त्रनिष्पीडनोदकम् । इति मन्त्रेण वस्त्राम्भो दद्यान्निष्पीड्यचाम्बुनि । ततस्तीर्थं समासाद्य यक्ष्माणं तर्पयेद्द्विजः ।यन्मया दूषितं तोयं शारीरमलसंभवात् । तत्पापशोधनार्थाय यक्ष्माणं तर्पयाम्यहम्। इति मन्त्रेण संगृह्य तीरे वार्यञ्जलिं क्षिपेदिति । अत्र वस्त्रस्य निष्पीडनं नाम न गुदाच्छादकवस्त्रस्य, किन्तु स्नानकाले यजुश्शाखिभिः कटिबद्धस्य, तदितरैस्तु वामप्रकोष्ठे स्थितस्योत्तरीयस्यैव वस्त्रस्येतिबोद्यम् । तेन ‘निराशाः पितरो यान्ति शापंदत्वा तु दारुणम् । निष्पीडयति यो वस्त्रमतर्प्य च तिलैः पितृनिति’ वाक्यबाधः।

यावद्देवानृऋषींश्चैव पितृंश्चापि न तर्पयेत् । तावन्न पीडयेद्वस्त्रं येन स्नातो भवेन्नरःइति योगीश्वरवचोविरोधः,’ निष्पीडयति यो मूढस्स्नानवस्त्र मतर्पितम्। निराशाः पितरस्तस्य शप्त्वागच्छन्ति नान्यथेति वाराहवचनबाधश्चपरास्तोवेदितव्यः । तिलतर्पणोतरं निष्पीड्यमानस्य गुदवस्त्रत्वात् । इदमेवाभिप्रेत्य वाक्यान्तरं च । स्नानादनन्तरं तावत् तर्पयेत्पितृदेवताः। उत्तीर्य पीडयेद्वस्त्रं संध्यावत्प्रयतःपरमिति ।तर्पणोतरमपि निष्पीडितं गुदवस्त्रं वामप्रकोष्ठेनिक्षिपेन्नान्यत्र ।यथोक्तं विष्णुपुराणे ।निष्पीड्य सदशं वस्त्रं चतुर्गुणितमम्बुनि । वामप्रकोष्ठे निक्षिप्य स्थलस्थस्तु द्विराचमेत् । निष्पीडितं यदा वस्त्रं स्कन्धें चैव विनिक्षिपेत् । तदाऽऽसुरं भवेत्कर्म पुनस्स्नानेन शुद्ध्यतीति । तथा स्नानोत्तरं केशावधूननम्, आर्द्रवाससा गात्रक्षालनं च न कार्यम् । तथा च मार्कण्डेये । अवमृज्यान्न च स्नातो गात्राण्यम्बरपाणिभिः । न च निर्घुनुयात्केशान् चासश्चापि न निर्धुनेदि’ति ।अम्बराणि पाणयश्चेति विग्रहः ।

स्नानोत्तरं वस्त्रपरिधानप्रकारमाह ।

वसित्वा वास आचम्य ।

इति पञ्चकच्छयुक्तेन वाससा गुदादिकमाच्छाद्य तत आचम्येत्यर्थः ।

ऊर्ध्वपुण्ड्राणि चक्रादिपञ्चायुधानि धारयेदिति शेषः। नद्यां स्नानं चेत् वासः अधः प्रक्षिप्य, गृहे स्नानं चेत् ऊर्ध्वमुत्कृप्येत्यपि द्रष्टव्यम् । वर्णभेदेन वस्त्रभेदं उत्तरीयस्यावश्यकत्वमाह भृगुः। ब्राह्मणस्य सितं वस्त्रं नृपतेरक्तमुल्वणम्। पीतं वैशस्य शूद्रस्य नीलं मलवदिष्यते । नोत्तरीयमवःकुर्यातोपर्यधस्थमम्वरम् । नान्तर्वासो विना जातु निवसेद्वाससं बुधः। विवस्त्रो नोत्तरीयश्च नग्नश्चाकच्छ एव च । श्रोत्रंस्मार्तं तथा कर्म न नग्नश्चिन्तयेदिति ।नग्नो मलिनवस्त्रस्स्यालग्नः कौशेयकेवलः ।नग्नो द्विगुणवस्त्रस्स्यान्नग्नो दग्धपटस्तथा । नग्नश्च स्यूतवस्त्रस्यान्नग्नो ग्रथितवस्त्रकः। नग्नश्च वहुवस्त्रस्स्यान्नग्नः कौपीनकेवलः ।कापायवस्त्रस्साक्षाच्चदशनग्नाः प्रकीर्तिताः इति । अत्र कौशेयमात्रधारण एवं नग्नता । न तु परिधेयोतरीयवासोन्तरसाहित्येऽपि । केवलशब्दोपादानसामर्थ्यात् । कौपीनेऽप्येवमेव बोध्यम् ।

॥ ६ ॥ ऊर्ध्वपुण्ड्रविधिः ॥

ब्रह्माण्डे । बह्मचारी गृहस्थो वा वानप्रस्थोऽयवा यतिः । अवश्यं धारयेत्पुण्यर्ध्वपुण्ड्रं मनोहरम् । दण्डाकारं तु शोभाढ्यंमध्ये छिद्रं प्रकाशयेत् । तस्माच्छिद्रान्वितं पुण्ड्रं दण्डाकारं विधीयते । तद्धारणप्रकारमाह पराशरः । नासिकामूलमारभ्य ललाटान्तं तु विन्यसेत् ।दण्डाकारं ललाटे तु हृदये पद्मकुड्मलम् । वेणुपत्राकृतिः कुक्षौ वाव्होर्दीपाकृतिर्भवेत् । ललाटे कण्ठदेशेच स्कन्धयोश्च त्रिके तया ।चतुरङ्गुलमानानि पञ्च पुण्ड्राणि धारयेत् ।उदरे पाञ्चैवहृदये पश्चिमे तथा । वाव्होर्मध्ये च सप्त स्युः पुण्ड्राण्यष्टाङ्गुलानि वेति’ तत्र मूर्तिध्यानं पाद्मे। ‘ललाटेकेशवं ध्यायेन्नारायणमथोदरे । वक्षस्स्थले माधवंच गोविन्दं कण्ठकूवरे ।विष्णुं च दक्षिणे कुक्षौ वाहुके मधुसूदनम् । त्रिविक्रमं कन्धरे तु वामनं वामपार्श्वके । श्रीधरं बाहुमध्ये तु हृषीकेशं तु तथा भुजे ।पृष्ठे तु पद्मनाभं च ककुद्दामोदरं न्यसेत् तत्प्रक्षालिततोयेन वासुदेवेति । मूर्धनीति ।शुक्लपक्षे केशवादिनामभिः, कृष्णपक्षे संकर्षणादिभिरिति गुरवः। तदुक्तं द्वह्याण्डे ।मूर्ध्नि मूलेनमन्त्रेण शेषं द्वादशनामभिः ।स्थानेष्वेषु द्विजः कुर्यान्नमोऽन्तैः प्रणवेन च संकर्षणादिभिःकृष्णे शुक्ले

चेत्केशवादि रिति । ऊर्ध्वपुण्ड्रधारणं मृत्तिकास्थानानि पाद्मे । द्वारवत्यांशुभे रम्ये वासुदेवहृदेतथा । तत्रोद्भवां मृदं शुभ्रामादाय द्विजसत्तमः । धारयेदूर्ध्वपुण्ड्राणि सर्वकर्मफलाप्तये ।आदाय परया भक्त्या गङ्गातीरोद्भवां मृदम् । तथा धृत्वोर्ध्वपुण्ड्राणि सर्वयज्ञकलं लभेत् । यत्र दिव्यं हरेः क्षेत्रं तत्रैव मृदमाहरेत् । सैव श्रेयोऽथिभिर्ग्राह्या ऊर्ध्वपुण्ड्रस्य धारणे ।पर्वताग्रेनदीतीरे विल्वमूले जलाशये ।सिन्धुतीरे च वल्मीके हरिक्षेत्रे विशेषतः ।विष्णोस्स्नानोदकं यत्र प्रवहेत दिने दिने । पुण्ड्राणां धारणार्थाय गृण्हीयात्तत्र मृत्तिकाम् । धृत्वा पुण्ड्राणि चाङ्गेषु विष्णुसायुज्यमाप्नुयात् । श्यामा शान्तिकरा प्रोक्ता रक्ता वश्यकरी तथा । पीता वै श्रीकरेत्याहुश्श्वेतामोक्षप्रदा शुभा ।आदाय परया भक्त्या तुलसीमूलमृत्तिकाम् । धारयेद्दुर्ध्वपुण्ड्राणि सर्वपुण्यफलाप्तये ।गृहे यस्य सदा तिष्ठेद्गोपीचन्दनमृत्तिका । द्वारका तिष्ठते तत्र कृष्णेन साहिता कलौ ।यस्मिन् गृहे तिष्ठति गोपिचन्दनं भक्त्या ललाटे मनुजो बिभर्ति ।तस्मिन् गृहे तिष्ठति सर्वदा प्रभुश्श्रियाऽर्चितः कंसनिषूदतोहरीः ।क्रियाविहीनं यदि मन्त्रहीनं सद्भावहीनं यदि भक्तिवर्जितम् । धृतं ललाटे यदि गोपिचन्दनं प्राप्नोति यत्पुण्यफलं तदक्षयम् । यस्यान्तकाले खलु गोपिचन्दनं बाव्होर्ललाटे यदि मस्तके वा । प्रयाति लोकं कमलासनस्य गोबालघाती यदि ब्रह्महा भवेत् । यस्मिन्कस्मिन्महाभाग वैष्णवा धारयन्ति हि । तस्मिन्वै मृत्तिका ग्राह्या शुभ रम्या सुनिर्मला ।चन्दनेत मृदा वाऽपि मन्त्रपूतेन भस्मना । धारयेद्दूर्ध्वपुण्ड्राणि नामभिः केशवादिभिरिति अग्निहोत्रे ।उत्तमृत्तिकाऽलाभेत्वाहारययस्मिन्निति विष्ष्वर्पितेन भस्मना धारयेदित्यर्थः । वर्णविशेषोर्ध्वपुण्ड्रम् । ऊर्ध्वपुण्ड्रंद्विजः कुर्यान्मृदावा चन्दनादिना ।विल्वमूलेन वा विप्रोन तस्मात्केवलं भवेत् । ब्राह्मणस्य तु मृत्प्रोत्त्काक्षत्रियाणांतु चन्दनम् । वैश्यानां विल्वमूलं तु शूद्राणां भस्मनोच्यते । विप्राणामूर्ध्वपुण्ड्रं स्यात्तिलकं तु महीभृताम् । पट्टाकारं तु वैश्यानां शूद्राणां तु त्रिपुण्ड्रकम् ।चत्वारि भूभृतां प्रोक्तं पुण्ड्राणिद्वे विशां स्मृते । एकपुण्ड्रं तु नारीणां शूद्राणां च विधीयते । ललाटे हृदि बाव्होश्च चतुःपुण्ड्राणि धारयेत् । ललाटेहृदये द्वे तभाल एकं विधीयते । मूर्तयोवासुदेवाद्याश्चतुः पुण्ड्राणि धारयेत् ।

मार्जयेत् । नमो मुद्राभ्य इत्युक्त्वा स्थापयेन्मानितास्सदेति ।

॥ ८ ॥अथेदानीं संध्याकर्म संक्षेपत आह ॥

प्रोक्ष्याऽऽचम्यच मन्त्रतः ।

गायत्र्या चाञ्जलिं दत्वा ध्यात्वा सूर्यगतं हरिम् ॥६ ॥

मन्त्रतःपरिवृत्त्पाऽथसमाचम्य तुरादिकात् ।

तर्पयित्वा विपीड्याऽथवातो विस्तृत्य चाञ्जसा॥ ७ ॥

भगवत्पादवचसां विश्वतो मुखत्वात्प्रोक्ष्येत्यादिकमावर्त्य योज्यम् ।तथा चायं पदार्थः । प्रोक्ष्यउपवेशनार्थं शुद्धिं कृत्वां मंत्रन्तः केशवादिनामभिरागम्य प्राणतायम्य प्राणायामपुरस्सरं संध्यांकरिष्ये इति संकल्प्य मन्त्रतः प्रतिपादं प्रोक्ष्यमर्त्जायित्वासूर्यश्चेतिमन्त्रतः आचम्य केशवादिमन्त्रतश्चाचम्य स्वस्वशाखारीत्यापुनरापोहिष्ठेतिनवभिर्मार्जयित्वा सूर्यगतं हरिं ध्यात्वा तमुद्दिश्य गायत्र्या अञ्जलिम् अर्ध्यरूपां त्रिर्दत्वा’असावादित्थोब्रह्म’ति मन्त्रतःपरिवृत्य प्रदक्षिणं कृत्वा सूर्यंगतं हरिं धात्वा गायत्रीजपं कृत्वा मन्त्रतःपरिवृत्त्य’ॐ प्राच्यै दिर्श’ इत्यादिमन्त्रतः प्राच्यामिन्द्रतद्भार्येअग्निवद्भार्येच, दक्षिणस्यां दिशि यम-तद्भार्ये निऋति-तद्भार्ये च, प्रतींच्यां वरुण-तद्भार्ये वायु-तद्भार्येच, उदीच्यां सोम-तद्भार्यें ईशान-तद्भार्ये च, ऊर्ध्वायां वीन्द्र-कामौ तद्भार्ये च, ब्रह्म-वायूतद्भार्येवा, अधरायां शेष-मित्रौ तद्भार्भेच, कामशेषौ तद्भार्येचेति षट्प्रश्नभाष्योक्तरीत्या प्रदक्षिणपुरःसरं दिग्देववताभ्यो नमः कृत्वा संध्याकर्म समापयेदिति शेषः । अथशव्दः प्रकरणान्तरद्योतकः । अथसंध्यासमाप्तौविद्युदसीति मन्त्रेणाप उपस्पृश्य समाचम्य हस्तावतुमृज्य त्रिराचमेत् । द्विः परिमृज्य सकृदुपस्पृश्य शिरश्चक्षुषीनासिके श्रोत्रे हृदयमालभ्येति मन्त्रेण तत्तत्स्थानेषु उदकं प्रौक्ष्य स्वस्दशाखारीत्या यथाधिकारं वह्मयज्ञतर्पणैरन्यतमैर्वा सुरादिकान् देवऋषिपितृमनुष्यान् तर्पयेत् । तर्पयित्वावासः स्वसमीपे स्थापितम् आर्द्रमुदवस्त्रं तर्पणोऽर्ध्वं’नचाम्यसीत्युक्तेःस्थले पिष्णीड्याथवासोविस्तृत्य प्रक्षाल्याऽऽतपे प्रत्थापवेददिति । एवं सामान्यतः संध्याकर्षोपत्वा विस्तरेणसन्ध्याकर्माह।

अञ्जसा । अर्कमण्डलर्ग विष्णुं ध्यात्दैव त्रिपदीं जपेत् ।

सहस्रपरमां देवीं शतमध्यां दशावरम् ॥ ८ ॥

आसूर्यदर्शनातिष्टेत्ततस्तूपविशेत वा ।

पूर्वा संध्यां सनक्षत्रामुत्तरां सदिवाकराम् ॥ ९॥

उत्तरानुपविश्यैव वाग्यतस्सर्वदा जपेत् ॥ १० ॥

ध्येयस्सदासवितृमण्डलमध्यवर्ती नारायणस्सरसिजासनसन्निविष्टः ।

केयूकवान्मकर-कुण्डलवान् किरीटो हारीहिरण्मयवपुर्धृतशङ्खचक्रःइति ।

अञ्जसा सम्यक् सुर्यमण्डलगतं विष्णुं ‘ध्येयस्मदेति’ वक्ष्यमाण प्रकारेण ध्यात्वा त्रिपदींत्रिसंध्यासु गायत्री-सावित्रीसरस्वतीभेदेन त्रिरूपां देवीं द्योतमानां गायत्रीऋचं उत्तमपक्षे सहस्रमितां मध्ये शतमितां अवरे दशमितां जपेत्—उपांशूच्चारयेत् । सुर्यदर्शनपर्यन्तं तिष्ठेत्-उत्तिष्ठेत् । उक्तसंख्यांकां गायत्रीं जपन्नितिशेषः । ततः सूर्यदर्शनानन्तरम् उपवेशने स्वेच्छाधीनताद्योतनाय वाशब्दः उपविशेत वा तिष्ठेद्वा। पूर्वांप्रातस्तनीं संध्यां संधिकालोपारयत्वात्सम्यक् ध्येयत्वाद्वासंध्याशब्दवाच्यां गायत्रीं सनक्षत्रां नक्षत्रदर्शनसहितां जपेत् । उत्तरां सायन्तनीं संध्याम् उपविश्यैव सूर्याभिमुखतः उपविश्यैव स्थित्वा सदिवाकरां भानुदर्शनसहितां सदा नित्यं जपकाले वाग्यतः वाङ्तियमवानेव जपेत् उपांशु पठेदित्यर्थः । विश्वामित्रऋषिकसन्ध्याङ्गगायत्रीध्यानं ‘ध्येय’ इति ब्रह्मगायत्री जपध्यानस्य’प्रोद्यदादित्यवर्णश्चसूर्यमण्डलमध्यगः। चक्रशङ्खधरोऽङ्कस्थदोर्द्वयो ध्येय एवचेति तन्वेसारे प्रकारान्तरेणाभिहितत्वात् संन्ध्यायाः जनप्रधानकत्वात् साङ्गसन्ध्यासमाप्त्युत्तरमेव ब्रह्मयज्ञतर्पणयोः काल । प्रधानकमतिभाष्यमध्ये पुनः प्रधानन्तराभ्भायोगात् । उक्तं च वाराहे–नित्यंतु तर्पणं कृत्वा गायत्रीं यो जपेद्द्विजः । वृथा तस्य भवेज्जाप्यं पितृहा सोऽपि जायत इति । अन्ये तु संध्यासमाप्तेः पूर्वन् अर्ध्यान्तसन्ध्यावन्दनं कृत्वा ब्रह्मयज्ञ-देवर्षिपितृतर्पणंविधाय जपर्योपस्थानादि कुर्यादिति वदन्ति तेषामयं यु (उ) धिक तत्र । देवादिगणणापूर्वसन्ध्याङ्गत्वेन यो जपेत् । गायत्रीमन्य-

मन्त्रांच तत्सर्वंनिष्फलं भवेदिति विष्णुतीर्थीये । शुचीस्सन्ध्यामुपासीत कुर्याद्देवादितर्पणम् । तिष्ठन्नदयपर्यन्तं गायत्र्यष्टशतं जपेत् ।इति विष्णुधर्मोत्तरे । एवमुभयवाचप्राबल्यान्यथानुपपत्तिं दृष्ट्वा पक्षद्वयं केचित्कल्पयन्ति । अर्ध्वप्रधानं सन्ध्यावन्दनं,जपप्रधानकं वेति सन्ध्यावन्दनं द्विविधम् । तत्राद्यपक्षे अर्ध्यान्तसन्ध्यावन्दनं कृत्वा जप-सूर्योपस्थानादि कुर्यात् । जपप्राधान्यपक्षे अर्ध्यजपसूर्योपस्थानं कृत्वा अन्ते ब्रह्मयज्ञदेवर्षि–पितृतर्पणं कुर्यादिति । वयं तु ब्रूमः । भगवत्पादोक्तं संध्यासमाप्त्यनन्तरं ब्रह्मयज्ञादि अनुदिनहोमिनः अपेक्ष्य । देवादितर्पणात्पूर्वं संध्याङ्गगायत्रीमन्त्रजपनिषेधकवचनं विष्णुतीर्थीयं तदिरहोपिनः अपेक्ष्येति । तथाहि । अनुदितहोमितया सम्मतस्य कृष्णस्य आन्हिके होमोत्तरं तर्पणमुक्तं भागवते । अथाप्लुतोम्भस्यमले यथाविधि क्रियाकलापं परिधाय वाससी । चकार संध्योपगमादि सत्तमो हुतानलो ब्रह्म जजाप वाग्यतः । उपस्थायार्कमुद्यन्तं तर्पयित्वाऽऽत्मनः कलाः । ‘देवान्ऋषीन् पितॄन् विप्रान् वृद्धानभ्यर्च्य चान्मवान्’ इति । अनुदितहोमिनो माध्यन्दिनाः । अत एव वाजसनेयचक्रब्राह्मणे । उदितहोमिनां विच्छिन्नमग्निहोत्रं मन्यामहे इत्युदितहेमनिन्दापूर्वकमनुदितहोमः समर्थितः । आश्वलायनः । वव्हृचश्च सूर्योदयानन्तरमेव होमिनः । अत एवोक्तमैतरेयवाह्मणे। प्रातःप्रातरनृतं ते वदन्ति पुरोदयाज्जुव्हति येऽग्निहोत्रम् । दिवाकीर्त्यमदिवाकीर्तयन्त इति अनुदितहोमं निन्दित्वा तस्मादुदिते होतव्यमिति उदितहोमः प्रशंसितः । यद्वा । गायत्र्या चाञ्जलि दत्वेत्यनन्तरं तर्पयित्वेति संबन्धः । शुक्ले केशवादीन् अन्यत्र संकर्षणादीन् तर्पयित्वेत्यर्थः । न च तर्हिदेवादितर्पणानुक्तिदोषः । ‘निपीडचाथ वास’ इत्यस्यानन्त्रयदोषश्चेति शङ्कयम् । सदशाकमुत्तरीयवस्त्रं ‘स्नाने दाने तथा श्राद्धेस्वाध्याये देवतार्चने । बन्धीयादम्बरे कट्यां याजुपो वव्हचं विने’ति वा वाक्यरीत्या याजुपैः कट्यां बद्धम् अन्यैः प्रकोष्ठे स्थापितं निष्पौडच तेन सप्तवाताहतेन देहं प्रक्षाल्याथ वासो विस्तृत्येति पूर्वेणान्वयः । अस्य संक्षेपशास्त्रत्वज्जतर्पणमिवानक्तमपि देवादितर्पणम् ।इमं तु वैश्वदेवात्प्राक् ऊर्ध्वं वाऽपि समाचरेदि’ति वाराहोक्तरीत्या

मध्यान्हे तर्पणं कुर्यात्पश्चाद्वाप्रातराहुतेः । वैश्वदेवान्त्यमथवा कालत्रयमुदाहृतमिति वचनाच्च मध्यान्हस्नानोत्तरं वैश्वदेवानन्तरं वा कार्यतयाऽनुसन्धेयम् ।

॥ इति ब्रह्मयज्ञकालनिर्णयः ॥

<MISSING_FIG href="../books_images/U-IMG-1697643538Screenshot2023-10-18210846.png"/>

॥ अथ सन्ध्याविषये स्मृतयः ॥

सन्ध्यात्रयं तु कर्तव्यं द्विजेनात्मविदा सदा । गायत्री नाम पूर्वी स्यात्सावित्री मध्यमे दिने । सरस्वती च सायान्हे सैव सन्ध्या त्रिपु स्मृता । गायत्री तु भवेद्रक्ता सावित्री शुक्लवर्णिका । सरस्वती तथा कृष्णा उपास्या वर्णभेदतः । प्रतिग्रहान्नदोषात्तु पातकादुपपातकात् । गायत्री प्रोच्यते यस्माद्गयन्तं त्रायते ततः । सवितृद्योतनाच्चैव सावित्री परिकीर्तिता । जगतः प्रसवित्रो वा वाग्रूपत्वात्सरस्वती । गृहे त्वेकगुणं सन्ध्या गोष्ठे दयगुणा स्मृता । शतसाहस्रिकी नद्याम् अनन्ता विष्णुसन्निधौ । बहिस्सन्ध्या दशगुणा गर्तप्रस्रवणेषु च । खाते तीर्थे शतगुणा ह्यनन्ता जान्हवीजले । अनृतं मद्यगन्धञ्च दिया मैथुनमेव च । पुनाति वृपलस्यान्नं वहिस्सन्ध्या उपासिता । उत्तमा तारकोपेता मध्यमा लुप्ततारका । अधमा सूर्यसहिता प्रातस्सन्ध्या त्रिधा मता । उत्तमा सूर्यसहिता मध्यमा लुप्तसूर्यका । अधमा ऋक्षसहिता सायंसन्ध्या त्रिधा मता । मुहूर्तमुदयादर्वाक् द्विमुहूर्तनतःपरम् । सन्ध्याकालस्स्मृतः पूर्वे विपरीतस्तु पश्चिमे इति ।

** अथव्याहृतिप्रणवसहितगायत्रीत्रिरुच्चारः । प्राणायामः ।** तथा चाह याज्ञवल्क्यः । ‘गायत्री शिरसा सार्धं जपेव्याहृतिपूर्विकाम् । प्रणवेन च संयुक्तां त्रिरयं प्राणसंयम’इति । विस्तरस्त्वन्यत्र । आपो हि प्ठेतिऋक्त्रयेति पादमादौ प्रणवेन सहितनवप्रणवा भवन्ति । तद्विशिष्टा ऋच उच्चरन् नादेयाद्युदकैः कुशादिभिः शिरस्यंसे पादे च प्रोक्षणं मार्जनम् । तदुक्तं ब्रह्माण्डपुराणे–नवप्रणवयुक्तेन आपो हि प्ठत्यूचेन तु । संवत्सरकृतं पापं मार्जनान्ते विनश्यति । आपोहिष्ठादिभिः पादैश्शिरस्यनेच विप्लृपः॥ यस्य क्षयाय

चाधस्तात्क्षिप्त्वाऽद्भिः परिपेचयेत् ।धाराच्युतेन तोयेन सन्ध्योपास्तिर्विगहता नद्यां वाप्यां हृदे वाऽथभाजने मृन्मयेतथा । औदृव्वरे च मौवर्णे भजते दारदौजलम् ।कृत्वाऽथ वामहस्ते वा सन्ध्योपास्ति समाचरेदिति । वामहस्ते जलं कृत्वा ये तु सन्ध्यानुपासते । सा सन्ध्यावृषली ज्ञेया अनुरास्तैस्तु तर्पिता इनि निषेधस्तु पात्रान्तरसत्त्वेऽपि वामहस्ते जलं स्थाप्य प्रोक्षणे बोध्यः। अर्घ्यदानविषये व्यासः । कराभ्यांतोयमादाय गायत्र्या चाभिमन्त्रितम् । आदित्याभिमुखस्तिष्ठन् त्रिःक्षिपेत्सन्ध्ययोर्द्वयोः। ततः प्रदक्षिणं कृत्वा जलं सृष्टवा विशुध्यति । तिष्ठन्नर्व्यत्रयं दद्यात्त्रिषु कालेषु वव्हृचः। प्रातर्मध्यान्होरप्सुसायं तु भुवि निक्षिपेदिनि । आदित्योदयप्रतिबन्धकयोद्धृदैत्यानां दाहायाद्भिः अर्ध्यत्रयं दातव्यनियुक्तं याजुषानुवाके । ‘सह वै देवानामि’ त्याद्युक्त्वा रक्षानि ह वा पुरोनुवाके । तपोऽग्रमतिष्ठन्त तान् प्रजापतिर्वरेणोपामन्त्रयत् । तानि वरमवृणीत । आदित्यो नो योद्धा इति । तान् प्रजापतिरव्रवीत् योधयध्वमिति । तस्मादुत्तिष्ठन्ते ह वा तानि रक्षास्यादित्यं योधयन्ति । यावदस्तमन्वागतानि ह वा तानि रक्षांसि गायत्र्याऽभिमन्त्रितेनाम्भसा शाम्यन्ति । तदुह वाऽऽदित्ये ते ब्रह्मवादिनः पूर्वाभिमुखाः सन्ध्यायां गायत्र्या अभिमन्त्र्य ता आप ऊर्ध्व प्रक्षिपन्ति । ता एता आपो वज्रीभूत्वा तानि रक्षांसि मन्देहारुणी ( णे ) द्वीपे प्रक्षिपन्ती’ति । तर्हि सन्ध्यायां दीक्षितस्य जीवहत्यादोषःस्यादिति चेत् न । तन्निवृत्त्यर्थमेव प्रदक्षिणकरणात् । यत्प्रदक्षिणं प्रक्रमन्ति । तेन पाप्मानमधुन्वन्ति । उद्यन्तमस्तं यन्तमादित्यमभिध्यायन् कुर्वन् ब्राह्मणो विद्वान् सकलभद्रमश्नुते इति । नन्वेकवारहतानां प्रतिकालं प्रतिवन्धकत्वाभावात्किं सन्ध्यात्रये अर्ध्येणेति चेत् । मैवम् । तेषां कर्माभिमानिचेतनानामिवायोनिजदेहत्वाद्ब्रह्मणो वराच्च प्रतिदिनं प्रतिकालं चोत्पत्तेः सिद्धान्ते संभवादिति ।

अथासने उपविश्य ’ आयातु वरदा देवी’त्यादिना ब्रह्मगामत्रीं

णायामन्यासादिपुर्वकमवरपक्षे गायत्रीदशकं जपेत् । तत्रानुसन्धानविशे-

पोऽन्यत्र छान्दोग्यदीकायां परमगुरोर्गुरुभिर्निरुपितो द्रष्टव्यः । अयोदित्यमितिमन्त्रेण सूर्योपस्थानं कृत्वा सन्ध्यां समाप्य देवतादितर्पणं कुर्यात् । तदुक्तम् । ‘अपो हि ऐति मन्त्रेण पुनस्तमार्जनं चरेत् । उत्थायार्कंप्रतिप्रेक्ष्य गायत्र्या त्र्यञ्जलीन् द्विजः । आदित्यमण्डलान्तस्सथं ध्यात्वा विष्णुं सनातनम् । सावित्रीमन्त्ररत्नंच जोदष्टोत्तरं शतम् । उदितमिति मन्त्रेण उपस्थानं समाचरेत् । तर्पयेन्त्ररत्नेन शक्त्या देवं जनार्दनम् । तदीयास्तर्पयेत्पश्चान्नित्यपुक्तास्तथेतरान्। आनृशंस्येन भावेन देवादीनपि तर्पयेत् । निष्पीड्यस्नानवस्त्रं तु पुनराचमनं चरेत् ।

॥ अथ सन्ध्योत्तरं निर्माल्यविसर्जनं कुर्यात्॥

तथात्रोक्तं नारसिंहे । ‘यः प्रातरुत्याय नित्य निर्माल्यमीशस्य निराकरोति । नतस्य दुःखंन दरिद्रता च नाकालमृत्युर्न च रोगमात्रमि’ति । नित्यं सन्ध्यावन्दनं विधायेत्यर्थः । पच्चरात्रे च ‘निर्माल्यस्य विलम्बे’ तुप्रायश्चित्तमथोच्यते । अतिक्रान्ते मुहर्तार्धे सहस्रजपमाचरेत् । पूर्णे मुहूर्ते संजाते सहस्रं सार्धमुच्यते । घटिकाया अतिक्रान्तौनिर्माल्यं शल्यतां व्रजेत् । मुहूर्ते समतिकान्ते पूर्णं पातकमुच्यते । ततः परं बह्म॒वधो महापातकमुच्यते । प्रहरे पूर्णता याते प्रायश्चित्तं ततो न हीति, ।

॥९ ॥अथ देवादीनां तर्पणतीर्थम्॥

अङ्गुल्यग्रे देवतीर्थ, स्वल्पाङ्गुल्योर्मूले कायतीर्थमार्षम् । मध्येऽङ्गुप्ठागुल्योः पित्र्यं, मूलेऽङ्गुठे ब्राह्मं तेन तीर्थं पिबेत् । यथोक्तं सिन्धुद्वीपे आचमनखण्डे । विप्रस्य दक्षिणे पाणौमूलेऽङ्गुष्ठस्य नित्यशः । स्याद्ब्रह्मतीर्थं मध्येचाग्नेयाद्या अधनाशनम् । ‘मध्ये त्वङ्गुष्ठ–तर्जन्योः पैत्रं तीर्थंद्विजस्य तु

आर्षंकनिष्ठिकामूले कायमग्राङ्गुलोषु वै । तीर्थान् विदित्वा पञ्चैतांस्ततः कर्माचरेद्विजः । देवादींस्तर्पयेद्धीमान् उदकाञ्जलिभिः पितॄन्’ इति । योगयाज्ञवल्क्यः । ‘एकहतेन तोयेन यः कुर्यात्पितृतर्पणम्। पितरो न प्रशंसन्ति न मनुष्या नदेवताः’ इति च स्मृतिः

उभाभ्यामपि हस्ताभ्यामुदकं यः प्रयच्छति । स मूढो निरयं याति देवादिनां तु तर्पणे इति वैय्याघ्रपादः । श्राद्धे विवाहकालेच पाणिनैकेन दीयते । तर्पणे तुभयेनैव विधिरेप पुरातनः इति कार्ण्णाजिनः । इत्युभयविधवाक्यप्रावल्यान्यथानुपपत्त्या इयं सनाधोयते आश्वलायनानां सव्यान्वा-

रब्धपाणिनातर्पणम् । तदितरेषां यजूषांअञ्जलिनेति अत एवोक्तं वचनानामन्योन्यविरोधमाशङ्क्यविरोधपरिहारनाह सदनः । एकहस्तर्पणनिषेधवचनं याजुषपरम् । अञ्जलिनिषेधवचनमाश्वलायनपरमिति । इदमेव युक्तं जानीमः । अन्यथोभयवचनविरोधपरिहारोपायाभावात् । ऋक्शाखाप्रभृतीनामुक्ततर्पणप्रकारस्य परम्पराप्रमितत्वात् । तरङ्गिणीरामाचार्यप्रभृतयोऽपि एवमेव निवन्धेषु सवर्थितवन्तः ।

॥ तर्पणपात्रविशेषाणि ॥

राजतैर्भाजनैरेषामथवा राजनान्वितैः । वार्यपि श्रद्धया दत्तमक्षयायोपकल्पते’ इति मनुः । राजतान्वितैः खङ्गमृगपात्रादिभिरित्यर्थः । अथ वेदादीनामाद्यन्तोच्चारणपुरस्सरं सव्येन देवान् ऋषीन् अर्यमादीन् प्राचीनावीतिना पाणिना स्वस्वशाखानुसारेणाञ्जलिनाऽन्वारब्धपाणिना वा तर्पयित्वा वामाङ्गुष्ठमूले अलोमकप्रदेशे तिलान् धारयित्वा दक्षिणतर्जन्यङ्गुष्टमध्यदेशेन तिलानुध्दृत्यपितृंस्तर्पयेत् । गेहे चेदुत्धृतर्जलेन क्रीयते, तदा जले तिलान् मिधयित्वेति । तथा चाह याज्ञवल्क्यः ।ब्रह्मयज्ञप्रसिद्ध्यर्थंविद्यामाध्यात्मिकीं पठेत ।जप्त्वाऽथ प्रणवं चापि ततस्तर्पणमाचरेत् । येच पाणितले स्पृष्टा लोमकृपे तु ये धृताः । तैस्तिलैस्तर्पणं कुर्वन् पितृधाती भवेद्द्विजः । तन्मात्तेमणिबन्धे तु ग्राह्य विप्रैस्समाहितैः। यद्युध्दृृतेनक्रियते तिलान् संमिश्रयेज्जले । अतोऽन्यथा चेत्सव्ये तु तिला ग्राह्या विचक्षणैरि’ति । अन्यथा अनुध्दृते । उध्दृतोदकेन तर्प्रणंक्रियते चेत् तज्जलमध्ये तिलान् मिश्रयेत् । नद्यादौ क्रियते चेद्वामहस्ते तिला ग्राह्या इत्यर्थः ।

** तर्पणाञ्जलिनियमाः ।**व्यासः । ‘एकैकमञ्जलिं देवाःद्वौ द्वौतु सनकादयः । अहन्ति पितरस्त्रींस्त्रींस्त्रियश्चैकेकमञ्जलिमि’ति ।

अथ नित्यश्राद्धदिने प्रतिसंवत्सरतर्पणविचारः ।

सांवत्सरश्राद्धे ब्रह्मयज्ञाङ्गनित्यनर्पणं याजुषःआदौ, वहृचन्त्वन्ते तिलव्यतिरेकेण नित्यतर्पणं कुर्यादित्यत्र स्मृतयः । श्राद्धादौ याजुषःकुर्युरन्ते बव्हर्च-सामगाः। ब्रह्मयज्ञं ततः कुर्युस्तर्पणं तु तिलैविना ।सप्तम्यां भानुवारे च माता-पित्रोर्मृतेऽहनि । तिलैर्यस्तर्पणं कुर्यात्स भवेत्पितृघातकः’ । इति

स्मृतिरत्नावत्याम्पितृश्राद्धे तु संप्राप्तेजलैः कुर्याद्विधानतः। सर्वेषां तर्पणं चैवइति श्राद्धात्विधानत् गार्ग्यः । नैव श्राद्धदिने कुर्यात्तितैस्तुपितृतर्पणम् । श्राद्धं कुर्यातश्राद्धेवतर्पणं तु तिलैः

सदेति। तत एव ‘पित्रोःक्षयाहे संप्राप्ते यः कुर्याच्छाद्धतर्पणम्। आसुरं तद्भवेच्छाद्धं तत्तोपं रुधिरं स्मृतमिति वचनं तिलहतर्पणविषयम्

। ऋक्शाखिनां प्राकृतर्पणविषयं वा । परेऽहनि तर्पण तु परेद्युवेत सर्वशाखिनां समम् । यस्तर्पयति तान् प्रातरश्राद्धं कृत्वा परेऽहनि। पितरस्तेन तृप्यन्ति न चेत्कुप्यन्ति वै भृशम् । निषिद्धेऽपि दिने कुर्यात्तिलयुक्तं तुतर्पणम् । अमृतं तु भवेत्प्रातः मध्यान्हे क्षीरवभ्दवेत् । अपराण्हे भवेदोयंसायान्हे रुधिरं भवेत् । श्राद्धाङ्गतर्पणं ह्येतन्मध्यान्हे नित्यतर्पणन् । संकोचे तीर्थलाभे वा प्रातरप्याचरेत्तु तत् । दिवोदितानि कर्माणि प्रामादाकृतानि चेत् । शर्वर्याः प्रथमे यामे दिवावत्कर्म कारयेत् । ब्रह्मयज्ञं च सौरंच न कुर्यात्तिलतर्पणमिति वाराहे । विमोकश्राद्धे परेऽहनि तिलतर्पणं प्रतिपद्धं क्षीरस्वामिनिबन्धे नारदीये । वृद्धिश्राद्धे सपिण्डे च प्रीतिश्राद्धेनुमासिके । संवत्सरविमोकेच न कुर्याच्छाद्धतर्पणमिति । सकृन्महालयश्राद्धे प्रतिसांवत्सरिकश्राद्धस्येव परेऽहन्येव तिलतर्पणम् । नित्यमहालयश्राद्धेतद्दिनएव श्राद्धाङ्गतर्पणम् । ‘पक्षश्राद्धं यदा कुर्यातर्पणं तु दिने दिने’ इतिवचनात् । ब्रह्मज्ञाङ्गनित्यतर्पणन्तु स्वस्वशाखाभेदेनादावन्ते वा कुर्वत् । अमावस्यायान्तु पूर्वमेव श्राद्धाङ्गतर्पणम् । दर्शे तिलोदकं पूर्वं पश्चाद्दन्महालये । श्राद्धे परेऽहनि तिलोदकमिति स्मृतिः ।<MISSING_FIG href="../books_images/U-IMG-1697795831Screenshot2023-10-20152654.png"/> ननु श्राद्धाङ्गतर्पणंनित्यतर्पणं पृथगेवेति तावत्संगतंसर्वत्र । तथा चामावस्यायांतर्पणद्वयंप्रसज्येते इतिचेत् । मैवम् । आमावास्यायां श्राद्धे यदि पूर्वदिने सायं ब्राह्मणनिमन्त्रणार्थं श्राद्धसंकल्पः कृतः, अमावास्यायां प्रातर्वा । तदा श्राद्धप्रयोगस्यारब्धत्वात् ब्रह्मयज्ञाङ्गतर्पणेनैव श्राद्धाङ्गभूतं तत्पूर्वभावितर्पणं चतद्दैवत्यं तन्त्रेण सङ्गेन वा सिद्धयति । तदन्तःपातित्वात्समानकर्तृत्वाच्च एवं चामावास्यायां तिलतर्पणद्वयं न भवति । यदि त्वसंपत्त्या ब्रह्मयज्ञत्पूर्वं श्राद्धकरणं न संकल्पितं तदा ब्रह्मयज्ञाङ्गतर्पणोत्तरं श्राद्धरणे संकल्पिते श्राद्धाङ्गतर्पणं पृथक्कार्यम् । पूर्वेण श्राद्धप्रयोगानन्तेनर्मृतेन तदङ्गतर्पणासिद्धेरिति<MISSING_FIG href="../books_images/U-IMG-1697795831Screenshot2023-10-20152654.png"/>(<MISSING_FIG href="../books_images/U-IMG-1697795831Screenshot2023-10-20152654.png"/> नन्वित्यारभ्यतदङ्गतर्पणासिद्धैःइत्यत्पर्वतवाक्यानि केषुचनपुस्तकेषु नोपलभ्यन्ते । )

विवाहादिमङ्गलोत्तरं संवत्सरपर्यन्तं शुक्लैस्तिलैस्तर्पणं कुर्यादेव ।सर्वथा तिलाभावस्य निषिद्धत्वाद्रामायणे ।‘पादाशौचमनभ्यङ्गं तिलहीनं तु तर्पणम् ।तत्सर्वं त्रिजटे तुभ्यं यच्चश्राद्धमदक्षिणमि’ति । तत् एव विवाहे चोपनयने चौले सति यथाक्रमम् । वर्षमर्धतदर्धं च नेत्येके तिलतर्पणमिति वचनं कृष्णतिलतर्पणाभावविषयम् ।

तिलतर्पणनिषेधो वाराहे । ‘ब्रह्मयज्ञं प्रकुर्वीत प्रत्यहं तिलतर्पणम् । पितृनुद्दिश्यपित्प्रादीन् निषिद्धदिवसं विना ।भानुवारे भौमवारे नन्दाभृगुमघासु च । त्रयोदश्यां च सप्तम्यां भरण्यां कृत्तिकासु च । अयनद्वितये चैव चतुर्ष्वपि युगादिषु ।गृहे मृताहे जन्मर्क्षेसन्ध्ययोश्च तथा निशि ।पिण्डदानं मृदा स्नानं न कुर्यात्तिलतर्पणम् । निषिद्धदिवसे वारे नक्षत्रे च तथा तिथौ । यस्तिलैस्तर्पणं कुर्यात्तज्जलं रुधिरं भवेत् । तीर्थे तिथिविशेषेच प्रेतकार्ये तथैव च । प्रेतपक्षेव्यतीपाते संक्रान्तौ वैधृतावपि । निषिद्धेऽपि दिने कुर्यात्तिलयुक्तं तु तर्पणम् । इति उत्सर्गापवादयोरुक्तेस्तद्विवाहे चोपनयने इत्यप्युत्सर्ग एवेति वा । जीवत्पितृकस्य प्रमीतमातृकस्य नित्यतर्पणाभावेऽपि श्राद्धाङ्गतर्पणमस्त्येव । प्रधाने अधिकारस्य सत्त्वेनाप्रधानाधिकारस्य न्यायप्राप्तत्वादिति केचित् ।तन्न बुध्यामहे । ताते जीवति पुत्रस्तु यदि माता प्रमीयते । पिण्डनिर्वापणादूर्ध्वं न कुर्यात्तिलतर्पणम् ।न जीवत्पितृकः कुर्यात्मातुरुद्दिश्यं तर्पणम् इति नारदीयोक्तेः ।

** तर्पणानन्तरं प्रातरौपासनमनुसन्धेयम् ।** तत्प्रकारस्तु ।अग्रिं प्रज्वाल्य तिथ्यादि स्मृत्वा स्व-स्वशाखोक्तरीत्या प्रोक्षणादि कृत्वा ‘सूर्याय स्वाहा प्रजापतये स्वाहे’ति प्रातर्जुहुयात् । एवं सायं सूर्यपदस्थाने अग्निंपदप्रक्षेप इति । स्वयं होमे फलं यत्स्यात्तदन्येन न लभ्यते इति स्मृतेःहोमे स्वयंमुख्यः । स्वस्यास्वास्थ्ये त्वाह कूर्मे । ‘ऋत्विक् पुत्रोऽथ वा पत्नी शिष्योवाऽपि सहोदरः । प्राप्यानुज्ञां विशैषेण जुहुयाद्वैयथाविधी’ति । आहिताग्नेस्तु विशेषः। निक्षिप्याग्निं स्वदारेषु परिकल्प्यत्विजं तथा । प्रवसेत् कार्यवान् विप्रो वृथैव न चिरं वसेत् । विहायाग्निं सभार्यश्चेत्सीमामुल्लङ्घ्य गच्छति । होमकालात्यये तस्य पुनराधानमिष्यते । असमक्षं तु

दभ्पत्योर्होतव्यं नत्वेगदिभिः। द्वयोरप्यसमक्षंचेद्भवेध्दुतमनर्थकम् । प्रोषिते तु यदा पत्यौपत्नी ग्रामान्तरं व्रजेत् । होमकाले यदा प्राप्ता सा दोषेण न युज्यते इति शौनकीये ।

** ॥१० ॥गायत्र्यादि मन्त्रजपः**

अथ गायत्रीमन्त्र ऋषिभेदात् ध्यानभेदाच्च द्विविधः ।

सन्ध्याङ्गस्तदन्यश्चेति । यथोक्तं तन्त्रसारे। विश्वामित्रस्तु सन्ध्यार्थे तदन्यत्र प्रजापतिरिति । तत्र सन्ध्याङ्गायास्तु गायत्र्यास्त्रिगुणो मूलमन्त्रक इति प्रमाणानुसारेण सन्ध्याङ्गगायत्री त्रिगुणमष्टाक्षरं जपेदित्याह ।

गायत्र्यास्त्रिगुणं विष्णुं ध्यायन्नष्टाक्षरं जपेत् ।

सन्ध्याङ्गगायत्र्याः त्रिगुणं यथा स्यात्तथा नारायणाष्टाक्षरं जपेत् । उद्यद्भास्वदित्युक्तप्रकारेण विष्णुं ध्यायन्नेवोपांशु पठेदित्यर्थः । यथाह विश्वामित्रः उत्तमं मानसंजाप्यमुपांशु मध्यमं स्मृतम् । अधमं वाचिकं प्राहुस्सर्वमन्त्रेषु वै द्विजाः । वस्त्रेणाच्छाद्य तु करं दक्षिणं यस्सदा जपेत् । तस्यतत्सफलं जप्यं तद्धीनमफलं स्मृतमिति । सूतके सन्ध्यादिकर्मसु विशेषमाह भरद्वाजः ।सूतके मृतके वाऽपि प्राणायाममन्त्रकम् । सूतके सन्ध्यादिकर्मसु तथा मार्जनमन्त्रांस्तु मनसोच्चर्य मार्जयेत् ।गायत्रीं सम्यगुच्चार्य सूर्यायार्ध्यंनिवेदयेत् । मार्जनं तु न वा कार्यमुपस्थानं न चैवही’ति । अत्र कश्चित् सूतकिनामपि दशवारं जप्यम् ।आपन्नश्चाशुचिः काले तिष्ठन्नपि जपेद्दशे’ति आश्वलायनोक्तेः । आपन्नः आपद्ग्रस्तः । अशुचिः आशौचवानिति । तत्तु अचारविरुद्भमित्युपेक्ष्यम् । वेदमाता तु गायत्री वेदः पर्वसु गीयते । पर्वभिश्च जपेन्नित्यं न मालाभिः कथञ्चनेति स्मृतेः महदाचाराच्च सन्ध्याङ्गगायत्र्याः पर्वभिरेव जपः । ‘तुलसीकाष्ठमणिभिर्निर्मितां तु प्रयत्नतः । गायत्र्यादिजपं कुर्यादन्यथा निरयं व्रजेत् इति, तु ब्रह्मगायत्रीपरम् । राष्ट्रक्षोभे नृपक्षोभे रोगार्ते च महापदि ।सन्ध्यावन्दनविछित्तिस्सूतकेऽपि न दोषकृत् । कालत्यागे शतं कुर्यात्सन्ध्यात्यागे शतत्रयम् ।

यदादीध्येति मन्त्रेणेति च स्मृतिः ।

एवमौपासनाद्यनन्तरमान्हिकं वक्तुं देवादीनाम् अभिवादनपूर्वकं विष्णुपूजाप्रकारमाह।

प्रणम्य देवान् विप्रांश्च सुखंश्चहरिपार्षदान ।

एवं सर्वोत्तमं विष्णुं ध्यायन्नेवार्चयेद्धस्मि ॥ १२ ॥

देवान् ब्रह्मादीन् विप्रान् हरिपार्षदान् हरिप्रियान गुरुन् विद्योपदेष्टृन्जनकांश्च प्रणम्य प्रकर्षतारतम्यानुसारेण न्त्वाएवं सर्वत्र सर्वोत्तमं हरि ध्यायन्नेवविष्णुं सर्वत्र निविष्टमर्चयेत् । त्रिकरणशुद्ध्याअर्चयेत्पूजां कुर्यादित्यर्थः । गुरुनाह मनुः । ‘निषेकादीनि कर्माणि यकरोति यथाविधि । संभाव्यति चान्नेन स विप्रो गुरुरुच्यते । अल्पं व बहु वा यस्य श्रुतस्योप करोतियः । तमपीह गुरुं विद्याच्छ्रुतोपकृतिहेतुत’ इति । आचार्य-पितृसमवाये आचार्यःप्रथमं वन्द्यः । ‘उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता । साष्टाङ्गंप्रणमेत्तं हि पितरं तदनन्तरमि’ति। पूजनन्तरं कार्यमाह ।

ध्यानप्रवचनाभ्यां च यथायोग्यमुपासनम् ॥

यथायेग्यं ध्यानप्रवचनाभ्याम् स्वयोग्यं सच्चिदानन्दादिगुणोपसंहृतिर्ध्यानम् । तेन ‘छिन्धिभिन्धि’ इत्यादीनामनुपास्यता । अनेकभाषागम्ययावद्भारतार्थप्रवचनयोगत् यथायोग्य शिष्येभ्यः शास्त्रप्रतिपादनं प्रवचनम् वेदशास्त्रा देरध्यायनरुपंप्रवचनम्। आभ्यामित्यम्भावाभ्यां युक्तम् उपासनं शास्त्राभ्यासः ।यथायोग्यं यथाधिकारम् । श्रवणमनने कार्ये इत्यर्थः । यथोक्तं भगवत्पादैरन्यत्र ।सोपासनाच द्विविधा शास्त्राभ्यसस्वरूपिणी ।ध्यानरूपा परा चैव तदङ्गधारणादिकमिति । अयमत्र निष्कर्षः। ध्यानप्रवचनपदाभ्यां श्रवणमननोत्तरभाविन्या निदिध्यासनाया भेदादुच्येते । श्रवणेन श्रुतमपि भगवन्महिमानं श्रुत्वा मननेन तं महिमानं निश्चित्य ध्यानेन तं पुनः पुनरभ्यस्य शिष्येभ्यो भगवन्महिमानं ब्रुयादित्येवरुपमुप्तसनं कुर्यादिति ।यथोक्तंतन्त्रसारे ।सर्वस्माच्छ्रवणाद्यास्तु मुख्या भक्तिप्रसाधने । अज्ञस्य श्रवण श्रेष्ठमयुवतेर्मननं तथा । ध्यानं निश्चिततत्त्वस्य तस्माच्छास्त्रावमर्शनम् । वरं दशगुणं तस्माव्द्यख्यैकस्य शतोत्तरा।अपरोक्षदृशाप्येषाकर्तव्या विष्णुतुष्टिदेति । अत्र स्वयमेकाकिना क्रिव्नाणविष्णुविचारापेक्षया सभासु शिष्यान् प्रति भगवन्महिमसमर्थने शतगुणाधिक्यमुक्तं भवति । खण्डस्मतिर्धारणा स्यादखण्डा ध्यानमुच्यते । अप्रयत्ना समाधिश्चदर्शनं चिरयाऽनया । अथवा सततं शास्त्रविमर्शेन भविष्यतीत्यादि ध्यानं

द्रष्टव्यम् । स्वाध्याय-प्रवच । एवेति नाको मौद्गल्य इति तैत्तरीयश्रुतिः । स्वाध्यायो वेदग्रहः प्रवचनं तदर्थविचारभूतं व्याख्यानम् । स्वाध्यायेस्या वा प्रवचनं विशिष्यते । जप्येनैव तु संसिद्ध्येद्ब्राह्मणो नात्र संशयः । कुर्यादन्यन्नवा कुर्याान्मैत्रो ब्राह्मण उच्चते । सम्यग्ज्ञात्वैव यो विष्णुं व्याख्यायीत जपेत वा । न तस्य किञ्चिदकृतमि’त्यादि तैत्तरीयभाष्ये ।

॥ प्रवचने अनध्यायानाह उशनाः॥

अयने विषुवे चैव शयने बोधने तथा । अनध्यायं प्रकुर्वीत मन्वादिषु युगादिषु । अष्टमी हन्त्युपाध्यायं शिष्यं हन्ति चतुर्दशी । अमावास्योभयं हन्तिप्रतिपद्बुद्धिनाशनी ।वृद्धौ साम्ये क्षये चोषस्त्रिचतुःषच्चनाडिकाः । षट्चतुन्तिसृभिस्सायमनध्यायः प्रकीर्तितः ।

॥त्र्यहं प्रेतेष्वनाध्यायश्शिंष्यर्त्विंग्गुरुबन्धुषु ।

उपाकर्मणि चोत्सर्गे शिष्ये च गृहमागते । इति॥

॥उपासनोत्तरवृत्तिं वदन् मध्यान्हस्नानदेवतापूजादिकार्यंमाह॥

धर्मेणेज्यासाधनालि साधयित्वा विधानतः ।

स्नात्वा संपूजयेद्विष्णुं वेदतन्त्रोक्तमार्गतः ॥१३ ॥

विधानतः सार्वविभत्किकत्वात्तसिल् ।

स्वस्वविहितेन याजनसत्प्रतिग्रहादना धर्मेण पुष्पादीनि स्वेनैव हार्याणि’ न परतः इत्यादिविधानतश्च ।पञ्चमहायज्ञविधानानि देवपूजासाधनभूतानि द्रव्याणि संपाद्य मध्यान्हकाले विधानतः शौचाचमनसंकल्पादिपूर्वक स्नात्वा शीतलेनोष्णेन वा वारिणा स्नानं कृत्वा वेद-पञ्चरात्रादितन्त्रोक्तिंमार्गेण सम्यक् भक्त्यादिपूर्वकम् अर्घ्यपाद्यादिषोडशोपचारैः पूजयेत् । द्रव्यसाधनरीतिस्तूक्ता कूर्मपुराणे ‘उपेयादीश्वरं चान्यं योगक्षेमप्रासिद्धये । साधयेद्विविधानर्थान् कुटुम्बार्थं ततो द्विजः । द्रष्टव्यं राजकुलं, द्रष्टव्या राजपूजितालोकाः । यद्यपि न भवन्त्यर्थास्तथाप्यनर्थां निवर्तन्ते’ इति । ईश्वरमभिषेकादिगुणयुक्तम् । अन्यं वा श्रीमन्तमकुत्सितम् ।अलब्धप्रापणं योगः तद्रक्षणं क्षेमः । प्रतिग्रहे निषिद्धाः ‘तिलघेनुर्गजो वाजी प्रेतान्नमजिनं मणिः । सुरमिस्सूयमाना च घोरास्सप्त परिग्रहः’ । इति ।

॥ ११ ॥ देवपूजा विधानं ॥

पूज्यश्चभगवान्नित्यं चक्राव्जादिकमण्डले’ इति तन्त्रसारे विस्तृतमिति नात्रोक्तं भगवत्पादैः। कतिचिद्विशेषप्रमाणानि उदाहृियन्ते । स्नानार्थं देवपूजार्थमग्योदकाहरणं वशिष्ठसंहितायां च ‘भाण्डे वरजलं नीत्वा वोधयित्वा सुवासना ।त्रिवारं शोषयित्वैव जलं कुम्भे प्रपूरयेत्’ । प्रागुक्तप्रकारेण स्नानादिकं कृत्वा कुम्भंसम्यक्प्रक्ष्याल्यनद्यादिशुद्धोदकम्उक्त्तक्रमेणगृहीत्वा तद्वस्त्रेणाच्छाद्य शिरस्यंसेवा निधाय स्वयमानीयान्यैर्ब्रह्मणैरानीय ( आनय्य ) वा देवस्य गृहद्वारसमीपे निधापयेत् । ततः पादौ प्रक्षाल्याचमनं कृत्वा नासिकादीनाच्छाद्य तुलसीकाष्ठयुक्तं गन्धं कुर्यात् । पाद्मे । ‘तुलसीकाष्ठसंयुक्तं गन्धं यो यच्छते हरेः। निर्वहेत्पातकं सर्वं पूर्वजन्मशतार्जितम् ।तुलसीकाष्ठजातस्य गन्धं गृण्हातिकेशवः’ । ततस्तुलस्या संशोध्य सौवर्णादियागोपकरणपात्राणि तदभावे ताम्रादिमयानि ततच्छुद्धिसाधनद्रव्यैः सम्यक्प्रक्षाल्य अस्योदकादिसर्वतभारात् मार्जनादियुक्तरङ्गमण्टपेदेवस्य दक्षिणे भागे स्थापयेत् । सम्मार्जितफलं तु विष्णुधर्मोत्तरे ।‘यस्सदाऽऽयतने विष्णोःकुरुते मार्जनक्रियाम् । स पांसुपूतदेहश्चसर्वपापं व्यपोहति । यावत्यः पांसुकणिका मार्जने केशवालये । वर्षाणि दिवि तावन्ति तिष्ठत्यस्तमलो नरः । शनैस्तम्मार्जनं कुर्यान्मर्जन्या मृदुकूर्चया । पश्यत्परिहरन् जन्तून् चान्द्रायणकलं लभेत् । **उनलेवनं तत्रेव ।**गृहीत्वा गोमयं स्वच्छस्थाने वा पतितं द्विजः । उपर्यधश्च संत्यज्य प्रत्यग्रं जन्तुवर्जितम्’ । प्रत्ययम् नूतनमित्यर्थः । श्रीमत्यायतने विष्णोः यः कुर्यादुपलेपनम् । अग्निष्टोमं तु पक्षेणवाजपेयं तु मासतः । संवत्सरेणाश्वमेधं समाप्नोत्युपलेपनात्इति । देवालयप्रवेशप्रकारे स्मृतिः । ‘प्रक्षाल्य पादौ हस्तौ च सम्यगाचनं चरेत् । तत्र द्वारे श्रियं नत्वा जयं च विजयं तथा । वलं च प्रवलं चेतिद्वारपालांश्चपूजयेत् । तदनुज्ञामवाप्याथ तालत्रयकरो द्विजः । कपाटद्वयमुन्मील्य विशेद्दक्षाङ्गिघ्रपूर्वकम् ।‘अग्निनाग्निस्समिध्यत’इति मन्त्रेण दीपंप्रज्वालयेत् । तत्फलं नृसिंहपुराणे । धृतेन चाथ तैलेन दीपं यो ज्वालयेन्नरः । विष्णवे विधिवद्भवत्यातस्य पुण्यफलं श्रृणु। मेरुमन्दरमात्रेण कृताः पापन्य राशयः ।

दह्यन्ते नात्र संदेहो दीपदानाद्धरेस्मदा ।निमिषंनिमेषार्धं वाघृतदीपं निवेदयेत् । कल्पकोटिसहस्राणि विष्णुलोके महीयते । दीपहरणे दोषः । पुलस्यः ।तस्मादायतने विष्णोर्दद्याद्दीपं द्विजोत्तमः। तान्प्रवोध्यान्न हिंस्यात्तु न वा तैलवियोजियान् । कुर्वीत दीपहर्ता च मुन्धान्धो जायते जडः ।आरोपितं प्रदीपं ये नयन्त्यन्यत्र मन्दिरात्। अन्धास्ते तु भविष्यन्ति मुग्धा वै जन्मजन्मसु ।

अथ ’ आयताभ्यां विशालाभ्यां लोचनाभ्यां विलोक्ये’ति संप्रार्थ्ये, ततः नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च। जगद्धितायकृष्णाय गोविन्दाय नमो नम इति । अनेन दण्डवद्भूमौ कृताञ्जलिपुरस्सरः । प्राणम्योत्थाय कुर्वीत मस्तकेऽञ्जलिसंपुटम् । अपरधसहस्राणि क्रियन्तेऽहविशंमया । तानि सर्वाणि मे देव क्षमस्व पुरोषोत्तम ।कृताञ्जलिपुटो भूत्वा विनयानतकन्धरः । मानसान्वाचिकान्दोपान्वयिकानपि सर्वदा । वैष्णवद्वेपहेतून्मे भस्मसात्कुरु माधव ।इति स्वदोषान्विज्ञाप्य क्षमाप्य च रमापतिम् ।आगमार्थं तु देवानां गमनार्थं तु रक्षसन् । कुरुघण्टारवंतत्रदेवताव्हानलाञ्छनम् । आज्ञानाज्ज्ञानतो वापि कांस्यघण्टांचवादयेत् । राक्षसानां पिशाचानां तद्देशे वसतिर्भवेत् । तस्मत्सर्वप्रयत्नेनघण्टामाबाल्यपूजयेत् इति परमपुरुषसंहितायाम्

अथ तन्त्रसारोक्तरीत्या तत्त्वन्यासमातृकान्यमादिपूर्वकंमन्त्राणि जपेत् । ‘अथ महामन्त्राः । नारदे ‘सर्वमन्त्रेषु गायत्री’ वरिष्ठा प्रोच्यते बुधैः। ततोऽपि प्रवराः प्रोक्ता अष्टोमन्त्रा मया धरे ॥प्रणवो मातृकाऽष्टार्ण-व्याहृति- द्वादशाक्षराः। गायत्री पौरुषंविष्णुर्महमन्त्रः प्रकीर्तिताः ॥अथाङ्गुल्यादिजपफलं पाद्मे। ‘अङ्गुलीजपसंख्यानमेकमेकंवरानने । पर्वैदेशगुणं प्रोक्तं पुष्पजीवफलैर्दश ।शतं वैशङ्खमणिभिः प्रबालैश्चसहस्रकम् । मौक्तकैश्शतसाहस्रं सौवर्णैलैक्षमेवतु । कुशग्रन्थकोटिगुणंतुलस्याऽनन्तकं फलमिति ।**मालालक्षणम् ।**गोपुच्छावयवाकारामजमालांविधाय च । भर्वाख्यंयोजयेदक्षमेकं मूलाग्रसुत्रके । ग्रन्थिं कुर्यातनेणेकीर्तिता चाक्षमालिकेति । अक्षमालाकर्षणप्रकारः । तत्र स्तुतिः मध्यमानामिकाङ्गुष्ठै-

गृहीत्वा जपमाचरेत् । अङ्गुष्ठतर्जनीभ्य ।तु मालाकर्षस्तु मध्यमः। परदृष्टिगता माला निष्फला जपकर्मणि । जपकाले त्वक्षमालां गुरोरपि न दर्शयेत्। उल्लङ्घिते तथा मेरौपतिते चाक्षसूत्रके । प्राणायामत्रयं कृत्वा घृतप्राशनमाचरेत् । पीठपूजाभिषेकावरणपूजानुयागादेर्विधिरन्यत्र प्रपञ्जितः । नैवेद्यसमये त्वयं विशेषः । वाराहे च–‘द्रवीभूतं चृतं चैव द्रवीभूतं च चन्दनम् ।नार्पयेन्मम तुष्ट्यर्थं धनीभूतं तदर्पयेत् । अभिषेके तथा होमे घनीभूतं घृतं वरमि’ति। ‘सत्पात्रं चिद्धविस्सौख्यं विविधानेकभक्षणम् । निवेदयामि देवेश सानुगाय गृहाण तत् । परिवेषयन्तीशं श्रीर्मुंख्यप्राणोस्ति वीजयन् । भारत्याद्याः परिचरन्त्येन्द्राद्या द्वारपालका’ इत्यनुसंदधानस्ततः ‘स्वादुः पवस्वेति शुद्धोदकं निवेदयेत् । ‘भोजं त्वामिन्द्र वयं हुवेम ददिष्ट्वमिंद्रापांसि वाजान् । अविढ्ढीन्द्रचित्रया न ऊती कृधि वृषन्निंद्र वस्यसो नः’ । इति मन्त्रंपठन् जनार्दनं ध्यायेत् । अस्यार्थंःहे इन्द्र भोजं भक्तोपहृतनैवेद्यादिस्वीकर्तारं त्वां वयं हुवेम स्तुमः । हे इन्द्र अपांसि वीर्याणि वाजान् अन्नानि ददिर्दाता है इन्द्र चित्रया नन्नामकेष्ट्या भक्त्या वा विशिष्टान् अस्मान् ऊती रक्षणानि अविढ्ढि विधेहि । हे इन्द्र इष्टवर्षक त्वम् वस्यसः पूजकान् नः कृधीति । पुनः धूपादिभि पूजा समाप्य देवस्य पुरतः अनया पूजनया नारायणः प्रीयतामिति पुष्पोदकं समर्पयेत् । अथभक्तेभ्यःशंखतीर्थादिप्रसादं दद्यात् । निवेदितांन्नतुर्याशं विष्वक्सेनाय दापयेत् । इति पाञ्चरात्रे । एवं पूजां त्रिकालं कुर्यात् । शक्त्यभावे प्रातरेव समाप्य मध्यान्हादौ पुष्पमात्रैः पूचयेदिति नारदीये । प्रातर्मध्यन्दिनं सायं विष्णुपूजा स्मृता बुधैः। विस्तरेणैव प्रातः संपूज्य केशवम् । मध्यान्हे चैव सायं च पुष्पाञ्जलिमपि क्षिपेदिति ।

॥ १२ ॥ वैश्वदेवः

एवं पूजानन्तरं वैश्वदेवं कुर्यादित्याह ।

वैश्वदेवं बलिं चैव कुर्यान्नित्यं तदर्पणम् ।

नित्यं स्वशाखोक्तरीत्या वैश्वदेवं यत्र विश्वे देवा इज्यन्ते, तद्वैश्वदै-

विकं कर्म कृत्वा बलिं वलिहरणाख्यंकर्म कृत्वा नित्यं तदर्पणं विष्ण्वर्पणं कुर्यात् । तदुक्तं स्मृतिषु–शालाग्नौ लोकिके वापि जले भूम्यामथापि वा । वैश्वदेवस्तु कर्तव्यो देवयज्ञस्सवै स्मृतः । अध्यापनं ब्रह्मयज्ञो पितृयज्ञस्तु तर्पणम्। होमो दैवो वलिर्भूतो नयज्ञोऽतिथिपूजनम् । यस्मिन्नग्नौपचेदन्नं तस्मिन्होमो विधीयते । लौकिकाग्नौपचेदन्नं वैश्वदेवोपि लौकिके । न चुल्यां नायसे पात्रे न भूमौ न च खर्परे । वैश्वदेवं प्रकुर्वीत कुण्डे वा स्थण्डिलेऽपि वा । जुहुयात्सर्पिषाऽभ्यक्तं तैलक्षारविवर्जितम् । दध्यक्तं पयसाऽभ्यक्तं तदभावेऽम्भसाऽपि वा । अलाभे येन केनापि फलशाकोदकादिभिः । पयोदधिघृतैः कुर्याद्वैश्वदेवं स्रुवेण तु । हस्तेनान्नादिकं कुर्यादद्भिरञ्जलिना जले । कोद्रवं चणकं माषंमनूरं च कुलित्थकम् । क्षारं लवणं सर्वषं च वैश्वदेवे विवर्जयेत् । रुक्षैर्द्ररिद्रतां याति क्षारं हुत्वा व्रजत्यधः । गोधूमश्चणकश्चेति ह्येष क्षारगणो मतः । तुलसीदलेन रहितं वैश्वदेवं करोति यः । देवतास्तन्न गृण्हन्ति गृण्हन्ति ब्रह्मराक्षसाः । विना व्याहृतिहोमेन होमो वै निष्फलं भवेदिति शौनकः । अनुयागे ह्यशक्तश्चेत् षोडशाज्याहुतीर्जुहेत् । क्रमेण पौरुषं सूक्तं व्याहृतीभिस्समन्वितम् । वैश्वदेवं ततः पश्चात्तुलसीदलसंयुतम् । विष्ण्वाहुतिं समुत्सृज्य वैश्वदेवं करोति यः। देवतास्तन्नगृण्हन्ति तस्ययज्ञोनिरर्थकः । वदरीफलप्रमाणान्नं वैश्वदेवे मितं भवेत् । रुद्राक्षस्य प्रमाणं वा आद्रामलकमेव वेति शौनकः ।अकृत्वा वैश्वदेवं तु भुङ्क्तेऽन्नंयो द्विजाधमः । स मूढो निरयं याति कालसूत्रमवाक्शिराः । साग्नयोऽप्येकपाकाशा भ्रातृपुत्रादयो यदि । अपृयन्वैश्वदेवं तु स्वपाकाग्निर्वपेद्गृही । अविभक्तेषु संसृष्टेष्वेकेनापि कृतं तु यत् । देवयज्ञादि सर्वार्थं लौकिकाग्नौ तु निक्षिपेदिति व्यासः ॥ तत्र वैश्वदेवप्रकारादिविचारः ।पाञ्चरात्रे नारायण उवाच ॥ स्वस्य न्यासादिकं कृत्वा वैश्वदेवं समाचरेत् । विष्णोर्नैवेद्यशेषेण वैश्वदेवं समाचरेत् । ये देवा ह्यत्र तिष्ठन्ति वैश्वदेवे तु कर्मणि ।सर्वेष्वपि तु मां ध्यायेत्सर्वकर्मार्थसिद्धये । तथा व्याहृतिरूपेषु चतुरूपं स्मरेत्तथा । ब्रह्मोवाच ।छिन्धि सर्वज्ञ सर्वेश संशयं मे महत्तरम् । विष्णोर्नैवेद्यशेषेण वैश्वदेवादिकं चरेत् । इत्युक्तं तु त्वया

पूर्वंतत्र मे यो संशयो महान त्वदर्पितान्नंदेवेश देवानामुचितं नृणाम् । त्वदर्पितं तु नैवेद्यं कथं त्वपुरुषोत्तम ।गृण्हासि भो ह्यधिष्ठाने त्वदुच्छिष्टं यतः परम् ।भगवानुवाच । साधु साधु महाभाग श्रृणुष्व कवलासन ।त्वया पृष्टं प्रवक्ष्यामि श्रुणुष्वेकमना भव । यथाऽग्नौ संस्कृताज्यं वा अग्नावेव हि हूयते । मदर्पितं प्रगृण्हामि यज्ञहोमद्विजातिषु।असंगोऽहं महाभाग तस्मात्मे नास्तिकर्मणः। बन्धनं पुरुषश्रेष्ठ मा शङ्कीर्ह्यत्र पुत्रक । निवेदितान्नशेषेण येयजन्ति द्विजातिषु । सर्वस्थं मां समुद्दिश्य स्मृताः कर्मसुकौशलाः । अयोग्यं न यथा होमे घृतं संस्कारवर्जितम् । ऋृते तदर्पणं प्राज्ञ यज्ञादौ विफलं भवेत् । अहं यदि न गृण्हामि तेषां तु ग्रहणं कुतः।भक्तानामदनार्थाय गुण्हामि कमलासन । तस्मान्नैवेद्यशेषेण ददतां नास्ति पातकम् । देवांस्तथापि वै विप्रानुद्दिश्य पुरुषर्षभ । मम नैवेद्यशेषेणये ददन्ति मदर्हणम्। अधिष्ठानेषु देवेश ते यान्ति ह्यधरं तमः । प्रतिमायामर्पीतंमे नार्पयेत्प्रतिमान्तरे ।यथाऽग्नौ संस्कृताज्यं तु न हि संस्क्रियते पुनः।अर्पितं प्रतिमायां वै नार्पयेत्प्रतिमान्तरे । संस्कृत्याज्यं यथा ह्यग्निहोमोऽग्नौ तु तथैव च । उभयत्रापि गृण्हामि तु नैकवारं पुनः पुनः । एवमेवयथा ब्रह्मन्नैकवारं द्विजातिषु । पौनःपुन्येन ह्येकत्र तज्जातीये तथैव च । न गृण्हामि महाप्राज्ञ गृण्हामि तत्र तत्र वै । न गृण्हामि महाप्राज्ञ कर्तैज्ञश्चेत्तदैव च । तज्जातीयेऽपि च गृण्हामि यदि कर्ता पृथग्भवेत् । निवेदितं प्रतिग्रासात्सत्त्वजाते क्रियादपि । यत्यादिभिर्गृहहस्थैश्च व्ययोकुर्यान्निवेद्य वै । श्राद्धादौ कर्तृसत्त्वस्य सत्त्वान्नैव विनिन्दितमित्यादि । हविष्यं पञ्चधा कृत्वा पूर्वभागात् षडाहुतीः । अहविष्यं द्वितीयाच्च जुहुयादुष्णभस्मनि।द्वौ भागशेषौसंसृज्य धर्मादीनां बलिं हरेत् । अग्रदानं देवयज्ञं भूतयज्ञं तथैव च ।भागात्तृतीयाज्जुहुयात्पितृयज्ञश्चतुर्थभाक्। पञ्चमान्मानुषो यज्ञो वैश्वदेवे त्वयं विधिरिति स्मृतिःनृसिंहपुराणे। अकृते वैश्वदेवे तु भिक्षुके गृहमागते उद्धृत्य वैश्वदेवार्थं भिक्षां दत्वा विसर्जयेत् । वैश्वदेवाकृतं दोषं शक्तो भिक्षुर्व्यपोहितम् । न तु भिक्षुकृतं दोषं वैश्वदेव व्यपोहति । यतिश्च ब्रह्मचारी च विद्यार्थं गुरुपोषकः। अध्यगः क्षीणवृत्तिश्चषडेते भिक्षाकास्स्मृताइति ।

॥ श्राद्धविषयसंग्रहे॥

गृहाग्निशिशुदेवानां यतीनां ब्रह्मचारिणाम्। श्राद्धपाकोन दातव्यो यावत्पिण्डान्ननिर्वपेदिति। तत्रैवाह—अदत्वाभिक्षवेभिक्षां यश्श्राद्धं कुरुते द्विजः।त्रयस्ते नरकं यान्ति दाता भोक्ता तथा पितेति

अत्र वै येन कर्मणा विश्वे देवाःप्रीयन्ते तद्वैश्वदेवम् । इदं तु कर्म आत्मसंस्कारकमनन्नसंस्कारकं च । ‘गृहस्थो वैश्वदेवार्थं कर्म प्रारभते दिवा । अत्रस्य चात्मनश्चैवसंस्कारार्थं तदिष्यत इति वचनात् ईशार्पणपुरस्स्कृतेनानेन कर्मणा पुण्याख्यादृष्टविशेषस्योत्पत्तिरेवात्मसंस्कारः अन्नेवैश्वदेवजन्यसंन्कारस्तु ‘व्रीहीन्प्रोक्षति’ इत्यादौप्रोक्षणेनव्रीह्यादौदेवतासान्निध्याख्येवा विष्णुप्रियत्वरूपो वा यथा प्रोक्षणजन्यः संस्कारस्तथेहापीति ।व्रीहिप्रोक्षणजन्यः शक्त्यपरनामा कर्मोपयोगित्वलक्षणःसंस्कारो शोहिषुउत्पद्यतेतद्वदत्रापि कल्प्यते। नन्कस्योभयार्थत्वं विरुद्वमिति चेन्न।जातकर्मणःपुत्रसंस्कारकस्य पितरि फलजनकत्वमिव गुरुणाऽनुष्ठितस्योपकर्मणःगुरौ अतिशयाधायकस्य ब्रह्मचारीच्छात्रसंस्कारकत्वाद्वोपत्तेः । नन्वात्रन्नसंस्कारकं कर्म किं देवयज्ञमात्रं अन्यदपि वेत्यतउक्तं भगवत्पादैः।वैश्वदेवमिति । अत्र वैश्वदेवपदेन देवयज्ञपात्रम्, तथास्थान्नसंस्कारकं देवयज्ञमात्रं, नभूतबलिरित्याशयेन बलिंपृथगाह।

बलिं चैव कुर्यान्नित्यं तदर्पणमिति ।

अत एव ‘वैश्वदेवाहुतीरग्नावर्वाग्ब्राह्मणभोजनात् । पश्चात्तुभूतयज्ञादिश्राद्धं कृत्वा तु तत्स्मृतमि’त्यत्र श्राद्धे देवयज्ञमात्रानुष्ठानोत्तरं ब्राह्मणभोजनं, ततो भूतयज्ञादि विहितम् । ततश्चक्राकारेण बलिहरणं दत्वा ये भूताः प्रचरन्तीति मन्त्रेण शुद्धभूमौ किञ्चज्जलमासिच्य शुनां चण्डालानां वायवानां चपिण्डत्रयंदद्यात् ।

॥ १३ ॥ अथ बलिहरणप्रकारः॥

ततोगोदोहनमात्रमतिथीन्प्रतीक्षेत । तथा चाह शौनक ।आयुष्यतोदिवा रात्रौस्रुवाकारं बलिं हरेत \। जनवश्यं कर्तृकामो वल्मीकाकालबलिं हरेत् । आयुरारोग्यकामो वा ध्वजाकारं बलिं हरेत् ।

मृत्युरोगविनाशार्थी पुमाकारं बलिं हरेत् । धर्मार्थकाममोक्षार्थी चक्राकारं बलिं हरेत् । चक्राकारमप्याप्टारं कुर्यादग्निसमीपतः । चक्राकारेण यो विप्रस्सदा भूतबलिं हरेत्। सर्वपापविनिर्मुक्तो विष्णुलोके महीयते । तत्रागतेभ्यो विप्रेभ्यो दद्याच्छक्त्यनुसारतः । चोरो वा यदि चाण्डालो विप्रघ्नःपितृघातकः ।वैश्वदेवे तु संप्राप्तस्सोऽतिथिस्सर्वसंग्रहः । सुमुखात्तुष्ट आदित्यस्संभाषण सरस्वती ।स्वागतेनाग्नयः प्रीता आसनेन शतक्रतुः । अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । स तस्मै दुष्कृतं दत्वा पुण्यमादाय गच्छति। ततो गोदोहमात्रं वै कालं तिष्ठेद्गृहाङ्गणे। अतिथिप्रेक्षणार्थाय तदूर्ध्वं तु यथेच्छया । अनुद्धृतं बलिं दृष्ट्वा प्राणायामान्पडाचरेत् । स्वयमुद्धरते तत्र प्राजापत्यं समाचरेदिति । आश्वलायनपरिशिष्टे \। अथ गृहे बलिं देवतानां कीर्तियिष्यामो यत्र यत्र वसन्ति ते । द्वारे पितामहं विद्यात्प्रकीले च उमापतिम् । इत्युक्त्वा चाण्डाल-पतित-वायसेभ्योऽन्नं भूमौ निक्षिपेत् । प्रक्षाल्य पादौ पाणीचाचम्य गृहं प्रविश्य जपेदित्यादि । अस्यार्थः । कीर्तियिष्यामो बलिहरणमिति शेषः । यत्र यत्र स्याने या याः देवाः सन्ति तासामित्यन्वयः । ताःदर्शयति । द्वार इति । गृहद्वार इत्यर्थः ।प्रकीलं कपाटार्गलं शुनां पतित-चण्डालानां वायसानां च च पिण्डत्रयं च दद्यात् । तच्च भूमावेवदद्यान्न साक्षात् । भूमौदत्ते श्वादयो निगृण्हन्तुवा मा वा न नियम इत्यर्थः । अत्र पतिताः प्रमादत एव महापातकिनः । एते तु चण्डालादयःविष्णुभक्ता एव न विष्णुद्रोहिणःपाषण्डिनः।भूमावपि पाषण्डिभ्यः स्वयं न दद्यात् । ‘नावैष्णवाय दातव्यं नोदबिन्दुं न तण्डुलमि’ति निषिद्धत्वात्पाषण्डिनाम् । भूमावपि पाषण्डिभ्यः स्वयं न दद्यात् । किं तु स्वयं गेहमध्ये गते सति पाषण्डी आगत्ययदि गृण्हीयातर्ह्योमिति। चण्डालादीनां वासुदेवभक्तत्वं तु ‘विप्राद्विषड्गुणयुतादरदिन्दनाभपादारविन्दविमुखाच्छवपचं वरिष्ठम् । मन्य तदर्पितमनोवचनात्मगेहप्राणः पुनाति सकलं न तु भरिमान’ इत्यदि भागवते प्रमितम् । ‘न चान्नस्य क्षुधितं पात्रं, मित्यस्य का गतिरिति चेत् । इत्थम् ।विष्णुद्रोहादिशून्यः क्षुधित एवान्नस्य

पात्रं, न तस्मिन् वेदादिपरीक्षा कार्या।कन्यादिदानार्थमेव सा कार्येति तद्वाक्यार्थः अथ पाषण्डिनां भिक्षादिदानेन पोषणे कृते तैः क्रियमाणस्य पापादे-

रानुकूल्यं कृतं स्यात्तच्चाप्यस्य प्रत्यवायहेतुर्भवेदिति तत्त्वमर्यादेत्युक्तमुत्पत्स्यति । (तत्त्वमार्यानुक्तमुत्पश्यन्ति ) ।

॥ १४ ॥ गोग्रासविधिः ॥ वायुपुराणे ।

सौरभेय्यः सर्वहितास्सर्वपापप्रणाशनाः। प्रतिगृण्हन्तु मे ग्रासं गावस्त्रैलोक्यमातरः। गां स्पृष्ट्वा च नमस्कृत्य कृत्वा चैव प्रदक्षिणम् । प्रदक्षणीकृताऽनेन सप्तद्वीपा वसुन्धरा । इत्थमेव तु कुर्वीत गवां ग्रासं दिने दिने ।

एवं प्रबोधमारभ्य वैश्वदेवपर्यन्तं कर्मोक्त्वा

इदानीं स्वकृतं सर्वमपि यज्ञादिकं हरौसमर्पयेदित्याह ॥

॥इष्टं दत्तं हुतं जप्तं पूर्त यच्चात्मनः प्रियम् ॥

दारान् सुतान् प्रियान् प्राणान् परस्मै सन्निवेदयेत् ॥१४॥

इष्टं यजनम् इच्छाविषयं सकलं वा । दत्तं सत्पात्रे धनत्यागाख्यं दानम्। हुतम् अग्नौ होम्यप्रक्षेपरूपमौपासनादि । जप्तं गायत्र्यादिमन्त्रैर्यज्जपति पूर्त तटाकारामम् प्रपास्थाननिर्माणादिकम् । आत्मनः स्वस्य प्रियं भोज्यमन्नपानादिकं प्रियानिति दारादित्रयविशेषणम्। पत्न्यादिकं सर्वं परस्मै सर्वोत्तमाय हरये सन्निवेदयेत्। ‘प्राण-देह-मनः-स्वात्म-गेहापत्य-धनादयः । यत्संपर्कात्प्रिया आसंस्ततः को न्वपरः प्रिय’ इति ज्ञात्वा हरेः सर्वं त्वदीयमेव, न मम किञ्चित् । अहं तु तव दास इति ज्ञानं सन्निवेदनम् । तत्कुर्यादित्यर्थः तथा चोक्तमेकादशे स्कन्धे । ‘इष्टं दत्तं हुतं जप्तं पूर्तं यच्चान्मनःत्प्रियम् । दारान् सुतान प्रियान् प्राणान् परस्मै सन्निवेदयेदिति’ । अत्र परस्मै सर्वदेवोत्तमाय निवेदयेत् । इत्यनेन तत्र तत्र कर्मस्वन्येऽपि देवा हूयमानाः सन्ति । तथापि तेषामपि सत्तादिप्रदो हरिरस्तीति मुख्यतया तस्मै निवेदयेदिति असूचि । तदुक्तं भागवते - ‘यथा तरोर्मूलनिषेचनेने’ त्यादि ।

॥१५ ॥अथ तीर्थधारणप्राशनादीनि ॥

संक्षेपशास्त्रत्वादनुक्तान्यपि ग्राह्याणि ।कृष्णामृतमहार्णवे । ‘स्नाने

पादोदकं विष्णोःपिबन् शिरसि धारयेत् । सर्वपापविनिर्मुक्तो वैष्णवीं सिद्धिमाप्नुयात् । विष्णोः पादोदकं पूर्वमासिच्य तुशिरोमुखे। नेत्रे च त्रिःपिबेत्पश्चात्तापत्रयनिवारणमि’ति । पाद्मे च । वीकारो दैत्यनाशाय थकारो मोक्षसाधनम् । अक्षन्द्वयसंयुक्तं तीर्थनाम सहोच्यते । आजन्मकृतपापानां प्रायश्चित्त यदीच्छति। शालिग्रामशिलावारि पापहरि निषेव्यताम् । वस्त्रं च त्रिगुणीकृत्यपाणौपाणिं च विन्यसेत् । तस्मिन् तीर्थं प्रतिष्ठाप्यत्रिःपिबेच्छदवर्जितम् । आद्यं कायस्य शुध्यर्थं द्वितीयं धर्मसाधनम्। तृतीयं मोक्षद प्रोक्तमेवं तीर्थ त्रिधा पिबेत् । परमाणुसमं तीर्थं यश्च भूमौ विनिक्षिपेत् । ब्रह्महत्यासमंतस्यपापमाहुर्मनीषिण’ इति ।

** एकादश्यां तु पाद्मे**। तुलसीमिश्रितं तोयमेकादश्या कदाचन । न ग्राह्यं विष्णुभक्तैश्च व्रतं नव्येच्च पार्वति । एकादश्यां नैवेद्यनिषेधो वाराहे । ‘एकादशीव्रतंनश्येन्नैवेद्यस्यार्पणान्मम ।अन्नं वा फलमूलं वा जलं वा मे प्रयच्छति । पूजाकाले मम दिने हृदि शल्यं तदर्पितमिति । अन्यत्र च । एकादशीदिने देवि जलान्नदिसमर्पणम् । मूत्रविट्सममेव स्यादित्युक्तं ब्रह्मणा पुरेति ।

॥१६॥अथैकादशीश्राद्धतिर्णयः ॥

एकादशी-द्वादशी-त्रयोदशीतिदिनत्रयाणां श्राद्धं द्वादश्यामेव कार्यम् । तथोक्तं नृसिंहपुराणे ।साधनद्वादशी यत्र कलामात्राधिका भवेत् । तदा दिनत्रयश्राद्धं द्वादश्यामेव कारयेदिति । तत एव ‘एकादश्यां त्रयोदश्यां द्वादश्यां प्रतिवार्षिकम्। द्वादश्यां वैष्णवैःकुर्यादन्येश्चैवमृतेऽहनी’त्यपिसाधनीविषयम्। नन्वेकादशीश्राद्धमेकादश्यामेव कार्यं, नद्वादश्याम्। ‘मृतेऽहनि अतिक्रान्ते चण्डालां कोटिजन्मसु’ । इति प्रत्यवायश्रवणादितिचेन्न । ‘यनि कानि च पापानि ब्रह्महत्यासमानि च । अन्नमाश्रित्य तिष्ठन्ति संप्राप्ते हरिवासरे । वरं स्वमातृगमनं वरं गोमांसभक्षणम् । वरं हत्या सुरापानमेकादश्यां न भक्षणम्। गर्भिणी सूतिका बालास्तीर्थयात्राकृतश्रमाः सपादमात्रं कुर्वीत तृप्त्यर्थं फलभक्षणम् । सर्वथा नान्नमश्नीयानिन्म्रियमाणे हरेर्दिने । इति वाराहे न ।अन्नस्यैकादशीदिने निषिद्धत्वात्तद्वाक्य-

मेकादव्यतिरिक्तमृताहातिक्रम एवं प्रत्यवाय प्रतिपादनपरम् । नतु तर्हि ‘जलैर्वापयसा वाऽपि पितृणां तृप्तिमाप्नुयात् । न तु नित्यस्य लोपोऽस्ति पैतृकस्य विशेषतः’ इति वचनाज्जलादिना पितृश्राद्धं किं न स्यादिति चेन्न ।जलादेरपि अन्नवत्प्रतिषिद्वत्वेन अन्नसमानयोगक्षेमत्वेन तैरपि स्वपैतृककरणस्य निषिद्धत्वात् । तथा च तिथिदर्पणे । एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि । अनेन विधिवाक्येन तत्र श्राद्धं परेऽहनि । भुङ्क्ष्व भङ्क्ष्येति यो ब्रूयात्संप्राप्ते हरिवासरे । तावुभौ पतितौ स्यातां तस्माच्छ्राद्धं परेऽहनि।यथाऽशौचादिके श्राद्धमाशौचान्ते विधीयते । तथा एकादशीश्राद्धं तत्कुर्यात्तदनन्तरमि’ ति। ‘ये कुर्वन्ति महीपाल श्राद्धं त्वेकादशीदिने । त्रयस्ते नरकं यान्ति दाता भाक्ता परे तथेति। साधनद्वादश्यां श्राद्धं कर्तुं द्वादशीलङ्घनप्रत्यवाय इति चेन्न । श्राद्धेनिमन्त्रितब्राह्मणैःसाधनी साधिता चेद्यजमानेनापि श्राद्धकर्ताऽपि साधितेति न तस्य द्वादशीलङ्घनप्रत्यवाय इति । यथोत्कं वाराहे । द्वादश्यां यदि स्वल्पायां पितुश्श्राद्धं भवेद्यदा ।ब्राह्मणान् भोजयित्वाऽऽदौ स्वयंफलमवाप्नुयात्। न तस्य व्रतहानिस्स्याद्भुञ्जानस्य ततः परमिति। अन्यत्र । ‘श्राद्धे नियुत्कैर्विप्रैस्तु द्वादशी परिपालिता ।तत्फलं श्राद्धकर्तुश्चन तस्य व्रतलङ्घनमि’ति ।स्वभर्तुपारणेनैव नारीणां पारणं भवेत् । पतिव्रतानां नारीणामेवं न व्रतलङ्घनम् ।अशिरस्कं तु यत्स्नानं पत्युः पतिरुच्छिष्टभोजनम्। द्वादशीलङ्घनं चैव कुलस्त्रीणां न दुष्यत इति । ननु किमुद्दिष्यश्राद्धं क्रियते, पितृनिति चेन्न ।पित्रादयः स्वकर्मवशान्नानायोनिगता नानाविधदेशान् प्राप्ताः सन्तोऽत्र कथं भोक्ष्यन्ति । अतः कथमुद्देष्या इति। सत्यम् । अत्र पितृशब्देन न केवलं प्रमृताः पुरुषमात्राः अभिधीयन्ते। किंतु नवश्राद्धादिसपिण्डान्तैः संस्कारैः प्रमीतानां वस्वादिलोकप्राप्तिः क्रियते । तल्लोकाभिमानिदेवता वस्वादयोऽत्र पितृशब्देनाभिधीयन्ते । ते तु वस्वावयः प्रमीतानां पुत्रैः प्रत्यहं प्रतिमासं वा सांवत्सरादिश्राद्धैस्तृप्ताः सन्तो नानालोकनानायोनिगतानपि तत्पितृन तज्जातिगुणाहारेण तर्पयन्तीतिनानुपपन्नम् ।ते वस्वादयोमन्त्रादिकमाहाराणां नेतारं कृत्वैव तन्मुखेन स्वयं प्रीताः प्रीणयन्तीति । तथा चोक्तंमत्स्यपुराणे । ‘नामगोत्रं पितृणां तु प्रापकंहव्य-

कव्ययोः। श्राद्धस्य मन्त्रा उद्देश्या उपभोग्यानि भक्तितः । नामगोत्रतयोद्देश्यान् भवान्तरगतानपि । प्रीणयन्ति मनुष्यादीन् तदाहारत्वमाग

न्तात्।देवो यदि पिता जातश्शुभकर्मानुयोगतः। तस्यान्नममृतं भूत्वा दिव्यत्वेऽप्यनुगच्छति । देवत्वे भोग्यरूपेण पशुत्वेऽपि तृणं भवेत् । श्राद्धान्नं वायुरूपेण नागत्वेऽप्यनुगच्छति । पानं भवति यक्षत्वे गृद्घ्रत्वेऽपि तथाऽऽमिषन् । दनुजत्वे तथा मांस प्रेतत्वे रुधिरोदकम् । मानुषत्वेऽन्न–पानादि नानाभोगकरं तथा । या तु पिण्डक्रिया तत्र ब्राह्मणानां तु भोजनम् ।यजमानस्य पित्रादींस्तदन्नमुपगच्छति यथा गोष्ठे विसृष्टो वै वत्सो विन्दति मातरम् ।एवं श्राद्धेऽन्नमुद्दिष्टं मन्त्रः प्रापयते पितृनिति ।

साधनीद्वादश्यां कर्मकरणयोग्यकालो वाराहे । यो भागास्त्रियामायास्तत्राद्यौ संत्यजेद्बुधः ।भागे तृतीये स्नात्वा तु नित्यकर्माणि कारयेत् । आमाध्यान्हिककर्माणि रात्रावेव विधाय च । यदा सूर्योदयात्पूर्वं घटिकैकाऽवशिष्यते । स वै सूर्योदयो नाम मुनिभिः परिकीर्तितः । होमं च वैश्वदेवं च ब्रह्मयज्ञं च तर्पणम् । आपोशनं विधायैवप्रतीक्षेद्रविदर्शनम् । साधनीयाऽतियत्नेन ततस्सा साधनी मतेति। अन्यायानपिभूपाल द्वादश्यामरुणोदये । स्नानार्चनक्रिया कार्या दानहोमदिसंयुता इति भविष्यत्पुरणे ।संकटद्वादशीप्राप्ती नित्यमान्हिकमेव च । तत्रान्हि पारणं कृत्वा स्वकाले चान्हिकं भवेत् । इति तु पराधीनविषयम् । तथा च वाराहे द्वादश्यामतिसूक्ष्मायां पराधीनस्तु यो जनः । स तीर्थपारणं कृत्वा द्वादशीफलमाप्नुयात् ।अशिता नशिता आपो व्रत्पूर्त्यैबुधैस्स्मृता इति।

हरिवासरे कर्मकालः ॥ वाराहे ॥

प्रातःकाले तु द्वादश्यां यदा स्याद्धरिवासरः। तदा कुर्वीत होमादि व्यतीते हरिवासरे । तर्पणं श्राद्ध-होमादि नित्यं नैमित्तिकं तथा । कुर्वीत जलपानादि व्यतीते हरिवासरे इति ।

॥ ततो भोजनं कार्यमित्याह श्रीमदाचार्यः ॥

भुक्तशेषं भगवतो भृत्यातिथिपुरस्सरः।

भुञ्जीत हृद्गतं विष्णुं स्मरंस्तद्गतमानस ॥ इति ॥

पथाविधीत्यनुवर्तते । भगवतो हरेर्भुक्तशेषं मेध्यमेव भगवन्नैवेद्मम् । मृत्याः पोष्याः, अतिथयश्च पुरःसराःपूर्वका यस्य सतथा । पोष्यवर्गैर्विप्रैश्च सहित इति यावत् । हृद्गतम् हृदि स्थितम् । आत्मान्तरात्मोतिनामकं विश्णुं मुख्यतः सारभोक्तारं स्मरन्नम्यत्र मनोऽनाधाय विधिमनतिक्रम्य भुञ्जीत । ‘नैवेद्यशेषं तुलसीविमिश्रितं विशेषतः पादजलेन सिक्तम् । योऽश्राति नित्यं पुरतो मुरारेः प्राप्नोति यज्ञायुतकोटिपुण्यम्’ इति । अन्यन्न च अभ्यवहरेदित्यर्थः ।

॥ १७ ॥ अथ भोजन विधिः ॥

आदौ ब्राह्मण ईशान्यकोणमारभ्य चतुरस्रमण्डलं कारयित्वा पीठे प्राङ्मुखत्वादिनोपविष्टः विहितविस्तीर्णपात्रेषु अन्नादि परिवेषयित्वा सव्यतः प्रदक्षिणाकारेण करमध्यगेनैवोदकेन परिस्तीर्य चित्र-चित्रगुप्तनाम्नोरन्नंभूमौ निक्षिप्य’तद्विद्वांसः श्रोत्रियाः अशिष्यन्त आचमन्ती’ ति बृहदारण्यकरीत्या अमृतोपस्तरणमसीति प्राश्य तुलसीमिश्रितान्नेन प्राणाद्याहुतीर्दद्यात् । ततो मौनी प्रतिकवलं भगवत्स्मरणपूर्वकं भुक्त्वोच्छिष्टभागधेयेभ्यः सोदकमन्नं भूमौ निक्षिपेदिति । तदुक्तं स्मृतिषु ‘ब्रह्माद्याश्च सुरास्सर्वे वशिष्ठाद्या महर्षयः ।मण्डलं चोपजीवन्ति ततः कुर्वीत मण्डलम् । ब्राह्मणस्य चतुरस्रं त्र्यस्रं वैबाहुजन्मनः । वर्तुलं तु विशः प्रोक्तं शूद्रस्याभ्युक्षणं स्मृतम् । यातुधानाः पिशाचाश्चराक्षसाः क्रूरकर्मिणः। हरन्ति रसमन्नस्य मण्डलेन विवर्जितम् । यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः । सोपानक्तः पिबन् भुङ्क्ते तद्वै रक्षांसि भुञ्जते । प्राग्वा प्रत्यङ्मुखो वापि जान्वोरन्तःकरशुचिः ।उदङ्मुखो वा पित्र्येषु समासीताभिपूजितः । स्वर्णं रूप्यं च कांस्यं च पर्णं वा शास्त्रचोदितम् । चतुष्टष्ठिपलं कांस्यं तदर्धं पादमेवच । गृहिणामेव भोज्यं स्यात्ततो हीनं च वर्जयेत् । करमध्ये स्थिता देवाःकरपृष्ठे तु राक्षसाः। तस्मात्करस्य पृष्ठेन नान्नंकुर्यात्प्रदक्षिणम् । भोजनात्किञ्चिदग्रेऽन्नंधर्मराजाय वै बलिम् । चित्राय चित्रगुप्ताय श्तेभ्योप्युद्धरेद्बलिमिति वायुपुराणे लक्ष्मीसंहितायाम् ।

विष्णुतीर्थीये नैवेद्यशेषंतुलसीविमिश्रितं विशेषतः पादजलेन सिक्तम् । योऽश्नाति नित्यं पुरतो मुरारेः प्राप्नोति यज्ञायुतकोटिपुण्यम् इति । पादोदकं हरेःपुण्यं तुलसीदलमिश्रितम् \। अमृतोपस्तरणमसीति प्राशयेत्कुशपाणिना। उद्दिश्यैवहरिं प्राणान् जुहुयात्सघृतंहविः। श्रद्धायां प्राणे निविष्ट इति मन्त्रैर्यथाक्रमात् । स्वाहान्ताः प्रणवाद्याश्चनाममन्त्राश्चवायवः । जिव्हया च ग्रसेदन्नंदशनेन न संस्पृशेत् ।तर्जनी–मध्यमाङ्गुष्ठैः प्राणायेत्याहुतिर्भवेत् । मध्यमानामिकाङ्गुष्ठैः अपानायेत्यनन्तरम् । कनिष्ठानामिकाङ्गुष्ठैः व्यानायेत्याहुतिं ततः । कनिष्ठातर्जन्यङ्गुष्ठैरुदानायेति वै यजेत् । समानायेति जुहुयात्सर्वैरङ्गुलिभिः क्रमात् । चण्डालपतितोदक्यावाक्यं श्रुत्वा द्विजोत्तमः । भुञ्जीत ग्रासमात्रं तु दिनमेकमभोजनमिति । कात्यायनः । यस्तु पाणितले भुङ्क्ते यस्तु फूत्कारसंयुतम् । प्रसृताङ्गुलिदर्पश्च तस्य गोमांसवच्च तत् । शब्देनापोशनं पीत्वा शब्देन घृतपायसम् । शब्देनापः पयस्तक्रंसुरापानसमं स्मृतम् । प्रत्यक्षलवणं चैवक्षीरं च लवणान्वितम् । दधि हस्तेन मथितं तक्रं जीर्णमपेयवत् । उध्दृत्य वामहस्तेन यस्तोयं पिबति द्विजः । सुरापातेन तत्तूल्यमेवमाहजनार्दनः । न ऋन्दयन् न च हसन् बहिर्वा विलोकयन् । नाश्नीयान्प्रलपन् जल्पन् बहिर्जानुकरो न च ।नाश्नीयाद्भार्यया सार्धं पुत्रैर्वापि न विव्हलः।बहूनां भुञ्जतां मध्ये नाश्नीयाच्च त्वरान्वितः । ग्रासशेषं न चाश्रीयात्पीतशेषं पिबेन्नतु । शश्वन्मूलफलादीनि दन्तच्छिन्नं न खादयेत् । अन्नं वृथा न विकिरेत् निष्ठीवेन्नातिकाङ्क्षया । हस्तं प्रक्षाल्य गण्डूषंयः पिबेद्भोजनोत्तरे । दैवं पित्र्यं तथात्मानं तपस्स उपघातयेत् । भोजनं तु न निश्शेषं कुर्यात्प्राज्ञः कथञ्चन । अन्यत्र दधि सत्क्वाज्यं पललं क्षीरमध्वपः । पललं मुद्गमिश्रितोदनम् । स्नास्यतो वरुणश्शक्तिं जुव्हतोऽग्निश्श्रियं हरेत्। भुञ्जतो मृत्युरायुष्यं तस्मान्मौनं त्रिषु स्मृतम् । वासिष्ठे । एवं मुक्त्वा विधानेन पश्चात्संप्राशयेज्जलम् । ‘अमृतापिधानमसी’ ति मन्त्रेणापो द्विजोत्तमः । किञ्चिदन्नमुपादाय पीतशेषेण वारिणा । पैतृकेण तु तीर्थेन भूमौ दद्यात्तदर्थिनाम् । उत्थाय सम्यगाचामद्भोजनासनसंस्थितः मुद्गादिचूर्णैमृद्भिर्वा जलैस्संशोधयेत्करौ। पश्चात्काष्ठैश्चगण्डूषैर्वक्त्रंसंशोधयेत्ततः इति। चतुरष्टौ

द्विषड्व्द्यष्टगण्डूषैःशुद्धिरिष्यते । मूत्रे पुरीषेभुक्त्यन्ते तथैव मुखनिस्सृतौ । गण्डूषकरणात्पूर्वंशूद्रादीन्यदि पश्यति । ज्ञानतोऽज्ञानतो वापि तैस्साकं भुक्तवान् द्विजः । इति स्मृत्युक्तरीत्या द्वादशगण्डूषान् कृत्वा आचामेत् । तत्र स्मृतिः । आचान्तोऽप्यशुचिस्तावत् यात्रत्पात्रं न चोद्धृतम् ।उध्द्तेऽप्यशुचिस्तावद्यावद्भूमिर्न लिप्यते । भोजनोच्छिष्टंभूमेस्तु गोमयेनोपलेपनात् । पश्चादाचमनं कुर्यात्तत्पूर्वंरुधिरं भवेत् । इति पञ्चसंस्कारे ।

             हस्तादिप्रक्षालनोत्तरकर्तव्यमाह ।

आचम्य मूलमन्त्रेण कोष्ठं समभिमन्त्रयेत् ॥

पाण्यादि प्रक्षाल्य द्विः शुद्धिमाचमनं कृत्वा मूलमन्त्रेण ‘ॐ नमो नारायणायेत्यष्टाक्षरेण नारायणमन्त्रेण कोष्ठं नाभिदेशमष्टवारमभिमन्त्रयेत् । तदुक्तं वासिष्ठे। द्विराचम्य विधानेन सुखासीनस्स्मरेद्धरिमिति ।ततस्तीर्थप्राशनमन्यत्रोक्तमनुसन्धेयम् । स्नाने चाचमने चैवभोजनादौ यथाविधि । तथैव भोजनस्यान्ते सालग्रामजलं पिबेदिति बिज्ञानेश्वरे। स्मृतिः । भोजनानन्तरं विष्णोरर्पितं तुलसीदलम् । भक्षणात्पापनिर्मुक्तिश्चान्द्रायणशताधिकमिति ।

भोजनानन्तरं सायंसन्ध्याकर्तव्यमाह ।

वेदशास्त्रविनोदेन प्रीणयन् पुरुषोत्तमम् ।

अहश्शेषं नयेत्सन्ध्यामुपासीताथ पूर्ववत् । इति ।

निर्णेयानां वेदानां निर्णायकानां शास्त्राणां च वेदानुसरिशास्त्राणां वा विनोदेन ‘नुद प्रेरणे’ इति धातोर्नोदः प्रेरणम् उच्चारणमभ्यास इति यावत् । विशिष्टाभ्यासेनेति यावत् । सुखपूर्वं विचारेणेति । क्षराक्षरोत्तमं हरिं प्रीणयन्–प्रसादयन् अहश्शेषम् उर्वरितदिनभागं नयेत् क्रमेण । क्षणमप्यायुष्यं व्यर्थं न कुर्यादिति यावत ।

दिवाकर्माण्युक्त्वा रात्रिकृत्यमाह ।सन्ध्यामिति ।

अथ सूर्यास्तमयानन्तरं सन्ध्यामुपासत । तत्रेतिककर्तव्यतामतिदिशति । प्रात

स्सन्ध्यावत् सर्वं स्वस्वशाखारीत्या कुर्यादित्यर्थः । सन्ध्यानन्तरमौपासनादि कुर्यादिति वाराहे । अथ पूर्ववदिति । अथ शव्दः वैश्वदेवभृत्यभोजनादिप्रमेयान्तरद्योतकः । औपासनवैश्वदेवादि पूर्ववदेव कुर्यादिति । तदुत्कम् । भुक्तोपविष्टो विश्रान्तो ब्रह्म किञ्चिद्विचारयेत् । इतिहासपुराणानि स्वाध्यायं च पठेन्नरः । अस्तङ्गते दिनकरे सन्ध्यां कुर्वीत पूर्ववत् । इति विष्णुस्मृतौ। यदुपस्थकृतं पापं पद्भ्यां यच्च कृतं भवेत् । सायंसन्ध्यामुपस्थाय तेन तस्मात्प्रमुच्यते । सायमौपासनं हुत्वा पश्चाद्धोमं समाचरेत् । आज्येत चरुणा वाऽपि तिलैर्व्रीहिभिरेव वा । अतन्द्रितो हरिं ध्यायन्वैश्वदेवं समाचरेत् । इति हारीते

॥सायं भोजने स्मृतिः ॥

सायं प्रातर्द्विजातीनां भोजनं स्मृ ( श्रु ) तिचोदितम् । नान्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः ।आयुषे प्राङ्मुखो भुङ्क्ते यशस्वी दक्षिणामुखः । श्रियै प्रत्यङ्मुखो भुङ्क्तेन कदाचिदुदङ्मुख इति । पूर्वोदाहृतदक्षिणाभिमुखनिषेधस्तु जीवन्मात्तृकविषयः सारसंग्रहकृतः रात्रिभोजनापवादः ।रवौ पर्वणि संक्रान्तौ व्यतीपाते पितुर्दिने । अभ्यङ्गंचोपवासं च न कुर्यान्निशि भोजनमिति ।

॥अथ दिवातीतकर्मविधिः ॥स्मृतिसंग्रहे ।

दिवोदितानि कर्माणि प्रमादादकृतानि वै । शर्वर्याः प्रथमे यामे तावत्कुर्याद्यथाक्रमम। दिवोदितानि कृत्वैव विदध्यादुत्तराणि च । शर्वर्याः प्रथमे यामे दिवा कर्माणि कारयेत् । ब्रह्मयज्ञं च सौरं चवर्जयेत्तिलतपर्णमिति ।

॥ अथाध्ययनादिकरणाशक्तौ स्वपेदित्याह॥

॥ यामात्परत एवाथ स्वपेद्ध्यायन् जनार्दनम् ॥

स्वापे न विधिः । तस्य रागतः प्राप्तवात् । किन्तु अथसायं कृत्यानन्तरं यदा स्वपेत्तदा यामात्परत एव जनार्दनं तैजस-प्रज्ञादिरूपं देहस्थं जननादिवर्जितं हरिं स्मरन्नेव स्वपेदित्यतो न पूर्वमिति नियम इत्यर्थः । अत्र अहः सायं वा भोजनोत्तरं घटिकातिक्रमे ताम्बूलविधानं काम्यकर्मिणां

द्रष्टव्यम् । तदाहचरकशास्त्रे ।भुक्त्वाऽन्नं सलिलं पीत्वा गृहीत्वा बहुभेषजम् । प्रतीक्ष्य घटिकामेकां ताम्बुलं भक्षयेत्ततः । भूयोऽप्याचम्य कर्तव्यं ततस्ताम्बूलचर्वणम्। श्रवणं चेतिहासस्य ततः कुर्यात्समाहितः। इति । एकपूगं त्रिपूगं वाऽदनं स्वादनमत्तमम् । एक, द्वि,त्रि, चतुः, पञ्च, षड्भिः, पूगीफलैः क्रमात् । लाभालाभौ सुखं दुःखमाधिर्मरणमेव च ।ततः पूगेन पत्राणि प्रातस्स्त्रीण्येव खादयेत् । मध्यन्दिने तु चत्वारि सायं षढ्भिस्समाचरेत् । अग्रतः श्रीर्यशोमूले मध्ये विष्णुः प्रतिष्ठितः । तस्मादग्रं च मूलं च मध्यं चपरिवर्जयेत् । अनिधाय मुखे पर्णं पूगं खादति यो नरः । दशजन्मदरिद्रश्च मरणे न हरिं स्मरेत् ॥स्त्रीहस्तेन न खातव्यं वामहस्तेन वा पुनः । पांडुत्वं दन्तदौर्बल्यमक्षिरोगं बलक्षयम् । करोति मुखरोगांश्च ताम्बूलमतिसेवनादिति । विद्याकामोऽहनि रात्रौ ताम्बूलं तु न भक्षयेत् । यतिश्च ब्रह्मचारी च विधवा च रजस्वला । प्रत्येकं मांसतस्तुल्यं मेलने सुरया समम् । मातापित्रोः क्षयेश्राद्धे तथैव मृतसूतके ।ताम्बूलं चर्वयेद्यस्तु पितृहा स निगद्यते । इति वशिष्ठः । इति ताम्बूलविधिः ।

॥ १८ ॥ अथ मन्त्रस्वापविधिः॥

सुप्रक्षालितपादः सर्वतो रक्षां कृत्वा शय्यामधिष्ठाय रात्रिसूक्तं जप्त्वा विष्णुं गुर्वादींश्च स्मृत्वा ‘सर्पाय’ सर्प भद्रं ते’ इति श्लोकद्वयं जप्त्वा अगस्त्यादि पञ्चऋषीन् स्मृत्वा मङ्लश्रुतिशंखं शृण्वन्दक्षिणशिराःपूर्वशिराः वा स्वपेत् । तथा चाह विस्तरतः स्मृतिसारसंग्रहे । ‘प्राक्शिराश्शयने विद्यां धर्ममायुश्चदक्षिणे। पश्चिमे प्रबला चिन्ता हानिर्मृत्युरथोत्तरे। स्वगृहे प्राक्शिराश्शेते श्वासुरे दक्षिणे शिरः । प्रत्यक् शिराः प्रवासे तु न कदाचिदुदक्शिराः ।शून्यागारे स्मशाने च एववृक्षे चतुष्पथे ।महादेवगृहे चापि मातृ(चण्डिका) वेश्मनि न स्वपेत् । न चापि भग्नशयने गुरूणां च तथोपरि ।नार्द्रवासा न नग्नश्चनोत्तरापरमस्तकः । कार्पासं पुस्तकं चैव लोहपर्णेतथैव च । पाषाणं काष्ठमित्यादि शिरोऽधः परिवर्जयेत् । अगस्त्यं माधवं चैव मुचकुन्दं महामुनिम् । कपिलं मुनिमास्तीकं पञ्चैतान् शयने स्मरेत् । सुगन्धं वनिता वस्त्रं गीतं ताम्बूलभक्षणम् । शय्या च भूषणं दानमष्टभोगाःप्रकीर्तिताः ।

॥ अथ शयनोत्तरं धर्ममाह॥

॥ अन्तराले ततो बुध्वा स्मरेत बहुशो हरिम्॥

ततः स्वापानन्तरम् अन्तराले स्वापमध्यकाले बुध्वा प्रयत्नेन प्रबोधं मोपाद्य बहुशःअनेकवारं सकलदुरितहरं चिन्तयेदित्यर्थः । यद्वाग्राम्यधर्ममाचरितुकामो ‘गर्भंधेहि शिनीवालि’ इत्युक्तरीत्या गर्भधारकधातृनामकहरिं स्वान्तस्स्थवायुस्थतया ध्यायन् गर्भाधानार्थं स्वभार्यया सह स्वपेदित्यभिप्रेत्य तत्र स्त्रीभोगं कुर्वन्नपि मध्ये हरिं स्मरेदित्याह । अन्तराल इति । ‘सोपस्कराणि वाक्यानि भवन्ति’ इति न्यायादध्याहृत्य योज्यते । ततः शय्योपगमनानन्तरम्अन्तराले स्वान्तः भार्यायां च हरिम् उपलक्षणमिदम् ।हरिवायुश्रीभारतीदेवानां मुख्यं भोगं स्मरेत् ।बहुशः बहून् हरिवाय्वादीन् स्वान्तस्स्थतया स्वभार्याभोक्तृन् स्मरेत् । तथा अन्तराले स्वापान्तराले बुध्वा विष्ण्वादीन् भोक्तृन् ज्ञात्वा व्यवायं कुर्यात् । नन्वत्र व्यवायो न श्रूयते इति चेत् ।सत्यम् । तस्यानुमानेनाधिगमं ब्रूमः । ‘आग्नेयोऽष्टाकपालो भवतीत्य’त्र तद्धिताभिहितद्रव्य–देवतासंबन्धेन यागोऽनुमीयते । न हि स्वत्वत्यागरूपमङ्गमन्तरेणाष्टादशकपालस्याग्नेयत्वं संभवति । तथा विष्णुस्मरणविधानं किञ्चित्कर्म विहाय न संभवतीत्यनुषङ्गिणः कर्मविशेषस्यानुमानं भवति । ननु स्मरणमेवात्र विधीयते न तु कर्मेति चेत् न । ‘स्मर्तव्यस्सततं विष्णुरि’ति तस्याग्रे पृथग्विधानादस्य वैय्यर्थ्यापत्तेः। न च व्यवायाख्यकर्मविशेषानुमानं कथमिति वाच्यम् । लोक वेदप्रसिद्ध्द्याप्राप्तस्य व्यवायस्य विष्णुस्मरणसहकृततया फलवत्त्वमत्रोच्यत इति । यथोक्तं भागवततात्पर्ये

‘वामदेवो नाम यज्ञोव्यवायो हरिपूजनमि’त्यादि । मन्त्रवर्णोऽपि व्यवायस्य कर्तव्यतामवगमयति । तां पुषंच्छिवतमामीरयस्व यस्यां बीजं मनुष्या वयन्ति । या न उरू विशती विश्रयाते यस्यामुशन्तः प्रहराम शेफमि’ति । ‘जायेवपत्य उशती सुवासा’ इति च । अयमर्थः । हे पुषन् तां स्त्रियम् अस्मान् प्रति सम्यक् ईरयस्व। अस्मदादयो मनुष्याः यस्यां बीजं रेतः वपन्ति । या च अम्मान् प्रतिस्कन्धयौ ऊरू प्रसारयति कामयमानाः वयं यस्यां शेफंशिश्नं प्रहराम इति ।

सुवासाःशोभतवस्त्रयुता पत्नी उशती ऊरुकाले पतिसंबन्धं कामयमाना स्वकीयां तनुं पतिंप्रति प्रकटीकरोति । तथा वेदवागपि अर्थज्ञं प्रति स्वाशयं प्रकटीकरोतीति पूर्वेण संबन्धः ।

॥ अथ गर्भाधानार्थ स्त्रीगमनविधिः ॥

‘श्रीर्ह वा एषांस्त्रीणां यन्मलोद्वासास्तस्मान्मलोद्वासषं यशस्विनीमभिक्रम्योपसंक्रमेते’त्यादिवृहदारण्यकवाक्ये द्रष्टव्यः । आश्वलायनादिस्मृतयश्च’पत्नीमृतुमतीं स्निग्धां तृप्तां भोगविवर्जिताम् । उपेयान्मध्यरात्रान्ते जीर्णेऽन्ने तृप्तमानसः । अनर्तुमतीमप्रौढामसतीं च वहुप्रजाम् । स्त्रीप्रजावहुलां वन्ध्यां द्वेषिणीच रजस्वलाम् । कृशां विवर्णांनोपेयाध्दुतप्रत्यागतामपि । प्रथमेऽहनि चाण्डाली यथा र्ज्यातथाऽङ्गना ।तृतीये रजकी प्रोक्ता चतुर्थेऽहनि (शुद्ध्यति ) शुद्रजा।चतुर्थे नावगम्याऽन्हि विद्याहीनं प्रसूयते । भार्यासंभोगसमये पुष्पकालं विनाऽन्यदा । ब्रह्मसूत्रं द्विजः कुर्यान्निवीतं पृष्ठभागत’ इति । अत्र स्वभार्यायामेकापत्यपर्यन्तमृतुगमनं नित्यं तथा विहितम् । तदुत्तरं काम्यमित्यवगन्तव्यम् । ननु ‘इमां त्वमिन्द्र मीढ्वस्सुपुत्रां सुभगां वृणु ।दशाऽस्यांपुत्रानाधेहि पतिमेकादशं कृधि’। ‘सोमो ददद्गन्धर्वाय गन्धर्वो दददग्नये । रयिं पुत्रांश्चादादग्निर्मह्यमथो इमाम् पुत्रकामा हा ख्यापयेरंल्लभन्तेह पुत्रान्’ लभन्ते ह पुत्रान्’ इत्यादिमन्त्रयोर्ब्राह्मणे च बहुपुत्रविधिरस्ति । तथाहि । हे मीढ्वः भक्तेष्टवर्षक इन्द्र इमां वधू सुपुत्रादिगुणवतीं कुरु । अस्यां दश पुत्रानाधेहि कारयेत्यर्थः । कन्यारूपेण स्थितां स्त्रियं सोमो देवो गन्धर्वाय ददद्भवति। गन्धर्वस्तु अग्नये ददत् । अग्निस्तु इमां कन्यां मह्यमदात् । तथा धनानि बहुपुत्रानप्यदादित्यर्थः । तथा च स्मृतिः । शौचं वाचं च मेध्यत्वं सोमगन्धर्व–पावकाः । ददुस्तासां वरानेतास्तस्मान्मेध्यतरास्स्मृताः । यथेष्टकामनास्सर्वास्तासामिन्द्रो वरं ददौ । तस्मात्तदिच्छया कामी पुमान् स्यात्तु तथा स्त्रियः । स्त्रीणामष्टगुणः कामो व्यवसायश्चषड्गुणः । लज्जा चतुर्गुणा तासामाहारश्च तदर्धक’ इति । य ॠतुस्नातभार्यायास्सन्निधिं नोपगच्छति। घोरायां भ्रूणहत्यायां पितृभिस्सह गच्छति । ऋतुकालोपगामी चप्राप्नोति परमां गतिम् । तत्कालप्रभवःपुत्रः पितृणां स्वर्गदो भवेत्’ । इत्यादिस्मृतेश्च–

इति र्पुशब्दवाच्या श्रीःनिर्विकारत्वात्कूटस्था नित्यदेहत्वादक्षरेत्युच्यते । यदर्थं पुरुषद्वयनिरूपणं कृतम् तदाह ।**उत्तमेति ।**आभ्यामन्य एव उत्तमः पुरुषः, न त्वनयोरन्यतरः। ‘परमात्मा व्यवस्थित’ इत्यादिश्रुतिषु प्रसिद्ध इत्यर्थः । समाख्या । आत्मशब्दस्य चेतनपर्यायत्वात् युक्तिमप्याह य इति । लोकत्रयं तदुलक्षित्सर्वलोकमाविश्य बिभर्तिधारयति पोषयति च । यो हि यस्य धारणादिकर्ता स तस्मादुत्तमो युक्तः । तदाविष्टस्य तन्नाशेन नाशः स्यादित्यत उक्तम् । अव्यय इति । विविधनाशरहितः । तत्कथमैश्वर्यादित्याह ।ईश्वरः ।दुर्घटघटकत्वाख्यैश्वर्याेपपत्तेः । स च क इत्यपेक्षायामहमेवेति सप्रमाणनाह ।

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।

अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ।

यो मामेवमसम्मूढोजानाति पुरुषोत्तमम् ।

स सर्वविद्भजति मां सर्वभावेन भारत ।

इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ ।

एतद्बुध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ।

** यस्मादिति** । यस्मान्निमित्तात्क्षरं चातीतः अक्षरादप्युत्तमः, अतो लोके पौरुषेयग्रन्थे, वेदे अपौरुषेयग्रन्थे, आगमे च पुरुषोत्तम इति प्रसिद्धोऽहमस्मि । अत्रात्मनः तात्पर्यद्योतनाय वेत्तुः फलमाह । यो मामिति । यः अधिकारी एवमुक्तरीत्या यौगिकपुरुषोत्तमपदवाच्यं मां जानाति । असंमूढः पुरुषोत्तमत्वमपारमार्थिकम अश्वकर्णादिवत्संज्ञामात्रत्वादिति सम्मोहवर्जिंतः, स एव सर्ववित् । अस्यैव सकलशास्त्रार्थत्वात् । सर्वभावेन सर्वप्रकारेण मां भजति सेवते । एतच्च नायोग्याय वाच्यमित्याह । इतीति । इत्युक्तप्रकारेण परमगोप्यमिदं सर्वोत्तमतया पुरुषोत्तमत्वरूपं शिष्यत इति शास्त्रं प्रमेयं मया अभिहितमित्यर्थः । सर्वविदित्याद्युक्तंततः किमित्यत आह । एतद्बुद्ध्वेति । एतदुक्तं प्रमेयं परोक्षतो ज्ञात्वा बुद्धिमान् अपरोक्षज्ञानी स्यात् । ततः कृतकृत्यो मुक्तश्चस्यादिति । भारतेति पार्थं प्रति संबोधनम् ।

उत्तमत्वं हरेर्भागवद्वाक्यान्तरेणापि साधयति—

॥रुद्रंसमाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः ॥

॥ब्रह्मा मासाश्रितो नित्यं नाहं कञ्चिदुपाश्रितः ॥

‘ऋष्याद्या देवानाश्रित्य वर्तन्ते’ इत्यध्याहार्यम् ।देवा इन्द्रादयः रुद्रं सदाशिवम् आश्रिताः। स च ब्रह्माणं विरिञ्चं, सच मां हरिं रमाद्वारेणाश्रितः। अहं कञ्चिदपि देवं नाश्रित इत्यर्थः।

॥अत्र सर्वदैवाश्रयत्वानन्याश्रयत्वाभ्यां परमत्वसिद्धिः ॥

सर्वोत्तमत्वज्ञानपूर्वकं स्वविहितवृत्त्याभक्त्या भगवदाराधनमेव परमो धर्मः । सर्वोत्तमत्त्वज्ञानाभावे तद्विरुद्धः सकलोऽप्यधर्म इत्यभिप्रेत्य सर्वोत्तमत्वमर्थात्साधयद्गीताश्लोकद्वयंपठति ।

॥ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ॥

॥ श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥

॥ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ॥

॥सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः॥

‘मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा ।निराशीर्निर्ममो भूत्वा युध्यत्व विगतज्वर’ इति पूर्वश्लोके मम सर्वोत्तमत्वान्मदर्पणानि सर्वाणि कर्माणि कुर्वितीत्युक्तं, तदिदं मे मतं कर्म ये मानवाः श्रद्धावन्तः ‘श्रद्धाऽऽस्तिक्यबुद्धिस्स्यादि’त्युक्तप्रकारेण अत्रोक्तमस्ति, ममात्रास्ति प्रयोजनमित्यास्तिक्यबुद्धिमन्तः अनसूयन्तो असूयादिविधुराः सन्तः अनुतिष्ठन्ति कुर्वन्ति, ते मानवाः कर्मभिः करणैःज्ञानादिद्वारा संसारान्मुच्यन्ते। किमुत ज्ञानेनेत्यपिः कैमुत्ये। अकरणे बाधकं वक्ति।ये त्विति। ये मानवाः मनुजाः असूयादिदोषवन्तः एतत्पूर्वोक्तं मे मतं मदभिमतं कर्म नानुतिष्ठत्ति, तान् सर्वज्ञानविमूढोन् सर्वज्ञेयविषयकमिथ्याज्ञानोपेतान् अत एव विवेकज्ञानविधुरान्। ‘चिती संज्ञाने’ इति धातोः। ततएवनष्टान् नरकयोग्यान् विद्धि जानीहीत्यर्थः। अत्र श्लोकद्वयेनोत्तमत्वज्ञान्यज्ञानिप्रशंसा-निन्दाभ्यां सर्वोत्तमत्वेतात्पर्यमवगम्यते। अर्थवादस्य तात्पर्यहेतुत्वात् । ‘अर्थवादोषपत्ती च लिङ्गं तात्पर्यनिर्णय’ इत्यन्यत्र भगवत्पादवचनात् ।

तत ये मे मतमनुतिष्ठन्ति नानुतिष्ठन्तीति द्वैविध्यमुक्तम् । एतदयुक्तम्, कारणाभावादित्याशङ्कापरिहाराय सत्त्वतमस्स्वभाव एव कारणमित्याह

॥ द्वौभूतसर्गौलोकेऽस्मिन् दैव आसुर एव च॥

॥विष्णुभक्तिपरो दैवो विपरीतस्तथाऽऽसुरः॥

भूतानां जीवानां सर्गौद्वावेव । तौ कौ, दैव आसुरश्च । दैवशब्दो मुक्तियोग्यसात्विकजनवाचकः । आसुरशब्दः तदयोग्यतामसजनवाचकः । दैवो विष्णुभक्तियुतो यथा, तथा आसुरो विपरीतः विष्णुद्वेषपर इत्यर्थः । यथोत्कं भाष्ये । ‘दैवीमेव संपत्तिं देवा अभिगच्छन्ति । आसुरीमेवचासुराः। नैतयोरभिभवः कदाचित् । स्वभावं एव ह्यवतिष्ठत’ इति। स्कान्दे च । ‘असुरा आसुरेणैव स्वभावेन च कर्मणेत्यादि।

अत्र विहितं सर्वं कर्म विष्णुस्मरणसहकृतमेव कर्तव्यं, न तु तद्रहितमित्यत्र प्रमाणमाह ।

स्मर्तव्यस्सततं विष्णुर्विस्मतव्यो न जातुचित्॥

सर्वे विधिनिषेधास्स्युरेतयोरेव किङ्कराः॥

स्वस्वदेहे प्रविष्टो हरिः नित्यं स्मरणीय एव, न तु विस्मर्तव्यः । यतः सर्वे विधयः निषेधाश्चएतयोः स्मरण-विस्मरणयोः क्रमात्किङ्कराः भृत्या एव । सर्वे विधयः हरिस्मरणकिङ्ककराः। सर्वनिषेधाश्च विस्मरणस्य किङ्कराः। हरिस्मरणयुक्ताः ये विधयः फलदाने समर्थाः, न केवलाः। स्वाम्यननुगृहीतानां भृत्यानां फलदाने सामर्थ्याभावात् । एवं निषेधा अपि तद्विस्मरणयुक्ता एव मुक्तिविरुद्धानर्थदाः । विस्मरणस्य निषेधानां प्रति स्वामित्वेन तदसहकृतानां फलदानासामर्थ्यात् । तत्स्मरणयुक्तवृत्रहत्यादिविकर्मणः अनर्थंप्रदत्वाभावस्य शक्रादौदृष्टत्वादिति भावः। यद्वा निषेधानां विस्मरणभृत्यत्वाद्विस्मरणवति पुंसि सर्वे निषेधा वर्तन्ते । स्वामिसहचरितत्वाद्भृत्यानामिति।

हरिभक्तिपूर्वकं कृत एव धर्मो, नान्य इत्यत्र प्रमाणमाह ।

॥धर्मो भवत्यधर्मोपि कृतो भक्तैस्तवाच्युत ॥

॥पापं भवति धर्मोऽपि यो नभक्तैः कृतो हरेः॥इति ॥

हे अच्युत तव भक्तैः प्रमादादिना कृतः अधर्मोऽपि अधर्मतया प्रतीयमानोऽपि धर्मः धर्मफलजनकः, यथा वृत्रहत्यादिः । एकादशीश्राद्धत्यागो वा । हे हरे न भक्तैःनसमासोऽयम् । अभक्तैः कृतो धर्मोऽपि धर्मतया प्रतीयमानोऽपि एकादशीश्राद्धादिः पापफलको भवति ।

विष्णुभवत्यैव कर्माधिकार इत्यभिप्रेत्य भक्तिविधायकं गीतावाक्यमाह ।

॥ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ॥

मन्मनाइति । मद्गतमना भव । मयि भक्तिमान् मद्याजी मामुद्दिश्य यष्टा भव । वद्वन्दनं च कुर्विति पार्थं प्रति वासुदेववाक्यम्।

उक्तवचसां हेतुतां प्रकटयन् गृहाश्रमिणा भक्तिपूर्वा स्मृतिः कार्येति विधत्तेभगवान् मूलकारः।

॥ नित्यं भवेच्च मन्निष्ठो बुभूषुः पुरुषस्ततः ॥

** नित्येति**। ततः उक्तरीत्या विष्णुस्मृत्यादौ मानानां विद्यमानत्वात् बभूषुःफलप्राप्तीच्छुः मुमुक्षुरिति यावत् । भू प्राप्ताविति धातोः। नित्यं प्रत्यहोरात्रं तस्मिन् विष्णौ निष्ठा भक्तिर्यस्यसः तन्निष्ठः विष्णुभक्तिमान् भवेदित्यर्थः । केचिदिदमपि प्रमाणवाक्यशेषतया व्याचक्रुः । ते पूर्वस्योत्तरस्य वाक्यस्यगीतावाक्यतां विदित्वोक्तवन्तः ।

उक्तं गृहस्थाचारं वानप्रस्थेऽतिदिशति।

॥एष नित्यस्सदाचारो गृहिणो वनिनस्तथा ॥

एषः गृहिणःआचारःशौचाचमनादिकर्मसमूहः, तथा ताद्दश एव तथा वनिनोऽपि नित्यः तियमेन कर्तव्यः । नन्विदमयुक्तम् । वनिन्यसंभाविनां पशुसंस्थादिनानाचाराणा गृहस्थे सत्त्वात् । अतोऽप्युक्तम् एष इति। सन्त्वप्यन्ये वाऽऽचारास्तथापि एष एव विष्णुस्मृत्याख्य आचारो नित्यो ध्रुवःआवश्यक इति यावत् । नान्यो मायावादिभिरुक्तइत्यर्थः । वानप्रस्थाश्रमकालस्तु। ‘गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः । अपत्यस्यैव चापत्यं तदाऽरण्यं समाविशेत् । इति त्मृत्युक्तः । तद्धर्मास्तु भार्यां पूत्रे न्यस्य सहवा आदायाग्नियुतोऽरण्ये वन्यैः पितृदेवता अतिथीश्च पूजयन् त्रिषवणः कृच्छादिभिः कालं नीत्वा शक्तित्हासे हुताशने देहं त्यजेदित्यादयः सप्तमसस्कन्धे प्रसिद्धा विस्तारभिया नेहोच्यन्ते । वानप्रस्थाश्रमः क्ली

त्याज्य इति याज्ञवल्क्यः।युगधर्माः परिग्राह्यस्सर्वत्रैव यथोचितम् । देवरेण सुनोत्पत्तिर्वानप्रस्थाश्रमग्रहः । दत्ताक्षतायाः कन्यायाः पुनर्दानं परस्य वै । महाप्रस्थानगमनं गोपशुश्च सुराग्रहः । असवर्णासु कन्यासु विवाहश्च द्विजातिषु । प्रायश्चित्तविधानं तु विप्राणां मरणान्तिकम् । संसर्गदोषःपापेषु मधुपर्के पशोर्वधः । पुत्रं दत्वेतरेषांतु पुत्रत्वेन परिग्रहः । दीर्घकालं ब्रह्मचर्यं नरमेधाश्वमेधकम् । कलौयुगे त्विमान् धर्मान्वर्ज्यानाहुर्मनीषिण इति।

   उक्ताचारान् ब्रह्मचारिषु कांञ्चित्संकोच्यातिदिशति ।

॥वैश्वदेवं बलिं दन्तधावनं चाप्यृते वटोः॥

एवमेवमपि वैश्वदेवं पितृयज्ञं होमादिकं कर्म बलिहरणं दन्तधावनं च ऋते इतरत्सर्वं शौच-स्नानाद्यारभ्य भुक्तिपर्यन्तं नित्यं वटोरपि एवमेव गृहस्थवदेव कार्यम् । एवमेवेति पुर्ववाक्येनैव संबध्यते, न तूत्तरत्रयेण । यतेर्दन्तधावनाभावशङ्का स्यादिति ज्ञेयम् । ब्रह्मचारिणो धर्मा भागवतादवगन्तव्याः। विशेषधर्मांश्च समिद्धोम इत्यग्रे निरूपयिष्यति ।

          उक्ताचारं किञ्चित्संकोचेन सन्यासिनामतिदिशति ।

॥एवमेवयतेस्वीयवित्तेन तु विना सदा॥

॥मूलमन्त्रैस्सदा स्नानं विष्णोरेव च तर्पणम्॥

यतेः कुटीचक-बहूद-हंस-परमहंसभेदेन सन्न्यासिचतुष्टयस्य स्वसंपादितेन धनेन विना, अयाचनयातत्कालोपन्नेनद्रव्येण दन्तधावना-देवपूजादि यतिः सदा कुर्यात् । मूलमन्त्रैः प्रणवाष्टाक्षरादिमूलमन्त्रैः सदा त्रिकात्लंनित्यदा स्नानम् । तैरेव मन्त्रैः विष्णोरेव प्रणवप्रतिपाद्यस्यैव तर्पणमर्घ्यादि । न तु गृहस्थानामिव पितृवस्वाद्यन्तर्याम्यनिरुद्वादीनां तर्पणमित्यर्थः । यतिशब्देन सामान्यतः प्राप्तयोः परमहंसयोः संकोचमाह।

॥विशेषो निष्क्रिययतेरजलाञ्जलिता तथा ॥

यतिचतुष्टयमध्ये निष्क्रिययतेः निष्क्रान्ताःक्रियाः होमादयो यस्मात्तस्य।

हंसस्यपरमहंसस्य विशेषोऽस्ति, तमेवाह ॥अजलाञ्जलातेति। जलाञ्जलिः ब्रह्मयज्ञादि । तदुपलक्षितपञ्चयज्ञात्रावोऽजलाञ्जलिता तथा नित्यं भवेदित्यर्थः ।

ननु निष्क्रिययतेरित्युक्तमयुक्तम् । यतीनामपि जपक्रियादिसद्भावादित्यतो नात्र क्रियानिवृत्तिरभिमतेत्याह ।

॥ तर्पणं तु हरेरेव यतेरन्यस्य चोदितम्॥

अन्यस्य बहूदकुटीचकाभ्यामन्यस्य यतेर्हंसस्य परमहंसस्य च हरेरेव प्रणवादिदेवतारूपस्य विष्णोस्तर्पणम् अर्घ्यादि । उपलक्षणमेतत् । स्नानगायत्रीजपार्चनादि च चोदितमेव विहितमेवेत्यर्थः। तर्पणं तु हरेरेव स्वाश्रमोक्तरीत्या कार्यं, न देवादित्रयस्येति वा। अयमतसमुदायार्थः। कुटीचकबहूद-हंस-परमहंसभेदेन चत्वारो यतयः। तत्र शिखा-यज्ञोपवीती त्रिदण्डः सकमण्डलुःयावज्जीवं पुत्रदत्तान्नादः कुटीचकः । त्रिदण्डः पुत्रादिवर्जितः भिक्षान्नभोक्ता बहुदः । अनयोः सन्ध्यादीनि कर्माणि सन्त्येव । एकवैणवः कौपीनादिपटैर्युतः भिक्षापात्रादिमान् हंसः ।एकदण्डःकौपीनाच्छादनो मधुकरवृत्तिः परमहंसः इत्यादि गीतातात्पर्यटीकायां स्पष्टम् ।हंसपरमहंसयोरपि गायत्री वर्तत एव । तत्त्यागं वदतां सन्ध्यागायत्री नास्तीति आशय इत्यन्यत्र तन्त्रसारसंग्रहविवरणे स्फुटमिति । अत्र यत्याश्रमे अधिकारः सर्वेषामप्यस्ति । ब्राह्मणः क्षत्रियो वाऽथवैश्यो वा प्रव्रजेद्गृहादि’ति भागवतोक्तेः। यत्तु ‘अग्निमात्मनि संस्थाप्य द्विजः प्रव्रजितो भवेदि’ति वचनं, तत्तु द्विर्जायतइति योगेन त्रिवर्णपरम् । तद्धर्मास्त्वेकादशस्कन्धे स्पष्टाः ।

एवं सन्न्यासिनामाचारानुक्त्वा इदानीं पुनः सिंहावलोकन्यायेन वटोर्धर्ममाह ।

॥समिद्धोमो वटोश्चैव स्मृत्वा विष्णुं हुताशने ॥

समिद्भिर्होमोऽग्निकार्याख्यः हुताशने यज्ञपुरुषे विष्णुं परशुरामाख्यं हरिं स्मृत्वैव चिन्तयित्वैव वटोः ब्रह्मचारिणः विशेष अचारः कार्य इत्यन्वयः।

‘ननुस्मृत्वा विष्णुं समुत्थाये त्यारभ्यविष्णोः स्मरणं विहितं, तदयुवतम् । सन्ध्यादिकर्मणामिज्यदेवतास्मरणाविनाभूतत्वेन सूर्यादिस्मरणविधानमेव युक्तम् । नानिज्यमानस्य विष्णोरित्यत आह ।

॥सर्ववर्णाश्रमैर्विष्णुरेक एवेज्यते सदा॥

सर्ववर्णिभिश्चाश्रमिभिश्च विष्णुरेक एव सदा सन्ध्यादिकालेऽपि इज्यते पूज्यते मुख्यतः । अयं भावः । सर्वकर्मणां देवता हरिरेव । कर्मपराणां सन्ध्यादिविधीनामपि विद्यात्वात्। ‘प्रभुर्हि सर्वविद्यानां परो नारायणो हरिरि’ति ऋग्भाष्योक्तेः। सन्धिकालोपास्यत्वाद्वासम्यक् ध्येयत्वाद्वा सन्ध्यापदवाच्यो हरिरेवेति ।

ननु विष्णुरेवेज्यत इत्युक्तमयुक्तम् । तन्त्रसारादौ रमादीनामपि याज्यत्वोक्तेरित्यतआह।

॥रमाब्रह्मादयस्तस्य परिवारत एव तु॥

रमाब्रह्मादयो देवाः तस्य हरेःपरिवारत एव । अङ्गदेवतात्वेनैव सेवकत्वेनेति यावत् । इज्यन्ते, न तु स्वातन्त्र्येण । विष्णोरिव प्राधान्येनेत्यर्थः । परिवारतयेति पाठे सेवकतयेत्यर्थः । ‘परिवारतया ग्राह्या अपि हेयाःप्रधानत’ इत्यन्यत्रापि भगवत्पादोक्तेः । रमादिष्वपि विष्णोरेवान्तयीमितया तन्नामकतया वा मुख्येज्यत्वमिति तात्पर्यमभिप्रेतम् ।

न च विष्णोःसर्वनामवाच्यत्वसप्रमाणकम्। ‘प्हदं न हित्वा प्रत्यूपन्त्यूर्मयो ब्रह्माणीन्द्र तव यानि वर्धने’ति श्रुतिसिद्धत्वात् । हे इन्द्र

यानि कानिचिद्ब्रह्माणि तानि सर्वाणि सर्वे वेदाः त्वां प्रति ऋृृषन्ति गच्छन्ति। तत्र दृष्टान्तः ऊर्मयो प्हदं न प्हदमिव । अत एव सर्वे वेदास्तव वर्धनात्त्वामेव वर्धयन्नि।तव स्तुतिरूपा इत्यर्थः। ‘अवस्वराति गर्गरो गोधा परिसनिष्कणत् पिङ्गा परि च निष्कणदिन्द्राय ब्रह्मोद्यतमि, ति मन्त्रवर्णान्तरं चात्र मानम् । अयं मन्त्रः कर्मनिर्णये व्याख्यातः। गर्गरः कृकलासः क्लशो वा । इन्द्राय परमार्थम् उद्यतं परमात्मप्रतिपादनाय प्रवृत्तं ब्रह्म द्वितीयैकवचनमिदम् । भगवज्ज्ञानाय प्रवृत्ता वेदा इतीममर्थमिति यावत् । अवस्वराति स्वरति गर्गरो यं शब्दं वदति स शब्दःविष्णुप्रतिपादकवेदरूप एव । एवं गोधा पञ्चनखविशेषः । यं च इन्द्रायोद्यतंब्रह्म परिचष्कणत् अवदत् । केचिद्गर्गर-गोधा-पिङ्गाद्या वाद्यविशेषाः । तेऽपि वेदाः प्रवृत्ता इति ध्वनन्तीत्याहुः । ‘ता वा एतास्सर्वा ऋृचस्सर्वे घोषाः’।‘नामानि सर्वाणि यमाविशन्ति’ ।‘इन्द्रं मित्रं वरुणमग्निमाहुः’। ‘स सर्वनामा स च सर्वकर्ता’ इत्यादिश्रुतिस्मृतयो द्रष्टव्याः। सर्वकर्मणां समर्पणं हराविति गीतातात्पर्यम् । ‘वैष्णवान्येव कर्माणि यः करोति सदा नरः । जपाऽर्चा-मार्जनादीनि स्वाश्रमौक्तानि यानि च । स तत्कर्मेति विज्ञेयो ह्यन्यदेवादिपूजनम्। कृत्वा हरावर्पयति स तु तद्योगमात्रवान्’ इति ।

विष्णोःपरिवाराः इत्युक्तार्थे हरिस्मरणपूर्वकं कर्म कार्यमित्यर्थेचैकां श्रुतिमाह—

॥ कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः ॥

॥ सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ॥

अत्यन्तं सूक्ष्मं, सर्वस्य रमादिप्रपञ्चस्य धारणपोषणकर्तारम् सूक्ष्मादप्यतिसूक्ष्मत्वादेव अज्ञेयस्वरूपम् अर्काणां प्रकाश इव प्रकाशो यस्य सः आदित्यवर्ण तममितप्रभम् एतादृशगुणकं योऽधिकारी अनुस्मरेत् स तमसः— तमोनाम्न्याः प्रकृतेः बन्धात् परस्तात् दूरे भवति। मुक्तो जायते इत्यर्थः। तमसः —अज्ञानात् मृत्योः प्रकृतेर्वा परस्तात् गतं एतद्बाधरहितं विष्णुं यः सदा कर्मकरणसमयेषु स्मरेत्, सः विष्णुभक्तः तमाप्नोतीति

पूर्वेण वा संबन्धः । अत्र ये येन पोषणीयाः शाश्याश्च, ते तत्परिवाराः इति सामान्यव्याप्त्या रमादीनां भगवत्परिवारत्वं सिद्ध्यतीति बोध्यम् ।

‘परिवारतये’ त्यनेन अर्थादुक्ते सर्वोत्तमत्वे तैत्तरीयश्रुतिं प्रमाणतयोदाहरति ।

॥वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसस्तु पारे॥

॥सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन्यदास्ते॥

॥धाता पुरस्ताद्यमुदाजहार शक्रः प्रविद्वान् प्रदिशश्चतस्त्रः॥

॥तमेवं विद्वानंमृत इह भवति नान्यः पन्था अयनाय विद्यते ॥ इति॥

अत्र पूर्वं स्वेन पुरुषसूक्तोक्तमाहात्म्यसत्यत्वे स्वयं प्रत्यक्षं प्रमाणमाह वेदपुरुषः–वेदाऽहमिति । यः धीरः नारायणः उक्तरीत्या सर्वाणि ब्रह्माण्डादि चेतनाऽचेतनवस्तूनि विचित्य निर्माय तेषां रूपाणि शुक्लादिरूपाणि नामानि ब्रह्मादिनामधेयानि च कृत्वा अभिवदन्तन्नामोच्चारणादिरूपाभिलपनादानादिव्यवहारं कुर्वन् आस्ते वर्तते । तमेवं महान्तं मुक्तामुक्ते—शत्वादिमाहात्म्योपेतं तमसः प्रकृतेः पारे तु एव परस्तादेव वर्तमानं तद्बाधरहितम् आदित्यवर्णम् अभितभानुप्रभं पुरुषं नारायणमहं वेद । अपरोक्षतो जानामि । अन्येऽप्येताद्दशं रूपं दृष्ट्वा उपदिशन्तीत्याह धातेति । धाता हिरण्यगर्भः पुरस्तात् पूर्वम् आदिकाले यं पुरुषम्उत् उत्कृष्टत्वेन आजहार–स्वयं सम्यक् दृष्ट्वा व्याजहार–उपदिदेश ।तथा प्रदिशः—प्रकर्षेणोपदेशकः चतन्नःअनिरुद्धादिचतुर्मूर्तीः प्रविद्वान् प्रकर्षेण वेत्ता शक्रः देवेन्द्रोऽपि पुरुषं प्रकृष्टत्वेन व्याजहार, तमहं वेदेति संबन्धः । उक्तमूर्तिध्यानफलमाह–तमेवमिति । तं पुरुषम् एवम्–उत्तमत्वादिमहिमविशिष्टं विद्वान् श्रवण–मनन–ध्यानपूर्वकं यःअपरोक्षतो जानाति, इह संसारे स्थितः पुमान् ज्ञानसंपत्त्युत्तरकालीयप्रसादद्वारा मुक्तो भवति । नान्यः–ज्ञानादन्यः पन्थाः – कर्मादिःअयनाय– मोक्षाय न विद्यते । नास्त्येवेत्यर्थः । अत्र प्रमाणविचारस्त्वन्यत्र ।

इदानीं ‘द्वाविमौ पुरुषौ’ इत्यादीनां ‘कविं पुराणम्’ इत्यादीनां च

प्रमाणवाक्यतां सूचयन्स्वकृतग्रन्थस्य नाम आदधानः उपसंहरति—

॥आनन्दतीर्थमुनिना व्यासवाक्यसप्तुध्दृतिः॥

॥सदाचारन्यविषये कृता संक्षेपतश्शुभा॥

आनन्दरूपस्य हरेः तीर्थं– शास्त्रं नि ( र्म्य ) र्मिततया यस्यास्ति स आनन्दतीर्थः, स चासौमुनिश्च तेन मध्वमुनिना सदा क्रियमाणस्य आचारस्य विषये गीतादिरूपव्यासवाक्यानां समुध्दृतिः, उपलक्षणमेतत् । वेदवाक्यसमुध्दृतिश्च संक्षेपतः—संकोचतः कृता इत्यनेन अस्य ग्रन्थस्य ‘सदाचारस्मृति नाम कृतं भवति । सतामैहिकामुष्मिकश्रेयोहेतुः आचारः तद्विधायकग्रन्थः स्मृतिरिति सदाचारस्मृतिशब्दार्थोद्रष्टव्यः। ‘दृष्टकर्तृक्रप्रसिद्धि को ग्रन्थः स्मृतिरिति मीमांससकोक्तेः।

ननु पुरातनानां सदाचारविधायकानां स्मृतीनां सत्त्वात् किमनयाउध्दृत्येत्यतः प्रयोजनमाह —शुभेति। समस्ताभिलषितार्थानभिधानात् अन्याः स्मृतीस्सतीरप्यसतीरिव मन्त्रानेन विष्णुस्मरणाद्यभिलषितप्रतिपादनपटुत्वात् शुभा समुध्दृतिः कृतेति भावः ।

अथ पूरितमनोरथो निरस्ताविद्याततिराचार्यतरणिरन्ते शिष्यशिक्षायै अनुष्ठितं स्तुतिरूपं मङ्गलमन्ते निबध्नाति ।

॥ अशेषकल्याणगुणनित्यानुभवतत्तनुः ।

॥ अशेषदोषरहितः प्रीयतां पुरुषोत्तमः ।

निखिलङ्मगलगुणानां नित्यानुभवएवसती तदुर्यस्य स तथा। तत एवाशेषैः पारतन्त्र्यादिभिर्दोषैःरहितः पुरुषेभ्यो रमाविरिञ्चादिभ्यः उत्तमः हरिः प्रीयतां प्रसन्नो भवत्विति सकलमतिमङ्गलम् ।

यो लीलया सन्तनुते हि विश्वं तत्पालयत्यात्मनि विष्णुनामा॥

लयंनयत्याशु च पूर्णकर्ता शिवं तनोत्वाशुहरिर्ममासौ॥ ॥

अभिधातुं न शक्यन्ते आनन्त्यात्सर्वशः क्रियाः ।

बालव्युत्पत्तयेऽस्माभिस्संक्षिप्योक्ता यथामति ॥ २ ॥

प्रतारकैराद्दतमत्र किञ्चिन्मया तु निर्मूलतया तदुज्झितम् ।

ऊनोक्तितातो न हि तेन काचित्खपुष्पहीनाऽपचितिर्न हीयते ॥ ३ ॥

श्रीमदाचार्यवाक्स्तोममिश्रितातु मदुक्तयः ।

रथ्योदानीव गङ्गोदे भूयासुर्भूसुराद्दताः॥ ४ ॥

विचार्य शुद्धं कुरुत व्यत्यस्तचंत्वत्र यद्भवेत् ।

अशुद्धमथवाऽन्यच्च सन्तो मयि दयापराः ॥ ५ ॥

प्रीतोऽसि मापते व्यास यदि केनापि कर्मणा ।

कुरु मां मध्वशास्त्रस्य सदाऽऽवृत्तिरतं हरे ॥ ६ ॥

वेदव्यासस्य सत्कण्ठे गुर्वाराध्यपदस्सदा ।

भासतां रत्नमालाभस्त्वयमान्हिककौस्तुभः ॥ ७ ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्यसदाचारस्मृतिग्रन्थस्य विवरणे श्रीमद्यादवाचार्यपूज्यपादशिष्येण श्रीनिवासेन विरचिते आन्हिकेकौस्तुभे ब्राह्मणकृत्यजातं समाप्तम् ॥

इत्यशेषमङ्गलम् ।

श्रीकृष्णार्पणमस्तु ।

<MISSING_FIG href="../books_images/U-IMG-1697642744Screenshot2023-10-18205514.png"/>

]