विस्तारः (द्रष्टुं नोद्यम्)
Searchable Electronic Edition of the Smṛtyarthasāra by Śrīdhara, transcribed, formatted, and color-coded by Patrick Olivelle, is licensed under a Creative Commons Attribution 4.0 International License.
Last updated: July 2023
Patrick Olivelle (jpo@austin.utexas.edu)
University of Texas at Austin
Śrīdhara
Smṛtyarthasāra
Edited by Hari Nārāyaṇa Āpṭe
Ānandāśrama Sanskrit Series, No. 70
Pune, 1912
P.V. Kane, History of Dharmaśāstra, I, p. 727, gives the date 1150 – 1200 CE.
Transcribed by Patrick Olivelle
February 2023
0
** आह्निकम्**
** आचारप्रकरणम्**
**संस्काराः ३ **
**उपनयनम् ३ **
** यज्ञोपवीतविधिः ४ **
** अनध्यायाः ८ **
** उत्सर्जनम् ११ **
**ब्रह्मचारिप्रकरणम् ११ **
**विवाहः ११ **
** गोत्रप्रवरनिर्णयः १४ **
आह्निकम् १८
** मूत्रपुरीषोत्सर्गविधिः १८**
** शौचविधिः १८**
** मूत्रे १९**
** पुरीषे १९**
** आचमनविधिः २०**
** आचमनिमित्तानि २०**
** आचमनापवादः २३**
** दन्तधावनविधिः २४**
** स्नानविधिः २५**
** मध्याह्नस्नाने विशिषेअः २८**
** ब्रह्मयज्ञतर्पणविधिः २९**
** अभ्यङ्गस्नानविधिः ३२**
** सन्ध्याविधिः ३३**
** होमविधिः ३४**
** समिधः ३६**
** दर्भविधिः ३६**
** बर्हिः ३७**
** इध्मः ३८**
** स्रुगादिः ३८**
** देवतार्चनविधिः ४४**
** माध्याह्निकम् ४५**
** ब्रह्मयज्ञः ४६**
** देवयज्ञः ४६**
** बलिहरणम् ४७**
** पितृयज्ञः ४७**
** श्राद्धप्रकरणम्**
** श्राद्धविधिः ४८**
** श्राद्धकालः ४८**
** भोज्याः ब्राह्मणाः ४८**
** निषिद्धाः ४९**
** अमावास्यापार्वणश्राद्धम् ४९**
** पित्र्यम् ५१**
** हविष्याणि ५२**
** विषयाणि ५३**
** वृद्धिश्राद्धम् ५६**
** एकोद्दिष्टम् ५६**
** सपिण्डीकरणम् ५७**
** तत्र विशेषः ५८**
** श्राद्धकालविधिः ६१**
** खण्डतिथिषु ६१**
** सङ्क्रान्तिषु ६२**
** पर्वनिर्णयः ६३**
** एकादशीनिर्णयः ६४**
** तिथ्यन्तरनिर्णयः ६६**
** मलमासे कार्याकार्यनिर्णयः ६७**
** भक्ष्याभक्ष्यविधिः ६८**
** भोजनविधिः ६८**
** आह्निकम् समाप्तम्**
** द्रव्यशुद्धिः ७०**
** शरीरशुद्धिः ७६**
** आशौचविधिः ७९**
** नारायणबलिः ८५**
** सर्पहते विशेषः ८६**
** श्राद्धक्रमः ९५**
** सन्न्यासविधिः ९६**
** परिव्राजकस्य संस्कारविधिः ९८**
** सन्न्यासिनां दहनविधिः ९८**
** प्रायश्चित्तानि**
** महापातकिनः १००**
** अनुपातकानि १०१**
** सुरापानसमानि १०१**
** सुवर्णस्तेयसमानि १०१**
** गुरुतल्पसमानि १०१**
** उपपातकानि १०१**
** जातिभ्रंशकराणि १०३**
** सङ्करीकरणानि १०३**
** अपात्रीकरणानि १०३**
** मलिनीकरणानि १०३**
** महापातकप्रायश्चित्तम् १०३**
** निदेशः १०६**
** सुरापानप्रायश्चित्तम् १०६**
** मद्यपानप्रायश्चित्तम् १०७**
** सुवर्णस्तेयप्रायश्चित्तम् १०८**
** गुरुतल्पप्रायश्चित्तम् १०९**
** अतिपातकानुपपातकेषु १११**
** महापातकिसंसर्गिप्रायश्चित्तम् १११**
** उपपातकप्रायश्चित्तानि ११२**
** (गोवधप्रायश्चित्तम्)**
** व्रात्यादौ प्रायश्चित्तम् ११४**
** स्तेये प्रायश्चित्तम् ११४**
** ऋणानपाकरणे ११५**
** अपण्यानां विक्रये ११५**
** परिवेदनम् ११६**
** पारदार्ये ११६**
** स्त्रीशूद्रविट्क्षत्रवधेषु ११८**
** स्त्रीवधे ११९**
** अन्यहिंसायाम् ११९**
** वृक्षच्छेदनप्रायश्चित्तम् १२१**
** श्वमार्जारादिदष्टेषु १२१**
** ब्रह्मलोपे प्रायश्चित्तम् १२२**
** अवकीर्णिप्रायश्चित्तम् १२३**
** मिथ्याभिशंसने १२४**
** रजस्वलानां परस्परस्पर्शने १२४**
** सुतानां विक्रये १२७**
** अयाज्ययाजने १२७**
** अग्नित्यागे १२८**
** असत्प्रतिग्रहे १३०**
** अभक्ष्यभक्षणे १३०**
** जातिदुष्टेषु १३१**
** अशुचिसंस्पृष्टभक्षणे १३२**
** अशुचिद्रव्यसंस्पृष्टभक्षणे १३३**
** भावदुष्टभक्षणे १३५**
** कालदुष्टभक्षणे १३५**
** गुणदुष्टशुक्तादिभक्षणे १३५**
** हस्तदानादिक्रियादुषाभोज्यभक्षणे १३६**
** श्राद्धभोजने १३६**
** परिग्रहाचाशुचिदुष्टभोजने १३८**
** जातमृताशौचान्नभोजने १३९**
** जातिभ्रंशकरादिप्रायश्चित्तम् १४०**
** प्रकीर्णप्रायश्चित्तम् १४०**
** रहस्यप्रायश्चित्तम् १४४**
** (ब्रह्महत्यादि)**
** सुरापाने प्रायश्चित्तम् १४५**
** सुवर्णस्तेय प्रायश्चित्तम् १४५**
** गुरुतल्पे प्रायश्चित्तम् १४६**
** कृच्छ्राणां लक्षणम् १४६**
** चान्द्रायणसाधरानधर्माः १४८**
** प्रत्याम्नायः १४९**
** कृच्छ्रस्थाने तीर्थप्रत्याम्नायः १४९**
** महापातकेषु द्वादशार्षिकादिव्रतस्थानेषु **
** प्राजापत्यादयस् तत्प्रत्याम्नायाश् १५५**
** सर्वप्रायश्चित्तानि १५५**
ॐ तत्सद्ब्रह्मणे नमः
श्रीधराचार्यकृतः
स्मृत्यर्थसारः
**[१] **गणेशब्रह्मविष्ण्वीशाम्बाङ्योमा लोकपान् गुहम् ।
दुर्गां मन्वादिकान् वन्दे व्याख्यातॄंश् च सदा गुरून् ॥ १ ॥
श्रीकण्ठश्रीकराचार्यैः श्रुतिस्मृतिपुराणगैः ।
स्मृतिशास्त्रेष्व् अनेकेषु विप्रकीर्णेष्व् अनेकधा ॥ २ ॥
अनुष्ठात्रुपकारार्थं स्मृतिछिद्रं प्रयत्नतः ।
पुराणन्यायमीमांसासाङ्गवेदैः प्रपूरितम् ॥ ३ ॥
कामधेनौ प्रदीप्ते ऽब्धौ कल्पवृक्षलतासु च ।
शम्भुद्रविडकेदारलोल्लटाद्यैश् च भाषितम् ॥ ४ ॥
मन्वाद्यनेकस्मृतिषु व्याख्यातृप्रतिपादितम् ।
स्मृत्यर्थसारं वक्ष्यामि सुखानुष्ठानसिद्धये ॥ ५ ॥
प्राची दिशाम् अनुक्तौ स्याद् उदीचीशानदिक् तथा ।
तिष्ठत्त्वप्रह्वतानुक्तावासीनत्वं च कर्मसु ॥ ६ ॥
कर्त्रङ्गाणाम् अनुक्तौ तु दक्षिणाङ्गं भवेत् तदा ।
कुत्सिते वामहस्तः स्याद् दक्षिणः स्याद् अकुत्सिते ॥ ७ ॥
यज्ञोपवीतिना कार्यं सर्वं कर्म प्रदक्षिणम् ।
मनःप्रसादात् सत्योक्त्या तपसा स्नानकर्मणा ॥ ८ ॥
आचान्त्या चात्मनः शुद्धिं कृत्वा कर्म समाचरेत् ।
कर्मायथाकृतं ज्ञात्वा तावद् एव पुनश् चरेत् ॥ ९ ॥
प्रधानस्याक्रियायां तु साङ्गं तत् क्रियते पुनः ।
तदङ्गाकरणे कुर्यात् प्रायश्चित्तं न कर्म तत् ॥ १० ॥
प्रभुः प्रथमकल्पे तु यो ऽनुकल्पेन वर्तते ।
स नाप्नोति फलं तस्य परत्रेति श्रुतिः स्मृतिः ॥ ११ ॥
**[२] **कर्मणा मनसा वाचा यत्नाद् धर्मं समाचरेत् ।
अस्वर्ग्यं लोकविद्विष्टं धर्मम् अप्य् आचरेन् न तु ॥ १२ ॥
बह्व् अल्पं वा स्वगृह्योक्तं यस्य कर्म प्रचोदितम् ।
तस्य तावति शास्त्रार्थे कृते सर्वं कृतं भवेत् ॥ १३ ॥
श्रौतेषु सर्वशाखोक्तं सर्वस्यैव यथोचितम् ।
स्मार्तं साधारणं तेषु ग्राह्यं श्रौतेषु कर्मसु ॥ १४ ॥
समयाचरिता धर्मा जातिदेशकुलोद्भवाः ।
ग्रामाचाराः परिग्राह्या ये च विध्यविरोधिनः ॥ १५ ॥
युगधर्माः परिग्राह्याः सर्वत्रैव यथोचितम् ।
यत् कृते दशभिर् वर्षैस् त्रेतायां हायनेन तत् ॥ १६ ॥
द्वापरे तच् च मासेन अहोरात्रेण तत् कलौ ।
देवरेण सुतोत्पत्तिर् वानप्रस्थाश्रमग्रहः ॥ १७ ॥
दत्ताक्षतायाः कन्यायाः पुनर् दानं परस्य च ।
समुद्रयात्रास्वीकारः कमण्डलुविधारणम् ॥ १८ ॥
महाप्रस्थानगमनं गोपशुश् च सुराग्रहः ।
अग्निहोत्रहवण्याश् च लेहो लीढापरिग्रहः ॥ १९ ॥
असवर्णासु कन्यासु विवाहश् च द्विजातिषु ।
वृत्तं स्वाध्यायसापेक्षम् अघसङ्कोचनं तथा ॥ २० ॥
अस्थिसञ्चयनाद् ऊर्ध्वम् अङ्गस्पर्शनम् एव च ।
प्रायश्चित्तविधानं च विप्राणां मरणान्तिकम् ॥ २१ ॥
संसर्गदोषः पापेषु मधुपर्के पशोर् वधः ।
दत्तौरसेतरे वा तु पुत्रत्वेन परिग्रहः ॥ २२ ॥
सत्रदीक्षा च स्तेयान्यमहापातकिनिष्कृतिः ।
प्रतिमाभ्यर्चनार्थाय सङ्कल्पश् च सधर्मकः ॥ २३ ॥
सवर्णान्याङ्गनादुष्टैः संसर्गः शोधितैर् अपि ।
शामित्रं चैव विप्राणां सोमविक्रयणं तथा ॥ २४ ॥
दीर्घकालं ब्रह्मचर्यं नरमेधाश्वमेधकौ ।
कलौ युगे त्व् इमान् धर्मान् वर्ज्यान् आहुर् मनीषिणः ॥ २५ ॥
[३] विप्रक्षत्रियविट्शूद्राश् चत्वारो वर्णाः । तत्र विप्रक्षत्रियविशो द्विजास् त्रिजाश् च । तेषां मातुः प्रथमं जन्म । उपनयनाद् द्वितीयं जन्म । तृतीयं यज्ञदीक्षायाम् उत्तमं जन्म । स्त्रीणां विवाह उपनयनस्थाने । द्विजानां गर्भाधानादिकाः प्रेतेष्ट्यन्ताः क्रिया मन्त्रतः कार्याः ।
तत्र संस्काराः —
गर्भाधानपुंसवनानवलोभनसीमन्तोन्नयनजातकर्मनामकरणनिष्क्रमणान्न-प्राशनचौलोपनयनसावित्रीव्रतवेदमहाव्रतारण्यव्रतानि गोदानिकस्नातकविवाहाश् चेत्य् अवश्यकाः षोडश प्रधानाः संस्काराः । तत्रर्तौ गर्भाधानं कार्यम् । रजःप्रभृतिषोडशरात्रान्त ऋतुकालः । गर्भचलनात् पुरा तृतीये चतुर्थे मासे वा पुंसवनं कार्यम् । अनवलोभनं चतुर्थे । षष्ठे ऽष्टमे वा सीमन्तोन्नयनम् । जाते पुत्रे पिता स्नात्वा रात्रौ सन्ध्ययोर् ग्रहणे वा वृद्धिश्राद्धं हिरण्येन कृत्वा जातकर्मदानादि दुरितक्षयाय प्रजापतिप्रीत्यै च कुर्यात् । जाताशौचान्तर् मध्ये च जाते जातकर्मादि कुर्यात् । मृताशौचमध्ये जाते तु तदाशौचान्ते वा कुर्यात् । नामकरणं जातकर्मान्तरं वा द्वादशे ऽहनि वान्यस्मिञ् शुभे ऽह्नि वा कुर्यात् । निष्क्रमणं चन्द्रदर्शनं सूर्यदर्शनं देवनमस्कारं वा द्वादशे ऽहनि तृतीये चतुर्थे मासे वा कुर्यात् । अन्नप्राशनं षष्ठे ऽष्टमे वा दन्ते जाते कार्यम् । चौलं प्रथमे वर्षे तृतीये वा कार्यं बहुमतत्वाद् यथाकुलधर्मं वा । एते संस्कारा बीजगर्भस्य दुरितक्षयाय यथास्वाचारं कार्याः । स्त्रीणाम् अहोमकास् तूष्णीं स्युः । विवाहस् तु समन्त्रकः । एते कालातिक्रमे व्याहृतिहोमं कृत्वा कार्याः । एतेष्व् एकैकलोपे पादकृच्छ्रः कार्यः । चौले त्व् अर्धकृच्छ्रः । मत्या लोपे ऽनापदि च द्विगुणः । उपनयनात् प्राग् बाला उच्छिष्टादाव् अप्रयता न स्युः । कामचारकामवाद[काम]भक्षाः स्युर् महापातकवर्जम् । तेषां चण्डालादिस्पर्शे सचैलं स्नानम् । प्राग् अन्नप्राशनाद् अभ्युक्षणम् । प्राक् चौलाद् आचमनम् । पश्चात् स्नानम् इत्य् एके । पित्रोः स्वधानिनयनाद् ऋते मन्त्रान् न ब्रूयुः ।
अथोपनयनम् —
उपनयनं गर्भप्रभृति जन्मप्रभृति वाष्टमे ऽब्द एकादशे द्वादशे विप्रादीनां क्रमात् कार्यम् । गुरुशुक्रादिशुभग्रहबलालाभे सति पञ्चमाब्दाद् आरभ्या षोडशाद् आ द्वाविंशाद् आ चतुर्विंशाद् विप्रादीनां क्रमात् कार्यम् । अत ऊर्ध्वं सावित्रीपतिता व्रात्याः स्युः । तेषाम् अचीर्णप्रायश्चि**[४]**त्तानाम् उपनयनाध्यापनयाजनविवाहादिकं न कार्यम् । व्रात्यानां गुरु प्रायश्चित्तं वक्ष्यते ।
षण्ढान्धबधिरस्तब्धजडगद्गदपङ्गुषु ।
कुब्जवामनरोगार्तशुष्काङ्गविकलाङ्गिषु ॥
मत्तोन्मत्तेषु मूकेषु शयनस्थे निरिन्द्रिये ।
ध्वस्तपुंस्त्वे ऽपि चैतेषु संस्काराः स्युर् यथोचितम् ॥
मूकोन्मत्तौ न संस्कार्याव् इत्य् एके । कर्मस्व् अनधिकारात् पातित्यं नास्ति । तदपत्यं संस्कार्यं “ब्राह्मण्यां ब्राह्मणेनोत्पन्नो ब्राह्मण एव” इति श्रुतेः । अन्ये संस्कार्या इत्य् आहुः । होमं तावद् आचार्यः करोति । उपनयनं च विधिनाचार्यसमीपनयनं वाग्निसमीपनयनं वा सावित्रीवाचनं वा । अन्यद् अङ्गं यथाशक्ति कार्यम् । विवाहश् च कन्यास्वीकारो ऽन्यद् अङ्गम् इति ।
औरसः क्षेत्रजश् चैतौ संस्कार्यौ भागहारिणौ ।
औरसः पुत्रिकापुत्रः क्षेत्रजो गूढजस् तथा ॥
कानीनश् च पुनर्भूजो दत्तः क्रीतश् कृत्रिमः ।
दत्तात्मा च सहोढाजस् त्व् अपविद्धसुतस् ततः ॥
पिण्डदो ऽंशहरस् तेषां पूर्वाभावे परः परः ।
एते द्वादश पुत्राश् च संस्कार्याः स्युर् द्विजातिषु ॥
केचिद् आहुर् द्विजैर् जातौ संस्कार्यौ कुण्डगोलकौ ।
अमृते च मृते पत्यौ जारजौ कुण्डगोलकौ ॥
अथ यज्ञोपवीतविधिः —
कार्पासक्षौमगोवालशणवल्कतृणादिकम् ।
यथासम्भवतो धर्यम् उपवीतं द्विजातिभिः ॥
शुचौ देशे शुचिः सूत्रं संहताङ्गुलिमूलके ।
आलेख्य षण्णवत्या तत् त्रिगुणीकृत्य यत्नतः ॥
अब्लिङ्गकैस् त्रिभिः सम्यक् प्रक्षाल्योर्धववृतं तु तत् ।
अप्रदक्षिणम् आवृत्य सावित्र्या त्रिगुणीकृतम् ॥
अथ प्रदक्षिणावृत्तं समं स्यान् नवसूत्रकम् ।
त्रिर् आवेष्ट्य दृढं बद्ध्वा हरिब्रह्मेश्वरान् नमेत् ॥
[५] “यज्ञोपवीतं परमं पवित्रम्” [पार्ग् २.२.१०] इत्य् मन्त्रेण धारयेत् ।
सूत्रं सलोमकं चेत् स्यात् ततः कृत्वा विलोमकम् ॥
सावित्र्या दशकृत्वो ऽद्भिर् मन्त्रिताब्बिस् तद् उत्क्षिपेत् ।
विच्छिन्नं वाप्य् अधो यातं भुक्त्वा निर्मितम् उत्सृजेत् ॥
यद् वा —
पृष्ठवंशे च नाभ्यां वा धृतं यद् विन्दते कटिम् ।
तद् धार्यम् उपवीतं स्यान् नातिलम्बं न चोच्छ्रितम् ॥
स्तनाद् ऊर्ध्वम् अधो नाभेर् न धार्यं तत् कथञ्चन ।
ब्रह्मचारिण एकं स्यात् स्नातकस्य बहूनि च ॥
अहतं यन्त्रनिर्मुक्तम् उक्तं वासः स्वयम्भुवा ।
तृतीयम् उत्तरीयं वा वस्त्राभावे तद् इष्यते ॥
ब्रह्मसूत्रे ऽपसव्ये ऽंसे स्थिते यज्ञोपवीतिता ।
प्राचीनावीतिता सव्ये कण्ठस्थे तु निवीतिता ॥
वस्त्रं यज्ञोपवीतार्थे त्रिवृत्सूत्रं च कर्मसु ।
कुशमुञ्जवालतन्तुरज्जुर् वा सर्वजातिषु ॥
** इति यज्ञोपवीतिविधिः ।**
कार्ष्णरौरवबास्तानि विप्रादेर् अजिनानि तु ।
अहतं वस्त्रयुग्मं तु श्वेतं वस्त्रम् अथापि वा ॥
प्रवर्षिग्रन्थिभिर् मौञ्जी त्रिवृत् स्याद् दक्षिणावृता ।
मुञ्जाभावे तु कर्तव्या कुशाश्मन्तकबल्वजैः ॥
पालाशाद्यास् तु सर्वेषां दण्डा याज्ञिकवृक्षजाः ।
पालाशबैल्वप्लाक्षास् ते वटवेतसखादिराः ॥
वैणवोदुम्बराश्वत्थाः क्रमाद् विप्रादिषु स्मृताः ।
ते केशभालनासान्तप्रमाणाश् च क्रमाद् द्विजैः ॥
धार्याः श्लक्ष्णाः सदा धार्यं कौपीनं कटिसूत्रकम् ।
कौपीनम् अहतं धार्यं खण्डं वा वस्त्रपार्श्वयुक् ॥
यज्ञोपवीतम् अजिनं मौञ्जीं दण्डं च धारयेत् ।
नष्टे भ्रष्टे नवं मन्त्राद् धृत्वा भ्रष्टं जले क्षिपेत् ॥
[६]
उपनयनानन्तरं त्रिरात्रं द्वादशरात्रं वर्षं वाक्षारलवणाश्य् अधःशायी ब्रह्मचार्य् उपनयनव्रतं चरेत् । सर्वत्र व्रतान्ते नवानि यज्ञोपवीतानि धृत्वा पूर्वाणि त्यजेत् । वस्त्राणां त्यागानियमः । नित्यं स्वाध्यायाग्निकार्यब्रह्मयज्ञतर्पणानि कुर्वीत । अनिन्द्ये विप्रगेहे भैक्ष्यं गुर्वनुज्ञया चरन् भोजनविधिना भुञ्जानो द्वादशाब्दं पञ्चाब्दं वेदग्रहणान्तं वा ब्रह्मचारी व्रतं चरेत् । गुरुशुश्रूषां छन्दसां साधनार्थं कुर्यात् । उपाकर्मान्तं सर्वेषां वेदाब्दव्रतम् । तत्र स्त्रीमधुमांसोच्छिष्टशुक्तपर्युषितताम्बूल-दन्तधावनावसक्थिकादिवास्वापच्छत्रपादुकागन्धमाल्योद्वर्तनानुलेपनाञ्जनजलक्रीडा-द्यूतनृत्यगीतवाद्यालापाश्लीलपरिवादादीन् आ समावर्तनाद् वर्जयेत् । तद् एकापोह्ये व्याधौ मधुमांसभक्षणे गुरूच्छिष्टभक्षणम् । श्राद्धे तु वर्ज्यम् एव । उपनयन-व्रतानन्तरं सावित्रीव्रतम् उपाकर्मान्तम् आरण्यकव्रतानि च तथैव । उपाकरणम् ओषधीजनने सति श्रावण्यां पौर्णमास्यां कार्यम् । श्रावणमासस्य श्रवणे वा पञ्चम्यां हस्ते वा पञ्चमीहस्तयोगे वा कार्यम् । भाद्रपदस्य पौर्णमास्यां वा श्रवणे वा हस्ते वाषाढ्यां पौर्णमास्यां वा यथास्वाचारं कार्यम् । श्रवण आदौ घटिकाचतुष्टयम् अभिजिन्नक्षत्रांशं वर्ज्यम् । तिथिगण्डे सति उदयव्यापिनी प्रयोगपर्याप्ता तिथिर् ऊपाकरणे ग्राह्या । श्रवणे खण्डे सति धनिष्ठासंयुक्तं प्रयोगपर्याप्तं ग्राह्यं नोत्तराषाढायुतम् । हस्तादिष्व् अन्यनक्षत्रेषु शुक्लपक्ष उदयव्यापि कृष्णपक्षे ऽस्तमयव्यापि प्रयोगपर्याप्तं ग्राह्यम् । सूतकादिविघ्नसम्भवे चौषध्युत्पत्त्यभावे च श्रावणभाद्रपदयोः कस्मिंश्चिद् दिने ग्रहणसङ्क्रान्तिवर्जिते कार्यम् । कर्मणो न लोपो नोत्कर्षः । मौञ्जीयज्ञोपवीतादि नवं दद्याद् धारयेच् च । कटिसूत्रं नवं वस्त्रं तथैव । उपनयनाद् उपाकर्मान्तं सावित्रीव्रतं तत्सम्पूर्त्यर्थं विप्रसम्बन्धिबान्धवभोजनं शक्त्या कार्यम् । ततो वेदाब्दव्रतं ततश् चारण्यकव्रतानि प्रतिव्रतं वपनं च । व्रतान्ते भोजने भैक्ष्यम् आहार्यम् । एतेषु व्रतेषु लोपे तारतम्येन त्रीन् षड् वा द्वादश वा प्राजापत्यांश् चरित्वा पुनश् च व्रतं प्रारभेत । ततो ऽनन्तरं वोदगयने वा शुक्लपक्षे शुभे ऽहनि स्वाध्यायं प्रारभेत । पूर्वाह्णे गणेशं सरस्वतीम् इष्टदेवं च गुरुं गुरूत्तमं च सम्पूज्य ब्रह्मचारिणो विप्रसुवासिनीर् अभ्यर्च्याशिषो गृहीत्वा ब्रह्मयज्ञवद् **[७] **दर्भान् धारयमाणाः प्रणवव्याहृतिसावित्रीर् उक्त्वा प्रणवपूर्वं स्वाध्यायं प्रारभ्य किञ्चिद् अधीत्य प्रणवेन समाप्य “विरामो ऽस्तु” इत्य् उक्त्वा भूमिं स्पृष्ट्वा गुरुं वृद्धान् नमेयुः । ततो ऽपरेद्युप्रभृति गणेशादीन् नत्वा प्रणवेण प्रारम्भं समाप्तिं च कुर्युः । जात्याचारसंशये नाध्याप्याः । ब्रह्मचारी सन्ध्याम् उपास्याग्निकार्यं कृत्वा गुरूपसङ्ग्रहणं वृद्धतरेष्व् अभिवादनं वृद्धेषु नमस्कारं कुर्यात् । उपसङ्ग्रहणं नाम “अमुकगोत्रो देवदत्तशर्माहं भो अभिवादये” इत्य् उक्त्वा कर्णौ स्पृष्ट्वा दक्षिणोत्तरपाणिभ्यां दक्षिणेन पाणिना गुरोर् दक्षिणपादं सव्येन सव्यं गृहीत्वा शिरोऽवनमनम् । अभिवादने पादसङ्ग्रहणं नास्ति । पादस्पर्शणं काय न वा (?) । “आयुष्मान् भव सौम्य देवदत्त” इति प्लुतान्तम् उक्त्वा “अमुकशर्मन्न्” इति प्रत्यभिवादः कार्यः । “आयुष्मान् भव सौम्य” इति वा प्रत्यभिवादः कार्यः । अथ गुरवो माता स्तन्यदात्री च पिता पितामहादयो माता मातामहादयश् चान्नदाता भयत्राताचार्यश् चोपनेता मन्त्रविद्योपदेष्टा वा तेषां पत्न्यश् चोपसङ्ग्राह्याः समावृत्तेन । बाले समवयस्के वाध्यापके सति गुरुवच् चरेत् । मातुलाश् च पितृव्याश् च श्वशुराश् च मातृष्वसारः पितृष्वसारो यवीयांसो ऽपि प्रत्युत्थायाभिवाद्याः । उपाध्यायर्त्विजो ज्येष्ठभ्रातरश् च सर्वेषां पत्न्यश् चैवं मातृष्वसा पितृष्वसा च सवर्णा भ्रातृभार्या च नित्यम् अभिवाद्याः ।
विप्रोष्य तूपसङ्ग्राह्या जातिसम्बन्धियोषितः ।
विप्रोष्य विप्रं कुशलं पृच्छेन् नृपम् अनामयम् ॥
वैश्यं क्षेमं समागम्य शूद्रम् आरोग्यम् एव च ।
न वाच्यो दीक्षितो नाम्ना यवीयान् अपि यो भवेत् ॥
पूज्यैस् तम् अभिभाषेत भोभवत्कर्मनामभिः ।
परपत्नीम् असंवृद्धां भगिन्य् अम्बेति भाषयेत् ॥
त्रिवर्षपूर्वः श्रोत्रियो ऽभिवाद्यः । त्रिवर्षात् सम्बन्धिनश् च स्वल्पेनापि स्वयोनिजा अन्ये च ज्ञानवृद्धाः सदाचाराश् चाभिवाद्याः ।
उदक्यां सूतिकां नारीं भर्तृघ्नीं गर्भपातिनीम् ।
पाषण्डं पतितं व्रात्यं महापातकिनं शठम् ॥
नास्तिकं कितवं स्तेनं कृतघ्नं नाभिवादयेत् ।
मत्तं प्रमत्तम् उन्मत्तं धावन्तम् अशुचिं नरम् ॥
[८] वमन्तं जृम्भमाणं च कुर्वन्तं दन्तधावनम् ।
अभ्यक्तशिरसं स्नानं कुर्वन्तं नाभिवादयेत् ॥
जपयज्ञजलस्थांश् च समित्पुष्पकुशानलान् ।
उदपात्रार्घ्यभैक्ष्यान्नं वहन्तं नाभिवादयेत् ॥
अभिवाद्य द्विजश् चैतान् अहोरात्रेण शुध्यति ॥
क्षत्रवैश्याभिवादने विप्रस्यैवम् । शूद्राभिवादने त्रिरात्रम् । कृच्छ्रं तु रजकादिषु ।
चाण्डालादिषु चान्द्रं स्याद् इति सङ्ग्रहकृन्मतम् ।
देवताप्रतिमां दृष्ट्वा यतिं दृष्ट्वा त्रिदण्डिनम् ॥
नमस्कारं न कुर्याच् चेद् उपवासेन शुध्यति ।
सर्वे चापि नमस्कार्याः सर्वावस्थासु सर्वदा ॥
अभिवादो नमस्कारस् तथा प्रत्यभिवादनम् ।
आशीर् वाच्या नमस्कार्यैर् वयस्यस् तु पुनर् नमेत् ॥
स्त्रियो नमस्या वृद्धाश् च वयसा पत्युर् एव ताः ।
ततो ऽधीयीत वेदांश् च स्वाध्याये गुरुशिक्षितान् ॥
अथानध्याया वक्ष्यन्ते —
अनध्यायेष्व् अध्ययने प्रज्ञाम् आयुः प्रजां श्रियम् ।
ब्रह्मचर्यं श्रियं तेजो निकृन्तति यमः स्वयम् ॥
मन्त्रवीर्यक्षयभयाद् इन्द्रो वज्रेण हन्ति च ।
ब्रह्मराक्षसता चान्ते नरकश् च भवेद् ध्रुवम् ॥
अष्टमीचतुर्दशीपर्वप्रतिपत्सु नित्यम् अहोरात्रम् अनध्यायः । अष्टकासु च । ऐन्द्रश्रवणद्वादशीमघाभरण्योश् च सोपपदतिथौ च ।
ज्येष्ठे शुक्लद्वितीया तु आश्विने दशमी सिता ।
चतुर्थी द्वादशी माघ एताः सोपपदाः स्मृताः ॥
शयनोत्थानद्वादश्योश् च । आषाढीकार्तिकीफाल्गुनीसमीपस्थद्वितीयासु च । अपरपक्षान्ते प्रेतद्वितीयायां च सर्वाद्भुतेष्व् अकालिको ऽनध्यायः । अत्युत्पाते च महानवम्यां च रथसप्तम्यां च युगादिषु ।
[९] शुक्लतृतीया वैशाखे प्रेतपक्षे त्रयोदशी ।
कार्तिके नवमी शुक्ला माधे दर्शश् च पूर्णिमा ॥
एता युगादयः प्रोक्ता दत्तस्याक्षयकारकाः ।
मन्वन्तरादयः सर्वे ऽनध्याया इति केचन ॥
आश्वयुक्शुक्लनवमी कार्तिके द्वादशी सिता ।
तृतीया चैत्रमासस्य सिता भाद्रपदस्य च ॥
आषाढे शुक्लदशमी माधे या शुक्लसप्तमी ।
श्रावणस्याष्टमी कृष्णा तथा षष्ठी च पूर्णिमा ॥
फाल्गुनस्य त्व् अमावास्या पौषस्यैकादशी सिता ।
कार्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी तथा ॥
मन्वन्तरादयश् चैता दत्तस्याक्षयकारिकाः ॥
शवानुगमनपरिचरणेषु चाकाशशवदर्शनेषु चाहोरात्रम् । श्राद्धिकं परिगृह्य चारण्यकम् अधीत्य च मनुष्यप्रभृतीनां देवानां नागानां च स्थानभुक्तौ चाहोरात्रम् । स्वप्नान्तम् इत्य् एके । नवश्राद्धभुक्तौ त्व् अन्नजरणान्तम् । सूतकान्नभोजने चैवम् । महैकोद्दिष्टे त्रिरात्रं गन्धलेपक्षयान्तं वा । महागुरुमृतौ द्वादशरात्रम् । असपिण्डे गुरौ त्रिरात्रम् । आचार्ये चोपाध्याये पक्षिणी । समानविद्ये सब्रह्मचारिणि च । आचार्यभार्यापुत्रशिष्येष्व् अहोरात्रम् । अग्न्युत्पाते गोविप्रमृतौ त्रिरात्रम् । ऋत्विग्याज्यस्वयोनिसम्बन्धिषु चैवम् । वेदसमापने प्रथमसंस्थासु तदहोरात्रम्, परेद्युश् चानध्यायः । ग्रहणे तु रात्रौ मोक्षे त्रिरात्रम् । दिवा मोक्षे त्र्यहम् । उपाकर्मणि चोत्सर्गे त्र्यहम् । अयने विषुवे पक्षिणी । निर्घातभूकम्पोल्कापातादिसर्वाद्भुतेष्व् आकालिको ऽनध्यायः । अग्न्युत्पाते वाकाले वृष्टौ वा । आर्द्रादिज्येष्ठान्ता तात्कालिक्य् अन्यत्राकालिकी वृष्टिः । सायंसन्ध्यागर्जित उदयान्तो ऽनध्यायः । अर्धरात्राद् ऊर्ध्वं गर्जने ऽर्धरात्रे वाकालिको ऽनध्यायः । प्रातःसन्ध्यागर्जने त्व् अहोरात्रम् । काकोलूककुक्कुरमूषकमण्डूकाद्यन्तरागमने सति दिने चेद् दिनान्तं रातौ चेद् रात्र्यन्तम् अनध्यायः । गवाश्वमहिषपशुस्त्रीशूद्रादाव् अहोरात्रम्, श्वमार्जारयोश् च । आरण्यमार्जारसर्पनकुलपञ्चनखादौ त्रिरात्रम् । आरण्यश्वशृगालादिवानररजकादौ द्वाद**[१०]**शरात्रम् । खरवराहोष्ट्रादिचण्डालादिसूतिकोदक्याशवादौ मासम् । शशमेषश्वपाकादौ षण्मासम् । गजगण्डसारससिंहव्याघ्रमहापापिकृतघ्नादाव् अब्दम् अनाध्यायः ।
स्वाध्याये वा प्रवचने वर्तमाने ऽन्तरागते ।
आधिव्याधिविघ्नमृत्युपापानि गुरुशिष्ययोः ॥
शोभनगृहे शोभनदिने चानध्यायः । विवाहमौञ्जीबन्धप्रतिष्ठोद्यापनादिष्व् आ मार्जनमाससमाप्तेः सपिण्डगोत्राणाम् अनध्यायः । यज्ञे चानुबन्ध्यान्तम् ऋत्विजाम् आचार्याणां वा श्वो ऽनध्याये सत्य् आद्यरात्राव् अनध्यायः । एकाम् अध्याययुग्मे त्व् अन्त्यापररात्रम् अनध्यायः । अनध्याययुग्मे पूर्वदिनापररात्राव् इत्य् एके ।
श्वक्रोष्टुगर्दभोलूकसामबाणार्तनिस्वने ।
अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके ॥
देशे शुचाव् आत्मनि च विद्युत्स्तनितसम्प्लवे ।
भुक्त्वार्द्रपाणिर् अम्भोऽन्तर् अर्धरात्रे ऽतिमारुते ॥
पांसुवर्षे दिशां दाहे सन्ध्यानीहारभीतिषु ।
धावतः पूतिगन्धे च शिष्टे च गृहम् आगते ॥
खरोष्ट्रयानहस्त्यश्वनौवृक्षगिरिरोहणे ।
सप्तत्रिंशदनध्यायान् एतांस् तात्कालिकान् विदुः ॥
सर्वकुत्सितगन्धेषु परिवेषे सभासु च ।
अभ्यक्तस्नानकाले च महास्वेदे ऽतिकम्पने ॥
गोविप्ररोधने सर्वशब्देषु श्राद्धपङ्क्तिषु ।
शाल्मलस्य मधूकस्य कोविदारकपित्थयोः ॥
श्लेष्मातकस्य छायायाम् एतांस् तात्कालिकान् विदुः ।
चतुर्दश्यष्टमीपर्वप्रतिपत्सु च सर्वदा ॥
दुर्मेधसाम् अनध्यायस् त्व् अन्तरागमनेषु च ।
तथा विस्मृतिशीलानां बहुवेदप्रपाठिनाम् ॥
चतुर्दश्यष्टमीपर्वप्रतिपद्वर्जितेषु तु ।
वेदाङ्गन्यायमीमांसाधर्मशास्त्राणि चाभ्यसेत् ॥
उदयास्तमये वापि मुहूर्तत्रयगामि यत् ।
तद् दिनं तद् अहोरात्रम् अनध्यायविदो विदुः ॥
[११] केचिद् आहुः क्वचिद् देशे यावत् तद्दिननाडिकाः ।
तावद् एव त्व् अनध्यायो न तस्मिंश् चेद् दिनान्तरे ॥
उपवासव्रतादीनां तिथिम् आहुस् तथैव च ।
चतुर्थ्यां पूर्वरात्रे च नवनाडीषु दर्शने ॥
नाध्येयं पूर्वरात्रे स्यात् सप्तमी च त्रयोदशी ।
अर्धरात्रात् पुरा स्याच् चेन् नाध्येयं पूर्वरात्रके ॥
प्रणवव्याहृतीनां च सावित्र्याः शिरसस् तदा ।
नित्ये नैमित्तिके कार्ये व्रते यज्ञक्रतौ तथा ॥
प्रवृत्ते काम्यकार्ये च नानध्यायाः स्मृतास् तथा ।
देवतार्चनमन्त्राणां नानध्यायः स्मृतस् तथा ॥
** अथोत्सर्जनम् —**
ततः सार्धचतुरो मासान् षण्मासं वाधीत्य पौषमासस्य रोहिण्याम् अष्टकायां पौषे माघे फाल्गुने वा शुक्लपक्षे प्रतिपद्य् अन्यस्मिन् वाह्नि पौर्णमास्यां वा सह शिष्यैर् ग्रामाद् बहिर् जलान्त उत्सर्जनं कार्यं तर्पणं च । वर्षं चाधीत्योपाकर्मदिन उत्सर्जनं कार्यं न वा । तर्पणं कार्यम् एव । एवं वेदव्रतानि चोभयं वा पारं नीत्वाविप्लुतब्रह्मचर्यो विप्लवे कृतप्रायश्चित्तो गुरुं सम्पूज्य तदनुज्ञया समावृत्तो विवहेत् ।
इति ब्रह्मचारिप्रकरणम्
** अथ विवाहः —**
मातृतः पितृतः शुद्धाम् अनुरूपां गुणान्विताम् ।
अदीर्घरोगां सञ्चारिरोगपातित्यवर्जिताम् ॥
असपिण्डां च पितृतः सप्तमात् पुरुषात् पराम् ।
मातृतः पञ्चमाद् ऊर्ध्वम् असमानार्षगोत्रजाम् ॥
अनन्योढां भ्रातृमतीं स्त्रियं कन्यां यवीयसीम् ।
पुमान् धीमान् वरो धीरो द्विजो वर्णानुपूर्वशः ॥
विवहेद् धर्ममार्गेण ब्राह्मादिषु यथाविधि ।
मातुलस्य सुतां केचित् पितृष्वसृसुतादिकाम् ॥
विवहन्ति क्वचिद् देशे सङ्कोच्यापि सपिण्डताम् ।
दद्याच् च प्रतिगृह्णीयात् स्नात्वैव सुसमाहितः ॥
[१२] ब्राह्मो विवाह आहूय दीयते शक्त्यलङ्कृता ।
दैवो विवाहः कन्याया ऋत्विजे दानम् उच्यते ॥
आर्षो गोमिथुने दते कन्यादानं यदा तदा ।
प्राजापत्यः सह धर्मं चरताम् इति दानतः ॥
आसुरो द्रविणादानाद् गान्धर्वः समयान् मिथः ।
राक्षसो युद्धहरणात् पैशाचः कन्यकाछलात् ॥
ब्राह्मदैवार्षप्राजापत्या धर्म्याः । आसुरगान्धर्वराक्षसपैशाचा अधर्म्याः । तत्रान्तस्थाश् चत्वारो विप्रस्यैव । राक्षसः क्षत्रियस्यैव । इतरे त्रयः सर्वेषाम् । ब्राह्मादिषु पूर्वं होमः प्रशस्तः पश्चात् कन्यास्वीकारः । आसुरादिषु पूर्वं कन्यास्वीकारः पश्चाद् धोमः कार्यः ।
पिता पितामहो भ्राता सकुल्यो गोत्रजो गुरुः ।
मातामहो मातुलो वा कन्यादा बान्धवाः क्रमात् ॥
पित्रादिदात्रभावे तु कन्य कुर्यात् स्वयंवरम् ।
शुल्कं दत्वा वरे याते पञ्चर्तून् सम्प्रतीक्ष्य तु ॥
**कन्यान्यस्मै प्रदातव्या वाग्दाने ऽपि कृते सति । दशमासान् । ??
वरे देशान्तरगते त्रीन् ऋतून् सम्प्रतीक्ष्य च ।
कन्यान्यस्मै प्रदातव्या वाग्दाने ऽपि कृते सति ॥
मृते ऽन्यस्मै तथा देया वरे सप्तपदात् पुरा ।
पुरा पुरुषसंयोगान् म्र्ते देयेति केचन ॥
ऋताव् अदृष्टे कन्यैव पुनर् देयेति केचन ।
आ गर्भधारणात् कन्या पुनर् देयेति चापरे ॥
देशकालाद् इमे धर्मा अनुष्ठेया विजानता ।
कुलशीलविहीनस्य षण्ढादेः पतितस्य च ॥
अपस्मारिविकर्मस्थरोगिणां वेषधारिणाम् ।
दत्ताम् अपहरेत् कन्यां सगोत्रोढां तथैव च ॥
मन्त्रसंस्काररहिता देयान्यस्मै वराय च ।
कन्या च दूषिता वर्ज्या देयान्यस्मै वराय सा ॥
अन्यथा तु हरन् दण्ड्यो व्ययं दद्याच् च सोदयम् ।
[१३] षढान्धव्याधितादीनां विवाहस् तु यथोचितम् ॥
विवाहासम्भवे तेषां कनिष्ठो विवहेत् तदा ॥
षण्ढान्धबधिरस्तब्धजडगद्गदपङ्गुषु ।
कुब्जवामनरोगार्तशुष्काङ्गिविकलाङ्गिषु ॥
ध्वस्तपुंस्त्वे च मत्ते च शयनस्थे निरिन्द्रिये ।
मूकोन्मत्तेषु सर्वेषु न दोषः परिवेदने ॥
पितृव्यपुत्रे सापत्ने परदारसुतादिषु ।
विवाहाधानयज्ञादौ परिवेदाद्यदूषणम् ॥
ज्येष्ठभ्रात्रा त्व् अनुज्ञाते परिवेदाद्यदूषणम् ।
पितुः सत्य् अप्य् अनुज्ञाते नादधीत कदाचन ॥
पाणिर् ग्राह्यः सवर्णासु गृह्णीयात् क्षत्रिया शरम् ।
वैश्या प्रतोदम् आदद्याद् विवाहे ब्राह्मणस्य तु ॥ [य्ध् १.६२]
वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने ॥ [म्ध् ३.४४च्द्]
सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः ।
अनिन्द्येषु विवाहेषु पुत्राः सन्तानवर्धनाः ॥ [य्ध् १.९०]
विप्रान् मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् ।
अम्बष्ठः शूद्र्यां निषादो जातः पारशवो ऽपि वा ॥ [य्ध् १.९१]
वैश्याशूद्र्योस् तु राजन्यान् माहिष्योग्रौ सुतौ स्मृतौ ।
वैश्यात् तु करणः शूद्र्यां विन्नास्व् एष विधिः स्मृतः ॥ [य्ध् १.९२]
एते ऽनुलोमजाः पुत्राः संस्कार्याः स्युर् द्विजातिजाः ।
तथा मूर्धावसिक्तादिजातिजाश् च द्विजातयः ॥
ब्राह्मण्यां क्षत्रियात् सूतो वैश्याद् वैदेहिकस् तथा ।
शूद्राज् जातस् तु चण्डालः सर्वधर्मबहिष्कृतः ॥ [य्ध् १.९३]
क्षत्रिया मागधं वैश्याच् छूद्रात् क्षत्तारम् एव च ।
शूद्राद् आयोगवं वैश्या जनयामास वै सुतम् ॥ [य्ध् १.९४]
माहिष्येण करण्यां तु रथकारः प्रजायते । [य्ध् १.९५अब्]
इत्याद्याः प्रतिलोमाः स्युर् द्विजधर्मबहिष्कृताः ॥
[१४] विवाहात् परम् आधाय जुह्वद् एवाग्निहोत्रकम् ।
दर्शपूर्णमासाग्रयणसोमयागान् क्रमाच् चरेत् ॥
सर्वथा प्रथमः सोमयागः कार्यो द्विजातिभिः ।
यथासम्भविनाङ्गेन फलं दत्वापि दक्षिणाम् ॥
व्रात्यदुर्ब्राह्मणत्वादिमहादोषोपशान्तये ।
सूर्यग्रहे कुरुक्षेत्रे मेषीकृष्णाजिनादिकम् ॥
चाण्डालात् प्रतिगृह्यापि यजेद् आवश्यकैर् मखैः ।
अथ चोपासनं कृत्वा जुह्वन् गार्ह्याणि वाचरेत् ॥
अर्धाधाने महाश्रेयो गार्ह्यश्रौतोभयात्मकम् ॥
एकत्वं स्त्री गता भर्तुः पिण्डे गोत्रे च सूतके ॥
सत्याम् अन्यां सवर्णायां धर्मकार्ये न कारयेत् ।
सवर्णासु विधौ धर्म्ये ज्येष्ठया न विनेतरा ॥ [य्ध् १.८८]
आज्ञासम्पादनी दक्षा पुत्रसूश् च प्रिया शुचिः । [च्फ़्। य्ध् १.७६]
नियोज्या धर्मकार्येषु नाधिवेद्या कथञ्चन ॥
शक्त्या भक्त्या शुचिर् दक्षा नियोज्या धर्मकर्मसु ।
अशुद्धां जारिणीं शूद्रां दूषितां तु विसर्जयेत् ॥
सुरापी व्याधिता धूर्ता वन्ध्यार्थघ्न्य् अप्रियंवदा ।
स्त्रीप्रसूश् चाधिवेत्तव्या पतिद्विट् च मृतप्रजा ॥ [य्ध् १.७३]
गृहस्थस् तु षडग्निः स्यात् पञ्चाग्निश् चतुरग्निकः ।
स्याद् द्वित्र्यग्निर् अथैकाग्निर् नाग्निहीनः कथञ्चन ॥
गार्ह्यम् औपासने कुर्यात् सर्वाधानी तु लौकिके ।
स्मार्तं च लौकिके कार्यं श्रौतं वैतानिकाग्निषु ॥
अथ गोत्रप्रवरनिर्णयः —
अथात्र गोत्रप्रवरनिर्णयो वर्ण्यते ऽञ्जसा ।
जमदग्निभरद्वाजविश्वामित्रात्रिगौतमाः ॥
वसिष्ठकश्यपागस्त्या मुनयो गोत्रकारिणः ।
एतेषां यान्य् अपत्यानि तानि गोत्राणि मन्वते ॥
[१५] व्रियमाणतया (?) वापि सत्तया वानुवर्तनम् ।
एकस्य दृश्यते यत्र तद्गोत्रं तस्य कथ्यते ॥
समानमुनिभूयस्त्वम् एकप्रवरताम् अपि ।
समानप्रवरत्वं च द्वेधा बौधायनो ऽब्रवीत् ॥
मुनिप्रणीतप्रवरैर् ऊनपञ्चाशता वयम् ।
अनन्तान्य् अपि गोत्राणि वर्गीकृत्याभिदध्महे ॥
जामदग्न्या वत्सबिदावार्ष्टिषेणाः परस्परम् ।
नान्वियुः प्रवरैक्येण सगोत्रत्वेन चादिमौ ॥
यस् का मित्रयवो वैन्याः शुनकाः प्रवरैक्यतः ।
स्वं स्वं हित्वा गणं सर्वे विवहेयुः परावरैः ॥
उक्ताः सप्त भृगोर् वंशा वक्ष्यन्ते ऽङ्गिरसो गणाः ।
गौतमाः सप्त चायास्याः शारद्वतास् तथा परे ॥
कोमण्डा दीर्घतमसस् ततः कारेणुपालयः ।
वामदेवा औशनसा गोत्रर्ष्यैक्याच् च नान्वियुः ॥
भरद्वाजाः सकपयो गर्गा रौक्षायणा इति ।
चत्वारो ऽपि भरद्वाजा गोत्रैक्यान् नान्वियुर् मिथः ॥
केवलाङ्गिरसश् चैके विष्णुवृद्धाः सकण्वजाः ।
हारीता रथीतराश् च मुद्गलाः प्रवरैक्यतः ॥
स्वं स्वं हित्वा गणं सर्वे विवहेयुः परावरैः ।
षोडशाङ्गिरसस् त्रेधा प्रोक्ताः सङ्कृतयस् तथा ॥
सङ्कृतीनां द्विवंश्यत्वाद् वसिष्ठैश् च चतुर्विधैः ।
स्ववर्गीयैः सगोत्रत्वात् प्रवरैक्याच् च नान्वियुः ॥
चत्वारो ऽत्रय आद्यात्रिवाद्भुतका (?) गविष्ठिराः ।
मुद्गलाश् चेति गौत्रैक्यात् प्रवरैक्याच् च नान्वियुः ॥
त्रयश् च कश्यपगणा निध्रुवा रेभशाण्डिलाः ।
गोत्रैक्यात् प्रवरैक्याच् च नोद्वहेयुः परस्परम् ॥
वसिष्ठैः काश्यपैर् नित्यं लौगाक्षीणाम् अनन्वयः ।
अहर् वसिष्ठतोक्तिस् तु प्रयाजाप्त्यादिगोचरा ॥
[१६] वसिष्ठाः कुण्डिनश् चैवम् उपमन्युपराशराः ।
वसिष्ठा इति चत्वारो गोत्रैक्यान् नान्वियुर् मिथः ॥
कुशिका रोहितगणा रौक्षकाः कामकायनाः ।
कता धनञ्जया आजा अघमर्षणपूरणाः ॥
इन्द्रकौशिकजाश् चेति विश्वामित्रगणा दश ।
नोद्वहेयुः सगोत्रत्वात् क्वचिच् च प्रवरैक्यतः ॥
अगस्त्यतः साम्भवाहाः सोमवाहा इति त्रयः ।
गोत्रैक्यात् प्रवरैक्याच् च नोद्वहेयुः परस्परम् ॥
वर्गा एकोनपञ्चाशत् प्रसिद्धा मुनिभिः स्मृताः ।
अप्रसिद्धाः परे वंश्या अन्तर्भूता इहैव ते ॥
विश्वामित्रादिगोत्रेण नोद्वहेयुर् धनञ्जयाः ।
अत्रेस् तु पुत्रिकापुत्रा वामरथ्यादयस् तथा ॥
तथैव जातूकर्ण्याश् च वसिष्ठैर् अत्रिभिः सह ।
भरद्वाजेन शुङ्गेन विश्वामित्रस्य शैशिरे ॥
क्षेत्रे जातो द्विगोत्रर्षिः प्रोच्यते शौङ्गशैशिरिः ।
विश्वामित्रभरद्वाजैस् तज्जानां तेन नान्वयः ॥
कपिलानां भरद्वाजैर् विश्वामित्रैश् च नान्वयः ।
गुरोः सगोत्रप्रवरा नोद्वाह्याः क्षत्रविड्जनैः ॥
स्वगोत्राद्यनभिज्ञैश् च विप्रैर् आचार्यगोत्रजाः ।
दानादिनान्यगोत्राः स्युर् अज्ञातगुरुगोत्रिणः ॥
समानप्रवरोद्वाहनिषेधः क्षत्रवैश्ययोः ।
प्रवराननवेत्यास्मात् प्रवराच् चान्यगोत्रजाः ॥
इत्थं सगोत्रसम्बन्धविवाहविषये स्थिते ।
यदि कश्चिज् ज्ञानतस् तां कन्याम् ऊढ्वापि गच्छति ॥
गुरुतल्पव्रताच् छुध्येद् गर्भस् तज्जो ऽन्त्यतां व्रजेत् ।
भोगतस् तां परित्यज्य पालयेज् जननीम् इव ॥
अज्ञानाद् ऐन्दवैः शुध्यत् त्रिभिर् गर्भस् तु कैश्यप ।
महद्भिर् महतो यत्नात् कृतः प्रवरनिर्णयः ॥
[१७] जामदग्न्या वत्सबिदावार्ष्टिषेणास् तथैव च ।
पञ्चावत्तिन एवान्ये सर्वे चतुरवत्तिनः ॥
विवाहे वितते तन्त्रे होमकाल उपस्थिते ।
कन्याम् ऋतुमतीं दृष्ट्वा कथं कुर्वन्ति याज्ञिकाः ॥
स्नापयित्वा तु तां कन्याम् अर्चयित्वा यथाविधि ।
युञ्जानामाहुतिं हुत्वा ततः कर्म प्रवर्तते ॥
यद् वा ।
विवाहहोमे प्रक्रान्ते यदि कन्य रजस्वला ।
त्रिरात्रं दम्पती स्यातां पृथक्शय्यासनाशिनौ ॥
चतुर्थे ऽहनि सुस्नातौ तस्मिन्न् अग्नौ यथाविधि ।
विवाहहोमं कुर्याताम् इत्यादिस्मृतिसङ्ग्रहः ॥
विवाहे दम्पती स्यातां त्रिरात्रं ब्रह्मचारिणौ ।
अलङ्कृता वधूश् चैव सहशय्यासनाशनौ ॥
अधर्म्येषु विवाहेषु ताम्बूलम् अनुमोदनम् ।
हवनं भोजनं चैव वर्जयेत् सर्वथा द्विजः ॥
आसुरेषूपवासः स्याद् गान्धर्वेषु त्रिरात्रकम् ।
राक्षसे चैव पैशाचे कुर्याच् चान्द्रायणं तथा ॥
गर्भाधानादिसंस्कारेष्व् इष्टापूर्तकृषिष्व् अपि ।
वृद्धिश्राद्धं पुरा कार्यं कर्मादौ स्वस्तिवाचनम् ॥
वृद्धमुख्यास् तु पितरो वृद्धिश्राद्धेषु भुञ्जते ।
चूडाहोमावसाने तु बालमुख्यास् तु भुञ्जते ॥
वसवो रुद्रा आदित्यास् त्र्यवस्थाः कामरूपिणः ।
बाला युवानो वृद्धाश् च पितॄणाम् आश्रयाः स्मृताः ॥
प्रेतानाम् आश्रया रुद्रा यमश् चैवान्तकः स्मृतः ।
असंस्कृतप्रमीतानां ब्रह्मा विष्णुः समाश्रयः ॥
अनाश्रितानां जीवानां दत्तं नैवोपतिष्ठति ।
प्रारम्भाद् ऊर्ध्वम् आशौचे विवाहः कार्य एव तु ॥
प्रारम्भो वरणं यज्ञे सम्कल्पो व्रतसत्रयोः ।
नान्दीश्राद्धं विवाहादौ श्राद्धे पाकपरिक्रिया ॥
निमन्त्रणं वा श्राद्धे तु प्रारम्भः स्याद् इति स्मृतिः ।
गणशः क्रियमाणानाम् एकं स्यान् मातृपूजनम् ॥
वृद्धिश्राद्धं च तन्त्रं स्याद् धोमास् तु स्युः पृथक् पृथक् ॥
[१८] अथाह्निकम् उच्यते —
अत्र प्रभात उत्थायेष्टदेवतां मनसा नत्वा तदहःकृत्यं स्मृत्वा सन्ध्योपासनादि कुर्यात् । तत्र मूत्रपुरीषोत्सर्गम् एवं कुर्यात् । अवानस्पत्यायाज्ञिकशुष्ककाठलोष्टतृणपर्णादिकं गृहीत्वा शिरः प्रावृत्य यज्ञोपवीतं निवीतं पृष्ठतः कण्ठलम्बितं धृत्वैकवस्त्रश् चेद् दक्षिणे कर्णे निधाय दिगनवलोकनं च कृत्वा काष्ठाद्यन्तर्धानं कुर्यान् न वा मौनं वाग्यमं वा घ्राणस्य पिधानं च क्रमात् कृत्वा दिवासन्ध्ययोर् उदङ्मुखो रात्रौ दक्षिणामुखो मूत्रपुरीषोत्सर्गं कुर्यात् ।
फालकृष्टे जले चित्यां वल्मीके गिरिमस्तके ।
देवालये नदीतीरे दर्भपत्रेषु शाड्वले ॥
सेव्यच्छायेषु वृक्षेषु मार्गे गोष्ठाम्बुभस्मसु ।
अग्नौ च गच्छंस् तिष्ठंश् च विष्ठां मूत्रं च नोत्सृजेत् ॥
वाय्वग्न्यर्कर्क्षगोसोमसन्ध्याम्बुस्त्रीद्विजन्मनः ।
पश्यन्न् अभिमुखश् चैतान् विष्ठां मूत्रं च नोत्सृजेत् ॥
सर्वे निषेधा नैव स्युः प्राणबाधामयेषु च ।
काष्ठादिना त्व् अपानस्थम् अमेध्यं निमृजीत च ॥
रथ्याचत्वरतीर्थेषु श्मशाने गोमये जले ।
अङ्गारोद्यानसप्राणियज्ञभूमिषु नोत्सृजेत् ॥
कन्दमूलफलाङ्गारैर् नामेध्यं निमृजीत च ।
इति मूत्रपुरीषोत्सर्गविधिः ।
** अथ शौचविधिः —**
शौचे यत्नः सदा कार्यः शौचमूलो द्विजः स्मृतः ।
शौचाचारविहीनस्य समग्रं कर्म निष्फलम् ॥
शौचं च द्विविधं प्रोक्तं बाह्यम् आभ्यन्तरं तथा ।
मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिस् तथान्तरम् ॥
गृहीतशिष्नश् चोत्थाय मृद्भिर् अभ्युद्धृतैर् जलैः ।
गन्धलेपक्षयकरं शौचं कुयाद् अतन्द्रितः ॥ [य्ध् १.१७]
अन्तर्जलाद् देवगृहाद् वल्मीकान् मूषकस्थलात् ।
कृतशौचापविद्धाश् च न ग्राह्याः पञ्च मृत्तिकाः ॥
[१९] मार्गरथ्याश्मशानस्थाः पांसुला मलिनास् त्यजेत् ।
कीटाङ्गारास्थिरहिता नाहरेच् छर्करान्विताः ॥
वापीकूपतडागेषु नाहरेद् बाह्यमृत्तिकाः ।
अन्तर्जलगता ग्राह्याः परतो मणिबन्धनात् ॥
आरण्यकेषु त्व् एवं स्याद् ग्राम्येष्व् आहरणं विदुः ॥
मूत्रे —
एका तु मृत्तिका लिङ्गे तिस्रः सव्येतरे मृदः ।
करद्वये मृद्द्वयं स्यान् मृत्प्रमाणम् अनेकधा ॥
त्रिपर्वपूरमात्रा वा मृत्तिकाक्षप्रमाणिका ।
आर्द्रामलकमात्रा वा मूत्रशौचे तु मृत्तिका ।
मूत्रात् तु द्विगुणं शुक्रे मैथुन त्रिगुणं स्मृतम् ॥
पुरीषे तु —
पञ्चापाने मृदः क्षेप्याः करे वामे दश स्मृताः ।
करयोः सप्त दातव्याः पुरीषे मृत्प्रमाणकम् ॥
अर्धप्रसृतिमात्राद्यास् तदर्धार्धास् ततः स्मृताः ॥
[ हस्ते ऽर्धमात्रं प्रसृतेस् तदर्धं
पुनस् तदर्धं तु यथाक्रमेण ।
मृदो ऽपि मानं कथयन्ति केचिद्
दिवा गृहस्थस्य सुखस्थितस्य ॥ ]
यद् वापाने मृदस् तिस्रः प्रसृत्यर्धत्रिभागिकाः ।
यद् वा प्रसृतिमात्रास् त्रिः पादपाण्योः पृथक् पृथक् ॥
एतच् छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।
त्रिगुणं स्याद् वनस्थानां यतीनां तु चतुर्गुणम् ॥
यद् दिव विहितं शौचं तदर्धं निशि कीर्तितम् ।
तदर्धम् आतुरे प्रोक्तम् आतुरस्यार्धम् अध्वनि ॥
स्त्रीशूद्रादेर् अशक्तानां बालानां चोपनीतितः ।
गन्धलेपक्षयकरं शौचं कुर्यान् न सङ्ख्यया ॥
एकैकया मृदा पादौ हस्तौ प्रक्षालयेत् ततः ॥
इति शौचविधिः ।
[२०]
** अथाचमनविधिः —**
तत्र हस्तौ पादौ प्रक्षाल्य यज्ञोपवीति शुद्धभूमौ पादौ प्रतिष्ठाप्य बद्धकच्छशिखः पुण्डरीकाक्षम् इष्टदेवतां स्मृत्वा प्रकृतिस्थं फेनबुद्बुदरहितं संहताङ्गुलिपाणिनाम्बु गृहीत्वाङ्गुष्ठकनिष्ठिके मुक्त्वा शेषं वीक्षितं ब्रह्मतीर्थेन त्रिश्चतुर्वारं समाहितः पिबेत् । कायेन तीर्थेन वा दैवेन वा पिबेत् । न पित्र्येण कदाचन । पीत्वा हस्तौ प्रक्षाल्य [ओष्ठान्ततः सङ्कोच्य संहताङ्गुलमूलेनालोमकेन मुखं द्विः प्रमृज्य] संहताङ्गुलिभिर् मुखं सकृद् अवमृज्य हस्तौ प्रक्षाल्य पादौ शिरश् चाभ्युक्षेन् न वा संहताङ्गुलिभिर् आस्यं सलोमप्रदेशे स्पृष्ट्वा हस्तं प्रक्षाल्याङ्गुष्ठप्रदेशिनीभ्यां घ्राणे स्पृशेत् । अङ्गुष्ठानामिकाभ्यां चक्षुषी श्रोत्रे वा स्पृशेत् । अङ्गुष्ठकनिष्ठिकाभ्यां नाभिं हृदयं तलेन सर्वाङ्गुलिभिः शिरो बाहुमूले सर्वाङ्गुल्यग्रैः स्पृशेत् । सर्वत्र मध्ये मध्ये ऽपः स्पृशेत् । अत्यन्ताशक्तौ त्रिः पीत्वा हस्तं प्रोक्ष्य श्रोत्रं स्पृशेत् ।
हृत्कण्ठतालुगाभिः स्युर् अद्भिः शुद्धा द्विजाः क्रमात् ।
शूद्रादयो ऽन्ततः सकृत्स्पृष्टाभिः शुद्धाः ।
न वर्षधारास्व् आचामेत् तप्ताभिश् चाप्य् अकारणात् ॥
कनिष्ठादेशिन्यङ्गुष्ठमूलेषु कायपित्र्यब्रह्मतीर्थानि । कराग्रे दैवं तीर्थं करमध्ये सौम्यं तीर्थम् अग्नितीर्थं च निर्वपणसंश्रयलाजहोमादिनित्यहोमान् कायेन तीर्थेन कुर्यात् । दैविकं चार्चनबलिप्रक्षेपपर्युक्षणमार्जनभोजननित्यहोमान् दैवेन दैविकं च पैतृकं पित्र्येण । कमण्डलुस्पर्शनं दधिप्राशनं नवान्नप्राशनं सुराग्रहणं दैविकं च सौम्येन कुर्यात् । आग्नेयेन प्रतिग्रहं कुर्यात् ।
इत्य् आचमनविधिः ।
अथाचमननिमित्तानि —
उच्छिष्टस्पर्शने पादावसेचने शिखामोक्षे यज्ञोपवीतापगमे चोदकम् उत्तीर्यावतीर्य च सन्देहेषु सर्वेष्व् आचामेत् । आस्यगतश्मश्रुस्पर्शने च लोमकोष्ठस्पर्शने च दन्तसक्तस्य जिह्वया स्पर्शने च रथ्याप्रसर्पणे च स्नेहपञ्चनखस्पर्शने च रोदने च विण्मूत्ररेतःशौचान्ते च पीत्वा लीढे च [दन्तसक्तं निष्ठीव्य च देवताभिगमने च द्विर् आचामेत् । [२१] स्नात्वा पीत्वा च लीढे च] निष्ठीव्य सुप्त्वाधोवायौ वासो विपरिधाय चाभ्यङ्गे कृते च हविर्भक्षणे च कृते द्विर् आचामेत् ।
भोजने हवने दान उपहारे प्रतिग्रहे ।
सन्ध्यात्रयाम्बुपानेषु पूर्वं पश्चाद् द्विर् आचमेत् ॥
स्वाध्याये च वस्त्रसहित उच्छिष्टस्पर्शश् चेत् तद् आलभ्याङ्के निधाय वा तत्सहित आचान्तः शुध्येत् । निधाय वाचम्य वस्त्रादिकं प्रोक्षेत् । अन्नपानादिना सहित उच्छिष्टस्पृष्टश् चेन् निधायाचम्य प्रोक्षेत् । अन्नादिरक्षाशक्तौ तु तद् आलभ्यान्तिके निधाय वा शौचाचमनं कुर्यात् । परिवेषणं कुर्वन्न् उच्छिष्टं स्पृष्ट्वान्नपात्रं निधायाचम्याभ्युक्ष्य परिविष्यात् । परिवेषणं कुर्वन् मूत्राद्युच्छिष्टश् चेद् अन्नादिकं निधाय शौचं कृत्वान्नादिकं प्रोक्ष्याग्निम् अर्कं वा संस्पृश्य परिविष्यात् । परिवेषणे रजोदृष्टौ तत्स्पृष्टान्नस्य त्यागः । अन्नागारे चाण्डालसूतिकोदक्यापतितादिस्पृष्टे चेत् त्याग एव । रजकादिस्पृष्टे तु जलेनाप्लव्याग्निम् अर्कं वा स्पर्शयेत् । उच्छिष्टोपहस्त्रीशूद्रसम्भाषणे चास्पृश्यदर्शने च ।
पित्र्यमन्त्रानुब्रवणे चात्मालम्भे च प्रोक्षणे ।
अधोवायुसमुत्सर्ग आक्रन्दे क्रोधने क्षुते ॥
[मार्जारमूषिकास्पर्शे प्रहासे ष्ठीवने ऽनृते ।
अन्त्यसम्भाषणे दर्शने च कर्म कुर्वन्न् आचामेत्] । श्वकाकादिदर्शने चैवम् ।
अकर्म कुर्वन् पूर्वेषु दक्षिणं श्रवणं स्पृशेत् ।
अनुष्ठाने ऽग्निगोविप्रस्त्रीप्रच्युतकेशनखस्पर्शने नीवीस्रंसने चापः स्पृशेत् । आर्द्रतृणं गोमयं भूमिं वौषधीर् वा स्पृशेत् । कर्णं वा स्पृशेत् । सिङ्घाणिकारक्तपूयस्वेदस्पर्शने तु प्रक्षाल्याबादि स्पृशेत् । आपत्सु नैमित्तिककर्माङ्गाचमनस्थाने श्रवणस्पर्शनं स्यान् मनःशुद्ध्यर्थम् ।
अग्निस् तीर्थानि वेदाश् च वरुणार्केन्दुवायवः ।
विप्रस्य दक्षिणे कर्णे नित्यं तिष्ठन्ति देवताः ॥
जपहोमप्रदानेषु पितृपिण्डोदकाग्निषु ।
कृतेष्व् आचमनं कार्यं पितृकाऋयेषु सर्वथा ॥
[२२] नास्पृश्यं स्पृशन्न् आचामेन् न फलकाद्यासनासीनो न त्रिपद्यां नान्यार्थ आसने भोजनार्थासने भुक्त्वाचामेद् वा । नान्यासने शयनयानपादुकोपस्थो न दुर्देशे पादाग्रस्थो न प्रह्वो न तिष्ठन् न व्रजन् नाप्रणतो नान्यमना न विलोकयन् न हसन् न रुदन् न जल्पन् न नग्नो नैकवस्त्रो नाञ्जलिना न परं स्पृशन् वामहस्तेन न बहिर्जानुकरो न प्रौढपादो न प्रसारितपादो न बद्धासनो न गले बद्धो नावेष्टितशिरा न यज्ञोपवीतम् उत्तरीयं चान्यथा धृत्वाचामेत् । तत्र सम्यग् धृत्वा पुनर् आचामेत् । यज्ञोपवीते नष्टे ऽन्यत् सूत्रं वस्त्रं चोपवीत्य् आचामेत् । वामहस्ते कुशे ऽन्यदर्भे वा स्थिते दक्षिणेन न पिबेत् । अपः करनखस्पृष्टा न पिबेत् । तत् सुरावद् दुष्टम् । आचमनाद्युच्छिष्टे दूर्वां दूरतो वर्जयेत् ।
न चाङ्गुलिभिर् आचामेन् नातीर्थेन न शब्दवत् ।
नावीक्षितं नास्वभावं नोष्णं जलम् अकारणात् ॥
वामेन पात्रम् उद्धृत्य न पिबेद् दक्षिणेन तु ।
सौवर्णरौप्यताम्रैश् च वेणुबिल्वाश्मचर्मभिः ॥
अलाबुदारुपात्रैश् च नारिकेलकपित्थकैः ।
तृणकाष्ठैर् जलाधारैर् अन्यान्तरितमृन्मयैः ॥
वामेनोद्धृत्य वाचामेद् अन्यदातुर् असम्भवे ।
तत्र मृन्मयपात्रस्थजलं नैवोपहन्यते ॥
तीर्थतोयं च शुध्येत करकादिस्थितं सदा ।
पादशौचं शिखाकच्छबन्धं धौतोपवीतकम् ॥
विनाचान्तो ऽशुचिर् नित्यं बद्धः कण्ठे शिरस्य् अपि ।
पवित्रकर आचामेच् छुचिः कर्मार्थम् आदरात् ॥
कुशमात्रकरो वापि दर्भमात्रकरो ऽथ वा ।
तदोङ्कारेणाचमनं यद् वा व्याहृतिभिर् भवेत् ॥
सावित्र्या वापि कर्तव्यं यद्वा कार्यम् अमन्त्रकम् ।
तत् कुशं विधिवल् लूनं न त्यजेद् अन्यथा त्यजेत् ॥
अन्ये दर्भास् तु सन्त्याज्यास् त्यजेद् दूर्वाङ्कुरौ न तु ।
न पादप्रक्षालनशेषम् आचामेत् । नान्याचमनशेषेण चाचामेद् यद्य् आचामेद् भूमौ जलं स्रावयित्वाचामेत् । नात्राचमनशेषेण नाग्न्युदकशेषेण [२३] कर्माणि कुर्यात् । यदि कुर्याद् भूमौ जलं स्रावयित्वा तत्रैवाम्बुपात्रं स्थापयित्वोद्धृत्य कर्माणि कुर्यात् ।
अथाचमनापवादः —
अस्नेह औषधे जग्धे स्निग्धबद्धे सलेपने ।
नाचामेद् भोजने वृत्ते शुद्ध्यर्थं क्रमुकादिषु ॥
अन्येषु चामभक्ष्येषु सम्भारेषु सुगन्धिषु ।
ताम्बूले क्रमुके होमे भुक्तस्नेहानुलेपने ॥
इक्षुदण्डे फले मुले पत्रपुष्पतिलेषु च ।
तथा त्वक्तृणकाष्ठेषु नाचामेद् आमभक्षणे ॥
मधुपर्के च सोमेषु प्राणाहुतिषु चाप्सु च ।
आस्यहोमेषु सर्वेषु नोच्छिष्टो भवति द्विजः ॥
दन्तवद् दन्तलग्नं रसाज्ञाने शुद्धम् । जिह्वया स्पर्शने ऽशुद्धम् । तत्र कर्णस्पर्शनम् । अन्त्यत् त्व् आस्यगतं शुद्धम् । अन्यत् त्व् आचान्तेन तत्स्थानाच् च्युतेन निगिरंस् त्यजन् वा कर्णं स्पृशेत् । यद् वा निगीर्णे कर्णस्पर्शः । त्यक्ते त्व् आचमनम् ।
रसज्ञाने त्व् असम्भावे द्विर् आचमनम् इष्यते ।
अन्यत् त्व् आस्यगतं चैव त्व् आचान्ते त्व् अवशिष्टकम् ॥
आस्यं संशोधयेद् यत्नाद् दन्तांश् च मृदुयत्नतः ।
दन्तभेदे महत् पापं रक्तं मद्यसमं विदुः ॥
एवं कृते यत् स्थितं स्यात् तन् न दोषाय सर्वदा ।
ओष्ठश्मश्रुगतो लेपः शुद्धः प्रक्षालिते स्थितः ॥
मुखजा विप्रुषः सूक्ष्माः शुद्धाः स्वाश् च परस्य ताः ।
स्थूलाश् च विप्रुषः शुद्धा यद्य् अङ्गे न पतन्ति ताः ॥
अङ्गपाते तु प्रक्षाल्या आचामेच् च परस्य चेत् ।
बिन्दुष्व् आचमनं कुर्युर् अनङ्गे पतितेष्व् अपि ॥
वेदाभ्यासे मुखाज् जाताः शुद्धा एव तु सर्वदा ।
श्मश्रु चास्यगतं शुद्धं यद्य् अङ्गे न तु संस्पृशेत् ॥
परस्य स्पर्शने शुद्धा भूस्पृष्टाचामबिन्दवः ।
जानुमात्रजले तिष्ठन्न् आचामन् हि न दुष्यति ॥
[२४] उपविष्टः समाचामेज् जानुमात्राद् अधोजले ।
जलाचान्तो जले शुद्धो बहिराचमनो बहिः ॥
बहिरम्भस्थ आचान्तः सर्वत्र शुचिर् एव तु ।
जलस्थो जलकार्येषु स्थलस्थः स्थलकर्मसु ॥
उभयोर् उभयस्थस् तु स्वाचान्तः शुद्धिम् आप्नुयात् ।
न जले शुष्कवस्त्रेण न शुष्के चार्द्रवाससा ॥
आचमादिक्रियां कुर्याद् बहिर्जानुर् न कुत्रचित् ।
इति आचमनप्रकरणम् ।
** अथ दन्तधावनविधिः —**
प्रातःकाले च कर्तव्यं शुद्ध्यर्थं दन्तधावनम् ।
प्राङ्मुख ऐशान्यभिमुखो वा दक्षिणं बाहुम् उद्धृत्यान्तर्जानुकर उपविश्य तिक्तकषायकटुकसुगन्धिकण्टकिक्षीरिवृक्षगुल्मलतादीनाम् एकेन प्रक्षालितेन वाग्यतो दन्तान् धावयेत् । तत्र वृक्षजकाष्टं स्याद् अव्रणं मृदु कीटाग्न्युदकादूषितं द्वादशाङ्गुलम् अष्टाङ्गुलं वा ।
कनिष्ठाग्रसमस्थूलं पर्वार्धकृतपूर्वकम् ।
दन्तधावनम् उद्दिष्टं जिह्वालेखनिका तथा ॥
क्षत्रियादिष्व् अङ्गुलाङ्गुलह्रासः । स्त्रीणां चतुरङ्गुलम् । सर्वेषां चैके । दन्तधावनमन्त्रः ।
आयुर् बलं यशो वर्चः प्रजाः पशुवसूनि च ।
ब्रह्मप्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥
प्रक्षाल्य भङ्क्त्वा त्यजेत् । तत्र खदिरगराकेतकीकरवीरकुटजासनार्कसर्जारिमेदापामार्ग-मालतीबिल्वाम्रकदम्बकरञ्जव्रजीवेणुप्लक्षमाषकबदरीशिरीषकोविदारपालाशशाकवृक्ष-शिखण्डिप्रियङ्गुतमालाः प्रशस्ताः । शाल्मल्यरिष्टभव्यकिंशुकपीलुबिभीतकगुग्गुलूक-प्रकुम्बयष्टितिन्दुकमधूकेङ्गुदधत्तूरपारिभद्राम्लिकाश् च वर्ज्याः ।
इष्टकाकाष्ठपाषाणैर् न कुर्याद् दन्तधावनम् ।
दधिनीलधवामोचाकदम्बेङ्गुदतिन्दुकाः ॥
बन्धूकमल्लिकाराजकार्पासाः श्रीहरस् तथा ।
औदुम्बरवटक्रमुकशिंशिपाश्वत्थशग्रुभिः ॥
[२५] कुशकाशैर् दन्तशुद्धौ गां पश्येन् नान्यथा शुचिः ।
कोविदारशमीकाचश्लेष्मातकपलाशकाः ॥
निर्गुण्डीशिंशपाशोककदम्बकुटजा वटाः ।
विहिताः प्रतिषिद्धाः स्युर् इमे तस्माद् विकल्पिताः ॥
पलाशं कुसुमं शाकं शिंशिपां कार्पासं दमयन्तीं शाल्मलीं शिरीषं शमीं लक्ष्मणां करञ्जवटार्कबकुलपारिजातनिर्गुण्डीसूचीमुखकण्टकिनश् च पूतिगन्धोग्रगन्धमधुर-विदलवित्वग्विषदिग्धोर्ध्वशुष्कांश् च वर्जयेद् इत्य् एके ।
आसने शयने याने पादुकादन्तधावने ।
पालाशाश्वत्थकौ वर्ज्यौ सर्वकुत्सितकर्मसु ॥
श्राद्धे यज्ञे च नियमे पत्यौ च प्रोषिते तथा ।
अजीर्णे च विवाहे च उपवासे व्रतेषु च ॥
प्रतिपद्दर्शषष्ठीषु नवम्यां च विशेषतः ॥
दन्तधावनं वर्ज्यम् । अष्टम्यां च चतुर्दश्यां पौर्णमास्यां स्त्रीतैलदन्तकाष्ठानि वर्ज्यानि । अर्कवारव्यतीपातजननदिनसङ्क्रान्तिनन्दादिषु विशेषतः । षष्ठीप्रतिपदोर् भूताष्टमीपर्वसु विशेषतो दर्शे नवम्यां च ।
तैलाभ्यङ्गं स्त्रियं मांसं दन्तकाष्ठं च वर्जयेत् ।
दन्तकाष्ठालाभे प्रतिषिद्धदिने चापां द्वादशगण्डूषैर् मुखशुद्धिः । यद् वा तृणपर्णोदकेनाङ्गुल्या वा दन्तान् धावयेत् प्रदेशिनीवर्जम् ।
मध्यमानामिकाङ्गुष्ठैर् दन्तदार्ड्ःयं भवत्य् अपि ।
इति दन्तधावनविधिः ।
** अथ स्नानविधिः ।**
संशोध्य दन्तान् आचम्य विधिवत् स्नानम् आचरेत् ।
स्नानमूलाः क्रियाः सर्वाः श्रुतिस्मृत्युदिता नृणाम् ॥
अस्नातस् तु पुमान् नार्हो जपहोमादिकर्मसु ॥
गुणा दश स्नानशीलस्य पुंसो
रूपं च तेजश् च बलं च शौचम् ।
आयुष्यम् आरोग्यम् अलोलुपत्वं
दुःस्वप्नघातश् च तपश् च मेधा ॥
स्नानेनात्मप्रसादः स्याद् देवा अभिमुखाः सदा ।
सौभाग्यं श्रीः सुखं पुष्टिः पुण्यं विद्या यशो धृतिः ॥
[२६] महापापान्य् अलक्ष्मीश् च दुरितं दुष्टचिन्तितम् ।
शोकदुःखादिहरणं प्रातःस्नानं विशेषतः ॥
प्रातर्मध्याह्नयोः स्नानं वानप्रस्थगृहस्थयोः ।
यतेस् त्रिषवणं स्नानं सकृत् तु ब्रह्मचारिणः ॥
सर्वे वापि सकृत् कुर्युर् अशक्तौ चोदकं विना ।
स्नानं च सर्ववर्णानां कार्यं शौचपुरःसरम् ॥
समन्त्रकं द्विजानां स्यात् स्त्रीशूद्राणाम् अमन्त्रकम् ।
नमस्कारेण मन्त्रेण शूद्राणां तु क्रिय स्मृता ॥
न जले शुष्कवस्त्रेण स्थले चैवार्द्रवाससा ।
तर्पणाचमनं जाप्यं मार्जनादिकम् आचरेत् ॥
ब्राह्मस्नानेषु सूर्यार्घ्यं जपोत्सर्जनतर्पणे ।
जलेष्टिहोमाञ् शुष्केण जले कुर्वन् न दुष्यति ॥
स्नानं च द्विविधं प्रोक्तं वारुणेतरभेदतः ।
तत्रापि वारुणं मुख्यम् इतरद् गौणम् एव तु ॥
आग्नेयं वारुणं ब्राह्मं वायव्यं दिव्यम् एव च ।
सारस्वतम् इति स्नानं स्मृतं षोढैव तत्र तु ॥
आग्नेयं भस्मना स्नानम् अद्भिर् वारुणम् उच्यते ।
आपोहिष्ठामयं ब्राह्मं मन्त्रस्नानं च तत् स्मृतम् ॥
पच्छो ऽर्धर्चश ऋक्शश् च मार्जनं तन्मयं तृचे ।
ब्राह्मं हस्तस्थितं तोयं शिरसा धारयेद् इति ॥
यत् स्मृतं तद् अपि ब्राह्मं वायव्यं रजसा गवाम् ।
[* दिव्यम् आतपवर्षाद्भिर् गङ्गास्नानसमं स्मृतम् ॥
विद्वत्सरस्वतीवाचा प्राप्तं सारस्वतं स्मृतम् । *]
दिव्यतीर्थमयं स्नानं गुर्वाचार्येरितं तथा ॥
सर्वतीर्थाभिषेकात् तु पवित्रा विदुषां हि वाक् ।
चाण्डालादिस्पर्शने च कार्यं वारुणम् एव तु ॥
काम्यं मलापकर्षं च क्रियास्नानं च वारुणम् ।
इतराणि यथायोग्यं देशकालाद्यपेक्षया ॥
[२७] स्रोतसो ऽभिमुखः स्नायान् मार्जने चाघमर्षणे ।
अन्यत्रार्कमुखो रात्रौ प्राङ्मुखोदङ्मुखो ऽपि वा ॥
सन्ध्यामुखस् तु सन्ध्यायां तथैवाद्यन्तयामयोः ।
नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणम् ॥
क्रियास्नानं तथा षष्ठं षोढा स्नानं प्रकीर्तितम् ।
नित्यम् एव तु मध्याह्ने प्रातश् च क्व च कस्यचित् ॥
यतिव्रतिब्रह्मचारिहोत्रध्येतृतपस्विनाम् ।
उच्छिष्टाद्युपघातेषु चास्पृश्यस्पर्शनेषु च ॥
ग्रहसङ्क्रमणादौ च स्नानं नैमित्तिकं भवेत् ।
पुष्यस्नानादिकं काम्यं दैवज्ञविधिचोदितम् ॥
इष्टापूर्तक्रियार्थं यत् क्रियाङ्गं स्नानम् उच्यते ।
मलापकर्षणं यत् तत् स्नानम् अभ्यङ्गपूर्वकम् ॥
स्नानम् एव फलं तीर्थे क्रियास्नानं तद् उच्यते ।
अनर्हस् त्व् अवगाह्यैव स्वाचान्तः स्नानम् आचरेत् ॥
प्रक्षाल्योच्छिष्टम् उच्छिष्टस् तथैव स्नानम् आचरेत् ।
नाल्पाम्भसि शिरो मज्जेन् नावगाहेत् समुद्रके ॥
क्रियास्नाने शिरो मज्जेद् अन्यत्रापि सरःसु च ।
उदयात् पूर्वम् ऊर्ध्वं वा स्नानं स्यात् सङ्गवे ऽपि वा ॥
प्रातः सङ्क्षेपतः स्नानं होमाद्यर्थं तद् इष्यते ।
नदीसरिद्देवखातगर्तप्रस्रवणेषु च ॥
सरःसु चाकृत्रिमेषु शस्तं तीर्थे विशेषतः ।
वाप्यां कूपे तडागे वा पारक्ये वोष्णवारिणि ॥
प्रातःस्नानं सदा कुर्याद् उष्णेनैव सदातुरः ॥
तत्र पादौ मुखं प्रक्षाल्य प्रणवं सावित्रीं च स्मृत्वा शिखां बद्ध्वाचम्य तटं प्रक्षाल्य दर्भादीन् निधाय दर्भपाणिः कृतसङ्कल्पो जलं नत्वा प्रदत्ताञ्जलिः प्राङ्मुखो ऽवगाह्य कक्षादीन् निमृज्य स्नात्वा द्विर् आचम्य दर्भपाणिर् आफोहिष्ठाद्यैर् अब्दैवतैर् मार्जनं कृत्वा जलालोडनं चाघमर्षणं (कुर्वन्न् एव पुनः स्नात्वा द्विर् आचम्य जलतर्पणं) कुर्यान् न वा ततो वस्त्रप्रान्तं निष्पीड्या**[२८]**(पः स्पृष्ट्वा वस्त्रद्वयं परिधानोत्तरीये कृत्वा स्नानवस्त्रं निष्पीड्य) आचम्य सन्ध्याम् उपासीत ।
मध्याह्नस्नाने त्व् एवं विशेषः —
कार्यं माध्याह्निकस्नानं सङ्क्षिप्तं वापि विस्तृतम् ।
सङ्क्षिप्तस्य प्रयोगो ऽत्र वक्ष्यते स्मृतिसङ्ग्रहात् ॥
तत्र कृतशौचो द्विर् आचम्य विष्णुं शिवं सूर्यं चेष्टदेवतां नत्वा प्रक्षालिततटे मृत्तिकां दर्भान् अक्षतांस् तण्डुलांस् तिलान् संस्थाप्य मृत्तिकां त्रिधा विभज्यैकेन भागेन नाभेर् अधः संलिप्य प्रक्षाल्य स्नात्वा द्विर् आचम्य भूर् भुवः स्वर् इति मृत्तिकां प्रोक्ष्य हस्ताभ्यां तत् सवितुर् वरेण्यम् इति सूर्यस्य दर्शयित्वा नाभेर् अधः स्योना पृथिवि भवेति द्यावापृथिवी शान्तेति वा लिप्त्वान्यभागं सूर्यदर्शितं नाभेर् ऊर्ध्वं गन्धद्वाराम् इत्य् आलिप्य “आपो अस्मान् मातरः,” “इदम् आपः प्रवहत,” “सुमित्र्या न आप ओषधयः” इति शिरस्य् अभ्युक्ष्य “दुर्मित्र्यास् तस्मै सन्तु” इत्य् बहिः प्रसिच्य यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः इति मृच्छेषं प्रक्षाल्यान्यतीर्थे गङ्गाईर्थं स्मृत्वा नत्वा “हिरण्यशृङ्गं वरुणं प्रपद्ये” इति वरुणं नत्वा तीर्थं चतुर्हस्तं प्रकल्प्य प्रदक्षिणम् उदकम् आवर्तयेत् । जानुमात्रसरिज्जले तिष्ठेद् अन्यत्रोपविशेत् । स्नात्वा देहं प्रक्षाल्य पुनः स्नात्वा द्विर् आचम्याब्दैवतैर् वारुणैः शुद्धशुचिपवित्रलिङ्गैर् मार्जनं कृत्वा “इदं मे गङ्गे” इति जलं तिर् आलोड्य मग्नो ऽघमर्षणं कुर्यात् । तच् चाघमर्षणम् अङ्गुष्ठाङ्गुलिभिः श्रोत्रदृङ्नासिकामुखं पिधाय निमग्नस् त्रिषडष्टद्वादशवारम् आवर्तयेद् अघमर्षणम् ।
ऋतं चेति तृचं सूक्तं द्रुपदां वा जपेद् ऋचम् ।
ओङ्कारं वा जपेद् विष्णुं शिवं सूर्यं स्मरेत् तथा ॥
ततस् त्रिपञ्चसप्तदशद्वादशवारं वाप्लुत्य द्विर् आचम्यैवार्द्रवासा जलतर्पणं कुर्यात् । ततो जलाद् उत्तीर्य स्नानवस्त्रप्रान्तं तटे निष्पीडयेत् — ये के चस्मत्कुले जाता इति ।
ततः स्नानार्द्रवस्त्रं त्यक्त्वा शुष्कं शुद्धम् अहतं कार्पासं क्षौमं वा श्वेतं धातुरक्तं वा वस्त्रद्वयं धृत्वा जङ्घे पादौ प्रक्षाल्य द्विर् आचम्य गङ्गादिमृत्तिकयोर्ध्वपुण्ड्रं कुर्यात् ।
इति स्नानप्रकरणम् ।
[२९]
** अथ ब्रह्मयज्ञतर्पणविधिः —**
अन्वारब्धेन सव्येन दक्षिणेन तु पाणिना ।
सव्योत्तराभ्यां पाणिभ्याम् अथ वा तर्पणं भवेत् ॥
श्राद्धे पिण्डे विवाहे च दाने चैकेन दीयते ।
तर्पणे तूभयेनैवं जलं देयं तु नान्यथा ॥
वामहस्ते तिलान् क्षिप्त्वा जलमध्ये तु तर्पयेत् ।
स्थले शाट्यां तटे पात्रे रोममूले न कुत्रचित् ॥
असंस्कृतप्रमीतानां स्थले दद्याज् जलाञ्जलिम् ॥
शुक्लैस् तिलैर् दर्भैर् देवान् उपवीती दैवेन तीर्थेन प्राङ्मुखस् तर्पयेत् । शबलैस् तिलैर् ऋषीन् निवीती कायेनोदङ्मुखस् तर्पयेत् । आचार्यान् पितॄन् प्राचीनावीती पित्र्येण कृष्णैर् तिलैर् दक्षिणाभिमुखस् तर्पयेत् । यद् वा शुद्धोदकैर् देवान् ऋषींश् च पितॄंस् तिलैः सर्वान् वा सर्वैस् तर्पयेत् । यद् वा देवान् अक्षतैस् तण्डुलैर् ऋषींस् तिलैः पितॄन् देवानाम् एकैकम् अञ्जलिं दद्यात् । ऋषीणां द्वौ द्वौ पितॄणां त्रींस् त्रीन् दद्यात् स्वाचारप्राप्तैर् मन्त्रैः । यद् वा ब्रह्मादयो ये देवास् तान् देवांस् तर्पयामि । भूर् देवांस् तर्पयामि । भुवर् देवांस् तर्पयामि । स्वर् देवांस् तर्पयामि । भूर् भुवः स्वर् देवांस् तर्पयामि । कृष्णद्वैपायनादयो य ऋषयस् तान् ऋषींस् तर्पयामि । भूर् ऋषींस् तर्पयामि । भुवर् ऋषींस् तर्पयामि । स्वर् ऋषींस् तर्पयामि । भूर् भुवः स्वर् ऋषींस् तर्पयामि । सोमः पितृमान् यमो ऽङ्गिरसो ऽग्निष्वात्ताः कव्यवाहनादयो ये पितरस् तान् पितॄंस् तर्पयामि । भूः पितॄंस् तर्पयामि । भुवः पितॄंस् तर्पयामि । स्वः पितॄंस् तर्पयामि । भ्जूर् भुवः स्वः पितॄंस् तर्पयामि । ततः पित्रादीन् प्रतिपुरुषं तर्पयेत् । मात्रादीर् मातामहादीन् मातामह्यादीः पितृव्यांस् तत्पत्नीर् ज्येष्ठभ्रातॄंस् तत्पत्नीर् मातुलांस् तत्पत्नीर् गुर्वाचार्योपाध्यादान् सुहृत्सम्बन्धिबान्धवांश् च द्रव्यदातृपोषकांश् च तत् पत्नीश् च तर्पयेत् ।
तिलाभावे स्वर्णरूप्यताम्रदर्भतिलोदकैः ।
खड्गमौक्तिकहस्तेन कार्यं वा पितृतर्पणम् ॥
न केवलजलेनैव कर्तव्यं सति सम्भवे ।
न जीवत्पितृकः कृष्णैस् तिलैस् तर्पणम् आचरेत् ॥
सप्तम्यां रविवारे च जन्मर्क्षदिवसेषु च ।
गृहे निषिद्धं सतिलं तर्पणं तद् बहिर् भवेत् ॥
[३०] शोभनगृहे शोभनदिने न तिलतर्पणम् ।
विवाहे चोपनयने चौले सति यथाक्रमम् ॥
वर्षम् अर्धं तदर्धं च नेत्य् एके तिलतर्पणम् ।
वृद्धौ सत्यां च तन्मासे नेत्य् एके तिलतर्पणम् ॥
तिथितीर्थविशेषे तु कार्यं प्रेते च सर्वदा ।
पिण्डान् सपिण्डा नो दद्युः प्रेतपिण्डं विनात्र तु ॥
पितृयज्ञे च यज्ञे च गयायां दद्युर् एव ते ।
गयासाम्यं मृताहस्य केचिद् आहुः पुराणकाः ॥
वसुरुद्रादित्यरूपाञ् छ्राद्धार्थे तर्पयेत् पितॄन् ।
नामगोत्रे समुच्चार्य तिलैस् तीर्थेषु संयतः ॥
दीपोत्सवश् चतुर्दश्यां कार्यं च यमतर्पणम् ।
कृष्णाङ्गारचतुर्दश्याम् अपि कार्यं सदैव तु ॥
यमाय धर्मराजाय मृत्यवे चान्तकाय च ।
वैवस्वताय कालाय सर्वभूतक्षयाय च ॥
औदुम्बराय दध्नाय नीलाय परमेष्ठिने ।
वृकोदराय चित्राय चित्रगुप्ताय वै नमः ॥
चतुर्दशैते मन्त्राः स्युः प्रत्येकं च नमोऽन्विताः ।
एकैकेन तिलैर् मिश्रान् दद्युस् त्रीन् उदकाञ्जलीन् ॥
यज्ञोपवीतिना कार्यं प्राचीनावीतिनाथ वा ।
देवत्वं च पितृत्वं च यमस्यास्ति द्विरूप्ता ॥
ततः स्नानवस्त्रं निष्पीडयेत् । न त्रिगुणीकृतं पीडयेत् । न जले पीडयेत् । न दक्षिणाग्रं प्रसारयेत् । स्नात्वार्द्रवस्त्रो विण्मूत्रे कृत्वा प्राणायामत्रयं कृत्वा पुनः स्नायात् ।
नोत्तरीयम् अधः कुर्यान् नोपर्य् अधस्थम् अम्बरम् ।
न सर्वकृष्णं रक्तं वा परिदध्यात् कदाचन ॥
कुतुपं शाणम् अजिनं योगपट्टोत्तरीयके ।
यज्ञोपवीतम् अन्यद् वा द्वितीयं तु भवेद् इह ॥
स्नात्वा न पीडयेत् केशान् नाङ्गेभ्यस् तोयम् उद्धरेत् ।
न वस्त्रं विधुनेच् छश्वन् न केशान् अवधूनयेत् ॥
[३१] स्नातो नाङ्गानि मृज्यात् तु स्नानवस्त्रेण सर्वथा ।
नान्यो ऽन्यं पृषतो मृज्यान् न लिम्पेत् पृषतो मिथः ॥
स्नात्वा न धावयेद् दन्तान् न मृज्याद् वाससा मुखम् ।
न रात्रौ मृत्तिकास्नानं नैव भौमार्कवारयोः ॥
सन्ध्ययोर् नैव गोमूत्रं न शुध्येद् गोमयं निशि ।
दिवाम्बुगोशकृन्मूत्रैः शुद्धिर् निश्य् अम्बुभस्मभिः ॥
पञ्च पिण्डांस् त्रिपिण्डान् वाप्य् उद्धरेत् परवारिषु ।
स्नायाद् अपत्युपहते नित्यार्थं न महानिशि ॥
महानिशा द्वे घटिके रात्रौ मध्यमयामयोः ।
न महानिशि नित्यार्थं काम्यं नैमित्तिकं भवेत् ॥
स्नायात् तु पूर्वम् अस्नातो निश्य् उष्णेन जलेन च ।
नाम्बु हन्यान् न निन्देच् च तीर्थे तीर्थान्तरं स्मरेत् ॥
न स्नायाद् उत्सवे ऽतीते माङ्गल्यं विनिवर्त्य च ।
अनुव्रज्य सुहृद्बन्धून् अर्चयित्वेष्टदेवताम् ॥
मृते जन्मर्क्षदिवसे प्रतिपन्नवमीषु च ।
श्राद्धे कर्ता चान्यदिने सङ्क्रान्तिग्रहणेषु च ॥
अर्कवारे च सप्तम्यां चतुर्दश्यष्टमीषु च ।
एकादश्यां पौर्णमास्यां षष्ठ्यां दर्शे विशेषतः ॥
तैलाभ्यङ्गं रतिं मांसं दन्तकाष्ठं च वर्जयेत् ।
उष्णोदकेन न स्नायाद् अन्यदा वाप्य् अकारणात् ॥
क्रियास्नानं च काम्यं च पारक्योष्णेन वर्जयेत् ।
नद्यां नास्तमिते स्नाया(द् विशेषान् मध्ययामयोः ॥
अग्निं प्रज्वाल्य वा स्नाया)द् वाप्यादिषु महाजले ।
राहुदर्शनसङ्क्रान्तिविवाहोत्क्रान्तिवृद्धिषु ॥
स्नानदानादिकं कार्यं निशि काम्यव्रतेषु च ।
नद्यां स्नात्वा नदीं चान्यां न प्रशस्येच् च धर्मवित् ॥
अस्पृश्यस्पर्शने स्नाने नाघमर्षणतर्पणे ।
उभाव् अप्य् अशुची स्यातां दम्पती मिथुनं गतौ ॥
शयनाद् उत्थिता नारी शुचिः स्याद् अशुचिः पुमान् ।
[३२] ऋतौ तु मैथुने स्नायाद् गर्भधारणशङ्कया ॥
अनृतौ तदभावाच् च शौचं मूत्रपुरीषवत् ।
रोगेण यद् रजः स्त्रीणां न तेनाशुचयः स्मृताः ॥
चाण्डालादिस्पर्शनादौ विस्तरो वक्ष्यते पृथक् ।
शवानुगमने स्नानं घृतप्राशो विकल्पितः ॥
यत्र पुंसः सचेलं स्यात् स्नानं तत्र सुवासिनी ।
कुर्वती वा शिरः स्नानं शिरोरोगी जटी सदा ॥
अशक्तौ शोभनगृहे शोभनाहे च सर्वदा ।
न शीतलजलस्नानं कार्यं नैवोष्णसेविना ॥
उद्धृतजलस्नाने मार्जनं कार्यम् । अघमर्षणजपो ऽस्ति न वा । जलतर्पणं तु कार्यं न वा । स्थलतर्पणं तु पात्रस्थे जले ऽक्षतादीन् क्षिप्त्वा पात्रान्तरे कार्यं सोदके गर्ते वा । सबर्हिषि भूस्थले कार्यं नाबर्हिषि नाशुचौ स्थले कार्यम् ।
अथाभ्यङ्गस्नानविधिः —
तैलाभ्यङ्गे निषिद्धाः स्युः सर्वाश् च तिथयः सदा ।
द्वितीयां वर्जयित्वैव दृष्टादृष्टद्विदोषतः ॥
सार्षपं गन्धतैलं च यत् तैलं पुष्पवासितम् ।
अन्यद्रव्ययुतं तैलं न दुष्यति कदाचन ॥
तैलाभ्यङ्गनिषेधेषु तिलतैलं निषिध्यते ।
अभ्यङ्गस्य निषेधस् तु सार्षपादेर् अपीष्यते ॥
स्नेहेनाभ्यङ्गो भवति स स्नेहः सार्षपादिकः ।
न भोजनाय तैलस्य निषेधो ऽभ्यङ्ग एव सः ॥
तैलशब्दस् तिलस्नेहो सुरूढो नैव यौगिकः ।
अतस् तिलविकारे ऽपि पिण्याकतिलमोदके ॥
शष्कुलीकृसरादौ च निषेधो नैव जायते ।
सार्षपादौ तैलशब्दस् तत्कार्यसदृशत्वतः ॥
सन्तापः कान्तिर् अल्पायुर् धनं निर्धनता तथा ।
अनारोग्यं सर्वकामा वारेष्व् अभ्यङ्गकारिणः ॥
असौभाग्यं च वैधव्यं वारयोर् गुरुशुक्रयोः ।
[३३] निषिद्धदिवसे वारे रात्रौ च व्याधितस्य च ॥
द्रव्यान्तरयुतं तैलं न दुष्यति कदाचन ।
शिरःस्नातस् तु तैलेन नाङ्गं किञ्चिद् उपस्पृशेत् ॥
सर्वथा नित्यकर्मार्थं स्नायाद् एव कदाचन ।
विना मृत्तिकया वापि सकृद् उष्णेन वारिणा ॥
इति स्नानविधिः ।
** अथ सन्ध्याविधिः ।**
सन्ध्याहीनो ऽशुचिर् नित्यम् अनर्हः सर्वकर्मसु ।
यत् किञ्चित् कुरुते कर्म न तस्य फलम् अश्नुते ॥
तत्र पादौ हस्तौ प्रक्षाल्य द्विर् आचम्य दर्भपाणिर् आपोहिष्ठाद्यैर् अब्दैवतैर् मन्त्रैर् द्रभैः शिरसि मार्जनं कृत्वात्मानं परिषिच्य सूर्यश् चेत्य् अपः पीत्वा द्विर् आचामेत् । सायङ्काले तु अग्निश् चेत्य् अपः पिबेत् । ततो द्विर् आचम्य पुनश् चाब्दैवतैर् मार्जनं कृत्वात्मानं परिषिच्य गायत्र्याभिमन्त्रितं तोयम् अञ्जलिना सूर्यायार्घ्यं त्रिर् उत्क्षिपेत् । अशुद्धे देशे धाराम्बुमार्जनं परिवर्जयेत् ।
पात्रस्थेनाम्बुना कुर्याद् वामहस्तस्थितेन वा ।
ततः प्राणायामत्रयं कृत्वासूर्यदर्शनात् तिष्ठन् प्राङ्मुखो गायत्रीं जपेत् ।
आ नक्षत्रदर्शनाद् आसीनः सायं प्रत्यङ्मुखो जपेत् ।
ब्रह्मचारी गृहस्थश् च शतम् अष्टोत्तरं जपेत् ॥
वानप्रस्थो यतिश् चैव सहस्राद् अधिकं जपेत् ।
याद् वापत्सु जपेद् देवीम् अष्टाविंशतिम् अष्ट वा ॥
सदर्भपाणिर् आ होमाद् दर्भस्थस् तूक्तसङ्ख्यया ।
हस्तेनावर्तयेद् देवीम् अक्षसूत्रैर् अथापि वा ॥
सौवर्णै राजतैस् ताम्रैः स्फोटिकै रत्नजैस् तथा ।
अरिष्टैः पुत्रजीवोत्थैर् इन्द्राक्षैः शङ्खसम्भवैः ॥
रुद्राक्षैर् अपि पद्माक्षैः कुशग्रन्थिभिर् एव च ।
मणिभिस् त्व् अक्षसूत्रं स्यात् तद् अष्टोत्तरसङ्ख्यया ॥
चतुष्पञ्चाशता वापि सप्तविंशतिभिस् तु वा ।
ओष्ठ्याज् जपाद् उपांशुः स्याच् छ्रेष्ठो वै मानसस् ततः ॥
[३४] स उपांशुजपो ऽशब्दश् चलज्जिह्वारदच्छदः ।
मानसस् त्व् अचलज्जिह्वादशनच्छद ईरितः ॥
नाधोरतिर् नान्यमना न च व्यत्यस्तपत्करः ।
जपेन् न प्रौढपादश् च नावष्टब्धो ऽलसो ऽशुचिः ॥
न च क्रामन् न जल्पंश् च न पार्श्वम् अवलोकयन् ।
नासङ्ख्यातम् अदर्भश् च नाशिखाकच्छबन्धनः ॥
मनःसंहरणं शौचं मौनं मन्त्रार्थचिन्तनम् ।
अव्यग्रत्वम् अनिर्वेदो जपसम्पत्तिहेतवः ॥
जपान्ते प्रातः सौरैर् मन्त्रैः सूर्यम् उपतिष्ठेत । सायं वारुणैः । यद् वोभयत्र जातवेदसेन वैष्णवै रौद्रैर् वोपतिष्ठेत । दिग्भ्यो दिग्देवताभ्यो नमस्कृत्य सन्ध्यायै गायत्र्यै सावित्र्यै सरस्वत्यै सर्वाभ्यो देवताभ्यो नमस्कुर्यात् । इत्यादि यथास्वाचारं कार्यम् ।
पुनः सूर्यं नमस्कृत्य नामगोत्रेण वाग्यतः ।
गुप्तम् अग्न्यम्बु नीत्वाथ होमं कुर्याद् यथा विधिः [यथाविधि?] ॥
इति सन्ध्योपासनविधिः ।
** अथ होमविधिः —**
होमे मुख्यो यजमानः पत्नी पुत्रश् च कन्यका ।
ऋत्विक् शिष्यो गुरुर् भ्राता भागिनेयः सुतापतिः ॥
एतैर् एव हुतं वस्तु तद् धुतं स्वयम् एव तु ।
पर्युक्षणवर्ज्यं पत्नी जुहुयात् कुमारी च ।
असमक्षं तु दम्पत्योर् होतव्यं नर्त्विगादिना ॥
द्वयोर् अप्य् असमक्षं चेद् भवेद् धुतम् अनर्थकम् ।
सन्निधौ यजमानः स्याद् उद्देशत्यागकारकः ॥
असन्निधौ तु पत्नीस्याद् उद्देशत्यागकारिका ।
असन्निधौ तु पत्न्याः स्याद् अध्वर्युस् तदनुज्ञया ॥
उन्मदे प्रसवे चर्तौ कुर्वतानुज्ञया विना ।
नोपवासी प्रवासे स्यात् पत्नी धारयते व्रतम् ॥
सर्वदा यजमानो वा त्यजेत् तद्दिङ्मुखः शुचिः ।
[३५] प्रातर्होमे सङ्गवान्तः कालस् त्व् अनुदिते तथा ॥
सायम् अस्तमिते होमकालस् तु नव नाडिकाः ।
बहुशुष्केन्धने वाग्नौ सुसमिद्धे विधूमके ॥
साङ्गारे लेलिहाने च होतव्यं नान्यथा क्वचित् ।
अग्निः प्रदक्षिणावर्तः कर्मदश् च शुभावहः ॥
अग्निं परिसमुह्य परिस्तीर्य पर्युक्ष्य ततो गन्धपुष्पैर् अलङ्कृत्य समिधं क्षिप्त्वा प्रदीप्तां समिधं ह्य् अङ्गुलम् अतिक्रम्य देवायतने सम्पूर्णं हौम्यं देवतीर्थेन कायेन सौम्येन वा हुत्वा पुनः समिधं क्षिप्त्वोपस्थाय परिसमुह्य पर्युक्ष्य हुतशेषं ब्राह्मणाय दत्वा नमेत् ।
पयो दधि यवागूश् च सर्पिर् ओदनतण्डुलाः ।
सोमो मांसं तैलम् आपो दशैतान्य् अग्निहोत्रके ॥
स्याद् अग्निहोत्रवद् गृह्ये संस्कारो मन्त्रवर्जितः ।
यद् वा त्रिः प्रोक्षणं तेषां मांसम् औपासने न च ॥
शालिश्यामाकनीवारा व्रीहिगोधूमयावकाः ।
एतेषां तण्डुला होम्या यावानलप्रियङ्गवः ॥
प्रियङ्गवश् च गोधूमाः स्यामाका व्रीहयो यवाः ।
सारूप्येणापि होम्याः स्युः स्वरूपेणैव वै तिलाः ॥
द्रव्यं [द्रवं?] स्रुवेण होतव्यं पाणिना कठिनं हविः ।
व्रीहीणां च यवानां च शतम् आहुतिर् इष्यते ॥
तद् अन्नं द्विगुणो ग्रासो मयूराण्डाकृतिस् तथा ।
कुक्कुटाण्डकमात्रं तु पिण्ड इत्य् अभिधीयते ॥
अङ्गुष्ठपर्वमात्रं स्याद् अवदानं ततो ऽपि वा ।
ज्यायः स्विष्टकृदाज्यं तु चतुर् अङ्गुलसम्मितः ॥
ग्रासमात्रा भवेद् भिक्षा अग्रं ग्रासचतुष्टयम् ।
अग्रं चतुर्गुणीकृत्य हन्तकारः स उच्यते ॥
भिक्षा पुष्कलम् अग्रं वा पूर्वं पूर्वं चतुर्गुणम् ।
नृभोजनं तद्द्विगुणं शरावः पात्रम् एव च ॥
यद् वा —
प्रस्थं धान्यं चतुःषष्टेर् आहुतेः परिकीर्तितम् ।
तिलानां तु तदर्धं स्यात् तदर्धं स्याद् घृतस्य तु ॥
[३६]
अथ समिधः —
पलाशखदिराश्वत्थशम्युदुम्बरजा समित् ।
अपामार्गार्कदूर्वाश् च कुशाश् चेत्य् अपरे विदुः ॥
सत्वचः समिधः कार्या ऋज्व्यः श्लक्ष्णाः समास् तथा ।
शस्ता दशाङ्गुलास् तास् तु द्वादशाङ्गुलिकास् तथा ॥
आर्द्रपक्वाः समच्छेदास् तर्जन्यङ्गुलिवर्तुलाः ।
अपाटिता अद्विशाखाः कृमिदोषविवर्जिताः ॥
दग्धाः कृशास् तथा स्थूला ह्रस्वा दीर्घास् तु वर्जयेत् ॥
यद् वा —
समित् पवित्रं वेदश् च त्रयः प्रादेशसम्मिताः ।
इध्मस् तु द्विगुणः कार्यस् त्रिगुणः परिधिः स्मृतः ।
स्मार्ते प्रादेश इध्मो वा द्विगुणः परिधिः स्मृतः ॥
अथ दर्भविधिः —
कुशाः काशा यवा दूर्वा उशीराश् चैव कन्दुराः ।
गोधूमा व्रीहयो मुञ्जा दश दर्भाः समुज्ज्वलाः ॥
नभोमासस्य दर्शे तु शुचिर् दर्भान् समाहरेत् ।
अयातयामास् ते दर्भा नियोज्याः स्युः पुनः पुनः ॥
कुशदर्भोत्पाटने मन्त्रः ।
विरिञ्चिना सहोत्पन्न परमेष्ठिनिसर्गज ।
नुद पापानि सर्वाणि दर्भ स्वस्तिकरो मम ॥
एवं मन्त्रं समुच्चार्य ततः पूर्वोत्तरामुखः ।
हुम्फट्कारेण मन्त्रेण सकृच् छित्वा समुद्धरेत् ॥
अच्छिन्नाग्रा अशुष्काग्राः पित्र्ये तु हरिताः शुभाः ।
अमूला देवकार्येषु प्रयोज्याश् च जपादिषु ॥
सप्तपत्राः कुशाः शस्ता दैवे पित्र्ये च कर्मणि ।
अनन्तौ तरुणौ साग्रौ प्रादेशौ तु पवित्रके ॥
चतुर्भिर् दर्भपिञ्जूलैर् ब्राह्मणस्य पवित्रकम् ।
एकैकं न्यूनम् उद्दिष्टं वर्णे वर्णे यथाक्रमम् ॥
[३७] सर्वेषां वा भवेद् द्वाभ्यां पवित्रं ग्रन्थितं न वा ।
त्रिभिस् तु शान्तिके कार्यं पौष्टिके पञ्चभिस् तथा ॥
चतुर्भिश् चाभिचारे स्यान् निष्कामैर् इति केचन ।
सपवित्रः सदर्भो वा कर्माङ्गाचमनं चरेत् ॥
नोच्छिष्टं तद् भवेत् तस्य भुक्तोच्छिष्टं तु वर्जयेत् ।
यैः कृतः पिण्डनिर्वापः श्राद्धं वा पितृतर्पणम् ॥
विण्मूत्रादिषु ये दर्भास् तेषां त्यागो विधीयते ।
नीवीमध्ये स्थितास् त्याज्या यज्ञभूमौ स्थिताः सदा ॥
वामहस्ते स्थिते दर्भे न पिबेद् दक्षिणेन तु ।
चषकादिनोपग्रहणे न दोषः पिबतो भवेत् ॥
न ब्रह्मग्रन्थिनाचमेन् न दूर्वाभिः कदाचन ।
स्नाने दाने जपे होमे स्वाध्याये पितृतर्पणे ॥
सपवित्रौ सदर्भौ वा करौ कुर्वीत नान्यथा ।
कुशाभावे तु काशाः स्युः काशाः कुशसमाः स्मृताः ॥
काशाभावे ग्रहीतव्या अन्यदर्भा यथोचितम् ।
नार्द्रांल् लुनीयाद् रात्रौ तु लुनीयाद् वापि सन्ध्ययोः ॥
दर्भाभावे स्वर्णरूप्यताम्रैः रत्नैः क्रियाश् चरेत् ॥
इति दर्भोच्चयविधिः ।
अथ बर्हिः —
बर्हिः काशमयं ग्राह्यं न लभेत कुशो यदि ।
शरोर्य् अनुजवाश् चैव बालमौञ्जार्जुनेक्षवः ॥
सुगन्धितेजना दार्वं दूर्वा क्षीरद्रुमा अपि ।
यदा सर्वतृणेभ्यो ऽपि ग्राह्यं बर्हिर् यथेप्सितम् ॥
शूलशुण्डकृष्णमूलदुर्गन्धितृणवर्जितम् ।
शूकलानेरकांश् चापि वर्जयन्त्य् अपरे बुधाः ॥
कुशाभावे परे प्राहुः पर्णवल्लसदोषधीः ।
बन्धूकशूकरेष्व् इष्टः परिव्याधकवर्जितः ॥
मुरव्यान् दर्भान् विशेषेण केचित् काशान् कुशाञ् छरान् ।
बल्वजान् पुण्डरीकाणि यवव्रीहितृणान्य् अपि ॥
[३८]
अथेध्मः —
पालाशः खादिरश् चेध्मो मुख्यः स्यात् तदलाभतः ।
शमीवटोदुम्बरज आश्वत्थस् तदलाभतः ॥
वनस्पतीनां सर्वेषाम् इध्मः कार्यो विशेषतः ।
तच् चैतान् वर्जयेद् वृक्षान् कोविदारविभीतकान् ॥
कपित्थामलकौ राजवृक्षं शाकद्रुमं तथा ।
नीपं निम्बं करञ्जं च तिलकं शाल्मलीम् अपि ।
श्लेष्मातकम् अपि त्यक्त्वा ग्राह्यो ऽन्यः सकलो द्रुमः ॥
अथ स्रुगादिः —
वैकङ्कती वा पालाशी अग्निहोत्रहवण्य् अपि ।
जुहूः पालाश्य् उपभृद् आश्वत्थी वैकङ्कती ध्रुवा ॥
यद् व सर्वाः स्रुचः कार्या एतेषाम् अन्यवृक्षतः ।
शमीमय्यः स्रुचः सर्वाः सर्वा वा भूर्जवृक्षजाः ॥
तदभावे यथालाभम् अन्ययज्ञियवृक्षजाः ।
खादिरस्य स्रुचः स्यात् तु शम्याप्राशित्रमेक्षणे ॥
खादिरो मुसलः कार्यः पालाशः स्याद् उलूखलः ।
यद् वोभौ वारुणौ कार्यौ तदलाभे ऽन्यवृक्षजौ ॥
पालाशाद् वा वटाद् वान्यवृक्षाद् वा चमसाः स्मृताः ।
आश्वत्थं वारणं नो चेद् इडापात्रम् इहान्यजम् ॥
मुख्याभावे तु सदृशं द्रव्यं प्रतिनिधीयते ।
यावद् यावत् तु सदृशं तत् तद् एव तु गृह्यते ॥
काम्ये प्रतिनिधिर् नास्ति नित्ये नैमित्तिके हि सः ।
काम्ये ऽप्य् उपक्रमाद् ऊर्ध्वम् अन्ये प्रतिनिधिं विदुः ॥
न स्यात् प्रतिनिधिर् मन्त्रस्वामिदेवाग्निकर्मसु ।
स देशकालयोर् नास्ति अरण्योर् अग्निर् एव सा ॥
समारूढां च समिधम् अरणिं ब्रुवते बुधाः ।
नाभावस्य प्रतिनिधिर् अभावान्तरम् इष्यते ॥
नापि प्रतिनिधातव्यं निषिद्धं वस्तु कुत्रचित् ।
श्रोत्रियाणाम् अभोज्यं यद् द्रव्यं हित् तद् अदोषतः ॥
**[३९] **ग्राह्यं प्रतिनिधित्वेन होमकार्ये न कुत्रचित् ।
द्रव्यं वैकल्पिकं केचिद् यत्र सङ्कल्पितं भवेत् ॥
तदभावे सदृग् ग्राह्यं न तु वैकल्पिकान्तरम् ।
मुख्यद्रव्यापचारे तु प्रतिनिध्यभिसन्धिना ॥
प्रयुञ्जानस्य मुख्यार्थलाभे ग्राह्यः स एव हि ।
उपात्ते तु प्रतिनिधौ मुख्यो ऽर्थो लभ्यते यदि ॥
तत्र मुख्यम् अनादृत्य गौणेनैव समापयेत् ।
उपात्ते यस्मिन् कस्मिन् वा मुख्योपचरिते सति ॥
अन्यद्रव्यं सजातीयं विजातीयम् अथापि वा ।
उपादाय प्रयुञ्जानो यदि पूर्वम् अवाप्नुयात् ॥
उपात्तत्वाविशेषे ऽपि पूर्वं हित्वा परं श्रयेत् ।
मुख्याभावे यदा गौणम् उपात्तं तद् विनश्यति ॥
तत्र मुख्योपमं गौणं ग्राह्यं गौणोपमं न तु ।
संस्काराणाम् अयोग्यो ऽपि मुख्य एव हि गृह्यते ॥
न तु संस्कारयोग्यो ऽन्यो गृह्यते प्रतिरूपकः ।
मुख्ये कार्यासमर्थे तु लब्धे ऽप्य् एतस्य नादरः ॥
प्रतिरूपम् उपादाय शक्तं तेन प्रयुज्यते ।
द्व्यवत्तमात्रपर्याप्तमुख्यद्रव्यस्य सम्भवे ॥
पुरोडाशमहत्त्वार्थं न नीवारपरिग्रहः ।
कृष्णव्रीह्यादिके द्रव्ये शिष्टे यच् चरिते सति ॥
ग्राह्यो ऽकृष्णो ऽपि सन् व्रीहिर् नाव्रीहिः कृष्णगुण्य् अपि ।
कार्यै रूपैस् तथा पर्णैः क्षीरैः पुष्पैः फलैर् अपि ॥
गन्धै रसैः सदा ग्राह्यं पूर्वाभावे परं परम् ।
व्रीहिर् यवो वा श्यामाको नीवारो वा हविर् भवेत् ॥
वेणुर् यवाः स्वरसं वा कन्दमूलफलं जलम् ।
सत्यं वा हविर् एतेषु यथासम्भवम् आचरेत् ॥
प्रतिनिध्यन्तरं सत्यं विज्ञेयं हविर् अत्यये ।
प्रधानदेवतोद्देशात् सन्त्यजेत् सत्यम् आत्मनः ॥
[४०] अतो ऽन्यद् अपि वा ग्राह्यं सदृशं धान्यमात्रकम् ।
न ग्राह्यं सर्वथा माषवरकोदारकोद्रवम् ॥
यद् वा व्रीहियवाभावे तुषतण्दुलयोगिनीः ।
ओषधीः प्रतिगृह्णीयाद् आनुकोद्रववर्जिताः ॥
ग्राम्याणां च भवेद् ग्राम्यम् आरण्यानाम् अरण्यजम् ।
यवाभावे तु गोधूमास् ततो वेणुयवादयः ॥
छन्दोगगृह्यवचनाज् जुहुयाद् धविर् अत्यये ।
फलं याज्ञिकवृक्षस्य पवित्रम् अथ वा जलम् ॥
यथाग्निहोत्रहोमार्थं पयो न स्यात् कदाचन ।
तदा व्रीहियवौ ग्राह्याव् ओषध्यन्तरम् एव च ॥
आरण्यौषधयो वृक्षफलान्य् आप इति क्रमात् ।
होमं कर्तुम् उपादेयं पूर्वाभावे परं परम् ॥
तेषाम् अभावे जुहुयाच् छ्रद्धया सत्यम् आत्मनः ।
हव्यार्थं गोघृतं ग्राह्यं तदभावे तु माहिषम् ।
आजं वा तदलाभे तु साक्षात् तैलं ग्रहीष्यते ।
तैलाभावे ग्रहीतव्यं तैलजं तिलसम्भवम् ॥
तदभावे ऽतसीस्नेहः कौसुम्भः सर्षपोद्भवः ।
वृक्षस्नेहो ऽथ वा ग्राह्यः पूर्वाभावे परः परः ॥
तदभावे यवव्रीहिश्यामाकान्यतरोद्भवः ।
पिष्टम् आलोड्य तोयेन घृतार्थे योजयेत् सुधीह् ॥
वृक्षतैलेषु पुन्नागनिम्बैरण्डोद्भवं त्यजेत् ।
यद् वा गव्यघृते छागमहिष्यादिघृतं क्रमात् ॥
तदलाभे गवादीनां क्रमात् क्षीरं विधीयते ।
तदलाभे दधि ग्राह्यम् अलाभे तैलम् इष्यते ॥
यत्राज्यमञ्जनाद्यर्थं न लभ्येत कदाचन ।
तत्र क्षीराद्य् अनादृत्य साक्षात् तैलं ग्रहीष्यते ॥
यत्र मुख्यं दधि क्षीरं तत्रापि तदभावतः ।
अजादेः क्षीरदध्यादि तदलाभे तु गोघृतम् ॥
[४१] मुख्यसम्पादकं ग्राह्यं कार्यकारणसन्ततौ ।
अत एव घृताभावे पूर्वं दधि ततः पयः ॥
येषां केषाञ्चिद् अन्येषां हविषाम् अथ सम्भवे ।
सर्वत्राज्यम् उपादेयं भरद्वाजमुनेर् मतात् ॥
मुख्यकाले यद् आवश्यं कर्म कर्तुं न शक्यते ।
गौणकाले ऽपि कर्तव्यं गौणो ऽप्य् अत्रेदृशो भवेत् ॥
सायम् आहुतिर् आप्रातर् आसायं प्रातराहुतिः ।
कर्तव्या नातिपद्येत पार्वणं पार्वणान्तरात् ॥
श्यामाकैर् व्रीहिभिश् चैव यवैर् वान्योन्यकालतः ।
प्राग् यष्टुं युज्यते ऽवश्यं न त्व् अत्राग्रयणात्ययः ॥
एवम् आगामिकार्यस्य मुख्यकालाद् अधस्तनः ।
स्वकालाद् उत्तरो गौणः कालः पूर्वस्य कर्मणः ॥
सर्वत्र गौणकालेषु कर्म चोदितम् आचरेत् ।
प्रायश्चित्तं व्याहृतिभिर् हुत्वा कर्म समाचरेत् ॥
मुख्यकाले तु मुक्यं चेत् साधनं नैव लभ्यते ।
मुख्यकालम् उपाश्रित्य गौनम् अप्य् अस्तु साधनम् ॥
न मुख्यद्रव्यलोभेन गौणकालप्रतीक्षणम् ।
एकपक्षगतो यावद् धोमसङ्घो ऽतिपद्यते ॥
पक्षहोमविधानात् तान् हुत्वा तन्तुमतीं यजेत् ।
स्वकालोत्कर्षतः कश्चिद् गौणः कालो निरूप्यते ॥
अपकर्षाद् अथान्यो ऽपि गौणः कालो निरूप्यते ।
आमयव्याधिनानापद्गतो वाध्वगतो ऽपि वा ॥
राष्ट्रभ्रंशे धनाभावे गुरुगेहे वसन्न् अपि ।
अन्येष्व् एवम्प्रकारेषु निमित्तेष्व् आगतेषु च ॥
समासम् अग्निहोत्राणां यथासम्भवम् आचरेत् ।
निमित्तानाम् इहैतेषां निर्दिश्यैकं यद् उच्यते ॥
तत् सर्वेषु निमित्तेषु जानीयात् प्रतिपादितम् ।
पक्षहोमान् अशेषान् वापक्षहोमान् अथापि वा ॥
[४२] समस्य जुहुयात् तत्र प्रयोगो ऽयं निरूप्यते ।
प्रतिपद्य् उन्नयेत् सायम् आपद्य् अन्यत्र वा दिने ॥
यावन्त्य् औपवसथ्याहात् प्राग् दिनानि भवन्ति हि ।
तावन्ति प्रतिगृह्णीयाच् चतुरुन्नयनानि तु ॥
पात्रान्तरसहायायां नित्यायां प्रकृतौ स्रुचि ।
स्थूलं स्रुगन्तरं वापि कृत्वा तत्र समुन्नयेत् ॥
एका समित् सकृद् धोमः सकृद् एव निमार्जनम् ।
उपस्थानं सकृद् कार्यं शेषा प्रकृतिर् इष्यते ॥
एवम् एवोत्तरत्रापि प्रातर्होमात् समस्य तु ।
जुहोत्य् औपवसथ्याहात् प्रातर् होमावधीन् सकृत् ॥
समारोपविधानेन समारोपयते ऽनलान् ।
एवं प्रतिपदो ऽन्यत्र यत्रापद् उपजायते ॥
तथैवौपवसथ्यात् प्राग् यत्राह्न्य् आपद् विनश्यति ।
आपद् एवावधिर् होमसमासस्याभ्युपेयते ॥
तस्मात् कदाचिद् आरम्भ्य यावतस् तावतो ऽपि वा ।
आपत्कालसमान् होमान् समस्येद् एकपक्षगान् ॥
एवम् एकत्र पक्षे ये होमास् तेषाम् अशेषतः ।
न्यूनानां वा समासः स्यान् न पक्षान्तरवर्तिनाम् ॥
सर्वथौपसथ्याहे सायं होमः पृथग् भवेत् ।
तथैव यजनीयाहे प्रातर्होमो भवेत् पृथक् ॥
सर्वोपवासशून्यं चेत् प्राप्तं केनापि हेतुना ।
तदा तत्सायहोमो ऽपि पूर्वैः सह समस्यते ॥
तावता नापगच्छेच् चेद् आपत् पक्षान्तरे ऽपि च ।
पुनस् तत्रापि कर्तव्यः समासः पृथग् एव हि ॥
न तु पक्षान्तरस्थानां समासश् चोद्यते मिथः ।
एवम् आपद्गतं पक्षे पक्षे चैवं समाचरेत् ॥
तृतीये ऽनन्तरे पक्षे समासं न समाचरेत् ।
आपच् चेद् अनुवर्तेत दीर्घकालं कथञ्चन ॥
यावज्जीवम् अविच्छिन्नं पक्षहोमं समाचरेत् ।
आपद् एवावधिस् तत्र न पक्षगणावधि ॥
[४३] अथापरः समासस्य प्रकारः प्रतिपाद्यते ।
सायम्प्रातस्तनौ होमाव् उभौ सायं समस्य तु ॥
आपत्तौ जुहुयात् तत्र समिद् एकाथ वा द्वयम् ।
सायं होमस्य मुख्यत्वात् तदीयं तन्त्रम् इष्यते ॥
चतस्र आहुतीः कुर्यात् त्रय द्वे सायम् आहुती ।
द्वे प्रातर् आहुती सायं होमे ऽथैका समिद् यदि ॥
समित् कृता द्वितीया चेत् सा भवेत् प्रातर् आहुती ।
द्विः सायंहोमवन् मृज्याद् द्विः प्रातर्होमवत् सु च (?) ॥
उपस्थानं सकृत् कार्यं शेषं प्रकृतिवद् भवेत् ।
केचिद् द्वे आहुती हुत्वा संवेश्यैव निमील्य च ॥
विच्छिद्यैतावता होमौ कुर्याद् द्वे आहुती ततः ।
गुर्वापदि समस्यन्ते प्रातः सर्वे कथञ्चन ॥
दीर्घकालापदं मत्वा पक्षहोमे कृते सति ।
अत्रान्तराले यद्य् आपत् कदाचिद् अपगच्छति ॥
काले काले पुनर् होमः कर्तव्यो विधिना न वा ।
यावन्तो ऽत्र समस्यन्ते सर्वे सायम् उपक्रमाः ॥
प्रातः कालापवर्गाश् च न तु प्रातर् उपक्रमाः ।
प्रातर्होमादिका यद् वा प्रातश् चेद् आपदागता ॥
तथा पूर्वापराह्णादौ निमित्ते च समस्यति ।
पूर्वपक्षे तु रात्रौ चेन् मृतिशङ्काग्निहोत्रिणः ॥
सायं हुत्वा तदैवाथ जुहुयात् प्रातराहुतीः ।
यदि त्व् अपरपक्षे स्यान् मृतिशङ्काग्निहोत्रिणः ॥
हुतावशिष्टाः पक्षे ऽस्मिञ् जुहुयात् सकलाहुतीः ।
दर्शेष्टिं च तदा कुर्याद् इष्टिर् यदि न सम्भवेत् ॥
देवतानां प्रधानानाम् एकैकस्य पृथक् पृथक् ।
पुरोऽनुवाक्यायाज्याभ्यां चतुरात्तघृताहुतीः ॥
जुहुयाद् एवम् अन्यत्र सर्वत्रापदि हूयते ।
अथेष्ट्ययनमध्ये स्यात् पत्युर् मरणशङ्कनम् ॥
अवशिष्टेष्टिदेवेभ्यस् तत्सङ्ख्यानि घृतानि च ।
चतुर्गृहितान्य् एकत्र गृहीत्वा चमसैः सह ॥
[४४] पुरोनुवाक्यायाज्याभिः पूर्ववज् जुहुयात् तथा ।
चातुर्मास्यान्तराले स्यात् स्वामिनो मृत्युशङ्कनम् ॥
तत्रान्तपर्वपर्यन्तम् अग्निहोत्राण्य् अशेषतः ।
तदैव कुरुते दर्शपूर्णमासान् बहून् अपि ॥
चातुर्मास्यावशिष्टानि पर्वाण्य् अत्र समाचरेत् ।
पश्वलाभे पुरोडाशं निर्वपेत् पशुदैवतम् ॥
आमिक्षाम् अथ वा कुर्यात् पूर्णाहुतिम् अथापि वा ।
आहिताग्निः कदाचित् तु कृष्णपक्षे मृतो यति ॥
तदा शेषाहुतीः सर्वा जुहोतीत्य् आश्वलायनः ।
अन्ये तदैव दर्शेष्टिं कुर्युः कृष्णे मृतस्य तु ॥
शुक्लपक्षे निशि प्रेतस्येच्छन्ति प्रातराहुतिम् ।
य आहिताग्नेर् धर्मः स्यात् स औपासनिकस्य च ॥
इति शाट्यायनकम् आचष्टे ब्राह्मणम् अत्र तु ।
सन्ध्याम् इष्टिं चरुं होमं यावज्जीवं समाचरेत् ॥
न त्यजेत् सूतके वापि त्यजन् गच्छेद् अधो द्विजः ।
कुर्यात् पञ्चमहायज्ञान् नित्यशः सूतकं विना ॥
नित्यं नैमित्तिकं चान्यत् स्वकर्मापि न हापयेत् ।
स्वकर्महानौ पतनम् अब्देनैव त्व् अनापदि ॥
स्वकर्महानौ नास्तिक्यान् मासेन पतनं स्मृतम् ।
द्वादशाब्दव्रतेनैव तस्य शुद्धिस् तु नान्यथा ।
तं निरीक्ष्यार्कम् ईक्षेत स्पर्शे स्नायात् सचैलकम् ॥
तेन सम्भाषणं हास्यं कुर्वन्न् अब्देन तत्समः ।
तदन्नभुक्तौ सद्यस् तु सहशय्यासनेषु च ॥
इति होमविधिः ।
** अथ देवतार्चनविधिः —**
ब्रह्माणं विष्णुम् ईशानं सूर्यम् अग्निं गणाधिपम् ।
दुर्गां सरस्वतीं लक्ष्मीं गौरीं वा नित्यम् अर्चयेत् ॥
अप्स्व् अग्नौ हृदये सूर्ये स्थण्डिले प्रतिमासु च ।
शालग्रामे च चक्राङ्के पटे मुद्रासु देवताः ॥
[४५] नित्यं सन्ति हिरण्येषु रत्नगोब्राह्मणेषु च ।
पौरुषेणैव सूक्तेन गायत्र्या प्रणवेन वा ॥
तल्लिङ्गैर् एव वा मन्त्रैर् अर्चयेद् गुर्वनुज्ञया ।
देवतानामभिर् वा स्याच् चतुर्थ्यन्तैर् नमोऽन्वितैः ॥
आवाहनासने पाद्यम् अर्घ्यम् आचमनीयकम् ।
स्नानम् आचमनं वस्त्रम् आचामं चोपवीतकम् ॥
आचामं गन्धपुष्पं च धूपं दीपं प्रकल्पयेत् ।
नैवेद्यं पुनर् आचामं नत्वा स्तुत्वा विसर्जयेत् ॥
शूद्राणां चैव भवति नाम्ना वै देवतार्चनम् ।
सर्वे वागममार्गेण कुर्युर् देवानुसारिणा ॥
गुरूक्तेन प्रकारेण वेदबाह्येन नार्चयेत् ।
यां काञ्चिद् देवतां कश्चिद् आराधयितुम् इच्छति ॥
स सर्वोपाययत्नेन ब्राह्मणान् गाश् च तोषयेत् ।
एवं देवार्चनं कृत्वा गुरून् सम्पूज्य यत्नतः ॥
पुष्पं क्षिप्त्वा प्रणम्याथ नित्यदानं स्वशक्तितः ।
कृत्वा वृद्धान् नमस्कृत्य कर्तव्यं मङ्गलेक्षणम् ॥
विप्राग्न्यर्काम्बुगोहेमनृपाज्यं मङ्गलं स्मृतम् ।
अग्निचित् कपिला सत्री यज्वा मृष्टान्नदो ऽम्बुधिः ॥
ज्ञानसिद्धस् तपःसिद्धः शतायुर् धार्मिकः शुचिः ।
एते पापहराश् चैतान् सदा पश्येन् नमेद् अपि ॥
रोचनां चन्दनं हेम मृदङ्गं दर्पणं मणिम् ।
घृतं चार्कं गुरुं विप्रं प्रातः पश्येत् सदा बुधः ॥
कृष्णब्राह्मीं च दूर्वां च चन्दनं शङ्खपुष्पिकाम् ।
सिद्धार्थकान् प्रियङ्गूश् च प्रातः शिरसि धारयेत् ॥
पापिष्ठं दुर्भगं चान्धं नग्नम् उत्कृत्तनासिकम् ।
प्रातर् न पश्येद् एतांस् तु दृष्ट्वा पश्येद् दिवाकरम् ॥
इति देवतार्चनविधिः ।
** अथ माध्याह्निकम् —**
मध्याह्नस्नानं कृत्वा नित्यं माध्याह्निकं कार्यम् । तत्र पादौ [वा] प्रक्षाल्य [४६] द्विर् आचम्यापोहिष्ठाद्यैर् मार्जनं कृत्वापः पुनन्तु पृथिवीम् इति जलं दर्भपाणिः पीत्वा द्विर् आचम्य पुनश् चापोहिष्ठाद्यैर् मार्जनं कृत्वाद्भिः परिप्रोक्ष्य गायत्र्या सकृत् सूर्यायार्घ्यं दत्वा प्रदक्षिणम् आवृत्यापः स्पृष्ट्वा हंसः शुचिषद् इति सूर्यम् उपस्थायोद् उ त्यं चित्रम् इत्याद्यैश् चोपस्थाय नत्वा भूमिं स्पृष्ट्वा प्राणायामत्रयं कृत्वा गायत्रीं पूर्ववच् जपेत् । पुनः सूर्यं नत्वा ब्रह्मयज्ञादिकानि कुर्यात् ।
ब्रह्मयज्ञो देवयज्ञो भूतयज्ञस् ततः परः ।
पितृयज्ञो नृयज्ञश् च पञ्च यज्ञाः प्रकीर्तिताः ॥
स्वाध्यायो ब्रह्मयज्ञः स्याद् देवयज्ञो ऽग्निहोमकः ।
भूतयज्ञो बलिः प्रोक्तो हुतशेषान्नतस् ततः ॥
पितृयज्ञः स्वधा पितृभ्य इत्य् अन्नादिदानतः ।
मनुष्ययज्ञो ऽतिथ्यादेर् मनुष्योद्देशदानतः ॥
अथ ब्रह्मयज्ञः —
तत्र पादौ प्रक्षाल्य द्विर् आचम्य प्रागग्रेषु दर्भेषु प्राङ्मुख आसीनो दर्भपाणिः पवित्रगर्भब्रह्माञ्जलिः प्रणवव्याहृतीर् उक्त्वा सावित्रीं पच्छो ऽर्धर्चशः सकुशो नवानां चोक्त्वा प्रणवम् उक्त्वा, ऋचं सूक्तम् अनुवाकं वा यजुर् वा साम वा सावित्रीं वेतिहासं पुराणं च मन्द्रेण मध्यमेन वा स्वरेणाधीत्य नमो ब्रह्मण इति त्रिर् उक्त्वा उत्तरसंस्थां प्रारभ्य ॐ तत् सद् इति समापयेत् । ग्रामे मनसाधीयीत । ततः स्वशाखोक्तविधिना देवान् ऋषीन् पितॄंश् च तर्पयेत् । यद् वा ब्रह्मादयो ये देवा इत्याद्यैर् वा यथाचारं कुर्यात् । ततो वस्त्रं निष्पीड्याचम्याग्र्याम्बु गृहीत्वा गृहं गत्वा वैश्वदेवं कुर्यात् ।
अथ देवयज्ञः —
गृहस्थो वैश्वदेवाख्यं कर्म प्रारभते दिवा ।
अन्नस्य वात्मनश् चैव सुसंस्कारार्थम् इष्यते ॥
औपासनाग्निम् अन्यं वा समिध्य परिसमुह्य पर्युक्ष्याक्षतगन्धपुष्पाणि दिक्षु चाग्नौ च क्षिप्त्वालङ्कृत्य हविष्यं पक्वं घृतप्लुतं व्यञ्जनाक्तं वा यथास्वाचारं हुत्वा परिसमुह्य पर्युक्षेत् ।
[४७]
अथ बलिहरणम् —
देवयज्ञहुतशेषेण शुचिदेशम् अभ्युक्ष्य तत्र कुर्यात् ।
अथ पितृयज्ञः —
तत्र भूतबलिहरणशेषं सोदकं स्वधा पितृभ्य इति प्राचीनावीति दद्यात् । ततस् तथैव बहिर्निवेशनं सोदकम् अन्नं भूमौ श्वचण्डालपतितभूतवायसेभ्यश् च निक्षिपेत् । एते देवयज्ञभूतयज्ञपितृयज्ञा वैश्वदेव इत्य् उच्यते ।
अहविष्यं समस्तं च वैश्वदेवे विवर्जयेत् ।
यद् वा –
कोद्रवं चणकं माषं मसूरं च कुलित्थकम् ।
क्षारं च लवणं सर्वं वैश्वदेवे विवर्जयेत् ॥
यद् वा न क्षारलवणहोमो वा विद्यते तथा ॥
तथा परान्नसंस्पृष्टस्य हविष्यस्य होम उदीचीनम् उष्णं भस्मापोह्यैतस्मिञ् जुहुयात् । तद् धुतम् अहुतं चाग्नौ भवति । न स्त्री जुहुयात् ।
यद् वा सभस्माङ्गारेषु जुहुयाद् अहविष्यकम् ।
अथाचम्य मनुष्ययज्ञं कुर्यात् । तत्रातिथ्यादिम् अर्चयित्वा निवीती सनकादिमनुष्येभ्यो हन्तेति दद्यात् । यद् वाग्रं हन्तकारं वा हन्तेति वान्नं त्यजेत् । सर्वथा –
अन्नं पितृमनुष्येभ्यो देयं वापि जलं तथा ।
स्वाहाकारवषट्कारनमस्कारा दिवौकसाम् ॥
स्वधाकारः पितॄणां तु हन्तकारो नृणां स्मृतः ।
पक्वाभावे प्रवासे च तण्डुलान् ओषधीस् तथा ॥
पयो दधि घृतं वापि कन्दमूलफलादि वा ।
योजयेद् देवयज्ञादौ जलं वापत्सु वा जले ॥
द्रवं स्रुवेण होतव्यं पाणिना कठिनं हविः ।
स्नातको ब्रह्मचारी वा पृथक्पाकी वैश्वदेवं कुर्यात् । स्त्री बालश् च कारयेत् ।
[४८] होमाग्रदानरहितं न भोक्तव्यं कदाचन ।
अविभक्तेषु संसृष्टेष्व् एकेनापि कृतं तु यत् ॥
देवयज्ञादि सर्वार्थं लौकिकाग्नौ कृतं यदि ।
इक्षून् अपः फलं मूलं ताम्बूलं पय औषधम् ।
भक्षयित्वापि कर्तव्याः स्नानदानादिकाः क्रियाः ॥
कुर्याद् अहर् अहः श्राद्धम् अन्नाद्येनोदकेन वा ।
पयोमूलफलैर् वापि श्राद्धान्य् अन्यानि भक्ततः \
इति स्मृत्यर्थसार आचारप्रकरणम् समाप्तम्
कामधेनौ प्रदीप्ते ऽब्धौ कल्पद्रुमलतादिषु ।
शम्भुद्रविडकेदारलोल्लटाद्यैश् च भाषितम् ॥
मन्वत्रियाज्ञवल्क्यादिव्याख्यातृप्रतिपादितम् ।
स्मृत्यर्थसारं वक्ष्यामि सुखानुष्ठानसिद्धये ॥
** अथ श्राद्धविधिर् उच्यते —**
तत्र तावच् छ्राद्धं द्विविधम् – पार्वणम् एकोद्दिष्टम् इति । त्र्युद्देशेन पार्वणम् । एकोद्देशेणैकोद्दिष्टम् । तच् च त्रिविधम् – नित्यं नैमित्तिकं काम्यम् इति । तत्र नित्यम् अहर् अहर् अमावास्याष्टकादिषु । नैमित्तिकं पुत्रजन्मादिषु । काम्यं फलार्थिनां तिथिनक्षत्रादिषु । पुनश् च पञ्चविधम् – अहरहःश्राद्धं पार्वणश्राद्धं वृद्धिश्राद्धम् एकोद्दिष्टं सपिण्डीकरणम् चेति । तत्र श्राद्धदेशः पुण्यो ऽस्थिकेशश्लेष्मादिरहितः शोधितो दक्षिणाप्रवणो गोमयेनोपलिप्तः ।
**अथ श्राद्धकालः — **अमावास्याष्टका वृद्धिः कृष्णपक्षो ऽयनं विषुवत् सङ्क्रमो व्यतीपातो गजच्छायाग्रहणयुगादिमन्वादयश् च । तथा विशिष्टदेशे गयादौ विशेष्टे काले मृताहादौ द्रव्यब्राह्मणसम्पत्सु वात्मरुचिश् चेत्याद्याः कालाः ।
**अथ भोज्याः ब्राह्मणाः — **अनुवाचनज्ञातपूर्वः श्रुताध्ययनसम्पन्नो वेदाध्ययनविद् ब्रह्मवित् त्रिमधुस् त्रिसुपर्णस् त्रिनाचिकेतो ज्येष्ठसामऋत्विग्याज्यादिः । अथ वा दौहित्रो भागिनेयो जामाता मातुलः श्वशुरः शिष्यसम्बन्धिबान्धवाः कर्मनिष्ठस् तपोनिष्ठः षडग्निः पञ्चाग्निश् चतुरग्निस् त्रेताग्निर् एकाग्निर् वेदाध्यायी यतिर् ब्रह्मचारीत्याद्याः प्रशस्ताः ।
[४९] अथ निषिद्धाः — रोगी न्यूनाङ्गो ऽतिरिक्ताङ्गः काणो बधिरो नपुंसको ऽपविद्धपुंस्त्वो जारो जारिणीपतिः खलतिर् निजकृष्णदन्तः कुनखो दुश्चर्मा विकीर्णी पौनर्भवः कुण्डगोलौ निषिद्धान्नाशी मेढ्रभगाशी भृताध्यायी भृताध्यापकः कन्यादूषी चाभिशस्तो मित्रध्रुक् पिशुनः सोमविक्रयी परिवित्तिः परिवेत्ता तयोर् दातृयाजकौ च वृथा मातापितृसुतभार्यागुरुत्यागी पुनर्भूपतिः स्तेनः कितवो देवलकः कर्मदुष्टो विहितत्यागी निषिद्धग्राहीत्याद्या वर्ज्याः । सर्वत्र प्रशस्तालाभे निषिद्धरहितं ग्राह्यम् । नित्यश्राद्धे वैश्वदेवो गृहबलिश् (?) च पूवम् एव । दर्शश्राद्धे वैश्वदेवः पूर्वं पश्चाद् वा ।
(वृद्धावादौ क्षयाहे ऽन्ते दर्शे मध्ये महालये । )
आचान्तेषु च कर्तव्यो वैश्वदेवश् चतुर्विधः ॥
गृहबलिस् तु पश्चाद् एव । अन्यश्राद्धेषु पश्चाद् एव कार्यं सर्वम् ।
अथामावास्यापार्वणश्राद्धम् उच्यते —
तच् च पितॄणां मातामहानां च कार्यम् । तत्र पूर्वेद्युस् तद्दिने वा नियतो नियतान् ब्राह्मणाञ् “श्राद्धे क्षणः क्रियताम्” इति निमन्त्र्य, तान् आहूय, स्वागतं पृष्ट्वा, “सुस्वागतम्” इत्य् उक्ते, दाहनीलीछिद्रादिवर्जिताहतशुक्लद्विवस्त्रो द्विर् आचम्य, प्राङ्मुखः कृतगोमयमण्डले कुशयवगन्धाद्यर्चिते वैश्वदेवब्राह्मणपादान् उपवीती सूर्याभिमुखः प्रक्षाल्य, कुशतिलगन्धाद्यर्चितमण्डले पित्रर्थे ब्राह्मणपादान् प्राचीनावीति प्रक्षाल्य, स्वयं द्विराचान्तो द्विराचान्तान् उपवेशयेत् । तत्र वैश्वदेवार्थं ब्राह्मणौ प्राङ्मुखौ द्वौ भेदघुणदाहायःसम्बन्धवर्जितश्लक्ष्णचतुष्पाच्शुद्धपीठे नेपालकम्बले वा तार्णासने वोपवेश्य, त्रीन् ब्राह्मणान् उदङ्मुखान् पित्रर्थे समुपवेशयेत् । यद् वा – एकैकम् उभयत्रोपवेशयेत् । मातामहादीनां चैवम् । तन्त्रं वा वैश्वदेवं स्यात् । ततो गृहाद् बहिः कुशांस् तिलान् विकीर्य ब्राह्मणसमीपे कुशेषु प्राङ्मुख उपविश्येष्टदेवं गयां देवादीन् वस्वादीन् पितॄञ् जनार्दनं च नत्वा, कुतपादिकाले समन्त्रकं प्राणायामद्वयं कृत्वा, प्राचीनावीती पितॄणां पितामहानां प्रपितामहानां सपत्नीकानां मातामहानां मतुः पितामहानां मातुः प्रपितामहानां सपत्नीकानाम् अमुकगोत्राणां वसुरुद्रा**[५०]**दित्यस्वरूपाणाम् अस्मिन् काले सदैवं पार्वणश्राद्धं युष्मदनुज्ञया करिष्य इति सङ्कल्प्यापहता असुरा रक्षांसीति सर्वतस् तिलान् “प्रकीर्योदीरताम्” इत्य् ऋचा प्रोक्षयेत् । दैवं सर्वम् उपवीती प्रदक्षिणं युग्मत्वपूर्वम् उदगग्रम् उअगपवर्गम् उदङ्मुखः कुर्यात् । ततो वैश्वदेवार्थं विप्रहस्ते ऽपो दत्वा युग्मान् कुशान् ऋजून् आसनेष्व् आसनं दक्षिणतो “विश्वेषां देवानाम् इदम् आसनम्” इति यवसहितान् क्षिपेत् ।
आसनेष्व् आसनं दद्याद् द्विजहस्ते न कुत्रचित् ।
ततः पुनर् अपो दत्वा पुनर् निमन्त्रयेद् “दैवे क्षणः क्रियताम्” इति । “ॐ तथा” इति विप्रो ब्रूयात् । ततः “प्राप्नोतु भवन्” इति कर्ता ब्रूयात् । ततः “प्राप्नवानि” इति विप्रो ब्रूयाद् इति ग्रन्थसङ्ग्रहकारस्मृतिः ।
अक्षय्यासनयोः षष्ठी द्वितीयावाहने तथा ।
अन्नदाने चतुर्थी स्याच् छेषाः सम्बुद्धयः स्मृताः ॥
इति श्लोकसङ्ग्रहकारस्मृतिः ।
यद् वा – सर्वत्र चतुर्थ्य् एव प्रयोज्यावाहनवर्जम् । सर्वत्र पुनः पुनर् अपो दद्यात् । ततः “पुरूरवार्द्रवान् वैश्वदेवान् आवाहयिष्ये” इति यवहस्तः पृष्ट्वा “आवाहय” इति तैर् अनुज्ञातो “विश्वे देवाः आ गत” इत्य् ऋचावाह्य, यवान् दक्षिनपादादिमस्तकान्ते समारोप्य, “विश्वे देवाः शृणुतेमं हवं मे । आगच्छन्तु महाभागाः” इत्य् आभ्याम् ऋग्भ्याम् उपस्थाय, तत्समीपे भूमौ यवान् विकीर्य, कुशावास्तीर्य, तत्र स्वर्णादितैजसाश्ममयमृन्मयपलाशपत्रादिष्व् एकद्रव्यपात्रद्वये द्विकुशकूर्चान्तर्हिते । “शं नो देवीर् अभिष्टये” इत्य् ऋचापो निषिच्य, “यवो ऽसि धान्यराज” इत्य् ऋचा यवान् क्षिप्त्वा, गन्धपुष्पादि क्षिप्त्वा, स्वाहाग्थ्य इति निवेद्य, विप्रहस्ते कूर्चं प्रागग्रं क्षिप्त्वा, “या दिव्या आपः पयसा” इत्य् ऋचा “विश्वे देवा इदं वोऽर्घ्यम्” इति तद्धस्ते ऽर्घ्यं दद्यात् । ततो “विश्वे देवा अयां वो गन्ध” इत्यादि प्रयोगैर् गन्धादि दद्यात् । श्रीखण्डकुङ्कुमकर्पूरागरुपद्मकादिगन्धानुलेपनं कर्ता कुर्यात् । गन्धं दत्वा कर्ता दर्भपाणिनानुलिम्पेन् न तु सदर्भेण हस्तेन लिम्पेत् । ब्राह्मणः स्वयं लिम्पेन् नायं नियमः । ततो जातीमल्लिकाश्वेतयूथिकाचम्पककुङ्कुमजात्यादीनि पुष्पाणि मरुबकादिसुगन्धिपत्राणि च देयानि । उग्रगन्धीन्य् अगन्धीनि वृक्षजरकान्य् अशुक्लान्य् असुगन्धिकण्टकिजानि चार्कधत्तूरशिरीषकाञ्चनारतुलसीबिल्वा**[५१]**दीनि वर्ज्यानि । ततो घृतमधुसंयुक्तगुग्गुलश्रीखण्डागरुसरलादिसम्भवे समस्तो वा धूपो देयः । प्राण्यङ्गहस्तवाताहतं च धूपं वर्जयेत् । ततो घृतेन तिलतैलेन वानिषिद्धेन वान्येन दीपं दद्यात् । वसामेदोद्भवं वर्जयेत् । ततः शुक्लं शुद्धम् अहतं सदशवस्त्रम् आच्छादनं दद्यात् तन्मूल्यं वालाभ उत्तरीयं यज्ञोपवीतं वाशक्तौ दद्यात् । ततो “अर्चनं सम्पूर्णम् अस्तु” इति ब्रूयात् । “अस्तु” इति ते ब्रूयुः । “सङ्कल्पसिद्धिर् अस्तु इति भवन्तो ब्रुवन्तु” इति कर्ता ब्रूयात् । “अस्तु सङ्कल्पसिद्धिर्” इति विप्राः प्रतिब्रूयुः । आसनादिषु स्वासनम् । “अस्त्व् अर्घ्यम् । सुगन्धः । सुपुष्पाणि । सुमाल्यम् । सुधूपः । सुदीपः । सुज्योतिः । स्वाच्छादनम्” इति विप्रा ब्रूयुर् इति सङ्ग्रहकारस्मृतिः ।
अथ पित्र्यम् —
प्राचीनावीत्य् अप्रदक्षिणम् अयुग्मत्वपूर्वं दकिणापवर्गं दक्षिणामुखः कुर्यात् । पित्र्युपचारेष्व् एकवचनं बहुवचनं वा प्रयोज्यम् । जघन्येष्व् एकवचनम् एव पित्र्यविप्रहस्तेष्व् अपो दत्वायुग्मकुशान् द्विगुणान् सतिलान् आसनेष्व् आसनं पितॄणाम् इदम् आसनं पितामहानाम् इदं प्रपितामहानाम् इदम् इति वा पितुर् इदं पितामहस्येदं प्रपितामहस्येदम् आसनम् इति वा पित्रे पितामहाय प्रपितामहायेदम् आसनम् इति वा । पितृभ्यः पितामहेभ्यः प्रपितामहेभ्य इदम् आसनम् इति वा वामभागे दद्यात् । मातामहेषु चैवम् । ततश् च श्राद्धे क्षणः क्रियताम् इत्यादिभिर् निमन्त्र्य, पितॄन् पितामहान् प्रपितामहान् आवाहयिष्य इति तिलहस्तो ब्राह्मणान् पृष्ट्वा पितरं पितामहं प्रपितामहम् आवाहयिष्य इति वा पृष्ट्वावाहयेति विप्रैर् अनुज्ञात उशन्तस् त्वेत्य् ऋचावाह्य तिलान् मस्तकादिदक्षिणपादान्तम् आरोप्य, आयन्तु नः पितर इत्य् उपतिष्ठेत । मातामहेषु चैवं कृत्वा पितृसमीपे भूमौ तिलान् विकीर्य, कुशेषु राजतादिपूर्वोकपात्रत्रये कुशकूर्चान्तर्हिते सं नो देवीर् अभिष्टय इत्य् अपो निषिच्य, तिलो ऽसि सोमदेवत्य इत्य् तिलान् क्षिप्त्वा गन्धपुष्पादि च क्षिप्त्वा स्वधार्घ्य इत्य् निवेद्य विप्रहस्ते कूर्चं क्षिप्त्वा या दिव्या आप इत्य् उक्त्वा पितर् इदं ते ऽर्घ्यं पितामहेदं ते ऽर्घ्यं प्रपितामहेदं ते ऽर्घ्यम् इति क्रमेणार्घ्यं दत्वा चतुर्थ्या वा दत्त्वा तद्धस्तनिःसृतार्घ्योदकं पितृपात्रे प्रसिच्य दक्षिणाग्रेषु कुशेषु पितृभ्यः स्थानम् असीति सपवित्रं न्युब्जं कुर्यात् । न्युब्जं कृत्वा च तस्योपर्य् अर्घ्यपात्रपवित्राणि क्षिप्त्वा तिलपुष्पादि क्षिपेत् । तत् पात्रम् आ समाप्तेर् न चालयेत् । माता[म?]हेषु चैवम् । अलाभ एकपात्रं त्रिपवित्रं कार्यम् । उशन्तस् त्वा, आयन्तु नः, तिलो ऽसीति मन्त्राणाम् ऊहो न कार्यः । देवे पित्र्ये च पात्रनिवेदनान्त आवाहनम् इति केचित् । ततः [५२] पितर् अयं ते गन्धः पितरो ऽयं वो गन्ध इत्यादिप्रयोगेण गन्धमाल्यशुक्लपुष्पाणि दद्यात् । ललाटे पुण्ड्राकारं स्कन्धे मालां च वर्जयेत् । धूपं दीपं च ज्योतिर् आच्छादनानि च दद्यात् । दैवे पित्र्ये चासनक्षणावाहनार्घ्याक्षतगन्धधूपदीपाच्छादनानां पदार्थानुसमये सति सन्ततिवृद्धिश् च । काण्डानुसमये विधिसिद्धिर् एव । ततः सङ्कल्पसिद्ध्यन्तं कुर्यात् । अथ गोमयेन चतुरस्रं मण्डलं कृत्वोपरि यन्त्रं च कृत्वा दैवे सौवर्णादीनि पात्राणि पित्र्ये रौप्यादीनि पात्राणि स्वर्णरौप्यावघृष्टान्य् अन्यानि पात्राणि वा मृन्मयवर्जितानि मण्डले निधाय तत्रापो निषिच्य हस्तेन निमृज्य प्रकाल्य पुनर् जलेनैव क्षालयेत् । अथाग्नौ पाणौ वा होमः । निरग्नेः पाणाव् एव । तत्र घृताक्तम् अन्नं घृतं चादायाग्नौ करिष्य इति पृष्ट्वा कुरुष्वेत्य् अभ्यनुज्ञात औपासनाग्निम् उपवीती परिसमुह्य पर्युक्ष्य प्राचीनावीती तूष्णीम् इध्मम् अग्नाव् आधाय मेक्षणं स्रुवेणोपस्तीर्यावदानद्वयं क्षिप्त्वा पञ्चावत्ती त्रयं क्षिप्त्वा पुनः स्रुवेणाभिघार्यावदाय मेक्षणेन सोमाय पितृमते स्वधा नमो ऽग्नये कव्यवाहनाय स्वधा नम इत्य् आभ्यां मन्त्राभ्याम् आहुतिद्वयं हुत्वा मेक्षणम् अग्नाव् अनुप्रहृत्य हुतशेषं पितृपात्रेषु क्षिपेत् । आहिताग्निः सर्वाधानी दक्षिणाग्नौ जुहुयात् पित्र्यविप्रपाणौ वा । अग्न्यभावे पाणौ होमः । पाणिहोम इध्ममेक्षणविप्राभ्यनुज्ञा न सन्ति । पित्र्यविप्रपाणिं परिसमुह्य पर्युक्ष्य वामेनोपस्तीर्य दक्षिणेनावदाय प्रत्यभिघार्य हुत्वा पर्युक्षणपरिसमूहने स्तः । मातामहादिषु चैवम् । तत्र साग्निना पाणिहुतं तद् एव प्राश्याचम्योपविशेत् । अथ वा भाजने क्षिप्त्वाचम्योपविशेत् । अग्न्यभावे हुतं पूर्वं नाश्नीयत् । भोजनकाल एवाश्नीयात् । प्रेतश्राद्धेषु तद् अग्नौ क्षिपेत् । इत्याद्याहुतिः । ततो दैवपूर्वम् उपस्तीर्य स्वयं पत्नी वान्ये वा नियुक्ताः प्रशस्तहविष्यान्नपूर्वपरिवेषणं कुर्युः । नापवित्रेण हस्तेन नायसेन परिवेषणं कुर्युः । तृणपर्णान्तर्धाने न दोषः ।
अथ हविष्याणि —
व्रीहिशालियवगोधूमप्रियङ्गुमुद्गमाषश्यामाकनीवाराद्याः कालशाकं महाशाकं द्रोणशाकं मेध्यमांसं महाशल्कादीक्षुकदलीपनसाम्लातका**[५३]**म्रखर्जूरजम्बू-गोस्तनीद्राक्षाप्रियालामलकनारिकेरत्रपुशोर्वारुकचिर्भटपालेयमधुरोत्तमफलानि बदर्यादीन्य् एला शुण्ठी चार्द्रकं हिङ्गुमरिचपिप्पलीमधूकगुडशर्कराखण्डकर्पूर-सैन्धवमानसलवणानि मधुगव्यपयोदधिघृतानीत्यादीनि प्रशस्तानि । एतत्सम्भवम् ओदनसूपपायसापूपभक्ष्यपानादिकं बहु परिवेष्यम् । हिङ्गुशुण्ठीपिप्पलीमरीचकानि द्रव्यसंस्कारार्थानि श्राद्धे स्युर् न प्रत्यक्षाणि ।
अथाह विषयाणि —
कोद्रवचणकमसूरकुलित्थपुलकराजमाषरक्तविदलमाषाः सत्वचश् चाढक्यः कृष्णयावनालाः कृष्णधान्यानि मुद्गमाषतिलव्यतिरिक्तानि वर्ज्यानि । उपोदकी तुलसी कृष्णातसी शिग्रुर् महासर्षपपत्रशाककृष्णसर्षपपूतिगन्धशाकानि कूष्माण्डपोलकाद्याश् च । विशेषतो वृन्ताकबृहतीद्वयालाबुगान्धारिकामर्कटिककपित्थमूलबिल्वफलकाञ्चनालककपित्थ-कनककरञ्जकरवन्दकलिङ्गवंशाङ्कुराणि पित्रर्थोक्त्या याचितं शुल्काहृतं सर्वं कृष्णजीरकशतपुष्पीविडलवणाद्यारण्यमृगमहिषीपयोदधिघृतमित्यादीन्य् अप्रशस्तानि । प्रशस्तालाभे त्व् अनिषिद्धं ग्राह्यम् । अथ पात्रे परिवेष्य दैवे पात्रे सकुशयवान् क्षिप्त्वा पात्रं पर्युक्ष्य पृथिवी ते पात्रं इत्य् अभिमन्त्र्यातो देवा इत्य् ऋचम् उक्त्वा विष्णो हव्यं रक्षवेत्य् अन्ने द्विजाङ्गुष्ठं निवेश्य पुरूरवार्द्रवा विश्वे देवा देवता इदम् अन्नं हविर् ब्रह्मणस् त्व् आहवनीयार्थ इयं भूर् गयान्नं च ब्रह्म भोक्ता च ब्राह्मणो गदाधरः । विश्वेभ्यो देवेभ्य इदम् अन्नं परिविष्टं परिवेक्ष्यमाणं चा तृप्तेर् न ममेति यवोदकेन त्यक्त्वा ये देवास इत्य् ऋचोपतिष्ठेत । अथ पित्र्यपात्रे तिलान् सकुशान् क्षिप्त्वा पात्रं पर्युक्ष्य पृथिवी ते पात्रम् इत्य् अभिमन्त्र्येदं विष्णुर् इत्य् ऋचा विष्णो कव्यं रक्षस्वेत्य् अङ्गुष्ठं निवेश्य पितरो देवता इदम् अन्नं कव्यम् इत्य् उक्त्वा पित्रे वसुरूपाय पितामहाय रुद्ररूपाय प्रपितामहायादित्यरूपाय पितृभ्यो वसुरूपेभ्य इति वोक्त्वेदम् अन्नं परिविष्टं परिवेक्ष्यमाणं चा तृप्तेर् न ममेति वा तिलोदकेन त्यक्त्वा ये चेह पितर इत्य् ऋचोपतिष्ठेत । न चात्रोहः कार्यः । मातामहेषु चैवम् । अतिथिर् अस्ति चेत् तं देववद् अर्चयित्वा स्वेष्टदेवतारूपाय शिवरूपाय वान्नं त्यक्त्वा ये देवास इत्य् उपस्थाय देवताभ्यः पितृभ्यश् च सप्त स्वधा दशार्णेष्व् इत्यादीञ् जपित्वापोशनं दत्वा प्रणव**[५४]**यत्रीं [गायत्रीं?] मधुमतीम् उक्त्वा ॐ तत् सद् यथासुखं जुषध्वम् इति ब्रूयात् । अथ ब्राह्मणाः प्राणाहुतेः पूर्वं मौनिनो भूतलात् पात्रम् अनुद्धरन्तो मुखशब्दपाण्यादिचापलं वर्जयन्तो भुञ्जीरन् । यद् वा मृदादिपालिकासु भिडिकासु वा प्राणाहुत्याः पूर्वम् उर्ध्वं वा पात्रं निधाय भुञ्जीरन् । उच्छिष्टसेकपाद-रजःस्पर्शाक्रमणादिभयात् सर्वथा न यन्त्रिकादित्रिपाद्यादिषु निदध्युर् न बलिं कुर्युस् ततो भोक्त्रे कर्त्रे च पित्रे च यद् रोचते हविस् तद् देयम् । आ तृप्ते रक्षोघ्नपित्र्यपवित्रमन्त्रान् प्रणवादिपूर्वान् उपवीती श्रावयित्वा प्रणवगायत्र्यौ जपेत् । ततः सार्ववर्णिकम् अन्नाद्यम् आदाय प्रणवम् उक्त्वा प्राचीनावीती मधु वातेत्य् ऋचम् अक्षन्न् अमीमदन्तेत्य् ऋचां [च] श्रावयित्वा तृप्ताः स्थेति पृष्ट्वा तृप्ताः स्मेति तैः प्रत्युक्ते दैवपित्र्यब्राह्मणसन्निधौ पुरत उच्छिष्टसमीपे दक्षिणाग्रेषु दर्भेषु तिलोदकं पितृतीर्थेन प्रसिच्य ये अग्निदग्धा ये अनग्निदग्धा जीवा इत्य् अनेन सतिलम् अन्नं क्षिप्त्वा तिलोदकं प्रसिच्याचमेत् । ततो गण्डूषं दत्वा सार्ववर्णम् अन्नाद्यं पिण्डार्थम् उद्धृत्यान्नशेषः किं क्रियताम् ति पृष्ट्वेष्टैः सह भुज्यताम् इत्य् अभ्यनुज्ञाते तैर् गृहीते वाग्निहोमे ऽग्निसमीपे पाणिहोमे विप्रसमीपे पिण्डपितृयज्ञवत् पिण्डान् निदध्यात् तच् चैवम् — गोमयेनोपलिप्ते भूप्रदेशे स्फ्येन खादिरेण काष्ठेन वा दर्भेण वा, अपहता असुरा इत्यादिना लेखाद्वयं दक्षिणाग्रम् उल्लिख्याभ्युक्ष्य तत्र बर्हिर् आस्तीर्य पश्चिमलेख्यायां पिण्डदेशेषु शुन्धन्तां पितर इत्यादिभिस् त्रिभिर् मन्त्रैस् तिलोदकं पितृतीर्थेन निनीय पूर्वलेखायां शुन्धन्तां मातामहा इत्यदिभिर् निनीयैतत् ते देवदत्तशर्मन् ये च त्वाम् अत्रान्व् इत्य् उक्त्वैतत् पिण्डरूपम् अन्नं पित्रे न ममेत्यादितिलमिश्रान् पराचीनपाणिः पिण्डान् निधायात्र पितर इत्यादिना षट् पिण्डान् सकृद् एवानुमन्त्र्य सव्यावृत्योदङ्ङावृत्य यथाशक्त्य् अनुच्छ्वसन्न् आसित्वाभिपर्यावृत्यामीमदन्त पितर इत्यादिनानुमन्त्र्योच्छ्वसेत् । ततः पिण्डशेषम् अवघ्राय हस्तं प्रक्षाल्य पिण्डेषु पूर्ववद् उदकं निनीय देवदत्तश्रमन्न् अभ्यङ्क्ष्वेति पिण्डेषु तैलं दत्वा देवदत्तशर्मन्न् अङ्क्ष्वेत्य् अञ्जनं दत्वैतद् वः पितरो वास इत्यादिना वासो दशाम् ऊर्णास्तुकां वा दद्यात् । पञ्चाशद्वर्षताया ऊर्ध्वं स्वहृत्स्थरोम वा दद्यात् । अथ पिण्डान् पितृरूपान् उपतिष्ठेत नमो वः पितर इत्यादिना मनोन्वाहुवामह इति च तिसृभिः । अथ पिण्डान् युगपत् प्रवाहयेत् परेतन पितर इत्य् ऋचा अग्ने तम् अद्येत्य् ऋचा दक्षिणाग्निं प्रति गच्छेत् । यद् अन्तरिक्षम् इत्य् ऋचा गार्हपत्यं प्रति गच्छेत् । औपासने [५५] त्व् अग्ने तद् अद्येति गत्वा यद् अन्तरिक्षं इति जपेत् । तत्र गार्हपत्यपदस्य लोपः । पाणिहोमे ऽग्ने तम् अद्येत्यादिकं नास्त्य् एव । ततः पिण्डेभ्यो ऽक्षतगन्धपुष्पदूपदीपवस्त्रताम्बूलानि दत्वा वीरं मे दत्त पितर इति मध्यमं पिण्डम् आदायाधत्त पितर इति पत्नीं प्राशयेत् पुत्रायुरारोग्यैश्वर्यार्थम् ।
पिण्डांस् तु गोऽजविप्रेभ्यो दद्याद् अग्नौ जले ऽपि वा ।
अर्घ्यनिनयनाद् अन्यत्र पितृशब्दस्योहो न कार्यः । एवं वा स्वशाखोक्तविधिना वा पिण्डान् निधायाचम्याचमनं दद्यात् । ततो विप्रहस्ते ऽपो दत्वा यवांस् तिलांश् च क्रमात् क्षिप्त्वा तान् निरस्य पुनः साक्षतपुष्पं क्षिप्त्वा गोत्रनाम्नाभिवाद्य गोत्रं वर्धताम् इति याचयित्वा स्वस्ति वर्धतां गोत्रम् इति प्रयुक्ते प्रक्षिप्ताशिषो गृहीत्वा प्रात्राणि चालयित्वाचमेत् । अनुपनीतः स्त्री [वा] न चालयेत् । ततो विश्वेभ्यो देवेभ्यः पितृभ्यश् च स्वस्तीति ब्रूतेत्य् उक्त्वा तैर् ॐ स्वस्तीत्य् उक्ते विश्वेषां देवानां पितॄणां चाक्षय्यम् अस्त्व् इत्य् उक्त्वास्त्व् अक्षय्यम् इत्य् उक्ते भूहिरण्यरजतादि शक्त्या दक्षिणां दद्यात् । ततो दक्षिणाः पान्तु बहुदेयं चास्तु न इत्य् उक्ते तथैव प्रत्यूचुः । स्वधां वाचयिष्ये वाच्यताम् इत्य् अनुज्ञातः पितृभ्यः स्वधोच्यताम् इत्य् उक्त्वास्तु स्वधेति प्रत्युक्ते भूमौ जलं सिञ्चेत् । स्वधा सम्पद्यताम् इत्य् उक्ते सम्पद्यतां स्वधेति प्रत्यूचुः । विश्वे देवाः प्रीयन्ताम् इत्य् उक्ते प्रीयन्तां विश्वे देवा इति प्रत्यूचुः । पितरः प्रीयन्ताम् इत्य् उक्ते प्रीयन्तां पितर इति प्रत्यूचुः । ततो न्युब्जपात्रम् उत्तानं कृत्वा पवित्राणि विन्यस्य विप्रहस्ते ऽक्षतपुष्पाणि च क्षिप्त्वा वाजे वाजे वत इत्य् उक्त्वोत्तिष्ठत पितर इति दर्भेण विप्रान् पितृपूर्वान् विसर्जयेत् । ततः पादप्रक्षालनप्रदेश आमावाजस्येति प्रदक्षिणीकृत्य दक्षिणामुखो दातारो नो ऽभिवर्धन्ताम् अन्नं च नो बहु भवेद् इति वरेषु याचितेषु तैश् चैताभ्यां श्लोकाभ्यां युष्मदाख्यातशब्देन वा तथैवास्त्व् इति वा प्रयुक्त आशिषो गृहीत्वा प्रणिपत्याद्य मे सफलं जन्मेति प्रसाद्य सर्वं सम्पूर्णम् अस्त्व् इति वाचयित्वा क्षम्यताम् इत्य् उक्त्वा निवेशनान्तम् अन्व्रज्यास्यताम् इत्य् उक्ते प्रदक्षिणीकृत्यागत्य पाकान्तरेण वा श्राद्धशेषेण वा वैश्वदेवादिकं कृत्वेष्टैः सह श्राद्धशेषपूर्वं भुञ्जीत । निमन्त्रणादि च तद्रात्रौ च ब्रह्मचारी स्याद् भोक्ता तु पुनर् भोजनाध्वगमनाध्यापनाध्ययन-मैथुनदानप्रतिग्रहहोमादीन् वर्जयेद् इति पार्व**[५६]**णश्राद्धं सर्वसङ्ग्रहकारकमताल् लिखितम् । अनुपनीतस्त्रीशूद्राः श्राद्धम् ऋत्विजा कारयेयुः स्वयं वामन्त्रकं नामगोत्राभ्यां कुर्युः । देवेभ्यो नमः पितृभ्यः स्वधा नम इति मन्त्राभ्यां वा ।
पितरो यत्र पूज्यन्ते तत्र मातामहा अपि ।
अविशेषेण कर्तव्यं विशेषान् नरकं व्रजेत् ॥
एवं कामश्राद्धम् । तत्र धूरिलोचनौ विश्वे देवाः । अग्नौ पाणौ वा होमः । नैमित्तिकं श्राद्धं तद्वत् । तत्र कामकालौ विश्वे देवाः । इष्टिश्राद्धं रुचिश्राद्धं तद्वत् । तत्र क्रतुदक्षौ विश्वे देवाः ।
अथ वृद्धिश्राद्धम् —
तत्र सत्यवसू विश्वे देवाः । वैश्वदेवार्थं मात्राद्यर्थं पित्राद्यर्थं सपत्नीकमातामहाद्यर्थं च द्वौ द्वौ विप्रौ युग्मा वा शक्तितो योज्याः । अमूला दर्भाः । यज्ञोपवीती प्राङ्मुख उदङ्मुखेभ्यो दद्यात् । प्राङ्मुखेभ्यो वोदङ्मुखः । सर्वथा दक्षिणामुखो न दद्यात् । तिलर्थे यवाः । नान्दीदेवानां नान्दीश्राद्धे क्षणः क्रियताम् । ॐ तथा प्राप्नुतां भवन्तौ प्राप्नवावेत्यादि । क्षणे पित्र्ये ऽपि द्विकुशकूर्चं पवित्रकम् । पित्र्ये नान्दीमुखपूर्वकं युग्मत्वम् । यवो ऽसि सोमदेवत्य इति यवावापः स्वधास्थाने पुष्ट्या । स्वधानमःस्थाने स्वाहानमःशब्दः । स्वाहार्घ्य इत्य् अर्घ्यनिवेदनम् । नान्दीमुखाः पितरः प्रीयन्ताम् इति द्विर् द्विर् गन्धादि देयम् । प्रदक्षिणम् उपचारा उदगपवर्गम् । अग्नौ पाणौ वा होमः । अग्नये कव्यवाहनाय स्वाहा । सोमाय पितृमते स्वाहेति व्युत्क्रमेण होमः । होमवन् मेक्षणप्रक्षेपः । रक्षोघ्नैन्द्रशान्तिमन्त्राञ् श्रावयेत् । मधुवातेत्य् ऋचः स्थान उपास्मै गायता नर इति पञ्चर्चः श्रावयेद् अन्यमधुमन्त्रान् वा । अक्षन्न् अमीमदन्तेत्य् अन्ते श्रावयेत् । आचान्तेषु भुक्त्याश्रयान् गोमयेनोपलिप्य प्रागग्रान् दर्भान् आस्तीर्य दैवं पृषदाज्यदधिबदरिमिश्रभुक्तशेषेणैकैकस्य द्वौ द्वौ पिण्डौ दद्यात् । आज्ये दधिप्रक्षेपो दैवं पृषदाज्यम् । शेषं पार्वणवत् । अत्र पिण्डमात्रस्य लोपो वा पिण्डादिकस्य लोपो वा ।
अथैकोद्दिष्टं मिताक्षरायाम् —
प्रतिसंवत्सरं मृताहन्य् एकोद्दिष्टम् उपदिष्टं योगेश्वरेण । तथा च स्मृत्यन्तरे ।
[५७] वर्षे वर्षे तु कर्तव्या मातापित्रोस् तु सत्क्रिया ।
अदैवं भोजयेच् छ्राद्धं पिण्डम् एकं तु निर्वपेत् ॥
तत्र सर्वश्राद्धानि त्रिविधानि – नवश्राद्धानि नवमिश्राणि पुराणानीति । तत्र मृताहाद्येकादशाहान्तं विहितानि नवश्राद्धानि । एकादशाहादिन्यूनाब्दान्तं विहितानि नवमिश्राणि । ततः परं पुराणानीत्य् उक्तम् । तत्र सर्वैकोद्दिष्टेषु दैवं नास्ति । एक उद्देश्यो ब्राह्मणश् चैकः । अयुग्मा वा ब्राह्मणाः । एकं पात्रं पवित्रं च । भुक्तशेषेणैकः पिण्डो देयः । पुराणैकोद्दिष्टे पार्वणैकदेशवत् सर्वं दैवहीनं समन्त्रकम् एव । पाणौ मन्त्राभ्यां होमः । नवमिश्रेषु दिवा निमन्त्रणम् । निमन्त्रणादि न स्वाध्यायः । पितृशब्दस्वधानमःशब्दवतां मन्त्राणां लोपः । तिलावापादि सर्वं तूष्णीं कार्यम् । तूष्णीम् अर्घ्यं निवेद्यान् आवाह्य मन्त्रान्ते नाम्ना प्रेतोद्देशेणार्घ्यं दत्वा गन्धादि देयम् । पाणौ प्रेताय स्वाहेत्य् एकाहुतिः । नवश्राद्धेषु धूपं दीपं स्वधाशब्दं पितृशब्दं पिण्डे ऽनुशब्दं जपम् अभिश्रवणं च वर्जयेत् । अक्षय्यस्थान उपतिष्ठताम् इति वदेत् । प्रतिवचनं तद्वत् । अभिरम्यताम् इति विसर्जयेत् । अभिरताः स्म इति प्रत्युक्तिः । नवमिश्रे च सर्वं समन्त्रकम् इत्य् एके । नवश्राद्धे सर्वम् अमन्त्रकम् एव कार्यम् । नामप्रेतशब्दं च न लोपयेत् । सद्य एव निमन्त्रणम् । धूपं दीपं श्राद्धशेषभोजनं च वर्जयेत् । नवश्राद्धं कृत्वा स्नायात् । अन्यत् सर्वं पार्वणवत् । नवश्राद्धान्य् एकादशे ऽह्नि वा कार्याणि । तत्राद्यं सहैकोद्दिष्टम् । तत्र बहुदक्षिणा प्रेतवस्त्राभरणयानशय्यासनभोजन-पादुकोपनच्छत्रादिकं देयम् । रुद्रगणे प्रेतोद्दिष्टपक्षे नवश्राद्धवत् । रुद्रोद्देशपक्षे तु यज्ञोपवीती विप्रान् समभ्यर्च्य भोजयेत् । रुद्ररूपप्रेतोद्देशवच् छ्राद्धं सोदकुम्भं सतिलं सर्वत्र दक्षिणा देया प्रेतश्राद्धे विशेषेण ।
अथ सपिण्डीकरणम् —
तत्र मण्डलत्रयम् । दैवे द्वौ विप्रौ प्रेतस्थाने त्व् एकः, तत्पित्रादिषु त्रयः । अशक्तौ दैवे प्रेते पित्र्ये चैकैको विप्रः । कामकालौ विश्वे देवाः । देवार्चनं पूर्ववद् एव । प्रेतार्थम् एकपात्रं तत्पित्राद्यर्थं त्रीणि । प्रेते नवमिश्रैकोद्दिष्टवत् पित्र्ये पार्वणवत् पात्रं पूरयित्वा गन्धादि क्षिपेत् । पात्राणि तत्रैव निवेद्य प्रेतपत्रं पितृपात्रेषु संयोजयिष्य इति पृष्ट्वा [५८] संयोजयेत्य् अनुज्ञातः प्रेतपात्रकुशान् पितृपात्रेषु क्षिप्त्वा प्रेतपात्रे किञ्चिद् एव जलं सकुशम् अवशेष्य ये समानाः समनस इति द्वाभ्यां मन्त्राभ्यां पितृपात्रेषु सिञ्चेत् । प्रेतपात्रावशेषेण प्रेतार्घ्यम् । पित्र्ये तत्पात्राद् अर्घ्यं दत्वाच्छादनान्तं कृत्वा पृथक् पृथग् अन्नं मूर्धन्यप्रेताय पाणाव् एकाहुतिं जुहुयान् न वा । पित्रर्थम् अग्नौ पाणौ वा मन्त्राभ्यां होमः । हुतशेषं पितृपाणिषु दद्यात् । तद् अन्नं भोजनात् प्राङ् नाश्नीयात् । भोजनार्थान्नेन सहाश्नीयात् प्रेतोद्देशेनैकं पिण्डं दत्वा पित्र्ये त्रीन् पिण्डान् दत्वा प्रेतपिण्डं पितृपिण्डेषु संयोजयिष्यामीति पृष्ट्वा संयोजयेत्य् अनुज्ञातः प्रेतपिण्डं त्रेधा विभज्य पूर्वमन्त्राभ्यां पित्रादिपिण्डेषु निदध्यात् । अनुमन्त्रणादि सर्वं पार्वणवत् । सर्वं तत्रैव समापयेत् । श्राद्धभोजने मिथः स्पृष्टौ –
तद् अन्नम् अत्यजन् भुक्त्वा गायत्र्यष्टशतं जपेत् ।
उच्छिष्टेन सिक्ते तत् प्रक्षाल्य भुक्त्वा स्नात्वा द्विशतं जपेत् । उच्छिष्टभोजने द्विसहस्रं जपेत् । मातॄणां चैवम् ।
तत्र विशेषः —
अपुत्रायां मृतायां भर्ता स्वमात्रादिभिः सापिण्ड्यं कुर्यात् । मातृपिण्डदानादिकम् आसुरादिविवाहोत्पन्नपुत्रिकापुत्रश् चेत् [आसुरादिविवाहोत्पन्नः पुत्रिकापुत्रश् च ?] तत्पितृगोत्रेणैव कुर्यात् । ब्राह्मादिविवाहोत्पन्नः पितृगोत्रेण मातृगोत्रेण वा कुर्यात् । अन्वारोहणे त्व् एकचित्यारोहण एकदिनमरणे स्त्रियाः पृथक् सपिण्डीकरणं न कार्यम् । भर्तुः कृते स्त्रियाश् च कृतं भवति । दिनान्तरमरणे तु पुत्रः स्वपितृपितामहप्रपितामहपिण्डमध्ये कुशान् अन्तर्धाय पित्रैकेन मातुः सापिण्ड्यं कुर्यात् । सर्वत्र भर्त्रा पत्न्याः सापिण्ड्यम् एकेनैव । श्वशुरेण निषिद्धम् । केचित् त्रिभिर् एव सह सापिण्ड्यम् आहुः । आसुरादिविवाहोत्पन्नः पुत्रिकापुत्रश् च मातामहादिभिर् एव । तथा सति मातामहश्राद्धं नित्यम् एव मृताहादौ । ब्राह्मादिविवाहोत्पन्नः पित्रैकेन । पितरि स्थिते पितामहादिभिर् मातादिभिर् वा सापिण्ड्यं कुर्यात् । ब्राह्मणादिहतानां प्रायश्चित्ताकरणे ब्रह्मचारिणाम् अनपत्यानां च सपिण्डीकरणं नास्ति तेषां सदैकोद्दिष्टम् एव । व्युत्क्रममृतानां व्यवहितैः सापिण्ड्यं कार्यं न वा । केचित् सर्वेषां सपिण्डीकरणम् आहुः । संवत्सराद् अर्वाक् सपिण्डीकरणे [५९] सति प्रतिदिनं प्रतिमासं वा सोदकुम्भश्राद्धं मृताहश्राद्धवत् कृत्वा सपिण्डीकरणम् आरभ्य वैकादशाहादिषु तान्य् एव षोडश श्राद्धानि मृताहश्राद्धवत् कृत्वा वा संवत्सरविमोकार्थं पार्वणश्राद्धं भूरिब्राह्मणभोजनं च कुर्यात् । मृताहश्राद्धं प्रत्यब्दम् एकोद्दिष्टं पार्वणं वा यथास्वाचारं पुत्रैः कार्यम् । मरणक्षणे यन्मासे यत्पक्षे या तिथिस् तद्दिनं तस्य मृताहः । पतीनां सदा स्त्रीभिः पार्वणम् एव् कार्यम् । दर्शे मृतस्य प्रेतपक्षे मृतस्य च प्रत्यब्दं पर्वणम् एव । यतीनां त्रिदण्डिनां प्रेतत्वं नास्त्य् एव । एकादशे ऽह्नि पार्वणम् एव कार्यम् । दण्डग्रहणात् पूर्वं मरणे स्वशाखोक्तविधिना दग्ध्वोदकपिण्डप्रेतश्राद्धसापिण्ड्यादीनि कार्याण्य् एव । शूद्राणां तु प्रेतश्राद्धं सर्वम् अमन्त्रकं द्वादशे ऽह्नि कार्यम् । मासे गते वा कार्यम् । अनाहिताग्नेर् मरणदाहादि प्रेतकार्यं मृताहश्राद्धं चाहिताग्नेः प्रेतकार्यं मृताहश्राद्धं च दहनादेः कार्यं त्रिपक्षान्तम् । तस्माद् ऊर्ध्वं मृताह एव । सर्वेषां मृताह एव श्राद्धं कार्यम् । अष्टकासु गयायां च पृथङ् मातॄणां पितॄणां च सोदकानां च सपत्नीकम् एव । तत्र दैवतन्त्रम् एव पितृपूर्वत्वम् । अनेकमातरो ऽप्य् एकत्र योज्या अन्यत् पूर्ववत् । वृद्धौ च न सपत्नीकं स्त्रीपूर्वत्वं दैवतन्त्रत्वं चोक्तम् एव । मृताहश्राद्धं पितृमृताहे पितॄणाम् एव कार्यं न च सपत्नीकम् । मातृमृताहे मातॄणाम् एव कार्यं पितॄणां तत्र श्राद्धे प्राप्तिर् एव नास्ति । (वृद्धौ मातृमुख्यं मातॄणां सदैवम् अन्वष्टकायां मातृमध्यं सदैवं गयादिषु मात्रन्तं सदैवम् ।) मातापित्रोर् मृताहैक्ये पितृमातृश्राद्धं पृथग् एव न सपत्नीकम् । तत्र पूर्वं पितुः श्राद्धं समाप्य ततो मातुः श्राद्धं कुर्यात् । पित्रोर् मृताहैक्ये सह दहने च मातृश्राद्धं पृथग् एव । तत्र तु पितुः श्राद्धं मातुः श्राद्धं चैककालम् एकपाकेन क्रमेण समापयेत् । मृताहैक्य एकचित्यारोहणे सति मातृश्राद्धं पृथग् एव । तत्र दैवं तन्त्रम् एव । ततः पितरस् ततो मातरः । अनेकमातरः पृथग् एव क्रमेण । कालपाकबहिःप्रयोगैक्यम् । भिन्नचित्यारोहणे सर्वं पृथग् एव । मृताहश्राद्धस्यैकोद्दिष्टत्वे ऽप्य् एष क्रमः । अष्टकागयावृद्धिमृताहाद् अन्यत्र सपत्नीकम् एव । मातामहानाम् एतेष्व् अपि सपत्नीकम् एव मृताहवर्जम् । तत्र पृथग् एव सर्वेषाम् । पितृव्यरिक्थभ्रातृमातुलगुर्वाचार्याणां च तद्वत् । अपरपक्षे महालये सर्वेषां पितॄणां श्राद्धं कार्यम् । तत्र मातृश्राद्धं पृथक् [६०] प्रशस्तम् । मातामहानां सपत्नीकम् एव । गुर्वाचार्यपितृव्यमातुलश्वशुरोपाध्यायभ्रातृसखिप्रियपोषकद्रव्यदपुत्रशिष्यर्त्विग्-आदीनां तत्स्त्रीणां च श्राद्धं कार्यम् । अपुत्राणां विशेषेण कार्यम् । तत्रैकः पाकः । वैश्वदेवं तन्त्रं पिण्डबर्हिश् चैकम् । पक्षश्राद्धे च तथैव । तत्पक्षत्रयोदश्याम् एकवर्गस्य श्राद्धं न कार्यं पिण्डदानं च निषिद्धं मघायोगे विशेषतः । पुत्रकामस्य च पिण्डबर्हिः कुशाः काशा दूर्वाः प्रशस्ताः । व्रीहियवगोधूमोशीरेक्षु-कन्दुरुमञ्जबल्वजाश् च भवन्ति । एकादश्यां त्रयोदश्यां मघायां कृत्तिकासु पिण्डदाने दूर्वा निषिद्धा । तत्पक्षचतुर्दश्यां शस्त्रहतस्यैव श्राद्धम् । तच् चैकोद्दिष्टम् एव । त्रयाणाम् अपि शस्त्रहतत्वे पार्वणम् एव । सर्वेषां पापमृतानां चैवम् । तन्त्रं दैवं पार्वणम् एव । नित्यश्राद्धम् अदैवं षट्पुरुषं च भवति । तत्रान्नदेशकालनियमाः कर्तृभोक्तृनियमाश् च न सन्ति । विप्रान् उपवेश्यासनं दत्वार्घ्यहोमपिण्डवर्जं सङ्कल्पसिद्ध्यन्तं कृत्वान्नं त्यक्त्वा भुक्तौ प्रसादयेत् । विवाहमौञ्जीबन्धोर्ध्वं वर्षं वर्षार्थं क्रमात् सपिण्डीकरणवर्जं श्राद्धेषु सपिण्डाः पिण्डान् न दद्युः । शेषं सर्वं कुर्युः । पृथक् पिण्डान् अपि न दद्युः ।
महालये गयाश्राद्धे मातापित्रोः क्षये ऽहनि ।
यस्य कस्यापि प्रेतस्य सपिण्डीकरणे सति ॥
कृतोद्वाहो ऽपि कुर्वीत पिण्डनिर्वपणं सदा ।
पितृयज्ञं च यज्ञे च गयायां दद्युर् एव ते ॥
सपिण्डीकरणवर्जं सर्वश्राद्धेषु विस्तृतपार्वणविधिनासम्भवे सङ्कल्पविधिनैव कार्यम् । सङ्कल्पविधानं नामावाहनार्घ्यहोमपिण्डवर्जं पार्वणोक्तं यथासम्भवं भवति । अन्नाभावे द्विजाभावे प्रवासे पुत्रजन्मनि पत्न्यभावे ऽग्न्यभावे पाककर्त्रभावे सति पत्न्यां रजस्वलायाम् आपदि तीर्थे ग्रहणसन्निधौ भोजननिषधकाले मृताहे चान्यश्राद्धे च सङ्ग्रहे रात्रिसङ्क्रान्तौ चावीरा स्त्री शुद्रश् च सर्वदामश्राद्धं कुर्यात् । तत्राच्छादनान्तं कृत्वामं चतुर्गुणं समं वा सोपस्करं त्यक्त्वा दक्षिणां दत्वा समापयेत् । आमेन होमपिण्डौ न वा । स्वस्तिवाचनं न वास्ति । अन्नाभावादिनिमित्तेषु हेमश्राद्धं वा कर्यम् । विशेषतः पुत्रजन्मापत्नीकप्रवासानग्नितीर्थापत्सङ्ग्रहेषु हेमश्राद्ध आवाहनार्घ्यगृहपाकहोमपिण्डान् कुर्युर् न वा । [६१] आच्छादनान्ते हिरण्यम् अष्टगुणं चतुर्गुणं द्विगुणं समं वा सदक्षिणं त्यक्त्वा पूर्ववत् समापयेत् । अन्नाभावाद्यनेकनिमित्तेषु सत्सु सङ्कल्पितं श्राद्धं कार्यम् । तत्र द्रव्ये विप्रे वासन्निहिते वामहेमभूवस्त्रधनधान्यादिवस्तु यथाशक्त्या पित्रुद्देशेन सङ्कल्पं त्यजेत् । मासिकानि मृताहःसु सम्भवे ऽन्नेनैव कार्याणि सपिण्डीकरणं तु सर्वथान्नेनैव कार्यम् ।
अथ श्राद्धकालविधिः —
तत्र तावद् यस्मिन् दिने यद् विहितं कर्म तद्घटिकासु तत्कर्मणः प्रारम्भं समाप्तिं च कुर्यात् । मृताहश्राद्धस्य विशेषेण । असम्भवे प्रारम्भं समाप्तिं वा कुर्यात् । अह्नि पञ्चदशधा विभक्ते ऽष्टमो मुहूर्तः कुतुपः । कुतुपादिपञ्चसु मुहूर्तेषु श्राद्धं कार्यं न सायाह्ने न रात्रौ न प्रातः । अह्नः पञ्चधा विभागास् त्रिमुहूर्तकाः प्रातः पूर्वाह्णो मध्याह्नो ऽपराह्णः सायाह्न इति । प्रातःकाले वृद्धिनिमित्तकं श्राद्धं प्रशस्तम् । पूर्वाह्ण आमश्राद्धं हेमश्राद्धं च । मध्याह्न एकोद्दिष्टम् । अपराह्णे पार्वणम् । पिण्डपितृयज्ञदिने सायाह्ने ऽपि पार्वणम् अनुज्ञायते । एवं पूर्वदिनेषु ।
अथ खण्डतिथिषूच्यते —
अमावास्या दृष्टचन्द्रा सिनीवाली । नष्टचन्द्रा कुहूसञ्ज्ञा । अमावास्या भूतविद्धा न चेद् अपराह्णव्यापिनी ग्राह्या । भूतविद्धा चेत् तां त्यक्त्वापरेद्युर् अपराह्णव्यापिनी तिथिर् ग्राह्या । मध्याह्नात् परस्ताद् अमावास्याप्रतीतौ भूतविद्धा भवति । अत्यन्ततिथिक्षयविषये ऽपरेद्युर् अपराह्णे ऽमावास्याया अभावे भूतविद्धा सिनीवाली सायाह्नव्यापिनी ग्राह्या । ततो ऽर्वाचीनक्षये भूतविद्धा सिनीवाल्य् अपराह्णव्यापिनी सर्वैर् ग्राह्या । यद् वा साग्निकैः सिनीवाली निरग्निकैः स्त्रीशूद्रैश् च कुहूः । अत्यन्ततिथिवृद्धौ भूतविद्धां सिनीवालीं त्यक्त्वापराह्णव्यापिनी कुहूर् ग्राह्या । ततो ऽर्वाचीनवृद्धौ भूतविद्धां सिनीवालीं त्यक्त्वा मध्याह्नव्यापिनी कुहूर् ग्राह्या । द्वयोर् अपि मध्याह्नव्यापित्वे तिथिसाम्य इच्छयान्यतरा तिथिर् ग्राह्या । यद् वा साग्निकैः सिनीवाली निरग्निकैः स्त्रीशुद्रैश् च कुहूः । यद् वा सर्वैः कुहूर् ग्राह्या । दर्शपूर्णमासयोः श्राद्धतिथिषु वृद्धिह्रासस्वीकारो नान्यत्र । मृताहे चापराह्णव्यापिन्य् एव तिथिर् ग्राह्या । अपराह्णः पितॄणां स्वयम्बुवा दत्तः । नास्तमयः । [६२] त्रिमुहूर्तमात्रव्यापिन्य् एव तिथिर् वृद्धौ परैव ग्राह्या तिथिसाम्ये तु पूर्वा परा वा तिथिक्षये त्व् अस्तमयत्रिमुहूर्तव्यापिन्य् एव ग्राह्या । परदिने श्राद्धकरणासम्भवे सूतकादिविघ्नसम्भवे पूर्वैवास्तमयमात्रव्यापिनी ग्राह्या । केचित् सर्वथा पूर्वविद्धा ग्राह्येत्य् आहुः । तत् तु बहुस्मृतिन्यायविदो नेच्छन्ति । पूर्वदिने श्राद्धकरणासम्भवे सूतकादिविघ्नसम्भवे च परैवोदयव्यापिनी प्रयोगपर्याप्तकाला तिथिर् ग्राह्या । तत्रापि मृताहश्राद्धस्य द्रव्यासम्भवे चान्येन विघ्नेन वानुपपत्ताव् उपपत्त्यनन्तरं कार्यम् । सूतकादिविघ्ने च तच्छुद्ध्यनन्तरं कार्यम् । यद् वा कृष्णैकादश्याम् अमावास्यायाम् वा कार्यम् । यद् वानन्तरमासे तद्दिने वा कार्यम् । एकोद्दिष्टे सम्प्राप्ते विघ्ने सत्य् अनन्तरमासे तद्दिने वा कार्यम् । यथाकालं षोडश श्राद्धानि कार्याणि । अनुपपत्तिनिमित्ते विघ्ने सत्य् उपपत्त्यनन्तरं कार्याणि । विघ्नेनान्तरितं मासिकश्राद्धम् उत्तरमासि तद्दिने कार्यम् । प्रोषितमरणे मृताहाज्ञाने मृतमासपरिज्ञाने तन्मासदर्शो ग्राह्यः । मृतमासाज्ञाने मृताहपरिज्ञाने सति मार्गशीर्षमासे भाद्रपदमासे माघे वा तद्दिनं ग्राह्यम् । मरणदिनमासौ न विज्ञातौ चेत् प्रस्थानदिनमासौ ग्राह्यौ । प्रस्थानदिनमासौ न विज्ञातौ चेन् मरणदिनमासवार्ताश्रवणदिनमासौ पूर्ववद् ग्राह्यौ । मरणवार्ताश्रवणदिनमासौ न विज्ञातौ चेत् पुनर् दहनमासौ पूर्ववद् ग्राह्यौ । यद् वा सर्वत्रापि कृष्णपक्षमरणे दर्शो ग्राह्यः । शुक्लपक्षमरणे पूर्णमासः । सर्वात्मना मृताहाज्ञाने माघमासस्य दर्शो ग्राह्यः । अप्रोषितस्यापि सर्वात्मना मरणदिनमासाज्ञान एवम् एव कार्यम् । युगादिमन्वादिप्रभृतिविशेषविहितश्राद्धेषु शुक्लपक्ष उदयव्यापिनी तिथिर् ग्राह्या । कृष्णपक्षे ऽस्तमयव्यापिनी । शुक्लपक्षस्य पूर्वाह्णे करणं प्रशस्तं कृष्णपक्षस्यापराह्णे नक्षत्रविहितश्राद्धेष्व् अपि शुक्लपक्ष उदयव्यापि नक्षत्रदिनं ग्राह्यं कृष्णपक्षे ऽस्तमयव्यापि नक्षत्रदिनं ग्राह्यम् ।
अथ सङ्क्रान्तिषूच्यते —
(सङ्क्रान्तिषु सर्वत्रोभयतो ऽष्टाष्तघटिकासु द्र्ष्टम् अदृष्टफलम् उच्यते ।) तत्र कर्कटसङ्क्रमो दक्षिणायनम् । दक्षिणायने पूर्वं त्रिंशद्घटिकाः स्नानदानश्राद्धादिषु पुण्याः । तथा विष्णुपदेषु च पूर्वं षोडश**[६३]**घटिकाः पुण्याः । वृषवृश्चिककुम्भसिंहसङ्क्रमा विष्णुपदाः । तुलामेषयोर् विषुवम् । तत्र पूर्वं दश घटिकाः पश्चाच् चतुर्घटिकाः पुण्याः । षडशीतिमुखेषु पश्चात् षोडश घटिकाः पुण्याः । मिथुनकन्याधनुर्मीनसङ्क्रमाः षडशीतिमुखाः । मकरसङ्क्रम उत्तरायणम् । उत्तरायणे पश्चाच् चत्वारिंशद्घटिकाः पुण्याः । (पूर्वं चत्वारिंशद्घटिकाः पुण्याः) प्राहुः । अर्धरात्राद् अर्वाक् सङ्क्रमणेषु सत्सु पूर्वदिनं पुण्यम् । तत्र भोगः कार्यः । अर्धरात्रसङ्क्रमणेषु सत्सु दिनद्वयं महापुण्यम् । तत्र भोगः कार्यः । यद् वा ग्रहणसङ्क्रान्तिविवाहोत्क्रान्तिवृद्धिषु रात्राव् अपि स्नानदानादिकं कार्यम् । व्यतीपातादियोगः कुतुपादियोगी ग्राह्यो विष्ट्यादिकरणं च तथैव ।
इति स्मृत्यर्थसारे श्राद्धकालनिर्णयः
अथ पर्वनिर्णय उच्यते —
सम्पूर्णे पर्वण्य् अन्वाधानम् । प्रतिपदि यागः । खण्डपर्वणि विशेष उच्यते । पूर्णमासी न्यूनचन्द्रानुमतिः पूर्णचन्द्रा राकेति द्विधा । अमावास्या च दृष्टचन्द्रा सिनीवाली नष्टचन्द्रा कुहूर् इति द्विधा ।
राकानुमत्याव् इति पूर्णमास्यौ रात्रिद्युदृष्टेन्दुवशाद् भवेताम् ।
कुहूः सिनीवाल्य् अपि नष्टदृष्टचन्द्रे स्मृते चासितपञ्चदश्यौ ॥
प्रधानकर्मतिथेर् उत्तरतिथौ वृद्धिह्रासयोर् ऊर्ध्वं पूर्वतिथौ प्रक्षिप्य कालो विज्ञेयः । सूर्यस्यावर्तनात् पूर्वम् आवर्तने च प्रतिपत्सन्धौ सति तस्मिन्न् अहनि यागः । आवर्तनाद् ऊर्ध्वं सन्धौ परे ऽहनि यागः । पर्वणो ऽन्त्यश् चतुर्थांशः प्रतिपद्य् आद्यास् त्रयो ऽंशा यागकालः । प्रातःकालयोग्यपराह्णे सन्धौ सति परे ऽहनि प्रतिपच् चतुर्थांशो यागकालो न पूर्वाह्णे सन्धौ । अत्राह्णो द्विधा विभागः पूर्वोक्तपर्वद्वये समानः । पौर्णमास्यां विशेषो वक्ष्यते । आवर्तनात् पूर्वं पर्वसन्धौ सद्यस्कालो न वा । आवर्तनात् पूर्वं सङ्गवाद् ऊर्ध्वं पर्वसन्धौ तु सद्यस्काल एव । सर्वां पौर्णमासीं यजनीयदिनं पर्वणि वा सद्यस्कालं केचिद् आहुः । प्रकृतौ सद्यस्कालत्वं कदाचिद् अपि नास्ति । विकृताव् एव तद् इति केचित् । किं च पौर्णमास्याम् अयं विशेषः । अहःस्व् अत्यन्तदीर्घेषु तिथिह्रासे सत्य् उदयसमीपे चतुर्थांशाभावे ऽपि पूर्वाह्णे पर्वसन्धिश् च सम्भवति । तत्रैव पूर्वाह्णसन्धिदिने बाधेनान्यत्र परे ऽहनि यागः । [६४] अमावास्यायां त्व् अपराह्णादिपर्वसन्धौ सति परे ऽहनि दृष्टे चन्द्रे ऽपि यागः कार्यः । पूर्वाह्णे सन्धौ सति प्रत्यक्चन्द्रदर्शनाहे यागे भूर् भुवः स्वः स्वाहेत्य् आहुतिं हुत्वा विप्राय दण्डदानं प्रायश्चित्तम् । प्राच्यां चन्द्रदृष्टौ तदहर्यागे तैत्तिरीयोक्ताभ्युदितेष्टिः । मनस्वत्याहुतिर् व्याहृत्याहुतिर् वा । प्रतीच्यां चन्द्रदृष्टाव् अन्वाधाने सति परे ऽहनीष्टिं समाप्य पथिकृदिष्टिं कुर्यात् । तत्राग्निः पथिकृदष्टाकपालः, इन्द्रो वृत्रहैकादशकपालः । अग्निर् वैश्वानरो ऽष्टाकपालः सशरं धनुर् दक्षिणा । एषा वाजसनेयोक्ता प्रकृतिदेवता पुनः कार्या मनस्वत्याहुतिर् वा व्याहृत्याहुतिर् वा । दिनद्वयं प्रातर्यागकाले सत्य् अपि पूर्वाह्णसन्धिदिन एव प्रातर्यागः । सर्वथा सन्धिर् एव यागोत्कर्षापकर्षप्रयोजको न तिथिवृद्धिह्रासौ प्रयोजकौ । सप्तदशी तिथिर् अन्वाधाने निषिध्यते न यागे । प्रारब्धप्रकृतीष्टेर् विकृतीष्टयः स्युः सद्यस्कालाः । आवर्तनात् पुरा सन्धौ प्रकृतिं समाप्य विकृतिः कार्या । ऊर्ध्वसन्धौ विकृतिं समाप्य प्रकृतेः प्रारम्भः । आग्रयणं पर्वालाभे शुक्लपक्षे देवनक्षत्रे कार्यम् । कृत्तिकादिविशाखान्ते प्राच्यां चन्द्रादर्शने पिण्डपितृयज्ञकालः ।
इति पर्वनिर्णयः ।
** अथैकादशीनिर्णयः —**
एकादश्याम् उपवासः कार्यः । स च पुत्रवतां गृहिणां शुक्लैकादश्याम् एव न कृष्णैकादश्याम् । कृष्णैकासयाम् अनशनम् अयाचितं नक्तम् एकभक्तं दानं वा शक्त्या कार्यम् । सर्वथा न निर्द्वादशिको भवेत् । उपवासाशक्तश् चैवं कुर्यात् । पुत्ररहितानां गृहिणां यतिवनस्थब्रह्मचारिस्नातकविधवानाम् उभयैकादश्योर् नित्यम् एव ।
य इच्छेद् विष्णुसायुज्यं श्रियम् आयुः प्रजां सुखम् ।
एकादश्यां न भुञ्जीत पक्षयोर् उभयोर् अपि ॥
इति वैष्णवव्रतत्वेनोपवासवतां कृष्णा न निषिद्धा ।
उपवासो यदा नित्यः श्राद्धं नैमित्तिकं भवेत् ।
उपवासं तदा कुर्याद् आघ्राय पितृसेवितम् ॥
एकादश्यां श्राद्धे कृते श्राद्धशेषम् आघ्रायोपवसेत् । आदित्यवारसङ्क्रा**[६५]**न्त्यादिष्व् एकादश्युपवासस्य निषेधो नास्ति । महापत्सु महोत्सवेषु च सूतके चार्तवे चाशक्तौ च न त्याज्यं द्वादशीव्रतम् । तत्र नित्ये स्नात्वा देवार्चनरहितम् उपवासं कुर्यात् । काम्ये तु स्नात्वा पत्नीं पतिं पुत्रं भ्रातरं भगिनीम् ऋत्विजम् अन्यं वार्चनादिषु कारयेत् । सूतकार्तवान्ते दानं कुर्यात् । मध्ये चेत् पतिः पत्नी वा दानं कुर्यात् । सपत्न्यो ऽपि परस्परं कुर्युः । अन्यव्रतेषु चैवम् । एकादश्याः पूर्वोत्तरदिनयोर् एकभक्तम् । कांस्ये मांसं मसूरं चातिघृतम् अतितुष्टिं पुनर्भोजनं मैथुनं च पूर्वे ऽह्नि वर्जयेत् । अथ समाहित एकादश्यं प्रातः स्नात्वा सङ्कल्पं कुर्यात् ।
एकादश्यां निराहारः स्थित्वाह्नि परे ह्य् अहम् ।
भोक्ष्यमि पुण्डरीकाक्ष शरणं मे भवाच्युत ॥
इति सङ्कल्प्य दिवास्वापं मैथुनं ताम्बूलादिभक्षणम् असकृज्जलपानं सर्वभोगान् उदक्यासूतिकापतितपाषण्डिहीनजातिसम्भाषणं [च] वर्जयेत् । पुण्यस्त्रीणां तु –
पुष्पालङ्कारवस्त्राणि गन्धधूपानुलेपनम् ।
उपवासे न दुष्यन्ति दन्तधावनम् अञ्जनम् ॥
वाङ्नियमलोपे वैष्णवमन्त्राञ् जपेद् विष्णुं स्मरेद् वा । मनोवाक्कायनियमलोपे शारीरमन्त ॥। इत्याद्यां जपेत् । विष्णुं शुद्धः सम्पूज्य पुरतो जागरं निद्रां वा कुर्यात् । श्वोभूते पुनः स्म्पूज्य –
अज्ञानतिमिरान्धस्य व्रतेनानेन केशव ।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव ॥
इति नत्वा पारणं कुर्यात् । कांस्यं मांसं मसूरं च क्षौद्रं लोभम् असत्यं तैलं तिलपिष्टं व्यायामम् अञ्जनं च पुनर्भोजनम् अध्वगमनम् आयासं दिवानिद्रां मैथुनं च वर्जयेत् । [अन्यथा] उपवासफलं शक्तिं च हन्युः । यदैकादशी शुद्धा सम्पूर्णा द्वादश्यां नास्ति द्वादशी तु समा न्यूनाधिका वा तदैकादश्याम् उपवासः । यदा सम्पूर्णैकादशी द्वादश्यां च कियन्मात्रास्ति द्वादशी च त्रयोदश्याम् अस्ति तदा द्वितीयैव सर्वैर् उपोष्या । यदा सम्पूर्णैकादशी द्वादश्यां च कियन्मात्रास्ति तत्र रात्रिशेषे च त्रयोदशी तदा गृहस्थैः पूर्वोपोष्योत्तरा यतिभिः । (यदा दशमीविद्धैकादशी द्वादश्यां कियन्मात्रा [६६] विद्यते द्वादशी च त्रयोदश्याम् अस्ति वा न वा तदा सर्वैर् द्वितीयैवोपोष्या ।) यदा दशमीविद्धैकादशी द्वादश्यां कियन्मात्रास्ति तत्र रात्रिशेषे त्रयोदशी तदा दिनक्षये ऽपि पुण्या द्वितीयैवोपोष्या यतिभिर् न गृहस्थैः प्रजार्थिभिः । गृहस्थैस् तु पूर्वोपोष्या यदा च दशमीविद्धैकादशी द्वादश्यां नास्ति द्वादशी च त्रयोदश्याम् अस्ति तदा द्वादश्यैवोपोष्या । यदा च दशमीविद्धाइकादशी द्वादशी च समा न्यूना वा तदा यतिव्यतिरिक्तानां दशमीविद्धैकादश्याम् उपवासः । यतीनां तु शुद्धद्वादश्याम् उपवासः । यदा च दशमीविद्धैकादशी रात्रिशेषे च त्रयोदश्यां चास्ति समा न्यूना वा तदा सर्वेषां दशमीविद्धैकादश्याम् उपवासः । इदम् एकादशीव्रतं माहेश्वरम् अपि भवति लिङ्गादिपुराणदृष्ट्या । अष्टमीचतुर्दश्योर् नक्तं च कार्यम् एकभक्तं वा तत्पुरुषेण सङ्कल्पः पारणं च नाम्ना वा । तथैकादशीव्रतं माहेश्वरव्रतवत् सौरम् अपि भवति सौरपुराणाच् च । नित्यत्वं तु सर्वत्र समानम् एव । तत्रायं विशेषः – षष्ठ्याम् उपवासश् च कार्य आदित्यवार एकभक्तं च कार्यं सावित्रनाम्ना सङ्कल्पः ।
इति स्मृत्यर्थसार एकादशीनिर्णयः ।
** अथ तिथ्यन्तरनिर्णयः —**
एकादश्य् अष्टमी षष्ठी पौर्णमासी चतुर्दशी ।
अमावास्या तृतीया च उपवासव्रतादिषु ॥
परविद्धाः पुण्याः शेषाः पूर्वविद्धाः कार्याः । कृष्णपक्षे ऽष्टमी चतुर्दशी च पूर्वविद्धा प्रशस्ता तृतीया नवमी चेत्य् एके । सर्वत्र व्रतदानादीनां कृष्णपक्षाच् छुक्लपक्षो विशिष्यते । अपराह्णाच् च पूर्वाह्णो विशिष्यते । तदसम्भव उदयाद् द्विमुहूर्तं ग्राह्यम् । उपवासे घटिकापि ग्राह्या ।
अविद्धानाम् अलाभे तु पयोदधिघृतानि च ।
सकृद् एवाल्पम् अश्नीयाद् उपवासस् ततो भवेत् ॥
एकादशी तु पञ्चमुहूर्ताविद्धाप्य् उपोष्या । तदर्धविद्धान्य् अन्यानि दिनानि ।
प्रदोषव्यापिनी ग्राह्या तिथिर् नक्तव्रते सदा ।
[६७] उपवासस्थानीयं नक्तं तूपवासतिथौ कार्यम् । तिथिनक्षत्रसंयोगविहितव्रते च प्रदोषव्यापिनी तिथिर् ग्राह्या । (नक्षत्रसंयोगेन या तिथिः पुण्या तस्यां विहितव्रते सैव तिथिर् ग्राह्या) श्रवणद्वादशीव्रते तूदयव्यापिनी द्वादशी ग्राह्या । अत्रैकादशी द्वादश्यां रात्रिशेषे त्रयोदशी चेत् ।
द्वादश द्वादशीर् हन्ति त्रयोदश्यां तु पारणम् ।
सर्वत्र तिथिनक्षत्रान्ते पारणं नियमाः पूर्वम् एवोक्ताः । सङ्क्रान्त्यां रविवारे च ग्रहणे व्यतीपाते कृष्णैकादश्याम् –
पारणं चोपवासं च न कुर्यात् पुत्रवान् गृही ।
इति सङ्क्रान्त्यादिप्रयुक्तस्यायं निषेधो नान्यप्रयुक्तस्य ।
इति सामान्यतिथिनिर्णयः ।
** अथ मलमासे कार्याकार्यनिर्णय उच्यते —**
सूर्यसङ्क्रान्तिरहितो मासो मलमासः । तत्र मलमासे ऽनन्यगतिकर्माकरणे पातित्यापादकं नित्यं नैमित्तिकं च कर्म कर्तव्यम् । तत्र नित्यस्नानसन्ध्योपासनाग्निकार्यपञ्चमहा-यज्ञातिथिपूजाग्निहोत्रोपासनहोमदर्शपूर्णमासपार्वणेष्टिपार्वणस्थालीपाकपिण्डपितृ-यज्ञामावास्यापार्वणश्राद्धमासिकश्राद्धदेवार्चननित्यदानादिकं नित्यं मलमासे ऽपि कार्यम् । अनन्यगतिकं नित्यम् । अन्यगतिकं सोमयागपशुबन्धाधानाग्रयण-चातुर्मास्यादिकं मलमासे न कार्यम् । महालयाष्टकाकर्मोपाकर्मोत्सर्जनश्रवणाकर्माश्व-युजकर्मप्रत्यवरोहणयज्ञादिकं यत् कर्म कर्तुर् मासप्रयुक्त्या विहितं तच् च मलमासे न कार्यम् । उत्तरे मासि कार्यम् एव । नैमित्तिकं च गर्भनिमित्तं गर्भमासप्रयुक्त्या विहितं पुंसवनानवलोभनसीमन्तजातकर्मादिकं तन्निमित्ताभ्युदयिकदानादिकं चन्द्रसूर्यग्रहे स्नानतर्पणश्राद्धदानादिकं च मघात्रयोदशीश्राद्धं च तीर्थस्नानजलतर्पणश्राद्धपिण्डदानयवव्रीहितिलहोममरणकालशुद्द्ध्यादिकं दहनोदकपिण्डदानाद्याद्यश्राद्धनवश्राद्धषोडशश्राद्धानि प्रेतत्वविमोकार्थान्य् अन्यान्य् अपि सपिण्डीकरणादीनि नैमित्तिकान्य् अनन्यगतिकत्वेन मलमासे प्राप्ते कार्याणि । ततः संवत्सरविमोक्षान्तम् अनुमासिकानि कुर्वन् मलमासे नैव कुर्यात् । (संवत्सरान्ते सपिण्डीकरणं संवत्सरविमोक्षं च यथाकालं [६८] मासिकानि कुर्वन्न् अपि मलमासे नैव कुर्यात्) उत्तरत्र कुर्याद् एव । मलमासमृतानाम् आब्दिकं च श्राद्धं मलमासे कार्यम् । अन्येषाम् उत्तरमास्य् एव कार्यम् । वार्धुषिके भृत्ये मृते चाधिमासं न वर्जयेत् । अत्र वषट्कारहोमा नित्यनैमित्तिकप्रवृत्तकाम्यार्थाः प्रायश्चित्तेष्टिस्थालीपाकहोमाद्याश् च मलमासे ऽपि कार्याः । नैमित्तिक्य् अपि जातेष्टिर् मलमासे न कार्या । आधानान्तरम् अन्वारम्भणीयेष्टिं चाद्यस्थालीपाकं च मलमासे न कुर्यात् । काम्यं यागहोमादिकं मलमासे न कार्यम् । मलमासात् प्राक् प्रवृत्तं काम्यं कर्म मलमास आगते कार्यम् । पुराणधान्याभावेन निर्वाहाभावे मलमासे ऽपि स्यामाकैर् आग्रयणम् आतुरः कृत्वा नवं भुक्त्वा यथाकालं व्रीह्याग्रयणं कुर्यात् । वसन्तात् पर्वणः प्राग् दैवात् सोमयागो न कृतश् चेच् छिष्टं पर्वैकम् एव तच् च मलदूषितं चेत् तत्र नित्यो ऽपि सोमयागो न कार्यः । तत्र लोप एव पत्नीरजोदर्शनवत् ।
इति मलमासनिर्णयः ।
** अथ भक्ष्याभक्ष्यविधिः —**
संस्कारदुष्टं क्रियादुष्टं स्वभावदुष्टं च नाद्यात् । संस्कारदुष्टं वैश्वदेवादिरहितम् । क्रियादुष्टम् एकपङ्क्ताव् अन्यथात्वम् । स्वभावदुष्टं लशुनादिकालिन्दवोर् वारुककुम्भीतक-वृत्तालाबुवन्यकण्टकिकुसुम्भरक्तशिग्रुकोविदारश्लेष्मातकनालिकाक्षुद्रश्वेतकण्टकि-वृन्ताकानि दुर्गन्धिकन्दमूलफलादि सर्वं यतिव्रतिनोः सर्वथा सर्वदा वर्ज्यम् । शिरःकपालान्त्राणि नखचर्मतिलानि क्रमाद् अष्टम्यादिषु वर्ज्यानि । सगोत्राभर्तुर् अन्नं कारुकान्नं वस्त्रेण पाणिनावधूतम् अवघ्रातम् अवक्षुतम् इत्यादि प्रायश्चित्तविधाव् अभक्ष्यं वक्ष्यते ।
इति भक्ष्याभक्ष्यविधिः ।
** अथ भोजनविधिः —**
कृतनित्यविधिः पादौ प्रक्षाल्य बहिर् द्विर् आचम्य प्राङ्मुख उदङ्मुखो वा यज्ञोपवीती सोत्तरवासा विभवे रत्नहिरण्यपाणिर् गन्धाक्षतमाल्यवाञ् छुचिः प्रशस्तश्रीपर्ण्यादिश्लक्ष्णे चतुष्पादपीठे सुखासीनो भूमौ पादौ प्रैष्ठाप्यान्तर्जानुकरो वाग्यतस् तच्चित्तश् चतुरस्रे गोमयमण्डले सपर्यान्ते विप्रो दीपसान्निधौ भुञ्जीत । त्रिकोणमण्डले नृपः । वर्तुले वैश्यः । अभ्युक्षिते शूद्रो भुञ्जीत । ततो मण्डले पालिकाय**[६९]**न्त्रादौ शुद्धं पात्रं निधाय प्रक्षाल्य पञ्चमहायज्ञावशिष्टं पूर्वं तु संस्कृतं विहितं मितं घृताद्युपस्कृतं मातृभार्यादिदत्तम् अतिथ्यभ्यागतभृत्यपुत्रादिपरिवृत एकान्ते भुञ्जीत । तद् अन्नम् अकुत्सयन् ब्रह्मग्रन्थिरहितपवित्रदक्षिणपाणिर् गायत्र्याभ्युक्ष्यान्नम् ॐ भूर् इत्यादिमन्त्रेणाभिमन्त्र्य सत्यं त्वर्तेन परिषिञ्चामि ॐ चित्राय नमश् चित्रगुप्ताय नमो यमाय नमः सर्वभूतेभ्यो नम इति भूमौ बलिं दत्वा हस्तपादवदनार्द्रः करमध्येनान्नम् अलङ्घयन्न् अमृतोपस्तरणम् असीत्य् आपोशनं गृहीत्वा सर्वाङ्गुलिभिः सर्वग्रासं ग्रसन् प्राणायापनाय व्यानायोदानाय समानायेति स्वाहान्तैः पञ्चाहुतीः सघृताः सक्षीराः वा हुत्वा वाक्पाणिपादचापल्यं वर्जयन् कृत्स्नं ग्रासं साङ्गुष्ठं ग्रसन् नरो भुक्त्वा, अमृतापिधानम् असीति गण्डूषार्धं पीत्वार्धं भूमौ बहिःपाणिं निनीय पवित्रं विसृज्य भूमौ पात्रे वा क्षिप्त्वा सम्यग् उच्छिष्टं प्रक्षाल्य द्विर् आचामेत् । ततो हस्तौ सम्मृज्य परिस्राव्याङ्गुष्ठेन चक्षुषोर् निषिञ्च्याक्षिणी स्पृष्ट्वाग्निम् उपस्पृश्येष्टदेवतां स्मरेत् । भोजनगृहे चासनस्थो नाचामेन् नाञ्जलिना पिबेन् न पितृतीर्थेन । गोमयं मृन्मयं वाश्वत्थं पालाशम् आर्कं युतकं भिन्नं दग्धम् अयोबद्धं च पीठं वर्जयेत् । ताम्ररौप्यसौवर्णाश्मवर्जं भिन्नभाजनं भग्नं वर्जयेत् । न शुष्कपाणिपादो भुञ्जीत न तिष्ठन् न गच्छन् न शयानो न प्रह्वो न खट्वायां न सन्ध्यायां न शय्यास्थो न तत्र भाजनं निधाय न जानुनि नोत्सङ्गे न वामपाणितले वा निधाय भुञ्जीत । न शिशुभिः सह भुञ्जीत । न पास्यताम् अप्रदाय । नाभिजनबालवृद्धातुरेभ्यो ऽप्रदाय न भार्यया सहाश्नीयाद् विवाहवर्जं नार्द्रवस्त्रो वस्त्रादिपर्यङ्किकां कृत्वा न प्रौढपादो नासनारूढपादो न विदिङ्मुखो न दुष्टपङ्क्तौ । जलतृणाग्निभस्मपथिस्तम्भैः पङ्क्तिर् भिद्यते । ग्रहणे नाश्नीयात् । तदान्यसूतकसूतकित्वं नास्ति । तदा स्नानतर्पणश्राद्धयागदानादि कृत्वा मोक्षस्नानं कृत्वाश्नीयात् । सूर्यग्रहे पूर्वं चतुर्यामं नाश्नीयात् । चन्द्रग्रहे त्रियामम् । चन्द्रमसो ग्रस्तोदये न दिवा पूर्वम् अश्नीयात् । अभुक्तयोर् असतङ्गतयोर् दृष्ट्वा स्नात्वा परे ऽहन्य् अद्यात् ।
ग्रस्तोदये विधोः पूर्वं नाहर्भोजनम् आरभेत् ।
न सन्ध्ययोर् नार्धरात्रे नाग्निपाकशून्यगृहेषु नायज्ञोपवीती न वामहस्तेन न पाणिपृष्ठेन न केवलं पाणितलेन न वस्त्रे भुञ्जीत । नान्यसहा**[७०]**सनो न यन्त्रिकादौ यतिर् ब्रह्मचारी व्रती विधवा च भुञ्जीतेत्यादि सर्वं ज्ञेयम् । अथ काले सायंसन्ध्याम् उपास्य होमं वैश्वदेवम् अतिथ्यर्चनं कृत्वा भृत्यैः परिवृतो भुञ्जीत । रात्रौ परिषेचने विशेषः – ऋतं त्वा सत्येन परिषिञ्चामीति सायम् । ततः स्वस्त्रिया सह सुगन्धलेपनताम्बूलादि सेवमानः स्वपेत् । न सन्ध्यायां शून्यालये श्मशान एकवृक्षे चतुष्पथे शिवमातृकायक्षनागस्कन्द-भैरवाद्युग्रदेवगृहेषु कूलेषु च स्वपेत् । धान्यगोदेवविप्राग्निगुरूणां चोपरि चासुचौ वाशुचिर् आर्द्रवस्त्रपादो नग्नो न स्वपेत् । प्राक्शिरा दक्षिणतःशिरा वेष्टदेवतां नत्वा स्मरन् वैणवं दण्डं शयनसमीपे निधाय स्वपेत् । प्रक्षालितपादः कृतरक्षः स्वपेत् । प्रदोषापरयामौ विद्यया नयेत् ।
इति स्मृत्यर्थसार आह्निकं समाप्तम्
अथ द्रव्यशुद्धिर् उच्यते —
तत्र विण्मूत्रशुक्ररक्तवसामज्जासुरामद्यान्य् अत्यन्तोपहतिकारणानि । श्वविड्वराहबिडालादीनि पुरीषादीनि च कर्णविण्नखश्लेष्माश्रुदूषिकास्वेदादीन्य् अल्पोपहतिकारणानि । तथोच्छिष्टशूद्रेण सूतकिद्विजैर् अस्पृश्यकाकादिभिश् चास्पृश्यविड्वराहादिभिः पशुभिश् च स्पर्शनम् अल्पोपहतिर् उच्यते । तथाल्पप्रदेशाल्पकालमूत्रोच्छिष्टमृगादिस्पर्शनम् अल्पोपहतिर् उच्यते । पञ्चमाद्यन्त्यजातिचाण्डालाद्यैः सूतिकाया रजस्वलायाः पतितैः शुना शवेन च शवस्पृशां च स्पर्शे ऽत्यन्तोपहतिर् भवति । अल्पकाले ऽल्पप्रदेशे मद्यसंस्पर्श उच्छिष्टरुधिराद्यैर् बहुकालं वस्तुदोष्ē ऽत्यन्तोपहतिर् भवति ।
सौवर्णं राजतं ताम्रं लौहं विण्मूत्रचाण्डालोदक्यादिदुष्टं पात्रं त्रिःसप्तभस्मभिर् अम्लोदकेन च शुध्येत् । सौवर्णं राजतं ताम्रं लौहं विण्मूत्रचाण्डालोदक्यादिस्पृष्टमात्रं निर्लेपं जलप्रक्षालनाच् छुध्येत् । सलेपं चेद् भस्मभिर् अम्लोदकेन शुध्येत् । कांस्यादेर् आवर्तनम् । बहूपघाते सर्वेषाम् आवर्तनम् एव । तैजसानां गोमूत्रपरिवासेन, लेपानपगम आवर्तनम् । ताम्रस्य विण्मूत्रादिभिश् चण्डालादिभिश् च दूषितस्यामलोदकाभ्यां शुद्धिः । कांस्यपित्तलयोर् विण्मूत्रादिगण्डूषपादप्रक्षालनचाण्डालादिस्पर्शे तद् एव त्रिःसप्तकृत्वो भस्मना परिमार्ज्य प्रक्षालनाच् छुद्धिः । अल्पकालोपहतौ तापनपरिलेखाभ्यां शुद्धिः । बहुकालापहताव् आवर्तनम् । यद् वा भूमौ निखाय षण्मासं परिमार्जनम् एव । तत्र वृद्धे वृद्धम् अल्पे ऽल्पम् एवेति [७१] स्यात् । एवं सर्वतैजसानाम् आवर्तनं पुनःकरणम् । परिलेखनं तक्षणम् । कांस्यपित्तलयोर् गोऽश्वकाकोच्छिष्टशूद्रस्पर्शे दशभस्मभिः प्रक्षालनम् । अल्पकालोपहतौ भस्मना सलवणतैलावघर्षणैः शुद्धिर् बहुकाले त्व् आवर्तनम् । त्रपिसीसायसानां भस्मजलाभ्यां शुद्धिः । सर्वतैजसेष्व् अल्पोपहतौ गोमूत्रगोमयमृद्भस्माम्लोदकैः शुद्धिर् यथार्हं कार्या । शुक्तिशङ्खपाषाणमणिरत्नानाम् अब्जानां विण्मूत्रादिचण्डालाद्युच्छिष्टस्पर्शमात्रे जलक्षालनाच् छिद्धिः । सलेपानां भस्मजलाभ्यां मृज्जलाभ्यां वा शुद्धिः । अत्यन्तोपहतानां सप्ताहं भूमौ निखाय प्रक्षालनाच् छुद्धिः । सौवर्णराजतताम्रशङ्खशुक्त्यश्मस्फटिकादिरत्नेषु भेदे न दोषः । शृङ्गदन्तास्थिमयानाम् अल्पोपहतौ बिल्वफलचूर्णैर् गौरसर्षपैर् मृद्भस्मगोमूत्रगोमयानाम् अन्यतरेण प्रक्षालनाच् छुद्धिः । अत्युपहतौ तक्षणम् अमेध्यरसवेधे त्यागः । दारुवेणुवेत्रपात्राणाम् अल्पोहपतौ तक्षणम् अतिदुष्टानां त्यागः । कपित्थबिल्वालाबुनारिकेलफलानां तत्कृतपात्राणां चाल्पोपहतौ प्रक्षाल्य गोपुच्छनिघर्षणाच् छुद्धिः । अत्यन्तोपहतौ त्यागः । शृङ्गास्थिदन्तपात्राणाम् अब्जानां च दुर्लभानाम् अत्यन्तोपहतानां तक्षणप्रक्षालनाच् छुद्धिः । मृन्मयानां पात्राणाम् ईषद्दुष्टानां पुनर् दहनाच् छुद्धिः । विण्मूत्राद्युपहतानां शवसृतिकोदक्यास्पृष्टानां त्याग एव । महाभाजनभाण्डेषु बाह्यदोष आन्तरं न दुष्यति । तत्र बाह्यं प्रक्षाल्यम् । स्रुक्स्रुवादिपात्राणां जलप्रक्षालनाच् छुद्धिः । सस्नेहानां यज्ञियानाम् उष्णजलप्रक्षालनाच् छुद्धिः । सर्वेषां पात्राणां संहतानाम् एकस्योपहतौ तस्यैव शुद्धिः कार्या न तत्स्पृष्टानां च । कन्दमूलशाकानाम् अपक्वानां वेणुपात्रवस्त्रकाष्ठानां चाशुचिस्पृष्टानां जलप्रक्षालनाच् छुद्धिः । वस्त्राणाम् एकपुरुषोद्धार्यभाराधिकानां स्थूलानां बहूनाम् अन्येषां च चण्डालादिस्पृष्टानाम् अहतक्रीतानां प्रोक्षणाच् छुद्धिः । श्वेतवस्त्रसूत्रेषु पण्यस्थूलनूतनेषु विंशतौ बहुत्वम् । चित्रवस्त्रेष्व् एकादशसु बहुत्वम् । कुसुम्भादिरक्तेषु त्रिषु बहुत्वम् । पण्येषु नूतनेषु च ततो ऽल्पानाम् अपि बहुत्वम् । सूच्या सूचिते ऽल्पतमे बहुत्वम् । तदल्पानां प्रक्षालनाच् छुद्धिः । अधौतानां मलिनानां चाल्पानां बहूनां च वैदिके कार्ये नवानां च स्थिररङ्गाणां च प्रक्षालनम् । आविककम्बलस्याल्पदोषे सूर्यरश्मिभिः प्रोक्षणाद् वा शुद्धिः । विण्मूत्रादिदोषे वल्मीकमृत्तिकाभिः प्रक्षालनाच् छुद्धिः । [७२] कौशेयवस्त्रस्याल्पदोषे प्रोक्षणाच् छुद्धिः । विण्मूत्राद्युपहतस्य मृज्जलाभ्यां प्रक्षालनाच् छुद्धिः । क्षौमवस्त्रस्याल्पदोषे प्रक्षालनाच् छुद्धिः । विण्मूत्राद्युपहतौ बिल्वचूर्णावघर्षणजलप्रक्षालनाच् छुद्धिः । नीलीसंयुक्तं वस्त्रं स्वरूपेण चतुर्वर्णैस् त्याज्यम् ।
कम्बले पट्टसूत्रे च नीलीदोषो न विद्यते ।
नेपालकम्बले ऽल्पोपहतौ प्रोक्षणम् । मूत्रादिदोषे ऽरिष्टफलसम्भवफेनैर् विघृष्य जलप्रक्षालनाच् छुद्धिः । तूलशय्योपधानानां कुसुम्भादिरञ्जितवस्त्राणां चाल्पोपहताव् आतपे किञ्चिच् छोषणम् । विण्मूत्रादिसंस्पृष्टे संस्पृष्टांशं संशोध्य शोषणाच् छुद्धिः । ऊर्णाकार्पासतूलकुसुम्भकुङ्कुमकुसुमकर्पूरादिनिर्यासानां चैवम् । श्वेतवस्त्रं चण्डालादिस्पृष्टं प्रक्षालनाच् छुध्येत् । तस्य पुरीषादिदोषे गोमूत्रगोमयाभ्यां प्रक्षालनाच् छुद्धिः । शयनासनयानसम्बन्धानां बहुरोमवस्त्राणां च प्रोकणाच् छुद्धिः । चैलवच् चर्मणां शुद्धिः । नवानां तु जम्बूवृक्षादितिक्तशुष्ककषायेण त्रिफलोदकेन वा गन्धक्षये शुद्धिः ।
(बृहच्चर्मपटे नव्ये सन्धिते ऽत्र लघुण्य् अपि ।
उक्तद्रव्यैः क्रमाच् छुद्धिः सद्यः प्रोक्तो मनीषिभिः ॥
मृद्भस्मभिः कषायैश् च त्रिफलाभिस् त्रिभिस् त्रिभिः ।
दिनैर् द्वादशभिः प्रोक्ता चर्मणः शुद्धिर् उत्तमा ॥
भस्मनः पलम् एकं तु मृदस् तद्द्विगुणं स्मृतम् ।
काषायास् त्रिगुणाः प्रोक्तास् त्रिगुणा त्रिफला स्मृता ॥ )
चर्मभाण्डेषु बहिर् दोष आन्तरं तु न दुष्यति । तत्र बाह्यं सम्यक् प्रक्षाल्यम् । धान्यम् एकपुरुषोद्धार्यभाराधिकं चण्डालादिस्पृष्टं प्रोक्षणाच् छुध्येत् । एकपुरुषभारं प्रक्षालनाच् छुध्येत् । धान्यम् अशुद्धं मृत्तिकायुक्तं तण्डुलीकरणाच् छुध्येत् । धान्यराशौ मूत्रादिलिप्ते लिप्तांशम् अपसार्य शिष्टम् अभ्युक्षणाच् छुध्येत् । धान्ये गृहे स्थिते गृहदाहे सति तत्र नरपशुमरणे तद् धान्यं त्याज्यम् एव । भूमिगर्भस्थं कुसूलगर्भस्थं च धान्यम् अभ्युक्षणाच् छुध्येत् । मुद्गमाषादि (नरभारान् न्यूनम् आर्द्रं प्रक्षालनाच् छुध्येत् । शुष्कं चेद् अत्यन्तोपहतम् इति प्रोक्ष्यम् एव । मूराद्यैर् [७३] अभ्युपहतं त्याज्यम् एव । पुस्तकं चण्डालादिस्पृष्टं प्रोक्षेत्।) शिम्बिधान्यानाम् अल्पोपहतौ प्रोक्षणाच् छुद्धिः । धान्यम् अशुद्धं धूलिस्पृष्टं निस्तूषीकरणाच् छुध्येत् । अत्युपहतौ त्याज्यम् एव । दृढधान्येषु पुरुषभाराधिकेषु बहुत्वम् । शिथिलेषु द्रोणप्रमाणेषु बहुत्वम् । तण्डुलविदलादीनां तदर्थं बहुत्वम् । तत्र स्पर्शदोषे प्रोक्षणम् । सर्वत्र विण्मूत्रादिदोषे तावन्मात्रं त्यक्त्वा सर्वं प्रोक्ष्यम् । शिथिलतण्दुलादि सर्वत्र प्रोक्ष्यम् । पुरुषाशनान् न्यूनं त्याज्यम् एव । मृच्चर्मतृणकाष्ठादिकं नरभाराधिकम् अल्पोपहतौ वातातपाच् छुध्येत् । भूतलं केशकीटतुषाद्यैर् मलिनं मार्जनाद् अभ्युक्षणाच् च शुध्येत् । भूतलं श्वखरोष्ट्रविड्वराहादिसेवितं गोक्रमणमार्जनाद् अभ्युक्षणाच् छुध्येत् । भूतलं विण्मूत्राद्यैर् अत्यन्तोपहतं चेद् उल्लेखनेन गोनिवासमार्जनप्रोक्षणैः शुध्येत् । भूतलं नारीप्रसवदूषितं चाण्डालादिवासदूषितं चिरकालं विण्मूत्रादिदूषितं चिरकालं खरोष्ट्रविड्वराहदूषितं तत्स्थानमृत्तिकाम् अवधृत्यान्यां मृत्तिकाम् आपूर्य गोक्रमणमार्जनप्रोक्षणाच् छुद्येत् । एतद् एव भूतलम् अत्यन्तोपहतं चेत् खात्वा तृणाग्निना दग्ध्वान्यमृत्तिकाम् आपूर्य गोक्रमणमार्जनप्रोक्षणैः शुध्येत् । गृहस्याशुचित्वे कुड्यानां लेपनं भूमेः परिलेखनं मार्जनं च कार्यम् । भूतलस्य चिरकालं विण्मूत्रादिवासितस्य श्मशानत्वं गतस्यापि वृष्टिप्रक्षालनात् पश्चात् पूर्वोक्तविधिना शुद्धिः । आरामे क्षेत्रे श्मशानत्वं गते विण्मूत्राद्यैर् अत्यन्तदूषिते वृष्टेर् ऊर्ध्वं हलकर्षणाच् छुद्धिः । गृहे विप्रक्षत्रियविशां मरणे तत्रस्थं मृन्मयं भाण्डं पक्वम् अन्नं च सन्त्यजेत् । मृतदेशं गोमयेनोपलिप्याजाघ्रातेन गवाक्रान्तेन वा वाचनैर् वा कुशसुवर्णमिश्रोदकैः प्रोक्षणाच् छुद्धिः । गृहे कश्चिद् राजादिनिगडबन्धनान् मृतश् चेद् भूमिं कुण्ड्यं च सम्प्रोक्ष्य तृणागिना तापनाद् गोक्रमात् सूर्यरश्मिप्रचारात् प्रागुक्तविधिना शुद्धिः । गृहे जनने मरणे वा जात आशौचाद् ऊर्ध्वं मेध्यभूमिमृत्तिकाप्रक्षेपणात् पुण्याहवाचनाच् छुद्धिः । विप्रगृहे शूद्रादिमरणे गृहस्य दशाहम् आशौचम् । असच्छूद्रमरणे मासम् आशौचम् । चण्डालपतितादिमरणे चतुर्मासम् आशौचम् । रजकादिमरणे द्विमासम् आशौचम् । सर्वत्राशौचान्ते ऽमेध्यभूमिशुद्धिवच् छुद्धिः कार्या । विप्रगृहे दग्धे तत्र मार्जारादौ मृते सति तद्गृहस्य कर्षणात् प्रोक्षणाच् छुद्धिः । श्वकाकादौ मृते चैवं कर्षणे विशेषः । प्रतिमा लोहजाल्पोपहतिदूषिता भस्मोद्घर्षणात् पञ्चगव्येन शुध्येत् । प्रतिमा पाषाणजा चाल्पोपहतिदू**[७४]**षिता चेद् वल्मीकमृत्तिकया जलैः प्रक्षालिता पञ्चगव्येन शुध्येत् । प्रतिमा विण्मूत्रग्रामकर्दमादिना दूषिता चेत् पञ्चगव्यैः पञ्चाहम् अधिवास्याप्लाव्य गोमूत्रगोमयवल्मीकमृत्तिकाभिः सम्यक् प्रक्षाल्य पुनःप्रतिष्ठया शुध्येत् । रत्नजानां पञ्चगव्यैः प्रक्षाल्य पुनः प्रक्षालनं कार्यम् । जलं भूमिष्ठं गन्धवर्णरसान्वितं विण्मूत्रादिदूषितं त्रिगवां पानसमर्थं शुद्धम् । ततो ऽल्पं श्वकाकाद्युपहतम् एकगोपानसमर्थं तथैव शुद्धम् । जलं शुद्धं भाण्डाहृतं तस्मिन्न् एवाहनि शुद्धम् । तेनान्यदिने ऽनुष्ठानं न कार्यम् । बृहद्भाण्डगतं चतुर्द्रोणाधिकं विण्मूत्रादिदूषितं जलं परित्यज्य भाण्डं प्रक्षाल्य कुशसङ्घर्षणात् पुनः प्रक्षाल्य पञ्चगव्येन प्रोक्ष्य पुनर् जलपूरणाच् छुध्येत् । वापीकूपतडागादिष्व् अल्पजलेषु श्वमार्जारादिशवे क्लिन्ने जीर्णे सति तज् जलं सर्वम् उद्धृत्य मृत्तिकाम् उद्धृत्य पञ्चगव्यप्रोक्षणाच् छुद्धिः । पाषाणैर् इष्टिकाभिर् वा बद्धे तक्षणस्थाने दहनम् अन्यत् समानम् । दारुबद्धे प्रक्षालनम् एव । बहुजले षष्टिकुम्बोद्धारः । मूषकादिक्षुद्रप्राणिघाते त्रिंशत्कुम्भोद्धारो गोमूत्रादिप्रक्षेपः । जले जलप्राणिशवे न दोषः । वापीकूपजले नरशवे स्थिते घटशतं जलम् उद्धृत्य पञ्चगव्यप्रक्षेपाच् छुद्धिः । पशुशवपाते ऽप्य् एषा शुद्धिः । तत्र जलेन मरणे जलस्य त्रिरात्रम् आशौचम् । आशौचान्ते पूर्वोक्ता शुद्धिः कार्या । वापीकूपजल उपानच्छ्लेष्मशुक्रविण्-मूत्ररक्तवसामज्जास्थिदूषिते षष्टिकुम्बोद्धाराज् जलबाहुल्ये शतकुम्भोद्धारात् पञ्चगव्यप्रोक्षणाच् छुद्धिः । कूपादिजले ऽशुद्धरजसा दूषिते दिवा सूर्यरश्मिवायुस्पर्शनाच् छुद्धिः । रात्रौ वायुचन्द्रनक्षत्ररश्मिस्पर्शनाच् छुद्धिः सन्ध्यायां वायुस्पर्शनाच् छुद्धिः । नदीस्त्रोतस्तडागजले ऽन्त्यजैर् दूषिते तत्स्वीकृतजस्थानाद् अन्यत्र शुद्धम् एव ।
शाणं पाणितलं मानं कुडवं प्रस्थम् आढकम् ।
द्रोणं च खारिका चेति पूर्ववच् च चतुर्गुणम् ॥
द्रोणप्रमाणनिर्मितधान्यान्ने गवा घ्राते खरेण वा शुना वा विड्वराहग्रामकुक्कुटकाकैर् वा स्पृष्टे स्पृष्टमात्रम् उद्धृत्य शेषम् अन्नं पर्यग्नीकृत्य सहस्रगायत्र्याभिमन्त्रितैर् जलैः पवमानः सुवर्जन इत्य् अनेनानुवाकेन सकृद् अभिमन्त्रितैर् वा शुद्धवतीभिर् ऋग्भिर् वा शुचिलिङ्गैर् मन्त्रैर् वाभ्युक्ष्यैतच् छुद्धम् अस्त्व् इति विप्रवचनं लब्ध्वा शुध्येत् । अजामुखेन वा घ्रातं शुध्येत् । तदन्ने श्वकाका**[७५]**दिलालया घर्षिते तावन्मात्रं समुद्धृत्य शेषं कनकवारिणा रौप्यवारिणा वाभ्युक्ष्योल्मुकेन स्पर्शयित्वा, आज्यकनकैः स्पृष्टं शुध्येत् । अन्नं पूर्वोक्तं नखलोमविण्मूत्रादिदुष्टं चेद् दृष्टमात्रम् उद्धृत्य पूर्ववन् मन्त्रितोदकेनाभ्युक्ष्य भस्म क्षिप्त्वा घृतेनाभिधार्य शुद्धम् अस्त्व् इति विप्रवचनाच् छुध्येत् । घृतस्य नवनीतस्य वाढकप्रमाणस्य श्वकाकपिपीलिकादिदुष्टस्य दुष्टांशम् उद्धृत्य वस्त्रेण परिशोध्य तज्जातीयेन तद्भाण्डं पूरयित्वा सर्वम् अग्नौ प्रताप्य गायत्र्याभिमन्त्रितजलाभ्युक्षणाच् छुधेत् । तत्र नवनीतघृततैलक्षीरदध्नां द्रोणप्रमाणानां काकाद्युपहतौ घृतवच् छुद्धिः । तक्रदधिक्षीराणि शूद्रभाण्डस्थानि द्विजभाण्डे प्रक्षेपे शुद्धानि । नवनीतं घृतं क्षौद्रं चण्डालादिभाण्डस्थितं चेत् प्रताप्य विप्रभाण्डे क्षिप्तं बहु शुध्येत् । नवनीतं घृतं क्षौद्रं चण्डालेन प्रमादेन स्पृष्टं जले क्षिप्त्वोद्धृतं शुध्येत् । द्रोणप्रमाणान् न्यूनप्रमाणधान्यविर्मितान्नानाम् आढकप्रमाणन्यूनघृतादीनां द्रोणप्रमाणान् न्यूनतक्रादीनां च पूर्वोक्तोपहतौ परित्यागो ऽनापदि । आपदि तु पूर्वोक्तविधिभिः शुद्धिः । अतिक्षामे चतुष्पुरुषाशनसमर्थव्यञ्जने प्लावने शुद्धिः । अल्पात्मनस् त्यागः गुडलवणादीनां पर्यग्निकरणम् । भोजने केशकीटादिदर्शने तावन्मात्रम् उद्धृत्य जलं भस्म मृदं वा क्षिप्त्वा शुध्येत् । मुखे स्पृष्टौ निष्ठीव्य जलं प्राश्य निष्टीव्य घृतं प्राश्याश्नीयात् । पाके केशादिस्थितौ त्यागः । तच् च भुक्त्वोपवसेत् । यद् यद् वस्तु धर्मोपयोग्य् अत्यन्तप्रियं देशकालतो ऽत्यन्तदुर्लभं तदुपहतं चेद् अल्पम् अपि पूर्वोक्तविधिना शुध्येत् । अश्वमुखम् अजामुखं रतिकाले स्त्रीमुखं मृगव्ये शुनो मुखं प्रसवे वत्समुखं फलपाते पक्षिमुखं वा पण्यद्रव्यं च सदा शुद्धम् एव । बाला उपनयनाद् अर्वाक् शुद्धाः । स्त्री विवाहाद् अर्वाक् । मूषकशलभमशकपतङ्गमक्षिकाधान्यस्थकीटगोहस्त्यश्वछागशुकाश् च जलस्थाः सर्वजीवाश् च स्वभावशुद्धा अशुद्धस्पर्शे ऽपि न दुष्यन्ति । चन्द्रसूर्यरश्मयः स्वतः शुद्धाः । सूतिकोदक्यामेध्यपतितान्त्यजश्मशानसंश्रयं विनाग्नेः स्वभावतः शुद्धिः । रजो वाताहतं शुद्धं हस्त्यश्वरथजातं च शुद्धम् । गवां पादरजश् च धान्यसमुत्थं रजश् च प्रशस्तम् । श्वविड्वराहखरोष्ट्राजाविकाकोलूकग्राम्यपक्षिवस्त्र-मार्जनीसमुत्थं रजः स्पृष्टं चेद् अश्रीकरम् अनायुष्करम् अपुण्यं च । अज्ञानदोषं यद् द्रव्यं तत् स्वत एव शुद्धम् । सन्दिग्धदोषं [७६] यद् द्रव्यं च तद् विप्रवचनाच् छुद्धम् । शूर्पस्पर्शनम् अनायुष्यम् अपुण्यं च (वस्त्रकेशघटोदकं च निन्द्यपक्ष-धूलिवातस्पर्शनम् अनायुष्यम् अपुण्यं चेत्यादि सर्वम् अश्रीकरं च)
दधिक्षीराज्यमांसानि गन्धं पुष्पं च मत्स्यकान् ।
शय्यासनाशनं शाकं प्रत्याख्येयं न कुत्रचित् ॥
कुशाः शाकं पयो मत्स्या गन्धाः पुष्पं दधि क्षितिः ।
मांसं शय्यासनं धानाः प्रत्याख्येयं न वारि च ॥
मुखजा विप्रुषो मेध्या भूस्पृष्टाचामबिन्दवः ।
श्मश्रु चास्यगतं शुद्धं दन्तस्थम् अथ वा त्यजेत् ॥
निगिरेद् वा समाचामेद् अनुष्ठाने न चेन् न च ।
ताम्बूले तु स्थिते त्यक्ते निगीर्णे वानुतिष्ठतः ॥
नाचामेन् न त्यजेद् अन्त्यसूतिकादिप्रदर्शने ।
गावस् तु पृष्ठतो मेध्या अमेध्या नरजा मलाः ॥
पन्थानश् च विशुध्यन्ति सोमसूर्यांशुमारुतैः ।
मार्गकर्दमतोयानि स्पृष्टान्य् अन्त्यश्ववायसैः ॥
मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च ।
शुद्धा च सतता धारा शुद्धम् एव वहज् जलम् ॥
वाक्शस्तम् अम्बु निर्मुक्तम् अज्ञातं च सदा शुचि ।
** इति स्मृत्यर्थसारे द्रव्यशुद्धिः समाप्ता**
** अथ शरीरशुद्धिः —**
अमेध्याक्तस्य मृत्तोयैर् गन्धलेपापगमाच् छुद्धिः । चण्डालं पतितं च दूरतः परिवर्जयेत् । सूतिकोदक्या च शक्यविषये वर्जयैव । असङ्कटस्थाने चण्डालसूतिकोदक्यापतितानां चतुस्त्रिद्व्येकयुगान्तरे सन्निधाने सचैलं स्नानम् । सङ्कटस्थाने गोवालव्यञ्जनाद् अर्वाक् । तारतम्येन सन्निधाने सचैलं स्नानं कार्यम् । श्वपाकादिछायारोहणे च तथैव । चण्डालसूतिकोदक्यापतितानां मत्या स्पर्शने सचैलं स्नात्वाब्लिङ्गमन्त्रान् गायत्रीं वाष्टशतं पादोनम् अर्धपादं च क्रमाज् जपेत् । अत्र वस्त्रान्तरितस्पर्शः साक्षात्स्पर्श एव । चण्डालादिस्पृष्टस्पृष्टस्य द्वितीयस्य चण्डालादिस्पृष्टस्पृष्टस्पृष्टस्य च तृती**[७७]यस्य सचैलं स्नानं तत्तदर्धजपः सर्वत्र । मत्या स्पर्शने तु चतुर्थस्य स्नानमात्रम् । चण्डालसूतिकोदक्यापतितानाम् अमत्या स्पर्शने सचैलं स्नात्वा चतुष्पञ्चाशज्जपं तत्पादोनम् अर्धपादं च क्रमात् कुर्यात् । अमत्या चण्डालादिस्पृष्टस्पृष्टस्पृष्टस्य सचैलं स्नानं तदर्धो जपः सर्वत्र चतुर्थस्याचमनम् । रजस्वलादिविषये द्वितीयादिदिनेषु स्नानपूर्वं पादोनं जपं प्राहुः । तत्स्पृष्टस्पृष्टादिषु च स्नात्वा तत्तदर्धं जपः कार्यः । अचेतनेन दण्डादिना चण्डालादिस्पर्शने स्नानमात्रं तृतीयस्याचमनं द्रव्याणां प्रोक्षणम् । मत्या रजकादिस्पर्शने सचैलं स्नात्वा दशजपं कुर्यात् । मत्या तत्स्पृष्टस्पर्शने सचैलं स्नानम् । अमत्या रजकादिस्पर्शने सचैलं स्नानम् एव । तत्स्पृष्टस्पर्शने स्नानमात्रं तृतीये ज्योतिर्दर्शनम् । मत्या पञ्चमजातिस्पर्शने सचैलं स्नानं पञ्चजपस् तत्स्पृष्टस्य स्नानम् । हीनशूद्रस्य स्पर्शने सचैलस्नानं सच्छूद्रस्पर्शने स्नानम् । निषादस्पर्शने सचैलं स्नानं निषादस्पृष्टस्पर्शने स्नात्वाचमनं कार्यम् । शवशावाशौचिप्रेतधूमदेवद्रव्योपजीविग्रामयाजकसोमविक्रयि-यूपचितिचितिकाष्ठश्मशानान्तर्वर्तिमद्यभाण्डसस्नेहमानुषास्थीनि स्पृष्ट्वा सचैलं स्नात्वा गायत्र्यष्टशतं जपित्वा घृतं प्राश्य पुनः स्नात्वा त्रिर् आचामेत् । अमत्या स्नानम् एव सर्वत्र । स्त्रीणां जपहोमस्थाने ऽन्नधान्योदकुम्भादिदानं कार्यम् । वेदबाह्यशैवशाक्तेय-पाशुपतलोकायतिकनास्तिकदेवलकविकर्मस्थद्विजानान् आरूढपतितं विसृष्टाग्निम् अभिशस्तं शठं षण्ढं शवदाहकं स्पृष्ट्वा सचैलं स्नायात् । अमत्या स्नानमात्रं कार्यम् । अजीर्णे सुप्ते ऽभ्युदिते ऽस्तमिते विविक्ते दुःस्वप्ने दुर्जनस्पर्शने क्षुरकर्मणि भुक्त्वा मुहूर्ताद् उपरिच्छर्दिते च स्नानम् । ऋतौ मैथुने स्नानम् । अनृतौ सम्यक् शौचाचमनम् । दिवामैथुने ऽष्टम्यां च चतुर्दश्यां मैथुने सचैलं स्नानं स्मृतिप्रायश्चित्तं च कार्यम् । मूत्रपुरीषादौ शौचाचमनं चाकृत्वा यामद्वयाद् बहुकालं स्थितौ सचैलं स्नात्वा व्याहृतिभिर् होमो जपश् च कार्यः । उदयास्तमययो रेतः स्कन्दयित्वा सचैलं स्नात्वा पुनर् मन इति जपित्वा सप्तव्याहृतिभिर् आज्याहुतीर् जुहुयाज् जपेद् वा । अमत्या सचैलं स्नानम् एव । अक्षिस्पन्दने कर्णाक्रोशे सचैलस्नानजपहोमाः कार्याः । श्वजम्बूकवृकादिक्रव्यादखरोष्ट्र-विड्वराहमेषवानरस्पर्शने नाभेर् ऊर्ध्वं करौ मुक्त्वा सचैलं स्नानम् । नाभेर् अधः स्पर्शने स्नान[७८]**मात्रम् । रात्रौ चेन् नाभेर् ऊर्ध्वं स्नानमात्रम् । नाभेर् अधः स्पर्शने तु प्रक्षाल्यावज्वाल्य पुनर् आचम्य शुध्येत् । काकोलूकभासयूककपोतग्रामकुक्कुटादिक्रव्याद-पक्षिस्पर्शने नाभेर् ऊर्ध्वं करौ मुक्त्वा सचैलं स्नानम् । नाभेर् अधः स्पर्शने स्नानमात्रम् । रात्रौ चेन् नाभेर् ऊर्ध्वं स्नानमात्रम् । नाभेर् अधः प्रक्षालनम् । रथ्याकर्दमतोयनिष्ठीवनाद्यैर् नाभेर् ऊर्ध्वं स्पृष्टः सद्यः स्नायात् । नाभेर् अधः स्पर्शने पक्षालनम् । अमेध्यस्वजातीयपरकीयविण्मूत्ररेतोरकार्तवास्थिमज्जावसाद्यैर् मलैः सुरामद्यैश् च नाभेर् अधः प्रबाहुषु च स्पृष्ट्वा मृज्जलैर् गन्धलेपं प्रक्षाल्य स्नानम् । नाभेर् ऊर्ध्वं स्पर्शे स्नात्वोपवासः । इन्द्रियेषूच्छिष्टेषु च स्पर्शने स्नात्वोपोष्य पञ्चगव्यं पिबेत् । स्वकीयमलस्पर्शने तु नाभेर् ऊर्ध्वम् अपि प्रक्षालनम् एव । सस्नेहद्विजास्थिस्पर्शने विप्रस्य सचैलस्नानम् । निःस्नेहे स्नानमात्रम् । चिरन्तने त्व् आचम्य गां स्पृष्ट्वा सूर्यं वा दृष्ट्वा शुध्येत् । अद्विजास्थि सस्नेहे त्रिरात्रं निःस्नेहे त्व् एकरात्रम् अमानुषे तु भक्ष्यं वर्ज्यम् । पञ्चनखशवदन्तास्थ्नि सस्नेहे स्नानं वस्त्रान्तरधारणं च । वृष्टौ सकर्दमग्रामसङ्करप्रवेशे जङ्घयोस् तिस्रो मृत्तिकाः पादयोः षट् क्षिप्त्वा प्रक्षालनम् । वायुशुष्के कर्दमादौ न दोषः । श्वपाकादिच्छायारोहणे सचैलं स्नात्वा घृतं वा हिरण्योदकं वा कुशोदकं वा पिबेत् । श्वपाकादिस्पर्शने सचैलं स्नात्वाष्टसहस्रजपः । मत्या चेद् उपवासश् च तत्स्पृष्टादिषु तु तारतम्येन योज्यम् । दिवा रजःस्रावे जनने मरणे वा तद्दिनादिकम् अशुचित्वं स्यात् । रात्रौ रजःस्रावादौ सत्य् अर्धरात्राद् अर्वाक् पूर्वदिनम् इत्य् एकः पक्षः । रात्रिं त्रेधा विभज्य पूर्वभागद्वये चेत् पूर्वदिनम् इत्य् अन्यः पक्षः । उदयात् पूर्वं चेत् पूर्वदिनम् इत्य् अपरः पक्षः । एषां पक्षाणां देशचारतो व्यवस्था । अज्ञाते रजःस्व्रावे चतुर्दिनेषु ज्ञाते तु रजःस्रावादिकम् अशुचित्वं स्यात् । जननादौ ज्ञानादिकम् अशुचित्वम् । सर्वथाज्ञाते शुचित्वम् एव । अतो ज्ञानात् पूर्वं रजस्वलास्पृष्टम् अदुष्टम् एव । सूतकं तु ज्ञानात् । एवं सर्वपापनिमित्तं स्वसत्तादिना पापापादकं सूतकं तु ज्ञानादिकम् एव । रजस्वला त्रिरात्रम् अशुचिः स्यात् । चतुर्थे ऽहनि स्नात्वा शुध्येत् । भर्तुः स्पृश्या स्यात् । दैवे पित्र्ये च कार्ये रजोनिवृत्तौ पञ्चमादिदिने शुद्धा । सूतिका स्वाशौचान्ते मलं प्रक्षाल्य दन्तान् धावयित्वा सचैलं स्नायात् । रजस्वला चतुर्थे ऽहनि षष्टिमृत्तिकाभिः शौचं कृत्वा क्षत्रादिस्त्री च पादपादन्यूनमृत्तिकाभिर् [७९] विधवा द्विगुणमृत्तिकाभिः शौचं कृत्वा मलं प्रक्षाल्य दन्तधावनपूर्वकं सङ्गवे सचैलं स्नायात् । रजस्वलायाः स्नातायाः पुनर् अपि रजोदृष्टाव् अष्टादशदिनाद् अर्वाग् अशुचित्वं नास्ति । अष्टादशदिने रजोदृष्टाव् एकरात्रम् अशुचित्वम् । नवदशदिने द्विरात्रम् । विंशादिदिने त्रिरात्रम् । प्रायो विंशादिदिनाद् ऊर्ध्वं रजःस्राविणीनाम् एवं भवति । विंशतिदिनाद् अर्वाक् प्रायशो रजोदर्शनवतीनाम् अष्टादशदिने ऽपि त्रिरात्रम् अशुचित्वम् । किं च त्रयोदशदिनाद् ऊर्ध्वं प्रायशो रजःस्राविणीनाम् एकादशदिनाद् अर्वाग् अशुचित्वं नास्ति । एकादशदिने रजोदृष्टाव् एकरात्रम् अशुचित्वम् । द्वादशे द्विरात्रम् । त्रयोदशादिदिनेषु त्रिरात्रम् एव । सचैलस्नानं वस्त्रं प्रक्षाल्य स्नात्वा पुनः सचैलं स्नानम् । एकवस्त्रः स्पृष्टश् चेत् तथा स्नाते ऽपि सचैलं स्नानम् एव ।
सङ्ग्रामे हट्टमार्गे च यात्रादेवगृहेषु च ।
उत्सवक्रतुतीर्थेषु विप्लवे ग्रामदेशयोः ॥
महाजलसमीपेषु महाजनवरेषु च ।
अग्न्युत्पाते महापत्सु स्पृष्टास्पृष्टिर् न दुष्यति ॥
प्राप्यकारीन्द्रियं स्पृष्टम् अस्पृष्टि त्व् इतरेन्द्रियम् ।
तयोश् च विषयं प्राहुः स्पृष्टास्पृष्ट्यभिधानतः ॥
इति स्पृष्टास्पृष्टविधिः ।
** अथाशौचविधिः —**
चतुर्मासाभ्यन्तरे गर्भमात्रनाशः स्राव उच्यते । तत्र स्राव आद्यमासचतुष्टये मातुस् त्रिरात्रम् आशौचम् । उपरि मातुर् गर्भमाससङ्ख्यासमदिनम् आशौचम् । सगोत्रसपिण्डानां स्नानेन सद्यः शुद्धिः । यतः प्रभृति सन्तानं भिद्यते स कूटस्थस् तम् आरभ्य गणिताः सप्त पुरुषाः सपिण्डाः । ऊर्ध्वं समानोदकाः । पञ्चमषष्ठयोर् मासयोर् गर्भमात्रनाशः पात इत्य् उच्यते । पाते मातुर् गर्भमाससमदिनम् आशौचम् । पित्रादीनां सपिण्डानां त्रिरात्रम् । इदं तु गर्भनाशप्रयुक्ताशौचं सर्ववर्णेषु समम् । सप्तममासप्रभृति पूर्णगर्भनिर्गमः प्रसवः । तत्र प्रसवे जनननिमित्तम् आशौचं पूर्णं दशाहादिकं सर्वेषां यथावर्णं भवति । सोदकानां त्रिरात्रम् । जनननिमित्तास्पृश्यत्वं मातुर् एव यावद् आशौचं न पितुः । तस्य स्नानानन्तरम् अस्पृश्यत्वं नास्ति । सपिण्डानाम् अस्पृश्यत्वं सर्वदा नास्त्य् एव । सूतिका स्ववर्णाशौचे गते संव्यवहार्यैव । अदृष्टार्थेषु तु कर्मसु पुत्रप्रसूतिर् विंश**[८०]तिरात्रम् अयोग्या स्त्रीप्रसूर् मासम् । पुत्रजननदिवसे हिरण्यभूगवाश्वाज्यवासः-शय्यागृहादि सर्वं प्रतिग्राह्यम् । कृतान्नं वर्ज्यम् । कृतान्नग्रहणे चान्द्रायणम् । पुत्रजननदिवसे दानं कुर्यात् । हिरण्याद्यभावे तदानीं सङ्कल्प्य पश्चात् समर्पयेत् । प्रथमे दिवसे हिरण्यादिदानं षष्ठे सप्तमे वा बलिदानं दशमदिने ऽन्नदानम् इत्यादि यथाचारं कार्यम् । सूतिकागृहरक्षा च कार्या रात्रौ विशेषेण । जन्माशौचमध्ये तच्छिशुमरणे तूच्यते । नाभिच्छेदनाद् ऊर्ध्वं शिशुमरणे निष्प्राणशिशुनिर्गमे च जनननिमित्ताशौचं कृत्स्नं यथावर्णं सर्वेषां सपिण्डानाम् अस्त्य् एव । मरणनिमित्ते सद्यः शुद्धिः । नाभिच्छेदनात् पूर्वं शिशुमरणे तु जनननिमित्ताशौचं सपिण्डानां त्रिरात्रम् । मरननिमित्तं सद्यः शुद्धिः । मातुर् जनननिमित्ताशौचं सर्वं यथावर्णम् अस्ति । मरणनिमित्ते सद्यः शुद्धिः । नामकरणात् पूर्वं शिशुमरणे निखननम् एव नानुगमनं नाग्न्युदकदानादिकम् । ज्ञातीनां सचैलस्नातात् सद्यः शुद्धिः । ततो दन्तजननात् पूर्वं मरणे निखननं तूष्णीं दहनोदकादिदानं वा कार्यम् । अनुगमनं कृताकृतम् । खननपक्षे सद्यः शुद्धिः । दहने त्व् एकाहम् । खननं च शवमलं प्रक्षाल्य घृतेनाभ्यज्य संस्नाप्य नववस्त्रसूत्रगन्धमाल्यानुलेपनाद्यैः शक्त्या ह्य् अलङ्कृत्य ग्रामाद् बहिः शुचौ सेशे कार्यम् । दहनं च तथा शवं संस्नाप्यालङ्कृत्य बान्धवज्येष्ठपूर्वाः श्मशानं नीत्वा लौकिकाग्निना तूष्णीं कुर्युः । तूष्णीम् उदकदानादिदानं च । दहने ऽमेध्यचण्डालसूतकिपतितचिताग्नीन् वर्जयेत् । दन्तजननाद् ऊर्ध्वं प्रथमवर्षे कृतचूडस्यापि यावत् त्रिवर्षम् एकाहः । प्रथमवर्षे जातदन्तस्याकृतचूडस्याप्य् एकाह एव । दन्तजननाद् ऊर्ध्वं त्रिवर्षपर्यन्तम् अकृतचूडस्य मरणे खननं दहनं वा कार्यम् । कहन एकाहम् आशौचम् । दहने त्रिरात्रम् । अत्रोनद्विवर्षान्तम् अनुगमनं कृताकृतम् । पश्चान् नित्यम् । दन्तजननाद् ऊर्ध्वं त्रिवर्षपर्यन्तं कृतचौलस्य मरणे तूष्णीं दहनम् । तूष्णीम् उदकादिदानम् । त्रिरात्राशौचं नित्यम् एव । त्रिवर्षात् परं कृतचौलस्यापि मरणे यावद् उपनयनं तावद् अनुगमनम् । तूष्णीं दहनोदकदानत्रिरात्राशौचानि नियतानि कार्याणि । अनुपनीतमरणे मातापित्रोर् दशाहाशाउचपक्षो ऽनादृतः । अनुपनीतमृताशौचे वर्णाः स्वाशौचकालत्रिभागाद् ऊर्ध्वं स्पृश्याः । अनुपनीतमरणे श्रुते ऽनीताशौचं नास्ति स्नानम् एव । इदं वयःप्रयुक्ताशौचं सर्ववर्णसमम् । आशौचान्ते स्नात्वा स्वस्तिवाचनपूर्वं ब्राह्मणभोजनं कार्यम् । कन्यामरणे तु त्रिपुरुषविषयज्ञातीनाम् आ चौलकरणाद् आ चौलकालाद् वा स्नानेन शुद्धिः । स्त्रीषु सापिण्ड्यं त्रिपुरु[८१]**षम् एवाप्रत्तासु । ततो वाग्दानाद् अर्वाग् एकाहम् आशौचम् । ततो विवाहाद् अर्वाक् पतिपक्षे पितृपक्षे च त्रिपुरुषपर्यन्तं त्रिरात्रम् । वाग्दानाभावे विवाहनिश्चयो ऽवधिर् इत्य् एके । अत्रोनद्विवर्षे खननं पश्चाद् दहनं पुरुषवद् वा । अस्पृश्यत्वादि सर्वं पूर्ववद् एव । उपनयनाद् ऊर्ध्वं पुरुषमरणे विवाहाद् ऊर्ध्वं स्त्रीमरणे शूद्रमरणे च विधिवद् दग्ध्वोदकपिण्डदानसहितं यथावर्णं पूर्णाशौचं कार्यम् । तच् च दहनं ब्रह्मचर्यादेर् अनग्निकस्य विधुरादेश् चापि कपालाग्निना स्वशाखोक्तविधिना कार्यम् । गृहस्थस्य गृह्याग्निना कार्यम् । आहिताग्नेस् त्रेताग्निना दहनं कार्यम् । तच् चाशौचं ब्राह्मणानां दशाहम् । क्षत्रियाणां द्वादशाहम् । वैश्यानां पञ्चदशाहम् । शूद्राणां मासम् । वृत्तस्थानां द्विजशुश्रूषापञ्चमहायज्ञवतां शूद्राणां तु पञ्चदशाहम् । चतुर्थे दशरात्रं स्याद् इति पक्षो दूषितः ।
एकाहाच् छुध्यते विप्रो यो ऽग्निवेदसमन्वितः ।
इत्याद्या अनादृताः । तच् चाशौचम् आहिताग्नेर् विधिवद् दहनं कृत्वा दहनदिवसम् आरभ्यैव कार्यम् । विदेशस्थे मृते यावद् विधिना न संस्कारस् तावत् पुत्रादीनां सन्ध्यादिकर्मलोपो नास्त्य् एव । अनाहिताग्नेर् मरणदिवसम् आरभ्याशौचं कार्यम् । अनाहिताग्नेर् विधिवद् दहनाभावे तदानीम् आशौचग्रहणं कृताकृतम् । आहिताग्नेर् विधिवद् दहनाभाव आशौचं नास्त्य् एव । अग्न्युदकदानं च पुत्राणां प्रथमदिने कार्यं दशमे वा । त्र्यहाद् वा । दशमदिनाद् अर्वाग् वा । आद्यश्राद्धात् प्राग् वा कस्मिंश्चिद् दिने ग्रामाद् बहिः कार्यं नखनिकृननं च । गुरुमरणे चैवम् । मृतशरीराभावे ऽस्थिसंस्कारं कुर्यात् । अस्थ्नाम् अभावे पलाशवृन्तैः कुशैर् वा शरीरप्रतिकृतिं कृत्वा पुनःसंस्कारं कुर्यात् । आहिताग्नेः पुनःसंस्कारे प्रत्यक्षशववद् दाहादिकं सम्पूर्णाशौचं यथावर्णं कार्यम् । आहिताग्नेः पुनःसंस्कारस् तत् सूतकमध्ये चेत् कृतस् तत् सूतकशेषेणैव शुद्धिः । अतीते सूतके पुनःसंस्कारे तु पूर्वम् अगृहीताशौचस्य पुत्रस्य पत्न्याश् च दशाहादिकं पूर्णाशौचम् । गृहीताशौचस्य पुत्रस्य पत्न्याश् च त्रिरात्रम् । पत्नीपुनःसंस्कारे पत्युश् चैवं सपत्न्योर् मिथश् चैवम् । अगृहीताशौचानां सपिण्डानां त्रिरात्रम् । गृहीताशौचानां पुनर् आशौचं नास्त्य् एव । विदेशस्थजनने मरणे वा प्रथमदिवसाद् ऊर्ध्वं ज्ञाते स्वाशौचशेषेणैव शुद्धिः पुत्रादीनाम् । हीनवर्णस्य ब्राह्मणाद्युत्कृष्टजातिसपिण्डत्व उत्कृष्टजात्याशौचम् [८२] एव । दासी दासश् च प्रेष्यश् च स्वामिकार्ये स्वाम्य् आशौचसमकाले गते स्पृश्याः । स्वकर्माधिकारस् तु स्वाशौचान्त एव । प्रतिलोमजानां नाशौचं तेषां तदन्ते मलक्षालनम् एव । शवं दग्ध्वा पृष्ठतो ऽनवेक्षमाणा आगच्छन्तो ऽस्फुटितं श्लक्ष्णं पाषाणं गृहीत्वा महाजलं गत्वा तत्र महाजले शरीरमलं प्रक्षाल्य वस्त्रं संशोध्य स्नात्वा पुनः सचैलं स्नात्वा च वाग्यताः समाहिताः सगोत्राः सपिण्डाः समानोदकाश् च वृद्धपूर्वाः प्राचीनावीतिनो दक्षिणामुखाः प्रेतस्य नामगोत्रे उच्चार्य प्रेतस् तृप्यत्व् इति जलपूराञ्जलिं सतिलं सव्योत्तरपाणिकाः पाषाणे सकृत् प्रमुञ्चेयुः । एवम् उदकं दत्वा जलात् समुत्तीर्णान् नवजाततृणके भूप्रदेशे सम्यक् स्थितान् कुलवृद्धाः पूर्वेतिहासैः शोको निष्फलः श्लेष्माश्रु बान्धवैर् मुक्तं प्रेतास्ये पतति तस्मान् न रोदनं कार्यं विहिताः क्रियाः कार्या इत्य् आश्वासयेयुः । एवम् आश्वासिता वस्त्राणि निष्पीड्य शोषयित्वा बालपूर्वं गृहं गत्वा द्वारि स्थित्वा समाहिता निम्बपत्राणि शनैर् भक्षयित्वाचम्याग्न्युदकगोमयगौरसर्षपदूर्वाङ्कुरगोवृषभान् स्पृष्ट्वा मणिप्रवालादीन् स्वशाखोक्तांश् च यथालाभं स्पृष्ट्वाश्मनि पदं शनैर् निधाय गृहं प्रविशेयुः । तस्मिन्न् अहन्य् एकस्मिन् मृन्मये पात्रे जलं प्रेत स्नाहीत्य् आकाशे शिक्यादौ स्थाप्यम् । अन्यस्मिन् मृन्मये क्षीरं प्रेत पिबेति तथैव स्थाप्यम् । निम्बपत्रभक्षणं पात्रस्थापनं वा कार्यम् । ततस् तस्मिन् दिवसे तस्मिन् गृहे ऽन्नं न पचेयुः । क्रीतान्नेन वायाचिताहृतेन वान्यगृहपक्वेन वा हविष्येण वर्तेरन् न स्वगृहपक्वेन क्षारलवणमाषमांसापूप-पायसवर्जम् । अधःशयनं बालवृद्धातुरवर्जं पृथक् पृथग् ब्रह्मचर्ययुक्ता भवेयुः । गुरौ मृत उपवसेयुः पुत्राः पत्नी च । जातसूतके सर्वे नियमा न स्युः । महागुरुमरणे ऽक्षारालवणाशीनो द्वादशरात्रं दानाध्ययने वर्जयेरन् । पिता पुत्रम् उत्पाद्य संस्कृत्य वेदं वेदार्थं च ग्राहयित्वा वृत्तिं कल्पयित्वा महागुरुर् भवति । ततो यावद् आशौचं तावत् प्रत्यहम् एकैकम् अञ्जलिं दद्युः । तथा सति दशदिनेषु दशाञ्जलयः स्युः । यद् वाशौचदिनेषु प्रत्यहं दिनसङ्ख्ययाञ्जलीन् वृद्ध्या दत्वातीतदिनसङ्ख्यया च दद्यात् । तथा सति शताञ्जलयः स्युः । एवं मातामहानाम् आचार्याणां चोदकदानं कुर्यात् । सखीनां प्रत्तानां दुहितृभगिन्यादीनां भागिनेयश्वश्रूश्वशुरर्त्विजां चेच्छयोदकदानं कुर्यात् । अस्थिसञ्चयनम् आहिताग्नेर् अनाहिताग्नेः संस्कारम् आरभ्य प्रथमे ऽह्नि द्वितीये तृतीये चतुर्थे सप्तमे नवमे वाविरुद्धे स्वशाखोक्तविधिना [८३] कार्यम् । तत्र पिण्डत्रयं च देयम् । एकः पिण्डः श्मशानवासिभ्यः पूर्वप्रेतेभ्यो मध्यम एक इदानीन्तनप्रेताय दक्षिणत एकस् तत्सखिभ्य इति दक्षिणसंस्थं दद्यात् । अस्थीनि गङ्गायां क्षिपेद् अन्यतीर्थे वा शुद्धदेशे वा । सञ्चयने कृते वर्णाः स्वाशौचकालत्रिभागेन त्रिचतुःपञ्चदिनैः स्पृश्याः । दशद्वादशपञ्चदशत्रिंशद्दिनैर् भोज्यान्नाः । ब्रह्मचारी पितृमातृमहागुर्वाचार्योपाध्याय-व्यतिरिक्तानां दहनाशौचोदकदानादिकं न कुर्याद् आ समावर्तनात् । पित्रादीनां तु कुर्याद् एव । प्रक्रान्तप्रायश्चित्तव्रतश् च आ व्रतसमाप्तेर् दहनादिकं न कुर्यात् । स्वकर्मरहितश् च न कुर्यात् । कृते ऽपि नोपतिष्ठते । मातापितृगुर्वाचार्योपाध्यायानां प्रेतकार्ये व्रतचारिणो व्रतलोपो नास्ति । स सूतकान्नं नाश्नीयात् । न सूतकिभिः सह वसेत् । अन्यप्रेतालङ्करणे तूपनयनं कार्यम् । समाप्तव्रतस्य शिष्यस्य दशाहाशौचं गुरुदहने । स्वकर्मपतिता महापातकपतिताः पुरुषाः स्त्रियश् च हीनजातिगामिन्यो ब्राह्मणगर्भपातिन्यो भर्तृघ्न्यश् च स्तेयस्वभावा विरुद्धधर्माणश् च क्लीबाश् च दहनोदकदानादिकं न कुर्युः । मोहात् कृते ऽपि नोपतिष्ठते । प्रेतस्य पुत्रो दिनत्रये ग्रामाद् बहिः पाषाणस्य पुरतः कुशेष्व् अमन्त्रकं नामगोत्रेण पिण्डपितृयज्ञप्रयोगेण त्रीन् पिण्डान् दद्यात् । पिण्डे पाषाणे चाक्षतगन्धमाल्यधूपदीपान् दद्यात् । धूपदीपौ न वा दद्यात् । यद् वा दशदिनेषु दश पिण्डान् दद्यात् । आशौचह्रासे ऽपि त्रयः पिण्डा दशैव वा । अनेकपुत्रत्वे त्व् इतरानुमतो ज्येष्ठ एव दद्यात् । द्रव्येण विभक्तेन वाविभक्तेन वा । पुत्राभावे पितृसपिण्डा मातृसपिण्डाः शिष्यास् तदर्थजीविनो वा सम्बन्धिनो बान्धवा दद्युः । असगोत्रः सगोत्रो वा पुरुषः स्त्री वा । प्रथमे ऽहनि यो दद्यात् स दशाहान्तम् । प्रथमे ऽहनि यद् द्रव्यं दशाहान्तं तद् एव । दशमे ऽहन्य् अधिकं पिण्डत्रयं देयम् । एकपिण्डस् तत्सखिभ्यः । इदानीन्तनप्रेताय मध्यमः । दक्षिणत एकः पिण्डो यमाय । ततः कर्त्रा प्रार्थिता बान्धवाः सम्बन्धिनश् च त्रींस् त्रीन् धर्मोदकाञ्जलीन् दद्युः । न पाषाणनिमयः । ततः सुवासिन्यो ऽभ्यङ्गस्नाताः शुभशुक्लवाससः कलशपूर्वाः स्वगृहं गत्वान्नभोजनादि स्वगृहपाकेन यथाचारं कुर्युः । त्रिरात्राशौचे दशाञ्जलयः शताञ्जलयो वा । दशाञ्जलिपक्षे प्रथमे ऽह्नि त्रयो ऽञ्जलयः । द्वितीये चत्वारः । तृतीये त्रयः । शताञ्जलिपक्षे प्रथमे ऽह्नि त्रिंशत् । [८४] द्वितीये च चत्वारिंशत् । तृतीये त्रिंशत् । पिण्डाश् च त्रयोदश् वा । दशपक्षे प्रथमे ऽह्नि त्रयः । द्वितीये चत्वारः । तृतीये त्रयः । सञ्चयनं च । अनुपनीतस्य पिण्डं भूमौ दद्यान् न बर्हिषि । स्त्रीशूद्रयोर् विवाहाद् अर्वाग् एव । अशौचदिनमध्ये पुनःसंस्कारे तु दृष्टबाधभयाद् दिनं सम्भवे शोध्यम् । कालान्तरे कर्तव्ये प्रेतकार्ये तु दिनं शोध्यम् एव । संवत्सराद् ऊर्ध्वं प्रेतकार्ये तूत्तरायणकालः श्रेयान् । तत्रापि कृष्णपक्षः श्रेयान् । तत्रापि नन्दां त्रयोदशीं चतुर्दशीं दिनक्षयं च वर्जयेत् । शुक्रशनैश्वरवारौ वर्ज्यौ । नक्षत्रेषु भरणी कृत्तिकार्द्राश्लेषा मघा मूलं धनिष्टादिपञ्चकं च त्रिपुषकराणि चातिदुष्टानि सर्वथा वर्ज्यानि । व्यतीपाते परिघे वैधृतौ च योगे विष्टिकरणे चतुर्थाष्टमद्वादशस्थे चन्द्रे चातिदोषः । रोहिणीमृगशीर्षपुनर्वसुपूर्वोत्तराचित्राविशाखानुराधापूर्वाषाढोत्तराषाढा निषिद्धत्रिपुरुष्कराणि चेषद्दुष्टानि सम्भवे वर्ज्यानि । शेषाण्य् अदुष्टानि ग्राह्याणि । सर्वथा दिनशुद्ध्यसम्भवे ऽनतिदुष्टबाह्यनक्षत्रं ग्राह्यम् । पुनःसंस्कारे ऽनन्तरनक्षत्रं ग्राह्यम् । नान्दायां शुक्रवारे चतुर्दश्यां त्रिजन्मनक्षत्रेष्व् एकोद्दिष्टम् अतिनिषिद्धम् । साक्षाद् एकाशाहे च प्राप्त एकोद्दिष्टं कार्यम् एव । तत्र तिथिनक्षत्रवारादिकं नैव शोध्यम् । युगादिमन्वादिसङ्क्रान्त्यमावास्यासु प्रेतकार्ये किञ्चिद् अपि नैव शोध्यम् । (अपरार्कात् – (प्। ८७१)
धनिष्ठापञ्चकमृते पञ्चरत्नानि तन्मुखे ।
न्यस्याहुतित्रयं कर्ता दद्याद् वह वपाम् इति ॥
ततो निर्हरणं कार्यम् एष साग्नेर् विधिः स्मृतः ॥
इतरं निखनेद् एव ।
त्रिपादर्क्षमृते तद्वद् धिरण्यशकलं मुखे ॥)
प्रतिपादयेत् ।
प्रत्यक्षशवसंस्कारे पुनः पुनः संस्कारे च कर्तव्य ऊर्ध्वोच्छिष्टाधरोच्छिष्टोभयोच्छिष्टास्पृष्यस्पृष्टमरणखट्वामरणबद्धमरणादिषु सत्सु त्रीन् कृच्छ्रान् षट् कृच्छ्रान् द्वादश् कृच्छ्रान् पञ्चदश कृच्छ्रान् वा प्रायश्चित्तं निमित्तानुसारेण ब्राह्मणवचनाद् गृहीत्वाशक्तौ तदैव कृच्छ्रप्रत्याम्नायं धेनुगो**[८५]**हिरण्यधनधान्यवस्त्रादि दत्वा तदानीं शुद्धिं सम्पाद्य दहनादिकं कार्यम् । शक्तो भक्तः पुत्रादिः पित्रादेः पापिनः सर्वात्मना सुद्धिम् इच्छति चेत् प्रायश्चित्तप्रकरणोक्तसर्वप्रायश्चित्तानाम् अन्यतमं योग्यं कृत्वा दहनादिकं कुर्यात् । दहनादिकर्ताप्य् अधिकारित्वाभाव एवम् एव शुद्धिम् आत्मनः सम्पाद्य दहनादिकं कुर्यात् । एवं प्रेतस्यात्मनश् च शुद्धिम् आपाद्य लोभादिना दहनादिके कृते तत् सर्वं नोपतिष्ठते । अन्तरिक्षे विनश्यति । उभयोश् च नरको ध्रुवम् । पाषण्डिनां वेदबाह्यलिङ्गानां सत्य् अधिकारे ऽनाश्रमिणां स्वकर्महानिपतितानां महापातकिनां पुरुषाणां स्त्रीणां हीनजातिगामिनीनां ब्राह्मणगर्भभर्तृघ्नीनां कुलटानां च प्रायोनाशकशस्त्राग्निविषोद्बन्धनप्रपतनाद्यैर् बुद्धिपूर्वकम् आत्मघातकानां दहनादिकं न कुर्यात् । चण्डालजलसर्पब्राह्मणवैद्युत-दंष्ट्रिशृङ्गिपशुभिर् बुद्ध्या दर्पात् क्रोधादिना मृतानां च दहनाशौचोदकादिकं न कुर्यात् । मोहात् कृते ऽपि नोपतिष्ठते । अन्तरिक्षे विनश्यत्य् एव । तेषां शरीरं गङ्गायां क्षिपेत् । अन्यस्यां वा महानद्यां क्षिपेत् । त्रेताग्नीन् अप्सु क्षिपेत् । गृह्याग्निं च चतुष्पथे । यज्ञपात्राणि दहेत् । तेषां शवानां स्पर्शनस्नानालङ्कारवहनरज्जुच्छेदनदहनाश्रुपातकथादीन् अज्ञानतः कृत्वा महासान्तपनं कुर्यात् । ज्ञानात् तप्तकृच्छ्रम् । एतेष्व् एकैककरणे त्व् अज्ञानाद् उपवासः । मत्याभ्यासे कृच्छ्रातिकृच्छ्रचान्द्रायणानि योग्यतया कुर्यात् । एतेषां पाषण्ड्यादीनां सर्वेषां निष्कृतिर् नास्ति प्रायश्चित्ताकरणे । तदानीं प्रायश्चित्तकरणासम्भवे वत्सरान्ते लोकगर्हापरिहारार्थं शुद्ध्यर्थं च श्राद्धादौ योग्यत्वार्थं च नारायणबलिं कृत्वा श्राद्धं कार्यम् । अथ तेषाम् अतिविरक्ता भक्ताः प्रायश्चित्तसमर्थाः पुत्रादयः सन्ति चेद् आतमघातप्रायश्चित्तं चान्द्रद्वयं तप्तकृच्छ्रचतुष्टयं च कृत्वा द्वात्रिंशत् कृच्छ्राणि कृत्वा पाषण्ड्यादीनां सर्वेषां प्रायश्चित्तं योग्यं कृत्वा तदैव वा कालान्तरे वा संवत्सराद् अर्वाग् वा दहनादिकं कृत्वा श्राद्धं कुर्युर् अनित्यत्वाद् आयुषः । प्रायो महाप्रस्थानं प्रपतनं गिरिवृक्षादिभ्यः ।
अथ नारायणबलिर् उच्यते —
कस्याञ्चिच् छुक्लैकादश्यां विष्णुं वैवस्वतं यमं च यथावद् अभ्यर्च्य तत्समीपे मधुघृतप्लुतांस् तिलमिश्रान् दश पिण्डान् विष्णुरूपेण प्रेतम् अनुस्मरन् प्रेतनामगोत्रे उच्चार्य दक्षिणाग्रेषु दर्भेषु दक्षिणामुखो दत्वा गन्धाद्यैर् अभ्यर्च्य पिण्डप्रहवणान्तं कृत्वा नद्यां क्षिपेन् न [८६] पत्न्यादिभ्यो दद्यात् । ततस् तस्याम् एव रात्र्याम् अयुग्मान् ब्राह्मणान् आमन्त्र्योपोषितः श्वोभूते मध्याह्ने विष्णुम् अभ्यर्च्यैकोद्दिष्टेन विधिना ब्राह्मणपादप्रक्षालनादितृप्तिप्रश्नान्तं कृत्वा पिण्डपितृयज्ञवद् उल्लेखनाद्यवनेजनान्तं कृत्वा विष्णवे ब्रह्मणे शिवाय यमाय च सपरिवाराय चतुष्पिण्डान् दत्वा नामगोत्रसहितं प्रेतं संस्मृत्य विष्णोर् नाम सङ्कीर्त्य पञ्चमं पिण्डं दद्यात् । ततो विप्रान् आचान्तान् दक्षिणादिभिस् तोषयित्वा तन्मध्ये चैकं गुणवत्तमं प्रेतबुद्ध्यानुस्मरन् गोभूमिहिरण्यादिभिर् अतिशयेन तोषयित्वा पवित्रपाणिभिर् विप्रैः प्रेताय तिलसहितम् उदकं दापयित्वा स्वजनैः सहितो भुञ्जीत ।
सर्पहते त्व् अयं विशेषः —
तस्य नागव्रतं कार्यम् । तत्र संवत्सरं भाद्रपदशुक्लपञ्चमीम् आरभ्यान्यां वा शुक्लपञ्चम्याम् उपवासः कार्यः । यद् वा चतुर्थ्याम् एकभक्तं पञ्चम्यां नक्तं कुर्वन् दारुमयं मृन्मयं वा नागं पञ्चफणं कृत्वा गन्धैः करवीरैः शतपत्रैर् जातीपुष्पैर् धूपादिभिर् अनन्तं वासुकिं शङ्खं पद्मं कम्बलं कर्कोटकम् अश्वतरं धृतराष्ट्रं शङ्खपालं कालियं तक्षकं कपिलं च पञ्चम्यां सम्पूज्य पश्चाद् ब्राह्मणान् घृतपायसमोदकैर् भोजयेत् । संवत्सरान्ते चैवं सम्पूज्य ब्राह्मणभोजनं सौवर्णनागदानं गोदानं च कुर्यात् । अथ वोभयोः पक्षयोः पञ्चमीषु भूमौ नागं पिष्टेन विलिख्य सितपुष्पगन्धैः सितगन्धवासिततण्डुलैर् अभ्यर्च्य गव्यक्षीरमोदकं भूमौ निवेद्योपस्थायैवं वदेन् मुञ्च मुञ्चेमम् इति । तद्दिने मधुरम् अन्नम् अश्नीयात् । एवम् अब्दं विधिना नागम् अभ्यर्च्य पूर्णे ऽब्दे नारायणबलिं कृत्वा सौवर्णं नागं गां च दद्यात् । ततः श्राद्धादिकं सर्वं कुर्यात् । चण्डालगोब्राह्मणपशुदंष्ट्रिसर्पाग्न्य्-उदकादिभिः प्रमादान् मरणे तु चान्द्रायणं तप्तकृच्छ्रद्वयं च कृत्वा यद् वा पञ्चदश कृच्छ्रान् कृत्वा विधिना दहनाशौचोदकं सर्वं कर्यम् एव । अनुष्ठानासमर्थजीर्ण-वानप्रस्थादीनाम् अचिकित्स्यगुरुव्याधिपीडितानां चाग्न्युदकाशनगिरिप्रपतनादिभिर् बुद्धिपूर्वकम् आत्मघातकत्वम् अभ्यनुज्ञायते । तेषां विधिवद् दाहं कृत्वा त्रिरात्राशौचं कार्यं द्वितीये ऽह्न्य् अस्थिसञ्चयनं तृतीय उदकपिण्डदानं चतुर्थे ऽह्नि श्राद्धं कुर्यात् । एवम् अन्येषां विध्यनुगृहीतात्मघातकानां कार्यम् । अभिषिक्तक्षत्रियादिहतानां गोविप्रैर् अन्त्यजैः पशुदंष्ट्र्यादिभिर् युद्धे बुद्धिपूर्वात्मघातकानां पाषण्ड्यनाश्रमिपतितानां सद्यः शौचम् । जाताशौचे मृताशौचे च त्रेताग्निसाध्याग्निहोत्रदर्शपूर्णमासाद्या नित्यनैमित्तिकाः क्रियाः कार्याः । औपासनाग्निसाध्याश् च सायम्प्रातर्होमपार्वण-स्थालीपा**[८७]काद्या नित्यनैमित्तिकाः श्रुतिचोदितत्वात् कार्या एव । असम्भवे हापयेत् । सर्वथा न हापयेत् । स्मार्तत्वे ऽपि पिण्डपितृयज्ञश्रवणाकर्माश्वयुजीकर्मादिकम् असगोत्रेण कारयेन् न हापयेत् । (ब्रह्मचर्यादिव्रतिनां च वृत्ते श्राद्धकर्मणि कर्तॄणां निमन्त्रितानां भोक्तॄणां यत् किञ्चिन् नियमस्थानाम् अप्रतिषिद्धग्राहिनित्यदातॄणाम् एतेषां यावद् उपाधिस् तावद् अशौचं नास्त्य् एव । ऋत्विगादीनां तदानीं स्नानम् अस्ति) यजमानस् तु स्नात्वाचम्योद्देशत्यागौ कुर्यात् । सर्वं काम्यं तु वर्ज्यम् एव । स्मार्तत्वे ऽपि सन्ध्यायां गायत्र्याञ्जलिदानं कार्यम् । मार्जनं कार्यं न वा । सूतके कर्मणां त्यागः । यद् वा प्राणान् नियम्य मनसा मन्त्रम् उच्चारयन् मार्जनादिकं कृत्वा वाचा गायत्रीम् उच्चार्याञ्जलिं दद्यात् । दानप्रतिग्रहपञ्चमहायज्ञनित्यश्राद्धस्वाध्यायादीनां स्मार्तानां त्याग एव । नित्यस्नानशौचाचमनभोजननियमान् अस्पृश्यस्पर्शनस्नानं च कुर्याद् एव । सूतकान्नभोजनम् अस्वकुल्यानां न कार्यम् । स्वकुल्यानां न दोषः । दातृभोक्त्रोर् अन्यतरेणापि सूतके ज्ञाते न भोक्तव्यम् । उभाभ्याम् अपरिज्ञाने न दोषः । विवाहोत्सवयज्ञेष्व् अन्तरा जननमरणाशौचे पूर्वसङ्कल्पितद्रव्ये न दोषः । (+ तत्र कृतान्नेषु परैर् अन्नं प्रदातव्यम् । दातृभोक्तॄन् सूतकी न संस्पृशेत् । भुञ्जानेषु विप्रेष्व् अन्तराशौचे ऽन्यगेहोदकाचान्ताः शुद्धाः । सर्वत्राशौचे लवणे मधुनि मांसे च पुम्पमूलफलेषु शाककाष्ठतृणेष्व् अप्सु पयोदधिघृतेषु तैलौषधाजिनेषु नास्त्य् आशौचम् । स्वाम्यनुज्ञया स्वयम् एव गृह्णीयात् । अन्नसत्रप्रवृत्तानां तण्डुलादिष्व् अपक्वेषु च सर्वेषु पण्यद्रव्ये च नाशौचम् । शवसंसर्गनिमित्ताशौचम् अनुगमनाशौचं च शवसंसर्गिण एव न तद्भार्यापुत्रादीनां द्रव्याणां च । अतिक्रान्ताशौचं च तद्द्रव्याणां नास्त्य् एव । कारुशिल्पिवैद्यदासीदासराजप्रेष्यमूल्यकर्मकराणां सद्यः स्नातानां तत्तद्व्यापारे नाशौचम् । गत्यभावे क्वचित् स्पृश्यत्वं च स्यात् । स्वविहितकर्मस्व् आशौचम् अस्त्य् एव । कारवः शिल्पकाराद्याः शिल्पिनश् चित्रकर्मचैलनिर्णेजकाद्याः । वृतानाम् ऋत्विजां दीक्षणीयेष्ट्यादिदीक्षितानां यज्ञियकर्म कुर्वताम् अन्नसत्रकर्तॄणां कृच्छ्रचान्द्रायणादिव्रतिनां प्रायश्चित्तत्वेन प्रवृत्तव्रतिनां च ब्रह्मचर्यादि[८८]*व्रतिनाण् च प्रवृत्ते श्राद्धकर्मणि कर्तॄणां निमन्त्रितानां भोक्तॄणां यत्किञ्चिन्नियमस्थानाम् अप्रतिषिद्धग्राहयितृदातॄणाम् एतेषां यावद् उपाधिस् तावद् आशौचं नास्त्य् एव । ब्रह्मचारिणां यतीनां च सर्वदाशौचं नास्त्य् एव । ऋत्विगादीनां तदानीं स्नानम् अस्ति) । पूर्वप्रवृत्तचौलोपनयनविवाहादिसंस्कारकर्मसु प्रवृत्तयज्ञेषु च प्रवृत्तप्रतिष्ठारामाद्युत्सवेषु च पूर्वप्रवृत्तवृषोत्सर्गादिपाकयज्ञेषु च युद्धे युद्धार्थविहितेषु शान्तिकर्मसु च स्फोटकाद्युपद्रवोपसर्गे राजमये देशविप्लवे च विवाहोत्सवदुर्गयज्ञयात्रादितीर्थयुद्धकर्मसु च सद्यः शौचं तत्तदर्थे शान्तिकर्मणि च सद्यः शौचम् । व्याध्यादिना मुमूर्षावस्थायां तदुपशमनार्थे दाने च । तथा सङ्कुचितवृत्तेः क्षुत्परिश्रान्तमातापित्रादिबहुकुटुम्बस्य तद्रक्षणयोग्ये प्रतिग्रहे च । अश्वस्तनिकस्य च सद्यः शौचम् । अतिकणिष्ठापदि विप्लवे च विशेषेण सद्यः शौचम् । एकाहसञ्चितधनस्यैकाहम् आशौचम् । त्र्यहसञ्चितधनस्य त्र्यहम् आशौचम् । चतुरहार्थं सञ्चितधनस्य कुम्भीधान्यस्य च चतुरहम् । कुसूलधान्यस्य दशाहम् । अशौचकालमध्ये ऽनुपपत्त्यपगमे ऽवशिष्टाशौचम् अस्त्य् एव । एवं दशाहस्थाने त्रिरात्रपक्षिण्येकाहसद्यःशौचरूपानि वाक्यान्य् आपद्विषयाणि योज्यानि । समानोदकविषयाश् च सङ्कुचिताशौचविषयकल्पाः पक्षिण्येकाहसद्यःशौचरूपा आपद्विषयाः । तेन प्रतिग्रहादिनार्तिनाशस्तद्विषया न सर्वत्र । ब्रह्मोज्झतानिमित्तं बहुवेदस्य स्वाध्याये सद्यः शौचम् ।
जपो देवार्चनविधिः कार्यो दीक्षान्वितैर् नरैः ।
नास्ति पापं यतस् तेषां सूतकं वा यतात्मनाम् ॥
आशौचानन्तरं सर्वे वर्णाः सचैलं स्नान्ति । ततो ब्राह्मणो दक्षिणहस्तेनापः स्पृष्ट्वा शुध्येत् । क्षत्रियो वाहनम् आयुधं वा । वैश्यः प्रतोदं रश्मीन् वा । शूद्रो यष्टिं स्पृष्ट्वा शुध्येत् । एवं सपिण्डाः समानोदका वस्त्रयुगादिभिर् भूषितं शवं श्मशानं नयेयुर् न गृहग्रामाभिमुखं प्रेतं नयेयुः । न शूद्राः पतिताश् च शवतृणकाष्ठहवींषि नयेयुः । न नग्नं शवं दहेयुः । धर्मार्थं ब्राह्मणशवनिर्हरणस्नानालङ्करणवहन-दहनादिके कृते द्विजानां सचिलस्नानात् सद्यः शुद्धिर् महापुण्यं शुभं चायुर् भवति । तत्राप्य् अनाथप्रेतसं**[८९]स्कारे ऽनेकपुण्यम् आयुश् च वर्धते । धर्मार्थम् उत्कृष्टजातिप्रेतनिर्हरणादिके कृते सचैलस्नानाच् छुद्धिः । धर्मार्थं सजातिप्रेतनिर्हरणादिके कृते सचैलस्नानप्राणायामैः शुध्येत् । धर्मार्थं हीनजातिप्रेतनिर्हरणादिके कृते सचैलं स्नात्वा निम्बपत्रभक्षणादिगृहप्रेवेशनान्ते कृते कृच्छ्राच् छुद्धिः । स्नेहादिना सजातिप्रेतनिर्हरणमात्रे कृते त्व् एकाहाशौचेन शुद्धिः । स्नेहादिना सजातिं निर्हृत्य तद्गृहे स्थितौ त्रिरात्राशौचम् । स्नेहादिना सजातिं निर्हृत्य तद्गृहे स्थितौ तदन्नाशने दशाहाशौचेन शुद्धिः । स्नेहादिना त्व् अन्यजातिनिर्हरणे तज्जातीयम् आशौचं कार्यम् । अनुगमनं (+तु सजातिष्व् अपि ब्राह्मणाद्यैर् न कार्यम् । स्नेहादिना सजातिषूत्कृष्ट)द्विजातिषु चानुगमने कृते सचिलं स्नात्वाग्निं स्पृष्ट्वा घृतं प्राश्य शुध्येत् । घृतप्राशनं शुद्ध्यर्थम् एव न भोजनस्थाने । सपिण्डेष्व् अनुगमनं विहितम् एव । हीनजातिषु त्व् एवम्- ब्राह्मणस्य क्षत्रियानुगमन एकाहम् आशौचम्, वैश्यानुगमने पक्षिणी, शूद्रानुगमने त्रिरात्रम् आशौचङ्कृत्वा समुद्रगायां नद्यां स्नात्वा प्राणायामशतं कृत्वा घृतं प्राश्य शुध्येत् । क्षत्रियस्य वैश्यानुगमने त्व् एकाहम् आशौचम्, शूद्रानुगमने पक्षिणी, वैश्यस्य शूद्रानुगमने त्व् एकाहम् । रोदने चैवम् । असपिण्डस्य दहनादिकरणे पादकृच्छ्रो दशरात्रं त्रिरात्रं वाशौचं च । अशक्तस्य मरणभये सति शुद्धिः कार्या यथायोग्यप्रायश्चित्तैः शौचस्नानपूर्वकम् । रजस्वलायां ज्वरितायां चतुर्थे ऽहन्य् अन्या स्त्री रजस्वला स्पृष्ट्वा सचैलावगाह्याचम्य दशकृत्वो द्वादशकृत्वो वा स्पृशेद् अन्ते वाससां त्यागः । ततः सा रजस्वला शुद्धा । शक्त्या दानं कृत्वा पुण्याहेन विशेषतः शुद्धिः । आतुरे स्नानप्राप्ताव् अनातुरो दशकृत्वो द्वादशकृत्वो वा स्नात्वा स्नात्वाचम्याचम्यातुरं स्पृशेत् । ततः स आतुरः शुध्येत् । सूतिकायां मृतायां कुम्भे जलम् आदाय तत्र पञ्चगव्यं क्षिप्त्वापोहिष्ठीयवामदेव्यादिपुण्याभिर् ऋग्भिर् अभिमन्त्र्य ब्राह्मणवचनैः प्रायश्चित्तं लब्ध्वा तेनैव स्नापयित्वा विधिना दहेत् । रजस्वलां मृतां प्रक्षाल्य पञ्चगव्यैः स्नापयित्वा वस्त्रान्तरावृतां विधिना दहेत् । अत्रापि ब्राह्मणवचनं कार्यं पूर्वोक्तम् । यद् वा सूतिकां रजस्वलां च मलं प्रक्षाल्य स्नापयित्वा [९०] काष्ठवद् दग्ध्वा ब्राह्मणवचनं लब्ध्वास्थीनि विधिना दहेत् । अतीताशौचं तु स्वाशौचकालाद् ऊर्ध्वं ब्राह्मणादीनां सर्वेषां वर्णानाम् उपनयनाद् ऊर्ध्वं स्त्रीणां शूद्राणां विवाहाद् ऊर्ध्वं भवति । तच् च मासत्रये त्रिरात्रम् । षण्मासे पक्षिणी । नवमासे त्व् एकाहम् । ततः परं सचैलं स्नात्वोदकदानाच् छुद्धिः । इदं सर्ववर्णसमम् । अतीताशौचे स्वाशौचकालत्रिभागाद् ऊर्ध्वं स्पृश्याः । जन्मन्य् अतिक्रान्ताशौचं सपिण्डानां नास्त्य् एव । पुत्रजन्मनि पितुः स्नानम् अस्त्य् एव । देशान्तराद् अर्वाक्तनदेशे मृते स्वाशौचकालाद् ऊर्ध्वं श्रुते तद्देशे विंशतियोजनादिकं त्रेधा विभज्याद्ये स्व्समीपे भागे त्रिरात्रम् । ततो दूरभागे पक्षिणी ततो ऽपि दूरभागे त्व् एकाहः स्यात् । एवं देशकालौ पर्यालोच्य यत्राल्पाशौचं तद् एव ग्राह्यम् । नात्राहानि वर्धयेत् । देशान्तरस्थे मृते स्वाशौचकालाद् ऊर्ध्वं श्रुते सपिण्डानां सचैलं स्नानं न त्रिरात्रादि । मातापितृमरणे दशाहाद् ऊर्ध्वं दूरदेशे ऽपि वत्सराद् ऊर्ध्वम् अपि पुत्रः श्रुत्वा मरणश्रवणदिनम् आरभ्य दशाहाशौचादिकं कुर्याद् उदकपिण्डादिकं च । महागुरुमरणे दूरदेशे ऽप्य् आर्द्रवस्त्रोपवासिना तथैवाशौचादिकं कार्यम् । स्त्रीपुंसयोः परस्परं चैवम् । सवर्णोत्तमवर्णसपत्नीषु चैवम् । देशान्तरे कालान्तरे च हीनवर्णाया मातुः सपत्न्या मरणे तु पुत्रस्य त्रिरात्रम् । हीनवर्णसपत्नीषु चैवम् । संवत्सरे ऽतीते ऽपि सपत्न्योः परस्परं चैवम् । इदं चाशौचं सर्ववर्णसमम् । देशान्तरम् अनेकधा स्मृतं स्मृतिपुराणतीर्थकल्पेषु । आशौचकालमध्ये यत्र मृतवार्ता न श्रूयते योजनाद् बहिस् तद् देशान्तरम् । तत्र योजनद्वयाधिकप्रयाणस्य निषिद्धत्वाद् विधिविरोधेन विप्रस्य दशाहाशौचिनो विंशतियोजनैर् देशान्तरम् । क्षत्रियस्य द्वादशाहाशौचिनश् चतुर्विंशतियोजनैः । वैश्यस्य पञ्चदशाहाशौचिनश् च त्रिंशद्योजनैः । शूद्रस्य मासाशौचिनः षष्ठियोजनैर् देशान्तरम् । तथा षष्ठियोजनम् एकं त्रिंशद्योजनम् अपरं (+चतुर्विंशतियोजनम् अन्यद् विंशतियोजनम् अपर)म् एतानि योग्यतया व्यवस्थितानीति केचित् । देशकालसुगमदुर्गम-पर्यालोचनया सर्वेषाम् अविशेषेण भवन्तीत्य् अन्ये । तथान्यानि योज[९१]**नाद् बहिर् एव । षट्चतुर्द्वियोजनानि त्रीणि देशान्तराणि स्मृतानि । तानि त्रिरात्रपक्षिण्येकाहाशौचविषयाणि । तथा भाषाभेददेशविशेषमहागिरिव्यवधानमहानदीव्यवधानानि त्रीणि देशान्तराणि । द्वादशाष्टचतुर्योजनानि त्रीणि देशान्तराणि तानि समान्य् उक्तानि । तानि त्रिरात्रादिविषयाण्य् अपि भवन्ति । तानि भाषाभेदादीनि त्रीणि पूर्वोक्तचतुर्विधदेशान्तरेषु सन्ति चेत् क्रमेण (+द्वादशाष्टचतुर्योजनन्यूनानि देशान्तराणि भवन्ति । तथा भाषाभेदमात्रगिरिव्यवधान-नदीव्यवधानानि च त्रीणि देशान्तराणि स्मृतानि । यानि षट्चतुर्द्वियोजनसमानि तानि च त्रिरात्रादिविषयाणि भवन्ति । तानि च भाषाभेदादीनि पूर्वोक्तचतुर्विधानि देशान्तरेषु सन्ति चेत् क्रमेण) षट्चतुर्द्वियोजनाधिकन्यूनानि देशान्तराणि प्राहुः ।
तिर्यग्यवोदराण्य् अष्टाव् ऊर्ध्वा वा व्रीहयस् त्रयः ।
प्रमाणम् अङ्गुलस्योक्तं वितस्तिर् द्वादशाङ्गुला ॥
वितस्तिर् द्विगुणारत्निस् ततः किष्कुस् ततो धनुः ।
धनुःसहस्रे द्वे क्रोशश् चतुष्क्रोशं तु योजनम् ॥
मातापितृगृहे व्यूढायाः प्रसवे मातापित्रादिकानाम् एकाहम् आशौचम् । तत्र तस्या मरणे त्रिरात्रम् । गृहान्तरमरणे पित्रोर् एवम् । ग्रामान्तरमरणे पक्षिणी । असपिण्डे गृहे मृते त्रिरात्रम् । अन्याश्रितासु पतिपत्न्यादिषु त्रिरात्रम् । सपिण्डानाम् एकाहम् । असन्निधौ पितुर् एकाहम् । सपिण्डानां स्नानम् इत्याद्यधिकाशौचं सन्निधाव् असन्निधौ न्यूनम् । इदं च सर्ववर्णसमम् । मातापितृमरणे सर्ववर्णेषु व्यूढपुत्रिकायास् त्रिरात्रम् । जाताशौचे मृताशौचे सादेकानां त्रिरात्रम् । मातमहगुर्वाचार्यदौहित्रश्वशुरसम्बन्धिश्रोत्रिय-बहुयज्ञक्रतुकृदृत्विग्याज्येषु गुणिष्व् एकग्रामे मृतेषु त्रिरात्रम् । ग्रामान्तरे पक्षिणी । अगुणिष्व् एकग्रामे पक्षिणी । ग्रामान्तर एकाहम् । अनौरसेषु पुत्रेषु क्षेत्रजदत्तकादिष्व् एकाहम् । याज्यर्त्विग्दौहित्रसहाध्यायिसहोपनीतात्मबन्धुपितृबन्धुमातृबन्धुषु च श्वशुरशिष्योपाध्यायानूचानगुरुपुत्राचार्यपुत्रस्वामिमित्रभागिनेयेषु श्वश्रूभगिनीमातामहीषु च मातृ**[९२]**ष्वसृपित्र्ष्वसृमातुलानीगुर्वाचार्यपत्नीषु मरण एकग्रामे पक्षिण्य् आशौचम् । ग्रामान्तरे त्व् एकाहम् । अगुणवत्स्व् एकग्रामे ऽप्य् एकाहम् । ग्रामान्तरे स्नानम् । उपनयनाद् अर्वाचीनसंस्कारपूर्वकं वेदाध्यापको गुरुर् मन्त्रज्ञानोपदेशकश् च । उपनयनपूर्वकं वेदाध्यापक आचार्यः स्मार्तकृद् आचार्यश् च । वेदाध्यापक उपाध्यायो वेदैकदेशाध्यापकश् च । अनूचानो वेदाङ्गवक्ता सच्छ्रास्त्रवक्ता च । श्रोत्रिय एकशाखाध्यायी ।
आत्मपितृष्वसुः पुत्रा आत्ममातृष्वसुः सुताः ।
आत्ममातुलपुत्राश् च विज्ञेया आत्मबान्धवाः ॥
पितुः पितृष्वसुः पुत्राः पितुर् मातृष्वसुः सुताः ।
पितुर् मातुलपुत्राश् च विज्ञेयाः पितृबान्धवाः ॥
मातुर् मातृष्वसुः पुत्राः मातुः पितृष्वसुः सुताः ।
मातुर् मातुलपुत्राश् च विज्ञेया मातृबान्धवाः ॥
सब्रह्मचारिणि त्रिरात्रम् । एकाचार्योपनीतः सब्रह्मचारी । स्वदेशराजमरणे तु दिनमरणे दिनान्तरम् आशौचम् । रात्रौ मरणे रात्र्यन्तम् आशौचम् । ग्राममध्ये शवे स्थिते ग्रामस्य तावद् आशौचम् । क्षत्रियादीनां भूरक्षार्थम् अभिषिक्तानाम् आशौचं नास्ति । भूरक्षार्थम् अन्यसाध्ये व्यापारे ऽभिचारादौ पुरोहितादेर् नाशौचम् । स्वविहितेषु भूपादेर् अनधिकार एव । स्त्रीविप्रार्थं गवार्थं च सङ्ग्रामे च विद्युता च हतानां सपिण्डानां नाशौचम् । युद्धक्षतेन कालान्तरमरणे ग्रामेश्वरे कुलपतौ मृते चैकाहम् । भगिन्यां संस्कृतायां भ्रातरि संस्कृते मित्रे जामातरि दौहित्रे भागिनेये शालके तत्सुते चैतेष्व् असवर्णेषु मरणे सद्यः स्नानेन शुद्धिः । स्वल्पसम्बन्धे स्नानं सचैलम् इत्यादि सर्ववर्णसमम् । स्ववर्णोत्तमवर्णाभ्यां नष्टभार्यामरणे भर्तुर् एकाहम् आशौचम् । जारस्य त्रिरात्रम् । प्रतिलोमजानां कृतप्रायश्चित्तानाम् आशौचादिकं कार्यम् एव । अकृतप्रायश्चित्तानाम् आशौचं नास्त्य् एव । स्वैरिण्याद्याश्रितस्य त्रिरात्रम् । सन्निधौ पितुस् त्रिरात्रम् । जाताशौचमधे तत्समे ततो न्यूने वा जाताशौचे सति ततो न्यूने वा मृताशौचे सत्य् अपि पूर्वशेषेणैव शुद्धिः । जाताशौचमध्ये मृताशौचे तेन जाताशौचेन तत्समं न समाप्यते । मृताशौचेनैव तत्र शुद्धिर् न जाताशौचेन । मृताशौचमध्ये तु तत्समे ततो न्यूने वा जाताशौचे मृताशौचे वा सति पूर्वेणैव शुद्धिः । जन्ममरणनिमित्तस्वल्पकालाशौचमध्ये दीर्घकालाशौचे दीर्घकाला**[९३]शौचेनैव शुद्धिर् न स्वल्पकालाशौचेन । मातृमृताशौचमध्ये पितृमृताशौचे सति पित्राशौचेनैव शुद्धिर् न मात्राशौचेन । पितृमृताशौचमध्ये मातृमृताशौचे सति पित्राशौचं समाप्याधिकं पक्षिण्य् आशौचं कुर्यान् न पित्राशौचेनैव शुद्धिः । मृताशौचे रात्रिमात्रावशिष्टे मृताशौचान्तरे सति पूर्वाशौचं समाप्यानन्तरं द्वाभ्यां रात्रिभ्यां शुद्धिः । तस्या रात्रेश् चतुर्थे यामे मृताशौचान्तरे सति पश्चात् त्रिरात्रेणैव शुद्धिर् न पूर्वशेषेणैव शुद्धिः । जाताशौचमध्ये मृताशौचे सति प्रेतम् उद्दिश्य दहनोदकपिण्डदानादिकं कार्यम् एव । मृताशौचे गते कार्यम् इत्य् एके । मृताशौचयोः सन्निपाते प्रेतकृत्यं कार्यम् एव । जाताशौचयोः सन्निपाते जातकर्मादिकं कार्यम् एव । तत्र कर्तुस् तात्कालिकी शुद्धिर् अस्त्य् एव । स्त्रीपुरुषमरण एकस्मिन् दहनकाले प्राप्ते सवर्णानां समानधर्माणां पत्न्या सह दहनं कृत्वोदकपिण्डादिकं पतिपूर्वं पृथक् कार्यम् । सपिण्डनं तु पत्युः पश्चान् मरणे च पत्युः पूर्वं कृत्वा पत्न्याः सापिण्ड्यं कार्यम् । असवर्णानां समानधर्माणां पत्नीनां दहनादिकं सर्वं पृथग् एव कार्यम् । सवर्णानां समानधर्माणां पत्नीनां च सह दाहः । उदकपिण्डादिकं ज्येष्ठपूर्वं पृथग् एव । असवर्णानाम् असमानधर्माणां सपत्नीनां दहनादिकं पृथग् एव । असमानधर्मतायां सर्वं पृथग् एव । पितृपुत्रयोः समानधर्मयोः कपालाग्निना दाह्ययोर् दाहः सहैव । उदकदानादिकं पितृपूर्वं पृथग् एव । भ्रातॄणां समानधर्माणां कपालाग्निना दाह्यानां सह दाहः । उदकादिकं ज्येष्ठपूर्वं पृथग् एव । असमानानां सर्वं पृथग् एव । पुम्बालानां भ्रातॄणां स्त्रीबालानां दहने खनने चैवम् । अन्वारोहणं सर्वजातिस्त्रीणां पतिव्रतानां प्रशस्तम् आत्मनो भर्तुश् च सर्वपापक्षयदं नरकोत्तारणम् अनेकस्वर्गफलदं स्वर्गान्त आयुरारोग्यैश्वर्यपुत्रादिसर्वसम्पत्प्रदं दुःखदारिद्र्यवैधव्यादिनाशकरम् इत्यादि पुराणस्मृतिषु श्रूयते । तत्रान्वारोहणं गर्भिण्या निषिद्धम् । ब्राह्मण्या गर्भिण्या ब्रह्महत्यासमम् । क्षत्रियादिजातिगर्भिण्याः क्षत्रियादिजातिवधसमम् । सवर्णया पत्या सहैकचित्यारोहणं कार्यम् । ब्राह्मण्यैकचित्यारोहणम् एव न पृथक्चित्यारोहणं कार्यम् । क्षत्रियादिस्त्रिया भर्तरि देशान्तरमृते पृथक्चित्यारोहणम् एव । असवर्णया पृथक्चित्यारोहणं कार्यम् । तच् चान्वारोहणम् एवं कार्यम् । अन्वारोहणं करिष्यामीति सङ्कल्प्य पतिं नमस्कृत्य चितिम् आरुह्य सर्वं प्रयोगं कारयेत् । यद् वा सङ्कल्प्य प्रयोगे कृते दह्यमाने भर्तरि तं नत्वाग्निं प्रविशेत् । चिति[९४]**भ्रष्टा नारी मोहाद् विचलिता च प्राजापत्यं चरेत् । सह दहने तु श्राद्धादौ पिण्डपाकैक्यं कालैक्यं कर्त्रैक्यं च भवति । सर्वत्र पिण्डदानं योग्यः पुत्रो दद्यात् । पुत्राभावे मिथो दम्पती सपत्न्यश् च । तदभावे भ्रातृपुत्रो भ्राता स्नुषा दुहिता दौहित्रो ऽन्यः सगोत्रः सपिण्डः सब्रह्मचार्य् अपि मित्रं शिष्यो गुरुर् बान्धवो धनसम्बन्धी वा दद्यात् ।
न पुत्रस्य पिता दद्यान् नानुजस्य तथाग्रजः ।
अपि स्नेहवशाद् दद्यात् सपिण्डीकरणं विना ॥
अदत्तानां कन्यकानां तु पितरौ दत्तः । अन्याभावे दत्तकन्याम् अपि पितरौ दत्तः । दौहित्रमातामहौ परस्परं दत्तः । मातामह्याश् च दौहित्रः । जामातृश्वशुरौ मिथः । श्वश्र्वादेः स्नुषा । भ्रातरौ मिथो दत्तः । गुरुशिष्यौ परस्परम् । उक्तकर्त्रभावे यः कश्चित् । कुर्वतः सर्वसम्पत्प्राप्तिर् इति विज्ञायते । एकादशाहादौ पुत्रो ज्येष्ठादिर् योग्यः कुर्यात् । नवश्राद्धानि षोडशश्राद्धानि च विभक्तो वाविभक्तो वैक एव कुर्यात् । सपिण्डीकरणं तु विभक्ताः पुत्राः सधनाश् चैकस्मिन्न् एव दिने स्ववृद्धिक्रमात् पृथक् पृथक् कुर्युर् नान्यथा । अत ऊर्ध्वं पृथग् एव कुर्युः । शूद्रस्यामन्त्रकं सर्वत्र द्विजवत् कार्यम् । सर्वत्र गोत्राज्ञाने नाम्नैव कार्यम् । व्रीह्यादिपिण्डद्रव्याभावे फलेन मूलेन पयसा शाकेन गुडेन वा तिलमिश्रेण कार्यम् । दशाहान्तं कृष्णायसपाणिः स्यात् । अनाहिताग्निं यजमानं लौकिकाग्निना दहेत् । पत्न्याः पतिपरोक्षे कपालाग्नेर् अप्य् अनुज्ञास्ति । दहनकाले ऽग्निनाशे दग्धकाष्ठे ऽग्निं मथित्वा दहेत् । लौकिकाग्नौ भूर् भुवः स्वाहेत्य् आज्याहुतीर् हुत्वा वा दहेत् । तद्देहं मह्यां जले वा क्षिपेत् । दशाहप्रेतपिण्डं दत्वास्नात्वा भुक्ताव् असपिण्डस्य त्रिरात्रं सपिण्डस्योपवासः । मत्या द्विगुणं प्रेतकृत्यं कुर्वतः । सञ्चयनाद् अर्वाक् स्त्रीणां सङ्गमे चान्द्रम् ऊर्ध्वं कार्यम् । अन्येषां प्रेताशौचिनां पूर्वं त्रिरात्रं पश्चाद् उपवासः । प्रेतकार्यम् अकृत्वा तद् द्रव्यं हरंस् तद्वर्णवधप्रायश्चित्तं कुर्यात् । देशान्तरमरणे पराकद्वयम् अष्टौ कृच्छ्रान् कृत्वा दहेत् । दूरदेशान्तरगते जीवद्वार्तां पुनः पर्यालोच्य जीवद्वार्तायाम् अश्रूयमाणायां पूर्ववयस्के विंशत्यब्दाद् ऊर्ध्वं मध्यमवयस्के पञ्चदशाब्दाद् ऊर्ध्वं चान्द्रायणत्रयं त्रिंशत्कृच्छ्राणि वा कृत्वा पालाशवृन्तैः कुशैर् वा प्रतिकृतिं कृत्वा [९५] दाहाशौचादिकं पिण्डश्राद्धानि च कार्याणि । एवं कृते च पुनर् आगतश् चेद् घृतकुण्डे निमज्ज्य तस्य जातकर्मादिसंस्कारं कृत्वा पूर्वपत्न्या विवाहः कार्यः ।
अथ श्राद्धक्रमः —
तत्रादौ नवश्राद्धं प्रथमे ऽह्नि तृतीये पञ्चमे सप्तमे नवम एकादशे ऽह्नि विहितम् । तत्र प्रथमम् एकादशे ऽह्नि उत्कृष्यते न वा । उत्कर्षपक्षे तृतीयाहादिषु पञ्चाहर्गणसञ्ज्ञं नवश्राद्धं भवति । अनुत्कर्षपक्षे चैकादशाहिकस्य विकल्पितत्वात् प्रथमादिषु पञ्चाहर्गणसञ्ज्ञं भवति । यद् वा प्रथमाहे तृतीये पञ्चमे सप्तमाहे चैवं त्र्यहर्गणसञ्ज्ञकं नवश्राद्धं कार्यम् । अहर्युग्मत्वं न कर्यम् । एतन् नवश्राद्धम् एकादशे ऽह्नि वा कार्यम् । तथा षोडशश्राद्धानि नवमिश्रसञ्ज्ञानि कार्याणि । तानि प्रतिमासं मृताह आसंवत्सरं विहितानि द्वादशद्वादशाहे त्रिपक्षे न्यूनषण्मासे न्यूनाब्दे चत्वारि । एवं षोडश । तत्राद्यम् एकादशे ऽह्नि उत्कृष्य विधीयते । तत्र क्रमः – एकादशाहे द्वादशाहे द्वितीयमासे त्रिपक्षे तृतीये चतुर्थे पञ्चमे षष्ठे मासे न्यूनषष्ठे सप्तमे ऽष्टमे नवमे दशम एकादशे द्वादशे मासे न्यूनाब्दे चेति । ततो ऽपरेद्युः संवत्सरान्ते सपिण्डीकरणम् । ततः परेद्युर् द्वितीयसंवत्सरादाव् आब्दिकम् । तृतीयसंवत्सरादौ प्रत्याब्दिकम् इति क्रमः । यद् वा पिण्डपितृयज्ञपार्वणश्राद्धार्थम् अग्निमान् दशाहाद् ऊर्ध्वं द्वादशाहे त्रिपक्षे वा वृद्धिश्राद्ध उपस्थिते वायुष्यस्यानियतत्वाच् चार्वाक् संवत्सरात् सपिण्डीकरणं कुर्यात् । तच् च षोडशैकोद्दिष्टानि कृत्वैव कार्यम् । तत्रैकादशे ऽह्नि चत्वारि श्राद्धानि सम्भवन्ति । नवश्राद्धाद्यं नवश्राद्धान्त्यम् आद्यमासिकं स्वतन्त्रैकोद्दिष्टं चेति । स्वतन्त्रैकोद्दिष्टे क्रियमाणे ऽन्येषां तन्त्रानुष्ठानात् सिद्धिर् इच्छताम् अस्ति अत आद्यैकोद्दिष्टं नवसु मिश्रम् इत्य् उच्यते । नवश्राद्धधर्मकं नवमिश्रधर्मकम् उभयदोषकं भवति । ततो ऽवशिष्टं नवश्राद्धं ततो ऽवशिष्टं मासिकं च । पृथगनुष्ठानपक्षे चादौ स्वतन्त्रैकोद्दिष्टं कार्यम् । तच् चोभयदोषम् एव । ततो नवश्राद्धं ततो मासिकम् एकादशे ऽहन्य् एकादशब्राह्मणभोजनं प्रेतोद्देशेनैकादशरुद्रोद्देशेन वा । एकादशरुद्रोद्देशाद् रुद्रगणम् इत्य् आहुः । वृषोत्सर्गश् च प्रशस्यते । द्वादशाहस्थाने न्यूनमासिकं क्षात्रा**[९६]**दिषु भवति । सञ्चयने कृते मनुष्यलोकात् प्रेतलोकं गच्छत आमेन पाथेयश्राद्धम् एकोद्दिष्टविधिना कार्यम् । सपिण्डीकरणे कृते प्रेतलोकात् पितृलोकं गच्छत आमेन पाथेयश्राद्धं पार्वणविधिना कार्यम् । ततः पुण्याहवाचनं कार्यम् । संवत्सराद् अर्वाक् सपिण्डीकरणे ऽनुमासिकानि पृथक् कुर्याद् एकोद्दिष्टवत् पार्वणवद् वा मृताहश्राद्धवत् । अनुमासिकान्ते संवत्सरविमोकान्तं श्राद्धं पुण्याहवाचनं च कार्यम् इत् क्रमः ।
अथ सन्न्यासविधिः —
सन्न्यासस्य विधिं कृत्स्नं प्रवक्ष्याम्य् अनुपूर्वशः ।
गोविन्दराजस्य मतं बौधायनमतं यथा ॥
एकोद्दिष्टविधानेन कुर्याच् छ्राद्धानि षोडश ।
अग्निमान् पार्वणेनैव विधिना निर्वपेत् सव्यम् ॥
कृच्छ्रांस् तु चतुरः कृत्वा पावनार्थम् अनाशृअमी ।
आश्रमी चेत् तप्तकृच्छ्रं तेनासौ योग्यतां व्रजेत् ॥
दैविकं चार्षिकं दिव्यं पित्र्यं मातृकमानुषे ।
भौतिकं चात्मनश् चान्ते त्व् अष्टौ श्राद्धानि निर्वपेत् ॥
केशश्मश्रुलोमनखं वापयित्वोपकल्पयेत् ।
यष्टिं जलपवित्रं कुर्यान् नित्येन विधिना ततः ॥
अनग्निमान् द्विजः कुर्यान् नित्येन विधिना ततः ।
स्वाग्नाव् एवाग्निमान् कुर्याद् अपवर्गान्तम् आदृतः ॥
ग्रामान्ते ग्रामसीमान्ते अग्न्यागारे सुरालये ।
आज्यं पयो दधीत्य् एतत् त्रिवृत् प्राश्योपवेशयेत् ॥
अभावे अपो वा । ॐ भूः सावित्रीं प्रविशामि ॐ तत् सवितुर् वरेण्यं ॐ भुवः सावित्रीं प्रविशामि ॐ भर्गो देवस्य धीमहि ॐ स्वः सावित्रीं प्रविशामि ॐ धियो यो नः प्रचोदयात् । इति पच्छो ऽर्धर्चशः समस्तया वा । ॐ भूर् भुवः स्वः सावित्रीं प्रविशामि ॐ तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । इत्य् आत्मानम् आत्मनाश्रमाद् आश्रमम् अनुनीय ब्रह्मीभूतो भवतीति विज्ञायते । तत् तथाग्निम् उपसमाधाय समित्पूर्वाम् ॐ स्वाहेति पूर्णाहुतिं जुहुयात् । तेन ब्रह्मान्वाधानम् इति विज्ञायते । अनाहिताग्नेर् इष्टिस्थाने वैश्वानरश् चरुः
[९७] अनग्नेश् चाग्निवर्जं तु ब्रह्मचारिण इष्यते ।
तथाग्नीन् समारोप्य गुरवे सर्वस्वं दत्वा ॐ भूर् भुवः स्वः सन्न्यस्तं मया इति त्रिर् उपांशु त्रिर् उच्चैस् त्रिंशत्या हि देवा इति विज्ञायते । तथा च कात्यायनः ।
पञ्चायुधधरं सौम्यं सर्वाभरणभूषितम् ।
ध्यात्वा हृदि त्व् अनुज्ञातो गुरुणा प्रैषम् ईरयेत् ॥
ततो ऽमन्त इति वापां पूर्णम् अञ्जलिम् निनयति । सखे मां गोपायेति दण्डं गृह्णाति । पदस्य पारे रजस इति शिक्यम् । येन देवाः पवित्रेणेति जलपवित्रम् । सावित्र्या कमण्डलुम् । सर्वाभिर् व्याहृतिभिर् ब्रह्मभाजनम् । तत उद् उ त्यं चित्रं तच् चक्षुर् हंसः शुचिषन् नमो मित्रस्येति ।
नमः सवित्रे जगदेकचक्षुषे
जगत्प्रसूतिस्थितिनाशहेतवे ।
त्रयीमयाय त्रिगुणात्मधारिणे
विरञ्चिनारायणशङ्करात्मने ॥
इत्य् आदित्यम् उपतिष्ठते । तथा च व्यासः ।
कटिप्रक्षालनं कृत्वा प्रणवेन मृदा बहिः ।
ततः स्नानं प्रकुर्वीत मन्त्रवत् तु जलाशये ॥
तिसृष्व् अपि च सन्ध्यास्व् अञ्जलीन् प्रदाय ॐ भूस् तर्पयामि, ॐ भुवस् तर्पयामि, ॐ स्वस् तर्पयामि, ॐ भूर् भुवः स्वस् तर्पयामि, इति तर्पणं कुर्यात् । अथोदिते भानौ ॐ भूर् भुवः स्वर् इत्य् अञ्जलिं प्रदाय उद् उ त्यं चित्रं तच् चक्षुर् हंसः शुचिषद् इदं विष्णुर् विचक्रमे त्रेधा त्रिदिवो ब्रह्म जज्ञानम् इत्य् आदित्यम् उपतिष्ठते । सर्वभूतेभ्यो नम इत्य् आत्मानं प्रदक्षिणीकृत्य नमस्कुर्यात् । ॐ आदित्याय विद्महे सहस्राक्षाय धीमहि । तन् नः सूर्यः प्रचोदयात्, इति त्रिर् जपेत् त्रिकालम् । अथ भिक्षिष्यन्न् उद् वयं तमसस् परीति चतसृभिर् आदित्यम् उपस्थाय मौनी भूत्वा पञ्चागारम् सप्तागारं वा प्रविशेत् । ततः पूर्णम् असि पूर्णं मे भूयाद् इति जपित्वा पुनर् आवर्तते । शुचौ देशे शुचिर् भूत्वा चतुरः पिण्डान् निर्वपेत् । ॐ भूः स्वधा नमः, ॐ भुवः स्वधा नमः, ॐ स्वः स्वधा नमः, इति सार्वभौतिकं चतुर्थम् । शेषं भुक्त्वा प्राणायामान् षड् आचरेत् । ब्रह्मभूयाय कल्पते, ब्रह्मभूयाय कल्पत इत्य् आह भगवान् बौधायनः । [च्फ़्। ब्ध् २.१७.१३–४१]
इति स्मृत्यर्थसारे सन्न्यासविधिः ।
[९८]
अथ परिव्राजकस्य संस्कारविधिः —
ग्रामात् प्राचीम् उदीचीं वा गत्वा ब्रह्मवृक्षस्याधस्तान् नदीतीरे वा शुचौ देशे वा दण्डप्रमाणं देवयजनं व्याहृतिभिः खात्वा त्रिसप्तव्याहृतिभिः प्रोक्ष्य दर्भान् संस्तीर्यालङ्कृत्य शवं निदधाति । श्वभ्रे विष्णो हव्यं रक्षस्वेति । इदं विष्णुर् विचक्रम इति दक्षिणहस्ते दण्डं निदधाति । यद् अस्य पारे रजस इति सव्यहस्ते शिक्यम् । येन देवाः पवित्रेणेति मुखे जलपवित्रम् । सावित्र्या उदरे ब्रह्मभाजनम् । भूमिर् भूम्नेति गुह्ये कमण्डलुम् । चित्तिः स्रुग् इति दशहोत्रिभिर् अनुमन्त्रयते । नात्र शेषसंस्काराः पूर्वम् अनुष्ठितत्वात् ।
सर्वसङ्गनिवृत्तस्य ध्यानयोगरतस्य च ।
न तस्य दहनं कार्यं नाशौचं नोदकक्रिया ॥
अथ सन्न्यासिनां दहनविधिः —
भूमिभागे खाते –
सन्निकृष्टैस् तु सन्न्यस्ते पितर्य् उपरते सुतैः ।
दहनं तस्य कर्तव्यं यच् चान्यच् छेषसञ्ज्ञितम् ॥
तस्य समीपे ऽग्निं प्रज्वाल्य यतेर् दक्षिणहस्ते उपावरोहेत्य् अवरोह्य तस्याग्निं पुत्राः पितृविधानतः, अग्निहोत्रविधानेन सावित्र्या प्रणवेन वा दहेत् । यतीन् दहन् स्पृशन् वापि जलावगाहनाद् एव सद्यः शुध्येत् । प्राप्नोत्य् अश्वमेधफलम् ।
अहन्य् एकादशे प्राप्ते पार्वणं तु विधीयते ।
एकोद्दिष्टं न कुर्वीत त्रिदण्डानां कदाचन ॥
सपिण्डीकरणं तेषां न कर्तव्यं सुतेन तु ।
त्रिदण्डधारणात् प्रैत्यं नष्टम् आहोशना मुनिः ॥
कुटीचरण् सम्प्रदहेत् पूरयेच् च बहूदकम् ।
हंसो जले विनिक्षेप्यः परहंसं प्रपूरयेत् ॥
इत्य् आह भगवान् बौधायनः ।
इति स्मृत्यर्थसारे ऽशौचप्रकरणम्
कामधेनौ प्रदीप्ते ऽब्धौ कल्पवृक्षलतादिषु ।
शम्भुद्रविडकेदारलोलटाद्यैश् च भाषितम् ॥
[९९] मन्वत्रियाज्ञवल्क्यादिव्याख्यातृप्रतिपादितम् ।
स्मृत्यर्थसारं वक्ष्यामि सुखानुष्ठानसिद्धये ॥
अथ प्रायश्चित्तान्य् उच्यन्ते —
तत्र पापानाम् अचीर्णप्रायश्चित्तानां नरकभोगान्ते कर्मविपाका उच्यन्ते । अज्ञानाद् ब्रह्महा क्रमात् सृगालश्वसूकरोष्ट्राणां योनिं याति । सुरापः खरपुल्कसवेनानां नागपक्षिचाण्डालपुल्कसानां योनिम्, सुवर्णस्तेयी विड्वराहकृमिकीटपतङ्गत्वम् । गुरुतल्पगस् तृणगुल्मलतात्वं क्रमाद् याति । ज्ञानाद् ब्रह्महा श्वसूकरखरोष्ट्रगोऽजाविमृगपक्षिचण्डाल-पुल्कसानां योनिं याति, सुरापो विट्क्रिमिपतङ्गपक्षिहिंस्रसत्त्वानाम् । सुवर्णस्तेयी ऊर्णनाभि-कृकलासतिरश्चाम् अम्बुचारिणां हिंस्राणां पिशाचानां च सहस्रशो योनिं याति । गुरुतल्पगस् तृणगुल्मलतानां क्रव्यादानां क्रूरकर्मणां च शतशो योनिं याति । तत्संसर्गी च तद्वत् । ततो मनुष्यजन्मनि ब्रह्महा क्षयरोगी, सुरापो निजकृष्णदन्तः, सुवर्णस्तेयी कुनखी, गुरुतल्पगः कुष्ठी । तत्संयोगी च तद्वत् । परस्त्रियं द्रव्यं च हृत्वारण्ये निर्जले देशे ब्रह्मराक्षसः स्यात् । अनध्याये ऽध्यायी सृगालो बहुप्रतिग्राही च । अन्नं रत्नं वा हृत्वाजीर्णव्याधिर् अत्यन्तदरिद्रो वा । ज्ञानवेदवाचकपुस्तकहारी मूकः, पत्रशाकं मयूरः, रत्नानि हेमकारी पक्ष्य् अत्यन्तदरिद्रो वा, न्यासम् अनपत्यो दरिद्रो वा, शुभगन्धाञ् छुछुन्दरी, छुछुन्दरी राजमूषिका, धानयं मूषकः, तैलं तैलपायी पक्षी । परस्वं हृत्वा नानातिर्यग्जातिः स्यात् । हुतं हविर् अश्नञ् छ्वातिदुःखी च । यानं हरन्न् उष्ट्रः, फलं कपिः, जलं जलप्लवः पतङ्गो वा पक्षी मत्स्यो वा, क्षीरं काको बको वा, गृहोपस्करं गृहहारी कीटः । मधु हरन् दंशः कीटः, मांसं गृध्रः, गां गोधा सर्पो वा, अग्निं बकः, वस्त्रं कुष्ठी पतङ्गो वा, रसांश् च लवणचारी कीटः, तैजसं मण्डली, गोदेवब्राह्मणस्वं पाण्डुरोगी, न्यासं काणो ऽनपत्यो वा, शय्यां क्षपणकः । शङ्खं शुक्तिं हरन् कपाली, दीपं कौशिकः, स्नेहं क्षयी, परस्वं परप्रेष्यः । यद् यद् अपहरन्ति तत्तत्प्रकाराः प्राणिनो जायन्ते तत्साध्यविकला वा । ब्राह्मणीं गच्छन् निर्बीजः । मातरं स्नुषां वा गच्छन् वातवृषणः, चण्डालीं [१००] पुल्कसीं वाजगरः, प्रव्रजितां नरः पिशाचः, शूद्रीं दीर्घकीटः, सवर्णां दरिद्रः, राजस्त्रियं नपुंसकः । गां गच्छन् मण्डूकः । धान्यमिश्रको ऽतिरिक्ताङ्गः, पिशुनो दुर्गन्धि(न्ध)नासिकः, सूचको दुर्गन्धास्यः, देवब्राह्मणक्रोशकः स्खलद्वाक्, गरदाग्निदाव् उन्मत्तौ, गुरुप्रतिकूलो ऽपस्मारी, गोघ्नश् चान्धः । धर्मपत्नीम् उत्सृज्यान्यत्र प्रवृत्तः शब्दवेधी प्राणी गुल्मी वा । मधुकुण्डाशी मधुभक्ष्यः, स्त्रीपण्यजीवी षण्ढः, कौमारदारत्यागी दुर्भगः, मृष्टैकाशी वानरो वातगुल्मी वा, अभक्ष्यभक्षको गण्डमाली, क्रूरकर्मा वामनः, मित्रध्रुक् क्षयी, मातापित्रोर् आक्रोशी षण्ढाकारः, अनृतवाक् सञ्चलितवाक्, कूटसाक्ष्य् उच्छिन्नजङ्घाचरणः, विवाहविघ्नकर्ता छिन्नोष्ठः, अवगोरणे छिन्नहस्तः, चतुष्पथे विण्मूत्रविसर्गे मूत्रकृच्छ्री, कन्यादूषकः षण्ढः, ईर्ष्यालुर् मशकः, पित्रा विवदमानो ऽपस्मारी, विद्याविक्रयी पुरुषमृगः, वेदविक्रयी द्वीपी, बहुयाचको जलप्लवः, अयाज्ययाजको वराहः, अनिमन्त्रितभोजी वायसः, यतस्ततो ऽश्नन् मार्जारः, कक्षवनदाही खद्योतः, अदत्तादायी बलीवर्दः, दारकाचार्यो मुखविगन्धः, पर्युषिताशी कृमिः, मत्सरी भ्रमरः, अग्न्युत्सादी मण्डलकुष्ठी, शूद्राचार्यः श्वपाकः, वार्धुषिको ऽङ्गहीनः, अविक्रयविक्रयी गृध्रः, राजाक्रोशको गर्दभः, अनध्याये ऽध्यायी शृगालः, मत्स्यवधे गर्भवासी । इत्यादीन्य् अनूर्ध्वगसमानि स्त्रियो ऽप्य् एतेषु निमित्तेषु तज्जातिषु स्त्रियो जायन्ते । इदानीन्तनपापिनां प्रायश्चित्तोन्मुखत्वार्थं पूर्वजन्मकर्मविपाका दर्शिताः ।
अथ महापातकिनः —
ब्रह्महा सुरापो ब्राह्मणसुवर्णस्तेयी गुरुतल्पग एते महापातकिनः । अब्दं तत्संसर्गी पञ्चमश् च तद्वत् साक्षात् कर्तुर् अनुग्राहक आज्ञापयितोपदेष्टा च । आज्ञापयिताभ्यर्थयिता । उपदेष्टा प्रयोजयिता स्वार्थं परार्थं च ।
(*आक्रुष्टस् ताडितो वापि धनैर् वा विप्रयोजितः ।
यम् उद्दिश्य त्यजेत् प्राणान् ब्रह्महा स निगद्यते ॥ )
[१०१] अनुमन्ता सनिमित्तं भर्त्सनताडनार्थहरणादिना कोपं जनयन् निमित्तकर्ता । तत्कर्तृषु साक्षात् कर्तुर् अनुग्राहकस्याल्पदोषः । तस्मात् प्रयोजकस्य । तस्माच् चोपदेष्टुः । तस्मात् प्रयोजकानुमन्तुः । तस्मान् निमित्तकर्तुर् अल्पदोषः प्रायश्चित्तं च तद्वत् ।
अथानुपातकानि —
तत्र ब्रह्महत्यासमानि यागस्थनृपवैश्ययोर् वधः, शरणागतस्य च । रजस्वलाया गर्भिण्याश् चानत्रिगोत्रायाश् चाविज्ञातगर्भस्य सुहृन्मात्रस्य च वधः । गुरुविप्रविषये ऽज्ञानान् मिथ्याभिशंसनं क्रोधोत्पादनम् । अधिक्षेपो ऽसकृन् मिथ्यानिर्बन्धनश् च । राजगामि पौशुन्यम् । गुरौ महाद्वेषः । नास्तिक्याद् वेदनिन्दाशास्त्राभ्यासाद् वेदनाशश् च ।
अथ सुरापानसमानि —
लशुनविड्वराहच्छत्राकग्रामकुक्कुटपलाण्डुगृञ्जनादीनां मत्या भक्षणम् । गुरुविषये मिथ्याभिशंसनेनायथावादित्वम् अन्यथाकर्तृत्वं च । जैह्म्यं कौटिल्यं च तद्वत् । आत्मोत्कर्षार्थं राजकुलादाव् अनृतोक्तिर् उदक्यावक्त्रास्वादो मित्रवधः कूटसाक्ष्यम् । वेदत्यागो वेदनिन्दा । तयोर् अन्नस्य भुक्तिः ।
अथ सुवर्णस्तेय्समानि —
ब्राह्मणसम्बन्ध्यश्वरत्नमनुष्यस्त्रीभूधेनुहरणम् । निक्षेपस्य चार्वाक् सुवर्णमानात् ।
अथ गुरुतल्पगसमानि —
स्नुषाभगिनीचण्डालीसखिभार्योत्तमजातिकन्यासु रेतःसेकः । तथा पितृष्वसारं मातृष्वसारं मातुलानीं मातुः सपत्नीं स्नुषाभगिन्यौ सकामे आचार्यपत्नीं तनयां स्वसृपितृव्यमातामहमातुलश्रोत्रियर्त्विग्गुरूपाध्यायशिष्यस्त्रियम् उत्तमाम् उदक्यां निक्षिप्तां प्रव्रतिजां व्रतस्थाम् उत्तमां ब्राह्मणीं सगोत्रां शरणागतां मातुः सखीं राजपत्नीं स्तन्यधात्रीम् अन्यमातरं मातृष्वसुः सखीं मातुलानीसखीं गच्छन् गुरुतल्पगवत् सद्यः पतति । तथा पितृमातृयोनिसम्बन्धां गच्छन् । स्तेननास्तिकानिन्दितकर्मत्यागिनिन्दितकर्मात्यागिपतितात्याग्यपतितत्यागिनः पतिताः पातकसंयोजकाश् चेत्य् अनुपातकानि ।
अथोपपातकानि —
तत्र याज्ञवल्क्यः ।
गोवधो व्रात्यता स्तेयम् ऋणानां चानपक्रिया ।
अनाहिताग्नितापण्यविक्रयः परिवेदनम् ॥
[१०२] भृताद् अध्ययनादानं भृतकाध्यापनं तथा ।
पारदार्यं पारिवित्त्यं वार्धुष्यं लवणक्रिया ॥
स्त्रीशूद्रविट्क्षत्रवधो निन्दितार्थोपजीवनम् ।
नास्तिक्यं व्रतलोपश् च सुतानां चैव विक्रयः ॥
धान्यकुप्यपशुस्तेयम् अयाज्यानां च याजनम् ।
पितृमातृसुतत्यागस् तडागारामविक्रयः ॥
कन्यासन्दूषणं चैव [परिवेदकयाजनम् ।
कन्याप्रदानं तस्यैव]1 कौटिल्यं व्रतलोपनम् ॥
आत्मनो ऽर्थे क्रियारम्भो मद्यपस्त्रीनिषेवणम् ।
स्वाध्यायाग्निसुतत्यागो बान्धवत्याग एव च ॥
इन्धनार्थं द्रुमच्छेदः स्त्रीहिंसौषधिजीवनम् ।
हिंस्रयन्त्रविधानं च व्यसनान्य् आत्मविक्रयः ॥
शूद्रप्रैष्यं हीनसख्यं हीनयोनिनिषेवणम् ।
तथैवानाश्रमे वासः परान्नपरिपुष्टता ॥
असच्छ्रास्त्राभिगमनम् आकरेष्व् अधिकारिता ।
भार्याया विक्रयश् चैषाम् एकैकम् उपपातकम् ॥ [य्ध् ३.२३५–४२]
गोवधो गोपिण्डव्यापादनम् । काले ऽनुपनीतत्वं व्रात्यता । ब्राह्मणसुवर्णं तत्समाद् अर्वाक् परस्वहारणं स्तेयम् । गृहीतस्य सुवर्णादेर् अप्रदानम् ऋणानपाकरणं देवर्षिपितॄणाम् ऋणानपाकरणं च । सत्य् अप्य् अधिकारे ऽनाहिताग्नित्वम् । अपण्यस्य लवणादेर् विक्रयः । सोदरे ज्येष्ठे भ्रातरि स्थिते कनिष्ठस्य दाराग्निहोत्रग्रहणं परिवेदनम् । पणपूर्वाध्ययनं भृताध्ययनम् । गुरुतल्पव्यतिरिक्ततत्समस्त्रीगमनं पारदार्यम् । कनिष्ठस्य विवाहे ज्येष्ठस्य विवाहराहित्यं पारिवित्त्यम् । निषिद्धवृद्ध्युपजीवित्वं वार्धुष्यम् । लवणस्योत्पादनं लवणक्रिया । अनात्रेय्या अगर्भिण्या अपि स्त्रिया वधः । शूद्रवधः । अदीक्षितक्षत्रियवधो वैश्यवधश् च । अराजस्थापितार्थोपजीवनम् । परलोकाभावबुद्धिर् नास्तिक्यम् । ब्रह्मचारिणः स्त्रीसंयोगो व्रतलोपे देवताराधनार्थं गृहीतव्रतलोपश् च । अपत्यानां विक्रयो दासीभावार्थं तडागारामोपवनादेश् च विक्रयो द्रव्यग्रहणेन व्रीह्यादिद्रव्याणाम् आहरणं स्तेयम् असारत्रपुसीसादिकुप्यस्य च । गवादेः पशोश् च । जातिदुष्टशूद्रा**[१०३]**दीनां याजनं कर्मदुष्टव्रात्यादीनां च याजनम् । भोजनं चोभयत्र । अपतितपितृमातृसुतानां गृहनिर्गमस् त्यागः । अङ्गुल्यादिना योनिविदारणं कन्यादूषणम् । परिवेदकयाजनं तस्मै कन्याप्रदानं च । अगुरौ कौटिल्यम् । आत्मार्थं पाकादिक्रियारम्भो मद्यपायाः स्त्रियाश् चोपभोगः । कुटुम्बरक्षणार्थम् असच्छास्त्राधिगमार्थं चाधीतस्वाध्यायत्यागः । श्रौतस्मार्ताग्नीनां च संस्काराद्यकरणेन सुतस्य च शक्तौ बान्धवानां च त्यागः । पाकादिदृष्टकार्यार्थम् आर्द्रद्रुमाणां च च्छेदः । भार्यां पण्यभावेन प्रयोज्य तल्लब्धोपजीवनं स्त्रीजीवनं स्त्रीधनोपजीवनं वा । प्राणिवधेन जीवनम् । वश्याद्यर्थौषधिजीवनम् । तिलेक्ष्वादिपिण्डार्थं हिंस्रयन्त्रप्रवर्तनं महायन्त्रप्रवर्तनं वा । व्यसनानि मृगयादीन्य् अष्टादश । आत्मविक्रय आत्मनो भार्यायाश् च विक्रयः । शूद्रप्रैष्यं शूद्रसेवा । हीनेषु मैत्रं हीनसख्यम् । अकृतसवर्णविवाहश् च हीनवर्णविवाहो हीनयोनिनिषेवणं साधारणस्त्रीसम्भोगश् च । अगृहीताश्रमित्वम् अनाश्रमित्वम् । परपाकरतित्वं परान्नपुष्टता । चार्वाकादिग्रन्थाभ्यासो ऽसच्छास्त्राधिगमः । सुवर्णाद्युत्पत्तिस्थानेषु राजाज्ञयाधिकारित्वम् आकरेष्व् अधिकारित्वम् अभिचारश् च । लशुनादेर् मत्या भक्षणम् इत्यादीन्य् उपपातकानि ।
अथ जातिभ्रंशकरसञ्ज्ञकानि —
ब्राह्मणस्य रुजः कृत्यं घ्रातिर् अघ्रेयमद्ययोः ।
जैह्म्यं पुंसि च मैथुन्यं जातिभ्रंशकरं हि तत् ॥ [म्ध् ११.६८]
अथ सङ्करीकरणानि —
खरोष्ट्रमृगहस्त्यजाविमीनाहिमहिषाणाम् अन्येषां ग्राम्यारण्यानां पशूनां वधः ।
अथापात्रीकरणानि —
निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् । कुसीदजीवनम् असत्यभाषणं च ।
[म्ध् ११.७०]
अथ मलिनीकरणानि —
बहुकृमिकीटजलस्थजलजवयोहत्या । मद्यानुगतभोजनम् । बहुफलेन्धनपुष्पस्तेयम् अधैर्यं च ।
अतो ऽन्यानि पापानि प्रकीर्णसञ्ज्ञानि ।
अथ महापातकप्रायश्चित्तम् —
अज्ञानाद् ब्राह्मणं हत्वा वालवल्कलचीरादिवासा जटी वापितो वा स्वेन हतब्राह्मणस्य शिरःकपालं चिह्नार्थं तदभावे ऽन्यस्य वा तदन्यद् एव शिरःकपालं ध्वजदण्डौ धारयन् वन्यैर् अन्नाद्यैर् एकवारं पात्रमात्रादिषु मिताशी संयतात्मा त्रिकालस्नायी सन्ध्याम् [१०४] उपासनं च विधिवन् मन्त्रपूर्वं च कुर्वन्न् अध्ययनाध्यापनव्याख्याप्रवचन-याजनदानप्रतिग्रहादि वर्जयन् ब्रह्मचारी स्त्रीमधुमांसगन्धमाल्यादि दिवानिद्राञ्जनाभ्यञ्जनोपानच्छत्रकामक्रोधमोहहर्षशोकविषादादि नृत्यगीतपरिवादादि वर्जयन् सर्वभूतहित आर्यभुवं यथोपक्रमस्थानासनाभ्यां विहरंस् तीर्थान्य् अनुवसन् वने वा पुण्याश्रमे वा कुटीं कृत्वा निवसन् ग्रामान्ते गोव्रजे वा वृक्षमूले वा द्वादशाब्दम् एवं व्रतं चरित्वा शुद्धः । यदि वन्यैर् न जीवति तदा भिक्षार्थं ग्रामं प्रविशेत् । तत्र लोहितकेन मृन्मयखण्डेन शरावेण वा गृहद्वारि स्थित्वा ब्रह्महास्मीति स्वपापं प्रख्याप्य सप्तागाराणि मृष्टामृष्टाविवेकेन चातुर्वर्ण्यं वा भक्ष्यं याचयित्वैककालम् एव मिताशी द्वादशाब्दं व्रतं चरित्वा शुद्धः । यद् वा द्वादशाब्दं नियतः प्राजापत्यं कृच्छ्रं निरन्तरम् आवर्त्य षष्ट्यधिकं त्रिशतं चरित्वा शुध्यति । द्वितीये ब्रह्मवधे द्विगुणम् । तृतीये त्रिगुणम् । चतुर्थे न निष्कृतिः । यद् वा चतुर्थादिषु प्रतिपापेषु गोसहस्रम् । निर्धनो ऽग्निं प्रविशेत् । यद् वा पूर्वोक्तं भिक्षाचर्याकृच्छ्राचरणादि व्रतं यावन् मरणं कुर्यात् तेन शुध्यति । (* तत्र बुद्धिपूर्वं साक्षाद् अकर्तुर् बुद्धिपूर्वकम् अनुग्राहकप्रयोजकानुमन्तृनिमित्तकर्तृप्रोत्साहकादीनां ब्रह्महत्यासमानम् अर्धम् अर्धं तस्याप्य् अर्धम् इत्याद्य् ऊह्यम् । यद् वा बुद्धिपूर्वम् अबुद्धिपूर्वं वा साक्षात् कर्तुर् अनुग्राहकः पादोनं चरित्वा शुध्यति । प्रयोजकस्य तदर्धम् अनुमन्ता सार्धं पादं चरेत् । निमित्तकर्तुः पादम् । प्रोत्साहकादीनां तारतम्यविभागात् कल्प्यम् । यदि निर्निमित्तं भर्त्सको गुणवान् भर्स्त्यो निर्गुणो मृतस् तदा त्व् एकाब्दं व्रतं चरेत् । तदापि मुख्यकर्तॄणां ये त्व् अनुग्राहकादयस् तेषां तारतम्यात् कल्प्यम् । तथा दण्डो ऽपि प्रोत्साहकाश्रयदानुमोदकादीनां यथायोगं कल्प्यः । ऊनषोडशाब्दबालानाम् अशीत्यधिकवृद्धानां च स्त्रीणां रोगिणां च सर्वप्रायश्चित्तम् । यद् वा द्वादशाब्दाद् अर्वाग् अशीतेर् ऊर्ध्वं तु पादम् एव । ऊनैकादशाब्दान्तानां पुंसाम् अर्धम् । स्त्रीणां पादमात्रम् एव । अनुपनीतानां बालानां तु पादम् एव प्रायश्चित्तं पिता भ्राता तत्समो ऽन्यो वा सुहृत् सर्वं कल्पोक्तप्रायश्चित्तं चरेत् । ततः परम् आ षोडशाब्दाद् अन्ये वा चरेयुः *) । ततः परम् अशीतिवर्षान्तं स्वयम् एवाचरेयुः । गुरुप्रायश्चित्ते प्रायश्चित्तान्तराभावे प्रसङ्गाद् अनुष्ठानसिद्धिः । सोमयागस्थब्राह्मणवधे द्विगुणं व्रतम् । तदशक्तौ गवां सहस्रद्वयं विधिवत् [१०५] पात्रेभ्यो दद्यात् । आचार्यवधे द्वादशाब्दं व्रतं गोसहस्रं वा । उपाध्याये ऽङ्गवक्तरि चानूचानऋत्विग्वधे द्वादशाब्दव्रताद् ऊर्ध्वं गोसहस्रं पादोनम् अर्धपादं चरेद् इत्याद्य् ऊह्यं तारतम्यकल्पनया । तथा ऋत्विग्गुरुवधे यावज्जीवं व्रतं चरेत् । द्विगुणं त्रिगुणं चतुर्गुणं वा । तदशक्तौ व्रतं द्वादशाब्दं कृत्वा गोसहस्रं च कुर्यात् । अथ यदि द्वादशाब्दं चरन् मध्ये चोरव्याधैर् हन्यमानम् एकं ब्राह्मणं गोद्वादशकं वात्मानम् अन्तरा कृत्वा रक्षेत् । असाव् असम्पूर्णद्वादशाब्दो ऽपि तदैव शुध्यति । यदि तत्र प्रवृत्तस् तद् अकृत्वैव म्रियेत तथापि तदैव शुध्येत् । तथा पराश्वमेधादिमहायज्ञावभृथे यजमानसन्निधौ वा स्वपापम् ऋत्विजां प्रख्याप्य तैर् अनुज्ञातः स्नात्वा तदैव शुध्यति । यद् वा व्रतमध्ये कुष्ठादिदीर्घतीव्रव्याधिग्रस्तं ब्राह्मणं गां चौषधैः संरक्ष्य तदैव शुध्येत् । यद् वा व्रतमध्ये विप्रस्य भूधेन्वादिसर्वस्वं चौरैर् हृतं सर्वं दत्वा शुध्येत् । तत्र प्रवृत्तस् तैर् हतो बहुक्षतो मृतकल्पो जीवन् वापि तदैव शुध्येत् । ज्ञात्वा ब्राह्मणवधे चतुर्वर्णा भृगुपतनम् अग्निपतनं वा कुर्युः । तत्र ये त्रैवर्णिका इष्टप्रथमयज्ञास् ते ऽग्निपतनं स्वर्जितं गोसवम् अभिजिद्विश्वजितौ त्रिवृदग्निष्टुतं वा क्रमेणाल्पदक्षिणं कुर्युः । क्षत्रियः सार्वभौमश् चेद् अश्वमेधं कुर्यात् । यद्य् अज्ञानात् त्रैवर्णिकाः साग्निका महापापं कुर्युस् तर्हि तत्पुत्रादयो ह्य् आ दोषक्षयात् तदग्नीन् रक्षयेयुः । ज्ञानाच् चेद् गृह्याग्नीन् वैतानिकान् अप्सु प्रक्षिपेत् ततो ऽग्निपतनादि प्रायश्चित्तं कुर्वतां मरणे चैवं सपरिच्छदानाम् । विद्वांश् चेन् निर्धनो गुणी हन्ता हतो निर्गुणो ऽरण्ये नियतस् त्रिवारं वेदं जपेत् । शक्तश् चेद् वेदं जपन् योजनशतं व्रजेत् । अविद्वान् निर्धनो गुणी प्लाक्षप्रस्रवणादौ पश्चिमोदधेः प्रतिस्रोतः सरस्वतीं हविष्यमिताशी गच्छेत् । निर्गुणो धनी हन्ता चेत् पात्रे गृहभूम्यादि जीवनसमर्थं दद्यात् । गृहं वा सोपस्करं जीवनसमर्थम् अनपत्यश् चेत् सर्वस्वम् । एतत्त्रये ऽन्यतमं गृहीत्वाहिताग्निर् वैश्वानरेष्टिम् अनाहिताग्निर् वैश्वानरस्थालीपाकं कुर्यात् । हन्ता मूर्खो निर्धनो विप्रमात्रवधे ऽधःशायी त्रिषवणी स्वकर्म वेदयन् भैक्षाशी महानदीसङ्गमादिपुण्याश्रमगोष्ठपर्वतप्रस्रवणतपोवनविहारी स्थाने वीरासनी वत्सरं कृत्स्नं चरित्वा रत्नहेमगोधान्यतिलदधिसर्पींषि विप्रेभ्यो दद्यात् । मनसा ब्रह्मवध्यव्यवसायं कृत्वा स्वयम् एवोपरतो द्वादशाहं जलाशी द्वादशाहम् उपवसेद् इत्यादि । अन्यत्र समेषु विकल्पो विषमेषु व्यवस्था कल्प्या । उक्तानि द्वादशाब्दादीनि ब्राह्मणस्यैव । द्विगुणं क्षत्रियस्य [१०६] त्रिगुणं वैश्यस्य । शूद्रादेश् चतुर्गुणम् । तत्रापि हन्तृहन्यमानगुणविशेषेण प्रायश्चित्तविशेषो ज्ञेयः । एवं क्षत्रियवैश्यादाव् अपि । हीनोत्कृष्टवधे प्रायश्चित्ततारतम्यं दण्डगौरवात् कल्प्यम् । अनुलोमप्रतिलोमजानां तु दण्डवत् प्रायश्चितम् । गृहस्थाद् द्विगुणं ब्रह्मचारिणो वानप्रस्थस्य त्रिगुणं यतेश् चतुर्गुणम् । ब्रह्मचारिणो द्वैगुण्यं षोडशाब्दाद् ऊर्ध्वम् एव । सर्वत्र प्रक्रान्तप्रायश्चित्तस्य मध्ये मरणे तदैव शुद्धिः ।
अथ निदेशः —
सोमयागस्थक्षत्रवैश्यवधे ब्रह्महत्याव्रतं द्वादशाब्दं चरेत् । ज्ञानाद् द्वैगुण्यम् एव न प्राणान्तिकम् । तत्र च जातिशक्तिगुणाद्यपेक्षया व्यवस्था । सर्वत्र स्त्रीनपुंसकत्वेनाविज्ञातगर्भस्य वधे, ऋतुमत्य् आत्रेय्य् अत्रिगोत्रा चात्रेयी तस्याश् च वधे पुरुषहत्यावद् व्यवहारे साक्षात् सत्योक्तौ वर्णानां वधप्राप्तौ साक्षित्वं गुरौ क्रोधावेशी च ब्राह्मणनिक्षेपं हृत्वाहिताग्निब्राह्मणभार्यां सगुणां सोमयागस्य निघातको ब्रह्महत्याव्रतं चरेत् । आतिदेशिकेषु पादोनं प्रायश्चित्तम् । प्रायश्चित्तस्यातिदेशो न पातित्यस्य च । ब्राह्मणादिवधार्थं शस्त्रप्रहारे केनचित् प्रतिबन्धेनासौ न मृतस् तथापि ब्रह्महत्यादिव्रतं पादोनं चरेद् आगमने ऽर्धम् । प्रयत्ने पादः । ब्रह्महत्यासमानार्थं प्रायश्चित्तं सर्वत्र साक्षात् कर्तुर् अनुग्राहकस्य पादोनं प्रयोजकस्यार्धम् अनुमन्तुः सार्धं पादं निमित्तकर्तुः पादं प्रोत्साहकादीनां च तारतम्यं विद्यात् । सर्वत्र बालवृद्धस्त्रियो रोगिणश् च साक्षात् कर्तृत्वे ऽपि प्रायश्चित्तार्धम् अर्हन्ति । अशीतिवर्षाद् ऊर्ध्वं वृद्धः षोडशाब्दात् प्राग् बालः । अनुपनीतानां बालानां कन्यानां च पादं प्रायश्चित्तम् । तच् च पिता भ्रातान्यो वा सुहृच् चरेत् । ततो द्वादशाब्दान्त एवं चारयेयुः । ऊर्ध्वं स्वयम् एव चरेयुः । सर्वत्र जातिशक्तिगुणाद्यपेक्षया व्यवस्था ।
इति स्मृत्यर्थसारे ब्रह्महत्याप्रायश्चित्तम् ।
** अथ सुरापानप्रायश्चित्तम् —**
तत्र मुख्यसुरा पैष्ठी गौडी माध्वी च । तन्मध्ये सुरां त्रैवर्णिकस् तथा शूद्रा स्त्री च चातुर्वर्ण्यविवाह उत्पत्त्यादि न पिबेत् । यदि सुरां ज्ञानात् सकृत् पिबेत् सुराम्बुगोमूत्रक्षीर-घृतानाम् अन्यतमम् अग्निसन्निभं कृत्वार्द्रवासा लौहेन पात्रेणायसेन ताम्रेण वा पीत्वा मरणाच् छुध्येत् । अज्ञानाज् जलबुद्ध्या सुरापाने तालुमात्रसंयोगे जटी वालचीरादिवासा ब्रह्महत्याव्रतं तच्छिह्नवर्जं द्वादशाब्दं सम्पूर्णं कुर्यान् न [१०७] पादोनम् । सर्वत्र स्त्रीबालवृद्धानाम् अर्धं षडब्दम् । अनुपनीतानां कन्यानां च पादं त्र्यब्दम् एव कुर्यात् । ज्ञानाच् चेद् द्विगुणम् । यदि पीत्वा छर्देद् वा त्र्यब्दं रात्रौ सकृत् पिण्याकम् एवाद्यान् नाश्नीयात् । सुरापाने तावन्मात्रसंयोगे वर्षं वा वालवासा जटी ध्वजी तथा कुर्यात् । सुरैकौषधरोगार्थे पाने त्व् अज्ञाने कृच्छ्राब्दपादं चान्द्रायणं वा कृत्वा पुनर् उपनयनं च कार्यम् । बाल्ये तु तच् च माता भ्राता पिता वा कुर्यात् । ज्ञाने तु तप्तकृच्छ्रं पराकं चान्द्रायणं च क्रमात् कुर्यात् । सुरासंस्पृष्टशुष्करसान्नस्य मूत्रविड्रेतःशवादीनां वा ज्ञानाद् भक्षणे कार्यं पुनरुपनयनम् । शुष्कसुराभाण्डोदकपाने छर्दनम् उपवासो घृतप्राशनं च । तज् जलं पर्युषितं पीत्वा शङ्खपुष्पीविपक्वक्षीरं त्र्यहं पिबेत् । अज्ञानाभ्यासे पञ्चरात्रं पिबेत् । ज्ञानात् तज्जलपाने सप्तरात्रं पिबेत् । ज्ञानाभ्यासे तु द्वादशरात्रं क्षीरेण ब्राह्मीसुवर्चलां पिबेत् । सुरापस्य मुखगन्धस्यामत्या घ्राणे सोमपश् चेद् अप्सु त्रीन् प्राणायामान् कृत्वा घृतं प्राश्नीयात् । मत्या चेद् द्विगुणं सर्वत्र । असोमपश् चेद् अनप्सु प्राणायामान् कृत्वोक्तं प्राश्नीयात् कुशोदकं चाहुः । साक्षात् सुरागन्धघ्रातौ तु जातिभ्रंशकरेषूक्तं सान्तपनम् । मत्या चेत् कार्यं ज्ञेयम् इत्यादि ।
इति स्मृत्यर्थसारे सुरापानप्रायश्चित्तम् ।
** अथ मद्यपानप्रायश्चित्तम् —**
तत्र गौडी माध्वी च सुरा मद्यम् । तालं पानसं द्राक्षं माधुकं खार्जूरं सैरम् आरिष्टं मैरेयं नालिकेरजम् एतान्य् एकादशमद्यानि विद्यात् । एतानि मद्यान्य् उत्पत्त्यादि ब्राह्मणानां तत्स्त्रीणां चानुपनीतानां कन्यायाश् चापेयानि । क्षत्रवैश्ययोर् न दुष्यति मद्यम् । अज्ञानाज् जलादिबुद्ध्या तालादिमद्यपाने तप्तकृच्छ्रं पुनर् उपनयनं च । मूत्रविड्रेतःस्रावादिभक्ष्ये द्विजानां चैवम् । अज्ञानाद् गौडीमाध्व्योर् ज्ञानात् तालादिमद्यपाने च कृच्छ्रातिकृच्छ्रचान्द्रायणानि कृत्वा पुनरुपनयनं घृतप्राशनं च । गौडीमाध्व्योर् ज्ञानात् पाने तु पिण्याकेन कणैर् वा त्रैवार्षिकम् । अभ्यासे षडब्दम् । अत्यन्ताभ्यासे निरन्तराभ्यासे च द्वादशाब्दम् । बहुकालाभ्यासे चाग्निवर्णं मद्यं पीत्वा मृतः शुध्येत् । तालादिषु तदर्धं कल्प्यम् । सर्वत्र स्त्रीबालवृद्धादीनाम् अर्धम् । अनुपनीतस्य कन्यायाश् च पादं माता [१०८] पिता भ्राता वा कुर्यात् । तालादिमद्यापेक्षया लेह्याभक्ष्यमूत्रविड्रेतः-स्रावादीनां मुखमात्रप्रवेशे क्षीरौदुम्बरबिल्वपालाशकुशोदकं षड्रात्रं पिबेत् । गौडीमाध्व्योस् तु द्विगुणम् । अज्ञानाद् गौडीमाध्वीमद्यवासितशुष्कभाण्डाम्बुपाने कुशमूलविपक्वं क्षीरं त्र्यहं पिबेत् । ज्ञानतो ऽभ्यासे तु क्षीरौदुम्बरबिल्वपालाशैस् त्र्यहम् । अज्ञानाभ्यासे शङ्खपुष्पीघृतं क्षीरं च पञ्चरात्रं पिबेत् । ज्ञानतो ऽभ्यासे तु गोमूत्रयावकं सप्तरात्रं पिबेत् । अत्यन्ताभ्यासे तु ब्राह्मीं सुवर्चलां पयसा द्वादशरात्रम् । तालादिमद्यभाण्डोदकपाने त्व् अर्धं कल्प्यम् । सर्वत्र स्त्रीबालादीनां योग्यं कल्प्यम् ।
इति स्मृत्यर्थसारे मद्यपानप्रायश्चित्तम् ।
** अथ सुवर्णस्तेयप्रायश्चित्तम् उच्यते —**
स्तेयशब्देन समक्षं परोक्षं वा बलाच् चौर्येण वा क्रयादिस्वत्वहेतुत्वं विना ग्रहणम् उच्यते । तत्रादौ सुवर्णप्रमाणं निरूप्यते । गवाक्षगतसूर्यरश्मिमध्ये दृश्यमानं त्रसरेणुप्रमाणं रज इत्य् आचक्षते । त्रसरेण्वष्टकं तु लिक्षा । लिक्षात्रयं राजसर्षपः । राजसर्षपत्रयं गौरसर्षपः । गौरसर्षपषट्कं यवः । यवत्रयं कृष्णलः । कृष्णलपञ्चकं माषः । षोडशमाषकं सुवर्णम् । अमत्या ब्राह्मणस्य सुवर्णं हृत्वा द्वादश वर्षाणि ब्रह्महत्याव्रतं शवशिरोध्वजतत्कपालधारणरहितं चरेत् । यस्य कस्यापि हिरण्यं यः कश्चिद् धरति स तस्यैकादशगुणं दत्वा प्रायश्चित्तं समाचरेत् । गुरूणां यज्ञकर्तॄणां वा श्रोत्रियाणां वा धार्मिकब्राह्मणानां वा सुवर्णं हृत्वात्मनो मुण्डनं कृत्वात्मशरीरं घृतेनाभ्यज्य कारीषाच्छादितो दग्धः शुध्येत् । निर्गुणविप्रसुवर्णहरणे नवाब्दम् ईदृशम् एव चरेत् । क्षामबहुकुटुम्बरक्षणार्थं हरणे कृच्छ्रं षडब्दं विश्वजिदादिकं क्रतुं वा कुर्यात् । मत्या यः कश्चिद् ब्राह्मणसुवर्णहार्य् एकसुवर्णम् आरभ्य स्वपापं भूपाय निवेद्यायसं दण्डं खादिरं वा प्रदाय मुक्तकेशो भृशं राज्ञा दण्डेन ताडितो मृतो वा जीवन् वा शुध्येत् । स्वशक्त्याताडने राज्ञस् तु दोषः स्यात् । सुवर्णस्तेयी ब्राह्मणो व्रतम् एव चरेन् न दण्डेनात्मानं घातयेत् । न च विप्रं राजा हन्यात् । हनने ब्रह्महत्या भवत्य् एव । अग्निहोत्री धार्मिकश् च विद्वान् क्षत्रियो ब्राह्मणसुवर्णहार्य् अश्वमेधेन शुध्यति । गोसवं यज्ञं वा कृत्वा शुध्येत् । आत्मसम्मिते हेम वा दत्वा शुध्येत् । तावद्धनाभावे तपस्य् अशक्तौ च विप्रस्य सकुटुम्बस्य [१०९] रक्षणपर्याप्तं धनं दद्यात् । अब्राह्मणश् चेद् ब्राह्मणसुवर्णस्तेयी दण्डताडनेनात्ममरणम् अनिच्छन् सुरापानव्रतं कृत्वा शुध्येत् । यदा त्व् अपहारानन्तरं जातानुतापः प्रत्यर्पयति त्यजति वा तत्रापस्तम्बोक्तं चतुर्थकालमिताशनं त्र्यब्दम् । मनसा सुवर्णस्तेये प्रवृत्तः स्वयम् एवोपरतश् चेद् द्वादशाहं वायुभक्षः शुध्येत् । सुवर्णस्तेयसमेष्व् अश्वरत्नमनुष्यस्त्रीभूधेनु-हरणादिषु सुवर्णस्तेयप्रायश्चित्तार्धं कार्यम् । त्रसरेणुप्रमाणस्तेय एकप्राणायामः । लिक्षाप्रमाणहेमस्तेये त्रयः । राजसर्षपप्रमाणहेमस्तेये चत्वारः षड् वा प्राणायामाः । गौरसर्षपप्रमाणस्तेये ऽष्टसहस्रगायत्रीजपः । यवप्रमाणहेमस्तेये प्रातर् आरभ्य सायङ्कालान्तं गायत्रीजपः । कृष्णलप्रमाणहेमस्तेये सान्तपनम् । माषप्रमाणहेमस्तेये गोमूत्रपक्वयवभुङ् मासत्रयेण शुध्येत् । सुवर्णप्रमाणात् किञ्चिन्न्यूनहेमस्तेये गोमूत्रपक्वयवभुग् अब्देन शुध्येत् । सम्पूर्णप्रमाणब्राह्मणहेमस्तेये द्वादशाब्दव्रतादिकं कार्यम् इत्य् उक्तम् । सुवर्णप्रमाणन्यूनरजतस्तेये सान्तपनम् । निष्कचतुष्कप्रमाणाद् ऊर्ध्वं दशनिष्कान्तरजतस्तेये चान्द्रायणं कार्यम् । दशनिष्कप्रमाणाद् ऊर्ध्वं शतनिष्कान्तरजतस्तेये चान्द्रद्वयम् । शतनिष्कप्रमाणाद् ऊर्ध्वं सहस्रनिष्कान्तरजतस्तेये चान्द्रत्रयम् । सहस्रनिष्कप्रमाणाद् अधिकरजतस्तेये पादोनं ब्रह्महत्याव्रतं चरेत् । नागराङ्गायसताम्रपित्तलकांस्यानां सहस्रनिष्कप्रमाणस्तेये पराकम् । एषां निष्कसहस्रादिमूल्यानां स्तेये ब्रह्महत्याप्रायश्चित्तं द्वादशाब्दव्रतादिकम् । चतुर्निष्कमूल्यरत्नस्तेये सान्तपनम् । चतुर्निष्कमूल्याद् ऊर्ध्वं दशनिष्कमूल्यान्तरत्नस्तेये चान्द्रम् । दशनिष्काद् ऊर्ध्वं शतनिष्कमूल्यान्तरत्नस्तेये चान्द्रद्वयम् । शतनिष्कमूल्याद् ऊर्ध्वं सहस्रनिष्कमूल्यान्तरत्नस्तेये चान्द्रत्रयम् । रत्नसहस्रनिष्कमूल्याद् अधिकरत्नस्तेये ब्रह्महत्याप्रायश्चित्तं पादोनं नवाब्दादिकम् । अब्राह्मणस्य निक्षेपं सुवर्णं हृत्वा षडब्दं व्रतं चरेत् । नरभूमितुरङ्गहरणे च षडब्दकम् ।
इति स्मृत्यर्थसारे सुवर्णस्तेयप्रायश्चित्तम् ।
** अथ गुरुतल्पप्रायश्चित्तम् —**
जनको गुरुस् तत्तल्पस् तस्य भार्योच्यते । अज्ञानेन मातरं गत्वा मातृसपत्नीं सवर्णाम् उत्तमवर्णां वा तया प्रोत्साहितो ज्ञानाद् गत्वा लोहस्त्रियं सुतप्ताम् आलिङ्ग्य मृतः शुद्धः । तप्ते ऽयःशयने सुप्त्वा वा मृतः शुद्धः । उभयोः प्रोत्साहनात् तु [११०] तप्तायःशयने सुप्तस्यालिङ्गने शुद्धिः । स्वयं प्रोत्साहितश् चेत् स्वस्य गुह्यत्रिकं स्वहस्तच्छिन्नं स्वाञ्जलिना धृत्वा नैरृतीं दिशं गच्छन्न् अग्रतः स्थितम् अविचारयन् पृष्ठतो ऽपश्यन् प्राणान्तं शुध्येत् । अमत्या सवर्णोत्तमस्त्रीगमने द्वादशाब्दं ब्रह्महत्याव्रतम् । अमत्याभ्यासे घृताक्तो मुण्डितः करीषराशिमध्यस्थः पादादिसर्वाङ्गदाहान् मृतः सुध्येत् । जनन्यां मत्या चैवम् । जनन्यां मत्या प्रवृत्तौ रेतःसेकात् प्राङ् निवृत्तस्य द्वादशाब्दम् । अमत्या षडब्दम् । मत्या मातुः सपत्नीं सर्वर्णां व्यभिचारिणीं गत्वा वेदजपसहितं चान्द्रत्रयं कुर्यात् । अमत्याब्दं कृच्छ्रम् । क्षत्रियाम् अपि पितृभार्यां मत्या विप्रः सकृद् गत्वा त्रैवार्षिकम् अष्टकालाशनम् । मत्याभ्यासे लिङ्गं विना वृषणच्छेदाच् छुद्धिः । क्षत्रियायां मत्या प्रवृत्तस्य रेतःसेकात् प्राङ् निवृत्तौ तया प्रोत्साहितस्य त्रैमासिकं कार्यम् । उभयप्रोत्साहितस्यातिकृच्छ्रं त्रैमासिकम् । स्वेन प्रोत्साहितायां कृच्छ्रातिकृच्छ्रं त्रैमासिकम् । तत्रैवामत्या प्रवृत्तस्य रेतःसेकात् प्राक् प्रवृत्तस्य [निवृत्तस्य?] योषिदुभयात्मप्रोत्साहे तु क्रमात् कृच्छ्रातिकृच्छ्रचान्द्रायणानि । वैश्यायां तु गुरुपत्न्यां मत्या सकृद्गमने षडब्दं चरेत् । मत्याभ्यासे लिङ्गार्धच्छेदने शुद्धिः । अमत्या सकृद्गमने त्र्यब्दम् । अत्यन्ताभ्यासे यावज्जीवं व्रती । वैश्यायां मत्या प्रवृत्तस्य रेतःसेकात् पूर्वं निवृत्तस्योभयात्मयोषित्प्रोत्साहेषु क्रमात् तप्तकृच्छ्रपराकसान्तपनानि । अमत्या प्रवृत्तस्य योषिदुभ्यात्मप्रोत्साहेषु क्रमात् पञ्चरात्रसप्तरात्राष्टरात्राणि । शूद्रां गुरुभार्यां मत्या विप्रः सकृद् गत्वा त्र्यब्दं चरेत् । मत्याभ्यासे द्वादशाब्दं कार्यम् । अमत्याभ्यासे निरन्तरं चान्द्रायणम् । शुद्रायां मत्या प्रवृत्तस्य रेतःसेकात् प्राङ् निवृत्तस्य योषिदुभयात्मप्रोत्साहेषु क्रमाद् अतिकृच्छ्रपराकाः । तत्रैवामत्या प्रवृत्तस्य कायसान्तपनसप्तरात्रोपवासाः । एवं क्षत्रियापुत्रस्य वैश्यायां मातरि मत्या सकृद्गमनादिषु नवाब्दादीनि योज्यानि । शूद्रायां च नवाब्दादीनि योज्यानि । वैश्यापुत्रस्य च शूद्रायां नवाब्दादीनि योज्यानि । सर्वत्र गमनं चरमधातुविसर्गान्तम् उच्यते । सर्वत्र रेतःसेकात् प्राङ् निवृत्तौ मरणान्तेषु द्वादशाब्दम् । अन्यत्रोक्तार्धं कार्यम् । पुरुषवत् स्त्रीणां महापातकानि सन्त्य् एव । अतस् तासां मत्या [१११] प्रवृत्तौ मरणान्तिकं प्रायश्चित्तम् । अमत्या प्रवृत्तौ द्वादशाब्दादिष्व् एव सर्वत्रार्धकॢप्त्या योग्यं पुरुषोक्तवत् कार्यम् ।
जात्युक्तं पारदार्यं च कन्यादूषणम् एव च ।
साधारणं स्त्रियां नास्ति गुरुतल्पत्वम् एव च ॥
अथातिपातकानुपपातकेषूच्यन्ते —
मत्या समानगोत्रां समानप्रवराम् ऊढां गत्वा गुरुतल्पव्रताच् छुध्येत् । तज्जो गर्भश् चाण्डालः स्यात् । सा पत्नी सम्भोगे त्याज्या रक्ष्यैव । अमत्योढां गत्वा त्रिभिश् चान्द्रैः शुध्येत् । गर्भः कश्यपः स्यात् । सवर्णकन्यां मित्रस्त्रियं भगिनीं सगोत्रां चाण्डालीं मागङ्गीं वात्मजस्त्रियं सकृद् अज्ञानाद् गत्वा चान्द्रद्वयाच् छुध्येत् । ज्ञानात् सकृद्गमने कृच्छ्राब्दाच् छुद्धिः । आसाम् अन्यतमाम् एकस्यां रात्रौ बहुवारं गत्वा ब्रह्महत्याव्रतं त्रैवार्षिकं चरेत् । आसाम् अन्यतमाम् अनेकदिनेषु गत्वा ब्रह्महत्याव्रतं चरेत् । आसाम् एकां बुद्धिपूर्वं बहुदिनेषु गत्वाग्निं प्रविश्य मृतः शुध्येत् । मातृष्वसारं पितृष्वसारम् आचर्यपुत्रीम् आचार्यभार्याम् अनुजपत्नीं चात्मसुतां मातुलानीम् अज्ञानात् सकृद् गत्वाब्दकृच्छ्रेण शुध्येत् । आसाम् एकाम् एकस्मिन् दिने बहुवारं गत्वा त्रैवार्षिकं ब्रह्महत्याव्रतं चरेत् । आसाम् एकाम् बहुदिनेष्व् अनुबन्धेन गत्वा ब्रह्महत्याप्रायश्चित्तं कुर्यात् । आसाम् एकाम् एकस्मिन् दिने ऽसकृज् ज्ञानाद् गत्वा षडब्दं ब्रह्महत्याव्रतं चरेत् । आसाम् एकां बहुदिनेषु बुद्धिपूर्वं गत्वाग्निं प्रविश्य मृतः शुध्येत् । चाण्डालीं पुल्कसीं व्याधस्त्रियं भगिनीं स्नुषां मातुः स्वसारं च सखीं विश्वस्तां प्रव्राजितां मातुलानीं शरणागताम् अन्तःपुरस्त्रियं च गत्वा शिष्यपत्नीं पतितां सगोत्रां च गत्वा रेतोनिःसरणात् पूर्वं निवृत्तस्य मासोपवासेन शुद्धिश् चान्द्रेण वा । एतासु व्यभिचारिणीं यदि सकृद् गच्छेच् चान्द्रेण शुध्येत् । अज्ञातां स्त्रियं सकृद् गत्वा तप्तकृच्छ्रेण शुध्येत् ।
इति स्मृत्यर्थसारे गुरुतल्पगप्रायश्चित्त्म् ।
** अथ महापातकिसंसर्गिप्रायश्चित्तम् —**
एतैश् चतुर्भिर् महापातकिभिर् अध्ययनाध्यापनविवाहयज्ञयाजनसहवाससहभोजनानि कृत्वा सद्यः पातित्य्म् आप्नोति । एतैर् एकासनस्थितिम् एकपङ्क्तिभोजनम् एकशयने स्वापम् एकवाहनगतिं चैकवत्सरं कृत्वा पातित्यम् आप्नोति । येन महापातकिना यः संसर्गी पतितः स तस्योक्तव्रताच् छुधेत् । अस्य मरणापादकप्रायश्चित्तस्थाने ब्रह्महत्याव्रतं द्वादशाब्दिकं स्यात् । अज्ञानाद् यस्य येन संसर्गो जातस् तस्य तदुक्तव्रतार्धाच् छुद्धिः । अज्ञानाच् चतुर्भिर् महापातकिभिः पञ्चरात्रं संसर्गे त्रिरा**[११२]**त्रं दशरात्रसंसर्गे कायकृच्छ्रादि । द्वादशरात्रं संसर्गे सान्तपनम् । पक्षसंसर्गे दशोपवासाः । माससंसर्गे पराकाच् छुद्धिः । त्रिमाससंसर्गे चान्द्रम् । षण्माससंसर्गे चान्द्रद्वयम् । किञ्चिन्न्यूनाब्दं नैरन्तर्यसंसर्गे षण्मासं कृच्छ्राद् वा । किञ्चिन्न्यूनं संवत्सरं संसर्गे चान्द्रायणाब्दम् । एतैश् चतुर्भिः संसर्गे स्त्रीबालवृद्धातुरास् तत्तदुक्तव्रतार्धं कुर्युः । महापातकिसंसर्गिसंसर्गे तु तत्संसर्गिव्रतस्यार्धं कुर्यात् ।
इति स्मृत्यर्थसारे महापातकिसंसर्गिप्रायश्चित्तं समाप्तम् ।
अथोपपातकप्रायश्चित्तान्य् उच्यन्ते —
अज्ञानाद् ब्राह्मणमात्रस्य गोमात्रं ब्राह्मणो हत्वा त्रिरात्रम् उपोष्य वृषभैकादशगा दत्वा शुध्यति द्वादशप्रजापत्यैर् वा । प्रत्याम्नायद्वादशधेनूर् वा दत्वा शुध्यति । ज्ञानाच् चेद् गोहितो गोर् गमनस्थानासनशयनेषु स्वयं च तथा कुर्यात् । भयव्याधिक्षुत्पिपासाशीतातपादिभ्यो रक्षन्न् आत्मीयपरकीयभक्ष्यपानेष्व् अवारयन्न् अवेदयन् रात्रौ गां नत्वा वीरासनो वनशाकाद्याहारो मासत्रयान्ते वृषभैकादश गा दद्यात् । अशक्तः सर्वस्वं दत्वा शुध्यति । प्राजापत्यप्रत्याम्नायपक्षे त्व् अज्ञानपक्षाद् द्विगुणम् । अज्ञानात् क्षत्रियस्य गोमात्रं हत्वा गोहितो गोऽनुगामी गोष्ठशायी त्रिषवणस्नायी संयतः पञ्चगव्यम् एव पिबन् मासान्ते धेनुं दत्वा शुध्यति षट्प्राजापत्यैर् वा । प्रत्याम्नाये षड्धेनवो देयाः । ज्ञानाच् चेच् चतुर्थकाले हविष्यम् अक्षारलवणं मितम् अश्नन् गोमूत्रस्नायी द्वौ मासौ नीत्वा शुध्येत् । प्राजापत्यं प्रत्याम्नाये द्विगुणम् । अज्ञानाद् वैश्यस्य गोमात्रं हत्वा गोहितादिकृद् अतिकृच्छ्रं निरन्तरं चरन् मासान्ते धेनुं दत्वा शुध्यति पञ्चप्राजापत्यैर् वा प्रत्याम्नाये धेनुं दद्यात् । ज्ञानाच् चेद् वैश्यस्य गोमात्रं हत्वा तद्द्विगुणं सर्वं चरेत् । अज्ञानाच् छूद्रस्य गोमात्रं हत्वा गोहितादिकृत् प्राजापत्यं निरन्तरं चरन् मासान्ते धेनुं दत्वा शुध्यति । प्रत्याम्नाये धेनुचतुष्कम् । ज्ञानाच् चेत् कृतवान् गोचर्मणार्द्रेण संवृतो गोष्ठे वसन् षण्मासं यवागूं पिबञ् शुध्यति । प्राजापत्यप्रत्याम्नायौ चेद् द्विगुणौ । अकामात् सोमयागस्थश्रोत्रियस्य गोमात्रं हत्वा गोहितादिकृच् छाकादिभुग् अब्दान्ते वृषभैकादशगा दद्यात् । गोग्रासभुक् षण्मासैर् वा शुद्धः । कामाच् चेद् गोहितादिकृन् मौण्डी शाकभुक् त्र्यब्दं चरेत् । धनी वक्ष्यमाणव्रतं गोशतं चरेत् । ज्ञानात् सोमयागस्थश्रोत्रियातिदुर्गतकुटुम्बिब्राह्मणस्य कपिलां [११३] होमार्थां गर्भिणीं बहुक्षीरां सुवृत्ततरुणादिगुणां निर्गुणो धनवान् प्रतिज्ञया खड्गादिना हत्वा भ्रूणहा भवति । स ब्रह्महत्याद्विगुणं व्रतं चरेत् । यद् वा गोहितादिकृद् दण्डमौञ्जीभृद् अक्षारलवणं रूक्षं षष्ठे काले ऽश्नन् गोमतीं प्रणवं वेदं वा जपन् द्विमासान्ते गोसहस्रं दद्यात् । अज्ञानाच् चेद् ब्रह्महत्याव्रतं त्रैवार्षिकम् । वृषभैकशतगोदानम् अगर्भिण्याः कामतश् चेद् वधः । अकामतश् चेद् गोहितादिकृन् मौञ्जी शाकादिभुक् त्र्यब्दं चरेत् । यदि तां काष्ठेन हन्यात् सान्तपनशतं गोसहस्रशतदानं त्र्यब्दादिषु । लोष्ठेन कायम् । पाषाणेन तप्तकृच्छ्रपूर्वं व्रतान्ते विप्रान् सम्भोज्य तेभ्यस् त्रिंशद्गा वृषभं च दद्यात् । बालाम् अतिवृद्धाम् अतिकृशां रोगिणीं च हत्वा पूर्वप्रोक्तार्धव्रतं कृत्वा विप्रान् सम्भोज्य शक्त्या हेमतिलान् दद्यात् । एकाब्दे गवि हते पादं द्व्यब्दे ऽर्धं त्र्यब्दे पादोनं ततः कायं चरेत् । गर्भिन्या वधे तूच्यते । उत्पन्ने गर्भे पादं दार्ढ्ये ऽर्धम् आपूर्णे पादोनं चैतन्ये गोव्रतं द्विगुणम् । अज्ञानाद् एकां बहवो हत्वोक्तव्रतस्य पादं प्रत्येकं कुर्युः । द्वे हत्वार्धं बह्वीः पादोनम् । ज्ञानात् प्रत्येकं कृच्छ्रम् एव । एकेन रोधादिना बहूनां वधे द्विगुणं व्रतम् । अज्ञानाद् वैद्येन मिथ्यौषधेनैकस्या वधे द्विगुणम् । अज्ञानाद् अवैद्येन हितबुद्ध्या त्व् औषधदाने पादव्रतम् । रोधादौ व्यवहितकर्तृषु रोधने पादबन्धने ऽर्धं योजने पादोनं निपातने सर्वम् । अज्ञानाद् रोधादि कृत्वा तज्जन्यप्रमादपरिहारार्थम् अवेक्षमाणे मृते कार्यं कृत्वा विप्रान् सम्भोज्य गोमिथुनं दद्यात् । रोधनादिप्रमादरक्षणाकरणे क्रमात् पादार्धं त्रिपादं सर्वाणि त्रैमासिकादीनि कार्याणि । चिह्नव्याधेर् अन्यत्र दाहे ऽतिवाहे नासापुच्छादिच्छेदे नदीपर्वतादिरोधे ऽतिदाहे ऽतिदमने सङ्घाते योजने शृङ्खलानालिकेरशणवालमौञ्जादिदृढपाशबद्धे मृते पादोनम् । सर्वत्र घण्टाक्षिभूषणनिमित्ते ऽर्धकृच्छ्रम् । मृतकल्पवधे तु सक्तुयावकभैक्ष-पयोदधिघृतानि क्रमान् मासार्धं भुक्त्वा विप्रान् सम्भोज्य गां दद्यात् । मरणहेतुव्याधिम् उत्पाद्य द्वादशरात्रं पञ्चगव्यं पिबेत् । शृङ्गास्थिभङ्गे चर्मविमोचनादौ च गवि जीवति मासान्तं यवागूं पिबेत् । अशक्तः पयो दधि घृतं वा दशरात्रं पिबेत् । अनुग्राहकप्रयोजकादीनां पूर्ववद् दोषतारतमयम् । अरक्षोपेक्षानिमित्तं जलपङ्काच् च नीचादिविषमस्थाने दुर्गे च शून्यगृहबन्धने विद्युत्सर्पमृगव्याघ्र-श्वापदाद्यैर् अशीतवाताद्यैर् उद्बन्धनाद्यैश् च मृते गोस्वामी कायं [११४] कुर्यात् । कार्यान्तरव्यग्रत्वे त्व् अर्धम् । गूढगर्भनिर्गमनार्थं सदंशदण्डाङ्कुशादिप्रवेशन-निमित्ते वधे रक्षार्थं रोधबन्धने च न दोषः । औषधस्नेहाहारे दीयमाने हितार्थदाहच्छेदशिरोभेदेषु च ग्रामघाते शरौघे गृहभङ्गे ऽतिवृष्टौ कुड्यादिपाते चान्यगृहग्रामादिदाहे दोषो नास्ति । बन्धे मृते पादं चरेत् । गवि स्त्रीत्वम् अववक्षितम् । राजदण्डं च तत्समम् । एतत् सर्वं हन्तुर् ब्राह्मणस्यैव । क्षत्रियस्य सर्वत्र पादोनम् । वैश्यस्यार्धं शूद्रादेः पादं विद्यात् । सर्वत्र स्त्रीबालवृद्धादीनां त्व् अर्धम् । अनुपनीतादीनां पादं तत्पित्रादिश् चरेत् । स्त्रीणां तु वपनम् अनुगमनं गोष्ठशयनं चर्मप्रावरणं च नास्ति तत्सर्वकेशान् समुद्धृत्य द्व्यङ्गुलं छेदयेत् । सर्वत्रैवं तासाम् । पुंसां तु पापव्रत आ कण्ठाल् लोम्नां वपनम् । अर्धे श्मश्रूणां च । त्रिपादे शिखावर्जम् । समस्ते सशिखं वपनम् । ज्ञात्वा चेत् सर्वत्र द्विगुणम् ।
इति स्मृत्यर्थसारे गोवधप्रायश्चित्तम् ।
** अथ व्रात्यादौ प्रायश्चित्तम् —**
तत्र सर्वोपपातकार्थं चान्द्रं पञ्चगव्यं मासं पयो मासं पराकं त्रैमासिकं कृच्छ्रं वा प्रतिपदोक्ताभावे कुर्यात् । व्रात्यत्वे तूपनेत्राद्यभावेनोपनयनकालातिक्रमे चान्द्रादिव्रतचतुष्के ऽन्यतमं शक्त्या कारयित्वोपनयनं कार्यम् । अनापदि कालातिक्रमे त्रैमासिकं कारयित्वोपनयेत् । तत्रैव पञ्चदशवर्षाद् ऊर्ध्वम् अपि कियत्कालातिक्रम औद्धालकं व्रतं चरेत् । तत्रैवम् – द्वौ मासौ यावकेन वर्तयेत् । मासं पयसा । पक्षम् आमिक्षया । अष्टरात्रं घृतेन । षड्रात्रम् अयाचितेन । त्रिरात्रम् अब्भक्षो ऽहोरात्रम् उपवसेद् इति । व्रात्यस्तोमेन वा यजेत् । यस्य पिता पितामहो वानुपनीतौ स्यातां तस्याब्दं त्रैविद्यकं ब्रह्मचर्यम् । यस्य प्रपितामहादेर् नानुस्मर्यत उपनयनं तस्य द्वादशाब्दत्रैविद्यकं ब्रह्मचर्यम् इत्य् आपस्तम्बोक्तं कृत्वोपनयनम् ।
अथ स्तेये प्रायश्चित्तम् —
तत्र विप्रो विप्रस्य दशकुम्भं धान्यं वा तत्परिमितं तण्डुलादि वा ताम्ररजतादिकम् अमत्या हृत्वा त्रैमासिकं कुर्यात् । मत्याभ्यासे कृच्छ्राब्दम् । क्षत्रियादेर् हर्तुः पादपादह्रासः । क्षत्रियस्वं विप्रो हृत्वा षाण्मासिकम् । वैश्यस्वे त्रैमासिकं शूद्रस्वे चान्द्रम् । एवम् उत्तरत्राप्य् ऊह्यम् । कुम्भः पञ्चसहस्रपलपरिमाणः । विप्रस्य गृहक्षेत्रभूमि**[११५]**निक्षेपरजतवज्रमणीनां नराश्वस्त्रीणां च सार्धशतद्वयपणलभ्यपाणीयरसवापीकूपजलानां च हर्तुर् विप्रस्य सुवर्णस्तेयसमवत् । क्षत्रादिस्वे चान्द्रतदर्धपादादि । त्रपुसीसादिद्रव्याणाम् अल्पप्रयोजनानां सार्धशतद्वयं पणपञ्चदशार्धानां हर्तुः सान्तपनम् । भक्ष्यभोज्याहारपानादीनाम् एकवारभोजनपर्याप्तानां पानशय्यासनानां पुष्पमूलफलानां च हर्तुः पञ्चगव्येनाहोरात्रम् । त्रिवारभोजनपर्याप्ते त्रिरात्रम् । तृणकाष्ठद्रुमाणां त्रिवारभोजनपर्याप्तमूल्यार्घ्याणां शुष्कान्नगुडतैलचर्ममांसानां च हर्तुस् त्रिरात्रम् । मणिमुक्ताप्रवालताम्ररजतायःकांस्योपलानां च द्वादशाहारपर्याप्तमूल्यानां हर्तुर् द्वादशाहकणान्नत्वम् । कार्पासकीटजोर्णानां द्विखुरैकखुररज्जुपक्षिगन्धौषधीनां त्रिवारभोजनपर्याप्तमूल्यार्घ्याणां हर्तुः पयस् त्र्यहम् । सर्वत्र ह्रियमाणद्रव्याल्पत्वबहुत्वाभ्यां प्रायश्चित्ताल्पत्वमहत्त्वे कल्प्ये । सर्वस्तेयप्रायश्चित्तद्रव्यं स्वामिने सति दत्वैव कार्यम् ।
इति स्तेयप्रायश्चित्तम् ।
** अथ ऋणानपाकरणे —**
तत्र ऋणम् आत्मपितृपितामहादिकृतम् । तपोब्रह्मचर्याद्यकरणे ऋषीणाम् ऋणम् । यज्ञाकरणे देवानाम् ऋणम् । प्रजोत्पत्त्यकरणे पितॄणाम् ऋणम् । एषाम् ऋणानाम् अनपाकरणे चान्द्रादिष्व् एकं शक्त्या कार्यम् । सर्वथा तदसम्भवे ऽब्दान्ते वैश्वानरेष्टिः कार्या । अनाहिताग्नित्वे तु सत्य् अधिकारित्वे ऽग्न्याधाने ऽब्दाद् अर्वाक् प्रतिमासं त्रिरात्रम् । ततः प्रत्यब्दं चान्द्रादिष्व् एकम् अनापदि त्रैमासिकम् । पितर्य् अनाहिताग्नाव् आधातर्य् अयष्टरि यष्टुश् च सुतस्य व्रात्यपशुः कार्यः । औपासनाग्न्यसन्निधौ द्व्यब्दं प्रतिमासम् उपवासो ऽब्दे चान्द्रादिष्व् एकम् । यद् वाद्याब्दे कृच्छ्रो द्वितीये ऽतिकृच्छ्रस् तृतीये कृच्छ्रातिकृच्छ्रौ ततश् चान्द्रम् ।
अपण्यानां विक्रये —
गुडतिलपुष्पमूलफलपक्वान्नविक्रये सौम्यकृच्छ्रम् । लाक्षालवणमधुमांसतैलक्षीर-दधिघृततक्रगन्धचर्मवाससां विक्रये चान्द्रम् । ऊर्णाकेशकेसरिभूदेह्नुवेश्मशस्त्र-विक्रये चान्द्रम् । अभक्ष्यमांसस्नाय्वस्थिशृङ्गनखविक्रये तप्तकृच्छ्रः । हिङ्गुगुग्गुल-हरितालमनःशिलाञ्जनगैरिकाक्षारलवणमणिमुक्ताप्रवालवैणववेणुमृन्मयेषु तप्तकृच्छ्रः । आरामतडागोदपानपुष्करिणीसुकृतविक्रये त्रिषवणस्नाय्य् अधःशायी चतुर्थ-कालाहारो दशसहस्रं जपन्न् अब्देन शुध्येत् । हीनमानोन्मानसङ्कीर्णविक्रये चैवम् । एवम् अन्यैः शङ्खलिखिताद्यैर् उक्तं [११६] ज्ञेयम् । यत्र प्रायश्चित्तं नोक्तं तत्रापि चान्द्रादिकम् । अनापदि त्रैमासिकम् ।
इत्य् अपण्यविक्रयप्रायश्चित्तम् [?] ।
** अथ परिवेदनम् —**
तत्रामत्या परिवेत्ता चान्द्रादिष्व् एकं कृत्वा ज्येष्ठाय स्वोढां स्त्रियं दत्वा तेनानुज्ञातां ताम् एवोद्वहेत् । मत्या चेत् तत्रापि कन्यापित्राद्यज्ञाने ऽब्दं कार्यम् । ब्राह्मणगृहभैक्षाशनं च कृत्वैवं कुर्यात् । कन्यापित्रादिदत्तोद्वाहे त्रैमासिकम् । कृच्छ्रातिकृच्छ्रौ वा कृत्वैव कुर्यात् । परिवेद्यस्य तु द्वे कृच्छ्रे कन्यायाः कृच्छ्रो दातुर् अतिकृच्छ्रो होतुश् चान्द्रम् । एवं परिवेद्यवत् पर्याहितपरीज्यपरिवित्तानां कायद्वयम् । परिवेत्तृपरिवित्तपर्याधातृ-परियष्ट्रग्रेदिधिषूपरिविधिषूपतीनां चाब्दं गौतमोकतं ब्रह्मचर्यं कृत्वा पश्चाद् विवाहः । अग्रेदिधिषूपतिः कृच्छ्रं कृत्वा ताम् एवोद्वहेत् । दिधिषूपतिस् तु कृच्छ्रातिकृच्छ्रौ कृत्वा तस्मै दत्वानुज्ञातः पुनस् ताम् एवोद्वहेत् । यद् वाग्रेदिधिषूपतिः कायं कृत्वा ताम् एव ज्येष्ठां पश्चाद् अन्येनोढाम् उद्वहेत् । दिधिषूपतिस् तु कृच्छ्रातिकृच्छ्रौ कृत्वा स्वोढां ज्येष्ठां कनीयस्याः पूर्ववोढ्रे दत्वान्याम् उद्वहेत् । ज्येष्ठे स्थिते कनिष्ठः कृतविवाहः परिवेत्ता परिविविदानश् च स ज्येष्ठः परिवित्तिः परिवेद्याश् च सः । परिविभागवेत्तृपरिविभागवित्त्यादेश् चैवम् । ज्येष्ठायां कन्यायाम् अनूढायाम् अनुजोढा चेत् साग्रेदिधिषूः पूर्वा दिधिषूः । भृतकाध्यापको भृतकाध्यापितश् च पयसा ब्राह्मीं सुवर्चलां त्रीन् पक्षान् नियतः पिबेत् । चान्द्रादिष्व् एकं वा कुर्यात् । अनुयोगप्रदाने चैवम् । उत्कर्षहेतोर् अधीयानस्य किं पठसि नाशितं त्वयेत्य् एवं पर्यनुयोगो ऽनुयोगप्रदानम् । अनुयोगप्रदानाभ्यासे पातित्यम् आहुः ।
अथ पारदार्ये —
तत्र गुरुतल्पतत्समादिषु प्रायश्चित्तविशेष उक्तः । ऋतुकाले जातिमात्रब्राह्मणीगमने वार्षिकं प्राकृतं ब्रह्मचर्यम् । ऋताव् एव धर्मकर्म[?]साधनत्वादिगुणवत्यां ब्राह्मण्यां गमने द्विवार्षिकम् । तादृश्याम् एव श्रोत्रियपत्न्यां त्रैवार्षिकम् । तादृश्याम् एव क्षत्रियायां द्विवार्षिकम्, तादृशवैश्यायां वार्षिकम्, शूद्रायां षाण्मासिकम् । एवं क्षत्रियस्यापि क्षत्रियादिषु द्विवार्षिकवार्षिकषाण्मासिकानि । वैश्यस्य च वैश्याशूद्र्योर् वार्षिक**[११७]**षाण्मासिके । शूद्रस्य च शूद्र्यां परपत्न्यां षाण्मासिकम् एव । अनन्यपूर्विकासु चाभ्यासे द्वादशाब्दम् । एकस्याम् एव गमनाभ्यासे पादपादन्यूनं स्यात् । अमत्या सर्वत्रार्धं योज्यम् । अनृतौ जातिमात्रब्राह्मण्यां त्रैमासिकम् । क्षत्रियादिस्त्रीषु द्वैमासिकचान्द्रमासिकानि । क्षत्रियादीनां क्षत्रियादिषु द्वैमासिकान्य् एव । अमत्या ब्राह्मणाद्या वृषभैकादशगोदानं मासं पञ्चगव्यं मासं कायं च क्रमात् कुर्युः । शूद्रादमने तु मासं कायार्धम् । ब्राह्मणश् चेद् अप्रेक्षापूर्वकं ब्राह्मणभार्यां शूद्राम् अधिगच्छेन् निवृत्तधर्मकर्मणः कृच्छ्रम् । अनिवृत्तधर्मकर्मणो ऽतिकृच्छ्रः । द्विजातिस्त्रीविप्रोढासु द्विस् त्रिर् व्यभिचरितास्व् अमत्या गमने चैवम् । मत्या कृच्छ्रद्वयम् । वर्णस्त्रियो ऽपि चतुर्थे व्यभिचारे स्वैरिण्यः पञ्चमे बन्धक्यः स्वैरिणीगमनेषु शूद्र्यां सचैलस्नात उदकुम्भं विप्राय दद्यात् । वैश्यायां चतुर्थकालाहारो विप्रान् भोजयेत् । क्षत्रियायां त्रिरात्रोपोषितो यवाढकं दद्यात् । बन्धकीषु तु ब्राह्मण्यां किञ्चिद् दद्यात् । क्षत्रियायां चेद् धनुम्, वैश्यायां चैलकम्, शूद्रायाम् उदकुम्भं दद्यात् विप्रः । इदं च प्रायश्चित्तं गर्भानुत्पत्तिविषयम् । गर्भोत्पत्तौ यद् विशेषेण प्रायश्चित्तम् उक्तं तद् एव तत्र द्विगुणं कुर्यात् । प्रातिलोम्यगमने पुंसो वधः । स्त्रियाः कर्णादिकर्तनम् । स्वस्त्रीभ्रान्त्या प्रातिलोम्यगमने ब्राह्मण्यां शूद्रस्य द्वादशाब्दम् । वैश्यादेः पादपादह्रासः । अत्यन्तव्यभिचारितब्राह्मण्यां तु शूद्रस्य गोमूत्रयावकम् । वैश्यस्य क्षत्रियस्य च कृच्छ्रं सान्तपनम् । रजकचर्मकारभिल्ल-व्याधशैलूषनटबुरुडकैवर्तमेदम्लेच्छाद्या एते रजकाद्याः कापालिकाश् च तद्वत् । रजकाद्यन्त्यजागमने त्व् अमत्या ब्राह्मणस्य पराकश् चान्द्रं वा । मत्या चान्द्रद्वयम् । क्षत्रियादीनां पादपादह्रासः । अभ्यासे कृच्छ्राब्दम् । रेतःसेकात् प्राङ् निवृत्तौ कायम् । चाण्डालाद्यन्त्यावसायिस्त्रीसङ्गमने तु गुरुतरं प्रायश्चित्तं गुरुतल्पप्रकरणे दर्शितम् । चाण्डालादिषु गर्भोत्पत्तौ द्वादशाब्दार्धगुरुतल्पव्रतम् । स्त्रीणाम् अपि सवर्णानुलोमगमने यत् पुरुषोक्तं त्रैवार्षिकादिकं तद् एव कार्यम् । प्रतिलोमगमने तु शूद्रो ब्राह्मणीं गच्छेच् चेद् वीरणैर् वेष्टयित्वाग्नौ तं क्षिपेत् । ब्राह्मण्यां शिरो वापयित्वा सर्पिषाभ्यज्य नग्नां करम् आरोप्य महापथं गमयेत् । सा पूता भवति । वैश्यश् चेल् लोहितदर्भैर् वेष्टयित्वाग्नौ क्षिपेत् । ब्राह्मणीं पूर्ववद् गमयेत् । [११८] क्षत्रियश् चेच् छरपत्रैर् वेष्टयित्वाग्नौ निक्षिपेत् । ब्राह्मणीं पूर्ववद् गमयेत् । एवं क्षत्रियायां वैश्यशूद्रयोर् वैश्यायां शूद्रस्य चैवं स्त्रीपुंसयोः प्रायश्चित्तम् । यद् वा ब्राह्मण्याः क्षत्रियगमने ऽतिकृच्छ्रो वैश्ये कृच्छ्रातिकृच्छ्रः । क्षत्रियायां विप्रक्षत्रियवैश्यगमनेष्व् अर्धकायकायातिकृच्छ्राणि । शूद्रायाः शूद्रे कायम् । विप्रक्षत्रियवैश्येषु त्व् अहोरात्रत्रिरात्रार्धकृच्छ्राणि । ब्राह्मण्याः प्रतिलोमगमने गर्भोत्पत्तौ विशेषः । ब्राह्मण्याः शूद्रसङ्गमे कृच्छ्रं चान्द्रत्रयं च । वैश्ये कृच्छ्रं चान्द्रद्वयं च । क्षत्रिये कृच्छ्रं चान्द्रं च । क्षत्रियायाः शूद्रसङ्गमे क्र्च्छ्रं चान्द्रद्वयं च । वैश्ये कृच्छ्रं चान्द्रं च । वैश्यायाः शूद्रसङ्गमे कृच्छ्रं चान्द्रं च । वैश्ये कृच्छ्रम् । गर्भे प्रभूते तु ब्राह्मण्या विप्रगर्भे तु पराकः । क्षत्रगर्भे चान्द्रम् । वैशगर्भे चान्द्रं पराकं च । सूद्रगर्भे तु चाण्डालत्वात् त्यागः । ऋतुकालदोषैर् गर्भस्रावे चान्द्रत्रयम् । मत्या गमने तु पराकादि द्विगुणम् । द्विजभार्याः शूद्रेण सङ्गता अनिसृतगर्भाः प्रसूयन्ते चेत् प्रायश्चित्ताभावः । गर्भधारणकाले शूद्रसङ्गमे तु प्रसवोत्तरकालम् एव प्रायश्चित्तं कार्यम् अन्यथा गर्भबाधा स्यात् । तच् च मासं यावकम् । स गर्भो दोषाभावात् संस्कार्यः । औद्धत्यात् प्रायश्चित्ताकरणे स्त्रियाः कर्णादिकर्तनं कार्यम् । अन्त्यजगमने ऽपि स्त्रीणाम् । तत्र ब्राह्मण्या अमत्या रजकाद्यन्त्यजगमने चान्द्रत्रयम् । चाण्डालाद्यन्त्यावसायिसङ्गमे त्व् अमत्या ब्राह्मण्याश् चान्द्रचतुष्कम् । मत्या द्विगुणम् । गर्भिण्याः पश्चाद् अन्त्यसंअमे ऽपि प्रसूताया एवं प्रायश्चित्तम् । सा गृहे न प्रचरेत् । न भर्त्रा सह शयीत । न बान्धवैः सह भुञ्जीत । न धर्मकर्मसाधनम् । सा कृच्छ्राब्दं चरेत् । हिरण्यं धेनुर् वा दक्षिणा । मत्यान्त्यसम्पर्के तु सा प्रदीप्ते ऽग्नौ प्रविश्य मृता शुध्येत् । प्रायश्चित्तम् अकुर्वाणाः पुंलिङ्गेनाङ्कनीया वध्या वा स्युः ।
इति स्मृत्यर्थसारे पारदार्यप्रायश्चित्तम् ।
परिवित्तेर् अपि परिवेत्तृप्रायश्चित्तवत् । तत्र कृच्छ्रातिकृच्छ्रस्थाने ऽत्र कायम् । वार्धुष्ये चान्द्रादिष्व् एकं त्रैमासिकं जातिशक्तिगुणाद्यपेक्षया योज्यम् । लवणक्रियायां चैवम् ।
अथ स्त्रीशुद्रविट्क्षत्रवधेषु —
अत्रामत्या जातिमात्रस्त्रीक्षत्रवैश्यशूद्रवधेषु क्रमेण ब्रह्महत्याव्रतं त्रैवार्षिकवार्षिकषाण्मासिकानि कुर्यात् । यद् वा वृष**[११९]**भैकसहस्रा गा वृषभैकशता गा वृषभैकादश् गाः सवत्सा धेनुर् दद्यात् । ईषद्वृत्तस्थक्षत्रादिवधेषु ब्रह्महत्याव्रतचतुर्थांशाष्टांशषोडशांशव्रतानि । सम्यग्वृत्तस्थवधेष्व् एकांशाधिकानीमानि । सदाचारगुरुपूजाघृणाशौचेन्द्रियनिग्रहभूतहितादिगुणयुक्तत्वं वृत्तस्थत्वम् । मत्या षड्वार्षिकत्रैवार्षिकवार्षिकाणि । श्रोत्रियक्षत्रादिवधेषु नवषट्त्रिवर्षाणि व्रतानि । व्रतस्थश्रोत्रियक्षत्रादिवधेषु दशवार्षिकम् । प्रारब्धसोमयागस्थ-श्रोत्रियक्षत्रादिवधे द्वादशाब्दम् । सोमयागस्थश्रोत्रियक्षत्रादिवधे षड्वार्षिकं ब्रह्मचर्यम् ऋषभैकादशगोदानसहितं षाण्मासिकं च गौतमोक्तम् । दुर्वृत्तक्षत्रादिवधे मत्या त्रैमासिकद्वैमासिकचान्द्राणि । अमत्या त्रिरात्रोपवाससहितम् ऋषभैकादशसहितगोदानं पञ्चगव्यमासं पयोमासं च कुर्यात् । इदं प्रायश्चित्तजातं ब्राह्मणस्य कर्तुर् ज्ञेयम् । क्षत्रियादेः कर्तुः पादपादन्यूनं ज्ञेयम् । मूर्धावसिक्तादीनां वधे चैवं प्रायश्चित्तं तत्र तत्रोह्यम् । सर्वत्र दण्डवृद्धिह्रासाभ्यां प्रायश्चित्तवृद्धिह्रासौ विज्ञेयौ ।
अथ स्त्रीवधे —
तत्र ब्राह्मण्यादिस्त्रीणां प्रातिलोम्येनान्त्यजातिप्रसूतानां ब्राह्मणादिभार्याणां स्वैरिणीनाम् अमत्या वधे तु जलाधारचर्मकोशं दृतिं धनुश् छागमेषान् क्रमाद् दद्यात् । मत्या षट्चतुर्द्व्येकमासाः कार्याः । सुतादीनां वधे चैवम् । वेश्याकर्मणा जीवन्तीनां वधे किञ्चिद् एव जलं दद्यात् । प्रातिलोम्येन व्यभिचारितब्राह्मण्यादिस्त्रीवधकर्तॄणां क्षत्रियादीनां गोवधोक्तप्रायश्चित्तम् यथार्हं योज्यम् । ब्राह्मणीनां वधे त्व् अमत्या षाण्मासिकं दशधेनुदानं वा । क्षत्रियादिवधे त्रैमासिकतत्तदर्धानि । मत्या ब्राह्मण्यादिषु द्विगुणम् । यद् वा वैश्यायां धेनुदानम् । शूद्रायां चान्द्रादिष्व् एकम् । धर्मकर्मसाधनब्राह्मण्य्-आदिवधे तु ब्राह्मण्यां षड्वर्षं प्राकृतं ब्रह्मचर्यम्, क्षत्रियायां त्रैवारिषिकम्, वैश्यायां सार्धं वर्षम्, शूद्रायां नवमासम् । अमत्या सर्वत्रार्धम् । आत्रेय्यां प्रायश्चित्तम् उक्तम् ।
अथान्यहिंसायाम् —
तत्रास्थिमतां कृकलासादीनाम् अनुक्तनिष्कृतीनां सहस्रवधे वानस्थिमतां क्षोदिष्ठानां यूकामशकमत्कुणदंशादीनां शकटपूर्णवधे च षाण्मासिकं प्राकृतं ब्रह्मचर्यं दशधेनुदानं वा । तत्प्रमाणाधिके ऽधिकं कल्प्यम् । ततो वा कृशास्थिप्राणिवधे किञ्चिद् देयम् । अष्टमु**[१२०]**ष्टिमितं धान्यं किञ्चित् । किञ्चिद् अष्टौ तु पुष्कलम् । पुष्कलानि तु चत्वारि पूर्णपात्रम् आढकं च । चतुराढकं द्रोणं द्रोणात्मिका खारिका । हिरण्ये तु पणं किञ्चित् । अनस्थिके क्षोदिष्ठे प्राणायामः । स्थविष्ठानस्थिघुणादिप्राणिवधे तु तप्तयावकं त्र्यहम् । फलपुष्पान्नरसजातप्राणिवधे घृताहारो ऽहोरात्रम् । मार्जारगोधानकुलमण्डूकचाष-काकोलूकादीनां प्रत्येकं पयस् त्रिरात्रं पादकृच्छ्रं योजनगमनं वा । स्रवन्त्यां समुद्रगनद्यां स्नानं वा । अब्दैवतसूक्तजपो वा । एतानि प्रत्येकं त्रिरात्रं कुर्यत् । एकवर्षवत्सो वा देयः । मत्या द्विगुणम् । अभ्यासे कायम् । एषां समुदितानां वधे कायं षाण्मासिकम् । गजे पञ्चनीलवृषा देयाः । हये वरवस्त्रयुग्मम् । उष्ट्रे गुञ्जाभारः सुवर्णगुञ्जा वा । खरे वृष एकवर्षवत्सो वा देयः । अजे ऽनड्वान् वृषो वा । मेषे चैवम् । हंससारसपारावतमयूरचक्रवाकबकबलाकाविषज्ञकङ्कश्वादिट्कारण्डवश्येनभासराज-पक्षादिषु गौर् देया । गृध्रकाकोलूककपोतकुक्कुटबृहत्पक्षादिषु त्रिवर्षो वत्सः शुकचाष-खञ्जरीटलावकसारिकादिषु द्विवर्षो वत्सः । टिट्टिभतित्तिरमङ्ग्वाहिकादिक्षुद्रपक्षिष्व् एकवर्षो वत्सः । क्रव्यादव्याघ्रशृगालादिमृगवधेषु वानरे च हंसश्येनकङ्कगृध्रादिषु जलचरबलाकादिपक्षिषु स्थलचरकाकादिषु भासे मयूरे चैतेषां प्रत्येकवधे गौर् देया । अक्रव्यादहरिणादिमृगेषु खञ्जरीटादिपक्षिषु च वत्सतरी देया सरीसृपेष्व् अयोदण्डस् तीक्ष्णोभयाग्रः । यद् वा शुके द्विवर्षो वत्सः । क्रौञ्चे त्रिवर्षः । मृगपक्षिषु नपुंसकवधे त्रपुसीसकं माषमानं देयम् पलालभारो वा सूकरे घृतकुम्भः । तित्तिरौ तिलद्रोणः । एषु दानाशक्तौ द्रव्यकल्पनया तत्समस्य कृच्छ्रादि कार्यम् । यद् वा दानाशक्तौ गजगण्डभारसाश्वोष्ट्रखरगौरगवयऋष्यमहिषमेषादिष्व् अमत्या प्रत्येकवधे सार्धकृच्छ्रः । समस्तवधे चान्द्रम् । मत्या प्रत्येकवधे चान्द्रम् । समस्तवधे त्व् आवृत्तिः । हरिणसारङ्गरुरुवराहसिंहगण्डकेसरिव्याघ्रमकरमहामत्स्यग्राह-शिंशुमारादीनाम् अमत्या प्रत्येकं कृच्छ्रः । समस्तवधे कृच्छ्रद्वयम् । मत्या प्रत्येकवधे चैवम् । समस्तवधे चान्द्रम् । श्ववृकवानरजम्बूकविड्वराहादिष्व् अमत्या प्रत्येकं त्रिरात्रम् । समस्तवधे कृच्छ्रः । मत्या प्रयेकवधे चैवम् । समस्तवधे द्विगुणम् । मार्जारसर्पाजगरदुन्दुभनकुलमण्डूकमूषककर्कटशलभसेधागोधा-शाल्यककूर्मशशादिष्व् अमत्या प्रत्येकवधे पादकृच्छ्रः । समस्तवधे कृच्छ्रः । मत्या प्रत्येकं चैवम् । **[१२१] **हंसादिष्व् अमत्या प्रत्येकवधे कृच्छ्रः । गृध्रादिषु पादन्यूनकृच्छ्रः । शुकादिष्व् अर्धकृच्छ्रः । मत्या प्रत्येकवधे चैवम् । टिट्टिभादिषु पादकृच्छ्रः । समस्तवधादौ तच् च द्विगुणं सर्वत्र । एकहन्तृविषय एवम् । हन्तृद्वित्वे तु प्रत्येकं तत्र तरोक्तार्धं स्यात् । हन्तृबहुत्वे तु गजादिषु प्रत्येकं कृच्छ्रः । हरिणादिषु त्रिरात्रम् । श्वादिषु द्व्यहम् । मार्जारादिषूपवासः । टिट्टिभादिषु नक्तम् । मृतप्रायेष्व् अमत्या प्रत्येकवधे तु गजादिषु त्रिरात्रम् । हरिणादिषु द्व्यहम् । खरादिषु चतुर्थकालः । मार्जारादिषूपवासः । गृध्रादिषु नक्तम् । शुकादिष्व् एकभक्तम् । टिट्टिभादिषु जले प्राणायामः । अविज्ञातसर्वमृगपक्षिषु त्रिरात्रम् – इत्यादिदेशकालजातिशक्तिगुणाद्यपेक्षया गुरुविषये लघुविषये च योज्यम् ।
इति हिंसाप्रायश्चित्तम् ।
** अथ वृक्षच्छेदनप्रायश्चित्तम् —**
वृक्षगुल्मलतावीरुधां फलपुष्पादिभिर् उपयोगिनां छेदने गायत्र्यादीनाम् ऋचां शतं जपितव्यम् । तावद्गायत्रीजपो वा । ओषधीनां ग्राम्यारण्यानां वृथैव छेदने दिवा गोपरिचर्यां कृत्वा रात्रौ क्षीरं पीत्वैव स्वपेत् । पञ्चमहायज्ञाद्यदृष्टार्थत्वच्छेदने न दोषः । कृष्याद्युपकरणादिदृष्टार्थत्वे च न दोषः । चैत्यश्मशानसीमापुण्यस्थान-देवालयस्थे वृक्षे ऽन्यस्मिन् प्रख्याते वा वृक्षे छेदन ऋक्शतजपो द्विगुणं दण्डानुसारेण प्रयश्चित्तं कार्यम् । सर्वत्र शूद्रस्य जपस्थाने दण्डानुसारेण द्विरात्रादि कल्प्यम् । वृक्षच्छेदाभ्यासे चान्द्रादिष्व् एकं कार्यम् ।
इति वृक्षच्छेदप्रायश्चित्तम् ।
** अथ श्वमार्जारादिदष्टेषु —**
श्ववृकशृगालखरोष्ट्रविड्वराहकाककुक्कुटवानरपुंश्चलीक्रव्यादान्त्यजातिभिर् दष्टः शक्तश् चेन् नाभेर् अधः पयसा द्विरात्रम् । अगनिहोत्र्य् एकरात्रम् । ब्रह्मचारी त्रिरात्रम् । नाभेर् ऊर्ध्वं द्विगुणम् । वक्त्रे त्रिगुणम् । मस्तके चतुर्गुणम् । यद् वोत्तमाङ्गे समुद्रगनदीस्नानं प्राणायामशतं च कृत्वा घृतेनैकरात्रम् । अशक्तस्य जले प्राणायामत्रयं कृत्वा घृतेनैकरात्रम् । अत्यशक्तौ गत्वा ब्राह्मणान् प्रणिपत्य तैर् निरीक्षितः शुध्येत् । अत्यन्ताशक्तौ हिरण्योदकमिश्रं घृतं प्राश्य शुध्येत् । ईषद्दष्टे तु नाभेर् अधश् चेद् आपोहिष्ठीयादिभिः स्नानं प्राणायामत्रयं च । नाभेर् ऊर्ध्वं द्विगुणादि । मार्जारमूषकश्वादिनकुलाश्वाजमहिषीहीनजात्यारण्यमृगैर् दष्टे जले दश प्राणायामाः । ईषद्दष्टस्य पञ्च । क्षत्रियादेः पादपादन्यूनम् । शूद्रस्य तूपवासेन गोदानेन गोमिथुनदानेन वामन्त्रकप्राणायामेन [१२२] वा शुद्धिः । ब्राह्मणी दष्टा स्नात्वोदितं ग्रहनक्षत्रं दृष्ट्वा शुध्येत् । कृच्छ्रादिव्रतस्था दष्टा त्रिरात्रम् उपोष्य सघृतं यावकं भुक्त्वा व्रतशेषं समापयेत् । ब्राह्मण्यनुसारेण क्षत्रियादिस्त्रीणां चैवम् । रजस्वला श्वादिदष्टा पञ्चदशरात्रं निराहारा पञ्चगव्येन शुध्यति । नाभेर् ऊर्ध्वं मस्तके च द्वित्रिचतुर्गुणादि योज्यम् । श्वादिघ्रातस्य चावलीढस्य च नखैर् विलिखितस्य चाद्भिः प्रक्षालनम् अग्निना चोपतापनम् । श्वादिदंशशस्त्रघातादिजनितव्रणे कृमिजनने गवां मूत्रपुरीषेण त्रिसन्ध्यं स्नानम् आचरेत् । नाभेर् ऊर्ध्वं चेत् त्रिरात्रं पञ्चगव्याशी स्यात् । तत आ कण्ठात् षड्रात्रम् । शिरोव्रणे तु कायम् । तत्र श्वादिदंशव्रणे तद्दंशप्रायश्चित्ता-नन्तरम् इदं कृमिजनननिमित्तं प्रायश्चित्तं कार्यम् । शस्त्रादिव्रणे त्व् एवम् एव त्र्यहं पञ्चगव्याशनादिकम् । क्षत्रियादिषु पादपादह्रासः । अन्यव्रणे कृमिदोषे तूपवासो हिरण्यं च दत्वा कृच्छ्रेण शुद्धिः । निन्दितार्थोपजीवने चान्द्रादिष्व् एकं त्रैमासिकं वा । नास्तिक्यं वेदोक्तकर्मनिन्दनम् । तेन जीवनं नास्तिक्यवृत्तित्वम् । नास्तिक्ये सकृत्कृते कृच्छ्रः । नास्तिक्यावृत्ताव् अतिकृच्छ्रः । अभ्यासे चान्द्रादिष्व् एकम् । अत्यन्ताभिनिवेशेन बहुकालाभ्यासे पञ्चाब्दं ब्राह्मणगृहे भैक्षचर्या ।
अथ ब्रह्मलोपे प्रायश्चित्तम् —
तत्रोपकुर्वाणो नैष्ठिकश् च त्रैवर्णिकब्रह्मचारी स्त्रियं गत्वावकीर्णी भवति तत्र गुरुतल्पे तत्समे च गुरुप्रायश्चित्तम् उक्तम् । ततो ऽन्यस्त्रियं गत्वा स नैरृतदैवतेन रक्षोदैवतेन चैकाक्षगर्दभेन पशुनारण्ये चतुष्पथे रात्रौ लौकिके ऽग्नौ पाकयज्ञ-धर्मेणाश्वलायनादिपशुकल्पतन्त्रेणेष्ट्वा तस्याजिनम् ऊर्ध्ववालं परिधाय त्रिषवणस्नायी लोहितपात्रः स्वकर्माचक्षाणः सप्तगृहभैक्षाण्य् एकवाराशी वत्सरेण शुभ्येत् । एवम् अशक्तौ तु नैरृतं चरुं निरुप्य पक्त्वा कामाय स्वाहा निरृत्यै स्वाहा रक्षोदेवताभ्यः स्वाहेति हुत्वा होमशेषं समापयेत् । अम्बुव्रतं चरित्वा शुध्येत् । इदं वार्षिकव्रतम् अश्रोत्रियपत्न्यां वैश्यायां श्रोत्रियपत्न्यां वा कार्यम् । गुणवत्यां च क्षत्रियायां श्रोत्रियपत्न्यां वैश्यायां श्रोत्रियपत्यां वा कार्यम् । गुनवत्यां च क्षत्रियायां श्रोत्रियपत्यां द्विवार्षिकम् । गुणवत्यां ब्राह्मण्यां त्रिवार्षिकम् । अमत्यावकीर्णी वार्षिकस्थाने ब्रह्महत्याव्रतं षण्मासं चीरवासाश् चरेत् । ईषद्व्यभिचारिण्यां चैवम् । द्विवार्षिकादिष्व् अमत्यार्धम् । अत्यन्तव्यभिचारितासु स्त्रीषु शूद्र्यां सचैलं स्नात्वोदकुम्भं दद्यात् । वैश्यायां चतुर्थकालाहारो ब्राह्मणान् भोजयेद् यवसभारं च [१२३] गोभ्यो दद्यात् । क्षत्रियायां तु त्रिरात्रोपोषितो घृतपात्रं दद्यात् । ब्राह्मण्यां षड्रात्रोपोषितो गां दद्यात् । गोष्व् अवकीर्णः कायम् । षण्ढायां पललभारं सीसं माषं च दद्यात् । स्त्रीसम्भोगं विना मत्या रेतो विसृज्य नैरृतयागमात्रम् । दिवा स्वप्ने चैवम् । कृच्छ्रचान्द्रादिव्रतेष्व् अतिदिष्तब्रह्मचर्येषु रेतःस्कन्दने चैतद् एव यागमात्रम् । स्वप्ने रेतःस्कन्दने ब्रह्मचारी स्नात्वार्कम् अर्चयित्वा पुनर् माम् ऐत्व् इन्द्रियम् इत्य् ऋचं त्रिर् जपेत् । वानप्रस्थो यतिश् च मत्या ब्रह्मचर्यलोपे पराकत्रययुक्तम् अवकीर्णिव्रतं चरेत् । अमत्या कृच्छ्रत्रयम् उक्तम् । सन्न्यस्तस्य गार्हपत्यपरिग्रहे षाण्मासिकं कृच्छ्रं कृत्वा पुनर् जातकर्मादिसर्वसंस्कारैः शुद्धिः पुनःसन्न्यासेन । क्षत्रियस्य चान्द्रद्वयम् । वैश्यस्य कृच्छ्रत्रयम् । यद् वैतानि ब्राह्मणस्यैव शक्तिसकृदभ्यासापेक्षया योज्यानि । अनाशकनिवृत्तानां चैवम् । मरणसन्न्यासिनां तु जलाग्न्युद्बन्धनभ्रष्टानां प्रव्रज्यानाशकच्युतानां विषप्रप(त)नप्राप्तशस्त्राघातच्युतानां च चान्द्रं तप्तकृच्छ्रद्वयं च शक्त्याद्यपेक्षया ज्ञेयम् । आत्मत्यागाद्यशास्त्रीयमरणाध्यवसितस्य तावन्मात्रे त्रिरात्रम् । शस्त्रादिक्षते कृच्छ्रः । दृढक्षते चान्द्रम् । शस्त्रादिमृतस्य पुत्रादयश् चान्द्रं तप्तकृच्छ्रद्वयं च कुर्युः ।
इत्य् [अथ?] अवकीर्णिप्रायश्चित्तम् ।
ब्रह्मचारी त्व् अनातुरो गुरुशुश्रूषादिगुरुतरकार्यव्यग्रतया सप्तरात्रं भैक्ष्यस्याग्निकार्यस्य वा लोपे कामाच् चावकीर्णो ऽस्म्य् अवकीर्णो ऽस्मि कामकामाय स्वाहा कामम् अवपन्नो ऽस्म्य् अवपन्नो ऽस्मि कामकामाय स्वाहेत्य् आभ्याम् आज्याहुतीर् हुत्वा,
सं मा सिञ्चन्तु मरुतः सम् इन्द्रः सं बृहस्पतिः ।
सं मायम् अग्निः सिञ्चत्व् आयुषा च बलेन च ॥
इत्य् अनेनोपतिष्ठेत । अव्यग्रतया लोपे ऽवकीर्णिव्रतम् । उपनयनानन्तरं व्रतमध्ये यज्ञोपवीतादीनां नाशे वस्त्रं सूत्रान्तरं वा धृत्वा मनोज्योतिर् इत्यादिभिर् मनोलिङ्गाभिस् त्वम् अग्ने व्रतपा असीत्यादिव्रतलिङ्गाभिश् चतस्र आज्याहुतीर् हुत्वा विधिना धारयेत् । असद्भैक्ष्यबोजने ऽभ्युदिते ऽस्तमिते वान्ते दिवास्वप्ने नग्नस्त्रीदर्शने नग्नस्वापे श्मशानम् आक्रम्य हयादींश् चारुह्य स्वपूज्यान् अतिक्रम्याग्निकार्यलोपे चैतैर् जुहुयात् । मणिवासोगवादीनां प्रति**[१२४]**ग्रहे सावित्र्यष्टसहस्रं जपेत् । स्थावरजङ्गमवृक्ष-वल्मीकपशुसरीसृपादिप्राणिवधे कूष्माण्डीभिर् होमः । यज्ञोपवीतं विना यज्ञोपवितम् अन्यथा कृत्वा वा भोजने विण्मूत्रोत्सर्गे वा गायत्र्यष्टसहस्रेण सप्राणायामेन शुद्धिः । पने त्रिः प्राणायामाः । नग्नभक्षणे षट् प्राणायामाः । भोजने मेहने चैवम् । यज्ञोपवीत-मेखलाजिनदण्डानां लोपे व्याहृतिहोमं षट् प्राणायामान् कृत्वा पुनर् धारयेत् । सन्ध्याग्निकार्यलोपे स्नात्वाष्टसहस्रजपः । भिक्षाटनम् अकृत्वा स्वस्थस्यैकान्नाशने ऽष्टशतजपः । भिक्षां याचित्वैकान्नाशने न दोषः । गुरुशुश्रूषादिलोपे ऽष्टशतजपः । मधुभक्षणे मेध्यमांसभक्षणे च कृच्छ्रः । मत्या पराकः । अभ्यासे द्विगुणं पुनःसंस्कारस् ततो व्रतसमापनम् । तद् एव वैद्यकार्थे गुरूच्छिष्टं देयम् । ततो नीरुजो भूत्वा हंसः शुचिषद् इत्य् आदित्यम् उपतिष्ठेत । आज्ञाविघातादि गुरुप्रतिकूलं कर्माचरन् प्रणिपातादिना प्रसाद्यैव शुध्येत् । चोरव्याघ्रादिभयाकुलप्रदेशे महान्धकारे रात्रौ गुरुणा स्वकार्यार्थं प्रेषितः शिष्यो दैवान् मृतश् चेत् स गुरुः कृच्छ्रत्रयं कृत्वा शुध्येत् । सर्वत्रारोग्यार्थम् औषधपथ्यान्नप्रदाने तदर्थयत्नेन मृते न कश्चिद् दोषः ।
अथ मिथ्याभिशंसने —
यस् तु ब्राह्मणो ब्राह्मणं महापातकाद्यैर् मिथ्याभिशंसति स मासम् अम्बुभक्षो नियतेन्द्रियः शुद्धवतीमन्त्रजपशीलः शुध्येत् । क्षत्रियाद्यभिशंसने ऽर्धार्धहानेन कुर्यात् । क्षत्रियाद्या ब्राह्मणाभिशंसने द्वित्रिचतुर्गुणं कुर्युः । शूद्रस्य जपस्थाने ऽमन्त्राः प्राणायामाः । भूताभिशंसने तत्तदर्धम् । अतिपातकाभिशंसिनां पादोनम् । अनुपातकाभिशंसिनां तदर्धम् । उपपातकाभिशंसिनां ततो न्यूनम् । मिथ्याभिशस्तः कृच्छ्रं चाग्नेयं पुरोढाशं वायव्यं पशुं वा कुर्यात् । अतिपातकादिषु पादपादह्रासः । ज्येष्ठभ्रातुः कनिष्टभ्रातुर् वा भार्याम् अनियुक्तो ऽमत्या गत्वा चान्द्रम् । मत्या संवत्सरं ब्राह्मणगृहे भैक्ष्यं चरेत् । रजस्वलां स्वभार्याम् अमत्या सकृद् गत्वा त्रिरात्रं घृतं प्राश्य विशुध्येत् । अभ्यासे सप्तरात्रम् । मत्या सकृच् चेत् सप्तरात्रम् । अभ्यासे कृच्छ्रः । अन्त्यन्ताविच्छिन्नाभ्यासे त्रैवार्षिकम् ।
अथ रजस्वलानां परस्परस्पर्शने वक्ष्यते —
रजस्वले द्वे सवर्णैकभर्तृके अमत्या वा मत्या परस्परं स्पर्शे सद्यः स्नाते शुध्यतः । असपत्न्योस् तु सर्वर्णयोर् [१२५] योनिगोत्रसम्बन्धयोर् अमत्या स्पर्शे स्नानमात्रम् । मत्या त्व् एकरात्रं निराहारत्वं पञ्चगव्याशनत्वं च । असम्बन्धयोः सवर्णयोः स्पर्शने त्व् अमत्या स्नात्वा दिनान्ते रात्र्यन्ते वा शुद्धिः । मत्या स्पर्शे त्व् आ शुद्धेर् नाश्नीयात् । भुक्तौ प्रतिदिनम् उपवासस् तावद्दानं वा । असवर्णयोस् तु स्पर्शे ब्राह्मणीशूद्रयोर् मत्या स्पर्शे ब्राह्मण्याः कृच्छ्रः । शूद्रायाः पादकृच्छ्रस् तावद्दानं वा । ब्राह्मणीक्षत्रिययोः स्पर्शे ब्राह्मण्याः कृच्छ्रार्धम् । क्षत्रियायाः पादकृच्छ्रः । क्षत्रियाशूद्रयोः स्पर्शे क्षत्रियायास् त्रिरात्रम् । वैश्याया अहोरात्रम् । वैश्याशुद्रयोः स्पर्शे च वैश्यायास् त्रिरात्रम् । शूद्रायाश् चतुर्थकाल आहारः । एषां वर्णस्त्रीणां मत्या स्पर्शे शुद्धिः । अमत्या स्पर्शे तु सवर्णाम् अधिकवर्णां वा स्पृष्ट्वा स्नायाद् एव । हीनवर्णां स्पृष्ट्वा स्नात्वाशुद्धेर् नाश्नीयात् । यदि भुङ्क्ते पश्चात् प्रतिभोजनम् उपवासस् तावद्दानं वा । विप्रभोजनं वा प्रत्याम्नायं वा कुर्यात् । चाण्डालाद्यन्तावसायिपतितशवादीनां मत्या स्पर्शने तदाद्यहान्य् अभुञ्जानातिक्रम्य प्रायश्चित्तं कुर्यात् । तच् च प्रथमे ऽह्नि स्पर्शे त्रिरात्रम् । द्वितीये द्व्यहम् । तृतीये त्व् अहोरात्रम् । परतो नक्तम् । प्रथमादिदिने यदि भुङ्क्ते पश्चाच् चान्द्रं पादपादन्यूनं दिनानुसारेण कुर्यात् । अमत्या चाण्डालादिस्पर्शे तु तदाद्यनाहारा कालेनैव शुध्येत् । तत्र प्रथमादिदिने भुक्तौ प्रत्याम्नायः । मत्या रजकादिस्पर्शे तु चाण्डालादिस्पर्शवत् किं तु प्रथमादिदिने भुक्तौ कृच्छ्रद्वयम् अर्धार्धन्यूनं कुर्यात् । अमत्या रजकादिस्पर्शे च तदाद्ये भुञ्जाना कालेनैव शुद्धा । भुक्तौ प्रत्याम्नायः । श्ववृकशृगालवानरखरोष्ट्रविड्वराहकाककुक्कुट-पञ्चनखोच्छिष्टशूद्राणां मत्या स्पर्शने तदाद्यहान्य् अभुञ्जाना नीत्वा प्रायश्चित्तं कुर्यात् । प्रथमे ऽह्नि स्पर्शे द्व्यहम् । द्वितीये ऽहोरात्रम् । तृतीये नक्तम् । तत एकभक्तम् । तत्र प्रथमादिदिने भुक्तौ कायं पादपादन्यूनं कुर्यात् । अमत्या श्वादिस्पर्शे तदाद्यभुञ्जानैककालेन शुध्येत् । भुक्तौ प्रत्याम्नायः । चाण्डालरजकरजस्वलादि-संस्पृष्टानां मत्या स्पर्शने हीनामेध्यादिमलोच्छिष्टस्पर्शने च तदाद्यहान्य् अभुञ्जानातिक्रम्य प्रथमे ऽह्नि स्पर्शे तूपवासम् । द्वितीये नक्तम् । तृतीये त्व् एकभक्तम् । प्रथमादिदिने भुक्तौ त्रिद्व्येकरात्रोपवासनक्तैकभक्तानि । अमत्या तत्स्पृ**[१२६]*ष्टस्पर्शने ऽभुक्त्वा कालेन शुध्येत् । भुक्तौ प्रत्याम्नायः । अशक्ताव् अमत्या चण्डालरजकश्वादिस्पर्शने सद्यः स्नात्वा शुचिर् आ चन्द्रदर्शनात् । अत्यशक्तौ स्नात्वा दिवैवाद्यात् । उच्छिष्टयो रजस्वलयोर् अमत्या स्पर्शने ब्राह्मणी कृच्छ्रेण त्रिरात्रेण शुध्येत् । शूद्री दानैर् उपोषिता । अन्यवर्णस्त्रीणाम् अनुच्छिष्टानां मत्या परस्परस्पर्शने यत् प्रायश्चित्तं तद् एवोच्छिष्टानाम् अमत्या स्पर्शने ऽपि मत्योच्छिष्टयोः स्पर्शने तत्तद्द्विगुणम् । उच्छिष्टान् द्विजान् रजस्वला स्पृष्टा चेद् अधस्तनोच्छिष्टेषूपवासः । ऊर्ध्वोच्छिष्टस्पर्शने त्रिरात्रम् । रजस्वला भुञ्जानोच्छिष्टा च चण्डालादिस्पर्शने तदाद्यहान्य् अभुञ्जाना नीत्वा प्रथमे ऽह्नि स्पर्शे गोमूत्रयावकं षड्रात्रं द्वितीये चतूरात्रं तृतीये द्विरात्रं चतुर्थे तूपवासम् कुर्यात् । ( अत्र प्रथमादिदिने भुक्तौ कायोत्तरं चान्द्रम् । उच्छिष्टा रजस्वला रजकादीन् स्पृष्ट्वा तदाद्य् अभुञ्जानैव स्थित्वा प्रथमादिदिने स्पर्शे पञ्चरात्राद्येकैकदिनह्रासं कुर्यात् ।*) अत्र प्रथमादिदिने भुक्तौ त्रिरात्रोत्तरं कार्यम् । श्वादिस्पर्शे (तदाद्य् अभुक्त्वा चतूरात्रादि । प्रथमादिदिने भुक्त्वोपवासोत्तरं त्रिरात्रम् । चण्डालरजकादिसंस्पृष्टस्पर्शने) तदाद्य् अभुक्तैव त्रिरात्रादि । प्रथमादिदिने भुक्तौ प्रत्याम्नायः । सर्वत्राशक्तौ काञ्चनं दद्यात् । विप्रेभ्यो भोजनं चान्यद् वा तत्समं कुर्यात् । ततः शुद्धा भवत्व् इति वाचयेत् । प्रायश्चित्ते समुत्पन्ने रजोदृष्टौ त्व् एवम् । सपत्नीं रजस्वलां स्पृष्ट्वा रजोदृष्टौ सद्यः स्नात्वा शुध्येत् । सपत्नीं सवर्णाम् अधिकवर्णां वा स्पृष्ट्वा रजोदृष्टाव् एकरात्रं निराहारत्वम् । हीनवर्णां स्पृष्ट्वा रजोदृष्टाव् आ शुद्धेर् अभुक्त्वादृष्टौ पञ्चगव्याशनं च । चण्डालादिसूतिकाशवतत्परिचारादिस्पर्शे रजोदृष्टाव् आ शुद्धेर् अभुक्त्वा पश्चाच् चान्द्रम् । रकजादिस्पर्शे रजोद्र्ष्टाव् आ शुद्धेर् अभुक्त्वा पश्चात् कायम् । श्वादिस्पर्शे रजोदृष्टौ त्रिरात्रम् । अन्यास्पृश्योपहतौ रजो द्र्ष्ट्वोपवासः । अप्रायत्ये समुत्पन्ने रजोदृष्टौ सर्वत्र बालापत्याया अभिषेके कृते भुक्तिः स्यात् । पश्चाद् अशनप्रत्याम्नायो वा । कृच्छ्रचान्द्रादिव्रतस्थायाः स्नाने नैमित्तिके प्राप्ते रजोदृष्टौ पात्रान्तरिततोयेन स्नानं ततो ऽद्भिः सिक्तगात्रा वस्त्रनिष्पीडनम् अन्यवस्त्रधारणं वा कृत्वा व्रतं समाचरेत् । शावाशौचे प्रसवाशौचे वा मध्य [१२७] ऋतुदर्शने त्व् अस्नात्वा भोजनं शुद्धाव् उपवासः । आर्तवमध्ये जातमृताशौचे तु स्नात्वा भोजनम् । रजस्वलाया व्रतस्थाया रजस्वलाभिभाषणे तूपवासः । रजस्वलां स्पृष्ट्वा भुक्त्वा रजस्वलास्नानकालं नाश्नीयात् । व्रतस्थायाः पञ्चगव्यं च । रजस्वला श्वादिदष्टा पञ्चरात्रं निराहारा पञ्चगव्येन शुध्येत् । प्रारब्धे दीर्घव्रते रजोदृष्टौ व्रतलोपो नास्ति । हविष्यभोजनादि कुर्यात् । दिवार्चनादिकं च कारयेत् । शुद्धिकाले त्व् अस्नात्वा भुक्तौ कायं मत्यः चान्द्रम् । शेषं भक्ष्याभक्ष्यप्रायश्चित्तं वक्ष्यते । रजस्वला त्व् अञ्जनाभ्यञ्जनस्नानप्रचारदन्तधावननखनिकृन्तन-रज्जुस्पर्शव्यापारताम्बूलमधुमांसगन्धपुष्पदिवास्वापग्रहनक्षत्रनिरीक्षणादि वर्जयेत् । पाणौ मृन्मये वा खर्परे वा भुञ्जीतेत्यादिनियमस्था च । अत्र सर्वत्र स्नानं सचैलम् ।
इति रजस्वलाविधिः ।
** अथ सुतानां विक्रये —**
तत्र कन्याविक्रये देवगृहप्रतिश्रयोद्यानारामपुष्करिणीसभाप्रपापुण्यसेतुविक्रये च चान्द्रादिष्व् एकम् । अथ वा त्रैमसिकम् । आपदि तप्तकृच्छ्रः । अत्यन्तापदि सान्तपनम् । पुत्रविक्रये सर्वं द्विगुणम् । एकापत्यपुत्रविक्रये त्रिषवणस्नाय्य् अधःशायी चतुर्थकालाशी वत्सरेण शुध्येत् । कन्याविक्रये तदर्धेन शुद्धिः ।
अथायाज्ययाजने —
तत्र व्रात्ययाजकश् च व्रात्योपनेताध्यापकश् च हीनयाजकः शूद्रान्त्येष्टिकर्मयाजकश् च वेदविक्रयी तस्करव्यतिरिक्तशरणागतघाती तस्करात्यागी चाभिचारी वा मत्या कायादिषु योग्यं कृच्छ्रादित्रयं कुर्यात् । मत्या व्रात्यस्योपनयनाध्यापनयाजन उद्दालकव्रतं कुर्यात् । तच् चोक्तं व्रात्यप्रायश्चित्तेषु । अतिक्रान्तोपनयनो व्रात्यः । द्व्यहादिर् द्वादशाहान्तो ऽहर्गणो यज्ञो ऽहीनः । आव्रताव्यभिचारे(?) दोषम् आहुः । ब्राह्मणाद्यन्त्येष्टिकर्मसु लोभाद् याजने कायातिकृच्छ्रतप्तकृच्छ्राः । अभ्यासे द्विगुणम् । अत्यन्ताभ्यासे त्रिगुणम् । शूद्राद्ययाज्ययाजने त्व् अमत्या चान्द्रादिष्व् एकम् । अशक्तौ कृच्छ्रः । मत्या त्रैमासिकम् । अभ्यासे द्विगुणादि । परिवेदकादियाजने चैवम् । पर्वचाण्डालादिश्रोत्रावकाशाद्यनध्यायेष्व् अध्ययनं वेदविपल्वः । उत्कर्षहेतोर् अधीयानस्य किं पठसि नाशितं त्वयेत्य् एवं पर्यनुयोगदानं च वेदविप्लवः । चाण्डालादिपतितश्रवणे वेदपाठ [१२८] उपवासः । मत्या त्रिरात्रम् अभ्यासे कृच्छ्रः । अत्यन्ताभ्यासे कृच्छ्रत्रयम् । स्मृतिधर्मशास्त्रव्याख्याने तु तदर्धम् । नित्यानध्यायेष्व् अध्ययने यावद् अधीतं तावज् जले ऽघमर्षणवत् स्वाध्यायं जपेत् । अशक्तौ जपेद् अनघमर्षणवत् । अत्यशक्तौ स्थले जपेत् । तावद् अन्यमन्त्रं वा जपेत् । मत्या प्रत्यनध्यायम् उपवासः । अशुद्ध्यध्ययने चैवम् । नैमित्तिकानध्याये ऽध्ययने चैवम् । दुर्बोधस्य तदर्धम् । ग्रामकुक्कुटमूषकमण्डूकाद्यन्तरागमने नक्तम् । गवाश्वमहिषादिपशुस्त्रीशूद्राद्यन्तरागमन उपवासः । मार्जारसर्पनकुलपञ्चनख-जात्यन्त्रागमने त्रिरात्रं त्रिकालस्नानं च । श्ववृकशृगालवानररजकादीनाम् अन्तरागमने ऽध्ययने कायम् । खरवराहोष्ट्रादिचण्डालसूतिकोदक्याशवाद्यन्तरागमने कायत्रयम् । गौरगवयाजादिब्रह्मोद्गतनास्तिकादीनां गमने त्रैमासिकम् । शशमेषश्वपाकादिगमने षाण्मासिकम् । गजगण्डसारसव्याघ्रमहापातकिकृतघ्नादिगमने ऽध्ययने कृच्छ्राब्दं तावत्कालम् अनध्यायश् च । सर्वत्र मत्यार्धम् । अन्तरागमने तदानीम् एव स्वाध्यायविरमणे न प्रायश्चित्तम् इत्य् एक इत्यादि च ज्ञेयम् । पितृमातृगुरूणाम् अकारणत्यागे चान्द्रादिष्व् एकं त्रैमासिकं वा । अधिकं मासं षष्ठान्नकालत्वं संहिताजपो वाधिकः । सुतत्यागे चान्द्रादिष्व् एकं त्रैमासिकं वा बान्धवत्यागे चैवम् । कन्यादूषणे सवर्णानां चान्द्रं त्रैमासिकम् । असवर्णानाम् आनुलोम्ये पयोमासः कायं वा । प्रातिलोम्ये क्षत्रियवैश्ययोः कृच्छ्राब्दम् । शूद्रस्य वध एवम् । आत्यन्ताभ्यासे सवर्णस्यापि कृच्छ्राब्दम् । सोमविक्रयी वृषलीपतिः कौमारदारपरित्यागी शूद्रयाजको गुरोः प्रतिहन्ता सुरामद्यपो ब्राह्मणवृत्तिघ्नः कूटव्यवहारी पतितव्यवहारी मित्रध्रुक् प्रतिरूपकवृत्तिश् चामत्या त्रैमासिकव्रतं मत्या षाण्मासिकम् अभ्यासे कृच्छ्राब्दं कुर्यात् । देवताद्याराधनार्थं गृहीतव्रतलोपे ऽन्यस्मिन् व्रतलोपे वात्मार्थं पाके च मद्यपस्त्रीनिषेवणे च चान्द्रादिष्व् एकं त्रैमासिकम् । अधीताध्ययनत्यागे व्यसनासक्त्या कृते ब्रह्महत्यासमानवत् । सच्छ्रास्त्राद्यभ्यासासक्त्या बहुकुटुम्बरक्षात्यागे चान्द्रादिष्व् एकं त्रैमासिकं वा । अत्यन्तापदि ब्रह्मोज्झस्य कायम् ।
अथाग्नित्यागे —
नास्तिक्याद् अग्नित्यागे मासद्वये कायं कृत्वा पुनःसन्धानम् । मासचतुष्टये ऽतिकृच्छ्रः । षाण्मास्के पराकः । षण्मासाद् ऊर्ध्वं चान्द्रादिष्व् एकं संवत्सराद् ऊर्ध्वं त्रैमासिकं द्वैमासिकं वा । आलस्यादिना [१२९] त्यागे तु द्वादशाहातिक्रमे त्र्यहम् उपवासः । मासातिक्रमे द्वादशोपवासाः पयोभक्षणं वा । प्रमादादिना त्यागे त्व् आत्रिरात्रं द्वादश लघुप्राणायामाः । आ षड्रात्राद् विंशतिः । आ द्वादशरात्रात् पञ्चाशत् । आ विंशतिरात्राच् छतं प्राणायामाः । आ त्रिंशद्रात्राद् उपवासः । आ षष्टिरात्रात् त्रिरात्रम् । आ संवत्सरात् कायम् । अतः परं प्रत्यब्दं च कायम् । सर्वत्र यावत् कालम् अहोमी च तावद् द्रव्यं दद्याद् इत्य् आहुः । संवत्सराद् ऊर्ध्वम् अग्निहोत्रत्यागे चान्द्रं कृत्वा पुनर् आधानम् । द्विवर्षत्यागे चान्द्रं सोमायनं चान्द्रद्वयं वा । त्रिवर्षत्यागे कृच्छ्राब्दं गोदानं पुनराधानं च । स्त्रीजीवने हिंसाजीवने वश्याद्यर्थौषधिजीवने वा हिंसार्थयन्त्रविधाने च चान्द्रादिष्व् एकं वा । द्यूतमृगयादिव्यसनेषु चैवम् । अनृतवाक् तस्करो राजसेवको वृक्षारोपकवृत्तिर् गरदो ऽग्निदो ऽश्वगजारोहणवृत्ती रङ्गोपजीवी श्वागणिकः शूद्रोपाध्यायो वृषलीपतिर् भाण्डको नक्षत्रोपजीवी श्ववृत्तिर् ब्रह्मजीवी चिकित्सको देवलः पुरोहितः कितवो मद्यपः कूटकारको ऽपत्यनरपशुविक्रेता चेत्याद्या अभोज्यान्नास् तेषाम् अन्नाशने ब्राह्मण्यम् इच्छन्तो द्रव्यं त्यक्त्वा त्रैमासिकं कुर्युः । बहुकाले द्रव्यं त्यक्त्वा चतुर्थकालाहारास् त्रिषवणस्नायिनो ऽब्दं चरित्वान्ते देवपितृतर्पणं गवाह्निकं च दत्वा शुध्येयुः । श्वागणिकः श्वगणजीवी । भाण्डकस् तूर्यादिजीवी बन्दी वा । श्ववृत्तिः सेवकः । ब्रह्मजीवी मौल्येन द्विजकर्मकर्ता । आत्मविक्रये शूद्रसेवायां च चान्द्रादिष्व् एकं त्रैमासिकं वा । बहुकालं शूद्रसेवायां चतुर्थकाले मितभोजिनस् त्रिकालस्नायिनः स्थानासनाभ्यां विहरन्तस् त्रिभिर् वर्षैः शुध्येयुः । समुद्रयाने ब्राह्मणन्यासहरणे सर्वपण्यैर् व्यवहरणे भूम्यनृते चैवम् । हीनसख्ये चान्द्रेष्व् एकं त्रैमासिकं वा । अहीनसख्यभेद उपोष्य पयःपारणम् । हीनयोनिनिषेवणे चान्द्रादिष्व् एकं त्रैमासिकं वानुक्तौ । तत्र त्व् अमत्या ब्राह्मणो राजन्यां पूर्वोढां गत्वा कायम् । वैश्यां पूर्वोढां गत्वा कृच्छ्रम् । शूद्रां पूर्वोढां गत्वा त्व् अतिकृच्छ्रम् । क्षत्रियो वैश्यां पूर्वोढां गत्वा कायम् ।शूद्रां पूर्वोढां गत्वा कृच्छ्रम् । वैश्यः शूद्रां पूर्वोढां गत्वा कायम् । मत्या चान्द्रादिष्व् एकम् । ब्राह्मणादिषु योग्यं योज्यम् । साधारणस्त्रीगमने पशुवेश्याभिगमने त्व् अमत्या कायम् अभ्यासे चान्द्रादिष्व् एकम् । मत्या कुशतप्तम् उदकं सप्तरात्रं सकृत् पिबेत् । अभ्यासे त्रैमासिकम् । अत्र प्रतिनिमित्तं नैमित्तिकप्रायश्चित्तस्यावृत्तिर् नास्ति किं तु [१३०] मत्या गमनाभ्यासे ऽहर् गुणवृद्धिर् मासाद् अर्वाक् । ततो मासगुणवृद्धिर् यावद् अब्दम् । ततो ऽब्दगुणवृद्धिर् यावत् पापम् एवम् आचरेत् । अमत्या गमने ऽभ्यासे तु सकृत् कृते यत् प्रोक्तं त्रिभिर् दिनैस् तत्त्रिगुणं मासात् पञ्चगुणम् । षण्मासात् तु दशगुणम् । अब्दात् पञ्चदशगुणम् । त्र्यब्दाद् विंशतिगुणम् । ततो ऽप्य् एवं प्रकल्प्यम् । एवम् उपपातकाभ्यासे । महापातकाभ्यासे तु सकृत् कृते यत् प्रोक्तं तद्द्वितीये द्विगुणं तृतीये त्रिगुणं चतुर्थे निष्कृतिर् नास्तीत्य् एवमादिकम् । साधारणगमने तज्जन्मप्रभृत्य् अनुबन्धतो ऽनवच्छिन्नाभ्यासे गुरुतल्पव्रतम् । अनाश्रमी त्व् आश्रमासम्भवे संवत्सरे कायं कृत्वाश्रमम् उपेयात् । द्वितीये ऽब्दे ऽतिकृच्छ्रः । तृतीये ऽब्दे कृच्छ्रातिकृच्छ्रः । अत ऊर्ध्वं चान्द्रम् । सम्भवे ऽनाश्रमी प्रथमे ऽब्दे चान्द्रादिष्व् एकम् । यद् वा त्रैमासिकम् । ततो ऽब्दाच् चतुर्गुणं योज्यम् । परपाकरुचित्वे ऽसच्छास्त्राधिगमन आकराधिकारित्वे भार्याविक्रये च चान्द्रादिष्व् एकं त्रैमासिकं वा ।
इति स्मृत्यर्थसार उपपातकप्रायश्चित्तम् ।
** अथासत्प्रतिग्रहे —**
तत्र प्रतिग्रहस्यासत्त्वं जातिदुष्टचाण्डालादेः कर्मदुष्टपतितादेश् च भवति । कुरुक्षेत्रादिदेशे ग्रहणादिकाले च । स्वरूपतो ऽपि सुरामद्यमहिषीकृष्णाजिनकालपुरुषमृतशय्योभयमुख्यादेर् असत्त्वम् । तत्र पतितादेर् मेष्यादिप्रतिग्रहे ब्रह्मचर्यवान् गोष्ठे वसन् प्रत्यहं सावित्रीत्रिसहस्रं जपन् पयोवृत्तिर् मासेन शुध्येत् । न्यायवृत्तिब्राह्मणादेः सकाशान् निषिद्धमेष्यादिप्रतिग्रहे पतितादेर् अनिषिद्धभूम्यादिप्रतिग्रहे च चान्द्रम् । पवित्रेष्टिर् वा मित्रविन्देष्टिर् वा । गायत्रीलक्षजपो वा । अभ्यासे मासम् अप्सु वसन् षष्ठे कले पयोभक्ष्यो मासान्ते विप्रान् सन्तर्प्य शुध्येत् । पतितादेः कुरुक्षेत्रग्रहणादौ मेष्यादिप्रतिग्रहे चैवम् । सर्वत्रानुक्तौ दातृदेशकालद्रव्येष्व् अदुष्टेषु द्वादशनिष्कप्रमाणद्रव्यप्रतिग्रहे कायम् । एवं सर्वत्र द्रव्यानुसारात् प्रायश्चित्तवृद्धिह्रासौ । दातृदेशकालद्रव्येष्व् अन्यतरदोषे प्रायश्चित्तस्यैकैकवृद्धिः । मणिवासोगवादीनाम् अल्पद्रव्याणां प्रतिग्रहे ऽष्टसहस्रजपः । ततो ऽल्पे ऽल्पं भिक्षामात्रप्रतिग्रहे पुण्यमन्त्रम् उच्चरेत् । प्रायश्चित्तं सर्वं द्रव्यं त्यक्त्वैव कार्यम् । द्रव्ये विद्यमाने प्रायश्चित्ताधिकारो नास्ति ।
अथाभक्ष्यभक्षणे प्रायश्चित्तम् —
तत्र स्वभावदुष्टलशुनपलाण्डुगृञ्जनछत्राकविड्वराहग्रामकुक्कुटानाम् अमत्या सकृद् भक्षणे सान्तपनम् । अभ्यासे [१३१] यतिचान्द्रायणम् । मत्या सकृच् चेच् चान्द्रायणम् । अभ्यासे तु सुरापानसमवत् । पलाण्ड्वादिसमे पूलिभेदे दीर्घपत्रपिच्छगन्धमहौषधिपण्य-वृन्ताकपरारिकयवनेष्टेषु छत्राकभेदकबुकादौ चैवम् । अभ्यासे चान्द्रावृत्तिः । अत्यन्ताभ्यासे तु सुरापानसमवत् । एतेषु बलात्कारेण भक्षणे तदेकवेद्ये च सावित्र्यष्टसहस्रेण मूर्ध्नि सन्ततजलबिन्दुपातेनोपवासेन च शुद्धिः । सर्वत्र छर्दितेषूक्तार्धम् । गन्धवर्णरसैर् लशुनादिसमेषु सान्तपनम् । यतिव्रतिब्रह्मचारिणां तप्तकृच्छ्रादि । खट्वाख्यं पक्षिणं कुसुम्भं वार्ताकम् कुम्भीतकं शिग्रुं भूतृणं खुखण्डकवकं कृष्णसर्षपं तण्डुलीयकं नालिकानालिकेरीखट्वाख्यशाकानि कालिन्दबाबककुम्भीकेषु वर्तुलालाब्वारकण्टकीकुसुम्भरक्तशिग्रुकोविदारश्लेष्मातकनालिक-क्षुद्रश्वेतकञ्चुकिवृन्ताकानि पोतिकाकेतुकखट्वाख्यकवकशणपुष्पशाल्मलीषु चान्येषु कन्दुदुर्गन्धविट्कन्दमूलादिषु व्रश्चनोद्भवेषु लौहितवृक्षनिर्यासादिषु रेतोविण्मूत्रेषु करनिर्मथिते दध्नि च बहिर्वेदऋत्विजश् च पुरोडाशेषु भक्षणे त्व् अमत्या सकृच् चेद् उपवासः । आवृत्तिर् अभ्यासे मत्या त्रिरात्रम् । अभ्यासे कायम् । अत्यन्ताभ्यासे ऽतिकृच्छ्रो ऽत्यन्तानवच्छिन्नाभ्यासे तप्तकृच्छ्रः पुनर् उपनयनं च । अन्यथा पतेत् । नील्यास् त्व् अमत्या सकृद्भक्षणे चान्द्रम् । विप्रस्याभ्यासे चावृत्तिर् अत्यभ्यासे पतनम् । सैवसौरनिर्माल्य-नैवेद्यभक्षणे चान्द्रम् । अभ्यासे द्विगुणम् । मत्याभ्यासे सान्तपनम् । अन्यनिर्माल्ये त्व् अनापद्य् एवम् ।
अथ जातिदुष्टेषु —
सन्धिनीयमसूस्यन्दिन्यनिर्दशामेध्यसेविमृतवत्सागवाम् अनिर्दशाजामहिष्योश् च क्षीरेष्व् एकशफेषु महिषीवर्जितारण्यमृगाणाम् अजावर्जितद्विस्तनीनां च पने दधितत्सम्भववर्जित-शुक्तेषु चामत्योपवासो मत्या त्रिरात्रम् । अविखरोष्ट्रवानरविड्वराहश्वापदक्षीरेष्व् अमत्या सान्तपनम् । मत्या तप्तकृच्छ्रः । अभ्यासे चान्द्रं पुनर् उपनयनं च । वपनमेखला-दण्डभैक्ष्यव्रतानि सर्वत्र पुनःसंस्कारे निवर्तन्ते । अत्यभ्यासे पतनम् । ब्रह्मचर्यादेः कृच्छ्रस् तप्तकृच्छ्रो वा । शुक्ते दधि सविकारं भोज्यम् । द्विस्तनेष्व् आजम् आरण्येषु माहिषं च । कपिलाक्षीरादिषु क्षत्रियादेस् तथैव सर्वत्र निषिद्धक्षीरविकारेषु चामत्या द्विरात्रं यावकम् । मत्या षड्रात्रम् अभ्यासे द्विगुणम् । विड्वराहग्रामकुक्कुटसमानजातीयव्यतिरिक्त-पक्षिमांसादिष्व् अजामहिषमृगाणां मृल्लोष्टकेशनखकीटपतङ्गकृमिजलचरास्थिरक्त**[१३२] **मत्स्यकण्टकमत्स्यास्थिभक्षणे रक्तवमने चामत्योपवासो मत्या त्रिरात्रम् । मांसभाण्डपक्वान्नाशने कुशपक्वं पयस् त्र्यहम् । व्रतिनः केशादौ मुखमात्रप्रविष्टे तप्तघृतं वा ब्राह्मीरसं वा पिबेत् । अन्ने भोजनकाले मक्षिकाकेशादिदूषिते ऽनन्तरम् अपः स्पृशेत् । तच् चान्नं भस्मना वा मृदा वाम्बुना वा स्पर्शयेत् । अस्थ्ना दूषिते स्नानं घृतप्राशनं च रक्तादिदृष्टौ तूपवासओ मुखे दृष्टौ त्रिरात्रम् । भुक्तौ ब्राह्मीरसो जले कुशोदकम् । सर्पसरीसृपमूषकमार्जारकृकलासकुक्कुटनकुलमण्डूकशृङ्गिमयूरक्रव्याद-विषभिदमुद्गरकुलीरशिशुमारमकरवक्त्रसर्पमुखमत्स्यविकृतमुखशृङ्गपक्षिणां मेध्यत्वे ऽप्य् आममांसे च वृथामांसभक्षणे च नियुक्तमांसवर्जने चामत्या त्रिरात्रम् । मत्यातिकृच्छ्रः । प्रमादे तूपवासो वमने सद्यः स्नानं पञ्चगव्यं च । विड्वराहग्रामकुक्कुटसमानक्रव्यादनरवानरकपिश्वगोमायुवृकदंष्ट्रिपञ्चनख-सिंहव्याघ्रश्वापदगजाश्वोष्ट्रखरैकशफानाम् उभयतोदन्तानां काकबलाकाभासगृध्र-जालपदचक्रविष्किरपुण्डरीककपिञ्जलचक्रपशुपादकुक्कुटसारिकाकामचक्रहंसप्लव-चक्रवाककारण्डवचटककपोतपारावतपाण्डुशुकसारिकासारसटिट्टिभोलूककङ्करक्तपाद-तित्तिरचाषकोकिलसलहिकुटचारमद्गुकलविङ्कक्रौञ्चश्येनखञ्जरीटदार्वाघाटमूलिङ्गवा-गुलादीनां मत्स्यानां च मांसानां सौनस्थानं गतानां च शुष्कमांसानां च तेषां विण्मूत्रशुक्ररक्तवसामज्जानां च तदुच्छिष्टानां च भक्षणे वामत्या कायम् अभ्यासे महासान्तपनम् । मत्या तप्तकृच्छ्रो ऽभ्यासे चान्द्रम् । अत्यन्ताभ्यासे पतनम् । तेषां कर्णविट्प्रभृतिमलषट्के ऽर्धं कल्प्यम् । ब्रह्मचार्यादेर् मधुमांसादिभक्षणे लौकिकं त्रिरात्रं कायं पुनरुपनयनं वा ततो व्रतसमापनम् । तद् एकवैद्यार्थे गुरूच्छिष्टं भक्ष्यम् । गवां मूत्रादि मेध्यम् अजानाम् उच्छिष्टं च ।
अथाशुचिसंस्पृष्टभक्षणे —
तत्रोच्छिष्टभक्षणे तावच् छवकाकादिपक्षिश्वापदाखुबिडालनकुलोच्छिष्टे भूयस्य् अन्नरसे जग्धे केशाद्यवपन्ने च देवद्रोण्यादौ द्रव्यसंस्काररहिते वामत्या चेद् ब्राह्मीं सुवर्चलाम् एकरात्रं पिबेत् । मत्या चेत् त्रिरात्रम् । अल्पद्रव्ये चेद् अमत्याभ्यासे ऽतिकृच्छ्रः । मत्याभ्यासे पक्षं यावकं व्रतम् । ब्रह्मक्षत्रियवैश्यशुद्रोच्छिष्टे तु ब्राह्मण एकत्रिपञ्चसप्तरात्राणि पञ्चगव्यं पिबेत् । अभ्यासे ऽप्य् एषाम् आवृत्तिः । मत्या भोजने तु तान्य् एव शुद्धोपवासादीनि कुर्यात् । मत्याभ्यासे कायातिकृछ्रतप्तकृच्छ्रचान्द्राणि । क्षत्रादौ पादं ह्रासयेत् । भाण्डस्थे ऽन्ने केशपिपीलिकामेध्यसेविकीटैर् उपहते तावन्मत्रम् उद्धृत्य भस्मताम्रवैडूर्यहिरण्यरजतादिभिर् गोवालैर् दर्भयुक्तेन वारिणा शेषं प्रोक्षयेत् । हस्तस्थम् एवम्भूतं त्यजेत् । मुखस्थं [१३३] निष्ठीव्य घृतं प्राश्नीयात् । मनुष्यरेतो-विण्मूत्रभक्षणे वर्णास् तप्तकृच्छ्रातिकृच्छ्रकायत्रिरात्राणि कुर्युः । मत्या चान्द्रतप्तकृच्छ्र-कायान् पूनःसंस्कारं च । अलेह्यापेयचाण्डालाद्यन्त्यान्ने चैवम् । चण्डालः श्वपाकः क्षत्ता सूत्रो वैदेहको मागध इत्याद्या अन्त्याः । तदन्नभोजनए चैवम् । अन्त्यानां भक्तशेषं भुक्त्वा वर्णा यतिचान्द्रं कायं तदर्धं पादं च कुर्युः । अन्त्योच्छिष्टभक्षणे तु चान्द्रं महासान्तपनं षड्रात्रं त्रिरात्रं च कुर्युः । अभ्यासे ऽत्यभ्यासे वा द्विगुणं त्रिगुणं निरन्तरे पतनम् । आमग्रहे त्व् अर्धम् । तदुच्छिष्टभोजने द्विगुणम् । सहभोजने च्चिचुणम् (त्रिगुणम्?) । मत्याभ्यासे पतनम् । दीपोच्छिष्टतैलं रात्रौ रथ्यादूषितं चाभ्यङ्गशिष्टं च भुक्त्वा नक्तं चरेत् । पीतावशिष्टमुखनिर्गतपाने मत्याभ्यासे चान्द्रं पराकं वा कुर्यात् । पीवावशिष्टमात्रपाने वामहस्तेन च पाने तदर्धम् ।
अथाशुचिद्रव्यसंस्पृष्टभक्षणे —
तत्र केशकीटाद्यवपन्ने नीलीलाक्षास्नाय्वस्थिचर्मरक्तमांसवसामज्जासुराशुक्रविण्मूत्र-संस्पृष्टे महापापावेक्षिते दुष्टपक्ष्युच्छिष्टे विड्वराहाद्युच्छिष्टे गवाघ्राते शुष्के पर्युषिते वृथापक्वे देवपित्रर्थान्ने होमार्थेषु चामत्या भक्षणे पाने चोपवासः पञ्चगव्यं च सर्वत्र । मत्या च पादार्धकृच्छ्रः । अविज्ञातजात्यस्थ्यादिदूषिते तदर्धम् । कर्णविडादिमलषट्के त्व् अर्धम् एतदल्पसंसर्गे । महासंसर्गे तु द्विगुणम् । तत्रापि दूषितसञ्ज्ञाने तप्तकृच्छ्रः सर्वत्र पुनःसंस्कारश् च । संसर्गदुष्टे क्रियादुष्टे स्वभावदुष्टे च चण्डालाद्यन्त्यसूतिकारजस्वलापतितशवदाहकषण्ढदेवलकविसृष्टाग्न्य्-आरूढपतिताभिशस्ताद्याश् चण्डालाद्याः श्वविड्वराहखरोष्ट्राद्याः श्वापदाद्याः पञ्चनखा यूथपश्वाद्याः । चण्डालादीन् भुञ्जानो दृष्ट्वा ग्रासम् उत्सृज्यान्तर्बाह्यमुखलेपान् प्रक्षाल्य स्नायात् । किञ्चिन्मात्रनिगरणे ऽष्टशतं जपः । तद्ग्रासभोजने पक्षिण्युपवासः । समस्तभोजने त्रिरात्रं जलपाने तदर्धम् । श्वादिष्व् आचमनं कार्यम् । भुक्त्वा पीत्वा तदर्धम् । चण्डालादिभिर् एवं भुञ्जानः श्रुत्वा भोजनाद् विरम्यैव शुध्येत् । भुक्तौ स्नात्वाष्टशतं जप उपवासो वा । चण्डालाद्युच्छिष्टस्पृष्टे कांस्ये भोजने कृच्छ्रः । मृन्मये ऽतिकृच्छ्रः । रजकाद्युच्छिष्टस्पृष्टे तदर्धम् । चण्डालादिस्पृष्टान्नभोजने त्रिरात्रम् । चण्डालादिदृष्टान्ने तूपवासः पञ्चगव्यं च । चण्डालादिहस्तभाजने चान्द्रं कार्यम् । चाण्डा**[१३४]**लादिभोजने द्विगुणम् । चाण्डालाद्युच्छिष्टान्नभोजने चतुर्गुणम् । चण्डालादिहस्तनिर्मुक्ताम्बुपाने तूपवासः । तत्स्पृष्टविषये तदर्धम् । चण्डालादीन् उच्छिष्टो दृष्ट्वोपवसेत् । स्पृष्ट्या त्रिरात्रम् । रजस्वलां हीनवर्णां रजस्वला स्पृष्ट्वा नाश्नीयाद् आ शुद्धेः । सवर्णाम् अधिकवर्णां वा स्पृष्ट्वा तस्मिन्न् एवाहनि स्नात्वाश्नीयात् । रजस्वला काकादिस्पृष्टान्यया रजस्वलया च स्पृष्टा चेद् उपवासः पञ्चगव्यं च । मत्या चेद् आ शुद्धेर् उपोष्य स्नात्वा घृतप्राशनाच् छुद्धिः । रजस्वला चण्डालाद्यन्त्यैः संस्पृष्टा नाश्नीयाद् आ शुद्धेः । भुक्ता चेत् तावन्त्य् अहान्य् अतिक्रम्य शुद्धौ प्रायश्चित्तं कुर्यत् । प्रथमे ऽह्नि त्रिरात्रं द्वितीये द्व्यहं तृतीये ऽहोरात्रं परतो नक्तम् । अप्रायत्ये रजोदृष्टौ बालापत्याया अभिषेकाद् भुक्तिः । मृतसूतकसम्पर्क ऋतुं स्पृष्ट्वा स्नानकालान् नाश्नीयात् । मत्या भुक्त्वा चान्द्रम् । चण्डालादिसङ्करे भुक्त्वा पक्षं गोमूत्रयावकं कृच्छ्रं वा । चाण्डालादिर् यस्य गृहे त्व् अज्ञातस् तिष्ठति तस्यामत्यान्नं भुक्त्वा कायम् । मत्या पराकः । चाण्डालादिस्वीकृत-तीर्थतडागनदीष्व् अमत्या पीत्वा पञ्चगव्यं पिबेत् । चण्डालाद्यम्बुपाने कायं तदर्धं वा । चण्डालादिसंस्पृष्टाम्बुपाने गोमूत्रयावकं त्रिरात्रम् । भुक्त्वोच्छिष्टस्य चण्डालादिस्पर्शने कायम् । यद् वा गायत्र्यष्टशतं सहस्रम् अष्टशतं वा जपित्वा त्रिरात्रान्ते पञ्चगव्यं पिबेत् । आमभक्षोच्छिष्टे पादः । अधःस्थानोच्छिष्टश् चाण्डालादिस्पृष्टः पादम् । चाण्डालादिस्पृष्टौ मूत्रोत्सर्गे त्रिरात्रम् उपोष्य जातवेदसं वा जपेत् । अमत्याशक्तस्य तूपवासः । भोजने षड्रात्रम् । आमभक्षणे त्रिरात्रं प्राणायामशतं वा । रजकादिविषये चाण्डालाद्युक्तार्थं ज्ञेयम् । उच्छिष्टः श्वादीञ् छूद्रमद्यामेध्याद्यस्पृश्यान् स्पृष्ट्वोपोष्य पञ्चगव्यं पिबेत् । रजस्वलासूतिकामेध्यपतितचाण्डालपुल्कसावधूतकुण्ठहस्तकृमिकुष्ठिकुनख्यस्पृश्याशौचि-संस्पृष्टान्नं मत्या भुक्त्वा कायम् अमत्यार्धम् । असद्द्रव्ये केशाद्यवपन्ने च कुशशङ्खपुष्पादिकषायं ब्राह्मीं वा पिबेत् । शूद्रेण पक्वं वामेध्यसेविकीटोपहतं च भुञ्जाने शूद्रस्पर्शे चानर्हसहपङ्क्तौ वा भुक्ताञ्जानेषु वा यत्रोच्छिष्टं प्रयच्छेद् आचामेद् वा कुत्सित्वा वा यष्टान्नं दद्याद् उच्छिष्टपङ्क्तौ वा भुक्ताव् उपवासं पञ्चगव्यं च कुर्यात् । मत्या सान्तपनम् । वामहस्तनिर्मुक्तपात्रान्नभुक्तौ चैकपङ्क्ताव् एकस्मिन्न् उत्थिते पश्चाद्भुक्तौ च सान्तपनम् । मृतपञ्चनखखरविड्वराहादिशवयुक्तकूपादौ च विण्मूत्रादिभिर् अत्यन्तोपहते च पाने च वर्णास् त्रिद्व्येकोपवासनक्तानि कुर्युः पञ्चगव्याशनं च । तत्रैव क्लिन्नभिन्नशवयुक्ते ऽम्बुपाने तु मत्यातिकृच्छ्रः । तादृङ्मानुषशवयुक्ते [१३५] तु मत्या चान्द्रायणम् । चाण्डालादिसम्बद्धकूपाद्यल्पजलाशयेष्व् अम्बु पीत्वा स्नात्वा तद्भाण्डस्थं वा मत्या वर्णाः सान्तपनं कायं तदर्धं पादं क्रमाच् चरेयुर् अमत्या तदर्धम् । अशक्तः पञ्चगव्यं पिबेत् । महाजलाशये न दोषः । ह्रदपुष्करिण्यादिषु जानुदध्ने न दोषः । ततो ऽधस्तने त्व् अमत्या नक्तं मत्योपवासं विप्रः कुर्यात् । रजकाद्यन्त्यजकूपभाण्डस्थाम्बुपयोदधिपाने त्व् अमत्या द्विजा ब्रह्मकूर्चेन त्रिद्व्येकोपवासान् कुर्युः । शूद्रस् तूपवासं शक्त्या दानं च । मत्या तद्द्विगुणम् । अन्त्यजैः खानितवापीकूपतडागादिषु स्नाने पाने चोपवासो मत्याभ्यासे कायम् । मध्यमेषु पञ्चगव्यम् । महत्सु न दोषः । प्रपास्व् अरण्ये मठके च सैरेयद्रोण्यां जलं कोशनिसृतं च पीत्वा पञ्चगव्येनाशक्तः शुद्धः । शक्त उपवासेन ।
अथ भावदुष्टभक्षणे —
तत्र निजवर्णादिरहितं भावदुष्टम् । भावदुष्टे ऽन्ने भावदुष्टे च भोजने मत्या त्रिरात्रम् अमत्यार्धम् । छर्दने घृतप्राशनम् । भक्ष्याभक्ष्यशङ्कितभक्षणे त्व् अक्षारलवणे रूक्षां ब्राह्मीं सुवर्चलां पिबेत् त्रिरात्रम् । शङ्खपुष्पीं वा पयसा सह कुशपद्मोदुम्बरपलाशबिल्वपत्राम्बुपक्वं वा पिबेत् । संवत्सरस्य त्रीन् द्वाव् एकं कृच्छ्रं चरेत् । शङ्कायां विज्ञाने तद्द्विगुणं द्विजश् चरेत् ।
अथ कालदुष्टभक्षणे —
कालदुष्टं पर्युषितं शुक्तम् अनिर्दशागोक्षीरादि । तत्रामत्योपवासो मत्या त्रिरात्रं कायव्रतम् । यवगोधूमपयोदधिपिष्टविकारस्नेहपक्वान्नस्नेहाक्तान्नमासादौ न दोषः । शृङ्गास्थिदन्तजैः पात्रैः कन्दशालूकशङ्खशुक्तिकपर्दकैश् च पीत्वा नवोदकं च पीत्वा स्वकाले त्र्यहाद् अर्वाग् अकाले दशाहाद् अर्वाक् पीत्वा पञ्चगव्यं पिबेत् । मत्योपवासः । सङ्ग्रहे भोजने नवश्राद्धे च ग्रामयाजकान्ने च चान्द्रम् । ग्रहणादिनिमित्तनिषिद्धकाले च सन्धिकाले चातिप्रातरतिसायम् इत्यादौ धानादधिसक्तूनां रात्रौ तिलसम्बद्धान्नभोजने चैवमादिष्व् अनादिष्टप्रायश्चित्तेषु प्राणायामशतं मत्योपवासः ।
अथ गुणदुष्टशुक्तादिभक्षणे —
तत्र गुणदुष्टशुक्तानि कषायांश् चान्यान्य् अमेध्यान्य् अमत्या पीत्वा भुक्त्वोपवसेत् । मत्या त्रिरात्रं यावकम् । आमलकादिफलयुक्तकाञ्जिकायां न दोषो ऽभिघारणे च । उद्धृतसारविलापितपिण्याकमथितादिष्व् अन्नविकारे च मत्या त्रिरात्रं यावकम् अमत्यार्धं छर्दित्वा [१३६] घृतं पिबेत् । प्राक् पञ्चनखेभ्यः प्राणिषु चैवम् । वैश्वदेवाग्न्यादि-रहितान्नभोजने वृथा कृशरसंयावपायसापूपशष्कुलीमधुमांसानां चामत्योपवासो मत्या त्रिरात्रम् । आहिताग्निस् तु कायं त्रिरात्रं वा कुर्यात् । शूद्रभाजनभिन्नभाजनभाण्डेषु भुक्त्वोपवासः पञ्चगव्यं च । मत्या त्रिरात्रम् । भिन्नकांस्ये कायम् । भिन्नभाण्डादिभोजने पञ्चगव्यं घृतं वा ब्राह्मीं वा पिबेत् । वटार्काश्वत्थकुम्भी-तिन्दुककोविदारकदम्बपत्रेषु भुक्त्वा चान्द्रम् । लतापलाशपद्मवृक्षपत्रे गृही भुक्त्वा चान्द्रं चरेत् । वानप्रस्थो यतिश् च भुक्त्वा चान्द्रफलं लभेत । अन्यः पद्मपलाशेषु ।
अथ हस्तदानादिक्रियादुष्टाभोज्यभोजने —
तत्र हस्तदत्तभोजने ऽब्राह्मणसमीपभोजने दुष्टपङ्क्तौ बलाद् अत्यपाङ्क्तेय्शूद्रहस्तेन च भोजने पानीये वामत्या नक्तम् । मत्योपवासः पञ्चगव्यं च । माक्षिकफाणितशाकगोरसलवणघृतेषु हस्तदाने तथैव ।
आसनारूढपादो वा वस्त्रार्धप्रावृतो ऽपि वा ।
मुखेन धमितं भुक्त्वा कृच्छ्रं सान्तपनं चरेत् ॥
अथ श्राद्धभोजने —
पित्राद्युद्देशेन त्यक्तान्ने तु तत्र श्राद्धानि त्रिविधानि । तत्रान्तर्दशाहे चैकादशाहे च नव श्राद्धानि । एकादशाहान् न्यूनाब्दान्तानि षौडशैकोद्दिष्टानि नवमिश्राणि । सपिण्डीकरणं मिश्रम् । ततः पुराणानि । एकादशाहश्राद्धं नवमिश्रम् । तत्र प्रायश्चित्तगौरवाद् दोषगौरवं चास्ति । आद्यैकोद्दिष्टं स्वतन्त्रम् इत्य् एके । तथाप्य् उभयधर्मप्रायश्चित्तदोषदण्डाः स्युः । तत्रापि सूतकसम्बद्धेषु नवश्राद्धेषु भोजने कायम् । एकादशाहैकोद्दिष्टे कायं पादोनकायं वा । द्वादशाहे प्रथममासे वा पादोनं कायम् एव कुर्यात् । द्विमासे त्रिपक्षे चोनषाण्मासिके चोनाब्दिके चार्धं कृच्छ्रम् । त्रिमासाद्यब्दमोक्षान्तेषु सपिण्डने चाद्याब्दिके चोपवासः पादकृच्छ्रो वा । प्रत्यब्दं पुराणे च नक्तम् । गुरुविषये द्रव्यार्थे नवश्राद्धे त्रिरात्रम् आद्ये त्रिरात्रं द्विरात्रं च । द्वादशाहादौ द्विरात्रम् । द्विमासादाव् उपवासस् त्रिमासादौ नक्तं पञ्चगव्यं वा । प्रत्यब्दं वान्यपुराणे च षट् प्राणायामाः । वृद्धौ त्रयः प्राणायामाः । तत्रैव निःस्पृहभोक्तुर् जपशीलिनो वा तदर्धम् । क्षत्रियादिश्राद्धेषु द्वित्रिचतुर्गुणानि क्रमात् कार्याणि । अनापदि तु नवश्राद्धे चान्द्रं कायं च । द्वादशाहादौ कायम् एव । द्विमासादौ पादोनम् । त्रिमा**[१३७]**साद्यब्दान्ते सापिण्ड्ये च त्रिरात्रम् अर्धं कायं वा । आब्दिके पादं कायम् । प्रत्याब्दिके तूपवासः । क्षत्रियस्य तु नवश्राद्धे चान्द्रम् । आद्यमासिके चान्द्रं पराकश् च । द्वादशाहादौ पराकः । एकद्विमासत्रिपक्षादौ महासान्तपनम् । त्रिमासादौ कायम् । आब्दिके पादोनं प्रत्यब्दे त्व् अर्धं पुराणे पादम् । वैश्यस्य त्व् एतान्य् एव व्रतानि सार्धानि । शूद्रस्य द्विगुणानि । यद् वा नवश्राद्धे चान्द्रद्वयं सार्धं चान्द्रं च । द्वादशाहादौ सार्धचान्द्रम् एव । द्विमासत्रिपक्षादौ चान्द्रं त्रिमासादौ पराकः । अब्दे महासान्तपनं प्रत्यब्दे सान्तपनम् । चण्डालसर्पब्राह्मणपशुदंष्ट्रिवैद्युतप्रपतन-विषोद्बन्धनानाशकैर् मृतानां पापिनां च स्तेनपतिताद्यभोज्यान्नानां च श्राद्धेषु नवश्राद्धे चान्द्रम् । आदिमासिके चान्द्रं पराकश् च । द्वादशाहादौ पराक एव । द्विमासत्रिपक्षादाव् अतिकृच्छ्रः । त्रिमासादौ कायो ऽब्दे पादः । प्रत्यब्दे तूपवासः । सम्यग्विषये ऽपि द्रव्यार्थभोजिनश् चैवम् । अपाङ्क्तेयानाम् एकादशाहश्राद्धे शिशुचान्द्रम् । यतिर् व्रती ब्रह्मचारी सूतक्यन्ननवश्राद्धमासिकादौ भुक्त्वोक्तं कृत्वाधिकं त्रिरात्रम् एकोपवासं त्रिप्राणायामान् घृतप्राशनं च कृत्वा व्रतशेषं समापयेत् । अनापदि तु कायं त्रिरात्रम् एकरात्रोपवासं षट् प्राणायामाः पञ्चगव्यप्राशनम् अधिकम् । अभ्यासे कृच्छ्रादि द्विगुणम् । आमहेमसङ्कल्पितश्राद्धेषूक्तार्धतत्तदर्धानि । यद् वानापदि चामश्राद्धे कायं तप्तकृच्छ्रं वाशक्तश् चरेत् । हेमश्राद्धे त्रिरात्रं कायं च । सङ्कल्पितश्राद्धे तूपवासस् त्रिरात्रम् च । दैवात् सूतकव्यवहितेषु तु ब्राह्मणक्षत्रियवैश्यशूद्रश्राद्धेष्व् एकोद्दिष्टेषु कृच्छ्रातिकृच्छ्रतप्तकृच्छ्रचान्द्राणि । द्वादशाहादिषु पादं पादं ह्रासयेत् । अतिव्यवहितेषु तु त्रिरात्रादिकम् । गुरुविषये तूपवासनक्तषट्त्रिप्राणायामाः । अनापदि सर्वं द्विगुणम् । अतिश्रोत्रियपुराणेष्व् अनुक्तनिष्कृतिषु च गायत्र्या दशकृत्वो ऽपः पीत्वा शुध्यति । ततः सन्ध्योपासनं होमं च यथोचितं कुर्यात् । निवृत्ते चूडाहोमे च प्राङ्नमकरणे च जातकर्मणि चाङ्गश्राद्धे सूतके ऽप्य् असूतके च नामश्राद्धे चूडाहोमान्ते चौलश्राद्धे च सीमन्ते सोमे चाधाने ब्राह्मौदने चामत्या चापदि च भुक्त्वा सान्तपनम् । मत्यानापदि च चान्द्रम् । अन्येषु संस्कारेषु तूपवासो नित्यं त्रिरात्रं चानापदि । अन्यदत्ता कन्यान्यस्मै [१३८] पुनर् दत्ता सा पुनर्भूः । असंस्कृते पूर्वे गर्भे प्रसूते द्वितीये गर्भे संस्कारे या सा पुनारेताः । ऋतुषोडशाहात् पश्चाद् एव या गर्भिणी सा रेतोधाः । भर्तृशासनोल्लङ्घिनी कामचारिणी । आसां गर्भे पर्ववत् [पूर्ववत्?] सान्तपनं चान्द्रं वा सर्वस्त्रीप्रथमगर्भे च ।
अथ परिग्रहाचाशुचिदुष्टभोजने —
तत्राश्रोत्रियतते यज्ञे ग्रामयाजकहुते स्त्रीहुते क्लीबहुते वान्नभोजने राजराजपुरोहित-राजभृत्यवैश्यशूद्राणां क्लीबाजाविकमाहिषिकस्थानिकभूमिपालानां स्तेनगायकतक्ष-वार्धुषिकदीक्षावस्थितानां कदर्यबद्धनिगडाभिशस्तपुंश्चलीदाम्भिकवैद्यकुलिम-सांवत्सरिकाणां मत्तक्रुद्धातुरगणिकानां श्वचक्रमद्यस्त्रीमृगजीविनां क्रूरोच्छिष्ट-भोज्युग्रपतितपिशुनानां शौलूषतन्तुवायतुन्नवायकिराटिप्रव्रजितानां व्रात्यकर्मार-घोषतरुवाजिजीविकानां घृतक्षीरतैललवणगुडविक्रयिणाम् अग्निदनित्यरोगिघाण्टिकविष-शस्त्रकारविप्रगोदेववृत्तिघ्नानां वैणवातिपापिवेश्यापाखण्डिजीविसूतादिप्रतिलोमजानां कर्मारकृतघ्नानां पुण्यसोमकर्मात्मविक्रयिणां विवादद्वेषरङ्गावतारसुवर्णकार-वृत्तीनां शौण्डिकवस्त्रनिर्णेजकवेनश्ववतां कूटनटनर्तकवृषलीतत्पतीनां नृशंसोपपतिकोपपतिमर्षकस्त्रीजितकितवानां शूद्राध्यापकयाजकधर्मपतिस्त्रीणां ग्रामयाजिवृषलीजवणिक्काण्डपृष्ठसेवकानां पर्याहितपरीष्टपरिवित्तिपरिविविदानां पुनर्भू-जाग्रेदिधिषूपतिचक्रतैलवधजीविनां भगवृत्तिपक्षिरक्षिसमुद्रतारकहीनातिरिक्ताङ्गानां मातृपितृसुतगुर्वग्नित्यागिनां कूटमानकूटसुतकन्यास्त्रीसत्यविक्रयिणां सीसकारगोधा-लोहकारसूचिकापुत्रब्रह्मचारिणां कुण्डाशिवीरहगुरुगुप्तिकगरदसूपजीविनां सूतकसौनिक-पौणिकुलालचित्रकर्मणां योनिसङ्करिकाश्रमभेदकतस्करवृथाश्रमिवृथाहोतॄणाम् इत्यादिपापिनां मार्गे तिष्ठतां भिक्षान्ने चान्द्रम् । एषाम् अकृतनिष्कृतीनां अन्नभोजने याजने दाने प्रतिग्रहे च तथा कुनखिकृष्णदन्ताब्राह्मणान्नदशूद्रशूद्रान्नदब्राह्मणानाम् अभोज्यान्नानां च प्रपासत्रे सोम एकादशाहश्राद्धे दुष्टान्नदुष्टविद्वज्जुगुप्सितमहापाप्य्- अवेक्षितश्वस्पृष्टोदक्यादुष्टगवाघ्रातपक्ष्यालीढासद्बहुयाचितसरोषसविस्मयान्नं च पदा स्पृष्टम् अवज्ञातम् अनर्चितपर्यायान्नस्त्रीशुद्रोच्चिष्टवृथामांसजातमृतसूतक-सूतकिकाप्रेतान्नं चातुष्टिकरं चातो ऽन्यतम**[१३९]**स्यान्नं भुक्त्वा वा रेतोविण्मूत्रभक्षणे वा मत्या त्रिरात्रम् । अभ्यासे कृच्छ्रः । मत्यातिकृच्छ्रो ऽभ्यासे तप्तकृच्छ्रः । ब्रह्मचर्यादेः कार्याणि तप्तकृच्छ्राणि चान्द्राणि पुनःसंस्कारश् च । द्वित्रिषण्णवद्वादशरात्राणि पयसात्यभ्यासे चान्द्रम् । अत्यन्ताभ्यासे चान्द्रवृद्धिः । आपद्य् एकद्वित्रिचतुरुपवासाः । अत्यन्तापदि त्रिषण्णवद्वादश प्राणायामाः । आमेषु स्नानम् । विप्रान्न एकभक्तम् । अनाचारे दुराचारे नक्तम् । ब्राह्मणब्रुवे स्नानम् अष्टशतजपः । गुर्वाचार्याग्निधर्मशास्त्रगो-ब्राह्मणद्विडन्ने शाखारण्डान्ने चैवम् । पुंश्चल्यभिशस्तम्लेच्छचाण्डालदस्युभिर् बलाद् दासीकृतानां गवादिहिंसने तदुच्छिष्टमार्जने भोजने करोष्ट्रादिविड्वराहभक्षणे तत्स्त्रीभिः सङ्गमे भोजने च मासोषितद्विजानां कायम् । आहिताग्नेश् चान्द्रं पराको वा । संवत्सरोषितस्य चान्द्रं पराकश् च ।
अथ जातमृताशौचान्नभोजने —
तत्र द्विजाशौचे सवर्णानाम् उपवासस् त्रिरात्रं वा । विप्रक्षत्रियवैश्याशौचेष्व् अमत्या विप्रो भुक्त्वा नक्तैकद्वित्र्युपवासान् कुर्यात् । अभ्यासे त्व् एकत्रिपञ्चसप्तोपवासान् । यद् वाभ्यासे द्वात्रिंशदष्टशतप्राणायामयुक्तान् । मत्या चेत् सान्तपनकायमहासान्तपनचान्द्राणि सर्वत्र पञ्चगव्यं वा । एकद्वित्रिचतुःकायानि वा । मत्याभ्यासे कायानि कृच्छ्रतप्तकृच्छ्रचान्द्राणि । यद् वाभ्यास एकद्वित्रिषण्मासानि यावकव्रतानि । अत्यन्तापदि द्वादशत्रिंशत्षष्टिशत-प्राणायामाः । क्षत्रियस्य वैश्याशुद्राशौचयोर् वैश्यस्य शूद्राशौचे चैवम् । विप्राशौचे क्षत्रवैश्ययोर् अष्टशतजपो नक्तं वा । क्षत्राशौचे वैश्यस्य चैवम् । द्विजाशौचे शूद्रस्य स्नानम् । शूद्राशौचे शूद्रस्य स्नानं पञ्चगव्यं च । शूद्रं संस्पृश्याचमने स्नानं पाने पञ्चगव्यम् । ब्रह्मचार्यादेर् उपवासः शतजपः पञ्चगव्यं च । त्रिरात्रं सहस्रजपः । पञ्चगव्यं चाधिकम् । जाताशौचं लघु योज्यम् इत्य् एके । आहिताग्न्याशौचे चैवम् । आशौचे भुक्तवन्तं न स्पृशेद् आ पुरीषोत्सर्गात् । तत्प्रायश्चित्तं तदाशौचे गते कार्यम् । सकृद्भोजनमात्रेण भोक्तॄणां च तावद् अशुचित्वाद् अनधिकारात् । तद्गृहभोजने नक्तम् उपवासो वा । कापालिके कापालिकान्ने पाने च क्रमात् कायं तदर्धं च । अभ्यासे द्विगुणम् । मत्या त्रिगुणम् । मत्याभ्यासे चतुर्गुणम् । अत्यन्ताभ्यासे चान्द्रं तदर्धं च । तत्स्त्रीगमने चैवम् । [१४०] अत्यन्ताभ्यासे ऽब्दकृच्छ्रम् । पतितान्ने द्रव्ये सति सम्भवे च तत्समुत्सृज्यातिकृच्छ्रं कुर्यात् । अन्नसत्रप्रवृत्तस्याग्निहोत्रिणश् चामे न दोषः । पक्वान्ने त्व् एकरात्रं त्रिरात्रं वा यावकं द्वादश चतुर्विंशतिर् वा प्राणायामाः । गृहीत्वाग्निं समारोप्य पञ्च यज्ञान् अकुर्वन् परपाकनिवृत्तः पञ्च यज्ञान् कृत्वा नित्यपरान्नोपजीवी परपाकरतो दानवर्जितः पर्वपक्षे मासे वा देवपितॄन् भोजयेत् । अश्राद्धदस् तेषाम् अनभ्यासे चान्द्रम् । पूर्वपरगणितव्यतिरिक्तनिषिद्धाचरणशीलान्नभोजने तूपवासो दिनम् । संवत्सराभ्यासे पराकः। अत्रादिष्टं विप्रस्यैव । तत्र क्षत्रस्य पादोनं वैश्यस्यार्धं शूद्रस्य पादः कल्प्यः । तत्तत्स्त्रीणाम् अर्धं रजस्वलानां तत्र तत्रोक्तम् एव कार्यम् ।
इत्य् अभक्षणप्रायश्चित्तम् ।
अथ जातिभ्रंशकरादिप्रायश्चित्तम् —
जातिभ्रंशकरेष्व् इच्छया महासान्तपनम् अनिच्छया कायम् । सङ्करीकरणेषु मासं यावकं कृच्छ्रातिकृच्छ्रं वा । अपात्रीकरणेषु कृच्छ्रम् अतिकृच्छ्रं वा । मलिनीकरणेषु महासान्तपनं तप्तकृच्छ्रं वा । ब्राह्मणजः कृत्वा रासभादिप्रयाणं निन्दिताद् धनादानं च कृत्वा कृच्छ्रार्धं चरेत् । अत्र स्त्रीणाम् अर्धं रजस्वलानां तत्र तत्रोक्तं कार्यम् एव ।
इत्य् उपपातकप्रायश्चित्तानि ।
** अथ प्रकीर्णप्रायश्चित्तम् —**
तत्र खरयुक्तम् उष्ट्रयुक्तं वा यानम् आरुह्याध्वानं गत्वा नग्नः स्नात्वा भुक्त्वा च स्वस्त्रियं दिवा गत्वा मत्या सवस्त्रो ऽपो ऽवगाह्य प्राणायामेन शुध्येत् । अमत्या स्नानमात्रम् । साक्षात् खररोहणे तु द्विगुणम् । गुरुं हुङ्कृत्य त्वङ्कृत्य विप्रं छलवादेन निर्जित्य वाससा बद्ध्वा वा शीघ्रं प्रसाद्योपवसेत् । अभ्यासे त्रिरात्रम् । विप्रं हन्तुं दण्डोद्यमने कृच्छ्रः । ताडने ऽतिकृच्छ्रः । रक्तस्रावणे कृच्छातिकृच्छ्रौ । आभ्यन्तररक्ते त्वग्भेदे कृच्छ्रः । अथिभेदे ऽतिकृच्छ्रो ऽङ्गकर्तने पराकः । पादेन प्रहार उपोष्य स्नात्वा प्रसादयेत् । पादेन स्पर्शे तु प्रसादनम् । असन्निधाव् अप्सु वाग्नौ चार्तो विण्मूत्रनिषेवणे सचैलो जलम् आप्लुत्य गां स्पृष्ट्वा शुध्येत् । मत्योपोष्य सचैलं स्नायात् । अभ्यासे चानार्तस्य च तप्तकृच्छ्रः । श्रौतस्मार्तलोपे तूपवासः । पश्चात् प्रतिपदोक्तेष्ट्यादिप्रायश्चित्तम् अपि सूर्योदये स्वस्थो मत्या सुप्तो ऽह्नि तिष्ठन् सावित्रीं जपन्न् उपवसेत् । सूर्यास्तमये सुप्तो रात्रौ तिष्ठन् सावित्रीं जपन् नाद्यात् । स्नानादिकर्मलोपे तूपवासो ऽष्ट**[१४१]शतजपो वा । जीर्णमलवद्वस्त्रधारणादि-स्नातकव्रतलोपे तूपवादो ऽष्टशतजपो वा । पञ्चमहायज्ञेष्व् अन्यतमलोपे त्व् अनातुरस्योपवासो धनिनः कृच्छ्रार्धम् । आहिताग्नेः पर्वण्य् उपस्थानलोपे चैवम् । ऋतौ भार्यागमनलोपे चैवम् । प्रथमायां भार्यायां जीवन्त्यां द्वितीयभार्याया वैतानिकैर् दहने सुरापानसमवत् । स्वभार्यां क्रोधाद् अगम्येति वदेच् चेद् वर्णानां कृच्छ्रनवषट्-त्रिरात्राणि । अस्नात्वा भोजनादौ तूपवासो दिनजप्यं च । एकपङ्क्त्योपविष्टानां स्नेहादिना विषमदाने दापने याचने कायम् । उदकावरणमार्गहन्तुः कन्याविघ्नकस्य च समेषु विषमपूजादिकर्तुश् च भैक्षान्ने चान्द्रम् । सुरापस्य गन्धम् आघ्राय सोमपो ब्राह्मणो ऽप्सु निमग्नस् त्रीन् प्राणायामांस् त्रिर् अघमर्षणं वा कृत्वा घृतप्राशनं च कुर्यात् । असोमपो ऽनप्स्व् इतरस्यामन्त्रकप्राणायाम एव । मद्यगन्धे तदर्धम् । साक्षात् सुराघ्राणे सुरापानसमवत् । अमत्या घ्राणे त्रिप्राणायामाः । मद्यघ्राणे विण्मूत्रक्रव्यादपूतिगन्ध-घ्राणे त्रिः प्राणायामाः । दर्शने प्राणायामः । स्पर्शने तु स्नानं घृतप्राशनं च । सुरास्पर्शे स्नानं पञ्चगव्यं च । शवघ्राणे ऽस्पु त्रिप्राणायामाः । असोमपस्यानप्सु । इतरस्यामन्त्रप्राणायामाः । शुष्कसुराभाण्डस्थापः पीत्वा पक्षयावकम् । सुराभाजनस्थाप्सु शङ्खपुष्पीपक्वं पयसस् त्रिरात्रम् । पर्युषिताप्सु गन्धपुष्पीपयः षडहम् । शुष्कमद्यभाण्डस्थाप्सु सप्तरात्रं यावकम् । अन्यत्र पूर्वोक्तार्धम् । सुरामद्यरसोपलब्धौ तारतम्यं कल्प्यम् । वमने चान्द्रं कायं वा । पुरीषादिदूषिता अपः पीत्वा सान्तपनं द्व्यहम् । रसोपलब्धौ पादकृच्छ्रः । मद्यविण्मूत्रविप्रुड्भिः (?) संस्पृष्टे मुखमण्डले मृत्तिकागोमयैः प्रक्षाल्य पञ्चगव्यं पिबेत् । मदिरां दत्वा स्पृष्ट्वा प्रतिगृह्य च स्नात्वा कुशाम्बु त्र्यहम् । सङ्क्रान्त्यादिनिमित्तस्नानार्हो जग्ध्वा पीत्वाष्टसहस्रं जपेत् । शूद्रादिसंस्पर्शनिमित्ते तूपवासः चाण्डालादिस्पर्शनिमित्ते त्रिरात्रं कायं वा । रजकादिस्पर्शे तदर्धं वा । तत्स्पृष्टस्पर्शे तूपवासस् त्रिरात्रं वा । नित्यस्नानम् अकृत्वा भूक्तौ चोपवासस् त्रिरात्रं वा । नैमित्तिके स्नाने सर्वत्राष्टसहस्रजपो द्वादश प्राणायामा वाधिकाः । अमेध्यश्वाद्यस्पृश्यस्पर्शने स्नात्वा भुक्तौ गृहस्थादेस् त्रिरात्रं मत्या षड्रात्रम् । व्रतिनः कायं चान्द्रं वा । चण्डालादिस्पर्शने त्व् अस्नात्वा भुक्तौ चान्द्रम् । रजका[१४२]द्यन्तस्पर्शने स्नात्वा भुक्तौ मत्या कायम् । श्वकाकादिस्पर्शने ऽस्नात्वा भुक्तौ मत्या त्रिरात्रम् । उत्पन्ने स्नाने भुक्त्वा पीत्वा त्रिरात्रं सान्तपनम् । अनाचम्य भक्षणे वाष्टशतजपः । भोजने तूपवासः । भोक्तृकामस्यापोशनात् पश्चाद् अभ्यवहरणात् पूर्वं पुरीषनिर्गमे सचैलो बहिर् आप्लवः षट् प्राणायामाः । भुञ्जानस्य गुदनिस्रावे शौचं कृत्वोपोष्य पञ्चगव्यम् । भुञ्जानस्याशुचित्वे तद् ग्रासं भूमौ क्षिप्त्वा स्नायात् । तद्ग्रासाशने तूपवासः । सर्वान्नाशने त्रिरात्रम् । भुञ्जानस्य मस्तके विष्ठादिपतने ऽन्नं त्यक्त्वा नद्यां स्नात्वा त्रिः प्राणायामाः । भुञ्जानस्य सगोत्रस्पर्शने ऽन्नं त्यजेत् । उदकं स्पृष्ट्वा शुद्धिः । भुञ्जानस्यासगोत्रस्पर्शने भोजनं विरम्यैव शुद्धिः । ( भुञ्जानयोः सवर्णयोः स्पर्शने च विरम्यैव शुद्धिः । ) भुञ्जानस्योच्छिष्टक्षत्रियस्पर्शने स्नानं जपं च कृत्वा दिनान्तरे घृतप्राशनम् । भुञ्जानस्योच्छिष्टवैश्यस्पर्शने चैवम् । त्रिषवणस्नानादिकम् । भुक्तोच्छिष्टस्पृटौ सवर्णे स्नानं जपो वा । असवर्णे तूपवासः सहस्रजपो वा । भुक्तोच्छिष्टस्य शूद्रश्वादिस्पर्शे तूपोष्य पञ्चगव्यम् । रजकादिस्पर्शे त्रिरात्रम् । ऊर्ध्वोच्छिष्टस्य चाण्डालादिस्पर्शे कायम् । अधरोच्छिष्टे तूच्छिष्टो द्विज उच्छिष्टं द्विजं स्पृष्ट्वा शूद्रश्वादीन् वोपोष्य पञ्चगव्यं पिबेत् । उच्छिष्टो द्विजश् चाण्डालादिस्पृष्टस् त्रिरात्रं कुर्यात् । रजकादिस्पर्शे तदर्धम् । अनुच्छिष्टस्पृष्टौ यत्र स्नानं विहितं तत्रोच्छिष्टस्पृष्टौ त्रिरात्रं कायं वा । उच्छिष्टोच्छिष्टस्पृष्टाव् एक एव दुष्यति । तत्स्पृष्टिनो न दुष्यन्ति । येन केनचिद् उच्छिष्टः परं स्पृष्टः सन् सद्य आप्लुत्य प्रायश्चित्तं सर्वत्र कुर्यात् । विण्मूत्राद्युत्सर्गे भुक्त्वा पीत्वा त्रिरात्रम् उपवासस् त्रिरात्रं वा गोमूत्रयावकेन । अशक्तौ यावकम् । जलपाने तूपवासः पञ्चगव्यं च । काञ्जिकादिना शौचं कृत्वा भुक्त्वा पुनर् जलेन शुद्धिं कृत्वोपोष्य पञ्चगव्यं पिबेत् । नीलवस्त्रादिधारणे केशनिर्मितचैलधारणे चोपवासः पञ्चगव्यं हिरण्योदकं चाधिकम् । नीलीमध्यगमने स्नात्वा त्रिः प्राणायामाः । नीलीं विक्रीणयन् पालयन् नीलीवृत्त्या जीवंश् च पतति । विरक्तश् चेत् त्रिभिः कृच्छ्रैः शुध्येत् । नीलीलवधारणे ऽपि स्नानदानजपहोमस्वाध्यायदेवतार्चनादि सर्वं निष्फलम् । नीलीक्षेत्रोत्पन्नभुक्तौ चान्द्रम् । नीलीक्षेत्रे नीलीम् उत्पाद्य द्वादशाब्दात् परं शुध्येत् । नीली[१४३]**जग्धो चान्द्रम् । नीलीं धृत्वा मैथुने गर्भश् चाण्डालो जायते । नीलीं धृत्वा मृतः षष्टिवर्षसहस्राणि विष्ठायां कृमिः स्यात् । मृते भर्तरि पत्नी नीलीं धृत्वास्ते चेत् तावन् नरके भर्ता वसेत् । नीलीं धृत्वा यद् अन्नानि दीयन्ते तत्र दातुर् भोक्तुश् च सान्तपनम् । नीलीदारुभेदे रक्तदर्शने [च] चान्द्रम् । कम्बलपट्टसूत्रे नीलीदोषो नास्ति । ऐन्द्रं चापं पलाशाग्निं चान्यस्य प्रदर्श्योपोष्य क्रमाद् धनुर् दण्डं च दक्षिणां दद्यात् । पतितम्लेच्छाशुद्धाधार्मिकसम्भाषणे पुण्यकृतो ध्यायेद् ब्राह्मणेन वा सह सम्भाषेत । विना यज्ञोपवीतेनोच्छिष्टत्वे च मत्या भक्षणे ऽम्बुपाने वा त्रिः प्राणायामाः । भोजने नक्तम् । विण्मूत्रे षट् प्राणायामाः । मत्या चेद् भक्ष्यपानविण्मूतेष्व् अष्टशतजपः । भोजने तूपवासः । भुक्त्वानाचम्योत्थाने सद्यः स्नानम् । दण्ड्यचौराद्युत्सर्गे राज्ञ उपवासः । पुरोहितस्य त्रिरात्रम् । अदण्ड्यदण्डने राज्ञस् त्रिरात्रम् । पुरोहितस्य कृच्छ्रः । स्तेनपतिताद्यपाङ्क्तेय-पङ्क्तिभोजने तूपवासः पञ्चगव्यं च । पलाशखट्वाशयनासनपादुकारोहणे त्रिरात्रं यावकम् । फलप्रदवृक्षच्छेदे ऽब्दव्रतम् । पलायमानस्य नृपस्यैवम् । विप्रयोर् अग्निविप्रयोर् गोविप्रयोर् दम्पत्योश् च मध्ये गन्तुः सान्तपनम् । होमकाले गवां दोहे सान्नायाद्यङ्गे स्वाध्याये विवाहे च मध्यगमने चैवम् । अभ्यासे चान्द्रम् । दुःस्वप्न-दुरिष्टदर्शनादौ घृतं हिरण्यं च दद्यात् । अतीर्थार्थिनः सिन्धुसौवीरसौराष्ट्राब्धि-प्रत्यन्ताङ्गवङ्गकलिङ्गान्ध्रदेशगमने पुनः संस्कारः । तीर्थार्थे न दोषः । प्रत्यर्कादिमेहने चात्मशकृद्दर्शने च सूर्यं विप्रं गां वा पश्येत् । वह्नेर् अधःकरणे पादप्रतापने च कुशैः पादमार्जने चोपवासो यावकं वा । क्षत्रवैश्ययोर् अभिवादने विप्रस्योपवासः । शूद्राभिवादने त्रिरात्रम् । शय्यापादुकोपानदासनारूढान्धकारस्थ-श्राद्धहोमजपकृद्देवपूजाभिरतानां समित्पुष्पकुशाम्बुगन्धाक्षताम्बुपाणीनाम् एतेषां चाभिवादने चैते ऽप्य् अन्यान् अभिवाद्य सर्वे त्रिरात्रं कुर्युः । अन्यत्र निमन्त्रितस्यान्यत्र भोजने ऽप्य् एवम् । इत्यादि देशकालवयोऽर्थशक्त्यपेक्षं सर्वत्र प्रायश्चित्तं देयम् । अनुपदिष्टेषु दण्डार्थवादस्तुतिनिन्दाभिः कल्प्यम् । स्त्रीवृद्धबालातुराणां च योग्यम् देयम् ।
इति प्रकीर्णप्रायश्चित्तम् ।
अथ यस् तूद्धतो महापापप्रायश्चित्तम् न कुर्यात् तस्य पतितस्य सर्वे सपिण्डा बान्धवाश् च रिक्तातिथौ सायाह्ने ग्रामाद् बहिर् अपां पूर्णं दास्याहृतं कुम्भं प्राचीनावीतिनो मुक्तशिखा गुरुसन्निधाव् अस्माकं त्वं मृत इति निनयेयुः । [१४४] ततो ऽनिरीक्षमाणा अप उपस्पृश्य ग्रामं प्रविशेयुः । ततस् तं सर्वधर्मबहिष्कृतं सम्भाषणादिषु वर्जयेत् । यदि प्रमादात् सम्भाषणादि कृतम् अमत्या सावित्रीं जपन्न् एकरात्रं तिष्ठेत् । मत्या त्रिरात्रम् । अभ्यासे ऽब्दे पातित्यम् । अथ कृतप्रायश्चित्त आगते सपिण्डास् तेन सह पुण्ये जले स्नात्वापां पूर्णकुम्भं पुण्ये देशे कले च पुण्यदिङ्मुखास् त्वम् अस्माकम् इति निनयेयुः । ततः स गोभ्यो यवसं दत्वा भक्षिते शुद्धः । न चेत् पुनः प्रायश्चित्तं चरेत् स व्यवहार्यश् च । स्त्रीणां पतितानां चैवं त्यागः प्रिग्रहश् च किं तु प्रधानगृहसमीपे कुटीं कृत्वा प्राणधारणार्थम् अन्नं मलिनं वासश् च दत्वा भोगरहितां रक्षेत् । स्त्रीणाम् अपि महापापादिपापानुपापान्य् अभ्यस्तानि चोपपापानि पतननिमित्तानि । विशेषतो हीनवर्णगमनं गर्भपातनम् अब्राह्मण्या अपि भर्तुर् हिंसनं तानि पतनहेतूनि । शिष्यगागुरुगाजुङ्गितोपगतानाम् अप्य् एवं प्रायश्चित्तम् । क्षत्रियादेः प्रायश्चित्तं ब्राह्मणम् अन्तरे कृत्वा ब्रूयात् । स्त्रीशूद्राणां जपहोमवर्जं वाच्यम् । अमन्त्रकाः प्राणायामाः सर्वत्र वाच्या एव । यागाद्यनुष्ठानशीलानुशीलानां जपादिकम् । इतरेषां तु जपादि । नामधारकमूर्खनिर्धनानां तप एवानधीयानां च । कर्तृव्यतिरिक्तैर् विज्ञातदोषो विख्यातदोषः । स विद्वान् अपि शीघ्रं पर्षदनुमतं व्रतं प्रायश्चित्तं कुर्यात् । तत्र वेदधर्मज्ञा विप्राः सहस्राद्येकान्ता यावन्तो यथायोग्यं पर्षद्य् अतिवर्जम् । पर्षद्दक्षिणा च लक्षगवादि किञ्चिदन्तं यथायोग्यं कृच्छ्रसङ्ख्या वा । पर्षत्तुष्टिर् वा । तत्र सकृद् आप्लुत्य सचैलो वाग्यतः स्नात्वार्द्रवासाः पर्षद्दक्षिणां दत्वा पापं व्याख्याय प्रायश्चित्तं तद्व्रतम् आदाय पुनः स्नात्वा व्रतं चरेत् । पर्षच् च ब्रूयात् । न चेत् तत्समा स्यात् । अज्ञात्वा वदेच् चेत् तत् पापं सर्वम् आपतेत् । पर्षन्मतं विना कुर्वन् द्विगुणं कुर्यात् । केशरक्षार्थं च द्विगुणं चरेत् । विद्वद्विप्रस्त्रीणां वपनं नेष्यते ।
इति स्मृत्यर्थसारे प्रकाशप्रायश्चित्तम् ।
** अथ रहस्यप्रायश्चित्तम् —**
तत्र कर्तृव्यतिरिक्तैर् अविज्ञातदोषो रहस्यप्रायश्चित्तं चरेत् । अविद्वांस् तु मुखान्तरेण रहस्यप्रायश्चित्तं ज्ञात्वा रहश् चरेत् । स्त्रीशूद्रांश् चैवं जपहोमवर्जम् । तत्राहारविशेषानुक्तौ पयःप्रभृतयः । कालविशेषानुक्तौ संवत्सरादयः । देशविशेषानुक्तौ शिलोच्चयादयो गौतमोक्ताः । तत्र जपेषु ऋषिदैवतच्छन्दोविनियोगा विज्ञेयाः । अमत्या ब्राह्मणवधे ऽनश्नंस् त्रिरात्रम् अन्तर्जले मग्न ऋतं च सत्यं चेत्य् अघमर्षणसूक्तं त्रिर् आवर्त्य त्रिरात्रान्ते पयस्विनीं गां दत्वा शुध्येत् । गोदानाशक्तौ **[१४५] **सव्याहृतिकान् षोडश प्राणायामान् प्रतिदिनं समावर्त्य शुध्येत् । अभ्यासे तु त्रिंशद्रात्रव्रतस्थः प्राणायामैः श्रान्तो ऽघमर्षणं जपेत् । महापापैः शुध्येत् । मत्या चेत् प्राग् वोदग् वा निष्क्रम्य स्नातः शुचिवस्त्रो जलान्ते स्थण्डिलम् उपलिप्य सकृत् क्लिन्नवासाः सकृत् पवित्रपाणिनार्काभिमुखो ऽघमर्षणं प्रातः शतं मध्याह्ने शतम् अपराह्णे शतम् उदितनक्षत्रदर्शने चापरिमितं जपेत् । प्रसृतिमात्रं यावकं पिबेत् । सप्तरात्राद् उपपापैर् द्वादशरात्रान् महापापसमैर् विंशतिरात्रान् महापापैः शुध्येत् । अन्यमहापापे मत्याभ्यासे चैवम् । निर्गुणस्य ब्राह्मणस्य वधे तु प्राग् वोदग् वा निष्क्रम्य प्रवृद्धाग्नाव् अष्टसहस्राहुतीर् जुहुयात् । अनुग्राहककर्तुश् चैवम् । निर्गुणवधे गुणवतो हन्तुस् त्रिरात्रोपोषणं त्रिषवणस्नानं त्रिर् अघमर्षणजपश् च । प्रयोजकानुमतिकर्तुश् चैवम् । निमित्तकर्तुर् अघमर्षणस्यैवं त्रिर् जपः । इति स्मृत्युक्तं ज्ञेयम् । इदं प्रायश्चित्तजातं यागस्थस्त्रीक्षत्रवैश्येष्व् आत्रेय्याम् आहिताग्निपत्न्यां गर्भिण्याम् अविज्ञाते च गर्भे चतुर्थांशन्यूनं कार्यम् । यद् वाहोरात्रोपोषितो रात्राव् उपवासं कृत्वोत्तीर्य लोमभ्यः स्वाहेत्याद्यैर् अष्टभिर् मन्त्रैः प्रत्येकं पञ्च पञ्चाज्याहुतीर् एवं चत्वारिंशज् जुहुयात् ।
इति ब्रह्महत्यादिप्रायश्चित्तम् ।
** अथ सुरापाने प्रायश्चित्तम् —**
तत्र मत्या पैष्ट्याः सकृत् पने गौडीमाध्व्योः पानावृत्तौ च त्रिरात्रोपोषितः कूष्माण्डीभिर् ऋग्भिश् चत्वारिंशद्घृताहुतीर् जुहुयात् । त्रिरात्रोपवासाशक्तौ मासं प्रत्यहं षोडशकृत्वो ऽप नः शोशुचद् अघम् … । प्रति स्तोमेभिर् उषसं वसिष्ठाः … । महित्रीणाम् अवोस्तु … । एतोन्विन्द्रं स्तवामेत्य् एषम् अन्यतमं जपेत् । मत्या चेन् महापापे ऽब्दं प्रत्यहम् । देवकृतस्यैनस इत्यादिभिर् मन्त्रैर् होमः । नम इद् उग्रं नम आविवासेत्य् अस्य वा जपं कुर्यात् । महापापाभ्यासे तु समाहितो गाम् अनुगच्छेच् चाब्दम् । भिक्षाशी पावमानीं जपेत् । महापापसमुच्चये चैवम् ।
इति सुरापानप्रायश्चित्तम् ।
** अथ सुवर्णस्तेये प्रायश्चित्तम् — **
तत्र ब्राह्मणसुवर्णहारी जले स्थित एकादशरुद्रजापी त्रिरात्रोपोषितः शुध्येत् । यद् वा भस्मच्छन्नो भस्मशय्याशनो ब्रह्मवधात् सुरापानात् सुवर्णस्तेयाद् गुरुतल्पगमनाच् च शुध्येत् । अत्यन्तनिर्गुणब्राह्मणसुवर्णहरणे त्व् अस्य वामस्य पलितस्य होतुर् इति सूक्तं सकृज् जपेत् । यज् जाग्रतो दूरम् उदैति दैवम् इत्यादि दैवषडृचं शिवसङ्कल्प**[१४६]**सुक्तं जपेत् । सुवर्णन्यूनपरिमाणस्तेये चैवम् । अनुग्राहकप्रयोजकानां चैवम् ।
इति सुवर्णस्तेये प्रायश्चित्तम् ।
** अथ गुरुतल्पे प्रायश्चित्तम् —**
तत्रामत्या गुरुपत्नीं गतस् त्रिरात्रोपोषितः सहस्रशीर्षा पुरुष इति षोडशर्चं सूक्तं चत्वारिंशत्सङ्ख्यया जपं होमं चावर्त्यान्ते पयस्विनीं गां दत्वा शुध्येत् । सुरापानसुवर्णस्तेये चैवं वा । यद् वा गुरुतल्पो हविष्यान्तम् अजरं स्वर्विदीति सूक्तं न तम् अंहो न दुरितम् इति सूक्तं वा, इति वा इति मे मन इति सूक्तं वा सहस्रशीषा पुरुष इति सूक्तं वा प्रत्यहं वा षोडशकृत्वो जपित्वा मासेन शुध्येत् । मत्या चेद् देवकृतस्यैनस इत्याद्यैर् मन्त्रैः शाकलहोमः । महापातकावृत्तौ व्याहृतिभिस् तिलैर् लक्षहोमः । व्यभिचारिणीगमने तु हविष्पान्तं वा पावमानीर् वा जनापं वा वालखिल्यान् वा निवित्प्रैषान् वा वृषाकपिं वा होतॄन् रुद्रान् वा सकृज् जपित्वा शुध्येत् । गुरुतल्पातिदेशेष्व् अतिपातकेषु पादोनं योज्यम् । गुरुतल्पसमेषु पातकेष्व् अर्धोनं सर्व्त्रैवम् । महापातकिसंसर्गे च यस्य येन सह संसर्गस् तस्यैव स प्रायश्चित्तं कुर्याद् इति गुरुतल्पे ।
इति महापातकप्रायश्चित्तम् ।
उपपातकानां रहः प्राणायामशतम् । यद् वा महापातके प्राणायामचतुःशतम् । अतिपातके त्रिशतम् । अनुपातके द्विशतम् । उपपातके शतम् । सर्वत्राभ्यासे द्विगुणम् । मत्या त्रिगुणम् । मत्याभ्यासे चतुर्गुणम् । प्रकीर्णकेषूपपापेषु चतुर्थांशप्राणायामाः । यद् वा प्रकाश उपपापे यत्र चान्द्रत्रयं तत्र तत्सहस्रप्राणायामाः । यद् वा गायत्र्या लक्षजपो महापापे । पादोनम् अतिपापे । अर्धम् अनुपापे । पादम् उपपापे । तच्चतुर्थांशं प्रकीर्णकेषु चरेत् । यद् वा गायत्र्या व्याहृतिभिर् वा तिललक्षहोमो महापापे । अतिपातकादिषु पादोनादिकम् ।
इति स्मृत्यर्थसारे रहस्यप्रायश्चित्तम् ।
** अथ कृच्छ्राणां लक्षणम् —**
तत्र व्रताङ्गभूता धर्मा यमा नियमाश् च । ब्रह्मचर्यं दया क्षान्तिर् दानं सत्यम् अकौटिल्यम् अहिंसास्तेयं माधुर्यं दमश् चेति दश यमाः । स्नानमौनोपवासेज्या-स्वाध्यायोपस्थनिग्रहगुरुशुश्रूषाशौचाक्रोधाप्रमादा इति दश नियमाः । सान्तपने कृच्छ्रे पूर्वेद्युर् अनाहारो गोमूत्रगोमयक्षीरदधिसर्पिःकुशोदकान्य् एकीकृत्य पीत्वा परेद्युर् उपवसेत् । एष द्विरात्रः सान्तपनः कृच्छ्रः । पूर्वेद्युर् उपोष्यापरेद्युर् इमानि समन्त्रकं स्वयं [१४७] सम्पूज्य हुत्वा समन्त्रकं प्राशनं यदा तदा ब्रह्मकूर्चसञ्ज्ञकम् । गोमूत्रं गोमयं क्षीरं दधिः सर्पिः कुशोदकं पञ्चगव्यसञ्ज्ञकम् । तत्र ताम्रवर्णाया गोर् मूत्रम् । श्वेताया गोमयम् । पीतायाः क्षीरम् । नीलाया दधि । कृष्णायाः सर्पिर् ग्राह्यम् । यद् वा सर्वं कापिलम् एव । अलाभे सर्ववर्णानां सर्वं ग्राह्यम् । गोमूत्रे ऽष्ट माषाः प्रमाणम् । गोमये षोडश माषाः । क्षीरे द्वादश माषाः । दधि दश माषाः । सर्पिष्य् अष्ट माषाः । कुशोदके तदर्धम् । गायत्र्या गोमूत्रम् । गन्धद्वाराम् इति गोमयम् । आप्यायस्वेति क्षीरम् । दधिक्राव्ण इति दधि । तेजो ऽसि शुक्रम् असीत्य् आज्यम् । देवस्य त्वेति कुशोदकम् । एतत् पञ्चगव्यं सप्तपत्रैर् अच्छिन्नाग्रैः शुकवर्णैः कुशैर् इरावतीदं विष्णुर् मानस्तोके शंवतीत्यन्ताभिर् अग्नौ हुत्वा हुतशेषं प्रणवेनालोड्य तेनाभिमन्त्र्य तेनोद्धृत्य तेनैव पिबेत् । मध्यमेन पलाशपत्रेण पद्मपत्रेण स्वर्णपात्रेण ताम्रपात्रेण वा ब्रह्मतीर्थेन वा पिबेत् । एतद् ब्रह्मकूर्चसञ्ज्ञकं होमसहितं विज्ञेयम् । स्त्रीशूद्रौ तु विप्रैः कारयित्वा तूष्णीं पिबेताम् । ब्रह्मकूर्चत्रिरात्राभ्यासे यतिसान्तपनम् । गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकैकं प्रत्यहं पीत्वैकरात्रोपवासे सान्तपनकृच्छ्रः साप्ताहिकः । एषु शक्त्याद्यपेक्षया योज्यम् । एवम् उत्तरत्रापि योज्यम् । महासान्तपनं तु गोमूत्रगोमयक्षीरदधिसर्पिषाम् एकैकं त्र्यहम् आवर्त्य पञ्चदशाहिकं स्यात् । यद् वा गोमूत्रगोमयक्षीरदधिसर्पिःकुशोदकानां षण्णाम् एकैकाहं त्र्यहम् आवर्त्य त्र्यहम् उपवास एकविंशतिरात्रकं महासान्तपनम् । यतिमहासान्तपनं तु गोमूत्रादीनां षण्णाम् एकैकस्य द्व्यहद्व्यहाभ्यासे स्यात् । तप्तकृच्छ्रश् च तप्तक्षीरघृतोदकनानाम् एकैकं प्रत्यहं पीत्वैकरात्रोपवासे स्यात् । यद् वोष्णजलक्षीरघृतोदकबाष्पमारुतानां चतुर्णां त्रिर् अभ्यासे द्वादशरात्रस् तप्तकृच्छ्रः स्यात् । तत्र जलं त्रिपलं क्षीरं द्विपलं सर्पिः पलमानं पिबेत् । उष्णोदकबाष्पमानं त्रिरात्रस्य पूरणमात्रम् । पादकृच्छ्र एकभक्तेन नक्तेनायाचितेनोपवासेन चैवं स्यात् । तत्र ग्राससङ्ख्यैकभक्ते पञ्चदश षड्विंशतिर् वा ग्रासाः । नक्ते द्वादश वा द्वाविंशतिर् वा । अयाचिते तु चतुर्विंशतिर् एव । सर्वे ग्रासाः कुक्कुटाण्डप्रमाणा आस्यप्रवेशप्रमाणा वा ग्राह्याः । अनयोः पक्षयोः शक्त्या विकल्पः । यद् वैवं पादकृच्छ्रः । एकभक्तत्रयं पादकृच्छ्रः शूद्रस्य देयः । नक्तत्रयं पादकृच्छ्रो वैश्यस्य । अयाचितत्रयं पादकृच्छ्रो राज्ञः । उपवासत्रयं पादकृच्छ्रो [१४८] विप्रस्येति व्यवस्था च । अर्धकृच्छ्रस् त्व् अयाचितोपवासपादाभ्यां स्यात् । पादोनकृच्छ्र एकभक्तायाचितोपवासपादैः स्यात् । प्राजापत्यकृच्छ्र एकभक्तनक्तायाचितोपवासैस् त्रिरावृत्तैः प्रातिलोम्येन त्रिर् आवृत्तैर् वा बालातुराय स्यात् । एकभक्तत्रयनक्तत्रयायाचितत्रयोपवासत्रयैः प्राजापत्यह् स्याच् छक्तानाम् उपवासः प्रातिलोम्येन वा । अतिकृच्छ्रस् तु पाणिपूरणमात्रान्न-भोजनयुक्तो न ग्राससङ्ख्याकः । यद् वैकैकग्रासाशी भोजनदिने स्याच् छक्तस्यैषो ऽतिकृच्छ्रः । शेषं पूर्ववत् । कृच्छ्रातिकृच्छ्रः पयसैकविंसतिरात्रैः स्यात् । यद् वा द्वादशत्रात्रम् अम्बुभक्षणे कृच्छ्रातिकृच्छ्रं स्याच् छक्तस्य । पराके द्वादशाहोपवासो स्यात् । सौम्यकृच्छ्रस् तु पिण्याकमोदनाग्रनिस्रावं तक्रम् उदकं सक्तूंश् च पञ्चदिनेषु क्रमात् प्राश्य षष्ठे ह्य् उपवासः स्यात् । पिण्याकादीनां परिमाणं प्राणयात्रामात्रम् एव स्यात् । पिण्याकसक्तुतक्रैर् त्र्यहं चतुर्थे ऽहन्य् उपवासो वा सौम्यकृच्छ्रः स्यात् । चान्द्रायणं तु शुक्लप्रतिपदादिदिनेषु मयूराण्डप्रमाणग्रासानाम् एकैकं वृद्ध्या पौर्णमास्यां पञ्चदश ग्रासाः स्युः । ततः कृष्णप्रतिपदादिष्व् एकैकग्रासह्रासो ऽर्थाद् अमावास्यायाम् उपवासश् चान्द्रायणं यवमध्यं स्यात् । पिपीलिकामध्यं तु कृष्ण्प्रतिपदादिप्रक्रमे पौर्णमास्यन्तं स्यात् । सर्वत्र तिथिवृद्धिह्रासे ग्रासवृद्धिह्रासः । यद् वा चत्वारिंशदधिकशतद्वयग्रासानां यथाकथञ्चिद् आवृत्त्या मासेन चान्द्रायणं स्यात् । यतिचान्द्रायणं प्रयहं दिवाष्टाष्टग्रासैर् मासेन स्यात् । शिशुचान्द्रायणं तु प्रत्यहं दिवा चतुर्ग्रासै रात्रौ चतुर्ग्रासैर् मासेन स्यात् । ऋषिचान्द्रायणं तु प्रत्यहं त्रिभिस् त्रिभिर् ग्रासैर् मासेनैव स्यात् । यतिचान्द्रायणादिषु यथाकथञ्चित् त्रिंशद्दिनमासो न चान्द्रगतिवत् । सोमायनं तु गोक्षीरं स्तनचतुष्टयजं सप्तरात्रं पिबेत् । स्तनत्रयात् सप्तरात्रम् । स्तनद्वयात् सप्तरात्रम् । स्तनैकेन षड्रात्रम् । त्रिरात्रं वायुभक्षिता चान्द्रायणधर्मता च ।
इति कृच्छ्रचान्द्रायणादिलक्षणम् ।
** अथ चान्द्रायणसाधारणधर्माः —**
त्रिकालं द्विकालं वा स्नानम् । तप्तकृच्छ्रे सकृत् स्नानम् । सर्वत्र स्नाने मार्जनाद्य् अघमर्षणादि कृत्वोत्तीर्य सौरमन्त्रेण सावित्र्या वा सूर्योपस्थानम् । ततः पुण्यमन्त्रं गायत्रीं चाष्टसहस्रं शतं [१४९] वा शक्त्या जपेत् । चतुर्भिक्षायावकपयो-दधिघृतमूलफलकन्दादिहविष्यान्नम् उच्यते । तद्धविष्यम् आप्यायस्वेत्य् अभिमन्त्र्य ग्रासान् गायत्र्याभिमन्त्रयेत् ।
अथ प्रत्याम्नायो वक्ष्यते —
प्राजापत्ये धेनुप्रदानं तन्मूल्यदानं गोदानं वा तन्मूल्यदानं वा । तच् च गोमूल्यं निष्कं निष्कार्धं निष्कपादं वा दद्यात् । अत्यशक्तौ तदर्धं तत्समभूधनधान्य-वस्त्रादीन् वा दद्याद् द्वादशब्राह्मणभोजनं वा । तावद्भूधनधान्यवस्त्रादिदानं वा संहितापारायणं वा गायत्र्ययुतजपो वा । तिलहोमसहस्रं वा । प्राणायामशतद्वयं वा शक्त्या कुर्यात् । धेनुभोजनाद्यशक्त्यपेक्षया द्वित्रिचतुःपञ्चषड्गुणं वर्धते । उपवासस्थान एकविप्रभोजनं तावद्धनधान्यवस्त्रादिदानं वा । शक्त्या द्विगुणादिवृद्धिश् च । गायत्रीसहस्रजपो वा द्वादशप्राणायामा वा शक्त्या कार्याः । चान्द्रायणस्थाने ऽष्टौ प्राजापत्याः । तप्तकृच्छ्रे षट् । अतिकृच्छ्रे त्रयः कार्याः । सुखसाध्येषु तु चान्द्रायणे त्रयः कार्याः । तप्तकृच्छ्रे सार्धकायद्वयम् । अतिकृच्छ्रे महासान्तपने च कायद्वयम् । पराके पञ्च त्रयो वा कायाः कार्याः ।
अथ कृच्छ्रस्थाने तीर्थप्रत्याम्नायो वक्ष्यते —
वेदे तीर्थे च देवे च यज्ञे चैवौषधे गुरौ ।
यादृशीं भावनां कुर्यात् सिद्धिर् भवति तादृशी ॥
क्षेत्राग्न्यापः सुरा विप्रा गुअर् गुरुस् तीर्थम् उच्यते ।
निवासहोमस्नानार्चारोषपोषैः पुनाति तत् ॥
अथ पुराणेभ्यः सर्वतीर्थप्रत्याम्नाये किञ्चिन् मूलम् उच्यते ।
ब्रह्मविष्णुशिवा देवा इन्द्रो ऽग्निर् यमनिरृती ।
वरुणः श्वसनो यक्षः सोमः गुहो गणाः ॥
एते स्वयं तीर्थभूतास् तीर्थैः सिद्धिम् अवाप्नुवन् ।
मनवो वसवो रुद्रा आदित्या मरुतो ऽनिलाः ॥
विश्वे देवस् तुषाः साध्या नागा यक्षाश् च राक्षसाः ।
इत्याद्यनेकदेवाश् च तीर्थैः सिद्धिम् अवाप्नुवन् ॥
भृगवो ऽङ्गिरसो ऽगस्त्यविश्वामित्रात्रिकश्यपाः ।
वसिष्ठाद्या महात्मानस् तीर्थैः सामर्थ्यम् आप्नुवन् ॥
[१५०] हरिश्चन्द्रो नलो वैन्यः पुरुकुत्सः पुरूरवाः ।
सगरः कार्तवीर्याद्यास् तीर्थै राज्यम् अवाप्नुवन् ॥
इन्द्रभैरवरामाद्या गौतमाद्या महर्षयः ।
ब्रह्महत्यादिपापानि तीर्थैर् एव व्यपोहयन् ॥
विश्वामित्रः सपुत्रस् तु महापापं व्यपोहयत् ।
सुतीर्थतपसा ब्राह्म्यं प्राप्य वासिष्ठशापतः ॥
त्रिशङ्कुम् अपि चण्डालं विप्रं कृत्वाप्य् अयाजयत् ।
तं तु तेनैव देहेन स्वर्गलोकम् अवेशयत् ॥
अनुपोष्य त्रिरात्रादि तीर्थान्य् अनुपगम्य च ।
अदत्वा काञ्चनं गाश् च दरिद्रो नाम जायते ॥
व्रतोपवासकृच्छ्रादीन् अकृत्वा तीर्थसेवनम् ।
अदत्वान्नाश्ववस्त्रादि दरिद्रो जायते ध्रुवम् ॥
तथा देवीपुराणे ।
पाण्डवा राज्यलोभाय दुरितोपशमाय च ।
श्रीकृष्णनारदव्यासश्रीकण्ठेन्द्राजलोमशैः ॥
मार्कण्डेयपुलस्त्याजसप्तर्षिप्रमुखैस् तथा ।
द्वादशद्वादशाब्दानि कृच्छ्राण्य् आदाय भक्तितः ॥
तीर्थैर् अकुर्वन्न् इत्यादि पुराणे श्रूयते कथा ।
विश्वनाथेन यतिना निर्बीजेन महात्मना ॥
विंशत्यब्दाच् छताब्दान्तं सर्वदा तीर्थसेवनात् ।
बहुस्मृतिपुराणज्ञैर् बहुभिः सहचारिणा ॥
कृत्स्नं तिर्थफलं प्रोक्तं यन् न साध्यम् अपीर्यते ।
मार्कण्डेयाजहनुमज्जाम्बबद्रोमशादिभिः ॥
कृत्स्नं तीर्थफलं प्रोक्तं गोदानक्रतुसाम्यतः ।
द्वापरान्ते पुराणानि व्यासः स्वल्पायुषां नृणाम् ॥
हिमान्ताद् दक्षिणे देशे सङ्कोच्य व्यवहारयेत् ।
भूतप्रेतपिशाचाश् च पितरो ब्रह्मराक्षशाः ॥
अद्यापि प्रवदन्त्य् एवं कृच्छ्रार्थे तीर्थम् अर्थवत् ।
सूतः शूद्रः पुराणज्ञस् तीर्थैर् विप्रो ऽभवत् ततः ॥
शिष्यान् ऊचे ऽक्षराङ्कानि तीर्थानि कुरुतेति वै ॥
ते विश्वकर्मणे प्रोचुर् विश्वकर्मा च सर्ववित् ।
शिष्यैः कृच्छ्राक्षराङ्गानि सर्वतीर्थेष्व् अकारयत् ॥
[१५१] अद्यापि कृच्छ्रवर्णाङ्का दृश्यन्ते तत्र तत्र च ।
लिप्यङ्कानाम् अविज्ञाने प्रकारान्तम् उच्यते ॥
पुराणस्मृतिविद् विष्नुप्रोक्ततीर्थफलाप्तये ।
उक्तं लोकोपकारार्थं यत्रासाद्यम् अपीर्यते ॥
पुराणस्मृतिषु तीर्थकल्पेषु च तीर्थफलं गोदानसमं दशधेनुसमं शतधेनौसमं गोसहस्रफलम् अग्निहोत्रफलं पुण्येष्टिफलं यज्ञफलम् अश्वमेधफलम् उपपातकनाशनं पातकनाशनं महापातकनाशनम् उपवासफलं त्रिरात्रफलं कृच्छ्रफलं चान्द्रायणफलं पक्षोपवासफलं मासोपवासफलं षन्मासोपवासफलं संवत्सरोपवासफलं लबेद् इत्यादिवचनेष्व् अर्थवादप्रशंसां विसर्ज्य सर्वत्र योग्यतया कृच्छ्राणि परिकल्प्य तीर्थफलान्य् उक्तानि । तीर्थसङ्ग्रहकारैर् अपि तथैवोक्तानि । कायकृच्छ्राचरणाशक्तानां पातित्यपरिहारार्थम् अस्माभिस् तथैवोच्यन्ते । तत्र भागीरथ्यां स्नानं षष्टियोजनगतानां षडब्दकृच्छ्रसमम् । तत्र यात्रा योजनवृद्धौ । योजनस्यार्धकृच्छ्रा वृद्धिः । पूर्वं सप्तमातृका राक्षसभयान्नद्यो ऽभूवन् । भये गते पुनर् देव्यो अभूवन् । ततो नदीशुष्कखातेषु भागीरथी सप्तवर्णा सप्तधावहत् । तासु विष्णुगङ्गादिसप्तमातृकाणां सकृत् सप्तगङ्गासु स्नानं पादकृच्छ्रसमम् । प्रयागे द्विगुणम् । गङ्गाद्वारे गङ्गासागरसङ्गमे चैवम् । वाराणस्यां गङ्गातीव दुर्लभा । समुद्रान्ते पुण्यं न गण्यते । वाराणस्यां महापातकं न प्रविशति । तत्र मृतो मुक्त एव । सर्वयात्रा देशान्तरभाषाभेदविषये महापर्वतव्यवधाने महानदीव्यवधाने षट्चतुर्द्वियोजनन्यूना भवति । यमुनायां स्नाने तु द्वादशकृच्छ्रसमं विंशतियोजनगतस्य । मथुरायां द्विगुणम् । सरस्वत्यां चतुरब्दकृच्छ्रसमं चत्वारिंशद्योजनगतस्य । प्रभासे द्वारवत्यां च द्विगुणम् । एतयोर् नद्योर् योजनवृद्धौ पादकृच्छ्रवृद्धिः । दृषद्वतीशतद्रुविपाशावितस्ताशरावतीमरुवृद्धासिक्नीमधमती-पयस्वतीघृअतवत्यादिदेवनदीषु स्नानं त्रिंशत्कृच्छ्रसमं पञ्चदशयोजनगतस्य । चन्द्रभागावेत्रवतीशरयूगोमतीदेविकाकौशिकीनित्यजलामन्दाकिनीसहस्रवक्त्रापौनःपुन्या-पूर्णपुण्याबाहुदावारुणीगण्डक्यादिदेवनदीषु स्नानं षोडशकृच्छ्रसमं द्वादशयोजनगतस्य । एतासु परस्परसङ्गमे त्रिनदीफलम् । अन्यासु समुद्रगासु महानदीषु षट्कृच्छ्रफलम् । महानदेषु महानद्यर्धफलम् । शोणमहा**[१५२]**नदे गङ्गार्धफलम् । नदेषु नद्यर्धफलम् । वैरोचननदेषु महानद्यर्धफलम् । पुष्करतीर्थेषु प्रयागसमम् । सन्निहत्यां तथैव । माहिष्मत्यादौ नित्यप्रत्यक्षाग्नौ होमो दशगुणः । गयां महानदीं सेतुरामेश्वरं सोमेश्वरं भीमेश्वरं श्रिरङ्गं पद्मनाभं पुरुषोत्तमं नैमिषं बदर्याश्रमं पुण्यारण्यं धर्मारण्यं कुरुक्षेत्रं श्रीशैलं महालयं केदारं पुष्करं रुद्रकोटिं नर्मदाम् आम्रातकेश्वरं कुब्जाम्रं कोकामुखं प्रभासं विजयेशं पुरीन्द्रं पञ्चनदं गोकर्णं शङ्कुकर्णं भद्रकर्णम् अयोध्यां मथुरां द्वारवतीं मायाम् अवन्तीं गयां काञ्चीं शालग्रामं शम्भलग्रामं कम्बलग्रामम् एवमादिमुक्तिक्षेत्राणि संसेव्य लभते गयास्नानम् । सर्वेभ्यो वाराणसी विशिष्टैव । महाप्रयागे मृतस्यापि मुक्तिर् एव । अन्यप्रयागे मरणं मुक्तिबीजम् । नर्मदायां चतुर्विंशतियोजनगतस्य चतुर्विंशतिकृच्छ्रसमम् । कुब्जिकासङ्गमे द्विगुणम् । मुक्तितीर्थे चतुर्गुणम् । ताप्यां दशकृच्छ्रसमं दशयोजनगतस्य । पयोष्ण्याम् अष्टयोजनगतस्याष्टकृच्छ्रसमम् । तत्र सङ्गमे द्विगुणम् । गोदावर्यां षष्टियोजनगतस्य त्र्यब्दं कृच्छ्रसमम् । तत्र त्रिंशद्योजन-गतस्यैकादशतीर्थेषु प्रतिलोमानुलोमस्नानं षष्टिकृच्छ्रसमम् । वञ्जरासङ्गमप्रयागे तद्द्विगुणम् । सप्तगोदावर्यां भीमेश्वरे त्रिगुणम् । कुशतर्पणे गयासमम् । वञ्जरायां द्वादशयोजनगतस्य द्वादशकृच्छ्रसमम् । गोदावर्यां विश्लेषे समुद्रान्तं षड्गुणम् । प्रणीतायां चतुःकृच्छ्रसमं चतुर्योजने । पूर्णायां तदर्धं तदर्धयोजने । कृष्णावेण्यायां पञ्चदशयोजने पञ्चदशकृच्छ्रसमम् । तुङ्गभद्रायां विंशतियोजनगतस्य विंशतिकृच्छ्रसमम् । पम्पायां तद्द्विगुणम् । हारिहरे त्रिगुणम् । भीमरथ्यां दशकृच्छ्रसमं दशयोजनगतस्य । ककुद्मतीसङ्गे पञ्चदशकृच्छ्रसमम् । तुङ्गभद्रावरदासङ्गमे पञ्चविंशतिकृच्छ्रसमम् । मलापहारिण्याम् अष्टकृच्छ्रसमम् अष्टयोजनगतस्य । निवृत्यां षट्कृच्छ्रसमं षड्योजनगतस्य । गोदावर्यां यात्रावृद्धौ योजने पादकृच्छ्रः । सिंहस्थे गुरौ सर्वत्र जाह्नवीसमम् । कन्यास्थे गुरौ कृष्णावेण्यां सर्वत्र जाह्नव्यर्धं च ग्राह्यम् । तुङ्गभद्रायां तुलास्थे गुरौ जाह्नव्यर्धम् । कर्कटे गुरौ च कृष्णावेण्यायां मलहारिसङ्गमे प्रयागे त्रिंशद्योजनगतस्य त्रिंशत्कृच्छ्रसमम् । भागीरथीसङ्गमे प्रयागे द्विगुणम् । तुङ्गभद्रासङ्गमे प्रयागे त्रिगुणम् । निवृत्तिसङ्गमे प्रयागे चतुर्गुणम् । ब्रह्मेश्वरे पञ्चगुणम् । पातालगङ्गायां मल्लिकार्जुनदर्शने षड्गुणम् । ततः पूर्वं षष्टिकृच्छ्रसमम् । लिङ्गालये द्विगुणम् । समुद्रसङ्गमे [१५३] चैवम् । कावेर्यां प्रतीचीमहानद्यां पञ्चदशकृच्छ्रफलं पञ्चदशयोजनगतस्य । ताम्रपर्णीकृतमालापयस्विनीषु द्वादशयोजनैर् द्वादशकृच्छ्रसमम् । सह्यपादोद्भवा वेदाद्रिपादोभवा नद्यः स्वदैर्ध्यानुसारेणैक-द्वित्रिकृच्छ्रफलदाः । विन्ध्यश्रीशैलोद्भवा द्विगुणाः । हिमोद्भवास् त्रिगुणाः । स्मृतौ पुराणे च यथाकथञ्चिदनुक्तौ कुल्यास् त्रिरात्रफलदाः । अल्पनद्यः कृच्छ्रफलदाः । सर्वत्र यात्रानुक्तौ कृच्छ्रसङ्ख्यया योजनसङ्ख्या स्यात् । एकयोजनगादिषड्योजनगताः सरितः कुल्याः । ततो द्वादशयोजनगता अल्पनद्यः । ततश् चतुर्विंशतियोजनगता नद्यः । समुद्रगाश् च महानद्यः । महानदीसमाख्याश्रिताश् च महानद्यस् तत्रोपवाससहितं नदीस्नानं कृच्छ्रसमम् । योजनाद् अर्वाग् अपि सूनीगर्दभीशूनीचाण्डालीकष्टगादिनद्यः पापनद्यश् च वर्ज्याः । सर्वत्र समुद्रस्नानं दर्शे कार्यम् । दैवतसमीपे सरःसरिन्नदीसङ्गमेषु सदा च कार्यम् । समुद्रस्नानं पञ्चदशकृच्छ्रसमं पञ्चदशयोजनगतस्य । प्रख्यातदेवतासमीपे तद्द्विगुणम् । तत्र स्नात्वा तद्देवदर्शने स्थाणुदर्शने च त्रिगुणम् । सेतौ त्रिंशत्कृच्छ्रसमं त्रिंशद्योजनगतस्य । स्नात्वा रामेश्वरदर्शने षष्टिकृच्छ्रसमं विन्ध्यदेशीयानाम् । सेतुरामेश्वरे जाह्नव्यां च त्रिगुणं फलम् । जाह्नवीदेदारयोस् तथैव । दक्षिणाब्धिदेशीयानां जाह्नव्यां षड्गुणम् । गङ्गादेशीयानां तु सेतुरामेश्वरे षड्गुणम् । स्कन्ददर्शने त्रिंशत्कृच्छ्रसमं त्रिंशद्योजनगतस्य च । यत्र गङ्गासञ्ज्ञास्ति तत्र चैवम् । सर्वत्र भाषाभेदपर्वतादिना यात्राह्रासो भवत्य् एव । श्रीरङ्गपद्मनाभ-पुरुषोत्तमचक्रकोटमहालक्ष्मीदर्शने लवणार्णवस्नाने त्रिंशद्योजनगतस्य त्रिंशत्कृच्छ्रसमम् । केदारे त्रिगुणम् । सर्ववैष्णवमाहेश्वरसौरशाक्तेयज्येष्ठादिपीठ-दर्शने पञ्चदशकृच्छ्रसमम् । प्रख्याते द्विगुणम् । अहोबलेऽपि तथैव । श्रीशैलप्रदक्षिणं षष्टिकृच्छ्रसमम् । श्रीशैल एकैकद्वारदर्शने द्वादशकृच्छ्रसमम् । अन्येषु प्रख्याततीर्थदेवतादर्शनेषु षट्कृच्छ्रफलम् । सिद्धक्षेत्रे स्वयम्भुदर्शनम् अन्यक्षेत्रे च त्रिकृच्छ्रसमं त्रियोजनगतस्य । सर्वत्र कृच्छ्रसङ्ख्यया त्रयोदशयोजन-सङ्ख्या विज्ञेया । यत्र यत्र यद्विशेषतया दृष्टं तच् च ग्राह्यम् । सर्वत्र देशकालविशेषेण फलविशेषो ऽस्त्य् एव । सर्वत्रोक्तदशांशफलं तीरस्थस्य योजनाद् अर्वाग् भवति तत्रापि क्रोशसङ्ख्यया तारतम्यम् अस्ति । सर्वत्र यात्रावृद्धौ यात्राफलम् । [१५४] योजने योजन उपवासः । तथा सति षड् उपवासाः प्राजापत्य इति कल्पना भवति ।
तिर्यग् यवोदराण्य् अष्टाव् ऊर्ध्वा वा व्रीहयस् त्रय ।
प्रमाणमङ्गलस्योक्तं वितस्तिर् द्वादशाङ्गुला ॥
वितस्तिद्विगुणारत्निस् ततः किष्कुस् ततो धनुः ।
धनुःसहस्रे द्वे क्रोशैंश् चतुष्क्रोशं तु योजनम् ॥
सार्धगव्यूतिदेशं च योजनं परिचक्षते ।
गव्यूतिं पञ्चसाहस्रधनुर्भिः प्रमिते विदुः ॥
यात्रासु नियमाः । एकभक्ताधःशयने अनृतौ ब्रह्मचर्यम् इत्याद्याः । तीर्थे स्नानजप-तर्पणादि कार्यम् । दैवते ऽर्घ्यपाद्याक्षतगन्धार्चनादि कार्यम् इत्यादि तीर्थप्रत्याम्नायो योज्यः । एवं स्थिते यथा मनः पूतं भवति तथा कार्यम् । परार्थे तु गन्ता षोडशांशं लभते । प्रसङ्गेन गन्तार्धफलम् । अनुषङ्गेण तीर्थं प्राप्य स्नाने स्नानफलम् एव न यात्राफलम् । पितृपितृव्यपितामहप्रपितामहमातुलश्वशुरपोषकार्थदगुर्व्-आचार्योपाध्यायार्थं तेषां पत्न्यर्थं मातृष्वसृपितृष्वस्रर्थं च स्नात्वा स्वयम् अष्टमांशं लभते । साक्षात् पित्रोः कुर्वन् पुत्रश् चतुर्थांशं लभते ।
दम्पती च सपत्न्यश् च लभन्ते ऽर्धं मिथः फलम् ।
अर्थिनां तु फलह्रासः शुश्रूषाफलम् ईदृशम् ॥
कर्कटादौ मासद्वये निरन्तरं रजस्वला महानद्यः समुद्रगाः । तास्व् अपि भागीरथि गोमती चन्द्रभागा सरस्वती सिन्धुमहानदी शरयूश् च त्रिरात्रं रजस्वलाः ।
शुष्यन्ति याः कुसरितो ग्रीष्मकाले न चोदकैः ।
पूर्यन्ते चैव वर्षासु दशाहान्ते रजस्वलाः ॥
कुल्या अल्पनद्यो नद्यश् च सप्ताहं पक्षं मासं ता रजस्वलाः । वापीकूपतडागादिषु स्वल्पोदकेषु पुराणोदकवर्जितेषु त्रिरात्रं रजस्वलात्वम् । अतस् तत्र स्नानतर्पणादिकम् अप्रशस्तत्वान् न कार्यम् । तीरवासिनां तु न निषेधः । सरस्वत्यन्यगङ्गा यमुना च सर्वे च नदाः कदाचिद् अपि न रजवलाः । स्मृतिपुराणेषु यत्र गङ्गायमुनासरस्वतीशब्दो ऽस्ति तत्रापि रजोदोषो [१५५] नास्तीत्य् आहुः । अतीरवासिनाम् अपि उपाकर्मणि चोत्सर्जने व्रतस्नाने चन्द्रसूर्यग्रहे च रजोदोषो नास्ति । क्षुद्रनद्यः सर्वा न रजस्वलाः ।
इति तीर्थविधिः ।
** अथ महापातकेषु द्वादशवार्षिकादिव्रतस्थानेषु प्राजापत्यादयस् तत्प्रत्याम्नायाश् चोच्यन्ते —**
तत्र द्वादशवार्षिके द्वादशदिनेष्व् एकैकं प्राजापत्यं परिकल्प्यैवं कल्प्यमाने षष्ट्यधिकशतत्रिंशत्प्राजापत्या द्वादशवार्षिकेषु भवन्ति । तस्मान् महापातके त्व् अमत्या सकृत्करणे षष्ट्यधिकशतत्रयं कायांश् चरेत् । तदशक्तौ षष्ट्यधिकत्रिंशद्धेनूर् दद्यात् तन्मूल्यं वा । गोमूल्यत्वेन षष्ट्यधिकत्रिंशन्निष्कान् वा निष्कार्धानि वा निष्कपादान् वा शक्त्या दद्यात् । मूल्यदाने ऽप्य् अशक्तौ तावन्त उदवासाः कार्याः । तत्राप्य् अशक्ताव् एकैकस्य प्राजापत्यस्यायुतगायत्रीजपसङ्ख्यया षट्त्रिंशल्लक्षसङ्ख्याको गायत्रीजपः कार्यः । षष्ट्यधिकशतत्रयवेदपारायणानि वा कार्याणि । तावन्ति तिलहोमसहस्राणि वा । तावन्तः शतद्वयप्राणायामा वा । इत्यादिकृच्छ्रप्रत्याम्नायत्वेन षष्ट्यधित[क?]शतत्रयसङ्ख्यया महापातकेषु योज्यम् । अतिपातकेषु पादन्यूनद्वादशाब्दनववार्षिकव्रतस्थाने सप्तत्यधिकशतद्वये कायाः कार्याः । तदशक्तौ धेनुदानादि कार्यम् । अनुपातकेषु षड्वार्षिकव्रतस्थाने साशीतिशतकायाः । धेन्वादयश् च तत्सङ्ख्याकाः । उपपातकबहुत्वे त्रैवार्षिकं व्रतं कार्यम् । तत्स्थाने त्रिवार्षिके नवतिसङ्ख्याकाः कायाः कार्याः । धेन्वादयश् च तत्सङ्ख्याकाः । एकैकोपपातकेषु त्रैमासिकव्रतम् उक्तम् । तत्स्थाने सार्धसप्त कायाः प्रत्याम्नायश् च । धेन्वादयस् तत्सङ्ख्याकाः । वृषभैकादशगोदानसहितत्रिरात्रात्मका गोवधव्रते तु सार्धैकादश काया उपवासादयश् च तत्सङ्ख्याकाः । मासपयोव्रते सार्धकायद्वयं प्रत्याम्नायश् च तद्वत् । पञ्चगव्यमासे चैवम् । पराके तु कायत्रयं प्रत्याम्नायश् च तद्वत् । सप्ताहं सान्तपने त्व् अर्धकाया इत्यादि । प्रकीर्णकेषु प्राजापत्यं पादादिकॢप्त्या कल्प्यम् । प्राजापत्यः षड् उपवासा इति वा शक्त्या कल्प्यम् ।
**अथ सर्वप्रायश्चित्तानि वक्ष्यन्ते — **
तत्र महापातकाद् अर्वाचीनपापेषु बहुषु विविधेष्व् अज्ञातादिष्व् अत्यन्तगुणवान् अत्यन्तविरक्तः प्रतिनिमित्तं कर्तुम् अशक्तौ प्रायश्चित्तं षडब्दकृच्छ्रं साशीतिशतसङ्ख्याकं प्राजापत्यं चरेत् । धेन्वादिप्रत्याम्नायं वा तत्सङ्ख्यया कुर्यात् । अभ्यासे द्विगुणं मत्या त्रिगुणं मत्या [१५६] अभ्यासे चतुर्गुणम् । अत्यन्ताभ्यासे निरन्तराभ्यासे वा पञ्चगुणम् । बहुकालाभ्यासे षड्गुणम् । प्रकीर्णकेषु क्षुद्रपापेषु चातिबहुष्व् अमत्या कृतेषु प्रतिनिमित्तं कर्तुअम् अशक्तौ प्रायश्चित्तम् अब्दकृच्छ्रं त्रिंशत्सङ्ख्याकप्राजापत्यं चरेत् । धेन्वादिप्रत्याम्नायं वा तत्सङ्ख्यया कुर्यात् । अभ्यसे द्विगुणं मत्या त्रिगुणम् । मत्याभ्यासे चतुर्गुणम् । अत्यन्ताभ्यासे निरन्तराभ्यासे वा पञ्चगुणम् । तथा बहुकालाभ्यासे षड्गुणम् । क्षुद्रपापेष्व् अज्ञातकृतेषु प्रतिनिमित्तं प्रायश्चित्ताशक्तौ कृच्छ्रातिकृच्छ्रचान्द्रायणानि कुर्यात् । तत्स्थाने द्वादश प्राजापत्यान् वा चरेत् । धेन्वादिप्रत्याम्नायं वा कृच्छ्रस्थाने तत्सङ्ख्यया कुर्यात् । अभ्यासे द्विगुणं मत्या त्रिगुणं मत्याभ्यासे चतुर्गुणम् । अत्यन्ताभ्यासे निरन्तराभ्यासे च पञ्चगुणम् । तथा बहुकालाभ्यासे शड्गुणम् । इदं प्रायश्चित्तचतुष्टयम् उत्तमस्य । मध्यमस्य द्विगुणम् । जघन्यस्य त्रिगुणम् । इष्टापूर्तशुभाशुभमहाकर्मस्व् अनुपहतानाम् अपि ज्ञर्त्विगाचार्ययजमानादीनां कृच्छ्रातिकृच्छ्रचान्द्रायणाख्यं सर्वप्रायश्चित्तं भवेत् । तत्स्थाने द्वादश प्राजापत्यान् वा तदर्धं वा वदन्ति ।
इति स्मृत्यर्थसारे सर्वप्रायश्चित्तविधिः ।
सर्वत्रानुक्तनिष्कृतौ कृच्छ्रातिकृच्छ्रचान्द्रायणानि समस्तव्यस्तरूपेण योग्यतया योज्यानि । क्षुदेषूपपापेषूपवासस् त्रिरात्रकाया वा योग्यतया योज्याः । अतिक्षुद्रेषु द्वादश षड् वा प्राणायामा योग्यतया योज्याः । स्त्रीशूद्राणाम् अमन्त्रकाः प्राणायामाः । पुरुषाहारहन्तकाराग्रदानानि वा योज्यानि तावद् धनधान्यादिदानं वा कार्यम् । होमे भूर् भुवः स्वः स्वाहेत्य् आहुतिः कार्या । कर्मण्य् अङ्गलोपे भूर् भुवः स्वर् इति जपः १०८ । वाग्यमलोपे विष्णुस्मरणं शिवस्मरणं वा । अज्ञातन्यूनसम्पूर्णतार्थम् अच्युतस्मरणं शम्भुस्मरणं वा कार्यम् ।
यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तम् अच्युतम् ॥
अज्ञानाद् अथ वा लोभात् प्रच्यवेताध्वरेषु यत् ।
स्मरणाद् एव तद् विष्णोः सम्पूर्णं स्याद् इति श्रुतिः ॥
इति पद्मपुराणवचनम् ।
इति स्मृत्यर्थसारे सर्वप्रायश्चित्तविधिः समाप्तः ।
निष्कपरिमाणम् । निष्कश् च लोकशास्त्रयोर् एकवाक्यतया माषाः, चत्वारिंशत् ४० । तदर्धं २० तदर्धं १० सुवर्णं तदशक्तौ रजतं वा । अष्टप्राजाप्त्यैर् एकं चान्द्रायणं षद्भिस् तप्त(भिर् वा) कृच्छ्रः । त्रिभिर् अतिकृच्छ्रः । एवम् अब्दव्रते त्रिंशत्सङ्ख्याकाः प्राजापत्याः ।
इति विश्वामित्रमहामहेश्वरनागभर्तृविष्णुभट्टोपाध्यायसूनुन
यज्वना श्रीधराचार्येण श्रुतिस्मृतिविदा कृते
स्मृत्यर्थसारे प्रायाश्चित्तप्रकरणं समाप्तम् ।
-
थे सेच्तिओन् wइथिन् ब्रच्केत्स् इस् ओमित्तेद् इन् थे एदितिओन्। थिस् मुस्त् बे अन् एर्रोर्, बेचौसे wओर्द्स् इन् थिस् सेच्तिओन् अरे चोम्मेन्तेद् ओन् लतेर् ब्य् थे औथोर्। ↩︎