[[धर्मानुबन्धिश्लोकचतुर्दशी Source: EB]]
[
[TABLE]
[TABLE]
॥ श्रीः॥
उपोद्घातः ।
१
ग्रन्थपरिचयः ।
अथैष प्रस्तूयते ‘धर्मानुबन्धिश्लोकचतुर्दशी’नामा धर्मशास्त्रीयोऽतिलघुर्निबन्धो मुद्रयित्वा प्रकाशयितुम् । अत्र महामहिम्ना श्रीशेषकृष्णेन श्राद्धीयं पिण्डदानमधिकृत्य तत्कार्यजातं सङ्क्षिपता शार्दूलविक्रीडिते वृत्ते चतुर्दश श्लोका विरचिताः । ग्रन्थकर्तुः प्रपौत्रेण श्रीशेषरामेण प्रमाणजातोपबृंहिता महिता टीका च तदुपरि विरचिताऽस्ति।
नानाविधेषु विविधविधासमिद्धेषु धर्मशास्त्रनिबन्धेषु जाग्रत्स्वपि काऽप्यनिर्वचनीयैव परिपाटी लघुतमस्यास्य निबन्धस्य वर्वर्ति । अत्रत्यान् चतुर्दश श्लोकान् सम्यगनुसन्दधानस्य श्राद्धीयं सर्वंकर्म सानुक्रमं नयनयोः पुरो नृत्यतीव । टीकाकर्त्राच विविधप्रमाणोपदर्शनैः श्राद्धेषु कालविशेषु च वर्जनीयावर्जनीयपदार्थानां सम्यङ्निरूपणैश्चाऽनितरसाधारणं किमपि कौशलमाविष्कृतम् । सर्वोऽप्यत्रनिरूपितः पन्थाः प्रायो दाक्षिणात्यानां सरणिमेवानुसरति।
सम्प्रति कलिकालदौरात्म्याल्लुप्तप्रायेषु धर्मनिबन्धेषु विस्मृतप्रायेषु सदाचारेषु अश्रद्धया परिह्रियमाणेषु नित्यनैमित्तिकादिकर्मसु को जानाति कदा तिलतर्पणं कर्तव्यं कदा न कर्त्तव्यम्, कीदृशैस्तिलैः के तर्पणीयाः इत्यादि । तदेतत्सकलमनेनैकेनैव लघुना निबन्धने बोधनीयमनायासेनेति को न प्रत्येति समुपादेयतामस्य निबन्धस्य।
किञ्चात्रएकस्यैव वस्तुनः वर्जनोपादाने प्रमाणभेदात्प्राप्ते अपि टीकाकर्त्रा मीमांसा- प्रकारेणैकवाक्यतां प्रदर्शयता साधु समाहिते इति कर्मठानामतीव प्रमोदास्पदम्।
२
ग्रन्थकर्तुः परिचयः ।
प्रस्तुतप्रबन्धनिर्माता विश्वविख्यातवैदुषीवैभवो महाकविः श्रीशेषकृष्णः । यः खलु न केवलम- धिकाशि, अपि तु सकले भारते वर्षे साक्षाच्छेषस्य भगवतोऽवतार इति लब्धकीर्तिर्महापण्डितः प्रथित आसीत् । एतस्य पितामहः प्रथिततमः श्रीशेष रामचन्द्रः, पिता च श्रीशेषनृसिंहः येन काशिराज श्रीगोविन्दचन्द्र निदेशेन’‘गोविन्दार्णव’नामा धर्मशास्त्रनिबन्धो निरमाथि । गोविन्दार्णवग्रन्थस्योपोद्घाते स्वपितरं इत्थं स्तौति नृसिंहः—
तर्केकर्कशतां बहन्नतितरां भाट्टे तथात्युद्भटो
वेदान्तेषु पटुस्तथाऽतिनिपुणः साङ्ख्येऽपि विख्यातधीः ॥
अष्टव्याकरणीप्रबन्धचतुरः साहित्यरत्नाकरः
क्षोणीमण्डलमण्डनैकतिलकः श्रीरामचन्द्रो गुरुः ॥
आत्मानं च,
तत्तनयः प्रथितनयः कृतविनयः सुष्ठु दुष्कृतापनयः ।
अभवद् गुणैकनिलयः श्रीनरसिंहाभिधो विबुधः ॥
आचारे चतुराननः श्रुतिवनीसञ्चारपञ्चाननः
शश्वद्यश्चषडाननः खलमिलन्मानाद्रिनिर्भेदने॥
नानाशास्त्रवचोविचारणचमत्कारे सहस्राननः
केषामेष मनोविनोदमतनोन्नासौ नृसिंहो बुधः ॥
इत्थमवर्णयत् ।
एवंविधस्य पितुः पुत्रः ‘कारणगुणाः कार्यगुणानारभन्ते’ इति न्यायमन्वर्थयन्निव नानाविध- निबन्धनिर्माणसमुद्गच्छदच्छसुयशःस्तोमभासुरो भूसुरवरः श्रीशेषकृष्णः समभवत् । यः खलु महावैयाकरणः वैयाकरणगणोपजीव्यस्य श्रीभट्टोजिदीक्षितस्य गुरुरासीत् । पण्डितराजजगन्नाथेन ‘मनोरमाकुचमर्दनम्’इत्याख्यस्य ग्रन्थस्योपोद्घाते स्पष्टमेव प्रतिपादितं श्रीभट्टोजिदीक्षितस्य श्रीशेषकृष्णशिष्यत्वम् । श्रीभट्टोजीदीक्षितेनाऽपि स्वकृतशब्दकौस्तुभाख्यनिबन्धारम्भे—-
निर्विशेषं महाशेषात् शेषकृष्णमहं भजे ।
यो मामशेषाः शेषोक्त्तीर्विशिष्यैवाध्यजीगपत् ॥
इत्युक्तवता स्वस्य शेषकृष्णशिष्यत्वं कण्ठत एवोक्तम् ।
परन्त्वयं श्लोको न सर्वेषु शब्दकौस्तुभपुस्तकेषु वर्त्तते मद्रासराजकीयपुस्तकालयस्थे पुस्तके, श्रीमतो वरकलोपाख्यवैद्यनाथशास्त्रिणः पुस्तके च वर्त्तत इति तत एवोपात्तः । इत्थं महावैयाकरणोऽप्ययं नाऽधुनातनवैयाकरणा इव शिथिलव्युत्पत्तिरासीदपितु महाकविर्नैकविध- काव्यनाटकादिनिर्माता । उक्तं च तेनैव स्वकृते कंसवधनाटके सूत्रधारनटीसंवादरूपेणो—-
सूत्र०—
पृथ्वीमण्डलमौलिमण्डनमणिः श्रीमन्नृसिंहात्मजः
कृत्वा कृष्णकविः कुतूहलवशादस्मासु यन्न्यक्षिपत् ॥
नाट्यं कंसवधाभिधानमधुना तस्य प्रयोगोद्यमं
विद्वद्राजसमाजमानसमहानन्दाय विन्दामहे ॥
नटी— ( अपवार्यं) कहं सोविकवीणं मज्झेसम्भाविज्जई ।
सूत्रधारः — अयि मुग्धे ! किमेवमाशङ्कसे,यतः—
चतुर्दशसु विद्यासु परिकर्मितचेतसः ।
कवितेति कियन्नाम तस्याश्चर्यंविपश्चितः ॥
नटी — णं भणामि पसाअकविणो विअ तस्स वि पण्डिअकइणो वाणी विअद्धजणस्स पज्जुत्ता भोदित्ति ।
सूत्र - बाढम् । यतः ।
मौलौ मन्दारदामभ्रमदलिपठलीकाकलींश्रोणिबिम्बे
कूजत्काञ्चीकलापं चरणकमलयोर्मञ्जुमञ्जीरशिञ्जाम् ॥
उत्सङ्गे करगीतं स्तन्भुवि मसृणं वल्लकीपञ्चमं वा
तत्काव्ये दत्तकर्णाशिवशिव मनुते भारती भारमेव ॥५
अपि च,
यः पीयूषमयूखधामनि सुधासागच्छकच्छेऽपि यः
क्षुभ्यत्क्षीरसमुद्रसान्द्रलहरीलावण्यपूरेऽपि यः ॥
यः कान्ताधरपल्लवे मधुरिमा नासौ समुद्गाहते
श्रीविद्वत्कविकृष्णपण्डितवचोवीचीसमीचीनताम् ॥
नटी —अज्जउत्त, णं सुणीअदि सद्दाणुसासणे दिढं कदब्भासो एसोत्ति । सूत्र०आर्ये, भूषणमेतन्नदूषणं कवीनां व्याकरणकोविदतेति ।
तथा हि—
रसालङ्कारसारापि वाणी व्याकरणोज्झिता ।
श्वित्रोपहतगात्रेव न रञ्जयति सज्जनान् ॥
महाकवेरस्य प्रबन्धानामध्येतुर्नेदं परोक्षं यदेवंविधोक्तिभिर्वस्तुस्थितेरेव कीर्तनं कृतं विद्यते नेयमंशतोऽप्यात्मश्लाघा । अस्तु ।
अस्य समयनिर्णयः ।
यवनसम्राजः पुण्यश्लोकस्याऽकबरस्य समये विक्रमीये शके १५७५-१६५० पर्यन्तं श्रीशेषकृष्णस्य काश्यां स्थितिकाल उपलभ्यते । तत्र प्रमाणानि तुसम्बत् १६४० समये देवरुखे ( देवर्षि ) ब्राह्मणानां पङ्क्तिपावनत्वविषये विवादे समुपस्थिते सति तात्कालिकैः काशीस्ठैःपण्डितैर्व्यवस्था प्रदत्ता तत्र प्रायः काशिकानां सर्वेषामेव पण्डितानां सम्मतिसूचकानि हस्ताक्षराणि वर्त्तन्ते, ‘श्रीशेष- कृष्णप्रमुखमहाराष्ट्रपण्डितानाम्’इत्याकारकं तत्र श्रीशेषकृष्णस्याऽपि सम्मतिसूचकं हस्ताक्षरमस्त्येव, स्फुटमेतेन यत्तस्मिन् समये महाराष्ट्रपण्डितेषु लब्धप्रामुख्योऽयं तदानीं कृतविद्यः कीर्तिमानासीदिति । किञ्चाऽकबरामात्यस्य टोडरमल्लस्य पुत्रो गिरिधारिराजः, यस्य प्रेरणया कंसवधाख्यं नाटकमनेन विरचितमिति स्पष्टं कंसवधस्य प्रस्तावनायाम् ।
एवमनेनैव काशीपरिसरवर्त्तिताण्डवपुरपतेरनुजन्मनो नरोत्तमस्याऽभ्यर्थनया पारिजातहरणच- म्पूर्निरमायीति तत्रैव प्रतिपादितम् । इदमुभयमपि मदुपदर्शितमेव समयमुपोद्द्बलयति । अन्यच्च, श्रीशेषकृष्णपुत्रस्य शेषवीरेश्वरस्य शिष्यः पण्डितराजो जगन्नाथः अकबर पौत्रस्य ‘शाहजहा’ख्यस्य नृपतेः सभायामासीदिति तु विश्वविदितमेव । एतावता षोडशे शतके श्रीशेषकृष्णस्याऽवस्थितिकालो निर्बाधं निर्णेतुं शक्यते ।
अनेन निर्मिता ग्रन्थाः ।
अद्यावधि नामतो रूपतो वा समुपलब्धा एतत्कृता ग्रन्थाः—
| १.प्रक्रियाप्रकाशः ( प्रक्रियाकौमुदीटीका) | २. प्राकृतचन्द्रिका, |
| ३. पदचन्द्रिका | ४. स्फोटतत्वनिरूपणम् [ मुद्रितम् ] |
| ५. पारिजातहरणचम्पूः [ मुद्रिता ] | ६. कंसवधनाटकम् [ मुद्रितम् ] |
| ७. मुरारिविजयनाटकम् | |
| ९. यङलुगन्तशिरोमणिः | |
| ११. क्रियागोपनकाव्यम् | |
| १३. ‘उपपदमतिङ्’सूत्रव्याख्यानम् | |
| १५. धर्मानुबन्धिश्लोकचतुर्दशी ( मुद्रिता ) |
इमे पञ्चदश प्रबन्धाः श्रीशेषकृष्णनिर्मिता इति ज्ञायन्ते, तत्र कंसवधनाटकं, पारिजातहरणचम्पूः, स्फोटतत्त्वनिरूपणं, इयं धर्मानुबन्धिश्लोकचतुर्दशी चेति प्रबन्ध चतुष्टयमेवाऽद्यावधि मुद्रितम् । अन्ये सर्वेऽमुद्रिता एवनिबन्धाः ।
ग्रन्थकर्तुर्वंशवृक्षः ।
( शेष वंशः )
शेष रामचन्द्रः
\।
शेष नृसिंहः
__________\।__________
\। \।
♦ शेष कृष्णः शेष चिन्तामणिः
_________\।__________
\। \।
शेष वीरेश्वरः शेष नारायणः
_______\। _______
\। \।
शेष पुरुषोत्तमः शेष चक्रपाणिः
\।
शेष गोपीनाथः
\।
♦शेष रामचन्द्रः
प्रकृतप्रबन्धस्य मूलश्लोकाः श्रीशेषकृष्णकृताः तदुपरिष्टात् वृत्तिश्च शेषरामचन्द्रकृतेति वृत्तिकारपर्यन्तमेवैषो वंशवृक्षो दर्शितः । वृत्यारम्भे शेषरामचन्द्रेण मङ्गलाचरणविधया स्वयमेवायं क्रमः प्रदर्शितः-
श्रीकृष्णं प्रणिपत्य तत्सुतमथो वीरेश्वरं तत्सुतं
श्रीविद्वत्पुरुषोत्तमं तदनुजं श्रीचक्रपाणिंततः ।
गोपीनाथगुरुं च कृष्णरचितश्लोकार्थसन्दीपनं
कुर्वे रामपदाऽभिधो भवतु तच्छ्रीविश्वनाथार्पणम् ॥ इति ।
सम्प्रत्यपि काश्यां शेषवंशो जागर्ति, परन्त्विदं दुर्वचम्, यदेष श्रीकृष्णशेषस्य वंश उत शेषचिन्तामणेरन्यस्य वेति ।
श्रीशेषकृष्णस्य समकालिकाः काशिकाः पण्डिताः ।
देवरुखे ब्राह्माणानां पङ्क्तिपावनत्वव्यवस्थापके ‘चितलेभट्टप्रकरण’नाम्ना मुद्रित पुस्तके प्रदर्शितानां पण्डितजनसम्मतिसूचकहस्ताक्षराणां पर्यालोचनेनेदं सुस्पष्टं प्रतिभाति यत्तस्मिन् समये काश्यां प्रायः सर्वविधा एवं ब्राह्मणाःस्वीयं स्वीयं दलंपृथग् व्यवस्थाप्य तदुपरि नियन्तारं चैकं प्रमुखपण्डितंन्ययुञ्जन्। इत्थं धार्मिकं युद्धं चा युध्यन्त। तत्र शेषकृष्णस्तु महाराष्ट्रपण्डितेषु प्रमुख आसीत्। भावे गणेशदीक्षितः (भावा गणेशनाम्ना प्रसिद्धः ) चित्तपावनेषु प्रमुखः, गोपीभट्टः गुर्जराणां प्रमुखः, श्रीविद्यानिवासभट्टाचार्यः( प्रसिद्धस्य विश्वनाथपञ्चाननस्य पिता ) गौडानां प्रमुखः, रघुपतिरुपाध्यायःतैरभुक्तानां मुख्य इति ।
श्रीशेषकृष्णस्य स्वकीयजातिधुरीणेषु सविशेषगौरवं स्थानमासीत्। यतः पूर्वोदितव्यवस्था- पत्रेरामकृष्णभट्टकमलाकरभट्टनन्दपण्डितधर्माधिकारिप्रभृतिषु जीवत्स्वपि महाराष्ट्रपण्डितेषु प्रामुख्येन श्रीशेषकृष्णस्यैव निर्देशो दृश्यते । तत्र हेतुः पाण्डित्यमनेकभूपालसम्बन्धसमासादि- तवैभवानुभावः कुलीनत्वं च समुदितो वक्तुं शक्यः ।
र्मानुबन्धिश्लोकचतुर्दश्या एकमेव पुस्तकं प्रायोऽन्यत्र दुर्लभमेव सम्प्रतिकाशीस्थराजकीय- सरस्वतीभवनपुस्तकालये सुरक्षितं वर्त्तते।अशुद्धिबहुलस्याप्यस्यैकस्यैवावलम्बेनमुद्रणं प्रवर्त्तितम्।
प्रक्रुते मुद्रणकार्येऽस्मत्प्रियसुहृद्व्यैः श्रद्धास्पदैः साहित्याचार्य, एम० ए० इत्याद्युपाधिधारिभिः काशीविश्वविद्यालयसंस्कृताध्यापकैः श्रीबटुकनाथशर्मंभिरकैतवेन स्नेहेन, होशिङ्गजगन्नाथशास्त्रिभिः सततसाहचर्यमनुगृह्णद्भिः, वरकलोपनामकवैद्यनाथ शास्त्रिणा च सामग्रीसम्पादनेन सविशेषं साहाय्यमाचरितमिति सधन्यवादममीषामुपकारभारं वहामि ।
येषां प्रेरणया, सन्ततोपदेशेन, कार्यानुकूलमतिप्रदानेन सम्पन्नमिदं कार्यं, ये च सर्वदा सुतनिर्विशेषं मयि स्निह्यन्ति, तेषां काशीस्थराजकीयपाठालयप्रधानाध्यक्षाणां प्रभुवरश्रीगोपीनाथकविराजशर्म- महोदयानामुपकारसागरे आगलं मज्जितो धन्यवादैस्तेषामर्हणं कर्तुमप्रभुरिति मौनमेवावलम्बे । यत्र हृदयेन हृदयं संवदति तत्र नावकाशो भाषाया इत्युपरमति ।
**सरस्वतीभवनम्
नारायणशास्त्री खिस्ते ।**
** काशी**
॥श्री॥
धर्मानुबन्धिश्लोकचतुर्दशीटीकायां प्रमाणत्वेनोपन्यस्तानां
ग्रन्थानां ग्रन्थकर्तृृणां च नामानि।
| नामानि | नामानि |
| स्मृत्यर्थसारः | कात्यायन |
| स्मृतिभास्करः | व्यास |
| आग्नेयपुराण | कार्ष्णाजिनि |
| विष्णुसमुच्चय | बौधायन |
| निर्णयामृत | कण्व |
| भविष्योत्तर | लौगाक्षि |
| पारिजात (मदनपारिजात) | उशना |
| गृह्यपरिशिष्ट | मनु |
| भविष्यपुराण | व्याघ्र |
| षट्त्रिंशत्मत | शातातप |
| वायुपुराण | छागलेय |
| विष्णुधर्मोत्तर | विज्ञानेश्वरयोगी |
| ब्राह्म | शङ्ख |
| ब्रह्मपुराण | प्रचेता |
| कालादर्श | आपस्तम्ब |
| भाष्य (व्या० महाभाष्य) | व्याघ्रपाद |
| मार्कण्डेयपुराण | अत्रि |
| आदित्यपुराण | संवर्त्तक |
| पैठीनसिस्मृति | हेलाराज |
| चन्द्रिका | भट्टाचार्य |
| सुश्रुत | माधव |
| कमलाकर | वृद्धगार्ग्य |
| गोभिल | मार्कण्डेय |
| हारीत | वृहत्पराशर |
| विष्णु | गार्ग्य |
| योगी याज्ञव्ल्क्य | हरि |
| व्यास | सङ्ग्रहकार |
| यम | बृहस्पति |
| मरीचि | देवल |
| अङ्गिरा |
श्रीशेषकृष्णपण्डितसङ्गृहीता
धर्मानुबन्धिश्लोकचतुर्दशी
<MISSING_FIG href="../books_images/1685425072.jpg"/>
श्रीकृष्णं प्रणिपत्य तत्सुतमथो वीरेश्वरं तत्सुतं
श्रीविद्वत्पुरुषोत्तमं तजनुजं श्रीचक्रपाणिंततः ॥
गोपीनाथगुरुं च कृष्णरचितश्लोकार्थसंदीपनं
कुर्वेरामपदाभिधो भवतु तच्छ्रीविश्वनाथार्पणम्॥१॥
स्मृत्यन्तरे स्नानाङ्गतर्पणमुक्तम् —
स्नानादनन्तरं तावत्तर्पयेत्पितृदेवताः ।
उत्तीर्य पीडयेद्वस्त्रं सन्ध्याकर्म ततः परम् ॥
नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानमुच्यते ।
तर्पणं तु भवेत्तस्य अङ्गत्वेन प्रकीर्तितम् ॥
तर्पणं देवताना तु कृत्वा वै प्राङ्मुखः शुचिः ।
अधिकारी भवेत्पश्चात् पितॄणां तर्पणे सदा ॥
अत्र विशेषमाह गोभिलः —
शुक्लैश्च तर्पयेद्देवान् मनुष्यान् शबललैस्तिलैः ।
पितॄंस्तु तर्पयेत् कृष्णैस्तर्पयन्तु सदा द्विजाः ॥
स्मृत्यर्थसारे —
श्राद्धे पिण्डे विवाहे च दाने चैकेन दीयते ।
तर्पणेतूभयेनैव जलं देयं तु नान्यथा ॥
** **तत्राऽऽश्वलायनेनैकहस्तेन अन्यैर्द्वाम्यां कर्त्तव्यम् । आश्वलायनो दक्षिणेनैकहस्तेन ‘दक्षिणं प्रतीपादनादेश’इति सूत्रात् । शुचिस्थलाभावे जले कर्त्तव्यम् ॥
स्मृत्यन्तरे —
गजाश्वरथपृष्ठेषु नाव्यङ्के नेष्टकाचये ।
न तर्पयेत् पितॄन् देवान्न जलस्थः स्थले क्वचित् ॥
हारीतः —
आर्द्रवासा जले कुर्यात्तर्पणाचमनं जपम् ।
शुष्कवासाः स्थले कुर्यात्तर्पणाचमनं जपम् ॥
विष्णुः —
स्थले स्थित्वा जले यस्तु प्रयच्छेदुदकं नरः ।
नोपतिष्ठति तद्वारि पितॄणां तन्निरर्थकम् ॥
यत्राऽशुचि स्थलं वा स्यादुदके देवताः पितॄन् ।
तर्पयेत्तुयथाकाममप्सु सर्वंप्रतिष्ठितम् ॥
तिलस्थापनमुक्तं स्मृत्यर्थसारे —
वामहस्ते तिलान् क्षिप्त्वा जलमध्ये तु तर्पयेत् ।
स्थलेऽश्मधातुपात्रे च रोममूले तु न क्वचित् ॥
गोभिलोऽप्याह —
अङ्गस्थै॑र्यस्तिलैः कुर्याद्देवतापितृतर्पणम् ।
रुधिरं तद्भवेत्तोयं प्रदाता किल्विषी भवेत् ॥
रोमसंस्थांस्तिलान् कृत्वा यस्तु तर्पयते पितन् ।
पितरस्तर्पितास्तेन रुधिरेण मलेन च ॥
अलोमकाङ्गेपुनर्न दोषः, अङ्गस्थतिलनिषेधवचनस्य स्थलस्छपुरुषाभिप्रायत्वम् ।
तदाह योगी याज्ञवल्क्यः —
अतोऽन्यथा चेत्सव्येन तिलान् कृत्वा विचक्षणः ।
दक्षिणे पितृतीर्थेन जलं सिञ्चेद्यथाविधि ॥
अङ्गस्थतर्पणादन्यथा जलस्थतर्पण इत्यर्थः ।
तथा —
बाहुपूर्णंतिलैः कृत्वा जलस्छस्तर्पयेत् पितॄन् ।
जलस्छेन तु कर्तव्यं पितॄणां तृप्तिमिच्छता ॥
तथा —
मुक्तहस्तेन दातव्यं न मुद्रा तत्र दर्शयेत् ।
इति स्मृत्यन्तरे । मुद्रा प्रदेशिन्यङ्गुष्ठाप्रयोगः ।
व्यासः —
उभाभ्यामपि हस्ताभ्यामुदकं यः प्रयच्छति ।
स मूढो नरकं याति कालसूत्रमवाक्शिराः ॥
एतत् श्राद्धविवाहविषयकम् ।
द्वौ हस्तौ युग्मतः कृत्वा पूरयेदुदकाञ्जलिम् ।
गोशृङ्गमात्रमुद्धृत्य जलमध्ये जलं क्षिपेत् ॥
इतियमवचनात् ।
हारीतः —
वसित्वा वसनं शुष्कं स्थले विस्तीर्णबर्हिषि ।
विधिज्ञस्तर्पणं कुर्यात् न पात्रे तु कदाचन ॥
पात्राद्वाजलमादाय शुभे पात्रान्तरे क्षिपेत् ।
जलपूर्णेऽथ वा गर्ते न स्थले तु विबर्हिषि ॥
योगयाज्ञवल्क्यः —
यद्युद्धृतं निषिञ्चेततिलान् संमिश्रयेज्जले ।
अन्यथा वामहस्ते तु ततस्तर्पणमाचरेत् ॥
तथा —
अन्वारब्धेन सव्येन नाम्रा गोत्रेण चाऽप्यथ ।
आवाह्य पूर्ववन्मन्त्रैरास्तीर्य बहुलं शुचि ॥
प्रागग्रेषु सुरान् सर्वान् दक्षिणाग्रेषु वै पितॄन् ।
सव्यं जानु तथा न्वाच्य पाणिभ्यां दक्षिणामुखः ॥
मरीचिः —
सौवर्णेन च पात्रेण ताम्ररौप्यमयेन वा ।
औदुम्बरेण खड्गेन पितॄणां दत्तमक्षयम् ॥
योगयाज्ञवल्क्यः —
अनामिकाधृतं हेम तर्जन्यां रूप्यमेवच ॥
कनिष्ठिकाधृतं खड्गं तेन पूतो भवेन्नरः॥
दर्भधारणे विशेष उक्तः स्मृतिभास्करे —
कुशाग्रे तर्पयेद्देवान् मनुष्यान् कुशमध्यतः ।
द्विगुणीकृत्य मूलाद्यैः पितॄन् सन्तर्पयेद् द्विजः ॥
आग्नेयपुराणे —
प्रागग्रेषु सुरास्तर्प्यामनुष्यासश्चैव मध्यतः।
पितरो दक्षिणाग्रेषु एकद्वित्रिमिताञ्जलीन् ॥
कात्यायनः —
देवोक्त देवतीर्थेन तर्पयेदसितोदकैः ।
अक्षतशब्देन यत्राः,
‘अक्षतारक्त यवाःप्रोक्ता न तु खण्डिततण्डुलाः’इति वाक्यात् ।
व्यासः —
एकैकमञ्जलिं देवा द्वौ द्वौ तु सनकादयः ।
अर्हन्ति पितरस्त्रींस्त्रीं स्त्रियस्त्वेकैकमञ्जलिम् ॥
विष्णुसमुच्चये —
ततः कृत्वा निवीतं तु यज्ञसूत्रमतन्द्रितः।
प्राजापत्येन तीर्थेन मनुष्यांस्तर्पयेत् पृथक् ॥
कार्ष्णाजिनिः —
सनकश्च सनन्दश्च तृतीयश्व सनातनः ।
कपिलश्चासुरिश्चैव वोढुः पञ्चशिखस्तथा ॥
एते ब्रह्मसुताः सप्त मनुष्याः परिकीर्त्तिताः ।
बौधायनः —
अथ दक्षिणतः प्राचीनावीती पितन् स्वधा नमस्तर्पयामीति ।
मरीचिः —
तिलानामप्यभावे तु सुवर्णरजतान्वितम्।
तदभावे निषिञ्चेत्तु दर्भैर्मन्त्रेण वा पुनः ॥
स्मृत्यर्थसारे —
तिलाभावे स्वर्णरौप्यताम्रदर्भयुतोदकैः ।
खड्गमौक्तिकहस्तेन कांर्यवा पितृतर्पणम् ॥
न केवलं जलेनैव कर्त्तव्यं सति सम्भवे ।
न जीवत्पितृकः कृष्णतिलैस्तर्पणमाचरेत् ॥
पादुके चोत्तरीयं च तर्जन्यां रौप्यधारणम् ।
न जीवत्पितृकः कुर्यात् जेष्ठे भ्रातरि सत्यपि ॥
एवम्प्रकारेण तर्पणमुक्तम् । तन्निषेधेऽपि क्वचित् काले च स्मृत्यन्तरे उक्तं तन्निषेधसङ्ग्रहमाह —_(भौमेऽर्के इति—)
भौमेऽर्केभृगुजे मघागृहनिशासप्तम्यनङ्गाव्हया
नन्दाजन्मदिनेषु सन्धियुगुले नो तर्पणं स्यात्तिलैः ।
**नोद्वाहव्रतचौलवृद्धिषु समार्धार्धैकमासान् क्रमा- **
न्नो दुष्येत्तु मृतौ महालयगयापुण्याहतीर्थादिषु ॥१॥
मङ्गलवासरे रवौ शुक्रे मघानक्षत्रे गृहे निशायांसप्तम्यां त्रयोदश्यां प्रतिपत्षष्ठीएकादशीषु जन्मदिने सन्ध्ययोः उदयास्तयोः तिलतर्पणं न कुर्यात् । केवलं तु कुर्यादेव । क्वचिज्जन्म- क्षत्रेऽपि। तस्येदमुपलक्षणम् ।
स्मृत्यर्थसारे —
सप्तम्यां रविवारे च जन्मर्क्षदिवसेषु च ।
गृहे निषिद्धं सतिलं तर्पणं तद्बहिर्भवेत् ॥
निर्णयामृते —
भानौ भौमे त्रयोदश्यां नन्दाभृगुमघासु च ।
पिण्डदानं मृदा स्नानं न कुर्यात्तिलतर्पणम् ॥
मरीचिरपि —
सप्तम्यां रविवारे च गृहे जन्मदिने तथा ।
भृत्यपुत्रकलत्रार्थी न कुर्यात्तिलतर्पणम् ॥
पक्षयोरुभयो राजन् सप्तम्यां निशि सन्ध्ययोः ।
विद्यापुत्रकलत्रार्थी तिलान् पञ्चसु वर्जयेत् ।
निम्बस्य भक्षणं तैलं तिलैस्तर्पणमञ्जलिम् ।
सप्तम्यां नैव कुर्वीत ताम्रपात्रे च भोजनम् ।
निषेधे क्वचित् कालनियमः । ^(_(नोद्वाहइति))। विवाहे वर्षमेकम् , उपनयने षण्मासपर्यन्तम्, चौले मासत्रयम्,वृद्धौ मासपर्यन्तम्, तिलतर्पणं न कुर्यात् ।
तदुक्तं स्मृत्यर्थसारे —
विवाहे चोपनयने चौले सति यथाक्रमम् ।
वर्षमर्धंतदर्धंच नेत्येके तिलतर्पणम् ॥
तथा च मनुः—
अतिलं तर्पणं कुर्यात् श्राद्धं कुर्यात्सपिण्डकम् ।
विवाहव्रतचूडासु वर्षमर्धंतदर्धकम् ।
वृद्धौ सत्या च तन्मासे नेत्येके तिलतर्पणम् ॥
संस्कारेषु तथाऽन्येषु जातपुंसवनादिषु । इति ।
स्मृत्यन्तरे—
यावन्मासः समाप्येत तावत्पिण्डाश्च वर्जयेत् ।
वृद्धावनन्तरं प्राज्ञस्तथैव तिलतर्पणम् ।
** **तस्य क्कचित् प्रतिप्रसवमाह - नो दुष्येत्त्विति । सपिण्डमरणे महालये गयाया पुण्यदिवसेषु तीर्थेषु चतत्कर्तव्यम्, विवाहादिप्रथमवर्षादिषु यन्निषिद्धम् ।
बौधायनः —
सप्तम्यां रविवारे च मातापित्रोः क्षयेऽहनि ।
यस्तिलैस्तर्पणं कुर्यात् स भवेत् पितृघातकः ॥
कात्यायनः —
उपरागे पितुः श्राद्धपातेऽमाया च सङ्क्रमे ।
निषिद्धेऽपि हि सर्वत्र तिलैस्तर्पणमाचरेत् ॥
तदुक्तं स्मृत्यर्थसारे —
तिथितीर्थविशेषेषु कार्यमेतेषु सर्वदा ।
पिण्डान् सपिण्डा नो दद्युःप्रेतपिण्डं विनाऽत्र तु ॥
पितृयज्ञे च यज्ञे च गयायां च महालये ।
गयासाम्यं मृताहस्य केचिदाहुः पुराणगाः ॥
एतेषु प्रेतपिण्डमात्रं न कर्त्तव्यम् । अन्यत्तु सर्वंतिलतर्पणादि कर्तव्यमित्यर्थः ॥ १ ॥
नित्यश्राद्धे विशेषमाह—नार्घ्येति–
नाऽर्घ्याव्हानविसर्जनाग्निकृतयो नो दक्षिणा नो सुराः
पिण्डामन्त्रणदातृभोक्तृनियमा नो तर्पणं नैत्यके ।
साङ्कल्पेऽपि न पिण्डदानविकिरा नोच्छिष्टपिण्डाक्षया—
व्हानाग्नौकरणावनेजनकरार्ध्या न स्वधावाचनम् ॥२॥
** अस्यार्थः**—नित्यपार्वणश्राद्धे अर्घ्याः, आवाहनं, विसर्जनं, अग्नौ करणं, दक्षिणाः, पिण्डाः, आमन्त्रणं,दातृनियमाः, भोक्तृनियमाः, एते न स्युः । तत्र श्राद्धस्वरूपंमरीचिनोक्तं—
पितॄनुद्दिश्य भोंज्यं यद्यन्नु स्यात् प्रियात्मनः ।
श्रद्धया दीयते यत्तु तच्छ्राद्धं परिकीर्तितम् ॥
एकोद्देशे एकोद्दिष्टम् \। त्र्युद्देशे पार्वणम् ।
यदाह कण्वः—
एकमुद्दिश्य यछ्राद्धमेकोद्दिष्टमुदीरितम् ।
त्रीनुद्दिश्यतु यत्तद्धि पार्वणं मुनयो विदुः ॥
तत् पुनर्नित्यनैमित्तिककाम्यभेदेन त्रिविधम् ।
तत्र नित्यं अहरहः, दर्शआब्दिकं, महालयसम्बन्धि ॥
तदाह कात्यायनः—
मृताहेऽहरहर्दर्शश्राद्धं यच्च महालये ।
तन्नित्यं च सपिण्डान्तं सङ्क्रान्तिग्रहणेषु च ॥
संवत्सरोदकुम्भं च वृद्धिश्राद्धं निमित्ततः ।
काम्पत्वं तेनैवोक्तम् ॥
** **अलभ्येषु च योगेषु तत्काम्यं समुदाहृतम् । तत्र तिथ्यादिष्वित्यादि- शब्दान्नक्षत्रवारयोगकरणेषु कैश्चित्पञ्चविधत्वं द्वादशविधत्वं चोक्तं तेषामत्रैवान्तर्भावः ।
तत्र नित्यत्वप्रतिपादनम् ।
लौगाक्षिः—
श्राद्धं कुर्यादवश्यं तु प्रमीतपितृकः स्वयम् ।
इन्दुक्षये मासि मासि वृद्धौ प्रत्यब्दमेव च ॥
तथाऽऽहोशनाः—
कुर्यादहरहः श्राद्धं प्रमीतपितृको द्विजः ।
साग्निकोऽनग्निको वाऽपि प्रतिमासं तथाब्दिकम् ॥
अहरहः श्राद्धस्वरूपं भविष्योत्तरोक्तम् —
अहन्यहनि यछ्राद्धं तन्नित्यमिति कीर्तितम् \।
वैश्वदेवविहीनं तु अशक्तावुदकेत्विति ॥
दर्शस्याऽकरणे प्रत्यवायश्रवणादपि नित्यत्वम् ।
यदाह व्याघ्रः—
न निर्वपति यः श्राद्धं प्रमीतपितृको द्विजः ।
इन्दुक्षये मासि मासि प्रायश्चित्तीयते नरः ॥
तत्राऽहरहः श्राद्धं तन्नित्यं पार्वणं च षट्दैवत्यम् ।
तदुक्तम्—
पितरो यत्र पूज्यन्ते तत्र मातामहा अपि ।
अविशेषेण कर्त्तव्यं विशेषान्नरकं व्रजेत ॥
तत्रैव तन्निषेधे वैश्वदेवविहीनमित्यनेन विश्वेदेवा निषिद्धाः ।
अथाऽन्यदपि स्मृत्यन्तरे निषिद्धम् ——
कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा ।
पितॄनुदिश्य विप्रांस्तु भोजयेद्विप्रमेव वा ।
नामन्त्रणं न होमं च नाह्वानं न विसर्जनम् ॥
न पिण्डदानं विकिरं न दद्यात्तत्र दक्षिणाम् ।
कर्तृभोक्तृनियमाः असम्भवान्न भवन्ति । ते च
नियमाः निमन्त्रणाऽश्राद्धाहर्भुक्तान्नपरिणामादयः। ते च
व्यवायपुनर्भोजनाऽनृतभाषणाऽध्ययनायासद्यूतभारो-द्वहनदानप्रतिग्रहस्तेयाऽध्वगमनदिवास्वापकलहादिवर्ज-
नानि उभयधर्माः । ताम्बूलक्षुरकर्माभ्यञ्जनदन्तधावनव-
र्जनं कर्त्तृधर्माः । निमन्त्रणमङ्गीकृत्याऽनपाकरणमाहूत-
स्याविलम्बकरणं च भोक्तृधर्माः ।
यदाह कात्यायनः —
तैलमुद्वर्त्तनंस्नानं दन्तधावनमेव च ।
कृत्ते रोमनखेभ्यस्तु दद्यात्तेभ्योऽपरेऽहनि ॥
तत्र मरीचिः—
श्राद्धीयाऽहे दशम्यां च द्वादश्यां व्रतवासरे ।
एकादश्यां व्यतीपाते तैलं मांसं च वर्जयेत् ।
गोभिलेपि —
श्वः कर्ताऽस्मीति निश्चित्य दान्तो विप्रं निवेदयेत्।
निरामिषं सकृत्भुक्त्वा सर्वभुक्तजने गृहे ।
स्मृत्यर्थसारेपि —
दन्तधावनताम्बूलं स्निग्धस्नानमभोजनम् ।
रत्यौषधपरान्नं च श्राद्धकृत्सप्त वर्जयेत् ॥
पुनर्भोजनमध्वानं भारमध्ययनं रतिम्।
दानं प्रतिग्रहं होमं श्राद्धभुक् चाऽष्ट वर्जयेत् ॥
अर्घ्यार्थंस्वागतं चाऽर्घ्यं विनाऽत्र परिवेषणम् ।
विसर्जनं सौमनस्यमाशिषां प्रार्थनं तथा ॥
विप्रप्रदक्षिणंचैव स्वस्तिवाचनकं विना ।
पित्र्यमन्यत् प्रकर्त्तव्यं प्राचीनावीतिना सदा ॥
द्वे द्वे पवित्रे ऋजुनी दैवे कर्मणि योजयेत् ।
विभज्य द्विगुणीकृत्य त्रीणि त्रीणि तु पैतृके ॥
दैव्यर्चादक्षिणात(?)स्यात्पादजान्वंसमूर्धसु ।
शिरोंसजानुपादेषु अंगादिषु च पैतृके ॥
पितृभ्यो निखिलं दद्यात् स्वधाकारेण सर्वदा ।
अक्षय्यमासनं चैव वर्जयित्वाऽर्घ्यमेव च ॥
यत्किञ्चिद्दीयते श्राद्धे देवतीर्थेन दैविके ।
पैतृके पितृतीर्थेन सर्वत्रैष विधिः स्मृतः ॥
पितॄणामासनं दद्यात् वामपार्श्वे तथा सुधीः ।
दक्षिणे चैव देवानां सर्वदा श्राद्धकर्मणि ॥
स्वाहा देवहविर्दाने स्वधा तु पैतृके वदेत् ।
दैविके हव्यमित्युक्त्वा पैतृके कव्यमित्यपि ॥
श्राद्धारम्भेसमाप्तौ च पादशौचार्चनं तयोः ।
विकिरे पिण्डदाने च कुर्यादाचमनं स्मृतम् ॥
तेषु प्रथममेवद्विः शेषाणि तु सकृत्सकृत्।
आचान्तः प्राक् कुशांस्त्यक्त्वा पाणावन्यांरक्त धारयेत्॥
श्राद्धारम्भेषु ये दर्भाः पादशौचे विवर्जयेत् ।
अर्चनादौ तु ये दर्भा उच्छिष्टान्ते विवर्जयेत् ॥
पार्वणादौ तुये दर्भा आघ्राणान्ते विसर्जयेत् ।
मार्जनादौ तु ये दर्भा नमस्कारे विसर्जयेत् ॥
विकिरे पिण्डदाने च तर्पणे स्नानकर्मणि ।
आचान्तश्च प्रकुर्वीत दर्भसन्त्यजनं बुधः ॥
अक्षय्यासनयोः षष्ठी द्वितीयाऽऽवाहने तथा ।
अन्नदाने चतुर्थी स्याच्छेषाः सम्बुद्धयः स्मृताः ॥
सम्बन्धं प्रथमं ब्रूयान्नामगोत्रं तथैव च ।
पश्चाद्रूपं विजानीयात् क्रमएषः सनातनः ॥
क्षणाऽऽवाहनसङ्कल्पे पिण्डदानाऽन्नदानयोः ।
पिण्डाभ्यञ्जनकाले च तथैवाञ्जनकर्मणि ॥
अक्षय्यासनपाद्येषु गन्धाद्याच्छादनेषु च ।
श्राद्धकर्मणि चैतेषु गोत्रं नाम प्रकाशयेत् ॥
गोत्रस्य त्वपरिज्ञाने काश्यपं गोत्रमुच्यते ।
नामानि चेन्न जानीयात्तातेत्यादि वदेत्क्रमात् ॥
नोहेन्मात्रर्घ्यपात्रे तु तिलावापे पितॄन् पदम् ।
अर्घ्यप्रदानमन्त्रेषु मात्रादिपदमावपेत् ॥
शुन्धन्तामिति पित्रादौ मात्रादिपदमावपेत् ।
स्त्रीद्वित्वे वाबहुत्वे वा तेशब्दस्योह इष्यते ॥
निर्दिशेन्नामनी द्वित्वे नामान्यपि बहूनि चेत् ।
नाम द्विवचनान्तं स्यादेकं तच्चेद् द्वयोरपि ॥
नोहेद्याइति येशब्दं वृत्तिकारवचो यथा ।
जयन्तस्वामिनः शिष्या ऊहं कुर्वन्ति या इति ॥
द्वित्वे युवांबहुत्वे तु युष्मानिति पदं वदेत् ।
अनूहेनैव पिण्डानां सकृत स्यादनुमन्त्रणम् ॥
अभ्यञ्जाथांपदं द्वित्वे बहुत्वेऽभ्यङ्ध्त्वमित्यपि ।
द्वित्वेऽञ्जथां पदं ब्रूयाद्बहुत्वेऽङ्ध्वंपदं वदेत् ॥
दद्याद्दशामनूहेन मन्त्रस्याऽऽवृत्तिरिष्यते ।
अनूहेनैव षट् पिण्डान् सकृदेवोपतिष्ठते ॥
अनूहेनोभयेषां स्यात् युगपञ्च प्रवाहणम् ।
पिण्डद्वयमनूहेनपत्नीं वै प्राशयेदथ ॥
नाऽप्रोक्षितं स्पृशेत्किञ्चिन्न वदेन्मानुषीं गिरम् ।
न चोद्वीक्षेत भुञ्जानं न चैवाऽश्रूणि पातयेत् ॥
त्यजेत् क्रोधं प्रमादं च श्राद्धे न त्वरितो भवेत् ।
दैवे पित्र्ये च सर्वत्र जपहोमादिकर्मसु ॥
मौनं कुर्यात् प्रयत्नेन सम्यक् फलमवाप्नुयात् ।
यदि वाक्यप्रलोपः स्याज्जपहोमाऽर्चनादिषु ॥
व्याहरेद्वैष्णवं मन्त्रं स्मरेद्वाविष्णुमव्ययम् । इति ।
तत्र क्षयाहश्राद्धमेकोद्दिष्टं पार्वणं वा यथास्वकुलाचारं कुर्यात् ॥
उभयबिधवाक्यबलात् । वाक्यानि च यदाह—
यमः—
सपिण्डीकरणादूर्ध्वंप्रतिसम्वत्सरं नरैः ।
मातापित्रोः पृथक् कार्यमेकोद्दिष्टं मृतेऽहनि ॥
शातातपोऽपि—
सपिण्डीकरणं कृत्वा कुर्यात् पार्वणवत्सदा ।
प्रतिसंवत्सरं श्राद्धं छागलेयोदितो विधिः॥ इति ।
** **अत एव शिज्ञानेश्वरयोगिना व्रीहियववद्विकल्पइत्युक्तम् । अमावास्यायाम- परपक्षे च मृतानां पार्वणमेबोद्दिष्टम् ।तदुक्तं _(शङ्खेन—)
अमायां वा क्षयो यस्य प्रेतपक्षेऽथवा यदि ।
पार्वणं तस्य कर्तव्यं नैकोद्दिष्टं कदाचन ॥
सन्यासिनां तु पार्वणमेव।
तदुक्तं प्रचेतसा—
दण्डग्रहणमात्रेण नैव प्रेतो भवेद्यतिः ।
अतः सुतेन कर्तव्यं पार्वणं तस्य सर्वदा॥
साङ्कल्पश्राद्धे विशेषमाह —साङ्कल्पेति— साङ्कल्पश्राद्धे पिण्डदानं, विकिरं, उच्छिष्टपिण्डं, अक्षय्यं, उपतिष्ठतामिति मन्त्रः, आवाहनं, अग्नौकरणं, पाद्यं, हस्तशुद्धिः, अर्घ्याः,स्वधावाचं न च नेत्यर्थः ।
तदुक्तं स्मृत्यन्तरे—
अशक्त्या पार्वणश्राद्धं यथावत् कर्तुमक्षमः ।
पिण्डार्घ्यादिविहीनन्तु साङ्कल्पश्राद्धमाचरेत् ॥
साङ्कल्पन्तु यदा कुर्यात् न कुर्यात्पात्रपूरणम् ।
नाऽऽवाहनाग्नौकरणे न पिण्डान् विकिरं न च ॥
साङ्कल्पश्राद्धं नाम साङ्गोपाङ्गानुष्ठानासमर्थस्य सङ्कल्पेन दानमात्रम् ॥ २ ॥
अथ एकोद्दिष्टश्राद्धे विशेषमाह — एकोद्दिष्टेति—
एकोद्दिष्टविधौ च नाग्निकरणाव्हाने स्वधावाचनं
पात्रन्युब्जविधानसंस्रवसुराः पिण्डेन च त्वामनु ।
एकार्घ्यैकपवित्रता स्वदिनमित्यापृच्छय तृप्तिं वदे-
दक्षय्येत्युपतिष्ठतामिति विसर्गे चाभियुग्रम्यताम्॥३॥
अस्यार्थः—एकोद्दिष्टे अग्नौकरणम् । आवाहनम् । स्वधावाचनम् । पात्रन्युब्जविधानम् । संस्रव उदकस्य \। देवाः । पिण्डे च ये च त्वामत्रान्विति मन्त्रः । एतानि नेत्यर्थः । एकोऽर्घ्यः । एकं पवित्रम् । स्वदिनमिति प्रश्रमन्त्रः । तृप्ताः स्म इति उत्तरमन्त्रः । विसर्गे चअभियुक् रम्यतां इति मन्त्रः । एतान्येव भवन्तीत्यर्थः ।
उक्तं च स्मृत्यन्तरे—
काम्यमभ्युदयेऽष्टम्यामेकोद्दिष्टमथाष्टमम् ।
चतुष्वेंषुकरे होमः पिण्डदानं द्विजान्तिके ॥
पिण्डनिर्वपणं के चिन्नेच्छन्त्यस्मिंश्चतुष्टये ।
एकोद्दिष्टं दैवहीनमेकार्घ्यैकपवित्रकम् ॥
आवाहनाग्नौकरणरहितं त्वपसव्यवत् ।
पिण्डनिर्वणं कार्यं न वा कार्यं नराऽधिप ॥
आपस्तम्बोऽप्याह—
सङ्कल्पश्राद्धे अर्घ्याऽऽवाहनाऽग्नौकरणपिण्डस्वधावाचनानि वर्जयेदिति ॥ ३ ॥
अथ पक्वान्नेन श्राद्धासम्भवे कर्त्तव्यतामाह—पाकाभावइति ।
पाकाभावे तु तीर्थग्रहसुतजननापत्सु चाऽऽमेन हेम्ना
वाप्याहाराच्चतुस्त्रिद्विगुणमवरतोऽन्ये तु पाकेन नैच्छन्॥
नापोशानावगाहाविह च न च यथासौख्ययुक् जुष्टतृप्ति—
प्रश्रौ चाऽऽमेन पिण्डाः करइह हवनं हेम्निपिण्डे विकल्पः॥४॥
अस्यार्थः —पाकाभावः तीर्थे ग्रहणे सुतजनने आमेन।अथ वा हेम्ना। आहाराच्च- तुर्गुणेन वा । अवरतः —त्रिगुणेन द्विगुणेन वा श्राद्धं कर्तव्यम् । अन्ये तु पाकेन नेच्छन्ति । आमेन वा इच्छन्ति । अपोशानम् । अवगाहो नाम अङ्गुष्ठनिवेशनम् । यथासुखं जुषघ्वमिति मन्त्रः । एतेन । अथ आमेन पिण्डाः । करे हवनं एतानि भवन्ति । हेमश्राद्धे पिण्डविकल्पः ।
यदाहकात्यायनः—
आपद्यनग्नौ तीर्थे च प्रवासे पुत्रजन्मनि ।
आमश्राद्धं प्रकुर्वीत यस्य भार्या रजस्वला ॥
व्याघ्रपादोऽपि —
आर्तवे देशकालानां विप्लवे समुपस्थिते ।
आमश्राद्धं द्विजैः कार्ये शूद्रः कुर्यात्सदैव हि ॥ इति ।
इदं च मृताहश्राद्धव्यतिरिक्तविषयम् ।
यदाह लौगाक्षिः—
पुष्पवत्स्वपि दारेषु विदेशस्थोऽप्यनग्निकः ।
अन्नेनैवाब्दिकं कुर्याद्धेम्ना नाऽऽमेन वा क्वचित् ॥
मरीचिरपि—
अनग्निश्च प्रवासी च यस्य भार्या रजस्वजला ।
आमश्राद्धं प्रकुर्वीत न कुर्यात्तन्मृतेऽहनि ॥ इति ॥
इदमेकस्त्रीविषयम् । स्त्र्यन्तरेतु सहाधिकाराऽनपायात् अमावास्यादिश्राद्धं भवत्येव तन्मृतदिने। यदा तु अपुत्रा स्त्री एव कर्त्री रजस्वला भवति,
तदुक्तम् —
अपुत्रा तु यदा भार्या सम्प्राप्ते भर्तुराब्दिके।
पञ्चमेऽहनि तत्कुर्यान्न कुर्यात्तन्मृतेऽहनि ॥
यस्य भार्येति यछब्देन भर्ता न निर्दिश्यते किन्तुसम्प्रदानकर्तुश्चंत् स्त्रीरजस्त- दाऽस्मिन्नेव दिने पाकेनैव कर्त्तव्यम्\।
सङ्ग्रहकारोऽप्याह —
विदेशगोवा विगताग्निकोवा रजस्वलायामपि धर्मपत्न्याम् ।
श्राद्धं मृताहे विदधीत पाकैरामेन हेम्ना न तु पञ्चमेऽन्हि ॥
व्यासोऽप्याह —
अन्नाभावे द्विजाभावे प्रवासे पुत्रजन्मनि ।
हेमश्राद्धं प्रकुर्वीत यस्य भार्या रजस्वला॥
यत्तु पारिजातादावुक्तम् —
मासिकानि सपिण्डानि अमावास्या तथाऽऽब्दिकम् ।
अन्नेनैव तु कर्त्तव्यं यस्य भार्या रजस्वला ॥
इतिवचनमुदाहृत्य अमावास्यायां मासिकश्राद्धविधायिवचनानि तु पाकयोग्य- स्त्र्यन्तराभावविषयाणि, तच्चिन्त्यम् । अन्नाभावे द्विजाभावे इति पुथगुदाहृत्य आमश्राद्धं प्रकुर्वीतेति स्वयमेव प्रघट्टकान्तरे उदाहृतेन सह विरोधात् । न हि तत्राऽप्यभावपरता पृथगुपादानेन वैयर्थ्यात् । उदाहृतस्मृतिस्तु भार्यान्तरविषयकतया कथञ्चिन्नेया \।
गोभिलः—
दर्श रविग्रहे पित्रोः प्रत्याब्दिकमुपस्थितम् ।
अन्नेनाऽसम्भवे हेम्ना कुर्यादामेन वा सुतः॥ इति ।
आमश्राद्धे पक्वान्नस्थाने आममात्रं विशेषः ।विधिः सर्वोऽपि स एव ।
तदुक्तं व्यासेन—
सिद्धान्ने तु विधिर्यः स्यादामश्राद्धेऽप्ययं विधिः ।
अनेन आवाहनादिपिण्डदानानीति यमेन परिगणनात्हेम्ना पिण्डादिव्यावृत्तिः । विकल्पो वचनान्तराऽनुरोधात्।तदुक्तं गृह्यपरिशिष्टे—
एवं सपिण्डकवृद्धिश्राद्धानुष्ठानाऽशक्तौ नेह पिण्डाइत्यन्ये ।
भविष्यत्पुराणे च —
पिण्डनिर्वपणं कुर्यान्न वा कुर्यान्नराधिप ।
वृद्धिश्राद्धे महाबाहो कुलधर्मानवेक्ष्य तु ॥
तत्र पिण्डदानं आमेनैव न पाकेन । तदुक्तं तेनैव—
दद्याद्यच्च द्विजातीनां श्रितं वाऽश्रितमेव वा ।
तेनाग्नौकरणं कुर्यात् पिण्डांस्तेनैव निर्वपेत् ॥
षट्त्रिंशन्मते विशेष उक्तः—
आमश्राद्धं यदा कुर्यात् पिण्डदानं कथं भवेत्।
गृहपाकात् समुद्धृत्य सक्तुभिः पायसेन वा ॥
आमान्ने विशेष उक्तोव्यासेन—
आमं ददातु कौन्तेय दद्यादामं चतुर्गुणम् ।
चतुर्गुणत्वं पुरुषाहाराऽपेक्षया, द्विगुणत्रिगुणदानमशक्तविषयम् ।
स्मृत्यन्तरे—
आमं तु द्विगुणं प्रोक्तं हेमश्राद्धं चतुर्गुणम् ॥४॥
तीर्थश्राद्धं विशेषमाह —तीर्थ इति—
तीर्थेऽर्घ्याऽऽवाहनाग्नौकरणविकिरदृक्दोषदिग्बन्धतृप्ति-
प्रश्नाङ्गुष्ठऽवगाहा न च भवति विसर्गोऽपि तीर्थाप्तिहेतौ ॥
**पिण्डाः संयावसत्किङ्गुदगुडतिलपिण्याककैः पायसैर्वा **
क्षेप्यास्ते गोऽजविप्रानलपयसि पयस्येव तीर्थे विसृज्याः॥ ५ ॥
** अस्यार्थः—**तीर्थश्राद्धे अर्घ्यः, आवाहनम्, अग्नौकरणम्, विकिरः, शूद्रादिदृष्ट्युपघातः, दिग्बन्धः, ‘अपहतासुरा’इति मन्त्रेण, तृप्तिप्रश्नमन्त्रः तृप्ताः स्छ इति, अङ्गुष्ठावाहनम्, एतानि न स्युः।
तदुक्तं स्मृत्यन्तरे—
अर्घ्यमावाहनं चैव द्विजाङ्गुष्ठनिवेशनम् ।
तृप्तिप्रश्नं च विकिरं तीर्थश्राद्धे विवर्जयेत् ॥
पिण्डसाधनीभूतद्रव्याण्याह—_(पिण्डाइति—)संयावो गोधूमविकारः । सक्तुशब्देन पिष्टम् । इङ्गुदं तापसतरुफलं टेंबुरणीतिप्रसिद्धम् । गुडः तिलपिण्याकः पायसम् । एतैः कार्या इत्यर्थः ।तदुक्तं स्मृत्यन्तरे—
पिण्डान् कुर्यात्तु संयावतुषपायससक्तुभिः ।
पिण्याकेक्षुरसैर्वाऽपि तिलैरथ घृताक्षतैः ॥
पिण्डप्रतिपत्तिमाह—पयस्येवेति।तीर्थश्राद्धे पयसि उदके विसृज्याः क्षेप्या इत्यर्थः । अन्याऽपि प्रतिपत्तिः पुराणान्तरे उक्ता । तथा च वायुपुराणे—
पत्न्यै पुत्रार्थंदद्यातु मध्यमं मन्त्रपूर्वकम्।
‘आधत्त पितरो’गर्भमन्त्रः सन्तानवर्धनः । इति ।
बृहस्पतिः—
अन्यदेशगता पत्नी गर्भिणी रोगिणी तथा ।
तदा तं जीर्णवृषभश्छागो वा भोक्तुमर्हति ॥इति ।
देवलः—
ततः कर्मणि निर्वृत्ते तान् पिण्डांस्तदनन्तरम् ।
ब्राह्मणोऽग्निरजो गौर्वा भक्षयेदप्सु वा क्षिपेत् ।
एतच्च पुत्रार्थित्वाभावविषयकम् । मध्यमपिण्डविषयकं वा । तीर्थश्राद्धे तु अप्स्वेव पिण्डप्रक्षेपः।
तदुक्तं विष्णुधर्मोत्तरे—
तीर्थश्राद्धेसदा पिण्डान् क्षिपेत्तीर्थे समागतः ।
दक्षिणाऽभिमुखो भूत्वा पित्र्या दिक्सा प्रकीर्तिता । इति ।
एतेषु श्राद्धेषु पिण्डपरिमाणमाह —
प्रत्यब्दे बिल्वमात्रं तदधिकपृथुलं द्वादशाहात्सपिण्डी-
कृत्यन्तेऽन्तर्दशाहे त्वतिपृथुलमितो निर्वपेत्पिण्डमेकम् ॥
पर्वण्युच्चैः कपित्थाऽमलबदरशमीपत्रकैः कुक्कुटाण्डै-
स्तुल्यान् शक्त्या प्रदद्यादितरकरयुजा पाणिना दक्षिणेन ॥६॥
** अस्यार्थः**—प्रतिसंवत्सरं बिल्वप्रमाणं द्वादशाहोत्तरं सपिण्डीकरणपर्यन्तं अस्मादधिकं पृथुलम् । दशदिनमध्ये नालिकेरप्रमाणं पृथुलतरं एकसम्प्रदानकमेकं पिण्डं दद्यात् । पर्वादिषु तु कपित्थं आमलकं बदरीफलं शमीपत्रं कुक्कुटाण्डं एतैस्तुल्यपरिमाणान् पिण्डान्दद्यात् । इति ।तदुक्तम्—
दशाहेनालिकेराभं ततो न्यूनं सपिण्डनात्।
आब्दिके बिल्वमात्रंतु कपित्थाभंतु दार्शिके ॥
शमीपत्रप्रमाणेन पिण्डं दद्यात् गयाशिरे ।
बदर्याभं च वृद्धौ स्यादामलाभं मृतेषु हि ॥
तेषु तेषु यथापरिमाणपिण्डदानाशक्तौ यथाशक्ति आमलकादिपरिमाणकं ग्राह्यम्।
तदाह —शक्त्या प्रदद्यादिति । पिण्डदाने विशेषमाह —इतरेति । वामहस्त- युक्तेन दक्षिणेन हस्तेन पिण्डा दातव्या इत्यर्थः ॥ ६ ॥
कालविशेषे पिण्डनिषेधमाह —
नन्दानङ्गार्कशुक्रक्षितिसुतभरणीरोहिणीरेवतीषु
पित्र्याश्लेषात्रिजन्मस्वयनविषुवयौगादिमन्वादिपाते ॥
संक्रान्तौ चाऽपि पिण्डानिह न निपृणुयात् पुत्रमित्रायुरर्थी
श्राद्धे तत्तत्प्रयुक्ते तदितरजनिते त्वत्र नैतन्निषिद्धम्॥७॥
** अस्यार्थः— **प्रतिपत्षष्ठ्येकादशीषु, त्रयोदश्यां, रवौ, शुक्रै, भौमे, भरणीरोहिणी- रेवतीषु, मघायां, आश्लेषायां, त्रिजन्मभेषु, अयने, विषुवे, युगादौ, मन्वादौ, व्यतीपाते, सङ्क्रान्तौ, पुत्रमित्रायुरर्थिभिः पिण्डदानं न कार्यमित्यर्थः॥ तत्र विषुवेतुलामैषौ । अयने मकरकर्कटौ । उक्तं च—
अयने विषुवे द्वे च चतस्रः षडशीतयः ।
चतस्रो विष्णुपद्यश्च सङ्क्रान्त्यो द्वादश स्मृताः॥
भविष्यत्पुराणे —
नवभ्यां शुक्लपक्षस्य कार्तिके निरगात्कृतम् ।
त्रेता सिततृतीयायां वैशाखे समपद्यत ॥
दर्शेतु माघमासस्य प्रवृत्तं द्वापरं युगम् ।
कलिः कृष्णत्रयोदश्यां नभस्ये मासि निर्गतः ॥
युगादयः स्मृता ह्येते दत्तस्याऽक्षयकारकाः ।
ब्राह्मे तु —
माघमासे पौर्णमास्यां घोरं कलियुगं तथा । इति ।
तृतीया माधवेशुक्ला नवम्युर्जे त्रयोदशी ।
कृष्णा नभस्ये माघेऽमा कृते ते ते युगादयः ।
तिथ्यग्नीनतिथिस्तिथ्याशे कृष्णे भोनलोग्रहाः । (?)
तिथ्यर्कौन शिवोश्वोमातिथीमन्वादयो मधोः॥
मधोरिति ल्यब्लोपे पञ्चमी । मधुमासमारभ्य द्वादशभिः पदैः क्रमात् मन्वादयो ज्ञेयाः ।
** अस्यार्थः** —तिथिः पौर्णिमा अग्निस्तृतीया एते चैत्रे। वैशाखे मन्वादिर्नास्तीत्यर्थः । पूर्णिमा ज्येष्ठे। पूर्णिमादशम्यौ चाऽऽषाढे \। कृष्णाष्टमी श्रावणे । तृतीया भाद्रपदे । नवमी आश्विने । पूर्णिमाद्वादश्यौकार्त्तिके । न मार्गशीर्षे नास्तीत्यर्थः । एकादशी पौषे । सप्तमी माघे । दर्शपूर्णिमे फाल्गुने।
एतदाह–बृहत्पराशरः_(—)
युगादिषु मघायां च विषुवेऽप्ययने तथा ।
भरणीषु च कुर्वीत पिण्डनिर्वपणं न हि ॥
ब्रह्मपुराणे —
यदा च श्रोत्रियोऽभ्येति गृहं वेदविदग्निचित् ।
तेनैकेन तु कर्तव्यं श्राद्धं विषुववच्च तत् ॥
विषुववत् पिण्डरहितमित्यर्थः ।
अयनद्वितये श्राद्धं विषुवद्वितये तथा ।
सङ्क्रान्तिषु च कर्त्तव्यं पिण्डनिर्वपणादृते॥
गार्ग्यः—
नन्दायां भार्गवदिने त्रयोदश्यां त्रिजन्मसु ।
एषु श्राद्धं न कुर्वीत गृही पुत्रधनक्षयात्॥
कार्ष्णाजिनिरपि—
मघायां पिण्डदानेन ज्येष्ठः पुत्रो विनश्यतेि ॥
वृद्धगार्ग्योपि —
प्राजापत्ये च पौष्णे च पित्र्यर्क्षे भार्गवे तथा ।
यस्तु श्राद्धं प्रकुर्वीत ज्येष्ठः पुत्रो विनश्यति ॥
भानौ भौमे त्रयोदश्यां नन्दाभृगुमघासु च ।
पिण्डदानं मृदा स्नानं न कुर्यात्तिलतर्पणम् ॥
स्मृत्यन्तरे च—
न नन्दासुभृगोर्वारे रोहिण्यां च त्रिजन्मसु ।
रेवत्यां च मघायां च कुर्यादापरपक्षिकम् ॥
नन्दाश्वकामख्यारभृग्वग्निपितृकालभे।
गण्डे वैधृतिपाते च पिण्डास्त्याज्याः सुतेप्सुभिः ॥
** **अश्वः सप्तमी कामस्त्रयोदशी आरो भौमः अग्निः कृत्तिका । पित्र्यं मघा कालभं भरणी । अयंतुनिषेधः तत्तत्प्रयुक्ते भरण्यादिप्रयुक्तइत्यर्थः । तदितरजनितेक्षयाहादिनिमित्ते न निषेध इत्यर्थः ॥अथ क्वचित् प्रतिनिमित्तं श्राद्धभेदे प्राप्ते तन्त्रेण कचिदनुष्टानं निरूप्यते । यत्र निमित्तानां यौगपद्यं सम्प्रतिपन्नदेवताकत्वं च तत्राऽगृह्यमाणविशेषलभ्यमेव तन्त्रम्। यथायुगादिसङ्क्रान्त्योः । तथा च सङ्क्रान्तिनिमित्तकममावास्यानिमित्तकं चेत्येतानि श्राद्धानि तन्त्रेण करिष्ये इति सङ्कल्पः । यद्यप्यमायां पिण्डाद्यङ्गं न तु सङ्क्रान्त्यादौ, तथा च गृह्यमाणशेषतया तन्त्रानुपपत्तिस्तथाऽपि प्रसङ्गात्सिद्धिरेवाऽत्र बोध्या । पश्वर्थमनुष्ठितैः प्रयाजैरिव पुरोडाशे ।उक्तं च कालादर्शे_(—)
नित्यदार्शिकयोश्चोदकुम्भमासिकयोरपि ।
दार्शिकस्य युगादेश्चदार्शिकालभ्ययोगयोः ॥
दार्शिकस्य च मन्वादेः सम्पाते श्राद्धकर्म्मणाम् ।
प्रसङ्गादितरस्याऽपि सिद्धेरुत्तरमाचरेत् ॥
अस्थार्थः—नित्यश्राद्धदार्शिकश्राद्धयोः सन्निपाते दर्शश्राद्धेनैव नित्यश्राद्धसिद्धिः । न च विनिगमनाभावात्वैपरीत्यम्। अङ्गबाहुल्येन दर्शस्याऽऽवश्यकत्वात्।तथामासिकैनैवोदकुम्भादिसिद्धिः । तथाग्रहणालभ्ययोगादिश्राद्धेनैव दर्शसिद्धिः ।
ननु दर्शेपिण्डदानमङ्ग, युगादौ भावोऽङ्गम् । तथा च विरुद्धाङ्गयोगयोः कथं तन्त्रं, न तौ पशौकरोतीति प्रकरणं तस्यापि पर्युदासाभ्युपगमात् । इहापि पिण्डेतरदङ्गं न तु तदभावः । भाष्येऽपि ख्युन्विधावेवमेवस्थितम् । उक्तं च हरिणा_(—)
भिन्नप्रकरणस्थं च वाक्यं न्यायापवादयोः ।
एकमेवेष्यते कैश्चिद्भिन्नरूपमिव स्थितम् ॥
द्वितीये योऽलुगारव्यानतच्छेषमलुकं विदुः ॥
न्यायउत्सर्गः । अलुकं चातुर्थिकं षाष्ठिकं चेति हेलाराजः । भट्टाचार्यमते तु न तौ पशौइतिवाद्विकल्पः । एतेन युगादिमन्वादिभ्यामपिण्डकाभ्यां दर्शसिद्धिरिति वदनकालादर्शोऽपि निरस्तः । देवताभेदे तु न तन्त्रमिति स्त्रयमूह्यम् ॥ ७ ॥
अथ कालविशेषे सामान्यतः पिण्डनिषेधमाह—
नोद्वाहोद्बन्धचूडासुतजनिषु समाऽर्धाऽर्धमासान् क्रमेण
नो दुष्येत् प्रेतपक्षे यमतिथिमतिपुण्याहतीर्थे गयायाम् ।
श्राद्धागारे श्वकाकाऽन्त्यजपतितखरक्लीबकुष्ठास्तु वैश्यो-
दक्या विट्सूकरस्त्रीजितवृषलसरुक्कुक्कुटव्यङ्गमूकाः॥८॥
अस्यार्थः —विवाहेव्रतबन्धे चूडायां पुत्रजन्मनि च वर्षं षण्मासं मासत्रयं एकमासं क्रमेण यथासङ्ख्यं पिण्डदानं न कर्तव्यमित्यन्बयः । अत्रोपोद्बलकवचनानि पूर्वमेवोक्तानि । पिण्डस्य प्रतिप्रसवमाह –नो दुष्येत्त्विति । प्रेतपक्षे अपरपक्षे यमतिथौ मृतौ प्रेते पुण्यदिने तीर्थे गयायां पिण्डदानं कर्त्तव्यमित्यर्थः । तथा च,
महालये गयाश्राद्धे मातापित्रोः क्षयेऽहनि ।
कृतोद्वाहोऽपि कुर्वीत पिण्डदानं यथाविधि ॥
कृतोद्वाह इति कृतोपनयनस्याऽप्युपलक्षणम् । भूमिशुद्धिं चाण्डालादि- दृष्ट्युपहतानां निषेधं तच्छुद्धिं चाऽऽह_(श्राद्धागारे) इति । श्राद्धगृहे, श्वानः, काकः, चाण्डालः, पतितः, गर्दभः, षण्ढः, कुष्ठी, मार्जारः, वेश्या, रजस्वला, ग्राम्यसूकरः, स्त्रीजितपुरुषः, वृषलः, शूद्रः, रोगी, कुक्कुटः, अङ्गहीनः, मूकः, एते निषिद्धाः ।
किं च—
छत्रं पत्राणचित्रारुणमखिलमयः केशकीटास्थिदृष्टं
वर्ज्यंत्याज्यं च दृष्ट्याद्युपहतमथ वा मन्त्रवत् संस्क्रिया स्यात्
**अर्कोऽगन्धोग्रगन्धं हयरिपुकनकं केतकं काञ्चनारं **
जातीशैरीषकण्टक्यरसमथ दलं वर्वरीबिल्वयोश्च ॥ ९॥
अस्थार्थः—छत्रं, उपानत्, विचित्रवस्त्रं, रक्तवस्त्रं, सर्वलोहं, केशाः, कीटाः, अस्थि, एतद्विशिष्टं स्थलं दुष्टं वेदितव्यम्, त्याज्यं च । चण्डालादिदृष्ट्याद्युपहतमपि अन्नपाकादि त्याज्यम् । अन्यद्रव्योत्पादनाऽसमर्थेन तत्तन्मन्त्रैः संस्कारं कृत्वा तेनैव कर्त्तव्यम् । श्राद्धादीत्यर्थः ।
यदाह देवलः—
यत्र प्रसूयते नारी म्रियते दह्यतेऽपि वा ।
चाण्डालध्युषितं यत्र यत्र मूत्रादिसङ्गतिः ॥
एवं च मलभूयिष्ठा भूरमेध्या प्रकीर्तिता ।
श्वशूकरस्वरोष्ट्राद्यैः संस्पृष्टा दुष्टतां व्रजेत् ॥
अङ्गारतुषकेशास्थिभस्माद्यैर्मलिनीभवेत्।
ग्रुहशुद्धिस्तु संवर्तकेनोक्ता—
ग्रुहशुद्धिं प्रवक्ष्यामिआनीलशवदूषितैः।
प्रोत्सृज्य मृन्मयं पात्रं सिद्धमन्नं तथैव च ॥
गृहादपास्य तत्सर्वं गोमयेनोपलेपयेत् ।
गोमयेनोपलिप्याऽथ छागेनाघ्रापयेत्ततः ॥
ब्राह्मणैर्मन्त्रपूतं च हिरण्यकुशवारिणा ।
सर्वमभ्युक्षयेद्वेश्म ततः शुध्येदसंशयम् ।
श्राद्धेऽन्यदपि निषेध्यं वस्त्वाह–अर्कपत्रं, पुष्पं च गन्धरहितं पुष्पम् । उग्रगन्धं चम्पकादि, हयरिपु करवीरम् । कनकं धत्तूरम्, केतकीपत्रम्, काञ्चनारं काञ्चनवृक्षपुष्पम् । जाती **‘जाई’**इति प्रसिद्धा । शैरीषंशिरसवृक्षपुष्पम् कण्टकी कांटेशेवती । अरसम् जपा, जासवन इति प्रसिद्धम् । अथ दलम्। वर्वरी अरण्यतुलसी, बिल्वपत्रं च एतत्सर्वं निषेध्यमाहुः ॥ ९ ॥
किं च—
मृत्पात्रे गन्धमर्घ्यंकरमुखवसनोद्धूतमाज्यैश्चधूपं
दृष्ट्वा गन्धप्रदानं सकुशकरकृतं यान्ति वंश्या निराशाः॥
श्यामाकाः कोद्रवोद्दालकचणककुलित्था मसूराश्च निष्पा-
वाढक्यो पावनाला नृपपदसहिताः सर्षपा राजमाषाः॥ १०॥
अस्यार्थः—
मृत्पात्रे नैव दातव्यं गन्धं कुशयुते न च ।
मृत्पात्रे गन्धं निषेधति अर्घ्यंच । तथा चाऽत्रिः_(—)
पालाशेभ्यो विना न स्युः पर्णपात्राणि भोजने ।
कदलीपत्रम्तु विशिष्य निषिद्धम् ।
तथा चाङ्गिराः—
“नजातीकुसुमानि न कदलीपत्राणि ”इति ।
करेण मुखेन वस्त्रेण च दीपितं घृतेन कृतं च धूपंनिषेध्यमाहुः ।
कुशसहितेन हस्तेन कृतं गन्धदानं अवलोक्यपितरः निराशाः सन्तो गच्छन्तीत्यर्थः । निषेधमन्यदप्याह- श्यामाकाः **‘सांवे’**इति प्रसिद्धाः । कोद्रवाः ‘**कोढू’**इति प्रसिद्धाः उद्दालकाः1 **‘सजगुरे’**इति प्रसिद्धाः । चणकाः प्रसिद्धाः । कुलित्थाः **‘हुलगे’**इति प्रसिद्धाः । मसूराः प्रसिद्धाः । निष्पावाः ‘**पावटे’**इति ‘**वाला’**इति च प्रसिद्धाः । आढक्यः **‘तुरी’**इति प्रसिद्धाः । यावनालाः **‘जोंधले’इति प्रसिद्धाः । नृपपदसहिताः सर्षपाः राजसर्षपाः‘शिरस’**इति प्रसिद्दाः। राजमाषाः **‘चवल्या’**इति प्रसिद्धाः॥१०॥
कूष्माण्डालाबुशिग्रून् गजमुखकनकं काञ्चनारं कपित्थं
बिल्वं वृन्ताकमुच्चैः सितमथ कपिकच्छूःकरञ्जंकलिङ्गम् ॥
**गान्धारीसर्षपं चाऽप्यथ शतकुसुमं कारवेल्लं च जीरं **
कृष्णं रक्तं च मूलं न हितमथ करीरं च वशांकुराश्च ॥ ११॥
** अस्यार्थः**—कूष्माण्डेति । कूष्माण्डः प्रसिद्धः । अलाबुः ‘पांढरा भोपला’\। शिग्रुः **शेवगा । गजमुखं ‘घोसाले’। कनकं शाकविशेषः । काञ्चनारं काञ्चनवृक्षपुष्पाणि । कपित्थं, बिल्वफलं, वृन्ताकं सितम् । कपिकच्छूः‘कुइरी’**इति प्रसिद्धा । करञ्जंशाकविशेषः । कलिङ्गं प्रसिद्धम् । गान्धारी शाकविशेषः । सर्षपं **‘मोहर्या’**इति प्रसिद्धम् । शतकुसुमं **‘शेपु इति’**प्रसिद्धम् । कारवेल्लं ‘कारली’इति प्रसिद्धम् । जीरं **‘कालेंजीरे’**कद्रूः ‘**कडूकारले’**इति प्रसिद्धम् । रक्तं च मूलं ‘तांबडा मुला’। करीरं **‘नेपती’**इतिप्रसिद्धम् । वंशाङ्कुरं ‘वेलूचेकोंब’। एतत्सर्वं श्राद्धे न हितं न योग्यम् । अत्र जात्यो विहितनिषिद्धत्वाद्वैकल्पिका इति माधवः । अङ्गिराः—“न जातीकुसुमानि न कदलीपत्राणि”इति ।
विधिश्व मार्कण्डेयपुराणे—
जात्यश्च सर्वा दातव्या मल्लिका श्वेतयूथिका ।
जलोद्भवानि सर्वाणि कुसुमानि च चम्पकम् ॥
शङ्खः—
उग्रगन्धीन्यगन्धीनि चैत्यवृक्षोद्भवानि च ।
पुष्पाणि वर्जनीयानि रक्तवर्णानि यानि च ॥
तदुक्तम्—
रौरवागरुकर्पूरक्षोदैर्गन्धं प्रशंसति ।
तुलसीभृङ्गराजं च धातुपात्रेऽर्घ्यमेव च ॥
व्यञ्जनादि सुदीप्तं च धूपं देवः प्रशंसति ॥
अत्रिः—
अगोधूमं च यच्छ्राद्धं माषमुद्गविवर्जितम् ।
तैलपक्वेन रहितं कृतमप्यकृतं भवेत् ॥
वायुपुराणे—
नागरं चात्र नो देयं दीर्घमूलकमेव च ।
हिङ्गुस्तु विहितनिषिद्धत्वाद्वैकल्पिकः ।
तथा चादित्यपुराणे—
मधुकं रामठं चैत्र कर्पूरं मरिचं गुडम् ।
श्राद्धकर्मणि शस्तानि सैन्धवं त्रपुसं तथा ॥
त्रपुसंआम्लं दधि ।व्यासः–
अश्राद्धीयानि धान्यानि कोद्रवाः पुलकास्तथा ।
हिङ्गुद्रव्येषु शाकेषु कालानिलशुभास्तथा ।
शुभाख्यशाकविशेष इति माधवः । अत्र निष्पावशब्दः कृष्णनिष्पावपरः । “निष्पावाश्चाऽत्र शोभनाः” इति मार्कण्डेयपुराणं तु कृष्णनिष्पावेतरपरम् ।
कृष्णधान्यानि सर्वाणि वर्जयेच्छ्राद्धकर्मणि इतिवचनान्तरात् इति माधवः । चणका अपि विहित प्रतिषिद्धाः। तदाह मरीचिः—
कुलित्थाश्चणकाः श्राद्धे न देयाश्चैव कोद्रवाः । इति । मार्कण्डेयः—
गोधूमैरिक्षुभिर्मुद्गैःसूरणैश्चणकैरपि ।
श्राद्धेषु दत्तैः प्रीयन्ते मासमेकं पितामहाः ॥
देवलः—
कण्डूरं श्वेतवृन्ताकं कूष्माण्डं च विवर्जयेत् ।
वृन्ताकं नालिकायौ तु नीलिकाः शातकास्तथा ॥
इति पैठीनसिस्मृतौ वृन्ताकसामान्यग्रहणमपि श्वेतवृन्ताकविषयमिति । तेन कृष्णस्याऽनि- षेध इति चन्द्रिका \।
वस्तुतस्तु सदाश्वेतवृन्ताकनिषेधात् पुनः श्राद्धे निषेधो व्यर्थः । तेन भक्ष्यस्य कृष्णावृन्तोक- स्यापि निषेधार्थमिदमिति कमलाकरः ।
भविष्यत्पुराणे—
लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च ।
वृन्ताकनालिकाऽलाबुं जानीयाज्जातिदूषितम् ॥
“श्वेतकन्दः,पलाण्डुविशेषो, गृञ्जनं,
लशुनं,दीर्घपत्रश्च, पिष्टं, गन्धं, महौषधम् ।
पुरण्यश्च, पलाण्डुश्च पलाण्डोर्दशजातयः । इति
सुश्रुतेनोक्तत्वादिति श्राद्धप्रकरणे माधवः ।
प्रायश्चित्तप्रकरणे तु गृञ्जनं पत्रविशेषः । यदीयं चूर्णं गायकाः कण्ठशुद्ध्यर्थंविटाश्च मदार्थंभक्षयन्ति । तेन गाजरस्याऽनिषेधः । वषमश्चपदार्थो मूलविशेषो वा गाजराऽपपर्यायो वेति द्वेधा व्याख्यानम् । विनिगमकं त्विह परिभावनीयम् ।हारीतः —
“न वटप्लक्षोदुम्बरदधित्थनायमारुगुल्मानि भक्षयेत् । दधित्थः कपित्थः। “अथ कपित्थे स्युर्दधित्थग्राहिमन्मथाः” इत्यमरः । कूष्माण्डादीनां भक्षणे निन्दाऽप्युक्ता तिथिपरत्वेन ।
स्मृत्यन्तरे—
कूष्माण्डेनायुषोहानिर्बृहत्त्याविमुखोहरिः ।
शत्रुवृद्धिः पटोलेन मूलकेन कुसन्ततिः ॥
श्रीफलैश्चिररोगी स्थान्निम्बेन पशुयोनिता ।
चपलत्वं तु नालेन नालिकेरेण भूर्खता ॥
अभक्ष्येण तुलाऽलाबुनालिकाभिः कुलक्षयः ।
हरेच्छिम्बिकया वृत्तिं यौतक्या ब्रह्महाभवेत् ॥
सन्ताननाशनं वार्ताकैस्तिलैरपि तत्समम् ।
गोमांसेन समा माषा मांलं च परिकीर्तितम् ॥
प्रतिपत्प्रभृतिष्वेते तत्तत्साम्यं व्रजन्ति हि । अत्र तिलाःतिलविशेषाः ।
यदाऽऽहापस्तम्बः—
अटव्यां ये समुत्पन्ना अकृष्टफलितास्तथा ।
ते हि श्राद्धे पवित्राः स्युस्तिला न तु तिलास्तिलाः ॥
त एव जर्तिलाः । तथा च व्यासः—
जर्तिलानामलाभे तु ग्राह्या ग्राम्यास्तिला नृभिः॥ ११ ॥
अथ कर्त्तव्यानुपूर्वीमाह—
**प्रार्थ्यादावधिकारसम्पदमथो सङ्कल्प्य दत्वा क्षणं **
पाद्यं स्वास्यतिलोदकं शुचि जपो रक्षातिलै रक्षणम् ॥
**सूक्तैः पाकसमुक्षणं भुवि गयां ध्यात्वाऽऽसनानि क्षणा- **
र्ध्याऽर्चाऽऽवाहनमर्ध्यदानमथगन्धाद्यैर्द्विजानर्चयेत्॥१२॥
अस्यार्थः—
आदौ अधिकारसम्पदं प्रार्थ्य निमन्त्रयेदिति शेषः।
तथा च पुराणम् —
निरङ्गुष्ठे गृहीत्वा तु विश्वान् देवान् समाव्हयेत् तदनु सङ्कल्पं कृत्वा ततः क्षणं पाद्यंदत्त्वाआसने उपवेश्य । तदाह—
यवहस्तस्ततो देवान् पृष्ट्वा चाऽऽवाहनं प्रति ।
आवाहयेदनुज्ञातो विश्वेदेवास इत्यृचा ॥
ततस्तिलोदकं आत्मशुध्यर्थं प्रायश्चित्तसूक्तजपं कृत्वा “न तमंहो” इति “शुचीवोहव्या” इति च । ततः सकुशैस्तिलै रक्षा “अपहृता” इतिमन्त्रेण । ततस्तिलैर्दशदिक्षु विकिरणं “उदीरताम्” इतिमन्त्रेण । सूक्तैर्गायत्र्या पाकप्रोक्षणं कृत्वा भुवि गयां ध्यात्वा ‘श्राद्धभूमौ’ इत्यनेन । तत आसनानि । ततः क्षणः । ततोऽर्घ्यार्चातत आवाहनम्। ततोऽर्घ्यम् । ततः गन्धादिभिर्ब्राह्मणपूजनम् ॥१२॥
किं च—
**पात्राऽर्चाकरशुद्धिरग्निकृतयः प्रोक्ष्यान्नमालम्भनं **
**त्यागोऽन्नस्य जुषस्व पाठ उभयोर्ब्रह्मार्पणं कल्पनम् ॥ **
भुक्तेः प्राक् परतोऽपि वै मधुमतीर्जप्त्वाऽथतृप्ताःस्थ भोः
शेषं किं क्रियतामितीह कथयेदुच्छिष्टभाग्भ्योऽस्त्विति॥ १३॥
अस्यार्थः–पात्रशुद्धिः करशुद्धिः अग्नौकरणं गायत्र्याप्रोक्षणम् । अन्नस्पर्शः “विष्णो हव्यं रक्षस्व” इति। पितृषु “कव्यं रक्षस्व”इति । अन्नत्यागः न ममेति । यथासुखं जुषस्वेतिपाठः । ब्रह्मार्पणम् । भोजनात्पूर्वं श्राद्धविसर्जनोत्तरं इत्युभयोः ततो भुक्त्याद्यन्तयोर्मधुमतीर्जप्त्वा । ततस्तृप्ताः स्थेत्युक्त्वा शेषमन्नं किं क्रियतामित्यनन्तरं इष्टैः सह भोज्यतामिति ब्राह्मणैरुक्ते उच्छिष्टभाग्भ्योऽन्नं दीयतामिति तान् प्रार्थ्य \। “यजमानकुले जाता” इत्यनेन तै र्दत्ते ॥ १३ ॥
ततः किमत आह—
वेदीमार्जनसेकबर्हिरथ शुन्धन्तां च पिण्डाभ्यन-
क्त्यञ्जो वास उपस्थितिश्च यजुषा ऊर्जंपरेतश्रुतिः ॥
कीर्त्यप्रोक्षितगोत्रवृद्धिकथनं स्वस्त्यक्षयं दक्षिणाऽ-
घोराशीर्गृहपात्रचालनविसर्गामा वरा अद्य मे ॥१४॥
अस्यार्थः – वेद्या मार्जनं बर्हिरास्तरणं कृत्वा पितरः शुन्धन्तां इत्युञ्चापिण्डा देयाः ।
ततः अभ्यञ्जनं अञ्जनं वासः उपस्थानं “नमोव” इति- यजुषा । ‘उर्जंपरेत’ इत्युक्त्वा सुप्रोक्षितं गोत्रवृद्धिः। अस्त्वित्युक्त्वा स्वस्तिवाचनम्। अक्षय्य उपतिष्ठतामित्युक्त्वा दक्षिणां दत्त्वा‘अघोराः’इत्याशिषं गृहीत्वा पात्रचालनं कृत्वा विसर्जनम् “आमावाजस्य”। वराः ‘आयुः प्रजां’इति।‘अद्य मे’इत्यभिवाद्य आसीमान्तमनुव्रजेत् \। इति सङ्क्षेपः। अत्र प्रमाणभूतवचांसि पूर्वमेवोक्तानि । इति विरम्यते ॥१४॥
इति श्रीशेषकृष्णपण्डितवृद्धप्रपौत्ररामपण्डितविरचिता धर्माऽनुबन्धिश्लोकचतुर्दशीव्याख्या समाप्ता ॥
<MISSING_FIG href="../books_images/1685597536.png"/>
]
-
“उद्दालका वनकोद्रवा इति निघण्टुः ।” ↩︎