मूलम्

विस्तारः (द्रष्टुं नोद्यम्)

**Searchable Electronic Edition of Śūdradharmatattvaprakāśa alias Śūdrakamalākara, **transcribed and color-coded by Patrick Olivelle, is licensed under a Creative Commons Attribution 4.0 International License.

Last updated: April 2024

Patrick Olivelle (jpo@austin.utexas.edu)

University of Texas at Austin

Kamalākaraśarman

Śūdradharmatattvaprakāśa _alias _Śūdrakamalākara.

Edited with Marathi translation:

Nirnaya Sagar Press, Bombay, 1895; reprint 1910, 1928.

Edited in Pothi form. No date or place of publication. Available at: https://www.google.com/books/edition/Śūdrakamalākara/8yvQuG3QIqsC?hl=en&gbpv=1&dq=Śūdrakamalākara&pg=PA25-IA1&printsec=frontcover

Transcribed by Patrick Olivelle

[१]

शूद्रधर्मतत्त्वम्

अधिकारसिद्धिप्रकरणम्

विजयन्ते परानन्दकृष्णपादरजस्रजः ।

** या धृता मूर्ध्नि जायन्ते महेन्द्रादिमहः स्रजः ॥ १ ॥**

प्रणम्य रामं पितरौ कमलाकरशर्मणा ।

रामकृष्णतनूजेन शूद्रधर्मो निरूप्यते ॥ १ ॥

तत्र शूद्रत्वं ऊढसवर्णाजत्वम्, विप्रत्वादिवत् । यद्य् अपि सर्गाद्यकालीने विश्वामित्रादौ च नैतत् तथापि तत्रादृष्टविशेषारब्धशरीरत्वम् एव ब्राह्मणत्वम् । अन्यत्र तु पूर्वोक्तम् । एवं शूद्रे ऽपीति दिक् । तत्र “पद्भ्यां शूद्रो अजायत,” “शूद्रो मनुष्याणाम् अश्वः पशूनाम्” । इति बह्वृच-तैत्तिरीयादिश्रुतिभिः

[३] मुखबाहूरुपज्जातास् तस्य वर्णा यथाक्रमम् ।

लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः ॥ १ ॥

“ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत्” [म्ध् १.३१] इति मन्वादिस्मृतिभिश् च शूद्रस्य वर्णत्वे ऽपि कर्मणां निषेधो वचनान् न्यायाच् चावगम्यते ।

[४] तथा च शतपथश्रुतिः: “पद्युर् वा एतत् स्मशानं यच् छूद्रः” इति । पद्भ्यां युज्यत इति पद्यु, जङ्गमम् इत्य् अर्थः । तस्माच् छूद्रो यज्ञे ऽनवकॢप्तो न हि देवता अन्वसृज्यत [त्स् ७.१.१] इति तैत्तिरीयश्रुतिः

न्यायस् तु पूर्वमीमांसायाम् आद्याधिकरणसिद्धौ द्वैतीयीकः षाष्ठश् च । तथा हि आद्ये ऽधिकरणे स्वाध्यायो ऽध्येतव्य इत्य् अध्ययनस्य कर्मोत्पन्नतव्यश्रुत्या स्वाध्यायार्थत्वावगतेर् अक्षरग्रहणार्थत्वेनादृष्टार्थत्वात् तावतैव विध्यर्थविश्रान्तेर् विचारानाक्षेपान् मीमांसाशास्त्रं पूर्वपक्षे नारभ्यन्ते । न विचारम् अकृत्वैव वेदम् अधीत्य स्नायाद् इति स्मृतेः समावर्तितव्यम् । ततश् च क्रतुभिर् अध्ययनविधिसिद्धविद्याभावेन स्वयम् एव द्विजवच् छूद्रे ऽपि विद्याक्षेपात् पुस्तकादीना विद्यां सम्पाद्य शूद्रस्याप्य् अधिकार उक्तः ।

[५] षाष्ठे च शूद्राधिकरणपूर्वपक्षे । सिद्धान्ते त्व् अध्ययनस्यार्थधीहेतुत्वेन दृष्टार्थत्वात् साम्नाम् ऋगक्षराभिव्यक्तिद्वारा स्तोत्रार्थत्वम् इव तव्यप्रत्ययावगतस्वाध्यायार्थत्वद्वारार्थज्ञानार्थत्वाद् विचारं विना च तदयोगात् तदर्थं शास्त्रम् आरम्भणीयम् । एतच् च “अथातो धर्मजिञासा” [प्म्स् १.१.१] इत्य् अत्राध्ययनविधेर् दृष्टार्थत्वाद् इत्य् अतः शब्दव्याख्यायां[ख्यया] शबरभाष्ये सूचितम् ।

[७] तेन विचारं विना विध्यर्थासमाप्तेः “वेदम् अधीत्य स्नायाद्” इति स्मार्तस्नानोत्कर्षः । ततश् च अध्ययनविधेः “उपनयीत तम् अध्य्पयीत” ।

उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ।

वेदम् अध्यापयेद् एनं शौचारारांश् च शिक्षयेत् ॥ {य्ध् १.१५]

इत्य् स्मृत्या उपनयनदृष्टार्थत्वाच् चोपनीतान् प्रत्य् एव प्रवृत्तताद् उपनयनस्य च, “आधाने सर्वशेषत्वात्” [प्म्स् २.३.४] इति द्वितीयाध्यायन्यायेन “वसन्ते ब्राह्मणम् उपनयीत । ग्रीष्मे राजन्यम् । शरदि वैश्यम्” इति श्रुतिभिस् त्रैवर्णिकेष्व् एव विधानेन शूद्रे तदभावात् क्रतुविधीनां चाध्ययनविधिसिद्धविद्यत्रैवर्णिकविषयत्वेनोपक्षीणानाम् अन्यथानुपपत्त्यभावेन विद्यानाक्षेपकत्वाच् छूद्रस्य कर्मस्व् अनधिकार इति षाष्ठः सिद्धान्तो ऽपि फलम् ।

[८] तत्र यद्य् अपि श्रुत्यन्तरे “अष्टवर्षं ब्राह्मणम् उपनयीत । तम् अध्यापयीत” इत्य् अध्यापने उपनीतग्रहणम् नाध्ययने, तथाप्य् अध्यापनस्य वृत्त्यर्थत्वेन याजयेद् इतिवद् विध्यनर्हत्वाद् आचार्यनिष्ठत्वेन माणवकसंस्कारत्वाभावाच् च । ब्राह्मण उपगच्छेत् सो ऽधीयीत । इति विपरिणामतो ऽर्थो ज्ञेय इति विवरणादयः । स्वाध्यायवच् चमसाध्वर्यून् वृणीत इतिवच् चोपनयनसंस्कार्यस्यापि बटोर् अनेनैव विनियोगाद् उपादेयत्वम् इति पार्थसारथि-राणकादयः । तत्र वसन्तादिवक्यैर् उपनयनप्राप्तेर् ब्राह्मणविशिष्टम् उपनयनम् अनूद्याष्टवर्षकालो विधीयते । न च वाक्यभेदः उद्देश्यापर्यवसानेन विशिष्टोद्देशे तदभावाद् इति हेमाद्रिः । तत्त्वं तु विनिगमकाभावाच् छाखान्तरत्वाद् उभयत्रापि विशिष्टविधिर् इति । अत एवोपादेयत्वेन विवक्षितं पुंस्त्वम् । अन्यथोपनयने संस्कार्यत्वाद् ग्रहैकत्ववत् पुंस्त्वाविवक्षया स्त्रीणाम् अप्य् उपनयनप्राप्तिः केन वार्येति ।

[१०] यत् तु तन्त्ररत्ने तस्या यावद् उक्तम् आशीर् ब्रह्मचर्यम् इत्य् अत्राष्टवर्षवाक्ये द्वितीयया संस्कार्यत्वाल् लिङ्गाविवक्षया न्यायेन स्त्रिया उपनयनप्राप्ताव् अपि निषेधाद् एवोपनयनाभाव इत्य् उक्तम् । तद् अध्वर्युं वृणीत इतिवत् स्वाध्यायस्योपादेयत्वाद्1 वसन्तादिवाक्ये ऽपि तत्त्वाच् चिन्त्यम् । अत एव षण्डस्योपनयनं न2 शूद्रधर्मत्वात् । अत एव मिताक्षरायां देवलः

षण्ढको हीनलिङ्गः स्यात् संस्कारार्हश् च नैव सः ।

याज्ञवल्क्यः

षण्ढं तु ब्राह्मणं हत्वा शूद्रहत्याव्रतं चरेत् ।

इत्य् आह । बौधायनसूत्र-स्मृत्यर्थसारादयस् तु षण्ढस्य वचनाद् उपनयनम् आहुः । एतच् चाग्रे वक्ष्यामः । अत एवोपादेयगतत्वाद् अष्टवर्षत्वम् एकत्वं च विवक्षितम् ।

नन्व् एवं न्यायत एव शूद्रस्य कर्मानधिकारसिद्धेः “तस्माच् छूद्रो यज्ञे ऽनवकॢप्तः” इति निषेधो व्यर्थ इति चेत् ।

न्यायप्राप्तानुवाद इति भाट्टाः[११] वेदान्तिनस् तु तव्यप्रत्ययेन स्वाध्यायस्य भाव्यत्वावगतेः प्रथमोपस्थितत्वात् हुम्फडादौ तस्यावश्यकत्वाद् ऐकरूप्याच् चाक्षरग्रहणम् एव भाव्यम् । न च क्रतुभिर् अर्थज्ञानाक्षेपात् पुस्तकादिना शूद्रस्याप्य् अधिकारापत्तिः । यथा भाट्टमते ऽध्ययनविधिसिद्धविद्याग्रहणेन क्रतूनां शूद्रे विद्यानाक्षेपकत्वम् तथार्थज्ञानम् अपि अध्ययनविधिद्वाराक्षरग्रहणोपायेन चरितार्थत्वान् न शूद्रस्य पुस्तकाद्युपायम् आक्षिपतीति तुल्यः । प्राप्यतां वाक्षेपाच् छूद्रस्याधिकारः सत् उ पद्यु वा इति श्रुत्या निषिध्यते । अस्मान् निषेधाद् एवाध्ययनस्याक्षरग्रहणार्थत्वम् । अन्यथा शूद्रस्य प्राप्त्यभावान् निषेधो व्यर्थः स्याद् इत्य् आहुः । सर्वथा शूद्रस्य कर्मण्य् अधिकारः सिद्धः ।

** **ग्रहणविवादस् तु उपनीतेति नीञ्धातोः । सम्माननोत्सञ्जनाचार्यकरणज्ञानभृति- **[१२]**विगणनव्ययेषु निञः [पाण् १.३.३६] इति पाणिनिस्मृतेः । स चाचार्यकरणत्वे भाव्ये आत्मनेपदस्मृतेर् उपनयनस्याङ्गत्वेनाफलत्वे ऽपि ।

उपनीय तु यः शिष्यं वेदम् अध्यापयेद् द्विजः ।

सकल्पं सरहस्यं च तम् आचार्यं प्रचक्षते ॥

इति स्मृतेर् अध्यापनफलम् एवाङ्गे उपचर्यते । वर्म वा एतद् यज्ञाय3 क्रियते यत् प्रयाजा इज्यन्ते इतिवत् । तेनाध्यापनविधिप्रयुक्तत्वे ऽप्य् अध्ययनस्य माणवकनिष्ठत्वेनान्तरङ्गत्वाद् अर्थजानार्थत्वम् अपि । क्रतूनां च तत्सिद्धविद्योपजीवित्वाद् उपायान्तरानाक्षेपाच् छूद्रस्यानधिकार इति प्राभाकराः

तद् अयुक्तम् । आचार्यकरणत्वस्य कर्त्रभिप्रायत्वे नीञ्धातोर् ञित्वात् स्वरितञितः कर्त्रभिप्राये क्रियाफले [पाण् १.३.७२] इत्य् एतेनात्मनेपदसिद्धेः सम्माननेत्यादिविधानं व्यर्थं स्यात् । तेनाकर्त्रभिप्राये ऽप्य् आत्मनेपदविधानार्थम् एतत्4 सूत्रम् । तद् उक्तं महाभाष्ये अकर्त्रभिप्रायार्थो ऽयम् आरम्भ इति । ततश् च क्रियाफलत्वे ऽप्य् अकर्त्रभिप्रायत्वान् नाचार्यकरणत्वं भाव्यम् इति दिक् । विशेषस् तु विवरणे तन्त्ररत्ने च ज्ञेयः ।

[१३] तत्र शूद्रस्य वेदश्रवणे तावन् नाधिकारः ।

कपिलाक्षीरपानेन ब्राह्मणीगमनेन च ।

वेदाक्षरविचारेण शूद्रश् चाण्डालतां व्रजेत् ॥ [पार्श्म् १.७५]

इति **पराशरोक्तेः **। उत्तरमीमांसायां व्याससूत्रे ऽपि श्रवणाध्ययनार्थप्रतिषेधात् [१४] स्मृतेश् चेत्य् अत्र शूद्रस्य वेदश्रवणादि निषिद्धम् । इदं शङ्कराचार्यैर् व्याख्यातम् । श्रवणप्रतिषेधो भवति । “अथ हास्य वेदम् उपशृण्वतस् त्रपुजतुभ्यां श्रोत्रपूरणम्” इति [ग्ध् २.११] । “पद्यु वा एतच् छ्मशानं यच् छूद्रः” इति । “भवति चोदाहरणे जिह्वाच्छेदो धारणे शरीरभेदः” [ग्ध् २.११] इति । तथा वेदार्थज्ञानम् अपि ।

न शूद्राय मतिं दद्यान् नोच्छिष्टं न हविः प्लुतम् ।

न चास्योपदिशेद् धर्मं न चास्य व्रतम् आदिशेत् ।

इति पाद्मोक्तेः । (मतिर् वेदार्थोपदेशः) । “न शूद्राय परिज्ञानं दद्याद् वेदमुखेन तु” इति पराशरीयपुराणात् । वेदार्थज्ञाननिषेधान् मीमांसाद्यध्ययनम् अपि निषिद्धम् ।

[१४] तथा वेदमूलत्वात् स्मृतिपुराणाद्यध्ययनं निषिद्धम्,

पुराणं पञ्चमो वेदः पुराणं वेदसम्मितम् ।

इति स्मृतेः

तस्माद् इदं वेदविद्भिर् अध्येतव्यं प्रयत्नतः ।

शिष्येभ्यश् च प्रवक्तव्यं सद्वृत्तेष्व् एव धर्मतः ॥

इति स्मृतिकौमुद्याम् अत्रिस्मृतेःमनुर् अपि ।

निषेकादिः श्मशानान्तो मन्त्रैर् यस्योदितो विधिः ।

तस्य शास्त्रे ऽधिकारो ऽस्मिन् ज्ञेयो **[१५] **नान्यस्य कस्यचित् ॥

एवं स्मृत्यादिश्रवणम् अपि ।

नाध्येतव्यम् इदं शास्त्रं वृषलस्य तु सन्निधौ ।

यो ऽधीते चैव मोहात्मा स यात् नरकान् बहून् ॥

इति कौर्मोक्तःवायुसंहितायाम् अपि ।

नावेदविद्भ्यः कथनीयम् एतत्

पुराणरत्नं पुरशासनस्य ।

नाभक्तशिष्याय च नास्तिकेभ्यो

दत्तं हि यत् तन् नरकं ददाति ॥

भविष्यपुराणे

यान्य् एतानि त्वयोक्तानि धर्मशास्त्राणि सुव्रत ।

नेच्छामि श्रोतुं विप्रेन्द्र गुह्यान्य् एतानि हि द्विज ॥ १ ॥

त्रयाणाम् एव वर्णानां प्रोक्तान्य् एतानि पण्डितैः ।

श्रेयसे न तु शूद्राणाम् अत्र मे वचनं शृणु ॥ २ ॥

ब्राह्मणादिषु वर्णेषु त्रिषु वेदाः प्रतिष्ठिताः ।

मन्वादीनि च शास्त्राणि तथाङ्गानि च सर्वशः ॥ ३ ॥

अत्र श्रवणस्य वाचनस्य च शूद्रप्राधान्येन साक्षान् निषेधः, न तु विप्रद्वारा । तद् उक्तं माहाभारते

श्रावयेच् चतुरो वर्णान् कृत्वा ब्राह्मणम् अग्रतः । इति ।

नारदीये ऽपि ।

ये च धर्मपरा राजन् वेदद्विजपरायणाः ।

तेषां मध्ये हरेर् अग्रे पठनीयं द्विजातिभिः ॥ इति ।

[१६] भागवते पि ।

स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा ।

कर्मश्रेयसिमूढानां श्रेय एवं भवेद् इह ॥ १ ॥

इति भारताख्यानं कृपया मुनिना कृतम् इति । (द्विजाच् छूद्रायां जातो द्विजबन्धुर् व्रात्यो वा) । भविष्ये

चतुर्णाम् अपि वर्णानां यानि प्रोक्तानि श्रेयसे ।

धर्मशास्त्राणि राजेन्द्र शृणु तानि नृपोत्तम ॥ १ ॥

विशेषतस् तु शूद्राणां पावनानि मनीषिभिः ।

अष्टादशपुराणानि चरितं राघवस्य च ॥ २ ॥

वायवीये

एतानि नृपशार्दूल धर्मशास्त्राणि पण्डितैः ।

साधारणानि प्रोक्तानि वर्णानां श्रेयसे सदा ॥ १ ॥

चतुर्णाम् इह राजेन्द्र श्रोतुम् अर्हाणि सुव्रत ।

**स्कान्दे सूतसंहितायाम् **।

अन्ये च ब्राह्मणा विष्णो राजानश् च तथैव च ।

वैश्याश् च तारतम्येन ज्ञानाभ्यासे ऽधिकारिणः ॥ १ ॥

द्विजस्त्रीणाम् अपि श्रौतज्ञानाभ्यासे ऽधिकारिता ।

तथा5 शूद्रस्य शुश्रूषा पुराणेनैव वेदनम् ॥ २ ॥

वदन्ति केचिद् विद्वांसः स्त्रीणां शुद्रसमानताम् ।

**[१७] तथा **।

सिद्धान्तश्रवणं प्राहुर् द्विजानां मुनिसत्तमाः ।

शूद्राणां च विरक्तानां तथा स्त्रीणां महामुने ॥ १ ॥

सिद्धान्तश्रवणं प्रोक्तं पुराणश्रवणं बुधैः ।

(सिद्धान्तः स्मृत्यर्थः) । रामायने ऽपि ।

पठन् द्विजो वागृषभत्वम् ईयात्

स्यात् क्षत्रियो भूमिपतित्वम् ईयात् ।

वणिग्जनः पुण्यफलत्वम् ईयाच्

छृण्वंश् च शूद्रो ऽपि महत्वम् ईयात् ॥ १ ॥

इदम् अपि विप्रादिद्वारैव । तद् उक्तं भविष्ये

देवार्चां पुरतः कृत्वा ब्राह्मणांश् च नृपोत्तम ।

श्रोतव्यम् एव शूद्रेण तथान्यैश् च द्विजातिभिः ॥ १ ॥

पुराणश्रवणविधानाद् एव तदन्तर्गतवैदिकमन्त्रश्रवणे ऽपि न दोषः । तद् उक्तं वार्तिके ।

तान् एव वैदिकान् मन्त्रान् भारतादिनिवेशितान् ।

विहाय मन्त्रनियमं लोकबुद्ध्या प्रयुञ्जते ॥ इति ।

यद्य् अप्य् अदृष्टहेतुत्वं न वैदिकत्वं विनास्ति । तेन स्तोत्रादेर् अपि वेदे क्वचित् सत्त्वं कल्प्यते । तथापि वचनाद् दोषाभावः । अनित्यस्यापि प्रवाहानादितया कल्पसूत्रादिवन् नित्यविधिविषयत्वम् । यानि6 शङ्खेन विद्यास्थानान्य् उक्त्वा “एतानि ब्राह्मणो ऽधिकुरुते स च वृत्तिं दर्शयतीतरेषाम्” बहुवचनेन ज्ञानोपदेशो विप्रद्वारेणैवेति7 शूद्रस्याविकार उक्तः सो ऽपि श्रवणपर एव । अत्र शूद्राणां विहितनिषिद्धाश् च धर्माः शूद्रसमानानाम् अनुपनीतद्विजस्त्रीकुण्डगोलकसङ्करजात्यादीनाम् अपि ज्ञेयाः । ते चाग्रे वक्ष्यन्ते । तत् सिद्धं शूद्रस्य विप्रद्वारा पुराणश्रवणेन ज्ञानम् इति ।

[१८] अथ शूद्रस्य मन्त्रविचारः । तत्र अविद्यत्वाद् वेदमन्त्रे नाधिकारः । व्यासो ऽपि ।

शूद्रो वर्णश् चतुर्थो ऽपि वर्णत्वाद् धर्मम् अर्हति ।

वेदमन्त्रस्वधास्वाहावषट्कारादिभिर् विना ॥ इति । [१.६]

नृसिंहतापनीये

    सावित्रीं प्रणवं यजुर् लक्ष्मीं स्त्रीशुद्राय नेच्छति । 

**पराशरभाष्ये **ऽप्य् एवम् । रामतापनीये

सावित्रीं लक्ष्मीं यजुः प्रणवं यदि जानीयात् स्त्रीशूद्रः स मृतो ऽधो गच्छति ।

(लक्ष्मीं श्रीबीजम्) व्याहरणे [१९] जिह्वाच्छेद इति श्रुतेश् च । गौडनिबन्धे तिथितत्त्वे स्कान्दे । स्वाहाप्रणवसंयुक्तं शूद्रे मन्त्रं ददद् द्विजः ।

शूद्रो निरयम् आप्नोति ब्राह्मणः शूद्रताम् इयात् ॥

एवं पुराण-विष्णुसहस्रनाम-चण्डीस्तोत्रादिपाठे ऽप्य् अनधिकारः, श्रवणमात्रे ऽधिकारेण पाठाप्रसक्तेः । तद् उक्तं हरिवंशे “सुगतिम् इयाच् छ्रवणाच् च शूद्रजातिः” इति । अत एव भारते विष्णुसहस्रनामसु ।

वेदान्तगो ब्राह्मणः स्यात् क्षत्रियो विजयी भवेत् ।

वैश्यो धनसमृद्धः स्याच् छूद्रः सुखम् अवाप्नुयात् ॥

इत्य् अत्र शूद्राः श्रवणेनैवेति शङ्कराचार्यैर् व्याख्यातम् । किं बहुना शूद्रकर्तृक्स्नानदानश्राद्धादौ विप्रस्वैव पौराणमन्त्रपाठः शूद्रस्य तु श्रवणमात्रम् । श्रावयेच् चतुरो वर्णान् नित्यस्य निषादस्थपतिं याजयेद् इति यच् छृणुयुर् इत्य् अर्थेन शूद्रं प्रति श्रवणजन्यज्ञानस्यैव कर्मभिर् ग्रहणात् पुराणपाठाभावेन तन्मन्त्रेषु पाठाप्रसक्गाच् च । वाराहे ऽपि ।

अयम् एव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः ।

अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यते ॥

अस्य श्राद्धप्रकरणपाठे ऽपि इयं परिभाषा । न च सा वाक्यरूपा प्रकरणेन नियन्तुं शक्या । अतः शूद्रकर्तृकदानश्राद्धादौ अर्थप्रकाशनार्थं सर्वत्र विप्रेण मन्त्रपाठः कार्य इति शूलपाणिः । वैदिको ऽपि विप्रेण पठनीय इत्य् आचार्यचूडामणिःमाधवीये ऽप्य् एवम् । श्राद्धे यस्यां शाखायां विप्रस्य मन्त्रपाठ उक्तः । स शूद्रश्राद्धे ऽपि स्याद् एवेति स्मृतिकौमुद्याम्मदनपारिजातव्याख्या त्व् अयुक्ता विषयाभावात् । अमन्त्रस्येति विशेषणात् स्त्रीणां तत्तुल्यानां चेति शूलपाणिः । यत् तु तेनोक्तम्, मन्त्रजन्यनियमादृष्टसिद्धिस् तु नमस्कारेणैवानुज्ञातो ऽस्य नमस्कारो मन्त्र इति गौतमोक्तेर् इति, तच् चिन्त्यम् ।

[२१] दृष्टद्वारैव हि तत्प्राप्तिर् न स्वातन्त्र्येण न च मन्त्रनिषेधे नियमादृष्टप्राप्तिः नमस्कारेणैव तत्सिद्धिश् च न हि सः न मन्त्रः अन्यथा नखावपूते (?) ऽप्य् अवघातजन्यादृष्टार्थं सो ऽपि क्रियेत । कल्पतरुस् तु पौराणकर्मणां स्त्रीशूद्रान् प्रति विशिष्यविधानात् तेषां च मन्त्रविशिष्टानाम् उत्पत्त्या तथैव नियोगात् पौराणअमन्त्रपाठो भवत्य् एवेत्य् आह । तन् न नमस्कारेण बाधाद् वाराहविरोधाच् च । वैदिकमन्त्रस्थाने नमःशब्द इत्य् अन्ये । तत्त्वं त्व् अमन्त्रकेष्व् एव सः तेन पितॄणां नामगोत्रत इत्यादौ यत्र द्विजानां अपि नाममन्त्र उक्तस् तत्र शूद्रस्य सर्वमन्त्रनिषेधे प्राप्ते प्रतिप्रसवमात्रार्थं गौतमीयम् । न तु तिलावपनादाव् अपि । अन्ये तु,

आवाहनादि कर्तव्यं यथा शूद्रेण तच् छृणु ।

देवानां देवनाम्ना तु पितॄणां नमगोत्रतः ॥

इति हेमाद्रौ भविष्योक्तेः, सर्वत्र दैवे देवेभ्यो नमः पित्र्ये पितृभ्यो नम इति नाममन्त्रम् आहुः । केवलस्य नाम्नः प्रयोगानर्हत्वात् तेन नम इत्य् एतावान् एव मन्त्र इति आचार्यचूडमणि-मदनपारिजातोक्तिः परास्ता । नमस्कारः पञ्चमहायज्ञमात्रपुरःसर इति हरदत्तादयः । तन् न श्राद्धादौ नमोविधानस्य मूलान्तरकल्पनावृत्त्या सर्वार्थत्वात् । अत एव **विज्ञानेश्वरेण **कृच्छ्रादौ नमोमन्त्रजप उक्तः । अस्मत्पितृचरणास् तु “नमस्कारेण मन्त्रेण पञ्चयज्ञान् न हापयेद्” इति याज्ञवल्क्योक्तौ यज्ञशब्देन शूद्रकर्ममात्रोद्देशेन नमस्कारविधानं यज्ञानाम् उद्देश्यानां पञ्चत्वेन विशेषणे ग्रहैकत्वविवक्षावद् वाक्यभेदापत्तेः तेन शूद्रकर्तृकतुलादानादिपूर्तेषु शूद्रस्य नमस्कारो मन्त्र इत्य् आहुः । पौराणस् तु विप्रस्येत्य् अविरोधः । एतेन नमस्कारेण पञ्चयज्ञेष्व् एव विधानात् शूद्रस्य न विवाहहोमादीति मदनपारिजातोक्तिः परास्ता । अत एव यो नमसा स्वध्वर इति श्रुतेर् नमस्कारेण वै खल्व् अपि [२२] न वै देवा नमस्कारम् इति यज्ञो वै नम इति हि ब्राह्मणं भवतीत्य् **आश्वलायनोक्तेश् **च । नमस्कारस्यापि सर्वकर्माङ्गत्वं तच् च तथा8 द्विजानां तत्र तत्र वैदिकमन्त्रोक्त्या बाधितं यच् 9चैत्ययज्ञादौ प्रवर्तते ।

[२३] तथा शुद्रेऽपि कर्मोक्तौ मन्त्रानुक्तौ च प्रवर्तत एव । अत एव शूद्रस्य कातीयसूत्रोक्ता अष्टौ संस्कारा विवाहश् चोक्तो हरिहरेण । अत एवानुमतो ऽस्य नमस्कारो मन्त्रः इति गौतमीयः शूद्रे ऽपि प्रतिप्रसवः तस्य चानुष्ठेयाप्रकाशत्वे ऽपि वचनात् त्व् अयथार्थम् ऐद्रीं स्याद् इति न्यायेनाङ्गत्वम् । एतेन देवताभ्यः पितृभ्यश् चेत्य् अयं वा नमस्कारो मन्त्र इति कृत्वा विज्ञानेश्वर-मदनपारिजाताद्युक्तिर् मानाभावात् परास्ता । अत्र केचित्, विप्रो मन्त्रेण गृह्यते इत्य् अत्र वैदिको मन्त्रो विप्रस्य पौराणस् तु शूद्रैः पठनीयः । न वेदेष्व् अधिकारो हि कश्चिच् छूद्रस्य विद्यते । “पुराणेष्व् अधिकारो मे दर्शितो ब्राह्मणैर् इह” इति शूलपाणौ पाद्मोक्तेः । श्रीदत्तो ऽप्य् एवम् । तिथितत्त्वे स्मार्तस् तु वैदिकेतरमन्त्रप्ठे शूद्रस्याप्य् अधिकारः । वेदमन्त्रवर्जं शूद्रस्येत्य् आचारचिन्तामणौछन्दोगाह्निके10 वचनाद् वेदेति विशेषणात् श्रोतव्यम् एव शूद्रेण नाध्येतव्यं कदाच्नेति निषेधो मन्त्रेतरपुराणपरः । पञ्चयज्ञस्नानश्राद्धेषु तु पौराणो ऽपि न नमस्कारेण मन्त्रेणेति पञ्चयज्ञेषु ब्रह्मक्षत्रविशां त्व् एवं मन्त्रवत् स्नानम् इष्यते । तूष्णीम् एव हि शूद्रस्य सनमस्कारकं मतम् इति योगियाज्ञवल्क्येन । स्नाने ।

अयम् एव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः । इति ।

श्राद्धे च वाराहे विशिष्योक्तेर् इत्य् आह । “अनुमतो ऽस्य नमस्कारो मन्त्रः” [ग्ध् १०.६४] इति गौतमो ऽप्य् एतत्परो वैदिकमन्त्रपरश् चेत्य् आह । तन् न, “नाध्येतव्य्म् इदं शास्त्रं वृषलस्य तु [२४] सन्निधौ” इति कौर्मे पुराणनिषेधेन वेदस्य दूरापास्तत्वात्,

अध्येतव्यं ब्राह्मणेन वैश्येन क्षत्रियेण च ।

श्रोतव्यम् एव शूद्रेण नाध्येतव्यं कदाचन ॥

श्रौतं स्मार्तं च वै धर्मं प्रोक्तम् अस्मिन् नृपोत्तम ।

तस्माच् छूद्रैर् विना विप्रं न श्रोतव्यं कदाचन ॥

इति शूलपाणौ पुराणाधिकारे भविष्योक्तेश् च । अत एव विप्रो मन्त्र्ं न गृह्यते इति सर्वार्थेन श्राद्धमात्रपरम् इति शूलपाणिः एतेन नाध्येतव्यम्11 इति निषेधो मन्त्रेतरपुराणपर इति श्रीदत्तादिमैथिलमतम् अपास्तम् । विना विप्रम् इत्य् उक्तेर् विप्रद्वारैव श्रवणम् उक्तम् । धर्मशब्दः “तानि धर्माणि” इतिवत् क्लीबम् । विशेषस् तु निर्णयअसिन्धौ ज्ञेयः ।

** [२५]** किं च यथा द्विजानाम् अध्ययनविधौ अधीतैर् मन्त्रैर् अर्थस्मृतिं कुर्याद् इत्य् अर्थेन कर्मसु मन्त्रपाठस्यैवाङ्गत्वं न तु स्मृतेः मन्त्राणाम् अक्रियात्वेन स्वतः कर्माग्रहणात् यथा12 शूद्राणां श्रावयेद् इति श्रवणविधौ श्रुतैर् विधिभिः प्रवृत्तिं कुर्यात् श्रुतैर् मन्त्रैर् अर्थस्मृतिं कुर्याद् इत्य् अर्थेन शूद्रस्य तुलादिमहादानादिकर्मसु मन्त्रश्रवणस्यैवाङ्गत्वं न पाठस्य ।

नन्व् एवं श्रवणविधौ “श्रावयेच् चतुरो वर्णान्” इत्य् उक्तेर् द्विजानाम् अपि तुलादौ मन्त्रश्रवणम् एव स्यान् न पाठ इति चेत् –

अत्र ब्रूमः । “अध्येतव्यं ब्राह्मणेन वैश्येन क्षत्रियेण च” इति भविष्योक्तेः । “निषेकादिः स्मशानान्तः” इत्यादिवचनाद् अध्ययनस्यैव कर्माङ्गत्वम् ।

विदुषा ब्राह्मणेनेदम् अध्येतव्यं प्रयत्नतः ।

इति मनूक्तेः । अन्यथा

वेदाथर्वपुराणानि सेतिहासानि शक्तितः ।

जपयज्ञप्रसिद्ध्यर्थं विद्यां चाध्यात्मकीं जपेत् ॥

गाथानाराशंसीर् इतिहासपुराणानि यद् ब्राह्मणानीतिहासपुराणानि कल्पान् इत्याद्ब्रह्मयज्ञविध्युच्छेदापत्तेः ।

पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।

वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ (य्ध् १.३]

इति **याज्ञवल्कीये **। ज्ञानार्थत्वाच् च श्रवणं तु फलविशेषार्थं

य इदं शृणुयान् नित्यं यश् चापि परिकीर्तयेत् ।

नाशुभं प्राप्नुयात् किञ्चित् सो ऽमुत्रेह च मानवः ॥

इत्यादौ चण्डिपाठादौ च फलश्रुतेः । याज्ञवल्क्यो ऽपि ।

य इदं श्रावयेद् विद्वान् द्विजान् पर्वसु पर्वसु ।

अश्वमेधफलं तस्य तद् भवान् **[२६] **अनुमन्यताम् ॥ इति ।

तेन द्विजानां यथा वेदाध्ययनं ज्ञानकरणद्वारा कर्मार्थत्वात् पारायणाद्यर्थम् अक्षरग्रहणार्थत्वाच् च दृष्टार्थम्, न हि सिद्धान्ते ऽक्षरग्रहणस्य भाव्यत्वं त्यज्यते । पारायणार्थत्वेन दृष्टार्थत्वात्, तन्मात्रार्थत्वं तु नेष्यते यद्य् अत्र सर्वं फलम् इष्यते इति तथा पुराणाद्यध्ययनश्रवनयोर् द्वयोर् विधाने ऽप्य् अध्य्यनं ज्ञानद्वारा कर्मार्थत्वाद् दृष्टार्थं श्रवणं त्व् अदृष्टार्थम् एव, शूद्राणां तु विपरीअं श्रवणं ज्ञानद्वारा कर्मार्थत्वाद् दृष्टार्थं फलार्थत्वाद् अदृष्टार्थं च अध्ययनं तु नास्त्य् एव,

श्रोतव्यम् एव शूद्रेण नाध्येतव्यं कदाचन ।

इति वचनात् । यद् अपि वार्तिके राणके च,

धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ ।

इति भारतोक्तेर् धर्मादेश् चकारैर् अधर्मादेश् च ज्ञानम् उपादानपरित्यागाङ्गभूतं फलं तेन दृष्टार्थम् एव श्रवणम् इत्य् उक्तम्, तद् अपि शूद्रमात्रपरं ज्ञेयम् । द्विजानां तु पाठ एव ज्ञानार्थः । यद् वास्तु द्विजानां श्रवणं दृष्टार्थं पाठश्रावणयोर् अन्यतरस्यापि ज्ञानार्थत्वे नियामकाभावात् मन्त्रपाठस् तु भविष्यवचनाद् एवेति ज्ञेयम्, अन्यथा श्रावयेद् इत्य् अस्य शूद्रमात्रपरत्वे शूद्रस्य तदनादरश्रवणाद् इत्य् उत्तरमीमांसान्यायेन मोक्षे तस्यानधिकारात् मोक्षग्रहणं विरुध्येत ।

नन्व् आद्यपक्षे श्रवणविधौ शूद्रे ज्ञानार्थत्वेन दृष्टार्थत्वान् नियमविधिः, द्विजे च फलार्थत्वाद् अपूर्वविधिर् इति वैरूप्यं स्यात् ।

मैवम् । अध्ययनविधिवत् यच् धक्यत इत्य् उपबन्धेन सर्वग्रहात् सर्वत्रापूर्वविधिस् तत्त्वं फलतो नियमादिव्यपदेश इति वार्तिकोक्तरीत्या परिहाराच् च, सर्वश् चाध्ययनविधिन्यायस् तत्स्थानापन्ने श्रवणविधौ सञ्चारणीयः । एतच् च एवं भारतादिवाक्यान्य् अपि योज्यानीत्यादिना वार्तिके ऽपि सूचितम् । तद् इदं मदुक्तं सुधीभिर् दूरं विभावनीयम् । तस्माच् छूद्रस्य पूर्तादिकर्मसु पौराणमन्त्राणाम् एव विप्रस्य पाठो न वैदिकानाम् इति सिद्धम् ।

अथ शूद्रस्य कर्माधिकारः

तत्र कामश्रुतयो यथाध्ययनविधिसिद्धविद्यद्विजपरा इति न शूद्रस्य विद्याक्षेपेण श्रौतकर्माधिकारः तथा स्मार्तपौराणाः ग्रहयज्ञमहादानपूर्तश्राद्धादिविधयः फलकामित्वाच् छ्रवणविधिसिद्धविद्यत्वाच् च चतुर्वर्णपरा इति शूद्रस्यापि तेष्व् अधिकारः न13 म्लेच्छादीनां विद्याक्षेपाभावात् ।

नन्व् एवं तत्रोक्तमहारुद्रलक्षहोमादिष्व् अप्य् अधिकारः शूद्रस्य स्याद् इति चेन्, न, तत्र वैदिकमन्त्राणाम् अङ्गत्वेन शूद्रस्य सर्वाङ्गोपसंहाराभवेनान्धादीनाम् इवानधिकारात् सर्वाङ्गोपसंहारेण हि प्रधानविधिप्रवृत्तिर् इति षष्ठे वर्णितम् ।

कथं तर्हि शूद्रस्य वैदिकमन्त्रयुक्ते गृह्योक्तहोमाङ्गकुशकण्डिकापेक्षे च तुलादाव् अधिकारः ।

उच्यते न्यायतो निषिद्धो ऽप्य् अधिकारः कर्मविशेषेषु तत् तद् वचनैः प्रतिप्रसूयते निषादस्थपतिर् इव रौद्रेष्टौ, न च शूद्रस्य गृह्योक्ताङ्गज्ञानाभावे त्र्यंशभावना-ज्ञानाभावाद् अनधिकारः,

वेदान् अधीत्य वेदौ वा वेदं वापि यथाक्रमम् ।

इति स्मृतेर् एकवेदाध्ययनपक्षे वेदान्तरीयहौत्रौद्गात्रादिकस्यैव श्रवणोपदेशादिना तद् धि सम्भवाद् आर्त्विज्यत्वाद् वा नियमानपेक्षणात् नियमस् तु प्रधानमात्रे । उक्तं चैतत् सवितरं दानकमलाकरे ऽस्माभिः । अत्रापि च [२९] वक्ष्यते । यत्र तु न वैदिकमन्त्राङ्गं तत्र तु वचनाभावे ऽप्य् अधिकारः श्रवणविधिसिद्धज्ञानत्वात् कामिकत्वाच् च यथा विनायकशाण्त्यादौ यत्र वा मन्त्रान्तरं विकल्पः यथा ग्रहयज्ञे स्मृतिसङ्ग्रहे

नाममन्त्रेण शूद्रस्य कुर्याद् धोमादिकं बुधः । इति ।

तत्र वैकल्पिकमन्त्रान्तरेणापि सर्वाङ्गोपसंहारात् सो ऽयं कुत्रास्ति कुत्र नास्तीति विविच्यते ।

[३०] तत्रादौ विहितानि अगस्त्यसंहितायाम्

शुचिव्रततमाः शूद्रा धार्मिका द्विजसेवकाः ।

स्त्रियः पतिव्रताश् चान्ये प्रतिलोमानुलोमजाः ॥

लोकाश् चाण्डालपर्यन्तं सर्वे ऽप्य् अत्राधिकारिणः ।

अत्र राममन्त्रे । तथा

श्रुतिर् ब्रह्माह षड्वर्णं स्मृतिवर्णद्वयात्मकम् ।

षड्वर्णं ब्राह्मणादीनां त्रयाणां यद् द्विवर्णकम् ॥

तद् अन्येषां दैशिकेन वक्तव्यं तारकम्परम् ।

तत्रैव

मन्त्रो ऽयम् उपदेष्टव्यो ब्राह्मणाद्यनुरूपतः ।

**[३१] **ब्रह्मोत्तरखण्डे शिवपञ्चाक्षरं प्रक्रम्य,

मन्त्रराजाधिराजो ऽयं सर्ववेदान्तशेखरः ।

सर्वज्ञाननिधानं च सो ऽयं चैव षडक्षरः ॥

कैवल्यमार्गदीपो ऽयम् अविद्यासिन्धुवाडवः ।14

महापातकदावाग्निः सो ऽयं मन्त्रः षडक्षरः ॥

प्रणवेन विना मन्त्रः सो ऽयं पञ्चाक्षरो मतः ।

स्रीभिः शूद्रैश् च सङ्कीर्णैर् धार्यते मुक्तिकाङ्क्षिभिः ॥

नास्य दीक्षा न होमश् च न संस्कारो न तर्पणम् ।

न कालनियमश् चात्र जप्यः सर्वैर् अयं मनुः ॥

एतद्दीक्षा तत्रैव परकृतिरूपेणोक्ता ।

पुण्यतीर्थजले स्नानं राजानं समुपोषितम् ।

प्राङ्मुखं चोपविश्याग्रे नत्वा शिवपदाम्बुजम् ॥

तन्मस्तके करं न्यस्य ददौ मन्त्रं शिवात्मकम् ।

इति स्मृतिकौमुद्यां वाराहे

ब्राह्मणक्षत्रियविशां पञ्चरात्रं विधीयते ।

शूद्रादीनां च तच्छ्रोत्रे पदवीम् उपयास्यति ॥

अत एवाग्रे उक्तम् ।

अथ शूद्रस्य शृणु माधवि ।

दम्पती मम भक्तौ च मम कर्मपरायणौ ।

नमस्कारचिन्ताव्यवस्थितः ।

शुद्धकर्माणि वै देवि यो नित्यं तु समाचरेत् ।

त्यक्त्वा ऋषिसहस्राणि शूद्रम् एव तु याम्य् अहम् ॥

**[३२] **तथा तत्रैव

चातुर्वर्ण्यस्य वक्ष्यामि दीक्षाम् अद्य यशस्विनीम् ।

इत्य् उपक्रम्य, द्विजानां दीक्षाम् उक्त्वा,

शूद्रस्यापि च वक्ष्यामि मद्भक्त्स्य वराङ्गने ।

इत्यादिना शूद्रदीक्षोक्ता । वामनपुराणे

ततश् चकार भगवांश् चातुर्वर्ण्यं हरार्चने ।

इत्य् उक्त्वा, वसिष्ठपुत्रस्य शक्तेस् तच्छिष्यादीनां वा शिवदीक्षाम् उक्त्वा, ऊर्णोदरस्य शूद्रस्य दीक्षाम् उक्त्वोक्तम् ।

एवं स भगवान् ब्रह्मा पूजनाय शिवस्य तु ।

कृत्वा तु चातुराश्रम्यं स्वयं च भवनं गतः ॥ इति ।

भविष्ये ऽपि ।

ब्राह्मणं क्षत्रियं वैश्यं कुलीनं शूद्रम् एव च ।

पुरुषं वा स्त्रियं वापि दीक्षयेत् सूर्यमण्डले ॥

एवं यत्र विशेषवचनं तत्र शूद्रस्याधिकारः । स्मृतिकौमुद्यां तु शूद्रादीनां च त्च्छ्रोत्रपदवीम् उपयास्यतीति पाठं वाराहे उक्त्वा पञ्चरात्रोक्तवैष्णवशैवसौर-शाक्तवैनायकेषु मन्त्रेष्व् अधिकार उक्तः ।

इति मन्त्रदीक्षा

[३३]

अथ शूद्रस्य देवस्थापनम्

कल्पतरौ देवीपुराणे

वर्णाशमविभेदेन देवाः स्थाप्यास् तु नान्यथा ।

ब्रह्मा तु ब्राह्मणैः स्थाप्यो गायत्रीसहितः प्रभुः ॥

चतुर्वर्णैस् तथा विष्णुः प्रतिष्ठाप्यः सुखार्थिभिः ।

भैरवो ऽपि चतुर्वर्णैर् अन्त्यजानां तथा मतः ॥

मातरः सर्वलोकैश् तु स्थाप्याः पूज्याः सुरोत्तमः ।

लिङ्गं गृही यतिर् वापि संस्थाप्य तु वसेत् सदा ॥

त्रिस्थलीसेतौ पितामहचरणास् तु देवप्रतिष्ठायां शूद्रादीनां नाधिकारः ।

स्त्रीणाम् अनुपनीतानां शूद्राणां च नरेश्वर ।

स्थापने नाधिकारो ऽस्ति विष्णोर् वा शङ्करस्य च ॥

यः शूद्रसंस्कृतं लिङ्गं विष्णुं वापि नमेन् नरः ।

इह वात्यन्तदुःखानि पश्यत्य् आमुष्मिके किम् उ ॥

शूद्रो वानुपनीतो वा स्त्रियो वा पतितो ऽपि वा ।

केशवं वा शिवं वापि स्पृष्ट्वा नरकम् अश्णुते ॥

इति बृहन्नारदीये ।स्कान्दाद्युक्तेर् इत्य् आहुः । चतुर्वर्णैर् इति पूर्ववचनाद् विष्ण्वादिप्रतिष्ठायां शूद्रस्य विकल्प इति तु युक्तम् ।

[३४]

अथ शूद्रस्य देवपूजा

शिवसर्वस्वे भविष्ये

यस् तु पूजयते लिङ्गे देवादिं मां जगत्पतिम् ।

ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा मत्परायणः ॥

तस्य प्रीतः प्रदास्यामि शुभांल् लोकान् अनुत्तमान् ।

गौडनिथितत्त्वे स्कान्दे

शूद्रः कर्माणि यो नित्यं स्वीयानि कुरुते प्रिये ।

तस्याहम् अर्चां गृह्णामि चन्द्रखण्डविभूषिते ॥

लैङ्गे

अथ रुद्रो महादेवो मण्डलस्य उवाच ह ।

पुण्यो ऽहं ब्राह्मणानां च क्षत्रियाणां विशेषतः ॥

[३५] वैश्यानां चैव शूद्राण्ं शुश्रूष्यः पूजकस्य च ।

स्त्रीणां चैवाधिकारो ऽस्ति पूजादिषु न संशयः ॥

नृसिंहपुराणे

ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्यजातयः ।

सम्पूज्य तं सुरश्रेष्ठं नरसिंहवपुर्धरम् ॥

मुच्यन्ते चाशुभैर् भावैर् जन्मकोटिसमुद्भवैः ।

अपिपालधृते तत्रैव पुराणे

अयाचितप्रदाता स्यात् कृषिं वृत्त्यर्थम् आश्रयेत् ।

पुराणं शृणुयाद् विप्रान् नरसिंहस्य पूजनम् ॥

सूतसंहितायाम् पञ्चाक्षरेण पूजाम् उक्त्वाह ।

ब्रह्मचारी गृहस्थो वा वानप्रस्थश् च सुव्रतः ।

एवं दिने दिने देवं पूजयेद् अम्बिकापतिम् ॥

नमोन्तेन शिवेनैव स्त्रीणां पूजा विधीयते ।

विरक्तानां च शूद्राणाम् एवं पूजा प्रकीर्तिता ॥

पञ्चाक्षर्स्य श्रुतौ नम आदित्वे ऽपि स्त्रीशूद्रयोर् नमोन्तत्वम् । अन्ये त्व् अन्ते भिन्नं नमःशब्दम् आहुः ।

अन्येषाम् अपि सर्वेषां नराणां मुनिपुङ्गवाः ।

पूजा देवालयं दृष्ट्वा प्रणामस् तस्य कीर्तितः ॥

एवं पूजा कृता येन सफलं तस्य जीवितम् ।

[३६] यत् तु मनुः,

जपस् तपस् तीर्थसेवा प्रव्रज्या मन्त्रसाधनम् ।

देवताराधनं चैव स्त्रीशुद्रपतनानि षट् ॥ इति ।

तद् विहितभिन्नपरं स्पर्शयुक्तपूजापरं वा । एतच् च पुराणप्रसिद्धजीर्णलिङ्गपूजाविषयम् । यानि तु **त्रिस्थलीसेतौ नारदीये **।

यः शूद्रेणार्चितं लिङ्गं विष्णुं वा प्रणमेन् नरः ।

न तस्य निष्कृतिर् दृष्टा प्रायश्चित्तायुतैर् अपि ॥

नमेद् यः शूद्रसंस्पृष्टं शङ्करं हरिम् एव वा ।

स सर्वयातनाभोगी यावद् यावद् आचन्द्रतारकम् ॥

पाखण्डपूजितं लिङ्गं नत्वा पाखण्डतां व्रजेत् ।

आभीरपूजितं लिङ्गं नत्वा नरकम् अश्नुते ॥

योषिद्भ्यः पूजितं लिङ्गं विष्णुं वापि नमेत् तु यः ।

स कोटिकुलसंयुक्त आकल्पं रौरवं वसेत् ॥

इत्यादीनि तानि नूतनस्थापितलिङ्गविषयानि,

यदा प्रतिष्ठितं लिङ्गं मन्त्रविद्भिर् यथाविधि ।

तदाप्रभृति शूद्रश् च योषिद् वापि न संस्पृशेत् ॥

इति तत्रोक्तेः ।

[३७] अन्ये तु जगदुः । लिङ्गनमस्कर्तुर् दोषो ऽस्तु शूद्रस्य पूजायां फलम् अस्त्य् एव । नूतनलिङ्गार्चाशालग्ग्रामादौ तु स्पर्शरहिता पूजा शूद्राद्यैः कार्या ।

शूद्रो वानुपनीतो वा स्त्रियो वा पतितो ऽपि वा ।

केशवं वा शिवं वापि स्पृष्ट्वा नरकम् अश्नुते ॥

ब्राःमण्य् अपि हरं विष्णुं न स्पृशेच् छ्रेय इच्छती ।

या तु पूजयते लिङ्गं विष्णुं वा शिवम् एव वा ॥

सनाथा मृतनाथा वा तस्या नास्तीह निष्कृतिः ।

स्त्रीणाम् नुपनीतानां शूद्राणां च जनेश्वर ॥

स्पर्शने नाधिकारो ऽस्ति विष्णोर् वा शङ्करस्य च ।

इति स्कान्दोक्तेः

चत्वारो ब्राःमणैः पूज्यास् त्रयो राजन्यजातिभिः ।

वैश्यैर् द्वाव् एव सम्पूज्यौ तथैकः शूद्रजातिभिः ॥

इति स्कान्दोक्तेःवाराहे तु शालग्रामे स्पर्शनिषेधो न प्रतिमादाव् इत्य् उक्तम् ।

शालग्रामं न स्पृशेत् तु हीनवर्णो वसुन्धरे ।

स्त्रीशुद्रकरसंस्पर्शो वज्रस्पर्शाधिको मतः ॥

मोहाद् यः संस्पृशेच् छूद्रो योषिद् वापि कदाचन ।

स पतेन् नरके घोरे यावद् आभूतसम्प्लवम् ॥

यदि भक्तिर् भवेत् तस्याम् स्त्रीणां वापि वसुन्धरे ।

दूराद् एवास्पृशन् पूजां कारयेत् सुसमाहितः ॥

सर्ववर्णैस् तु सम्पूज्याः प्रतिमाः सर्वदेवताः ।

लिङ्गान्य् अपि तु पूज्यानि मणिभिः कल्पितानि च ॥ इति ।

विष्णुपुराणे पि ।

ब्राह्मणः क्षत्रियो वैश्यः शूद्रस्य पृथिवीपते ।

स्वधर्मतत्परो विष्णुम् आराधयति नान्यथा ॥

यत् तु प्रयोगपारिजाते विष्णुधर्मोत्तरे,

शालग्रामशिलां वापि चक्राङ्कितशिलां तथा ।

ब्राह्मणः पूजयेन् नित्यं क्षत्रियादिर् न पूजयेत् ॥

इति, तत् स्पर्शसहितपूजापरम् । अदीक्षितपरम् इत्य् अन्ये । विशेषस् तु मत्कृते पूर्तकमलाकरे निर्णयसिन्धौ च ज्ञेयः ।

[३८] एवं पार्थिवलिङ्गपूजने ऽप्य् अधिकारः ।

मृद्भस्मगोशकृत्पिष्टताम्रकांस्यमयं तु वा ।

कृत्वा लिङ्गं सकृत् पूज्य वसेत् कल्पायुतं दिवि ॥

इति तिथितत्त्वे भविष्योक्तेः वैदिकमन्त्राभावाच् च । तद् उक्तं तत्रैव स्कान्दे

मृदाहरणसङ्घट्टे प्रतिष्ठाह्वानम् एव च ।

स्थापनं पूजनं चैव विसर्जनम् अतः परम् ॥

हरो महेश्वरश् चैव शूलपाणिः पिनाकधृक् ।

पशुपतिः शिवश् चैव महादेव इति क्रमः ॥

भविष्ये

    शर्वाय क्षितिमूर्तये नमः । भवाय जलमूर्तय नमः । रुद्राय अग्निमूर्तये नमः । उग्राय वायुमूर्तये नमः । भीमाय आकाशमूर्तये नमः । पशुपतये यजमानमूर्तये नमः । महादेवाय सोममूर्तये नमः । ईशानाय सूर्यमूर्तये नमः । 

    	मूर्तयोष्टौ भवसैताः पूज्याः पूर्वादितः क्रमात् ।

    	आग्नेय्यां ताः प्रपूज्यास् तु वेद्यां लिङ्गे शिवं जयेत् ॥

अत्र न प्राचीम् अग्रतः शम्भोर् इति रुद्रयामले निषेधान् नान्तरालं प्राची किं तु प्रसिद्धैव । एवं नवरात्रे देवीपुजादौ । एवं च विन्ध्यवासिन्यां नवरातोपवासत इत्य् उपक्रम्य वैश्यैः शूद्रैर् भक्तियुक्तैर् म्लेच्छैर् अन्यैश् च मानवैर् इति हेमादौ भविष्योक्तेः

एवं नानाम्लेच्छगणैः पूजयते सर्वदस्युभिः ।

विना मन्त्रैस् तामसी स्यात् किरातानां तु सम्मता ॥

इति रूपनारायणीये भविष्योक्तेश् च ।

**[३९] **तथा व्रतोपवासादाव् अपि शूद्रस्याधिकारः । श्रवणविधिसिद्धविद्यत्वाद् वैदिकमन्त्राभावाच् च ।

प्राच्यास् तु वैश्यशूद्रयोर् द्विरात्राधिकोपवासनिषेधः,

वैश्याः शूद्राश् च ये मोहाद् उपवासं प्रकुर्वते ।

त्रिरात्रं पञ्चरात्रं वा तेषां व्युष्टिर् न् विद्यते ॥

इति हेमाद्रौ भविष्योक्तेर् इत्य् अहुः ।

तत्वं तु प्रक्रमान् महातपोविषयो ऽयं निषेध इति । नवरात्रे तु भवत्य् एव नवरात्रोपवासत इत्य् उक्त्वा,

ब्राह्मणैः क्षत्रियैर् वैश्यैः शूद्रैर् अन्यैश् च मानवैः ।

स्त्रीभिश् च कुरुशार्दूल तद्विधानं इदं शृणु ॥

इति **भविष्ये **शूद्रस्याप्य् उक्तेः । एवं प्रायश्चित्तं शूद्रे जपहोमरहितं देयम् ।

तस्माच् छूद्रं समासाद्य सदा धर्मपथे स्थितं ।

प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जितम् ॥

इति मिताक्षरायाम् अङ्गिरसोक्तेः । अत्र जपहोमवर्जप्रायश्चित्तदानतीर्थयात्रादौ न शूद्रसम्बन्धविधेर् उप्संहारः हविरुभयत्ववद् विशिष्टोद्देशे वाक्यभेदाद् द्विजानां तदभावापत्तेश् च । किं तु शूद्रसम्बन्धिप्रायश्चित्तोदेशेन जपहोमवर्जत्वविधिलाघवात् ।

**[४०] **अत्र केचित् प्रधानभूतयोर् जपहोमयोर् निषेधो न त्व् अङ्गभूतयोः । अत एव महार्णवे लौकिकाग्नौ स्त्रीशूद्रयोः प्रायश्चित्ताङ्गव्याहृतिहोमो विप्रद्वारोक्त इत्य् आहुः ।

तन् न,

आरम्भे सर्वकृच्छ्राणां समाप्तौ च विशेषतः ।

आज्येनैव च शालाग्नौ जुहुयाद् व्याहृतीः पृथक् ॥

श्राद्धं कुर्याद् व्रतान्ते तु गोहिरण्यादिदक्षिणम् ।

स्त्रीणां होमो न कर्तव्यः पञ्चगव्यं तथैव च ।

इति जाबालिना गृह्याग्निनियमात् । न चाग्नेः प्रतिनिधिर् अस्तीय् उक्तं नवमे । न वा लौकिकाग्नेर् वचनम् अस्ति तेनाविशेषाद् उभयोर् निषेधः अतो महादानेष्व् अप्य् अधिकारः । तथा च हिरण्यगर्भदाने मात्स्य

शूद्रस्यैकादशसंस्काराः स्त्रीणां च षट् ।

नमोमन्त्रश् चेति मदनरत्नादिसर्वग्रन्थाः ।

[४१] महादानेषु मात्स्ये ऽपि ।

स्त्रीणां कुण्डानि विप्रेन्द्र यो ऽन्याकाराणि कारयेत् ।

शारदातिलके ऽपि ।

वैश्यानाम् अर्धचन्द्राभं शूद्राणां च त्रिकोणकम् ।

इति शूद्राणां कुण्डोक्तेः, स्त्रीशूद्रयोः सधर्मत्वाच् च । अत एव मात्स्ये हिरण्यगर्भे ।

नरो वा यदि वा नारी सर्वब्रह्मात्मसम्भवम् ।

यः करोति महापुण्यं शृणु तस्यापि तत् फलम् ॥

इत्य् उक्तम् । कामधेनुदाने प्य् आग्नेये

ब्रह्मविट्क्षत्रशूद्राणां कर्तव्या यत्नतो नृप । इति ।

भविष्योत्तरे हलपङ्क्तिदाने ऽपि ।

प्रयत्नेन महीपाल दानम् एतन् नृपोत्तम ।

दातव्यं भक्तियुक्तेन स्त्रिया वा पुरुषेण वा ॥

ब्रह्माण्डे सप्तद्वीपदाने ।

सप्तद्वीपाह्वयं दानम् एवं कृत्वा तु मानवः ।

नारी वा पुरुषो वापि वैरिञ्चं लोकम् आप्नुयात् ॥

धान्यपर्वते ऽपि ।

दिव्यं विमानम् आरुह्य नारी वा पुरुषो ऽपि वा ।

तत्रैव कार्पासाचले ऽपि ।

इत्य् उच्चार्य नरो दद्यान् नारी वा विधिपूर्वकम् ।

तिलापर्वते ऽपि ।

पुण्यक्षयाद् इहागत्य राजा भवति धार्मिकः ।

नारी वा तस्य पत्नी च सुभगा रूपसंयुता ॥

तथा मान्धात्रा युवानश् चेन (?) कार्तिवीर्येण चैव हि ।

दानम् एतत् पुरा दत्तं तत्पत्नीभिस् तथैव च ॥

न च वचनात् तावन्मात्रे ऽधिकारः अनुवादेन फलार्थत्वात् । यद्य् अपि नरेन्द्रे विप्रेन्देत्यादिसामान्यस्य विद्वद्विषयतात् द्विजपरत्वम् एवार्हम् । तथापि क्वचिच् चतुर्वर्णग्रहणात् क्वचिच् छूद्रस्य क्वचिच् च स्त्रियाः परामर्शः । स्त्रीशुद्रयोः समानधर्मत्वाच् छ्रवणविधिसिद्धविद्यत्वात् कामित्वाच् च शूद्रस्याप्य् अधिकारः । तद् उक्तम्,

अधिकारी भवेच् छूद्रः पूर्तधर्मे न वैदिके । इति ।

मोक्षधर्मे ऽपि ।

मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीं क्रियाम् । इति ।

[४३] पञ्चगव्ये तु स्त्रीणां विकल्पः ।

स्त्रीशूद्रस्य विशुद्ध्यर्थं प्राजापत्यं समादिशेत् ।

पञ्चगव्यं तु कुर्वीत स्नात्वा पीत्वा शुचिर् भवेत् ॥

इति पराशरोक्तेः । शूद्रे तु न निषेधः । यत् त्व् अत्रिः,

पञ्चगव्य्म् पिबेच् छूद्रो ब्राह्मणस् त्व् सुरां पिबेत् ।

उभौ तौ तुल्यकर्माणौ पुमाखे नरके वसेत् ॥

इति, तत् प्रायश्चित्तं विना ज्ञेयम् । विशेषः प्रायश्चित्तरत्ने ज्ञेयः । एवं पूर्ते ऽपि जलाशयोत्सर्गप्रासादप्रतिष्ठामहादानादिष्व् अपि शूद्रस्याधिकारः ।

अधिकारी भवेच् छूद्रः पूर्ते धर्मे न वैदिके ।

इति व्यास-जातूकर्ण्योक्तेः । पूर्तम् आह हेमाद्रौ मदनरत्नेजातूकर्ण्यः

वापीकूपतडागादि देवतायतानि च ।

अन्नप्रदानम् आरामः पूर्तम् इत्य् अभिधीयते ॥

तत्रैव नारदः

ग्रहोपरागे यद् दानं सूर्यसङ्क्रमणेषु च ।

बहिर् वेद्याम् च यद् दानं तत् पौर्तिकम् उदाहृतम् ॥

तेन कर्मविपाकेन दानादाव् अप्य् अधिकारः । मनुः

दानधर्मं निषेवेत नित्यम् ऐष्टिकपौर्तिकम् ।

श्रौतस्मार्ताग्निकर्माङ्गं दानम् इष्टं तु पौर्तिकम् ॥

व्यासो ऽपि ।

वर्णानाम् आश्रमाणां च चातुर्वर्ण्ये युधिष्ठिर ।

दानधर्मं प्रवक्ष्यामि यथा व्यासेन भाषितम् ॥

विशेषस् तु मत्कृते दानकमलाकरे ज्ञेयः ।

[४४] अत्र यत्र महादानजलाशयोत्सर्गादौ वैदिकमन्त्रयुक्ते वचनाद् रथकारस्येव दानादाव्15 अधिकारः शूद्रस्योकः तत्र द्वयी गतिः । वैदिकमन्त्ररहितं विप्रैः कार्यम् इत्य् एकः पक्षः । मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीं क्रियाम् इति मोक्षधर्मेषु व्यासोक्तेःमनुर् अपि ।

धर्मेप्सवस् तु धर्मज्ञाः सतां धर्मम् अनुव्रताः ।

मन्त्रवर्जं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च ॥

यत् तु मेधातिथिनोकं यानि मन्त्ररहितानि व्रतोपवासादीनि तान्य् अनुतिष्ठन्तः **[४५] **शूद्रा न दुष्यन्ति, न पुनः समन्त्राण्य् अपि मन्त्रवर्जम् अनुतिष्ठन्तो न दुष्यन्तीति समन्त्रकविधौ शूद्रान् प्रत्य् अप्रवृत्तत्वेन मन्त्रवर्जानुष्ठाने शब्दानुष्ठानं स्याद् इति, तन् न, स्थपतीष्टवच् घृङ्गग्राहिकयाविधाने मन्त्रवर्जताविधानात् । अन्यथा मन्त्रहीने व्रतोपवासादाव् अनधिकारप्रससक्त्या विधिवैय्यर्थ्यात् । तस्मात् संविधानार्थम् एवैतत् ।

[४६] अन्ये त्व् आहुः विप्रैर् वैदिकमन्त्रेणैव होमादि कार्यम् । वक्ष्यमाणपराशरोक्तेः । माधवीये ऽप्य् एवम् । पौराणमन्त्रेष्व् आचार्यकर्तृकेषु पाठ एव । याजमानेषु पाठ एवेति कल्पतरु-स्मार्तगौडादयः । युक्तं तु श्रवणविधिवशात् तेषां श्रवणमात्रम् उक्तयुक्तेः श्रवणजन्यज्ञानस्यैवाङ्गत्वात् । वैदिके तु याजमाने नमस्कारमात्रम् । अनुमतो ऽस्य नमस्कारो मन्त्र इति गौतमोक्तेः । गौडा मैथिलाश् चैवम् । एवम् उभयतोमुखीदाने नमोमन्त्रेण होमः । “यज्ञो वै नम” इति श्रुतेश् च । अस्येति षष्ठीश्रुत्या यजमानस्य याज्येतिवत् तत्सम्बन्धित्वात् पौराणो विप्रस्य । अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यत इति पूर्वोक्तवाराहोक्तेः । यत् तु समन्त्रकहोमस्य पुत्रप्रतिग्रहाङ्गत्वाद् व्याहृत्यादिमन्त्रपाठे च स्त्रीशूद्रयोर् अनधिकारात् तयोर् दत्तकः पुत्रो न भवत्य् एवेति शुद्धिविवेके रुद्रधरेणोक्तम् ।

तन् न, भर्त्रनुज्ञया स्त्रिया अपि प्रतिग्रहोक्तेः । तद् आह **वसिष्ठः । **“न स्त्री पुत्रं दद्यात् प्रतिगृह्णीयाद् वान्यत्रानुज्ञानाद् भर्तुर्” इति । इदं तज्जीवने, तदूर्ध्वं तु स्वातन्त्र्यान् नानुज्ञापेक्षा । यद्य् अपि मेधातिथिना भार्यात्ववद् अदृष्टरूपं दत्तकत्वं होमसाध्यम् उक्तम् । स्त्रियाश् च होमासम्भवस् तस्यापि व्रतादिवद् विप्रद्वारा होमादि कारयेद् इति हरिनाथादयः । **गौडनिबन्धतत्वे **ऽप्य् एवम् । एवं शूद्रस्याद्भुतरोगशान्तिकर्म-विपाकतुलादाव् अपि । स्त्रीशूद्राश् च सधर्माण इति स्मृतेः । अत एव शूद्रकर्तृकहोमो विप्रद्वारैव पराशरेणोक्तः ।

दक्षिणार्थं तु यो विप्रः शूद्रस्य जुहुयाद् धविः ।

ब्राह्मणस् तु भवेच् छूद्रः शूद्रस् तु ब्राह्मणो भवेत् ॥ इति ।

अत्र **माधवाचार्यः **। यो विप्रः शूद्रदक्षिणाम् आदाय तदीयं हविः शाण्तिपुष्ट्यादिसिद्धये वैदिकैर् मन्त्रैर् जुहोति तत्र विप्रस्यैव दोषः शूद्रस् तु होमफलं लभेतैवेति व्याचक्षे । एतच् चास्माभिर् निर्णयसिन्धौ सविस्तरम् उक्तम् । तेन सर्वत्र शूद्राणां वैदिकमन्त्रहोमे द्वौ पक्षौ । विप्रद्वारा समन्त्रको अमन्त्रको नाम्ना चेति ।

[४८]

अथ शूद्रस्य संस्काराः

यमः ।

शूद्रो ऽप्य् एवंविधः कार्यो विना मन्त्रेण संस्कृतः ।

न केनचित् समसृजच् छन्दसा तं प्रजापतिः ॥

छन्दसा मन्त्रेण । व्यासो ऽपि ।

गर्भाधानं पुंसवनं सीमन्तो जातकर्म च ।

नामक्रिया निष्क्रमो ऽन्नप्राशनं वपनक्रिया ॥

कर्णवेधो व्रतादेशो वेदारम्भक्रियाविधिः ।

केशान्तः स्नानम् उद्वाहो विवाहाग्निपरिग्रहः ॥

त्रेताग्निसङ्ग्रहश् चैव संस्काराः षोडश स्मृताः ।

इत्य् उक्त्वाह ।

नवैताः कर्णवेधान्ता मन्त्रवर्जं क्रियाः स्त्रियः ।

विवाहो मन्त्रतस् तस्याः शूद्रस्यामन्त्रतो दश ॥

यत् तु स्मृतिकौमुद्यां मदनपालेनोक्तम्

    ब्राह्मणक्षत्रियवैश्यानां गर्भाधानसीमन्तजातकर्मनामकरणआन्न-प्राशनचूडोपनयनव्रतचर्याध्ययनसमावर्तनविवाहयज्ञदानानि समानानीति **सुमन्तूकौ** द्विजानाम् एवोक्तेः । विवाहमन्त्रसंस्कारं शूद्रो ऽपि लभतां सदेत्य् ब्राह्माच् च । न शूद्रस्य जातकर्मादि । एवं चौलाभावः, 

    	चूडाकर्म द्विजातीनां सर्वेषाम् एव धर्मतः ।

    इति **मनू**क्तेः ।

इति । तच् चिन्त्यम् । सौमन्तवचनस्योपनयनादिसाम्यार्थत्वात् । अन्यथा दाने ऽप्य् अनधिकारापत्तेः16मानवीये च धर्मत इत्य् उक्तेः शूद्रे होमादिनिषेधात् । तद् आह मनुः

बैजिकैर् गार्भिकैर् होमैश् चूडामौञ्जीनिबन्धनैः ।

बैजिकं गार्भिकं चैनो द्विजानाम् अपमृज्यते ॥ इति ।

अत एव मदनरत्ने हिरण्यगर्भदाने ।

गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा ।

कुर्युर् हिरण्यगर्भस्य ततस् ते द्विजपुङ्गवाः ॥

इत्य् उक्त्वा ।

जातकर्मादिकाः कुर्यात् क्रियाः षोडश चापराः ।

इत्य् अत्र मात्स्ये

    स्त्रिया जातकर्मनामकरणनिष्क्रमणान्नप्राशनचूडाविवाहाः षट्संस्काराः । शूद्राणां तु षड् एते पञ्चमहायज्ञाश् चेत्य् एकादश । 

इत्य् उक्तम् । रूपनारायण-हरिहरभाष्ययोर् अप्य् एवम् । शूद्रसोपनय्नवर्जा गर्भादानादिविवाहान्ताः नव संस्कारा इति जयपालःशार्ङ्गधरस् तु,

द्विजानां षोडशैव स्युः शूद्राणां द्वादशैव हि ।

पञ्चैव मिश्रजातीनां संस्काराः कुलधर्मतः ॥

वेदव्रतोपनयनं महानाम्नी महाव्रतम् ।

विना द्वादश शूद्राणां संस्कारा नाममन्त्रतः ।

इत्य् आह । [४९] अपरार्कस् तु “गर्भाधानम् ऋतौ पुंसः” इत्य् अत्र आह-

    एतद् चातुर्वर्ण्यपरं न द्विजातिमात्रपरम् । तथा सत्य् उपनयनं विधाय वाच्यं स्यात् ।

इति । तेन तन्मते गर्भाधानपुंसवनसीमन्तजातकर्मनामकरणनिष्क्रमणान्नप्राशन-चौलाख्या अष्टौ भवन्ति । कल्पतरौ ब्राःमे तु-

विवाहमात्रं संस्कारं शूद्रो ऽपि लभतां सदा ।

इत्य् उक्तम् । अत्र सदसच्छूद्रगोचरत्वेन देशभेदाद् वा व्यवस्थेति तत्वम् ।

यत् तु मनुः,

न शूद्र पातकं किञ्चिन् न च संस्कारम् अर्हति ।

इति, तदर्थम् आह मेधातिथिः

    यत् सामान्यतो निषिद्धं स्तेयानृतादि न तद् अतिक्रमे ऽस्य तथा पापं यथा द्विजानाम् । उपनयनरूपं संस्कारं च नार्हति ।

इति । ते च तूष्णीं कार्याः पूर्वोक्तयमाद्य्उक्तेर् इति दिक् ।

[५१] शूद्रस्य चौले च न पञ्चचूडतादिपक्षः, तस्य गोत्रचिह्नत्वाच् छूद्रे च तदभावात् । यद्य् अपि “तस्माद् आहुः सर्वाः प्रजाः काश्यप्य” इति शतपथश्रुतेर् गोत्रनाशे तु काश्यप इति हेमाद्रौ व्याघ्रपादोक्तेश् च काश्यपं गोत्रम् अस्ति । अत एव,

पिण्डादि निर्वपेद् वीर नामतो गोत्रतस् तथा ।

इत्य् **हेमाद्रौ **शूद्रश्राद्धे भविष्यवचनम् । तथापि श्राद्धे एव तत् । न तु प्रवरप्राप्तौ प्रमाणम् अस्ति ऋष्यपत्यत्वाभावाच् च । अत एव मनुना “द्विजानां धर्मतः” इत्य् उक्तम् । अर्थप्राप्तं शूद्रस्य केशवपनं तु न वार्यत इति **मेधातिथिः । **अत्र चौले विकल्पेन शूद्राणां सर्वमुण्डनं शिखाधारणं वा, “शूद्रस्यानियताः केशवेशाः” इति वसिष्ठोक्तेः । अत एव हारीतः,

स्त्रीशूद्रौ तु शिखां छित्त्वा क्रोधाद् वैरागतो ऽपि वा ।

प्राजापत्यं प्रकुर्यातां निष्कृतिर् नान्यथा भवेत् ॥ इति ।

तच् छूद्रे प्रायश्चित्तम् आह । अत एव गौडस्त्रीणां विधवानां शिखा दृश्यते । यत् तु पाद्मे,

न शिखी नोपवीती स्यान् नोच्चरेत् संस्कृतां गिरम् ।

मध्यपत्रे न भुञ्जीत ब्रह्मवृक्षस्य भामिनि17 ॥ इति ।

तन् मुण्डित्वपरिग्रहपक्षे इति दिक् । विशेषस् तु मत्कृते निर्णयसिन्धौ ज्ञेयः ।

[५३] तथा शूद्राणां पञ्चमहायज्ञाश् च भवन्ति,

भार्यारतः शुचिर् भृत्यभर्ता श्राद्धकिर्यारतः ।

नमस्कारेण मन्त्रेण पञ्चयज्ञान् न हापयेत् ॥

इति याज्ञवल्क्योक्तेः । एतच् च **मिताक्षरायां **स्पष्टम् । **भारते **राजधर्मेषु,

तस्माच् छूद्रः पाकयज्ञैर् यजेत व्रतवान् स्वयम् ।

दक्षिणा पाकयज्ञानां हिरण्यं तु विधीयते ॥

ते च वाजसनेयिशाखया कार्याः, “शूद्रा वाजसनेयिनः” इति गौडनिबन्धे दक्षोक्तेः । हरिहरभाष्ये विवाहप्रकरणे ऽप्य् एवम् उक्तम् । अन्यत्प्रयोगे व्यक्तीभविष्यतीति सङ्क्षेपः ।

इति श्रीजगद्गुरुनारायणभट्टसूरिसूनुरामकृष्णभत्तात्मज-

कमलाकरकृते शूद्रधर्मे शूद्रसंस्काराः ।

अथ शूद्रश्राद्धनिर्णयः

तत्र “श्राद्धक्रियारतः” इति प्रागुक्तेर् नित्यनैमित्तककाम्येषु सिद्धो ऽधिकारः । एवं स्त्रीणाम्,

स्वभर्तृप्रभृति त्रिभ्यः स्वपितृभ्यस् तथैव च ।

विधवा कारयेच् छ्राद्धं यथाकालम् अतन्द्रिता ॥

इति स्मृतिरत्नावल्यां वृद्धमनूक्तेः । तच् च श्राद्धं स्त्रीशूद्राणां मन्त्रवर्जं तूष्णीं भवति,

स्त्रीणाम् अमन्त्रकं श्राद्धं तथा शूद्रासुतस्य च ।

प्राग् द्विजाश् च व्रतादेशात् ते च कुर्युस् तथैव तत् ॥

इति हेमाद्रौ मरीचिवचनात् ।

अयम् एव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः ।

अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यते ॥

इति ब्राह्मोक्तश् च । अस्य श्राद्धप्रकरणत्वे ऽपि परिभाषात्वाच् [५४] छूद्रस्य स्नानदानादौ सर्वत्र विप्रेण मन्त्रपाठः कार्यः । सो ऽपि पौराणस्यैव । एवं स्त्रिया अपीति शूलपाणिः प्राग् द्विजाश् चेत्य् अचूडाः त्रिवर्षपरम्,

अनुपेतो ऽपि कुर्वीत मन्त्रवत् पैतृमेधिकम् ।

यद्य् असौ कृतचूडः स्याद् यदि स्याच् च त्रिवत्सरः ॥

इति सुमन्तूक्तेः । स्मृत्यर्थसारे अनुपनीताः स्त्रीशूद्राश् च श्राद्धम् ऋत्विजा कारयेयुः स्वयं वामन्त्रकं कुर्युः । द्विजस्त्रियस् तु स्वयं सङ्कल्पमात्रं कृत्वा वैदिकमन्त्रयुक्तं सर्वं ब्राह्मणद्वारा कारयेयुर् इति प्रयोगपारिजातः । अत एव स्त्रीणाम् इत्य् कृतविवाहस्त्रीपरम् इति **हेमाद्रिर् **आह । अनुपनीतस् तु वैदिकमन्त्रयुक्तं सर्वं स्वयम् एव कुर्यात् । विशेषस् तु निर्णयसिन्धौ ज्ञेयः । शूद्रस्य तु सदामश्राद्धम् एव,

सदा चैव तु शूद्राणाम् आमश्राद्धं विधीयते ।

इति सुमन्तूक्तेः । पृथ्वीचन्द्रोदये [५५] मास्त्स्ये ऽपि ।

एवं शूद्रो ऽपि सामान्यं वृद्धिश्राद्धं च सर्वदा ।

नमस्कारेण मन्त्रेण कुर्याद् आमान्नवत् सदा ॥

तत्रैव वृद्धपराशरः

आमान्नेन तु शूद्रस्य तूष्णीं तु द्विजपूजनम् ।

आमश्राद्धं तु निर्वाप्य सजातीन् आशयेद् अथ ॥

स एव

आमं शूद्रस्य पक्वान्नं पक्वम् उच्छिष्टम् उच्यते ।

तेन शूद्रगृहे होमो नेति केचित् । **हेमाद्रौ भविष्ये **।

धर्मेप्सवस् तु धर्मज्ञा यदि शूद्राः प्रकुर्वते ।

अग्नौकरणमन्त्रश् च नमस्कारो विधीयते ॥

अग्नये कव्यवाहनाय नमः । सोमाय पितृमते नम इत्य् अयं मन्त्रः ।

आवाहनादिकर्तव्यं यथा शूद्रेण तच् छृणु ।

देवानां देवनाम्ना तु पितॄणां नामगोत्रतः ॥

पिण्डादि निर्वपेद् वीर नामतो गोत्रतस् तथा ।

शूद्राणां काश्यपं गोत्रम् इति हेमाद्रिः । एवं तर्पणादिषु ज्ञेयम् । ये तु ऋष्यपत्यत्वाभावाच् छूद्रे गोत्रम् एव नास्तीत्य् आहुस् ते मूर्खा एव । तत्रैव **भविष्ये **।

शूद्रस् तु गृहपाकेन तत्पिण्डान् निर्वपेत् तथा ।

सक्तु मूलं फलं तस्य [५६] पायसं वा भवेत् स्मृतम् ॥

तेन “पक्वम् उच्छिष्टम् उच्यते” इत्य् एतद् विहितभिन्नपरम्, श्राद्धपरं वा । शूद्रकर्तृकवैश्वदेवपरम् इति स्मार्तगौडाः । अन्यथा सर्वत्र पक्वनिषेधाद् एव श्राद्धे ऽप्य् आमसिद्धेः, शूद्रस्यामविधिर् व्यर्थः स्यात् । तेन श्राद्दे सर्वत्रामप्राप्तौ पिण्डे पायसादेः प्रतिप्रसवः । देवताभ्यः पितृभ्यश् चेत्य् अयं वा नमस्कारमन्त्र इति विज्ञानेश्वर-मदनपालादयःहेमाद्रिस् तु शूद्रो ऽप्य् अमन्त्रवत् कुर्याद् अनेन विधिना बुध इति मात्स्ये मन्त्रनिषेधान् नाममन्त्रेणेत्य् आह । यच् च पृथ्वीचन्द्रोदये स्कान्दे,

राजकार्यनियुक्तस्य बन्धनिग्रहवर्तिनः ।

व्यसनेषु च सर्वेषु श्राद्धं विप्रेण कारयत् ॥

इति, तच् छूद्रे ऽपि तुल्यम् । किं तु श्राद्धे शूद्रस्य न ब्राह्मणः प्रतिनिधिः ।

ब्राह्मणो हीनवर्णस्य न कुर्याद् और्ध्वदेहिकम् ।

शूद्रो ऽपि वा ब्राह्मणस्य विना पारसवात् क्वचित् ॥

इति तत्रैव पारस्करोक्तेः । पारसवः ऊढशूद्रापुत्रः । [५७] विष्णुपुराणे

दानं च दद्याच् छूद्रो ऽपि पाकयज्ञैर् यजेत वा ।

पित्र्यादिकं च यत् सर्वं शूद्रः कुर्वीत तेन वै ॥

तेन पाकेन । इदं कलीतरपर्म् इति स्मार्तगौडाः । यत् तु भारते राजधर्मेषु,

यवनाः इराता गान्धाराश् चीणाः शबरबर्बराः ।

शकास् तुषाराः कङ्काश् च पल्हवाश् चान्द्रमद्रकाः ॥

इत्य् उक्त्वा,

ब्रह्मक्षत्रप्रसूताश् च वैश्याः शूद्राश् च मानवाः ।

कथं धर्मान् चरिष्यन्ति सर्वे विषयवासिनः ॥

इति चोक्त्वा,

वेदधर्मक्रियाश् चैव तेषां धर्मो विधीयते ।

पितृयज्ञास् तथा कूपाः प्रपाश् च शयनानि वा ॥

दानानि च यथाकालं द्विजेभ्यो विसृजेत् सदा ॥

तथा ।

दक्षिणा सर्वयज्ञानां दातव्या भूतिम् इच्छता ।

पाकयज्ञा महार्हाश् च कर्तव्याः सर्वदस्युभिः ॥

म्लेच्छादीनां श्राद्धविधानं तद् अपि सजातीयभोजनद्रव्यदानादिपरम् । **विष्णु-उशनसौ **।

न पक्वं भोजयेद् विद्वान् सच्छूद्रो ऽपि कदाचन ।

भोजयन् प्रत्यवायी स्यान् न च तस्य फलं लभेत् ॥

तत्रापि द्विजानां पाकनियमः यथा लघुहारीतः

एकोद्दिष्टं तु कर्तव्यं पाकेनैव सदा स्वयम् ॥ इति ।

यथा वा **स्मृतिदर्पणे गालवः **।

मृताहं च सपिण्डं च गयाश्राद्धं महालयम् ।

आपन्नो ऽपि न कुर्वीत श्राद्धम् आमेन कर्चित् ॥ ॥

लौगाक्षिः

अन्नेनैवाब्दिकं कुर्याद् धेम्ना वामेन न क्वचित् । इति ।

तत्रापि शूद्रस्यामम् एव,

सदा चैव तु शूद्राणाम् आमश्राद्धं विधीयते ।

इति सुमन्तूक्तेः । शूद्रस्य दशपिण्डाद्यामेनैवेति **हलायुधः **।

तन् न, पूर्ववचनैः पायसादेर् अपि विधानात् । तच् च शूद्रकर्तृकम् आमश्राद्धम् अपराह्ण एव । न तु द्विजवत् पूर्वाह्णे ।

मध्याह्नात् परतो यस् तु कुतुपः समुदाहृतः ।

आमश्राद्धं तु तत्रैव पितॄणां दत्तम् अक्षयम् ॥

इति सुमन्तूक्तेर् इत्य् अपरार्के हेमाद्रौ चोक्तम् । पुत्रजन्मनि हिरण्यश्राद्धम् एव । तदाह हेमादौ संवर्तः

पुत्रजन्मनि कुर्वीत श्राद्धं हेम्नैव बुद्धिमान् ।

न पक्वेन न चामेन कस्यामान्य्18 अभिकामयन् ॥

आमहेमश्राद्धादौ विशेषस् तु मत्कृते निर्णयसिन्धौ ज्ञेयः ।

[५९] क्रियानिबन्धे **व्यासः **।

हिरण्यम् आमश्राद्धीयं लब्धं यत् क्षत्रियाद् इतः ।

यथेष्टं विनियोज्यं स्याद् भुञ्जीयाद् ब्राह्मणान् स्वयम् ।

पिप्राल् लब्धं भुञ्जीयात् क्षत्रियादिलब्धे तु यथेष्टविनियोगः । तेनापि श्राद्धं वैश्व्देवादि न कार्यम् । देवोद्देशेन त्यक्तस्य देवतानराय् त्यागायोगाद् इति देवयाज्ञिकः । शूद्रलब्धे तूक्तम् । तथैव **षट्त्रिंशन्मते **।

आमं शूद्रस्य यत् किञ्चिच् छ्राद्दिकं प्रतिगृह्यते ।

तत् सर्वं भोजनायालं नित्यनैमित्तिके न तु ॥

गौडशुद्धितत्वे अङ्गिराः

शूद्रवेश्मनि विप्रेण क्षीरं वा यदि वा दधि ।

निवृत्तेन न भोक्तव्यं शूद्रान्नं तद् अपि स्मृतम् ॥

शूद्राद् विप्रगृहेष्व् अन्नं प्रविष्टं तु सदा शुचि ।

पराशरः

तावद् भवति शूद्रान्नं यावन् न स्पृशति द्विजः ।

द्विजातिकरसंस्पृष्टं सर्वं तन् न विरुध्यते ॥

विष्णुपुराणे

सम्प्रोक्षयित्वा गृह्णीयाच् छूद्रान्नं गृहम् आगतम् ।

अङ्गिराः

पात्रान्तरगतं ग्राह्यं दुग्धं स्वगृहम् आगतम् ।

[६०] तथा अनुपनीतस्त्रीशूद्रादेर् उत्तरीयेण सव्यापसव्ये ज्ञेये । तच् चोत्तरीयं वस्त्रोत्तरीयाभावे द्व्यङ्गुलं त्र्यङ्गुलं चतुरङ्गुलं वा परिमण्डलम् । षण्णवत्यङ्गुलं दीर्घम् इति जातूकर्ण्योक्तं ज्ञेयम् । तदभावे उपरिवासोमात्रम् ।

अपसव्यं क्रमाद् वस्त्रं कृत्वा कश्चित् सगोत्रजः ।

इति ब्राह्मोक्तेर् इति मैथिलवाचस्पतिःस्मृतिकौमुद्यां बौधायनः “शूद्राणाम्” इत्य् उपक्रम्य “उपवीतं वस्त्रविन्यासाद्” इति । शङ्खः

चतुर्भिर् दर्भपिञ्जूलैर् ब्राह्मणस्य पवित्रकम् ।

एकैकं न्यूनम् उद्दिष्टं वर्णे वर्णे यथाक्रमम् ॥

मण्डले तु शूद्रस्याभ्युक्षणं मतम् इत्यादि निर्णयसिन्धौ ज्ञेयम् । शूद्रस्य तिलकविधिर् उक्तः पराशरपुराणे

ऊर्ध्वपुण्ड्रं त्रिपुण्ड्रञ्च वर्तुलं चतुरस्रकम् ।

अर्धचन्द्रादिकं लिङ्गं वेदनिष्ठो न धारयेत् ॥

वेदनिष्ठ इत्य् उक्तेः शूद्रानुज्ञा । मदनपारिजाते ब्राह्मे

ऊर्ध्वपुण्ड्रं द्विजः कुर्यात् क्षत्रियस् तु त्रिपुण्ड्रकम् ।

अर्धचन्द्रं तु वैश्यश् च वर्तुलं शूद्रजातिषु ॥

विष्णु-आश्वलायनौ

शङ्खचक्राद्यङ्कनं च गीतनृत्यादिकं तथा ।

एकजातेर् अयं धर्मो न जातु स्याद् द्विजन्मनः ॥

पुरुषार्थप्रबोधशिवसर्वस्वादौ तु स्त्रीशूद्रयोर् विभूतिधारणम् अप्य् उक्तम् ।

**इति रामकृष्णभत्तात्मजकमलाकरकृते **

शूद्रश्राद्धनिर्णयः ।

[६१]

अथ शूद्राणां विहितनिषिद्धधर्माः

लघुपराशरः

विक्रीणन् मद्यमांसादि त्व् अभक्ष्यस्य च भक्षणम् ।

कुर्वन्न् अगम्यागमनं शूद्रः पतति तत्क्षणात् ॥

कपिलाक्षीरपानेन ब्राह्मणीगमनेन च ।

वेदाक्षरविचारेण शूद्रश् चाण्डालतां व्रजेत् ॥

यत् तु स एव,

लवणं मधु मद्यं च दधि तक्तं घृतं पयः ।

न दुष्येच् छूद्रजातीनां कुर्यात् सर्वेषु विक्रयम् ॥

इति, तद् आपदि ज्ञेयम् इति स्मृतिकौमुदी । असच्छूद्रपरम् उक्तम् । एवम् असच्छूद्राणां मद्यमांसभक्षणे ऽपि न **[६२] **दोषः निषिद्धमांसं विना । अतः सुरापशुद्रसंसर्गे न दोषः । पतितसंसर्गे हि सः न चायं तथा । द्विजानां तु निषेधात् पातित्यम् इति । तत्संसर्गे शूद्रस्य दोष एव शूद्रस्य वर्जने तु अभ्युदयः । तद् आह मनुः

न मांसभक्षणे दोषो न मद्ये न च मैथुने ।

प्रवृत्तिर् एषा भूतानां निवृत्तिस् तु महाफला ॥ इति ।

सच्छूद्रैर् वर्ज्यम् एव । यत् तु कालिकापुराणे,

विक्रयं सर्ववस्तूनां कुर्वन् शूद्रो न दोषभाक् ।

मधु चर्म सुरां लाक्षां भुक्त्वा मांसं च पञ्चमम् ॥ इति ।

अत्र “अनापदि मध्वादिनिषेधः” इति कल्पतरुःपराशरपुराणे ऽपि ।

पिण्याकम् आसवस् तैलं गव्यं तक्रादिकं तथा ।

शूद्राद् एव तु सम्ग्राह्यं न द्विजेभ्यः कदाचन ॥

स्काण्दे प्रभासखण्डे ।

न दर्भान् उद्धरेच् छूद्रो न पिबेत् कापिलं पयः ।

मध्यपत्रे न भुञ्जीत ब्रह्मवृक्षस्य भामिनि ॥

नोच्चरेत् प्रणवं मन्त्रं पुरोडाशं न भक्षयेत् ।

न शिखी नोपवीती स्यान् नोच्चरेत् संस्कृतां गिरम् ॥

न पठेद् वेदवचनं त्रिषवनं न हि सेवयेत् ।

नमस्कारेण मन्त्रेण क्रियासिद्धिर् भवेत् ध्रुवम् ॥

निषिद्धाचरणं कुर्वन् पितृभिः सह मज्जति ।

**[६३] **अन्यान्य् अपि निषिद्धानि मात्स्ये कलिधर्मेषु ।

ततः प्रभृत्य् अयं लोकः सर्वो व्यापत्स्यते भृशम् ।

इत्य् उपक्रम्य,

ब्राह्मणाः शूद्रयोनिस्थाः शूद्रा वै मन्त्रयोनयः ।

उपस्थास्यन्ति तान् विप्रान् पदार्थम् अभिलिप्सवः ॥

लैङ्गे ऽपि ।

शूद्राणां मन्त्रयोनिश् च सम्बन्धो ब्राह्मणैः सह ।

भवतीह कलौ तस्मिन् शयनासनभोजनैः ॥

राजानः शूद्रभूयिष्ठा ब्राह्मणान् बाध्यन्ति ते ।

शूद्राश् च ब्राह्मणाचाराः शूद्राचाराश् च ब्राह्मणाः ॥

अक्षत्रियाश् च राजानो विप्राः शूद्रोपजीविनः ।

शूद्राभिवादिनः सर्वे ब्राह्मणैर् अभिवन्दिताः ॥

आसनस्थान् द्विजाण् दृष्ट्वा न चलन्त्य् अल्पचेतसः ।

ताडयन्ति द्विजेन्द्रांश् च शूद्रा वै स्वल्पबुद्धयः ॥

आस्ये निधाय वै हस्तं कर्णे शूद्रस्य वै द्विजाः ।

नीचस्य च तदा वाक्यं वदन्ति विनयेन तु ॥

अधीयन्ते तथा वेदान् शूद्रा धर्मार्थकोविदाः ।

यजन्ते चाश्वमेधेन राजानः शूद्रयोनयः ॥

तस्माद् आयुर् बलं रूपं कलिं प्राप्य प्रहीयते ।

तदा त्व् अल्पेन कालेन सिद्धिं गच्छन्ति मानवाः ॥

धन्या धर्मं चरिष्यन्ति युगान्ते समुपस्थिते ।

त्रेतायां वार्षिको धर्मः

इत्य् उक्त्वा,

तदह्ना प्राप्यते कलौ ॥

इत्य् उक्तम् ।

[६४] **कौर्मे **ऽप्य् एते श्लोकाः पाठान्तरयुताः । कौर्मे

शुक्लदन्ता जितास्याश् च मुण्डाः काषायवाससः ।

शूद्रा ध्रमं वरिष्यन्ति युगान्ते समुपस्थिते ॥

ताडयन्ति द्विजेन्द्रांश् च शूद्रा राजोपजीविनः ।

उच्चासनस्थान् शूद्रांश् च द्विजमध्ये परन्तप ॥

पुष्पैश् च भूषणैश् चैव तथान्यैर् मण्डनैर् द्विजाः ।

शूद्रान् अभ्यर्चयन्त्य् अल्पश्रुतभाग्यबलान्विताः ॥

न प्रेक्षन्तो ऽर्चतश् चापि शूद्रा द्विजवराण् नृप ।

सेवावसरम् आलोक्य द्वारि तिष्ठन्ति च द्विजाः ॥

वाहनस्थान् समावृत्य शूद्रान् शूद्रोपजीविनः ।

सेवन्ते ब्राह्मणांस् तांस् तु स्तुवन्ति स्तुतिभिः कलौ ॥

अध्यापयन्ति वै वेदान् शूद्रान् शूद्रोपजीविनः ।

पठन्ति वदिकान् मन्त्रान् नास्तिक्यं19 घोरम् आश्रिताः ॥

अत्र तस्माद् एवं न कुर्याद् इति निषिध्यते । [६५] स्कान्द-कौर्मयोः कलिधर्मेषु ।

यत्रोमाया नरो वक्ता संवादो नारदस्य तु ।

तत्र बौद्धं च जैनं च शाक्तं शैवं च वैष्णवम् ॥

योगज्ञानमतं भ्रान्तं विरुद्धं वेदशास्त्रतः ।

वर्तिष्यन्ते कलौ ब्रह्मन् तन्मतेन द्विजातयः ॥

स्त्रियः शुश्रूषणं पत्युर् विप्राणां शूद्रजातयः ।

पित्रोः पुत्राः परित्यज्य जपहोमादिसाधनम् ॥

कुर्वन्ति काम्यकर्माणि दृष्टार्थानि पतन्त्य् अधः ।

लौकिकैर् नामभिर् गीतैर् देवताराधनं तु यत् ॥

शूद्रादीनाम् अयं धर्मो न द्विजानां कदाचन ।

शूद्राणां कृतकैर् गीतैर् देवताग्रे कलौ युगे ॥

नृत्यं कुर्वन्ति विप्राद्या रवज्ञाय (?) श्रुतीरितम् ।

गायन्ति विधवा गीतं श्रोतॄणाम् अपि पापदाः ॥

विष्णुपुराणे

अपहाय निजम् कर्म कृष्ण कृष्णेति वासिनः ।

ते हरेद् वेषिणः पापा धर्मार्थं जन्म यद् धरेः ॥

तत्रैव

द्विजशुश्रूषयैवैष पाकयज्ञाधिकारवान् ।

निजान् आच्छति वै लोकान् शूद्रो धन्यतरस् ततः ॥

दानं च दद्याच् छूद्रो ऽपि पाकयज्ञैर् यजेन् न च ।

पित्र्यादिकं च वै सर्वं शूद्रः कुर्वीत वै नरः ॥

पाकयज्ञाः पञ्चमहायज्ञाः, पाकशब्दस्य तं पाकेन मनसेत्यादौ प्राशस्त्यार्थत्वात् । यद् वा यो ऽस्मत्पाकतर इतिवद् अल्पार्थः । मदनपारिजाते बृहस्पतिः

शौचं ब्राह्मणशुश्रूषा सत्यम् अक्रोध एव च ।

शूद्रकर्म तथा मन्त्रो नमस्कारो ऽस्य चोदितः ॥

भारते अनुशासनिके पर्वणि

दृष्ट्वा पितामहः शूद्रम् अभिभूतं तु तामसैः ।

द्विजशुश्रूषणं धर्मं शूद्राणां तु प्रयुक्तवान् ॥

नश्यन्ति तामसा भावाः शूद्रस्य द्विजभक्तितः ।

द्विजशुश्रूषया शूद्रः परं श्रेयो ऽधिगच्छति ॥

अहिंसकः शुभाचारो देवताद्विजपूजकः ॥

शूद्रो धर्मफलैर् इष्टैः स्वधर्मेणैव युज्यते ।

तथा

स्वाहाकारनमस्कारौ मन्त्रौ शूद्रो विधीयताम् ।

ताभ्यां शूद्रः पाकयज्ञैर् यजेत ब्रह्मवान् स्वयम् ॥

ब्रह्म मन्त्रः ।

सञ्चयांश् च न कुर्वीत जातु शूद्रः कथञ्चन ।

पापीयान् हि धनं लब्ध्वा बाधेतापि गरीयसः ॥

राज्ञा वा समनुज्ञातः कामं कुर्वीत धर्मतः ।

आपस्तम्बः

शुश्रूषा शूद्रस्येतरेषां वर्णानां पूर्वस्मिन् पूर्वस्मिन् निश्रेयसं भूयः ।

बौधायनः

    शूद्राणाम् आर्याधिष्ठितानां मासि मासि वपनम् अर्थवद् आचमनकल्प उपवीतं वस्त्रविन्यासाद् इति ।

अर्यो वैश्यः । “अर्यः स्वामिवैश्ययोः” इति पाणिनिःमनुर् अपि ।

शूद्राणां मासिकं कार्यं वपनं न्यायवर्तिनाम् ।

वैश्यवच् छौचकल्पश् च द्विजोच्छिष्टं च भोजनम् ॥

शौचम् आचमनं सूतसूतकं चैव वैश्यवत् ।

उच्छिष्टं भाण्डस्थः शेषः न तु

त्रिर् आचमनं पञ्चदशरात्रम् आशौचम् इत्य् अर्थः । [६७] यत् तु याज्ञवल्क्यः,

शुद्ध्येरन् स्त्री च शूद्रश् च सकृत् स्पृष्टाभिर् अन्ततः ।

इति, तद् असच्छूद्रपरम् इति **मदनपालः **। अन्ततः तालुगाभिः ओष्ठोन्मार्जनघ्राणस्पर्शादिकं स्त्रीशुद्रयोर् न भवति इति,

त्रिः प्राश्यापो द्विर् उन्मृज्य खान्य् अद्भिः उपस्पृशेत् ।

इति याज्ञवल्क्येन त्रिःप्राशन एव तदुक्तेर् इति केचित्अन्ये तूपलक्षणत्वात् स्त्रीशूद्रयोर् अपि भवति । अत एव स्त्री च शूद्रश् चेति शूद्रे विशेषमात्रम् उक्तम् इत्य् आहुः ।

गौतमः

    शूद्रश् चतुर्थो वर्ण एकजातिस् तस्य सत्यम् अक्रोधः शौचम् आचमनार्थे पादप्रक्षालनम् एवैके । श्राद्धकर्म भृत्यभरणं स्वदारवृत्तिर् अनुज्ञातो ऽस्य नमस्कारो मन्त्रः पाकयज्ञैः स्वयं यजेतेत्य् एके । इति ।

पाकयज्ञैर् अष्टकादिभिः स्वयं यजेत नर्त्विगादिभिर् इति तद्भाष्ये स्वयम् इति पत्नीत्यादिव्यावृत्त्यर्थम् इति **लक्ष्मीधरः **। एकेत्य् उक्तेर् विप्रद्वारापि प्रतिष्ठादाव् उक्तत्वात् । शक्तः स्वयम् अशक्तस् तु विप्रद्वारा । सच्छूद्रः स्वयम् असच्छूद्रो विप्रद्वारेति जयपालः20

[६९] हेमाद्रौ भारते

श्राद्धकर्म नयश् चैव सत्यम् अक्रोध एव च ।

स्वेषु दारेषु सन्तोषः शौचं नित्यानसूयता ॥

आत्मज्ञानं तितिक्षा च धर्मः साधारणो नृप ।

चातुर्वर्ण्यस्येति शेषः । शूद्राणां पुराणश्रवणेनात्मज्ञानम् । श्रोतव्य इति नियमस् तु द्विजपर इति व्रतहेमाद्रिः । भगवद्गीतासु ।

** **माम् उपाश्रित्य कौन्तेय ये ऽपि स्युः पापयोनयः ।

स्त्रियो वैश्याश् च शूद्राश् च ते ऽपि यान्ति परां गतिम् ॥

हेमाद्रौ विष्णुः

क्षमा शौचं दमो दानम् इन्द्रियं सत्यसंयमौ ।

अहिंसा गुरु शुश्रूषा तीर्थानुशरणं दया ॥

आर्जवं लोभशून्यत्वं देवब्राह्मणपूजनम् ।

अनभ्यसूया च तथा धर्मः सामान्य उच्यते ॥

तद्वृत्तिम् आहतुर् मनु-पराशरौ

शुश्रूषैव तु शूद्रस्य धर्मो निःश्रेयसः21 परः ।

शुचिर् उत्कृष्टाअशुश्रूषुर् मृदुर् वाग् अनहङ्कृतः ॥

ब्राह्मणोपाश्रयो नित्यम् उत्कृष्टां जातिम् अश्नुते ।

शूद्रस् तु [७०] वृत्तिम् आकाङ्क्षन् क्षत्रम् आराधयेद् यदि ॥

धनिनं वाप्य् उपाराध्य वैश्यं शूद्रो जिजीविषेत् ।

स्वर्गार्थम् उभयार्थं वा ब्राह्मणान् एव राधयेत् ॥

विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते ।

य अतो ऽन्यद् धि कुरुते तद् भवत्य् अस्य निष्फलम् ॥

विप्रसेवां विना कृतम् अपि स्नानदानाद्यकृतम् इत्य् अर्थः । सेव्यं प्रत्य् आह ।

प्रकल्प्या तस्य तैर् वृत्तिः स्वकुटुम्बाद् यथार्हतः ।

शक्तिं चापेक्ष्य दाक्ष्यं च भृत्यानां परिसङ्ग्रहे ॥

तैर् द्विजैः पुत्रवद् असौ पालनीय इति मेधातितिः

उच्छिष्टम् अन्नं दातव्यं जीर्णानि वसनानि च ।

पुलकाश् चैव धान्यानां जीर्णाश् चैव परिच्छदः ॥

पुलाका धान्यकणाः । उच्छिष्टं भुक्तशिष्टं भाण्डस्थम् इति मेधातिथिःगौतमः

    तेभ्यो वृत्तिं लिप्सेत । जीर्णान्य् उपानच्छत्रवासःकूर्चादीन्य् उच्चिष्टाशनं शिल्पं वृत्तिश् च यद्य् अर्यम् आश्रयेद् भर्तव्यस् तेन क्षीणो ऽपि शूद्रेण चोत्तरस् तदर्थो ऽस्य निचयः स्यात् । इति । 

क्षीणो वृत्तिहीनस् तेनार्येण भर्तव्यस् तेन शूद्रेण चोत्तर आर्यो भर्तव्य इत्य् अर्थः । उच्छिष्टदानं दासपरम् । अन्ये तु,

उच्छिष्टम् अन्नं दातव्यं शूद्रायागृहमेधिने ।

गृहस्थाय तु दातव्यम् अन्नम् एव दिने दिने ॥

इति व्याघ्रोक्तेर् उच्छिष्टनिषेधे गृहस्थपर इत्य् आहुः । मदनरत्ने ऽप्य् एवम् । [७१] तथा तपः शूद्रस्य सेवनम् । याज्ञवल्क्यः

शूद्रस्य द्विजशुश्रूषा तयाजीवन् वणिक् भवेत् ।

शिल्पैर् वा विविधैर् जीवेद् द्विजातिहितम् आचरन् ॥

नृसिंहपुराणे

अयाचितं प्रदाता स्यात् कृषिं वृत्त्यर्थम् आश्रयेत् ।

पुराणं शृणुयान् नित्यं नरसिंहस्य पूजनम् ॥

उशनाः

शूद्रस्य द्विजशुश्रूषा सर्वशिल्पानि चाप्य् अथ ।

विक्रयः सर्वपण्याणां शूद्रधर्म उदाहृतः ॥

देवलः

    शूद्रधर्मस् त्रिवर्णशुश्रूषा कलत्रादिपोषणं कर्षणपशुपालनभारोद्वहनपण्यव्यवहारचित्रकर्मनृत्यगीतवेणुमृदङ्गवादनानि । इति ।

मनुः

अशक्नुवंस् तु शुश्रूषां शूद्रः कर्तुं द्विजन्मनाम् ।

पुत्रदारात्यये प्राप्ते जीवेत् कारुककर्मभिः ॥

यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः ।

तानि कारुककर्माणि शिल्पानि विविधानि च ॥

कुर्याद् इति शेषः । नृसिंहपुराणे

दूराच् छूद्रेणोपचार्यो ब्राह्मणो ऽग्निर् इव ज्वलन् ।

एवं धर्माचरणे लोकम् आह पैठीनसिः । गान्धर्वं शूद्रस्य स्थानम् इत्य् अर्थः ।

इति रामकृष्णभट्टसुतकमलाकरकृते शूद्रकधर्म्तत्त्वे

शूद्राणां विहितनिषिद्धानि ।

[७३]

अथ शूद्रस्य संस्कारप्रयोगाः

तत्रादौ सर्वकर्माङ्गत्वात् पुण्याहवाचनम् आचारानुसारेणोच्यते । व्यासः

सम्पूज्य गन्धमाल्यादैर् ब्राह्मणान् स्वस्तिवाचयेत् ।

काम्यकर्मणि माङ्गल्ये सङ्ग्रामाद्भुतदर्शने ॥

यमः

सोङ्कारं ब्राह्मणे कुर्यान् निरोङ्कारं महीपतौ ।

उपांशु च तथा वैश्ये स्वस्ति शूद्रे प्रकीर्तयेत् ॥

कर्ताचम्य सुमुखश् चैकदतश् चेत्यादि पठित्वा श्रुत्वा वा देशकालौ सङ्कीर्त्य अमुककर्म करिष्ये । तदङ्गतया गणेशपूजनं पुण्याहवाचनं करिष्ये । इति सङ्कल्प्य गणेशं पूजयेत् । यथा ।

हे हेरम्ब त्वम् एह्य् एहि अम्बिकात्र्यम्बकात्मज ।

सिद्धिबुद्धियुत त्र्यक्ष सर्वलोकपितः पितः ॥

नागास्य नागहार त्वं गणनाथ चतुर्भुज ।

भूषितः स्वायुधैर् दिव्यैः पाशाङ्कुशपरश्वधैः ॥

आवाहयामि पूजार्थं रक्षार्थं च मम क्रतोः ।

इहागत्य गृहाण त्वं पूजां रक्ष च मे क्रतुम् ॥

इत्य् आवाह्य षोडश्ōपचारैः सम्पूज्य पात्रे सफलम् अर्घ्यम् आदाय ।

रक्ष रक्ष गणाध्यक्ष त्र्यक्ष त्रैलोक्यरक्षक ।

भक्तानाम् अभयं कर्ता त्राता भव भवार्णवात् ॥

द्वैमातुर कृषासिन्धो देव षाण्मातुराग्रज ।

वरदस् त्वं वरं देहि वाञ्छितार्थपदो भव ॥

अनेन फलदानेन फलदो भव मे प्रभो ।

इत्य् अर्थ्यं दत्वा, वक्रतुण्ड महाकायेति प्रार्थयेत् । यद् वा ।

विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगधिताय ।

नागाननाय सितसर्पविभूषिताय गौरीसुताय गननाथ नमो नमस् ते ।

भक्तार्तिनाशनपराय गणेश्वराय सर्वेश्वराय शुभदाय सुरेश्वराय ।

विद्याधराय विकटाय च वामनाय भक्तप्रसन्नवरदाय नमो नमस् ते ।

नमस् ते ब्रह्मरूपाय विष्णुरूपाय ते नमः ।

नमस् ते रुद्ररूपाय करिरूपाय ते नमः ॥

इति प्रार्थना । ततः स्वाग्रे धान्यराशिद्वये कलशौ संस्थाप्य, तत्र गन्धदूर्वापञ्चपल्लवफलहेमपञ्चरत्नादि क्षिप्त्वा, धान्यपूर्णं पात्रद्वयं न्यस्य, तत्र

पाशहस्तं च वरुणम् अम्भसाम्22 पतिम् ईश्वरम् ।

आवाहयामि यज्ञे ऽस्मिन् पूजेयं प्रतिगृह्यताम् ॥

इति वरुणम् आवाह्य सम्पूज्य, कलशस्य मुखे विष्णुर् इत्याद्यैः सम्प्रार्थ्य, मातृदेवो भव पितृदेवो भव आचार्यदेवो भव अतिथिदेवो भव आशिषः प्रार्थयन्ते (प्रार्थनाम् आह) एताः सत्या आशिषः सन्तु । अवनिकृतजानुमण्डलः कमलमुकुलसदृशम् अञ्जलिं शिरस्य् आधाय दक्षिणेन पाणिना सुवर्णपूर्णकलशं धारयित्वा, दीर्घा नागा नद्यो गिरयस् त्रीणि विष्णुपदानि च तेनायुः प्रमाणेन पुण्याहं दीर्घम् आयुर् अस्तु, शिवा आपः सन्तु, सौमनस्यम् अस्तु । अक्षतं चारिष्टं चास्तु । गन्धाः पान्तु । सुमङ्गल्यं चास्तु । अक्षताः पान्तु । आयुष्यम् अस्तु । पुष्पाणि पान्तु । सौ बहुदेयं चास्तु । इति विप्रहस्ते दत्वा । यं कृत्वा सर्वदेवयज्ञक्रिया-कर्मारम्भाः शुभाः शोभनाः प्रवर्तन्ते तम् अहं नत्वा भवद्भिर् अनुज्ञातः पुण्यं पुण्याहं वाचयिष्ये । वाच्यताम् इति तैर् उक्ते,

मा विघ्नं मा च मे पापं मा सन्तु परिपन्थिनः ।

सौम्या भवन्तु सुखिनः सर्वे लोकाः सुखावहाः ॥

इति कर्ता वदेत् । विप्रास् तथास्त्व् इत्य् उक्त्वा,

करोतु स्वस्ति ते ब्रह्मा स्वस्ति वापि द्विजातयः ।

सरीसृपाश् च ये श्रेष्ठास् तेभ्यस् ते स्वस्ति सर्वदा ॥

[७४] ययातिर् नहुषश् चैव धुन्धुमारो भगीरथः ।

तुभ्यं राजर्षयः सर्वे स्वस्ति कुर्वन्ति नित्यशः ॥

स्वस्ति ते ऽस्तु द्विपादेभ्यश् चतुष्पादेभ्य एव च ।

स्वस्त्य् अस्त्व् अपादेभ्यश् च सर्वेभ्यः स्वस्ति सर्वदा ॥

स्वाहा स्वधा शची चैव स्वस्ति कुर्वन्तु ते सदा ।

लक्ष्मीर् अरुन्धती चैव कुरुतां स्वस्ति ते ऽनघ ॥

असितो देवलश् चैव विश्वामित्रस् तथाङ्गिराः ।

स्वस्ति ते ऽद्य प्रयच्छन् तु कारित्केयश् च षण्मुखः ॥

विवस्वान् भगवान् स्वस्ति करोतु तव सर्वशः ।

दिग्गजाश् चैव चत्वारः क्षितिश् च गगनं ग्रहाः ॥

अधस्ताद् धरणीं यो ऽसौ नागो धारयते सदा ।

शेषश् च पन्नगश्रेष्ठः स्वस्ति तुभ्यं प्रयच्छतु ॥

इति वदेयुः । ततः कर्ता ।

    भो ब्राह्मणाः मनः समाधीयताम् । समाहितमनसः स्म इति ते । प्रसीदन्तु भवतः । प्रसन्नाह् स्मः इत्य् उक्ते । कुम्भाच् जलं पातयन् वदेत् । शान्तिर् अस्तु “ पुष्टिर् अस्तु । तुष्टिर् अस्तु । वृद्धिर् अस्तु । अविघ्नम् अस्तु । आयुष्यम् अस्तु । आरोग्यम् अस्तु । शिवं कर्मास्तु । कर्मसमृद्धिर् अस्तु । पुत्रसमृद्धिर् अस्तु । धनधान्यसमृद्धिर् अस्तु । इष्टसम्पद् अस्तु । अरिष्टनिरसनम् अस्तु । यत् पापं तत् प्रतिहतम् अस्तु । यच् छ्रेयस् तद् अस्तु । उत्तरे कर्मण्य् अविघ्नम् अस्तु । उत्तरोत्तरम् अहर् अहर् अभिवृद्धिर् अस्तु । उत्तरोत्तराः क्रियाः शुभाः शोभनाः सम्पद्यन्ताम् । तिथिकरणमुहूर्तं नक्षत्रसम्पद् अस्तु । तिथिकरणमुहूर्त-नक्षत्रग्रहलग्नादिदेवताः प्रीयन्ताम् । दुर्गापाञ्चाल्यौ प्रीयेताम् । अग्निपुरोगा विश्वेदेवाः प्रीयन्ताम् । इन्द्रपुरोगा मरुद्गणाः प्रीयन्ताम् । ब्रह्मपुरोगाः सर्वे वेदाः प्रीयन्ताम् । वसिष्ठपुरोगा ऋषिगणाः प्रीयन्ताम् । अरुन्धतीपुरोगा एकपत्न्यः प्रीयन्ताम् । ब्रह्म च ब्राह्मणाश् च प्रीयन्ताम् । श्रीसरस्वत्यौ प्रीयेय्ताम् । श्रद्धमेधे प्रीयेताम् । भगवती कात्यायनी प्रीयताम् । भगवती माहेश्वरी प्रीयताम् । भगवती पुष्टिकरी प्रीयताम् । भगवती तुष्टिकरी प्रीयताम् । भवगती वृद्धिकरी प्रीयताम् । भगवती ऋद्धिकरी प्रीयताम् । भगवन्तौ विघ्नविनायकौ प्रीयेताम् । भगवान् स्वामी महासेनः सपत्नीकः ससुतः सपार्षदः सर्वस्थानगतः प्रीयताम् । हरिहरहिरण्यगर्भाः प्रीयन्ताम् । सर्वाश् च ग्रामदेवताः प्रीयन्ताम् । सर्वा इष्टदेवताः प्रीयन्ताम् । हता ब्रह्मद्विषः । हताः परिपन्थिनः । हता अस्य कर्मणो विघ्नकर्तारः । शत्रवः पराभवं यान्तु । शाम्यन्तु घोराणि । शाम्यन्तु पापानि । शाम्यन्त्व् ईतयः । शुभानि वर्धन्ताम् । शिवा आपः सन्तु । शिवा ऋतवः सन्तु । शिवा अग्नयः सन्तु । शिवा औषधयः सन्तु । शिवा वनस्पतयः सन्तु । शिवा अतिथयः सन्तु । अहोरात्रे शिवे स्याताम् । शुक्राङ्गारकबुधबृहस्पतिशनैश्वरराहुकेतुसोमसहिता आदित्यपुरोगाः सर्वे ग्रह्ः प्रीयन्ताम् । भगवान् नारायणः प्रीयताम् । भगवान् पर्जन्यः प्रीयताम् । भगवान् स्वामी महासेनः प्रीयताम् । पुण्याहकालान् वाचयिष्ये । 

वाच्यन्ताम् ।

ब्राह्मं पुण्यम् अहर् यच् च स्वस्त्य् उत्पादनकारकम् ।

वेदवृक्षोद्भवं नित्यं तत् पुण्याहं ब्रुवन्तु नः ॥

दीयन्ते यत्र दानानि पूज्यन्ते23 च द्विजातयः ।

दृश्यते यत्र माङ्गल्यं तत् पुण्याहं सदास्तु मे ॥

मम गृहे ऽस्य कर्मणः पुण्याहं भवन्तो ब्रुवन्तु । स्वस्ति पुण्याहम् इति त्रिर् विप्राः । ततः ।

स्वस्तिर् या चाविनाशाख्या पुण्यकल्याणवृद्धिदा ।

विनायकप्रिया नित्यं तां स्वस्ति भो ब्रुवन्तु नः ॥

मम गृहे स्वस्ति भवन्तु ब्रुवन्तु । आयुष्मते स्वस्ति इति विप्राः ।

सागरस्य तु या ऋद्धिर् महालक्ष्म्यादिभिः कृता ।

सम्पूर्णा पुर्णचन्द्रे वा ताम् ऋद्धिं भो [७५] ब्रुवन्तु नः ॥

मम गृहे ऋद्धिं भवन्तो ब्रुवन्तु । ऋध्यताम् इति त्रिर् विप्राः ।

पृथिव्याम् उद्धृतायां तु यत् कल्याणं पुरा कृतम् ।

ऋषिभिः सिद्धगन्धर्वैस् तत् कल्याणं ब्रुवन्तु नः ॥

मम गृहे कल्याणं भवन्तो ब्रुवन्तु । कल्याणम् इति त्रिर् विप्राः ।

ततः क्षीरोदधिसमुद्भूता मथ्यमाने महोदधौ ।

विष्णोश् चैव प्रिया नित्यं तां श्रियं भो ब्रुवन्तु नः ॥

मम गृहे श्रीर् अस्त्व् इति भवन्तो ब्रुवन्तु । अस्तु श्रीर् इत्य् तैर् उक्ते वर्षशतं पूर्णम् अस्तु । शिवम् अस्तु । वंशाभिवृद्धिर् अस्तु । प्रजापतिः प्रीयताम् । ततो विप्राः ।

सुरास् त्वाम् अभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ।

वासुदेवो जगन्नाथस् तथा सङ्कर्षणो विभुः ॥

प्रद्युम्नश् चानिरुद्धश् च भवन्तु विजयाय ते ।

आखण्डलो ऽग्निर् भगवान् यमो वै निरृतिस् तथा ॥

वरुणः पवनश् चैव धनाध्यक्षस् तथा शिवः ।

ब्रह्मणा सहिताः सर्वे दिग्पालाः पान्तु ते सदा ॥

कीर्तिर् लक्ष्मीर् धृतिर् मेधा पुष्टिः श्रद्धा क्रिया मतिः ।

बुद्धिर् लज्जा वपुः शान्तिः कान्तिस् तुष्टिश् च मातरः ॥

एतास् त्वाम् अभिषिञ्चन्तु देवपत्न्यः समागताः ।

ऋषयो मुनयो गावो देवमातर एव च ॥

देवपत्न्यो द्रुमा नागा दैत्याश् चाप्सरसां गणाः ।

अस्त्राणि सर्वशस्राणि राजानो वाहनानि च ॥

औषधानि च रत्नानि कालस्यावयवाश् च ये ।

सरितः सागराः शैलास् तीर्थानि जलदा नदाः ॥

एते त्वाम् अभिषिञ्चन्तु सर्वकामार्थसिद्धये ।

इत्याद्यैः पूर्वोक्तैर् अभिषिञ्चेयुः । तत्र पत्नी वामे । ततः करोतु स्वस्ति ते24 ब्रह्मेत्याद्यैः पूर्वोक्तैर् यजमानअस्य नीराजनतिलकौ आशीर्वादश् च । एवं सर्वत्र ।

इति कमलाकरभट्टकृतौ शूद्रस्य पुण्याहवाचनम् ।

संस्कारादिप्रकरणम्

ग्रेअत् दिवेर्गेन्चे इन् थे त्wओ तेxत्स्

[८०]

ततः कर्ता तण्डुलपुञ्जेषु ।

गौरीपद्माशचीमेधासावित्रीविजयाजया ।

देवसेना स्वधा स्वाहा मातरो लोकमातरः ॥

धृतिः पुष्टिस् तथा तुष्टिर् आत्मनः कुलदेवताः ।

गणेशेनाधिका ह्य् एता वृद्धौ पूज्यास् तु षोडश ॥

ब्राह्मी माहेश्वरी वैव कौमारी वैष्णवी तथा ।

वाराही च तथेन्द्राणी चामुण्डा सप्त मातरः ॥

इति गणेषपूर्वका गौर्यादिषोडशब्राह्म्यादिसप्त च नामभिर् मृतॄर् आवाह्य, कुड्ये घृतेन पञ्च सप्त वा धाराः कृत्वा,वस्तुधारायै नम इत्य् आवाह्य, षोडशोपचारैः सम्पूज्य, नान्दीश्राद्धं कुर्यात् ।

[८१]

अथ नान्दीश्राद्धम्

यथा । सर्वं सव्येन देवतीर्थेन यवैश् च पित्र्ये ऽपि । मात्रादित्रयपित्रादित्रयमातामहदि-त्रयसम्बन्धिनान्दीमुखसत्यवसुसञ्ज्ञकविश्वेदेवस्थाने भवद्भ्यां क्षणः कर्तव्यः । प्राप्नुतां भवन्तौ प्राप्नुवाव् इति द्वौ विप्रौ कुशचटौ वा दैवे निधाय, मातृपितामहीप्रपितामहीनां अमुकदेवीनां दासीनाम् इत्य् आचार्यचूडामणिः । नान्दीमुखानां स्थाने इत्यादिना द्वौ पितृपितामहप्रपितामहानां नान्दीमुखानां स्थाने इत्यादिना द्वौ । मातामहप्रमातामहवृद्धप्रमातामहानां सपत्नीन्कानां नान्दीमुखानां स्थाने इत्यादिना द्वौ । कोकिलमतानुसारिणां तु मातृमातामहप्रमातामहा इति मातामहेन [८२] सह मातुः श्राद्धम् । तदा पार्वणद्वयम् एव । नात्र नामगोत्रे । मूलं निर्णयसन्धौ ज्ञेयम् । ततः सत्यवसुसञ्ज्ञका विश्वेदेवाः इदं वः पाद्यम् । एष वो ऽर्घः । एवं मात्राद्याः पित्रादयः मातामहादयश् च इदं वः पद्यम् । ततः विश्वेदेवाः इदम् आसनम् आस्यतां नमः । एवं मात्रादौ । अर्घ्यस्थाने सङ्कल्पसिद्धिर् अस्तु । विश्वेदेवाः एष वो गन्धः । एवं मात्रादौ । एवम् इमानि पुष्पाणि । धूपः । दीपः । आच्छादनम् । एते अमुकेभ्यः गन्धपुष्पधूपदीपाच्छादनान्ताः सर्वे उपचारा भवन्ति । ततो ऽर्धचन्द्रमण्डलम् अभ्युक्षणं वा कृत्वा, पात्रेष्व् आमान्नानि द्विगुणानि समानि वा दत्वा, प्रोक्ष्य पात्रम् आलभ्य यवान् विकीर्यान्ने ऽङ्गुष्ठं दत्वा, सत्यवसुसञ्ज्ञका विश्वेदेवाः नान्दीमुखाः इदं वः युग्मब्राह्मणभोजनपर्यासं द्विगुणम् आमं सोपस्करं आममूल्यभूतं यथाशक्ति हेम वा सम्प्रददे स्वाहा नमः । एवं मातृपितामहीप्रपितामह्यः नान्दीमुख्यः इदं वः युग्मेत्यादि । पितृपितामहप्रपितामहाः नान्दीमुखाः इदं वः युग्मेत्यादि । एवं मातामहप्रमातमहवृद्धप्रमातामहाः सपत्नीकाः नान्दीमुखाः इदं वः इत्यादि । अत्र पिण्डाः कृताकृताः । पिण्डपक्षे वेदिं कृत्वा पूर्वाग्रा लेखाः तिस्रः कृत्वा धर्भान् आस्तीर्य, मातर् नान्दीमुखि अवनेनिक्ष्वेति जलं दत्वा, एवं पितामहि अव* प्रपितामहि अव* । एवं पितः नान्दीमुख अवनेनिक्ष्वेत्यादि । ततः सक्तुना गुडेन वा दधिबदरयवमिश्रान् पिण्डान् कृत्वा, एतत् ते मातर् नादीमुखि एष ते पिण्डः इदं अन्नं वा स्वाहा नमः । इत्य् एकं पिण्डं दत्वापरं तूष्णीं द्वितीयम् । एवम् एकैकस्य द्वौ द्वौ दत्वा, पुनः प्रत्यवनेनिक्ष्वेति प्रत्यवनेजनं प्राग्वद् दत्वाभ्यञ्जनाञ्जने वासांसि दत्वा, शेषम् आघ्राय पात्रस्थं परिषिच्य, शिवा आपः सन्त्व् इत्यादि कृत्वैतन् नान्दीश्राद्धकर्मणः साङ्गतासिद्ध्यर्थं द्राक्षामलकयवः तन्निष्क्रयद्रव्यं वा दक्षिणां तुभ्यं सम्प्रददे स्वाहा नम इति प्रत्येकं दत्वा, अनेन नान्दीश्राद्धेन नान्दीमुखदेवताः प्रीयन्ताम् ।

माता पितामही चैव तथैव प्रपितामही ।

पिता पितामह्यश् चैव तथैव प्रपितामहः ॥

मातामहस् तत्पिता च प्रमातामहकादयः ।

एते भवन्तु मे प्रीताः प्रयच्छन्तु च मङ्गलम् ॥

इति सम्प्रार्थ्य पिण्डान् विसृजेत् ।

इति वृद्धिश्राद्धम् ।

[८६]

प्रासङ्गिकम्

एतदन्तं सर्वत्र संस्कारेषु समानम् । यत्र तु ग्रहयज्ञतुलादौ ऋत्विग्वरणं तत्राचाराच् छरावे ।

आपः क्षीरं कुशाग्राणि दधि दूर्वाक्षतास् तथा ।

सर्षपाः कुङ्कुमं चेति अर्घो ऽष्टाङ्गः प्रकीर्तितः ।

इति अष्टाङ्गम् अर्घं कृत्वा पिधाय,

स्वागतं भो द्विजश्रेष्ठा मदनुग्रहकारकाः ।

इदम् अर्घ्यम् इदं पाद्यं भव्द्भिः प्रतिगृह्यताम् ॥

इति पादार्घम् आचारात् कृत्वाचार्यब्राह्मर्त्विग्वरणं कृत्वा ब्राह्मणान् प्रार्थयेत् ।

ब्राह्मणाः सन्तु मे शस्ताः पापात् पान्तु समाहिताः ।

वेदानां चैव दातारः पातारः सर्वदेहिनाम् ॥

जपयज्ञैस् तथा होमैर् दानैश् च विविधैः पुनः ।

देवानां च पितॄणां च तृप्त्यर्थं याजकाः कृताः ॥

येषां देहे स्थिता वेदाः पावयन्ति जगत्त्रयम् ।

रक्षन्तु सततं ते मां जपयज्ञे व्यवस्थिताः ॥

ब्राह्मणा जङ्गमं तीर्थं लोकेषु त्रिषु विश्रुतम् ।

येषां वाक्योदकेनैव शुद्ध्यन्ति मलिना जनाः ॥

पावनाः सर्ववर्णानां ब्राह्मणा ब्रह्मरूपिणः ।

सर्वकर्मरताः नित्यं वेदशास्त्रार्थकोविदाः ॥

श्रोत्रियाः सत्यवाचश् च देवध्यानरता सदा ।

यद् वाक्यामृतसंसिक्ता ऋद्धिं यान्ति नरद्रुमाः ॥

अङ्गीकुर्वन्तु कर्मैतत् कल्पद्रुमसमाशिषः ।

यथोक्तनियमैर् युक्ता मन्त्रार्थे स्थिरबुद्धयः ॥

यत् कृपालोचनात् सर्वा ऋद्धयो वृद्धिम् आप्नुयुः ।

मम यज्ञे जपे पूज्याः सन्तु मे नियमान्विताः ॥

अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः ।

देवध्यानरता नित्यं प्रसन्नमनसः सदा ॥

अदुष्टभाषिणः सन्तु म सन्तु परनिन्दकाः ।

ममापि नियमा ह्य् एते भवन्तु भवताम् अपि ॥

आस्तां प्रासङ्गिकम् ।

अथ गर्भाधानम् ।

तत्राद्ये रजोदर्शणे दुष्टवारर्क्षतिथ्यादौ शान्तिं मत्कृतशान्तिरत्नोक्तविधिना कृत्वा, आद्यरात्रिचतुष्टयवर्जं समरात्रिषु मत्कृतनिर्णयसिन्धाव् उक्ते काले तत् कार्यम् । कर्ता सभार्यो देशकालौ स्मृत्वास्यां मम भार्यायां जनिष्यमाणसर्वगर्भाणां बीजगर्भसमुद्भवैनो निबअर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्थं गर्भाधानं करिष्ये इत्य् उक्त्वा, तदङ्गतया गणेशपूजापुण्याहवाचनमातृकापूजानान्दीश्राद्धानि प्राग्वत् कृत्वालङ्कृतो नववस्त्रं धृत्वाश्वगन्धारसं दूर्वारसं भार्यादक्षिणनासाबिले सेचयेत् । नीराजितः सूर्यं नमस्कूर्यात् । ततो रात्रौ शय्यायां विष्णवे नमः । एवं त्वष्ट्रे नमः । प्रजापतये नमः । धात्रे नमः । सिनीवाल्यै नमः । सरस्वत्यै नमः । अश्विभ्यां नमः । पर्जन्याय नमः । इति योनिम् अभिमृश्य स्त्रियं गत्वा ऋतौ स्नायात् । स्त्रिया न स्नानम् । अनृतौ मूत्रवच् छौचाचमने ।

इति गर्भाधानम् ।

[८९]

अथ पुंसवनम् ।

द्वितीय तृतीये चतुर्थे वा मासि पुन्नक्षत्रे भर्ताभ्यङ्गं कृत्वा देशकालौ स्मृत्वा अस्यां मम भार्यायां जनिष्यमाणगर्भस्य पुंरूपताप्राप्त्यर्थं बीजगर्भसमुधवैनो निबर्हणार्थं च श्रीपरमेश्वरप्रीत्यर्थं पुंसवनं करिष्ये । इति सङ्कल्प्य । गणेशपूजा-पुण्याहवाचनमातृकापूजानान्दीश्राद्धानि कृत्वा, समानवर्णसवत्सगोर् दधि पत्न्या दक्षिणपाणौ दत्वा मध्ये प्रागग्रं यवं द्वौ माषौ पार्श्वयोर् दत्वा किं पिबसीति त्रिः पृष्ट्वा पुंसवनं पुंसवनम् इति त्रिर् उक्त्वा सा प्राश्नीयात् । एवं त्रिः कुर्यात् ॥

इति पुंसवनम् ।

अथ सीमन्तः ।

चतुर्थे षष्ठे ऽष्टमे वा मासि प्राग् वा प्रसवात् पुन्नक्षत्रे भर्ता देशकालौ सङ्कीर्त्य, ममास्यां भार्यायां जनिष्यमाणसर्वगर्भाणां बीजगर्भसमुद्भवैनो निरसनद्वारा प्रअतिगर्भं संस्कारातिशयद्वारा श्रीपरमेश्वरप्रीत्यर्थं सीमन्तोन्नयनं करिष्ये । इत्य् उक्त्वा तदङ्गतया गणेशपूजापुण्याहवाचनमातृकापूजानान्दीश्राद्धानि कृत्वालङ्कृतो नववस्त्रधरो दूर्वारसं भार्यादक्षिणनायायाम् । अग्नये नमः । राज्ञे वरुणाय नमः । इति सिञ्चेत् । ततस् त्रिःशुक्लां [९०] शललीं कुशत्रययुताम् उदुम्बरफलगुच्छयुताम् आदाय पश्चात् स्थित्वा । प्रजापतये नम इति भ्रूमध्याद् आराभ्य मूर्ध्नो द्वैधा केशान् कृत्वा त्रिःसीमन्तं कुर्यात् । ततो नीराज्य तदुत्सङ्गे फललङ्ङुकादि दत्वा विप्रेभ्यो दशामान्नानि दक्षिणां च दद्यात् । नारदः

विप्रक्षत्रिययोः कुर्याद् दिवा सीमन्तकर्म तु ।

वैश्यशूद्रकयोस् त्व् एतद् दिवा निश्य् अपि केचन ॥

अत्र विशेषो गर्भिणीतत्पतिधर्माश् च मत्कृते निर्णयसिन्धौ ज्ञेयाः ।

[९१]

इति सीमन्तः ।

अथ जातकर्म ।

पृथ्वीचन्द्रोदये कार्ष्णाजिनिः

प्रदुर्भावे पुत्रपुत्र्योश् चन्द्रसूर्यग्रहे तथा ।

स्नात्वानन्तरम् आत्मीयान् पितॄन् श्राद्धेन तर्पयेत् ॥

कुमारे जाते नाभिच्छेदात् प्राक् पिता सचैलं स्नानं कृत्वा देशकालौ सङ्कीर्त्य अस्य कुमारस्य गर्भाम्बुपातजनितदोषपरिहारद्वारा बीजगर्भसमुद्भवैनोनिबर्हणद्वारा बलायुर्वर्चोऽभिवृद्ध्यर्थं श्रीपरमेश्वरप्रीत्यर्थं जातकर्म करिष्ये । इति सङ्कल्प्य, गणेशपूजां पुण्याहवाचनं मातृकापूजां हेम्ना नान्दीश्राद्धं च कृत्वा, आज्यमधुनी हेम्ना घर्षयित्वा, हेम्ना प्राशयित्वा कर्णयोर् निधाय । देवाय सवित्रे नमः । सरस्वत्यै नमः । अश्विभ्यां नमः । इत्य् उक्त्वांसाव् अभिमृश्य इन्द्राय नमः इत्य् उक्त्वा विप्रान् पूजयेत् ।

इति जातकर्म ।

[९२]

अथ षष्ठीपूजा ।

मिताक्षरायां मार्कण्डेयः

रक्षणीया तथा षष्ठी निशा तत्र विशेषतः ।

रात्रौ जागरणं कार्यं जन्मदानां तथा बलिः ॥

पुरुषाः सहस्रहस्ताश् च नृत्यगीतैश् च योषितः ।

रात्रौ जागरणं कुर्युर् दशम्या चैव सूतके ॥

व्यासः

सूतिकावासनिलया जन्मदा नाम देवताः ।

तासां यागनिमित्तं तु शुद्धिर् जन्मनि कीर्तिता ॥

प्रथमे दिवसे षष्ठे दशमे चैव सर्वदा ।

त्रिष्व् एतेषु न कुर्वीत सूतकं पुत्रजन्मनि ॥

अपरार्के ब्राह्मे

कन्याश् चतस्रो राकाद्या वातघ्नी चैव पञ्चमी ।

क्रीडनार्था च बालानां षष्ठी च शुशुरक्षिणी ॥

खड्गे तु पूजनीया वै वैश्यैर् व्रात्यैर् द्विजातिभिः ।

राका अनुमतिः सिनीवाली कुहूर् इति चतस्र कन्या इत्य् अर्थः । पिता देशकालौ स्मृत्वा, ममास्य शिशोः सर्वारिष्टशान्त्यायुरारोग्यसिद्ध्यर्थं गणेशजन्मदाजीवन्तिकाराकादीनां पूजनं करिष्ये । इति सङ्कल्प्य । कलशं संस्थाप्य तत्र पूर्णपात्रे वस्त्रोपरि गणेशं जन्मदां जीवन्तिकां स्कन्दं राकाम् अनुमतिं सिनीवलीं कुहूं वातघ्नीं च प्रतिमास्य् आवाह्य । खड्गे शिशुरक्षिणीं कुड्ये लिखितां षष्ठीं चावाह्य । षडशोपचारैः सम्पूज्य माषभक्तादिबलिं दत्वा प्रार्थयेत् ।

गौरीपुत्रो यथा स्कन्दः शुशुत्वे रक्षितः पुरा ।

तथा ममाप्य् अयं बालः षष्ठिके रक्ष्यतां नमः ॥ इति ।

[९३]

इति षष्ठीपूजा ।

अथ दत्तकपुत्रविधिः \

व्याहृत्यादिहोमस्य पुत्रप्रतिग्रहाङ्गत्वात् तत्र च स्त्रीशूदयोर् अनधिकारात् तयोर् दत्तकः पुत्रो न भवत्य् एवेति रुद्रधरादयः । विप्रद्वारा होमादि कारयेद् इति वर्धमान-हरिनाथादयो गौडाः । सम्बन्धतत्त्वे ऽप्य् एवम् । प्रयोगपारिजाते शौनकः

अपुत्रो मृतपुत्रो वा पुत्रार्थं समुपोष्य च ।

वाससी कुण्डएए दत्वा उष्णीषं चाङ्गुलीयकम् ॥

बन्धून् अन्नेन सम्भोज्य ब्राह्मणांश् च विशेषतः ।

अन्वाधानादि यत् तन्त्रं कृत्वाज्योत्पवनान्तकम् ॥

दातुः समक्षं गत्वा तु पुत्रं देहीति याचयेत् ।

देवस्य त्वेति मन्त्रेण हस्ताभ्यां परिगृह्य च ॥

अङ्गाद् अङ्गेत्य् ऋचं जप्त्वा आघ्राय शिशुमूर्धनि ।

गृहमध्ये तम् आधाय चरुं हुत्वा विधानतः ॥

यस् त्वा हृदेत्य् ऋचा चैव तुभ्यम् अग्रे ऋचैकया ।

सोमो ददद् इत्य् एताभिः प्रत्यृचं पञ्चभिस् तथा ॥

स्विष्टकृदादिहोमं च कृत्वा शेषं समापयेत् ।

**मिताक्षरादौ वसिष्ठेन **तु व्याहृतिभिर् आज्येन होम उक्तः । स च विप्रद्वारा कारणीयः । विशेषस् तु मत्कृते निर्णयसिन्धौ **[९४] **ज्ञेयः । स च दत्तकः पञ्चवर्षमध्ये ग्राह्यो नोर्ध्वम् । ऊर्ध्वं तु “पञ्चमाद् वर्षान् न दत्ताद्याः सुता नृप” इति कालिकापुराणात् । ऊर्ध्वं तु स्वदानेच्छोर् एव25 दानम् ।

विक्रयं चैव दानं च न देयाः स्युर् अनिच्छवः ।

दाराः पुत्राश् च सर्वस्वम् आत्मनैव तु योजयेत् ॥

इति हेमाद्रौ व्यासोक्तेः । यत् तु याज्ञवल्क्यः

स्वकुटुम्बाविरोधेन देयं दारसुताद् ऋते ।

इति, तत् स्वदानानिच्छुपुत्रपरम् इत्य् अन्यत्र विस्तरः ।

**इति दत्तकपुत्रविधिः **।

[९५]

अथ सूतिकास्नानम् ।

ज्योतिःशास्त्र

करेन्द्रभाग्यानिलवासवान्त्यम् ऐन्दरैन्दवाश्विध्रुवभेह्नि पुंसाम् ।

तिथावरिक्ते शुभमामनन्ति प्रसूतिकास्नानविधिं मुनीन्द्राः ॥

अथ नामकर्म

मदनरत्ने बृहस्पतिः

द्वादशे दशमे वापि जन्मतो ऽपि त्रयोदशे ।

षोडशे विंशतौ चैव द्वात्रिंशे वर्णतः क्रमात् ॥

नारदीये

सूतकान्ते नामकर्म विधेयं स्वकुलोचितम् ।

नाम पूर्वं तु बालस्य मङ्गलं सुसमाक्षरैः ॥

तत्रैव गार्ग्यः ।

** **मासनाम् गुरोर् नाम दद्याद् बालस्य वै पिता ।

कृष्णो ऽनन्तो ऽच्युतश् चक्री वैकुण्ठो ऽथ जनार्दनः ॥

उपेन्द्रो यज्ञपुरुषो वासुदेवस् तथा हरिः ।

योगीशः पुण्डरीकाक्षो मासनामान्य् अनुक्रमात् ॥

अत्र मार्ग्शीर्षादिश् चैत्रादिर् वा क्रम इति मदनरत्ने । नाक्षत्रम् अपि नाम कार्यम्, कुलदेवतानक्षत्रसम्बद्धं पिता नाम कुर्याद् इति तत्रैव शङ्कोक्तेः । परिशिष्टे ऽपि ।

तद् अक्षरादिकं नाम यस्मिन् धिष्ण्ये यद् अक्षरम् ।

मनुः “शूद्रस्य प्रेष्यसंयुक्तम्” । तत्र स्वाशौचान्ते द्वाविंशे वाह्नि पिता देशकालौ स्मृत्वा अस्य कुमारस्य बीजगर्भसमुद्भवैनोनिबर्हणद्वारा नामव्यवहारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं नामकरणं करिष्ये, इत्य् सङ्कल्प्य, गणेशपूजापुण्याहवाचन-मातृकापूजानान्दीश्राद्धानि कृत्वा, कांस्यादिपात्रे तण्डुलपूर्णे हेम्ना गणेशनाम ततः कुलदेवतानाम ततो मासनाम ततो नाक्षत्रं ततो व्यावहारिकं शिवदास इत्यादि लिखित्वा नामदेवताः सम्पूज्य, शिशोर् दक्षिणकर्णे ऽमुकभक्तो ऽसि अमुको ऽसीत्यादिनामानि उक्त्वोर्ध्वं कृताञ्जलिः कुलदेवतानाम्नामुकदासो भवतः सर्वान् ब्राह्मणान् अभिवादयते । आयुष्मान् भवत्व् अमुकदास इति विप्राः । एवं मासनाम्ना नाक्षत्रेण नाम्ना व्यावहारिकेण नाम्नेत्यादि वाच्यम् । ततः शतं दश वामान्नानि दत्वा विप्रेभ्यो आशिषो गृह्णीयात् ।

**इति नामकर्म **।

[९७]

अथ दोलारोहः ।

**पारिजाते बृहस्पतिः **।

खट्वारोहस् तु कर्तव्यो दशमे द्वादशे ऽपि वा ।

ज्योतिर्निबन्धे

आन्दोलाशयने पुंसो द्वादशो दिवसः शुभः ।

त्रयोदशस् तु कन्याया न नक्षत्रविचारणा ॥

करत्रये वैष्णवरेवतीषु दितिद्वये चाश्विनकद्वयेषु । कुर्याच् छिशूनां नृपतेश् च तद्वद् आन्दोलनं वै सुखिनो भवन्ति ।

[९८]

अथ कर्णवेधः

ज्योतिर्निबन्धे गर्गः

मासे षष्ठे सप्तमे वाप्य् अष्टमे मासि वत्सरे ।

कर्णवेधं प्रशंसन्ति पुण्यायुःश्रीविवृद्धये ॥

मदनरत्ने वसिष्ठः

मासे षष्ठे सप्तमे वाष्टमे वा वेध्यौ कर्णौ द्वादशे शोषशे ऽह्नि ।

हेमाद्रौ व्यासः

कार्तिके पौषमासे वा चैत्रे वा फाल्गुने ऽपि वा ।

कर्णवेधं प्रशंसन्ति शुक्लपक्षे शुभे दिने ॥

स च मृगार्द्राहस्तचित्रापुनर्वसुपुष्यश्रवणधनिष्ठारेवतीषु रित्कापर्ववर्जतिथौ कार्यः । मदनरत्ने

सौवर्णी राजपुत्रस्य राजती विप्रवैश्ययोः ।

शूद्रस्य चायसी सूची मध्यमाष्टाङ्गुलात्मिका ॥

अथ ताम्बूलभक्षणम् ।

चण्डेश्वरः

सार्ध्मासद्वये दद्यात् ताम्बूलं प्रथमं शिशोः ।

**अथ निष्क्रमणम् **।

ज्योतिर्निबन्धे यमः

तृतीये वा चतुर्थे वा मासि निष्क्रमणं भवेत् ।

मनुः

मासे चतुर्थे कर्तव्यं शिशोर् निष्क्रमणं गृहात् ।

षष्ठे ऽन्नप्राशनं मासि यच् चेष्टं मङ्गलं कुले ॥

अत्र शुशूक्तिर् न तु द्विजोक्तिः । तेन शूद्रस्यापीति मेधातिथिः । मदनरत्ने बृहस्पतिः

अन्नप्राशनकाले वा कुर्यान् निष्क्रमणक्रियाम् ।

विष्णुधर्मोत्तरे

दिगीशानां दिने तत्र तथा [९९] चन्द्रार्कयोर् द्विज ।

पूजनं वासुदेवस्य गगनस्य च कारयेत् ॥

बहिर् निष्कासयेद् गेहाच् छङ्खपुण्याहनिःस्वनैः ।

पिता देशकालौ स्मृत्वा अस्य शिशोर् बीजगर्भसमुद्भवैनोनिबर्हणद्वारा बलायुर्वर्चोऽभिवृद्ध्यर्थं निष्क्रमणं करिष्ये । इत्य् सङ्कल्प्य, गणेशपूजापुण्याहवाचन-मातृकापूजानान्दीश्राद्धानि कृत्वा प्रतिमास्व् अक्षतपुञ्जेषु वैन्द्रादिदशदिक्पालचन्द्रसूर्यवासुदेवगगनानां नामभिर् आवाहनादिपूजां कृत्वा शङ्खतूर्यमङ्गलस्वनैः । सूर्यचन्द्रधेनूनां दर्शनं कारयित्वा पठेत् ।

चन्द्रार्कयोर् दिगीशानां दिशां च गगनस्य च ।

निक्षेपार्थम् इमं दद्मि ते त्वां रक्षन्तु सर्वदा ॥

ततो विप्राः- करोतु स्वस्ति ते ब्रह्मेत्याद्याशिषं दद्युः ।

इति निष्क्रमणम्

अथोपवेशनम् ।

प्रयोगपारिजाते पाद्मे

पञ्चमे च तथा मासि भूमौ तम् उपवेशयेत् ।

तत्र सर्वे ग्रहाः शस्ता भौमो ऽप्य् अत्र विशेषतः ॥

विष्णुधर्मोत्तरे

वाराहं पूजयेद् देवं पृथ्वीं चैव तथा [१००] द्विजम् ।

पिता देशकालौ स्मृत्वास्य कुमारस्य सर्वारिष्टशान्त्यायुरारोग्यक्षेमार्थम् उपवेशनं करिष्ये इति सङ्कल्प्य, गणेशपूजां पुण्याहवाचनं च कृत्वा पीठे प्रतिमायाम्, वाराहं पृथ्वीं च नाम्ना षोडशोपचारैः सम्पूज्य, तदग्रे पञ्च सप्त वा धान्यपुञ्जान् कृत्वा, तन्मध्ये भूमौ वस्त्रे, करोतु स्वस्ति ते ब्रह्मेत्याद्यैर् वाद्यघोषेण शिशुम् उपवेश्य, मृत्युञ्जयं स्मृत्वा भस्मना रक्षां कृत्वा पठेत् ।

रक्षैनं वसुधे देवि सदा सर्वगतं शुभे ।

आयुःप्रमाणं सकलं निक्षिपस्व हरिप्रिये ॥

अचिराद् आयुषस् त्व् अस्य ये केचित् परिपन्थिनः ।

जीवितारोग्यवित्तेषु निर्दहस्वाचिरेण तान् ॥

धारिण्य् अशेषभूतानां माता त्वम् असि कामधुक् ।

अजरा चाप्रमेया च सर्वभूतनमस्कृता ॥

चराचराणां भूतानां प्रतिष्ठा चाव्यया ह्य् असि ।

कुमारं पाहि मातस् त्वं ब्रह्मा तद् अनुमन्यताम् ॥ इति ।

अत्रैव कटिसूत्रबन्धनम् । शिष्टास् त्व् अन्नप्राशनदिने एव निष्क्रमणम् उपवेशनं च कुर्वन्ति ॥

**इत्य् उपवेशनादि **।

अथान्नप्राशनम् ।

मदनरत्ने नारदः

षष्ठे वाप्य् अष्टमे मासि पुंसां स्त्रीणां तु पञ्चमे ।

सप्तमे मासि वा [१०१] कार्यं नवान्नप्राशणम् शुभम् ॥

लौगाक्षिः: “षष्ठे ऽन्नप्राशनं जातेषु दन्तेषु वा” । विष्णुधर्मोत्तरे

ब्रह्माणं शङ्करं विष्णुं चन्द्रार्कौ च दिगीश्वरान् ।

भुवं दिशश् च सम्पूज्य हुत्वा वह्नौ तथा चरुम् ॥

देवतापुरतस् तस्य धात्र्युत्सङ्गगतस्य च ।

अलङ्कृतस्य दातव्यम् अन्नपात्रं सकाञ्चनम् ॥

मध्वाज्यदधिसंयुक्तं प्राशयेत् पायसं तु वा ।

सर्वत्र मूलं विशेषश् च मत्कृते निर्णयसिन्धौ ज्ञेयः । पिता देशकालौ स्मृत्वास्य शिशोर् बीजगर्भसमुद्भवैनोविनाशद्वारा बलायुर्वर्चोऽभिवृद्ध्यर्थम् अन्नप्राशनं करिष्ये, इति सङ्कल्प्य, गणेशपूजापुण्याहवाचनमातृकापूजानान्दीश्राद्धानि कृत्वा, ब्रह्मादीन् प्रतिमासु तण्डुलपुञ्जेषु वा सम्पूज्य, तन्नामभिर् वह्नौ वरुं हुत्वाज्यदधिमधुयुतम् अन्नं पायसं वा प्राशयित्वा ताम्बूलं च दत्वा, रत्नहेममणिभाजनाद्यग्रे निधाय यत् बालः स्पृशेत् सास्य जीविकेति परीक्षयेत् ।

इत्य् अन्नप्राशनम् ।

अथाब्दपूर्तिः ।

गौडव्यवहारनिर्णये

नवाम्बरधरो भूत्वा पूजयेच् च चिरायुषम् ।

मार्कण्डेयं नरो भक्त्या पूजयेत् प्रयतस् तथा ॥

ततो दीर्घायुषं व्यासं रामं द्रौणिं कृपं बलिम् ।

प्रह्लादं च [१०२] हनुमन्तं विभीषनम् अथार्चयेत् ॥

स्वनक्षत्रं जन्मतिथिं प्राप्य सम्पूजयेन् नरः ।

षष्ठीं च दधिभक्तेन वर्षे वर्षे पुनः पुनः ॥

**तिलतत्त्वे **तन्नाम्ना तिलहोमो ऽप्य् उक्तः । आदित्यपुराणे ।

** **सर्वैश् च जन्मदिवसे स्नातैर् मङ्गलवारिभिः ।

गुरुदेवाग्निविप्राश् च पूजनीयाः प्रयत्नतः ॥

स्वनक्षत्रं च पितरस् तथा देवः प्रजापतिः ।

प्रतिसंवत्सरं यत्नात् कर्तव्यश् च महोत्सवः ॥

कृत्यचिन्तामणौ

गुडदुग्धतिलान् दद्याद् धस्ते ग्रन्थौ च बन्धयेत् ।

गुग्गुलं निम्बसिद्धार्थं दूर्वा गोरोचनादिकम् ॥

सम्पूज्य भानुविघ्नेशौ महर्षिं प्रार्थयेद् इदम् ।

जन्मतिथिश् चौदयिकी ग्राह्या । तद् उक्तं कृत्यतत्त्वार्णवे स्कान्दे

युगाद्या वर्षवृद्धिश् च सप्तमी पार्वतीप्रिया ।

रवेर् उदयम् ईक्षन्ते न तत्र तिथियुग् मता ॥ इति ।

पिता सबालो ऽभ्यङ्गं कृत्वा नववस्त्रधरो देशकालौ स्मृत्वास्य शिशोर् दीर्घायुरारोग्यार्थं वर्षदिनकृत्यं करिष्य इत्य् उक्त्वा, प्रतिमास्व् अक्षतपुञ्जेषु वा गणेशं सूर्यं मार्कण्डेयं व्यासं परशुरामम् अश्वत्तामानं कृपं बलिं प्रह्लादं हनुमन्तं विभीषणं षष्ठीं स्वनक्षत्रं पितरौ प्रजापतिं गुरुम् अग्निं च सम्पूज्य, पक्षे तन्नाम्ना तिलहोमं च कृत्वा, गुग्गुलनिम्बसर्षपदूर्वागोरोचनागुढानां पोटलिं हस्ते बध्वा मार्कण्डेयं प्रार्थयेत् ।

चिरञ्जीवी यथा त्वं भो भविष्यामि तथा मुने ।

रूपवान् वित्तवांश् चैव श्रिया युक्तश् च सर्वदा ॥

मार्कण्डेय नमस् ते ऽस्तु सप्तकल्पान्तजीवन ।

आयुरारोग्यसिद्ध्यर्थं प्रसीद भगवन् मुने ॥

चिरञ्जीवी यथा त्वं तु मुनीनां प्रवर द्विज ।

कुरुष्व मुनिशार्दूल तथा मां चिरजीविनम् ॥

मार्कण्डेय महाभाग सप्तकल्पान्तजीवन ।

आयुरारोग्यसिद्ध्यर्थम् अस्माकं वरदो भव ॥

पिता त्व् एनम् इति वदेत् । ततो गुडतिलयुतं दुग्धम् आदाय,

सतिलं गुडसम्मिश्रम् अञ्जल्यर्धमितं पयः ।

मार्कण्डेयाद् वरं लब्ध्वा पिबाम्य् आयुर्विवृद्धये ॥

इति पीत्वा ततो दुरुदेवविप्राः पूज्याः । गौडतिथितत्त्वे स्कान्दे

खण्डनं नखकेशानां मैथुनाध्वगमौ तथा ।

आमिषं कलहं हिंसां वर्षवृद्धौ विवर्जयेत् ।

तत्रैव

कृतान्तकुजयोर् वारे यस्य जन्मतिथिर् भवेत् ।

अनृक्षयोगसम्प्राप्तौ विघ्नस् तस्य पदे पदे ॥

कृतान्तः शनिः । जन्मनक्षत्रयोगे न दोषः । तअस्यअ सर्वौषधिस्नानम् । गुरुदेवाग्निपूजनम् । विशेषो निर्णयसिन्धौ ज्ञेयः ।

अथ हेमादौ वर्द्धापने विशेषः ।

भविष्ये

युधिष्ठिर उवाच ।

देव देव महाभाग बालानां हितमाम्यया ।

वर्द्धापनविधिं ब्रूहि राज्ञाम् अपि विशेषतः ॥

कृष्ण उवाच ।

एवं प्रयागे व्यासेन पृष्टः सनत्कुमारः प्राह ।

मासि प्रविष्टे प्रथमे बालवर्द्धापनं बुधैः ।

राज्ञां वा तन् मुनिशेष्ठ समान्ते च विधीयते ॥

कुमुदा माधवी गौरी रुद्राणी पार्वती उमा ।

काली सरस्वती चैव सावित्री ब्रह्मणः प्रिया ॥

सती सञ्ज्ञा तथा मेधा पुष्टिस् तुष्टिसमन्विता ।

नृपडिम्भपरित्राणा जीवन्ती नाम षोडशी ॥

पूजनीयाः प्रयत्नेन सूर्यमध्ये विलिख्य तु ।

रजनीपिष्टतो वापि लिखेद् वा कुङ्कुमेन तु ॥

गन्धपुष्पैः सुगन्धैश् च दीपवस्त्रनिवेदनैः ।

पूजनीयास् तु संस्थाप्य कुमुदाद्याः पृथक् पृथक् ॥

नामभिः पूजनीयास् ताः पूजयित्वा तु बालकम् ।

भूपतिं तु मुने वाथ सर्वालङ्कारभूषितम् ॥

पूजयेन् मातृपितरौ बालवर्धापने सति ।

पुरोधाः पूजयेद् ब्रह्मन् राजवर्धापनाविधौ ॥

कुमुदाद्याः समुद्दिश्य वंशपात्राणि कल्पयेत् ।

एकैकस्या धनाढ्यस् तु दद्यात् षोडश षोडश ॥

तदर्धानि तदर्धानि द्वे चैकैकम् अथापि वा ।

बहुपक्वान्नयुक्तानि बहुपुष्पफलानि तु ॥

सुवासिनीभ्यो विप्राणां दद्याद् भक्तिपुरःसरम् ।

प्रीयतां कुमुदाद्या मे बालकायुर्विवर्धनाः ॥

बलेन यशसा तुष्ट्या बालं मे वर्धयन्तु वै ।

प्रयच्छन्तु सदारोग्यं सौख्यं सौभाग्यम् एव च ॥

श्रीश् च तेति च मन्त्रेण ह्य् अर्घ्यं ताभ्यः प्रदापयेत् ।

वस्त्रताम्बूलपुष्पादि दिने तस्मिन् प्रकल्पयेत् ॥

सुवासिनीनां देयं तु कुमुदा प्रीयताम् इति ।

तत्र स्कान्दे

एवं वर्द्धापनं वत्स रान्ते वै जन्मवासरे ।

व्यतीतेषु च मासेषु बालानां बलवृद्धये ॥

न बालरोगाः प्रभवन्ति तस्य

च स्कन्दरोगा न तु शाकिनीभ्यः ।

भवं भवेन् नैव जलाग्निदिग्भ्यो

बालस्य भूतादि वेशेषतश् च ॥

सम्प्राप्य राज्यं नृपतिः समान्ते

कुर्याद् इमं शान्तिमहोत्सवं च ।

ग्रहांस् तथा पूज्य विनायकं च

दुर्गां च भक्त्या कुमुदादिदेवीः ॥

यः पूजयेद् भक्तिपुरःसरं हि

स हेमपूर्णो बलवृद्धियुक्तः ।

गोपथब्राःमणे तु ।

    राजानम् अभिवर्धयिष्यन्न् आयुषा वर्चसा तेजसा यशसा यशसा विजयेन कीर्त्या पवित्रैर् **[१०५]** मङ्गलैर् अभ्युक्ष्य उदकै रुक्मैर् अर्चयित्वा, माहेन्द्रं हविर् निरूप्य, लोकपालेभ्यश् च श्रपयेन् महान् इन्द्रो य ओजसेति लोकपालांश् चेष्ट्वा, राजानम् अन्वारभ्य जुहुयात् । अर्वाञ्चम् इन्द्रम्, त्रातारम् इन्द्रम्, वर्धय इति त्रिभिः, रक्षां कृत्वा सुगुरुणास आसते इति रोचनेनालङ्कुर्यात् । प्रजायै तन्तुम् इति सूक्तं सम्पातवतं कृत्वा धाता ते ऽयम् इत्य् उक्तम् अभिवर्धस्वेति । 

इति श्रीकमलाकरभट्टकृतौ शूद्रधरतत्त्वे ऽब्दपूर्तिः ।

अथ चौलम् ।

बृहस्पतिः

पापग्रहाणां वारादौ विप्राणां शुभदो रविः ।

क्षत्रियाणां क्षमासूनौ विट्शूद्राणां शनौ शुभम् ॥

अस्य कालनिर्णयः सर्वैर् मातुर् गर्भै रजोदर्शने च न कार्यम् इत्यादिर् अन्यश् च विशेषो द्विजतुल्यो मत्कृते निर्णयसिन्धौ ज्ञेयः । शूद्रस्य विशेषमात्रं तूच्यते । प्रथमे द्वितीय तृतीये पञ्चमे वाब्दे यथाकुलधर्मं चोक्तकाले पिता देशकालौ स्मृत्वास्य शिशोर् बीजगर्भसमुद्भवदोषनाशद्वारा बलायुर्वर्चोऽभिवृद्ध्यर्थं चौलकर्म करिष्ये, इति सङ्कल्प्य, गणेशपूजापुण्याहवाचनमातृकापूजावसोर्धारानान्दीश्राद्धानि कृत्वा, भद्रासने शिशुम् उपवेश्यैकां शिखां केशपङ्क्तिं वा संरक्ष्ये सर्वं वा वपनं यथाचारं कार्यम् । ततो नीराजनादि कार्यम् ।

इति चौलम् ।

[१०७]

अथ विद्यारम्भः ।

मदनरत्ने नृसिंहः

अक्षरस्वीक्र्तिं कुर्यात् प्राप्ते पञ्चमहायने ।

उत्तरायणगे सूर्ये कुम्भमासं विवर्जयेत् ॥

अथ धनुर्विद्यादीपिकायाम्

अदितिगुरुयमार्कस्वातिचित्राग्निपित्र्य-

ध्रुवहरिवसुमूलेष्व् इन्दुभागान्त्यभेषु ।

शनिशशिबुधवारे विष्णुबोधे ऽपि पौषे

सुसमयतिथियोगे चापविद्याप्रदानम् ॥

तत्र हरिं लक्ष्मीं सरस्वतीं च पूजयित्वा कार्यम् ।

सर्वायुधमहामात्र सर्वदेवारिसूदन ।

चाप मां समरे रक्ष साकं शरवरैर् इह ॥

घृतं कृष्णेन रक्षार्थं संहाराय हरेण च ।

त्रयीमूर्तिगतं देवं धनुरस्त्रं नमाम्य् अहम् ॥

इति मन्त्रेण सम्पूज्य नत्वा बाणं प्राच्यां मुक्त्वा विप्रान् पूजयेत् ।

अथ छुरिकाबन्धनम् ।

ज्योतिर्निबन्धे नारदः

छुरिकाबन्धनं वक्ष्ये नृपाणां प्राक्करग्रहात् ।

विवाहोक्तेषु मासेषु शुक्लपक्षे ऽप्य् अनस्तगे ॥

जीवे शुक्रे च भूपुत्रे चन्द्रताराबलान्विते ।

मौञ्जीबन्धर्क्षतिथिषु कुजवर्जितवासरे ॥

सङ्ग्रहे

शूद्राणां राजपुत्राणां मौञ्ज्यभावे ऽस्त्रबन्धनम् ।

मौञ्जीवन्धोक्ततिथ्यादौ कार्यं भौमदिनं विना ॥

विष्णुधर्मे

पूजयित्वा हरिं लक्ष्मीं तथा देवीं सरस्वतीम् ।

स्वविद्यासूत्रकारांश् च स्वां च विद्यां विशेषतः ॥

एतेषाम् एव देवानां नाम्ना तु जुहुयाद् घृतम् ।

दक्षिणाभिर् द्विजेन्द्राणां कर्तव्यं चात्र पूजनम् ॥

मन्त्रस् तु ।

सर्वायुधानां प्रथमं निर्मितासि पिनाकिना ।

शूलायुधाद् [१०८] विनिष्कृष्य कृत्वा मुष्टिग्रहं शुभम् ॥

चण्डिकायाः प्रदत्तासि सर्वदुष्टनिबर्हणी ।

तथा विस्तारिता चासि देवानां प्रतिपादिता ॥

सर्वसत्त्वाङ्गभूतासि सर्वाशुभनिबर्हिणी ।

छुरिके रक्ष मां नित्यं शाण्तिं यच्छ नमो ऽस्तु ते ॥

इति सम्पूज्य नत्वा दक्षिणे कटिभागे बध्नीयात् । अपरार्के वृद्धशातातपः

शिशोर् अभ्युक्षणं प्रोक्तं बालस्याचमनं स्मृतम् ।

जलस्थलादिसंस्पर्शे स्नानम् एव कुमारके ॥

प्राक्चूडाकरणाद् बालः प्राग् अन्नप्राशनाच् छिशुः ।

कुमारः स तु विज्ञेयो यावन् मौञ्जी निबध्यते ।

बालस्य पञ्चमाद् वर्षाद् रक्षार्थं शौचम् आदिशेद् इत्यादि मत्कृते निर्णयसिन्धौ ज्ञेयम् ।

[१०९]

अथ विवाहः ।

तत्र सापिण्ड्यं शूद्राणां द्विजवद् एव सर्वत्रावयवानुवृत्तेः सद्भावाद् इति विज्ञानेश्वरः । तच् च मया निर्णयसिन्धाव् उक्तम् इति नात्रोच्यते । तत्र ब्राह्मार्षदैवप्राजापत्य-गान्धर्वासुरराक्षसपैशाचा अष्टौ विवाहाः । तान् आह याज्ञवल्क्यः

ब्राह्मो विवाह आहूय दीयते शक्त्यलङ्कृता ।

यज्ञस्थऋत्विजे दैव आदायार्षस् तु गोद्वयम् ॥

इत्य् उक्त्वाचरतां धर्मं सह या दीयते ऽर्थिने ।

स कायः पावयेत् तज्जः षट् षड् वंशान् सहात्मना ॥

आसुरो द्रविणादानाद् गान्धर्वः समयान् मिथः ।

राक्षसो युद्धहरणात् पैशाचः कन्यकाछलाद् ॥ इति ।

एषु शूद्रस्य प्राजापत्यो मुख्यः । आसुरगान्धर्वौ मध्यमौ । राक्षसपैशाचौ कनिष्ठौ । तद् आह मनुः

आसुरं वैश्यशूद्रयोः ।

षड् आनुपूर्व्या विप्रस्य क्षत्रस्य चतुरो ऽवरान् ।

विट्शूद्रयोस् तु तान् एव विद्याद् धर्म्यान् अराक्षसान् ॥

चतुरः आसुरगन्धर्वराक्षसपैशाचान् । तान् चतुरो राक्षसवर्जान् । कल्पतरौ ब्रह्मविवाहम् उक्त्वा ब्राह्मणानां सताम् एष धर्म इत्य् उक्तेर् ब्राह्मदैवौ विप्रस्यैव । अन्ये त्रयाणां तुल्याः । हेमाद्रौ पैठीनसिः: “पैशाचः प्रतिलोमानाम्” । काश्यपः

शुल्केन ये प्रयच्छन्ति स्वसुतां लोभमोहितः ।

आत्मविक्रयिणः पापा महाकिल्बिषकारिणः ॥

पतन्ति नरके घोरे घ्नन्ति वा सप्तमं कुलम् ।

शूद्रेणासुरत्वसिद्ध्यै प्रीत्या देयं, न तु मूल्यं, तेन न दोषः । अत एव गान्धर्वासुरयोः फलम् आदित्यपुराणे

गान्धर्वेण विवाहेन यस् तु कन्यां प्रयच्छति ।

गन्धर्वलोकं व्रजति गन्धर्वैः पूज्यते च सः ॥

शुल्केन दद्याद् यअः कन्यां वराय सदृशाय च ।

किन्नरैर् उपगीयेत गान्दर्वं लोकम् एति च ॥

हारीतः

एषाम् अन्यतमेनोढां धर्मपत्नीं परे प्राहुः ।

विशेषो मेधातिथौ कल्पतरौ च ज्ञेयः । तत्र गान्धर्वराक्षसपैशाचान् विना सर्वत्रोदकपूर्वं दानं नियतम् । वसिष्ठः

नोदकेन न वा वाचा कन्यायाः पतिर् उच्यते ।

पाणिग्रहणसंस्कारात् पतित्वं सप्तमे पदे ॥

गान्धर्वादिष्व् अपि होमादि कार्यम् एव,

गान्धर्वासुरपैशाचा विवाहा राक्षसश् च यः ।

पूर्वं परिग्रहस् तेषु पश्चाद् धोमो विधीयते ॥

इति अपरार्के विसिष्ठोक्तेः । अत एव होमाद्यभावे ऽन्यस्मै दानम् आहतुस् तत्रैव वसिष्ठ-बौधायनौ

बलाद् अपहृता कन्या मन्त्रैर् यदि न संस्कृता ।

अन्यस्मै विधिवद् देया यथा कन्या तथैव सा ॥

इदं राक्षसपैशाचपरम्, तयोर् एव बलाद् अपहारात् । शूद्रस्य नमोमन्त्र एव । मनुर् अपि ।

पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् ।

तेषाम् निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ॥

तत्र पाणिग्रहणं सर्ववर्णसमानम्, “पाणिर् ग्राह्यः सवर्णास् तु” इत्य् अविशेषेण याज्ञवल्क्योक्तेः । उदकपूर्वं कन्यादानस्य शूद्रे विकल्पः । तद् उक्तं स्मृतिकौमुद्यां ब्राह्मे

युक्तं तु पाणिग्रहणं सर्ववर्णेषु सर्वशः ।

जलपूर्वं तु विप्राणाम् अन्येषाम् अपि काम्यया ॥ इति ।

[११०]

अन्ये त्व् एतेन ब्राह्मो ऽपि भवति, “अलङ्कृत्य कन्याम् उदकपूर्वां दद्याद् एव ब्राह्मो विवाहः” इत्य् आश्वलायनेन ब्राह्म एव जलपूर्वतोक्तेः । अन्ये विशेषा निर्णयसिन्धौ ज्ञेयाः । स्मृतिकौमुद्यां ब्राह्मे

इष्टिं वैनायकीं कृत्वा शचीयागं च शोभनम् ।

नान्दीमुखेभ्यः श्राद्धं च पितृभ्यः कार्यसिद्धये ॥

वराहसंहितायाम्

गृहे स्थितां वै पुरुहूतपत्नीं

प्राङ्मध्यसन्ध्यास्तमयेषु कन्या ।

स्रक्गन्धधूपैः प्रतिपूजयेत् तु

पाणिग्रहे या समुपगता ॥ इति ।

[११३]

अथ प्रयोगः ।

“शूद्रस्य शूद्रापरिणयने मन्त्ररहितं क्रियामात्रं कार्यम्” इति हरिहरभाष्ये उक्तम् । तेन कातीयं कर्मोच्यते । तत्र विवाहोक्ते मुहूर्ते कन्यायाः पिता भ्रातान्यो वा बन्धुर् वरगृहं गत्वाचम्य देशकालौ सङ्कीर्त्य करिष्यमाणविवाहाङ्गत्वेन वाग्दानं करिष्य इति सङ्कल्प्य, गणेशं वरुणं च सम्पूज्य वरस्य पादप्रक्षालनं गन्धवस्त्राद्यैः पूजां कृत्वा, पूगीफलनारिकेरकुङ्कुमादिरञ्जितवस्त्रं चादायामुकप्रपौत्रायामुकपौत्रायामुक-पुत्रायामुकदासायवरायामुकप्रपौत्रीम् अमुकपौत्रीम् अमुकपुत्रीम् अमुकनाम्नीं कन्यां तुभ्यं ज्योतिर्विदुक्ते मुहूर्ते दास्ये इत्य् उक्त्वा,

अव्यङ्गे ऽपतिते ऽक्लीबे दशदोषविवर्जिते ।

तत्कालोपस्थिते कन्यां पिता तुभ्यं प्रदास्यति ॥ इति ।

पिता तु अहं दास्याम्य् असंशयम् इति वदेत् । स्नाते स्नाताम् अरोगिणीं वा पाठः ।

केचित् तु कन्यागृहे गत्वा तां सम्पूज्य,

अव्यङ्गे ऽपतिते ऽक्लीबे दशदोषविवर्जिते ।

इमां कन्यां प्रदास्यामि देवाग्निद्विजसन्निधौ ॥

इति कन्यापिता वरबन्धुहस्ते दत्वा,

वाचा दत्ता त्वया कन्या वरार्थं स्वीकृता मया ।

कन्यावलोकनविधौ निश्चितस् त्वं सुखी भव ॥

इति कन्यापिता ।

वाचा दत्ता त्वया कन्या वरार्थं स्वीकृता मया ।

वरावलोकनविधौ इत्य् ऊहेन वरपिता वदेद् इत्य् आहुः ।

ततः परस्परम् अर्चनविप्रपूजादि कार्यम् । आचाराद् धरिद्राचन्दनादि विवाहोक्ते मुःऊर्ते कार्यम् ।

इति वाग्दानम् ।

[११४]

ततः पूर्वदिने विवाहदिने वा प्रातः कन्यावरयोः पिताभ्यङ्गं कृत्वा, ग्रहविनायकशान्त्यादि कृत्वा, देशकालौ सङ्कीर्त्य, अमुकस्य विवाहाङ्गतया गणेशपूजापुण्याहवाचनमातृकापूजा-वसोर्धाराशचीपूजानान्दीमुखानि श्राद्धानि करिष्ये इत्य् उक्त्वा, तानि पूर्ववत् कृत्वा, तण्डुलपूर्णकुम्भद्वये ऽविघ्नार्थं वंशपात्रे शाखासु,

नन्दिनी नलिनी मैत्रा ह्य् उमा च पशुवर्धिनी ।

शस्त्रे भगवतीं च मातृसन्निधौ संस्थाप्य चतुर्थदिने मण्डपदेवताः पूजयेत् । पीतसूत्रेण कङ्कणं बध्वा, कन्यायाः सप्तभिः पञ्चभिर् वा करैर् मितां पञ्चसप्तसोपानां वेदिं कुर्यात् । चतुर्हस्ता वेदीति हरिहरः । वरस्य सीमान्तपूजां कृत्वा गृहागतं वरं सम्मानेनोपवेशयेत् । तत आचार्यो वेद्यां हस्तमात्रं स्थण्डिलं दर्भैः परिसमूह्य, गोमयेनोपलिप्य, यज्ञियकाष्ठेन प्रागग्रास् तिस्रो लेखाः कृत्वा, त्रिर् मृदम् उद्धृत्याभ्युक्ष्याग्निं प्रतिष्ठाप्य वरस्य प्राङ्मुखस्य मधुपर्कपूजां कुर्यात् । यथा । कन्यापितासनं दत्वा, तस्य पश्चात् तिष्ठन्तं वरम् आह । साधु भवान् आस्ताम् अर्चयिष्यामो भवन्तम् इति । अर्चयेति वरः । ततो विष्टरो इत्य् अनेन त्रिर् उक्तेन दाता प्रत्यङ्मुखस् तिष्ठन् प्रतिगृह्यतम् [११५] इति कूर्वं पञ्चविंशतिकुभमयं च दद्यात् । तं वर आसनस्य पश्चात् तिष्ठन् गृहीत्वा विष्टराय नम इत्य् आसने दत्वोपविशेत् । ततो ऽन्येन त्रिः पाद्यम् इत्य् उक्ते गन्धदूर्वाक्षतायुतं पाद्यं दाता प्रतिगृह्यताम् इति दद्यात् । तेन वरः आदौ सव्यं ततो दक्षिणम् इति पादौ प्रक्षालयेत् । तदा26 दातान्यं विष्टरम् अन्येन त्रिर् निवेदितम् आदाय वरपादाधो दद्यात् । ततो गन्धपुष्पाक्षतकुशतिलसर्षपदधिदूर्वायुतम् अर्घ्यम् आदायान्येनार्घ्यम् इति त्रिर् उक्ते दाता प्रतिगृह्यताम् इति दद्यात् । वरस् तम् अद्भ्यो नम इत्य् अञ्जलिनादाय शिरसाभिवाद्य भूमौ क्षिपेत् । ततो ऽन्येनाचमनीयम् इति तिर् उक्त्वा दत्तं प्रतिगृह्य सकृत् प्राश्याचामेत् । ततो ऽन्येन मधुपर्क इत्य् उक्ते दात्रा दत्तं कांस्यस्थं तेनैव पिहितं दधि मधु घृतं वा वरो दातृहस्त्स्थम् उद्घाट्य, सवित्रे नम इत्य् अवेक्ष्य, सवित्रे नम इति प्रतिगृह्य, वामे निधाय, मधुपर्काय नम इत्य् अनामिकयालोड्यानामिकाङ्गुष्ठाभ्यां बहिः क्षिप्त्वा, पुनर् एवं द्विः कृत्वा, ताभ्याम् एव त्रिः प्राश्नीयात् । मधुपर्काय नम इति वा । अङ्गुष्ठानामिकाभ्यां द्वितीयम् अङ्गुष्ठमध्यमाभ्यां तृतीयम् इति स्मृतिकौमुदी । तच् चिन्त्यम् । ततः शेषम् असञ्चरे निनीय, द्विर् आचम्य, पुनर् आचम्य, वाचे नमः मुखे, प्राणाय नमः नसोः, चक्षुर्भ्यां नमः चक्षुषोः, श्रोताभ्यां नमः कर्णयोः, बलाय नमः बाह्वोः, ओजसे नमः इत्य् ऊर्वोः, अङ्गेभ्यो नमः इत्य् अङ्गेषु । ततो ऽन्येन त्रिर् गौर् इत्य् उक्ते प्रतिगृह्य रुद्राणां मात्रे वसूनां दुहित्रे आदित्यस्वस्रे गवे नमः । ममार्चकस्य च पाप्मा हत इत्य् उपांशु उत्सृजत तृणान्य् अत्तु इत्य् उच्चैर् विसृजेत् । ततो दाता वस्त्रालङ्कारगन्धस्रगाद्यैर् वरं पूजयेत् । ततः सुलग्ने ऽन्तःपटं धृत्वा, मुखं निरीक्षेत ।

अन्ये तु लग्नसमये पाणिग्रहणम् इच्छन्ति । ततो अन्तःपटम् अपसार्य, वरो वधूमुखम् ईक्षेत । अत्र वाग्निं प्रतिष्ठाप्य पश्चाद् अग्नेस् तृणफलं कटं वा निधाय, कन्यापितृदत्त-वस्त्रचतुष्टयमध्ये द्वे आयुष्मतीदं वासं परिधत्स्वेति आवृत्त्या दद्यात् । सा च वाससे नम इत्य् आवृत्त्या परिदधीत27 । ततो दात्रा वधूम् ईक्षस्वेति प्रेषितो वधूम् ईक्षेत । ततः कन्यादानम् इति हरिहरः

अन्ये तु कन्यादानोत्तरं वस्त्राद्य् आहुः । ततः करोतु स्वस्ति ते ब्रह्मेत्याद्यैर् अक्षतारोपणान्ते कन्यापितोदङ्मुखः स्वदक्षिणे पतीम् उपवेश्य कुशपाणिर् आचम्य, देशकालौ सङ्कीर्त्य, मम समस्तपितॄणां निरतिशयसानन्दब्रह्मलोकावाप्त्यादि कन्यादानकल्पोक्तफलावाप्तये ऽनेन वरेणास्यां कन्यायाम् उत्पादयिष्यमाणसन्तत्या – ब्राह्मपक्षे द्वादशावरान् द्वादश् परान् । प्राजापत्यपक्षे ऽष्टावरान् अष्टौ पराण् पुरुषान् पवित्रीकर्तुम् आत्मनश् च लक्ष्मीनारायणप्रीतये ब्राह्मविवाहविधिना प्राजापत्यविधिना वालङ्क्र्त्य कन्यादानम् अहं करिष्ये । इत्य् उक्त्वा पठेत् ।

कन्यां कनकसम्पन्नां कन्यकाभरणैर् युताम् ।

दास्यामि विष्णवे तुभ्यं ब्रह्मलोकजिगीषया ॥

विश्वम्भरः सर्वभूतः साक्षिण्यः सर्वदेवताः ।

इमां कन्यां प्रदास्यामि पितॄणां तारणाय च ॥ इति ।

ततः कांस्यपात्रे वरहस्तोपरि वधूहस्ते स्वहस्तं न्यस्य वरहस्ते – सुप्रोक्षितम् अस्तु । शिवा आपः सन्तु । सौमनस्यम् अस्तु । इत्य् उक्त्वा, कन्या तारयतु, पुण्यं वर्धतां, शान्तिः पुष्टिस् तुष्टिस् चास्तु, तिथिकरणमुहूर्तनक्षत्रसम्पदस्, पुण्याहं भवन्तो ब्रुवन्तु, पुण्याहम् इति विप्राः, स्वस्ति भवन्तो ब्रुवन्तु, ऋद्धिं भवन्तो ब्रुवन्तु, श्रीर् अस्त्व् इति भवन्तो ब्रुवन्तु, अमुकदासो ऽहम् । मम **[११६] **समस्तपितॄणाम् इत्य् आदि ॥। लक्ष्मीनारायानप्रीतये इत्यन्तं प्राग्वद् उक्त्वा, काश्यपगोत्रस्य ब्रह्मदासस्य प्रपौत्राय विष्णुदासस्य पौत्राय शिवदासस्य पुत्राय काश्यपगोत्राय देवदत्तदासाय वराय । काश्यपगोत्रां चैत्रदासस्य प्रपौत्रीं मैत्रदासस्य पौत्रीं भोजदासस्य मम पित्रीम् अमुकप्रेष्यां नाम्नीं वा कन्यां प्रजापतिदैवत्यां यथाशक्त्य् अलङ्कृताम् इत्य् उक्त्वा, पुनर् एवं द्विर् उच्चार्य शतज्योतिष्टोमातिरात्रफलसमफलप्राप्तिकामः प्रजोत्पादनार्थं सहधर्मचरणार्थं प्राजापत्ये सहधर्मचरतं भार्यात्वेन तुभ्यम् अहं सम्प्रददे । इति कुशयवयुतं जलं कन्याहतं च वरहस्ते क्षिपेत् । मयापि दत्तेति मातापि वदेद् इति केचित् । गोत्रोच्चारणं नेति केचित् । वरः प्रतिगृह्णामि ।

गोत्राय चैव दासाय तुभ्यं दत्तां समाश्रय ।

कन्ये ममाग्रतो भूयाः कन्ये मे देवि पार्श्वयोः ॥

कन्ये मे पृष्ठतो भूयास् त्वद्दानात् स्वर्गम् आप्नुयाम् ।

मम वंसकुले जाता पालिता वत्सराष्टकम् ॥

तुभ्यं दास मया दत्ता पुत्रपौत्रविवर्धिनी ।

इति पठेत् । ततः कन्यावानप्रतिष्ठार्थम् इदं सुवर्णं गोमिथुनं च दक्षिनां सम्प्रददे इति दद्यात् । ततः शक्तौ स्त्यां ताम्रकांस्यपात्रगवाश्वदासीदासादि दद्यात् । कन्याबान्धवांश् च यौतकं दद्युः । वरस् तत्पित्रादयो ऽपि दद्युर् इति केचित् । होमान्ते यौतकं केचिद् आहुः । ततः चतुर्वारं पञ्चवारं वा वधूवरौ सूत्रेणावेष्ट्योपरितनम् अधोमार्गेनाधस्तनं चोपरि निष्काश्य, त्रिगुणं पीतं च कृत्वाधस्तनंवरहस्ते, उपरितनं च वधूहस्ते कङ्कणं बध्नीयात् ।

येन बद्धो बली राजा दानवेन्द्रो महाबलः ।

तेन त्वाम् अप् बध्नामि रक्षे मा चल मा चल ॥ इति ।

ततः वधूवराभ्याम् दुग्धार्द्राक्षतारोपणम् । वध्वादौ ततो वरेण च कार्यम् । मन्त्रास् तु – भगाय नमः । यज्ञाय नमः । श्रियै नमः । धर्माय नमः । प्रजायै नमः । यशसे नमः । इति । ततः प्राङ्मुख उपविश्य वस्त्रं कन्यायै दद्यात् । सा च वासोभ्यां नम इति परिदध्यात् । ततो वरो

माङ्गल्यतन्तुनानेन भर्तृजीवनहेतुना ।

कण्ठे बध्नामि सुभगे सा जीव शरदां शतम् ।

इतिसौभाग्यतन्तुं वधूगले बध्नीयात् । ततो विश्वेदेवायुमातरिश्वधातृभ्यो नम इति वधूम् ईक्षेत् । अत्र वा कौसुम्भसूत्रेण कङ्कणम् । ततो वेद्याम् प्राङ्मुखस् तेजनावीरणकटे पश्चाद् अग्नेर् उपविश्य दक्षिण ईशान्यां वा मङ्गलकुम्भं स्कन्धे गृहीत्वा कश्चित् तिष्ठेद् आस्पतमं पदम् । उत्तरतो दृषदुपले चालङ्कृते निधायान्नं वरः कन्यानाम वदेद् इत्य् आचारः । ततो वधूपित्रा परस्परं समीक्षितव्यम् इत्य् उक्ते ऽन्योन्यं समीक्ष्य,

अरौद्रचक्षुर् अपतिघ्नी शिवा च सुमनास् तथा ।

सुवर्चाः पुत्रसूर् देवकामा च सुखदा भव ॥

इति वरो वदेत् । सोमगन्धर्वाग्निपूषभ्यो नम इति । शूद्राणां गृह्यसूत्राध्ययनाभावात् तदुक्तहोमाङ्गकलापज्ञानाभावात् प्रयुक्तिशक्त्यभावाच् च विवाहे होम एव भास्तीति **मदनपालः **। अन्ये तु प्रधाने ऽधिकारसिद्धौ स्थपतीष्टिवद् अङ्गे ऽपि श्रवणोपदेशादिना ज्ञानसम्भवाद् धोमम् आहुः । यथा — गुरु दक्षिणे ब्रह्मासनं दत्वा तम् उपवेश्यम् । मृण्मये पात्रे जलपूर्णे कुशान् निधायोत्तरतः कुशेषु निधायाग्निं दर्भैः पूर्वादि परिस्तीर्यासादनं कुर्यात् \ त्रीणि तृणानि द्वे पवित्रे प्रोक्षणीम् आज्यस्थालीं चरुस्थालीं सम्मार्गकुशाः उपयमनकुशास् तिस्रः समिधः स्रुवम् आज्यं तन्दुलाः लाजाः शूर्पं संस्रावपात्रं अश्मा [११७] आनडुहं चर्म गौर् दक्षिणेति । ततः प्रादेशमात्रे पवित्रे छित्त्वा प्रोक्षणीं संस्कृत्य पवित्राभ्याम् उत्पूय तत्र ते निधाय दक्षिणेन सव्ये कृत्वोद्दीपनं कृत्वा पात्राणि प्रोक्ष्य निधायाज्यं स्थाल्यां निरुप्याग्नौ दक्षिणे ऽधिश्रित्योल्मुकेन लाजैः सह पर्यग्नि कृत्वा स्रुवं प्रताप्य कुशैः सम्मृज्य प्रोक्षणीभिः प्रोक्ष्य पुनः प्रताप्य दक्षिणे निधायाज्यम् उद्वास्योत्पूयावेक्ष्य शूकं निरस्य पुनः प्रोक्षणीर् उत्पूयावेक्ष्योपयमनकुशान् आदायोत्थायाग्नौ तिस्रः समिधो ऽभ्याधाय प्रोक्षणीभिः पर्युक्ष्य वरेणान्वारब्धो गुरुर् दक्षिणं जान्व् आच्य ब्रह्मणा दक्षिणहस्तेनान्वारब्धः स्रुवेण जुहुयात् । प्रजापतये नमः । इन्द्राय नमः । इत्याघारौ । इदं प्रजापतये न ममेत्यादि वरः सर्वत्र त्यागं कुर्यात् । अग्नये नमः । सोमाय नमः । इत्याज्यभागौ । अग्नये नमः । वयवे नमः । सूर्याय नमः । अग्नीवरुणाभ्यां नमः । द्विः अग्नये नमः । वरुणसवितृविष्णुविश्वेदेवमरुत्स्वर्केभ्यो नमः । वरुणायादित्यायादितये प्रजापतये नमः । इति न वा । ततअस् त्रिर् अग्नये मृत्यवे च जुहुयान् न वा । ततः कन्याञ्जलाव् उपस्तीर्य वध्वाः भ्राता तत्स्थानो वान्यः शमीपलाशमिश्रान् लाजान् शूर्पाद् अञ्ज्लिना द्विः क्षिपति । ततो ऽभिघार्य तिष्थन्ती अग्नये नम इति त्रिर् जुहुयात् । मन्त्रो वरस्यैव । ततः वरो वध्वा दक्षिणं हस्तं साङ्गुष्ठम् उत्तानम् उत्तानेन हस्तेन गृह्णीयात् । तत्र मन्त्रः भगोर्यमसवितृब्य्यो नमः ।

वित्तसौम्यगुणैर् युक्ता वीरसूर् जीवसूर् भव ।

कुले मदीये सम्राज्ञी मच्चित्तानुगता सदा ॥ इति ।

ततो गृहीताम् एव वधूम् उत्तरतो ऽग्नेर् दक्षिणेन पदाश्मानम् आरोहयति । कन्यायै नम इति । ततः सरस्वत्यै नम इति । गाथा गायन्ति । ततो ऽग्नये नम इति । अग्निं परिक्रम्य । पुनर् द्विर् लाजादि परिक्रमान्तं कृत्वा । चतुर्थे शूर्पपुटेन वधूभ्राता सर्वलाजान् कन्याञ्जलाव् आवपति । तान् भगाय नम इति तिष्ठन्ती जुहोति । ततो ऽग्निं चतुर्थे परिक्रम्योपविश्य, ब्रहान्वारब्धः प्रजापतये नम इति हुत्वोत्तरतः उदक्संस्थान् सप्त तण्डुलपुञ्जान् कृत्वा वधूं विष्णवे नम इति दक्षिणेन पदा वरः सप्तपदानि कामयति । इषे नमः । विष्णवे नमः । सर्वत्र ऊर्जे नमः । रायस्पोषाय नमः । भायीभव्याय नमः । प्रजाभ्यो नमः । ऋतुभ्यो नम इति । एतैर् इति केचित् । ततः सप्तमे पदे गुरु द्वयोः शिरसी सन्निधाय । पूर्वकुम्भोदकेन वर आम्रपल्लवैर् अभिषिञ्चेत् । वरेण सूर्यम् उदीक्षस्वेत्य् उक्त्वा सूर्याय नम इति सूर्यं पश्येत् । मम तव चित्तवाग्भ्यो नम इति वधूदक्षिणांसोपरि हस्तं नीत्वा हृदयम् आलभ्य उत्तरतो वधूम् उपवेश्य वध्वै नम इत्य् अबिमन्त्र्य । तस्याः सीमन्ते सिन्दूरं दत्वान्यो वरो वा वधूम् उत्थाप्य गोऽश्वपुरुषेभ्यो नम इत्य् आनडुहे रक्तचर्मणि वधूम् उपवेश्याग्नये स्विष्टकृते नम इति हुत्वा संस्रवप्राशनम् । प्रणीतानां पवित्राभ्यां मार्जनम् । तयोर् अग्नौ क्षेपः । आचार्याय गोदानम् । प्रणीताविमोकः । ब्रह्मणे पूर्णपात्रं विप्रेभ्य आमान्नसङ्कल्पः । दिने विवाहे रात्रौ ध्रुवम् उदीक्षस्वेति वरप्रेषिता वधूर् ध्रुवाय नम इति पश्येत् । ततो ऽब्दं द्वादशरात्रं षड्रात्रं त्रिरात्रं वाक्षारलवणासिनौ ब्रह्मचारिणाव् अलङ्कुर्वाणाव् अधशायिनौ दम्पती स्याताम् । तैलाक्षतचन्दनादि यथाचारं कुर्यात् । चतुर्थ्याम् अपररात्रे पञ्चभूसंस्कारान् कृत्वा । विवाहाग्निं संस्थाप्य (?) । ब्रह्मोपवेशनादि समिदाधानान्तं प्राग्वत् कुर्यात् । तत्राज्यं निरुप्य स्थाल्यां तूष्णीं चतुरो निरुप्य तथैव त्रिः प्रोक्ष्य त्रिः प्रक्षाल्याग्नौ पक्त्वा [११८] समिधो ऽभ्याधायाग्निं पर्युक्ष्यागाराज्यभागान्ते ऽग्नये प्रायश्चित्ताय् नमः । एवं वायवे प्रायश्चित्ताय नमः । सूर्याय प्रायश्चित्ताय नमः । चन्द्राय प्रायश्चित्ताय नमः । गन्धर्वाय प्रायश्चित्ताय नमः । नवाहुत्यन्ते प्रजापतये नम इति चरुं हुत्वोदकुम्भात् संस्रवान् आदायाग्निवायुसूर्यचन्द्रनक्षत्रगन्धर्व-प्रजापतिभ्यो नम इति वधूशिरसि दत्वा । मम व्रतानुसारिणी भवेत्य् उक्त्वोत्तरतो ऽग्नेश् चरुशेषं प्राणेभ्यो नमः । अस्थिभ्यो नमः । मांसेभ्यो नमः । त्वचे नम इति वधूं प्राशयित्वा ताम् आचमय्याज्येनाग्नये स्विष्टकृते नम इति हुत्वा । अग्न्यादिप्रजापत्यन्ता नवाहुतयः । प्राशनार्थं भिन्नपात्रे संस्रवाः । संस्रवप्राशनं मार्जनपवित्र-प्रतिपत्तिर् गुरवे दक्षिणां ब्रह्मणे पूर्णपात्रम् आमान्नदानं चेति । स्मृतिकौमुद्यां तु, शूद्रस्य को ऽपि होम नेत्य् उक्तम् । तन् न । सा मृतापि हि तेनैक्यं गता मन्त्राहुतिव्रतैर् इत्य् अस्य शूद्रे ऽप्य् अविशेषात् । ततो वरस्य तत्पक्षीयाणां पूजनं वरमात्रे वंशपात्रदानं च कार्यं कन्यापित्रेति केचित् । तद् यथा षोडशलघुशूर्पयुतवंशपात्रे उमामहेश्वरौ सम्पूज्य प्रार्थयेत् ।

ऐरिणी त्वम् उमा देवी महेशो गिरिजापतिः ।

अतस् त्वां पूजयिष्यामि ऐरिणीं सर्वकामदाम् ॥

सवस्त्रां च सदीपां च शूर्पैः षोडशभिर् युताम् ।

वरमात्रे प्रदास्यामि कन्यादानस्य सिद्धये ॥

इत्य् उक्त्वा, कृतस्य कन्यादानस्य सम्पूर्णफलप्राप्त्यर्थम् इदं वंशपात्रं वरमात्रे सम्प्रददे न ममेत्य् उक्त्वा, पठेत् ।

वंशो वंशकरश्रेष्ठो वंशो वंशविवर्धनः ।

अनेन वंशदानेन तुष्टस् त्व् ऋद्धिं करोतु मे ॥

वंशपात्रम् इदं पुण्यं वंशजातसमुद्भवम् ।

दानानाम् उत्तमं दानम् अतः शान्तिं प्रयच्छ मे ॥ इति ।

इदं केचिन् न कुर्वन्ति । ततः कन्यापिता ।

अष्टवर्षां त्व् इयं कन्या पुत्रवत् पालिता मया ।

इदानीं तु मया तुभ्यं दत्ता स्नेहेन पाल्यताम् ॥ इति ।

वराङ्के वधूम् उपवेशयेत् । ततो वरो यानेन वध्वा सह गृहे गत्वा तत्र श्रियं सम्पूज्य स्थापितानां मातॄणां मण्डपदेवतानां च पूजां कृत्वा विसृज्य वस्त्रग्रन्थिकङ्कणमोक्षौ कृत्वा विप्रान् पूजयेत् । वध्वा गृहप्रवेशे मण्डपोद्वासनकाले ऽन्यश् च विशेषो मत्कृते निर्णयसिन्धौ ज्ञेयः । एते संस्काराः सच्छूद्राणाम् । एवं वक्ष्यमाणम् आह्निकाद्य् अपि तेषां नियतम् । सच्छूद्राणां विवाहमात्रम् ।

इति श्रीकमलाकरभट्टकृते शूद्रधर्मतत्त्वे शूद्रस्य विवाहप्रयोगः

संस्कारादिप्रयोगकरणं च समाप्तम् ।

समाप्तम् इदं द्वितीयं प्रकरणम् ।

[१२८]

अथ शूद्रस्याह्निकम् उच्यते ।

तत्र विष्णुः: “ब्राह्मे मुहूर्ते उत्थाय ॥।” इति । विष्णुधर्मे

शयनाद् उत्थितो यस् तु कीर्तयेन् मधुसूदनम् ।

कीर्तनात् तस्य पापानि नाशम् आयान्त्य् अशेषतः ॥

तत्राचम्य् पितरौ इष्टदेवं च नत्वा,

प्रातः स्मरामि भवभीतिमहार्तिशान्त्यै

नारायणं गरुडवाहनम् अब्जनाभम् ।

ग्राहाभिभूतवरवारणमुक्तिहेतुं

चक्रायुधं तरुणवारिजपत्रनेत्रम् ॥

प्रातर् नमामि मनसा वचसा च मूर्ध्ना

पादारविन्दयुगुलं परमस्य पुंसः ।

नारायणस्य नर्कार्णवतारणस्य

पारायणप्रवणविप्रपरायणस्य ॥

प्रातर् भजामि भजताम् अभयङ्करं तं

प्राक् सर्वजन्मकृतपापभयापहत्यै ।

यो ग्राहवक्त्रपतिताङ्घ्रिगजेन्द्रघोर-

शोकप्रणाशम् अकरोद् धृतशङ्खचक्रः ॥

श्लोकत्रयम् इदं पुण्यं प्रातः प्रातस् तु यः पठेत् ।

लोकत्रयगुरुस् तस्मै दद्याद् आत्मपदं हरिम् ॥

प्रातः स्मरामि शिवम् एकम् अनन्तम् आद्यम् इत्यादि यथावासनं पठित्वा,

पुण्यश्लोको नलो राजा पुण्यश्लोको युधिष्ठिरः ।

पुण्यश्लोका च वैदेही पुण्यश्लोको जनार्दनः ॥

इत्य् उक्त्वा भूमिं नमस्कृत्य,

अन्तर्धाय तृणैर् भूमिं शिरः प्रावृत्य वाससा ।

वाचं नियम्य यत्नेन निष्ठीवोच्छ्वासवर्जितः ॥

कुर्यान् मूत्रपुरीषे तु शुचौ देशे समाहितः ।

इत्य् अङ्गिरसोक्तविधिना।

दिवा सन्ध्यासु उदङ्मुखः ।

कुर्यान् मूत्रपुरीषे तु रात्रौ चेद् दक्षिणामुखः ॥

ग्रामात् पदशतं गच्छेन् नगराच् च चतुर्गुणम् ॥

इति याज्ञवल्क्य-पराशयाद्य्उक्ते देशे मूत्रपुरीषे कृत्वा,

अपकृष्य च विण्मूत्रं काष्टलोष्ठतृणादिना ।

इति भारद्वाजोक्तेर् लोष्ठादिना वामेन गुदं प्रमृज्य,

गृहीतशिश्नश् चोत्थाय मृद्भिर् अभ्युद्धृतैर् जलैः ।

गन्धलेपक्षकरं शौचं कुर्याद् अतन्द्रितः ॥

इति याज्ञवल्क्योक्तेः शौचं कुर्यात् । तत्र मूत्रे शातातपः

एका लिङ्गे करे सव्ये तिस्रो द्वे हस्तयोर् द्वयोः ।

मूत्रे शौचं समाख्यातं शुक्रे तद्द्विगुणं भवेत् ॥

पुरीषे तु दक्षः28

द्वे लिङ्गे मृत्तिके देये गुदे पञ्च करे दश ।

उभयोः सप्त दातव्या मृदः शौचोपपादिकाः ॥

शङ्खः

मेहने मृत्तिकाः सप्त लिङ्गे द्वे परिकीर्तिते ।

एकस्मिन् विंशतिर् हस्ते द्वयोर् ज्ञेयाश् चतुर्दश ॥

एको वासः ।

तिस्रस् तु मृत्तिका देयाः कर्तुर् वै नखशोधनम् ।

तिस्रस् तु पादयोर् ज्ञेयाः शौचकामस्य सर्वदा ॥

विष्णुपुराणे

एका लिङ्गे गुदे तिस्रो दश् वामकरे तथा ।

उभयोः सप्त दातव्या मृदः शौचोपपादिकाः ॥

अत्र लेपन्यूनाधिकभावाभ्यां गृहापत्यादिपरतया वा व्यवस्था । मूत्रे मृत्परिमाणम् आह दक्षः

लिङ्गे तु मृत् समाख्याता त्रिपर्वं पूर्यते यया ।

गुदे तु मनुः

अर्धप्रसृतिमात्रा तु प्रथमा मृत्तिका स्मृता ।

द्वितीया च तृतीया च तदर्धार्धा प्रकीर्तिता ॥

आदित्यपुराणे

स्त्रीशुद्रयोर् अर्धमानं शौचं प्रोक्तं मनीषिभिः ।

**[१२९] **उक्तशौचेन गन्धापगमे तु देवलः

यावत् साद्व् इति मन्येत तावच् छौचं विधीयते ।

दक्षः

यद् दिवा विहितं शौचं तदर्धं च निशि स्मृतम् ।

तदर्धम् आतुरे प्रोक्तम् आतुरस्यार्धम् अध्वनि ॥

वृद्धपराशरः

उपविश्य तु विण्मूत्रं कर्तुं यस् तन् न विन्दति ।

स कुर्याद् अर्धशौचं तु स्वस्य शौचस्य सर्वदा ॥

बालस्यानुपनीतस्य गन्धलेपक्षयावहम् ।

ब्राह्मे

न यावद् उपनीतेन विप्रः शूद्रस् तथाङ्गना ।

गन्धलेपक्षयकरं शौचं तेषां विधीयते ॥

प्रमाणं शौचसङ्ख्या वा न शिष्टैर् उपपादिता । इति ।

शूद्रे विवाहात् प्राग् एवम् । विवाहाभावे तु द्वादशवर्षोर्ध्वं षोडशवर्षोर्ध्वं वा सर्वे धर्मा नियताः । न प्राक् । एतच् च वक्ष्यामः । भोजने गुदस्रावे बृहस्पतिः

भुञ्जानस्य तु विप्रस्य कदाचित् प्रस्रवेद् गुदम् ।

पूर्वं कृत्वा तु शौचं तु ततः पश्चाद् उपस्पृशेत् ॥

ततः कृत्वोपवासं च पञ्चगव्येन शुध्यति ।

हस्तं प्रक्षाल्य शौचं कृत्वा गण्डूषोत्तरम् उपवसेद् इत्य् अर्थः । विप्रस्येत्य् उपलक्षणम् ।

इति श्रीकमलाकरभट्टकृते शूद्रधर्मतत्त्वे शौचविधिः ।

[१३०]

अथाचमनम् ।

शुचौ देशे प्राङ्मुख उदङ्मुखो वोपविश्यान्तर्जानुकरं गोकर्णाकृतिं कृत्वा तालुगाभिः [१३१] शुद्धाभिर् अद्भिः सकृद् आचामेत् । त्रिर् वेति स्मृतिकौमुद्याम् । अङ्गुष्ठमात्रं स्पृशेद् इति **भट्टाः **। ततो ऽङ्गुष्ठमूलेनोष्ठौ द्विर् उन्मृज्याङ्गुष्ठतर्जनीभ्यां नासिके ऽङ्गुष्ठमध्यमाभ्यां चक्षुषी अङ्गुष्ठानामिकाभ्यां श्रोत्रे ऽङ्गुष्ठकनिष्ठिकाभ्यां नाभिं पाणितलेन हृदयं सर्वैः शिरो ऽंसौ च स्पृशेत् ।

अथ दन्तधावनम् ।

बदरोदुम्भरापामार्गपनसकदम्भाम्रजातीबिल्वप्रियङ्गुमयं कण्टकीक्षीरवृक्षोत्थम्, द्वादशाङ्गुलकं विप्रे काष्ठम् आहुर् मनीषिणः । क्षत्रविट्शूद्रजातीनां नवषट्चतुरङ्गुलम् इति मदनपारिजाते विष्णूक्तम् ।

कनिष्ठाङ्ग्रस्थूलं पर्वार्धकृतकूर्चं दन्तधावनं प्रक्षाल्य ।

आयुर् बलं यशो वर्चः प्रजाः पशुवसूनि च ।

ब्रह्म प्रज्ञां च मेधां च त्वं नो धेहि वनस्पते ॥

इति मन्त्रेण प्राङ्मुखो भक्षयित्वा दन्तान् संशोध्य तथैव जिह्वोल्लेखं कृत्वा प्राच्याम् उदीच्यां वा त्यक्त्वा षोडश द्वादश वा गण्डूषान् कुर्यात् । एतत् प्रतिपन्नवमीषष्ठ्यमा-पौर्णमासीचतुर्दश्यष्टमीसङ्क्रमश्राद्धव्रतरविदिनेषु न कार्यम् । तत्र द्वादश गण्डूषाः । ततः केशप्रसाधनं कृत्वा स्नायात् ।

**अथ स्नानम् **।

छन्दोगपरिशिष्टे

यथाहनि तथा प्रातर् नित्यं स्नायाद् अनातुरः ।

दन्तान् प्रक्षाल्य नद्यादौ [१३२] गृहे चेत् तद् अमन्त्रवत् ॥

स्मृतिकौमुद्यां योगियाज्ञवल्क्यः

मृत्तिलान् गोमयं दर्भान् पुष्पाणि सुरभीणि च ।

आहरेत् स्नानकाले तु स्नानार्थं प्रयतः शुचिः ॥

गङ्गोदकान्तं गत्वा तु संस्थाप्यैतत् पृथक् क्षितौ ।

त्रिधा कृत्वा मृदं तां तु गोमयं च विचक्षणः ॥

अधमोत्तममध्यानाम् अङ्गानां क्षालनं तु वै ।

भागैः पृथक् पृथक् कुर्यात् क्षालने मृद्सङ्करः ॥

अद्भिर् मृद्भिश् च चरणौ प्रक्षाल्याचम्य वै शुचिः ।

अद्भिर् मृद्भिश् च गात्राणि क्रमशस् त्व् अवनेजयेत् ॥

एकया शिरः प्रक्षाल्य द्वाभ्यां नाभेस् तथोपरि ।

कटिबस्त्यूरुजङ्घे च चरणौ च त्रिभिस् त्रिभिः ॥

प्रक्षाल्य हस्ताव् आचम्य नमस्कृत्य जलं तु तत् ।

यत् किं चेदं तु मन्त्रेण नमस्येत् प्रयताञ्जलिः ॥

ततः कातीयविधिना स्नानम् उक्त्वाह ।

ब्रह्मक्षत्रविशां त्व् एवं मन्त्रवत् स्नानम् इष्यते ।

तूष्णीम् एव तु शूद्रस्य सनमस्कारकं मतम् ॥

तेन शूद्राणां कातीय एवामन्त्रस्नानविधिः । मैथिलश्रीदत्तेन तु पाद्मोक्तं स्नानं सर्ववर्णसाधारणम् उक्तम् । यथा –

अनुद्धृतैर् उद्धृतैर् वा जलैः स्नानं समाचरेत् ।

तीर्थं प्रकल्पयेद् विद्वान् मूलमन्त्रेण मन्त्रवित् ॥

नमो नारायणायेति मूलमन्त्र उदाहृतः ।

दर्भपाणिस् तु विधिना ह्य् आचान्तः प्रयतः शुचिः ॥

चतुर्हस्तसमायुक्तं चतुरस्रं समन्ततः ।

प्रकल्प्यावाहयेद् गङ्गाम् एभिर् मन्त्रैर् विचक्षणः ॥

विष्णोः पादप्रसूतासि वैष्णवी विष्णुपूजिता ।

पाहि नस् त्व् एनसस् तस्माद् आजन्ममरणान्तिकात् ॥

तिस्रः कोट्यो ऽर्धकोटी च तीर्थानां वायुर् अब्रवीत् ।

दिवि भुव्य् अन्तरिक्षे च तानि ते सन्ति जाह्नवि ॥

नन्दिनीत्य् एव ते नाम देवेषु नलिनीति च ।

वृन्दा पृथ्वी च सुभगा विश्वकाया शिवा सिता ॥

विद्याधरी सुप्रसन्ना तथा लोकप्रसादिनी ।

वेण्या च जाह्नवी चैव शान्ता शान्तिप्रदायिनी ॥

एतानि पुण्यनामानि स्नानकाले प्रकीर्तयेत् ।

भवेत् सन्निहिता तत्र गङ्गा त्रिपथगामिनी ॥

विप्रेण वायं पठनीयः ।

सप्तवाराभिजप्तेन करसम्पुटयोजितम् ।

प्रागुक्तमूलमन्त्रेणेत्य् अर्थः ।

मूर्ध्नि कुर्याज् जलं भूयस् त्रिचतुः पञ्च सप्त वा ॥

स्नानं कुर्यान् मृदा पश्चाद् आमन्त्र्य च विधानतः ।

अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे ॥

शिरसा धारयिष्यामि रक्षस्य मां पदे पदे ।

उद्धृतासि वराहेण कृष्णेन शतबाहुना ॥

मृत्तिके हर मे पापं यन् मया दुष्कृतं क्र्तम् ।

नमस् ते सर्वलोकानां प्रभवारणि सुव्रते ॥ इति ।

एतत्पूर्वोक्तवचने शूद्रस्य विशेषोक्तेर् अत्र तदभावात् पुराणमन्त्रपाठे शूद्रस्यानधिकाराच् च चिन्त्यम् । सत्त्वे ऽपि सर्वेषां पूर्वोकेनास्य समुच्चय इति तत्त्वम् । नृसिंहपुराणे

नद्यां स्रवःसु च स्नायात् प्रतिस्रोतः स्थितो द्विजः ।

तडागादिषु तोयेषु प्रत्यर्कं स्नानम् आचरेत् ॥

कातीयानां नद्याम् अपि सूर्यमुखस्य स्नानम् । तत्रैव ब्राह्मण्डापुराणे

ऊर्ध्वपुण्ड्रं द्विजः कुर्यात् क्षत्रियस् तु त्रिपुण्ड्रकम् ।

अर्धचन्द्रं तु वैश्यस्य वर्तुलं शूद्रजातिषु ॥

इत्य् उक्तम् । ललाट्शिरःकण्ठबाहुहृदयनाभिपृष्ठपार्श्वद्वयेषु तिलकं कृत्वा कुशासनोपविष्टः नमो नम इति त्रिर् जपेत् ।

[१३३]

अथ तर्पणम् ।

व्यासः

एकैकम् अञ्जलिं देवा द्वौ द्वौ तु सनकादयः ।

अर्हन्ति पितरस् त्रींस् त्रीन् स्त्रियस् त्व् एकैकम् अञ्जलिम् ॥

मातृवर्गे ऽञ्जलित्रयम् एकैकस्य । विष्णुपुराणे

त्रिर् अधः प्रीणनार्थाय देवानाम् अपि निर्वपेत् ।

इति दैवे त्रय उक्ताः । पाद्मे

देवान् ब्रह्मऋषीन् सर्वांस् तर्पयेताक्षतोदकैः ।

[१३४] सन्तर्पयेत् पितॄन् भक्त्या सतिलोदकचन्दनैः ॥

शङ्खः

    सौवर्णेन राजतेनौदुम्बरेण शृङ्गपात्रेण कुशेन वाप्य् उदकं पितृतीर्थं स्पृशन् दद्यात् । 

योगयाज्ञवल्क्यः

तिलानाम् अप्य् अलाभे तु सुवर्णरजतान्वितम् ।

तदभावे निषिञ्चेत् तु दर्भैर् मन्त्रेण वाप्य् अथ ॥

तृप्यन्त्व् इति समुच्चार्य तृप्यताम् इत्य् अथापि वा ।

विधिज्ञो निक्षिपेत् तोयं देवादीनाम् अशेषतः ॥

सव्यं जान्व् आच्य च ततः सतिलं29 दक्षिणामुख इति तेनैवोक्तेर् देवर्ष्योर् दक्षिणजानुपातः सिद्धः । यमः

द्वौ हस्तौ युग्मतः कृत्वा पूरयेद् उदकाञ्जलिम् ।

गोशृङ्गमात्रम् उद्धृत्य जलमध्ये जलं क्षिपेत् ॥

दक्षः

अग्रैस् तु तर्पयेद् देवान् मनुष्यान् कुशमध्यतः ।

पितॄंस् तु कुशमूलाग्रैर् विधिः कौशो यथाक्रमम् ॥

योगयाज्ञवल्क्यः

ब्रह्माणं तर्पयेत् पूर्वं विष्णुं रुद्रं प्रजापतिम् ।

देवान् छन्दांसि वेदांश् च ऋषींश् चैव सनातनान् ॥

आचार्यांश् चैव गन्धर्वान् आचार्यतनयांस् तथा ।

संवत्सरं सावयवं देवीश् चाप्सरसस् तथा ॥

तथा देवानुगान् नागान् सागरान् पर्वतान् अपि ।

सरितो ऽथ मनुष्यांश् च यक्षान् रक्षांसि चैव हि ॥

पिशाचांश् च सुपर्णांश् च भूतान्य् अथ पशूंस् तथा ।

वनस्पतीन् ओषधींश् च भूतग्रामं चतुर्विधम् ॥

विष्नुः

ततः कृत्वा निवीतं तु यज्ञसूत्रम् अतन्द्रितः ।

प्राजापत्येन तीर्थेन मनुष्यांश् तर्पयेत् पृथक् ॥

कार्ष्णाजिनिः

सनकश् च सनन्दश् च30 तृतीयश् च सनातनः ।

कपिलश् चासुरिश् चैव वोढुः पञ्चशिखस् तथा ॥

पाद्मे ऽस्यानन्तरम् ।

मरीचिर् अत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।

प्राचेतसं वसिष्ठं च भृगुं नारदम् एव च ॥

योगयाज्ञवल्क्यः

अपसव्यं ततः कृत्वा भूत्वा च पितृदिङ्मुखः ।

पितॄन् दिव्यान् अदिव्यांश् च पितृतीर्थेन तर्पयेत् ॥

दिव्या धरो31 ध्रुव इत्यादयो ऽष्टौ वसवः । अजैकपादादयो रुद्राः । इन्द्रधात्रादय आदित्याश् च । प्रत्येकं समुदिता वा । स एव

कव्यवालं नलं सोमं यमम् अर्यमणं तथा ।

अग्निष्वात्ताः सोमपाश् च तथा बर्हिषदो ऽपि च ॥

यदि स्याज् जीवत्पितृक एतान् विद्यात् तदा पितॄन् ।

तर्पणे यद्य् अप्य् अनेके प्रकाराः स्मृतिकौमुद्यां पाद्मादाव् उक्ता तथापि कात्यायनसूत्रसंवादात् शूद्रा वाजसनेयिन इति गौडोक्तदक्षसंवादात् स्नानादौ दर्शनाच् च योगयाज्ञवल्क्योक्त एवायं प्रकारः शूद्राणाम् इति तत्त्वम् । एवं वैश्वदेवाद्य् अपि कातीयम् एव

[१३६]

अथ प्रयोगः ।

यथा मृद्गोमयकुशतिलपुष्पाक्षतान् आदाय नद्यादौ गत्वा पाणिपादं प्रक्षाल्यानामिकाभ्याम् एककुशपत्रात्मके पवित्रे धृत्वा कुशोपग्रहः ।

ऊर्ध्वकेशि विरूपाक्षि32 मांसशोणितभोजने ।

तिष्ठ देवि शिखाबद्धे चामुण्डे ह्य् अपराजिते ॥

इत्य् उक्त्वा33 शिखां बध्वाचम्य देशकालौ स्मृत्वा, मम सर्वपापक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्रातःस्नानम् अहं करिष्ये । तीर्थं तु ।

सागरस्वननिर्घोष34 दण्डहस्तासुतारक ।

जगत्स्रष्टा जगन्मर्दी नमामि त्वाआं सुरेश्वर ॥

तीक्ष्णदंष्ट्र महाकाय कल्पान्तदहनोपम ।

भैरवाय नमस् तुभ्यम् अनुज्ञां दातुम् अर्हसि ॥

इति सम्प्रार्थ्य । वरुणाय नम इति जलमालस्य तेनैवावर्त्य नमो ऽद्भ्यो मम पापं यात्व् इत्य् अञ्जलिं बहिः क्षिप्त्वामुकतीर्थाय नम इत्य् अञ्जलिं दत्वा मृदम् आदाय कटिं बस्त्यूरुजङ्घापादकर्न् त्रिर् विलिप्य प्रक्षाल्यैकं जले परं स्थले पादम् कृत्वा विष्णवे नम इति सर्वाङ्गं मृदा लिप्त्वा सूर्याभिमुखो द्विस् त्रिर् द्वादश वा निमज्याद्भ्यो नम इत्य् उन्मृज्य निमज्योन्मृज्याचम्य तथैव रुद्राय नम इति गोमयेनालिप्य स्नात्वाचम्य कुशैर् मार्जयेत् । वरुणाय नम इत्य् अष्टवारं परमात्मने नमः । अग्नये नमः । वायवे नमः । सूर्याय नमः । सवित्रे नमः । यज्ञाय नम इति । निमज्याद्भ्यो नम इति द्वाविंशतिवारम् । यद् वाग्नये नम इति त्रिर् जातवेदसे सवित्रे चित्यादिभ्यो नम इति । सवित्रे इत्य् एतैः नाभित आनाभिदर्भैः पावयित्वा परमात्मने नम इति सवित्रे नम इत्यन्तैः पुनः पावयित्वा । नम इति त्रिः परमात्मने नम इति वा अघमर्षणं कृत्वा स्नात्वा विष्णवे नम इति स्मृत्वा ब्रह्मादिदेवास् तृप्यन्तां नम इति वा देवतीर्थेन त्रिः सव्येन देवान् निवीती कृष्णद्वैपायनादिऋषयस् तृप्यन्ताम् इति द्वौ द्वाव् इत्य् ऋषीन् अपसव्येन35 सोमपितृमदादिपितरस् तृप्यन्ताम् इत्य् अञ्जलित्रयं त्रिर् दत्वा धौते वाससी परिधाय मृदूरू करौ प्रक्षाल्याचम्य वेणुपत्राकारम् अर्धचन्द्रं वर्तुलं वा तिलकं कृत्वा मुद्रादि कृत्वा धृत्वा वा । नमो ब्रह्मणे विष्णवे सवित्रे मित्राय वरुणाय दिग्भ्यो दिग्देवताभ्य36 इति प्रत्येकं जलपुष्पाञ्जलिर् इत्य् आचार्यचूडामणिः । तत उदितं सूर्यं रक्तचन्दनाक्षतपुष्पैर् अष्टदले मण्डले ऽभ्यर्च्य तद्युक्तम् अर्घ्यं नमे विवस्वते तुभ्यं भास्वते विष्णुतेजसे । नमः सवित्रे शुचये सवित्रे कर्मदायिने इत्य् अर्घ्यं दद्याद् इति कल्पतरौ । ततः सूर्यमण्डलस्थाय परमात्मने नम इति पुनर् अर्घ्यं दत्वा ब्रह्मविष्णुरुद्रेभ्यो नम इति वा विष्णुशिवनामादि वा यथाशक्त्य् आवर्त्य नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थित्नाश-हेतवे । त्रयीमयाय त्रिगुणात्मधारिणे विरिञ्चिनारायणशङ्करात्मने नम इति नमस् कुर्यात् । एवं स्नानं प्रातर् मध्याह्ने च कार्यम् । अशक्तौ मध्याह्न एव । गृहे उष्णोदकेन स्नान्ये ऽप्य् एवम् । आतुरादिना स्नानाशक्तौ दर्भैर् मार्जनं भस्मस्नानं गोरजसा वार्द्रवस्त्रेणाङ्गमार्जनं कार्यम् ।

जाबालिः

अशिरस्कं भवेत् स्नानं स्नानाशक्तौ तु कर्मिणाम् ।

आर्द्रेण वाससा वापि मार्जनं दैहिकं विदुः ॥

विद्वत्सरस्वतीप्राप्तं स्नानं सारस्वतं विदुः ।

विप्रवाकेन्येत्य् अर्थः । मार्जनं मानसं वा स्नानं कार्यम् । यथा ।

**[१३७] **ध्यायेद् आदित्यसङ्काशं वासुदेवं चतुर्भुजम् ।

शङ्खचक्रगदापद्मवनमालाविराजितम् ॥

तत्पादोदकजां धारां निपतन्तीं स्वमूर्धनि ।

चिन्तयेद् ब्रह्मरन्ध्रेण प्रविशन्तीं स्वकां तनुम् ॥

तया सङ्क्षालयेत् सर्वम् अन्तर्देहगतं मलम् ।

तथा

अपवित्रः पवित्रो वा सर्वावस्थां गतो ऽपि वा ।

यः स्मरेत् पुण्डरीकाक्षं सबाह्याभ्यन्तरशुचिः ॥ इति ।

ततः कांस्यपात्रे आज्ये प्रतिबिम्बम् अवलोक्य ।

आज्यं तेजः समुद्दिष्टम् आज्यं पापहरं स्मृतम् ।

आज्यं सुराणाम् आहार आज्ये लोकाः प्रतिष्ठिताः ॥

कामधेनुषु सम्भूतं सर्वक्रतुषु संस्थितम् ।

देवानाम् आज्यम् आहारम् अतः शान्तिं प्रयच्छ मे ॥

इति विप्राय दत्वा दक्षिणां दद्यात् । एतद् विष्णुधर्मोत्तरे स्पष्टम् ।

[१३९] ततो मध्याह्ने पूर्ववत् स्नात्वा ब्रह्मयज्ञं कुर्यात् । तत्र यद् ब्राह्मणान् इतिहासान् पुराणानि कल्पान् इति श्रुतेर्,

वेदाथर्वपुराणानि सेतिहासानि शक्तितः ।

जपयज्ञप्रसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत् ॥ [य्ध् १.१०१]

इति याज्ञवल्क्योक्तेश् च, पुराणभारतादिपाठविधाने ऽपि शूद्रस्य पाठाप्रसक्तेः, श्रवणस्यैव कर्माङ्गत्वात्, पुराणश्रवणम् एव ब्रह्मयज्ञम् इति केचित्तन् न,

नमस्कारेण मन्त्रेण पञ्चयज्ञान न हापयेत् ।

इति याज्ञवक्योक्तेः नमस्कारेण तस्य बाधात् । तत्र यो नमसा स्वध्वर इति श्रुतेर् यज्ञो वै नम इति हि ब्राह्मणं भवतीति वचनाच् च नमो नमो नम इति त्रिर् जपेद् इति तदन्तत्वेनाप्य् उपपत्तेर् नमोऽन्तशब्दैः कार्यम् इति । तद् यथा दर्भासने उपविश्याचम्य परमेश्वरप्रीत्यर्थं ब्रह्मयज्ञं करिष्ये इति सङ्कल्प्योपस्थं कृत्वा दर्भगर्भं ब्रह्माञ्जलिं कृत्वा नमो नमो नम इति जपेत् । यद् वा तत्र ऋग्वेदाय नमः । एवं यजुर्वेदाय नमः । सामवेदाय नमः । अथर्ववेदाय नमः । शिखायै नमः । कल्पाय नमः । व्याकरणाय नमः । निरुक्ताय नमः । ज्योतिषाय नमः । छन्दोविचित्यै नमः । अध्यात्मविद्यायै नमः । इतिहासपुराणेभ्यो नमः । तर्कविद्यायैनमः । पूर्वमीमांसायै नमः । उत्तरमीमांसायै नम इति जपित्वा ।

देवताभ्यः पितृभ्यश् च महायोगिभ्य एव च ।

नमः स्वाहायै स्वधायै नित्यम् एव नमो नमः ॥

इति त्रिर् जपित्वा,

विद्याध्वर तपोयोनिर् अयोनिर् विष्णुर् ईडितः ।

वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः ॥

इत्य् उक्त्वा तद्37 उदकं स्पृशेत् ।

[१४०]

अथ तर्पणम् ।

तच् च ब्रह्मणे नम इति नमोऽन्तैर् मन्त्रैः कार्यम् तस्य नमःशब्दोक्तेर् इति केचित्अन्ये तु तृप्यताम् इत्य् ओङ्कारपूर्वम् इति कातीयसूत्रस्य तृप्यतांशब्दस्य त्यागे मानाभावात् तदन्ताव् इत्य् आहुः । आसने दक्षिणं जान्व् आच्य समदर्भाक्षतैर् हस्तद्वयेन देवतीर्थेन तर्पयेत् । तच् च मदनपारिजाते योगियाज्ञवक्योक्तं कातीयसूत्रानुसारेणोच्यते । यथा ब्रह्मा तृप्यताम् । विष्णुस् तृप्यताम् । वेदास् तृप्यन्ताम् । ऋषयस् तृप्यन्ताम् । पुराणाचार्यास् तृप्यन्ताम् । गन्धर्वास् तृप्यन्ताम् । इतराचार्यास् तृप्यन्तान् । संवत्सरस् तृप्यताम् । सावयवस् तृप्यताम् । देव्यस् तृप्यन्ताम् । अप्सरसस् तृप्यन्ताम् । देवानुगास् तृप्यन्ताम् । नागास् तृप्यन्ताम् । सागरास् तृप्यन्ताम् । पर्वतास् तृप्यन्ताम् । सरितस् तृप्यन्ताम् । मनुष्यास् तृप्यन्ताम् । यक्षास् तृप्यन्ताम् । रक्षांसि तृप्यन्ताम् । पिशाचास् तृप्यन्ताम् । सुपर्णास् तृप्यन्ताम् । भूतानि तृप्यन्ताम् । पशवस् तृप्यन्ताम् । वनस्पतयस् तृप्यन्ताम् । औषधयस् तृप्यन्ताम् । भूतग्रामश् चतुर्विधस् तृप्यताम् । आचार्यचूडामणौ तु प्रजापत्यन्ते,

देवा यक्षास् तथा नागा गन्धर्वाप्सरसो ऽसुराः ।

क्रूराः सर्पाः सुपर्णाश् च तरवो जम्भकाः खगाः ॥

विद्याधरा जलधरास् तथैवाकाशगामिनः ।

निराहाराश् च ये जीवाः पापे धर्मे रताश् च ये ॥

तेषाम् आप्यायनायैतद् दीयते सलिलं मया ।

इति मात्स्योकेर्38 तर्पणम् उक्तम् ।

[१४१]

**अथ ऋषयः **।

निवीतं कृत्वोदगग्रदर्भमध्येन प्रजापतितीर्थेन तिलाक्षतमिश्रौ द्वौ द्वाव् अञ्जली मन्त्रावृत्त्या दद्यात् । सनकस् तृप्यताम् । सनन्दनस् तृप्यताम् । सनातनस् तृप्यताम् । कपिलस् तृप्यताम् । आसुरस् तृप्यताम् । वोढस् तृप्यताम् । पञ्चशिखस् तृप्यताम् ।

**अथ पितृतर्पणम् **

दक्षिणाभिमुखः सव्यं जान्व् आच्य प्राचीनावीती । पितृतीर्थेन द्विगुणदर्भैस् तिलमिश्रांस् त्रींस् त्रीन् अञ्जलीन् दद्यात् । वसवस् तृप्यन्ताम् । रुद्रास् तृप्यन्ताम् । आदित्यास् तृप्यन्ताम्39 । मरुतस् तृप्यन्ताम् । अश्विनौ तृप्येताम् । कव्यवाडनलस् तृप्यताम् । सोमस् तृप्यताम् । यमस् तृप्यताम् । आर्यमास् तृप्यताम् । अग्निष्वात्तास् तृप्यन्ताम् । सोमपास् तृप्यन्ताम् । बर्हिषदस् तृप्यन्ताम् । यमस् तृप्यताम् । धर्मराजस् तृप्यताम् । मृत्युस् तृप्यताम् । अन्तकस् तृप्यताम् । वैवस्वतस् तृप्यताम् । कालस् तृप्यताम् । सर्वभूतक्षयस् तृप्यताम् । औदुम्बरस् तृप्यताम् । दघ्नस् तृप्यताम् । नीलस् तृप्यताम् । परमेष्ठी तृप्यताम् । वृकोदरस् [१४२] तृप्यताम् । चित्रस् तृप्यताम् । चित्रगुप्तस् तृप्यताम् । जीवत्पितृको ऽप्य् एतदन्तान् सर्वांस् तर्पयेत् । ततः स्वपितृतर्पणम् । पितृभ्यो नम इत्य् आवाह्य काश्यपगोत्रः अस्मत्पितामुकदासस् तृप्यताम् । एवं त्रिः । एवं पितामहस् तृप्यताम् । प्रपितामहस् तृप्यताम् । पितृभ्यो नम इति षट् त्रिर् मधुशब्देन वा अञ्जलिं प्रसिञ्चेत् । अस्मन्माता काश्यपगोत्रामुकदेवीदा तृप्यताम् । एवं पितामही अमुकदेवीदा तृप्यताम् । प्रपितामही तृप्यताम् । सापत्नमाता तृप्यताम् । एवं पितृभ्यो नम इत्य् आवाह्य मातामहस् तृप्यताम् । प्रमातामहस् तृप्यताम् । वृद्धप्रमातामहस् तृप्यताम् । एवं मातामही अमुकदेवीदा तृप्यताम् । प्रमातामही अमुकदेवीदा तृप्यताम् । वृद्धप्रमातामही अमुकदेवीदा तृप्यताम् । एवं स्वभार्या अमुकदेवीदा तृप्यताम् । पुत्रः । कन्या । पितृव्यः । मातुलः । स्वभ्राता । अत्पत्न्यः । पितृष्वसा । मातृष्वसा । स्वभगिनी । सापत्या सभर्तृकेति तिसृषु । श्वशुरः । गुरुः । सखा । मित्रभूतः । यद् वा,

आब्रह्मस्तवपर्यन्तं देवर्षिपिऋमानवाः ।

तृप्यन्तु पितरः सर्वे मातृमातामहादयः ॥

अतीतकुलकोटीनां सप्तद्वीपनिवासिनाम् ।

आब्रह्मभुवनाल् लोकाद् इदम् अस्तु तिलोदकम् ॥ इति ।

यत् तु मदनपारिजाते हारीतः,

वसित्वा वसनं शुक्लं स्थले निस्तीर्णवर्हिषि ।

विधिज्ञस् तर्पणं कुय्रान् न तु पात्रे कदाचन ॥

इति, तद् अनुद्धृतोदकस्थलतर्पणपरम् । उद्धृते स एव । पात्राद् वा जलम् आदाय स्वयं पात्रान्तरे क्षिपेत् ।

जलपूर्णे ऽथ वा गर्ते न स्थले न तु बरिहिषि ।

योगयाज्ञवल्क्यः

यद्य् उद्धृतेन सिञ्चेत तिलान् सम्मिश्रयेज् जले ।

अतो ऽन्यथा तु सव्येन तिला ग्राह्या विचक्षणैः ॥

एतच् च गृहे पुत्रवता न कार्यम्,

सप्तम्यां रविवारे च गृहे जन्मदिने तथा ।

भृत्यपुत्रकलत्रार्थी न कुर्यात् तिलतर्पणम् ॥

इति मरीचिस्मृतेः । ततः,

ये के चास्मत्कुले जाता अपुत्रा गोत्रिणो मृताः ।

ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् ॥

इति तीरे स्थले वस्त्रं पीडयेत् । आचार्यचूडामणौ तु ।

ये बान्धवाबान्धवा वा ये च जन्मनि बान्धवाः ।

ते तृप्तिम् अखिला यान्तु ये वास्मत्तो ऽभिकाङ्क्षिणः ॥

नमो नम इति शाठीपीडनम् उक्तम् । ततः सव्येन विष्णुपुराणोक्तैस् तर्पयेत् ।

देवासुरास् तथा नागा यक्षगन्धर्वराक्षसाः ।

पिशाचा गुह्यकाः सिद्धाः कूष्माण्डास् तरवः खगाः ॥

जलेचरा भूमिलया वाय्वाधाराश् च जन्तवः ।

तृप्तिम् एतेन यान्त्व् आशु मद्दत्तेनाम्बुनाखिलाः ॥

नरकेषु समस्तेषु यातनासु च ये स्थिताः ।

तेषाम् आप्यायनायैतद् दीयते सलिलं मया ॥

ये बान्धवाबान्धवा वा ये ऽन्यजन्मनि बान्धवाः ।

ते सर्वे तृप्तिम् आयान्तु मया दत्तैस् तिलोदकैः ॥ इति ।

सङ्क्षेपस् तु । आब्रह्मस्तम्भपर्यन्तं जगत् तृप्यन्तु इत्य् एकाञ्जलिः । ततो ब्रह्मणे नमः । विष्णवे नमः । रुद्राय नमः । सवित्रे नमः । मित्राय नमः । वरुणाय नम इति जले सम्पूज्य । हस्तेन पुनः ब्रह्मणे नमः । अग्नये नमः । पृथिव्यै नमः । ओषधिभ्यो नमः । वाचस्पतये नमः । विष्णवे नमः । महद्भ्यो नमः । अद्भ्यो नमः । अपाम्पतये नमः । वरुणाय नम इति तर्पणं कृत्वा ।

मुखं सम्पूज्य40 देवेभ्यो नम इति विसर्जयेत् ।

इति कमलाकरभट्टकृते शूद्रधर्मतत्त्वे शूद्रस्य स्नानतर्पणादि ।

[१४४]

अथ देवपूजा ।

सा च विश्वेश्वरादिजीर्णलिङ्गार्चादौ स्वस्थापितपार्थिवलिङ्गादौ स्पर्शरहिता दूरतः कार्या, शालग्रामस्फटिकद्विजस्थापितलिङ्गार्चादौ स्पर्शरहिता दूरतः कार्या,41

यदा प्रतिष्ठितं लिङ्गं मन्त्रविद्भिर् यथाविधि ।

तदाप्रभृति शूद्रश् च योषिद् वापि न संस्पृशेत् ॥

इति नारदीयात् । एतच् च प्राग् उक्तम् । सा च नाम्ना कार्या । एवं स्त्रिया अपि,

विष्णोस् तु पूजनं कार्यां पतिबुद्ध्या न चान्यथा ।

इति **मदनपारिजाते **विधवाधर्मे स्कान्दोक्तेः । तत्रैव पाद्मे

आदित्यं गणनाथं च देवेन्द्रं च यथाक्रमम् ।

नारायणं विशुद्धाख्यम् अन्ते च कुलदेवताम् ॥

निगमः

ब्रह्माणं विष्णुम् ईशं वा सूर्यम् अग्निं गणाधिपम् ।

दुर्गां सरस्वतीं लक्ष्मीं गौरीं वा नित्यम् अर्चयेत् ॥

यत् तु मनुः,

जपस् तपस् तीर्थसेवा प्रव्रज्या मन्त्रसाधनम् ।

[१४५] देवताराधनं चैव स्त्रीशूद्रपतनानि षट् ॥

इति, तद् विहितभिन्नपरम् । मात्स्ये

सौवर्णी राजती वापि ताम्री रत्नमयी तथा ।

शैली दारुमअयी वापि लोहसङ्घमयी तथा ।

लोहसङ्घः पञ्चधातुरसाः ।

रीतिकाधातुयुक्ता वा ताम्रकांस्यमयी तथा ।

शुभदारुमयी वापि देवतार्चा प्रशस्यते ॥

अङ्गुष्ठपर्वाद् आरभ्य वितस्तिं यावद् एव तु ।

गृहेषु प्रतिमा कार्या नाधिका शस्यते बुधैः ॥

भागवते

वैदिकस् तान्त्रिको मिश्र इति मे त्रिविधो मखः ।

शिवार्चनचन्द्रिकायां पाद्मे

वैदिको मिश्रितो वापि विप्रादीनां विधीयते ।

तान्त्रिको विप्रभक्तस्य शूद्रस्यापि प्रकीर्तितः ॥

तत्रोपचारा अनेकविधा राघवभट्टैः पदार्थादर्शे उक्ताः । आचारचिन्तामणौ

सपर्या विविधाः प्रोक्तास् तासाम् एकां समाश्रयेत् ।

गन्धादिका निवेद्यान्ता पूजा पञ्चोपचारिका ॥

अथ दशोपचाराः ।

अर्घपाद्यम् आचमनमधुपर्कासनानि च ।

गन्धादिपञ्चकं चेति उपचारा दशोदिताः ॥

[१४६]

अथ षोडशोपचाराः ।

आसनं स्वागतं अर्घः पाद्यम् आचमनं तथा ।

मधुपर्काचमस्नानवसनाभरणानि च ॥

गन्धपुष्पे धूपदीपौ नैवेद्यं चन्दनं तथा ॥

अथाष्टादशोपचाराः ।

आसनावाहने चार्घ्यं पाद्यम् आचमनं तथा ।

स्नानं वस्त्रोपवीतं च भूषणानि च सर्वशः ॥

गन्धपुष्पे तथा धूपं दीपं नैवेद्यम् एव च ।

माल्यानुलेपनं चैव नमस्कारविसर्जने ॥

अथ षट्त्रिंशोपचाराः ।

आसनाभ्यञ्जने तद्वद् उद्वर्तनविरूक्षणे ।

सम्मार्जनं सर्पिरादि स्नपनावाहने ततः ॥

पाद्यार्घाचमनीयं च स्नानीयमधुपर्ककौ ।

पुनराचमनीयं च वस्त्रयज्ञोपवीतके ॥

अलङ्कारो गन्धपुष्पे धूपदीपौ तथैव च ।

ताम्बूलानि च नैवेद्यं पुष्पमालास् तथैव च ॥

अनुलेपं च शय्यां च चामरं व्यजनं तथा ।

आदर्शदर्शनं छत्रं नमस्कारो ऽथ वर्तनम् ॥

गीतवाद्ये च दानानि स्तुतिहोमप्रदक्षिणम् ।

दन्तकाष्ठप्रदानं च ततो देवविसर्जनम् ॥

उपचारा इमे ज्ञेया षट्त्रिंशत् सुरपूजने ।

अन्ये चतुःषष्ठ्युपचाराः । ते च काम्यपूजायाम् । एते विकल्पा यथाविभवं ग्राह्याः42

[१४७]

अथ प्रदक्षिणा नमस्काराः ।

बह्वृचपरिशिष्टे

एकं विनायके कुर्याद् द्वे सूर्ये त्रीणि शङ्करे ।

चत्वारि केशवे दद्यात् सप्ताश्वत्थे प्रदक्षिणाः ॥

अन्यत्र तु ।

एका चण्ड्यां रवेः सप्त तिस्रो दद्याद् विनायके ।

चतस्रो विष्णवे देयाः शिवस्यार्धप्रदक्षिणा ॥

वृषं चण्डं वृषं चैव सोमसूत्रं पुनर् वृषम् ।

चण्डं च सोमसूत्रं च पुनश् चण्डं पुनर् वृषम् ॥

अपसव्यं यतीनां तु सव्यं तु ब्रह्मचारिणाम् ।

सव्यापसव्यं गृहिणाम् एवं शम्भोः प्रदक्षिणा ॥

तथ्आग्नेये

प्रदक्षिणत्रयं कुर्याच् छिवस्यायतने बुधः ।

लैङ्गे

सव्यं व्रजेत् ततो ऽसव्यं प्रनालं नैव लङ्घयेत् ।

तथा

उरसा शिरसा चैव मनसा वचसा तथा ।

पद्भ्यां कराभ्यां जानुभ्यां प्रणामो ऽष्टाङ्ग उच्यते ॥

अथ निर्माल्यविनियोगः

इयं43 पूजा च देवतीर्थेन कार्या, मार्जनार्चनबलिकर्मभोजनानि देवतीर्थेनेति हारीतोक्तेः ।

ब्राह्मे

ब्रह्माङ्गलग्नं विप्रेभ्यो वैष्णवं च प्रदीयते ।

रुद्राङ्गलग्नम् अग्नौ तु दहेत् सर्वं च तत्क्षणात् ॥

शिष्टेभ्यस् त्व् अथ देवेभ्यो दत्तं दिनेषु निक्षिपेत् ।

मदनपारिजाते गारुडे

धात्रीफलेन यत् पुण्यं जयन्त्याः समुपोषणे ।

खगेन्द्र स लभेन् मर्त्यस् तुलसीपूजनेन तत् ॥

**नृसिंहपुराणे **।

शतपुष्पं बिल्वपत्रं चम्पकं तगरं [१४८] तथा ।

करवीरं तथाश्वेतं पालाशं कुशपुष्पकम् ॥

वनमालाप्य् अशोकं च सेवन्ती कुञ्जमालती ।

त्रिसन्ध्यं तथा श्वेतं कुन्दं च शतपत्रकम् ॥

मल्लिका चैव जाती च सर्वपुष्पाद् विशिष्यते ।

पत्राण्य् अपि तत्रैव

अपामार्गं भृङ्गराजं शमीपत्रं च खादिरम् ।

दूर्वा च कुशपत्रं च दमनं मरुकं तथा ॥

ततः श्रेष्ठं बिल्वपत्रं ततश् च तुलसी वरा ।

पल्लवान्य् अपि चैषां स्युः शस्तान्य् अर्चाविधौ हरेः ॥

अगस्त्यवृक्षसम्भूतौ कुसुमैर् असितैः सितैः ।

ये ऽर्चयिष्यन्ति देवेशं तैः प्राप्तं वैष्णवं पदम् ॥

तथा

तुलसीमालया विष्णुः केतक्या वापि पूजितः ।

समाहस्रं सुप्रीतो भवते मधुसूदनः ॥

शिवे वर्ज्यानि तत्रैव

जपा बन्धूकसिन्दूरं तथा त्रैसन्धिके ह्य् उभे ।

नदन्ती केतकी यूथी मालती कुटजानि वा ॥

घुसृणं च कुमारं च प्रमादेनापि नार्पयेत् ।

बर्बरीसर्जपराणि तथा च कुमुदद्वयम् ॥

विष्णुरहस्ये

जलं पर्युषितं त्याज्यं पत्राणि कुसुमानि च ।

तुलस्यगस्त्यबिल्वानि गाङ्गां वारि न दुष्यति ॥

विशेषस् तु मत्कृते निर्णयसिन्धौ पूर्तकमलाकरे च ज्ञेयः ।

अथ तीर्थमहिमा ।

स्कान्दे

शालग्रामोद्भवो देवो यत्र द्वारवतीभवः ।

उमयोः स्नानतोयेन ब्रह्महत्या **[१४९] **निवर्तते ॥

**हेमादौ **लक्षणकाण्डे स्कान्दे

कुङ्कुमं चन्दनं पत्रं नैवेद्यं सुसमं44 जलम् ।

शालग्रामशिलालग्नं तीर्थकोटिशताधिकम् ॥

पाद्मे

स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।

शालग्रामशिलातोयैर्45 यो ऽभिषेकं समाचरेत् ॥

गङ्गा गोदावरी रेवा नद्यो मुक्तिप्रदास् त्य् याः ।

ता वसन्तीह सर्वत्र शालग्रामशिलाजले ॥

गौतमाम्बरीषसंवादे ।

येषां धौतान्ध्रिगात्राणि हरेः पादोदकेन वै ।

अम्बरीषगृहे तेषां दासो ऽहं वशगः सदा ॥

हरेः स्नानावशेषं तु जलं यस्योदरे स्थितम् ।

अम्बरीषं प्रणम्योच्चैः पादपांसुः प्रगृह्यताम् ॥

गर्जन्ति तावद् अन्यानि तीर्थानि भुवनत्रये ।

यावन् न प्राप्यते तीर्थं शालग्रामाभिषेचनम् ॥

जन्मप्रभृतिपापानां प्रायश्चित्तं यदीच्छसि ।

शालग्रामशिलावारि पापहारि निषेव्यताम् ॥

नृसिंहपुराणे

गङ्गाप्रयागगयपुष्करनैमिषाणि

पुण्यानि यानि कुरुजाङ्गलयामुनानि ।

कालेन तीर्थसलिलं विनिहन्ति पापं

पादोदकं भगवतस् तु पुनाति सद्यः ॥

ब्रह्मचारी सव्रती च आश्रमी च सदा शुचिः ।

विष्णुपादोदकं यस्य मुखे शिरसि विग्रहे ॥

स्मृत्यर्थसारे

देहः शुध्यति चाप्य् आत्मा पीत्वा पादोदकं हरेः ।

नित्ये नैमित्तिके काम्ये पीत्वा भुक्त्वा न दुष्यति ॥

व्रतादौ विष्नुपादोदकं पीत्वानन्तरं भुक्त्वा न दुष्यति । कृत्वेति पाठे नित्ये काम्ये च एकादशीव्रतादौ नैमित्तिके सांवत्सरिकश्राद्धादौ पादोदकं पीत्वा तत्कर्म कृत्वा न दुष्यतीत्य् अर्थः । ननु

जलस्यापि नरश्रेष्ठ प्राशनाद् भेषजाद् ऋते ।

नित्यक्रिया निवर्तेत काम्यनैमित्तिकैः सह ॥

कालिकापुराणात् । न तु तत् कर्म कृत्वा न दुष्यतीत्य् अर्थः । अभुक्ते भुक्तवतो ऽयम् इति निषेधाच् च कथं कम् अर्हिते इति चेन् – न । सामान्यस्य विशेषेण बाधात्, रागप्राप्तनिषेधाच् च । विष्ण्वर्चायां शिलार्चा गुरुषु नरमतिर् वैष्णवे जातिबुद्धिर् विष्णोर् वै वैष्णवानां कलिमलमथने पादतीर्थेषु बुद्धिः । विष्णोस् तन्नाम्नि मन्त्रे सकलकलुषहे शब्दसामान्य-बुद्धिर् विष्णौ सर्वेश्वरेशे तदितरसमधीर् यस्य वारकी सः इति दोषदर्शनाच् च । तच् च पूजान्ते पेयं तदुत्तराङ्गत्वात् । ये तु उपवासदिने प्राक् कर्मणश् च न पिबन्ति ते भ्रान्ताः । अशितानशिता ह्य् आपो जलेनैव हि पारयेत् ।

इति दर्शनाच् चेति विष्णुवाजपेयिनःगरुडपुराणे

जलं न येषां तुलसीविमिश्रं

पादोदकं चक्रशिलासमुद्भवम् ।

नित्यं त्रिसन्ध्यं प्लवते न गात्रं

खगेन्द्र ते धर्मबहिःकृता नराः ॥

आह्निकप्रदीपे

सूतके मृतके वापि आशौचं नैव विद्यते ।

तेषां पादोदकं मूर्ध्नि प्राशनं ये च कुर्वते ॥

अन्तकाले ऽपि यस्येह दीयते पादयोर् जलम् ।

सो ऽपि सद्गतिम् आप्नोति पापाचारो बहिःक्र्तः ॥

भुक्त्वा पीत्वा विशुद्धः स्यात् पीत्वा पादोदकं हरेः ।

स्कान्दे शिववचनम् ।

दृष्टिपूतं तु यत् तोयं विष्णुना प्रभविष्णुना ।

तद् वै पापहरं पुत्र किं पुनः पादयोर् जलम् ॥

विष्णुरहस्ये

विष्णुपादोदकं पीत्वा पश्चाद् अशुचिशङ्कया ।

पश्चाच् च मतिसम्मोहाद् ब्रह्महत्यां स विन्दति ॥

गारुडे

पादोदकं पिबेन् नित्यं नैवेद्यं भक्षयेद् धरेः ।

शेषं च मस्तके धार्यम् इति वेदानुशासनम् ॥

शालग्रामशिलातोयम् अपीत्वा यस् तु मस्तके ।

प्रक्षेपणं प्रकुर्वीत ब्रह्महा स निगद्यते ॥

शालग्रामशिलातोयं पिबेत् सोमकरेण तु ।

अज्ञानाद् ऐन्दवं [१५०] प्रोक्तं ज्ञानाद् अब्दं समाचरेत् ॥

विष्णोः पादोदकं पीत्वा कोटिजन्माघनाशनम् ।

तद् एवाष्टगुणं पापं भूमौ बिन्दुनिपातनात् ॥

बक्तिचन्द्रोदये

आयसे च तथा कांस्ये क्ष्ठे बलाबुके तथा ।

उद्धृत्य पादसलिलं मद्यतुल्यं विनिर्दिशेत् ॥

श्रीविष्णोः पादसलिलं करे कृत्वा मुखे क्षिपेत् ।

अदत्वापि व्रते तोयं रौरवे नरके वसेत् ॥

अदत्वा विष्वक्सेनादिभ्य इति शेषः । ग्रहणमन्त्रो हलायुधे

अकालमृत्युहरणं सर्वव्याधिनिवारणम् ।

विष्णोः पादोदकं पीत्वा शिरसा धारयाम्य् अहम् ॥ इति ।

अथ प्रसादग्रहणम् ।

हेमाद्रौ माधवीयेस्कान्दे

एकादश्याम् उपोष्याथ यो ऽश्नाति द्वादशीदिने ।

नैवेद्यं तुलसीमिश्रं हत्याकोटिविनाशनम् ॥

यत् तु श्रीदत्तीये आचारादर्शे, सात्वतीम् अभिषुत्य हुत्वा भक्षयन्तीति चेन् निवेदनसमानकर्तृकभक्षणोक्तेः । परेण निवेदिते स्वत्वाभावाद् देवद्रव्यं गुरुद्रव्यं यत्नेन परिवर्जयेद् इति निषेधात् ।

स्पृष्ट्वा देवलकं चैव सवासा जलम् आविशेत् ।

इति निषेधात्,

स्पृष्ट्वा यूपं दिवाकीर्तिं देवद्रव्योपजीविनम् ।

सवासा जलम् आविश्य घृतं प्राश्य विशुध्यति ॥

इति स्मृतेश् च । विशेषो मत्कृते आचारदीपे ज्ञेयः ।

अथ शूद्रस्य वैश्वदेवः ।

शङ्खः

पञ्चयज्ञविधानं तु गृही नित्यं न हापयेत् ।

यमः

ब्रह्मयज्ञो देवयज्ञः पितृयज्ञस् तथैव च ।

भूतयज्ञो नृयज्ञश् च पञ्चयज्ञाः प्रकीर्तिताः ॥

स च लौकिकाग्नौ कार्यः । “वैवाहिके ऽग्नाव् इत्य् आचार्यः” इति **विज्ञानेश्वरः **। अत एव तन्त्ररत्ने स्थपतीष्टिर् लौकिके ऽग्नाव् उक्ता । ये तु लौकिकाग्नाव् अपि शूद्रस्य न भवतीत्य् आहुस् ते मूर्खा एव । विज्ञानेश्वर-अपरार्क-मेधातिथयो ऽप्य् एवम् आहुः । तत्रापि पाकाग्नौ कार्यः,

गृह्याग्नौ तु पचेद् अन्नं लौकिके वापि नित्यशः ।

यस्मिन्न् अग्नौ पचेद् अन्नं तस्मिन् होमो विधीयते ।

इति [१५३] मनूक्तेः । असम्भवे शातातपः

लौकिके वैदिके वापि हुतोत्सृष्टे जले क्षितौ ।

वैश्वदेवस् तु कर्तव्यः पञ्चसूनापनुत्तये ॥

स च पक्वेनापि कार्यः । स्थपतीष्टिवत् । अन्यथा तत्राप्य् आमं स्याद् इति केचित् । पक्वम् उच्छिष्टम् उच्यते इत्य् उक्तेः स्वकर्तृक आमेनैवेति स्मार्तगौडाः । तत्र वैश्वदेवे मन्वाद्यैर् नाना प्रकारा उक्ताः । तेषु मनूक्तो निरग्निद्विजपरः । तस्य कातीयसूत्रोकेर् गृह्याग्निं विनानधिकाराद् इति स्मृतिकौमुदीकारःतन् न, निरग्नेः शाकलमन्त्रैर् होमाद्युक्तेः । तद् आह मदनपारिजातेवसिष्ठः

अनग्निकस् तु यो विप्रः सो ऽन्नं व्याहृतिभिः स्वयम् ।

हुत्वा शाकलमन्त्रैस् तु शेषाद् भूतबलिं हरेत् ॥

शाकलमन्त्राः देवकृतस्यैनस इति षट् । शूद्रस्यापि प्रागुक्तरीत्या कातीयकर्मोक्तेर् एतद्देवतानाम्ना होमः । न तु मनूक्तः । शूद्रस्य श्रुतिश्रवणाभावेन तत्कर्मण्य् अनधिकारात् । तेन येषां कठादीनां शाखायां वैश्वदेवो नोक्तस् तेषां मनूक्तः । यद् वा शूद्राणां पुराणश्रवणाधिकारात् तदुक्तो वैश्वदेवस् तैः कार्यः । तथा मार्कण्डेयपुराणे

ततः सम्पूजयेद् वह्निं दद्याच् चैवाहुतीः क्रमात् ।

प्रथमा ब्रह्मणे दद्यात् प्रजानां पतये ततः ॥

तृतीयां चैव गृह्याभ्यः कश्यपाय तथापराम् ।

ततो ऽनुमतये दद्याद् दद्याद् गृहबलिं ततः ॥

पर्जन्याम्भोधरित्रीणां दद्यात् तु मणिके त्रयम् ।

वायवे प्रतिदिदिग्भ्यश् च दिग्भ्यः प्राच्यादितः क्रमात् ॥

ब्रह्मणे चान्तरिक्षाय सूर्याय च यथाक्रमम् ।

विश्वेभ्यश् चैव देवेभ्यो विश्वभूतेभ्य एव च ॥

उषसे भूतपतये दद्याच् चोत्तरतस् ततः ।

स्वधा नम इत्य् उक्त्वा पितृभ्यश् चापि दक्षिणे ॥

कृत्वापसव्यं वायव्यं यक्ष्मैतत् ते ऽवनेजनम् ।

ततस् तोयम् उपादाय तेषां नाम्ना क्षिपेद् भुवि ॥ इति ।

**विष्णुपुराणे **ऽप्य् एवं होमम् उक्त्वा बलौ विशेष उक्तः ।

तच्छेषं मणिके पृथ्वीपर्जन्याभ्यः क्षीपेत् ततः ।

द्वारे धातुर् विधातुश् च मध्ये च ब्रह्मणः क्षिपेत् ॥

इन्द्राय धर्मराजाय वरुणाय तथेन्दवे ।

प्राच्यादिषु बुधो दद्यात् धुतशेषात्मकं बलिम् ॥

प्रागुत्तरे च दिग्भागे धन्वन्तरिबलिं विदुः ।

वायव्य वायते दिक्षु समस्तासु ततो दिशाम् ॥

ब्रह्मणे चान्तरिक्षाय् भानवे च क्षिपेद् बलिम् ।

विश्वेदेवान् विश्वभूतांस् ततो46 विश्वपतीन् पितॄन् ॥

यक्षमाणं च समुद्दिश्य बलिं दद्यान् नरेश्वर ।

कातीयसूत्रे ऽपि इदम् एव बलिहरणं किञ्चिन्न्यूनम् । तेन शूद्रे ऽपीदम् एव । तत्र,

स्वाहाकारे नमस्कारो मन्त्रः शूद्रे विधीयते ।

इति भारतोक्तेर् होमे स्वाहाशब्दो बलौ नमःशब्द इति स्मृतिकौमुदी

तन् न, “नमस्कारेण मन्त्रेण” इत्य् एतद्विरोधात् । तच् च बलिदानं गृहदेशेषु कार्यम् । अग्नेः पश्चाद् वा ।

[१५५]

अथ प्रयोगः ।

दर्भहस्तः आचम्य तूष्णीं प्राणान् आयम्य वा देशकालौ स्मृत्वा पञ्चसूनापनुत्तये परमेश्वरप्रीत्यर्थं वैश्वदेवं करिष्ये इति सङ्कल्प्य स्थण्डिलअं सम्मृज्योपलिप्योल्लिख्याङ्गुष्ठानामिकाभ्यां मृदम् उद्धृत्याभ्युक्ष्य लौकिकाग्निं संस्थाप्य अग्नये नमः ।

मुखं यः सर्वदेवानां हव्यभुक् कव्यभुक् तथा ।

पितॄणां च नमस् तस्मै विष्णवे पावकात्मने ॥

इति सम्पूज्य पर्युक्ष्याग्नौ चरुपाकं कृत्वा गृहान्नेन तण्डुलैर् आज्यप्लुतैः फलैर् वा कुर्यात् । तद्द्रव्यम् अग्नौ निधायोद्वास्याभ्युक्ष्य हस्तेन घृतप्लुतं जुहुयात् । आहुतिर् द्वादशपर्वपूरिका आमलकमात्रा वा । यथा । अग्नये नमः इदम् अग्नये न ममेति त्यागः । एवम् अग्रे ऽपि । वायवे नमः । सूर्याय नमः । प्रजापतये नमः । अग्नये नमः । ब्रह्मणे नमः । इति षट् । इति शाकलहोमः । अनुमतये नमः । विश्वेभ्यो देवेभ्यो नमः । अग्नये स्विष्टकृते नमः । इति । ततः पर्युक्ष्य विभूतिं धृत्वा नमस् कुर्यात् । विज्ञानेश्वर मते,

देवताभ्यः पितृभ्यश् च महायोगिभ्य एव च ।

नमः स्वाहायै स्वधायै नित्यम् एव नमो नम इत्य् एतेन सकृद् होमः । नम इत्य् एव मन्त्रेण होम इत्य् एकेमदनपारिजाते परिशिष्टे

शाकं वा यदि वा पत्रं मूलं वा यदि वा फलम् ।

सङ्कल्पयेद् यदाहारे तेनाग्नौ जुहुय्द् अपि ॥

व्यासः

जुहुयात् सर्पिषाभ्यक्तं तैलक्षारविवर्जितम् ।

दध्यक्तं पयसाभ्यक्तं तदभावे ऽम्भसापि वा ॥

चतुर्विंशतिमते

अलाभे येन केनापि फलशाकोदकादिभिः ।

पयोदधिघृतैः कुर्याद् वैश्वदेवं स्रुवेण तु ॥

हस्तेनामादिभिः कुर्याद् अद्भिर् अञ्ज्लिना जले ।

इति देवयज्ञः ।

[१५६]

अथ भूतयज्ञः

मध्ये पर्जअन्याय नमः । अद्भ्यो नमः । पृथिव्यै नमः । द्वारशाखयोः धात्रे नमः । इदं धात्रे न ममेति त्यागः । एवम् अग्रे ऽपि । विधात्रे नमः । प्रतिदिशं वायवे नमः । प्रतिदिशं दिग्भ्यो नमः । इन्द्राय नमः धर्मराजाय नमः । वरुणाय नमः । इन्दवे नमः । ईशान्याम् धन्वन्तरवे नमः । वायव्यां वायवे नमः । ब्रह्मणे नमः । अन्तरिक्षाय नमः । सूर्याय नमः । उत्तरे विश्वेभ्यो देवेभ्यो नमः । विशेवेभ्यो भूतेभ्यो नमः । भूतानां पतये नमः । ततः दक्षिणे । प्राचीनावीती । पितृभ्यः स्वाहा नमः । इदं [१५७] पितृभ्यः । जलस्पर्शः । अयं कातीयपक्षः पौराणश् च । स्वधाशब्दो नेत्य् एके । पात्रं प्रक्षाल्य वायव्ये यक्ष्मैतत् ते इति निनयेत् । इदं यक्ष्मणे । अथ वा, देवताभ्यः पितृभ्यश् चेत्य् अनेनैव भूमौ बलिः । तेनैव पितृयज्ञ इत्य् एकेआचार्यचूडामणौ तु, ॐ भूः स्वाहेति विप्रेणोक्ते नमो नम इति स्वयं जुहुयात् । एवं व्यस्ताः समस्ताश् च । ततो देवकृतस्यैनसो ऽवयजनम् असि स्वाहेति विप्रेणोक्ते नम इति स्वयं होमः । तन् न । नमस्कारेण वैदिकबाधात् । अग्नय इदम् एवं षट् । ततो यमाय स्विष्टकृते च । भूमौ विश्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो भूतेभ्यो नमः । पितृभ्यो नम इति दक्षिणे । ऐशाने यक्ष्मैतत् ते पौराणैर् एकः । चाण्डालादिभ्यो वायसेभ्यश् च । दक्षिणे धर्मराजचित्रगुप्ताभ्यां दद्याद् इत्य् उक्तम् । ततः शेषम् आदाय गृहाङ्गणे प्रोक्ष्य । १६ धन्वन्तरये नमः । १० प्राच्यै दिशे नमः । ५ विधात्रे नमः । ६ वायवे नमः । २७ विश्वपतये नमः । २१ अन्तरिक्षाय नमः । ४ धात्रे नमः । १७ इन्दवे नमः । २६ भूपतये नमः । २० ब्रह्मणे नमः । ११ दक्षिणायै नमः । १८ वायवे नमः । २५ विश्वेभ्यो भूतेभ्यो नमः । ३ पृथिव्यै नमः । ७ वायवे नमः । २४ यक्ष्मणे नमः । २३ विश्वेभ्यो भूतेभ्यो नमः । २ अत्यः । १५ धर्मराजाय नमः । १२ प्रतीच्यै नमः । १ पर्जन्याय नमः । २ स्वधा पितृभ्यः । ८ वायवे नमः । १५ वरुणाय नमः ।

द्वौ स्वानौ श्यामशबलौ वैवस्वतकुओद्भवौ ।

ताभ्यां पिण्डं प्रदास्याआमि स्याताम् एताव् अहिंसकौ ॥

श्वभ्यां नमः । इति दत्वा, पुनर् आदाय,

ऐन्द्रवारुणवायव्या याम्या47 वै नैरृतास् तथा ।

वायसाः प्रतिगृह्णन्तु भूमौ पिण्डं मयार्पितम् ॥

इति काकबलिं दत्वा, इदं वायसेभ्यः इत्य् उक्त्वा, पुनर् आदाय विष्णुपुराणोक्तैर् मन्त्रैर् बलीन् दद्यात् । यथा ।

देवा मनुष्याः पशवो वयांसि

सिद्धाः सयक्षोरगदैत्यसङ्घाः ।

प्रेताः पिशाचास् तरवः समस्ता

ये चान्नम् इच्छन्ति मया प्रदत्तम् ॥ १ ॥

इदं देवादिभ्यः ।

पिपीलिकाः कीटपतङ्गकाद्या

बुभुक्षिताः कर्मनिबन्धबन्धाः ।

प्रयान्तु ते तृप्तिम् इदं मयाआन्नं

तेभ्यो विसृष्टं सुखिनो भवन्तु ॥ २ ॥

इदं पिपिलिकादिभ्यः ।

येषां न माता न पिता न बन्धुर्

नैवान्नसिद्धिर् न तथान्नम् अस्ति ।

तत्तृप्तये ऽन्नं भुवि दत्तम् एतत्

ते यान्तु तृप्तिं मुदिता भवन्तु ॥ ३ ॥

इदम् अनाथबन्धुभ्यः ।

भूतानि सर्वाणि तथान्नम् एतद्

अहं च विष्णुर् न यतो ऽन्यद् अस्ति ।

तस्माद् अहं भूतनिकायभूतम्

अन्नं प्रयच्छामि भवाय तेषाम् ॥ ४ ॥

इदं भूतेभ्यः ।

चतुर्दशो भूतगणो य एष

तत्र स्थिता ये खलु भूतसङ्घाः ।

तृप्त्यर्थम् अन्नं हि मया विसृष्टं

तेषाम् इदं ते मुदिता भवन्तु ॥ ५ ॥

इदं भूतगणादिभ्यः ।

इत्य् उचार्य नरो दद्याद् अन्नं श्रद्धासमन्वितः ।

भुवि भूतोपकाराय गृही सर्वाश्रयो यतः ॥ ६ ॥

श्वचाण्डलविहङ्गानां भुवि दद्यात् ततो नरः ।

ये चान्ये पतिताः केचिद् अपुत्रा भुवि मानवाः ॥ ७ ॥

ततो गोदोहमात्रं वै कालं तिष्ठेत् गृहाङ्गणः । इति ।

ततः कृम्यादिपतितपापरोगिश्वपचादिभ्यो दद्याद् इति नागदेवह्निके हरिहरभाष्ये च । तद् एतद् वैश्वदेवं द्विजानां यद्य् अपि सायं प्रातर् उक्तं तथापि शूद्राणां दिवैव न तु सायम् । पञ्चयज्ञोक्तेः48 । वैश्वदेवविध्यभावात् । तद् आह मदनपारिजाते जमदग्निः

वैश्वदेवं दिवा49 **[१५८] **रात्रौ कुर्याद् बलिहृतिं तथा ।

महतः पञ्चयज्ञांस् तु दिवैवेत्याह धर्मवित् ॥ ९ ॥

तेन50 वैश्वदेवः पञ्चयज्ञभिन्नत्वान् न शूद्रस्येति सङ्क्षेपः । इति वैश्वदेवः51

[१५९]

अथ नित्यश्राद्धम् ।

तत् पृथक् कार्यं न वा ।

श्राद्धं वा पितृयज्ञः स्यात् पित्र्यो बलिर् अथापि वा ।

इति छन्दोगप्रैशिष्टात् । मनुः

एकम् अप्य् आशयेद् विप्रम् गृही नित्यं समाहितः52

प्रचेताः

नामन्त्रणं न होमश् च नावाहनविसर्जने ।

न पिण्डदानं न सुरा नित्ये कुर्याद् द्विजोत्तमः ॥

व्यासः

नावाहनं स्वधाकारः पिण्डाग्नौकरणादिकम् ।

ब्रह्मचर्यादिनियमो विश्वे देवास् [१६०] तथैव च ॥

तत् तु षट्पुरुषं ज्ञेयं दक्षिणापिण्डवर्जितम् ।

दक्षिणायां विकल्पः, “किञ्चिद् दत्वा विसर्जयेत्” इति प्रचेतोक्तेः ।

**अथ प्रयोगः **।

आचम्य देशकालौ स्मृत्वा, नित्यश्राद्धं करिष्य इत्य् उक्त्वा, अस्मित्पितृपितामहप्रपितामहानां काश्यपगोत्राणाम् अमुकदासानाम्, एवं मातामहप्रमातामहवृद्धप्रमातामहानां सप्त्नीकानां स्थाने क्षणः कर्तव्यः इति क्षणं दत्वा पित्रादयो मातामहाश् च इदं वः पाद्यम् इति पाद्यं दत्वाचम्योदङ्मुखं कुशासने उपविश्य पितॄणां मातामहानां चेदम् आसनम् । पित्र्ये क्षणः क्रियतां । प्राप्नोतु भवान् । प्राप्नानि । इत्य् उक्ते पितरो मातामहाश् च एष वो गन्धः । इमानि पुष्पाणि । धूपो दीप आच्छादनं चेति दत्वा पूर्णतां वाचयित्वा । द्विगुणम् आमान्नम् उपकल्प्य प्रोक्ष्य पात्रम् आलभ्य तिलान् विकीर्य अन्ने ऽङ्गुष्ठं दत्वा । पितरः इदं वः आमान्नं द्विगुणं समं वा सोपस्करं गयेयं भूः गदाधरो विप्रः ब्रह्मरूपम् इदं पितृभ्यः काश्यपगोत्रेभ्यो ऽमुकदासेभ्यो वसुरुद्रादित्यस्वरूप्रेभ्यस् तथा मातामहादिभ्यश् चेदम् आमं स्वधा सम्पद्यतां नमः । दत्तम् अक्षय्यम् अस्तु । ब्रह्मार्पणम् अस्तु । मधु इति त्रिवारम्53 उक्त्वा । सुप्रोक्षितम् अस्तु शिवा आपः सन्तु । सौमनस्यम् अस्तु । अक्षतं चारिष्टं चास्तु । दीर्घम् आयुः श्रेयः पितरः स्वस्तीति ब्रूत । पितृभ्यं54 यद् दत्तं तद् अक्षय्यम् अस्तु । दक्षिणां दद्यान् न वा । एतावत्य् अशक्तौ पित्र्यबलिनैव नित्यश्राद्धसिद्धिः ।

इति नित्यश्राद्धम्

[१६२]

अथ मनुष्ययज्ञः ।

**हारीतः- **

    सर्वा अस्य देवता गृहान् आगच्छन्ति । यस्यैवं ब्राह्मणो विद्वान् गृहम् अभ्येति । तम् अभ्युपतिष्ठतः प्राणदेवता उपशअन्ति ।

बृहस्पतिः

प्रीयते स्वागतेनाग्निरासनेन शतक्रतुः ।

पितरः पादशौचेन भोजनेन प्रजापतिः ॥

याज्ञवल्क्यः

अध्वनीनो ऽतिथिर् ज्ञेयः श्रोत्रियो वेदपारगः ।

मान्याव् एतौ गृहस्थस्य ब्रह्मलोकम् अभीप्सतः ॥

अतिथिं श्रोत्रियं तृप्तम् आसीमान्तम् अनुव्रजेत् ।

यमः

न पृच्छेद् गोत्रचरणं देशं नाम कुलं श्रुतम् ।

अध्वनो ऽभ्यागतं विप्रं भोजनार्थम् उपस्थितम् ॥

विष्णुपुराणे

दिने ऽतिथौ तु विमुखे गते यत् पातकं नृणाम् ।

तद् एवाष्टगुणं पुंसां सूर्ये च विमुखे गते ॥

सूर्यास्ते इत्य् अर्थः । ततो ऽतिथिं प्रतिक्ष्य पादौ प्रक्षाल्य सम्पूज्यामान्नं निवेद्य कस्मैचिद् विप्राय सनकादिव्मनुष्येभ्य इदं न ममेत्य् उक्त्वा दद्यात् । इदं नित्यश्राद्दात् प्राग् इति हरिहरःविष्णुपुराणे

इष्टो वा यदि वा द्वेष्यो मूर्खः पण्डित एव वा ।

सम्प्राप्तो वैश्वदेवान्ते सो ऽतिथिः स्वर्गसङ्क्रमः ॥

ततो गोग्रासः ।

मदनपारिजाते ऋष्यशृङ्गः

गवां ग्रासं च कुर्वीत नित्यम् एव समाहितः ।

गवां कण्डूयनं स्पर्शं ग्रासम् आह्निकम् एव च ॥

मन्त्रस् तु ।

सौरभेयाः सर्वहिताः55 [१६२] पवित्राः पापनाशनाः ।

प्रतिगृह्णन्त्व् इमं ग्रासं गावस् त्रैलोक्यमातरः ॥

सुरभे त्वं जगन्मातर् देवि विष्णुपदे स्थिताः ।

ग्रासं ग्रहाण मद्दत्तं गोमातस् त्रातुम् अर्हसि ॥ इति ।

श्रीदत्तीये भविष्ये

तृणोदकेन संयुक्तं प्रदद्याच् च गवाह्निकम् ।

कपिलाशतदानस्य फलं विद्यान् न संशयः ॥

गवाह्निकम् अहोरात्रपर्याप्तं गोभक्ष्यम् । मन्त्रस् तु ।

पञ्चभूते शिवे पुण्ये पवित्रे सूर्यसम्भवे ।

प्रतीच्छेमं मया दत्तं सौरभेयि नमो ऽस्तु ते ॥

अथ भोजनम् ।

बालवृद्धगर्भिण्यातुरसखीबान्धवादीन् सम्भोज्य पाणिपादं प्रक्षाल्य द्विर् आचम्य शुचौ देशे रहसि ।

चतुरस्रं त्रिकोणं च वर्तुलं चार्धचन्द्रकम् ।

कर्तव्यम् आनुपूर्व्येण ब्राह्मणादिषु मण्डलम् ॥

इति व्यासोक्तम् अर्धचन्द्रम्, “शूद्रस्याभ्युक्षणं मतम्” इति शङ्खोक्तम् अभ्युक्षणं वा कृत्वा,

पञ्चाशत्पलिकं कांस्यं द्व्यधिकं भोजनाय वै ।

गृहस्थैस् तु सदा कार्यम् अभावे हेमरूप्ययोर् ॥

इति हेमाद्राव् अत्रिप्रोक्तं कांस्यादिपात्रे परिविष्टम् अन्नं प्रङ्मुखोपविष्टो मौनी घृताकं प्रोक्ष्य । धर्मराजाय नमः । चित्राय नमः । चित्रगुप्ताय नमः । प्रेतेभ्यो नम इति बलिं दक्षिणतो दत्वा जलं दत्वा जलं प्राश्य देवतीर्थेन साङ्गुष्ठेन तूष्णीं नम इत्य् एव वा पञ्चग्रासान् प्राश्य यथासुखं भुञ्जीयात् । आदित्यपुराणे

नोच्छिष्टो ग्राहयेद् आज्यं दग्ध्वा शिष्टं न सन्त्यजेत् ।

पुलस्त्यः

भोजनं तु न निःशेषं कुर्यात् प्राज्ञः कथञ्चन ।

अन्यत्र दधिक्षीराजक्षौद्रसक्तुभ56 एव च ॥

वृद्धमनुः

नैकहस्तेन च जलं शूद्रेणावर्जितं पिबेत् ।

इत्यादि द्विजवच् छूद्रे ज्ञेयम् । देवलः

भुक्तोच्छिष्टं समादाय सर्वस्मात् किञ्चिद् आचमेत्57

उच्छिष्टभागधेयेभ्यः सोदकं निर्वपेद् भुवि ॥

भोजनान्ते पुनर् जलं प्राश्य शेषं सिञ्चेत् । मन्त्रस् तु ।

रौरवे पुण्यनिलये पद्मार्बुदनिवासिनाम् ।

अर्थिनाम् उदकं दत्तम् अक्षय्यम् उपतिष्ठतु ॥

ततो मुखपाणिपादं प्रक्षाल्य द्विर् आचम्य जानुनी स्पृष्ट्वा पुनर् आचम्य ।

अगस्तिर् अग्निर् वडवानलश् च

भुक्तं मयान्नं जरयत्व् अशेषम् ।

सुखं ममैतत् परिणामसम्भवं

यच्छत्व् अरोगो मम चास्तु देहः ॥

अगस्तिं कुम्भकर्णं च शनिं च वडवानलम् ।

आहारपरिणामार्थं स्मरामि च वृकोदरम् ॥

इति उदरं संस्पृश्य ताम्बूलं प्राश्य पुराणश्रवणादिनाहःशेषं नयेत् । ततो रात्रौ रविपर्वसङ्क्रमव्यतीपातवैधृतिश्राद्धतत्पूर्वदिनभिन्नरात्रौ द्वितीयवारं भुक्त्वा यामोत्तरम् अगस्तये नमः । माधवाय नमः । मुचकुन्दाय नमः । कपिलाय नमः । आस्तिकाय नम इति नत्वा प्राच्यां दक्षिणतो वा शिरः कृत्वा स्वपेत् । तत्र स्त्रिया ऋतावाद्यदिनचतुष्कैदादशत्रयोदशवर्जषोडशदिनमध्ये चतुर्थीषष्ठ्यष्टमीचतुर्दशी-पर्वद्वयश्राद्धतत्पूर्वदिनभिन्नायां रात्रौ [१६४] शनिरविभौमवर्जं भरणीकृत्तिकार्द्रामघापूर्वाविशाखाज्येष्ठामूलपूर्वाषाढापूर्वाभाद्रपदत्रिजन्म-सङ्क्रमपातवैधृतिवर्जं समरात्रौ सङ्गं कृत्वा मूत्रात् त्रिगुणं शौचं स्नानं च कुर्यात् । एतच् च प्राग् उक्तम् अनृतौ स्नानवर्जं कृत्वा स्वपेत् । इदम् अह्निकं प्रत्यहं कुर्यात् ।

इति श्रीजगद्गुरुनारायणभट्टसूनुरामकृष्णभत्तात्मज-

कमलाकरकृते शूद्रधर्मकमलाकरे शूद्राह्निकम्।

[१६५]

अथ शूद्रस्य पार्वणश्राद्धप्रयोगः ।

(तत्र पूवदिनकृत्यम्)

स चोपदेष्टृब्राह्मणवशाद् अनियतशाखया कार्य इति मदनपालः । तन् न, अनियतस्य धर्मत्वायोगात् । तेन शूद्रा वाजसनेयिन इति गौडग्रन्थे दक्षोक्तेर् हरिहरभाष्यादि-संवादाच् छिष्टाचाराच् च माध्यन्दिनशाखयोच्यते । कर्ता पूर्वे द्युर् निरामिषं सकृत् भुक्त्वा, प्रोदोषे परेद्युः प्रातर् वा द्विजगृहं गत्वा मण्डले तम् उपवेश्य सव्येन दक्षिणं जान्व् आच्य शूद्रः प्रणतिपूर्वकम् इति वचनात् प्रणम्य देशकालौ स्मृत्वा श्वः करिष्यमाण-पार्वणश्राद्धे पित्रादित्रयमातामहादित्रयविश्वेदेवार्थं त्वाम् अहं निमन्त्रये । यद् वा क्षणं दत्वा भवद्भिः प्रसादः कार्य इति फलं ताम्बूलं वा दत्वैकं द्वौ वा विप्रौ निमन्त्र्य । तथा निमन्त्रितो अस्मीति वा तेनोक्ते,

अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः ।

भवितव्यं भवद्भिश् च मया च श्राद्धकर्मणि ॥

पूर्वदिने तु

सर्वायासविनिर्मुक्तैर् कामक्रोधविवर्जितैः ।

भवद्भिर् भवितव्यं निःश्वोभूते श्राद्धकर्मणि ॥

इति जपेच् छृणुयाद् वा । ततस् तथैवापसव्येन वामं जान्वाच्यअ श्वः करिष्यमाणश्राद्धे पितृस्थाने त्वाम् अहं निमन्त्रये । निमन्त्रितो ऽस्मि । एवं पितामहस्थाने प्रपितामहस्थाने च । एवं मातामहादिस्थाने त्रय इति षट् वैश्वदेवीके चत्वार इति दश । तत्र वैश्वदेवपक्षे ऽष्टौ एको दैवे तन्त्रेण पित्रादाव् एको मातामहादौ वैक इति त्रयो वा । यद् वा षण्णाम् एको दैवे चैक इति द्वौ । तद् आमान्नं षोढा विभज्य यद्य् अपि दर्शे मातृमध्यं नवदैवत्यं मातामह्यं द्वादशदैवत्यं वा श्राद्धम् उक्तम् अस्ति तथापि देशाचाराद् व्यवस्था । षट्दैवतम् एव तु बहुसम्मतम् । सर्वथा विप्रालाभे दर्भवदून्निधायापि (?) श्राद्धं प्रैषप्रत्युक्तिपूर्वं कृत्वा तद् आमान्नं विप्राय दद्याद् अग्नौ वा क्षिपेत् । सर्वत्रामन्त्रितो ऽस्मीति प्रत्युक्तिर् अक्रोधनैर् इति च । [१६६] ततः परेद्युः प्रातः स्थानोपलेपनं कृत्वा सचैलं स्नातः श्राद्धसामग्रीं सम्पाद्य दिनस्य षण्मुहूर्तानन्तरं द्विजान् आहूय तेषाम् अनिषिद्धदिने श्मश्रुकर्म कारयित्वा स्नानीयजलतैलामलकोद्वर्तनानि प्रेषयित्वा मध्याह्ने स्नातागतान् प्राञ्जलिस् तिष्ठन् तान् स्वागतं पृष्ट्वा सुस्वागतम् इति तैर् उक्ते द्विर् आचम्य देशकालौ स्मृत्वास्मत्पितृपितामहप्रपितामहानां काश्यपगोत्राणाम् अमुकदासानां वसुरुद्रादित्यस्वरूपाणां पार्वणश्राद्धं सदैवं सपिण्डं पार्वणविधिनामान्नेनअ हअविषा सद्यः करिष्ये इति सङ्कल्प्य, गोमूत्रगोमयाभ्यां द्वारे प्रादेशमात्रम् **[१६७] **उत्तरदक्षिणयोश् चतुरस्रं वृत्तं च मण्डलं कृत्वा, तत्र,

कुशान् दैवे यवान् पित्र्ये तिलान् क्षीपेद् ।

इति मदनपालः । तत्त्वं तु शूद्रस्याभ्युक्षणं मतम् इति वचनाद् अभ्युक्षनं कृत्वोत्तरे उदङ्मुखः सव्येन पुरूरवार्द्रवसञ्ज्ञका विश्वेदेवाः स्वागतम् इति पृष्ट्वा सुस्वागतम् इति तेनोक्ते गन्धपुष्पैः स्वयं शूद्रायेति वचनाद् आदौ सव्यं ततो दक्षिणम् इति पादौ सम्पूज्य पुरूरवार्द्रवसञ्ज्ञका विश्वेदेवा इदं वः पाद्यम् अर्घ्यं च नम इति पादयोर् जलं दत्वा, एवं दैवद्वितीये विप्रे दत्वा, पित्र्यविप्रे कृतापसव्यो ऽस्मत्पितः काश्यपगोत्रामुकदास वसुरूपेदं ते पाद्यम् अर्घ्यं च नमः । एवं पितामहे प्रपितामहे च रुद्ररूपादित्यरूपेति ज्ञेयम् । एवं मातामहादित्रये च । ततो द्विर् आचान्तास् तान् आचम्य दैवे द्वौ प्राङ्मुखौ देवेभ्यो नमः इदं आसनम् आस्यताम् इति वामेनासनं स्पृष्ट्वा दक्षिणेन विप्रान् उपवेश्यैवं पित्र्ये ऽपसव्येनोदङ्मुखान् । ततः प्राच्यां मातामहानां ।

श्राद्धाम्भे ऽवसाने च पादशौचे तथार्चने ।

विकिरे पिण्डदाने च द्विर् आचमन् इष्यते ॥

ततः सव्येन कर्मपात्रं प्रपूर्य गन्धपुष्पकुशान् क्षिप्त्वा तज्जलेन,

अपवित्रः पवित्रो वा सर्वावस्थां गतो ऽपि वा ।

यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥

पुण्डरीकाक्षाय नम इति श्राद्धीयद्रव्यं प्रोक्ष्य,

तिला रक्षन्त्व् असुरतो58 दर्भा रक्षन्तु राक्षसान् ।

पङ्क्तिं वै श्रोत्रियो रक्षेद् अतिथिः सर्वरक्षकः ॥

इति तिलान् विकीर्य प्रतिद्विजं दीपान् दद्यात् । आमान्नादीनां पवित्रास् तु । केचित् तु

सप्तव्याधा दशारण्ये मृगाः कालञ्जरे गिरौ ।

चक्रवाकाः शरद्वीपे हंसा सरसि मानसे ॥

ते ऽपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ।

प्रथिता दीर्घम् अध्वानं यूयं किम् अवसीदथ59

असूर्याणां च मूर्तानां दीप्ततेजसाम् ।

नमस्यामि सदा तेषां ध्यायिनां योगचक्षुषाम् ॥

श्राद्धभूमौ गयां ध्यात्वा ध्यात्वा देवं जनार्दनम् ।

वस्वादींश् च पितॄन् ध्यात्वा ततः श्राद्धं प्रवर्तये ॥

इति जपन्ति । ततो नीविं बध्वापसव्येन च,

देवताभ्यः पितृभ्यश् च महायोगिभ्य एव च ।

नमः स्वाहायै स्वधायै नित्यम् एव नमो नमः ॥

इति त्रिर् जप्त्वा देशकालौ स्मृत्वा काश्यपगोत्राणाम् अस्मतिपितृपिताम्हप्रपितामहानाम् अमुकदासानाम्, तथा काश्यपगोत्राणाम् अस्मन्मातामहप्रमातामहवृद्धप्रमातामहानाम् अमुकदासानां ददैवम् उपक्रान्तं पार्वणश्राद्धम् अहं करिष्ये । कुरुष्वेति तैर् उक्ते दक्षिणं जान्व् आच्य पित्रादित्रयमातामहाडित्रयसम्बन्धिनः पुरूरवार्द्रवसञ्ज्ञका विश्वेदेवा इदम् आसनं वो नम इत्य् ऋजुप्रागग्रकुशपत्रद्वयम् आसने दद्याद् इति ढोन्दुपद्धतौ । षष्ठी तु युक्ता । दैवे क्षणः क्रियताम् इति कुशं दत्वा, तथेति तेनोक्ते, प्राप्नोतु भवान् इत्य् आह । प्राप्नवानीति विप्रः । एवं द्वितीयदैवे । ततो ऽपसव्येन वामं जान्व् आच्य काश्यपगोत्रास्मत्पितर् अमुकदास वसुरूपेदम् आसनं ते स्वधा नम इति वा सतिलद्विर्भुग्नकुशान् दत्वा पित्र्ये क्षणः क्रियताम् इत्य्दि प्राग्वत् । एवं पितामहादौ मातामहादौ च सव्येन विश्वान् देवान् आवाहयिष्ये इति पृष्ट्वावाहयेत्य् अनुज्ञातः देवद्विजकरम् अङ्गुष्ठे गृहीत्वा ।

आगच्छन्तु महाभागा विश्वेदेवा महाबलाः ।

ये अत्र विहिताः श्राद्धे सावधाना भवन्तु ते ॥

इति [१६८] स्तुत्वा60 । पुरूरवार्द्रवसञ्ज्ञकविश्वेदेवाः आगच्छतेत्य् उक्त्वा, पादादिमूर्धान्तं तिलान् विकिरेद् इति कर्कः । यवैर् अन्ववकीर्येति स्मृतेर्, यवान् इत्य् अन्ये । ततो हस्तोदकम् । एवं प्रतिपदार्थं ततो ऽपसव्येन काश्यपगोत्रान् अस्मत्पित्रादीन् अमुकदासान् एवं मतामहादींश् च आवाहहे इति पृष्टे, आवाहयेति अनुज्ञातः मूर्धादिपादान्तं विलान् विकीर्यास्मत्पितर् अमुकदास काश्यपगोत्र वसुरूपागच्छ एवं पितामह रुद्ररूप प्रपितामहादित्यरूप एवं मातामहेषु । ततः देवाग्रे सव्येनैकपात्रे द्वे कुशपत्रे कृत्वा देवतीर्थेन देवेभ्यो नम इति जलं नम इति यवान् गन्धपुष्पे च क्षिपेत् । ततो ऽपसव्येन पित्र्ये षट्सु राजतताम्रखद्गपलाशपात्रादिमृन्मयपात्रेष्व् एकद्रव्येषु वा द्वे द्वे दक्षिणाग्रे पवित्रे कृत्वाद्भ्यो नम इति जलम् । तिलेभ्यो नम इति तिलान् । गन्धपुष्पाणि च क्षिप्त्वार्घ्यपात्राणि सम्पन्नानीत्य् उक्त्वा, सुसम्पन्नानीत्य् उक्ते, सव्येन दैवकरे पवित्रे दत्वा दक्षिणहस्तस्थेन पात्रेण पित्रादित्रयमातामहादित्रयसम्बन्धिपुरूरवार्द्रवसञ्ज्ञका विश्वेदेवा एष वो ऽर्घो नमः इदं वो ऽर्घं नम इति वा दत्वाद्भ्यो नम इति स्रवद् अभिमन्त्र्यैवं द्वितीये दत्वा पात्रे पवित्रादि कृत्वा देवेभ्यः स्थानम् असीत्य् उत्तरतो न्युब्जं कुर्यात् । केचिद् एतद् दैवे नेच्छन्ति । न्युब्जता नेति ढोन्दुः । ततो ऽपसव्येन पित्र्यकरे दक्षिणाग्रं पवित्रं दत्वा, काश्यपगोत्रास्मत्पितर अमुकदास एष ते ऽर्घः स्वधा नमः इति पितृतीर्थेन दत्वाद्भ्यो नम इति संस्रवान् अनुमन्त्रय तत्र पवित्रादि धृत्वैवं पितामहप्रपितामहाभ्यां मातामहादिभ्यश् च दद्यात् । ततः प्रथमे पात्रे संस्रवान् एकीकृत्य पितृवामे कर्तुर् दक्षिणे पितृभ्यः स्थानम् असीति न्युब्जं कृत्वा दक्षिणान्तं न चालयेत् । ततः सव्येन जलं दत्वा विश्वेदेवा एष गन्धो वो नमः इमानि पुष्पाणि वो नमः एवं धूपदीपाच्छादनयज्ञोपवीतालङ्कारताम्बूलानि दत्वा जलं दत्वापसव्येन काश्यपगोत्रास्मत्पितर् अमुकदास एष ते गन्धो नमः एवं पुष्पधूपदीपाच्छादनालङ्कारान् दत्वैवं पितामहप्रपितामहाभ्यां दद्यात् । एवं मातामहादिभ्यः । ततो ऽर्चनपूर्णतां वाचयित्वा द्विजाग्रे भुवं सम्मृज्य पलाशादिपत्रावलीर् न्यस्य गौरमृद्भस्मादिना मण्डलं कृत्वा श्राद्धीयाद् आमान्नाद् अग्रं गृहीताग्नौ करिष्य इति पङ्क्तिमूर्धन्यं पृष्ट्वा कुरुष्वेत्य् उक्ते सव्येनाद्यद्विजकरे प्रयुक्ष्य दर्भान् आस्तीर्यावदानधर्मेण द्विर् आदायाग्नये कव्यवाहनाय नमः इति हुत्वेदम् अग्नये कव्यवाहनायेति त्य्क्त्वा पुनर् आदाय सोमाय पितृमते नमः इदं सोमाय पिऋमते अपसव्यपक्षे सोमाहुतिः पूर्वम् अग्न्याहुतिर् उत्तरा । इति हुत्वा हुतशेषं पिण्डार्थम् अवशेष्य पितामहादिमातामहादिपात्रेषु तूष्णीं दद्यात् । ततो दैवे ऽन्यद् आमं दत्वा पात्राण्य् अभिघार्य दैवपूर्वम् आमं चतुर्गुणं द्विगुणं समं वा दत्वा प्रोक्ष्य दैवे दक्षिणजान्व् आच्योपवीती दक्षिणोत्तानसव्यनीचाभ्यां पात्रम् आलभ्य विष्णवे नम इति विष्णो हव्यं रक्षस्वेति वा द्विजाङ्गुष्ठं निवेश्यैवं पित्र्ये ऽपसव्येन पात्रम् आलभ्याङ्गुष्ठे दत्वा तिलान् विकीर्योदकं स्पृष्ट्वा एवं प्रतिपात्रं कृत्वा वामेन दैवपात्रं धृत्वा दक्षिणे कुशयवजलान्य् आदाय पित्रादित्रयमातामहादित्रयश्राद्ध-सम्बन्धिपुरूरवार्द्रवसञ्ज्ञका विश्वेदेवाः इदं वः आमान्नं सपरिकरं गयेयं भूः गदाधरो भोक्ता अहं ब्रह्म ग्रहीता ब्रह्म ब्रह्मरूपम् आमं मनःकल्पितसुवर्ण-पात्रस्थम् अक्षय्यवटछायास्थं पुरूरवार्द्रवसञ्ज्ञकेभ्यो विश्वेदेवेभ्यः अक्षय्यतृप्त्यर्थं सम्प्रददे स्वाहा न मम । इदम् आमं सोपस्करम् अमृतरूपेण सम्पद्यतां । [१६९] हव्यं नमः । काश्यां विश्वेश्वरपादे61 दत्तम् अक्षय्यम् अस्तु । गयागदाधरः प्रीतो भवतु । ततो ऽपसव्येन द्विगुणभुग्नकुशतिलजलान्य् आदाय62 वामेन पात्रं घृत्वा वामं जान्व् आच्य काश्यपगोत्रास्मत्पितर् अमुकदासैतत् ते आमान्नं सपरिकरं गयेयं भूरित्यादि रजतपात्रस्थम् अक्षय्यवटछायास्थं काश्यपगोत्रायास्मत्पित्रे ऽमुकदासाय वसुरूपायेदम् आमं सोपस्करं अक्षय्यतृप्त्यर्थं सम्प्रददे स्वधा नमः । अमृतरूपेण स्वधा सम्पद्यताम् । कव्यं नमः । काश्यं इत्यादि प्राग्वत् । एवं पितामहप्रपितामहयोर् मातामहादिभ्यश् च दद्यात् । असंस्कृतप्रमीतेभ्य एष पिण्ड इति विकिरं दत्वा आमम् आदाय अग्निदग्धेभ्यो अनग्निदग्धेभ्यश् च एष उच्छिष्टपिण्डो न मम इति सोदकम् आमं पिण्डं दत्वा तिलोदकं दत्वा मधु मध्व् इति त्रिर् जपेत् ।

अथ पिण्डदानम् ।

तच् च पाकेन63 पायसेन सक्तुभिर् मूलेन फलेन वा कार्यम् । पिण्डार्थं वेदिं कृत्वा वामं जान्व् [१७३] आच्य अपसव्येन दर्भमूलेन दक्षिणाग्रां रेखां कृत्वैवं द्वितीयां कृत्वापः स्पृष्ट्वा रखाग्रे उल्मुखे निधायोदपात्रेणाद्यरेखामूलमध्याग्रेषु काश्यपगोत्रास्मत्पितर् अमुकदास वसुरूपावनेनिक्ष्वैवं पितामहप्रपितामहयोर् दत्वा द्वितीयरेखायां मातामहादिभ्यस् त्रिभ्यो दत्वा सकृदाच्छिन्नकुशान् दक्षिणायां रेखाद्वये निक्षिप्य मध्वाज्यसर्वव्यञ्जनोपेतम् अन्नम् अग्नौकरणशेषसहितं पात्रे कृत्वा षट् पिण्डान् कृत्वा पितृतीर्थेन काश्यपगोत्रास्मत्पितर् अमुकदास एतत् ते ऽन्नं स्वधा एष ते पिण्डो न मम इति वा दत्वा इदं पित्रे । ततः कुशान् अन्तर्धाय काश्यपगोत्रास्मत्पितामहेत्यादिना त्रिभ्यो दत्वा । लेपभुग्भ्यो दर्भमूलेषु करं मार्जयित्वैवं मातामहादित्रिभ्यो दत्वा करौ प्रक्षाल्याचम्योदङावृत्यामन्त्रं प्राणान् आयम्य । वसन्ताय नमः । ग्रीष्माय नम इत्य् एवं षट् ऋतून् नमस्कृत्वापसव्येन पितृभ्यो नम इत्य् अञ्जलिं बध्वैवं मातामहेभ्यो नम इति । ततो वामावर्तेनोदङ्मुखः श्वासं नियम्य पुनरावृत्य पितृभ्यो नमः । मातामहेभ्यो नम इति नत्वा । काश्यपगोत्रास्मत्पितर् अमुकदास प्रयवने निक्ष्वेति प्राग्वत् षट्सु पिण्डेषु प्रत्यवनेजनं दत्वा नीवीं विसृज्य । पितृभ्यो नमः । मातामहेभ्यो नमः । इति नत्वा । पितृभ्यो नमः मातामहेभ्यो नम इति प्रतिपिण्डं सूत्राणि दत्वा । पितृभ्यो नम इत्य् अवनेजनशेषं पिण्डपात्रक्षालनजलं64 वा पितृपिण्डेषु प्रदक्षिणं निषिच्यैवं मातामहेभ्यो नमः । ततो देवताभ्यः पितृभ्यश् चेति त्रिर् जप्त्वा पिण्डेषु पित्रादिनाम्ना गन्धपुष्पधूपदीपनैवेद्यफलताम्बूलदक्षिणा नित्वेद्य कर्मपात्रजलं सुप्रोक्षितम् अस्तु । शिवा आपः सन्तु इति दैवे दत्वा सौमनस्यम् अस्तु पुष्पाणि । अक्षतं चारिष्टं चास्तु अक्षताः । अपसव्येन पितृभ्यो मातामहेभ्यश् च दत्वा स्वमूर्ध्नि दीर्घम् आयुर् अस्तु । पुष्टिर् अस्तु । वृद्धिर् अस्तु । यच्च् छ्रेयस् तद् अस्तु । यत् पापं तत् प्रतिहतम् अस्तु । भूमौ द्विपचतुष्पदेभ्यः शान्तिर् अस्तु । अस्त्व् इति द्विजाः । ततः पुरूरवार्द्रवसञ्ज्ञकेभ्यो विश्वेभ्यो देवेभ्यः यद् दत्तम् आमान्नादि तद् अक्षय्यम् अस्तु । एवं काश्यपगोत्रस्यास्मत्पितुर् अमुकदासस्य यद् दत्तम् इत्यादि । एवं पितामहादौ मातामहादौ च अस्त्व् अक्षय्यम् इति विप्राः । अघोराः पितरः सन्तु एवं मातामहाः गोत्रं नो वर्धताम् । दातारो नो ऽभिवर्धताम् । सन्ततिश् च नो वर्धताम् । श्रद्धा च नो मा व्यगमत् । बहुदेयं च नो ऽस्तु । अन्नं च नो बहु भवेत् । अतिथींश् च लभेमहि । याचितारश् च नः सन्तु । मा च याचिष्म कञ्चन । तथास्त्व् इति विप्राः । ततः पित्रादिभ्यो मातामहादिभ्यश् च स्वधोच्यताम् । अस्तु स्वधेति विप्राः । कुशान् पिण्डेषु न्यस्यार्घ्यपात्रम् उत्तानं कृत्वा देवानां65 सुवर्णं पितॄणां रजतं दक्षिणां दत्वा नानानामगोत्रेभ्यः आमान्नं हिरण्यं च दत्वा पिण्डान् उद्वास्याघ्राय विश्वेदेवाः प्रीयन्ताम् इति ब्रूहीत्य् उक्त्वा वाचयित्वा । एवं पित्र्ये कृत्वा सव्येन स्वस्ति भवन्तु ब्रुवन्तु । स्वस्तीत्य् उक्ते सम्पूर्णतां वाचयित्वा कुशैर् उत्तिष्ठन्तु पितरः विश्वेदेवैः सहेत्य् उद्वास्य मण्डले प्रदक्षिणीकृत्य नमस्कृत्य विसर्जयेत् ।

इति श्रीज्कमलाकरकृतौ शूद्राणां पार्वणश्राद्धप्रयोगः ।

**रामकृष्णतनूजेन कमलाकरश्रमणा शूद्रधर्मान् निरूप्याथ **

**तदाशौचं निरूप्यते **

तत्र यद्य् अप्य् अस्मत्कृते **निर्णयसिन्धौ **सर्वम् उक्तम् अस्ति, तथापि तत्रत्यम् एव सङ्क्षेपेण शूद्राणां किञ्चिद् उच्यते । मूलं तु तत्रैव ज्ञेयम् ।

तत्रादौ गर्भाशौचम् उच्यते ।

आचतुर्थमासान्तं स्रावः । पञ्चमषष्ठयोः पातः । सप्तममासादि पूर्णप्रसवः । मनुः

रात्रिभिर् मासतुल्याभिर् गर्भस्रावे विशुध्यति ।

इदं चतुर्थपरं त्रिमासमध्ये रजस्वलात्वेनैव त्रिरात्रं सिद्धम् । मरीचिः

गर्भस्रुत्या यथामासम् अचिरे तूत्तमे त्रयः ।

राजन्ये तु चतूरात्रं वैश्ये पञ्चहम् एव च ॥

अष्टाहेन तु शूद्रस्य शुद्धिर् एषा प्रकीर्तिता ॥

अचिरे त्रिमासमध्ये । उत्तमे ब्राह्मणे । अस्यार्थः स्मृतिकौमुद्यां । गर्भस्रावे त्रिमासोर्ध्वं चतुर्थमाससमं दिनचतुष्टयं सर्ववर्णसमम् । मासत्रयमध्ये त्रिदिनम् अपि सर्ववर्णसमम् । ब्राह्मणे त्रिमासमध्ये त्रिदिनान्ते त्रयो दिवसा अधिकाः । त्रय इत्य् अस्यावृत्तिर् एकशेषश् च तेन त्रिमासमध्ये त्रिरात्रान्ते विप्रे त्रिदिनं क्षत्रियादौ चतुरहादि । केचित् तु, प्रथमादिमासेष्व् अपि एकरात्राद्यनन्तरं वर्णेषु त्रिरात्राद्य् आहुः । अन्यथा पञ्चमादिमासेषु वैश्यादेः पञ्चाहादि । त्रिमासमध्ये च चतुरहादीत्य् अनौचित्यता66 स्यात् । स्रावे सपिण्डानां स्नानं पितुर् मातुर्67 यथा मासं पित्रादीनां च त्रिदिनम् । इदं निर्गुणानाम् । सगुणानां त्व् एकाहम् इति मदनपालः । इदं सर्ववर्णसमम् । तुल्ये वयसि68 सर्वेषाम् अतिक्रान्ते तथैव चेति व्याघ्रोक्तेः ।

[१७६]

अथ प्रसवाशौचम् ।

**संवर्तः **।

जाते पुत्रे पितुः स्नानं सचैलं तु विधीयते ।

पुत्रपदात् कन्यापि । यत् तु हारलतायाम्

सूतके तु मुखं दृष्ट्वा जातस्य जनकस् ततः ।

कृत्वा सचैलं स्नानं तु शूद्रो भवति तत्क्षनात् ॥

ब्राह्मोक्तेर् मुखदर्शनोत्तरं पुनः स्नानपरत्वम् उक्तं तत् परास्तम्69 । मूलैक्येन दृशिर् ज्ञानपर्त्वात् । गौडास् तु सापत्नमातुः प्राक् स्नानाद् अस्पृश्यत्वम् । अन्याश् च मातरस् तद्वत् तद्गृहं न व्रजन्ति चेद् इति ब्राह्मणाद् इत्य् आहुः । अङ्गिराः

नाशौचं सूतके पुंसः संसर्गं चेन् न गच्छति ।

रजस् तत्राशुचि ज्ञेयं तच् च पुंसि न विद्यते ॥

संसर्गो मैथुनं शयनासनादिकम् इति माधवः । स्पर्श इति गौडाःतन् न,

संस्पर्शे सूतिकायास् तु स्नानम् एव विधीयते ।

इत्य् अङ्गिरसोक्तेः । एवकाराद् बालस्पर्शे न दोषः । व्यासः

प्रथमे दिवसे षष्ठे दशमे चैव सर्वदा ।

त्रिष्व् एतेषु न कुर्वीत सूतकं पुत्रजन्मनि ॥

अत्र विशेषः षष्ठीपूजादि च प्राग् उक्तम् । प्रयोगपारिजाते तु पुम्प्रसवे70 दशाहः कन्याप्रसवे तु त्र्यहः,

स्त्रीजन्मनि सपिण्डश् च सोदकश् च त्र्याहाच् छुचिः ।

स्त्रीषु त्रिपुरुषं ज्ञेयं सपिण्डत्वं द्विजोत्तमाः ॥

इत्य् अग्निस्मृतेर् इत्य् आह । गौडास् तु वाग्दानोत्तरं कानीनकन्याविषयं चैतद् इत्य् आहुः ।

[१७७]

अथ मृताशौचम् ।

हारीतः: “जाते71 मृते मृते जाते वा सपिण्डानां दशाहम्” । नालछेदोर्ध्वं मृत इत्य् अर्थः, “नाड्यां छिन्नायाम् आशौचम्” इति तेनैवोक्तेः । नालछेदात् पूर्वं मातुर् नास्पृश्यतेति शुद्धितत्त्वे । नालछेदात् पूर्वं मृतौ तु बृहन्मनुः

जीवन् जातो यदि ततो मृतः सूतक एव तु ।

सूतकं सकलं मातुः पित्रादीनां त्रिरात्रकम् ॥

शावनिमित्तं स्नानमात्रम्, “प्राङ् नामकरणात् सद्यः शौचम्” इति शङ्खोक्तेः । नामकरणं चौलं च कालोपलक्षणम् इति मेधातिथि-हरदत्त-गौडादयः । नेति माधवादयः । नामोत्तरं दन्तोत्पत्तेः प्राक् दाहे सति सपिण्डानाम् अहः । दाहाभावे स्नानमात्रम्, “आ दन्तजन्मनः सद्यः” इति याज्ञवल्क्योक्तेः । दन्तोर्ध्वं त्रिवर्षात् प्राक् चूडाभावे ऽहः । अत्राग्निदाने त्र्यह इति माधवः । त्रिवर्षात् प्राग् ऊर्ध्वं वा सचूडे त्र्यह एव । अब्दोर्ध्वं त्व् अचूडे ऽपि त्र्यहः । इदं सपिण्डानां पित्रोस् तु दशाहोर्ध्वं मृते बाले सर्वत्र त्रिरात्रम् । बालानाम् अजातदन्तानां त्रिरात्रेण शुद्धिर् इति कश्यपोक्तेः,

बैजिकाद् अभिसम्बन्धाद् अनुरुन्ध्याद् अघं त्र्यहम् ।

इति मनूक्तेश् चेति **मिताक्षरा-माधवादयः **। शुद्धितत्त्वादयो गौडास् त्व् एतत् त्रिरात्रं शूद्रपरं द्विजानां त्व् अजातदन्ते एकाहः । जातदन्ते त्रिरात्रम्,

अजातदन्तमरणे पित्रोर् एकाहम् इष्यते ।

दन्तजाते त्रिरात्रं स्याद् यदि स्यातां तु निर्गुणौ ॥

इति कौर्मात्,

अनूढानां तु कन्यानां तथा वै शूद्रजन्मनाम् ।

इति त्र्यहानुवृत्तौ शङ्खोक्तेः,

त्रिरात्रं तु भवेच् छूद्रे षण्मासे ऽपि शिशौ मृते ।

इति मत्स्यसूक्ताच् च । जातदन्ते शूद्रे तु पञ्चाहः । यथाह अङ्गिराः

शूद्रे त्रिवर्षसूने तु मृते शुद्धिस् तु पञ्चभिः ।

अत ऊर्ध्वं मृते शूद्रे द्वादशाहो विधीयते ॥

षड्वर्षान्तम् अतीतो यः शूद्रः सम्म्रियते यदि ।

मासिकं [१७८] तु भवेच् छौचम् इत्य् आङ्गिरसभाषितम् ॥

तेनानूढभार्ये निर्गुणे शूद्रे शूद्रे मृते त्रिवर्षोर्ध्वं द्वादशाहः । षडब्दोर्ध्वं मासः । यत् तु, “अनूढभार्यः शूद्रस् तु” इति शङ्खोक्तं षोडशाब्दोर्ध्वं मासाशौचम्, तत् सगुणसच्छूद्रपरम् । कृतोद्वाहे तु सर्वत्र षडब्दात् प्राग् अपि मासः । यत् तु, “तुल्यं वयसि सर्वेषाम्” इति व्याघ्रोक्तेः शूद्रे न्यूनाशौचं तद् दाक्षिणात्यपरम्72 । अन्यदेशे प्रागुक्तकौर्मोक्ता व्यवस्थेत्य् आहुः । तत् “तुल्यं वयसि सर्वेषाम्” इत्य् एतद्विरोधाच् छिष्टविगानाच् चाङ्गिरसादीनि नादर्तव्यानीति विज्ञानेश्वर-मदनपारिजातादयः । षोडशाब्दमध्ये विवाहाभावे त्रिरात्रम् । तत्सत्त्वे मासः । ऊर्ध्वं विवाहाभावे ऽपि मास इत्य् अपरार्क-मदनपालादयः । कन्यानां तु चौलात् प्राक् मृतौ स्नानम्,

अचूडायां तु कन्यायां सद्यः शौचं विधीयते ।

इत्य् आपअस्तम्बोक्तेः । इदं त्रिपुरुषमध्ये । चौलोत्तरं वाग्दानात् प्राग् एकाहः ।

अविशेषेण वर्णानाम् अर्वाक् संस्कारकर्मणः ।

त्रिरात्रात् तु भवेच् छुद्धिः कन्यास्व् अह्ना विधीयते ॥

इत्य् अङ्गिरसा त्रिरात्रविषये अहोविधानात्, “अहस् त्व् अदत्तकन्यासु” इत्य् उक्तेश् च, इदं त्रिपुरुषमध्ये, “अप्रत्तानां स्त्रीणां त्रिपुरुषी विज्ञायते” इति वसिष्ठ्ओक्तेः । गौडास् त्व् इदं वाग्दानोत्तरम्,

अप्रत्तानां तथा स्त्रीणां सापिण्ड्यं साप्तपौरुषीम्”

इति कौर्मोक्तेर् इत्य् आहुः । वाग्दानोत्तरं प्राक् विवाहान् मृतौ भर्तृकुले पितृकुले च सप्तपुरुषावधि त्रिरात्रम्,

अवारिपूर्वं प्रत्ता तु या नैव प्रतिपादिता ।

असंस्कृता तु सा ज्ञेया त्रिरात्रम् उभयोः स्मृतम् ॥

इति मरीच्य्उक्तेः ।

[१७९]

**अथासंस्कृते शूद्रे मृते विशेषः **\

माधवीये ब्राह्मे

स्त्रीणां तु पतितो गर्भः सध्यो जातो मृतो ऽथ वा ।

अजातदन्तो [१८०] मासैर् वा मृतः षड्भिर् गतैर् बहिः ॥

वस्त्राद्यैर् भूषितं कृत्वा निक्षिपेत् तं तु काष्ठवत् ।

खनित्वा शनकैर् भूमौ सद्यः शौचं विधीयते ॥

विष्णुः

अनिवृत्ते दशाहे तु पञ्चत्वं यदि गच्छति ।

सद्य एव विशुद्धिः स्यान् न प्रेतं नोदकक्रिया ॥

यमः

ऊनद्विवार्षिकं प्रेतं घृताक्तं निखनेद् बहिः ।

तेन नाम्नः पूर्वं खननम् एव । तदूर्ध्वं वर्षत्रयात् पूर्वं चौलाभावे ऽग्न्युदकयोर् विकल्पः ।

जातदन्तस्य वा कुर्युर् नाम्नि वापि कृते सति ।

इति मनूक्तेः, चूडोत्तरं त्व् अग्निदानं त्रिवर्षात् प्राग् ऊर्ध्वं वा नियतम् एव ।

तूष्णीम् एवोदकं कुर्यात् तूष्णीं संस्कारम् एव च ।

सर्वेषां कृतचूडानाम् अन्यत्रापीच्छया द्वयम् ॥

इति लौगाक्षिस्मृतेः । अन्यथा कृतचूडे इच्छयेति विकल्प उक्तः । चूडोत्तरं दशपिण्डा अपि कार्याः । असंस्कृतानां भूमौ पिण्डं दद्यात् । संस्कृतानां कुशेषु इति प्रचेतसोक्तेः,

द्वादशाद् वत्सराद् अर्वाक् पौगण्डमरणे सति ।

सपिण्डीकरणं न स्याद् एकोद्दिष्टानि कारेयत् ॥

इति हरदत्त-धृतदेवलोक्तेश् च । द्वादशाहाद् इत्य् अनूढशूद्रपरम् । मरीचिः

प्रेतपिण्डं बहिर् दद्याद् दर्भमन्त्रविवर्जितः ।

एतद् असंस्कृतपरम् इति विज्ञानेश्वरः । त्रिरात्रे दश पिण्डान् आह पारस्करः

प्रथमे दिवसे देयास् त्रयः पिण्डाः समाहितैः ।

द्वितीये चतुरौ दद्याद् अस्थिसञ्चयनं तथा ॥

त्रींस् तु दद्यात् तृतीये ऽपि वस्त्रादि क्षालयेत् ततः ।

अस्थिसञ्चयनं संस्कृते एव नान्यत्र । अत्र देवयाज्ञिककृते क्रियानिबन्धे विशेषः ।

गारुढे

शिशुर् आ दन्तजननाद् बालः स्याद् यावद् आशिखः ।

कथ्यते सर्वशास्त्रेषु कुमारो मौञ्जिबन्धनात् ॥

तथा

गर्भे नष्टे क्रिया नास्ति दुग्धं देयं शिशौ म्र्ते ।

परं च पायसं क्षीरं दद्याद् बालविपत्तितः ॥

एकादशद्वादशाहे वृषोत्सर्गं विधिं विना ।

तथा

यत्र प्रम्रियते बालस् तत्र प्रायः प्रदीयते ।

किञ्चित् समानवयसां सत्कृत्यान्नं यथाविधि ॥

भक्ष्यं भोज्यं च दातव्यं तथा च सुखभक्षिका ।

तद्वस्त्राणि प्रदेयानि सोपानत्कानि तत्समे ॥

कुमाराणां च बालानां भोजनं वस्त्रवेष्टनम् ।

यच् चोपजीवते बालस् तत् त्द् विप्राय दीयते ॥

तथा

भूमिनिक्षेपणं बाल आ वर्षद्वयम् आ शिखं ।

ततः परं खगश्रेष्ठ देहदाहो यथाविधि ॥

अचूडे ऽप्य् ऊर्ध्वं खननाभावार्थम् आ वर्षद्वयम् इति । प्राग् अपि कृतचूडस्य तन्निवृत्त्यर्थम् आशिखम् इति ।

चूडाकर्मणि सञ्जाते विपत्तिस् तु यदा भवेत् ।

सूतकान्ते प्रकर्तव्यं वृषस्योत्सर्जनं तदा ॥

तत्र दाहः प्रकर्तव्य उदकं तत्र निश्चितम् ।

श्राद्धानि षोडशापि स्युः सपिण्डीकरणं विना ॥

इदं पञ्चवर्षोत्तरम् ।

जन्मतः पञ्चवर्षाणि भुङ्क्ते दत्तम् असंस्कृतम् ।

पञ्चवर्षाधिके बाले विपत्तिर् यदि जायते ॥

वृषोत्सर्गादिकं कर्म कर्तव्यम् उदकं ततः ।

अहन्य् अहनि सम्प्राप्ते कुर्याच् छ्राद्धानि षोडश ॥

पायसेन गुडेनैव पिण्डं दद्याद् यथाक्रमम् ।

उदकुम्भप्रदानं च पददानानि यानि च ॥

दीपदानानि यत् किञ्चित् पञ्चवर्षाधिके सदा ।

कर्तव्यं तु खगश्रेष्ठ व्रतार्वाक् प्रेततृप्तये ॥

ऋजुदर्भैस् तिलैः शुक्लैः प्राचीनावीतिना तथा ।

वार्षिकं तु न भव्त्य् एव, सपिण्डनाभावे पितृत्वाभावात् । दिवोदासीये

अव्रते निधनं प्राप्ते विप्रादौ शूद्रजातिवत् ।

क्रियाः सर्वाः समुद्दिष्टाः सपिण्डीकरणं विना ॥

उदकं पिण्डदानं च कृतचूडे विधीयते ।

अनूढकन्यानां पिण्डविकल्पः “स्त्रीणां चैके प्रत्तानाम्” इति गौतमोक्तेः ।

[१८२]

**अथ शूद्रस्य जात्याशौचम् **।

तत्र मनु-पराशर-गौतमाद्यैः “शूद्रो मासेन शुध्यतीति” मासमात्रम् उक्तम् । याज्ञवल्क्यस् तु,

त्रिंशद् दिनानि शूद्रस्य तदर्धं न्यायवर्तिनः ।

इति पञ्चयज्ञादिपरसच्छूद्राणां पञ्चदशाहम् आह । अङ्गिरास् तु,

सर्वेषाम् एव वर्णानां सूतके मृतके तथा ।

दशाहाच् छुद्धिर् एतेषाम् इति शातातपो ऽब्रवीत् ॥

इत्य् आह । शुद्धितत्त्वे देवलो ऽपि ।

आशौचं दशरात्रं तु सर्वेषाम् अपरे विदुः ।

निधने प्रसवे चैव पश्यन्तः कर्मणः फलम् ॥

अत्यन्तोत्कृष्टकर्मणो हानौ पीडावतो विप्रपरिचर्यापरम् । शूद्रे दशरात्रम् इति हारलताकारः । यत् तु दक्षः,

सद्यः शौचं तथैकाहस् त्र्यहश् चतुरहस् तथा ।

षट्दशद्वादशाहाश् च पक्षो मासस् तथैव च ॥

मरणान्तं तथा चान्यद् दश पक्षास् तु सूतके ॥ इति ।

अत्र मरणानन्तरं सूतकादेर् भिन्नं सद्यः शौचादि । षडहान्तं यायावरादिपरम् ।

अन्यपूर्वा यस्य गेहे भार्या स्यात् तस्य नित्यशः ।

आशौचं सर्वकार्येषु देहे भवति सर्वदा ॥

इति ब्राह्मोक्तेर् व्यवस्थेत्य् अपरार्कादयः । तत्र विवाहोत्तरं सर्वत्र शूद्रे पूर्णाशौचम् । विवाहाभावे ऽपि निर्गुणानां षडब्दोर्ध्वं मास इति गौडाः । सगुणानां विवाहाभावे षोडशाब्दोर्ध्वं मास इत्य् अपरार्कः । अत्रापदनापद्विषया गुणवदगुणपरा देशभेदाद् वा व्यवस्था । द्विजदासादीनां तु स्वाम्याशौचम् एव,

दासी दासश् च सर्वे वै यस्य वर्णस्य यो भवेत् ।

तद्वर्णस्य भवेच् छौचं दास्या मासस् तु सूतकम् ॥

इत्य् आङ्गिरसोक्तेः । शातातपः: “तदाश्रितस्य तद्वत् स्यात्” इति । तं द्विजम् आश्रित इत्य् अर्थः । अन्येषां कुण्डगोलकादीनां सूतादीनां च प्रतिलोमानां मासम् आशौचम्,

शूद्राणां तु सधर्माणः सर्वे ऽपध्वंस्जाः स्मृताः ।

इति मनूक्तेः । अपध्वंसजा व्यभिचारजाः ।

शौचाशौचे प्रकुर्वीरन् शूद्रवद् वर्णसङ्कराः ।

इति शुद्धितत्त्वे ब्राह्माच् च म्लेच्छादीनां तु नाशौचम् । केवलं मलापकर्षणार्थं मूत्रपुरीषवच् छौचमात्रम् इति विज्ञानेश्वरः । तत्र सूतके मातृवर्जम् अपृश्यत्वं नास्ति,

सूतके सूतिकावर्जं संस्पर्शो न निषिध्यते ।

इत्य् आङ्गिरसोक्तेः । पितुर् अपि स्नानोर्ध्वम्,

माता शुद्ध्येद् दशाहेन स्नानात् तु स्पर्शनं पितुः ।

इति स्मृतेः । शौचे तु देवलः

स्वाशौचकालाद् विज्ञेयं स्पर्शनं तु त्रिभागतः ।

इदम् अल्पे । पूर्णाशौचे त्व् अङ्गिराः

दशाहादित्रिभागेन कृते सञ्चयने क्रमात् ।

अङ्गस्पर्शनम् इच्छन्ति वर्णानां तत्त्वदर्शिनः ॥

इदं कलौ निषिद्धम्, [१८३]

अस्थिसञ्चय्नाद् ऊर्ध्वम् अङ्गस्पर्शनम् एव च ।

इति हेमाद्राव् आदिपुराणे कलिवर्ज्येषूक्तेः । सूतिकायास् तु दशाह एव,

सूतिका सर्ववर्णेषु दशरात्रेण शुध्यति ।

ऋतौ च न पृथक्शौचं सर्ववर्णेष्व् अयं विधिः ।

इति प्रचेतसोक्तेः । यत् तु ब्राह्म,

ब्राह्मणी क्षत्रिया वैश्या प्रसूता दशभिर् दिनैः ।

गतैः शूद्रा च संस्पृश्या त्रयोदशभिर् एव च ॥

इति, तद् असच्छूद्रपरम् । कर्मार्हतां त्व् आह पैठीनसिः

    सूतिकां पुत्रवतीं विंशतिरात्रेण कर्माणि कारयेन् 

    मासेन स्त्रीजननीम् ।

एतच् च विंशतिरात्रम् आशौचोत्तरं ज्ञेयम् । अन्यथा मासाशौचे सपिण्डानाम् आशौचे मध्ये तस्याः कर्मार्हतेत्य् अनौचित्यात्, दशरात्रपर्यन्तं विधिवैषम्याच् च । आपस्तम्बः

क्षत्रविट्शूद्रजातीनां ये स्तो मृतसूतके ।

तेषां तु पैतृकं शौचं विभक्तानां तु मातृकम् ॥ इति ।

मनुः

दशाहं शावम् आशौचं सपिण्डेषु विधीयते ।

दशाहपदं स्वाशौचपरम् । तथा

शवस्पृशो विशुध्यन्ति त्र्यहात् तूदकदायिनः ।

सोदका इत्य् अर्थः । अग्निपुराणे

सपिण्डता तु सर्वेषां गोत्रतः साप्तपौरुषी ।

समानोदकभावश् च निवर्तेताचतुर्दशात् ॥

जन्मनामस्मृतेर् एके तत्परं गोत्रम् उच्यते ।

समानोदकानां तु त्र्यहो गोत्रजानाम् अहः स्मृतम् ॥

प्रयोगपारिजाते अग्निस्मृतौ

स्त्रीजन्मनि सपिण्डश् च सोदकश् च त्र्यहाच् छुचिः ।

स्त्रीषु त्रिपुरुषं ज्ञेयं सपिण्डत्वं द्विजोत्तमाः ॥

वसिष्थः

अप्रत्तानां तु स्त्रीणां त्रिपुरुषी विज्ञायते ।

इदम् आशौचम् औरसस्यैव । दत्तकाद्येकादशपुत्राणां जनने मरणे वा द्वयोः पित्रोस् त्रिरात्रम् एव । तद् उक्तं स्मृतिकौमुद्यां ब्राह्मे

औरसो यदि नो पुत्रस् त्व् अथ वा पुत्रिकासुतः ।

विद्यते तत्र तेषां तु विज्ञेयाः क्षेत्रजादयः ॥

दत्तकश् च स्वयं दत्तः कृत्रिमः क्रीत एव च ।

इत्य् उपक्रम्य,

एकादश पृथग्गोत्रा वंशमात्रकरास् तु ते ।

श्राद्धादि दासवत् सर्वे तेषां कुर्वन्ति नित्यशः ॥

सूतके मृतके वापि त्र्यहाशौचस्य भागिनः ।

**शुद्धितत्त्वे **ऽप्य् एवम् । एवं जनकस्यापि,

बैजिकाद् अभिसम्बन्धाद् अनुरुन्ध्याद् अघं त्र्यहम् ।

इति मनूक्तेः । एवं जनकपालकपितृमातृमृतौ दत्तकानां त्र्यहम् एव । अयं च त्र्यहो विप्रपरः । शूद्राणां त्व् अत्र द्वादशाहः ।

यत्र त्रिरात्रं विप्राणाम् आशौचं सम्प्रदृश्यते ।

तत्र शूद्रे द्वादशाहं षण् णव क्षत्रवैश्ययोः ॥

इति ऋष्यशृङ्गोक्तेर् इति मदनपालः । यत्र वर्णविशेषानुपादानेन त्रिरात्रं यथा सोदके दत्तकादौ च तत्र द्वादशाहः शूद्रे । न तु वयोवस्थानिमित्ते,

तुल्ये वयसि सर्वेषाम् अतिक्रान्ते तथैव च ।

इति व्याघ्रपादोक्तेः । ऋष्यशृङ्गादिवचनानि शिष्टविगानान् नादर्तव्यानीति विज्ञानेश्वरादयः । देशभेदाद् व्यवस्थेति मदनपालः । एवं व्यभिचारिणीनां स्त्रीणां दत्तकादीनां च प्रसवे मरणे च पूर्वापरभर्तोः पित्रोश् च त्रिरात्रम् । तथा च त्रिरात्रानुवृत्तौ विष्णुः

अनौरसेषु पुत्रेषु जातेषु च मृतेषु च ।

परपूर्वासु भार्यासु प्रसूतासु मृतासु च ॥

मरीचिः

सूतके मृतके चैव त्रिरात्रं परपूर्वयोः ।

एकाहस् तु सपिण्डानां त्रिरात्रं यत्र वै पितुः ॥

यत् तु याज्ञवल्क्यः,

अनौरसेषु पुत्रेषु भार्यास्व् अन्यगतासु च ।

इत्य् अहोरात्रम् आह, तत् सपिण्डपरं देशपरं वा । परपत्नीसुता दत्तादयः । बृहस्पतिः

अन्याश्रितेषु दारेषु परपत्नीषु तेषु च ।

मृतेष्व् आप्लुत्य शुध्येत् तु त्रिरात्रेण द्विजोत्तमः73

[१८४] माधवीये हारीतः

परपूर्वासु भार्यासु पुत्रेषु च कृतेषु74 च ।

भर्तृपित्रोस् त्रिरात्रं स्याद् एकाहस् तु सपिण्डतः ॥

शूद्रे तु द्वादशरात्रं प्राग् उक्तम् । परपत्नी स्वयं सङ्गृहीता परपूर्वा । इदं सवर्णासु । हीनवर्णासु तु आशौचाभावः,

आशौचं तु त्रिरात्रं स्यात् समवर्णेषु निश्चितम् ।

इति ब्राह्मोक्तेः । पूर्वापरभर्तुर् उत्पन्नपुत्रयोस् त्व् आह मरीचिः

मातुर् ऐक्याद् द्विपितृकौ भ्रातराव् अन्यगोत्रजौ ।

एकाहं सूतकं तत्र त्रिरात्रं मृतके तयोः ॥

शूद्रे तु विवाहाभावे षड्वर्षोर्ध्वं जात्याशौचम् इति केचित् । तथा च काश्यप-अङ्गिरसौ,

शूद्रे त्रिवर्षन्यूने तु मृते शुद्धिस् तु पञ्चभिः ।

अत ऊर्ध्वं मृते शूद्रे द्वादशाहो विधीयते ॥

षड्वर्षान्तम् अतीतो यः शूद्रः स म्रियते यदि ।

मासिकं तु भवेच् छौचम् इत्य् आङ्गिरसभाषितम् ॥

मेधातिथिर् अपि- “प्राग् अष्टमाच् छुचिः प्रोक्तो ऽन्यैस् त्व् आ षोडशाद् बालः” इति । ये ऽपि षोडशाद् बाल्यनिवृत्तिम् आहुस् तेषाम् अप्य् अष्टमाद् ऊर्ध्वं मासिक्य् एव शुद्धिः ।

ऊर्ध्वं तु षड्भ्यो वर्षेभ्यः शुद्धिः शूद्रस्य मासिकी ।

इति स्मृतेः अष्टवर्षस्य मास इत्य् अन्यत्रोक्तम् इत्य् आह । अपरार्के शङ्खस् तु विवाहाभावे षोडशवर्षोर्ध्वं मासम् आह ।

अनूढभार्यशूद्रस् तु षोडशाद् वत्सरात् परम् ।

मृत्युं समधिगच्छेच् चेन् मासात् तस्यापि बान्धवाः ॥

शुद्धिं समधिगच्छन्ति नात्र कार्या विचारणा । इति ।

यत् तु मदनपारिजाते हारीतः,

आ मौञ्जीबन्धनाद् विप्रः क्षत्रियश् च धनुर्ग्रहात् ।

आ प्रतोदग्रहाद् वैश्यः शूद्रो वस्त्रद्वयग्रहात् ॥

इति, तत्रापि वस्त्रद्वयं षोडशवर्षपरम् एव । यत् तु मदनो द्वादशे वस्त्रद्वयम् आह तन् निर्मूलम् । अत्र सदसच्छूद्रपरा आपदनापद्विषया व्यवस्था । ऊढकन्यानां तु पितृगृहे प्रसवे एकरात्रम् । मरणे त्रिरात्रम् इति विज्ञनेश्वर-अपरार्कौमाधवस् तु प्रसवे ऽपि त्रिरात्रं पित्रोः, एकरात्रं बन्धुवर्गस्य,

दत्ता नारी पितुर् गेहे सूयेताथ म्रियेत वा ।

तद्बन्धुवर्गस् त्व् एकेन शुचिस् तज्जनकस् त्रिभिः ॥

इति ब्राह्मोक्तेर् इत्य् आह । कल्पतरौ शुद्धितत्त्वेकौर्मे

ऽ दत्ता नारी पितुर् गेहे प्रधाने सूयते यदा ।

म्रियते वा तदा तस्याः पिता शुध्येत् त्रिभिर् दिनैः ॥

पतिगृहे प्रसवे पित्रादीनाम् आशौचं नास्ति । मृतौ पित्रोस् त्रिरात्रम् अस्त्य् एव,

प्रत्ताप्रत्तासु योषित्सु संस्कृतासंस्कृतासु च ।

मातापित्रोस् त्रिरात्रं स्याद् इतरेषां यथाविधि ॥

इति माधवीये कार्ष्णाजिनिस्मृतेः । सोदराणां तु भगिनीमृतौ शुद्धितत्त्वे कौर्मे

आ दन्तात् सोदरे सद्य आ चूडाद् एकरात्रकम् ।

आ प्रदानात् त्रिरात्रं स्याद् दशरात्रम् अतः परम् ॥

बृहस्पतिस् तु पक्षिणीम् आह ।

श्वशुरयोर् भगिन्यां च मातुलान्यां च मातुले ।

पित्रोः स्वसरि तद्वच् च पक्षिणीं क्षपयेन् निशाम् ॥

पित्रोर् मृतौ तु माधवीये वृद्धमनुः

पित्रोर् उपरमे स्त्रीणाम् ऊढानां तु कथं भवेत् ।

त्रिरात्रेणैव शुद्धिः स्याद् इत्य् आह भगवान् यमः

भातृभगिन्योः परस्परं पक्षिणी । परस्परमृतौ भ्रातृभगिन्योः पक्षिणी भवेद् इति ब्राह्मात् । षडशीतौ चैवम् । त्रिंशच्छ्लोक्याम् । प्रेतेष्व् आचार्यमातामहदुहितृसुत-श्रोत्रियर्त्विक्सयाज्यस्वस्रीयेषु त्रिरात्रं त्रिदिवसम् अशुचिः सोदकस् तूभयत्र । पक्षिण्याशौचम् ऋत्विग्दुहितृसुतसहाध्यायिबन्धुत्रयान्तेवासि श्वश्रूसुमित्रश्वशुरभगिनिकाभागिनेयप्रयाणे । मातामह्यां च पित्रोः स्वसरि च विरतौ मातुले मातुलान्यां चाथो [१८५] सज्योतिर् एव स्वविषयनृपतौ ग्रामनाथे च नष्ट्ते । शिष्योपाध्यायबन्धुत्रयगुरुतनयाचार्यभार्या-सगोत्रानूचानश्रोत्रियेषु स्वगृहपरमृतौ मातुले चैकरात्रम् । इति सब्रह्मचरिण्य् अथ तु कथम् अपि स्वल्पसम्बन्धयुक्ते स्नानं वासोयुतं स्याद् इदम् अपि सकलं सर्ववर्णेषु तुल्यम् । अत्र मूलं माधवीये मिताक्षरायां च ज्ञेयम् । दौहित्रभागिनेययोर् अनूढयोः पक्षिणी । ऊढयोस् त्रिरात्रम् ।

संस्थिते पक्षिणीं रात्रिं दौहित्रे भगिनीसुते ।

संस्कृते तु त्रिरात्रं स्याद् इति धर्मो व्यवस्थितः ॥

इति वृद्धमनूक्तेः । संस्कृते दाहेनेति गौडाःतन् न विशेषवैयर्थ्यात् । यत्रैकमातुलादौ पक्षिण्येकाहाव् उक्तौ तत्र सन्निधिविदेशाभ्यां व्यवस्था । श्रोत्रिये स्वगृहे मृते त्रिरात्रम्,

श्रोत्रिये तूपसम्पन्ने त्रिरात्रम् अशुचिर् भवेत् ।

इति स्मृतेः । एकग्रामस्थिते त्व् एकाहः । बन्धुत्रयम् उक्तं मिताक्षरायाम्

आत्मपितृष्वसुः पुत्रा आत्ममातृष्वसुः सुताः ।

आत्ममातुलपुत्राश् च विज्ञेया आत्मबान्धवाः ॥

पितुः पितृष्वसुः पुत्राः पितुर् मातृष्वसुः सुताः ।

पितुर् मातुलपुत्राश् च विज्ञेयाः पितृबान्धवाः ॥

मातुः पितृष्वसुः पुत्रा मातुर् मातृष्वसुः सुताः ।

मातुर् मातुलपुत्राश् च विज्ञेया मातृबान्धवाः ॥

अत्र पक्षिणी । गौडास् तु,

समानोदकानां त्र्यहो गोत्रजानाम् अहः स्मृतम् ।

मातृबन्धौ गुरौ मित्रे मण्डलाधिपतौ तथा ॥

इति जाबालोक्तेर् मातृबन्धुष्व् एकाहम् आहुः । यत् तु माधवीये प्रचेताः,

मातृष्वसामातुलयोः श्वश्रूश्वशुरयोर् गुरोः ।

मृते चर्त्विजि याज्ये च त्रिरात्रेण विशुध्यति ॥

इति, तत् स्वगृहमृतौ ज्ञेयम् । अन्यत्र तु वृद्धमनुः

पित्रोः स्वसरि तद्वच् च पक्षिणीं क्षपयेन् निशाम् ।

श्वशुरयोः सन्निधौ त्रिरात्रम् । असन्निधौ पक्षिणी । देशान्तरे एकरात्रम् । शालके ऽपि स्वदेशे एकाहः देशान्तरे स्नानम् । आचार्यपत्नीपुत्रोपाध्यायमातुलश्वशुरश्वश्रूश्वशुर्यसहाध्यायि-शिष्ये ऽप्य् एकरात्रम् इति माधवीये विष्णूक्तेः । हरदत्तो ऽप्य् एवम् आह । श्वशुर्यः शालकः । गौडा अप्य् एवम् । तद् उक्तं षडशीत्याम्

एवं पित्रोर् भगिन्यौ ये ये पितामहयोस् तथा ।

ये मातामहयोश् चैव भगिन्यौ तत्प्रजाश् च याः ॥

मातुलाः स्वस्य पित्रोश् च पत्न्यश् चैषां प्रजाश् च याः ।

मातरश् चेति सर्वेषु पक्षिणी स्वगृहे त्र्यहम् ॥

एवं श्वशुरजामातृदौहित्रविपदि स्मृतम् । पितामही च पितामहश् चेत्य् एकशेषः । यत् तु वृद्धमनुः,

भगिन्यां संस्कृतायां तु भ्रातर्य् अपि च संस्कृते ।

मित्रे जामातरि प्रेते दौहित्रे भगिनीसुते ॥

शालके तत्सुते चैव सद्यः स्नानेन शुध्यति ।

इति, तद् भ्रात्रादौ देशान्तरे शालकसुतजामात्रोः स्वदेशे ज्ञेयम् । विष्णुपुराणे

असपिण्डे स्ववेश्मनि मृते एकरात्रम् ।

प्रधानगृहमृतौ तु त्रिरात्रम् इति माधवःशुद्धितत्त्वे बृहन्मनुः

श्वशूद्रपतिताश् चान्त्या मृताश् च द्विजमन्दिरे ।

द्विजेत्य् उपलक्षणं सम्बुद्धिर् वा ।

शौचं तत्र प्रवक्ष्यामि मनुना भाषितं पुरा ॥

दशरात्राच् छुनि मृते मासाच् छूद्रे भवेच् छुचिः ।

द्वाभ्यां तु पतिते गेहे चान्त्ये मासचतुष्टयात् ॥

अन्त्यजे वर्जयेद् गेहम् इत्य् एवं मनुर् अब्रवीत् ।

अन्त्यो म्लेच्छः अन्त्यजः श्वकाक इति वाचस्पतिःमनुः

द्विजस्य मरणे वेश्म विशुध्यति दिनत्रयात् ।

संवर्तः

गृहशुद्धिं प्रवक्ष्यामि अन्तस्थशवदूषिते ।

प्रोत्सृज्य मृन्मयं भाण्डं सिद्धम् अन्नं तथैव च ॥

गोमयेनोपलिप्याथ छागेन घ्रापयेत्** [१८६]** ततः ।

ब्राह्मणैर् मन्त्रपूतैश् च हिरण्यकुशवारिभिः ॥

सर्वम् अभ्युक्षयेद् वेश्म ततः शुध्य्त्य् असंशयम् ।

क्रियाकर्तुस् तु मूल्याभावे ऽपि पूर्णाशौचम्,

निरन्वये सपिण्डे तु मृते सति दयान्वितः ।

तदाशौचं पुरा चीर्त्वा कुर्यात् तु पितृवत् क्रियाम् ॥

इति माधवीये ब्राह्मोक्तेः । **दिवोदासीये **।

सगोत्रो वासगोत्रो वा यो ऽग्निं दद्यात् सखे नरः ।

सो ऽपि कुर्यान् नवश्राद्धं शुध्यत् तु दशमे ऽहनि ॥

युद्धहते तु मनुः

उद्यतैर् आहवे शस्त्रैः क्षत्रधर्महतस्य च ।

सद्यः सन्तिष्ठते यज्ञस् तथा शौचम् इति स्थितिः ॥

यज्ञो ऽन्त्यकर्म । सर्वं तद् एवेत्य् अर्थः । यत् तु आहवे ऽपि हतानां च एकरात्रम् अशौचम् इति तद् युद्धक्षते कालान्तरमृते ज्ञेयम् । असन्निधौ स्नानम् । सन्निधाव् एकाह इति **माधवः **। यत् तु भारते राजधर्मेषु,

अशोच्यो हि हतः शूरः स्वर्गलोके महीयते ।

न ह्य् अन्नम् उदकं तस्य न स्नानं नाप्य् अशौचकम् ॥

इति श्राद्धादिनिषेधः, स पुत्राद्यभावपरः । अत एव तत्र कर्मादीनां श्राद्धाद्य् उक्तम् । अन्ये तु यतिवद् दशपिण्डनिषेधम् आहुः । शुद्धितत्त्वे अग्निपुराणे

दंष्ट्रिभिः शृङ्गिभिर् वापि हता म्लेच्छैश् च तस्करैः ।

ये स्वाम्यर्थे हता यान्ति राजन् स्वर्गं न संशयः ॥

सर्वेषाम् एव वर्णानां क्षत्रियस्य विशेषतः ।

यत् तु बृहस्पतिः,

डिम्बाहवे विद्युता च राज्ञा गोविप्रपालने ।

सद्यः शौचं मृतस्याहुस् त्र्यहं वान्ये महर्षयः ॥

तत्र शस्त्रं विना तेन वा पराङ्मुखहते त्रिरात्रम् । राज्ञा वध्ये हते सद्यःशौचम् । अन्यत्र त्रिरात्रम् । तत्रैव व्याघ्रः

क्षतेन म्रियते यस् तु तस्याशौचं भवेद् द्विधा ।

आसप्ताहात् त्रिरात्रं स्याद् दशरात्रम् अतः परम् ॥

शस्त्राघाते त्र्यहाद् ऊर्ध्वं यदि कश्चित् प्रमीयते ।

आशौचं प्राकृतं तत्र सर्ववर्णेषु नित्यशः ॥

शस्त्राघातक्षतं विना शवस्पर्शे निर्हारे च तद्गृहवासे तदन्नाशने च शवजातीयं पूर्णाशौचम् । तद्गृहवासमात्रे त्र्यहः । उभयाभावे एकाहः । भृतिग्रहेण निर्हारे पूर्णो मासः । विजातीयनिर्हारे शवजातीयम् । भृतिग्रहणे द्विगुणम् । आपदि समम् । सोदकनिर्हारे पूर्णम् । शवालङ्करणे ज्ञानतः कृच्छ्रपादः । अज्ञानाद् उपवासः । अनाथसवर्णनिर्हरणे ऽग्निदाने चानन्तफलम् । स्नानमात्रेण शुद्धिः,

वोढा चैवाग्निदाता च सद्यः स्नात्वा विशुध्यति ।

इत्य् अपरार्के वृद्धपराशरोक्तेः । मातुलत्वादिसम्बन्धे स्नेहे वा त्रिरात्रम् । गौतमव्याख्यायां वृद्धात्रिः

सूतकाद् द्विगुणं शावं शावाद् द्विगुणम् आर्तवम् ।

आर्तवाद् द्विगुणा सूतिस् ततो ऽपि शवदाहकः ॥

अनुगमने तु सपिण्डे न दोषः । असपिण्डे तु समवर्णे स्नानं घृताशनं पक्षिणी च । उत्तमे स्नानमात्रम् । रोदने तु शूद्रस्य शूद्रे स्पर्शं विना सञ्चयनात् पूर्वव् एकाहः । ऊर्ध्वं सज्योतिर् इति माधवःशुद्धितत्त्वे पारस्करः

अस्थिसञ्चयनाद् ऊर्ध्वं मासं यावद् द्विजातये ।

दिवसेनैव शुध्यन्ति वाससां क्षालनेन च ॥

सजातेर् दिवसेनैव त्र्यहात् क्षत्रियवैश्ययोः । सपिण्डानां न दोषः । मिताक्षरायां पारस्करस् तु,

मृतस्य बान्धवैः सार्धं कृत्वा तु परिदेवनम् ।

वर्जयेत् तद् अहोरात्रं दानश्राद्धादि कर्म च ॥

इति सर्वत्रैकम् आह । आशौच्यन्नभक्षणे त्व् अज्ञाने ऽन्नजरणावधि ज्ञानतः शूद्रस्य स्नानमात्रम् ।

[१९३]

अथ दासाशौचम् ।

तत्र स्वसाद्य् उत्पन्नस्य दासस्य स्वसपिण्डमृतौ स्नानमात्रात् स्वामिकार्ये स्पृश्यत्वम् । भक्तदासस्य त्र्यहोर्ध्वम्, सद्यःस्पृश्यो गर्भदासो भक्तदासस् त्र्यहाच् छुचिर् इति मिताक्षरायां स्मृत्यन्तरात्,

मूल्यकर्मकराः शूद्रदासीदासास् तथैव च ।

स्नाने शरीरसंस्कारे गृहकर्मण्य् अदूषिताः ॥

इति शातातपोक्तेश् च । अत्रैव दत्तादित्रयोदशदासानां स्वाम्य् आशौचसमसङ्ख्यादिनोर्ध्वं स्वस्य मासाद्याशौचे सत्य् अपि स्वामिकार्ये स्पृश्यता,

दासान्तेवासिमृतकाः शिष्याश् चैकत्रवासिनः ।

स्वामितुल्येन शौचेन शुध्यति मृतसूतके ॥

इति बृहसतिस्मृतेः । स्वस्यादृष्टार्थकार्ये मासाद्याशौचं सर्वेषाम् अस्त्य् एव । एवं दास्या अपि । प्रसूतौ तु तस्याः स्वामिकार्ये ऽपि मासमात्रम्,

दासी दासश् च सर्वो वै यस्य वर्णस्य यो भवेत् ।

तद्वर्णस्य भवेच् छौचं दास्या मासस् तु सूतकम् ॥

इत्य् अङ्गिरसोक्तेः । षडशीताव् अपि ।

स्वामिशौचेन दासाद्याः स्पृश्या मासात् तु कर्मसु ।

योग्याः स्युर् मासतो दासी सूती चेत् स्पृश्यताम् इयात् ॥

दासास् तु नारदोक्ताः ।

गृह जातस् तथा क्रीतो लब्धो दायाद् उपागतः ।

अनाकालभृतस् तद्वद् आहितः स्वामिना च यः ॥

मोक्षितो महतश् चर्णाद् युद्धप्राप्तः पणे जितः ।

तवाहम् इत्य् उपगतः प्रव्रज्यावसितः कृतः ॥

भक्तदासश् च विज्ञेयस् तथैव वडवाहृतः ।

विक्रेता चात्मनः शास्त्रे दासाः पञ्चदश स्मृताः ॥

वडवा दासी तल्लोभाद् दासो जात इत्य् अर्थः । दासादेः स्वामितत्सपिण्डमरणे तु विष्णुः

    पत्नीनां दासानाम् आनुलोम्येन स्वामितुल्यम् आशौचम् । मृते स्वामिन्य् आत्मीयम् । इति ।

प्रतिलोमदासादेर् नाशौचम्, “वर्णानाम् आनुलोम्येन (दास्यं न) प्रतिलोम(तः)” इति याज्ञवल्क्योक्तेः । शास्त्रातिक्रमेण दास्यकरणे ऽपि नाशौचम्, “आनुलोम्ये नाशौचम्” इति विष्णूक्तेः ।75

[१९४]

अथातिक्रान्ताशौचम् ।

तत्राशौचमध्ये ज्ञाते तच्छेषमात्रम्, “नाधिकं प्रोषिते कालशेषः स्यात्” इति याज्ञवल्क्योक्तेः । प्रसवे अतिक्रान्ताशौचं नास्त्य् एव,

नाशुद्धिः प्रसवाशौचे व्यतीतेषु दिनेष्व् अपि ।

इति देवलोक्तेः । तत्रापि पितुः स्नानं भवत्य् एव । अशौचोत्तरं ज्ञाते तु वृद्धवसिष्ठः

मासत्रये त्रिरात्रं स्यात् षण्मासे पक्षिणी तथा ।

अहस् तु नवमाद् अर्वाग् ऊर्ध्वं स्नानेन शुध्यति ॥

इदं पूर्णजात्याशौचविषये एव, न तु वयोवस्थानिमित्ते । “अतिक्रान्ते दशाहे तु” इति मनूक्तेः । यत् तु माधवीये देवलः,

आ त्रिपक्षात् त्रिरात्रं स्यात् षण्मासात् पक्षिणी ततः ।

परम् एकाहम् आ वर्षाद् ऊर्ध्वं स्नातो विशुध्यति ॥

इति, तद् अनापदि ज्ञेयम् । इदं चैकदेशे । देशान्तरे तु स्नानमात्रम्,

देशान्तरमृतं श्रुत्वा क्लीबे वैखानसे यतौ ।

सद्यः स्नानेन शुध्यन्ति गर्भस्रावे च गोत्रिणः ॥

इति परासरोक्तेर् इति **विज्ञानेश्वरः **। माधवीय विष्णुस् तु,

अर्वाक् त्रिपक्षं त्रिनिशं षण्मासाच् च दिवानिशम् ।

अहः संवत्सराद् अर्वाग् देशान्तरमृतेष्व् अपि ॥

इत्य् आह । अत्रापदनापद्भ्यां व्यवस्था । देशान्तरं त्व् आह बृहस्पतिः

महानद्यन्तरं यत्र गिरिर् वा व्यवधायकः ।

वाचो यत्र विभिद्यन्ते तद् देशान्तरम् उच्यते ॥ इति ।

वाचो देशभाषाः तद्भेद उभयशेष इति द्वाव् एव पक्षौ, वाशब्दस्यैकत्वात् । मातापित्रोस् तु सर्वत्र पूर्णम् एवाशौचम्,

पितरौ चेन् मृतौ स्यातां दूरस्थो ऽपि हि पुत्रकः ।

श्रुत्वा तद् दिनम् आरभ्य दशाहं सुतकी भवेत् ॥

इति पारस्करोक्तेः । स्त्रीपुंसयोः परस्परं सपत्न्योश् चैवम् इति स्मृत्यर्थसारे । सापत्नमातुस् तु त्रिरात्रम् । व्याघ्रः

तुल्यं वयसि सर्वेषाम् अतिक्रान्ते तथैव च ॥ इति ।

[१९६]

आशौचसम्पाते निर्णयः ।

तत्र पूर्णाशौचस्य द्वितीयाद्यहःसु यदि सजातीयं शावे जननं वा समं न्यूनं वा स्यात् तदा पक्षषट्के पूर्वशेषेण शुद्धिः,

अन्तरा जन्ममरणे शेषाहोभिर् विशुध्यति ।

इति याज्ञवल्क्योक्तेः । इदं पूर्णाशौचे । त्र्यहाद्यल्पाशौचसम्पाते तूत्तरम् एवेति **गौडाः **। हरदत्तो ऽप्य् एवम् । अन्ये तु तत्रापि पूर्वेण शुद्धिम् आहुः । यदा तु जनने शावं समन्यूनम् अधिकं वा तदा परम् एव कार्यम् । न पूर्वशेषाच् छुद्धिः, अस्पृश्यत्वाधिक्यात्,

शावेन शुध्यते सूतिर् न सूतिः शावशोधिनी ।

इति षट्त्रिंशन्मतात्,

मरणोत्पत्तियोगे तु गरीयो मरणं भवेत् ।

इति कौर्माच् च । षडशीतौ तु,

स्वभावबहुसूतिस् तु न्यूनशावविशोधिनी ।

इति शावस्यापि सूत्या निवृत्तिर् उक्ता । त्र्यहादिशावमध्ये सजातीयं विजातीयं वा दीर्घकालम् उत्तरं चेत् तदा न पूर्वेण शुद्धिर् इत्य् अपरार्कःशुद्धिविवेके तु “शावेन शुध्यते सूतिर्” इत्य् अविशेषात् तत्रापि पूर्वेण शुद्धिर् उक्ता । तन् न, उत्तरस्य कालाधिक्येन बलवत्त्वात्,

यथा त्रिरात्रे ऽपक्रान्ते दशाहं प्रविशेद् यदि ।

अशौचं पुनर् आगच्छेत् तत् समाप्य विशुध्यति ॥

इति यमोक्तेर् इति **माधव-हरदत्त-मिताक्षरादयः **। इदं “शावेन शुध्यते सूतिर्” अस्य बाधकम्, अन्य्था वचनवैयर्थ्यात् । तेन सूत्या शावाशौचे त्रिरात्रशुद्धाव् अपि शावनिमित्तम् अस्पृश्यत्वं भवत्य् एव, “गरीयो मरणं भवेद्” इति कौमात् । पूर्वशेषशुद्धेर् अपवादम् आह शातातपः:

रात्रिशेषे द्व्यहाच् छुद्धिर् यामशेषे शुचिस् त्र्यहात् । इति ।

अत्र रात्रिशब्दो ऽहोरात्रपरः । “अहःशेषे द्वाभ्यां प्रभाते तिसृभिः” इति शङ्खलिखितोक्तेः । अथ यदि दशरात्रसन्निपाते पुराद्यं दशरात्रम् आशौचम् आ नवमाद् दिवसाद् अत ऊर्ध्वं द्विरात्रेण व्युष्टायां त्रिरात्रेणेति बौधायनोक्तेश् चेति पराशर-माधव-हारलता-शुद्धितत्त्वादय । **गौडा **अप्य् एवम् । रात्रिमात्रावशिष्टे इति तु विज्ञानेश्वरादयः । अत्र देशाचारतो व्यवस्था । विशेषो निर्णयसिन्धौ ज्ञेयः । रात्रिशेषे त्रिरात्रादिसम्पाते तु पूर्वशेषेणैव शुद्धिः । पूर्वाशौचान्तर्वर्धितद्वित्रिदिनमध्ये ऽधिकाशौचान्तरपाते तु वर्धितस्याल्पत्वाद् अधिकेनैव शुद्धिः । न च वर्धितस्य पूर्वशेषत्व,। रात्रिशेषे पूर्वशेषशुद्ध्यपवादे नैमित्तिकावृत्तिन्यायोज्जीवनात्, अपवादाभावे उत्सर्गप्राप्तेः । अपवादान्तरम् आह शङ्खः

मातर्य् अग्रे प्रमीतायाम् अशुद्धौ म्रियते पिता ।

पितुः शेषेण शुद्धिः स्यान् मातुः कुर्यात् तु पक्षिणी ॥

पित्राशौचमध्ये मातृमृतौ पक्षिणीम् अधिकां कुर्याद् इति तुर्यपदार्थः । इदं दशमदिनात् पूर्वं मातृमरणे । दशम्यां रात्रौ तत्प्रभाते वा मातृमरणे द्व्यहत्र्यहयोः पक्षिण्या समुच्चय इत्य् एकेतन् न, सङ्ख्यान्तरापत्त्या त्र्यहादिश्रुतिबाधापत्तेः । अत एवैका देया षड् देया इत्यासिश्रुतसङ्ख्याबाधापत्तेः समुच्चयो निरस्तो द्वादशाध्याये । मातुर् अन्वारोहणे तु न पक्षिणी,

यदा नारी विशेद् अग्निं प्रियस्य प्रियवाञ्छया ।

तदाशौचं विधातव्यं भर्त्राशौचक्रमेण हि ॥

इति पृथ्वीचन्द्रोदये लघुहारीतोक्तेः । [१९७] मातापित्रोर् भर्तुश् चान्यसपिण्डाशौचेन निवृत्तिर् नास्त्य् एव,

श्रुत्या तद् दिनम् आरभ्य दशाहं सूतकी भवेत् ।

इति स्मृतेः । भर्त्राशौचोत्तरम् अन्वारोहणे त्रिरात्रम्,

त्र्यहाशौचे तु निर्वृत्ते श्राद्धं प्राप्नोति शास्त्रतः ।

इत्य् अपरार्के ब्राह्मोक्तेः । सहगमने तु सम्पूर्णम् । युद्धहतस्य सद्यःशौचे ऽन्वारोहणे ब्राह्मोक्तेस् त्रिरात्रत्वात् । भर्तुर् अपि त्र्यहेण पिण्डदानम् । एकचित्तौ तु सद्यःशौचम् । षडशीतौ

पूर्वाशौचेन या शुद्धिः सूतके मृतके च सा ।

सूतिकाम् अग्निदं हित्वा प्रेतस्य च सुतान् अपि ॥

तथा शावादिमध्ये पुत्रोत्पत्तौ जातकर्मादि कार्यम् एव । मातुः पक्षिणीमध्ये पितुर् एकादशाहवृषोत्सर्गादि कार्यम् एवेति देवयाज्ञिकाः

[१९९]

अथाशौचापवादः ।

शुद्धितत्त्वे कौर्मे

सद्यः शौचं समाख्यातं दुर्भिक्षे वाप्य् उपद्रवे ।

डिम्बाहवहतायां च विद्युता पार्थिवैर् द्विजैः ॥

उपद्रवेत्य् अन्तमारके । पराशरो ऽपि ।

उपसर्गमृते चैव सद्यःशौचं विधीयते ।

उपसर्गो ऽत्यन्तमारक इति **शूलपाणि-हारलतादयः **। तथा मुमूर्षोर् दानादौ नाशौचम् ।

आपद्य् अपि च क्लिष्टानां सदःशौचं विधीयते ।

इति याज्ञवल्क्योक्तेः । शुद्धिरत्नाकरे दक्षो पि ।

स्वस्थकाले त्व् इदं सर्वं सूतकं परिकीर्तितम् ।

आपद्गतस्य सर्वस्य सूतके ऽपि न सूतकम् ॥

प्रचेताः

कारवः शिल्पिनो वैद्या दासीदासास् तथैव च ।

राजानो राजभृत्याश् च सद्यःशौचाः प्रकीर्तिताः ॥

कारवः सूपकारा वा शिल्पिनश् चैलधावकाः ॥

लघुविष्णुः

व्रतयज्ञविवाहेषु श्राद्धे होमे ऽर्चने जपे ।

आरब्धे सूतकं न स्याद् अनारब्धे तु सूतकम् ॥

प्रारम्भो वरणं यज्ञे सङ्कल्पो व्रतसत्रयोः ।

नान्दीमुखं विवाहादौ श्राद्धे पाकपरिक्रिया ॥

यत् तु विष्णुः “न व्रतिनां व्रते” इति, तद् अप्य् आरब्धपरम् । त्रिंशच्छ्लोक्याम्

    न प्रारब्धेषु दानोपनयनयजनश्राद्धयुद्धप्रतिष्ठाचूडातीर्थार्थ-यात्राजप-परिणयनाद्युत्सवेष्व् एतदर्थे । 

अपिशब्देन भारत-हरिवंशादिश्रवणे ऽपि नाशौचम्,

गृहीतनियमस्यापि न स्याद् अन्यस्य कस्चचित् ।

इति ब्राह्मोक्तेः । चन्द्रिकायां जाबालिः

सन्ध्या पञ्च महायज्ञा नैत्यकं स्मृतिकर्म च ।

तन्मध्ये हापयेत् तेषां दशाहान्ते पुनः क्रिया ॥

ग्रहणे त्व् आशौचमध्ये ऽपि श्राद्धदानादि कार्यम् एव,

तावद् एव भवेच् छुद्धिर् यावन् मुक्तिर् न दृश्यते ।

इति लैङ्गोक्तेः ।

[२००]

अथ मृतदोषे ।

हेमाद्रौ षट्त्रिंशन्मत-कौर्मयोः

व्यापादयेद् य आत्मानं स्वयम् अग्न्युदकादिभिः ।

विहितं तस्य नाशौचं नापि कार्योदकक्रिया ॥

भविष्ये

स्वेच्छया मरणं विप्राः शृङ्गिदंष्ट्रिसरीसृपैः ।

अन्त्यान्त्यजविषोद्बन्धैर् आत्मना चैव ताडनैः ॥

पाखण्डम् आश्रिताश् चैव महापातकिनस् तथा ।

स्त्रियश् च व्यभिचारिण्य आरूढपतितास् तथा ॥

न तेषां स्नानसंस्कारो न श्राद्धं न सपिण्डनम् ।

ब्राह्मे

एतानि पतितानां तु यः करोति विमोहितः ।

तप्तकृच्छ्रद्वयेनैव तस्य शुद्धिर् न चान्यथा ॥

इदं कामतः । अज्ञाने त्व् अर्धम् । स्पर्शाश्रुणोर् ज्ञानतस् त्रिरात्रम् । अज्ञाने एकोपवास इत्यादि निर्णयसिन्धौ ज्ञेयम् । इदं दर्पाद् बुद्धिपूर्वकृते76 ज्ञेयम् । अबुद्धिपूर्वं प्रमादहते तु सर्वं कार्यम्,

अथ कश्चित् प्रमादेन म्रियेताग्न्युदकादिभिः ।

तस्याशौचं विधातव्यं कर्तव्या चोदकक्रिया ॥

इत्य् अङ्गिरसोक्तेः । प्रमादमरणे त्रिरात्राशौचम् इति शुद्धितत्त्वादयो गौडाः । दशाहाद् इति दाक्षिणात्याः । अस्यापवादो हेमाद्रौ भविष्ये

प्रमादाद् इच्छया वापि न कुर्यात् सर्पतो मृते ।

नागपूजां विना नेत्य् अर्थः । तत्र प्रमादम्र्ते दुरमरणनिमित्तं दानाद्य् उक्तं शातातपेन

व्याघ्रेण निहते विप्रे विप्रकन्यां विवाहयेत् ।

सर्पदष्टे नागबलिर् देयः सर्पश् च काञ्चनः ॥

इत्यादिना । तन् निर्णयसिन्धौ ज्ञेयम् । सर्पदष्टे ऽपि व्यासः

सौवर्णभारनिष्पन्नं नागं कृत्वा तथैव गाम् ।

व्यासाय दत्वा विधिवत् पितुर् आनृण्यम् आप्तवान् ॥

हेमाद्रौ भविष्य

पञ्चम्यां पन्नगं हैमं स्वर्णेनैकेन कारयेत् ।

क्षीराज्यपात्रम् अध्यस्थं पूज्यं विप्राय दापयेत् ॥

प्रायश्चित्तम् इदं प्रोक्तं नागदष्टस्य शम्भुना ।

दर्पात् सर्पमृते नारायणबलिनास्य समुच्चयः । तथा वैद्यमरणे ऽपि न दोषः । [२०१]

वृद्धः शौचस्मृतेर् लुप्तः प्रत्याखातम् इषत्क्रियः ।

आत्मानं घातयेद् यस् तु भृग्वग्न्यनशनाम्बुभिः ॥

तस्य त्रिरात्रम् आशौचम् ।

द्वितीये तूदकं ऋत्वा चतुर्थे श्राद्धम् आचरेत् ।

इति वृद्धगार्ग्योक्तम् । **अपरार्के ब्रह्मगर्गः **।

यो जीवितुं न शक्नोति महाव्याध्युपपीडितः ।

सो ऽग्न्युदकं महायात्रां कुर्वन् नामुत्र दुष्यति ॥

तच् च प्रयागभिन्ने देशे रोगिणाम् एव । तद् अपि जीर्णवानप्रस्थस्यैवेति विज्ञानेश्वरादयः । प्रयागे त्व् अरोगिणाम् अपि । विशेषतः शूद्रस्यान्यत्रापि,

अब्राह्मणो वा स्वर्गादिमहाफलजिगीषया ।

प्रविशेज् ज्वलनं दीप्तं करोत्य् अनशनं तथा ।

इत्य् आदिपुराणात् । इदं वृद्धादिमरणम्, यद्य् अपि

भृग्वग्निपतनैश् चैव वृद्धादिमरणं तथा ।

इति माधवीये आदिपुराणोक्तेः कलौ निषिद्धम्, तथापि प्रयागे भवत्य् एव, “ये वै तन्वां विसृजन्ति” इति श्रुतेः

न लोकवचनात् तात न वेदवचनाद् अपि ।

मतिर् उत्क्रमणीया ते प्रयागमरणं प्रति ॥

इति भारत-मात्स्योक्तेः ।

तत्र यो मुञ्चति प्राणान् वटमूलेषु सुन्दरि ।

सर्वलोकान् अतिक्रम्य मम लोकं प्रपद्यते ॥

इति वाराहोक्तेः । अत्र दशाहानि पूर्णशौचम् इति भाट्टाः । युक्तं तु त्रिरात्रम्, अनशनमृतोक्तेः । दिवोदासो ऽप्य् एवम् । यच् च पूर्वोक्तानाम् अशनिहतानाम् अग्निजलप्रविष्टानां भृगुसङ्ग्राम-देशान्तरमृतानां जातदन्तानां च त्रिरात्रम् इति शुद्धितत्त्वे काश्यपोक्तेः । आत्मघातिनो दाहाशौचादिनिषेधः स तदानीम् एव । वर्षान्ते तु सर्वं कुर्यात्,

गोब्राह्मणहतानां च पतितानां तथैव च ।

ऊर्ध्वं संवत्सरात् कुर्यात् सर्वम् एवौर्ध्वदैहिकम् ॥

इति **हेमाद्रौ षट्त्रिंशन्मतात् **। तत्रात्मवधप्रायश्चित्तं नारायणबलिश् चोक्तः । तत्रैव ।

कृत्वा चान्द्रायणं पूर्वं क्रिया कार्या यथाविधि ।

नारायणबलिः कार्यो लोकगर्गाभयान् नरैः ॥

पिण्डोदकक्रियाः पश्चाद् वृषोत्सर्गादिकं च यत् ।

एकोद्दिष्टानि कुर्वीत सपिण्डीकरणं तथा ॥

मदनरत्ने ब्राह्मे तु,

प्रमादाद् अपि निःशङ्कस् त्व् अकस्माद् विधिचोदितः ।

चण्डालैर् ब्राह्मणैश् चौरैर् निहतो यत्र कुत्रचित् ॥

तस्य दाहादिकं कार्यं यस्मान् न पतितस् तु सः ।

चान्द्रायणं ततः कृच्छ्रद्वयं तस्य विशुद्धये ॥

यद् वा कृच्छ्रान् पञ्चदश कृत्वा तु विधिना दहेत् ।

बुद्धिपूर्वकृतानां77 तु त्रिंशत्कृच्छ्रं समाचरेत् ॥

इत्य् उक्तम् । नारायणबलिस् तु **मिताक्षरायां **मत्कृते **निर्णयसिन्धौ **ज्ञेयः । विदेशमृते त्व् अस्थ्नाम्78 एव सम्भवे दाहः । तदभावे पलाशवृन्तैः । तदभावे कुशैः ।

विदेशमरणे ऽस्थीनि आहृत्याभ्यज्य सर्पिषा ।

अस्थ्नाम् अलाभे पर्णानि शकलान्य् उक्तयावृता ॥

दाहयेद् अस्थिसङ्ख्यानि ततः प्रभृति सूतकम् ।

हेमाद्रौ षट्त्रिंशन्मते

कुर्याद् दर्भमयं प्रेतं कुशैस् त्रिशतषष्टिभिः ।

पालाशीभिः समिद्भिर् वा सङ्ख्या चैवं प्रकीर्तिता ॥

मदनरत्ने यज्ञपार्श्वः

दद्याच् छिरस्य् अशीत्यर्धं79 ग्रीवायां तु दशैव तु ।

बाह्वोश् चैकशतं दद्याद् दश चैवाङ्गुलीषु च ॥

उरसि त्रिंशतं दद्याद् विंशतिं जठरोदरे ।

द्वादशार्धं वृषणयोर् अष्टार्धं शिश्न एव तु ॥

ऊर्वोश् चैकशतं दद्यात् त्रिशतं जङ्घयोर् द्वयोः ।

पादाङ्गुलीषु दश दद्याद् एतत् प्रेतस्य कल्पनम् ॥

मस्तके नारिकेलं तु अलाबुं तालुके तथा ।

पञ्चरत्नं मुखे न्यस्य जिह्वायां कदलीफलम् ॥

चक्षुषोस् तु कपर्दी द्वौ [२०२] नासिकायां तु कालकम् ।

कर्णयोर् ब्रह्मपत्राणि केशे वटप्ररोहकाः ॥

नालकं कमलानां तु अन्त्रस्थाने विनिक्षिपेत् ।

मृत्तिका तु वसो धातुर् हरितालकगन्धकौ ॥

शुक्रे तु पारदं दद्यात् पुरीषे पित्तलं तथा ।

सन्धिषु तिलपिष्टं तु मांसे स्याद् यवपिष्टकम् ॥

मधु स्याल् लोहितस्थाने त्वचः स्थाने मृगत्वचा ।

स्तनयोर् गुञ्जके देये नासायां शतपत्रकम् ॥

कमलं नाभिदेशे स्याद् वृन्ताकं वृषणाश्रिते ।

लिङ्गे च रक्तमूलं तु परिधानं दुकूलकम् ॥

गोमूत्रं गोमयं गन्धं सर्वोषध्यादि सर्वतः ।

क्रियानिबन्धे गारुडे त्व् एतदन्ते ।

वृन्तं80 नाभ्यां प्रदेयं स्यात् कौपीने च त्रपु स्मृतम् ।

मौक्तिके स्तनयोर् मूर्ध्नि कुङ्कुमेन विलेपनम् ॥

प्रोषितस्य वार्ताश्रवणाभावे तु पितुः पञ्चदशाब्दानि प्रतीक्षा । तदन्यस्य द्वादशाब्दानीति मदनरत्ने उक्तम् । तत्र पत्नीपुत्रयोः पूर्वम् अगृहीताशौचयोः पूर्णाशौचम् । गृहीताशौचयोस् त्रिरात्रम् । द्वादशवर्षपर्तीक्षोत्तरं दाहे तु पुत्रादीनां सर्वेषां त्रिरात्रम् इति कल्पतरुः । पर्णशरदाहोत्तरम् अस्थ्युपलम्भे तु मदनरत्ने ब्राह्मे

अथ पार्णनरे दग्धे पत्रन्यासे कृते सति ।

गतेष्व् अग्निषु तद्देहो यद् ऊर्ध्वं लभ्यते क्वचित् ॥

तदार्धदग्धकाष्ठानि तानि निर्मथ्य तं दहेत् ।

यद्य् अर्धदग्धकाष्टं तु तदीयं नैव लभ्यते ॥

तदा यद् अस्थिखण्डं तु निक्षेप्तव्यं महाजले ।

[२०५]

अथ प्रेतदाहकालः ।

प्रत्यक्षशवदाहे न शोधनम् । आशौचमध्ये संस्कारे सति सम्भवे शोध्यं तदन्ते शोध्यम् एव । अब्दान्ते उत्तरायणं श्रेष्ठम् । तत्रापि कृष्णपक्षः । भरणीकृत्तिकारोहिण्यार्द्रमघाश्लेषामूलत्रिपादज्येष्ठाधनिष्ठादिपञ्च च जन्मदशमैकोनविंशताराः चतुर्थाष्टमद्वादशचन्द्रदिनक्षयवैधृतिव्यतीपातपरिघ-विष्ठिकरणनन्दाभद्रात्रयोदशीचतुर्दशीतिथिशुक्रभौमशनिवारगुरुशुक्रास्तपौष-मलमासाः सर्वथा वर्ज्याः । मन्वादियुगादिसङ्क्रान्तिदर्शेषु किम् अपि न शोध्यम् । मूलं विशेषश् च निर्णयसिन्धौ ज्ञेयः ।

इति नारायणभट्टसूनुरामकृष्णभट्टसूनु-

कमलाकरभट्टकृते शूद्रधर्मतत्त्वे आशौचनिर्णयः ।

[२०६]

अथ शूद्रस्यौर्ध्वदेहिकप्रयोगः ।

तत्राधिकारिणो निर्णयसिन्धौ ज्ञेयाः । सर्वाभावे धर्मपुत्रो वा कार्यः,

अपुत्रेण सुतः कार्यो यादृक् तादृक् प्रयत्नतः ।

पिण्डदानक्रियाहेतोर् धर्मसंस्थापनाय च ॥

इति व्यासोक्तेः । दिवोदासीये

दृष्ट्वा स्थानस्थम् आसन्नम् अर्धोन्मीलितलोचनम् ।

भूमिथं पितरं पुत्रो यद् धि दानं प्रदापयेत् ॥

तद् विशिष्टं गयाश्राद्धाद् अश्वमेधशताद् अपि ।

भारते

शुक्लपक्षे दिवा भूमौ गङ्गायां चोत्तरायणे ।

धन्यास् तात मरिष्यन्ति हृदयस्थे जनार्दने ॥

हेमाद्रौ वाराहे

व्यतीपातो ऽथ सङ्क्रान्तिस् तयैव ग्रहणं रवेः ।

पुण्यकालास् तदा सर्वे यदा मृत्युर् उपस्थितः ॥

तत्रैव व्यासः

आसन्नमृत्युना देया गौः सवत्सा तु पूर्ववत् ।

तदभावे तु गौर् एव नरकोत्तारणाय वै ॥

मदनरत्ने जातूकर्ण्यः

उत्क्रान्त्यादीनि दानानि दश दद्यान् मृतस्य तु ।

गोभूतिलहिरण्याज्यवासोधान्यगुडानि च ।

रूप्यं लवणम् इत्य् आहुर् दश दानान्य् अनुक्रमात् ॥

एतानि दश दानानि नराणां मृत्युजन्मनोः ।

कुर्याद् अभ्युदयार्थं तु प्रेते ऽपि हि परत्र वै ॥

ब्राह्मे

ताम्रपात्रं तिलैः पूर्णं प्रस्थमात्रं द्विजाय तु ।

सहिरण्यं च यो दद्याच् छ्रद्धावित्तानुसारतः ।

सर्वपापविशुद्धात्मा लभते गतिम् उत्तमाम् ॥

उत्क्रान्तिवैतरण्यौ च दशदानानि चैव हि ।

प्रेते ऽपि कृत्वा तं प्रेतं शवधर्मेण दाहयेत् ॥

क्रियानिबन्धे गारुडे त्व् अष्टौ दानान्य् उक्तानि ।

तुलसीं सिन्निधौ कृत्वा शालग्रामशिलां तथा ।

तिला लोहं हिरण्यं च कार्पासं लवणं तथा ॥

सप्तधान्यं क्षितिर् गाव एकैकं पावनं स्मृतम् ।

तिलपात्रं यथाशक्ति शय्यादानं च कारयेत् ॥ इति ।

परिशिष्टे

म्रियमाणस्य कर्णे तु पुण्यमन्त्रान् जपेत् ततः ।

मुमूर्षोर् मधुपर्कदानम् उक्तं वाराहे

दृष्ट्वा सुविह्वलं ह्य् एनं यममार्गानुसारिणम् ।

प्रयाणकाले तु नरो मन्त्रेण विधिपूर्वकम् ॥

मधुपर्कं त्वरन् गृह्य इमं मन्त्रम् उदीरयेत् ।

गृहाण चेमं मधुपर्कम् आद्यं

संसारनाशनकरं त्व् अमृतेन तुल्यम् ।

नारायणेन रचितं भवत्प्रियाणां

दाहेन शान्तिकरणं सुरलोकपूज्यम् ॥

अनेनैव तु मन्त्रेण दद्याच् च मध्पर्कम् ।

नरस्य मृत्युकाले तु परलोकसुखावहम् ॥

दैवजानीये ऽप्य् एवम् ।

[२०७]

अथ प्रयोगः ।

पुत्रादिर् आसन्नमृत्युं पित्रादिं ज्ञात्वा षडब्दं त्र्यब्दं सार्धाब्दं प्रायश्चित्तं कारयेत् । यथा सप्त पञ्च त्रीन् एकं वा द्विजपर्षदम् उपवेश्यार्द्रवासाः सुवर्णरूप्ययोर् निष्कं तदर्धं वा गोस् तच्चतुर्गुणं वृषस्येत्य् एवं गोवृषमूल्यं निधाय साष्टाङ्गं प्रणम्य तैः किं ते कार्यम् इति पृष्टे मम जन्मप्रभृत्यद्ययावत् ज्ञानाज्ञानकामाकामसकृदसकृत् कायिकवाचिकमानसिकसांसर्गिकस्पृष्टास्पृष्टभुक्ताभुक्तपीतापीतज्ञाताज्ञातसकलपातकोप-पातकसङ्कलीकरणमलिनीकरनापात्रीकरणजातिभंशकरप्रकीर्णपातकानां निरासार्थम् अनुग्रहं कृत्वा प्रायश्चित्तम् उपदिशन्तु भवन्तः इत्य् उक्त्वा ।

सर्वे धर्मविवेक्तारो गोप्तारः सकला द्विजाः ।

मम देहस्य संशुद्धिं कुर्वन्तु द्विजसत्तमाः ॥

मया कृतं महाघोरं ज्ञातम् अज्ञातकिल्बिषम् ।

प्रसादः क्रियतां मह्यं शुभानुज्ञां प्रयच्छथ ॥

पूज्यैः कृतः पवित्रो ऽहं भवेयं द्विजसत्तमैः ।

इति पठेच् छृणुयाद् वा । निष्कस् तु चतुःसुवर्णः । पुत्रादिस् त्व् अस्येत्यादि वदेत् । ततः सभ्यास् तस्य शक्त्यनुसारेण प्रायश्चित्तम् अनुवादकाग्रे वदेयुः । तदा शोध्यो गन्धादिना पुस्तकस्य सभ्यानाम् अनुवादकस्य च पूजां कृत्वा, तस्मै दक्षिणां पापानुसारेण दद्यात् । गोमूल्यं निबन्धपूजात्वेन पुस्तके निवेदयेद् इत्य् आचारः । ततः सभ्याः अमुकप्रायश्चित्तेन पूर्वोत्तराङ्गयुतेन यथाशक्ति प्रत्याम्नायद्वारा चीर्णेन त्वं शुद्धो भविषसीत्य् अनुवादकाग्रे त्रिर् वदेयुः । शोध्यस् त्व् अनुग्रह इत्य् उक्त्वा रिकायां नद्यादौ गत्वाचम्य देशकालौ स्मृत्वा मम जन्मप्रभृतीत्यादि निरासार्थम् इत्यन्तम् उक्त्वा सभ्योपदिष्टम् अमुकप्रायश्चित्तं पूर्वोत्तराङ्गयुतम् अमुकप्रत्याम्नायद्वारा यथाकालं करिष्ये इत्य् उक्त्वा ।

यानि कानि च पापानि ब्रह्महत्यासमानि च ।

केशान् आश्रित्य तिष्ठन्ति तस्मात् केशान् वपाम्य् अहम् ॥

इति कक्षोपस्थवर्जं केशश्मश्रुनखानि वापयित्वा ।

आयुर् बलं यशो वर्चः प्रजाः पासुवसूनि च ।

ब्रह्म प्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥

इति दन्तधावनं कृत्वा, तूष्णीं स्नात्वा प्रायश्चित्ताङ्गत्वेन भस्मस्नानं करिष्ये । रुद्राय नम इत्य् उक्त्वा भस्मना स्नात्वैवं गोमयमृद्वारिगोक्षीरदधिसर्पिःकुशोदकैः स्नात्वा धौतं वासः परिधाय तिलकं घृत्वा ।

गवाम् अङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश ।

यस्मात् तस्माच् छिवं मे स्याद् इह लोके परत्र च ॥

इत्यादि गोदानं कृत्वा, पापापहमहाविष्णुप्रीत्यर्थं चतुरादियुग्मान् ब्राह्मणान् आमान्नानि दत्वा पञ्चगव्यं प्राश्नीयान् न वा । आज्यहोमस् तु न शूद्रस्य ।

आज्येनैव हि शालाग्नौ जुहुयाद् द्व्याहुतीः पृथक् ।

इति जाबालिना गृह्याग्निनियमात्, अग्नेः प्रतिनिध्यभावाच् च,

तस्माच् छूद्रं समासाद्य सदा धर्मपथे स्थितम् ।

प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जितम् ॥

इति पराशरोक्तेश् च । तेन विप्रद्वारा होमः परास्तः । ततस् तद्दिने प्रायश्चित्तं कृत्वा विष्णुश्राद्धान्ते गोदानानि प्राग्वत् कृत्वा पूर्वोक्तदशदानानि दद्यात् । दानमन्त्रास् तु मत्कृते दानकमलाकरे ज्ञेयाः ।

[२१०]

अथ वैतरणीदानम् ।

ततो वैतरणीदानम् । यथा देशकालौ स्मृत्वा मम यमद्वारस्थनद्याः सुखोत्तरणार्थं दिव्यमानुष्यसर्वसुखप्राप्त्यर्थं वैतरणीदानं करिष्ये इत्य् उक्त्वा, द्रोणप्रमाणकार्पास-शिखरोपरि ताम्रपात्रे हैमं महिषारूढं दक्षिणे लोहदण्डं वामे पाशं च दधानं यमं सम्पूज्य तत्रेक्षुदण्डमयीं नौकां पट्टसूत्रेण बध्वा तत्रस्थां कृष्णधेनुं सवत्सां स्वर्णशृङ्गरौप्यखुरकांस्यदोहनकृष्णवस्त्रयुगसप्तधान्यछत्रोपानद्युतां सम्पूज्याधिवास्यापरदिने पात्रं वृत्वा सम्पूज्य प्राङ्मुख्याः घृतदुग्धकुशहेमतिलयुतं पुच्छं गृहीत्वा देशकालौ स्मृत्वा पूर्वोक्तफलोल्लेखान्ते इमां कृष्णां गां द्रोणप्रमाणकार्पासशिखरोपरिस्थहेममययममूर्तिसहितां सुवर्णशृङ्गरौप्यखुरकांस्यदोहनकृष्णवस्त्रयुगधान्यछत्रोपानहाद्युपस्करयुताम् अशक्तौ गाम् एवामुकगोत्राय तुभ्यम् अहं सम्प्रददे न ममेत्य् उक्त्वा मन्त्रं पठेत् ।

यमद्वारे महाघोरे कष्टां वैतरणीं नदीम् ।

तर्तुकामो ददाम्य् एतां तुभ्यं वैतरणीं च गाम् ॥

अधिवासने ऽयं मन्त्र इत्य् एके

विष्णुरूप द्विजश्रेष्ठ भूदेव पङ्क्तिपावन ।

सदक्षिणा मया तुभ्यं दत्ता वैतरणी च गौः ॥

यमद्वारे महाघोरे या सा वैतरणी नदी ।

तां तर्तुं गां ददाम्य् एनां तुभ्यं वैतरणीम् अहम् ॥

इति दत्वा दक्षिणां दत्वा धेनुं यमं विप्रं च प्रदक्षिणीकृत्य सर्वं निवेद्य ।

धेनुके त्वं प्रतीक्षस्व यमद्वारे महाभये ।

उत्तितीर्षुर् अहं देवि वैतरण्यै नमो नम ॥

इत्य् अनुगच्छेत् । इति वैतरणीदानम् ।

[२११]

अथ अन्यदानानि ।

**दिवोदासीये **ऽन्यान्य् अपि दानान्य् उक्तानि । तथा ।

मोक्षं देहि हृषीकेश मोक्षं देहि जनार्दन ।

मोक्षधेनुप्रदानेन मुकुन्दः प्रीयतां मम ॥

इति मोक्षधेनुम् ।

ऐहिकामुष्मिकं यच् च सप्तजन्मार्जितम् ऋणम् ।

तत् सर्वं शुद्धिम् आयातु गाम् एतां ददतो मम ॥

इति ऋणधेनुम् ।

आजन्मोपार्जितं पापं मनोवाक्कायकर्मभिः ।

तत् सर्वं नाशम् आयातु गोप्रदानेन केशव ॥

इति पापधेनुं दद्यात् ।

अथ दुर्मरणे प्रायश्चित्तम् ।

तत्र ।

चाण्डालादिहते ऽनतरिक्षमृते

कृच्छ्रातिकृच्छचान्द्रायणानि वा ।

रजस्वलासूतिकान्त्यजस्पर्शे

म्लेच्छहते च कृच्छ्राब्दम् ॥

ऊर्ध्वोच्छिष्टाधरोच्छिष्टोभयोच्छिष्टचण्डालक्रव्यादस्पर्शे खट्वामरणे शवे कृमिकीटोद्भवे त्रीन् षट् पञ्चदश वा कृच्छ्रान् चान्द्रायणत्रयं वा कृत्वा दहेत् । अन्त्यजस्पर्शे कृच्छ्राब्दं वा । प्रपाते विषे वा नव कृच्छ्रान् । शृङ्गि**[२१२]**विप्रशस्त्रचौराद्यैर् आत्मघाते ऽब्दम् । शवे पर्युषिते कृच्छ्रत्रयम् । आशौचमरणे ऽप्य् एवम् । मूलं तु मत्कृते **निर्णयसिन्धौ **ज्ञेयम् । ततः पुण्यस्तोत्रं रामकृष्णादिनामजपं कुर्यात् कारयेद् वा । ततः प्राणोत्क्रमणे जाते पुत्रो वपनं कृत्वा स्नात्वा नववस्त्रैकदेशं परिधाय तदेकदेशम् उत्तरीयं कृत्वा प्रेतस्य वपनं कृत्वा स्नापयित्वा वाससाच्छाद्य पुष्पमालाद्यैर् अलङ्कुर्यात् । मदनरत्ने गालवः

प्रथमे ऽहनि कर्तव्यं वपनं चानुभाविनाम् ।

प्रेतस्य केशश्मश्र्वादि वापयित्वाथ दाहयेत् ॥

मनुः

दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् ।

अत्र क्रियानिबन्धे गारुडे षट् पिण्डा उक्ताः ।

मृतस्योत्क्रान्तिसमये षट् पिण्डान् क्रमशो ददेत् ।

मृतिस्थाने तथा द्वारि चत्वरे तार्क्ष्यकारणात् ॥

विश्रामे काष्टचयने तथा सञ्चयने च षट् ।

तथा

आदौ देवास् तु षट् पिण्डा दश पिण्डा दशाह्निकाः ।

स्थाने चार्धपथे ऽतीते चितायां शवहस्तके ॥

श्मशानवासिभूतेभ्यः षष्ठं सञ्चयने तथा ।

छन्दोगपरिशिष्टे

दुर्बलं स्नापयित्वा तु शुद्धचैलाभिसंवृतम् ।

दक्षिणाशिरसं भूमौ बर्हिष्मत्यां निधापयेत् ॥

घृतेनाभ्यक्तम् आप्लाव्य शुद्धवस्त्रोपवीतिना ।

चन्दनोक्षितसर्वाङ्गं सुमनोभिर् विभूषयेत् ॥

हिरण्यशकलान्य् अस्य क्षिप्त्वा छिद्रेषु सप्तसु ।

मुखेष्व् अथापिधायैनं निर्हरेयुः सुतादयः ॥

सप्तच्छिद्राणि तत्रैव ।

कर्णे नेत्रे मुखे घ्राणे हिरण्यशकलं न्यसेत् । इति ।

अन्यत्रोक्तम् ।

आमपात्रे ऽन्नम् आदाय प्रेतम् अग्निपुरःसरम् ।

एको ऽनुगच्छेत् तस्यार्धम् अर्धपथ्य् उत्सृजेद् भुवि ॥

ऊर्ध्वम् आदहनं कार्यम् आसीनो दक्षिणामुखः ॥

सव्यं जान्व् आच्य शनकैः सतिलं पिण्डदानवत् ।

अथ पुत्रादिर् आप्लुत्य कुर्याद् दारूच्चयं महत् ॥

तत्रोत्तानं निपात्यैनं दक्षिणाशिरसं मुखे ।

एतद् अग्नेः पात्रन्यासोक्तेर् उत्तानत्वं साग्निपरम् । शूद्रः पुमान् अधोमुखः स्त्री तूत्ताना दाह्या । तद् उक्तं शुद्धितत्त्वे हारलतायां चादिपुराणे

स्वगोत्रजैर् गृहीत्वा तु चिताम् आरोप्यते शवः ।

अधोमुखो दक्षिणदिक्चरणस् तु पुमान् अपि ॥

उत्तानदेहा नारी तु सपिण्डैर् अपि बन्धुभिः ॥ इति ।

इदम् अन्यैर् ब्राह्मम् उक्तम् । इदं निरग्निजपरम् अपीति गौडाःस्मृतिकौमुद्यां मदनपालस् तु ।

स दग्धस्य उपेतश् चेद् आहिताग्न्य् आवृतार्थवत् । इति ।

निरग्नेर् अप्य् आहिताग्निवद् दाहोक्तेस् तस्य च कात्यायनेन,

तत्रोत्तानं निपात्यैनं दक्षिणाशिरसं मुखे ।

इत्य् उत्तानत्वोक्तेर् निरग्नेर् अपि तद् एवेत्य् आह । तत् त्व् अतिदेशेन कथम् उपदेशस्य बाध इति चिन्त्यम् । केचित् तु वाचनिकातिदेशस्योपदेशतुल्यत्वाद् उपेतश् चेद् इत्य् अस्य द्विजपरत्वाद् ब्राह्मे तु तत्पदाभावाच् छूद्रपरम् एवेति न द्विजानाम् उत्तानत्वम् एवेत्य् आहुः । अन्ये तु छन्दोगद्विजानाम् उत्तानत्वम् अन्येषाम् अधोमुखत्वम् इत्य् आहुः । आस्तां निरग्निद्विजवार्ता । अनुपनीतद्विजशूद्राणां त्व् अधोमुखत्वम् उदक्शिरस्त्वं चेत्य् अविवादम् । दाहस् तु शूद्रस्यामन्त्रकः । “निषेकादिश्मशानान्तो मन्त्रैर् यस्योदितो विधिः” इति मदनपालः । तत्त्वं तु वैदिकस्यैव निषेधः पौराणस् तु भवत्य् एव । स च प्रयोगे वक्ष्यते । अत एव वाराहे

चतुर्वर्णेषु संस्थानम् एवं भवति पुत्रिके ।

इत्य् उक्तम् । प्रचेताः

नग्नदेहं दहेन् नैव किञ्चिद् देयं परित्यजेत् ।

यमः

प्रेतं दहेच् छुभैर् गन्धैः स्नापितं स्रग्विभूषीतम् ।

क्रियानिबन्धे गारुडे

उदधाराम् अविच्छिन्नां सिञ्चेत् कर्ता प्रदक्षिणम् ।

स्कन्धावसक्तकुम्भेन पादतः परितश् चितेः ॥

दम्पत्योर् एकदा [२१३] मृतौ तु बौधायनः

    दाहान्तम् एकतन्त्रत्वं सञ्चयनं चैकम् उदकपिण्डदानादि पृथग् एव ।

अन्वारोहणे चैवम् । उदकदानं ब्राह्मे

आदौ तु वस्त्रं प्रक्षाल्य तेनैवाच्छादितैस् ततः ।

कर्तव्यं तैः सचैलं तु स्नानं सर्वमलापहम् ॥

ततः पाषाणपृष्ठे तु सर्वैर् देयं तिलोदकम् ।

त्रिंशच् छूद्राय देयास् तु प्रेतभूमिगताय च ॥

विशेषो **निर्णयसिन्धौ **ज्ञेयः ।

[२१५]

अथ प्रयोगः ।

पुत्रादिर् अपसव्येन देशकालौ स्मृत्वा काश्यपगोत्रस्यास्मत्पितुर् अमुकदासप्रेतस्य प्रेतत्वनिवृत्त्या उत्तमलोकप्राप्त्यर्थम् और्ध्वदैहिकं करिष्ये इत्य् उक्त्वा । मृतिस्थाने दर्भे काश्यपगोत्रामुकदास प्रेतेदं ते ऽवनेजनम् । एष ते पिण्डः प्रत्यवनेजनं च । एवम् उत्थापनपिण्डं दत्वा प्रेतवस्त्रे पिण्डं बद्ध्वा दक्षिणद्वारा नयेत् । द्वारे चतुष्पथे विश्रान्तौ चितायां चैव पिण्डा देयाः । ततः शुचिदेशे पञ्चभूसंस्कृते क्रव्यादसञ्ज्ञकाग्निं प्रज्वाल्य गन्धमाल्यैः सम्पूज्य प्रेतस्य वपनं कारयित्वा गन्धमाल्यैर् अलङ्कृत्य मुखसप्तच्छिद्रेषु हेमशकलान्य् अभावे आज्यं वा क्षिप्त्वा नववस्त्रवेष्टितं घृताक्तं कृत्वा चितौ उत्तरशीर्षम् अधोमुखं पुरुषम् उत्तानां स्त्रियं निधाय असौ संस्कार्यलोकाय स्वाहेति तूष्णीं वाज्याहुतिं दत्वा शिरःस्थाने ऽग्निं दद्यात् । मन्त्रस् तु वाराहे

कृत्वा तु दुष्कृतं कर्म जानता वाप्य् अजानता ।

मृत्युकालवशं प्राप्य नरं पञ्चत्वं आगतम् ॥

धर्माधर्मसमायुक्तं लोभमोहसमावृतम् ।

दहेयं सर्वगात्राणि दिव्यान् लोकान् स गच्छतु ॥

ज्वलमानं महावह्निं शिरःस्थाने प्रदापयेत् ।

चतुर्वर्णेषु संस्थानम् एवं भवति पुत्रिके ॥

चतुर्वर्णोक्तिर् अनुपनीतद्विजपरा । क्रियानिबन्धे **गारुडे **त्व् अन्यो मन्त्र उक्तः ।

त्वं भूतकृज् जगद्योने त्वं लोकपरिपालकः ।

उक्तः संहारकस् तस्माद् एनं स्वर्गं मृतं नय ॥ इति ।

ततः किञ्चिच् छवे दग्धे कुम्भम् आदाय पादतोप्रदक्षिणं त्रिः परिक्रम्य त्रिर् अश्मना कुम्भं भित्त्वा कुम्भं क्षिप्त्वानवेक्षमाणाः बालपुरःसरा जलं गत्वा पूर्वधृतं वस्त्रं प्रक्षाल्य पुनः परिधाय वामनासिकया जलम् आलोड्य वृद्धाद्याः स्नात्वा तीरे दर्भे पाषाणं निधाय ऋजुदर्भतिलपूर्णाञ्जलिं काश्यपगोत्र अमुकदासप्रेत एष ते तिलाञ्जलिर् उपतिष्ठतु । उपतिष्ठताम् इति वा । सर्वे दक्षिणामुखाः सकृत् त्रिर् वा दत्वा पुनः स्नायुः । मित्रोढानूढकन्याभागिनेयश्वश्रुश्वशुरमातामहतत्स्त्रीमातुलराज्ञो उदकदानं कृताकृतं क्लीबभर्तृगर्भस्त्रीपतितैर् उदकं न कार्यम् । [२१६] तेभ्यो ऽय् अन्यैः । एवं त्रिंशत् पञ्चदश दश वा दिनानि प्रत्यहं दद्यात् । प्रत्यहम् एकवृद्धिर् द्विकवृद्धिस् त्रिकवृद्धिर् वा कार्या । ततो बालपुरःसरा जलाद् उत्तीर्याधोदशं वस्त्रं निष्पीड्य गृहद्वारि स्थित्वा त्रीणि निम्बपत्राणि विदश्याचम्य गोमयसर्षपवृषाम्बुदूर्वाग्नीन् आलभ्याश्मनि पदं निधाय गृहं प्रविशेयुः । वृद्धाः लोकापनोदनं कुर्युः । ततो मृन्मये पात्रद्वये एकाहं त्र्यहं वा प्रेतात्र स्नाहीति जलं पिबेदम् इति क्षीरं निदध्यात् । दशरात्रम् इति हेमाद्रौ । प्रत्यहं भूमौ कर्ता भोजनसमये ऽन्नं सङ्कल्पयेत् । ततस् त्र्यहम् उपवासः । क्रीतलब्धाशनं वा । अधःशय्यासनं सर्वेषां यावद् आशौचम् । प्रथमतृतीयसप्तमदशमेषु वा ज्ञातिना सह भोजनम् । तच् च दिवैव । बहिः दीपो देय इत्यादि **निर्णयसिन्धौ **ज्ञेयम् ।

[२१७]

अथ सञ्चयनम् ।

तच् च प्रथमद्वितीयतृतीयचतुर्थ्सप्तमनवमेषु शूद्राणाम् । विसेषतो दशमे ऽह्नि । तदुत्तरं भौमार्कमन्दतिथियुग्मैकपादद्विपादत्रिपादकर्तृनक्षत्रवर्जदिने कार्यम् । कर्ता देशकालौ स्मृत्वास्मत्पितुः काश्यपगोत्रस्यामुकदासप्रेतस्य प्रेतत्वनिवृत्त्या उत्तमलोकप्राप्त्यर्थम् अस्थिसञ्चयनश्राद्धं करिष्ये इत्य् उक्त्वा, कुशबटुं निधाय,

इह लोकं परित्यज्य गतो ऽसि परमां गतिम् ।

मनसा वायुरूपेण विप्रे त्वाहं नियोजये ॥

अमुकप्रेतेदं त आसनम् उपतिष्ठताम् । एवम् अर्घः ।

गन्धः पुष्पं धूपदीप आच्छादनम् उपतिष्ठताम् ।

एवं क्रव्याददेवताभ्यः प्रेताय तत्सखिभ्यश् च त्रीण्य् आमान्नानि दत्वा गृतक्षीरोदकैश् चितिं प्रोक्ष्य पलाशशाखया चितेर् भस्मापोह्याङ्गुष्ठकनिष्ठाभ्यां शिरस उरसः पाण्योः पार्श्वयोः पादयोर् अस्थीन्य् आदाय [२१८] पञ्चगव्येन गङ्गोदकेन प्रक्षाल्य गन्धाद्यर्चितानि क्षौमेणावेष्ट्य नवकुम्भे निधाय शरावेण पिधाय वने वृक्षमूले वा भूमौ निखाय भस्म नद्यां क्षिप्त्वा चितिदेशे वेदिकं कृत्वा तत्रावकाशमीपत्रछत्रपताकायुतं कुम्भत्रयं संस्थाप्य क्रव्याददेवताभ्यः प्रेताय तत्सखिभ्यश् च निवेद्य कुम्भेषु पिण्डान् दद्यात् । मन्त्रस् तु ।

नमः क्रव्यादमुख्येभ्यो देवेभ्य इह सर्वदा ।

श्मशानवासिनो देवाः शवानां परिकीर्तिताः ॥

तेभ्यो ऽन्नम् उदकं कुम्भम् अक्षय्यम् उपतिष्ठतु ।

ये ऽत्र श्मशाने देवाः स्युर् भगवन्तः सनातनाः ॥

ते ऽस्मत्सकाशाद् गृह्णन्तु बलिम् अष्टाङ्गम् अक्षयम् ।

प्रेतस्यास्य शुभान् लोकान् प्रयच्छन्तु च शाश्वतान् ॥

अस्माकम् आयुर् आरोग्यं सुखं च ददताच् चिरम् ।

इति प्रथमं श्मशानवासिभ्यो मध्यमं प्रेताय तद्दक्षिणे तत्सखिभ्यश् च दत्वा स्नायात् । शिष्टान्य् अस्थीनि गङ्गायां क्षिपेत् । तद्विधिस् तु । हेमश्राद्धं तर्पणं च कृत्वास्थीनि पञ्चगव्येन प्रक्षाल्य हेममुक्तारूप्यप्रवालकान्य् अस्थिमध्ये क्षिप्त्वा तीर्थं गत्वा स्नात्वा पञ्चगव्येन प्रोक्ष्य हिरण्यमध्वाज्यतिलैः सम्पूज्य81 मृत्पिण्डे निधाय दक्षिणामुखो नमो ऽस्तु धर्मायेति जलं प्रविश्य सं मे प्रीतो ऽस्तु इति क्षिप्त्वा विप्रेभ्यो दक्षिणां दत्वा पुनः श्राद्धं तर्पणं च कुर्यात् । अत्र दशदानगोदानादि कुर्वन्ति । इदम् अधिमासशुक्रास्तादौ न कार्यम् । दशाहमध्ये तु न दोषः ।

[२१९]

अथ पाथेयश्राद्धम् ।

काश्यपगोत्रस्यामुकदासप्रेतस्य मनुष्यलोकात् प्रेतलोकं गच्छतः पाथेयसिद्ध्यर्थं पाथेयश्राद्धं करिष्ये इत्य् उक्त्वा कुशबटौ इहलोकं परित्यज्येति प्रागुक्तमन्त्रान्ते इदं ते आसनम् उपतिष्ठताम् । एवम् अर्घो गन्धः पुष्पं धूपो दीप आच्छादनम् आमान्नं चोपतिष्ठताम् इति सर्वत्र वदेत् । ततः इदं ते पिण्डासनम् । अवनेजनं पिण्डः प्रत्यवनेजनं पिण्डपूजा दक्षिणा च । अयम् एव सर्वप्रेतश्राद्धानां प्रयोगः । एवं नग्नप्रच्छादनं श्राद्धं कुर्यात् । अत्र वस्त्रदानम् ।

अथ नवश्राद्धम् ।

तच् च विषमदिनेषु प्रथमतृतीयपञ्चमसप्तमनवमैकादशेषु कार्यम् । अमुकप्रेतस्य प्रेतत्वविमुक्त्या उत्तमलोकप्राप्त्यर्थम् आद्ये ऽह्नि विषमश्राद्धं करिष्ये । अत्र विप्रनिमन्त्रणे मन्त्रो वाराहे

गतो ऽसि दिव्यलोकं त्वं कृतान्तविहितात् पथाह् ।

मनसा वायुभूतेन विप्रे त्वाहं नियोजये ॥

पूजयिष्यामि भोगैस् त्वाम् एवं विप्रं निमन्त्रयेत् ।

अन्यत् प्राग्वत् । भविष्ये

नवसप्तविशां राज्ञां नवश्राद्धान्य् अनुक्रमात् ।

आद्यं तयोर् वर्णयोस् तु षड् इत्य् आहुर् महर्षयः ॥

[२२०]

अथ प्रेतपिण्डाः ।

ते चामान्नेनैवेति हलायुधः । चरुणेत्य् अन्ये । यद्य् अपि हेमाद्रौ पारस्करेण “शूद्रे त्रिंशत् प्रकीर्तिता” इत्य् उक्तम् । तथापि,

प्रेतेभ्यः सर्ववर्णेभ्यः पिण्डान् दद्याद् दशैव च ।

इति तेनैवोक्तेर् दशैव । अन्ये तु “यावद् आशौचं प्रेतस्योदकं पिण्डं च दद्युः” इति विष्णूक्तेस् त्रिंशद्विंशतिपञ्चदशरात्रपक्षेषु तत्सङ्ख्यया पिण्डा इत्य् आहुः । हेमाद्रौ ब्राह्मे तु विप्रान् येषु दशपिण्डपक्षेत्यपिण्डोत्कर्ष उक्तः ।

देयस् तु दशमः पिण्डो राज्ञां वै द्वादशे ऽहनि ।

वैश्यानां वै पञ्चदशे मासे शूद्रेषु दीयते82

सद्यःशौचे । त्र्यहादौ तु तत्रैव हि ।

सद्यःशौचे प्रदातव्याः सर्वे ऽपि युगपत् तथा ।

त्र्यहाशौचे प्रदातव्यः प्रथमे ह्य् एक एव हि ॥

द्वितीये ऽहनि चत्वारस् तृतीये पञ्च चैव हि ॥

शातातपः

आशौचस्य च ह्रासे ऽपि पिण्डान् दद्याद् दशैव तु ।

आशौचोत्तरं दाहे पर्णशरे चाशौचह्रासः ॥

अत्र देशकर्तृद्रव्यैक्यं ज्ञेयम्,

प्रथमे ऽहनि यद् द्रव्यं तद् एव स्याद् दशाहिकम् ।

यत्राद्ये दीयते पिण्डस् तत्र सर्वं समापयेत् ।

इति क्रियानिबन्धे व्यासोक्तेः । ब्राह्मे

प्रथमे ऽहनि यो दद्यात् प्रेतायान्नं समाहितः ।

अन्नं नवसु चान्येषु स एव प्रददात्य् अपि ॥

दाहकर्तैव दशाहं कुर्याद् इति मिताक्षरायाम्शुद्धितत्त्वे वायवीये ऽपि ।

असगोत्रः सगोत्रो वा यदि स्त्री यदि वा पुमान् ।

यश् चाग्निदाता प्रेतस्य पिण्डं दद्या स एव हि ॥

कर्तृमृतौ तु तत्रैव बृहस्पतिः

एवं क्रियाप्रवृत्तानां यदि कश्चिद् विपद्यते ।

तद्बन्धुना क्रिया कार्या सर्वैर् वा सहकारिभिः ॥

अन्येन शेषः कार्य इति गौडाः । आदितः सर्वम् इत्य् अन्येआदित्यपुराणे

उपतिष्ठताम् अयं पिण्डः प्रेतायेति समुच्चरेत् । इति ।

[२२१]

अथ प्रयोगः

ऐशान्यां वेदिं कृत्वा तैजसे मृन्मये वा चरुं श्रपयित्वा सक्तुना वा तिलमधुघृतयुतं कपित्थ्मात्रं पिण्डं कृत्वा तिथ्याद्य्उक्त्वा (?) काश्यपगोत्रस्यामुकप्रेतस्य मूर्धाक्षिदन्तावयवसम्भूत्यै प्रथमाहिकदेहपुरकपिण्डदानं च करिष्ये । द्वितीयाहादौ द्वितीयाहादिकेत्यादि । ततः पाषाणाग्रे विष्णुं सम्पूज्य दर्भासनम् अवनेजनं कृत्वामुकप्रेतेत्यादि मूर्धावयवसम्भूत्यै देहपूरकः प्रथमाहिक एष ते पिण्ड उपतिष्थताम् । प्रत्यवनेजनं भृङ्गराजतुलसीदलानि । पिण्डं जले क्षिपेत् । अञ्जलिदानं तूक्तम् एव । एवं दशाहं । तत्र सङ्कल्पे विशेषः । चक्षुःश्रोत्रनासामुखावयवनिष्पत्त्यर्थम् इति द्वितीय । गलांसुभुजवक्षोनिष्पत्त्यर्थम् इति तृतीये विषमश्राद्धं च । नाभिलिङ्गगुदनिष्पत्त्यर्थम् इति चतुर्थे । जानुजङ्घापादावयवसुद्ध्यर्थम् इति पञ्चमे विषमश्राद्धं च । सर्वमर्मावयवनिष्पत्त्यर्थम् इति षष्ठे । मज्जामेदोमांसस्नायुनाडी-रूपावयवसम्भूत्यै इति सप्तमे विषमश्राद्धं च । दन्तलोमनखावयवसिद्ध्यर्थम् इत्य् अष्टमे । वीर्यावयवसिद्ध्यर्थ्म् इति नवमे विषमश्राद्धं च । देहपूर्णत्वतृप्तताक्षुद्विपर्यवसिद्ध्यर्थम् इति दशमे । प्रत्यहम् अञ्जलिसङ्ख्यय्दकुम्भाश् च देयाः । अत्यशक्तौ तु पिण्डयज्ञावृता देयं प्रेतायान्नं दिनत्रयम् इति ज्ञेयम् । अपरार्के व्यासः

आशौचान्त्यदिने क्षौरं जनन्यां च गुरौ मृते ।

[२२२] आपस्तम्बः: “अनुभाविनां च परिवापनम्” । अनुभाविनः कनिष्ठा इति मिताक्षरा-रत्नाकरादयः । आशौचम् अनुभवतां सर्वेषां वपनम् इति शुद्धितत्वादयो गौडाः । तद् उक्तं रत्नमालायाम्

आज्ञया नरपतेर् द्विजन्मनां

दारकर्ममृतसूतकेषु च ।

बन्धमोक्षमखदीक्षणेष्व् अपि

क्षौरम् इष्टम् अखिलेषु चोडुषु ॥

अपरार्के व्यासः

पुत्रः पत्नी च वपनं कुर्याद् अन्ते यथाविधि ।

पिण्डदानोचितो ऽन्यो ऽपि कुर्याद् इत्थं समाहितः ॥

पुत्राणाम् आद्यन्तयोः समुच्चयश् च ज्ञेयः । दशदिने त्व् अवयवपिण्डं दत्वा त्रिकोणां वेदीं कृत्वा प्रेतसखिभ्यः प्रेताय यमाच च पिण्डात्रयं दत्वा अपूपध्वजछन्त्रोदकुम्भान् निवेद्य काकबलिं दत्वा अश्मानं तैलेनाभ्यज्य जले क्षिप्त्वा प्रेतस्पृष्टवाससी त्यक्त्वा पुत्रः पत्नी सर्वे प्रेताल्पवयसश् च वपनं कुर्युः । ततः स्नात्वा सर्वैः त्रिर् धर्मोदकाञ्जलिं दत्वा सर्षपकल्केन तिलामलकैर् वा स्नात्वा गृहं व्रजेयुः । दशाहमध्ये दर्शे तु माधवीये ऋष्यशृङ्गः

आशौचम् अन्तरा दर्शो यदि स्यात् सर्ववर्णिनाम् ।

समाप्तिं प्रेततन्त्रस्य कुर्याद् इत्य् आह गौतमः ॥

श्लोकगौतमः ।

अन्तर्दशाहे दर्शश् चेत् तत्र सर्वं समापयेत् ।

पित्रोस् तु यावद् आशौचं दद्यात् पिण्डान् जलाञ्जलीन् ॥

इदम् अपि त्र्यहमध्ये दर्शे । तदूर्ध्वं दर्शे तु पित्रोर् अपि तन्त्रं समाप्यम् एव,

पित्रोर् आशौचमध्ये तु यदि दर्शः समापयेत् ।

तावद् एवोत्तरं तन्त्रम्पर्यवस्येत् त्र्यहात् परम् ॥

इति गालवोक्तेः । अन्येषां तु त्र्यहमध्ये ऽपि समाप्यम् । कालामृते निर्णयामृते चैवम् । मदनरत्नपारिजातयोश् तु गालवीयम् आपदनौरसपुत्रादिपरम् । पित्रोस् त्र्यहोर्ध्वम् अपि नापकर्ष इत्य् उक्तम् । तत्र मूलं चिन्त्यम् ।

इति श्रीकमलाकरभट्टकृते शूद्रधर्मे शूद्राशौचं तत्कृत्यं च ।

[२२३]

अथैकादशाहः ।

मनुः

विप्रः शुध्यत्य् अपः स्पृष्ट्वा क्षत्रियो वाहनायुधे ।

वैश्यः प्रतोदं रश्मीन् वा [२२४] यष्टिं शूद्रः कृतक्रियः ॥

शुद्धितत्त्वे देवलः

आद्याहःसु निवृत्तेषु सुस्नाताः कृतमङ्गलाः ।

आशौचाद् विप्रमुच्यन्ते ब्राह्मणान् स्वस्तिवाच्य च ॥

इदं सपिण्डनोत्तरम् इति शिष्टाः । हेमाद्रौ शङ्खः

आद्यं श्राद्धम् अशुद्धो ऽपि कुर्याद् एकादशे ऽहनि ।

कर्तुस् तात्कालिकी शुद्धिर् अशुद्धः पुनर् एव सः ॥

शूद्रे ऽप्य् एवम् । तद् आह पैठीनसिः

एकादशे ऽह्नि यच् छ्राद्धं तत् सामान्यम् उदाहृतम् ।

चतुर्णाम् अपि वर्णानां सूतकं तु पृथक् पृथक् ॥

यत् तु मरीचिः,

आशौचान्ते ततः सम्यक् पिण्डदानं समाप्यते ।

सर्वश्राद्धं प्रदातव्यं सर्ववर्णेष्व् अयं विधिः ॥

इति, तत् सर्वेषां दशाहपरम् । यत् तु मात्स्ये,

एकादशे ऽहनि तथा विप्रान् एकादशैव तु ।

क्षत्रादिः सूतकान्ते तु भोजयेद् अयुजो द्विजान् ॥

इति, तद् रुद्रगणश्राद्धपरम्,

रुद्रम् उद्दिश्य कर्तव्यं प्रेतप्रीतिकरं हि तत् ।

इति वचनाद् इति मदनपारिजातःकल्पतरौ शूलपाणिवाचस्पत्यादयस् त्व् अस्माद् वचनाद् अप्य् आशौचापगम इति विष्णूक्तेः प्रागुक्तशङ्खादिवचनानां वानाकरत्वाच् छूद्रादीनाम् अप्य् आशौचान्त एवाहुः । अन्ये तु द्विविधवाक्यवशाद् देशाचारतो विकल्पम् आहुः । सत्यव्रतः

सद्यःशौचे ऽपि दातव्यं प्रेतस्यैकादशे ऽहनि ।

उशना

त्र्यहाशौचे ऽपि कर्तव्यम् आद्यम् एकादशे ऽहनि ।

अतीतविषये सद्यस् त्र्यहोर्ध्वं वा तद् इष्यते ॥

हेमादौ बौधायनः

एकोद्दिष्टं श्व एव स्व्याद् द्वादशे ऽहनि वा पुनः ।

अत ऊर्ध्वम् अयुग्मेषु कुर्वीताहःसु शक्तितः ॥

अर्धमासे ऽथ वा मासि ऋतौ संवत्सरे ऽपि वा ॥

[२२५]

अथ वृषोत्सर्गः ।

हेमाद्रौ मात्स्ये कौर्मे

न करोति वृषोत्सर्गं सुतीर्थे वा जलाञ्जलिम् ।

न ददाति सुतो यस् तु पितुर् उच्चार एव सः ॥

लिखितो ऽपि ।

एष्टव्या बहवः पुत्रा यद्य् एको ऽपि गयां व्रजेत् ।

यजेत वाश्वमेधेन नीलं वा वृषम् उत्सृजेत् ॥

षट्त्रिंशन्मते

पतिपुत्रवती नारी भर्तुर् अग्रे मृता यदि ।

वृषोत्सर्गं न कुर्वीत गां दद्याच् च पयस्विनीम् ॥

एकादशे ऽह्नि प्रेतस्य यस्य नोत्सृज्यते वृषः ।

प्रेतत्वं सुस्थिरं तस्य दत्तैः श्राद्धशतैर् अपि ॥

यत् तु हेमाद्रौ भविष्ये,

चैत्र्यं वापि तृतीयायां वैशाख्यां द्वादशे ऽह्नि वा ।

यच् च विष्णुधर्मे,

विषुवद्द्वितये चैव मृताहे बान्धवस्य च ।

इति, तत् पूर्वासम्भवे ज्ञेयम् । ब्राह्मे

लोहितो यस् तु वर्णेन मुखे पुच्छे च पाण्डुरः ।

श्वेतः खुरविषाणाभ्यां स नीलो वृष उच्यते ॥

देवीपुराणे

चतस्रो वत्सिका भद्रे द्वे ह्य् असम्भवतो ऽपि वा ॥

[२२६]

अथ प्रयोगः ।

तत्र पूर्वं विष्णुरूपिणे तर्पणम् उक्तं देवजातीये । तत्र मूलं चिन्त्यम् । उपवीती देशकालौ स्मृत्वा काश्यपगोत्रस्यामुकदासप्रेतस्य प्रेतत्वनिवृत्त्या रुद्रलोकप्राप्त्यर्थं वस्वादिलोकप्राप्त्यर्थं वा वृषोत्सर्गं करिष्ये इत्य् उक्त्वा ।

नन्दा च83 सुमनाश् चैव सुशीला च पयस्विनी ।

सुरभिः पञ्चमी प्रोक्तेति वृषमातॄः पूजयेन् न वा ॥

तत ऐशाने कुम्भे रुद्रं सम्पूज्याग्निं प्रतिष्ठाप्य ब्रह्मासनं कृत्वा प्रणीतापात्रे द्वयोर् भागयोर् जलक्षीरे प्रणीय पायसं पिष्टचरुं च कृत्वा, आदौ अग्न्याहुतीः षट् च आज्यभागाव् अतः परम् इति स्मृतेर् अग्नये स्वाहेति षट् । तत आघाराव् आज्यभागौ च । ततः प्रजापतये इन्द्रायाग्नये सोमाय चाज्यं हुत्वाग्नये रुद्राय शर्वाय पशुपतये उग्रायाशनये भगाय महादेवायेशानाय च पायसं हुत्वा पूष्णे स्वाहेति पिष्टं चरुं वा हुत्वा द्वयोः स्विष्टकृतं हुत्वाज्येन प्राजापत्यन्ता नवाहुतीर् हुत्वा वृषं चतस्रो द्वे एकां वा वत्सतरीम् अलङ्कुर्यात् । अत्र होमस्य वेदमन्त्रैर् उक्तैः शूद्रस्य होमो नेति मदनपलःअन्ये तु नाम्नाहुः । ततो वृषम् अग्निं चतुः परिक्रम्य रुद्रकुम्भोदकेनाभिषिच्य वृषं गाश् च गन्धस्रक्वस्त्राद्यैर् अलङ्कृत्य रुद्ररूपविप्रायैतत् पाद्यम् आसनं गन्धं च चतुर्भ्यो दत्वा रुद्ररूपप्रेतरूपि-विप्रेभ्यश् चत्वार्य् आमान्नानि दत्वा वृषोत्सर्गश्राद्धप्रतिष्ट्ःआर्थं दक्षिणां दत्वा वृषपदे पिण्डान् दद्याद् इति केचित् । ततो वामाङ्गे त्रिशूलेन दक्षिणे चक्रेण व्यत्ययेन वा वृषं गाश् चाङ्कयित्वा कुशतिलहेमजलयुतं पुच्छम् आदाय देशकालाव् उक्त्वा काश्य्पगोत्रस्यास्मत्पितुर् अमुकप्रेतस्य प्रेतत्वविमुक्तिद्वारा रुद्रलोकप्राप्त्यर्थं इमं वृषं वत्सतरीसहितं रुद्रदैवतम् अमुकगोत्रायामुकप्रेतायोत्सृजामि । युष्मभ्यः पतिं ददाम्य् एतेन पतिना स्वच्छन्दं चरत तेन श्रीरुद्रः प्रीयताम् इत्य् उक्त्वापसव्येन सतिलं पुच्छोदकम् आदायामुकप्रेत इदं ते वृषवत्सतर्योः पुच्छोदकम् उपतिष्ठताम् इत्य् उक्त्वा पठेत् ।

धर्म त्वं वृषरूपेण जगदानन्दकारक ।

अष्टमूर्तेर् अधिष्ठानम् अतः पाहि सनातन ॥

वृषो हि भगवान् धर्मश् चतुष्पादः प्रकीर्तितः ।

वृणोमि तम् अहं भक्त्या प्रेतं स्वर्तं नयत्व् असौ ॥

अयं हि वो मया दत्तः सर्वासां पतिर् उत्तमः ।

तुभ्यं चैता मया दत्ताः पत्न्यः सर्वा मनोरमाः ॥

वृष एष मया दत्तस् तं तारयतु सर्वदा ॥ इति ।

ब्रह्मणे पूर्णपात्रम् आचार्याय सहिरण्यं गोमिथुनं दत्वा विसृज्येश्वरार्पणम् कुर्यात् ।

इति वृषोत्सर्गः ।

[२२७]

अथ वसुगणश्राद्धादीनि ।

ततो नवश्राद्धवत् धरध्रुवाद्यष्टवसूद्देशेनाष्टाव् एकं वा विप्रम् इत्य् एवं वसुश्राद्धम् एकादशभ्य **[२२८] **एकस्मौ वा रुद्रगणश्राद्धं विषमश्राद्धं च कृत्वाचम्य देशकालौ स्मृत्वा काश्यपगोत्रस्यास्मत्पितुर् अमुकप्रेतस्य प्रेतत्वनिवृत्त्या वस्वादिरूपप्राप्त्यर्थम् आद्यं श्राद्धम् एकादशे ऽह्न्य् एकोद्दिष्टविधिना करिष्ये इत्य् उक्त्वाद्यश्राद्धे ऽमुकप्रेतस्थाने क्षणः कर्तव्यः । तथा प्राप्नोतु भवान् प्राप्नवानि । इत्य् एकादशैकं वा विप्रं निमन्त्र्याक्रोधनैः शौचपरैअर् इत्य् उक्त्वा दर्भबटुं वा निमन्त्र्य सर्वं नवश्राद्धं तु पार्वणवच् च कार्यम् । तत्र द्वारि वृत्तं मण्डलं कृत्वाचम्याभ्यर्च्यामुकप्रेतैतत् ते पाद्यम् उपतिष्ठताम् इत्य् एवं पाद्यं दत्वाचम्योदङ्मुखम् उपविश्यामुकगोत्रैष ते गन्धः पुष्पाणि धूपो दीप आच्छादनं छत्रालङ्कारादि वोपतिष्ठताम् । सम्पूर्णतां वाचयित्वाग्नौकरणं नेति बहवः । गृह्यभाष्यमते त्व् अस्ति । तदामुकप्रेताय स्वाहेत्य् आमेनैकाहुतिः । ततः सोदकुम्भम् आमान्नं सोपस्करम् अमुकप्रेतायाद्यश्राद्धे उपतिष्ठताम् । विकिरे विकल्पः । ततो वेद्यां रेखां कृत्वा उच्छिष्टपिण्डे च । इदं पिण्डासनम् अवनेजनम् अयं पिण्डः प्रत्यवनेजनं पिण्डपूजा सूत्रं च । ततः सुप्रोक्षितादि कृत्वा गोत्रं नो वर्धताम् इत्य् उक्त्वाक्षय्योदकं दत्वा दक्षिणां दत्वैकादशपक्षे आद्याय प्रेतालङ्कारवाहनादि दद्यात् । बृहस्पतिः

प्रेतालङ्कारवस्त्रादि पितुर् यद् वाहनादिकं ।

सम्पूज्य गन्धमाल्यैस् तु श्राद्धभोक्त्रे तद् अर्पयेत् ॥

ततो ऽभिरम्यताम् इति विसर्जयेत् । शेषं नवश्राद्धवत् । तत आद्यमासिकं कुर्यात् । तत्समानतन्त्राणि षोडशश्राद्धानि वा । आद्याब्दिकम् अपीत्य् एके । अत्र पददानम् उक्तं देवजानीये गारुडे एकादशाहं प्रक्रम्य ।

तदध्नि दीयते सर्वं द्वादशाहे विशेषतः ।

पदानि सर्ववस्तूनि वरिष्ठानि त्रयोदश ॥

यो ददाति मृतस्येह जीवन्न् अप्य् आत्महेतवे ।

सुखी भूत्वा महामार्गे वैनतेय स गच्छति ॥

आसनोपानहौ छत्रं मुद्रिका च कमण्डलुः ।

भोजनं भाजनाधारो वस्त्राण्य् अष्टविधं पदम् ॥

तथा

भाजनासनदानेन मुद्रिकाभोजनेन च ।

आज्ययज्ञोपवीतेन पदं सम्पूर्णतां व्रजेत् ॥

महिषीरथगोदानात् सुखी भवति निश्चितम् ।

सर्वोपस्करयुक्तानि पदान्य् अत्र त्रयोदश ॥

यो ददाति मृतस्येह जीवन्न् अप्य् आत्महेतवे ।

स गच्छति परं स्थानं महाकष्टविवर्जितः ॥

त्रयोदश पदानीत्थं प्रेतायैकादशे ऽहनि ।

दातव्यानि यथाशक्ति तेनासौ प्रीणितो भवेत् ॥

अन्नं चैवोदकं चैवोपानहौ च कमण्डलुः ।

छत्रं वस्त्रं तथा यष्टिं लोहदण्डं तथाष्टमम् ॥

अग्नीष्टिकां च दीपं च तिलान् ताम्बूलम् एव च ।

चन्दनं पुष्पदानं चोपदानानि चतुर्दश ॥

यो ऽश्वं रथं गजं वापि ब्राह्मणे प्रतिपादयेत् ।

स्वमहिम्नानुसारेण तत् तत् सुखम् अवाप्नुयात् ॥

अत्र तत्तद्दानमन्त्रा मत्कृते दानकमलाकरे ज्ञेयाः । अत्र मूलं तु चिन्त्यम् ।

[२३०]

अथ शय्यादानम् ।

हेमाद्रौ भविष्ये

तस्माच् छय्यां समासाद्य सारदारुमयीं दृढाम् ।

दन्तपत्रचितां रम्यां हेमपट्टैर् अलङ्कृताम् ॥

हंसतूलीप्रतिच्छन्नां शुभगण्डोपधानिकाम् ।

प्रच्छादनपटीयुक्तां गन्धधूपाधिवासिताम् ॥

तस्यां संस्थापयेद् धैमं हरिं लक्ष्म्या समन्वितम् ।

अत्र हरिस्थाने प्रेतम् ।

उच्छीर्षके घृतभृतं कलशं परिकल्पयेत् ॥

विज्ञेयः पाण्डवश्रेष्ठ स निद्राकलशो बुधैः ।

ताम्बूलं कुङ्कुमक्षोदकर्पूरागरुचन्दनम् ॥

दीपिकोपानहच्छत्रचामरासनभाजनम् ।

पार्श्वेषु स्थापयेद् भक्त्या सप्त धान्यानि चैव हि ॥

शयनस्थस्य भवति यद् अन्यद् उपकारकम् ।

भृङ्गारकरकाढ्यं तु पञ्चवर्णवितानकम् ॥

मन्त्रस् तु ।

यथा न कृष्णशयनं शून्यं सागरजातया ।

शय्या ममाप्य् अशून्यास् तु तथा जन्मनि जन्मनि ॥

यस्माद् अशून्यं शयनं केशवस्य शिवस्य च ।

अर्धं तद् एव ।

दत्वैवं तस्य सकलं प्रणिपत्य विसर्जयेत् ।

एकादशाहे ऽपि तथा विधिर् एषः प्रकीर्तितः ॥

विशेषं चात्र राजेन्द्र कथ्यमानं निशामय ।

तेनोपभुक्तं यत् किञ्चिद् वस्त्रवाहनभाजनम् ॥

यद् यद् इष्टं च तस्यासीत् तत् सर्वं परिकल्पयेत् ।

तम् एव पुरुषं हैमं तस्यां संस्थापयेत् सदा ॥

पूजयित्वा प्रदातव्या मृतशय्या यथोदिता ।

तत्रैव पाद्मे

मृतकान्ते द्वितीये ऽह्नि शय्यां दद्यात् सुलक्षणाम् ।

काञ्चनं पुरुषं तद्वत् फलवस्त्रसमन्वितम् ॥

सम्पूज्य द्विजदाम्पत्यं नानाभरणभूषितम् ।

उपवेश्य तु शय्यायां मधुपर्कं ततो ददेत् ॥

रजतस्य तु पात्रेण दधिदुग्धसमन्वितम् ।

अस्थि लालाटिकं गृह्य सूक्ष्मं कृत्वा तु पायसम् ॥

भोजयेद् द्विजदाम्पत्यं विधिर् एव सनातनः ।

एष एव विधिर् दृष्टः पार्वतीयैर् द्विजोत्तमैः ।

एतत्प्रतिग्रहे तत्रैव ।

गृहीतायां तु तस्यां वै पुनः संस्कारम् अर्हति ॥

**भविष्ये **।

स्वर्गे पुरन्दरपुरे सूर्यपुत्रालये तथा ।

सुखं वसत्य् असौ जन्तुः शय्यादानप्रभावतः ॥

आभूतसम्प्लवं यावत् तिष्ठत्य् आतङ्कवर्जितः ॥

इति शय्यादानम् ।

क्रियानिबन्धे स्मृत्यन्तरे

सूतके मृतके चैव द्वितीयं मृतकं यदि ।

पिण्डदानं प्रकुर्वीत वृषोत्सर्गं तथैव च ॥

न हन्यात् सूतकं कर्म द्वादशैकादशाहिकम् ।

शुद्धो वा यदि वाशुद्धः कुर्याद् एवाविचारयन् ॥

[२३२]

अथोदकुम्भः ।

**हैमाद्रौ स्मृतिसमुच्चये **।

एकादशाहात् प्रभृति घटस् तोयान्नसंयुतः ।

दिने दिने प्रदातव्यो यावत् संवत्सरं सुतैः ॥

मदनरत्ने गौतमः

अदैवं पार्वणश्राद्धं सोदकुम्भम् अधर्मकम् ।

कुर्यात् प्रत्याब्दिकाच् छ्राद्धात् सङ्कल्पविधिनान्वहम् ॥

अत्र पिण्डे विकल्पः । अहर् अहर् अन्नम् अस्मै ब्राह्मणायोदकुम्भं च दद्यात् । पिण्डम् अप्य् एके निगृह्णन्तीति हेमाद्रौ पारस्करोक्तेः । विशेषो निर्णयसिन्धौ ज्ञेयः । **देवजानीये गारुडे **।

प्रत्यहं दीपको देयो मार्गे तु विषमे नरे ।

यावत् संवत्सरं वापि प्रेतस्य सुखलिप्सया ॥

कुर्याद् याम्यसुखं पित्र्यसद्भिः सङ्कल्प्य सुस्थितम् ।

अथ मासिकानि ।

तानि कृत्वैव सपिण्डनं कार्यम् ।

श्राद्धानि षोडशादत्वा नैव कुर्यात् सपिण्डनम् ।

इति लौगाक्षिस्मृतेः सपिण्डीकरणोत्तरं पुनः कार्यानि,

यस्य संवत्सराद् अर्वाक् सपिण्डीकरणं कृतम् ।

मासिकं चोदकुम्भं च देयं तस्यापि वत्सरम् ॥

इति तेनैव्ओक्तेः,

सपिण्डीकरणाद् अर्वाग् अपकृष्य कृतान्य् अपि ।

पुनर् अप्य् अपकृष्यन्ते वृद्ध्युत्तरनिषेधनात् ॥

गालवोक्तेश् च । तानि सपिण्डनात् प्राग् एकोद्दिष्टविधिनोर्ध्वं तु पार्वणेन कार्याणीत्यादि **निर्णयसिन्धौ **ज्ञेयम् । तान्य् आह कात्यायनः

द्वादश प्रतिमास्यानि आद्यषाण्मासिके तथा ।

सपिण्डीकरणं चैव इत्य् एतच् छ्राद्धषोडशम् ॥

त्रिपक्षिकाब्दिके चेति श्राद्धान्य् एतानि षोडश ॥

इति जातूकर्ण्यपाठः । आद्यम् ऊनमासिकं84 । षाण्मासिकम् ऊनषष्ठम् । आब्दिकम् ऊनाब्दिकम् । तेनामुकदासप्रेतस्य85 प्रेतत्वनिवृत्या पितृलोकलोकप्राप्त्यर्थम् आद्यमासिकद्वितीयत्रैपक्षिक-तृतीयचतुर्थ ◦ पञ्चम ◦ षष्ठ ◦ ऊनषष्ठ ◦ सप्तम ◦ नवम ◦ दशम ◦ एकादश ◦ द्वादश ◦ ऊनाब्दिकानि श्राद्धानि स्वकालकर्तव्यानि सपिण्डीकराधिकारसिद्ध्यार्थम् एकादशे द्वादशे वाहन्य् अपकृष्य करिष्ये । इत्य् उक्त्वाद्यमासिकेऽयं ते क्षण उपतिष्ठताम् इत्य् एवं षोडश विप्रान् कुशबटून् वा निधायाद्यमासिके इदं ते पाद्यम् इत्य् एवं सर्वम् नवश्राद्धवत् कृत्वा षोडशामान्नानि पिण्डांश् च दद्यात् ।

[२३३]

अथ सपिण्डनम् ।

भविष्ये

द्वादशे ऽहनि षण्मासे त्रिपक्षे वा त्रिमासि वा ।

एकादशे ऽथ पूर्णे ऽब्दे मङ्गलस्याप्य् उपस्थितौ ॥

विष्णुः: “मासिकार्थवद् द्वादशाहं श्राद्धं कृत्वा त्रयोदशे ऽह्नि वा कुर्यात्” ।

मन्त्रवर्जं हि शूद्राणां द्वादशे ऽहनि कीर्तितम् ।

इति स्मृत्यन्तरं च । एतद् दर्शश्राद्धकारिशूद्रपरम् इत्य् अपरार्के कल्पतरौ च । आशौचोत्तरं द्वादशस्व् अहःसु द्वादश मासिकानि कृत्वा द्वादशे सपिण्डनम् । अधिकमासे तु त्रयोदश इत्य् अर्थः । विस्तरो **निर्णयसिन्धौ **ज्ञेयः ।

[२३४]

अथ प्रयोगः

देशकालौ स्मृत्वा काश्यपगोत्रस्यास्मत्पितुर् अमुकप्रेतस्य प्रेतत्वनिवृत्त्या वस्वादिपितृलोकप्राप्त्यर्थम् एकोद्दिष्टपार्वणोभयात्मकं सपिण्डीकरणश्राद्धं करिष्ये इत्य् उक्त्वास्मत् पितुर् अमुकप्रेतस्य स्थाने क्षणं दत्वा भवद्भिः प्रसादः कार्तव्य इत्य् एकं ततः सव्येन कामकालसञ्ज्ञकविश्वेदेवस्थाने क्षणं दत्वेत्यादि । द्वौ दैवे । दैवानन्तरं वा प्रेतं क्षणः । ततो ऽपसव्येनास्मत्पितुर् अमुकदासस्य वसुरूपस्य स्थाने क्षणं दत्वेत्यादि । एवम् अस्मत्पितुः पितामहस्यामुकदासरुद्ररूपस्य स्थाने इत्यादि । एवम् अस्मत्पितुःप्रपितामहस्यामुकदासस्यादित्यरूपस्य । एवं षड्विप्राः कुशबटवो वा । अक्रोधनैः शौचपरैर् इति जपः सर्वत्र । प्रेतस्थाने नवश्राद्धवत् । पित्र्ये पार्वणवत् । ततः परेद्युः सङ्कल्प्य पुनः क्षणं दत्वा दैवे चतुरस्रं मण्डलं कृत्वा तद्दक्षिणे प्रेताय वर्तुलं त्रिकोणं वा कृत्वा क्रमेण पाद्यं दत्वाचम्य । कामकालसञ्ज्ञका विश्वेदेवाः समाध्वम् । समास्व । प्रेतस्य पितृपितामहप्रपितामहाः समाध्वम् इत्य् आसनेषूपवेश्य नीवीबन्धं86 कृवोपक्रान्तं श्राद्धकर्म करिष्ये । कुरुष्वेत्य् उक्ते । कामकालसञ्ज्ञकानां विश्वेषां देवानाम् इदम् आसनम् । सुखासनम् । अत्रास्यतां धर्मो ऽसि । दैवे क्षणः क्रियतां । तथा प्राप्नुवानि । एवं द्वितीयदैवे । ततो द्वे अर्धपात्रे सम्पन्ने इत्य् उक्त्वा कामकालसञ्ज्ञकान् विश्वान् देवान् भवत्सु आवाहयिष्ये । आवाहयेत्य् उक्ते । कामकालेभ्यो नमः । आगच्छन्तु महाभागा इति वावाह्य कामकालसञ्ज्ञका विश्वे देवा इदं वो ऽर्घम् इति विप्रद्वये दत्वा पात्रं न्युब्जं कृत्वा गन्धं पुष्पं धूपं दीपम् आच्छादनानि दत्वा सम्पूर्णतां वाचयित्वा । अपसव्येनास्मत् पितुः काश्यपगोत्रस्यामुकदासस्येदम् आसनम् उपतिष्ठताम् । स्वासनम् । प्राप्नोतु भवान् इत्यादि । ततः पितुः पित्रादीनां पार्वणवद् आसनानि दत्वा87 चत्वार्य् अर्घपात्राणि । तत्राद्ये चत्वारि पवित्राणि । त्रिषु त्रीणि । ततः काश्यपगोत्रामुकप्रेत एष ते ऽर्घ उपतिष्ठताम् इति दत्वाद्येत्यादि काश्यपगोत्रस्यामुकप्रेतस्यार्घ्यं तत्पितृपितामहप्रपितामहाद्यैः संयोजयिष्ये । संयोजयेत्य् उक्ते । एकं पवित्रं पितृपात्रे दत्वा काश्यपगोत्रामुकप्रेतस्वपित्रामुकदासेन वसुरूपेण सह संसृज्य स्वसायुज्यं गच्छेति तद् अर्घ्ये निनीयैवं तत्पितामहेन रुद्ररूपेणेति द्वितीये । स्वप्रपितामहेनादित्य-रूपेण सहेति तृतीये । ततः ।

एष वो ऽनुगतः प्रेतः पितरस् तं ददामि वः ।

शुभं भवतु शेषाणां जायन्तां चिरजीविनः ॥

इत्य् अभिमृशेत् । संसर्जनोत्तरं प्रेतायार्ध्यदानम् इति मदनपालः । ततः प्रेतपित्रादिभ्यः पार्वणवद् अर्घ्यत्रयं दत्वान्युब्जं पात्रं क्र्त्वा गन्धपुष्पधूपदीपाछादनालङ्कारान् प्रेताय तत्पित्रादिभ्यश् च दत्वा पूर्णतां वाचयित्वा प्रेते प्रेताय यमाय चेयम् आहुतिर् उपतिष्ठताम् इति पाणौ हुत्वा वा तत्पित्रादिषु चाग्नौकरणं कृत्वा दैवे प्रेते तत्पित्रादिषु चामान्नानि सङ्कल्प्योच्छिष्टपिण्डं विकिरं च दत्वा गृहपाकात् पायसेन सक्तुभिर् वा प्रेताय तत्पित्रादिभ्यः **[२३५] **पिण्डान् दत्वाद्येत्यादि काश्यपगोत्रस्यामुकदासप्रेतस्य प्रेतत्वविमुक्त्या वसुवादिपितृलोकप्राप्त्यर्थं तत्पिण्डं तत्पितृपितामहप्रपितामहानां काश्यपगोत्राणाम् अमुकदासानां वसुरुद्रादित्यस्वरूपाणां पिण्डैः सह संयोजयिष्ये । संयोजयत्य् उक्ते । प्रेतपिण्डं त्रेधा कृत्वैकभागं मधु चादाय काश्यपगोत्रामुकप्रेत त्वत्पिण्डं त्वत्पित्रामुकगोत्रेणामुकदासेन वसुरूपेण संयुनज्मि । एष ते पिण्डः । तस्मै ते स्वधा नमः । एवं द्वितीयं भागं पितामहेन रुद्ररूपेण । तृतीयं भागं प्रपितामहेनादित्यरूपेण । ततः एष वो ऽनुगतः प्रेतः इति प्रागुक्तं मन्त्रम् उक्त्वा प्रत्यवनेजनं पिण्डपूजादि कृत्वा दक्षिणां दत्वा दशदानवैतरणीदानानि कृत्वा शेषं समापयेत् । ततः पाथेयश्राद्धं कृत्वा वर्षान्तं यावत् प्रत्यहम् उदकुम्भश्राद्धं स्वकाले पुनर् मासिकानि च कुर्यात् ।

इति श्रीकमलाकरकृते शूद्रधर्मतत्त्वे और्ध्वदेहिकप्रयोगः ।

[२३८]

जातिनिर्णयप्रकरणम् ।

अथ शूद्रधर्माः ।

तत्रानुपनीतद्विजाः शूद्रसमाः,

शूद्रेण हि समस् तावद् यावद् वेदे न य्ज्यते ।

इति मनूक्तेः । साम्यं च कर्मानधिकारमात्रेण, न तु स्नानपञ्चयज्ञाद्य् अस्ति । “प्राग् उपनयनात् कामचारवादभक्षाः” इति गौतमोक्तेः । श्राद्धं तु मन्त्रवद् भवत्य् एव,

नाभिव्यावहारयेद् ब्रह्म स्वधानिनयनाद् ऋते ।

इति मनूक्तेः । ब्रह्म वेदः । **पाद्मे **सृष्टिखण्डे ऽपि ।

अमावास्याष्टकाकृष्णपक्षपञ्चदशीषु च ।

एतच् चानुपनीतो ऽपि कुर्यात् सर्वेषु वर्वसु ॥

श्राद्धं साधारणं नाम सर्वकामफलप्रदम् ।

भार्याविरहितो ऽप्य् एतत् प्रवासस्थो ऽपि नित्यशः ॥

शूद्रो ऽप्य् अमन्त्रवत् कुर्याद् अनेन विधिना बुधः ॥

एवं तीर्थे । विशेषस् तु निर्णयसिन्धौ श्राद्धाधिकारे ज्ञेयः ।

अथ स्त्रीधर्माः ।

एवं द्विजस्त्रियो ऽपि । तासाम् अपि तस्या यावद् उक्तम् आशीर् ब्रह्मचर्यम् अतुल्यत्वाद् इति षाष्टन्यायेनानधिकारात् । श्रौतस्मार्तकर्मण्य् अग्निसाध्ये ऽधिकारो ऽस्त्य् एव । कामश्रुतिगतस्य पुंस्त्वस्योद्देश्यविशेषणस्य षाष्ठन्यायेनाविवक्षितत्वात्, “पाणिग्रहणाद् धि सहत्वं कर्मसु तथा पुण्यफलेषु च” इत्य् आपस्तम्बोक्तेश् च । सूतसंहितायाम् अपि ।

द्विजस्त्रीणाम् अपि श्रौतज्ञानाभ्यासे ऽधिकारिताम् ।

वदन्ति केचिद् विद्वांसः स्त्रीणां शूद्रसमानताम् ॥ इति ।

“स्त्रीशुद्राश् च सधर्माण” इति स्मृतेश् च । संस्कारा अपि शूद्रवत् तूष्णीम् ।

अमन्त्रिका तु कार्येयं स्त्रीणाम् [२३९] आवृद् अशेषतः ।

इति मनूक्तेः ।

तेनाधिकारी भवेच् छूद्रः पूर्तधर्मे न वैदिके ।

इति जातूकर्ण्योक्तेः,

बहिर्वेदि च यद् दानं तत् पौर्तिकम् उदाह्र्तम् ।

इति व्यासोक्तेश् च, शूद्रवत् तुलादिषोडशमहादानप्रासादजलाशयोत्सर्गादाव् अप्य् अधिकारः, फले वाक्यगतस्य पुंस्त्वस्य षाष्ठनीत्याविवक्षितत्वात् । ततः सधवानां पत्यनुमत्या पृथग् अप्य् अधिकारः, अग्निसाध्यत्वाभावात् । विधवानां तु स्वातन्त्र्याद् अस्त्य् एवाधिकारः । एतच् च विज्ञानेश्वरेण व्यवहाराध्याये सविस्तरम् उक्तम् । अत एव तुलादौ ।

पुमान् प्रद्युम्नवत् स स्यान् नारी स्यात् पार्वतीसमा ।

इति स्त्रीणां फलश्रवणम् । न चैवं शूद्रधर्मत्वात् पञ्चयज्ञा अपि स्त्रीणां स्युर् इति चेत्, शृणु

पञ्चयज्ञविधानं तु गृही नित्यं न हापयेत् ।

इति शङ्खाद्य्उक्तेर् यजेतेत्यादौ कर्त्रैकत्ववत् पुंस्त्वस्य विवक्षितत्वान् न स्त्रियाः प्रसक्तिः । न च नित्ये कार्ये श्रुतिर् अस्ति । येन तद्गतपुंस्त्वाविवक्षया स्त्रिया अप्य् अधिकारः स्यात् । नित्यत्वानुपपत्त्या प्रत्यवायाभावस्य कल्प्यत्वात् । वचनात् परं नित्ये ऽधिकारः । यथा मदनरत्ने स्कान्दे

प्रत्यहं तर्पणं कार्यं भर्तुः कुशतिलोदकैः ॥ इति ।

श्राद्धेष्व् अपि नित्यनैमित्तककाम्येष्व् अपुत्राया भवत्य् एवाधिकारः

भार्यापिण्डं पतिर् दद्यात् भर्त्रे भर्या तथैव च ।

इति शङ्खोक्तेः,

अपुत्रानाशनं भर्तुः पालयन्ती व्रते स्थिता ।

पत्न्य् एव दद्यात् तत् पिण्डं कृत्स्नम् अंशं लभेत च ।

इति वृद्धमनूक्तेश् च । एतत् सविस्तरं निर्णयसिन्धाव् उक्तम् । यत्र फलश्रवणं विष्णुशिवपूनजादौ तत्राधिकारो ऽस्त्य् एव । एवं व्रतादाव् अपि । तस्माच् छूद्रसमत्वे ऽपि स्त्रीणां न पञ्चयज्ञाः । किं तु भोजनकाले ग्रासमात्रं धृतप्लुतम् अग्नौ क्षिपेत् । यस्य तेषाम् अग्रतो ऽन्नं सुद्ध्येत् स वह्नौ कृत्वाश्नीयाद् इति पृथ्वीचन्द्रोदये गोभिलोक्तेर् इति दिक् । विस्तरापत्तेर् बहु नोच्यते ।

[२४०]

अथ स्त्रीधर्माः ।

मनुः

उत्पादनम् अपत्यस्य जातस्य्स् अपरिपालनम् ।

प्रत्यहं लोकयात्रा च प्रत्यक्षं स्त्रीनिबन्धनम् ॥

अपत्यं धर्मकार्य्णि शुश्रूषा रतिर् उत्तमा ।

दाराधीनस् तथा स्वर्गः पितॄणाम् आत्मनश् च ह ॥

विषयेषु च सज्जन्त्यः संस्थाप्या ह्य् आत्मनो वशे ।

पिता रक्षति कौमारे भर्ता रक्षति यौवने ॥

पुत्रास् तु स्थाविरे भावे न स्वातन्त्र्यं क्वचित् [२४१] स्त्रियाः ।

सूक्ष्मेभ्यो ऽपि प्रमादेभ्यः स्त्रियो रक्ष्या विशेषतः ॥

द्वयोर् हि कुलयोः लोकम् आवहेयुर् अरक्षिताः ।

काले ऽदाता पिता वाच्यो वाच्यश् चानुपयन् पतिः ॥

अगच्छन्न् इत्य् अर्थः ।

मृते भर्तरि पुत्रस् तु वाच्यो मातुर् अरक्षिताः ।

कल्पतरौ पैठीनसिः

अप्रमत्ता रक्षत तन्तुम् एनं

मा परक्षेत्रे परबीजानि वाप्सुः ।

भार्यां रक्षत कौमारे बिभ्यन्तः पररेतसः ॥

स्त्रियो गृहदेवतास् तासां न शौचम् । न व्रतम् । नोपवासः ।

पतिशुश्रूषया गच्छन्ति परमां गतिम् ।

ब्राह्मे

अमीमांस्यानि शौचानि स्त्रीषु बालातुरेषु च ।

मनुः

पानं दुर्जनसंसर्गः पत्या च विरहो ऽटनम् ।

स्वापो ऽन्यगेहे वासश् च स्त्रीणां वै दूषणानि षट् ॥

नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः ।

सुरूपं वा कुरूपं वा पुमान् इत्य् एव भुञ्जते ॥

शय्यासनम् अलङ्कारं कामं क्रोधम् अनार्जवम् ।

द्रोहभावं कुकार्यं च स्त्रीभ्यः मनुर् अकल्पयत् ॥

नास्ति स्त्रीणां क्रिया मन्त्रैर् इति धर्म व्यवस्थितः ।

निरिन्द्रिया ह्य् अमन्त्राश् च स्त्रियो नित्यम् इति स्थितिः ॥

न कश्चिद् योषितः शक्तः प्रसह्य परिरक्षितुम् ।

अर्थस्य सङ्ग्रहे चैनां व्यये च विनियोजयेत् ॥

ग्राम्यधर्मे च पत्न्यां च परिग्राहस्य रक्षणे ॥

मनुः

बालया वा युवत्या वा वृद्धया वापि योषिता ।

न स्वातन्त्र्येण कर्तव्यं किञ्चित् कार्यं गृहेष्व् अपि ॥

पित्रा भर्त्रा सुतेनापि नेच्छेद् विरहम् आत्मनः ।

एषां है विरहेण स्त्री गर्हिता स्यात् कुलद्वये ॥

विष्णुः

    भर्तरि प्रोषिते न प्रतिकर्मक्रिया । परगृहेषु नाभिगमनम् । द्वारदेशगवाक्षेष्व् अवस्थानम् ।

याज्ञवल्क्यः

यत्रानुकूल्यं दम्पत्योस् त्रिवर्गस् तत्र वर्धते ।

रक्षेत् कन्यां पिता विन्नां पतिः पुत्रास् तु वार्धके ॥

अभावे ज्ञातयस् तेषां न स्वातन्त्र्यं क्वचित् स्त्रियाः ।

भर्तृभ्रातृपितृज्ञातिश्वश्रूश्वशुरदेवरैः ॥

बन्धुभिश् च स्त्रियः पूज्या भूषणाच्छादनाशनैः ।

संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी ॥

कुर्याच् छ्वशुरयोः पादवन्दनं भर्तृतत्परा ।

स्त्रीभिर् भर्तृवचः कार्यम् एष धर्मः परः स्त्रियाः ॥

आशुद्धेः सम्प्रतीक्ष्यो हि महापातकदूषितः ।

क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम् ॥

हास्यं परगृहे यानं त्यजेत् प्रोषितभर्तृका ।

बृहस्पतिः

प्रसाधनं नृत्यगीते समाजोत्सवदर्शनम् ।

मांसमद्याभियोगं च न कुर्यात् प्रोषिते प्रभौ ॥

कल्पतरौ शङ्खलिखितौ

    प्रोषिते भर्तरि प्रेङ्खाताण्डवविहारचित्रदर्शनवनोद्यानयानविकृत-शयनोत्कृष्टपानभोजनकन्दुकक्रीडागन्धमाल्यालङ्कार-दन्तधावनाञ्जनादर्शप्रसाधनादीनाम् अनारम्भः ।

**तत्रैव भारते कल्पतरौ **।

एताः श्रियः स्त्रियो नाम सत्कार्या भूतिम् इच्छता ।

ललिता निगृहीता च स्त्री श्रीर् भवति भारत ॥

**मनुः **।

यत्र नार्यस् तु पूज्यन्ते रमन्ते तत्र देवताः ।

यत्रैतास् तु न पूज्यन्ते सर्वास् तत्राफलाः क्रियाः ॥

शोचन्ति जामयो यत्र विनस्यत्य् आशु तत् कुलम् ।

न शोचन्ति तु यत्रैता वर्दन्ते तद् धि सर्वदा ॥

तस्माद् एताः समभ्यर्च्या भूषणाच्छादनाशनैः ।

जामयः स्नुषाभगिन्यादयः । कल्पतरौ दक्षः

जलौकेव च सर्वा स्त्री भूषणाच्छादनाशनैः ।

सुभृतापि कृता नित्यं पुरुषं ह्य् अपकर्षति ॥

जलौका रक्तम् आदत्ते केवलं सा तपस्विनी ।

इतरा तु धनं वित्तं मांसं वीर्यं बलं सुखम् ॥

साशङ्का बालभावे तु यौवने ऽभिमुखी भवेत् ।

तृणवन् मन्यते नारी वृद्धभावे स्वकं पतिम् ॥

अनपत्या भवेत् पश्चाद् यथाव्याधिर् उपेक्षितः ।

मनुः

विधाय वृत्तिं भार्यायाः प्रवसेत् कार्यवान् नरः ।

अवृत्तिकर्शिता हि स्त्री प्रदुष्येत् स्थितिमत्य् अपि ॥

याज्ञवल्क्यः

सत्याम् अन्यां सर्वरायां धर्मकार्यं कारयेत् ।

सधर्मासु विधौ धर्म्ये ज्येष्ठया न विनेतरा ॥

छन्दोगपरिशिष्टे

अग्निशिष्टादिशुश्रूषां बहुभार्यः सवर्णया ।

कारयेत् तद्बहुत्वं चेज् ज्येष्ठया गर्हिता न चेत् ॥

कात्यायनः

या वा स्याद् वीरसूर् आसाम् आज्ञासम्पादिनी च या ।

दक्षा प्रियंवदा शुद्धा ताम् अत्र विनियोजयेत् ॥

**कल्पतरौ दक्षः **।

धर्मपत्नी समाम्नात निर्दोषा यदि सा भवेत् ।

दोषे सति न दोषः स्याद् अन्या कार्या गुणान्विता ॥

मनुः

संवत्सरम् उदीक्षेत द्विषन्तीं योषितं पतिः ।

ऊर्ध्वं संवत्सराद् अन्यां कृत्वा तां तु न संवसेत् ॥

अतिक्रामेत् प्रमत्तं वा मत्तं रोगार्तम् एव वा ।

सा त्रिमासात् परित्याज्या विभूषणपरिच्छदा ॥

उन्मत्तं पतितं क्लीबम् अबीजं (अपीनं?) पापरोगिणम् ।

न च द्विषन्त्यास् त्यागो ऽस्ति न च दायप्रवर्तनम् ॥

मनु-कात्यायनौ

विशीलः कामवृत्तो वा गुणैर् वा परिवर्जितः ।

उपचर्यः स्त्रिया भर्ता सततं देववत् पतिः ॥

नास्ति स्त्रीणां पृथग् यज्ञो न व्रतं नाप्य् उपोषणम् ।

पतिं संसेवते या तु तेन स्वर्गे महीयते ॥

पत्यौ जीवति या नारी उपोष्य व्रतचारिणी ।

आयुष्यं हरते भर्तुर् नरकं चैव गच्छति ॥

कल्पतरौ हारीतः

न प्रोषिते ऽलङ्कुर्यान् न वेणीं मुञ्चेत् ।

मदनरत्ने स्कान्दे

प्रसुप्तं च सुखासीनं रममाणं यदृच्छया ।

आतुरेष्व् अपि कालेषु पतिं नोत्थापयेत् क्वचित् ॥

रजोवती त्रिरात्रं तु स्वमुखं नैव दर्शयेत् ।

स्ववाक्यं श्रावयेन् नापि यावत् स्नाता न शुध्यति ॥

सुस्नाता भर्तृवदनम् ईक्षेन् नान्यस्य कस्यचित् ।

अथ वा मनसि ध्यात्वा पतिं भानुं विलोकयेत् ॥

हरिद्रां कुङ्कुमं चैव सिन्दूरं कज्जलं तथा ।

कूर्पासकं च ताम्बूलं मङ्गल्याभरणं शुभम् ॥

केशसंस्कारकबरीकरकर्णविभूषणाम् ।

भर्तुर् आयुष्यम् इच्छन्ती दूरयेन् न क्वचित् सती ॥

न च दुर्भगया नार्या सखित्वं कुरुते तु सा ।

भर्तुर् विद्वेशिणीं नारीं न सम्भाष्येत कर्हिचित् ॥

नैकाकिनी क्वचिद् भूयान् न नग्ना स्नाति वै क्वचित् ।

नोलूखेले न मुसले वर्धिन्यां च दृष्द्य् अपि ॥

न यन्त्रके न देहल्यां मथ्नि नोपविशेत् क्वचित् ।

उक्ता प्रत्युत्तरं दद्याद् या नारी क्रोधतत्परा ॥

सा शुनी जायते ग्रामे शृगाली निर्जने वने ।

अपवादो न वक्तव्यः कलहं दूरतस् त्यजेत् ॥

गुरूणां सन्निधौ चापि नोच्चैर् ब्रूयान् न वा हसेत् ।

ताडिता ताडितुं येच्छेत् सा व्याघ्री द्वीपदंशिका ॥

भर्तारं या समुत्सृज्य मिष्टम् अश्नाति केवलम् ।

ग्रामे सा सूकरी वा स्याद् गर्धभी वा श्वविट्भुजा ।

कल्पतरौ यमः

ऋतुस्नाता तु या नारी भर्तारं नोपसर्पति ।

तां सङ्ग्राममध्ये विख्याप्य भ्रूणघ्नीं तु विवासयेत् ॥

बौधायनः

अशुश्रूषाकरीं वन्ध्यां बन्धकीं परिहिंसकीम् ।

त्यजन्ति पुरुषाः प्राज्ञाः सद्यस् त्व् अप्रियवादिनीम् ॥

अप्रजां दशमे वर्षे स्त्रीप्रजां द्वादशे त्यजेत् ।

मृतप्रजां पञ्चदशे सद्यस् त्व् अप्रियवादिनीं ॥

वसिष्ठः

व्यवाये तीर्थगमने धर्मेभ्यश् च निवर्तते ।

व्यवहो व्यभिचारः । तीर्थं योनिः । हारीतः

धनधान्यक्षयकरीं स्त्रियं सद्यो विवर्जयेत् ।

नारदः

व्यभिचारे स्त्रिया मौण्ड्यम् अधःशयनम् एव च ।

कदन्नं च कुवासश् च कर्म चावस्करोद्गतम् ॥

शङ्खः

    नानुक्ता गृहान् निर्गच्छेन् नानुत्तरीया न त्वरितं व्रजेन् न परपुरुषं सम्भाशेत न नाभिं सन्दर्शयेद् आ गुल्फाद् वासः परिदद्यान् न स्तनौ विवृतौ कुर्यान् न हसेद् अपावृतं न भर्तारं न तद्बन्धून् वा द्विष्यान् न गणिकाधूर्तादिभिः सहैकत्र तिष्ठेत ।

स्कान्दे

या प्रियं प्रीणयेत् प्रीता त्रिलोकी प्रीणिता तया ।

भुक्ते भुङ्क्ते तथा पत्यौ तस्मिन् तिष्ठति तिष्ठति ॥

निद्रिते च विनिद्राति प्रथमं परिबुध्यति ।

अनलङ्कृतम् आत्मानं पत्युर् नो दर्शयेत् क्वचित् ॥

कार्यार्थं प्रोषिते पत्यौ सर्वमण्डनवर्जिता ।

न च तन्नाम गृह्णीयात् तस्याः पुण्यविवृद्धये ॥

आक्रुष्टापि न चाक्रोशेत् ताडितापि न सीदति ।

एवं कुरु कृतं स्वामिन् मन्यताम् इति वक्ति च ॥

आहूता गृहकार्याणि त्यक्त्वा गच्छति सत्वरम् ।

पूजोपकरणं सर्वम् अप्सु संशोधयेत् स्वयम् ॥

नियमोदकवह्नींश् च पत्रपुष्पादिकं च यत् ।

सेवेत भर्तुर् उच्छिष्टमिष्टम् अन्नं फलादिकम् ॥

महाप्रसाद इत्य् उक्त्वा प्रतिदत्तं प्रतीच्छति ।

कल्पतरौ शृङ्गः

गृहमेधा भवेन् नित्यं भूषणानि च पूजयेत् ।

गृहकार्यपरा नित्यं पूजयेन् मार्जयेद् गृहम् ॥

नित्यं स्नानकृता वेणीं पूजयेत् पुष्पवाससा ।

पूर्वम् एव रहो गच्छेद् यावन् नान्यः प्रबुध्यते ॥

देवताराधनं कुर्यात् धूपपुष्पबलिं हरेत् ।

शङ्खलिखितौ

    वेलानुत्सवे गन्धमाल्याभरणानि विकृतानि वासांसि बिभृयान् न परपुरुषम् अभिभाशेतान्यत्र वणिक्प्रव्रजितवृद्धेभ्यः ।

**हारीतः **।

    स्नात्वा शुक्ले वाससी परिधाय देवागारं प्रविश्य नमस्कृत्वान्नाद्य् अभिघार्य तत्र हुते देवेभ्य उद्वाहाग्नौ देवपत्नीभ्यां हुत्वा बलिं हरेत् । कृते देवातिथ्ये यथास्वं गृहीणस् तर्पयित्वा शेषं पत्नी गुप्ते भुक्त्वा भाण्डानि निर्णेज्य प्रक्षाल्य बहिर् उत्तरपूर्वस्यां दिशि वास्तूपतये भूपतये रुद्राय नम इति निनीयैवं सायं शृतादि यथार्थसंविष्टेषु नमो भुवनपते रुद्राय भस्मसदे भस्मना रक्षां करोमीति भस्मना द्वारम् अपिधाय स्वामीसुतादीन् आत्मानं चालयेत् । यच् चान्यद् रक्ष्यं स्यात् तत् भस्मना स्पृशेद् इत्य् अर्थः । आनम्य भर्तृपादौ संविशेन् नोपविष्टा स्थित आसीत नोच्चैर् न वितर्कस्थाने नावीक्षणम् ईक्ष्येत् । परिमृज्य संवाहयित्वोपासीत व्यजनेनोष्णे वर्षघर्माम्भो ऽस्य गात्रेभ्यः परिमृज्यात् । ग्रामान्तर्गतं भाराक्रान्तं शयानम् उद्यच्छेद् धृष्टमना अर्थेनार्चयेत् । तथा परशयनासनवस्त्राभरणानि मनसापि नाध्यवस्येद् इति । तथैकपात्र्यं मद्यमांसोच्छिष्टनिर्माल्यं चान्यत्र गुरुभर्तृसुतेभ्यः इति ।

स्कान्दे

तीर्थस्नानार्थिनी नारी पतिपादोदकं पिबेत् ।

शङ्कराद् अपि विष्णोर् वा पतिर् एको ऽधिकः स्त्रियाः ॥

परशुरामप्रतापे88** रत्नावल्यां** च स्कान्दे

प्रातःकाले तु या नारी दद्याद् अर्घ्यं विवस्वते ।

सप्तजन्मसु89 वैधव्यं सा नारी नैव पश्यति ॥

कृत्वा तु मण्डलं बाह्ये सूर्यं तत्राक्षतादिभिः ।

पूजयेत् सततं या वै तस्यास् तुष्यन्ति देवताः ॥

प्रातःकाले तु या नारी शुचिर् भूत्वा समाहिता ।

पूजयेद् द्वारदेशं तु सर्वान् कामान् समश्नुते ॥

न ददाति यदा नारी ज्येष्ठायै प्रत्यहं बलिम् ।

भोज्याच् चैव यथाशक्ति सा प्रेत्य नरकं व्रजेत् ॥

अवश्यम् एव नारीभिर् ज्येष्ठाया बलिकर्मणा ।

प्रीणनं प्रत्यहं कार्यं पुत्रपौत्रधनेप्सुभिः ॥

कल्पतरौ भारते

यदैव भर्ता जानीयान् मन्त्रमूलपरां स्त्रियम् ।

उद्विजेत तदैवास्याः सर्पाद् वेश्मगताद् इव ॥

तत्रैव विष्णूक्तं **[२४४] **पृथ्वीं प्रति श्रीवाक्यम् ।

नारीषु नित्यं शुचिभूतासु

स्वभर्तृभक्तप्रियवादिनीषु ।

अमुक्तहस्तासु सुतान्वितासु

सुगुप्तभाण्डासु बलिप्रियासु ॥

सुमृष्टवेश्मासु जितेन्द्रियासु

कलिव्यपेतासु विलोलुपासु ।

धर्मव्यपेक्षासु दयान्वितासु

स्थिता सदाहं जगतां विधात्री ॥

व्यासः

द्वारोपवेशनं नित्यं गवाक्षेण निरीक्षणम् ।

असत्प्रलापो हास्यं च दूषणं कुलयोषिताम् ॥

भारते

अट्टशूला जनपदाः शिवशूलाश् चतुष्पथाः ।

वनिताः केशशूलिन्यो भविष्यन्ति कलौ युगे ॥

अस्यार्थम् आह परशुरामः

अट्टम् अन्नं शिवो वेदः शूलं विक्रय एव च ।

केशश् च भगम् इत्य् आहुर् वेदतत्त्वार्थदर्शिनः ॥

मनुः

भर्ता देवो90 गुरुर् भर्ता धर्मतीर्थव्रतानि च ।

तस्मात् सर्वं परित्यज्य पतिम् एकं समर्चयेत् ॥

भुक्ते भुङ्क्ते पतौ या तु स्वासीना वापि चासिते91

विनिद्रिते विनिद्राति सा स्त्री ज्ञेया पतिव्रता ॥

अङ्गिराः

आर्तार्ते मुदिते हृष्टा प्रोषिते मलिना कृशा ।

मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥

रजोवतीगर्भिणीधर्माः सहगमनान्वारोहणादौ निर्णयो विधिश् च निर्णयसिन्धाव् उक्तो ऽस्माभिः ।

अथ विधवाधर्माः ।

मदनरत्न-पारिजातयोः स्कान्दे

पत्यौ मृते ऽपि या योषिद् वैधव्यं पालयेत् क्वचित् ।

सा पुनः प्राप्य भर्तारं स्वर्गलोकं समश्नुते ॥

विधवाकबरीबन्धो भर्तृबन्धाय जायते ।

शिरसो वपनं तस्मात् कार्यं विधवया सदा ॥

एकाहारः सदा कार्यो नो द्वितीयः कदाचन ।

त्रिरात्रं पञ्चरात्रं वा पक्षव्रतम् अथापि वा ॥

मासोपवासं वा कुर्याच् चान्द्रायणम् अथापि वा ।

कृच्छ्रं पराकं वा कुर्यात् तप्तकृच्छ्रम् अथापि वा ॥

यवान्नेन फलाहारैः शाकाहारैः पयोव्रतैः ।

प्राणयात्रां प्रकुर्वीत यावत् प्राणः स्वयं व्रजेत् ॥

पर्यङ्कशायिनी नारी विधवा पातयेत् पतिम् ।

तस्माद् भूशयनं कार्यं पतिसौख्यसमीहया ॥

नैवाङ्गोद्वर्तनं कार्यं स्त्रिया विधवया क्वचित् ।

गन्धद्रव्यस्य् संयोगो नैव कार्यः स्वयं पुनः ॥

तर्पणं प्रत्यहं कार्यं भर्तुः कुशतिलोदकैः ।

तत् पितुश् चापि कर्तव्यं नामगोत्रादिपूर्वकम् ॥

इदं पुत्राद्यभावे ।

विष्णोस् तु पूजनं कार्यं पतिबुध्या न चान्यथा ।

पतिम् एव सदा ध्यायेद् विष्णुरूपधरं परम् ॥

यद् यद् इष्टतमं लोके यद् यत् पूर्वं समीहितम् ।

तत् तद् गुणवते देयं पतिप्रीणनकाम्यया ॥

वैशाखे कार्त्तिके माघे विशेषनियमं चरेत् ।

स्नानं दानं तीर्थयात्रां विष्णोर् नामग्रहं मुहुः ॥

वैशाखे जलकुम्भाश् च कार्त्तिके घृतदीपकाः ।

माघे तिलधनोत्सर्गात् स्वर्गलोके विशिष्यते ॥

प्रपा कार्या च वैशाखे देवे देया गलन्तिका ।

उपानद् व्यजनं छत्रं सूक्ष्मवासांसि चन्दनम् ॥

देयानि द्विजमुख्येभ्यः पतिर् मे प्रीयताम् इति ।

एवंविधैश् च विधवा विविधिअर् नियमैर् व्रतैः ॥

वैशाखान् कार्त्तिकान् माघान् एवम् एवातिवाहयेत् ।

नाधिरोहेद् अनड्वाहं प्राणैः कण्ठगतैर् अपि ॥

कञ्चुकं न परीदध्याद् वासो न विकृतं वसेत् ।

एवं धर्मसमायुक्ता विधवापि पतिव्रता ॥

पतिलोकम् अवाप्नोति न भवेत् क्वापि दुःखिनी ।

श्राद्धं च षट्पिण्डं कार्यं,

स्वभर्तृप्रभृतित्रिभ्यः स्वपितृभ्यस् तथैव च ।

विधवा कारयेच् छ्राद्धं यथाकालम् अतन्द्रिता ॥

इति स्मृतिरत्नावल्यां वृद्धमनूक्तेः ।

सुव्रतानां तासां तु लोकाः पतिभिः

समानाः गोमायुलोका व्यभिचारिणीनाम् ।

हारीत

पतिव्रता तु साध्वी **[२५१] **या निष्ठां याति प्रभौ मृते ।

सा हित्वा सर्वपापानि पतिलोकम् अवाप्नुयात् ॥

बृहस्पतिः

व्रतोपवासनिरता ब्रह्मचर्यव्यवस्थिता ।

दमदानरता नित्यम् अपुत्रापि दिवं व्रजेत् ॥

मनुः

कामं तु क्षपयेद् देहं पुष्पमूलफलोदकैः ।

न तु नामापि गृह्णीयात् पत्यौ प्रेते परस्य तु ॥

मनु-यमौ

आसीतामरणात् क्षान्ता नियता ब्रह्मचारिणी ।

धर्मेणैव च92 काङ्क्षन्ति सत्पतित्वम् अनुत्तमम् ॥

स्त्रियाः श्रुतौ वा शास्त्रे वा प्रव्रज्या नाभिधीयते ।

प्रजा हि तस्याः स्वो धर्मः सवर्णाद् इति धारणा ॥

अष्टाशीतिसहस्राणि मुनीनाम् ऊर्ध्वरेतसाम् ।

दिवं गतानि विप्राणाम् अकृत्वा कुलसन्ततिम् ॥

मृते भर्तरि या नारी ब्रह्मचर्यव्यवस्थिता93

स्वर्गं गच्छत्य् अपुत्रापि यथा ते ब्रह्मचारिणः ॥

स्कान्दे

अपृट्वा तु सुतान् किञ्चिन् न कुर्याद् भर्तृतत्परा ॥

इति विधवाधर्माः

[२५३]

अथ शूद्रसमानधर्माः ।

तथा कुण्डगोलदाव् अपि शूद्रसमौ** । **तथा च स्मृतिकौमुद्यां देवलः

द्वितीयेन तु यः [२५४] पित्रा सवर्णायां प्रजायते ।

सवर्ण्ōढ इति ज्ञेयः शूद्रधर्मा च जातितः ॥

व्रतहीनास् त्व् असंस्कार्याः सवर्णास्व् अपि ये सुताः ।

उत्पादिताः सर्वर्णेन व्रात्या इति बहिष्कृताः ॥ इति ।

तत्रैव मनुः

परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ ।

अमृते जारजः कुण्डो मृते भर्तर् गोलकः ॥

ननु कुण्डगोलकयोर् अब्रह्मणत्वे कथं श्रद्धे निषेधः । स हि ब्राह्मणः श्राद्धसम्पदे इत्य् उक्तेर् ब्राह्मणमात्रप्राप्तौ तेषां मध्ये केषाञ्चिन् निषेधार्थः । यद् आह याज्ञवल्क्यः

रोगी हीनातिरिक्ताङ्गः काणः पौर्नर्भवस् तथा ।

अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः ॥

इति, तयोश् चाब्राह्मण्ये प्राप्त्यभावान् निषेधो व्यर्थः । तथा स्मृत्यर्थसारे ब्राह्मे च तयोः संस्कार्यत्वम् उक्तम् । केचिद् आहुर् द्विजैर् जातौ संस्कार्यौ कुण्डगोलकाव् इति । तद् अपि न युज्यते इति ।

उच्यते । “ब्राह्मण्यां ब्राह्मणाज् जातो ब्राह्मणः” इति भ्रमप्राप्तस्य श्राद्धे निषेध इति विज्ञानेश्वरः (ओन् य्ध् १.९०) । कुण्डगोलकयोः संस्कार्यत्वं श्राद्धे निषेधश् च क्षेत्रजपरः, शास्त्रानुज्ञानात् । अन्यस्याब्राह्मणत्वेन प्राप्त्यभावाद् उपाधेयसङ्करे ऽप्य् उपाधेर् आ सङ्कराद् इत्य् अपरार्कःकल्पतरौ कात्यायनः

सुखार्थं या प्रवृत्ता स्त्री न भर्तुः सुतकाम्यया ।

पुत्रं तु जनयेद् एवं निन्द्या पापा च सा स्मृता ॥

भर्तृगोत्रं समुत्सृज्य नारी यद्य् अन्यम् आश्रयेत् ।

निन्द्यैव सा स्मृता लोके परपूर्वेति चोच्यते ॥

परपूर्वा तु यत्र स्यात् तत्र स्यान् नाश्रितः प्रभुः ।

क्रमाद् ऋते तु धर्मार्थं लब्ध्वा वा स्वामिनो भवेत् ॥

निरोद्धव्या च ताड्या च परपूर्वापराधतः ।

चौरहस्तान् नदीवेगाद् दुर्भिक्षाद् देशविप्लवात् ॥

विनिस्तीर्य सकान्ताराल् लब्धा त्यक्ता क्रमागता ।

आसां भोगे न दोषः स्याद् इति शास्त्रविनिश्चयः ॥

स्वामिदत्ता तु गृह्णीयाद् देया चेन् न त्व् अतो ऽन्यथा ।

दीयमानम् अथात्मानं या नारी नानुमोदते ।

न सा देया न च ग्राह्या विधिर् एष स्मृतो बुधैः ॥

न चोत्तमां न चाकामां तथा पुत्रवतीं न च ।

ईदृशीं त्व् अनुरूपेण निष्क्रयेण प्रमीलयेत् ॥

यमः

जारजातः सवर्णायां कुण्डो जीवति भर्तरि ।

मृते तु गोलको नाम जातिहीनौ च तौ स्मृतौ ॥

असवर्णासु नारीषु द्विजैर् उत्पादिताश् च ये ।

परपत्नीषु सर्वासु कुण्डास् ते गोलकाः स्मृताः ॥

मातृवर्णा न ते प्रोक्ताः पितृवर्णा न च स्मृताः ।

अविवाह्याः सुताश् चैषां बन्धुभिः पितृमातृतः ॥

स एव

कृच्छ्रं सान्तपनं कुर्याद् धत्वा सङ्कीर्णयोनिजम् ।

सूतं हत्वातिकृच्छ्रं तु कुण्डं गोलकम् एव च ॥

मनुः

जातो नार्याम् अनार्यायाम् आर्याद् आर्यो भवेद् गुणैः ।

जातो ऽप्य् अनार्याद् आर्यायाम् अनार्य इति निश्चयः ॥

नीचायाम् उत्तमजौ संस्कार्यौ, उत्तमायां नीचजौ नेत्य् अर्थः । स्मृतिकौमुद्याम् आदिपुराणे

सवर्णासु सवर्णैस् तु ये जायन्ते परैर् अपि ।

अवरोटकसञ्ज्ङास् ते व्रतसंस्कारवर्जिताः ॥

विप्रायां विप्रजा उपनेया नान्ये इति तत्रैवोक्तम् ।

चतुर्णाम् अपि वर्णानां जीवताम् अन्यसम्भवः ।

कुण्डस् तु सङ्करो ज्ञेयो मृतानाम् अथ गोलकः ॥

जातिहीनः स मातॄणां ग्राहयेत् कर्मनामनी ।

तदीयं कर्म नाम च तत्मातॄणाम् इत्य् अर्थः ।

योज्यो देवपुरे राज्ञा वर्णसङ्करभीरुणा ।

देवपुरे देवद्वारे ।

कुण्डो वा गोलको विप्रः सन्ध्योपासनमात्रवित् ॥

स्नानभोजनसन्ध्यासु देवेषु स पठेच् च तत् ।

विप्र इत्य् उक्तेस् तस्यैव सन्ध्योपनयनं च । [२५५] मिताक्षरायाम् अपि कुण्द्गोलकौ यथार्हं संस्कार्याव् इत्य् उक्तम् । स्मृत्यर्थसारे प्रयोगपारिजाते ब्राह्मे च ।

एवम् एव द्विजैर् जातौ संस्कार्यौ कुण्डगोलकौ । इति ।

स्नानेति स्नानादिसमये बन्दिवद् वाक्यं पठेद् इत्य् अर्थः ।

इति कुण्डगोलकौ ।

[२५७]

अथ क्लीबधर्माः ।

तथा द्विजोत्पन्नः षण्ढो ऽपि शूद्रसमः । “वसन्ते ब्राह्मणम् उपनयीत” इत्य् उपनयनविधौ चमासाध्वर्युवद् उपादेयत्वेन विवक्षितपुंस्त्वात् स्त्रीणाम् इव तस्याप्य् उपनयनाभावात् । अष्टवर्षवाक्ये उद्देश्यत्वे ऽपि प्राप्तानुवादेन पुंस एवानुवादात् । मिताक्षरायां देवलो ऽपि ।

षण्ढको लिङ्गहीनः स्यात् संस्कारार्हश् च नैव सः । इति ।

अत एव तत्रैव वृद्धमनुः

षण्ढं ब्राह्मणं हत्वा शूद्रहत्याव्रतं चरेत् । इति ।

**बौधायनसूत्र स्मृत्यर्थसारे **च वचनाद् उपनयनम् उक्तम् । प्रयोगपारिजाते ब्राह्मे ऽपि ।

ब्राह्मण्यां ब्राह्मणाज् जातो ब्राह्मणः इति श्रुतिः ।

तस्माच् च षण्ढबधिरकुब्जवामनपङ्गुषु ॥

इत्याद्य् उक्त्वा,

ध्वस्तपुंस्त्वेषु चैतेषु संस्काराः स्युर् यथोचित्य्म् । इति ।

एतच् चोक्तं प्राक् । स च सप्तविधः । तथा च गौडधृतदेवलः

पण्ढको वातजः पण्ढः पण्डः क्लीबो नपुंसकं ।

कीलकश् चेत्य् सप्तैव क्लीबभेदो व्यवस्थितः ॥

एषां स्वरूपम् आह स एव

तेषां स्त्रीतुल्यवाक्चेष्टः स्त्रीतुल्यः पण्ढको भवेत् ।

उन्नतकुचककूर्पहीनत्वादिधर्मक इत्य् अर्थः ।

पुमान् कृत्वा सलिङ्गानि पश्चाद् भिन्द्यात् तथैव च ।

स्त्री च पुम्भावम् आस्थाय पुरुषाचारवद्गुणः ॥

वातको नाम पण्ढः स्यात् स्त्रीष्पण्ढो वापि नामतः ॥

लिङ्गानि स्त्रीपुन्नपुंसकानि भिन्द्यात् त्यजेत् ।

कदाचित् स्त्री कदाचित् पुमान् कदाचित् पण्ढ इत्य् अर्थः । स्त्री च पुरुषवत् स्त्र्यन्तरं भुङ्क्ते शुक्रोत्सर्गं विनैव वातवशाद् इत्य् अर्थः ।

असल्लिङ्गो ऽथ पण्ढः स्यात् पण्ढस् तु म्लानमेहनः ।

अमेध्याशी पुमान् क्लीबो नष्टरेता नपुंसकः ॥

अमेध्याशी मुखमैथुनात् परशुक्राशी । अयं वैद्यके आसेक्य इत्य् उक्तः । तद् उक्तं शुश्रुते

आसेक्यो नाम भवति दम्पत्योर् अल्पवीर्ययोः ।

स शुक्रं प्राश्य लभते लिङ्गोच्छ्रायम् असंशयम् ॥

स कीलक इत्य् प्रोक्तो यः क्लैब्याद् आतमः श्रियम् ।

अन्येन सह संयोज्य पश्चात् ताम् एव सेवते ॥

सुश्रुते त्व् अन्ये पि ।

यः पूतियोनौ जायेत स सौगन्धिकसञ्ज्ञकः ।

स योनिसेफसौगन्धम् आघ्राय लभते बलम् ॥

स्वे गुदे मैथुनाद् यस् तु **[२५८] **स्त्रीषु पुंवत् प्रवर्तते ।

कुम्भीकः स तु विज्ञेय ईर्ष्यकं शृणु चापरम् ॥

दृष्ट्वा व्यवायम् अन्येषां व्यवाये यः प्रवर्तते ।

ईर्ष्यकः स तु विज्ञेयः पण्ढकं शृणु पञ्चमम् ॥

यो भार्यायाम् ऋतौ मोहाद् अङ्गनेव प्रवर्तते ।

ततः स्त्रीचेष्टाचारो जायते पण्ढसञ्ज्ञितः ॥

माधवीये तु चतुर्दश भेदा उक्ताः । ते तत्रैव ज्ञेयाः । तेषां चोपनयनव्रतचतुष्टयसमावर्तनविवाहवर्जं सर्वे संस्कारास् तूष्णीं भवन्ति, “कुमारं जातम्” इत्यादौ संस्कार्यरूपोद्देश्यगतत्वेन पुंस्त्वस्याविवक्षया स्त्रीणाम् इव पण्ढस्यापि प्राप्तेः,

तूष्णीम् एताः क्रियाः स्त्रीणां विवाहस् तु समन्त्रकः ।

इति याज्ञवल्क्योक्तेः,

ते च स्त्रीतुल्यवाक्चेष्टाः स्त्रीधर्माणः प्रकीर्तिताः ।

इति वृद्धमनूक्तेश् च । जलाशयागमप्रासाददेवप्रतिष्ठामहादानादिष्व् अप्य् एवम्, षाष्ठन्यायेन कामश्रुतिगतस्य पुंस्त्वस्योद्देश्यगतत्वेनाविवक्षया स्त्रीणाम् इवाधिकारात् । एवं सर्वदानेषु, अहिंसादेः साधारण्याच् च । पितुः श्राद्धादौ तु नाधिकारः । “यश् चार्थहरः सपिण्डदायी” इत्य् आपस्तम्बेनार्थहरस्यैव पिण्डदानोक्तेः, षण्ढस्य च,

अनंशौ क्लीबपतितौ पङ्गुर् उन्मत्तको जडः ।

इति मन्वाद्यैर् अर्थहरत्वनिषेधात् । याज्ञवल्क्यो ऽपि ।

क्लीबाद्या नोदकं कुर्युस् तेनाव्रात्या विधर्मिनः ।

इति षण्ढाः ॥

[२६०]

अन्ये ऽपि शूद्रसमाः ।

कल्पतरौ यमेनोक्ताः ।

प्रव्रज्योपनिवृत्ताश् च वृथाप्रव्रजिताश् च ये ।

यश् च प्रवरिताज् जातः प्रव्रज्यावसितश् च यः ॥

एते शूद्रधर्माणो मनुना परिकीर्तिताः ।

**याज्ञवल्क्यः **।

प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकः ।

अन्ये ऽपि शूद्रसमा याज्ञवल्क्येनोक्ताः ।

सद्यः पतति मांसेन लाक्षया लवणेन च ।

मासेन शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् ॥

अत्र धर्मनिन्दामात्रम् इति वार्तिके भट्टाचार्याः । द्विजातिकर्महानिपराणीति विज्ञानेश्वरः । अतस् ते शूद्रसमाः ।

अथ व्रात्याः ।

तथा व्रात्या अपि । तथा च मनुः

ब्राह्मणा क्षत्रिया वैश्या स्वावधेर् ऊर्ध्वम् अब्दतः ।

अकृतोपनयाः सर्वे वृषला एव ते स्मृताः ॥

व्रात्यस्तोमं विना । तद् आह याज्ञवल्क्यः

आ षोडशाद् आ विंशाच् च चतुर्विंशाच् च वत्सरात् ।

ब्रह्मक्षत्रविशां काल औपनायनिकः परः ॥

अत ऊर्ध्वं पतन्त्य् एते सर्वधर्मबहिष्कृताः ।

सावित्रीपतिता व्रात्या व्रात्यस्तोमाद् ऋते क्रतोः ॥

[२६१]

अथ नियोगः94** ।**

कल्पतरौ देवलः

नष्टः प्रव्रजितः क्लीबः पतितो राजकिल्बिषी ।

लोकान्तरगतो वापि परित्याज्यः स्त्रिया पतिः ॥

मृते भर्तरि जीवे वा स्त्री विन्देतापरं पतिम् ।

सन्तत्यनाशार्थतया न स्वातन्त्र्येण योषितः ॥

नारदः

अष्टौ वर्षाण्य् उदीक्षेत ब्राह्मणी प्रोषितं पतिम् ।

अप्रसूता तु चत्वारि द्वे समे च प्रसूतिका ॥

न शूद्रायाः स्मृतः कालो न च धर्मव्यतिक्रमः ।

विशेषतो प्रसूतायाः स्त्रियाः संवत्सरा स्थितिः ॥

अप्रवृत्तौ स्मृतः काल एषः शेषितयोषितां ।

जीवति श्रूयमाणे तु स्याद् एष द्विगुणो ऽवधिः ॥

प्रजाप्रवृत्तौ नारीणां वृत्तिर् एषा प्रजापतेः ।

अतो ऽन्यगमने स्त्रीणाम् एष दोषो न विद्यते ॥

इति नियोगः

अथ शूद्रसमान् वक्तुं सङ्करजा उच्यन्ते ।

याज्ञवल्क्यः

विप्रान् मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियां ।

अम्बष्ठः शूद्र्याम् [२६२] निषादो जातः पारसवो ऽपि वा ॥

वैश्याशुदयोस् तु राजन्यान् माहिष्योग्रौ सुतौ स्मृतौ ।

वैश्यात् तु करणः शूद्र्यां विन्नास्व् एष विधिः स्मृतः ॥

एवं मूर्धावशिकाम्बष्ठपारसवमाहिष्योग्रकरणाः षड् अनुलोमाः, मातृजात्युक्तकर्मभाजश् च । एते हीनवर्णासु जाताः । एतासु चोत्कृष्टजा अनुलोमाः । नीचजाः प्रतिलोमाः । मनुः

ब्राह्मणाद् उग्रकन्यायाम् आवृतो नाम जायते ।

शूद्रायां क्षत्रजा उग्राः । याज्ञवल्क्यः

माहिष्येण करण्यां तु रथकारः प्रजायते ।

क्षत्राद् वैश्यायां माहिष्यः । वैश्याच् छूद्रायां करणी तस्यां रथकारः । एषां वृत्तीर् आह स्मृतिकौमुद्यां वसिष्ठः

    मूर्धावसिक्तानां हस्त्यश्वरथशस्त्रशिक्षास्त्रधारणं च । मणिमन्त्रौषधैः प्राणिरक्षणम् अम्बष्ठानाम् । माहिष्याणां गीतनृत्यनक्षत्रैर् जीवनं सस्यरक्षा च । पारसवोग्रकरणानां द्विजशुश्रूषा धनाध्यक्षता राजसेवा दुर्गण्तःपुररक्षा च । रथकारस्य निधिज्ञानं हस्त्यश्वसारथ्यवर्धनपोषणदमनादि ।

शङ्खः

    क्षत्रियवैश्यानुलोमानन्तरोत्पन्नजो रथकारस् तस्याध्ययनेज्यादानोपनयन-संस्काराश् चाप्रतिषिद्धाः । रथसूत्रवास्तुविद्याध्ययनवृत्तिता चेति ।

जातिविवेके

शूद्रां शयनम् आरोप्य ब्राह्मणश् चेत् कथञ्चन ।

जनयेद् ग्राम्यधर्मेण तस्यां पारसवं सुतम् ॥

महाशूद्रः स विख्यातः शूद्रेभ्यः किञ्चिद् उत्तमः ।

स्वर्णकारस्य तस्येह स्नानं धौत्रं पवित्रकम् ॥

सर्वं शूद्रस्य धर्मेण वर्तनं तस्य जीविका ।

तथा

कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी ।

राज्ञा विप्रस् तु कर्तव्यो दाप्यश् चोत्तमसाहसम् ॥

उशनाः

क्षत्रियाविप्रसंयोगाज् जातो मूर्धावसिक्तकः ।

राजन्यः क्षत्रधर्मेभ्यो ऽभ्यधिकः सम्प्रकीर्तितः ॥

आथर्वणक्रियां कुर्वन् नित्यनैमित्तिकीं क्रियाम् ।

अश्वं रथं हस्तिनं वा वाहयेद् वै नृपाज्ञया ॥

सेनापत्यं च भैषज्यं कुर्याच् जिवेच् च वृत्तिषु ।

आयुर्वेदम् अथाष्टाङ्गं तत्रोक्तं धर्मतश् चरेत् ॥

ज्योतिषं गणितं वापि कायिकीं वृत्तिम् आचरेत् ।

वैश्यायां विधिना विप्राज् जातो ह्य् अम्बष्ठ उच्यते ॥

कृष्याजीवो भवेत् तस्य तथैवाग्रे प्रनर्तकः ।

नरवाजिगजादीनां चिकित्सा तस्य जीविका ॥

वाग्भट्टः

सप्त वा पञ्च वा तिस्रो यो न वेत्ति हि संहिताः ।

राज्ञा तस्य कुवैद्यस्य छेत्तव्यो दक्षिणः करः ॥

मनुः

प्रायश्चित्तं चिकित्सां च ज्योतिषं धर्मनिर्णयम् ।

विना शास्त्रेण यो ब्रूयात् तम् आहुर् ब्रह्मघातकम् ॥

अयं शस्त्रवैद्यः ।

वैश्यायां क्षत्रियाज् जातो माहिष्यस् त्व् अनुलोमजः ।

अष्टाधिकारनिरतश् चतुःषष्ट्यङ्गकोविदः ॥

व्रबन्धादिकास् तस्य क्रियाः स्युः सकला विशः ।

ज्योतिषं शाकुनं शास्त्रं स्वरशास्त्रं जीविका ॥

विश्वम्भरशास्त्रे

शूद्र्यां जातस् तु वैश्याद् वै करणो लिपिलेखकृत् ।

याज्ञवल्क्यः

जात्युत्कर्षो युगे ज्ञेयः सप्तमे पञ्चमे ऽपि वा ।

व्यत्यये कर्मणां साम्यं पूर्ववच् चाधरोत्तरम् ॥

जात्युत्कर्ष उत्कृष्टजातिप्राप्तिः सप्तमे । अपशब्दात् षष्ठे पञ्चमे वा ज्ञेयः । अयम् अर्थः । विप्रोढा शूद्रा कन्यां सूते । सापि तदूढान्याम् इति सप्तमं विप्रं [२६३] सूते । एवं विप्रोढवैश्याजन्या कन्यां षष्थं विप्रम् । विप्रोढक्षत्रियाजन्या पञ्चमम् । क्षत्रियाच् छूद्रोत्पन्ना षष्ठं क्षत्रियम् । वैश्यजा पञ्चमं वैश्यम् इति पूर्वार्धार्थः । एवं विप्रस्य क्षात्रवृत्त्यापत्यपरम्परया जीवने पञ्चमः क्षत्रियः । वैश्यवृत्तौ जीवने षष्ठो वैश्यः । शूद्रवृत्तौ सप्तमः शूद्रः । क्षत्रस्य वैश्यवृत्तौ पञ्चमो वैश्यः । शूद्रवृत्तौ षष्ठः शूद्रः । वैश्यस्य सूद्रवृत्तौ पञ्चमः शुद्र इति ।

[२६५]

अथ प्रतिलोमजाः ।

कल्पतरौ कात्यायनः

नियोगोत्पादनं कुर्याद् यथोक्तं तद्विशुद्धये ।

द्विजस्त्रीषु च धर्मो ऽयं शूद्रस्यैतत् सदा भवेत् ॥

शूद्रेषु न नियोग इत्यर्थः । बृहस्पतिः

उक्तो नियोगो मनुना निषिद्धः स्वयम् एव तु ।

युगह्रासाद् अशक्तो ऽयं कर्तुं मर्त्यैर् विधानतः ॥

अनेकधा कृताः पुत्रा ऋषिभिर् ये पुरातनैः ।

न शक्यन्ते ऽधुना कर्तुं शक्तिहीनैर् इदन्तनैः ॥

तत्रैव हारीतः

स्वैरिणी च पुनर्भूश् च रेतोधाः कामचारिणी ।

सर्वभक्षा च विज्ञेयाः पञ्चैताः शूद्रयोनयः ॥

एतासां यान्य् अपत्यानि उत्पद्यन्ते कदाचन ।

न तान् पङ्क्तिषु युञ्जीत न ते पङ्क्त्यर्हकाः स्मृताः ॥

रेतोधाः कुण्डमाता । कामचारिणी चतुर्भ्यो ऽधिकपुरुषगा । सर्वभक्षा सुरापी ।

याज्ञवल्क्यः ।

ब्राह्मण्यां क्षत्रियात् सूतो वैश्याद् वैदेहकस् तथा ।

शूद्राज् जातस् तु चाण्डालः सर्वधर्मबहिष्कृतः ॥

क्षत्रिया मागधं वैश्याच् छूद्रात् क्षत्तारम् एव च ।

शूद्राद् आयोगवं वैश्या जनयामास वै सुतम् ॥

मागधो बन्दी । क्षत्ता निषादो भिल्ल इति प्रसिद्धः । आयोगवः पुल्कसः । तद् आह हारीतः

    क्षत्रियायां वैश्यशूद्रौ बन्दिनिषादौ जनयतो वैश्यायां शूद्रः पुल्कसान् इति ।

व्यासो ऽपि ।

शूद्रान् निषादो मत्स्यघ्नः क्षत्रियायां व्यतिक्रमात् ।

तेन द्वौ निषादौ । एकः प्राग् उक्तो ऽनुलोमः । अयं चैकः । जातिविवेके

क्षत्रिया शूद्रसंयोगात् क्षत्तारं जनयेत् सुतम् ।

निषाद इति विख्यातः सर्ववर्णबहिष्कृतः ॥

शूद्राचारविहीनश् च पापधीनिरतः सदा ।

वागुरापाशपाणिस् तु मृगबन्धनकोविदः ॥

आरण्यपशुजातीनाम् अन्तकश् च वनेचरः ।

क्रोधान्वितो मांसवृत्त्या तया जीवेत् सदैव हि ॥

घण्टां पापर्द्धिकां कुर्याद् रात्रौ विस्मयकारिणीम् ।

द्विधा च मृगया प्रोक्ता व्योमभूचारिणाम् इह ॥

विक्रयं मधुनः क्र्याद् धनम् इच्छन् समृद्धये ।

यमस् तु मागधनिषादयोः सञ्ज्ञान्तरम् आह ।

क्षत्रियायां तु वैश्येन मुचुपो नाम जायते ।

शूद्रेण जायते मद्गुः क्षत्रिया यत्र मुह्यति ॥

मोहो मैथुनम् । स्मृत्यन्तरे

क्षत्रिया मागधं वैश्याज् जनयामास वै सुतम् ।

स बन्दीजन इत्य् उक्तो व्रतबन्धविवर्जितः ॥

शूद्रेभ्यो ऽभ्यधिकः किञ्चित् तस्य जीवनम् उच्यते ।

काव्यालङ्कारगद्यादिषट्भाषासु कलाक्षमः ॥

गद्यपद्यानि चित्राणि विरुद्धानि महीभृताम् ॥

[२६६] क्षत्रियायां वैश्यजातः क्षत्ता वेत्रधरो भवेत् ।

लघुजातिविवेके

सूतास् ते ये पुराणस्थान् उच्चरन्ति नृपान् सदा ।

ये ऽल्पकालगतान् शूरान् वर्णयन्ति च मागधाः ॥

वर्तमानान् नृपान् सम्यक् कृतसङ्ग्रामकर्मणः ।

वर्णयन्ति प्रबन्धैर् ये बन्धिनस् ते प्रकीर्तिताः ॥

मनुः

कारावरं निषादात् तु चर्मकारं प्रसूयते ।

वैदेहीति शेषः ।

वैदेहकाद् अन्ध्रमेदौ बहिर्ग्रामप्रतिश्रयौ ॥

विप्रायां वैश्यजो वैदेहः । तस्मात् कारावर्याम् अन्ध्रः । निषाद्यां मेद इति **मेधातिथिः **। अङ्गिरसा त्व् अन्ये ऽपि चण्डाला उक्ताः ।

यस् तु प्रव्रतिजा जातो ब्राह्मण्यां यश् च शूद्रजः ।

सगोत्रोढासुतश् चैव चण्डालास् त्रय ईरिताः ॥

**मनुः **पुल्कसम् अप्य् आह ।

जातो निषादाच् छूद्रायां जात्या भवति पुल्कसः ।

शूद्राज् जातो निषाद्यां तु स वै कुक्कुटकः स्मृतः ॥

क्षत्तुर् जातस् तथोग्र्यां तु श्वपाक इति चोच्यते ।

वैदेहकेन त्व् अम्बष्ठ्याम् उत्पन्नो वेन उच्यते ॥

शूद्रात् क्षत्र्याजः क्षत्ता । क्षत्राच् छूद्रायाम् उग्रः । ताभ्यां श्वपाकः । वैश्याद् विप्रायां वैदेहः । विप्राद् वैश्यायाम् अम्बष्ठी । तस्यां वेनः । एषां वृत्तीर् आह वसिष्ठः

    सूतानां मन्त्रिकायस्थत्वस्त्रीजीवनवस्त्रपूरणानि । मन्त्रित्वं कायस्थो लेखकस् तत्त्वं च । वैदेहकानां नटवृत्तिरङ्गावतरणे । वेनानां दारुच्छेदनं भ्रमरोपणं मणिमुक्ताप्रवालवेधनं च । भ्रमः शाणः । आयोगवानां ताम्रायस्त्रपुसीसायुधकरणं योजनं नगरकरणं च सैरन्ध्राणां सुरामद्यसीधूकरणं तद्विक्रयः पुष्पफलशाकविक्रयश् च । 

विश्वम्भरशास्त्रे

विप्रायां यः सुतः क्षत्रात् सूताख्यो गजबन्धकृत्।

दमनं तुरगाणां च कुर्यात् तज्जीवनं परम् ॥

नृपाद् ब्राह्मणकन्यायां विवाहेषु समन्वयात् ।

जातः सूतस् तु निर्दिष्टः प्रतिलोमविधिर् द्विजः ॥

विवाहसम्बन्धे ऊढायां ब्राह्मणकन्यायाम् इत्य् अर्थः ।

वेदानर्हस् तथा चैषां धर्माणाम् अनुबोधकः ।

ब्राह्मण्यां तु सुतो जातो वैश्याद् वैदेहकः स्मृतः ॥

पाषाणकाष्टयोः शिल्पं तस्य जीवनम् उत्तमम् ॥

मनुः

सूतानाम् अश्वसारथ्यम् अम्बष्ठानां चिकित्सितम् ।

वैदेहकानां स्त्रीकार्यं मागधानां वणिक्पथः ॥

स्त्रीकार्य्म् अन्तपुररक्षा । वणिक्पथो राजमार्गस् तद्रक्षा ।

मत्स्यघातो निषादानां त्वष्टिर् आयोगवस्य च ।

त्वष्टिर् दारुतक्षणं वर्धकिर् इत्य् अर्थः । उशनसा तु ।

नृपायां वैश्यसंसर्गाद् आयोगव इति स्मृतः ।

तन्तुवाया भवन्त्य् एते वसुकांस्योपजीविनः ॥

शीलिकाः केचिद् अत्रैव जीवनं वस्त्रनिर्मितम् ।

क्षत्रुग्रपुल्कसानां तु बिलौकोवधबन्धने ॥

बिलौकसः सर्पादयः । उग्रो ऽत्र प्रतिलोमजः । तन्मध्यपाठाद् इति स्मृतिमञ्जर्याम्

दिग्वणानां चर्मकार्यं वेनानां भाण्डवादनम् ।

भाण्डं मुरजपटहादि ।

चैत्यद्रुमश्मशानेषु शैलेषूपवनेषु च ॥

वसेयुर् एते विज्ञाता वर्तयन्तः स्वकर्मभिः ।

विज्ञाता ज्ञातिचिह्नाङ्किताः ।

चाण्डालश्वपचानां तु निर्ग्रामः स्यात् प्रतिश्रयः ॥

अवपात्राश् च कर्तव्या धनम् एषां श्वगर्दभम् ।

निर्ग्रामो बहिर्ग्रामः । अवपात्रं भिन्नपात्रम् । यद् वा पाकपात्रादिहीनाः । यद् वक्ष्यति “अन्नम् एषां पराधीनम्” इति । यद् वा तद्धस्तस्थे पात्रे ऽन्नादि न देयम्, किं तु भूमिस्थे ।

वासांसि म्र्तचैलानि भिन्नभाण्डे च भोजनम् ॥

कार्ष्णायसम्** [२६७]** अलङ्कारः परिव्रज्या च नित्यदा ।

परिव्रज्या एकत्रानवस्थानम् ।

न तैः समयम् अन्विच्छेत् पुरुषो धर्मम् आचरन् ॥

व्य्वहारो मिथस् तेषां विवाहः सदृशैः सह ।

अन्नम् एषां पराधीनं देयं स्याद् भिन्नभाजने ॥

रात्रौ न विचरेयुस् ते ग्रामेषु नगरेषु च ।

कार्यार्थं विचरेयुर् वा चिह्नता राजशासनैः ॥

अबान्धवं शवं चैव निर्हरेयुर् इति स्थितिः ।

वध्यांश् च हन्युः सततं यथाशास्त्रं नृपाज्ञया ॥

वध्यवासांसि गृह्णीयुः शय्याश् चाभरणानि च ।

ब्राह्मणार्थे गवार्थे वा देहत्यागो ऽनुपस्कृतः ॥

धनाद्यलोभो ऽनुपस्कर इति मेधातिथिः

स्त्रीबालाभ्यवपत्तौ च बलिनां सिद्धिकारणम् ।

स्त्रीबालादिविपत्तौ च देहत्याग इत्य् अनुषङ्गः । सिद्धिः श्रेयः । उशना

सीसम् आभरणं तेषां कालायसम् अथापि वा ।

वध्रीं कण्ठे समाबध्य झल्लरीं कक्षतो ऽपि वा ॥

मलापकर्षणं कुर्युः पूर्वाह्णे परिशुद्धिकम् ।

पिण्डीभूता वसेयुस् ते नोचेद् वध्या विशेषतः ॥

[२७१]

तथा व्रात्योत्पन्नाः शूद्रसमाः ।

तान् आह मनुः

व्रात्यात् तु जायते विप्रात् पापात्मा भृज्जकण्टकः ।

आवन्त्यवाटधानौ च पुष्पशेखर एव च ॥

विप्रायां जायते व्रात्यविप्रजो भृज्जकण्टकः ।

आवन्त्याद्यास् तस्यैव सञ्ज्ञा इति मेधातिथिःअन्ये तु भृज्जकण्टकाद् विप्रायाम् आवन्त्यः, तस्मात् तस्यां वाटधानः, तस्माच् च पुष्पशेखर इत्य् आहुः । एवम् अग्रे ऽपि । विश्वम्भरे एतान् उक्त्वा,

एतैस् तु जीवनार्थाय कार्यं विष्ण्वादिपूजनम् ।

नृत्यगीतादिवादित्रशङ्खवीणादि वादनम् ॥

झल्लो मल्लश् च राजन्याद् व्रात्याद् विच्छिबिर् एव च ।

नटश् च करणश् चैव खंसो द्रमिड एव च ॥

क्षत्रियायां व्रात्यक्षत्रजा एते । अयम् अन्यः करणो ऽनुलोमात् ।

वैश्यात् तु जायते व्रात्यात् सुधन्वाचार्य एव च ।

कारूषश् च विजन्मा च मैत्रः सात्वत एव च ॥

वैश्यायाम् एव । आदित्यपुराणे

ब्राह्मण्यां ब्राह्मणाद् व्रात्याज् [२७२] जायते मृज्जकण्टकः ।

आवन्त्यवाटधानौ च पुष्पशेखरजातयः ॥

आभिचारिककर्मात्र भृज्जकण्टकिनो ऽशनम् ।

मन्त्रौषधीशात्रवाणां सम्मुखीकरणाद् ऋते ॥

कुर्वन्ति राज्ञां हि ततस् तेनैवाविकृताः परैः ।

अविकृताः अदण्ड्याः । सम्मुखीकरणं वशीकरणम् ।

राज्ञीषु क्षत्रियाद् व्रात्याज् झल्लमल्लनटा झषाः ॥

आवित्थिबीकाः करणा द्रमिडाः सन्ति भूरिशः ।

विज्ञेयाः परराष्ट्राणां तैश् च राजाज्ञया क्रियाः ॥

खसो मल्लस् तथा वृत्तं मित्रामित्रत्वम् एव च ।

वैश्यस्त्रीषु तथा व्रात्याद् वैश्यात् कारुषको भवेत् ॥

चतुष्पथे श्मशाने च स भवेन् मित्रमण्डलम् ।

तत्र लोकवृत्तान्तज्ञो राजाज्ञया स्याद् इत्य् अर्थः । मातृमण्डन इति पाठे देवीपूजकः ।

सुधन्वाचार्यस् त्व् अपरो भवेद् रुद्रस्य पूजकः ॥

तृतीयश् च विजन्माख्यः सूतिकावेश्मपूजकः ।

तत्स्त्री साम्बिका स्याद् इत्य् अर्थः ।

भूतप्रेतपिशाचांश् च पूजयेद् राजशासनात् ॥

साध्यानां पूजको मैत्रश् चैत्यादीनां चतुर्थकः ।

पञ्चमः सात्वतो नाम विष्णोर् आयतनार्चकः ॥

एभ्यो ऽन्योन्यसङ्करे नीचा जायन्ते । तद् आह मनुः

यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते ।

तथा ब्राह्यान्तरं बाह्यश् चातुर्वर्ण्ये प्रसूयते ॥

वर्णानाम् अन्योन्यसङ्करे भेदान् आह मनुः

प्रतिकूलं वर्तमाना बाह्या बाह्यान्तरान् पुनः ।

हीना हीनान् प्रसूयन्ते वर्णाः पञ्चदशैव तु ॥

बाह्याश् चण्डालाद्याः । प्रतिकूलं चातुर्वर्ण्यस्त्रियो गच्छन्तः । स्वतो बाह्यान्तरान् नीचान् जनयन्ति । ते पुनर् उच्चनीचस्त्रियो गच्च्नतो हीनान् अहीनांश् च सुवते । वर्णा जातयः । अयं भावः । विप्राद् अनुलोमा एव । शूद्रात् प्रतिलोमा एव । मध्यमयोर् उभयोर् उभये । क्षत्रस्य द्वाव् अनुलोमौ एकः प्रतिलोमः । वैश्यस्यैको ऽनुलोमो द्वौ प्रतिलोमौ । अत्र शूद्राद् विप्राक्षत्रियावैश्यासु क्रमाच् चण्डालक्षत्तायोगवास् त्रयः चण्डालाद् विप्रादिस्त्रीषु चत्वारः । एवं क्षत्तुर् आयोगवाद् इति द्वादश । ते च स्वयं त्रय इति पञ्चदश । तथा वैश्यात् क्षत्रियायां मागधो विप्रायां वैदेहकः । शूद्रायां करणो ऽनुलोमः । तैश् चतुर्वर्णस्त्रीषूत्पादिताः प्रत्येकं चत्वार इति द्वादश । स्वयं च ते त्रय इति पञ्चदश । तथा क्षत्रियाद् वैश्यायां माहिष्यः । शूद्रायाम् उग्रः । विप्रायां सूतः प्रतिलोमः । तेभ्यश् चतुर्वर्णस्त्रीषु प्रत्येकं चत्वार इति द्वादश । स्वयं च ते त्रय इति पञ्चदश । एवं विप्रात् त्रयो ऽनुलोमाः । मूधावसिक्ताम्बष्ठपारसवाश् चतुर्वर्णस्त्रीषु प्रत्येकं चतुरो जनयन्तीति द्वादश । ते च त्रय इति पञ्चदशेति सर्वे षष्टिसङ्ख्याः । दुष्टाः चत्वारो वर्णाश् चेति चतुःषष्टिः । जातिविवेके त्व् अन्यथोक्तम् ।

आनुलोम्येन वर्णानां षण् नराः सम्प्रकीर्तिताः ।

प्रातिलोम्येन ते षट् स्युर् इति द्वादश भेदतः ॥

एते द्वादश मिश्रास् तु चतुर्वर्णैर् विमिश्रिताः ।

अष्टौ च ये स्युर् भेदास् ते षष्टिर् द्वादशसंयुताः ॥

हतास् ते षष्टिसङ्ख्यातैः षट्त्रिशच्छतसङ्ख्यया ।

भेदाः सङ्करजातीनां बहवः स्युस् ततः परे ॥ इति ।

एते सूद्रसमाः,

शूद्राणां तु सधर्माणः सर्वे ऽपध्वंसजाः स्मृताः ।

इति मनूक्तेः । अपध्वंसजा व्यभिचारजाताः ।

[२७४]

सङ्करजस्वरूपं वृत्तयश् च ।

एतत्स्वरूपं वृत्तयश् चोक्ताः आदिपुराणे ऽपि ।

मूर्धावसिक्तो विप्राद् यः क्षत्रियायां प्रसूयते ।

स करोति मनुष्याणां चिकित्सां रोगिणाम् अपि ॥

अपिशब्दात् क्षात्रं कर्म च ।

ब्राह्मणाच् छूद्रकन्यायां भवेत् पारसवस् तु सः ।

निषादो मत्यघातित्वं चक्रे राजाज्ञया सदा ॥

ब्राह्मणेनोग्रकन्यायाम् अम्बष्ठो नाम जायते ।

स करोति मनुष्याणां चिकित्सां रोगिणाम् अपि ॥

विप्राद् वैश्याजः क्षत्राच् छूद्राजश् चेति द्वाव् अम्बष्ठौ ।

ब्राह्मणेन तथाम्बष्ठ्याम् आभीरो जायते सुतः ।

गोऽजाविरक्षां कुरुते स च राजगृहेष्व् अपि ॥

आयोगव्यां ब्राह्मणात् तु जायते धिग्वणो नरः ।

वैश्यायां शूद्रजा आयोगवी ।

स चर्मकारो विज्ञेयो गर्हितश् चर्मजीवनः ॥

एते मातृसधर्माणो न पितुः पुत्रकाश् च षट् ।

मूर्धावसिक्तपारसवाम्बष्ठाभीरचर्मकाराः प्राग् उक्ता अवरोटश् चेति षट् ।

मूर्धावसिक्तो ऽम्बष्ठश् च निषादश् च तथा त्रयः ॥

विप्रक्षत्रियविट्शूद्रनारीणां गमनाद् इह ।

एकैकशस् तु चतुरो जनयन्ति सुतान् अपि ॥

एते द्वादश विद्यन्ते मूलप्रकृतिभिर् युताः ।

भवन्ति पञ्चदश वै विप्रः षोडशको भवेत् ॥

मूर्धावसिक्ताद् विप्रायां प्रतिलोमः । क्षत्रादिष्व् अनुलोमा इति [२७५] चत्वारः । एवम् अम्बष्टान् निषादाच् चेति द्वादश । स्वयं चैते त्रय इति पञ्चदश । व्रात्यो विप्रः अवरोटो वा षोडशः ।

दस्युसञ्ज्ञा भवन्त्य् एते मातृवत् कर्मकारिणः ।

राज्ञो ब्राह्मणकन्यायां सूतो वर्णस् तु जायते ॥

स राज्ञाम् अश्वसारथ्यं चक्रे दक्षश् च नित्यशः ।

सूतः प्रजापतिस् त्व् अन्यो मायारूपी जनार्दनः ॥

वक्ता वेदादिशास्त्राणां पुराणानां च स स्मृतः ।

अन्य इति नाम्नैव सूतो न तु जात्येत्य् अर्थः । उग्रादिसञ्ज्ञावत् । सूतपुत्र उग्रश्रवाः सौतिः पौराणिको ऽपि । तथा

क्षत्रियाद् वैश्यकन्यायां माहिष्यो नाम जायते ।

नक्षत्रगाननृत्यज्ञो धनानां परिरक्षिता ॥

राज्ञस् तु शूद्रकन्यायाम् उग्राख्यो नाम जायते ।

दुर्गान्तःपुरकोशानां रक्षां विप्रेषु वाचनम् ॥

उग्रो दुष्टश् च दस्यूनां कश्चिद् अन्यो ऽपि विद्यते ।

सूतमाहिष्यकोग्रास् तु त्रयो वर्णचतुष्टयात् ॥

एकैकशस् तु चतुरो जनयन्ति सुतान् अपि ।

आत्मना सह राज्ञा तु तत्र षोडश सन्ति ते ॥

देवलः

देवब्राह्मण्बालस्त्रीदीनान्धकृपणैस् तु यत् ।

उपार्जितं धनं तस्य परित्यागात् तु दस्यवः ॥

ब्राह्मण्याम् अथ वैश्येन वैदेहो नाम जायते ।

एते द्वादश विद्यन्ते मूलप्रकृतिभिर् युताः ॥

भवन्ति पञ्चदश वै विप्रः षोडशको भवेत् ।

रक्षिता राजदुर्गाणां तद्वृत्तिपरसंयुतः ॥

क्षत्रियायां तु वैश्येन मुचुको नामतो भवेत् ।

जले स्थले च यो मार्गस् तत्र रक्षां करोति सः ॥

राजदूतो वाद्यजीवो भवेत् कीर्तिप्रकाशकः ।

अयम् एव बन्दी ।

वैश्येन शूद्र्यां करणो वर्णः स्यात् प्रकरोति सः ॥

दुर्गान्तःपुरगञ्जानां रक्षां ब्राह्मणसङ्ग्रहम् ।

गञ्जा तु मदिरागृहम् इत्य् अमरः । सङ्ग्रहो रक्षणम् ।

वैदेहमागधाव् एतौ करणश् चेति ते त्रयः ॥

वर्णेभ्यः पूर्ववत् पुत्रान् जनयन्ति विमोहितः ।

ते च षोडश जायन्ते मूलप्रकृतिभिः सह ॥

दुष्टानि वैश्यकर्माणि ते ऽपि कुर्वन्ति दस्यवः ।

ब्राह्मण्याम् अथ शूद्रेण चण्डालः स्याज् जुगुप्सितः ॥

स चक्रे राजमार्गादिशोधनं च कुकर्म च ।

राजस्त्रियां च शूद्रेण क्षत्ता मैन्दश् च जायते ॥

श्वाविध्यम् अथ गोधानां स चक्रे वधबन्धनम् ।

आयोगवस् तु शूद्रेण वैश्यायां तु भवेच् च सः ॥

तक्षा स्थपतिर् इत्य् उक्तो राज्ञां वेश्मकरः सदा ।

दारुतक्षकस् तक्षा । पाषाणभेदकः स्थपतिर् इति द्वाव् अप्य् एतद् भेदौ ।

आयोगवस् तथा क्षत्ता चण्डालश् चापि ते त्रयः ॥

चतुर्वर्णासु तनयान् जनयन्त्य् अथ पूर्ववत् ।

शूद्रेण सहितास् ते तु सन्ति षोडश सङ्ख्यया ॥

दुष्टानि यानि कर्माणि ते ऽपि कुर्वन्ति दस्यवः ।

एते विप्रादयो ज्ञेयास् चतुःषष्टिषु योनिषु ॥

उत्पादयन्ति सदृशान् सङ्कीर्णान् अन्ययोनिषु ।

अत्र स्वभिन्नासु त्रिषष्टिभिर् जनितास् तासु वा तैर् जनिता एकैकस्य षड्विंशत्यधिकं शतं भेदाः । ते च चतुःषष्टिभिर् गुणिताः अष्टसहस्राणि चतुःषष्टिश् च भवन्ति । तेषां वर्णसङ्कीर्णसङ्करेणान्योन्यसङ्कराच् चानन्त्यं भवति । विस्तरापत्तेर् नोच्यते । मनुः

शनकैस् तु क्रियालोपाद् इमाः क्षत्रियजातयः ।

वृषलत्वं गता लोके ब्राह्मणातिक्रमेण च ॥

व्यभिचारेण वर्णानाम् अवेद्यावेदनेन च ।

सङ्गेन धर्मत्यागेन जायते वर्णसङ्करः ॥

सङ्गो म्लेच्छादिनीचसङ्गतिः । एतेषु कांश्चिद् आह मनुः

प्रसाधनोपचारज्ञम् अदासं दासजीविनम् ।

सैरन्ध्रं वागुरावृत्तिं सूते दस्युम् अयोगवी ॥

[२७६] वैश्यायां शूद्रजायोगवी । दस्योर् वर्णसङ्करजान् सूते । ते च दस्यवो मनूक्ताः ।

पौण्ड्रकाश् चोण्ड्रद्रमिडाः काम्बोजा यवनाः शकाः ।

पारदाः पह्लवाश् चीनाः किराता दरदास् तथा ॥

मुखबाहूरुजातानां या लोके जातयो बहिः ।

म्लेच्छवाचोर्यवाचो वा सर्वे ते दस्यवः स्मृताः ॥

एते म्लेच्छभेदाः । प्रसाधनं मण्डनम् । उपचारो ऽङ्गमर्दनादि । वसिष्ठस् तु वृत्त्यन्तरम् आह

    सैरन्धाणां सुरामद्यसीधुकरणं तद्विक्रयः पुष्पफलशाकविक्रयश् च । इति ।

मनुः

मैत्रेयकं तु वैदेहो माधूकं सम्प्रसूयते ।

नॄन् प्रशंसत्य् अजस्रं यो घण्टावादो ऽरुणोदये ॥

भवन्त्य् आयोगवीष्व् एते इति मनूक्तेर् वैश्यायां शूद्रजायोगव्यां विप्रायां वैश्यजाद् वैदेहान् मैत्रेयं सूते । स एव माधूकः ।

निषादो मार्गरं सूते दाशं नौकर्मजीविनम् ।

कैवर्तम् इति यं प्राहुर् आर्यावर्तनिवासिनः ॥

क्षत्रायां शूद्रजान् निषादात् प्रागुक्तायोगव्यां दश इत्य् अर्थः ।

ब्राह्मणाद् इत्य् अनुवृत्तौ मनुः

आभीरो ऽम्बष्ठकन्यायाम् आयोगव्यां तु धिग्वणः ।

वैश्यायां शूद्रजायोगवी । तस्याम् विप्रजो धिग्वणः । वैश्यायां विप्रजाम्बष्ठी । तस्याम् विप्राद् आभीरः । अयं गोपालानुलोमः प्रसङ्गाद् उक्तः । जातिविवेके

वर्तनं गोमहिष्यादि पोषयेत् तृणवारिभिः ।

पयो दधि घृतं तक्रं विक्रेतव्यं धनार्थिभिः ॥

[२७९]

अथ भोज्यान्नाः ।

अस्य भोज्यान्नत्वम् आह याज्ञवल्क्यः

शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः ।

भोज्यान्ना नापितश् चैव यश् चात्मानं निवेदयेत् ॥

शूद्रान्नभक्षणे मनुः

राजान्नं तेज आदत्ते शूद्रान्नम् ब्रह्मवर्चसम् ।

आयुः सुवर्णकारान्नं यशश् चर्मावकर्तिनः ॥

भुक्त्वातो ऽन्यतमस्यान्नम् अमत्या क्षपणं त्र्यहम् ।

मत्या तु भक्षणए कृच्छ्रं रेतोविण्मुत्रम् एव च ॥

यत् तु शङ्खः

शूद्रान्नं ब्राह्मणो भुक्त्वा तथा रङ्गावतारिणः ।

चिकित्सकस्य क्रूरस्य तथा स्त्रीमृगजीविनः ॥

चण्डालान्नं भूमिपान्नम् अजजीविश्वजीविनाम् ।

शौण्डिकान्नं सूतिकान्नं भुक्त्वा मासं व्रतं चरेत् ॥

व्रतं गोमूत्रयावकम् । इदम् अभ्यासे । आमान्ने तु तृतीयांशः । चण्डालान्नं भुक्त्वा त्रिरात्रम् उपवसेत् सिद्धान्नं भुक्त्वा पराकम् इति **माधवीये **चण्डालान्ने विष्णुना तथोक्तेः । चण्डालान्नम् आमम् । आपदि तु पराशरः

आपत्काले तु विप्रेण भुक्तं शूद्रगृहे यदि ।

मनस्तापेन शुध्येत द्रुपदानां शतं जपेत् ॥

इदम् आमान्नपरम्,

नाद्याच् छूद्रस्य पक्वान्नं विद्वान् अश्राद्धिनो द्विजः ।

आददीतामम् एवास्माद् वृत्तौ चैकरात्रिकम् ॥

इति मनूक्तेः । यत् तु याज्ञवल्क्यः,

शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः ।

भोज्यान्ना नापितश् चैव यश् चात्मानं निवेदयेत् ॥

इति, यश् च देवलः,

स्वदासो नापितो गोपः कुम्भकारः कृषीवलः ।

ब्राह्मणैर् अपि भोज्यान्नाः पञ्चैते शूद्रयोनयः ॥

इति, अत्रान्नशब्दो ऽदनीयमात्रपरो न त्व् ओदनपरः । यत् तु भविष्ये,

उपक्षेपणधर्मेण शूद्रान्नं यः पचेद् द्विजः ।

अभोज्यं तद् भवेद् अन्नं स च विप्रः पुरोहितः ॥

उपक्षेपणं शूद्रेण स्वान्नस्य पाकार्थं विप्रगृहे समर्पणम् इति कल्पतरुः । इदं शुश्रूषकभिन्नपरम्,

त्रिषु वर्णेषु कर्तव्यं पक्वभोजनम् एव च ।

शुश्रूषाम् अभिपन्नानां शूद्राणां च वरानने ॥

इति वाराहोक्तेः । तेन देवेभ्यो नैवेद्यम् अपि पक्वेनेति गङ्गावाक्यावली । सर्वं कलीतरपरम् इति शुद्धितत्त्वे उक्तम् । संसृष्टदुष्टभोज्य ऽन्ने विशेषम् आह अपरार्के शूलपाणौसुमन्तुः

गोरसं चैव सक्तूंश् च तैलं पिण्याकम् एव च ।

अपूपान् भक्षयेच् छूद्राद् यच् चान्यत् पयसा कृतम् ॥

पयनान्यासंसृष्टदुग्धेन कृतं पाकं विना । तेन पायसे दोष एव, पयसेति तृतीयया नैरपेक्ष्यावगतेः, शूद्रजले दोषोक्तेश् च । यच् चेति चकाराद् अपूपेषु पयःकृतेष्व् एव । तेन जलकृते पोलिकादौ दोष एवेत्य् अर्थः । अत्रेदं तत्त्वम् । द्विविधो द्विजः । शूद्रान्नरतस् तन्निवृत्तश् च । आद्यस्य पूर्वोक्तं शूद्रान्नं भोज्यम् । अत एव अपरार्के शूलपाणौहारीतः

कन्दुपक्वं स्नेहपक्वं पायसं दधि सक्तवः ।

एतानि शूद्रान्नभुजो भोज्यानि मनुर् अब्रवीत् ॥

द्विजैर् एतानि भोज्यानि शूद्रगेहकृतान्य् अपीति शुद्धितत्त्वे कौर्मोत्तरार्धम् । पायसं पाकं विना [२८०] क्षीरेण कृतम्,

आमं शूद्रस्य पक्वान्नं पक्वम् उच्छिष्टम् उच्यते ।

इति शातातपोक्तेः, “यच् चान्यत् पयसा कृतम्” इति पूर्वम् उक्तेः । इदं शूद्रगेहे ऽपि भोज्यम् । तद् उक्तं शूलपाणौ ब्राह्मे

राज्ञां पर्वणि वैश्यानाम् अश्नीयान् मङ्गले गवाम् ।

वासोभूरत्नहेमान्नं सच्छूद्रस्य गृहे तथा ॥ इति ।

इदम् अपि कलौ वर्ज्यम्,

शूद्रेषु सासगोपालकुलमित्रार्धसीरिणाम् ।

भोजान्नता गृहस्थस्य तीर्थसेवातिदूरतः ॥

ब्राह्मणादिषु शूद्रस्य पक्वतादिक्रियापि वा ।

इति च माधवीये पृथ्वीचन्द्रोदयेआदित्यपुराणत् । शूद्रान्ननिवृत्तस्य तु शूलपाणाव् अङ्गिराः

पात्रान्तरगतं ग्राह्यं शूद्रात् स्वगृहम् आगतम् ।

शूद्रवेश्मनि विप्रेण क्षीरं वा यदि वा दधि ॥

निवृत्तेन न भोक्तव्यं शूद्रान्नं तद् अपि स्मृतम् ।

विष्णुपुराणे

सम्प्रोक्षयित्वा गृह्णीयाच् छूद्रान्नं गृहम् आगतम् ।

यत् तु याज्ञवल्क्यः,

विकर्मस्थान् द्विजान् शूद्रान् सवासा जलम् आविशेत् ।

इति शूद्रस्पर्शे स्नानम् आह, तद् दासादिभिन्नशूद्रपरं वा, अन्यथा

मूल्यकर्मकराः शूद्रदासीदासास् तथैव च ।

स्नाने शरीरसंस्कारे गृहकर्मण्य् अदूषिताः ॥

सद्यःस्पृश्यो गर्भदासो भक्तदासस् त्र्यहाच् छुचिः ।

इत्यादिविरोधात् । मनुः

अभोज्यानां तु भुक्त्वान्नं स्त्रीशूद्रोच्छिष्टम् एव च ।

जग्ध्वा मांसस् अभक्ष्यं च सप्तरात्रं यवान् पिबेत् ॥

ज्ञाने द्विगुणम् ।

[२८२]

विश्वम्भरशास्त्रे

माहिष्यायां द्विजाज् जात आभीरः क्षीरविक्रयी ।

उदवाहः सुतो विप्राद् वैदेह्यां व्यभिचारतः ॥

स छत्रं धारयेत् कुर्यान् नराणां विक्रयं तथा ।

क्षत्राद् वैश्यायां माहिष्या । वैश्याद् विप्रायां वैदेही ।

विप्रान् निषाद्यां यो जातः पौष्टिकः स्कन्धवाहकः ॥

शूद्र्यां विप्रान् निषादी ।

अम्बष्ठायां द्विजाज् जातः पुत्रः कांस्यस्य कर्मकृत् ।

[२८३] कांस्यपात्राणि चित्राणि रचयेज् जीवनाय सः ॥

शूद्रधर्मेण सर्वत्र स्थितिर् अस्य विधीयते ।

उग्रायां यो द्विजाज् जातः कुम्भकारः स उच्यते ॥

स शूद्राद् धीयते धर्मे घटयेन् मृन्मयान् घटान् ।

जातिविवेके

व्रात्यः क्षत्रियतः शूद्र्यां जातः शूद्रविधानकृत् ।

स कुर्याद् राजपुत्रांश् च शस्त्रास्त्रकुशलान् धनम् ॥

तेभ्यो लब्ध्वात्मवृत्त्यर्थं स्वधर्मम् अनुपालयेत् ।

राजगुरुः

तस्मान् मल्लः सुतो जातः क्षत्रिण्यां व्यभिचारतः ।

राज्ञां कौतुकम् आपाद्य नियुद्धेनार्जयेद् धनम् ॥

वैश्याच् छूद्र्याम् अथाम्बष्ठ्यां जातो वैतालिकाभिधः ॥

जीवनं कामशास्त्रेण स्तुत्या वा बन्दिकर्मणा ।

क्षत्रात् पारसवीपुत्रः किन्नाटस् ताम्रकुट्टकः ॥

वणिग्जनात् तु विप्रायां जातो ऽन्तःपुरपालकः ।

ब्राह्मण्यां जायते वैश्याद् यो ऽसौ वैदेहकाभिधः ॥

शुद्धान्तरक्षणं राज्ञां कुर्याद् अनुपमं हि सः ।

सामान्यवनिताः पोष्यास् तासाम् आद्या च जीविका ॥

पण्याङ्गनानां राज्ञां च कुर्यात् सङ्गं तदिच्छया ।

रूपाजीवासु तास्व् एव विशिष्यासङ्गतो विटः ॥

स एव तासां प्राणेशो नान्यः कान्तो ऽपि तत्पतिः ।

चतुःषष्टिकलाः कामशास्त्रं तदुपजीवनम् ॥

चतुःषष्टिकला भरतेनोक्ताः ।

वेदाङ्गागमशिल्पशास्त्रकविता वक्तृत्वतौर्यत्रिक-

द्यूतास्त्राद्भुतवादसूपरचनाश् चित्रं पणो वैद्यकम् ।

नानारत्नपुराणलेखपुरुषस्त्रीदातुभाषालिपि-

प्रज्ञानाटककेलिदन्तितुरगप्रज्ञा च सामुद्रिकम् ॥

शय्याभोजनयुद्धमर्दनविभूषाबन्धसर्वेङ्गित-

ज्ञानं रज्जुतरीकलारथकृतिः सौख्ये ऽष्टभोगेषु धीः ।

त्राणे वारिविषाग्निवारिषु रथारेवाङ्गशीर्षेषु

यद् दुर्गारामकृतिः पशुद्वियनमेत्कारः (?) शिवार्चादयः ॥

सुगन्धं वनिता वस्त्रं गीतं ताम्बूलभोजनम् ।

शय्या विभूषा सुरतं भोगाष्टकम् उदाहृतम् ॥

शूद्राद् वैश्यायां यो जातो वणिग्जन इति स्मृतः ।

पारसव्यां च माहिष्यान् मालाकारः स उच्यते ॥

कुसुमानि सशाकानि वर्धयेद् धनवृद्धये ।

स हीनः शूद्रधर्मेभ्यः समूहे पद्मके प्रभुः ॥

सूताज् जातस् तु वैदेह्यां सूतकारः स जायते ।

आयोगव्यां तु करणात् सैरन्ध्रो गन्धकर्मकृत् ॥

पुष्पचन्दनपण्यादिशृङ्गारैस् तस्य जीवनम् ।

पादयोः क्षालनं चैव धम्भिल्लानां प्रसाधनम् ॥

प्रत्यङ्गमर्दनं चैव चन्दनेनानुलेपनम् ।

मृगनाभेश् चन्द्रयोगं शृङ्गाररचनां नवाम् ॥

आजीवनं तु तस्योक्तं तत्स्त्री सैरन्ध्रिका स्मृता ।

विशम्भरशास्त्रे

प्रसाधनोपचतुरा सैरन्ध्रीति प्रकीर्तिता ।

शैवः पाशुपतः कश्चिद् आरूढः पतितो यदि ॥

जङ्गम इति प्रसिद्धः ।

तस्माज् जातः शूद्रपत्न्यां पुत्रो भस्माङ्कुरः स्मृतः ।

शिवार्चनं तु तत् कार्यं शिवदायेन जीवनम् ॥

स जटाभस्यधारी च शिवलिङ्गं प्रपूजयेत् ।

ताम्बूलम् अक्षता द्रव्यं गावः क्षेत्राणि काकिणी ॥

शिवाय प्राणिभिर् दत्तम् अन्यत् किं अपि भक्तितः ।

चण्डीशं यत् क्षितौ ख्यातं तेन तस्येह जीविका ॥

कुशीलवः सुतो ऽम्बष्टाद् वैदेह्यां नर्तनादिकृत् ।

जातिविवेके

माहिष्या मागधा चैव शुद्धमार्गकसञ्ज्ञकम् ।

जनयेत् तनयं सो ऽपि शूद्रधर्मविनाकृतः ॥

गीतं चतुर्विधं वाद्यम् अभ्यसेज् जीवनाय सः ।

सङ्गीतशास्त्रे

तत्रादौ त्रिविधं गीतं वाद्यं चापि चतुर्विधम् ।

चतुर्दशविधं नृत्यं गीतपूर्वं विचक्षणैः ॥

चतुर्विधं वाद्यम् आह अमरसिंहः

ततं वीणादिकं वाद्यम् आनद्धं मुरजादिकम् ।

वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् ॥

अयं मृदङ्गजीवी ।

निर्मण्डलक आभीराज् जातो ऽसौ बाणपिच्छकृत् ।

शराणां शरपत्रैश् च रचना तस्य जीविका ॥

उग्रायां मागधाज् जातः कुन्तलश्मश्रुकर्मकृत् ।

स नापित इति प्रोक्तः क्षौरकर्मविधानकृत् ॥

क्षत्राच् छूद्राज उग्रः । वैश्यात् क्षत्राजो मागधः ।

श्मश्रुकर्तनकृच् चैव नखकर्तनकोविदः ।

वृत्त्यानया ग्राममध्ये तिष्थेद् वर्णेषु सेवकः ॥

नराणां नापितो **[२८५] **धूर्तः शूद्रेभ्यो ऽभ्यधिकः स्मृतः ।

वृद्धमनुः

शूद्रकन्यासमुत्पन्नो ब्राःमणेन तु संस्कृतः ।

अपरो नापितः प्रोक्तः शूद्रधर्माधिको ऽपि सः ॥

याज्ञवल्क्येन तु शूद्र एव नापित उक्तः ।

शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः ।

भोज्यान्ना नापितश् चैवेति ।

शङ्खेन तु प्रतिलोमजो ऽयम् उक्तः । यत् तु **सूतसंहितायाम् **ऊर्ध्वनापितो ऽधोनापितश् चेति द्वैविध्यम् उक्तं तद् व्यवस्थितं ज्ञेयम् ।

[२८७]

अथ कायस्थोत्पत्तिः ।

**पाद्मे **सृष्टिखण्डे ।

सृष्ट्यादौ सदसत्कर्मज्ञप्तये प्राणिनां विधिः ।

क्षणं ध्याने स्थितस् तस्य सर्वकायाद् विनिर्गतः ॥

दिव्यरूपः पुमान् हस्ते मषीपात्रं च लेखनीम् ।

चित्रगुप्त इति ख्यातो धर्मराजसमीपतः ॥

प्राणिनां सदसत्कर्मलेख्याय स नियोजितः ।

ब्रह्मणातीन्द्रियज्ञानी देवाग्र्यो यज्ञभुक् सदा ॥

भोजनाच् च सदा तस्माद् आहुतिर् दीयते द्विजैः ।

ब्रह्मकायोद्भवो यस्मात् कायस्थो जातिर् उच्यते ॥

नानागोत्राश् च तद्वंश्याः कायस्था भुवि सन्ति वै ।

स्कान्दे रेणुकामाहात्म्ये ।

एवं हत्वार्जुनं रामः सन्धाय निशितान् शरान् ।

अन्वधावत् स तान् हन्तुं सर्वान् एवातुरान् नृपान् ॥

केचिद् गहनम् आश्रित्य केचित् पातालम् आविशन् ।

सगर्भा चन्द्रसेनस्य भार्या दाल्भ्याश्रमं ययौ ॥

ततो रामः समायातो दाल्भ्याश्रमम् अनुत्तमम् ।

पूजितो मुनिना रामो ह्य् अर्घ्यपाद्यासनादिभिः ॥

ददौ मध्याह्नसमये तस्मै भोजनम् आदरात् ।

रामस् तु याचयामास हृदिस्थं स्वमनोरथम् ॥

याचयामास रामाच् च कामं दाल्भ्यो महामुनिः ।

ततो द्वौ परमप्रीतौ भोजनं चक्रतुर् मुदा ॥

भोजनानन्तरं दाल्भ्यः पप्रच्छ भार्गवं प्रति ।

यत् त्वया प्रार्थितं देव तत्त्वं शंसितुम् अर्हसि ॥

राम उवाच ।

तवाश्रमे महाभाग सगर्भा स्त्री समागता ।

चन्द्रसेनस्य राजर्षेः क्षत्रियस्य महात्मनः ॥

तन् मे त्वं प्रार्थितं देहि हिंसेयं तां महामुने ।

ततो दाल्भ्यः प्रत्युवाच ददामि तव वाञ्छितम् ॥

यन् मया प्रार्थितं देव तन् मे दातुं त्वम् अर्हसि ।

ततः स्त्रियं समाहुय चन्द्रसेनस्य वै मुनिः ॥

रामाय प्रददौ भीतां रामः प्रीतमना अभूत् ।

राम उवाच ।

यत् त्वया प्रार्थितं विप्र भोजनावसरे पुरा ।

तन् मे शंस महाभाग ददामि तव वाञ्छितम् ॥

दाल्भ्य उवाच ।

स्त्रियो गर्भम् अमुं [२८८] बालं तन् मे त्वं दातुम् अर्हसि ।

ततो रामो ऽब्रवीद् दाल्भ्यं यदर्थम् अहम् आगतः ॥

क्षत्रियान्तकरश् चाहं तं त्वं याचितवान् असि ।

प्रार्थितश् च त्वया विप्र कायस्थो गर्भ उत्तमः ॥

तस्मात् कायस्थ इत्य् आख्या भविष्यति शिशोः शुभा ।

कायस्थ एष उत्पन्नः क्षत्रिण्यां क्षत्रियात् ततः ॥

रामाज्ञया स दाल्भ्येन क्षात्रधर्माद् बहिष्कृतः ।

दत्तः कायस्थधर्मो ऽस्मै चित्रगुप्तस्य यः स्म्र्तः ॥

तद्गोत्रजाश् च कायस्था दाल्भ्यगोत्रास् ततो ऽभवन् ।

दाल्भ्योपदेशकास् ते वै धर्मिष्ठाः सत्यवादिनः ॥

सदाचारपरा नित्यं रता हरिहरार्चने ।

देवविप्रपितॄणां वै अतिथीनां च पूजकाः ॥

माहिष्यवनिता सूनुं वैदेहाद्यं प्रसूयते ।

स कायस्थ इति प्रोक्तस् तस्य कर्म विधीयते ॥

क्षत्राद् वैश्यायां माहिष्या । विप्रायां वैश्यजो वैदेहः ।

लिपीनां देशजातानां लेखनं स समाचरेत् ।

गणकत्वं विचित्रं च बीजपाठी प्रभेदतः ॥

अधमः शूद्रजातिभ्यः पञ्चसंस्कारवान् असौ ।

चातुर्वर्ण्यस्य सेवा हि लिपिलेखनसाधनम् ॥

व्यवसायः शिल्पकर्म तज्जीवनम् उदाहृतम् ।

शिखां यज्ञोपवीतं च वस्त्रम् आरक्तम् अम्भसा ॥

स्पर्शनं देवतानां च कायस्थाद् यो विवर्जयेत् ।

इति कायस्थः ।

[२८९]

अथ सङ्कीर्णप्रकरणम् ।

मालाकाराच् च लावद्यः करण्यां मणिरन्ध्रकृत् ।

मणिहारः मञ्जुर् इति चोच्यते ।

कुनाल्यां95 शाल्मलो मञ्जोर् नागवल्यास् तु विक्रयी ॥

ताम्बूलक्रीतसम्भूतं द्रव्यं तस्येह जीवनम् ।

मालाकारात् क्षत्रियायां शिलीन्ध्रो मर्दनक्रियः ॥

हीनः स शूद्रधर्मेभ्यो जीविकास्याङ्गमर्दनम् ।

शिलीन्ध्रात् क्षत्रियायां च कोल्हाटि नाम जायते ॥

[२९०] बहुरूपीति प्रैद्धः ।

वैश्यात् करण्यां यो जातो गोचारी वत्सपालकः ।

नाम्ना छगलकं पुत्रं धटधानाद् अजीजनत् ॥

मञ्जुभार्यासुतो लोके96 अजपाल इति स्मृतः

तथा

कर्मचण्डालभार्यायां यो जातः पुष्पशेखरात् ।

स वै मण्डलको नाम शुनां मण्डलपोषकः ॥

युगुलं शुनकानां स धर्तुं योज्यो महीभृता ।

विधवायां यतेर् जातः कर्मचण्डाल उच्यते ॥

वापीकूपादिमृत्कर्मकर्ता चास्पृश्य एव सः ।

जातिविवेके

अम्बष्ठाच् चैव वैदेह्यां जातः पुत्रः कुशीलवः ।

सङ्गीतज्ञो नृत्यकर्ता देशाद् देशान्तरं व्रजेत् ॥

आयोगवान् मागधायां भ्रकुंस इत् जायते ।

स वर्णबाह्यो धर्मेषु सम्यक् सङ्गीतकोविदः ॥

कान्तानां नृत्यशालायां नृत्यं लास्यं च शिक्षयेत् ।

रङ्गावतारः भरतेनोकाः ।

कायिको वाचिकश् चैव आहार्यः सात्विकस् तथा ।

चत्वारो ऽभिनयाः प्रोक्ताः नाट्यशास्त्रविश्रदैः ॥

सङ्गीतशास्त्रे

गीतं वाद्यं च नृत्यं च त्रयं सङ्गीतम् उच्यते ।

सङ्गीतशब्दो नृत्ये तु केवलेनैव गीयते ॥

सुकुमारं भवल् लास्यम् उद्धतं ताण्डवं विदुः ।

ताण्डवं पदघाताद्द्यैर् लास्यं रससमन्वितम् ॥

दृष्टिहस्तकभाषादैर् भ्रामरीचीरिकादिभिः ।

कुचबाहूरुदृक्पातैस् तरुणीनां तद् अद्भुतम् ॥

कायस्थवनिता या तु मालाकारेण सङ्गता ।

तस्यां यस् तेन पुत्रः स्यात् स शालक्य इति स्मृतः ॥

कान्तारेषु रचयन् गजदन्तकलापिता ।

स दीनः शूद्रजातिभ्यो मणीन् विरचेत् सदा ॥

स्फटिकान्97 बदरादींश् च कुर्यात् तद्द्रव्यजीविकाम् ।

वैदेहाच् छूद्रकन्यायां जातस् त्व् आण्धसिकाभिधः ॥

कुर्याद् अन्नानि भक्ष्याणि विक्र्यार्थं ससन्धितम् ।

अतो विक्रयतो लब्धं तद् धनं तस्य जीवनम् ॥

कान्दू इति प्रसिद्धः ।

करणीवैश्यसंयोगाज् जातो वत्सकसञ्ज्ञकः ।

स हीनः शूद्रधर्मेभ्यः शाड्वले गाश् च चारयेत् ॥

वैश्यस्त्रीशूद्रसंयोगाद् आयोगवकसञ्ज्ञकः ।

स शूद्राद् धीयते धर्मैः पाषाणेष्टककर्मकृत् ॥

स कुर्यात् कुट्टिमां भूमिं चूर्णेनास्य च जीवनम् ।

निषादकन्यका शूद्रसङ्गाद् यं जनयेत् सुतम् ॥

स क्रोधकः कुक्कुट इति प्रोक्तो द्विसञ्ज्ञकः ।

टङ्कशालासु सर्वत्र नाणकानां विधायकः ॥

यो मागधीक्षत्रिययोर् जात उल्मुकसञ्ज्ञकः ।

स लोहकर्मणा जीवेद् उत्तमश् चान्त्यजातितः ॥

लोहकार इति ख्यातो लौहं कर्मास्य जीवनम् ।

तेषां तु गुणसंयोगं ज्ञात्वा शस्त्रविधायकः ॥

लक्षणकाण्डे

शस्त्राङ्गुलं षट्समेतं सप्तहृच्छेदकाभिधः ।

शस्त्रस्वामीशयोर् वैरं मृत्य्कार्य् अन्यथा शुभम् ॥

इति लोहकारस्मृतिः

तैलभ्रमणयन्त्राणां यावच् छब्दः प्रवर्तते ।

तावत् कर्म न कुर्वीर्त शूद्रान्त्यजसमीपतः ॥

कुक्कुटस्येह भवति कुम्भकारेण सङ्गता ।

तस्याः सूनुस् तु विख्यातः कुरुविन्द इति स्फुटम् ॥

कौशेयानि स वस्त्राणि रचयेद् आत्मवृत्तये ।

तुल्यो ऽसाव् अन्त्यजातीनां स्वधर्मं स तु पालयेत् ॥

सालीति प्रसिद्धः ।

सङ्गता वेनवनिता कैवर्तेन यदा रहः ।

तस्याः शाम्बरिकाभिख्यः पुत्रो ऽसौ लोकसम्मतः ॥

स हीनस् त्व् अन्त्यजातिभ्यः शुचिवासोविधायकः ।

कुविन्दः ।

आभीरीकुक्कुटाभ्यां यो जातः सोखिरसञ्ज्ञकः ॥

स कुर्यात् तु सरीणां हि वासांसि स्वात्मवृत्तये ।

तद्वैपरीत्याज् जातो यो नीलीकर्ता स कथ्यते ॥

[२९१] मार्गनापितयोर् जातो यो ऽसौ साखिल्यसञ्ज्ञकः ।

हीनः स गुह्यकेशानां कुर्याद् वपनम् अञ्चसा ॥

जलूकातुम्बिशृङ्गाणि रक्तस्रावे प्रयोजयेत् ।

जातो मैत्रेयशुक्लेन जान्धिकायां स्वयं सुतः ॥

असौ बन्धुल्सञ्ज्ञो ऽत्रे अधमः सर्वजातिषु ।

सुवर्णकारविपणेर् धूल्यां हेमादि पश्यति ॥

निषादनारीसंयोगात् पौष्टिकं जनयेत् सुतम् ।

स च पांसुलसञ्ज्ञो हि शणसूत्रविधायकः ॥

कर्ता च गौणीपट्टानां जीविका तस्य तद् धनम् ।

पुल्कसस्त्री पांसुलकात् सूते या वासिकाभिधम् ॥

कुर्यात् स तुरगादीनां शष्पेणैव च वर्तनम् ।

घासी ।

मेदस्य वनिताकायात् सङ्गतान्ध्रेण चेद् रहः ॥

सा सूते यवनं पुत्रं तुरुष्कः स प्रकीर्तितः ।

प्रसिद्धो म्लेच्छदेशे यो गोवधेनास्य वर्तनम् ॥

बन्दिनीशूद्रसंयोगाज् जातः स्पन्दालिकाभिधः ।

चतुर्वर्णविहीनो ऽसौ मञ्जिष्ठारङ्गकारकः ॥

तेन रङ्गेण वासांसि चित्राणि रचयेत् सदा ।

हस्तलेख्यं विचित्रं च द्विधा तच् चित्रसाधनम् ॥

स एव शुचिकः ख्यातः कर्तरीसूचिकार्जकः ।

मागध्यां क्षत्रियाज् जात उल्मुको लोहकर्मकृत् ॥

उग्रात् पारसवीपुत्रो मौकालिस् तैलिको भुवि ।

रजको वर्णतो हीनः प्रथमश् चान्त्यजेषु सः ॥

वस्त्रनिर्णेजनं कुर्याद् आत्मवृत्त्यर्थम् एव च ।

उग्रजातं तु वैदेह्यां मञ्जूषं रजकं विदुः ॥

शूद्रायां क्षत्राद् उग्रः । विप्रायां वैश्याद् वैदेही ।

वहेद् असौ तैलयन्त्रम् उत्तमश् चान्त्यजातितः ।

तैलहिंसायन्त्ररवाकर्षणात् पापसम्भवः ॥

अतो मौकलिको नित्यं निर्वास्यो नगराद् बहिः ।

रथकारस्य दुहिता सायोगवसमागता ॥

सूते यं तनयं सो ऽपि सूत्रधार इतीरितः ।

जायाजीवश् च शैलूषो नाट्यशास्त्रविशारदः ॥

वेन्याम् आवर्त्तकाज् जातः स चारः सूत्रवायकः ।

छागली भृज्जकण्टात् तु औरभ्रं मेषपालकम् ॥

कुर्याद् ऊर्णापटांश् चित्रान् मेषाणां परिपालनम् ।

आवर्त्तकस्य भार्यायां क्षेमकाद् उष्ट्रपालकम् ॥

रौमिकं देशिका मल्लाद् युक्तं लवणकर्मणि ।

आयोगव्यां द्विजाज् जातो धिग्वणः कवचादिकृत् ॥

स चर्मणाश्वपल्याणं यथाशोभं प्रकल्पयेत् ।

मोचिसञ्ज्ञः ।

आयोगवी च कैवर्त्तं जज्ञे परसवात् सुतम् ॥

स हीनः सर्वजातिभ्यो जालं स्वीकृत्य सर्वदा ।

मत्स्यान् जलचरान् अन्यान् घातयेद् आत्मवृत्तये ॥

नाव्यं कर्म प्रहरणं नद्यां वर्षासु वाहयेत् ।

नदीम् उत्तारयेल् लोकांस् तेभ्यश् चेच् छेद्धनं तथा ॥

धिग्वण्यां तु निषादाद् यश् चर्मकारः स तु स्मृतः ।

गोचर्मणा महिष्याश् च चर्मणा तस्य जीवनम् ॥

आभीरस्त्री लभेद् वेनात् पुत्रं शौण्डिकसञ्ज्ञकम् ।

सुरां स कृत्वा विक्रीय कुर्यात् तेन च वर्तनम् ॥

कर्मचण्डालकात् पुत्रं वैदेही पाण्डुशोपकम् ।

लेभे बरुडजातित्वं सदा वंशविदारणम् ॥

जातो निषादाद् वैदेह्यां गारुडी डिण्दिभोत्तमः ।

इत्यादि ।

मनुः

चण्डालात् पाण्डुशोपाकस् त्वक्सारव्यवहारवान् ।

आहिण्डको निषादेन वैदेह्याम् एव जायते ॥

विप्रायां वैश्यजा वैदेही । त्वक्सारो वेणुः । तच्छेदक्रियादिजीवी । अयं बरुडः वैदेह्याम् एव । क्षत्रायां शूद्रजनिषादाद् आहिण्डकः । अयं वेणुजीवी श्वपाकः ।

चण्डालेन तु सोपाको मूलव्यसनवृत्तिमान् ।

पुल्कस्यां जायते पापः सदा सज्जनगर्हितः ॥

मूलं मुख्यं [२९२] व्यसनम् असुवियोगो वध्यमारणं सैव वृत्तिः । क्षत्रायां शूद्रजो निषादः तस्माच् छूद्रायां पुल्कसी । अयं कसार इति प्रसिद्धः ।

निषादस्त्री तु चण्डालात् पुत्रम् अन्त्यावसायिनम् ।

स्मशानगोचरं सूते बाह्यानाम् अपि गर्हितम् ॥

केचिद् आदिपुराणे ऽप्य् उक्ताः ।

निषाद्याम् अथ शूद्रेण कुक्कुटः स्यात् करोति सः ।

चक्रतोमरशूलासिलकुटप्रासतोमरान् ॥

चक्राणि शस्त्रजालानि भिण्डिपालांश् च भूभुजाम् ।

कुक्कुटानां प्रहर्ता च राजकुक्कुटखेलनः ॥

अम्बष्ठ्यां जायते वेनो वैदेहेन करोति सः ।

पटहं वादयन् स्फीतं राजादेशं प्रजास्व् अपि ॥

पुल्कसः कुक्कुटो वेनस् त्रय आरण्यवासिनः ।

आयोगव्यां दस्युना च सैरन्ध्रो नाम जायते ॥

दस्युः पौण्ड्रकादिः प्राग् उक्तः ।

मृगादिवधजीवी च पाशबन्धेन नित्यशः ।

राजस्त्रीणां सूतिकानां द्वाररक्षां करोति सः ॥

आयोगव्यां निषादात् तु धीवरो नाम जायते ।

नावो नदीनां कर्ता स तां च संवाहयेत् सदा ॥

निषादाद् अथ वैदेह्यां कारावारः करोति सः ।

चर्मणां छेदनं नित्यां सीवनं क्रयविक्रयम् ॥

निषाद्याम् अथ वैदेहाज् जायते चन्द्रमेचकः ।

आरण्यानां पशूनां स करोति च वधं सदा ॥

तस्य स्त्रीगमनात् क्षत्ता श्वपाकं जनयेत् सुतम् ।

श्वमांसादम् अरण्यस्थं पापशूर्पोपजीवनम् ॥

चण्डालाद् अपि वैह्यां पाण्डुसोपाकसञ्ज्ञकः ।

उपानच्चर्मवेणूनां विक्रयं हि करोति सः ॥

आहिण्डको निषाद्यां च वैदेहाद् अपि जायते ।

यो दस्यूनां तु वध्यानां परिरक्षां करोति च ॥

अन्त्यावसायी चाण्डलान् निषाद्यां जायते नरः ।

स्मशानवासि तद्वृत्तिश् चण्डालेष्व् अपि गर्हितः ॥

अनाथं नगर्च् छावं दूरं ते च नयन्त्य् अपि ।

शय्याभरणवस्त्राणि वध्यानां राजशासनात् ॥

निर्दिष्तं वधदण्डं तु कृत्वा गृह्णन्ति नित्यशः ।

विवाहादि प्रकुर्वन्ति समाने वर्णसङ्करे ॥

मृता गोब्राह्मणार्थं तु कदाचित् सन्तरन्ति ते ।

वसिष्ठः

    नौजीविका च निषादानाम् । कैवर्त्तानां मृगपशुपक्षिघातो मांसविक्रयश् च । आवृतानां हस्त्यश्वाधिकारः । आभीराणां गोऽजाविरक्षा । धिग्वणानां चर्मकरणं तद्विक्रयजीवनं च । कारावराणां चर्मच्छेदनं दीपासनरक्षणं छत्रधारणं नराणां वाहनं च । 

अयं कहारः भोई इति प्रसिद्धः ।

    तन्तुवायत्ववृक्षछेदनरोपणानि कुक्कुटानाम् । अन्ध्रमेदानां गृहद्वाराशुचिस्थानावस्करशोधनम् गुह्याङ्गस्पर्शनोच्छिष्टविण्मूत्रोहनं चक्रवृत्तिता च गुह्याङ्गस्पर्शः शौचं अधोनापितत्वं वा । 

चक्रवृत्तिता तैलकत्वम् इति स्मृतिमञ्जरी

    मधूकानां प्रातर् नृपतिसंस्तवाख्यानवर्णनं निद्राबोधनम् । प्रव्रज्यावसितानां यावज्जीवं दासवृत्तित्वम् । मूलवृत्तित्वं शूर्पकरणं च पुल्कसानाम् । मूलं वृक्षौषध्यादेः । चण्डालान्त्यावसायिनां वनस्मशानरक्षणं गराग्निविषप्रयोगश् च । स्त्रीणां भर्तृशुश्रूषा । नव्यञ्जनपानसंस्कारो **नृत्यगीतकामसूत्रा**ध्ययनं च । यत् पुंसाम् अन्नव्यञ्जनादि कार्यं तत् तत् स्त्रीणाम् अपि चारणादिस्त्रीणां तु नृत्यादि । सर्वे बाह्याः सर्वधर्मबहिष्कृताः । 

अन्यत्र प्राणिसंरक्षणात् अहिंसादिश् च धर्मः सर्वतुल्यः ।

अहिंसा सत्यम् अस्तेयं शौचम् इन्द्रियनिग्रहः ।

दानं दमो दया शान्तिः सर्वेषां धर्मसाधनम् ।

इति याज्ञवल्क्योक्तेः । पित्रोर् आब्दिके सजातिभोजनं वस्त्रहेमादिदानं कार्यम् इत्य् उक्तं प्राक् ।

[२९८]

शङ्खस् त्व् अन्यथाह ।

    सूतानाम् [^९८]अङ्गसंस्कारक्रियाकेशश्मश्रुरोमनखवापनस्नान-विलेपनालङ्करणाश्वदमनयोग्याशनपोषणानि कर्माणि । 

योग्याशनं घासादि ।

    क्षत्तुः प्रतिहाररक्षादौत्ये । मागधानां मृदङ्गवीणावेणुवादननृत्यगीत-सिद्धिकोपस्थानगाथालोकप्रत्यूषप्रबोधनानि कर्माणि । 

सिद्धिर् इति कोपसमये तच्छामकगाथां पठेत् । जपजीवेतिशब्दः सिद्धिशब्दार्थः ।

    अम्बष्ठानां कायशल्यशलाकाविमोचनोन्मादक्लीबज्वरापस्मारचिकित्सापोषणानि कर्माणि । 

कायाच् छल्यस्य शलाकाः शिराः तासां मोचनं भेदः ।

    वैदेहकानां वस्त्रछेदनसीवनरञ्ज्नावनिर्णेजनवापीतडागोदक-पानारामावकरशोधनानि कर्माणि । उग्राणां कुञ्जरग्रहणराजछत्र-धारणपुरप्रधारणबन्धनागारसंयमनानि । वेनानां लङ्घनप्लवनाक्रीडानियुद्धमायाशम्बरेन्द्रजालानि कर्माणि । नियुद्धं बा

नियुद्धं बाहुयुद्धम् । मायाशम्बरं लाघवाद् द्रव्यपरिवर्तनम् । इन्द्रजालम् असद्वस्तुदर्शनादि ।

    कुक्कुटानां प्रहरणचक्रतोमरभिण्डिपालप्रासासिपरशुलगुडलोहजालिका-सन्धानानि । 

प्रहरणम् आयुधम् । लोहजालिका कवचम् ।

    आयोगवानाम् अयस्करणतक्षणकुम्भकरणानि सुवर्णरजतलोहासिचर्मवृत्तिता चेति । पुल्कसानां नगरवीथीसंरक्षणजागरणानाथमृतनिर्हरणालेख्यपत्र-च्छेदनानि मधुपातनं माक्षिकोद्धरणं बिलकर्तनं कूपादिखननं च । चाण्डालानां स्मशानसंरक्षणशूलपरिवापनवध्यघातानि कर्माणि । श्वपचानां चैतत् । 

अत्रैकस्य नानाकर्मणां विकल्पः समुच्चयो वा । अन्ये जातिविवेके ज्ञेया इति सङ्क्षेपः ।

ननु कलौ क्षत्रियवैश्याभाव उक्तो भागवते नवमस्कन्धे ।

इक्ष्वाकूणाम् अयं वंशः सुमित्रान्तो भविष्यति ।

यतस् तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ॥

देवापिर् योगम् आस्थाय कलापग्रामम् आश्रितः ।

सोमवंशे कलौ नष्टे कृतादौ स्थापयिष्यति ॥ इति ।

द्वादशे ऽपि ।

एतेषां नामलिङ्गानां पुरुषाणां महात्म्नाम् ।

कथामात्रावशिष्टानां कीर्तिर् एव स्थिता भुवि ॥

देवापिः शन्तनोर् भ्राता मरुश् चेक्ष्वाकुवंशजः ।

कलापग्राम आसाते महायोगबलान्वितौ ॥

ताव् इहैत्य कलेर् अन्ते वासुदेवानशिक्षितौ ।

वर्णाश्रमयुतं धर्मं पूर्ववत् प्रथयिष्यतः ॥

विष्णुपुराणे ऽपि ।

देवापिः पौरवो राजा मरुश् चेक्ष्वाकुवंसजः ।

कृते युग इहागत्य क्षत्रप्रावर्तकौ हि तौ ॥

तथा

महापद्मपतिः कश्चिन् नन्दः क्षत्रविनाशकृत् ।

नन्दश् च कलेर् आदौ परिक्षितो ऽनन्तरं जातः ॥

आरम्भ्य भवतो जन्म यावन् नन्दाभिषेचनम् ।

एतद् वर्षसहस्रं तु शतं पञ्चदशोत्तरम् ॥

पुराणान्तरे ऽपि ।

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णास् त्रयो द्विजाः ।

युगे युगे स्थिताः सर्वे कलाव् आद्यन्तयोः स्थितिः । इति ।

अतः कथं द्विजसङ्करजाः उक्ताः । मैवम् ।

कलौ तु बीजभूतास् तु केचित् तिष्ठन्ति भूतले ।

तथैव देवापिपुरू साम्प्रथं समवस्थितौ ॥

इति विष्णुपुराणात्,

ब्रह्मक्षत्रविशः शूद्रा बीजार्थे य इह स्थिताः ।

कृते युगे हि तैः सार्धं निर्विशेषास् तदाभवन् ॥

इति मात्योक्तेश् च, प्रच्छन्नरूपाः स्वकर्मभ्रष्टाः क्षत्रिया वैश्याश् च सन्त्य् एव क्वचिद् इत्य् अस्मत्पितृचरणाः ।

यो भाट्टतन्त्रगहनार्णवकर्णधारः

शास्त्रान्तरेषु निखिलेष्व् अपि मर्मभेत्ता ।

यो ऽत्र श्रमः किल कृतः कमलाकरेण

प्रीतो ऽमुनास्तु सुकृती बुधरामकृष्णः ॥

इति श्रीमज्जगद्गुरुमीमांसकनारायणभट्टसूरिसूनु-

**रामकृष्णभट्टात्मजदिनकरभट्टानुजकमलाकरकृते **

**शूद्रधर्मतत्त्वे शूद्रसमसङ्करजस्वरूपं **

तद्वृत्तिनिरूपणं च समाप्तम् ।

समाप्तश् चायं निबन्धः ।


  1. प्- स्वाध्यायश् चोपादेयत्वाद् ↩︎

  2. प्- ओमित्स् न ↩︎

  3. प्- आज्ञाय ↩︎

  4. प्- -विधानम् एतत् ↩︎

  5. प्- अस्ति फ़ोर् तथा ↩︎

  6. प्- योपि ↩︎

  7. प् ओमित्स् ज्ञानोपदेशो विप्रद्वारेणैवेति ↩︎

  8. प्- यथा ↩︎

  9. प्- सच् ↩︎

  10. प् अद्द् च ↩︎

  11. प्- एतेनाध्येतव्यम् ↩︎

  12. प्- तथा ↩︎

  13. प्- ओमित्स् न ↩︎

  14. प् ओमित्स् थे फ़िर्स्त् थ्रेए लिनेस्। ↩︎

  15. प्- रथकारस्येवाधानादाव् ↩︎

  16. इ फ़ोल्लोw प्; निर्णय रेअद्स्- अधिकारापत्तेः ↩︎

  17. प्- भामिनी ↩︎

  18. प्- कल्याणान्य् ↩︎

  19. न्स्प् रेअद्स् आस्त्रिय ↩︎

  20. प्- -द्वारेत्य् अजयपालः ↩︎

  21. प्- निश्रेयसः ↩︎

  22. प्- अर्णसां ↩︎

  23. प्- पूजान्ते ↩︎

  24. प् ओमित्स् ते ↩︎

  25. प्- इव ↩︎

  26. प्- ततो ↩︎

  27. प्- परिवृदध्यात् ↩︎

  28. प्- दक्षयमौ ↩︎

  29. प्- जानु ततो ऽन्वाच्य सतिलं ↩︎

  30. प्- सनकः सनन्दनश् च ↩︎

  31. प्- दिव्यांवर धरो ↩︎

  32. प्- ऊर्ध्वकेशी विरूपाक्षी ↩︎

  33. प्- इति श्रुत्वा ↩︎

  34. प्- -स्वनिनिर्घोष ↩︎

  35. प् ओमित्स् अपसव्येन ↩︎

  36. प् ओमित्स् दिग्देवताभ्य ↩︎

  37. प् ओमित्स् तद् ↩︎

  38. निर्णय रेअद्स् उक्ते, अन्द् ओमित्स् न। ↩︎

  39. प् ओमित्स् रुद्राः अन्द् आदित्याः। ↩︎

  40. प्- सम्मृज्य ↩︎

  41. निर्नय ओमित्स् थिस् सेन्तेन्चे- शालग्राम- ॥ । कार्या। ↩︎

  42. प् ओमित्स् ग्राह्याः ↩︎

  43. प्- अपि ↩︎

  44. प्- सुसुमं ↩︎

  45. प्- -तोये ↩︎

  46. प्- तपो ↩︎

  47. प्- सौम्या ↩︎

  48. प्- पञ्चयज्ञमात्रोक्तेः ↩︎

  49. प्- तथा ↩︎

  50. प् अद्द्स्- तथा ↩︎

  51. प् ओमित्स् इति वैश्वदेवः ↩︎

  52. प्- षाण्णाम् अप्य् अन्वहं गृही ↩︎

  53. प् ओमित्स् त्रिवारम् ↩︎

  54. प् पितॄणां ↩︎

  55. प्- सार्वहिताः ↩︎

  56. प्- दध्न _फ़ोर् _दधि ↩︎

  57. प्- आचमन् ↩︎

  58. प्- असुरान् ↩︎

  59. प्- यूयं तेभ्यो ऽवसीदथ ↩︎

  60. प्- श्रुत्वा ↩︎

  61. प्- -दत्तो ↩︎

  62. निर्नय- -तिलान् आदाय ↩︎

  63. प्- गृहपाकेन ↩︎

  64. प्- पिण्डमात्रं क्षालनजलं ↩︎

  65. प्- दैवे ↩︎

  66. प्- अनौचिती ↩︎

  67. प्- पतिमातुर् ↩︎

  68. प्- तुल्यवयसि ↩︎

  69. प्- स्नानपरत्वं परास्तं ↩︎

  70. प्- पुंसप्रसवे ↩︎

  71. प्- जात ↩︎

  72. प्- दक्षिणात् परम् ↩︎

  73. प्- द्विजोत्तमाः ↩︎

  74. प्- पुत्रेषु कृतकेषु ↩︎

  75. प् अद्द्स्- सर्वाशौचं रजोदर्शनं च रात्रौ जातं चेत् तदा रात्रिं त्रिभागां क्र्त्वाद्ये भागद्वये पूर्वं दिनं अन्त्ये तूत्तरं यद् वा प्राद् अर्धरात्रात् प्राग् वासूर्योदयात् पूर्वं दिनं अनन्तरं तु[तू?]त्तरम् इति पक्षत्रयं **मिताक्षराद्यैर् उक्तम् **। अत्र देशाचारतो व्यवस्था । ↩︎

  76. प्- बुद्धिपूर्वमृते ↩︎

  77. प्- -मृतानां ↩︎

  78. प्- अस्थीनाम् ↩︎

  79. प्- शिरस्य् अशीत्यर्धं दद्याद् ↩︎

  80. प्- घृतं ↩︎

  81. प्- संयोज्य ↩︎

  82. प्- शुद्रे प्रदीयते ↩︎

  83. प्- हि ↩︎

  84. प्- आद्यमूलमासिकं ↩︎

  85. प् ओमित्स् -प्रेतस्य ↩︎

  86. प्- नीवीसम्बन्धं ↩︎

  87. प् ओमित्स् दत्वा ↩︎

  88. निर्नय- -प्रताप ↩︎

  89. प्- सप्त जन्मानि ↩︎

  90. प्- दैवं ↩︎

  91. प्- वाशिते ↩︎

  92. प्- यो धर्म एव ↩︎

  93. प्- ब्रह्मचर्ये व्यवस्थिता ↩︎

  94. प् रेअद्स् इन्स्तेअद्- अथ शूद्रसमान् वक्तुं सङ्करजा उच्यन्ते ↩︎

  95. प्- कुलाल्यां ↩︎

  96. प्- मञ्जुभार्या स वै लोके ↩︎

  97. प्- स्फाटिकान् ↩︎