१३ संकीर्णप्रकरणम्

विश्वास-प्रस्तुतिः

[२८९]

अथ सङ्कीर्णप्रकरणम् ।

मालाकाराच् च लावद्यः करण्यां मणिरन्ध्रकृत् ।

मणिहारः मञ्जुर् इति चोच्यते ।

कुनाल्यां1 शाल्मलो मञ्जोर् नागवल्यास् तु विक्रयी ॥

ताम्बूलक्रीतसम्भूतं द्रव्यं तस्येह जीवनम् ।
मालाकारात् क्षत्रियायां शिलीन्ध्रो मर्दनक्रियः ॥
हीनः स शूद्रधर्मेभ्यो जीविकास्याङ्गमर्दनम् ।
शिलीन्ध्रात् क्षत्रियायां च कोल्हाटी नाम जायते ॥

[२९०] बहुरूपीति प्रसिद्धः ।

वैश्यात् करण्यां यो जातो गोचारी वत्सपालकः ।
नाम्ना छगलकं पुत्रं धटधानाद् अजीजनत् ॥
मञ्जुभार्यासुतो लोके2 अजपाल इति स्मृतः

तथा

कर्मचण्डालभार्यायां यो जातः पुष्पशेखरात् ।
स वै मण्डलको नाम शुनां मण्डलपोषकः ॥
युगुलं शुनकानां स धर्तुं योज्यो महीभृता ।
विधवायां यतेर् जातः कर्मचण्डाल उच्यते ॥
वापीकूपादिमृत्कर्मकर्ता चास्पृश्य एव सः ।

जातिविवेके

अम्बष्ठाच् चैव वैदेह्यां जातः पुत्रः कुशीलवः ।
सङ्गीतज्ञो नृत्यकर्ता देशाद् देशान्तरं व्रजेत् ॥
आयोगवान् मागधायां भ्रकुंस इति जायते ।
स वर्णबाह्यो धर्मेषु सम्यक् सङ्गीतकोविदः ॥
कान्तानां नृत्यशालायां नृत्यं लास्यं च शिक्षयेत् ।

रङ्गावतारः भरतेनोकाः ।

कायिको वाचिकश् चैव आहार्यः सात्विकस् तथा ।
चत्वारो ऽभिनयाः प्रोक्ताः नाट्यशास्त्रविशारदैः ॥

सङ्गीतशास्त्रे

गीतं वाद्यं च नृत्यं च त्रयं सङ्गीतम् उच्यते ।
सङ्गीतशब्दो नृत्ये तु केवलेनैव गीयते ॥
सुकुमारं भवल् लास्यम् उद्धतं ताण्डवं विदुः ।
ताण्डवं पदघाताद्द्यैर् लास्यं रससमन्वितम् ॥
दृष्टिहस्तकभाषाद्यैर् भ्रामरीचीरिकादिभिः ।
कुचबाहूरुदृक्पातैस् तरुणीनां तद् अद्भुतम् ॥
कायस्थवनिता या तु मालाकारेण सङ्गता ।
तस्यां यस् तेन पुत्रः स्यात् स शालक्य इति स्मृतः ॥
कान्ताकरेषु रचयद् गजदन्तकलापिकाः ।
स दीनः शूद्रजातिभ्यो मणीन् विरचयेत् सदा ॥
स्फटिकान्3 बदरादींश् च कुर्यात् तद्द्रव्यजीविकाम् ।

वैदेहाच् छूद्रकन्यायां जातस् त्व् आन्धसिकाभिधः ॥
कुर्याद् अन्नानि भक्ष्याणि विक्रयार्थं ससन्धितम् ।
अतो विक्रयतो लब्धं तद् धनं तस्य जीवनम् ॥

कान्दू इति प्रसिद्धः ।

करणीवैश्यसंयोगाज् जातो वत्सकसञ्ज्ञकः ।
स हीनः शूद्रधर्मेभ्यः शाड्वले गाश् च चारयेत् ॥
वैश्यस्त्रीशूद्रसंयोगाद् आयोगवकसञ्ज्ञकः ।
स शूद्राद् धीयते धर्मैः पाषाणेष्टककर्मकृत् ॥
स कुर्यात् कुट्टिमां भूमिं चूर्णेनास्य च जीवनम् ।
निषादकन्यका शूद्रसङ्गाद् यं जनयेत् सुतम् ॥
स क्रोधकः कुक्कुटक इति प्रोक्तो द्विसञ्ज्ञकः ।
टङ्कशालासु सर्वत्र नाणकानां विधायकः ॥
यो मागधीक्षत्रिययोर् जात उल्मुकसञ्ज्ञकः ।
स लोहकर्मणा जीवेद् उत्तमश् चान्त्यजातितः ॥
लोहकार इति ख्यातो लौहं कर्मास्य जीवनम् ।
तेषां तु गुणसंयोगं ज्ञात्वा शस्त्रविधायकः ॥

लक्षणकाण्डे

शस्त्राङ्गुलं षट्समेतं सप्तहृच्छेदकाभिधः ।
शस्त्रस्वामीशयोर् वैरं मृत्युकार्य् अन्यथा शुभम् ॥

इति लोहकारस्मृतिः

तैलभ्रमणयन्त्राणां यावच् छब्दः प्रवर्तते ।
तावत् कर्म न कुर्वीत शूद्रान्त्यजसमीपतः ॥
कुक्कुटस्येह भवति कुम्भकारेण सङ्गता ।
तस्याः सूनुस् तु विख्यातः कुरुविन्द इति स्फुटम् ॥
कौशेयानि स वस्त्राणि रचयेद् आत्मवृत्तये ।
तुल्यो ऽसाव् अन्त्यजातीनां स्वधर्मं स तु पालयेत् ॥

सालीति प्रसिद्धः ।

सङ्गता वेनवनिता कैवर्तेन यदा रहः ।
तस्याः शाम्बरिकाभिख्यः पुत्रो ऽसौ लोकसम्मतः ॥
स हीनस् त्व् अन्त्यजातिभ्यः शुचिवासोविधायकः ।

कुविन्दः ।

आभीरीकुक्कुटाभ्यां यो जातः सोखिरसञ्ज्ञकः ॥
स कुर्यात् तु सरीणां हि वासांसि स्वात्मवृत्तये ।
तद्वैपरीत्याज् जातो यो नीलीकर्ता स कथ्यते ॥
[२९१] मार्गनापितयोर् जातो यो ऽसौ साखिल्यसञ्ज्ञकः ।
हीनः स गुह्यकेशानां कुर्याद् वपनम् अञ्जसा ॥
जलूकातुम्बिशृङ्गाणि रक्तस्रावे प्रयोजयेत् ।
जातो मैत्रेयशुक्लेन जाङ्घिकायां स्वयं सुतः ॥
असौ बन्धुलसञ्ज्ञो ऽत्र अधमः सर्वजातिषु ।
सुवर्णकारविपणेर् धूल्यां हेमादि पश्यति ॥
निषादनारीसंयोगात् पौष्टिकं जनयेत् सुतम् ।
स च पांसुलसञ्ज्ञो हि शणसूत्रविधायकः ॥
कर्ता च गौणीपट्टानां जीविका तस्य तद् धनम् ।
पुल्कसस्त्री पांसुलकात् सूते या वासिकाभिधम् ॥
कुर्यात् स तुरगादीनां शष्पेणैव च वर्तनम् ।

घासी ।

मेदस्य वनिताकायात् सङ्गतान्ध्रेण चेद् रहः ॥
सा सूते यवनं पुत्रं तुरुष्कः स प्रकीर्तितः ।
प्रसिद्धो म्लेच्छदेशे यो गोवधेनास्य वर्तनम् ॥
बन्दिनीशूद्रसंयोगाज् जातः स्पन्दालिकाभिधः ।
चतुर्वर्णविहीनो ऽसौ मञ्जिष्ठारङ्गकारकः ॥
तेन रङ्गेण वासांसि चित्राणि रचयेत् सदा ।
हस्तलेख्यं विचित्रं च द्विधा तच् चित्रसाधनम्
स एव शुचिकः ख्यातः कर्तरीसूचिकार्जकः ।
मागध्यां क्षत्रियाज् जात उल्मुको लोहकर्मकृत् ॥
उग्रात् पारसवीपुत्रो मौकालिस् तैलिको भुवि ।
रजको वर्णतो हीनः प्रथमश् चान्त्यजेषु सः ॥
वस्त्रनिर्णेजनं कुर्याद् आत्मवृत्त्यर्थम् एव च ।
उग्रजातं तु वैदेह्यां मञ्जूषं रजकं विदुः ॥

शूद्रायां क्षत्राद् उग्रः । विप्रायां वैश्याद् वैदेही ।

वहेद् असौ तैलयन्त्रम् उत्तमश् चान्त्यजातितः ।
तैलहिंसायन्त्ररवाकर्षणात् पापसम्भवः ॥
अतो मौकलिको नित्यं निर्वास्यो नगराद् बहिः ।
रथकारस्य दुहिता साऽऽयोगवसमागता ॥
सूते यं तनयं सो ऽपि सूत्रधार इतीरितः ।
जायाजीवश् च शैलूषो नाट्यशास्त्रविशारदः ॥
वेन्याम् आवर्त्तकाज् जातः स चारः सूत्रवायकः ।
छागली भृज्जकण्टात् तु औरभ्रं मेषपालकम् ॥
कुर्याद् ऊर्णापटांश् चित्रान् मेषाणां परिपालनम् ।
आवर्त्तकस्य भार्यायां क्षेमकाद् उष्ट्रपालकम् ॥
रौमिकं देशिका मल्लाद् युक्तं लवणकर्मणि ।
आयोगव्यां द्विजाज् जातो धिग्वणः कवचादिकृत् ॥
स चर्मणाश्वपल्याणं यथाशोभं प्रकल्पयेत् ।

मोचिसञ्ज्ञः ।

आयोगवी च कैवर्त्तं जज्ञे परसवात् सुतम् ॥
स हीनः सर्वजातिभ्यो जालं स्वीकृत्य सर्वदा ।
मत्स्यान् जलचरान् अन्यान् घातयेद् आत्मवृत्तये ॥
नाव्यं कर्म प्रहरणं नद्यां वर्षासु वाहयेत् ।
नदीम् उत्तारयेल् लोकांस् तेभ्यश् चेच् छेद्धनं तथा ॥
धिग्वण्यां तु निषादाद् यश् चर्मकारः स तु स्मृतः ।
गोचर्मणा महिष्याश् च चर्मणा तस्य जीवनम् ॥
आभीरस्त्री लभेद् वेनात् पुत्रं शौण्डिकसञ्ज्ञकम् ।
सुरां स कृत्वा विक्रीय कुर्यात् तेन च वर्तनम् ॥
कर्मचण्डालकात् पुत्रं वैदेही पाण्डुशोपकम् ।
लेभे बुरुडजातित्वं सदा वंशविदारणम् ॥
जातो निषादाद् वैदेह्यां गारुडी डिण्डिमोत्तमः ॥

इत्यादि ।

मनुः

चण्डालात् पाण्डुशोपाकस् त्वक्सारव्यवहारवान् ।
आहिण्डको निषादेन वैदेह्याम् एव जायते ॥

विप्रायां वैश्यजा वैदेही । त्वक्सारो वेणुः । तच्छेदक्रयादिजीवी । अयं बरुडः वैदेह्याम् एव । क्षत्रायां शूद्रजनिषादाद् आहिण्डकः । अयं वेणुजीवी श्वपाकः ।

चण्डालेन तु सोपाको मूलव्यसनवृत्तिमान् ।
पुल्कस्यां जायते पापः सदा सज्जनगर्हितः ॥

मूलं मुख्यं [२९२] व्यसनम् असुवियोगो वध्यमारणं सैव वृत्तिः । क्षत्रायां शूद्रजो निषादः तस्माच् छूद्रायां पुल्कसी । अयं कसा(य)र इति प्रसिद्धः ।

निषादस्त्री तु चण्डालात् पुत्रम् अन्त्यावसायिनम् ।
स्मशानगोचरं सूते बाह्यानाम् अपि गर्हितम् ॥

केचिद् आदिपुराणे ऽप्य् उक्ताः ।

निषाद्याम् अथ शूद्रेण कुक्कुटः स्यात् करोति सः ।
चक्रतोमरशूलासिलकुटप्रासतोमरान् ॥
चक्राणि शस्त्रजालानि भिण्डिपालांश् च भूभुजाम् ।
कुक्कुटानां प्रहर्ता च राजकुक्कुटखेलनः ॥
अम्बष्ठ्यां जायते वेनो वैदेहेन करोति सः ।
पटहं वादयन् स्फीतं राजादेशं प्रजास्व् अपि ॥
पुल्कसः कुक्कुटो वेनस् त्रय आरण्यवासिनः ।
आयोगव्यां दस्युना च सैरन्ध्रो नाम जायते ॥

दस्युः पौण्ड्रकादिः प्राग् उक्तः ।

मृगादिवधजीवी च पाशबन्धेन नित्यशः ।
राजस्त्रीणां सूतिकानां द्वाररक्षां करोति सः ॥
आयोगव्यां निषादात् तु धीवरो नाम जायते ।
नावो नदीनां कर्ता स तां च संवाहयेत् सदा ॥
निषादाद् अथ वैदेह्यां कारावारः करोति सः ।
चर्मणां छेदनं नित्यां सीवनं क्रयविक्रयम् ॥
निषाद्याम् अथ वैदेहाज् जायते चन्द्रमेचकः ।
आरण्यानां पशूनां स करोति च वधं सदा ॥
तस्य स्त्रीगमनात् क्षत्ता श्वपाकं जनयेत् सुतम् ।
श्वमांसादम् अरण्यस्थं पापशूर्पोपजीवनम् ॥
चण्डालाद् अपि वैदेह्यां पाण्डुसोपाकसञ्ज्ञकः ।
उपानच्चर्मवेणूनां विक्रयं हि करोति सः ॥
आहिण्डको निषाद्यां च वैदेहाद् अपि जायते ।
यो दस्यूनां तु वध्यानां परिरक्षां करोति च ॥
अन्त्यावसायी चाण्डलान् निषाद्यां जायते नरः ।
स्मशानवासी तद्वृत्तिश् चण्डालेष्व् अपि गर्हितः ॥
अनाथं नगराच् छावं दूरं ते च नयन्त्य् अपि ।
शय्याभरणवस्त्राणि वध्यानां राजशासनात् ॥
निर्दिष्टं वधदण्डं तु कृत्वा गृह्णन्ति नित्यशः ।
विवाहादि प्रकुर्वन्ति समाने वर्णसङ्करे ॥
मृता गोब्राह्मणार्थं तु कदाचित् सन्तरन्ति ते ।

वसिष्ठः

नौजीविका च निषादानाम् । कैवर्त्तानां मृगपशुपक्षिघातो मांसविक्रयश् च । आवृतानां हस्त्यश्वाधिकारः । आभीराणां गोऽजाविरक्षा । धिग्वणानां चर्मकरणं तद्विक्रयजीवनं च । कारावराणां चर्मच्छेदनं दीपासनरक्षणं छत्रधारणं नराणां वाहनं च ।

अयं कहारः भोई इति प्रसिद्धः ।

तन्तुवायत्ववृक्षछेदनरोपणानि कुक्कुटानाम् । अन्ध्रमेदानां गृहद्वाराशुचिस्थानावस्करशोधनं गुह्याङ्गस्पर्शनोच्छिष्टविण्मूत्रोहनं चक्रवृत्तिता च गुह्याङ्गस्पर्शः शौचं अधोनापितत्वं वा ।

चक्रवृत्तिता तैलकत्वम् इति स्मृतिमञ्जरी

मधूकानां प्रातर् नृपतिसंस्तवाख्यानवर्णनं निद्राबोधनम् । प्रव्रज्यावसितानां यावज्जीवं दासवृत्तित्वम् । मूलवृत्तित्वं शूर्पकरणं च पुल्कसानाम् । मूलं वृक्षौषध्यादेः । चण्डालान्त्यावसायिनां वनस्मशानरक्षणं गराग्निविषप्रयोगश् च । स्त्रीणां भर्तृशुश्रूषा । नव्यञ्जनपानसंस्कारो नृत्यगीतकामसूत्राध्ययनं च । यत् पुंसाम् अन्नव्यञ्जनादि कार्यं तत् तत् स्त्रीणाम् अपि चारणादिस्त्रीणां तु नृत्यादि । सर्वे बाह्याः सर्वधर्मबहिष्कृताः ।

अन्यत्र प्राणिसंरक्षणात् अहिंसादिश् च धर्मः सर्वतुल्यः ।

अहिंसा सत्यम् अस्तेयं शौचम् इन्द्रियनिग्रहः ।
दानं दमो दया शान्तिः सर्वेषां धर्मसाधनम् ।

इति याज्ञवल्क्योक्तेः । पित्रोर् आब्दिके सजातिभोजनं वस्त्रहेमादिदानं कार्यम् इत्य् उक्तं प्राक् ।

मूलम्

मराठी

आतां सङ्कीर्णप्रकरण साङ्गतो.

मालाकारा - (माळ्या)पासून करणस्त्रीचेठायीं होतो त्यास लावद्य ह्मणतात. याने रत्नादिकाम्स छेद पाडावे. यासच मणिहार अथवा मञ्जु ह्मणतात. यापासून कुम्भराणीचेठायीं झालेल्यास शाल्मल ( ताम्बोळी ) ह्मणतात. यानेम्, विड्याची पाने इत्यादि विकून नि वोह करावा. मालाकार ( माळी ) यापासून क्षत्रियीचेठायीं अङ्गाचे मर्दन करणारा शिलीन्ध्र नामक होतो. तो शूद्राहून नीच. याची जीविका-उत्तम तैलादिकाने लोकाञ्चें अङ्गमर्दन करणे ही होय. शिलीन्ध्रापासून क्षत्रियेचेठायीं होतो त्यास कोल्हाटी4 ( नाडे बहुरूपी ) ह्मणतात.

याने भोरिप करून पोट भरावेम्. करणीचेठायीं वैश्यापासून होतो त्यास गोचारी5 ( गुराख्या ) ह्मणतात.

याने गुरे राखावी. मञ्जुभार्येचेठायीं घटधानापासून होतो त्यास छागलक (धनगर ) अथवा अनपाल ( शेळ्यारक्षक ) ह्मणतात. तसाच कर्मचाण्डालाच्या स्त्रीचेठायीं पुप्पशेखरापासून होतो त्यास मण्डलक ह्मणतात. त्याने बहुत कुत्रे पाळावे. राजाने कुत्र्याञ्चे जोडपें धरण्यास त्याची योजना करावी. कर्मचाण्डाल हे-सन्न्याशापासून विधवेचेठायीं झालेल्या पुत्राचें नाम्व आहे. याने तळ्या विहिरी इ. त्यादि खोदणे व मातीचे काम, यांवर निर्वाह करावा. हा अस्पृश्य आहे. जातिविवे. कान्त-“अम्बष्ठापासून, वैदेहीचेठायीं झालेल्यास कुशीलव ह्मणतात. याने सङ्गीतज्ञान सम्पादावे व निरनिराळ्या देशाम्त जाउन नृत्यादिकाने निर्वाह करावा. आयोगवापासून मागधीचेठायीं होतो त्यास भ्रकुम्स6 ह्मणावेम्.

तो धर्माविषयीं वर्णबहिष्कृत आहे. याने सङ्गीताचा अभ्यास करून, स्त्रियाम्स नृत्यशालेत नृत्य व लास्य शिकवावे. राजसभेत, नाटकप्रसङ्गी रङ्गावतार 7 करावा.

देशभाषा व अङ्गे याञ्च्या भेदापासून झालेले ४ प्रकारचे अङ्गभाव करावे.” अङ्गभावाञ्चे भेद भरताने साङ्गितले आहेत. जसे-“का यिक, वाचिक, आहार्य व सात्विक असे नाट्यशास्त्रनिपुणान्नी चार प्रकारचे अ भिनय साङ्गितले आहेत.” सङ्गीतशास्त्रान्त- “गायन, वाद्य, व नृत्य, या तिहीम्स मिळून सङ्गीत ह्मणावेम्. नृत्याविषयीं तर, केवळ सङ्गीत शब्द आहे. तो तेवढ्याचाच वाच क. जें अतिसुकुमार असते त्यास लास्य, व दाण्डगेपणाच्यास ताण्डव ( नृत्य ) ह्मणतात. जे हातपायाञ्चा भूमीवर आघात करून, उद्धतपणानें करितात त्यास ताण्डव ह्मणतात. व जे दृष्टी, हात, भाषा, भ्रामरी, व चीरिका, मुद्रासहित, स्तन, माण्ड्या, दृष्टिपात इत्यादि कान्नी सरस व पुरुषाञ्चे मन हरण करणारे त्यास अद्भुत लास्य ह्मणावें.’ असे साङ्गितले आहे. कायस्थाच्या8 स्त्रीचेठायीं माळ्यापासून जो उत्पन्न होतो त्यास शाकल्य9 ह्मणतात.

त्याने बायकाञ्च्या हाताम्त हस्तिदन्ताची वगैरे काङ्कणे करून घालावी. तो शूदाहून हीन आहे. त्याने मणि, स्फटिक, बोरे इत्यादि करून त्यांवर निर्वाह करावा. वैदेहापासून शूद्रीचेठायीं उत्पन्न झालेल्यास आन्धसिक अथवा कान्दु (मिठाईवाला ) असें ह्मणतात. त्याने नानाप्रकारचे मिठाई वगैरे पदार्थ करून ते विकून निर्वाह करावा. करणीचेठायीं वै श्यापासून उत्पन्न होतो त्यास वत्सक ह्मणतात. तो शूद्राहून नीच होय. त्याने कुरणाम्त गायी चाराव्या. वैश्यस्त्रीचेठायीं शूद्रापासून उत्पन्न होतो त्यास आयोगव ह्मणतात. तो शू. द्राहून नीच आहे. त्याने दगडाम्स टाङ्की लावून, चुन्याच्या संयोगाने एकप्रकारच्या भिन्ती तयार कराव्या. व चुना विकून निर्वाह करावा. निषादाची कन्या शूद्रापासून ज्यास उ त्पन्न करिते; त्यास कोषक व कुक्कुटक असीं २ नांवे आहेत. त्याने सर्वत्र टङ्कशाळेम्त सोने रुपें व ताम्बे याञ्ची नाणी करावी. जो मागधी स्त्रीचेठायीं क्षत्रियापासून उत्पन्न होतो त्यास उल्मुक ह्मणावे. त्याने लोखण्डकामावर निर्वाह करावा. हा अन्त्यजाहून कांहीं श्रेष्ठ आहे. त्यास लोहकार ( लोहार ) ही ह्मणतात. याने लोखण्डाचे गुण जाणून, त्याची शस्त्रे घडवा वी.” शस्त्राञ्च्या लक्षणाविषयीं लोहकारस्मृतीम्त लक्षणकाण्डाम्त साङ्गितले आहे की,-“शस्त्र जितके लाम्ब व रुम्द असेल त्याचे अङ्गुलप्रमाण काढून, त्याम्स ६ नी गुणून ७ नी भागावे. मग उर्वरित अङ्क एकापासून-५ पर्यम्त आल्यास ते शुभकारक, ६ आल्यास मृत्युकारक, शून्य आल्यास ते शस्त्र घेणाऱ्याचे व यजमानाचे वैरकारक होतें.’ जोपर्यम्त तेला च्या पाण्याचा शब्द श्रवण होत असेल तोपर्यन्त, व तसेच शूद्र आणि अन्त्यजाञ्च्या सन्निध ब्राह्मणाने कर्म10 करूं नये. " हे प्रसङ्गतः येथे साङ्गितले आहे.

कुक्कुटस्त्री कुम्भारा. पासून जो पुत्र उत्पन्न करिते त्यास कुरुविम्द (साळी) ह्मणतात. याने रेशमी वस्त्रे विणून नि हि करावा. हा अत्यञ्जासम आहे, तथापि याने स्वधर्मपालन करावे. वेनजातीय स्त्री कैवर्तासी सङ्ग करून ज्यास उत्पन्न करिते त्यास शाबरीक ह्मणतात. तो अन्त्यजाती हून हीन आहे. याने वस्त्रे धुवावी. यास कुविन्दहि ह्मणतात. गौळणीचेठायीं कुक्कु टापासून उत्पन्न होतो त्यास सोखिर ह्मणतात. त्याने निर्वाहार्थ लोकरीची वस्त्रे विणावी. कुक्कुटस्त्रीचेठायीं गवळ्यापासून उत्पन्न होतो त्यास नीलिकर्ता (निळारी ) ह्मणतात. त्याने निळीचे काम करावेम्. मार्गस्त्री व न्हावी याम्पासून उत्पन्न होतो त्यास सौखिल्य ह्मणतात. हा न्हाव्यापेक्षां हीन आहे. याने न दुखिवतां गुह्यस्थानावरचे केश11 काढावे.

कोणास रक्तसम्बन्धी विकार झाला असल्यास त्याला जळवा, तुम्बड्या व शिगें लावून नासलेले रक्त काढावेम्. मैत्रेयापासून जाङ्घिकस्त्रीचेठायीं उत्पन्न होतो त्यास बन्धुल अथवा झारा म णतात. हा सर्व जातीम्त नीच. याने सोनाराच्या आकट्यान्तील धूळ घेऊन, त्यान्तलें सोने वगैरे झारून काढून त्यावर निर्वाह करावा. निषादाच्या स्त्रीचेठायीं पौष्टिका पासून उत्पन्न होतो त्यास पांसुल ह्मणतात. त्याने सणाची गोणताटें वगैरे विणावी. पुल्कसाची स्त्री पांसुलकापासून ज्यास उत्पन्न करिते त्यास वासिक ( घासी) ह्मणावेम्. त्याने अश्वादिकाम्स उपयोगी गवत विकून निर्वाह करावा. मेदाची स्त्री आन्ध्रापासून ज्यास उत्पन्न करिते तो जातीचा यवन, त्यास तुरुष्क 12 ह्मणावेम्. तो म्लेछभाषा बोलणारा, त्याने गोवधादिकांवर निर्वाह करावा.

बन्दिनी शूद्रापासून ज्यास उत्पन्न करिते त्यास स्पन्दालिक ( रङ्गारी ) ह्मणावे. तो ४ ही वर्णाहून नीच. त्याने कुसुम्ब्यादिकाञ्चे रङ्ग करून वस्त्रे रङ्गवावी. व त्यांवर नानाप्रकारची हस्तलिखित अथवा छापाची चित्रे काढून ती वि कावी, हाच जर भिन्तीवर चित्रे काढील तर त्याचा तो विशेषगुण समजावा. तोच सुयीचे व कात्रीचे काम करील तर त्यास सूचिक ( शिम्पी) ह्मणावेम्. मागधीचेटायी क्षत्रियापासून झाले ल्यास उल्मुक ह्मणावेम्. तो लोहकर्म ( लोखण्डकाम ) करणारा होय. उग्रापासून पारसवीचे ठायीं उत्पन्न झालेल्यास मौकालिक ( तेली ) ह्मणावेम्. त्याने तेलाचा घाणा लावून निर्वाह क. रावा. रजक ( परीट ) हा वर्णतः हीन आहे; परन्तु तो ७ प्रकारच्या अन्त्यनाम्त प्रथम आहे. याने उदरनिर्वाहार्थ वस्त्रे धुवावी. वैदेहीचे ठायीं उग्रापासून झालेल्यासही रजक ह्मण तात. हा पूर्वोक्त रजकाहून भिन्न असून, ७ प्रकारच्या अन्त्यजाम्पेक्षा उत्तम आहे. याने तेलाचा घाणा वहावा. यास तेल काढतान्ना होणाऱ्या प्राणिहिंसेचा व यन्त्राच्या. आकर्षणापासून पाप होण्याचा सम्भव आहे, अतएव यास गांवाबाहेर ठेवावे. रथकाराच्या ( सुताराच्या ) स्त्रीचेठायीं आयोगवापासून पुत्र होतो त्यास सूत्रधार ह्मणतात. त्याने स्त्रि यांवर निर्वाह केल्यास शैलूष, व नाटकादि केल्यास भरत, अशा उद्योगाच्या सम्बन्धाने त्यास २ सञ्ज्ञा आहेत. वेनाच्या स्त्रीचेठायीं आवर्तकापासून उत्पन्न होतो त्यासं चार ह्मणतात. त्याने सूत काढावेम्. भृजकण्टकापासून छागली-(धनगरणी )चे ठायीं जो मेण्ढरें रक्षण करणारा पुत्र होतो त्यास औरभ्र ह्मणतात. याने लोकरीची चित्रविचित्र वस्त्रे करावी. व मेण्ढरें राखावी. आवर्तकीचेठायीं क्षेमकापासून उत्पन्न होतो त्यास उष्ट्रपा लक ( सारवान् ) ह्मणतात. त्याने उम्ट पाळावे व वहावे. देशिकाची स्त्री मल्लापासून ज्यास प्रसवते त्यास रौमिक13 ह्मणतात.

त्याने मीठ पिकवून त्याच्या व्यापाराने निर्वाह करावा. आयोगवीचेठायीं द्विजापासून उत्पन्न होतो त्यास धिग्वण ह्मणावेम्. त्याने चिलखदेम्, ढाला व घोड्यावरील जिनें इत्यादि करून त्यावर निर्वाह करावा. यासच मोचि ( जिनगर ) असेंहि ह्मणतात. आयोगवी पारसवापासून ज्यास उत्पन्न करिते त्यास कैवर्त ( कोळी ) ह्मणतात. तो सर्व जातीम्पेक्षा नीच होय. त्याने नेहेमीं जाळें घेऊन, मत्स्य व अन्य जलचराम्स मारून त्यांवर निर्वाह करावा. पावसाळ्याम्त ( स्थल विशेषी उन्हाळ्यान्तहि ) नदीचेठायीं नौका वहावी. लोकाम्स नदीपलीकडे पोचवून त्याम्पासून मिळालेल्या द्रव्याने निर्वाह करावा. धिग्वणीचेठायीं निपादापासून उत्पन्न होतो त्यास चर्मकार ( चाम्भार ) ह्मणतात. त्याने गायी मशी इत्यादिकाञ्च्या कातड्यावर पोट भरावेम्. आभीरा. ( गवळ्या ) च्या स्त्रीचेठायीं वेनापासून उत्पन्न होतो त्यास शौण्डिक ( कलाल ) ह्मणतात. त्याने दारू करून विकून निर्वाह करावा. कर्मचाण्डालापासून वैदेहीचेठायीं उत्पन्न होतो त्यास पाण्डशोपक ह्मणतात. यास बरुड जातित्व मिळाले आहे. याने नेहेमी वेळू, व चिवे वगैरे फोडून त्याञ्ची पात्रं-सूप रोवळी इत्यादि करून त्यांवर निर्वाह करावा. निषादापासून वैदेहीचेठायीं उत्पन्न होतो त्यास गारुडी ह्मण तात.” इत्यादि साङ्गितले आहे. मनु ह्मणतो-” चाण्डालापासून वैदेहीचे ठायी पाण्डशोपक ( बुरुड ) होतो. त्याने वेळवांवर निर्वाह करावा. निषादापासून वैदेहीचेठायीं जो उत्पन्न होतो त्यास आहिण्डक ह्मणतात. यास वेणुजीवी श्वपाक ह्मणतात. चण्डाला पासून पुल्कसीचेठायीं मूलव्यसनवृत्तिवान् सोपाक ( कसाय ) नामक होतो. येथे- मू लव्यसनवृत्तिमान् ’ या शब्दाची व्याख्या असी आहे की,-मूल ह्मणजे मुख्य असें में व्यसन ह्मणजे प्राणवियोग मारण्यास योग्य असलेल्याम्स मारणे, अर्थात् प्राण घेणे तीच आहे वृत्ति ह्मणजे उदरनिर्वाहाचे कर्म ज्याचे त्यास मूलव्यसनवृत्तिमान् ह्मणावेम्. “निषादाची स्त्री चाण्डालापासून अन्तेवसायी नामक पुत्रास उत्पन्न करिते. त्याने ‘नित्य स्मशानाम्त असणे हे अन्त्यजांसहि निन्द्य असे कर्म करावेम्. यासच डोम्ब ह्मणतात.” आदिपुराणान्तही कित्येक साङ्गितले आहेत. ते-“निषादीचेठायीं शूद्रापासून उत्पन्न होतो त्यास कुक्कुट ह्मणतात. तो-चक्रम्, तोमर, शूल, तरवारी, लगुड, प्रास, व नानात-हेची चक्रे, शस्त्रनालें ( औटगोळे ), भिदिपाल इत्यादि शस्त्रे घडवून राजास देऊन त्यावर निवोह करितो. तसेम्च कोम्बड्याम्स मारतो. राजाने पाळलेल्या कोम्बड्याम्बरोबर खेळतो. अम्बष्ठीचेठायीं वैदेहापासून वेन होतो. तो पटह ( हलगी ) नामक वाद्य वाजवून, जो उघडपणे सर्व प्रजाम्स एकसाहा राजाचा हुकूम कळविण्याचा असतो तो कळवितो (दंवडी पिटवितो ). पुल्कस, कुक्कुट, व वेन, हे ३ ही अरण्याम्त राहतात. आयोगवीचे ठायीं पौण्डूकादि पूर्वोक्त दस्यूम्पासून उत्पन्न होतो त्यास सैरन्ध्र ह्मणतात. त्याने मृग मारून अथवा पाशाने त्याम्स धरून त्यावर निर्वाह करावा. व राजाच्या किंवा इतर स्त्रियाञ्च्या बाळन्तिणीच्या सूतिकागृहद्वाराचे रक्षण करावेम्. आयोगवीचेठायीं निषादापासून धीवर नामक उत्पन्न होतो. त्याने, नदीत नौका वहाव्या व नवीन कराव्या. निषादापासून वैदेहीचेठायीं कारावर नामक उत्पन्न होतो. त्याने कातडी कापावी, शिवावी, विकत घ्यावी व द्यावीं (यास चाम्भार ह्मणतात ). निषादीचेठायीं वैदेहापासून उत्पन्न होतो त्यास चन्द्रमेचक (व्याध ) ह्मणतात. त्याने अरण्यान्तील पशूस मारावे. चन्द्रमेचकाच्या स्त्रीचेठायीं क्षत्त्यापासून उत्पन्न होतो त्यास श्वपाक ह्मणतात. कुत्र्यादिकाञ्चें माम्स भक्षण हेच त्याचे जीवन. चण्डालापासून वैदेहीचेठायीं पाण्डुसोपाकनामक उत्पन्न होतो. तो चर्मी जोडे व वेळवादिकाञ्ची पात्रे यांवर निर्वाह करितो. निषादीचेठायीं वैदेहापासून उत्पन्न होतो तो राजाज्ञेनें चोर व वध्य (देहान्तशिक्षा देण्यास योग्य ) कैदीचे रक्षण करितो. निषादीचेठायीं चाण्डालापासून अन्तेवसायी अथवा अन्त्यावसायी नामक होतो. तो नेहेमीं स्मशानाम्त राहून निर्वाह करितो. हा चाण्डालाम्मध्येही अति नीच आहे. याने अनाथ प्रेत गांवान्तून दूर स्मशानाम्त न्यावे. व फांशी दिलेल्याञ्ची शय्या वस्त्रालङ्कारा दिक राजाज्ञेने घ्यावी. व ज्या अपराध्यास फाशी देण्याचे राजाने फरमाविले असेल त्यास फाशी द्यावे. त्यान्नी आपल्या बरोबरीच्या जातीसी विवाहादिक करावे. हे क दाचित् गायी व ब्राह्मणाकरितां प्राणत्याग करितील तर जन्मान्तरी या नीचत्वापासून मुक्त होतील; अथोत् उत्तम जन्मास पावतील.” वसिष्ठ ह्मणतो-” कैवर्तास-नौकाजीवन, निषादाम्स मृग पशु व पक्षि इत्यादिकाञ्चा वध व त्याच्या मांसाचा विक्रय, आवास हत्ती घोडे इत्यादिकांवर अधिकार असणे, आभीराम्स गायी शेळ्या इत्यादिकाञ्चे रक्षण, धिग्वणाम्स चामडी तयार करणे व विकणे, कारावराम्स कातडी कापणे, दीप व आसनाचे रक्षण, छत्रधारण, पालखी म्याने इत्यादि वाहणे, (यास काहार भोयी ह्मणतात.) वस्त्रे विकणे, वृक्ष लावणे, तोडणें-हीं कमें कुक्कटांस. अन्ध्र व मेद याम्स गृह दरवाजा अ. शुचिस्थान (शौचकूपादिक) मल इत्यादिकाञ्ची झाडलोट करणे, गुह्याङ्गस्पर्श-( मलद्वार धुणे अथवा खालचे केश काढणे.) उच्छिष्ट विष्ठा मूत्र इ० वाहणे व चक्रवृत्तित्व-" याचा अर्थ-‘तेलाचा घाणा लावणे’ असा स्मृतिमञ्जरीम्त केला आहे. “हीं करें विहित होत. मधूकाम्स प्रातःकाली राजाचें स्तवन व पुण्यकारक शूरपुरुषाञ्ची चरित्रे गावून राजास जागृत करणे ही विहित होत. प्रवज्यावसिताम्स ( सन्न्यास घेऊन त्याचा त्याग करणाऱ्याम्स ) आमरण सेवा करणे, पुल्कसांस-मूलवृत्तित्व (वृक्ष औषधी इ० ची मुळे भक्षण करून असणे ) सुपे रोवळ्या वगैरे करणे, चण्डाल व अन्त्यावसायी याम्स अरण्य, स्मशान इत्यादिकाञ्चे रक्षण व अग्निविषादिकाञ्चे प्रयोग विहित आहेत. स्त्रियांस-पतीची सेवा, व्यञ्जन (लोणची पापड ), प्राशनद्रव्य, व इत्यादि करणे, तैलादिकान्नी अङ्गसंस्कार, गायन14, नृत्य कामसूत्राञ्चे अध्ययन, व में पुरुषाम्स अन्य व्यञ्जनादि अपेक्षित असेल ते करणे हा सर्व साधारण स्त्रियाञ्चा धर्म होय.

चारणादिकाञ्च्या स्त्रियाम्स तर-गायन, नाच इत्यादि विशेषेकरून विहित आहे. चार वर्णीच्या बाहेरच्या ज्या जाती आहेत त्या सर्वहि एक-प्राणिमात्राचे संरक्षणरूप धर्मावाञ्चून इतर धर्म बहिष्कृत होत. अहिंसादि धर्म तर-सर्व जातीम्स सारखे लागू आहेत. कारण-” अहिंसा, सत्य, चौर्य न करणे, शौच, इन्द्रियनिग्रह, दान, दम, दया, शान्ति, हे धर्म सर्व वर्णास समान आहेत." असे याज्ञवल्क्याने झटले आहे. तसेच प्रतिवर्षी मातापितर मेलेल्या दिवसीं सजातीयाम्स भोजन, वस्त्रे, द्रव्य इत्यादि देणे हेहि सर्ववर्णसमान आहे ह्मणून पूर्वी साङ्गितलेच आहे.

विश्वास-प्रस्तुतिः

[२९८]

शङ्खस् त्व् अन्यथाह ।

सूतानाम् 15अङ्गसंस्कारक्रियाकेशश्मश्रुरोमनखवापनस्नान-विलेपनालङ्करणाश्वदमनयोग्याशनपोषणानि कर्माणि ।

योग्याशनं घासादि । क्षत्तुः प्रतिहाररक्षादौत्ये । मागधानां मृदङ्गवीणावेणुवादननृत्यगीत-सिद्धिकोपस्थानगाथालोकप्रत्यूषःप्रबोधनानि कर्माणि । सिद्धिर् इति कोपसमये तच्छामकगाथां पठेत् । जपजीवेतिशब्दः सिद्धिशब्दार्थः । अम्बष्ठानां कायशल्यशलाकाविमोचनोन्मादक्लीबज्वरापस्मारचिकित्सापोषणानि कर्माणि । कायाच् छल्यस्य शलाकाः शिराः तासां मोचनं भेदः च्। वैदेहकानां वस्त्रच्छेदनसीवनरञ्जनावनिर्णेजनवापीतडागोदक-पानारामावकरशोधनानि कर्माणि । उग्राणां कुञ्जरग्रहणराजछत्र-धारणपुरप्रधारणबन्धनागारसंयमनानि । वेनानां लङ्घनप्लवनाक्रीडानियुद्धमायाशम्बरेन्द्रजालानि कर्माणि । नियुद्धं बाहुयुद्धम् । मायाशम्बरं लाघवाद् द्रव्यपरिवर्तनम् । इन्द्रजालम् असद्वस्तुदर्शनादि । कुक्कुटानां प्रहरणचक्रतोमरभिण्डिपालप्रासासिपरशुलगुडलोहजालिका-सन्धानानि । प्रहरणम् आयुधम् । लोहजालिका कवचम् । आयोगवानाम् अयस्करणतक्षणकुम्भकरणानि सुवर्णरजतलोहासिचर्मवृत्तिता चेति । पुल्कसानां नगरवीथीसंरक्षणजागरणानाथमृतनिर्हरणालेख्यपत्र-च्छेदनानि मधुपातनं माक्षिकोद्धरणं बिलकर्तनं कूपादिखननं च । चाण्डालानां स्मशानसंरक्षणशूलपरिवापनवध्यघातानि कर्माणि । श्वपचानां चैतत् । अत्रैकस्य नानाकर्मणां विकल्पः समुच्चयो वा । अन्ये जातिविवेके ज्ञेया इति सङ्क्षेपः ।

शङ्खाने तर-कांहीं जातीञ्ची कर्मे पूर्वोक्ताहून भिन्न साङ्गितली आहेत. ती-“सूताम्स दसऱ्याच्या अङ्गास तैलादि लावणे, हजामत करणे, स्नान घालणे, चन्दन लावणे, अलङ्कार करणे, घोड्याम्स दमविणे, व त्याम्स चारापाणी देऊन जतन करणे ही कर्मे विहित आहेत. क्षत्त्याने-द्वाराचे रक्षण व हेरपणा करावा. मागधांस-मृदङ्ग, वीणा, पांवा इत्यादि वायें वाजविणे, नाच, गायन, सिद्धिकोपस्थान ( राजास राग आल्यावेळी त्याची शान्तिकारक कांहीं गाथा (पोवाडे ) गातात त्या जयजीव (जय) असें ह्मणणे हा सिद्धि श ब्दाचा अर्थ आहे. गाणे व मञ्जुळ गायनाने प्रातःकाली राजास जागृत करणे ही कमें विहित आहेत. अम्बष्ठांस- लढाऊ लोकाञ्च्या शरीराम्स लागलेली शल्ये व बाणाञ्ची अग्रे काढणेम्, उन्मत्त, नपुंसक, उन्माद, ज्वरित, अपस्मार ( फेम्परें ) यांवर औषध देणे, व पोषण ही कर्मे विहित आहेत. वैदेहकांस-वस्त्राञ्च्या छिद्राञ्चा व फाटक्याञ्चा रफू करणे, वस्त्रे रङ्गविणे, स्वच्छ करणे, वापीतळ्याचे उदक, बागा, आकर, इ० शुद्ध करणे ही कर्मे विहित आहेत. उग्रांस- हत्ती धरणे, राजाच्या मस्तकी छत्र धरणे, नगर व बन्दिखान्याचे रक्षण, ही विहित आहेत. वेनांस-उम्च उड्या मारणे, भिन्ती उडून जाणे, कुस्ती करणे, बाहुयुद्ध करणे, मायाशम्बर, ( लाघवाने मोठे पदार्थ उचलणे, फिरविणे व ते अन्यस्थली नेणे इत्यादि ), इन्द्रजाल ( खोटी वस्तु खरी करून दाखविणे ) इत्यादि कर्मे विहित होत. कुक्कुटांस- आयुध, चक्र, तोमर, भिदिपाल, परशु, कु-हाड, लगुड, लोहजालिका ( कवच ) याञ्ची सन्धाने करणे, हे कर्म विहित आहे. आयोगवांस-लोहारकाम, सुतारकाम, कुम्भारकाम व सोने रुपे आणि लोखण्ड याञ्च्या वस्तु घडविणे, ढाल तरवार घेऊन लढणे, ही कमें विहित आहेत. पुल्कसांस-नगर व मार्ग याञ्चे संरक्षण, शहराम्त रात्री घस्त काढणे, अनाथ प्रेत नेणे, पत्रे नेणे व कागदाञ्चे साञ्चे कापणे, मध काढणे, मेण काढणे, विहीर खोदणे, ही कर्मे विहित आहेत. चाण्डालाम्स स्मशानाचे रक्षण व दण्ड्याम्स शूलावर चढविणे हे विहित आहे. श्वपचान्नीहि हेच करावें.” याम्त एकेक जातीस अनेक कमें साङ्गितली आहेत; पण त्याम्पैकी त्यान्नी एकेक अथवा सर्व करावी. अन्य कित्येक जातिभेद आहेत. ते जातिविवेकावरून जाणावे. विस्तारभयास्तव येथे सङ्क्षेपाने साङ्गितले आहेत.

विश्वास-प्रस्तुतिः

ननु कलौ क्षत्रियवैश्याभाव उक्तो भागवते नवमस्कन्धे ।

इक्ष्वाकूणाम् अयं वंशः सुमित्रान्तो भविष्यति ।
यतस् तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ॥
देवापिर् योगम् आस्थाय कलापग्रामम् आश्रितः ।
सोमवंशे कलौ नष्टे कृतादौ स्थापयिष्यति ॥

इति । द्वादशे ऽपि ।

एतेषां नामलिङ्गानां पुरुषाणां महात्मनाम् ।
कथामात्रावशिष्टानां कीर्तिर् एव स्थिता भुवि ॥
देवापिः शन्तनोर् भ्राता मरुश् चेक्ष्वाकुवंशजः ।
कलापग्राम आसाते महायोगबलान्वितौ ॥
ताव् इहैत्य कलेर् अन्ते वासुदेवानशिक्षितौ ।
वर्णाश्रमयुतं धर्मं पूर्ववत् प्रथयिष्यतः ॥

विष्णुपुराणे ऽपि ।

देवापिः पौरवो राजा मरुश् चेक्ष्वाकुवंशजः ।
कृते युग इहागत्य क्षत्रप्रावर्तकौ हि तौ ॥

तथा

महापद्मपतिः कश्चिन् नन्दः क्षत्रविनाशकृत् ।
नन्दश् च कलेर् आदौ परिक्षितो ऽनन्तरं जातः ॥
आरभ्य भवतो जन्म यावन् नन्दाभिषेचनम् ।
एतद् वर्षसहस्रं तु शतं पञ्चदशोत्तरम् ॥

पुराणान्तरे ऽपि ।

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णास् त्रयो द्विजाः ।
युगे युगे स्थिताः सर्वे कलाव् आद्यन्तयोः स्थितिः ।

इति ।

अतः कथं द्विजसङ्करजाः उक्ताः । मैवम् ।

कलौ तु बीजभूतास् तु केचित् तिष्ठन्ति भूतले ।
तथैव देवापिपुरू साम्प्रतं समवस्थितौ ॥

इति विष्णुपुराणात्,

ब्रह्मक्षत्रविशः शूद्रा बीजार्थे य इह स्थिताः ।
कृते युगे हि तैः सार्धं निर्विशेषास् तदाभवन् ॥

इति मात्योक्तेश् च, प्रच्छन्नरूपाः स्वकर्मभ्रष्टाः क्षत्रिया वैश्याश् च सन्त्य् एव क्वचिद् इत्य् अस्मत्पितृचरणाः ।

यो भाट्टतन्त्रगहनार्णवकर्णधारः शास्त्रान्तरेषु निखिलेष्व् अपि मर्मभेत्ता ।
यो ऽत्र श्रमः किल कृतः कमलाकरेण प्रीतो ऽमुनास्तु सुकृती बुधरामकृष्णः ॥

इति श्रीमज्जगद्गुरुमीमांसकनारायणभट्टसूरिसूनु-

रामकृष्णभट्टात्मजदिनकरभट्टानुजकमलाकरकृते

शूद्रधर्मतत्त्वे शूद्रसमसङ्करजस्वरूपं

तद्वृत्तिनिरूपणं च समाप्तम् ।

समाप्तश् चायं निबन्धः ।

यावर शङ्का येते की-“कलियुगाम्त क्षत्रिय व वैश्य हे २ वर्ण मुळीच नाहीत.” असें श्रीमद्भागवतीं नवमस्कन्धी साङ्गितले आहे. जसें-इक्ष्वाकूचा वम्श साङ्गून, शेवटी सुमित्रनामक राजाचे वर्णन करून, शुकाचार्य ह्मणतो कीम्- “हा इक्ष्वाकूचा वम्श सुमि त्रापर्यम्त राहील. काङ्की, त्याच्या पुढे सन्ततीच्या अभावास्तव कलियुगाम्त तो क्षय पावेल. मग या वंशान्तला मरु व सोमवंशान्तला शन्तनुराजाचा बन्धू देवापी हे दोघे ईश्वरकृपेने चिरायु होऊन, कलियुग सरे तोपर्यम्त कलापग्रामाम्त राहून, पुनः कृतयु गाच्या प्रारम्भी कलीम्त नष्ट झालेला, सूर्यवम्श व सोमवम्श याञ्ची स्थापना करतील.” तसेम्च द्वादशस्कन्धान्तहि- “हे पूर्वोक्त महात्मे पुरुष केवळ ज्याञ्च्या कथा व कीर्ति मात्र भूमीवर राहिलेल्या आहेत, असे झाले असतां चन्द्रवंशीय शन्तनुराजाचा बन्धु देवापी व सूर्यवंशीय इक्ष्वाकुकुलोत्पन्न मरु हे दोघेहि योगबलाने कलियुग सरेपर्यन्त, कलाप ग्रामाम्त ( हा हिमाचल प्रदेशाम्त असावा. ) रहातील. नन्तर कलीच्या अन्ती वासुदे वाच्या आज्ञेनें वर्णाश्रमयुक्त धर्माची पूर्ववत् स्थापना करितील.” असे साङ्गितले आहे. विष्णुपुराणान्तही- “पुरुवंशोद्भव देवापी आणि इक्ष्वाकुवंशज मरु हे दोघेहि कृतयु गाच्या आरम्भी सूर्य व सोमवंशाची स्थापना करितील. तसेम्च कलीच्या प्रारम्भी व परि क्षितिजन्मानन्तर कोणीएक महापद्मपति नन्दनामा क्षत्रियान्तक होईल.” असे सां गितले आहे. नम्द हा परीक्षितीनन्तर झाला असे सिद्ध होण्यास प्रमाण श्री मद्भागवताम्त श्रीशुकाने झटले आहे की,- “हे राजा, तुझ्या जन्मकालापासून नन्दाच्या राज्यास आरम्भ होईपर्यम्त १११५ वर्षे होतील. नन्तर कलि वृद्धिङ्गत होईल.” असें साङ्गितले आहे. अन्यपुराणान्तही-“ब्राह्मण, क्षत्रिय, वैश्य हे तीन द्विज व शूद्र असे ४ वर्ण अन्य युगाम्त होते; परन्तु कलियुगाम्त ब्रामण व शूद्र हे २ दोनच वर्ण आहेत. म घले २ वर्ण नष्ट झाले.” असे साङ्गितले आहे. ह्मणून, पूर्वी क्षत्रिय व वैश्य यांशी मम्. ध होऊन सङ्करजाती कशा साङ्गितल्या? असे मणशील तर मां नको. कारण.–“क दाँत बीजभूत कित्येक क्षत्रिय पृथ्वीवर आहेत. तसेच देवापी व मरु साप्रत आहेत. असे विष्णुपुराणाम्त साङ्गितले आहे. व “ब्राह्मण, क्षत्रिय, वैश्य आणि शुद्र याम्पैकी जे वीजाकरितां या कलीत राहिले आहेत, त्यांसह कृतयुगाम्त अन्यय होतील. मग काही वेशेष राहणार नाही.” असं मत्स्य पुराणाम्त साङ्गितले आहे. यावरून– “माम्प्रत गुप्त रूपी व स्वकर्मभ्रष्ट असे क्षत्रिय व वैश्य कोर्ट कोडे आहेत.” असे आमचे वडील रामकृष्णभट्ट ह्मणतात. जो, भातन्त्र हाच कोणी एक ग्बोल नमुन्न त्यो नील नागाली { अन्य सर्वशास्त्राञ्चं मर्म जाणणारा असून मग पायवार अमर : जोम कृष्णन तो मी, (कमलाकराने) या गन्थरचनेविषयी ना नेश्चय करुन सन्तुष्ट हावा.

इति श्रीमद्-रामचन्द्र-चरण-कमलमिलिन्दायमान-मानसस्य पाणिनि-शाङ्कर-दर्शन-पारावार-पारीणस्य इसलामपुरकरोपाभिधस्य भट्टगोविन्दसूरिसूनोः वामन-शर्मणः कृतौ शूद्र-धर्म-तत्त्व-प्रकाशे शूद्र-समसङ्करज-वर्णनं तद्वृत्तिनिरूपणं च समाप्तम् । समाप्तश् चायं ग्रन्थः ।

  1. प्- कुलाल्यां ↩︎ ↩︎

  2. प्- मञ्जुभार्या स वै लोके ↩︎ ↩︎

  3. प्- स्फाटिकान् ↩︎ ↩︎

  4. ‘बहुरूपी’ अथवा ‘भोरपी’ हे दोन प्रकारचे आहेत. नाड्यावर चढून खेळ करणारे व एकेक वेष धे ऊन घरोघर दररोज फिरणारे. यान्तून कोल्याटी हे ‘नाडेभोरपी’ होत. ↩︎

  5. शुद्ध वश्याला ‘गोरक्षण’ विहित आहे; पण तें गुरे राखणे हे विहित नाही. वैश्यपर लावतान्ना-‘गोरक्ष ण’ या शब्दाचा-गार्या खिल्लार स्वामित्वेकरून वाळगणें-असा अर्थ घेतला पाहिजे. गुराखेपण हे येथे साङ्गि तलेल्या सङ्करजासच विहित आहे. ↩︎

  6. जो स्त्रीचा वेष घेऊन नाचतो त्यास ‘भ्रकुंस’ कोठं कोटें ‘नकुम्म’ आणि ‘नकुस’ असे ही उपलब्ध होते हैं नाम्व पडण्याचे कारण, नाचत असतां-वा-ह्मणजे भावयीनं आहे-कुंसः-झणजे-भाषण ज्याचें तो; अर्थात् आपल्या भोवयीने प्रेक्षकांशी भावगम्भीर असें भाषणच करित आहे की काय; असे दिसते ह्मणून त्यास हे नाम्व पडले असावे असे वाटते. देशभाषेत ज्यांला ‘भाण्ड, ह्मणतात ते हेच असावे. ↩︎

  7. ‘रङ्ग’ हा शब्द नाटकशालेचा अथवा-नाटकशालेत पुढे होणारा नाटकप्रयोग पाहाण्यास सामाजिक वगैरे सर्व आपापल्या ठिकाणी बसले आहेत, वायेम्, मञ्जळ गायन वगैरे चालत आहे, अशास्थलास रङ्ग ह्मण तात असे दशरूपक व दर्पण इत्यादिग्रन्थांवरून वाटते. याप्रकारच्या रङ्गाम्त नायकादिकाञ्चे वेष घेउन येणे याला ‘रङ्गावतार’ म्हणतात. ↩︎

  8. हा पूर्वोक्त सङ्करज कायस्थ होय. ↩︎

  9. हे लोक गुजराथेत वगैरे आहेत. हस्तिदन्ती काङ्कणे घालण्याची चाल गुजराथ, मारवाड वगैरे देशाम्त आहे किंवा उत्तर हिन्दुस्थानान्तल्या बहतेक प्रदेशाम्त आहे, असे झटले तरी चालेल. ↩︎

  10. याकरिताञ्च- तेलाचा घाणा गांवाम्त लावू नये, असें धर्मशास्त्राम्त साङ्गितले आहे. ↩︎

  11. पूर्वी साङ्गितलेला अधोनापित तो हाच असावा. ↩︎

  12. ‘तुरुष्क’ या शब्दाचाच अपभ्रम्श होऊन-‘तुरुक’ असा शब्द झाला असावा. तुरुक हा शब्द कर्नाटक, द्राविड इत्यादि देशभाषाम्त वापरला जातो. साम्प्रत आपण ज्यास तुर्की अथवा टर्की लोक ह्मणतो ते हेच असावे; आर्यधर्म न पाळणारे सर्वही यवन होत. त्यान्तीलच हा एक पोटभेद आहे. महमदाने आपल्या धर्माची स्थापना केली त्या दिवसापासून मुसलमान ह्मणून एक जात स्वतन्त्र झाली असे जे कित्येक अवा चीन लोकाञ्चे मत आहे त्यास काहींआधार नाहीम्; अनार्य यवन लोक फार जुन्या काळी देखील होते हे अनेक प्रमाणांवरून सिद्ध होते व त्याञ्चा महमदी धर्माहन अन्य कोणता तरी धर्म होता, असेल याम्त काही संशय नाही. ↩︎

  13. कोकणाम्त ‘गावडे’ अथवा ‘मीठगावडे’ व देशाम्त ‘लोणारी’ असे ज्याम्स ह्मणतात ते हेच असावे याञ्च्याम्त पोटभेद आहेत; पण ते विशेष महत्वाचे नाहीत. ↩︎

  14. साम्प्रत कुलस्त्रियांस - गायन, नृत्य इत्यादिकाञ्चा अभ्यास करवीत नाहीत; पण प्राचीन काली मोठमोळ सङ्गीत शाळा होत्या व त्याम्त राजाञ्च्या व इतर सम्भावित लोकाञ्च्या मुली गायनादिकाञ्चा अभ्यास करी असत असें प्राचीन इतिहासावरून सिद्ध होते. ↩︎

  15. प्- अन्नसंस्कार- ↩︎ ↩︎