विश्वास-प्रस्तुतिः
[२७४]
सङ्करजस्वरूपं वृत्तयश् च ।
एतत्स्वरूपं वृत्तयश् चोक्ताः आदिपुराणे ऽपि ।
मूर्धावसिक्तो विप्राद् यः क्षत्रियायां प्रसूयते ।
स करोति मनुष्याणां चिकित्सां रोगिणाम् अपि ॥
अपिशब्दात् क्षात्रं कर्म च ।
ब्राह्मणाच् छूद्रकन्यायां भवेत् पारसवस् तु सः ।
निषादो मत्स्यघातित्वं चक्रे राजाज्ञया सदा ॥
ब्राह्मणेनोग्रकन्यायाम् अम्बष्ठो नाम जायते ।
स करोति मनुष्याणां चिकित्सां रोगिणाम् अपि ॥
विप्राद् वैश्याजः क्षत्राच् छूद्राजश् चेति द्वाव् अम्बष्ठौ ।
ब्राह्मणेन तथाम्बष्ठ्याम् आभीरो जायते सुतः ।
गोऽजाविरक्षां कुरुते स च राजगृहेष्व् अपि ॥
आयोगव्यां ब्राह्मणात् तु जायते धिग्वणो नरः ।
वैश्यायां शूद्रजा आयोगवी ।
स चर्मकारो विज्ञेयो गर्हितश् चर्मजीवनः ॥
एते मातृसधर्माणो न पितुः पुत्रकाश् च षट् ।
मूर्धावसिक्तपारसवाम्बष्ठाभीरचर्मकाराः प्राग् उक्ता अवरोटश् चेति षट् ।
मूर्धावसिक्तो ऽम्बष्ठश् च निषादश् च तथा त्रयः ॥
विप्रक्षत्रियविट्शूद्रनारीणां गमनाद् इह ।
एकैकशस् तु चतुरो जनयन्ति सुतान् अपि ॥
एते द्वादश विद्यन्ते मूलप्रकृतिभिर् युताः ।
भवन्ति पञ्चदश वै विप्रः षोडशको भवेत् ॥
मूर्धावसिक्ताद् विप्रायां प्रतिलोमः । क्षत्रादिष्व् अनुलोमा इति [२७५] चत्वारः । एवम् अम्बष्ठान् निषादाच् चेति द्वादश । स्वयं चैते त्रय इति पञ्चदश । व्रात्यो विप्रः अवरोटो वा षोडशः ।
दस्युसञ्ज्ञा भवन्त्य् एते मातृवत् कर्मकारिणः ।
राज्ञो ब्राह्मणकन्यायां सूतो वर्णस् तु जायते ॥
स राज्ञाम् अश्वसारथ्यं चक्रे दक्षश् च नित्यशः ।
सूतः प्रजापतिस् त्व् अन्यो मायारूपी जनार्दनः ॥
वक्ता वेदादिशास्त्राणां पुराणानां च स स्मृतः ।
अन्य इति नाम्नैव सूतो न तु जात्येत्य् अर्थः । उग्रादिसञ्ज्ञावत् । सूतपुत्र उग्रश्रवाः सौतिः पौराणिको ऽपि । तथा ।
क्षत्रियाद् वैश्यकन्यायां माहिष्यो नाम जायते ।
नक्षत्रगाननृत्यज्ञो धनानां परिरक्षिता ॥
राज्ञस् तु शूद्रकन्यायाम् उग्राख्यो नाम जायते ।
दुर्गान्तःपुरकोशानां रक्षां विप्रेषु वाचनम् ॥
उग्रो दुष्टश् च दस्यूनां कश्चिद् अन्यो ऽपि विद्यते ।
सूतमाहिष्यकोग्रास् तु त्रयो वर्णचतुष्टयात् ॥
एकैकशस् तु चतुरो जनयन्ति सुतान् अपि ।
आत्मना सह राज्ञा तु तत्र षोडश सन्ति ते ॥
देवलः ।
देवब्राह्मण्बालस्त्रीदीनान्धकृपणैस् तु यत् ।
उपार्जितं धनं तस्य परित्यागात् तु दस्यवः ॥
ब्राह्मण्याम् अथ वैश्येन वैदेहो नाम जायते ।
एते द्वादश विद्यन्ते मूलप्रकृतिभिर् युताः ॥
भवन्ति पञ्चदश वै विप्रः षोडशको भवेत् ।
रक्षिता राजदुर्गाणां तद्वृत्तिपरसंयुतः ॥
क्षत्रियायां तु वैश्येन मुचुको1 नामतो भवेत् ।
जले स्थले च यो मार्गस् तत्र रक्षां करोति सः ॥
राजदूतो वाद्यजीवो भवेत् कीर्तिप्रकाशकः ।
अयम् एव बन्दी ।
वैश्येन शूद्र्यां करणो वर्णः स्यात् प्रकरोति सः ॥
दुर्गान्तःपुरगञ्जानां रक्षां ब्राह्मणसङ्ग्रहम् ।
गञ्जा तु मदिरागृहम् इत्य् अमरः । सङ्ग्रहो रक्षणम् ।
वैदेहमागधाव् एतौ करणश् चेति ते त्रयः ॥
वर्णेभ्यः पूर्ववत् पुत्रान् जनयन्ति विमोहिताः ।
ते च षोडश जायन्ते मूलप्रकृतिभिः सह ॥
दुष्टानि वैश्यकर्माणि ते ऽपि कुर्वन्ति दस्यवः ।
ब्राह्मण्याम् अथ शूद्रेण चण्डालः स्याज् जुगुप्सितः ॥
स चक्रे राजमार्गादिशोधनं च कुकर्म च ।
राजस्त्रियां च शूद्रेण क्षत्ता मैन्दश् च जायते ॥
श्वाविध्यम् अथ गोधानां स चक्रे वधबन्धनम् ।
आयोगवस् तु शूद्रेण वैश्यायां तु भवेच् च सः ॥
तक्षा स्थपतिर् इत्य् उक्तो राज्ञां वेश्मकरः सदा ।
दारुतक्षकस् तक्षा । पाषाणभेदकः स्थपतिर् इति द्वाव् अप्य् एतद् भेदौ ।
आयोगवस् तथा क्षत्ता चण्डालश् चापि ते त्रयः ॥
चतुर्वर्णासु तनयान् जनयन्त्य् अथ पूर्ववत् ।
शूद्रेण सहितास् ते तु सन्ति षोडश सङ्ख्यया ॥
दुष्टानि यानि कर्माणि ते ऽपि कुर्वन्ति दस्यवः ।
एते विप्रादयो ज्ञेयास् चतुःषष्टिषु योनिषु ॥
उत्पादयन्ति सदृशान् सङ्कीर्णान् अन्ययोनिषु ।
अत्र स्वभिन्नासु त्रिषष्टिभिर् जनितास् तासु वा तैर् जनिता एकैकस्य षड्विंशत्यधिकं शतं भेदाः । ते च चतुःषष्टिभिर् गुणिताः अष्टसहस्राणि चतुःषष्टिश् च भवन्ति । तेषां वर्णसङ्कीर्णसङ्करेणान्योन्यसङ्कराच् चानन्त्यं भवति । विस्तरापत्तेर् नोच्यते । मनुः ।
शनकैस् तु क्रियालोपाद् इमाः क्षत्रियजातयः ।
वृषलत्वं गता लोके ब्राह्मणातिक्रमेण च ॥
व्यभिचारेण वर्णानाम् अवेद्यावेदनेन च ।
सङ्गेन धर्मत्यागेन जायते वर्णसङ्करः ॥
सङ्गो म्लेच्छादिनीचसङ्गतिः । एतेषु कांश्चिद् आह मनुः ।
प्रसाधनोपचारज्ञम् अदासं दासजीविनम् ।
सैरन्ध्रं वागुरावृत्तिं सूते दस्युम् अयोगवी ॥
[२७६] वैश्यायां शूद्रजाऽयोगवी । दस्योर् वर्णसङ्करजान् सूते । ते च दस्यवो मनूक्ताः ।
पौण्ड्रकाश् चोण्ड्रद्रमिडाः काम्बोजा यवनाः शकाः ।
पारदाः पह्लवाश् चीनाः किराता दरदास् तथा ॥
मुखबाहूरुजातानां या लोके जातयो बहिः ।
म्लेच्छवाचोऽर्यवाचो वा सर्वे ते दस्यवः स्मृताः ॥
एते म्लेच्छभेदाः । प्रसाधनं मण्डनम् । उपचारो ऽङ्गमर्दनादि । वसिष्ठस् तु वृत्त्यन्तरम् आह** ।**
सैरन्ध्राणां सुरामद्यसीधुकरणं तद्विक्रयः पुष्पफलशाकविक्रयश् च । इति ।
मनुः ।
मैत्रेयकं तु वैदेहो माधूकं सम्प्रसूयते ।
नॄन् प्रशंसत्य् अजस्रं यो घण्टावादो ऽरुणोदये ॥
भवन्त्य् आयोगवीष्व् एते इति मनूक्तेर् वैश्यायां शूद्रजायोगव्यां विप्रायां वैश्यजाद् वैदेहान् मैत्रेयं सूते । स एव माधूकः ।
निषादो मार्गरं सूते दाशं नौकर्मजीविनम् ।
कैवर्तम् इति यं प्राहुर् आर्यावर्तनिवासिनः ॥
क्षत्रायां शूद्रजान् निषादात् प्रागुक्तायोगव्यां दश इत्य् अर्थः ।
ब्राह्मणाद् इत्य् अनुवृत्तौ मनुः ।
आभीरो ऽम्बष्ठकन्यायाम् आयोगव्यां तु धिग्वणः ।
वैश्यायां शूद्रजायोगवी । तस्यां विप्रजो धिग्वणः । वैश्यायां विप्रजाम्बष्ठी । तस्याम् विप्राद् आभीरः । अयं गोपालानुलोमः प्रसङ्गाद् उक्तः । जातिविवेके ।
वर्तनं गोमहिष्यादि पोषयेत् तृणवारिभिः ।
पयो दधि घृतं तक्रं विक्रेतव्यं धनार्थिभिः ॥
मूलम्

मराठी
याञ्चे स्वरूप व वृत्ति साङ्गतो.
याञ्चे स्वरूप व वृत्ति आदिपुराणाम्त साङ्गितली आहे. जसे-" ब्राह्मणापासून क्षत्रि यस्त्रीचेठायीं जो उत्पन्न होतो त्याला मूर्धावसिक्त ह्मणतात, त्याने मनुष्याञ्ची चिकित्सा व युद्धादि क्षत्रियकर्मे ही करावी. ब्राह्मणापासून शूद्रकन्येचे ठायीं होतो त्यास निषाद अथवा पारसव ह्मणतात. त्याने मासे मारावे. ब्राह्मणापासून उग्रकन्येचे ठायीं उत्पन्न होतो त्यास अम्बष्ठ ह्मणतात; त्यानें मनुष्याची रोगचिकित्सा करावी. वैश्यस्त्रीचे ठायीं ब्राह्मणोत्पन्न १ व शूद्रीचेठायीं क्षत्रियोत्पन्न १–असे २प्रकारचे अम्बष्ठ आहेत. अम्बष्ठीचेठायीं ब्राह्मणापासून जो पुत्र उत्पन्न होतो त्यास आभीर (गौळी ) ह्मणतात. त्याने गायीञ्चे संरक्षण करावेम्; आणि राजाच्या घराम्त चोपदारी करावी. आयोगवीचेठायीं ब्राह्मणापासून उत्पन्न होतो त्यास धिग्वण अथवा चर्मकार ह्मणतात. तो अति निन्द्य चर्मावर निर्वाह करितो. हे सर्वहि मातृसधर्मे आहेत. पितृसधर्मे नाहीत. मूर्धावसिक्त, पारसव अम्बष्ठ, आभीर, चर्मकार हे ५ पूर्वी साङ्गितले आहेत व अवरोट ६ वा. मूर्धावसिक्त, अम्बष्ठ व निषाद या तिघाम्पासून ब्राह्मण, क्षत्रिय वैश्य व शूद्र याञ्च्या स्त्रियाञ्चेठायीं पुत्र उत्पन्न झाले तर प्रत्यकी ४ । ४, मिळून-१२, व मूळचे ते ३ मिळून १५, व विप्र १ मिळून-१६ होतात. मूर्धावसिक्तापासून ब्राह्मणीचेठायीं उत्पन्न झालेला प्रतिलोम १, व क्षत्रियादिकाञ्च्या स्त्रियाम्पासून उत्पन्न झालेले अनुलोम ३ मिळून १, असे प्रत्येकी अनुलोम व प्रतिलोम १२ व स्वतः ते ३ मिळून १५, ते व्रात्य विप्रासह १६ होतात. किंवा १६ वा अवरोट धरावा. या सर्वास दस्यु अशी सञ्ज्ञा आहे. त्यान्नी आप ल्या आईच्या वर्णास विहित असतील ती कर्मे करून निर्वाह करावा. क्षत्रियापासून विप्र कन्येचेठायीं उत्पन्न होतो त्यास सूत ह्मणतात. त्यान्नं राजाचे अश्वसारथ्य करावेम्. व राजकार्यकुशल असावे. यावरून, नैमिपारण्याम्त दीर्घसत्री ऋषीम्स पुराण साङ्ग णारा सूत यान्तीलच असे समजू नये. कारण, “मायेने मूतरूपी साक्षात् विष्णू चा अवतार झालेला, ज्यास प्रजापति ह्मणत असत, व जो वेदादि सर्व शास्त्रपुरा णाञ्चा वक्ता अमें ह्मणतात, तो पूर्वोक्त सूतांहून भिन्न आहे.’ अर्थात् नांवानं मात्र सूत. परन्तु, जातीने तसा नाही. जशा उग्रादि यथार्थ सञ्ज्ञा आहेत तद्वत् त्याची. सूत ही सञ्ज्ञा अन्वर्थक नाही. कारण,-“महाभारताम्त सूताचा (रोमहर्पणाचा) पुत्र1 उग्रश्रवा सौति पौराणिक.’’ असें ह्मटले आहे.
यावरून, त्याच्या पित्याचे नाम्व सूत होते ह्मणून त्यास सौति ह्मणत असत. “तसेम्च क्षत्रियापासून वैश्यकन्येचेठायीं उत्पन्न होतो त्यास माहिप्य ह्मणतात. तो-नक्षत्रे, गायन, नाच, इत्यादि जाणणारा, व द्रव्यरक्षण करणारा होय. क्षत्रियापासून शूद्रकन्येचेठायीं उत्पन्न होतो त्यास उग्र ह्मणतात. तो किल्ले, अन्तःपुर व भाण्डारगृह याञ्चा रक्षक होतो. याहून उग्रनांवाचा दम्यूत गणले ला कोणी दुष्ट निराळाच आहे. सूत, माहिप्य, व उग्र या तिघाम्पासून प्रत्येकी
मराठी
ब्राह्मणादि ४ वर्णाञ्च्या स्त्रियाञ्चेठायीं झालेले पुत्र ४४ मिळून-१२, व हे ३ मि. ळून १५ व व्रात्य क्षत्रिय १ असे १६ होतात." देवल ह्मणतो-“देव, ब्राह्मण, बाल, स्त्रिया, दीन, आन्धळे व कृपण यांहीं में सम्पादित द्रव्य, त्याचा हे अपहार क रितात ह्मणून या पूर्वोक्ताम्स दस्यु ह्मणावें.' ब्राह्मणीचेठायीं वैश्यापासून वैदेहनामक पुत्र होतो. हे पूर्वोक्त प्रकारे १२ व मूळचे ३ मिळून-१५ व ब्रात्य विप्र १ असे १६ होतात. राजाचे किल्ल्याचे रक्षण करणारा व त्यावर निवाह करणारा असा क्षत्रियेचेठायीं वैश्या पासून मुचुप ( क ) नांवाचा पुत्र होतो. त्याने राजाज्ञेनें उदक व स्थल यांवर शāस येण्याचे ने मार्ग असतात त्याञ्चे रक्षण करावे. दूतत्व, राजापासीं वायें वाजविणे, व त्याची कीर्ति गाणे इत्यादि कर्मे करावी. यासच बन्दि ( भाट ) ह्मणतात. वैश्यापासून शूद्रीचे ठायीं करण नामक होतो. त्याने राजाच्या आज्ञेने किल्ले, अन्तःपुर, दारूञ्चे[^२] घर, व ब्राह्मण याञ्चे रक्षण करावे. हे वैदेह, मागध, व करण तिघेहि ब्राह्मणादि चारवर्णाञ्च्या स्त्रियाम्पासून १२ प्रकारचे पुत्र उत्पन्न करितात.व स्वतः ते ३ व व्रात्य वैश्य १ मिळून १६ याम्स दस्यु ह्मणतात. हे सर्व निन्द्य वैश्याञ्ची कर्मे करितात. ब्राह्मणीचे ठायीं शूद्रापासून उत्पन्न होतो तो अतिशूद्र ( महार ) त्याने मोठे मार्ग झाडणे लोटणे इत्यादि व अन्य कुत्सित कर्मे करावी. क्षत्रियस्त्रीचेठायीं शूद्रापासून होतो त्यास क्षत्ता अथवा मैम्द ह्मणतात. तो बराबर कुत्रे घेऊन शिकार करून-साळयी, घोरपड इत्यादिकाञ्चे बन्धन व नाश करितो. “वैश्येचेठायीं शूद्रापासून आयोगवनामक पुत्र होतो. त्यास तक्षा ( सुतार ) अथवा स्थपति ( कारागीर ) असें ह्मणतात. त्याने राजाञ्च्या व इतराञ्च्या घराञ्ची वगैरे कामें करावी.’ या दोनहि नांवाञ्चा सूक्ष्म भेद असा आहे की,- तक्षा ह्मणजे लाङ्कुड तासणारा2, व दगडकाम करणारा स्थपति3. हे दोनही एका आयोगवाचेच पोटभेद आहेत.
आयोगव, क्षत्ता व चाण्डाल हे ३ चे चतुर्वर्णस्त्रि याम्पासून १२ प्रकारचे पुत्र उत्पन्न करितात. व ते आपण ३, व व्रात्यवैश्य १ मिळून १६ होतात. एकन्दर-व्रात्य ब्राह्मण, क्षत्रिय, वैश्य व शूद्र याम्पासून झालेले प्रत्येकी १६ भेद मिळून ६४ होतात. हे आपल्याहून भिन्नवर्ण स्त्रियाञ्चे ठायीं शेङ्कडों सङ्करजातीय उत्पन्न करि ‘तात.” येथे आपल्यावाञ्चून, ६३ जातीच्या स्त्रियाञ्चेठायीं यानी उत्पन्न केले, अथवा त्यानी त्याञ्चेठायीं उत्पन्न केले असतां एकेकाचे १२६ भेद होतात. ते ६४ नी गुणल्यास ८०६४ जाति होतात. त्यान्नीहि स्ववर्णभिन्न स्त्रियाञ्चेठायीं पुत्र उत्पन्न केले व त्याञ्चा अन्योन्य सङ्कर झाल्यास अनम्त जाति होतात. त्या विस्तारभयास्तव येथे साङ्गत नाही. मनु ह्मणतो-“हळूहळू कमलोप केल्याने ह्या क्षत्रियजाति शूद्रत्वाला पावल्या आहेत. ब्राह्मणाञ्च्या अतिक्रमाने व व्यभिचार आणि अग्राह्य स्त्रियाञ्चे ग्रहण, म्लेच्छादि काञ्चा सङ्ग, स्वधर्माचा त्याग इत्यादि कारणाने वर्णसङ्कर होतात.” याम्पैकी कित्येक मनूनें साङ्गितले आहेत. ते-“वेणीफणी व उपचार करण्यास जाणणारा, दास नसून सेवावृ त्तीने निर्वाह करणारा, व हत्ती मृग इत्यादिकाम्स धरणारा, अशा सैरन्ध्रनामक दस्यूम्स अयोगवी प्रसवते. (वैश्यस्त्रीचेठायीं शूद्रोत्पन्न कन्येस अयोगवी ह्मणतात.) इजपासून दस्युसंयोगाने वर्णसङ्करज होतात. ते दस्यु मनूने साङ्गितले आहेत. जसे-“पौण्ड्रक, ओण्डू, द्रमिड, काम्बोज, यवन, शक, पारद, पल्हव, चीन, किरात, दरद, हे ११ दस्यु होत. ब्राह्मण, क्षत्रिय व वैश्य याम्पासून ज्या अन्य सङ्करजाति होतात, त्याम्पासून याञ्ची उत्पत्ति आहे. ह्याम्त कित्येक म्लेच्छभाषा व कित्येक आर्याञ्ची भाषा बोलणारे आहेत. हे म्लेच्छभेद साङ्गितले आहेत. वसिष्ठाने तर,-सैरन्ध्राञ्ची अन्य वृत्ति साङ्गितली आहे. ती-“त्यान्नी-सुरा, मद्य व सीधु करावी व विकावी. अथवा-पुष्प, फल, मूल, शाक याञ्चा विक्रय करावा.” मनु ह्मणतो-“वैदेहापासून, आयोगवीचेठायीं मैत्रेयनामा होतो. यासच माधूक ह्मणतात. तो नेहेमी राजादिकाञ्ची स्तुति करणारा व पहाण्टेस घण्टा वाजविणारा होय. (क्षत्रियस्त्रीचे ठायीं शूद्रापासून झालेल्या )-निपादापासून पूर्वोक्त आयोगवीचेठायीं दाश (अम्बी) नामक पुत्र उत्पन्न होतो. हा नित्य तरी (नाव) वाहून पोट भरणारा होय. यास आर्यावर्तांत4 राहणारे लोक कैवर्त (धीवर कोळी) अथवा गाबीत ह्मणतात.
ब्राह्मणापासून झालेले या अनुवृत्तीचेठायीं मनु ह्मणतो-” ब्राह्मणापासून अम्बष्ठी-( वैश्यस्त्रीचेठायीं विप्रापासून झालेली) चेठायीं आभीर, व आयोगवीचेठायीं धिग्वण नामक उत्पन्न होतात. हा गोपाल अनुलोम होय. प्रसङ्गाने येथे साङ्गितला आहे. याची वृत्ति जातिविवेकाम्त साङ्गितली आहे. जसे-” याने चारा पाणी देऊन गायी व मशी पोसाव्या. व दूध, दहि, ताक, तूप इत्यादि द्रव्य पाहिजे असल्यास विकावें.”