०९ शूद्र-सम-सङ्करजाः

विश्वास-प्रस्तुतिः

अथ शूद्रसमान् वक्तुं सङ्करजा उच्यन्ते ।

याज्ञवल्क्यः

विप्रान् मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियां ।
अम्बष्ठः शूद्र्याम् [२६२] निषादो जातः पारसवो ऽपि वा ॥

वैश्याशूद्र्योस् तु राजन्यान् माहिष्योग्रौ सुतौ स्मृतौ ।
वैश्यात् तु करणः शूद्र्यां विन्नास्व् एष विधिः स्मृतः ॥

एवं मूर्धावसिक्ताम्बष्ठपारसवमाहिष्योग्रकरणाः षड् अनुलोमाः, मातृजात्युक्तकर्मभाजश् च । एते हीनवर्णासु जाताः । एतासु चोत्कृष्टजा अनुलोमाः । नीचजाः प्रतिलोमाः । मनुः

ब्राह्मणाद् उग्रकन्यायाम् आवृतो नाम जायते ।

शूद्रायां क्षत्रजा उग्राः । याज्ञवल्क्यः

माहिष्येण करण्यां तु रथकारः प्रजायते ।

क्षत्राद् वैश्यायां माहिष्यः । वैश्याच् छूद्रायां करणी तस्यां रथकारः । एषां वृत्तिर् आह स्मृतिकौमुद्यां वसिष्ठः

मूर्धावसिक्तानां हस्त्यश्वरथशस्त्रशिक्षास्त्रधारणं च । मणिमन्त्रौषधैः प्राणिरक्षणम् अम्बष्ठानाम् । माहिष्याणां गीतनृत्यनक्षत्रैर् जीवनं सस्यरक्षा च । पारसवोग्रकरणानां द्विजशुश्रूषा धनाध्यक्षता राजसेवा दुर्गान्तःपुररक्षा च । रथकारस्य निधिज्ञानं हस्त्यश्वसारथ्यवर्धनपोषणदमनादि ।

शङ्खः

क्षत्रियवैश्यानुलोमानन्तरोत्पन्नजो रथकारस् तस्याध्ययनेज्यादानोपनयन-संस्काराश् चाप्रतिषिद्धाः । रथसूत्रवास्तुविद्याध्ययनवृत्तिता चेति ।

जातिविवेके

शूद्रां शयनम् आरोप्य ब्राह्मणश् चेत् कथञ्चन ।
जनयेद् ग्राम्यधर्मेण तस्यां पारसवं सुतम् ॥
महाशूद्रः स विख्यातः शूद्रेभ्यः किञ्चिद् उत्तमः ।
स्वर्णकारस्य तस्येह स्नानं धौत्रं पवित्रकम् ॥
सर्वं शूद्रस्य धर्मेण वर्तनं तस्य जीविका ।

तथा

कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी ।
राज्ञा विप्रस् तु कर्तव्यो दाप्यश् चोत्तमसाहसम् ॥

उशनाः

क्षत्रियाविप्रसंयोगाज् जातो मूर्धावसिक्तकः ।
राजन्यः क्षत्रधर्मेभ्यो ऽभ्यधिकः सम्प्रकीर्तितः ॥
आथर्वणक्रियां कुर्वन् नित्यनैमित्तिकीं क्रियाम् ।
अश्वं रथं हस्तिनं वा वाहयेद् वै नृपाज्ञया ॥
सेनापत्यं च भैषज्यं कुर्याच् जीवेच् च वृत्तिषु ।
आयुर्वेदम् अथाष्टाङ्गं तत्रोक्तं धर्मतश् चरेत् ॥
ज्योतिषं गणितं वापि कायिकीं वृत्तिम् आचरेत् ।
वैश्यायां विधिना विप्राज् जातो ह्य् अम्बष्ठ उच्यते ॥
कृष्याजीवो भवेत् तस्य तथैवाग्रे प्रनर्तकः ।
अन्येभ्यो वैश्यजातिभ्यः षट्कर्मादधिकं स्मृतम् ॥
षट् कर्माण्यपि तस्यैव कर्मत्रितयमेव च ॥
नरवाजिगजादीनां चिकित्सा तस्य जीविका ॥

वाग्भट्टः

सप्त वा पञ्च वा तिस्रो यो न वेत्ति हि संहिताः ।
राज्ञा तस्य कुवैद्यस्य छेत्तव्यो दक्षिणः करः ॥

मनुः

प्रायश्चित्तं चिकित्सां च ज्योतिषं धर्मनिर्णयम् ।
विना शास्त्रेण यो ब्रूयात् तम् आहुर् ब्रह्मघातकम् ॥

अयं शस्त्रवैद्यः ।

वैश्यायां क्षत्रियाज् जातो माहिष्यस् त्व् अनुलोमजः ।
अष्टाधिकारनिरतश् चतुःषष्ट्यङ्गकोविदः ॥
व्रतबन्धादिकास् तस्य क्रियाः स्युः सकला विशः ।
ज्योतिषं शाकुनं शास्त्रं स्वरशास्त्रं च जीविका ॥

विश्वम्भरशास्त्रे

शूद्र्यां जातस् तु वैश्याद् वै करणो लिपिलेखकृत् ।

याज्ञवल्क्यः

जात्युत्कर्षो युगे ज्ञेयः सप्तमे पञ्चमे ऽपि वा ।
व्यत्यये कर्मणां साम्यं पूर्ववच् चाधरोत्तरम् ॥

जात्युत्कर्ष उत्कृष्टजातिप्राप्तिः सप्तमे । अपशब्दात् षष्ठे पञ्चमे वा ज्ञेयः । अयम् अर्थः । विप्रोढा शूद्रा कन्यां सूते । सापि तदूढान्याम् इति सप्तमं विप्रं [२६३] सूते । एवं विप्रोढवैश्याजन्या कन्यां षष्ठं विप्रम् । विप्रोढक्षत्रियाजन्या पञ्चमम् । क्षत्रियाच् छूद्रोत्पन्ना षष्ठं क्षत्रियम् । वैश्यजा पञ्चमं वैश्यम् इति पूर्वार्धार्थः । एवं विप्रस्य क्षात्रवृत्त्याऽपत्यपरम्परया जीवने पञ्चमः क्षत्रियः । वैश्यवृत्तौ जीवने षष्ठो वैश्यः । शूद्रवृत्तौ सप्तमः शूद्रः । क्षत्रस्य वैश्यवृत्तौ पञ्चमो वैश्यः । शूद्रवृत्तौ षष्ठः शूद्रः । वैश्यस्य शूद्रवृत्तौ पञ्चमः शूद्र इति ।

मूलम्

मराठी

यानन्तर शूद्रसम साङ्गण्याकरितां सङ्करजातीय साङ्गतो.

याज्ञवल्क्य ह्मणतो -" ब्राह्मणापासून, अविवाहित क्षत्रियस्त्रीचेठायीं झालेला मूर्धाव सिक्त व वैश्यस्त्रीचेठायीं झालेला अम्बष्ठ, शूद्रीचेठायीं झालेला निषाद अथवा पारसव या नांवाञ्चे पुत्र होतात. वैश्य व शूद्रस्त्रियाञ्चेठायीं क्षत्रियापासून झालेल्याप्त अनुक्रमें माहिष्य व उग्र अशा सञ्ज्ञा आहेत. वैश्यापासून शूद्रीचेठायीं झालेल्यास करण ह्मणतात. हा विधि विवाहितभिन्नाम्पासून झालेल्याम्स लागू आहे." असेञ्च-मूर्धावसिक्त, अम्बष्ठ, पार सव, माहिप्य, उग्र व करण हे ६ अनुलोम आहेत. याम्स त्याञ्च्या मातृजातीस जी कर्मे उक्त असतील ती करण्याचा अधिकार आहे. हे हीनवर्ण स्त्रियाञ्चेठायीं झालेले. याञ्चेठायीं उत्कृष्ट वर्णापासून झालेले अनुलोम व नीचापासून झालेले प्रतिलोम समजावे. मनु ह्मणतो-" विप्रापासून उग्रकन्येचेठायीं होतो त्यास आवृत ह्मणावें.” याज्ञवल्य ह्मणतो-" माहिप्या-( क्षत्रियापासून वैश्येचेठायीं उत्पन्न झालेला ) पासून करण (वैश्या पासून शूद्रीचेठायीं झालेला ) स्त्रीचेठायीं उत्पन्न होतो त्यास रथकार ( सुतार ) ह्मणावे. याची वृत्ति स्मृतिकौमुदीम्त वसिष्ठाने साङ्गितली आहे. ती-" पूर्वोक्त मूर्धा वसिक्तान्नी-हत्ती, घोडे व रथ यांवर बसणे, शस्त्रविद्या शिकविणे, अस्त्रधारण, ही कर्मे करावी. मणि, मन्त्र व औषधीन्नी प्राणिमात्राचे रक्षण, ही कर्मे करून पोट भरावेम्. अम्बष्ठ व माहिष्याने-गायन, नाच व आकाशान्तील नक्षत्राञ्चे ज्ञान आणि शेताची रा खण यांवर निर्वाह करावा. पारसव, उग्र व करण या तिघान्नी-द्विजसेवा, जामदा री, राजसेवा, आणि किल्ले कोट व नगरजनानखाना इत्यादिकाञ्चे रक्षण करावेम्. स्थ काराने-ठेव साङ्गणे, हत्ती व घोड्यांवर बसणे, सारथ्य करणे, हत्ती घोडे इत्यादिकाम्स वाढविणे, त्याञ्चे पोषण व दमन करणे इत्यादि कर्मे करून पोट भरावेम्. " रथका रांविषयी शङ्ख ह्मणतो-" क्षत्रिय व वैश्योत्पन्न अनुलोमाञ्चा ( माहिष्य पुरुष व क रणी स्त्रीचा) पुत्र जो रथकार त्यास-अध्ययन, यज्ञ, दान, व उपनयनादि संस्कार हे निषिद्ध नाहीत. सारथ्य, निधिज्ञान, विद्या व अध्ययनांवर वृत्ति चालविणे हे त्यास योग्य आहे." जातिविवेकान्त-" जर, कधीतरी विप्र शूद्रस्त्रीला श यनावर घेऊन ( सम्भोग करून ), ग्राम्यधर्मानें पारसवनामक पुत्र उत्पन्न करील; तर त्यास महाशूद्र ह्मणावेम्. तो शूद्राहून कांही उत्तम आहे, त्यालाच सोनार मणतात. त्यास–स्नान, पट्टवस्त्र व पवित्रधारण विहित आहे. त्याने सर्व प्रकारे शूद्रधर्माने वागून सुवर्णाच्या व्यवहाराने पोट भरावे. तसेच हा त्या व्यवहाराम्त क पट करील ( खोटे अलङ्कार घडवील ) व पक्ष्यादिकाञ्चे माम्स विकील तर, राजाने त्याचे नाक कापावं व उत्तमसाहस1 दण्ड करावा.’ असे साङ्गितले आहे.

उशना मणतो -“क्ष त्रियस्त्रीला विप्रसंयोगापासून झालेला मूर्धावसिक्तक. तो क्षत्रियाहून किञ्चित् अधिक आहे. त्याने अथर्वणवेदोक्त नित्यनैमित्तिक कर्मे करावी. हत्ती, रथ व घोडे राजाज्ञेनें वहावे. सेना पत्य किंवा वैद्यकी करावी. अष्टाङ्ग आयुर्वेद (वैद्यशास्त्र ) व त्याम्त साङ्गितलेला प्रकार धर्मतः आचरण करावा. अथवा ज्योतिष, गणितविद्या शिकावी. ही त्यास देहनिवाहक कम होत.” “वैश्यस्त्रीचेठायीं ब्राह्मणापासून उत्पन्न होतो त्यास अम्बष्ठ ह्मणतात. त्याने शेती करावी किंवा राजापुढे नाचावेम्. अथवा मनुष्य, घोडे, हत्ती याञ्ची चिकित्सा करावी. ही त्याची जीविका होय.” वैद्य कसा असावा ? याविषयीं वाग्भट्ट ह्मणतो–“७ । ५ अथवा ३ वैद्यशास्त्र सम्बन्धी संहिताग्रम्थ उत्तमप्रकारे जो जाणत नसेल तो कुवैद्य होय. तो औषध देईल तर राजाने त्याचा उजवा हात तोडावा.’’ मनु ह्मणतो –“प्रायश्चित्त, चिकित्सा, ज्योतिप आणि धर्मशास्त्राचा निर्णय, हीं शास्त्रज्ञानावाञ्चून जो साङ्गतो त्यास ब्रह्मघातकी ह्मणतात.” हा शस्त्र वैद्य होय. “वैश्यस्त्रीचेठायीं क्षत्रियोत्पन्न माहिप्यनामक अनुलोम उत्पन्न होतो तो अष्टाधिकार तत्पर,व६४ अङ्गें (कला) जाणणारा होय. वैश्यवत् व्रतबन्धादिक सर्व कर्मे त्यास विहित आहेत. ज्योतिप, शाकुन व सङ्गीत या शास्त्रांवर त्याने निर्वाह करावा.’ विश्वम्भरशास्त्रान्त-“शूद्रीने ठायीं क्षत्रियापासून उत्पन्न होतो त्यास उग्र ह्मणतात. त्याची युद्ध व शस्त्रादिक ही जीविका होय. त्याने शस्त्रास्त्रन्यासाविषयीं व युद्धाविषयीं कुशल अमावम्. त्या वृत्तीनं निर्वाह करावा. यास देशभात- रजपूत’ असे ह्मणतात. याने शूद्रवत् वागावे. शूद्रीचठायीं वैश्यापासून उत्पन्न होतो त्यास करण ह्मणतात. याने देशलिपी लिहिण्याचे ( काकुनीच ) काम करावं.” असं साङ्गितलं आहे. याज्ञवल्क्य ह्मणतो- “या युगी ७ व्या अथवा ५ च्या पिढीम अनुक्रमें कर्मव्यत्यय– ( उत्तम कर्म ) करीत गेल्यास सङ्कर वर्णामहि शुद्धवर्णव प्राप्त होते. व अधम कर्म करीत गेल्यास अधमत्व येतं.” येथे जात्युत्कर्ष2 शब्दा वरून ७ व्या पिढीस उत्तमत्व, व अपिशब्दावरून ६ व्या व ५ व्या पिढीस उत्तमजा तित्वाची प्राप्ति होते असे सिद्ध होते.

याचा अभिप्राय अमा आहे की,-एका ब्राह्मणापा सून विवाहित शूद्रीस कन्या झाली. तिन ब्राह्मणामच वरना. तिलाही कन्या झाटी आणि तिनही ब्राह्मण वरला. असा क्रम चालल्याम ७ व्या पिढीस तिची सन्तति ब्राह्मणच होते. असेञ्च-ब्राह्मणाने विवाहित वैश्यत्रीचेठायीं कन्या उत्पन्न कली. तिनं पुनः ब्राह्मण वरला. तिच्या कन्येनं पुनः ब्राह्मण वरन्या. अशा क्रमानं ६ व्या पि टीस ब्राह्मण्य मिळते. अमञ्च-ब्राह्मणानं विवाहित अशा क्षत्रियकन्येचेठायीं कन्या आली तर, तिच्या पूर्ववत् विवाहक्रमाने ५ व्या पिढीस ब्राह्मण्य मिळन्त. असेच क्षत्रियानं विवा हित अशा शूद्रीपासून उत्पन्न झालेली कन्या क्षत्रियासच दिली. आणि पुढे तसाच क्रम चालविला तर ६ व्या पिढीस क्षत्रियत्व मिळते. वैश्यानं विवाहित शूद्रीपासून उत्पन्न झालेल्या कन्येचा वैश्याशीच विवाह केला आणि पुढे तोच क्रम चालविल्यास ५ व्या पिढीस वैश्यत्व मिळते. हा वरील वचनाच्या पूर्वार्धाचा अर्थ आहे. तसम्च ब्राह्मण - परम्परेनें क्षत्रियकर्मावर निर्वाह करीत गेल्यास ५ वा पुरुष क्षत्रिय होतो. असाच वै श्यवृत्तीने व शूद्रवृत्तीने वागत गेल्यास ६ वा वैश्य, व ७ वा पुरुष शूद्र होतो. असम्च क्षत्रिय असून, वैश्य व शूद्रवृत्तीनं वागत गेल्यास ५ वा वैश्य व ६ वा शूद्र होतो. वैश्य पूर्ववत् शूद्रवृत्तीने वागत असल्यास ५ वा पुरुष शूद्र होतो.

॥ इति अनुलोमप्रकरणम् ॥

विश्वास-प्रस्तुतिः

[२६५]

अथ प्रतिलोमजाः ।

कल्पतरौ कात्यायनः

नियोगोत्पादनं कुर्याद् यथोक्तं तद्विशुद्धये ।
द्विजस्त्रीषु च धर्मो ऽयं शूद्रस्यैतत् सदा भवेत् ॥

शूद्रेषु न नियोग इत्यर्थः । बृहस्पतिः

उक्तो नियोगो मनुना निषिद्धः स्वयम् एव तु ।
युगह्रासाद् अशक्यो ऽयं कर्तुं मर्त्यैर् विधानतः1

अनेकधा कृताः पुत्रा ऋषिभिर् ये पुरातनैः ।
न शक्यन्ते ऽधुना कर्तुं शक्तिहीनैर् इदन्तनैः ॥

तत्रैव हारीतः

स्वैरिणी च पुनर्भूश् च रेतोधाः कामचारिणी ।
सर्वभक्षा च विज्ञेयाः पञ्चैताः शूद्रयोनयः ॥
एतासां यान्य् अपत्यानि उत्पद्यन्ते कदाचन ।
न तान् पङ्क्तिषु युञ्जीत न ते पङ्क्त्यर्हकाः स्मृताः ॥

रेतोधाः कुण्डमाता । कामचारिणी चतुर्भ्यो ऽधिकपुरुषगा । सर्वभक्षा सुरापी ।

याज्ञवल्क्यः ।

ब्राह्मण्यां क्षत्रियात् सूतो वैश्याद् वैदेहकस् तथा ।
शूद्राज् जातस् तु चाण्डालः सर्वधर्मबहिष्कृतः ॥
क्षत्रिया मागधं वैश्याच् छूद्रात् क्षत्तारम् एव च ।
शूद्राद् आयोगवं वैश्या जनयामास वै सुतम् ॥

मागधो बन्दी । क्षत्ता निषादो भिल्ल इति प्रसिद्धः । आयोगवः पुल्कसः । तद् आह हारीतः

क्षत्रियायां वैश्यशूद्रौ बन्दिनिषादौ जनयतो वैश्यायां शूद्रः पुल्कसान् इति ।

व्यासो ऽपि ।

शूद्रान् निषादो मत्स्यघ्नः क्षत्रियायां व्यतिक्रमात् ।

तेन द्वौ निषादौ । एकः प्राग् उक्तो ऽनुलोमः । अयं चैकः । जातिविवेके

क्षत्रिया शूद्रसंयोगात् क्षत्तारं जनयेत् सुतम् ।
निषाद इति विख्यातः सर्ववर्णबहिष्कृतः ॥
शूद्राचारविहीनश् च पापधीनिरतः सदा ।
वागुरापाशपाणिस् तु मृगबन्धनकोविदः ॥
आरण्यपशुजातीनाम् अन्तकश् च वनेचरः ।
क्रोधान्वितो मांसवृत्त्या तया जीवेत् सदैव हि ॥
घण्टां पापर्द्धिकां कुर्याद् रात्रौ विस्मयकारिणीम् ।
द्विधा च मृगया प्रोक्ता व्योमभूचारिणाम् इह ॥
विक्रयं मधुनः कुर्याद् धनम् इच्छन् समृद्धये ।

यमस् तु मागधनिषादयोः सञ्ज्ञान्तरम् आह ।

क्षत्रियायां तु वैश्येन मुचुपो नाम जायते ।
शूद्रेण जायते मद्गुः क्षत्रिया यत्र मुह्यति ॥

मोहो मैथुनम् । स्मृत्यन्तरे

क्षत्रिया मागधं वैश्याज् जनयामास वै सुतम् ।
स बन्दीजन इत्य् उक्तो व्रतबन्धविवर्जितः ॥
शूद्रेभ्यो ऽभ्यधिकः किञ्चित् तस्य जीवनम् उच्यते ।
काव्यालङ्कारगद्यादिषट्भाषासु कलाक्षमः ॥
गद्यपद्यानि चित्राणि विरुद्धानि महीभृताम् ॥

[२६६] क्षत्रियायां वैश्यजातः क्षत्ता वेत्रधरो भवेत् ।

लघुजातिविवेके

सूतास् ते ये पुराणस्थान् उच्चरन्ति नृपान् सदा ।
ये ऽल्पकालगतान् शूरान् वर्णयन्ति च मागधाः ॥
वर्तमानान् नृपान् सम्यक् कृतसङ्ग्रामकर्मणः ।
वर्णयन्ति प्रबन्धैर् ये बन्धिनस् ते प्रकीर्तिताः ॥

मनुः

कारावरं निषादात् तु चर्मकारं प्रसूयते ।

वैदेहीति शेषः ।

वैदेहकाद् अन्ध्रमेदौ बहिर्ग्रामप्रतिश्रयौ ॥

विप्रायां वैश्यजो वैदेहः । तस्मात् कारावर्याम् अन्ध्रः । निषाद्यां मेद इति **मेधातिथिः **। अङ्गिरसा त्व् अन्ये ऽपि चण्डाला उक्ताः ।

यस् तु प्रव्रजिताज् जातो ब्राह्मण्यां यश् च शूद्रजः ।
सगोत्रोढासुतश् चैव चण्डालास् त्रय ईरिताः ॥

मनुः पुल्कसम् अप्य् आह ।

जातो निषादाच् छूद्रायां जात्या भवति पुल्कसः ।
शूद्राज् जातो निषाद्यां तु स वै कुक्कुटकः स्मृतः ॥
क्षत्तुर् जातस् तथोग्र्यां तु श्वपाक इति चोच्यते ।
वैदेहकेन त्व् अम्बष्ठ्याम् उत्पन्नो वेन उच्यते ॥

शूद्रात् क्षत्रियाजः क्षत्ता । क्षत्राच् छूद्रायाम् उग्रः । ताभ्यां श्वपाकः । वैश्याद् विप्रायां वैदेहः । विप्राद् वैश्यायाम् अम्बष्ठी । तस्यां वेनः । एषां वृत्तीर् आह वसिष्ठः

सूतानां मन्त्रिकायस्थत्वस्त्रीजीवनवस्त्रपूरणानि । मन्त्रित्वं कायस्थो लेखकस् तत्त्वं च । वैदेहकानां नटवृत्तिरङ्गावतरणे । वेनानां दारुच्छेदनं भ्रमरोपणं मणिमुक्ताप्रवालवेधनं च । भ्रमः शाणः । आयोगवानां ताम्रायस्त्रपुसीसायुधकरणं योजनं नगरकरणं च सैरन्ध्राणां सुरामद्यसीधुकरणं तद्विक्रयः पुष्पफलशाकविक्रयश् च ।

विश्वम्भरशास्त्रे

विप्रायां यः सुतः क्षत्रात् सूताख्यो गजबन्धकृत् ।
दमनं तुरगाणां च कुर्यात् तज्जीवनं परम् ॥
नृपाद् ब्राह्मणकन्यायां विवाहेषु समन्वयात् ।
जातः सूतस् तु निर्दिष्टः प्रतिलोमविधिर् द्विजः ॥

विवाहसम्बन्धे ऊढायां ब्राह्मणकन्यायाम् इत्य् अर्थः ।

वेदानर्हस् तथा चैषां धर्माणाम् अनुबोधकः ।
ब्राह्मण्यां तु सुतो जातो वैश्याद् वैदेहकः स्मृतः ॥
पाषाणकाष्ठयोः शिल्पं तस्य जीवनम् उत्तमम् ॥

मनुः

सूतानाम् अश्वसारथ्यम् अम्बष्ठानां चिकित्सितम् ।
वैदेहकानां स्त्रीकार्यं मागधानां वणिक्पथः ॥

स्त्रीकार्यम् अन्तःपुररक्षा । वणिक्पथो राजमार्गस् तद्रक्षा ।

मत्स्यघातो निषादानां त्वष्टिर् आयोगवस्य च ।

त्वष्टिर् दारुतक्षणं वर्धकिर् इत्य् अर्थः । उशनसा तु ।

नृपायां वैश्यसंसर्गाद् आयोगव इति स्मृतः ।
तन्तुवाया भवन्त्य् एते वसुकांस्योपजीविनः ॥
शीलिकाः केचिद् अत्रैव जीवनं वस्त्रनिर्मितम् ।
क्षत्रुग्रपुल्कसानां2 तु बिलौकोवधबन्धने ॥

बिलौकसः सर्पादयः । उग्रो ऽत्र प्रतिलोमजः । तन्मध्यपाठाद् इति स्मृतिमञ्जर्याम्

धिग्वणानां चर्मकार्यं वेनानां भाण्डवादनम् ।

भाण्डं मुरजपटहादि ।

चैत्यद्रुमश्मशानेषु शैलेषूपवनेषु च ॥
वसेयुर् एते विज्ञाता वर्तयन्तः स्वकर्मभिः ।

विज्ञाता ज्ञातिचिह्नाङ्किताः ।

चाण्डालश्वपचानां तु निर्ग्रामः स्यात् प्रतिश्रयः ॥
अवपात्राश् च कर्तव्या धनम् एषां श्वगर्दभम् ।

निर्ग्रामो बहिर्ग्रामः । अवपात्रं भिन्नपात्रम् । यद् वा पाकपात्रादिहीनाः । यद् वक्ष्यति “अन्नम् एषां पराधीनम्” इति । यद् वा तद्धस्तस्थे पात्रे ऽन्नादि न देयम्, किं तु भूमिस्थे ।

वासांसि मृतचैलानि भिन्नभाण्डे च भोजनम् ॥
कार्ष्णायसम् [२६७] अलङ्कारः परिव्रज्या च नित्यदा ।

परिव्रज्या एकत्रानवस्थानम् ।

न तैः समयम् अन्विच्छेत् पुरुषो धर्मम् आचरन् ॥
व्यवहारो मिथस् तेषां विवाहः सदृशैः सह ।
अन्नम् एषां पराधीनं देयं स्याद् भिन्नभाजने ॥
रात्रौ न विचरेयुस् ते ग्रामेषु नगरेषु च ।
कार्यार्थं विचरेयुर् वा चिह्निता राजशासनैः ॥
अबान्धवं शवं चैव निर्हरेयुर् इति स्थितिः ।
वध्यांश् च हन्युः सततं यथाशास्त्रं नृपाज्ञया ॥
वध्यवासांसि गृह्णीयुः शय्याश् चाभरणानि च ।
ब्राह्मणार्थे गवार्थे वा देहत्यागो ऽनुपस्कृतः ॥

धनाद्यलोभो ऽनुपस्कर इति मेधातिथिः

स्त्रीबालाभ्यवपत्तौ च बलिनां सिद्धिकारणम् ।

स्त्रीबालादिविपत्तौ च देहत्याग इत्य् अनुषङ्गः । सिद्धिः श्रेयः । उशना

सीसम् आभरणं तेषां कालायसम् अथापि वा ।
वध्रीं कण्ठे समाबध्य झल्लरीं कक्षतो ऽपि वा ॥
मलापकर्षणं कुर्युः पूर्वाह्णे परिशुद्धिकम् ।3
पिण्डीभूता वसेयुस् ते नो चेद् वध्या विशेषतः ॥

यानन्तर प्रतिलोमन साङ्गतो.

याविपयीं कल्पतरूम्त कात्यायन ह्मणतो-“शास्त्रोक्तप्रकारं वंशवृद्यर्थ नियोगानें पुत्रो त्पादन करावम्. हा धर्म द्विनस्त्रियांविषयी आपत्कालीं विहित आहे; पण शूद्राम्स तो नित्य होतो.” अर्थात् त्याम्स नियोगाची आपेक्षा नाही असा अभिप्राय. बृहस्पति ह्मणतो “हा नियोग4 मनूनं साङ्गितला असून आपणच निषिद्ध केला आहे.

युगाच्या क्षयास्तव कलियुगान्तल्या मनुप्यान्नी यथाविधि करण्यास अशक्य आहे. पुरातन ऋषीन्नी जसे अ नेक प्रकारचे पुत्र उत्पन्न केले, तसे साम्प्रत कालीन शक्तिहीन मनुप्याञ्च्या हातून होण्यास शक्य नाही.” तेथेच हारीत ह्मणतो- ‘जारिणी, पुनर्भू5, रेतोधा6, कामचारिणी7, व सर्वभक्षा8, ह्या पाम्च प्रकारच्या स्त्रिया शूद्रवत् आहेत.

कदाचित् याम्पासून सन्तति उत्पन्न होईल तर तीस पङ्क्तीस घेऊ नये. ती पङ्क्तिभ्रष्ट आहे.” याज्ञवल्क्य ह्मणतो " ब्राह्मणीचेठायीं क्षत्रियापासून सूत, वैश्यापासून वैदेहक, व शूद्रापासून झालेल्यास सर्वधर्मबहिष्कृत चाण्डाल असें ह्मणतात. क्षत्रियीचेठायीं वैश्यापासून मागध ( बन्दि ), व शूद्रापासून क्षत्ता (निषाद अथवा भिल्ल), व शूद्रापासून वैश्येचेठायीं आयोगव (पुल्क स) - नामक पुत्र होतात. " हारीत ह्मणतो-” क्षत्रियेचेठायीं वैश्य व शूद्रापासून बन्दी व भिल्ल, आणि शूद्रापासून वैश्येचेठायीं पुल्कसनामक पुत्र होतात." व्यास मणतो की,-“क्ष त्रियेचेठायीं व्यभिचाराने शूद्रापासून मत्स्यघातकी निपाद ( धीवर ) नामक पुत्र होतो.” यावरून-पूर्वी याज्ञवल्क्योक्त शूद्रीचेठायीं ब्राह्मणापासून झालेला अनुलोम निपाद १, व साम्प्रत साङ्गितलेला-शूद्रापासून क्षत्रियेचेठायीं झालेला प्रतिलोम निषाद १ असे २ प्रकारने निषाद साङ्गितले आहेत. जातिविवेकान्त-" क्षत्रियत्री शूद्रापासून ज्यास उत्पन्न करिते, त्यास क्षत्ता किंवा निपाद ह्मणतात. तो सर्ववर्णवहिप्कृत. मृग बान्धण्याने जाळे, व पाश (फाम्स ) हाताम्त घेऊन मृग धरण्याम निपुण, अरण्यमम्बन्धी पशुञ्चा नाश करणारा, वनचर, मोठा क्रोधी, मांसवृत्तीने नित्य वाचणारा, रात्री आश्चर्यकारक व पापवृद्धी ( मृगाचा घात ) करणारा बण्टाशब्द करून मृगयातत्पर असतो; मृगया २ प्रकारची आहे. १ भूचर9 –हरिणा दिकाञ्ची हिमा व आकाशसंचारी पक्ष्यादिकाञ्ची10 हिम्मा. ह्या २ ही करणारा. यानं द्रव्ये च्छेने मधुविक्रय करावा.’’ असं माङ्गितलं आहे.

यमान तर - मागध व निषाद याञ्ची नाम्व अन्य साङ्गितली आहेत. ती- क्षत्रिय नेटायीं वैश्यापासून, गुचुप व शूद्रापासून मद्ग, या नां वाचे पुत्र होतात." अन्य स्मृतीत “क्षत्रिया, वैश्यापासून मागध नावाचा पुत्र उत्पन्न करिते. त्यास लोक बन्दीनन असें ह्मणतात. त्यास व्रतबम्ध करण्याचा अधिकार नाही, परन्तु तो शू द्राहून किञ्चित् अधिक आहे. त्याची जीविका माङ्गतो-काव्य, अलङ्कार, गद्यं प्राकृतादि भाषा रचण्याविषयी त्यानं निपुण असावे. गद्यमय काव्य, पद्यमय काव्ये, चित्रकाव्य, वि रुद्ध काव्ये, इत्यादि रचून राजापुढे निवेदन करून त्यांवर निवाह करावा. क्षत्रियेचेटायीं वै. श्यापासून झालेल्यास क्षत्ता ह्मणतात. त्याने राजगृहाम्त चोपदारीनं काम करावम्. ’’ अमें साङ्गितले आहे. लघुजातिविवेकान्त-” जे पुराण माङ्गतात ( पूर्वगजाम्च नवन करि तात-) ते सूत. व जे अल्पकालीन शूराञ्चे वर्णन करितात ते मागध, व वर्तमान रा जाञ्चे आणि त्यान्नी केलेल्या युद्धप्रसङ्गाञ्चे प्रबन्धरूपानें वर्णन करितात ते बन्दि, असं स मजावे. " असे साङ्गितले आहे. मनु ह्मणतो-" वैदहीनी निपादापासून कारावर चर्म कार (.चाम्भार ) नाम, व वदेहका–(ब्राह्मणीचे ठायीं वेश्यापासून आलेला ) पासून अन्ध्र, व मेद नाम गांवाबाहेर राहणारे उत्पन्न होतात."." वदेहकापासून कारावरीचेटायीं अम्ध व निपादीचेटायीं मेदनामक होतात. ’’ अमें मेधातिथि ह्मणतो. अङ्गिगऋपीन तर अन्यहि कित्येक साङ्गितले आहेत. ते-" जो, मन्न्याशापासून झालेला, व ब्राह्मणीचे टायीं शूद्रापासून झालेला, व सगोत्रविवाहापासून आलेला, हे तिघेही चाण्डाल होत." यमहि ह्मणतो की,-" आरूढपतिताचा11 पुत्र व जो ब्राह्मणीचे ठायीं शूद्रापासून.

झालेला व एकगोत्रीय विवाहित स्त्रीपासून झालेला हे तिघेही चाण्डाल होत." याम्त मनने पुल्क साविषयी साङ्गितले आहे की,-" निषादापासून शूद्वीचेठायीं झालेला जातीने पुल्कस, व शूद्रापासून निषादीचेठायीं झालेला कुक्कुटक असे समजावेम्. क्षत्त्या-(शूद्रापासून क्षत्रि यीचेठायीं झालेला ) पासून उग्रस्त्रीचेठायीं उत्पन्न झालेल्यास श्वपाक ह्मणावेम्. वैदे हकापासून अम्बष्ठीचेठायीं झालेल्यास वेन ह्मणतात." याञ्च्या वृत्ति वसिष्ठ साङ्गतो- “सू ताम्स मन्त्रिपणा, लेखकत्व, स्त्रीजीवन व वस्त्राम्स रफू करणे. वैदेहकांस-नटवृत्ति, सोङ्ग घेणे व नाटके वगैरे करणे. वेनांस-काष्ठे तोडणे, चरक लावणे, रत्ने मोती व पोवळी याम्स विन्धणे. आयोगवांस,-ताम्बे, लोखण्ड, कथिल व शिसे याञ्ची आयुधे करणे व त्याञ्ची योजना करणे; तसेम्च नगररचना करणे इत्यादि. सैरन्ध्राम्स सुरा12, मद्य13 व सीधैं14 करून वि क्रय करणे; व पुष्पम्, फलेम्, आणि शाका याञ्चा विक्रय ही उदरपूर्तीची कर्मे होत." विश्वभरशास्त्रान्त-" ब्राह्मणीचेठायीं क्षत्रियापासून झालेला जो सूतनामक पुत्र त्यानें हत्तीचे बन्धन व घोडे दमविणे यांवर निर्वाह करावा.

क्षत्रियापासून विवाहित ब्राह्मणक न्येचेठायीं प्रतिलोमविधीने झालेला सूतनामक जो पुत्र, तो वेदाविषयीं अनधिकारी व ध र्माचा अनुबोधक होय. ब्राह्मणीचेठायीं वैश्योत्पन्न जो वैदेहक त्याचे दगडकाम व लाङ्कू डकाम हे निर्वाहसाधन होय. " असे साङ्गितले आहे. मनु ह्मणतो-" सूतांस-घोड्यावर ब सणे व सारथ्य करणे, अम्बष्ठांस-चिकित्सा, वैदेहकांस-अन्तःपुराचे रक्षण, मागधांस-व्या पाराच्या रहदारीच्या मागोचे रक्षण, निषादाम्स मासे-मारणे, आयोगवांस-सुतारकाम, ही कर्मे योग्य आहेत." उशना ऋषीने-“ क्षत्रियीपासून वैश्यसंयोगाने आयोगवनामक होतो. याने कोष्टीपणा अथवा कांशाची पात्रं करावी. यान्तच कित्येक शीलिकनामक15 वस्त्र विक्रयाने निर्वाह करणारे आहेत.

सत्ता ( प्रतिलोमज), उग्र व पुल्कस यान्नी सर्पादिकाम्स मारणे व कोण्डणे, ही कर्मे करावी. “-येथे प्रतिलोमजच उग्र घ्यावा. कारण,-“त्याचा म ध्ये पाठ आहे ह्मणून " असें स्मृतिमञ्जरीम्त साङ्गितले आहे. ह्मणून धिग्वणांस-चर्मकार्य ( कातड्याचे नानापदार्थ करणे ), वेनाम्स वायें वाजविणे ही कर्मे त्याम्स विहित आहेत. यान्नी देवालये, नगारखाने, पर्वत, जङ्गलेम्, बागा याम्त असावेम्. “ यान्नी स्वजातिचिहें धारण करून स्वकर्मे करावी. चाण्डाल व श्वपचान्नी गांवाम्बाहेर रहावेम्. याञ्चे घरी फुटकीन्तुटकी भाण्डी असून चाङ्गली नसावी. स्वयम्पाकाची पात्रे नसावी. याम्स अवपात्र करावे. त्याञ्चे द्रव्य काय ते-गाढवेम्, कुत्री, कोम्बडीम्, हेच असावेम्. " येथे अवपात्र शब्दाचा अर्थ-फुटकी पात्र आहेत ज्याची असा घ्यावा. अथवा-स्वयम्पा काची पात्रे नसलेले-असा अर्थ करावा. कारण, “ याञ्चे अन्न पराधीन असावेम्. " असे पुढे साङ्गणार आहे. अथवा अवपात्र ह्मणजे त्याञ्च्या हातान्तील भाण्ड्याम्त कांहीं अन्न वगैरे द्यायाचे असेल तर देऊ नये. तर, अव-ह्मणजे-खाली अर्थात् भूमीवर पात्र ठेवल्यावर त्याम्त घालावे. “ यान्नी नेसण्यापाङ्घरण्यास प्रेताञ्ची वस्त्रे घ्यावी16.

फुटक्या पात्राम्त जेवावेम्. पोलाद, लोखण्ड, शिसे याञ्चे अलङ्कार घालावे. नेहमी, या गावांहून त्या गावाम्स याप्रमाणे फिरत रहावेम्. धर्माचरणकर्त्या पुरुपाने त्याञ्च्यासीं कांहीं भाष णादिकाचाहि सम्बम्ध ठेवू नये. त्यान्नी आपापल्याम्त व्यवहार करावा व बरोबरीच्यांशी विवाहसम्बम्ध करावा. याञ्चे अन्न पराधीन17 असावेम्.

अन्न देणारान्नी फुटक्या पात्रान्तून द्यावेम्. यान्नी रात्रौ गांवाम्त व शहराम्त फिरूं नये. काही कामाकरितां राजाने नेमले असतील तर, राजचिहें घेऊन फिरावे18. व अनाथप्रेत वहावे. राजाज्ञेने फांसी जाणाराम्स फांसी द्यावे19.

त्याञ्ची वस्त्रे, शय्या, अलङ्कार इत्यादि घ्यावी. ब्राह्मण व गायी याञ्च्या कामाकरितां अनुपस्कृत (द्रव्यलोभावाञ्चून) देहत्याग करावा.” येथे-‘अनुपस्कृत’ शब्दाचा अर्थ मेधातिथीनें-” द्रव्यलोभ नसणे." असा केला आहे. तसेच " स्त्रिया बाल इत्या. दिकाम्स विपत्ति प्राप्त झाली असतां देहत्याग करून त्याञ्चे रक्षण करावें." उशना ह्मणतो-" त्यान्नी शिसे किंवा पोलादाचे अलङ्कार घालावे. गळ्याम्त वादी अथवा काखेत झल्लरी ( वाद्यविशेष ) घालून किंवा कासोटा मारून, सकाळपासून दोनप्रहरपर्यम्त मलापकर्षण ( शौचकूप झाडणें ) करावे20. याञ्ची सन्तति फार होऊ देऊ नये. झाल्यास राजाने बीजमात्र ठेवून बाकीची मारावी.

विश्वास-प्रस्तुतिः

[२७१]

तथा व्रात्योत्पन्नाः शूद्रसमाः ।

तान् आह मनुः

व्रात्यात् तु जायते विप्रात् पापात्मा भृज्जकण्टकः ।
आवन्त्यवाटधानौ च पुष्पशेखर एव च ॥
विप्रायां जायते व्रात्यविप्रजो भृज्जकण्टकः ।

आवन्त्याद्यास् तस्यैव सञ्ज्ञा इति मेधातिथिः । अन्ये तु भृज्जकण्टकाद् विप्रायाम् आवन्त्यः, तस्मात् तस्यां वाटधानः, तस्माच् च पुष्पशेखर इत्य् आहुः । एवम् अग्रे ऽपि । विश्वम्भरे एतान् उक्त्वा,

एतैस् तु जीवनार्थाय कार्यं विष्ण्वादिपूजनम् ।
नृत्यगीतादिवादित्रशङ्खवीणादि वादनम् ॥
झल्लो मल्लश् च राजन्याद् व्रात्याद् विच्छिबिर् एव च ।
नटश् च करणश् चैव खंसो द्रमिड एव च ॥

क्षत्रियायां व्रात्यक्षत्रजा एते । अयम् अन्यः करणो ऽनुलोमात् ।

वैश्यात् तु जायते व्रात्यात् सुधन्वाचार्य एव च ।
कारूषश् च विजन्मा च मैत्रः सात्वत एव च ॥

वैश्यायाम् एव । आदित्यपुराणे

ब्राह्मण्यां ब्राह्मणाद् व्रात्याज् [२७२] जायते भृज्जकण्टकः ।
आवन्त्यवाटधानौ च पुष्पशेखरजातयः ॥
आभिचारिककर्मात्र भृज्जकण्टकिनो ऽशनम् ।
मन्त्रौषधीशात्रवाणां सम्मुखीकरणाद् ऋते ॥
कुर्वन्ति राज्ञां हि ततस् तेनैवाविकृताः परैः ।

अविकृताः अदण्ड्याः । सम्मुखीकरणं वशीकरणम् ।

राज्ञीषु क्षत्रियाद् व्रात्याज् झल्लमल्लनटा झषाः ॥
आवित्थिबीकाः करणा द्रमिडाः सन्ति भूरिशः ।
विज्ञेयाः परराष्ट्राणां तैश् च राजाज्ञया क्रियाः ॥
खसो मल्लस् तथा वृत्तं मित्रामित्रत्वम् एव च ।
वैश्यस्त्रीषु तथा व्रात्याद् वैश्यात् कारुषको भवेत् ॥
चतुष्पथे श्मशाने च स भवेन् मित्रमण्डलम् ।

तत्र लोकवृत्तान्तज्ञो राजाज्ञया स्याद् इत्य् अर्थः । मातृमण्डन इति पाठे देवीपूजकः ।

सुधन्वाचार्यस् त्व् अपरो भवेद् रुद्रस्य पूजकः ॥
तृतीयश् च विजन्माख्यः सूतिकावेश्मपूजकः ।

तत्स्त्री साम्बिका स्याद् इत्य् अर्थः ।

भूतप्रेतपिशाचांश् च पूजयेद् राजशासनात् ॥
साध्यानां पूजको मैत्रश् चैत्यादीनां चतुर्थकः ।
पञ्चमः सात्वतो नाम विष्णोर् आयतनार्चकः ॥

एभ्यो ऽन्योन्यसङ्करे नीचा जायन्ते । तद् आह मनुः

यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते ।
तथा बाह्यान्तरं बाह्यश् चातुर्वर्ण्ये प्रसूयते ॥

वर्णानाम् अन्योन्यसङ्करे भेदान् आह मनुः

प्रतिकूलं वर्तमाना बाह्या बाह्यान्तरान् पुनः ।
हीना हीनान् प्रसूयन्ते वर्णाः पञ्चदशैव तु ॥

बाह्याश् चण्डालाद्याः । प्रतिकूलं चातुर्वर्ण्यस्त्रियो गच्छन्तः । स्वतो बाह्यान्तरान् नीचान् जनयन्ति । ते पुनर् उच्चनीचस्त्रियो गच्छन्तो हीनान् अहीनांश् च सुवते । वर्णा जातयः । अयं भावः । विप्राद् अनुलोमा एव । शूद्रात् प्रतिलोमा एव । मध्यमयोर् उभयोर् उभये । क्षत्रस्य द्वाव् अनुलोमौ एकः प्रतिलोमः । वैश्यस्यैको ऽनुलोमो द्वौ प्रतिलोमौ । अत्र शूद्राद् विप्राक्षत्रियावैश्यासु क्रमाच् चण्डालक्षत्तायोगवास् त्रयः चण्डालाद् विप्रादिस्त्रीषु चत्वारः । एवं क्षत्तुर् आयोगवाद् इति द्वादश । ते च स्वयं त्रय इति पञ्चदश । तथा वैश्यात् क्षत्रियायां मागधो विप्रायां वैदेहकः । शूद्रायां करणो ऽनुलोमः । तैश् चतुर्वर्णस्त्रीषूत्पादिताः प्रत्येकं चत्वार इति द्वादश । स्वयं च ते त्रय इति पञ्चदश । तथा क्षत्रियाद् वैश्यायां माहिष्यः । शूद्रायाम् उग्रः । विप्रायां सूतः प्रतिलोमः । तेभ्यश् चतुर्वर्णस्त्रीषु प्रत्येकं चत्वार इति द्वादश । स्वयं च ते त्रय इति पञ्चदश । एवं विप्रात् त्रयो ऽनुलोमाः । मूर्धावसिक्ताम्बष्ठपारसवाश् चतुर्वर्णस्त्रीषु प्रत्येकं चतुरो जनयन्तीति द्वादश । ते च त्रय इति पञ्चदशेति सर्वे षष्टिसङ्ख्याः । दुष्टाः चत्वारो वर्णाश् चेति चतुःषष्टिः । जातिविवेके त्व् अन्यथोक्तम् ।

आनुलोम्येन वर्णानां षण् नराः सम्प्रकीर्तिताः ।
प्रातिलोम्येन ते षट् स्युर् इति द्वादश भेदतः ॥
एते द्वादश मिश्रास् तु चतुर्वर्णैर् विमिश्रिताः ।
अष्टौ च ये स्युर् भेदास् ते षष्टिर् द्वादशसंयुताः ॥
हतास् ते षष्टिसङ्ख्यातैः षट्त्रिंशच्छतसङ्ख्यया ।
भेदाः सङ्करजातीनां बहवः स्युस् ततः परे ॥

इति । एते शूद्रसमाः,

शूद्राणां तु सधर्माणः सर्वे ऽपध्वंसजाः स्मृताः ।

इति मनूक्तेः । अपध्वंसजा व्यभिचारजाताः ।

मूलम्

[२७१]

तथा व्रात्योत्पन्नाः शूद्रसमाः ।

तान् आह मनुः

व्रात्यात् तु जायते विप्रात् पापात्मा भृज्जकण्टकः ।
आवन्त्यवाटधानौ च पुष्पशेखर एव च ॥
विप्रायां जायते व्रात्यविप्रजो भृज्जकण्टकः ।

आवन्त्याद्यास् तस्यैव सञ्ज्ञा इति मेधातिथिःअन्ये तु भृज्जकण्टकाद् विप्रायाम् आवन्त्यः, तस्मात् तस्यां वाटधानः, तस्माच् च पुष्पशेखर इत्य् आहुः । एवम् अग्रे ऽपि । विश्वम्भरे एतान् उक्त्वा,

एतैस् तु जीवनार्थाय कार्यं विष्ण्वादिपूजनम् ।
नृत्यगीतादिवादित्रशङ्खवीणादि वादनम् ॥
झल्लो मल्लश् च राजन्याद् व्रात्याद् विच्छिबिर् एव च ।
नटश् च करणश् चैव खंसो द्रमिड एव च ॥

क्षत्रियायां व्रात्यक्षत्रजा एते । अयम् अन्यः करणो ऽनुलोमात् ।

वैश्यात् तु जायते व्रात्यात् सुधन्वाचार्य एव च ।
कारूषश् च विजन्मा च मैत्रः सात्वत एव च ॥

वैश्यायाम् एव । आदित्यपुराणे

ब्राह्मण्यां ब्राह्मणाद् व्रात्याज् [२७२] जायते भृज्जकण्टकः ।
आवन्त्यवाटधानौ च पुष्पशेखरजातयः ॥
आभिचारिककर्मात्र भृज्जकण्टकिनो ऽशनम् ।
मन्त्रौषधीशात्रवाणां सम्मुखीकरणाद् ऋते ॥
कुर्वन्ति राज्ञां हि ततस् तेनैवाविकृताः परैः ।

अविकृताः अदण्ड्याः । सम्मुखीकरणं वशीकरणम् ।

राज्ञीषु क्षत्रियाद् व्रात्याज् झल्लमल्लनटा झषाः ॥
आवित्थिबीकाः करणा द्रमिडाः सन्ति भूरिशः ।
विज्ञेयाः परराष्ट्राणां तैश् च राजाज्ञया क्रियाः ॥
खसो मल्लस् तथा वृत्तं मित्रामित्रत्वम् एव च ।
वैश्यस्त्रीषु तथा व्रात्याद् वैश्यात् कारुषको भवेत् ॥
चतुष्पथे श्मशाने च स भवेन् मित्रमण्डलम् ।

तत्र लोकवृत्तान्तज्ञो राजाज्ञया स्याद् इत्य् अर्थः । मातृमण्डन इति पाठे देवीपूजकः ।

सुधन्वाचार्यस् त्व् अपरो भवेद् रुद्रस्य पूजकः ॥
तृतीयश् च विजन्माख्यः सूतिकावेश्मपूजकः ।

तत्स्त्री साम्बिका स्याद् इत्य् अर्थः ।

भूतप्रेतपिशाचांश् च पूजयेद् राजशासनात् ॥
साध्यानां पूजको मैत्रश् चैत्यादीनां चतुर्थकः ।
पञ्चमः सात्वतो नाम विष्णोर् आयतनार्चकः ॥

एभ्यो ऽन्योन्यसङ्करे नीचा जायन्ते । तद् आह मनुः

यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते ।
तथा बाह्यान्तरं बाह्यश् चातुर्वर्ण्ये प्रसूयते ॥

वर्णानाम् अन्योन्यसङ्करे भेदान् आह मनुः

प्रतिकूलं वर्तमाना बाह्या बाह्यान्तरान् पुनः ।
हीना हीनान् प्रसूयन्ते वर्णाः पञ्चदशैव तु ॥

बाह्याश् चण्डालाद्याः । प्रतिकूलं चातुर्वर्ण्यस्त्रियो गच्छन्तः । स्वतो बाह्यान्तरान् नीचान् जनयन्ति । ते पुनर् उच्चनीचस्त्रियो गच्छन्तो हीनान् अहीनांश् च सुवते । वर्णा जातयः । अयं भावः । विप्राद् अनुलोमा एव । शूद्रात् प्रतिलोमा एव । मध्यमयोर् उभयोर् उभये । क्षत्रस्य द्वाव् अनुलोमौ एकः प्रतिलोमः । वैश्यस्यैको ऽनुलोमो द्वौ प्रतिलोमौ । अत्र शूद्राद् विप्राक्षत्रियावैश्यासु क्रमाच् चण्डालक्षत्तायोगवास् त्रयः चण्डालाद् विप्रादिस्त्रीषु चत्वारः । एवं क्षत्तुर् आयोगवाद् इति द्वादश । ते च स्वयं त्रय इति पञ्चदश । तथा वैश्यात् क्षत्रियायां मागधो विप्रायां वैदेहकः । शूद्रायां करणो ऽनुलोमः । तैश् चतुर्वर्णस्त्रीषूत्पादिताः प्रत्येकं चत्वार इति द्वादश । स्वयं च ते त्रय इति पञ्चदश । तथा क्षत्रियाद् वैश्यायां माहिष्यः । शूद्रायाम् उग्रः । विप्रायां सूतः प्रतिलोमः । तेभ्यश् चतुर्वर्णस्त्रीषु प्रत्येकं चत्वार इति द्वादश । स्वयं च ते त्रय इति पञ्चदश । एवं विप्रात् त्रयो ऽनुलोमाः । मूर्धावसिक्ताम्बष्ठपारसवाश् चतुर्वर्णस्त्रीषु प्रत्येकं चतुरो जनयन्तीति द्वादश । ते च त्रय इति पञ्चदशेति सर्वे षष्टिसङ्ख्याः । दुष्टाः चत्वारो वर्णाश् चेति चतुःषष्टिः । जातिविवेके त्व् अन्यथोक्तम् ।

आनुलोम्येन वर्णानां षण् नराः सम्प्रकीर्तिताः ।
प्रातिलोम्येन ते षट् स्युर् इति द्वादश भेदतः ॥
एते द्वादश मिश्रास् तु चतुर्वर्णैर् विमिश्रिताः ।
अष्टौ च ये स्युर् भेदास् ते षष्टिर् द्वादशसंयुताः ॥
हतास् ते षष्टिसङ्ख्यातैः षट्त्रिंशच्छतसङ्ख्यया ।
भेदाः सङ्करजातीनां बहवः स्युस् ततः परे ॥

इति । एते शूद्रसमाः,

शूद्राणां तु सधर्माणः सर्वे ऽपध्वंसजाः स्मृताः ।

इति मनूक्तेः । अपध्वंसजा व्यभिचारजाताः ।

मराठी

तसेम्च व्रात्यापासून उत्पन्न झालेलेही शूद्रतुल्य आहेत. तेम्च मनु साङ्गतो-‘वात्य ब्राह्म णापासून पापात्मे भृजकण्टक, आवन्त्य, वाटधान, पुप्पशेखर असे होतात. ब्राह्मणीचेठायीं त्रात्यब्राह्मणापासून होतो तोच भृज कण्टक होय." “त्यासच आवन्त्य वाटयानादि नांवे आहेत.” असें मेधातिथि ह्मणतो. अन्य कित्येक तरं-“भृजकण्टकापासून ब्राह्मणीचेटायीं आवन्त्य, त्यापासून ब्राह्मणीचेठायीं वाटधान, व त्यापासून ब्राह्मणीचेठायीं पुप्पशेखर होतो.” अमें ह्मणतात. पुढेहि असेम्च जाणावम्. विश्वम्भरशास्त्राम्त याञ्ची उत्पत्ति साङ्गून, जीविका साङ्गि तली आहे. ती-“या पूर्वोक्त भृजकण्टकादिकान्नी उदरभरणार्थ विष्ण्वादिकाञ्चं पूजन, नाच, गायन करावे, व-वाजन्त्र, वाद्य, शङ्ख, वीणा इत्यादि वाजवावी. व्रात्य क्षत्रिया पासून क्षत्रियस्त्रीचेठायीं झल्ल, मल्ल, शिवि, नट, करण, ग्वम, व मिड इत्यादि होतात.” याम्त साङ्गितलेला करण हा, पूर्वोक्त अनुलोमाहून भिन्न समजावा. नात्य वैश्या पासून स्वजातीय स्त्रीचेठायीं जे उत्पन्न होतात त्याम्स सुधन्वाचाय, कारूप विजन्मा, मैत्र, सात्वत, इत्यादि सञ्ज्ञा आहेत." आदित्यपुराणान्त-‘ब्राह्मणीचेठायीं व्रात्य ब्राह्म णापासून भृजकण्टक, आवन्त्य, वाटधान, पुप्पशेवर इत्यादि होतात. त्यान्तून भृजकम्ट काने आभिचारिक कर्म करावेम्. मन्त्र, औषधि, इत्यादि देऊन लढाईवाञ्चून शत्रूचे वशी करण व प्रसङ्गी खोटें भाषण इत्यादि राजकार्य आवन्त्यादिकान्नी करावी. तेणेकरूनच पर क्या राजांसही हे अदण्ड्य आहेत. क्षत्रियस्त्रीचेठायीं वात्य क्षत्रियापासून झल्ल, मल्ल, नट, झष, आवित्थिवीक, करण, द्रमिड इत्यादि बहुत उत्पन्न होतात. यान्नी परराज्यान्तील व्यव हार गुप्तपणे पाहून, स्वराजाम कळवावा21.

ग्वस व मल्ल यान्नी मित्रत्व व शत्रुत्व जाणून, पर राजासी गुप्त व्यवहार करावा. वैश्यस्त्रीचेठायीं व्रात्य वैश्यापासून कारूषक होतो. त्याने चवाठा, स्मशान इत्यादि ठिकाणी जाऊन लोकाञ्चा वृत्ताम्त जाणून, राजास साङ्गावा. दुसरस सुधन्वाचार्य याने महादेवाची पूजा करावी. ३ रा विजन्मा याने बाळन्तघराचे पूजन करावे. ह्मणजे त्याच्या स्त्रीने अम्बिका22 व्हावे. व राजाज्ञेनें भूतप्रेतपिशाचाञ्ची पूजा करावी.

४ थ्या मैत्राने साध्य, चैत्य याञ्ची पूजा करावी. ५ व्या सात्वताने विष्णुमन्दिराम्त पूजा करावी." या पूर्वोक्ताञ्चा एकमेकाम्त सङ्कर झाल्यास त्यांहून नीच उत्पन्न होतात. तेम्च मनूने साङ्गितले आहे. जसें,-“जसा शूद्र, ब्राह्मणीचेठायीं वर्णबाह्य ( चाण्डाल ) पुत्र उत्पन्न करितो, तसाच बाह्याने उत्पन्न केल्यास त्याहून नीच उत्पन्न होतो. हा प्रकार ४ हि वर्णाम्त सारखा आहे.” वर्णजाञ्चा अन्योन्यसङ्कर झाल्यास, त्याञ्चे भेद किती होतात ते मनु सां गतो-“प्रतिकूल ह्मणजे चाण्डालादिक चातुर्वर्णातील स्त्रियांसी गमन करूं लागल्यास आप ल्याइन नीच व ते नीच, आपल्याहून उम्च व नीच स्त्रियांसी गमन करतील तर, उम्च व नीच पुरुष होतात. त्याञ्च्या प्रत्येकी १५ जाति आहेत.” याचा अभिप्राय असा की ब्राह्मणाने कोणत्याहि वर्णाच्या स्त्रीशी व्यभिचार केल्यास त्यापासून सर्व अनुलोमच होतील. कारण, त्याहून दुसरा उम्च वर्ण नाही. शूद्रापासून सर्व प्रतिलोमच होतील कारण, त्यापेक्षा दुसरा नीच वर्ण नाही. मधच्या ह्मणजे क्षत्रिय व वैश्य याम्पासून वरच्या व खालच्या वर्णाञ्च्या स्त्रियाञ्चेठायीं अनुलोम प्रतिलोम होतात. कारण, त्याम्पेक्षां उत्तम व नीच वर्ण दुसरे आहेत. ते असे की-क्षत्रियाम्स २ अनुलोम व १ प्रतिलोम, वैश्याम्स १ अनुलोम व २ प्रतिलोम. त्याम्त शूद्रापासून ब्राह्मण, क्षत्रिय, व वैश्य या स्त्रियाञ्चेठायीं अनुक्रमें-चाण्डाल, सत्ता व आयोगव हे ३ होतात. यान्तल्या चाण्डालापासून ब्राह्मण, क्षत्रिय, वैश्य व शूद्र याञ्च्या स्त्रियाञ्चेठायीं ४, व क्षत्त्यापासून पूर्वोक्त ब्राह्मणादि स्त्रियाञ्चेठायीं ४, व आयोग वापासून ४, मिळून १२, व ते मूळचे चाण्डालादि ३ मिळून १५ भेद होतात. त सेम्च वैश्यापासून क्षत्रिय स्त्रीचेठायीं मागध १, ब्राह्मणीचेठायीं वैदेहक २, हे दोन प्रति लोम, व शूद्रीचेठायीं करण हा १ अनुलोम असे ३ होतात. यान्नी ब्राह्मण, क्षत्रिय, वैश्य व शूद्र ह्या ४ वर्णाच्या स्त्रियाञ्चेठायीं उत्पन्न केलेले पुत्र पूर्ववत् १२, व हे मूळचे मागध, वैदेहक, करण असे ३ मिळून १५ होतात. तसेच क्षत्रियापासून वैश्य स्त्री चेठायीं माहिष्य १, व शूद्रीचेठायीं उग्र २, हे दोन अनुलोम, आणि ब्राह्मणीचेठायीं सूत हा १ प्रतिलोम असे ३ होतात. यान्नी ४ ही वर्णाञ्च्या स्त्रियाञ्चेठायीं पुत्र उत्पन्न केल्यास प्रत्येकाचे ४।४, मिळून १२ व ते स्वतः ३ मिळून १५ होतात. असम्च ब्राह्मणापासून क्षत्रियस्त्रीचेठायीं मूर्धावसिक्त १, वैश्यस्त्रीचेठायीं अम्बष्ठ २, आणि शूद्रीचेठायीं पारसव ३ अनुलोम होतात. या तिघान्नी ४ हि वर्णाञ्च्या स्त्रियाञ्चेठायीं पुत्र उत्पन्न केल्यास, प्रत्येकी ४ । ४, मिळून १२ व ते स्वतः ३ मिळून १५ होतील. असे ४ हि वर्णापासून एकन्दर ६० भेद होतात. व हे मूळचे दुष्टवर्ण ( स्ववर्णाहून भिन्न स्त्रीशी गमन करणारे ब्राह्मणादिक ) ४ मिळून ६४ होतात. जातिविवेकाम्त याहून अन्य प्रकारे साङ्गितले आहेत. जसे-" वर्णाञ्च्या आनुलोम्याने ६ व प्रातिलोम्याने ६ मिळून १२. हे ४ हि वर्णांसी मिश्रित झाल्यास, १३६ होतात. यांहून सङ्कर जातीचे अन्य बहुत भेद आहेत." हे सर्वहि शूद्रसम आहेत. कारण, " व्यभिचारज सर्वहि शूद्रसमानधर्मे होत." असी मनूक्ति आहे.

  1. ‘साहस’-ह्मणजे दण्ड. उत्तमसाहस ह्म० एक हजार रुपये दण्ड तो अपराधाच्या तारतम्यान करावा. ↩︎ ↩︎ ↩︎

  2. येथे साङ्गितलेला ‘जात्युत्कर्ष’ वस्तुतः फार योग्य असून आवश्यक आहे; पण माम्प्रतकाली हा प्रकार चाल. असल्याचे कोठे आढळत नाहीं.। ↩︎ ↩︎ ↩︎

  3. नापराह्णे प्रविष्टोऽपि बहिर्ग्रामाच्च नैरृते । इति पुस्तकान्तरेऽधिकं दृश्यते । ↩︎ ↩︎

  4. ह्या शब्दाचा अर्थ-योजणे अथवा (पुत्र उत्पन्न करून घेण्याकरितां ) आज्ञा देण-इतकाच आहे. प्रकृत स्थलीही असाच इष्ट आहे. हा नियोग दोन प्रकारचा आहे, त्यान्तून पहिला प्रकार-पुत्र उत्पन्न होण्यापूर्वीच पति मरण पावला असून वंशास काही आधार नसेल तर गुरुजनाच्या आज्ञेने स्त्रीने केवळ वंशरक्षणार्थ आ पल्या दिगपासून पुत्रोत्पादन करून घ्यावे. त्यानेही याच हेतून आपल्या अङ्गास तृप लावून ऋतुकाली तिशी मङ्ग करावा. असे याज्ञवल्क्याने साङ्गितले आहे. [ या० स्मृ० अ० १ श्लो० ६८ पहा ] याला नियोग माणतात. धृतराष्ट्र व पांइराजा हे दोघेही याप्रमाणेच उत्पन्न केले आहेत. दुसरा प्रकार असा आहे की पति जीवम्त असून त्यापासून पुत्र उत्पन्न होत नाही, किंवा रोगामुळे अथवा शापादि योग्य प्रतिबन्धामुळे त्याच्याने मङ्ग करवत नाही. अरों असून पतीने जर आज्ञा दिली असेल तर स्त्रीने योग्य पुरुपापासून सन्तति उत्पन्न करून घ्यावी असी धर्मशास्त्राची आज्ञा आहे. पाम्इ राजाची स्त्री कुन्ती हिन यमादिकाम्पा सन याचप्रकारे पुत्र उत्पन्न करून घेतले. याविषयी महाभारत आदिपर्व पहा. सूर्यवंशी सौदास राजाची स्त्री मदयन्ती हिचेठायीं वसिष्ठाने पुत्र उत्पन्न केले आहेत. श्रीमद्भागवत नवमस्कन्धी पहा. वर सां गितलेल्या दोन प्रकारच्याही नियोगाम्त उभयताञ्ची रतिसुखार्थ प्रवृत्ति नसावी. ↩︎

  5. पुनर्विवाह करून घेणारीस ‘पुनभू ह्मणतात. ↩︎

  6. नवग जीवम्त असतां जारापासन पुत्र उत्पन्न करून घेते तिला रेतोधा’ असें ह्मणतात. ↩︎

  7. चौघाम्पेक्षा अधिक पुरुषांसों संयोग करिते तिला ‘कामचारिणी’ ह्मणतात. ↩︎

  8. दारुप्राशन वगरे करणारीला ‘सर्वभक्षा’ ह्मणतात. ↩︎

  9. शस्त्राने हरिणादिकाञ्ची हिम्मा करणायाम देशभापत ‘पारधी’ ह्मणतात. यथं माङ्गितलेला तोच अमावा. ↩︎

  10. ‘फासेपारधी’ ज्यास ह्मणतात तो हाच असावा. ↩︎

  11. जो सन्न्यास आश्रम घेऊन पुन: विषयी होतो त्यास- आरूटपतित’ ह्मणतात. या शब्दाचा अर्थ-वर चद्दन खाली पडलेला-असा होतो. ब्राह्मणास जे चार आश्रम साङ्गितले आहेत त्याम्त सन्न्यासाश्रम श्रेष्ठ आहे. तेव्हां त्या आश्रमाचा स्वीकार करून त्याग करणे हे वर चढून खाली पडण्यासारखेच आहे. ↩︎

  12. हा शब्द दारूचा वाचक आहे हे प्रसिद्ध आहे; पण त्याचा विशिष्ट अर्थ घेउन हा व याच्या पढचा । मद्य ) शब्द येथें सङ्ग्रहीत आहे. धर्मशास्त्रान्त-" मदजनकोऽन्नविकारविशेषः सुरा" " कैफ उ त्पन्न करणारा अन्नाचा एकप्रकारचा जो विकार त्याला ‘सुरा’ ह्मणतात." असे साङ्गितले आहे. याप्रकारच्या दारूचे-मुख्य आणि गौण असे दोन भेद आहेत. जी केवळ धान्याची करतात ती मुख्य, आणि गुळाची व मधाची करतात ती गौण होय. सर्व प्रकारच्या दारूम्त ’ पैष्टी ह्मणजे-वर साङ्गितलेली मुख्य. सुरा ही फा रच निन्द्य मानली आहे. व इतराम्पेक्षां प्रायश्चित्तही विशेष आहे. जाणन ब्राह्मणाने सुरा (पैष्टी) प्राशन केली तर देहाम्त प्रायश्चित्त साङ्गितले आहे. याविषयी प्रायश्चित्तेन्दुशेखर पहा. ↩︎

  13. ‘मद्य’ याचे लक्षण पराशरमाधवीयान्त-पनसादिजन्यं मदकारणं द्रवत् द्रव्यं मद्यम्" “फणस इत्यादि फळाम्पासून प्रवाही असून मादक जे द्रव्य उत्पन्न होते त्यास मद्य ह्मणावें.” असे साङ्गितले आहे. त्याचे-पानस, द्राक्ष, खार्जर इत्यादि ११ भेद साङ्गितले आहेत. सुरेपेक्षां याञ्चा दोष कमी आहे. क्षत्रियाम्स तर दोषच नाही. याविषयी पराशरमाधवी व प्रायश्चित्तेन्न्दुशेखर पहा. ↩︎

  14. सीधु’ हे एकप्रकारच्या मद्याचम्च नाम्व आहे. याविषयी-” इक्षोः पक्करसैः सिद्धः सीधु रित्यभिधीयते"-“उसाञ्च्या पक्क रसापासून होत त्यास सीधु ह्मणतात.” असे साङ्गितले आहे. वस्तुत: वरच्या टिपेम्त साङ्गितलेल्या मद्याम्स सुगन्धी अथवा अन्य कोणत्याही प्रकारच्या द्रव्याञ्चा संयोग करून जे त्याञ्चे अनेक प्रकार करितात त्या सर्वाञ्चे हें सामान्य नाम्व असावे असे वाटते. ↩︎

  15. कोटें कोटें ‘शालिक ’ असेंही उपलब्ध होते. याचाच अपभ्रम्श होउन ‘साळी’ हा शब्द झाला असावा. तालव्य-श-च्या ठिकाणी दन्त्य-स नेहमी येतो. व ल आणि क याञ्चा भेद नाही. ↩︎

  16. देशभाषेत ज्यांला ‘डोम्ब’ ह्मणतात ते हेच असावे असे वाटते. हे काशीत याच नांवाने प्रसिद्ध आहेत. व अद्यापि प्रेताची वस्त्रे वगैरे घेतात हे प्रसिद्ध आहे. अन्यत्र है काम महारच करतात. ↩︎

  17. ‘याञ्च्या घरी स्वयम्पाक करण्याची वगैरे भाण्डी असूं नयेत.’ असे साङ्गितले आहे; तेव्हां त्याम्स भोजन कसे मिळावेम्? असा प्रश्न सहज उत्पन्न होतो. त्याकरिता त्याञ्चे अन्न पराधीन असावेम्’ ह्मणजे त्यान्नी दुसन्यान्नी दिलेल्या अन्नावर निर्वाह करावा असे साङ्गितले आहे. ↩︎

  18. ह्यावरून साम्प्रत ‘रामोशी’ असें ज्याला ह्मणतात ते हेच असावे असे वाटते. ↩︎

  19. देशभाषेत ज्यांला ‘माङ्ग ह्मणतात ते हेच असावे.’ विद्यमानकालीही सरकारच्या हुकुमानं फासावर चढविण्याचे काम हेच करीत असतात. यद्यपि येथे-डोम्ब, रामोशी, व माङ्ग याञ्ची नांवे निरनिराळी साम्. गितली नाहीत; तथापि त्याञ्च्या कर्मावरून त्याञ्चा भेद दृष्टीस पडतो. व देशभात जी त्याञ्च्या धन्द्याच्या सम्. बन्धाने नांवें दिली आहेत त्यांवरून याञ्ची जात एक असली तरी हे तिचे पोटभेद असून परस्पर भिन्न असावे असे दिसते. ↩︎

  20. देशभाषेत ज्यांला · भङ्गी’ अथवा ‘हलालखोर’ ह्मणतात ते हेच होत. यान्तही कित्येक हिन्दू व कांहीं मुसलमान असे धर्मसम्बन्धाने भेद आहेत. ↩︎

  21. देशभाषेत ज्याम्स ‘हेर’ ह्मणतात ते हेच होत. ↩︎

  22. देशभाषेत जिला ‘सुर्वाण’ ह्मणतात ती हीच असावी. ↩︎